Pranatosini Tantra Sanskrit Devanagari
Pranatosini Tantra Sanskrit Devanagari
Das Sargakāṇḍa und das Dharmakāṇḍa eröffnen die Prāṇatoṣiṇī mit zwei eng verbundenen Fragen: Wie entfalten sich Welt, Körper und Sprache aus dem höchsten Prinzip, und wie wird der Mensch zur spirituellen Praxis befähigt? Die Devanagari-Lektüre erschließt die Sanskritbegriffe von Shakti, Mantra, Guru und Einweihung in ihrem Zusammenhang.
Hier stehen die ersten beiden Bücher. Ihre deutschen Lesefassungen finden sich unter Pranatosini Tantra: Sarga und Teil 2: Dharma. Der nächste Sanskritteil führt mit täglicher Verehrung und besonderen Ritualen weiter.
Für das Studium von Yoga und Meditation empfiehlt es sich, die einzelnen Zitate zusammen mit ihren Erläuterungen zu lesen. Die Sammlung bewahrt unterschiedliche Lehrmeinungen; ein Sprecherwechsel kann auch den Wechsel der zitierten Schrift anzeigen.
Deutsche Einführung: Pranatosini Tantra · Nächster Teil: Pranatosini Tantra Sanskrit Devanagari Teil 2
Teile der Sanskritausgabe: Pranatosini Tantra Sanskrit Devanagari · Pranatosini Tantra Sanskrit Devanagari Teil 2 · Pranatosini Tantra Sanskrit Devanagari Teil 3 · Pranatosini Tantra Sanskrit Devanagari Teil 4
Sargakāṇḍa – Schöpfung und Sprache

जडे काव्यं दात्री द्रुतमुदकविन्दौ जलधितां पयोधौ पाथोऽणुत्वमपि ननु सर्वैकवशगा |
गिरौ धूलीलेशत्वमचलवरत्वं रजसि वा विचित्रेच्छा स्वैरं जयति जयतारे ! तव नवा ||
यत्पादाम्बुजसेवया प्रतिदिनं कर्म क्षणाल्लीलया ब्रह्मोपेन्द्रमहेश्वरप्रभृतयः कुर्वन्ति सृष्ट्यादिकम् |
यामाराध्य मनुत्वमाप सुरथो ज्ञानं समाधिः स्वयं सास्माकं वितनोतु वाञ्छितफलं तस्यै भवान्यै नमः ||
आसीद्विश्वासवंशे विमलमतिदयारामविश्वासनामा तत्पुत्त्रोऽत्यन्तदान्तोऽप्यतिशयसुकृती रामहर्याह्वयोऽसौ |
विश्वासो विश्वनाथार्चनचरणरतो विश्वविश्वासवासो वाराणस्यामुषित्वा बहुविधमपि सत्कर्म कृत्वाप मुक्तिम् ||
तत्सूनुर्भूमिपालो विविधबुधगणैकाग्रगण्योऽतिधन्यो मान्यः श्रीप्राणकृष्णो यदनुजनुजगन्मोहनाख्यः प्रसिद्धः |
पुत्त्राः षड्यस्य जाताः सुविमलमतयो धैर्यगाम्भीर्यवन्तो दीनानाथान्धबन्धुद्विजगणभरणैकान्तविभ्रान्तचित्ताः ||
तत्रानन्दमयो महेशमहिषीध्यानावधानः सदा ज्येष्ठः श्रेष्ठतमः सदैव सदयो दारिद्राविद्रावणः |
तस्योपेन्द्रसमः कृती भगवतीभक्तो भवनीपति- श्रीपादाम्बुजयुग्मलुब्धमधुपः श्रीरामचन्द्रोऽनुजः |
दाता कर्णसमो रणेऽर्जुनसमः शत्रौ कृतान्तोपमो दाता दीनदयामयस्तदनुजः श्रीविश्वनाथस्तथा |
श्रीयुक्तः शम्भुनाथस्तदनु समभवत् सुन्दरस्तस्य पश्चात् श्रीकाशीनाथनामा तदनुज उदितश्चन्द्रवच्चन्द्रनाथः |
स्वर्धुन्याः पूर्वतौरे सुरचिरनिलयः खड्दहाख्यः प्रसिद्धो नित्यानन्दादिसिद्धाश्रमविहितमहाशुद्ध इन्द्रालयाभः |
ग्रामो जीयान्महद्भिः कृतशुभनिलयारामभीमालयाढ्यः कैल्कातातो नगर्याः क्षितपतिनगरादुत्तरे यामगम्यः ||
तस्मिन् श्रीप्राणकृष्णो निवसति निखिलस्वीयनिर्धूततृष्णो जिष्णोस्तुल्योऽतिमूल्यीत्तममणिगणसम्पूर्णकोषाधिपालः |
श्रीमान् धीमान् स्वकीर्त्त्या विधुरिव भुवि विश्वासवंशावतंसः |
साक्षात् सूर्यः प्रतापैररितृणदहनो जीवतात् स प्रजाभिः ||
अपि च ||
ज्योतिर्ग्रन्थान् बहुविधानालोक्य बहुभिर्बुधैः |
संग्रहं कारयामास प्राणकृष्णक्रियाम्बुधिम् |
ततो नानाविधानानि समालोक्य समासतः |
प्राणकृष्णीयशब्दाब्धिं कारयामास यत्नतः ||
तन्त्राणि बहुधा नानादेशादाहृत्य तत्परम् |
खाभ्रेषुसम्मितं नानासंग्रहञ्च कृतं बुधैः |
संग्रहे जयसिंहादिनृपाणां नामदर्शनात् |
चिरं मृतानां ग्रन्थस्थनाम्नाद्यापि सुजीवताम् |
ग्रन्थकीर्तिं वरां मेने सर्वकीर्तेरनश्वराम् |
ग्रन्थं कारयितुं धीरं यत्नतोऽन्वेषयत् कृती |
न लेभे सहसा तेन सदा चिन्तापरः स्थितः |
अथ श्रीशिवपादाव्जभ्रमरीकृतमानसः |
कैल्कातानगरे रम्ये चकार मठमेव यः |
श्रीगोपीनाथमिश्रेणानीयतं रामतोषणम् |
श्रीप्राणकृष्णविश्वासो विश्वासवंशभास्करः |
आदिष्टवांस्तन्त्रशास्त्रोत्तमसंग्रहहेतवे |
समस्त ज्ञानदातॄन् षड् गुरून् नत्वा सहस्रशः |
मुण्डमालां मत्स्यसूक्तं तन्त्रं महिषमर्दिनीम् |
मायाञ्च मातृकाभेदं मातृकोदयमुत्तमम् |
महानिर्वाणतन्त्रञ्च मालिनीविजयं तथा |
महानीलं महाकालसंहितां मेरुतन्त्रकम् |
भैरवं भैरवीं भूतडामर इयमेव च |
वीरभद्रं बीजचिन्तामणिमेकजटीं तथा |
निर्वाणतन्त्रं त्रिपुरासारं कालीविलासकम् |
विश्वसारञ्च वरदां वासुदेवरहस्यकम् |
वाराहीञ्च वृहत्गौतमीयं वर्णोद्धृतिं तथा |
विश्वसाराख्यतन्त्रञ्च विष्णुजामलमेव च |
वृहन्नीलं वृहद्योनिं रहस्यं विष्णुसम्मतम् |
वामकेश्वरतन्त्रञ्च ब्रह्मज्ञानं ततः परम् ||
ब्रह्मजामलमहैतं वर्णविलासमेव च |
फेत्कारिणीं तथा तन्त्रं पुरश्चरणचन्द्रिकाम् |
पुरश्चाररसोल्लासं तन्त्रं पञ्चदशीं शुभाम् ||
पिच्छिलां प्रपञ्चसारं हंसाद्यं पारमेश्वरम् |
नवरत्नेश्वरं नित्यं नीलं नारायणीयकम् |
निरुत्तरं नारदीयं नागार्जुनमतः परम् |
दक्षिणामूर्तितन्त्रञ्च दक्षिणामूर्तिसंहिताम् |
दत्तात्रेयसंहिताञ्चाष्टावक्रसंहितां तथा |
यक्षिणीं योगिनीं योनिं योगसारं तदर्णवम् |
योगिनीहृदयं योगियाज्ञवल्क्यमनुत्तमम् |
योगम्बरोदयञ्चैवाकाशभैरवमेव च |
राजराजेश्वरीं राधां रेवतीं रुद्रजामलम् |
रामार्चनचन्द्रिकाञ्च सावरञ्चेन्द्रजालकम् |
कालीतन्त्रञ्च कामाख्यां कामधेनुमतःपरम् |
श्रीकालीकुलसर्वस्वं कुमारीतन्त्रमेव च |
कृकलासदीपिकाञ्च कङ्कालमालिनीं तथा |
कालोत्तरं कुब्जिकाञ्च कुलोड्डीयं कुलार्णवम् |
कुलमूलावताराख्यकल्पसूत्रं यक्षडामरम् |
सरस्वतीं सारदाञ्च शक्तिसङ्गमतन्त्रकम् |
शक्तिकागमसर्वस्वमूर्द्धाम्नायं स्वरोदयम् |
स्वतन्त्रतन्त्रं सम्मोहं चीनाचारञ्च तोडलम् |
षडन्वयमहारत्नं सिद्धैकवीरतन्त्रकम् |
निगमस्य कल्पद्रुमं लतां तत्सारमेव च |
तारारहस्यं श्रीश्यामारहस्यं स्कन्दजामलम् |
इत्याद्यनेकतन्त्राणि पुराणं पञ्चरात्रकम् |
श्रुतिस्मृतिसंग्रहांश्च दृष्ट्वान्यशास्त्रमेव च |
रत्नान्येभ्यः समाहृत्य रत्नाकरेभ्य एव च |
श्रीरामतोषणेनेयं रोपिता प्राणतोषणी ||
कल्पद्रुमो दिशति वाञ्छितमेव चिन्त्यं चिन्तामणिः क्वचन कामदुघा त्वभीष्टम् |
श्रीप्राणतोषणकृता व्रततिर्जनेभ्यो दृष्टैव यच्छति फलं भुवि सर्वदेयम् |
एतामक्षरमालिकां न मनुतामज्ञः स्वभावोज्ज्वलां नानारत्नमयीं विलोकयतु सद्गुरुर्वङ्घिकारुण्यतः |
विश्वं पश्यति मन्दधीर्हतधिया प्रत्यक्षमेतज्जगद्ब्रह्मैवेति विलोकते स गुरुतो वैराग्यवांश्चेत्तदा |
आशावात- प्रौढतुङ्गोत्तरङ्गेऽपारे सारे हाभ्रमौ घोरसिन्धौ |
जीर्णां नौकामाश्रितस्येष्टसिद्ध्यै भीतस्यैधि त्वं गुरो ! कर्णधारः |
इमां मत्सरिणो दोषदृष्ट्योपहसतः प्रति |
तथ्यं वदामि श्रुत्वा यद्रोचते कुर्वतान्तु तत् |
मान्याः ! कृताञ्जलिरहं विनयेन वच्मि सर्वाण्यमुत्र गुरुवृद्धवचांस्यमूनि |
सज्जीचकार लतिकावयवानमीभिर्दोषा न मे न च गुणाः परिवेत्थ धीराः |
गृह्णन्ति ये गुणकणानिव दोषराशेः पङ्केरुहाङ्कमलिनेऽन्यपिकालिकस्ते |
पश्यन्तु मादृशविनिर्मितिचित्रवल्लीं रत्नोज्ज्वलां शुभवरीमुपसर्पकाणाम् |
वल्लीयं सर्गधर्मार्थकमनभजन-ज्ञान-नैर्गुण्यसप्तकाण्डाचित्र- प्रसूनच्छदमुकुलफला कोरकाद्यैर्विचित्रा |
नानाविद्यार्थवादारुणकिरणमहास्विन्नचित्ताकुलानां स्थेयःसिद्धान्तरूपप्रकृतवचनजच्छाययार्त्तिं निहन्तु |
वैवस्वतान्तरगतस्य गजाक्षिसंख्यस्येयं युगस्य चरणेऽजनि तूर्यसंख्ये |
भूनेत्रधर्मयुगसम्मितवीतवर्षे राधे दिने गुणमिते मृदुला हिमांशोः |
शाके नेत्रयुगाद्रिकाश्यपिमितेऽतीतेऽक्षयायां तिथावेषा प्रादुरभूद्विचक्षणमनःकह्लारसंह्लादिनी |
विप्रश्रीयुतरामतोषणकृता श्रीप्राणतोषण्यस्यौ सोमक्षेमसरस्वतीमयतया न्यक्कुर्वतोत्थं त्विषा |
वाणी श्रीप्राणतोषण्यसि सकलगुणा वज्रदृग्दीप्तदेहा नित्यं स्निग्धा नवीना नवरसरुचिरा रोपिताराममध्ये |
किन्त्वाराद्वृद्धमूर्तिर्जगदिदमनुगन्तासि दुष्टार्थबुद्ध्या मन्दानर्थाभिमानान्धितखलधिषणान् देवि ! तुभ्यं नमोऽस्तु ||
प्रतिकाण्डं नमस्कृत्य देवतां विघ्ननाषिणीम् |
काण्डानि निर्ममे सप्त रत्नोद्दिप्तिकाराण्यहम् |
आशांशुका शुचिशशीनदिगभ्रकृष्णा पञ्चाशदर्णघटिता स्रगनन्तमूर्तिः |
ध्यातेष्टदा गलितकुन्तलभाररम्या क्षेमाय नो भवतु सम्प्रति मालकान्ता ||
आद्यं नूतनसर्गकाण्डममलं यत्रास्ति शब्दाकारो नित्यानित्यविचारशब्दजनिविष्ण्वोषध्युडुव्योमगाः |
भूतोद्भूतमिदं चराचरमपि ब्रह्मध्वनिर्जन्तुतो वर्णान् प्रेरयतीति लेखनविधिर्वर्णाभिधानादि च ||
नृणामत्र प्रवृत्त्यर्थमादौ निर्घण्टनं मया |
केषाञ्चित् क्रियतेऽन्यानि भूयांसि वेत्तु तान्यपि ||
आदौ तन्त्रप्रशंसादि वर्णाविर्भावकारणम् |
शिवशक्त्याविर्भवनं तदवस्थानिरूपणम् |
त्रिविधं शक्तिरूपन्तु ब्रह्मादेः शक्तिनिर्णयः |
शक्तिं विना जाड्यमेषां शब्दब्रह्मनिरूपणम् |
शब्दब्रह्मपरब्रह्ममूर्तिरीशस्य शाश्वती |
इति सर्गाद्यकाण्डस्य परिच्छेदस्तथादिमः || १ ||
अर्थाभिव्यक्तये शब्दस्फोटवादनिरूपणम् |
प्रसिद्धानित्यरूपे द्वे पत्रे नित्यस्य कीर्तिते |
अनित्यमतदोषश्च प्रसिद्धमतनिर्णयः |
शब्दो ब्रह्मेति शब्दार्थो ब्रह्मेति मतदूषणम् |
नित्यमते पूर्वपक्षसिद्धान्तौ च निरूपितौ |
शरीरं तत्त्वषट्त्रिंशन्निर्मितं कञ्चुकान्वितम् |
शशीनाग्निकलावर्णोद्भवाश्चापि कलास्ततः |
वर्णजाः सशक्तिविष्णुरुद्राश्चौषधयस्तथा |
प्रयोजनञ्चौषधीनां हंसो विकृतिजाक्षरम् |
तद्विकृतेः प्रकारश्च प्रणवाद्धंससम्भवः |
सह नाशे तत्प्रणवस्थितेर्निदर्शनं तथा |
वर्णानां नित्यताबोधकारणं साधकान्तरम् |
मतद्वये तु वेदानां नित्यानित्यत्वदर्शनम् |
तथ्यं नित्यत्वमेतेषां युक्तिदृष्टिप्रमाणकैः |
वर्णेभ्यो ग्रहराश्यृक्षोत्पत्तिश्चक्रभ्रमात्मिका |
अमावास्याद्युद्भवश्च नक्षत्रवृक्षनिर्णयः |
स्वनक्षत्रवृक्षमात्रच्छेदने दोषदर्शनम् |
ऋक्षादिष्ठातृदेवाश्च नक्षत्रयोनिनिर्णयः |
तद्विरोधदर्शनञ्च दम्पत्यादिविचारणे |
तिथिभेदशशर्नञ्च तिथ्यधिपतिनिरूपणम् |
इत्यङ्कुरपरिच्छेदद्वितीयस्य समापनम् || २ ||
सदाशिवादेरुत्पत्तिर्लवादिकालनिर्णयः |
तत्त्वसृष्ट्यारम्भणञ्चाहङ्कारस्य त्रिधाकृतिः |
त्रिविधाहङ्कृतेः सृष्टिः शब्दादेर्भूतसम्भवः |
भूतमण्डलरूपाणि देहसृष्टिश्चतुर्विधा |
पञ्चीकृतिप्रकारश्चोद्भिदुत्पत्तिस्ततः परम् |
पापेनोद्भिदयोनिस्तत्प्रायश्चित्तं ततः परम् |
स्वेदजोत्पत्तिकथनमण्डजोत्पत्तिरेव च |
मनुष्यत्वप्रशंसा च जन्ममृत्युक्रमस्तथा |
प्रकृत्या जायते सर्वं तस्यां संलीयते पुनः |
इति शाखापरिच्छेदतृतीयस्य समापनम् || ३ ||
रजस्वलाया गर्भस्थात् पुंवीर्याद्गर्भसम्भवः |
रजस्वलानिदानञ्च गर्भे वीर्यगतिक्रमः |
स्त्रीपुंनपुंसकोत्पत्तिकारणं तदनन्तरम् |
बह्वपत्यत्वादिबीजं बलवद्गर्भकारणम् |
जीवप्रवेशनं तत्र शुक्राद्युत्पत्तिकारणम् |
स्वेदमूत्रपूरीषाणामुत्पत्तित्यागयोः क्रमः |
रोगोत्पत्तेः कारणञ्च धातूत्पत्तिक्रमस्ततः |
प्राणादीनां क्रियां पश्चात् कललादिनिरूपणम् |
मल एष विवेकश्च मांसपिण्डाङ्कुरस्तथा |
मेदोमज्जादिसम्भूतिरङ्गप्रत्यङ्गसम्भवः |
अभीष्टदानं मातुस्तत्फलादिनिर्णयस्तथा |
त्वक्श्रुत्यादिसमुद्भूतिः सन्धेः सम्पूर्णता तथा |
दोषदूष्यादिनिर्णीतिरिन्द्रियादिनिरूपणम् |
अन्तःकरणनिर्णीतिस्तत्त्वानां पञ्चविंशकम् |
पञ्चभूतगुणैर्देहो दशवायुनिरूपणम् |
नाडीनिरूपणं नाडीकन्दो द्वारस्थिताः शिराः |
शाखाप्रशाखा नाडीनां ततः स्थाननिरूपणम् |
अस्थ्यस्थिसन्धिपेश्यादि स्त्रीणां पेश्यधिका मता |
प्रशाखानामविच्छेदचतुष्कस्य समापनम् || ४ ||
वायुनामानि वायूनां मुख्यत्वादिविनिर्णयः |
तेषां रूपाणि स्थानानि कर्माणि च पृथक् पृथक् |
पिङ्गलेडागते प्राणे सूर्याचन्द्रमसोर्गतिः |
दोषदूष्याग्निनामानि चोर्मिकोषनिरूपणम् |
क्षेत्रज्ञस्यार्थग्रहणप्रकारस्तदनन्तरम् |
श्रोत्रादौ खादिसंस्थानं प्राधान्येन निदर्शितम् |
वातपित्तकफैर्नुन्नधातुभीरोगसम्भवः |
पूर्वादृष्टस्मृतिर्गर्भस्थितिलक्षणमत्र तु |
गर्भाशयप्रमाणन्तु त्रिविधं कर्म तत्परम् |
गर्भे चिन्ताप्रकारश्च निश्चेष्टा तदनन्तरम् |
देहस्थाक्षरवृत्तान्तं भुवनानि चतुर्दश |
तनावद्रिद्वीपखेटराशिनक्षत्रसंस्थितिः |
शुक्रामृग्भ्यां रक्तबिन्दुदर्शनादेश्च सम्भवः |
सूर्याचन्द्रमसोः स्थानं ब्रह्मादीनां तथैव च |
गर्भाच्छिशोर्निःसरणं पूर्वोदान्तस्य विस्मृतिः |
गर्भान्निर्गमकाले तु पापिनामधिका व्यथा |
रोदनानेहसि तदा नादावस्थानिरूपणम् |
देहावस्था पुनर्देहप्राप्तिः कर्मानुसारतः |
ऐहिकस्य प्रेत्य भोगः कर्मणो जायते ध्रुवम् |
इति पल्लवरूपेषु परिच्छेदसमापनम् || ५ ||
अस्पष्टाक्षरभाषा तु श्रुतिमार्गाविभागतः |
कुण्डलीस्फूर्तिरेकादिपञ्चाशद्धा यदा भवेत् |
गुणिता सा तदा शब्दार्थाद्युद्भूतिः क्रमेण च |
पञ्चाशत् कामनामानि रतिनामानि च क्रमात् |
सशक्तिकगणेशाननामानि तदनन्तरम् |
क्षेत्रपालस्य नामानि तत्पूजादिफलं ततः |
सुखाद्वर्णप्रकाशस्तत्प्रकाशान्ते तु विस्मृतिः |
वर्णप्रकाशस्थानानि चन्द्रसूर्याग्निजाक्षरम् |
सर्वे विसर्गजा वर्णा अष्टस्थाननिरूपणम् |
वर्णोच्चारक्रमाः पाञ्चभौतिकाक्षरनिर्णयः |
इति स्तवनरूपर्तुपरिच्छेदसमापनम् || ६ ||
पत्रारूढाक्षरतनुनिदानञ्च लिपिक्रमः |
अकारादिक्षकारान्तवर्णानां दैवतैः सह |
भूमौ लिपिनिषेधादिलेखनीनियमस्ततः |
पुस्तकस्य ततो मानं पुस्तकच्छिद्रनिर्णयः |
पुस्तिकापत्रनिर्णीतिर्वेदलेखननिन्दनम् |
युगभेदेऽक्षरे देवभेदो लेखनपूजनम् |
आरम्भादौ लेखकस्य वेतनग्रहदूषणम् |
इति कोरकविच्छेदसप्तमस्य समापनम् || ७ ||
ओंकारादिक्षकारान्तनामानि कुसुमानि च |
तन्त्रसङ्केतकारीण्यष्टमच्छेदसमापनम् || ८ ||
पञ्चवक्त्रोद्भवा मन्त्रास्तन्त्रादिशास्त्रमेव च |
गणेशेन सर्वतन्त्रविस्तारकरणं ततः |
महामहादिविद्यानां वीजत्वं तदनन्तरम् |
तथाष्टदशविद्यानां दर्शनानाञ्चनिर्णयः |
ईश्वरस्य शक्तिसमावेशाच्छास्त्रादिकर्तृता |
मनुष्यप्रभृतीनाञ्च शास्त्रकर्तृनिरूपणम् |
आन्वीक्षिक्यादिनिर्णीतिर्गृहिणां न तु मानसम् |
पापमीशो द्विधात्मानमकरोत् तस्य कारणम् |
तन्त्रावतारवीजञ्च पञ्चवक्त्राह्वयस्तथा |
पञ्चवक्त्रस्य रूपञ्च पञ्चाम्नायनिरूपणम् |
षडाम्नायस्य कथनमाम्नायभेददेवता |
आम्नायानां फलञ्चैव तथाशु फलनिर्णयः |
आम्नायभेदमन्त्राणामाचारादिनिरूपणम् |
अपवादोत्सर्गतया विद्याशास्त्रविनिर्णयः |
मन्त्रविद्याविभागश्च देवताभेदतस्तथा |
स्त्रीपुंनपुंसकत्वञ्च मन्त्राणां षट्सु कर्मसु |
मन्त्राणां क्रूरसौम्यत्वं स्वप्रजागरणादिकम् |
इति केशरविच्छेदनवमस्य समापनम् || ९ ||
छिन्नादिदोषनिर्णीतिर्मन्त्राणां तत्प्रतिक्रिया |
महामुद्रालक्षणञ्च योनिमुद्राकृतिस्तथा |
कण्ठासनलक्षणञ्च षट्चक्रेष्टस्मृतिर्यथा |
सहस्राराम्बुजे ध्यानमिष्टदेव्यास्ततः परम् |
पुनर्मूलाधारपद्मादिषु चिन्ताक्रमस्तथा |
मन्त्राक्षरस्य चिच्छक्तौ प्रोतानन्तरकर्म यत् |
तत्फलं संवत्सरेणाभ्यासात् सिद्धिरनुत्तमा |
असक्तस्य योनिमुद्राकरणे तु जपक्रमः |
भूतलिपिनिधानञ्च तस्या ऋष्यादिनिर्णयः |
ध्यानं भूतलिपेः प्राणप्रतिष्ठा तदनन्तरम् |
वर्णन्यासः पूजनञ्च नवावृत्तय एव च |
होमश्च कामनाभेदाद्भूतलिप्या पुटीकृतः |
सहस्रकृत्वः सञ्जप्तो मासमात्रं यदा तदा |
मनुः सर्वसिद्धिकरो दशसंस्कारकारणम् |
वीजनामानि वीजानां भूतडामरसम्मतम् |
नामधेयमिदं व्योमपरिच्छेदसमापनम् || १० ||
यद्यत्तन्त्रसारकारैरस्मद्वंशाब्जभास्करैः |
धृतं प्रमाणं तेनात्र नास्ति किञ्चित् प्रयोजनम् |
द्रष्टव्यं तत्र तत् सर्वं मन्त्रयन्त्रादिकं तथा |
न्यासपूजादिमुद्रापि स्तवश्च कवचं तथा |
मालासंस्कारकर्मादि सर्वं तत्रास्ति केवलम् |
संगृह्णाम्यधृतं तेन स्मार्तेंनापि क्वचित् क्वचित् |
मूलग्रन्थानुक्रमेण व्याख्यार्थमपि वादिनाम् |
आक्षेपस्य निराकृत्यै तद्धृतं ध्रियते मया |
यत्राभिप्रायमात्रन्तु दर्शितं तेन सूरिणा |
प्रमाणं नैव दत्तं तत् प्रमाणमपि लिख्यते |
शब्दाभिप्रायव्याख्यापि कृता यत्र महात्मना |
तेन तदविदो मन्दधियो विहसतः प्रति |
स्पष्टीकरोमि तां सर्वां यथाशास्त्रार्थनिश्चयाम् |
एष क्रमः सर्वकाण्डे विज्ञातव्यो विचक्षणैः |
बीजं नव्याङ्कुराढ्यं तदनु समभवद्दिव्यशाखाप्रशाखा जातं तत्पल्लवं तत्स्तवक उदगमत् कोरकोऽतः प्रसूनम् |
प्रोद्भूतः केशरः स्वाद्वजनि फलमिदं सर्गकाण्डस्त्वमीभिर्विद्वन्नभ्यञ्जयद्राङ्नयनयुगमितो निर्मलं पश्य सर्वम् |
धन्यो मान्यो वरेण्योऽग्रगण्यः सत्कीर्तिशालिनाम् |
स्थिरलक्ष्मीनिवासः श्रीयुतः स्वीयेष्टभक्तिमान् |
प्राणकृष्णश्चिरञ्जीवी भगवतादात्मजैः सह |
मुण्डमालातन्त्रे अष्टमपटले |
विना तन्त्रात् विना मन्त्रात् विना यन्त्रात् महेश्वरि ! |
न च भुक्तिश्च मुक्तिश्च जायते वरवर्णिनि ! |
मत्स्यसूक्ते महातन्त्रे चतुर्विंशतिसाहस्रे उपरिभागे प्रथमचरणे चतुर्थपटले |
विष्णुर्वरिष्ठो देवानां ह्लदानामुदधिर्यथा |
नदीनाञ्च यथा गङ्गा पर्वतानां हिमालयः |
अश्वत्थः सर्ववृक्षाणां राज्ञामिन्द्रो यथा वरः |
देवीनाञ्च यथा दुर्गा वर्णानां ब्राह्मणो यथा |
तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम् |
इति तन्त्रशास्त्रप्रशंसा |
वृहन्नीलतन्त्रे प्रथमपटले |
यद्गृहे निवसेत्तन्त्रं तत्र लक्ष्मीः स्थिरायते |
राजद्वारे श्मशाने च सभायां रणमध्यतः |
निर्जने च जले घोरे श्वापदैः परिभूषिते |
महात्मपात्तस्य देवेशि ! चमत्कारो भवेत् प्रिये ! |
तस्मात् सर्वप्रयत्नेन गोपनीयं प्रयत्नतः |
इति गृहे तन्त्रशास्त्रस्थितिफलम् |
मत्स्यसूक्ते |
यानि तन्त्रागमोक्तानि न हन्तव्यानि हेतुभिः |
ईश्वरेण प्रणीतानि यस्मात्तस्माद्द्विजातिभिः |
इति हेतुवादेन तन्त्रोक्तकर्महानिनिषेधः |
तत्रैव |
ज्योतिषे मन्त्रवादे च वैद्यके वेदकर्मणि |
अर्थमात्रन्तु गृह्णीयान्नापशब्दं विचारयेत् |
मन्त्रस्य वादो यत्र इति मन्त्रवादस्तन्त्रमिति |
ज्योतिरादौ शब्दविचारनिषेधः |
तत्रैव |
शब्दे मा संशयं कुर्याददृष्टस्त्विति कुत्रचित् |
श्रद्धातव्यं विनिश्चित्य आनन्त्याच्छब्दरूपतः |
निर्वाण तन्त्रे नवमपटलेऽपि |
शब्दब्रह्मस्वरूपञ्च मम वक्त्राद्विनिर्गतम् |
सन्देहो नैव कर्त्तव्यो यदि मुक्तिं समिच्छति |
सन्देहात् परमं याति रौरवं पितृभिः सह ||
इति तन्त्रशास्त्रे संशयनिषेधः |
गन्धर्वतन्त्रे द्वितीयपटले |
सर्वकार्येषु सर्वत्र तान्त्रिके वैदिके तथा |
अविश्वासो महान् दोषो यत्नतस्तं विवर्जयेत् |
संसिद्धेः कारणं देवि ! विश्वासः समुदाहृतः ||
इति शास्त्रे विश्वासफलम् ||
महानिर्वाणतन्त्रे चतुर्दशोल्लासे ||
किं तस्य तीर्थभ्रमणैः किं यज्ञैर्जपसाधनैः |
जानन्नेव महातन्त्रं कर्मपाशैर्विमुच्यते |
स सिद्धः सर्वसास्त्रेषु सर्वधर्मविदां वरः |
स ज्ञानी ब्रह्मवित् साधु यस्तन्त्रं वेत्ति कालिके ! ||
इति तन्त्रज्ञानफलम् ||
तत्रैव |
अलं वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः |
किमन्यैर्बहुभिस्तन्त्रैः ज्ञात्वैकं सर्वविद्भवेत् |
इत्येकतन्त्रस्यापि ज्ञानफलम् ||
गन्धर्वतन्त्र द्वितीयपटले |
आस्तिकोऽथ शुचिर्दक्षो द्वैतहीनो जितेन्द्रियः |
ब्रह्मिष्ठो ब्रह्मवादी च ब्रह्मी ब्रह्मपरायणः |
सर्वहिंसाविनिर्मुक्तः सर्वप्राणिहिते रतः |
सोऽस्मिन् शास्त्रेऽधिकारी स्यात्तदन्यत्र न साधकः ||
इति तन्त्रशास्त्राधिकारिकथनम् ||
कुब्जिकातन्त्रे प्रथमपटले ||
श्रुतिस्मृतिविधानेन पूजा कार्या युगत्रये |
आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः |
न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः ||
पुरश्चरणरसोल्लासतन्त्रे तृतीयपटलेऽपि |
तन्त्रोक्तं ध्यानमन्त्रञ्च प्रशस्तं भारते कलौ |
वेदोक्तञ्चैव स्मृत्युक्तं पुराणोक्तं वरानने ! |
न शस्तं चञ्चलापाङ्गि ! कदाचिद्भारते कलाविति ||
महानिर्वाणतन्त्रे द्वितीयोल्लासे च ||
विना ह्यागममार्गेण कलौ नास्ति गतिः प्रिये ! |
श्रुतिस्मृतिपुराणादौ मयैवोक्तं पुरा शिवे ! |
आगमोक्तेन विधिना कलौ देवान् यजेत् सुधीः |
कलावागममुल्लङ्ग्य योऽन्यमार्गे प्रवर्तते ||
न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ||
तथां, कलौ तन्त्रोदिता मन्त्राः सिद्धास्तूर्णफलप्रदाः |
शस्ताः कर्मसु सर्वेषु जपयज्ञक्रियादिषु |
निर्वीर्याः श्रौतजातीया विषहीनोरगा इव |
सत्यादौ सकला आसन् कलौ ते मृतका इव |
पाञ्चालिका यथा भित्तौ सर्वेन्द्रियसमन्विताः |
अमूरशक्ताः कार्येषु तथान्ये मन्त्रराशयः |
अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा |
न त्र फलसिद्धिः स्यात् श्रम एव हि केवलम् |
कलावन्योदितैर्मार्गैः सिद्धिमिच्छति यो नरः |
तृषितो जान्हवीतीरे कूपं खनति दुर्मतिः |
नान्यः पन्था मुक्तिहेतुरिहामुत्र मुखाप्तये |
यथा तन्त्रोदितो मार्गो मोक्षाय च मुखाय च ||
इति कलौ तन्त्रशास्त्रोक्तकर्मणा फलप्राप्तिकथनम् ||
मुण्डमालायाम् |
तन्त्रवक्ता गुरुः साक्षात् यथा च ज्ञानदः शिवः |
यथा गुरुर्महेशानि ! यथा च परमोगुरुः |
यथा परापरगुरुः परमेष्ठी यथा गुरुः |
यथा चैव हि मन्त्रज्ञस्तन्त्रवक्ता गुरुः स्वयम् |
इति तन्त्रवक्तृप्रशंसा ||
तत्रैव ||
तन्त्रञ्च तन्त्रवक्तारं निन्दन्ति तान्त्रिकीं क्रियाम् |
ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः |
अत एव च तन्त्रज्ञं न निन्दन्ति कदाचन |
न हसन्ति न निन्दन्ति न वदन्त्यन्यथा |
क्वचित् ||
इति तन्त्रादिनिन्दा करणदोषः ||
प्रथमपटले ||
शृणु देवे ! जगद्धात्रि ! सर्वमङ्गलमङ्गलम् |
तन्त्रं शृणुयाद्देवेशि ! ब्रह्मनिर्वाणमाप्नुयात् ||
दशमपटले ||
तन्त्रराजं महेशानि ! सारात्सांरतरं प्रिये ! |
श्रुत्वा ज्ञात्वा म्क्षमाशु लभते नात्र संशयः ||
एकादशपटले ||
शृणुयात् यो मुण्डमालातन्त्रं परमकारणम् |
ज्ञानदं मोक्षदं भक्तिभुक्तिसौख्यप्रदं शिवे ! इत्येवं परमं देवि ! देवानामपि दुर्लभम् |
यो वेद धरणीमध्ये स एव परमार्थवित् ||
इति तन्त्रविशेषश्रवणफलम् ||
निर्वाणतन्त्रे ||
ज्ञानञ्च निर्मलं कृत्वा बुद्धिञ्च निर्मलां ततः |
महाभक्तियुतो भूत्वा सर्वप्राणिहिते रतः |
शब्दब्रह्ममयं ज्ञात्वा शृणोति पटलं यदि |
तदा मुक्तिमवाप्नुति सत्यं सत्यं न शंशयः |
अष्टादशपुराणानां श्रवणेनैव यत् फलम् |
मेरुतुल्यसुवर्णञ्च गुरवे ब्रह्मरूपिणे |
सशस्यां परमेशानि ! सप्तद्वीपां वसुन्धराम् |
प्रदद्याद्भक्तिभावेन यदि स्यात् वेदपारगः |
तस्माद्वै परमेशानि ! फलं बहुविधं शिवे ! |
अस्य तन्त्रस्य चार्वङ्गि ! शृणोति पटलं यदि |
तत्फलात् कोटिगुणितं फलं स लभते ध्रुवम् |
इति तन्त्रस्य पटलमात्रश्रवणफलम् |
शब्दज्ञानं विना सर्वो जाड्येन परिभूम्यते |
प्रादुर्भूतिमतस्त्वग्रे शब्दानां वक्तुमारभे |
सारदातिलके प्रथमपटले ||
सच्चिदानन्दविभवात् सकलात् परमेश्वरात् |
आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः ||
सच्चिदानन्दविभवादित्यनेन अविद्योपहितत्वेऽपीश्वरस्य स्वरूपहानिरिति राघवभट्टः |
सकलात् सप्रकृतिकादीश्वरात् शक्तिरासीदिति योजना |
तथा च तत्रैव |
निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः |
निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः ||
इति कला प्रकृतिस्तया सह वर्त्तमानादिति दद्व्याख्यानञ्च |
ननु शक्तिसहितादेव पुनः शक्तिः कथमासीदिति चेत् सत्यं या अनादिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मतया स्थिता तस्या गुणवैषम्यात्तु सगुणतया सात्त्विकराजसतामसस्रष्टव्यप्रपञ्चसाधने तद्गुणावस्थाने वोपचारादुत्पत्तिरिति सांख्यमतमाश्रित्य ग्रन्थकारस्योक्तिरियमिति ज्ञेयम् |
तथा च मार्कण्डेयपुराणम् |
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा |
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते |
राघवभट्टधृतप्रयोगसारश्च |
तस्माद्विनिर्गता नित्या सर्वगा विश्वसम्भवा |
विश्वेषां सम्भवो यस्या इति |
तद्धृतवायवीसंहितापि |
शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता |
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिवेति |
कुब्जिका तन्त्रे प्रथमपटले तु |
आसीद्बिन्दुस्ततो नादो नादाच्छक्तिः समुद्भवा |
नादरूपा महेशानि ! चिद्रूपा परमा कला |
नादाच्चैव समुत्पन्ना अर्द्धबिन्दुर्महेश्वरि ! |
सार्द्धत्रितयबिन्दुभ्यो भुजङ्गी कुलकुण्डली |
विगुणा सगुणा देवि ! ब्रह्मरूपा सनातनी |
चैतन्यरूपिणी देवी सर्वभूतप्राकाशिनी |
आनन्दरूपिणी देवी ब्रह्मानन्दप्रकाशिनी |
इति विन्दोरादौ उत्पत्तिर्योक्ता सा आम्नायभेदेन अविरुद्धेति |
स चाम्नायभेदोऽग्रे स्फुटीभविष्यति |
इति सगुणशिवाच्छक्त्युत्पत्तिः |
तस्याः शक्तेस्तु नादबिन्दुसृष्ट्यु पयोग्यवस्थारूपौ |
तदुक्तं प्रयोगसारे |
नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी |
शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता |
इति शक्त्यवस्थाभेदः |
इच्छासत्त्वादिरूपतया बिन्दुरपि त्रिविध उक्तः सारदातिलके कान्यकुब्जवासिना जगद्गुरुणा लक्ष्मणाचार्येण |
शिवशक्तिमयः साक्षात्त्रिधासौ भिद्यते पुनः |
असौ बिन्दुः शिवमयः शक्तिमय उभयमयश्चेति त्रिविधः |
त्रिविधस्य स्वरूपमुक्तं तत्रैव |
बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः |
बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः |
समव्ययः समाख्यातः सर्वागमविशारदैः |
क्रियासारेऽपि |
बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् |
तयोर्योगे भवेन्नादस्ताभ्यो जातास्त्रिशक्तयः |
इति त्रिबिन्दुकथनम् |
शक्तित्रयमुक्तं तत्रैव |
रौद्रीविन्दोस्ततो नादात् ज्येष्ठा बीजादजायत |
वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः |
ते ज्ञानेच्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः |
एतत् सर्द्धवचनं शारदायामपि |
ते रुद्रब्रह्मरमाधिपाः शिवब्रह्मनारायणा यथाक्रमं ज्ञानशक्तीच्छाशक्तिक्रियाशक्तिस्वरूपा इत्यर्थः |
अतएवैते वह्नीन्द्वर्कस्वरूपिणः शब्दस्य सृष्ट्यन्तर्गता निबोधका अर्द्धेन्दुबिन्दुरूपाः शक्तेरेवावस्थाविशेषा ज्ञेयाः |
एतेन शक्तेरेव सृष्ट्यादिकर्त्तृत्वमिति ध्वनितम् |
ननु शब्दार्थभावि भुवनं सृजतीन्दुरूपा यावद्विभर्ति पुनरर्कतनुः स्वशक्त्या |
वह्न्यात्मिका हरति तत् सकलं युगान्ते तां शारदां मनसि जातु न विस्मरामीति |
गोरक्षसंहितायामपि |
इच्छाक्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी |
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति |
यथासम्भवमुन्नेयम् अत्र ज्ञानं गौरीशक्तिरिच्छा ब्राह्मीशक्तिः क्रिया वैष्णवीशक्तिरिति त्रिधा त्रिप्रकारा सा |
वक्ष्यमाणायामपि तस्यां सूर्येन्दुपावकान् |
प्रणवस्य त्रिभिर्वर्णैरित्यादिप्रणवांशाः |
अकारोकारमकारा ब्रह्मविष्णुरुद्रात्मका अकाराद्ब्रह्मणोत्पन्नमित्यादि ब्रह्मविष्ण्वीश्वरास्तत्तन्मण्डलेषु व्यवस्थिता इति |
तेन तत्र तत्र सूर्यरूपोऽकारो ब्रह्मा अत्र तु सूर्यरूपो विष्णुरिति पूर्वापरलिखनानुसारेण विरोध इति चेदर्थसृष्ट्यनुसारेण क्रमोऽनुसन्धेयो न तु लिखनानुसारेणेति स्थितम् |
योगिनीतन्त्रे पूर्वखण्डे दशमपटले तु |
इत्युक्त्वा सा महाकाली ददावस्मासु शाम्भवि ! |
इच्छाक्रियाज्ञानशक्तिः सर्वकार्यार्थसाधना |
इच्छा तु विष्णवे दत्ता क्रिया शक्तिस्तु ब्रह्मणे |
मह्यं दत्ता ज्ञानशक्तिः सर्वशक्तिस्वरूपिणी |
इत्यनेन विष्णोरिच्छाशक्तिरिति यदुक्तं तदाम्नायभेदेना-विरुद्धम् |
एवं वक्ष्यमाणपञ्चाम्नायषडाम्नायतत्तदाम्न्याय- रूपादिनिरूपकप्रभृतिपरस्परविरुद्धवचनानि सात्त्विकादिभेदेनाम्नायभेदेन वा व्यवस्थेयानीति निबोधिकादिसृष्टिकथनम् |
निर्वाणतन्त्रे प्रथमपटले तु |
सत्यलोके निराकारा महाज्योतिःस्वरूपिणी |
मायावल्कलमुत्सृज्य द्विधा भिन्ना जगन्मयी |
शिवशक्तिविभागेन जायते सृष्टिकल्पना |
प्रथमे जायते पुत्रो ब्रह्मसंज्ञो हि पार्वति ! |
कालिकोवाच |
शृणु पुत्र ! माहावीर ! विवाहं कुरु यत्नतः |
एतत् श्रुत्वा ततो ब्रह्मा उवाच सादरं वचः |
त्वां विना जननी नास्ति शक्तिं मे देहि सुन्दरि ! |
तत् श्रुत्वा जगतां माता स्वदेहात् मोहिनीं ददौ |
द्वितीया सा महाविद्या सावित्री परमा कला |
अस्याः सङ्गं समासाद्य वेदविस्तारणं कुरु |
अनायासे सृष्टिकर्ता भव त्वं महिमण्डले |
द्वितीये जायते पुत्रो विष्णुः सत्त्वगुणाश्रयः |
कालिकोवाच |
शृणुपुत्र ! महावीर ! विवाहं कुरु यत्नतः |
विष्णुरुवाच |
तव दर्शनमात्रेण निष्कामी जायते पुमान् |
काथं करोमि हे मात ! मोहिनीं देहि मे शिवे |
देहाच्छक्तिं विनिष्कृष्य ददौ |
तस्मै च कालिका |
वैष्णवीं तां महाविद्यां श्रीविद्यां परमेश्वरि ! |
तामाश्रित्य महाविष्णुः पालयत्यखिलं जगत् |
तृतीये जायते पुत्रो महायोगी सदाशिवः |
तं दृष्ट्वा सा महाकाली ऋतुयुक्ताभवन्मुदा |
शृणु पुत्र ! महायोगिन् ! मद्वाक्यं हृदयं कुरु |
त्वां विना पुरुषः को वा मां विना कापि मोहिनी |
अतस्त्वं परमानन्दो विवाहं कुरु मे शिव ! |
सदाशिव उवाच |
यदुक्तं कर्म हे मातस्त्वां विना नास्ति मोहिनी |
सत्यमेतत् जगन्मात ! र्मां विना पुरुषो न च |
अस्मिन् देहे संस्थिते च न करोमि विवाहकम् |
कुरु देहान्तरं मातः करुणा यदि वर्त्तते |
तत्क्षणे सा महाकाली ददौ भुवनसुन्दरीमिति |
कुब्जिकातन्त्रे प्रथमपटले |
ब्रह्माणी कुरुते सृष्टिं न तु ब्रह्मा कदाचन |
अत एव महेशानि ! ब्रह्मा प्रेतो न संशयः |
वैष्णवी कुरुते रक्षां न तु विष्णुः कदाचन |
अत एव महेशानि ! विष्णुः प्रेतो न संशयः |
रुद्राणी कुरुते ग्रासं न तु रुद्रः कदाचन |
अत एव महेशानि ! रुद्रः प्रेतो न संशयः |
ब्रह्मविष्णुमहेशाद्या जडाश्चैव प्रकीर्तिताः |
प्रकृतिञ्च विना देवि ! सर्वकार्याक्षमा ध्रुवमित्युक्तम् |
इति शक्त्या सृष्ट्यादिकथनम् |
शब्दब्रह्मण उत्पत्तिमाह |
शारदायां प्रथमपटले |
भिद्यमानात् पराद्विन्दोरव्यक्तात्मा वरोऽभवत् |
शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदा इति |
पराद्विन्दोरित्यनेन शक्त्यवस्थारूपोः यः प्रथमो बिन्दुस्तस्माद्भिद्यमानादव्यक्तात्मा वर्णादिविशेषरहितोऽखण्डो नादमात्रमुत्पन्नमित्यर्थः |
उक्तञ्चदुर्गेण यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते स ध्वनिरव्यक्त इति |
सृष्ट्युन्मुखपरमशिवप्रथमोल्लासमात्रमखण्डोऽव्यक्तो नादबिन्दुमय एव व्यापको ब्रह्मात्मकः शब्दः |
शब्दब्रह्मेति हृदयं तथा च राघवभट्टधृतं वचनम् |
क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् |
प्रकृतेर्बिन्दुरूपिण्याः शब्दब्रह्माभवत्परमिति |
प्रयोगसारेऽपि |
सोऽन्तरात्मा तदा देवि ! नादात्मा नदते स्वयम् |
यथा संस्थानभेदेन सम्भूय वर्णतां गतः |
वायुना प्रेर्यमाणासौ पिण्डाद्व्यक्तिं प्रयास्यतीति |
शारदातिलके |
चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतम् |
तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् |
वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः |
तद्भिद्यमान बिन्दुरूपं चैतन्यं कुण्डलीस्वरूपं प्रणवाकारं प्राणिनां देहमध्यगं सत् वर्णात्मना आविर्भवति प्रकाशत इत्यन्वयः |
किं कृत्वा प्राप्य कण्ठादिकरणानीति शेषः |
तथा च मूलाधारात् प्रथममुदितो यस्तु तारः पराख्य इत्यादि प्रपञ्चसारे आश्चर्यो वक्ष्यति |
अत एव वक्ष्यमाणा सृष्टिः कुण्डलीत इति ज्ञेयम् |
शब्दब्रह्मपरमब्रह्मभेदेन ब्रह्मणो द्वैविध्यमुक्तं कुलार्णवे पञ्चमखण्डे प्रथमोल्लासे |
आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते |
शब्दब्रह्मागमनयं परं ब्रह्मविवेकजम् |
श्रीभागवते षष्ठस्कन्धे षोडशाध्यायेऽपि |
अहं सर्वाणि भूतानि भूतात्मा भूतभावनः |
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनुरिति |
शब्दब्रह्म परणवरूपं तथा च भगवद्गीता |
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् |
यः प्रयाति त्यजन् देहं स याति परमां गतिमिति |
ओमिति ध्वनिमात्रोपलक्षणमतो वक्ष्यमाणगुरुवक्त्रे स्थितं ब्रह्म लभ्यते |
तत्प्रसादत इत्यादिवचनैः सह न विरोधः |
सर्वत्रैव धवनेर्विद्यमानत्वात् |
प्रणवार्थो वा वाच्यन्तु परमं ब्रह्मप्रणवो वाचकः स्मृत इत्यादिवचनात् |
इति श्रीप्राणतोषिण्यां प्रथमकाण्डे बीजस्वरूपशब्दप्रादुर्भावरूपाकरकथनं नाम प्रथमः परिच्छेदः |
- * * * इत्याकरे समुद्भूते शब्दे संशयरूपतः विवादबिलमुत्पन्नं परस्परजिगीषयेति |
अथ शब्दा नित्या अनित्याः प्रसिद्धाश्चेति मतत्रयम् |
तत्र पूर्वमते शब्दब्रह्मेति मुष्ठूक्तम् |
अनित्यवादिनोऽपि बहवस्तेषां मध्ये आन्तरस्फोटवादिनो जातिव्यक्तिस्फोटात्मकवाह्यस्फोटवादिनश्चैवं विवदन्ते यथा अथ कथमर्थः शब्देन प्रतिपाद्यते प्रतिपादयितुमक्षमत्वात् |
तथा हि नियतवर्णाः प्रदार्थं गमयन्ति ते किं क्रमेण युगपद्वा |
नाद्यः |
गौरित्यादौ गादिवर्णैः प्रत्येकमर्थप्रतिपादने कृते अपरवर्णवैयर्थ्यं स्यात् |
अथ वर्णैरेकशः कियानर्थावयवः प्रतिपाद्यत इति चेत्तदप्ययुक्तम् |
न हि गवाद्यवयवे गादिवर्णानां सङ्केतोऽस्ति |
न द्वितीयः |
भिन्नकालोपलब्धानां यौगपद्याभावात् |
उच्चरितप्रध्वंसिनो हि वर्णास्तावत्कालमवतिष्ठन्ते |
न च पूर्वपूर्ववर्णज्ञानं तस्योत्तरोत्तरवर्णज्ञानानुवृत्तौ नित्यत्वे प्रसङ्गात् अत एवेदं निरस्तम् |
यावन्तो यादृशा ये च तदर्थप्रतिपादने |
वर्णाः प्रज्ञातसामर्थ्याः ते तथैवार्थबोधका इति |
तस्मादनुत्पन्नोत्पन्ननष्टयोरसत्त्वे विशेषाभावात् वर्णेभ्योऽर्थप्रत्ययो न सम्भवतीति वर्णाव्यतिरेकेण वर्णाभिव्यङ्गः स्फोटः परिकल्प्यते |
स्फुटत्यर्थो यस्मादिति स्फोटोऽपादानेऽल् |
वर्णोच्चारणन्तु स्फोटार्थमेव |
पादवर्णा हि स्फोटव्यञ्जका इति क्रमयौगपद्याभ्यां व्यञ्जकासम्भव इति चेद्भवति तावदर्थप्रतिपत्तिः तदनुपपत्त्या वर्णेष्वपि स्फोटः कल्प्यते |
तस्मात् वर्णस्फोटात् पदस्फोटस्तस्मादर्थप्रतिपत्तिरित्थञ्च क्रमयौगपद्याभ्यां पदेभ्यो वाक्यार्थानुपपत्त्या पदस्फोटव्यञ्जितात् वाक्यस्फोतात् वाक्यार्थप्रतीतिः |
ननु गौरित्युच्चारणानन्तरं वर्णव्यतिरिक्तं परं किञ्चिन्नोपलभामहे |
केवलं वर्णा एव प्रतिपाद्यन्ते |
तस्मादनुपलभ्यमानत्वात् स्फोटरूपं नाम नास्त्येव शशविषाणादिवदिति स्फोटवादिनमाक्षिपन्ति |
शपथैरपि नादेयं वचो वः स्फोटवादिनाम् |
नभःकुसुममस्तीति कोऽभिदध्यात् सचेतन इति |
तत्र स्फोटवादिभिरुच्यते |
प्रत्यक्षेण न गृह्यते स्फोटः |
तथा हि गौरित्यत्र गकारौकारविसर्गेति वर्णत्रयस्य क्रमेणानुभवानन्तरं पदमिति अभिन्नाकारा बुद्धिरुपजायते |
न च तस्यां वर्णत्रयानर्थक्यं प्रयुज्यते अभिन्नत्वात् बुद्धेः |
यथा पटबुद्धिरभिन्ना तन्तुभिरेवोपजायमाना तन्तुव्यतिरिक्तं पटमवलम्बते |
तथा इहापि वर्णत्रयव्यतिरिक्तं वस्त्वन्तरमवलम्बते स च स्फोट इति |
ननु वर्णव्यतिरिक्तमन्यद्वस्तु न दृश्यत एव पटोऽपि तर्हि तन्तुव्यतिरिक्तो न दृश्यते कथमङ्गीकर्त्तव्यः पटबुद्धौ पटः प्रकाशते स्फोटोऽपि तर्हि तथा |
अथ स्फोटः किंस्वरूप इदं तदिति शृङ्गग्राहितया प्रतिपाद्यताम् |
अथोच्यते |
यो हि यद्बुद्धिग्राह्यः स तद्बुद्धिबोध्य एव न बुद्ध्यन्तरेभ्य इति पटोऽपि तर्हि तटबुद्ध्यैव प्रतिपाद्यते |
न तु बुद्ध्यन्तरेण तस्मात् |
यथा तन्त्वनुभवानन्तरमवयवी प्रत्यक्षसिद्धः पटस्तद्वत् सकलवर्णानुभवानन्तरमनुभूयमानो वर्णाभिव्यङ्ग्यः |
प्रत्यक्षसिद्धस्फोट इति गोपीनाथतर्काचार्याः |
तन्मतद्वयं दूषयितुमुपक्रमन्ते शारदातिलके प्रथमपटले आचार्याः |
शब्दब्रह्मेति शब्दार्थं शब्दमित्यंपरे विदुः |
एके आचार्याः |
शब्दार्थम् आन्तरस्फोटं शब्दब्रह्मेत्याहुः |
यथाह |
निरंश एव अभिन्नोनित्यबोधस्वभावः शब्दार्थ आन्तरस्फोट इति |
अपरे वैयाकरणाः पूर्वपूर्ववर्णोच्चारणाभिव्यक्ततत्तत्पद- संस्कारसहायचरमपदग्रहणोद्बुद्धं वाक्यस्फोटलक्षण- मखण्डैकार्थप्रकाशकं शब्दं शब्दब्रह्मेति वदन्ति |
यथाह |
एक एव नित्योऽभिव्यङ्ग्येभ्योऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वा वहीरूप इति |
न तु अनित्यःशब्दश्चेत्तदा नानामुनिभिर्महादेवेन देव्यर्चनानानाशास्त्रेषु एकमेव वचनं क्वचित् क्वचित् कथमुक्तं तदग्रे व्यक्तीभविष्यति |
नित्यपक्षे तु नैष दोषो वचनस्यापि नित्यत्वात् इति चेत् न |
अनित्यपक्षेऽपि नानावक्त्रादेकस्वरूपा भारती वचनरूपेण निर्गतेत्यनेन कस्यापराधस्तस्याः शक्तेः वैचित्र्यात् |
यत्तु योगिनीतन्त्रे प्रथमखण्डे दशमपटले |
तन्मध्ये तु मया दृष्टं वर्णपुञ्जं महोज्ज्वलम् |
सूर्यकोटिसमाभासं चन्द्रकोटिसुशीतलम् |
वह्निकोटिमहोज्ज्वालं परं ब्रह्ममयं ध्रुवमिति वचनं तद्ब्रह्माण्डादिवदाद्याशरीरस्थत्वेन अवधातव्यमन्यथा तच्छरीरवर्त्तिनां ब्रह्माण्डादीनामपि नित्यं स्यात् |
तच्छरीरे ब्रह्माण्डन्तु |
अतीव वृहदाकारब्रह्माण्डकोटिकोटयः |
चरन्ति सर्वदा देवि ! कः संख्यातुं क्षमो भवेत् |
इति तदनन्तरशिववचनाज्ज्ञेयम् |
अथ भवन्मते मन्त्रवेदगायत्र्यादीनामनित्यत्वापत्तिरिष्टापत्तिरिति चेत् |
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् |
इति गीतोक्तम् |
गुरुवक्त्वे स्थितं ब्रह्म लभ्यते तत्प्रसादत ! |
इति गुरुगीतोक्तम् |
गुरुणा यस्य यत् प्रोक्तं तत्तस्य ब्रह्मसंज्ञितम् |
इति गुप्तसाधनतन्त्रे षष्ठपटलोक्तं |
गायत्री ब्रह्मरूपिणीति तत्कवचोक्तमापौरुषेयाणि वेदवाक्यानीति दुर्गसिंहोक्तञ्च |
उक्तञ्च दोषाः सन्ति न सन्तीति पौरुषेयेषु विद्यते |
वेदे कर्त्तुरभावात्तु दोषाशङ्कैव नास्ति नः |
इति तत्र तत्र लक्षणया ब्रह्मप्रतिपादकमिति व्याख्यातव्यमिति चेन्नेयं लक्षणा रूढिप्रयोजनाभ्यां वञ्चितत्वादिति |
उक्तञ्च काव्यःप्रकाशे |
मुख्यार्थबाधे तदुयोगे रूढितोऽर्थप्रयोजनात् |
अन्यार्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया |
इति शब्दश्रवणमात्रावगम्योऽर्थः मुख्यार्थः |
यथोक्तं गोपीनाथतर्काचार्येण |
श्रुतिमात्रेण यात्रास्य तादर्थ्य मवसीयते |
तं मुख्यमर्थं मन्वन्ते गौणं यत्नोपपादितमिति |
बाधस्तु अन्वयानुपपत्तिः |
ययेत्यर्थे यदित्यव्ययम् |
क्रियाव्यापारः |
आरोपिता अभिधेयप्रत्ययान्तरितप्रत्ययेति |
प्रसिद्धवादिनस्तु नामी वर्णा नित्यास्तल्लक्षणायोगात् |
तथा हि सदकारणवन्नित्यमिति नित्यलक्षणम् |
सत् सत्त्वाशालि अकारणवत् |
कारणरहितं यत् तन्नित्यमित्यर्थः |
केवलं सदित्यक्ते घटपटादेर्ध्वंसस्यापि नित्यत्वप्रसङ्गः स्यात् |
केवलमकारणवदित्युक्तेऽपि प्रागभावस्यापि नित्यत्वप्रसङ्गः |
अतो विशेषणद्वयमिति |
वर्णास्तु कण्ठताल्वादिकरणक्रमानुविधायिजन्मानः नित्या भवितुमर्हन्ति |
नाप्यनित्याः स एवायं शब्दो यः पूर्वमुपालब्ध इति प्रत्यभिज्ञान्तात् |
अथ तत्प्रतिरूपकोऽयमिति चेत्तथापि सङ्केतान्तरप्रसक्तिः स्यात् |
सङ्केतस्तु |
अस्माच्छब्दादयमर्थो बोद्धव्य इत्युद्देशनरूपः |
वर्णादिषु उच्चरितप्रध्वस्तेषु सङ्केतोऽपि ध्वस्त इति |
तस्मान्न अमी वर्णा नित्या नाप्यनित्याः |
किन्तु अनवच्छिन्नसन्तानाः प्रसिद्धा इति |
ननु वर्णा नित्याश्चेत्तदा कथमुक्तं वर्णात्मनाविर्भवतीति |
नैवमभिप्रायापरिज्ञानाद्दोषमाशङ्कसे तथा हि |
शब्दो द्विविधो ध्वनिर्वर्णश्च |
षड्जर्षभगान्धारमध्यपञ्चमधैवतनिषादेषु सप्तसु स्वरेषु वर्णं विना ध्वनिः स्वातन्त्र्येण प्रतिभाति |
अमरसिंहेनापि तन्त्रीकण्ठोत्थिताः स्वरा इत्युक्तम् |
तथा च षड्जं रौति मयूरस्तु गावो नर्दन्ति चर्षभम् |
अजो रौति तु गान्धारं क्रौञ्चं क्वणति मध्यमम् |
पुष्पसाधारणे काले काकिलो रौति पञ्चमम् |
धैवतं कुञ्जरो रौति निषादं हेषते हय इति रायमुकुटप्रभृतिधृतसङ्गीतवचनमिति |
मालवादयो रागा अपि मूर्च्छितस्वरभेदेन ध्वनिरेव भवति |
तथा च मालवोऽयं वसन्तश्चायमित्यादि गीतिश्रवणसमये ध्वनिभेदेन सामाजिकानां प्रतीतिः स्यात् |
ध्वनिभेदज्ञानन्तु स्वरभेदेन भवति |
न तु वस्तुत इति |
ध्वनिमन्तरेण वर्णो न प्राशते |
अर्थावबोधाय ध्वनिर्वर्णात्मना आविर्भवति प्रकाशत इति तस्य तात्पर्यम् |
नन्वर्थावबोधाय परा पश्यन्ती मध्यमा वैखरीत्वरूपावस्थः सन् ध्वनिरपि प्रकाशते |
तथा च गवादीनां वत्सप्रभृत्यावाहनाद्यर्थं नादः प्रवर्त्तते ||
अत एवोक्तं स्वरशास्त्रे ||
शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गीतिरसं फणी |
हरिर्वेति हरो वेत्ति नारदोवेत्ति वा न वा ||
इति चेत् सत्यम् |
गवादीनां स्वरमात्रप्रतीतिसमवायिनां कियद्विषयकज्ञानमस्ति न तु धीमेधाविज्ञानानि तानि तु वर्णज्ञानादृते न सम्भवन्ति |
तथा हि ईश्वरविषयकज्ञानमपीश्वरशब्दं विना न भवति |
एवमनिर्देश्यं निर्गुणं ब्रह्मापि अन्धकारावस्थितवस्तुप्रकाशकप्रदीपेनेव तत्प्रकाशकमात्रेण निर्गुणशब्देनैव व्यज्यते |
अत एव ध्वनिं तृणाय मत्वा शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गीतिरसं फणी |
एकन्तु कवितातत्त्वमीश्वरो वेत्ति नापर इत्यनेन काव्यविद्भिरुपहस्तितम् |
कवितातु अर्थव्यङ्ग्या अतो वर्णात्मकशब्दे नैव कविता स्यादिति तु न शब्दवाच्यत्वं निर्गुणस्य ||
सनिर्गुणः गुणश्चेति शिवो ज्ञेयः सनातनः ||
निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृत इति शारदोक्तेर्वणानां प्रकृतिप्रभवत्वेन तत्र वृत्त्याभावात् प्रकृतेरन्यः प्रकृत्या असम्बद्ध इत्यर्थः ||
कुब्जिकातन्त्रे प्रथमपटले तु शेषार्द्धन्यथोक्तं यथा |
निर्गुणः सगुणच्चेति शिवो ज्ञेयः सनातनः |
निर्गुणाश्चैव सञ्जाता विन्दवस्त्रय एव च |
ब्रह्मबिन्दुर्विष्णुबिन्दूरुद्रबिन्दुर्महेश्वरीति ||
अन्यथा प्रकृतीश्वरभेदोपलब्ध्यनन्तरं मिलितत्वप्रतीतिविषयेण सगुणेन निर्गुणस्य भेदप्रतीतिर्न स्यादत एव श्रुत्यध्याये ब्रह्मणा ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः |
कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ||
इति परीक्षितः प्रश्नोऽपि सङ्गच्छते |
आस्तां विस्तरः प्रस्तुतमभिधास्ये |
तन्मतद्वयं दूषयति शारदातिलकं मतद्वयेन शब्दशब्दार्थयोः ब्रह्मत्वमुक्त्वा न हि तेषां तयोः सिद्विर्जडत्वादुभयोरपीति तेषां वादिनां मते तयोः शब्दशब्दार्थयोः शब्दब्रह्मत्वसिद्धिर्न |
हेतुमाह उभयोर्जडत्वादिति |
अयमाशयः |
शब्दं विनार्थो जडः प्रतिपत्तुमशक्यः कस्तं प्रतिपादयिष्यतीत्येवमर्थं विना शब्दोऽपि डः प्रतिपादयितुमशक्तः कं स बोधयिष्यतीति तेन शब्दार्थरूपविशिष्टस्य शब्दब्रह्मत्वमवधारितम् |
तदुक्तम् अध्यायात्मविवेके |
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं |
विवर्ततेऽर्थभावेन प्रक्रिया जगतो मतेति |
अन्यत्रापि शब्दग्रमेति शब्दावगम्यमर्थं विदुर्बुधाः |
स्वतोऽर्थानावरोधत्वात् प्रोक्तोऽप्येतादृशो वर इति |
स तु सर्वत्र संस्यूते जाते भूताकारे पुनः |
आविर्भवति देहेषु प्राणिनामर्थविस्तृत इति ||
अत एव कल्पसूत्रटीकायां शङ्कराचार्याः ||
षट्त्रिंशत्तत्त्वानि विश्वं शरीरं कञ्चुकितः शिवो जीवः |
निष्कञ्चुकः परमशिव इति षट्त्रिंशत्तत्त्वानि शुद्धमिश्राशुद्धभेदानि यथा |
शिवशक्तिसदाशिवेश्वरशुद्धविद्येति शुद्धानि |
मित्राणि शुद्धाशुद्धानि |
शुद्धानि यथा मायाकला विद्यावागहङ्कारकालनियतिपुरुषप्रकृतिबुद्धिमनांसि |
अशुधानि यथा |
श्रोत्रत्वक्चक्षूरसनाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशव् आयुतेजोजल पृथिव्यात्मकानि |
तदुक्तं मृत्युञ्जयसंहितायाम् ||
कलाविद्यावाक्कालमायानियतिपञ्चकैः कञ्चुकितः शिवो जीवो भवति |
एवञ्च शिवजीवयोरुपाधिमात्रभेदेः तत्त्वानां शिवेषस्तु दीक्षापरिच्छेदे वक्ष्यते ||
कञ्चुकलक्षणं यथा परापरिमलोल्लासे ||
अस्यैव सर्वकर्त्तुर्यत् किञ्चित्कर्तृविभ्रमः |
तस्य हेतुः कलानाम तत्त्वं तत्त्वविदो विदुः |
सर्वज्ञस्य त्वविद्या स्यात् किञ्चित् ज्ञातृत्वविभ्रमः |
पूर्णस्य रागो विषयेष्वभिष्वङ्ग इतीरितः |
कालो हि नाम भावानां भीषणाभीषणात्मकः |
क्रमावच्छेदकः सोऽयं लवादिप्रलयावधिः |
इदं ममैव कर्त्तव्यमकर्त्तव्यमिदं मम |
इत्थं नियमनस्यास्य हेतुर्नियतिरुच्यते |
तत्त्वपञ्चकमेतस्य स्वरूपावरकं यतः |
तस्मात् कञ्चुकमित्येतदुच्यते तत्त्वपञ्चकमित्याहुः ||
कुलार्णवे पञ्चमखण्डेऽपि |
घृणा लज्जा भयं शोको जुगुप्सा चेति पञ्चमी |
कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीर्तिताः |
पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः ||
इति शिवजीवयोरैक्यमुक्तम् |
राघवभट्टस्तु यदि शब्दः शब्दार्थो वा ब्रह्मेत्युच्यते तदा ब्रह्मपदवाच्यत्वं नोपपद्यते |
यतः सच्चिदानन्दरूपो ब्रह्मपदार्थः |
उक्तञ्च श्रुत्या |
नित्यं विज्ञानमानन्दं ब्रह्मेत्याह |
एतन्न समीचीनम् |
तेनैव लिखितकुण्डलीस्वरूपं प्रणवाकारमित्यसङ्गतेः विश्वसाराद्युक्तवचनजाताच्च ||
तथा च विश्वसारे ||
शब्दब्रह्मेति तं प्राह साक्षाद्देवः सदाशिवः |
अनाहतेषु चक्रेषु स शब्दः परिकीर्त्यते |
अनाहतं महाचक्रं हृदये सर्वजन्तुषु |
तत्र ओंकार इत्युक्तो गुणत्रयसमन्वितः |
शिवो ब्रह्मा तथा विष्णुरोङ्कारे च प्रतिष्ठितः |
अकारश्च भवेद्ब्रह्मा उकारः सच्चिदात्मकः |
मकारो रुद्र इत्युक्त इति तस्यार्थकल्पना |
चकारे च भवेद्विष्णु रुकारे च प्रजापतिः |
मकारे च भवेत् रुद्र इति वा वर्णनिर्णयः ||
फेत्कारिणीतन्त्रे प्रथमपटले च |
तेभ्य एव समुत्पन्ना वर्णेभ्यो विष्णुशूलिनोः |
मूर्त्तयः शक्तिसंयुक्ता उद्यन्ते ताः क्रमेण तु |
इत्युक्ता विष्णुशिवशक्तीनां प्रत्येकं मूर्तयः पञ्चाशदुक्ताः |
प्रपञ्चसारे तृतीयपटलेऽपि ||
शशीनाग्न्युत्थिता यस्मात् स्वरस्पृक्व्यापकाक्षराः |
इनः सूर्यः स्पृक् स्पर्शः |
तत्त्रिभेदे समुपन्ना अस्टत्रिंशत् कला मताः |
स्वराः सौम्याः स्पर्शयुग्मैः सौरा वाद्याश्च वह्निजाः |
षोडशद्वादशदशसंख्याः स्युः क्रमशः कलाः ||
क्रमश इति चन्द्रस्य षोदश द्वादश सूर्यस्य वह्नेर्दशेत्यष्टत्रिंशत् कलाः |
वर्णेभ्य एव तारस्य पञ्चभेदैश्च भूतगैः |
सर्वगाश्च समुपन्नाः पञ्चाशत्संख्यकाः कलाः ||
तारस्य प्रणवस्य ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्त्तयः |
तावत्या मातृभिः सार्द्धं तेभ्यः स्यूरुद्रमूर्तयः |
तेभ्य एव तु पञ्चाशत् स्युरौषधय ईरिताः |
याभिस्तु मन्त्रिणः सिद्धं प्राप्नुयुर्वाच्छितप्रदाम् |
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः |
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना |
पूर्णापूर्णामृता कामदायिन्यः स्वरजाः कलाः |
कुलार्णवे पञ्चमखण्डे षष्ठोल्लासे तु चेति कथिता कुलनायिकेति पाठः |
तापिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः |
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा |
कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिता |
धूम्रार्च्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी |
सुश्रीः सुरूपा कपिला हव्यकव्यवहेत्यपि |
हव्यवहा कव्यवहेति |
याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः |
कुलार्णवे तु |
आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः |
इति पाठः |
शारदायाम् |
अमृता मानदा इत्याद्युक्ता |
अभयेष्टकरा ध्येयाः |
श्वेतपीतारुणाः क्रमात् |
इति विशेष उक्तः |
प्रपञ्चसारे |
सृष्टिर्-ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा |
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः |
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः |
शारदायाम् |
अकाराद्ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः |
द्रवीभूतस्वर्णवर्णा इत्यर्थः |
एताः करधृताक्षस्रक्पङ्कजद्वयकुण्डिकाः |
प्रपञ्चसारे |
जरा च पालिनी शान्तिरीश्वरी रतिकामिका |
वरदा ह्लादिनी प्रीतिर्दीर्घाश्चोकारजाः कलाः ||
शारदायान्तु |
दीर्घाः स्युरष्टतवर्गजाः |
उकाराद्विष्णुनोत्पन्नास्तमालदलसन्निभाः |
अभीतिवरचक्रेष्टबाहव, परिकीर्तिताः |
तीक्ष्णा रौद्री भया निद्रा तन्त्री क्षुत् क्रोधनी क्रिया |
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः |
मकारप्रभवा रुद्रजाताः संहृतये कलाः |
शारदायान्तु |
उत्कारी मृत्युरेताः स्युः कथिताः पयवर्गजाः |
रुद्रेण मार्णादुत्पन्नाः शरच्चन्द्रनिभप्रभाः |
उद्वहन्त्योऽभयं शूलं कपालं वाहुभिर्वरम् |
इत्यधिकमुक्तम् ||
विन्दोरपि चतस्रः स्युः पीताः श्वेतारुणासिताः |
ईश्वरेणोदिता विन्दोः पीताः श्वेतारुणासिताः |
अनन्ताय यवर्गस्था जवाकुसुमसन्निभाः |
अभयं हरिणं टङ्कं दधाना वाहुभिर्वरम् |
इत्यधिकमुक्तं शारदायाम् ||
कलाश्चेश्वरसञ्जातास्थिरोधानाय बिन्दुजाः |
इति कुलार्णवे ||
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च |
इन्धिका दीपिका चैव रेचिका मोचिका परा |
सूक्ष्मा सूक्ष्मार्त्तता ज्ञानामृता चाप्यायनी तथा |
व्यापिनी व्योमरूपा च अनन्ता नादसम्भवा |
नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायिकाः |
सदाशिवेन सञ्जाता नादादेताः सितत्विषः |
अक्षस्रक्पुस्तकगुणकपालाढ्यकराम्बुजाः |
इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः |
इत्यादिकं शारदायाम् |
इति पञ्चाशत्कलाः |
प्रपञ्चसारे ||
केशवनारायणमाधवगोविन्दविष्णवः |
मधुसूदनसंज्ञश्च सप्तमः स्यात् त्रिविक्रमः |
वामनः श्रीधराख्यश्च हृषीकेशस्तदन्तरम् |
पद्मनाभस्तथा दामोदराख्यो वासुदेवयुक् |
सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धाः स्वरोद्भवाः |
ततश्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली तथा |
मुषली शूलिसंज्ञश्च भूयः पाशी तथाङ्कुशी |
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः |
कृष्णः सत्यः सात्वतश्च शौरिः शूरी जनार्दनः |
भूधारी विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः |
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा |
हंसो वराहो विमलो नृसिंहो मूर्त्तयो हलात् |
कादिक्षान्ताद्व्यञ्जनादित्यर्थः |
केशवाद्या इमे श्यामाश्चक्रशङ्खलसत्कराः |
इति शारदायामधिकम् ||
फेत्कारिणीतन्त्रेऽपि ||
शङ्खचक्रधराः सर्वे घनाभाः पीतवाससः |
केशवाद्या निजाङ्कस्थशक्त्यालङ्कृतविग्रहाः |
इति पञ्चाशद्विष्णवः |
कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया दया |
मेधा सर्षी श्रद्धा स्याल्लज्जा लक्ष्मीः सरस्वती |
प्रीतिरती रमा प्रोक्ताः क्रमेण स्वरशक्तयः |
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी |
विजया विरजा विश्वा विनदा सुनदा स्मृतिः |
ऋद्धिः समृद्धिः शुद्धिश्च भक्तिर्मुक्तिर्मितिः क्षमा |
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा |
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा |
अमोघा विद्युता चेति शक्तयः सर्वकामदाः |
एताः प्रियतमाङ्केषु निषणाः सस्मिताननाः |
विद्युद्दामसमानाङ्ग्यः पङ्कजाभयवाहवः |
फेत्कारिणीतन्त्रे तु ||
ताश्च सस्मितवक्त्राब्जा विद्युदाभाः प्रकीर्तिताः |
कान्ताङ्कस्थाश्च कीर्त्त्याद्याः कमलाभयपाणयः |
इत्युक्तम् |
इति पञ्चाशद्विष्णुशक्तयः ||
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः |
अर्घीशो भावभूतिश्चातिथिश्च स्थाणुको हरः |
झिण्टीशो भेतिकः सद्योजातश्चानुग्रहेश्वरः |
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्त्तयः |
ततः क्रोधीशचण्डेशपञ्चान्तकशिवोत्तमाः |
अथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः |
अजेशः सर्वसोमेशस्तथा लाङ्गलिदारकौ |
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ |
स्युरप्रिमीनमेषाख्यालोस्थितश्च शिखी तथा |
छगलण्डद्विरण्डेयौ समहाकालवालिनौ |
भुजङ्गेशपिनाकीशखड्गीशाख्यवकेशकाः |
श्वेतस्रग्वीशनकुलिशिवाः संवर्त्तकस्तथा |
एते रुद्राः स्मृता रक्ता धृतशूलकपालकाः ||
इति पञ्चाशद्रुदाः ||
पूर्णोदरी स्याद्विरजा शाल्मली तदनन्तरम् |
लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा समीरिता |
सुदीर्घमुखागोमुख्यौ दीर्घजिह्वा तथैव च |
कुण्डोदर्यूर्द्धकेश्यौ च तथा विकृतमुख्यपि |
ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः |
सुश्रीमुखी चैव विद्यामुख्येताः स्वरशक्तयः ||
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विते |
गौरी त्रैलोक्यविद्या स्यान्मन्त्रसिद्धिस्ततः परम् |
आत्मशक्तिर्भूतमाता तथा लम्बोदरी स्मृता |
द्राविणी नागरी भूयः खेचरी चापि मञ्जरी |
रूपिणी चित्रिणी पश्चात् काकोदर्यपि पूतना |
स्याद्भद्रकालीयोगिन्यौ शङ्खिनी गर्जिनी तथा |
कालरात्रिश्च कुब्जिन्या कपर्दिन्यपि वज्रषा |
जया च सुमुखेश्वर्यया रेवती माधवी ततः |
वारुणी वायवी प्रोक्ता पश्चाद्रणे विदारिणी |
ततश्च सह आलक्ष्मीर्व्यापिनी माययान्विता |
एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः |
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः |
आयुधादिध्यानं वामदक्षयोरेवं सर्वत्र |
इति पञ्चाशद्रुद्रशक्तयः |
चन्दनकुचन्दनागुरुकर्पूरोशीररोगजलघुसृणाः |
कक्कोलजातिमांसीमुराचोरग्रन्थिरोचनापत्राः |
पिप्पलविल्वगुहारुणतृणं कलरङ्गाह्वकुम्भीवल्लिन्यः |
शोल्वम्बरकाश्मरिकास्थिराब्जदरपुष्पिका |
मयूरशिखाप्लक्षाग्निमन्थसिंहीकुशाह्वदर्भाः |
कृष्णदरपुष्पीरोहिणचुण्डकवृहतीपाटलचित्रातुलस्यपा-मार्गाः |
शतमखलताद्विरेफाविष्णुक्रान्तामूषल्यथाञ्जलिनी |
दूर्वाश्रोदेवीसह तयैव लक्ष्मीसदाभद्रे |
आदीनामिति कथिता |
वर्णानां क्रमवशादथौषधयः |
गुलिकाकवायभावितप्रमेदतो निखिलसिद्धिदायिन्यः |
चन्दनं प्रसिद्धम् |
कुचन्दनं रक्तचन्दनम् |
अगुरुः प्रसिद्धः |
कर्पूरं रसकर्पूरम् |
उशीरं वीरणमूलम् |
रोगः कुष्ठम् |
जलं बाला |
घुसृणः कुङ्कुमम् |
कक्कोलं काकोलीति प्रसिद्धम् |
जातिः पुष्पविशेषः |
स्नतामांसी जटामांसी |
मुरा मुरामांसी |
चोरश्चोरपुष्पी |
ढोलकलम्बीति गौडभाषा |
ग्रन्थिः गाठियानीति गौडप्रसिद्धम् |
रोचना हरिद्रा |
पत्रं तेजपत्रम् पिप्पलोऽश्वथः |
विल्वः प्रसिद्धः |
गुहा जयन्ती |
अरुणतृणं पृश्निपर्णी |
फलरङ्गाह्वः कामराङ्गा इति प्रसिद्धः |
कुम्भी गाम्भारी |
वल्लिनी ताम्बूली |
शोल्वम्बरं छोलङ्ग इति प्रसिद्धः |
काश्मरिका कशेरुः |
स्थिरा बला |
अब्ज दुज्जलः हिजल इति यस्य प्रसिद्धिः |
दरपुष्पिका तिलपुष्पम् |
मयुरशिखा अपमार्गविशेषः सुपाङेति यस्य प्रसिद्धिः |
प्लक्षो वटः |
अग्निमन्थो गम्भारिः |
सिंही कण्टकारी |
कुशा कुशाह्वः प्रसिद्धः |
दर्भः काशविशेषः |
कृष्णः पिप्पली |
दरपुष्पी इन्द्रयवः |
रोहिणं कुटुकी |
चुण्डुकं कुकुबल्या |
वृहती प्रसिद्धा |
पाटलः पारलीति प्रसिद्धः |
तुलसी प्रसिद्धा |
अपामार्गः प्रसिद्धः |
शतमखता इन्द्रलता |
द्विरेफा भृङ्गराजः |
विष्णुक्रान्ता अपराजिता |
मूषली तालमूली |
अञ्जलिनी लाजालु लज्जावतीति यस्याः ख्यातिः |
दूर्वा प्रसिद्धा |
श्रीदेवी धान्यमिति |
लक्ष्मीः शतमूली |
सदा रुद्रजटा |
भद्रा भद्रपर्पटी इत्योषधयः ||
ओषधीनां प्रयोजनमप्युक्तं राघवभट्टधृतेन ||
यो यो मन्त्रस्तस्य तस्य वर्णौषधिविनिर्मिता |
तत्तद्वर्णोत्थसंख्याभिर्गुलिका मन्त्रसिद्धिदा |
तयाभिषेकस्तद्धवनं तत्स्वादस्तद्विलेपनम् |
तत्पूजा च तथा सिद्धिदायकं स्यान्न चान्यथा ||
इत्योषधीनां फलकथनम् ||
कामधेनुतन्त्रप्रथमपटलेऽपि ||
अकारादिक्षकारान्ता मातृका बीजरूपिणी |
विसर्गश्चैव बिन्दुश्च द्विसन्धिर्ब्रह्मविग्रहा |
विसर्गः प्रकृतिर्बिन्दुः पुरुषः |
द्विसन्धिर्द्वयोर्भेदकः ||
वर्णात्तु जायते ब्रह्मा तथा विष्णुः प्रजापतिः |
रुद्रश्च जायते देवि ! जगत्संहारकारकः |
इति सर्वेषामुपास्यानां ब्रह्मविष्णुप्रभृतीनां सर्वगकलानामोषधीनाञ्च ब्रह्मस्वरूपप्रणवपञ्चरश्म्यकारोकारमकारबिन्दुनादा-दिभ्य उत्पत्तेः |
यदि वा वाच्यवाचकसम्बन्धेन लक्षणया प्रणवशब्देन प्रणववाच्यं ब्रह्मे त्यङ्गीक्रियते तदाप्युक्तदोषस्तदवस्थ एव |
शारदाविश्वसार प्रपञ्चसारोक्तप्रमाणजातैः प्रणवावयवा एव सर्वोत्पादका न ब्रह्मावयवविशेषवाचका इति |
तेभ्यः कथं सर्वेषामुत्पत्तिश्च स्यात् |
ननूत्पत्तिकर्तृमात्रं न ब्रह्म अपि तु उत्पत्तिस्थितिलयहेतुत्वेनावधारितं यत् तदेव |
तथा च वेदान्तवृत्तिधृता श्रुतिः |
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्राप्याभिसंविशन्ति तद्ब्रह्मेति व्यजाना इति प्रणवस्योत्पादकमात्रत्वात् कथं तथात्वमिति चेत् सत्यं प्रणवरश्म्युद्भवानां ब्रह्मादीनां सृष्ट्यादिकर्तृत्वदर्शनात् प्रणवस्य हेतुत्वं स्पष्टमवगम्यते |
अथ तर्हि प्रणवस्य ब्रह्मत्वमस्तु कथमन्येषां वर्णानामित्यपि कुदेश्यं प्रणवविकृतत्वेनापि ध्वनिमयत्वात्तेषामिति ||
तथा च प्रपञ्चसारे प्रथमपटले ||
मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि |
तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् |
वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच हेति |
मूलार्णा हंसः |
अर्णविकृतिरकारादिक्षकारान्ता |
विकृतेर्विकृतिर्वर्णसंयोगादि |
तेन प्रभिन्नानि भेदं प्राप्तानि शेषं सुगमम् |
इत्थमनेन प्रकारेण ब्रह्माणं सर्वान् काल उवाचेत्यन्वयः |
हंसो विकारप्रकारस्तु |
चतुर्थपटले प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः |
षडूर्मयः स्यूरेफोत्था गुणाश्चत्वार एव च |
पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह |
करणान्यपि चत्वारि सङ्घातश्चेतनेति च |
हकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः |
उकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु |
प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः |
ऋकाराद्याश्च चत्वारो रेफोत्थाश्च पराः स्मृताः |
एकारादिविसर्गान्तं वर्णानां षट्कमुद्धृतम् |
हकारस्य षडङ्गेभ्य इतीदं षोडशाङ्गवत् |
एभ्यः सञ्जज्ञिरेऽङ्गेभ्यः स्वराः षोडश सर्वगाः |
तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः |
स तारो वीजतामेव प्राणिष्वेव व्यवस्थितः |
ब्रह्माण्डं ग्रन्थमेतेन व्याप्तं स्थावरसङ्गमम् |
नादः प्राणाश्च जीवश्च घोषश्चेत्यादि कथ्यते |
एष पुंस्त्रोनियमितैर्लिङ्गैश्च सनपुंसकैः |
रेफो माया बीजमिति त्रिधा मायाभिधीयते |
शम्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती |
क्षान्तिः पुष्टिः स्थितिः शान्तिर्विद्याद्यैः स्वार्थवाचकैः |
नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः |
तामेतां कुण्डलीत्येके सन्तो हृद्ययनां विदुः |
सा रौति सततं देवी भृङ्गीसङ्गीतकध्वनिम् |
आकृतिं स्वेन भावेन पण्डिता बहुधा विदुः |
कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा |
चराचरस्य जगतो वीजत्वाद्विजमेव तत् |
मूलस्य बिन्दुयोगेन शतानन्दत्वदुद्भवः |
रेफान्वितोकाराकारयोगादुत्पत्तिरेतयोः |
हकाराख्योद्भवस्तेन हरिरित्येष शब्द्यते |
हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च |
अस्य विन्दोः समुत्पत्त्या तदन्ते सोऽहमुच्यते |
सहङ्कारः पुमान् प्रोक्तः स इति प्रकृतिः स्मृता |
अजपेयं मता शक्तिस्तथा दक्षिणवाम्तः |
बिन्दुर्दक्षिणभागस्तु वामभागो विसर्गकः |
तेन दक्षिणवामाख्यौ भागौ |
पुंस्त्रीविशितौ |
बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता |
पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् |
पुंरूपा सा विदित्वास्रं सोऽहंभावमुपागता |
स एव परमाख्योऽयं मनुरस्य महात्मनः |
सकारञ्च हकारञ्च लोपयित्वा प्रयोजयेत् |
सन्धिर्वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् |
ताराद्विभक्ताच्चरमांशतः स्युर्भूतानि खादीन्यथ मध्यमांशात् |
इनादितेजांसि च पूर्वभावात् शब्दाः समन्त्राः प्रभवन्ति लोके |
समस्ता इत्यपि क्वचित् पाठः |
विश्वसारे द्वितीयपटलेऽपि ||
हंसौ तत्र समुद्भूतौ पुंस्त्रियौ तत्र सन्मतौ |
हं तत्र पुरुषः प्रोक्तः सकारः प्रकृतिः स्मृतः |
ताविमौ सकलं विश्वं व्याप्तौ च कृतकोऽनलम् |
कृतको भस्म |
यथानलमग्निं व्याप्तस्तथा इमौ विश्वं व्याप्तावित्यर्थः |
अग्निर्माणवक इत्यादिवदुपमासूचकशब्दमन्तरेणापि उपमाप्रतीतिः |
यदा तद्भावमाप्नोति तदा सोऽहमिति स्मृतः |
स एव परमं ब्रह्मकूटस्थो जगदङ्कुरः |
सर्वे देवास्तथा वेदा दिग्वातार्कादयस्तथा |
त्रुट्या दिक्कालकल्पाश्च तत्तदेव तथात्मकम् |
यस्मिंश्च प्रलयं यान्ति वाङ्नाशे जगदीश्वरि ! |
यस्मिन् सृष्टिः सदैवैति यस्मिन्नद्यापि तिष्ठति |
स एव परमं ब्रह्म सोऽहंभावेन जायते |
सहवर्णौ विलुप्याथ सन्धिवर्णं दिशेद्यद |
प्रणवः सर्ववर्णेषु कथितः पद्मयोनिना |
परानन्दमयं ब्रह्म शब्दब्रह्मविभूडितम् |
आत्मनो देहमध्ये तु सर्वमन्त्रात्मकं प्रिये ! ||
इति रुद्रजामले उत्तरखण्डे द्वाविंशतिपटले च ||
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णिमहेश्वराः |
मम विग्रहसंकॢप्ता सृजत्यवति हन्ति च |
प्रणवादुद्भवा एते योगविघ्नकराः सदा |
अकारं ब्रह्मणो वर्णं शब्दरूपं महाप्रभम् |
प्रणवान्तर्गतं नित्यं योगपूरकमाश्रयेत् |
उकारं वैष्णवं वर्णं शब्दभेदिनमीश्वरम् |
प्रणवान्तर्गतं सत्त्वं योगकुम्भकमाश्रयेत् |
मकारं शाम्भवं रूपं जीवभूतं विधूद्गतम् |
प्रणवान्तःस्थितं कालं लयस्थानं समाश्रयेत् |
वर्ण एष विभागेन प्रणवं प्रैकल्पितम् |
प्रणवाज्जायते हंसो हंसः सोऽहं परो भवेत् |
सोऽहं ज्ञानं महाज्ञानं योगिनामपि दुर्लभम् |
निरन्तरं भावयेद्यः स एव परमो भवेत् |
हं पुमान् स स्वरूपेण चन्द्रेण प्रकृतिस्तु सः |
एतद्धंसं विजानीयात् सूर्यमण्डलभेदकम् |
विपरीतक्रमेणैव सोऽहंज्ञां यदा भवेत् |
तदैव सूर्यगः सिद्धो वासुदेवप्रपूजितः |
हकारार्णं सकाराणार्णं लोपयित्वा ततः परम् |
सन्धिं कुर्यात्ततः पश्चात् प्रणवोऽसौ महामनुः |
इति प्रणवतः सर्वेषामक्षरादीनामाविर्भावदर्शनाच्च |
अत एव सर्वजीवोत्पादक इति वर्णाभिधाने प्रवणवस्य नाम वक्ष्यति ||
अथ प्रणवस्य ब्रह्मवाचकत्वं न तु ब्रह्मत्वमुक्तम् सृष्टिप्रपञ्चस्तु अकारोकारमकारनादबिन्दुरूपप्रणवावयवपञ्चकवाच्यब्रह्मविष्णुरुद्रशक्तीश्वरेभ्य अः एवेति ||
अत एव समस्तं व्यस्तं त्वां शरणद ! गृणात्योमिति पदमिति पुष्पदन्तेनाप्युक्तम् |
अन्यत्रापि पाच्यन्तु परमं ब्रह्म प्रणवो वाचकः स्मृतः इति |
वाच्यस्य ब्रह्मत्वमुक्तम् |
न तु वाचकस्य प्रणवस्य इत्यतो वर्णस्यानित्यत्वमिति चेन्न कल्पसूत्रविरोधात् तत्तत्सूत्रञ्च वर्णात्मका नित्याः शब्दाः इति |
अयमाशयः |
शब्दोहि द्विविधो ध्वन्यात्मको वर्णात्मकश्च |
तत्र ध्वन्यात्मकोऽनुपलभ्यमानत्वादनित्य इति केचिति |
ते तु मृदङ्गाद्याघातोद्भवमेव ध्वनिं मन्यमाना वर्णात्मकस्य न ध्वनित्वमिति वदन्ति तदतीव मन्दं तथा हि |
ध्वनिर्द्विविधस्तरङ्गनिभः कदम्बकोरकनिभश्च |
आद्यः समीपवर्त्तिनमात्मस्वरूपं तरङ्गन्यायेन क्रमशः प्रतिवर्णं परिबोध्याभिधेयं प्रतिपादयति |
द्वितीयस्तु कदम्बकोरकवदव्यक्तरूपेण दूरवर्तीनमात्मानमेव प्रतिबोधयति नाभिधेयं यथा हट्टादिरव इति |
वर्णात्मकस्तु नित्य एव तदुक्तं मातृकोदये ||
वेदानामीश्वरः कर्त्ता पुराणानां महर्षयः |
यन्नास्याः श्रूयते कर्ता स्वयम्भूर्मातृका ततः ||
जामलेऽपि ||
ब्रह्मत्वं ब्रह्मणा प्राप्तं विष्णुत्वं विष्णुना स्वयम् ||
पराक्रमेऽपि |
धन्यैर्माहेश्वरैः स्वार्थप्रत्यभिज्ञानशालिभिः |
स्वपरिज्ञानमात्रेण जीवन्मुक्ता भवन्ति हि |
इत्यनेन मन्त्राणां नित्यता दर्शिता |
इति कुलमूलावतारकल्पसूत्रटीकायां शङ्कराचार्यपादैर्व्याख्यातम् |
वस्तुतस्तु वाच्यस्य परमब्रह्मत्वं न तु ब्रह्मत्वमिति पुरैवोक्तम् |
नन्वपौरुषेयाणि वेदवाक्यानीति वेदे कर्त्तुरभावादिति चोक्तवाक्याभ्यां वेदस्य नित्यता दर्शिता |
तर्हि कथं वेदानामीश्वरः कर्तेति |
वेदस्य जन्यता वक्ष्यमाणवेदादिवीजमित्यादिवचनैस्तावन्मन्त्राणां जन्यत्वान्मन्त्राणां नित्यतेति च सङ्गच्छत इति चेत् सत्यम् |
ईश्वरस्य प्रकाशकत्वेन वेदानां कर्त्तृत्वमङ्गीक्रियते न तूत्पादकत्वेन |
तथा च |
बृहन्नीलतन्त्रे चतुर्थपटले ||
वेदं ब्रह्मेति साक्षाद्वै जानीहि नगनन्दिनि ! |
स्वयं प्रवर्तते वेदस्तत्कर्त्ता नास्ति सुन्दरि ! |
स्ववम्भुवे भगवता वेदो गीतस्तथा पुरा |
शिवाद्या ऋषिपर्यन्ताः स्मर्त्तारोऽस्य न कारकाः |
प्रकाशका भवन्त्येव कृष्णाद्यास्त्रिदिवौकस इति ||
यत्तु नारदपञ्चरात्रे प्रथमरात्रे त्रयोदशाध्याये सावित्रीस्तुतौ ||
सावित्री वेदमाताऽहं वेदानां जनको विधिः |
तमेव धातुर्धातारं नमामि त्रिगुणात् परम् |
इति वचनेन न तस्य सावित्रीमातृकत्वं विधिजनकत्वञ्चोक्तम् |
तदपि अस्याः सङ्गं समासाद्य वेदविस्तारणं कुर्विति प्रागुक्तवचनेनैकवाक्यतया विस्तारकारकत्वेन अवधारणीयम् |
अन्यथा तेने ब्रह्महृदेति भागवतप्रथमश्लोकस्य वेदान युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः |
प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहितायेति पञ्चमस्कन्धाष्टादशाध्यायोक्तश्लोकस्य वैयर्थ्यं स्यात् |
स्वयं वेदजनकस्य ब्रह्मणोऽन्यस्माच्छिक्षणमन्यस्यायाच्ञाप्राप्तिर्न सम्भवतीति |
अभियाच्यमानब्रह्मार्थं तमसा दैत्यरूपेण तिरस्कृतानपहृतान् वेदान् नृतुरङ्गविग्रहो हयग्रीवमूर्तिः सन् रसातलात् प्रत्याददे प्रत्युज्जहार्त्यन्वयः |
तर्हि कथं षष्ठस्कन्धे प्रथमाध्यायै |
वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रूम |
इत्यत्र श्रीधरस्वामिना व्याख्यातम् |
वेदो नारायणादुद्भूतः स एव साक्षादुपचार इति स्वयम्भूरिति निश्वासमात्रेण स्वयमेव भवति तथा च श्रुतिः |
अस्य महतोभूतस्य निश्वसितमेतद्यदृग्वेद इति ||
कामधेनुतन्त्रेऽपि ||
अकारादिक्षकारान्ता स्वयं परमकुण्डली |
सर्वं चराचरं विश्वं वर्णात्मा सूयते ध्रुवम् |
नानाशास्त्रं पुराणञ्च इतिहासञ्च सुन्दरि ! |
वेदञ्च स्मृतिशास्त्रञ्च अन्यानि यानि कानि च |
अक्षराज्जायते सर्वं परं ब्रह्ममयं प्रिये ! |
इति वचने कुण्डली वेदं सूयत इति वक्ष्यमाण धामत्रयं सा वेदानामित्यादिश्रुत्यष्टादशविद्या इत्यादि च सङ्गच्छते |
सत्यं वेदान्तमतमाश्रित्य तत् सर्वं समाधेयम् |
तन्मतन्तु केवलमीश्वरं विना सर्वेषामनित्यत्वम् |
अपौरुषेयाणीत्यादि भीमांसकमतानुसारेणोक्तमिति |
सर्वमनवद्यम् |
वस्तुतस्तु सर्ववेदमयी देवी सर्वमन्त्रमयी तथेत्यादि वक्ष्यमाणशारदोक्तकुण्डलिन्याश्चैतन्यरूपायाः शब्दब्रह्मत्वेन निरूपितायाः शब्दार्थोभयरूपिण्या वेदादिमयत्वेन वेदानां मन्त्राणाञ्च नित्यत्वमेव प्रमाणम् |
तर्हि उक्तश्रुतेः का गतिरिति चेत् न |
महतो भूतस्य विराड्मूर्तेरीश्वरस्य निश्वसितं वेद इत्यर्थे वेदस्य जन्यत्वं नायातम् |
यदि च श्रीधरस्वामिव्याख्यावलम्बिभिर्जन्यत्वमङ्गीक्रियते तदा परमेष्ठिनो निश्वासद्वारेणाविर्भूतस्य भगवतो वराहमूर्तेः परमेष्ठिजन्यत्वं स्यात् |
तत्प्रमाणन्तु तृतीयस्कन्धे त्रयोदशाध्याये परमेष्ठी त्वपां मध्ये तथा मग्नामवेक्ष्य गामित्युपक्रम्य यस्यास्मि हृदयादासं स ईशो विदधातु मे |
इत्यभिध्यायतो नासाविवरात् सहसानघ ! |
वराहतो को निरगादङ्गुष्ठपरिमाणकः |
तस्याभिपश्यतः स्वस्थः क्षणेन किल भारत ! |
गजमात्रः प्रववृधे तदद्भतमभून्महत् |
इति मैत्रेयवचनम् |
इति नानाशास्त्रोत्पत्तिकथनम् |
ग्रहादीनामपि वर्णादुत्पत्तिरुक्ता ||
प्रपञ्चसारे चतुर्थपटले ||
तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः |
चवर्गप्रभः काव्यष्टवर्गादुबुधसम्भः |
तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः |
यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ||
विश्वसारतन्त्रे अन्तमातृकासम्भववर्गाधिष्ठातृदेवतात्वं ग्रहाणामुक्तम् ||
यथा |
सप्तवर्गस्य देवेशि ! देवताः कथयामि ते |
रक्तवर्णो भूमिपुत्रः कवर्गदेवता मता |
काव्यष्टवर्गस्य विभुश्चवर्गस्य बुधः स्मृतः |
तवर्गस्य सुराचार्यः पवर्गस्य शनैश्चरः |
यवर्गस्य तथा चन्द्रः स्वराणां देवता रविरिति ||
प्रपञ्चसारे ||
अस्या विकारवर्णेभ्यो जाता द्वादश राशयः |
लवादिकालोपचितैस्तैः स्याच्चक्रगतिक्रिया |
ऋक्षराश्यादिषु तथा चक्रगत्या जगत्स्थितिः |
वक्ष्यामि चक्ररूपञ्च प्रबद्धं राशिभिर्यथा |
अन्तर्वहिर्विभागेन रचयेन्द्राशिमण्डलम् |
भूचक्र एव मेषादिः प्रविज्ञेयोऽथ मानुषः |
आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रतीयते |
ऋकारान्तैरॢकारान्तर्वृषो युग्मं ततस्त्रिभिः |
ततो मेषराश्युद्भवात् परं ऋकारान्तैस्त्रिभ्रिवृषो जात एवं ऌकारान्तैस्त्रिभिर्मिथुनमित्यन्वयः ||
एदौतोः कर्कटो राशिरोदौतोः सिंहसम्भवः |
अमः शवर्णकेभ्यश्च सञ्जाता कन्यका मता |
षड्भ्यः कचटतेभ्यश्च पयाभ्याञ्च प्रजज्ञिरे |
वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् |
चतुर्भिर्यादिभिः सार्द्धं स्यात् क्षकारस्तु मीनगः ||
इति वर्णतो राशिसृष्टिकथनम् ||
क्षेत्राधिपोऽपि तत्रिअव ||
अङ्गाराब्जकवृश्चिकौ चतुले शुक्रस्य युक्कन्यके बौधे कर्कटकाह्वयो हिमरुचः सिंहास्तथा गोपतेः |
चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मन्दग्रहाः प्रोक्ता राश्यधिपा वलौ च कलसे सोऽयं क्रमो दर्शितः |
इति राश्यधिपकथनम् ||
ततस्तदूर्द्धभास्थो भुवश्चक्रसमस्तथा |
स तु सिंहादिको यस्मिन् पैतृकी नियता गतिः |
तदूर्द्धभागसंस्थश्च स्वश्चक्रश्चापि तादृशः |
स तु चापादिको देवचक्रस्त्रैनाभिकस्त्वयम् |
इति त्रिभुवनराशिचक्रकथनम् ||
तथा एभ्य एव तु राशिभ्यो नक्षत्राणाञ्च सम्भवः |
स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् |
आभ्यामश्वयुजा जाता भरणी कृत्तिका पुनः |
लिपित्रयाद्रोहिणी च तत्परत्वाच्चतुष्टयात् |
एदैतोर्मृगशीर्षार्द्रे तदन्ताभ्यां पुनर्वसुः |
अमसोः केवलो योगो रेवत्यर्थं पृथग् गतः |
कतस्तिष्यस्तथाश्लेषः खगयोर्घङयोर्मघा |
ततः पूर्वात्तछजयोरुत्तराज्झञयोस्तथा |
हस्ताचित्रा च टठयोः स्वाती डाद्यक्षरादभूत् |
विशाखातु ढणोद्भूता तथदेभ्योऽनुराधिका |
ज्येष्ठाधकारान्मूलाख्या नपफेभ्योऽभवत्तथा |
पूर्वाषाढा ततोऽन्या च सञ्जाता श्रवणा मता |
श्रविष्ठाख्या च यवयोस्तथा शतभिषा ततः |
वशयोः प्रोष्ठपत्संज्ञा वसहेभ्यः पराः स्मृताः |
इति वर्णतो नक्षत्रसृष्टिकथनम् |
ताभ्याममाभ्यां क्षार्णोऽयं यदा वै सह वत्स्यते |
तदेन्दुसूर्यसंयोगोऽमावस्या हि प्रतीयते |
कषतो भवमस्मत्तः कषयोः सङ्गमोभवः |
ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता |
स पुनः षसहैः सार्द्धं परा प्रौष्ठपदं गतः |
इत्यमावास्योत्पत्तिकथनम् |
अनुनक्षत्रवारेषु स्वस्वमन्त्रजपोऽपरः |
तस्मादेषां दिनानाञ्च कथ्यते देवतादयः |
इति नक्षत्रवारे जपकथनम् ||
कारस्कराख्यामलकोडुम्बरो जम्बुसंज्ञकः |
खदिरः कृष्णवशौ च पिप्पलो नागरीहिणौ |
पलाशप्लक्षकाम्बोष्ठधियार्जुनविकङ्ककाः |
वकुलः सरजां सर्जो वञ्जुलः पनसाककौ |
शमीकदम्बनिम्बाम्रमधुकान्तादिनाङ्घ्रिपाः |
आयुष्कामः स्वर्क्षवृक्षं छेदयेन्न कदाचन |
इत्यत्र स्वार्थहेतूभयवाचकः |
न छिन्द्यान्न छेदयेदित्यपि ||
इति स्वीयनक्षत्रवृक्षच्छेदननिषेधः ||
अश्वियमानलधातृशशिरुद्रादिति सुरेज्यासर्पाश्च |
पित्रर्यमभगदिनकृत्त्वष्टारो मरुतस्तथेन्द्राग्नी |
मित्रेन्द्रौ तथा निर्-ऋतिजले विश्वदेवा हरिस्तथा वसवः |
वरुणोऽजपादोऽहिव्रध्नः पूषा च देवता भानाम् ||
इति नक्षत्रदेवताकथनम् ||
अश्वेभाजभुजङ्गसर्पसवमामार्जारकाजः कुली मूषा मूषिकरुद्रयानमहिषीव्याघ्रायमारोहणः |
व्याघ्रेणीहरिणीश्वरानरपशुः शाखामृगास्त्रीहयः |
मर्त्यो गोकरिणी च साधुकथिता नक्षत्रयोन्यः क्रमात् ||
इति नक्षत्रयोनिकथनफलम् |
गोव्याघ्रं गजसिंहमश्वमहिषं श्वैनञ्च वभ्रूरगम् |
वैरं वानरमेषकञ्च सुमहत्तद्वद्विडालोन्दुरु |
लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रयत्नादिदम् |
दम्पत्योर्नृपभृत्ययोरपि सदा वर्ज्यं शुभस्यार्थिभिः |
शाश्वतिकवैरितया द्वन्द्वे एकत्वं नपुंसकत्वञ्च ||
एतेभ्योऽभावास्यान्ताः प्रतिपदादिकास्तिथयः ||
राशिभ्योऽत्र तिथीनाममध्यर्द्धद्वयन्तु राशिरेकः स्यात् |
तेन त्रिंशत्तिथयोद्वादश भेदतो भिन्नाः |
ता एव स्युर्द्वेधा पुनरपि पूर्वान्त्यपक्षभेदेन ||
पक्षः पञ्चदशाहः स्यात् पूर्वः प्रतिपदादिकः शुक्लः |
तद्वज्ज्ञेयोऽप्यपरः पक्षः कृष्णप्रतिपदादिकः प्रोक्तः |
इति पक्षोत्पत्तिकथनम् |
संज्ञासाम्ये सत्यपि सौम्यात्तु ह्नासवृद्धितस्तिथयः |
न समाः पक्षद्वितये त्रिंशद्भेदं तथापि प्राप्ताः |
अग्न्यश्व्युमाः सविघ्ना नागा गुहसवितृमातरो दुर्गा |
ककुभो धनपतिविष्णुयमहरपतिचन्द्राः क्रमेण तिथ्यधिपाः |
इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे शब्दार्थस्वरूपब्रह्मकथनगर्भाक्षरजातजगत्कथनं नाम द्वितीयः परिच्छेदः ||
एवं प्राधान्यद्योतनाय प्रथमोद्दिष्टापरान्ता शब्दसृष्टिरुक्ता शरीरसृष्टिमन्तरेण पश्यन्त्याद्या वक्तुमशक्या इति तां वक्तुमथ सृष्टिमारभते |
शारदातिलकप्रथमपटले आचार्यः ||
अथ विन्द्वात्मनः शम्भोः कालबन्धोः कलात्मनः |
अजायत जगत्साक्षी सर्वव्यापी सदाशिवः |
सदाशिवाद्भषेदीशस्ततो रुद्रः समुद्भवः |
ततो विष्णुस्ततो ब्रह्मा तेषामेवं समुद्भवः |
अत्रार्थ सृष्टौ पुनरुद्रादीनामुत्पत्तिस्त्वर्थरूपेण पूर्वं तेषामुत्पात्तः शब्दरूपेणातो न पौनरुक्त्यमिति |
कला माया तदात्मनस्तदुत्पन्नत्वात् |
कालबन्धोरित्यनाद्यन्तकाले सृष्टिरूपकालसहायान्नादात्मन इत्यर्थः |
अनेन विशेषणद्वयेन प्रकृतेः कालस्य च महाप्रलयेऽप्यवस्थानमुक्तम् |
अत एवानयोरापेक्षिकनित्यता पुरुषस्य स्वतो नित्यत्वं सर्वविनाशस्य पुरुषावधित्वादिति |
अत एव विश्वसारे |
निमेषाद्यास्तथा माया दिवसाश्च तथा निशाः |
पक्षा मासाश्च ऋतवश्चायनं वत्सरस्तथा |
युगञ्च युगमानञ्च तथा मन्वन्तराणि च |
महाप्रलयपर्यन्तं सर्वं विन्द्वात्मकं स्मृतम् |
इत्यनेन सृष्टिरूपकालस्य लय उक्तः |
किन्तु महाप्रलये कालबन्धोरिति बन्धुशब्देन कालस्य निमित्तत्वं सूचितम् |
तथा च राघवभट्टधृतम् ||
लवादिप्रलवान्तो यस्तमःशक्तिविजृम्भितः |
निमित्तभूतः कालोऽयं भावानां जनुराशयोरिति लवादिमानमपि ||
प्रपञ्चसारे प्रथमपटले ||
नलिनीपत्रसंहत्यां सूक्ष्मसूचिविभेदने |
दले दले तु यः कालः स कालोलवसंज्ञकः |
लवैस्त्रूटिः स्यात्त्रिंशद्भिः कलां तावत् त्रुटिं विदुः |
काष्ठा तावत् क्रमाज्ज्ञेया तावत् काष्ठा निमेषकः |
सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिश्च तैः स्मृता |
कालेन यावतास्वीयो हस्तः स्वं जानुमण्डलम् |
पर्येति मात्रा सा तुल्या स्वयैकश्वासतुल्यया |
षष्ट्युत्तरैस्तु त्रिञ्चतेनिश्वासैर्घटिका स्मृता |
द्विनाडिका मुहूर्त्तः स्यात् त्रिंशद्भिस्तैरहर्निशम् |
त्रिंशद्भिस्तैरहोरात्रैर्मासो द्वादशभिस्तु तैः ||
सम्बत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् |
तथा दिव्यैरहोरात्रैश्त्रिशतैः षष्टिसंयुतैः |
दिव्यः सम्वत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः |
भवेत् द्वादशसाहस्र्यैर्भिन्नैरेकं चतुर्युगम् |
तैः सहस्रैः शतानन्द ! तवैकं दिनमिष्यते |
तावती तव रात्रिश्च कथिता कालवेदिभिः |
तथाविधैरहोरात्रैस्त्रिंशद्भिर्मासमृच्छसि |
तथाविधैर्द्वादशभिर्मासैरब्दस्तव स्मृतः |
तथाविधानामब्दानां शतं त्वमपि जीवसि |
त्वदायुर्मम निश्वासः कालेनैवं प्रचोद्यते |
इति |
तिथितत्त्वे संक्रान्तिप्रकरणघृस्मृतौ तु |
लघ्वक्षरचतुर्भागस्त्रुटिरित्यभिधीयते |
त्रुटिद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम् |
अष्टादशनिमेषास्तु काष्ठेत्यादि सम्बर्त्तः प्रलयः कल्प इत्यन्तो यः कालोऽभिहितोऽमरसिंहेन तस्य निमित्तत्वं पूर्ववचनेन दर्शितम् |
मेरुतन्त्रे प्रथमोद्देशेऽपि |
इन्द्रायुः-
परिमाणं प्रकारान्तरेणोक्त्वा एवमिन्द्रैरिन्द्रसंख्यैर्ब्रह्मणो दिनमुच्यते |
या ध्यायते महामाया मया तच्छासनिर्गमः |
इन्द्रसंख्यैञ्चतुर्दशसंख्यैरित्यर्थः |
प्रपञ्चो ब्रह्मदिवसः कुम्भको रात्रिरस्य तु |
एवं तस्या घटिकया वर्षमेकं विधेः स्मृतम् |
घटीशतमितं तस्या ब्रह्मा जीवति कीटवत् |
पक्षमेकं सतीरूपा शुक्लं कृष्णन्तु पार्वती |
ऋतुमात्रं हरिर्जीवेद्वर्षमेकं सदाशिवः |
एवं सा शतवर्षा वै महाकाल्स्य गेहिनी |
सर्पकञ्चुकवद्देहं त्यक्त्वा त्यक्त्वा पुनर्नवा इति कालनिरूपणम् |
एवं प्रकृतायामर्थसृष्टौ तत्त्वसृष्टिं वक्तुमुपक्रमते |
शारदायां प्रथमपटले तु |
मूलभूतादतो व्यक्ताद्विकृतात्परवस्तुनः |
असीत् किल महत्तत्त्वं गुणान्तःकरणात्मकम् ||
शब्दब्रह्मणो विकृतात् सृष्ट्युन्मुखान्महत्तत्त्वमासीदुत्पन्नमित्यन्वयः |
सर्वसृष्टिर्मूलरूपादत एव परवस्तुनोऽव्यक्ताद्बिन्दुरूपादिति वा |
किम्भूतं सत्त्वरजस्तमोगुणात्मकम् |
मनो बुद्ध्यहङ्कारचित्तरूपान्तःकरणचतुष्टयमेकञ्च तत्कारणमित्यभिप्रायः |
कारणे कार्योपचारात्तदात्मकत्वमिति |
श्रुतिरपि प्रकृतेर्महान् महतोऽहङ्कार इति |
राघवभट्टधृतवामकेश्वरतन्त्रेऽपि ||
अव्यक्तविग्रहात् शब्दब्रह्मणः सर्वकारणम् |
व्यक्तसत्त्वगुण वक्तुं बुद्धितत्त्वमजायत |
सांख्यमते महत्तत्त्वस्य बुद्धितत्त्वमिति संज्ञा |
शारदायां प्रथमपटले ||
अभूत्तस्मादहङ्कारस्त्रिविधः सृष्टिभेदः |
वैकारिकादहङ्काराद्देवा वैकारिका दश |
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः |
तैजसादिन्द्रियाण्यासंस्तन्मात्राक्रमयोगतः |
भूतादिकादहङ्कारात् पञ्च भूतानि जज्ञिरे ||
राघवभट्टधृतमपि ||
सोऽहङ्कारस्त्रिभेदः स्यात् सत्त्वादिगुणभेदतः |
वैकारः सात्त्विको नाम तैजसो राजसः स्मृतः |
भूतादिस्तामसस्ते च पृथक्तत्त्वाद्यवासृजन् |
अधिकेन व्यपदेशा भवन्तीति न्यायात् |
सात्त्विकादिविशेष उक्तः |
वस्तुतस्त्रिष्वेव न्यूनाधिकरूपेण त्रयो गुणा वर्त्तन्ते शिवशक्त्यात्मकादावपि तथानुसन्धेयम् |
वैकारिकादिन्द्रियाधिष्ठातारश्चन्द्रश्च |
तैजसात् पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्च |
भूतादेस्तन्मात्राणि जज्ञिरे ||
तथा च राघवभट्टधृतम् ||
वैकारिकाद्दिगाद्याश्च चन्द्रेणैकादश स्मृताः |
इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिताः |
यच्चापरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् |
तैजसादेव तज्जातिमिन्द्रियाणि तथा दश |
भूतादेः पञ्च तन्मात्राणि आसन् भूतमतः परम् ||
तन्मात्राणि च शब्दस्पर्शरूपरसगन्धाः ||
शब्दतन्मात्रादाकाशम् |
शब्दस्पर्शतन्मात्राभ्यां वायुः |
शब्दस्पर्शरूपतन्मात्रेभ्योऽग्निः |
शब्दस्पर्शरूपरसतन्मात्रेभ्यो जलम् |
शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो भूमिरुत्पद्यते ||
तदुक्तं प्रथमपटले ||
शब्दाद्व्योमस्पर्शतस्तेन वायुस्ताभ्यां रूपाद्वह्निरेतै रसाच्च अम्भांसि एतैर्गन्धतो भूर्धराद्या भूताः पञ्च स्युर्गुणिनाः क्रमेण ||
ब्रह्मज्ञानतन्त्रनिर्वाणतन्त्रयोस्तु ||
आकाशाजायते वायुः वायोरुत्पद्यतेः रवि रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही |
मही संलीयते तोये तोयं संलीयते रवौ |
रविः संलीयते वायौ वायुर्नभसि लीयते |
पञ्चतत्त्वाद्भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते ||
श्रुतौ च ||
तस्मात् ब्रह्मण आकाशः सम्भूत आकाशाद्वायुर्वायोस्तेजस्तेजस आपोऽह्न्यः पृथिवी पृथिव्या ओषधय ओषधिभ्योऽन्नान्निति भूतमात्राद्भूतसृष्टिरुक्ता ||
इति पञ्चभूतोत्पत्तिलयप्रकारः |
तार्किकास्तु आकाशादीनां शब्दादयो गुणा इत्याचक्षते |
सांख्या अपि शब्दो गुणो वियतः शब्दस्पशौ वायोस्तौ च रूपञ्चाग्ने रसेन सह तानि जलस्य गन्धेन सह तानि पृथिव्या इति ||
राघवभट्टधृतेशान-संहितायामपि |
शब्देकगुणमाकाशं शब्दस्पर्शगुणो मरुत् |
शब्दस्पर्शरूपगुणं तेजस्त्रिगुणमिष्यते |
शब्दस्पर्शरूपरसगुणा आपश्चतुर्गुणाः |
शब्दस्पर्शरूपरसगन्धेः पञ्चगुणा महीति |
वस्तुतस्तु पञ्चीकरणरूपेण पञ्चसु प्रत्येकेषु पञ्चगुणाः सत्त्वादित्रिगुणवत् सन्ति अतो नासिकादिषु पृथिव्यादीन्द्रियेषु कट्वस्त्रादि प्रतीयते |
इति पञ्चभूतगुणकथनम् ||
भूतमण्डलानि शारदातिलके प्रथमपटले ||
वृत्तं दिवस्तत् षड्बिन्दुलच्छितं मातरिश्वनः |
त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्वेन्दुसंयुतम् |
अम्भोजमम्भसो भूमेश्चतुरस्रं विदुर्बुधाः ||
प्रपञ्चसारेऽपि |
वृत्तं व्योम्नो बिन्दुषट्कान्वितं तद्दुवायोरग्नेः स्वस्तिकोद्यत्रिकोणम् |
अब्जोपेतार्द्धेन्दुमद्विम्बमाप्यं स्याद्वज्रोद्यद्वृत्तिरस्रं धरायाः |
यद्वा विश्वसारे ||
आकाशमण्डलं प्रोक्तं वर्त्तुलं सर्वसम्मतम् |
षट्कोणमण्डलं वायोस्त्रिकोणन्तु विभावसोः |
अष्टास्रं वरुणस्यापि चतुरस्रं धरामुतम् |
इति वेति कृत्वा मतत्रयं तत्र लिखितम् |
एतत् प्रयोजनन्तु प्रश्ने आकृतिज्ञानम् |
प्राणायामभूतोदययोः प्रत्यक्षदर्शनम् |
षट्कर्मसाधनञ्च सर्वमग्रे वक्ष्यते ||
इति भूतमण्डलानि ||
भूतरूपाण्यपि शारदायाम् ||
स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निर्विषदं पयः |
पीता भूमिः पञ्चभूतान्येकैकाधारतो विदुः ||
स्वच्छं स्वेतमिति राघवभट्टः |
विषदं श्वेतम् ||
तथा च प्रपञ्चसारे ||
खमपि शुषिरचिह्नं समीरणः स्याच्चलनपरः परिपाकवान् कृ:शानुः |
जलमपि रसवद्घना धरा ते सितसितिपाटलशुक्लपीतभासः |
शुषिरं छिद्रम् |
सितिः कृष्णः |
वस्तुतस्तु स्वच्छं निर्मलं नीलमिति यावत् |
प्रश्नप्रकरणे स्पष्टीभविष्यति ||
तन्मते सित इत्यत्राकारप्रश्नेषेणासित इति |
छिद्रादिभिः खादयो ज्ञायन्त इति तात्पर्यम् |
एकैकाधारत इति स्वस्वकारणाधाराणीत्यर्थः ||
सूर्याचन्द्रोक्तभूतपञ्चकात्मक चतुर्विधदेहसृष्टिस्तु ||
विश्वसारतन्त्रे प्रथमपटले ||
पृथिव्या श्रीषधिर्जाता ओषधेरन्नमेव च |
तस्माद्भवेत्तदा देवि ! रेतः सर्वसुखावहम् |
रेतसस्तु भवेद्देवि ! ब्रह्माण्डं शशिसूर्ययोः |
शशिसूर्यात्मकं सर्वं चराचरमिदं जगत् |
चरं जङ्गममचरं स्थावरं ||
शारदातिलके प्रथमपटले ||
पञ्चभूतात्मकं विश्वं चराचरमिदं जगत् |
अचरा बहुधा भिन्ना गिरिवृक्षादिभेदतः |
चरास्तु त्रिविधा भिन्नाः स्वेदाण्डजजरायुजाः |
पञ्चभूतात्मकमित्यनेन त्रिवृत्करणपक्षः पञ्चीकरणपक्षोऽपि सूचित इति |
तत्र ये तैजसा देवास्तेषामपि शरीरे अर्द्धो भागस्तेजसः |
चतुर्थांशः पृथिव्याश्चतुर्थांशो जलस्येति त्रिवृत्करणपक्षः ||
पञ्चीकरणपक्षे तु तेजसश्चत्वारींऽशा अन्येषामष्टमोऽष्टमोऽंशा एवमन्यत्रापि |
तदुक्तं पञ्चदश्यां पञ्चमप्रकरणे तत्त्वविवेके |
स्थूलशरीराद्युत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाह |
तद्भोगाय पुनर्भोग्यभोगाय तनुजन्मने |
पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् |
भगवानैश्वर्यादि गुणषट्कसम्पन्नः |
ऐश्वर्यादिगुणषट्कञ्च समग्रैश्वर्यवीर्ययशःश्रीज्ञानवैराग्यरूपमुक्तञ्च |
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः |
ज्ञानवैराग्ययोश्चैव षणां भग इति स्मृतिः |
समरस्येत्यनेनानाणिमाद्यैश्वर्याष्टकं सूचितमतस्तमोगुणात्मकेश्वरादधिकगुणतया भगवतः समसत्त्वादित्रिगुणात्मकत्वेनाधिक्यमायातम् |
न तु सत्त्वमात्रप्रधानगुणात्मकस्य भगवदिति नामधेयम् |
तथात्वे त्रिगुणात्मिकाया भवत्यास्तदभिधानं नोपपद्यत इति सुधीभिर्भाव्यम् |
परमेश्वरः पुनः पुनरपि तद्भोगाय तेषां जीवानां भोगायैव भोग्यभोगाय तनुजन्मने भोग्यस्यान्नपानादेर्भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूत पञ्चकं प्रत्येकमेकैकं पञ्चीकरोति |
अपञ्चात्मकं पञ्चात्मकं सम्पद्यमानं करोति |
द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः |
स्वस्वेतरद्वितीयांशैर्योजनात् |
पञ्चपञ्चतेति |
अथ वा षडंशास्तेजसः पृथिवीजलवायवाकाशानां दशमो दशमोऽंशः |
एवं पार्थिवे अस्मदादिशरीरेऽपि पृथिव्याः षड्भागाः |
जलादीनां दशमोदशमोऽंशस्तदुक्तं राघवभट्टधृतेन |
पृथिव्यादीनि भूतानि प्रत्येकं विभजेद्द्विधा |
एकैकं भागमादाय पञ्चधा विभजएत् पुनः |
एकैकं भागमेकैकभूतैः संवेशयेत् क्रमात् |
ततश्चाकाशभूतस्य स्वा भागाः षड्भवन्ति हि |
वायवादि भागाश्चत्वारो वायवादिष्वेव माविशेत् |
एवञ्च खेचराणामाकाशवायुभागाधिक्याद्वियति गतिर्गृहगोधिकादीनामाकाशभागाधिक्याद्भित्त्यादिगतिर्भूतादीनां वायुभागाधिक्यात् सर्वत्र गतिरस्थैर्यञ्चेति ||
इति पञ्चीकरणम् ||
प्रपञ्चसारप्रथमपटले ||
प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि |
देहश्चतुर्विधोभिन्नो जन्तोरुत्पत्तिभेदतः |
उद्भिदः स्वेदजोऽण्डाज्जश्चतुर्थस्तु जरायुजः |
गुणान्तःकरणात्मनि |
देहश्चतुर्विधोभिन्नो जन्तोरुत्पत्तिभेदतः |
उद्भिदः स्वेदजोऽण्डाज्जश्चतुर्थस्तु जरायुजः |
गुणान्तःकरणकारणे कालप्रेरितायां प्रकृतौ सत्यामुद्भिदादिचतुर्विध उत्पत्तिभेदतो जन्तोः शरीरिणो देहो भवतीत्यर्थः |
उद्भिदलक्षणमुक्तम् |
विश्वसारप्रपञ्चसारप्रथमपटले ||
उद्भिद्य भूमिं निर्गच्छेदुद्भिदः स्थावरस्तु सः |
निर्दिष्टः स्कन्धविटपपत्रपुष्पफलादिभिः |
एषामुत्पत्तिक्रकारस्तु राघवभट्टधृतेन |
उद्भिदाः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः |
तत्र सिक्ता जलैर्भूमिरन्तरुष्मा विपाचिता |
वायुनाव्युह्यमाना तु वीजत्वं प्रतिपद्यते |
तथा चोक्तानि वीजानि संसिक्तान्यम्भसा पुनः |
उच्छूनत्वं मृदुत्वञ्च मूलभावं प्रयान्ति च |
तन्मूलादङ्कुरोत्पत्तिरङ्कुरात् पर्णसम्भवः |
पर्णात्मकं ततः काण्डं काण्डाच्च प्रसवं पुनः ||
इत्युद्भिदोत्पत्तिः ||
पापकर्माचरणे प्रेत्य स्थावरयोनिप्राप्तिर्मत्स्यसूक्ते सप्तविंशतिपटले ||
पापात्मा पितृदौहित्रमातृद्वेषी तु यूथिका |
पुत्रद्वेषी तु वरुणः कम्पदूषकनाशकः |
भूहर्त्ता कोद्रवो देवि ! तीर्थद्वेषी तु चैपकः |
भार्यायाः केशनिर्वापे दूर्वा भवति शङ्करि ! |
गोलोमदाही तु कृशो ब्रह्मद्वेषी वको भवेत् |
भार्याद्वेषी कुरुवको मिष्टभुक् तिन्तिडीभवेत् |
परान् वञ्चयित्वा स्वयमेव यो मिष्टं भुङ्क्ते स एव तिन्तिडी च तात्पर्यम् ||
ताम्रहर्ता तु पनसो महीहर्ता तथार्जनः |
परस्त्रीहरणे देवि ! बहुजो भवति ध्रुवम् |
गुरुद्वेषो सोमतरुः श्वश्रूद्वेषी जयन्तिका |
मातुः कलहसंयुक्तश्चोरवृक्षः प्रजायते |
स्वामिना कलहे देवि ! ब्रह्माख्यो जायते तरुः |
द्विभार्यश्चैकद्वेषी स्यात् चण्डालो जायते हि सः |
भार्याया वञ्चकश्चैव जायते करमर्दकः |
विभक्तधनहर्ता तु नीपो भवति निश्चितम् |
शस्यापहारी एरण्डो यज्ञद्वेषी धवी भवेत् |
परास्वी विफली देवि ! स्नुही सञ्जायते धुरुवम् |
सूचकोवासको देवि ! राजगामिनि पैशुने |
रामाख्यवासकोजातः कुद्दालश्चौरवृत्तिकः |
तैलहर्ता तिलतरुः सर्षप फलदूषकः |
परपुरुषगामिनी नारी दोद्रवोभवति ध्रुवम् |
मत्स्यद्वेषी पिचुवृक्षः पर्वगामी शिवामदः |
शिवामैथुनिनो विप्रो घटगृक्षो विजायते |
श्वशुरघ्नो नारिकेलः श्वश्रूहर्त्ता लता भवेत् |
परं पञ्चशिवावृक्षः श्यालद्वेषी जलं भवेत् |
सपत्नीपुत्रद्वेषी स्याद्धस्तूरो जायते प्रिये ! |
स्तनभेदी च पुरुषः अन्तर्भेदी च भेरुकः |
करमर्दः करच्छेदी जीवन्ती पादहा नरः |
भूतद्वेषी देवदारुर्नमेरुः शिशुनिन्दकः आम्लानशीलो बन्धूकः सन्ध्याहीनो जडो भवेत् |
अतिथिवञ्चकश्चैव शरो नाम प्रजायते |
पश्वण्डलोपकः पूगः पर्णो गोमूत्रनिन्दकः |
देवद्वेषी जातितरुः शङ्खद्वेषी तु मल्लिका |
व्रतद्वेषी पूततरुः सङ्कल्पभञ्जकश्च यः |
भवेत् सोमतरुर्देवि ! आश्रमस्य तु दूषकः |
कामवृक्षो भवेद्देवि ! गव्यत्यागी शतावरी |
भल्लातको ज्ञानहर्ता अयाज्ययाजको वरिः |
असत्प्रतिग्रहीता च अटसारो भवेत् ध्रुवम् |
राजस्वहरणाद्देवि ! भवेच्चाण्डालको ध्रुवम् |
देवदास्यास्तु हरणे कर्णिकारो विजायते |
जले निस्तारजादेव अशोको जायते प्रिये ! |
देवायतनभागादिभेदको धातकी भवेत् |
गृहद्वेषी तु जीवन्ती ब्रह्महानल एव हि |
अन्तहा सूतहा देवि ! तथा सर्वप्रदूषकः |
गिरिकर्णिकारो भवति भार्यात्यागी च भूरुहः |
योनिभेदी तु कदली बीजभेदी तु बीजकम् |
बीजहर्ता बीजमूलं कामहर्त्ता मयूरकः |
शिवद्वेषी भूवदरो मन्त्रद्वेषी जवा भवेत् |
पट्टहर्त्ता योगतरुर्वस्त्रहर्त्ता तु कासिका |
लौहहर्त्ता वटो देवि ! ताम्रहर्त्ता तु वीनशः |
कांसहर्त्ता रणतरुः रौप्यहर्त्ता तु शाद्वलः |
इत्यङ्गपापभेदे तु शतशोऽथ सहस्रशः |
स्थावरत्वं गमिष्यन्ति सर्वावस्थासु सर्वदा |
इति पापाद्वृक्षयोनिप्राप्तिः ||
पापेन जलत्वप्राप्तिरत एव ||
जलत्वं याति पापेन शैलत्वं याति शङ्करि ! |
तस्य पापस्य भेदेन जायते वर्णसङ्करः |
उदक्यागमने देवि ! नसीत्वं याति शङ्करि ! |
मिथ्यावभाषणादेव स्थावरत्वं जलं विदुः |
मातापित्रोर्गुरोरग्रे तडागस्य जलं भवेत् |
स्वाम्यग्रे च परोक्षे च या नारी मन्दचारिणी |
सा भवेद्गर्त्ततोयञ्च या शययां नारुहेत् पतेः |
सा मृतान्यद्भवेत्तोयं सत्यमेव मम प्रिये ! |
एकाशीत्या तथा षष्ट्या पञ्चविंशतिभिर्यदा |
तत्र तत्र विष्णुरूपं तोयं जानासि भाविनि ! |
अशीतिमात्रं सामुद्रे हस्तानाञ्च प्रमाणतः |
कलाहस्तो भवेद्यत्र द्वादशे पापवर्जितः |
अतोऽन्यत् पापसम्भूतिः स्वकालेनैव प्राप्स्यति ||
इति जलत्वप्राप्तिः |
तत्पापादनुसारेण प्रायश्चित्तं समाचरेत् |
शिवलिङ्गं समभ्यर्च्य स्थापयित्वा यथाविधि ||
चतुर्दश्यां निराहारो वृषस्थे भास्करे सिते |
पापक्षयं समुच्चार्य गाञ्च दद्याद्द्विजन्मने |
तेषां पापस्य शुद्ध्यर्थं प्रायश्चित्तमुदाहृतम् ||
इति तत्पापप्रायश्चित्तम ||
प्रपञ्चसारविश्वसारयोः ||
कृमिकीटपतङ्गाद्याः स्वेदजा नाम देहिनः |
तदुत्पत्तिप्रकारोऽपि तत्रैव ||
स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते |
यूकमत्कुणकीटाद्या ये चान्ये क्षणभङ्गुरा इति |
यूक उकनीति यस्य नाम मत्कुणश्छारपोकं इति यस्य प्रसिद्धिः ||
भूमेरन्तरुष्मविपाकेन वीजत्वं शास्त्रसिद्धम् ||
स्विद्यमानभूवह्निजलवक्वध्यस्तु स्वेदजोत्पत्तिः |
प्रत्यक्षसिद्धा यथा गोमयपुञ्जादेः कीटाद्युत्पत्तिरित्यनयोर्भेदः |
अण्डजजरायुजयोः शुक्रशोणितसंयोगेनोत्पत्तिस्तु ||
प्रपञ्चसारे ||
पण्डजो वर्त्तुलीभूतात् शुक्रशोणितसंयुतात् |
कालेन भिन्नात् पूर्णात्मा निर्गच्छन् प्रक्रमिष्यति |
अहिगोधावयो भेकशिशुमारादिकश्च सः |
राघवभट्टधृतम् |
अण्डजाः पक्षिणः सर्पा नक्रमत्स्याश्च कच्छपाः |
कुलीरगोधा भेकाद्याः शिशुमाराब्जसूक्तय इति |
अब्जः शङ्खः ||
इति तत्रापि किंवदन्ती |
अण्डं सूते गिलाहारश्चर्वाहारो जरायुजमिति ||
प्रायिकमेतल्लक्षणम् |
तथा रोमन्थायकजन्तोः स्याच्छृङ्गं नान्यस्य जन्मिन इत्यपि ||
शारदायाम् ||
जरायुजा मनुष्याद्या जनुर्नृणां निगद्यते ||
विश्वसारतन्त्रे द्वितीयपटले ||
मनुष्यसदृशं जन्म कुत्रापि नैव विद्यते |
देवता पितरः सर्वे वाञ्छन्ति जन्म मानुषम् |
दुर्लभो मानुषो देहः सर्वदेहेषु सर्वदा |
तस्माच्च मानुषं जन्म एतदुक्तं सुदुर्लभम् |
तत्रापि संशयच्चेता विशेषेण तु पार्वति ! |
मन्त्रतन्त्ररतः पुंसां सोऽपि चेदतिदुर्लभः |
तत्रागमविदः श्रेष्ठाः सर्वदेहेषु पूजिताः |
तत्रापि साधकः श्रेष्ठः सर्वतन्त्रेषु गोपितः ||
रुद्रजामले उत्तरखण्डे द्वितीयपटले ||
मानुष्यं सफलं जन्म सर्वशास्त्रेषु गोचरम् |
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् |
न मानुष्यं विनान्यत्र तत्त्वज्ञानन्तु लभ्यते |
कदाचिल्लभते जन्म मानुष्यं पुण्यसञ्चयात् |
सोपानभूतं मोक्षस्य मानुष्यं जन्म दुर्ल्लभम् ||
निर्वाणतन्त्रे द्वितीयपटलेऽपि ||
अथावरादिसु कीटेषु पशुपक्षिषु शैलजे ! |
चतुरशीतिलक्षं वै जन्म चाप्नोति सोऽव्ययः ||
ततो लभेत् परेशानि ! मानुषीं दुर्लभां तनुमिति |
चतुरशीतिलक्षयोनिभ्रमणानन्तरं ब्राह्मणयोनिप्राप्तिः |
कर्मविपाकेऽप्युक्ता यथा |
स्थावरास्त्रिंशल्लक्षश्च जलजो नवलक्षकः |
कृमिजा दशलक्षश्च रुद्रलक्षश्च पक्षिणः |
पशवो विंशलक्षश्च चतुर्लक्षश्च मानवाः |
एतेषु भ्रमणं कृत्वा द्विजत्वमुपजायते |
निर्वाणतन्त्रे ||
मानुषीं तनुमित्यत्र ब्राह्मणत्वावच्छिन्नमानुषीं तनुमित्यवगन्तव्यम् |
दुर्लभेति विशेषणवलेनेति ||
निर्वाणतन्त्रे ||
ततो मानुषदेहश्च धर्माधर्माधिपश्च सः |
ततोऽपि लभते जन्म पुनर्मृत्युमवाप्नुयात् |
जायन्ते च म्रियन्ते च कर्मपाशनियन्त्रिताः |
चतुरशीतिलक्षेषु नानायोनिषु शैलजे ! ||
इति मनुष्यत्वप्राप्तिप्रशंसा ||
चण्डिकोवाच ||
कथं वा लभते जन्म कथं मृत्युर्भवेत् प्रभो ! |
तत्प्रकारं महादेव ! श्रोतुमिच्छामि तद्वद ||
शङ्कर उवाच ||
इह यत् क्रियते कर्म तत् परत्रोपभुज्यते |
जीवस्तृणजलौकेव देहाद्देहान्तरं व्रजेत् |
सम्प्राप्य चतुरं देहं देहं त्यजति पूर्वकम् |
इति श्रुत्वा च सा चण्डी पप्रच्छ शङ्करं प्रति ||
प्राप्तं चतुरदेहन्तु पिण्डदानादिकं कथम् ||
शिव उवाच ||
शृणु देवि ! प्रवक्ष्यामि मायादेहं तदेव हि |
माहादेहः परेशानि ! वायुरूपौ न चान्यथा |
वायुरूपो यतो देह आकाशस्थो निराश्रयः |
ततश्च पिण्डदानेन वायुः स्थिरतरो भवेत् |
प्रथमे मस्तकं देवि ! जायते च क्रमावधि |
ततो मम पुरं गत्वा धर्मकर्मादिकञ्चरेत् |
तद्भुक्तञ्चापरं किञ्चिद्यदा कर्म न विद्यते |
ममाज्ञया यदा जीवः प्रययौ ब्रह्मशासनम् |
तस्मात् कर्मानुसारेण यदि स्याद्दुर्लभा तनुः |
महाविद्यां भाग्यवशाद् यदि प्राप्नोति सद्गुरोः |
तत्त्वज्ञानं महेशानि यदि भाग्यवशाल्लभेत् |
तदैव परमो मोक्षो यावद्ब्रह्माण्डमण्डलम् |
महाविद्याप्रसादेन पुनरागमनं न हि ||
तृतीयपटले ||
तोयात्तुवुद्वुदं जातं यथा तोये विलीयते |
प्रकृत्या जायते सर्वं पुनस्तस्यां प्रलीयते |
ब्रह्मविष्णुशिवा देवि ! जायन्ते प्राकृताद्ध्रुवम् |
तथा प्रलयकाले तु प्रकृत्यां लुप्यते पुनः ||
इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे चतुर्विधदेहसृष्टिकथनं नाम तृतीयपरिच्छेदः ||
गुरुं प्रणम्य यं तेनाज्ञानध्वान्तसुधाकरम् |
वक्तिमर्त्त्यदेहसृष्टिं द्विजः श्रीरामतोषणः ||
शाक्तानन्दतरङ्गिणी प्रथमपरिच्छेदधृतज्ञानभाष्यम् ||
देव्युवाच ||
शरीरं कीदृशं नाथ ! मुक्तिर्वा केन कर्मणा |
इदानीं श्रोतुमिच्छामि ब्रूहि मे शशिशेखर ! ||
ईश्वर उवाच ||
शृणु देवि ! प्रवक्ष्यामि शरीरं कर्मसम्भवम् |
रजस्वला च या नारी विशुद्धा पञ्चमे दिने |
पीडिता कामवाणेन ततः पुरुषमीहते |
भगलिङ्गसमायोगान्मैथुनं स्यात्तदा तयोः |
अन्योस्न्यस्पर्शनादेव जायते च महासुखम् |
क्षरते च यदा रेतः प्राणापानविसं श्रितम् |
क्षितिरापस्तथा तेजो वायुराकाशमेव च |
सर्वेषां तत्र तत्त्वं स्याद्देहस्थरक्तवीजयोः |
गर्भाशयनिरूपणानन्तरं गर्भोत्पत्तिप्रकार उक्तो मातृकाकाभेदतन्त्रे द्वितीयपटले ||
देव्युवाच ||
वद ईशान ! सर्वज्ञ ! सर्वतत्त्वविदांवर ! |
यत् त्वया कथितं देव ! मम सङ्गे विहारतः |
कथं वा जायते पुत्रः कथं वा शुक्रसंस्थितिः |
पुत्र इति गर्भमात्रोपलक्षणम् |
केन प्रकारेण गर्भो जायत इति प्रश्नस्य तात्पर्यम् |
वर्द्धमानस्य लिङ्गस्य प्रवेशो वा कथं भवेत् |
भीतियुक्ता ह्यहं नाथ ! त्राहि मां दुःखसङ्कटात् ||
महादेव उवाच ||
मणिपूरं महापद्मं सुसुम्नामध्यसंस्थितम् |
तस्मान्नालेन देवेशि ! नाभिपद्मं मनोहरम् |
नालत्रयसमायुक्तं सदा शुक्रविभूषितम् |
ऊर्द्धनालं सहस्रारे अतः शुक्रविभूषितम् |
तस्मादेव स्तनद्वन्द्वं वर्द्धमानं दिने दिने |
मध्यनालं सुसुम्नान्तं वृन्ताकारं शुशीतलम् |
आयोन्यग्रमधोनालं सदानन्दमयं शिवे ! |
शृणु चार्वङ्गि ! सुभगे ! तन्मध्ये लिङ्गताडनात् |
यद्रूपं परमानन्दं तन्नास्ति भुवनत्रये |
नाभिपद्मन्तु यद्रूपं तत् शृणुष्व समाहिता |
वस्थानं मध्यदेशेऽस्य सदा पद्मविराजितम् |
वायदेशे चाष्टपत्रं चतुरस्रञ्च तद्वहिः |
चतुर्द्वारसमायुक्तं सुवर्णाभं सवृन्तकम् |
तत्पद्मेन भवेत् पुष्पं वृन्तयुक्तं त्रिपत्रकम् |
प्रफुल्ले तु त्रिपत्रे वै वाह्ये शोणितदर्शनम् |
एतन्मध्ये महेशानि ! यदि स्याल्लिङ्गताडनम् |
पद्ममध्ये गते शुक्रे सन्ततिस्तेन जायते ||
पद्ममध्ये शुक्रगमनप्रकारस्तु प्रपञ्चसारे ||
स्वस्थानतश्च्युतात् शुक्राद्बिन्दुमादाय मारुतः |
गर्भाशयं प्रविशति यदा तुल्यं तदापरः |
आर्त्तवात् परमं बीजमादायास्याश्च मूलतः |
यदा गर्भाशयं नेष्यत्यथ सम्मिश्रयेन्मरुत् |
सङ्क्षोभ्य संवर्द्धयति तन्मलं शोणिताधिकम् |
स्त्री स्यात् शुक्राधिकं ना स्यात् समेन च नपुंसकम् |
वायुवह्न्यम्भसां योगे गर्भवृद्धिः प्रजायते ||
एतेन त्रिवृत्करणपक्षः स्पष्टीकृतः ||
ज्ञानभाष्ये ||
नाभिपद्मे महादेवि ! भ्राम्यते च समीरणैः |
कुम्भकारो यथा चक्रे घटते च घटादिकम् |
तथा समीरणो गर्भे घटते प्राणिनां तनुम् ||
शारदातिलके ||
रक्ताधिका भवेन्नारी भवेद्रेतोऽधिकः पुमान् |
उभयोः समतायान्तु नपुंसकमिति स्थितिः ||
मातृकाभेदतन्त्रे ||
पुरुषस्य तु यत् शुक्रं शक्तेस्तस्याधिकं यदि |
तदा कन्यां विजानीयाद्वीपरीते पुमान् भवेत् |
उभयोस्तुल्यशुक्रेण क्लीवं भवति निश्चितम् ||
तत्राधिक्यतुल्यतादिकम् राघवभट्टधृतवचनोक्तप्रमाणस्यैव यथा ||
द्वाविंशतीरजोभागाः शुक्रमात्राश्चतुर्दश |
गर्भसञ्जनने काले पुंस्त्रियोः सम्भवन्ति हि ||
मात्राभाग इत्यर्थः ||
नारी रजोऽधिकांशे स्यान्नरः शुक्राधिकांशके |
उभयोरुक्तसंख्यायां स्यान्नपुंसकसम्भवः |
राघवभट्टधृतवाग्भटे बह्वपत्यकारणामुक्तं यथा ||
वायुना बहुधा भिन्ने तद्विन्दौ वह्वपत्यता |
वियोनिविकृताकारा जायन्ते विकृते तथा |
शृणु चार्वङ्गि ! सुभगे ! पुष्पमाहात्म्यमुत्तमम् |
मेध्यं तत् शुक्रसंयोगे वर्द्धते च दिने दिने |
एवं दिङ्माससम्प्राप्तौ तत्पुष्पे बिन्दुसंयुते |
गलिते परमेशानि ! व्यक्ता भवति सन्ततिः ||
श्रीदेव्युवाच ||
किञ्चिद्रोगादिसम्भूते कृमिकीटादिसम्भवे |
तस्माज्जीवाः प्रणश्यन्ति सा नारी जीवति कथम् ||
श्रीशङ्कर उवाच |
तस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया |
बिन्दुस्थानसहस्रन्तु पुष्पमध्ये प्रियंवदे ! |
वुद्वुदा योऽत्र तिष्ठन्ति तत्रैव सन्ततिर्भवेत् |
एवं क्रमेण देवेशि ! सहस्रं सन्ततिर्यदि |
वर्द्धमानं तदा पुष्पं पीडा किञ्चिन्न जायते ||
वीर्यवद् गर्भकारणमाह ||
राघवभट्टधृतम् ||
पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता |
शुद्धगर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि |
वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः |
रोगाल्पायुरधन्यो वा गर्भो भवति नैव वा |
इति तत्र शुक्रशोणितसम्बद्धविन्दौ पूर्वपूर्वानेकजन्मसञ्चितकर्मणां मध्ये फलदानोन्मुखं पापपुण्यात्मकं प्रबलमेकं सुखदुःखोभयफलकं मनुष्यशरीरोपभोग्यं यत् कर्म तदनुरूपेणाविद्यारूपपाशबद्धः सन्नेकोऽपि बहुधा भिन्नो नित्योऽप्यात्मा गृहमिव देहं प्रविष्टस्तदुक्तं राघवभट्टधृताध्यात्मविवेके ||
अस्ति ब्रह्म चिदानन्दमयं ज्योतिर्निरञ्जनम् |
सर्वशक्ति च सर्वज्ञं तदंशा जीवसंज्ञकाः |
अनाद्यविद्योपहिता यथाग्नेर्विष्फुलिङ्गकाः |
दीर्घाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः |
सुखदुःखप्रदैः स्वीयैः पुण्यपापैर्नियन्त्रिताः |
तत्तज्जातियुतं देहमायुर्भोग्यञ्च कर्मजम् |
प्रतिजन्म प्रपद्यन्ते मायापाशनियन्त्रिता इति ||
निर्वाणतन्त्रेऽपि ||
सत्यलोके महाकाली महारुद्रेण सम्पुटा |
चणकाकारविस्तारा चन्द्रसूर्याग्निरूपिणी |
अनादिपुरुषोद्युक्ता तदंशा जीवसंज्ञकाः |
ज्वलदग्नेर्यथा देवि ! स्फुरन्ति विस्फुलिङ्गकाः |
तस्याश्च्युतः परं बिन्दुर्यदा भूमौ पतत्यपि |
तदैव सहसा देवि ! शक्तियुक्तो भवत्यपि ||
इति गर्भोत्पत्तिप्रकारकथनम् |
इति शुक्रशोणितादुत्पत्तिप्रकारस्तु योगार्णवे ||
आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा |
सम्प्रविश्याथ मध्यन्तु पृथगन्नं पृथग् जलम् |
स वायुः प्राणवायुः ||
योगियाज्ञवल्के उत्तरखण्डे चतुर्थाध्यायेऽपि |
आयुष्यं भुक्तमाहारं सहसा तैः समीकृतम् |
तुन्दमध्यगतः प्राणस्तानि कुर्यात् पृथक् पृथक् |
पृथक्करणप्रकारस्तु योगियाज्ञवल्क्ये ||
पुनरग्नौर्जलं प्राप्य अन्नादीनि जलोपरि |
स्वयं ह्यपानः सम्प्राप्य तेनैव सह मारुतः |
प्रयाति ज्वलनं तत्र देहमध्यगतं पुनः |
अग्नौ जलं प्रापयय अन्नादीनि जलोपरि सम्प्रापयय तेनैव प्राणवायुनैवापानो वायुर्देहमध्यगतं ज्वलनं प्रयाति प्राप्नोतीत्यन्वयः |
एवञ्च प्राणेन प्रेरितमिति प्राणस्थित्येति च प्राधान्येन वक्ष्यते |
वस्तुतस्तु प्राणापानाभ्यामेव प्रेरितमित्यर्थः ||
वायुना वर्द्धते वह्निरपानेन शनैः शनैः |
ततो ज्वलति विप्रेन्द्रि ! स्वकुले देहमध्यके |
ज्वालाभिर्ज्वलनं तत्र प्राणेन प्रेरितं ततः |
ज्वलत्युदकमाश्रित्य कोष्ठमध्यगतं तदा |
अन्नं व्यञ्जनसंयुक्तं जलोपरि समर्पितम् ||
ततः सुषुप्तमकरोद्वह्निसन्तप्तवारिणा ||
योगार्णवे च ||
अग्नेरूर्द्धं जलं स्थाप्य तदन्नञ्च जलोपरि |
जलस्याधः स्वयं प्राणः स्थित्वा स्वेदयते शनैः |
वायुना व्युह्यमानोऽग्निरत्युष्णं कुरुते जलम् |
अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः |
द्विधा भवति तत्पक्वं पृथक् कीट्टं पृथग्रसम् ||
कीट्टं मलम् ||
तत्र रसोत्पत्तिप्रकारस्तु प्रपञ्चसारे द्वितीयपटले ||
अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम् |
श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् |
तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः |
षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ||
स्वादुमिष्टमुषणं कटु ||
तथैवमाशयगतं पश्चात् पित्ताशयं व्रजेत् ||
आशयं छिद्रम् ||
तदा तस्यानुगमनात् कटुकत्वं प्रपद्यते |
तथात्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा ||
जलादीनां पाकेनावस्थान्तरमुक्तम् योगियाज्ञवल्क्ये ||
स्वेदमूत्रे जलं स्यातां वीर्यरूपं रसो भवेत् |
पुरीषमन्नं स्याद्गार्गि ! प्राणः कुर्ययात् पृथक् पृथक् ||
प्रपञ्चसारे ||
ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा ||
पात्री नाडी ||
अधस्तस्याः प्रधानाग्निः समानेनापि नुद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः |
प्रधानाग्निर्दोषदूष्यस्थाग्निभ्यो भिन्नो वडवानलरूपेजठराग्निरिति प्रसिद्धः |
तथा च |
पच्यमानाद्रसं भिन्नं वायूरक्तादिकं नयेत् |
तत्र कीट्टः पृथक् भिन्नं ग्रहण्यां चिनुतेऽनिलः |
तच्चीयमानं विणाम ग्रहणीं पूरयेन्मुहुः |
सा तया शकृता पूर्णाबलितां प्रतिमुञ्चति |
शकृता मलेन ||
पूरीषं पायुमार्गेण तत्पाके चाम्भसस्ततः |
अङ्गस्वेदवदभ्यन्तर्व्याप्तैः सूक्ष्मैः शिवामुखैः |
वस्तिमापूरयेद्वायुः पूर्णो मुञ्चति धारया |
मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते |
मूत्रमित्याहुरुदकं वस्तेश्चानिलनिर्गतम् |
अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः |
प्रमेहमूत्रककृच्छादेर्ग्रहिण्यादेश्च सम्भवः ||
राघवभट्टध्टसुश्रुते |
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राण् धाताः |
भवन्त्यन्योन्यतः सर्वे पाचिताः पित्ततेजसा इति |
एतेन पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वमुक्तम् |
तथा च तत्रैव ||
रसः सनाडीमध्यस्थः शारीरेणोष्मणा भृशम् |
पच्यते पच्यमानाच्च भवेत् पाकद्वयं पुनः |
चर्मावेष्ट्य समन्ताच्च रुधिरन्तु प्रजायते |
स्वस्वकोषाग्निना पक्वैर्जायन्ते धातवः क्रमात् ||
योगार्णवे ||
रसेन तेन ता नाडीः प्राणः पूरयते शनैः |
प्रतर्पयन्ति सम्पूर्णास्ताश्च देहं समन्ततः ||
योगियाज्ञवल्क्ये ||
समानवायुना सार्द्धं रसं सर्वासु नाडिषु |
व्यापयन् श्वासरूपेण देहे चरति मारुतः |
व्योमरन्ध्रैश्च नवभिर्विण्मूत्राणां विसर्जनम् |
कुर्वन्ति वायवः सर्वे शरीरेषु निरन्तरम् |
निश्वासोच्छासकासाश्च प्राणकर्मसमीरिताः |
अपानवायोः कर्मैतद्विण्मूत्रादिविसर्जनं |
प्राणापाने च चेष्टादि व्यानकर्मेति चेष्यते |
उदानकर्म तच्चोक्तं देहस्योन्नयनादि यत् |
पोषणादि समानस्य शरीरे कर्म कीर्तितम् |
उद्गारादिगुणो यस्तु नागकर्म समीरितम् |
निमीलनादि कूर्मस्य क्षुतृष्णा कृकरस्य च |
देवदत्तस्य विप्रेन्द्रि ! जृम्भा कर्मेति कीर्तितम् |
धनञ्जयस्य पोषादि सर्वं कर्म प्रकीर्तितम् |
वायूनां स्नाथादीन्यग्रे वक्ष्यन्ते ||
इति शुक्रशोणिताद्युत्पत्तिकथनम् ||
योगार्णवे |
मातुरम्बुवहा नाडी ननु विद्धा पराभिधा |
नाभिस्थनाडीगर्भस्य मात्राकृतरसावहा इति |
शाक्तानन्दतरङ्गिण्याम् |
कलनञ्चैकरात्रेण वुद्वुदं पञ्चमे दिने |
शोणितं दशरात्रेण मांसपिण्डं चतुर्दशे ||
प्रपञ्चसारे ||
मारीयं नाम योगोत्थं पौरुषं कार्मणं मलम् |
आणवं नाम सम्प्रोक्तं मिलितं तन्मलद्वयम् |
सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशमलद्वये |
तत्र योगं प्रकृत्याशु ततस्तु गर्भमारुतः |
सङ्क्षोभ्य संवर्द्धयतीत्यादि पूर्वोक्तेनान्वयः |
स्वगतैर्मरुदग्न्यद्भिः क्लिद्यते क्वाथ्यते च तत् |
मिश्रीभूतं तदह्नैव मातुरङ्गुष्ठसम्मितम् ||
सम्मितमिति मातुरङ्गुष्ठनखपरिमितमित्यर्थः ||
राघवभट्टधृतयोगार्णवे ||
घनमांसञ्च विंशाहे पिण्डभावोलपक्षितम् |
पञ्चविंशतिपूर्णाहे पलं तदङ्कुरायते ||
शाक्तानन्दे तु |
मासैकेन तु पूर्णेन मांसपिण्डोऽङ्कुरायते ||
इत्युक्तम् तत्रैव |
आदौ सञ्जायते बीजं ब्रह्माण्डं सहसाङ्कुरः |
तस्य मध्ये सुमेरुश्च कङ्कालदण्डरूपधृक् |
चराचराणां सर्वेषां देवादीनां विशेषतः |
आलयः सवभूतानां मेरोरभ्यन्तरेऽपि च |
प्रदीपकलिकाकारो जीवो हृदि सदा स्थितः |
रज्जुवद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः |
गुणवद्धस्तथा जीवः प्राणापानेन कृष्यते ||
योगियज्ञवल्क्ये द्वितीयाध्याये तु |
तन्मध्ये नाभिरित्युक्तं नाभौ चक्रसमुद्भवः |
द्वादशारयुतं तच्च तेन देहः प्रतिष्ठितः |
चक्रेऽस्मिन् भ्रमते जीवः पुण्यपापप्रणोदितः |
तन्तुपञ्जरमध्यस्थो यथा भ्रमति लूतिकः |
लूतिक उर्णनाभः माकरसा यस्य प्रसिद्धिः |
नाभौ जीवस्य भ्रमणमात्रं स्थितिस्थानन्तु हृदयमेव |
तेन पूर्ववचने न विवादः ||
योगार्णवे ||
मासद्वये तु सम्पूर्णे शिरोमेदः प्रजायते |
मज्जास्थि च त्रिभिर्मासैः केशस्त्वक् च चतुर्थके |
एषु मासेष्वध्यात्मविवेके तु विशेष उक्तो यथा |
द्रवत्वं प्रथमे मासे कललाख्यं प्रजायते |
द्वितीये तु घनः पिण्डः पेशीष्टघनसर्वुदम् |
पुंस्त्रीनपुंसकानान्तु प्रागवस्थाः क्रमादिमाः |
तृतीये त्वङ्कुराः पञ्च करादिशिरसो मताः ||
अत्र ग्रन्थत्रये यद्भेदत्रयमङ्कुरोत्पत्तेरुक्तं तच्छरीरमेर्ववयवाङ्कुरभेदेनाविरुद्धमाम्नायभेदेन वा |
अङ्गप्रत्यङ्गभागाः स्युः सूक्ष्माश्च युगपत्तदा |
चतुर्थे व्यक्तता तेषां भागानामभिजायते |
मातृजञ्चास्य हृदयं विषयानभिकाङ्क्षति |
अतो मातुर्मनोऽभीष्टं कुर्याद्गर्भसमृद्धये |
ताञ्च द्विहृदयां नारीमाहुर्दोहादिनीं बुधाः |
अदानाद्दोहदानान्तु गर्भस्य व्यङ्गतादयः |
मातुश्चेद्विषयालाभस्तदार्त्तो जायते सुतः |
गर्भः स्यादर्थवान् भोगी देहे दोहददर्शने |
अलङ्कारे सुललितो धर्मिष्ठस्तापसाश्रमे |
देवतादर्शने भक्तो हिंस्रो भुजगदर्शने |
गोधाशने तु निद्रालुर्बली गोमांसभक्षणे |
माहिषेण तु रक्ताक्षं लोमशं सूयते सुतम् |
प्रवृद्धं पञ्चमे पिण्डं मांसशोणितपुष्टिभाक् |
षष्ठेऽस्थिस्नायुनाड्यादिनखकेशविविक्तता |
बलवद्धौ चोपचितौ सप्तमे त्वगपूर्णता |
अष्टमे त्वक्श्रुती स्यातां ओजश्चैतच्च हृद्भवम् ||
ज्ञानभाष्ये तु ||
कर्णाक्षिनासिकारन्ध्रं कण्ठोदरञ्च पञ्चमे |
षष्ठे मुखं तथा पादौ सर्वाङ्गानि तु सप्तमे |
सन्धिः सम्पूर्णतां याति अष्टमे मासि वै ततः |
एतदपि पूर्ववत् ||
अण्डाधारञ्च कङ्कालं पारभ्य गुदमूलतः |
द्वात्रिंशज्ज्ञानविज्ञानग्रन्थिनो वर्द्धते सदा ||
शारदायां प्रथमपटले ||
अथ मात्राहृतैरन्नपानाद्यैः पोषितः क्रमात् |
दिनात् पक्षात्तथा मासात् वर्द्धते तत्त्वदेहवान् ||
तत्त्वदेहवानिति चतुर्विंशतितत्त्वात्मकशररीर इत्यर्थः |
दोषैर्दूष्यैः सुखं प्राप्तो व्यक्तिं याति निजेन्द्रियैः |
वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ||
इति धातुकथनम् ||
शारदायाम् ||
ज्ञानेन्द्रियाणि श्रोत्रं त्वक्दृग्जिह्वानासिकादयः |
ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि |
शब्दाद्या इति शब्दस्पर्शरूपरसगन्धाः |
वाक्पाणिपादपायवन्धुसंज्ञान्याहुंर्मनीषिणः |
मुखहस्तपादगुदलिङ्गानि |
वचनादानगतयो विसर्गानन्दसंयुताः |
कथनग्रहणगमनत्यागानन्दाः |
कर्मेन्द्रियार्थाः संप्रोक्ता अन्तःकरणमात्मनः ||
विश्वसारे प्रथमपटले ||
इन्द्रियाणां गुणान् वक्ष्ये शृणुष्व कमलानने ! |
चक्षुषो रूपमाख्यातं कर्णयोः शब्दमेव च ! गन्धस्तु नसि विज्ञेयस्त्वचि स्पर्श उदाहृतः |
आदानं भुजयुग्मेषु जिह्वायां रस उच्यते |
गुह्ये विसर्गो विज्ञेय आनन्दः स्यादुपस्थके |
गमनं पादयुग्मे च कथनं मुखपङ्कजे |
इतीन्द्रियेन्द्रियार्थकथनम् |
अन्तःकरणं स्पष्टयति शारदाकृत् ||
मनोबुद्धिरहङ्कारश्चित्तन्तु परिकीर्तितम् |
अत्र सङ्कल्पविकल्पात्मकं मनः |
सर्वभावनिश्चयकारिणी बुधीः |
ज्ञात्रभिमानयुक्तोऽहङ्कारः |
निर्विकल्पकं चित्तम् |
यदाह एषा शक्तिः परा वीजरूपिणी प्रोक्तलक्षणा ||
सङ्कल्पञ्च विकल्पञ्च कुर्वाणा तु मनो भवेत् |
बुद्धिरूपा तथा सर्वभावनिश्चयकारिणी |
ज्ञातास्मीत्यभिमानाट्या सैवाहङ्कारसंज्ञिता |
निर्विकल्पात्मिका सैव खलु चित्तस्वरूपिणी |
एवमेकैव बहुधानर्त्तकीव प्रतीयत इति |
श्रुतिरपि |
मनः सङ्कल्पयति बुद्धिर्निश्चिनोति अहमभिमानयति चेतश्चेतयते इति |
प्रपञ्चसारेऽपि ||
परेण धाम्ना समनुप्रवृद्ध्या मनस्तदा सा तु महाप्रभावा |
यदा तु सङ्कल्पविकल्पकृत्या यदा पुनर्निश्चिनुते तदा सा |
स्याद्बुद्धिसंज्ञा च यदा प्रवृत्तिर्ज्ञातारमात्मानमहङ्कृतिः स्यात् |
तदा यदा सा त्वभिमीयतेऽन्तश्चित्तञ्च निर्द्धारितमर्थमेषामिति ||
शारदायाम् ||
दर्शेन्द्रियाणि भूतानि मनसा सह षोडश |
विकाराः स्युः प्रकृतयः पञ्च भूतान्यहङ्कृतिः |
अव्यक्तं महदित्यष्टौ तन्मात्राश्च महानपि |
साहङ्कारा विकृतयः सप्त तत्त्वविदो विदुः |
विकाराः षोडश अष्टौ प्रकृतयः सप्त विकृतय इति वचनस्य पर्ययवसितार्थः |
यदुक्तं मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त |
सोडशकस्तु विकारो न प्रकृतिर्न विकृतिरिति तत्त्वविद इति |
एतानि प्रकृत्यन्तानि चतुर्विंशतितत्त्वानि पुरुषान्तानि पञ्चविंशतिः ||
तदुक्तं वायवीसंहितायाम् ||
त्रयोविंशतितत्त्वेभ्यः परा प्रकृतिरूच्यते |
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् |
यद्वा तत्त्वविद एवं विदुः |
एषां तत्त्वान्तर्भावात् तत्त्वविद्भिरेवं संज्ञा कृता इत्यर्थः ||
शारदायाम् ||
अग्निषोमात्मको देदो बिन्दुर्यदुभयात्मकः |
शुक्रमग्निरूपं रक्तं सोमरूपम् |
स तदात्मकत्वाद्बिन्दुरूभयात्मक इत्यर्थः ||
तदुक्तं राघवभट्टधृतेन ||
कलाषोडशकश्चन्द्रः स्याद्द्वादशकलो रविः |
कलादशयुतो वह्निः कलाष्टत्रिंशदंशभुक् |
साम्प्रतं सम्भवन्तीह गर्भाधानस्य हेतवे |
अग्निषोमात्मकं तेन गीयते सचराचरम् |
कलांशकेन योगेन भूयाद् गर्भस्य सम्भवः ||
ब्रह्मज्ञानतन्त्रे प्रथमपटले ||
शिव उवाच ||
अस्थिमांसनखाश्चैव नाडीत्वक् चेति पञ्चमः |
पृथ्वीपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् |
मलं मूत्रं तथा शुक्रं श्लेष्मा शोणितमेव च |
तोयं पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् |
हासो निद्रा क्षुधा चैव भ्रान्तिरालस्यमेव च |
तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् |
धारणं चालनं क्षेपः सङ्कोचः प्रसवस्तथा |
वायुपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् |
कामक्रोधस्तथा लोभस्त्रपा मोहश्च पञ्चमः नमःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ||
राघवभट्टधृतम् |
अस्थि मांसं त्वचं स्नायुरोम एवं तु पञ्चमं |
इति पञ्चविधा प्रोक्ता पृथिवी कठिनात्मिका |
लाला मूत्रं तथा शुक्रं शोणितं मज्ज पञ्चमम् |
अपां पञ्चगुणाएते रुद्ररूपाः प्रकीर्तिताः |
क्षुधा तृष्णा भयं निद्रा आलस्यं क्षान्तिरेव च |
तृष्णात्मका गुणा एते तेजसः परिकीर्तिताः |
धारणं वलानं भुक्तिराकुञ्चनप्रसारणम् |
एते पञ्च गुणा वायोः क्रियारूपा व्यवस्थिताः |
रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च |
व्योम्नः पञ्च गुणाः प्रोक्ताः शून्याख्ये शुषिरात्मनीति |
इति पञ्चभूतोद्भवास्थ्यादिकथनम् ||
शाक्तानन्दतरङ्गिण्याम् ||
प्राणापानसमानश्चोदानव्यानौ च वायवः |
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः |
एते दशगुणाः प्रोक्ताः सर्वप्राणवशात्मनः ||
शारदातिलके ||
दक्षिणांशः स्मृतः सूर्यो वामभागो निशाकरः |
नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्तिताः |
इडा वामतनोर्मध्ये सुषुम्ना पिङ्गला परे |
मध्या तास्वपि नाडी स्यादग्नीषोमस्वरूपिणी |
अत्रेडा वाममुष्काधःस्था धनुर्वक्रा वामनासापर्यन्तं गता |
एवं पिङ्गला दक्षिणाण्डाधःस्था धनुर्वक्रा दक्षिणनासान्तं गता |
पृष्ठवंशान्तर्गता सुषुम्ना इत्यर्थः |
एतदग्रे स्फुटीभविष्यति ||
तथा प्रपञ्चसारे |
ऊर्द्धन्तु मरुतानुन्ना त्तस्मादपि मलद्वयी |
उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवेदृजुः |
अवाङ्मुखी सा तस्याश्च भवेत् पक्षद्वये द्वयम् |
पक्षद्वये पार्श्वद्वये |
नाड्यस्ताः सन्निरुद्धा स्युः सप्तान्या नाडिका मताः |
तत्र या प्रथमा नाडी सा सुषुम्नेति कथ्यते |
या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला मता ||
तथा काचिन्नाडी वहिर्वक्त्रा या मातुर्हृदि वध्यते |
यया स पुष्टिमायाति केदार इव कुल्यया |
मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् |
क्रमवृद्धौ परं ज्योतिः कलाक्षेत्रज्ञतामियात् |
सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः |
सदोषं दूष्यसम्पन्नं जन्तुरित्यभिधीयते |
सभूतपञ्चकं सक्षेत्रज्ञमात्रसहितं तत् पूर्वोक्तमानवादिमलं जन्तुरित्युच्यते |
इत्यन्वयः |
किम्भूतं सगुणं सत्त्वादिगुणं सत्त्वादिगुणयुक्तं सदोषं वायुपित्तकफयुक्तं दूष्यसम्पन्नं सप्तधातूद्भवम् |
इति जन्तुलक्षणम् ||
फलकोषद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियाः |
नपुंसकस्य किञ्चित्तु व्यक्तिरत्रोपलक्ष्यते |
फलकोषद्वयमण्डकोषद्वयम् ||
निरुत्तरतन्त्रे प्रथमपटले ||
नाडीनां संवहो देवि ! कञ्जयोनिः खगाण्डवत् |
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः |
कञ्जस्य पद्मस्य योनिरूत्पत्तिस्थानं शालूकमिति यावत् |
प्रधानाः प्राणवाहिन्यो नाड्यत्रदश स्मृताः |
इडा च पिङ्गला चैव सुषुम्ना च तृतीयिका |
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी |
अलम्बुषा कुहुश्चैव शङ्खिनी च दश स्मृताः |
एवं नाडीमयं चक्रं विज्ञेयं शक्तिचक्रके |
इडायाः पिङ्गलायाश्च मध्ये या सा सुषुम्निका |
इयञ्च त्रिगुणा ज्ञेया ब्रह्मविष्णुशिवात्मिका |
रजोगुणा च वज्राख्या चित्रिणी सत्त्वसंयुता |
तमोगुणा ब्रह्मनाडी कार्यभेदक्रमेण च |
तथा |
वायुर्भानुमयो ज्ञेयो मनश्चन्द्रात्मकं तथा |
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः |
या वाममुष्कसम्बन्धा संश्लिष्यन्ती सुषुम्नया |
दक्षिणञ्चक्रमाश्रित्य धनुर्वक्रा हृदि स्थिता |
वामांशयन्त्रान्तरगा दक्षिणां नासिकामियात् |
तथा दक्षिणमुष्कस्था नासाया वामरन्ध्रगा |
तन्त्रान्तरे ||
षुषुम्नाकलिता याता मुष्कं दक्षिणमाश्रिता |
सङ्गता वामभागस्य यन्त्रमध्यं समाश्रिता |
दक्षिणं नासिकाद्वारं प्राप्तेति गिरिजात्मजे ! |
वाममण्डमनुस्यूतामनन्या सव्यनासिकामिति |
अनयोः स्वरूपमुक्तं योगार्णवे |
इडा च शङ्खचन्द्राभा तस्या वामे व्यवस्थिता |
पिङ्गला सितरक्ताभा दक्षिणं पार्श्वमाश्रिता इति |
तन्त्रान्तरे इडायां संश्रितश्चन्द्रः पिङ्गलायां दिवाकर इति |
तास्वपि सुषुम्ना मुख्येत्यर्थः |
उक्तञ्च श्रीतत्त्वचिन्तामणौ ||
मेरोर्वाह्यप्रदेशे शशिमिहिरशिवे सव्यदक्षे निषणे मध्ये नाडी सुषुम्ना त्रितयगुणमयी चन्द्रसूर्याग्निरूपा |
अन्यत्रापि तयोः पृष्ठवंशं समाश्रित्य मध्ये सुषुम्ना स्थिता ब्रह्मरन्ध्रन्तु यावत् |
अन्यासां नामान्यपि शारदायाम् |
गाधारी हस्तिजिह्वाख्या सपूषालम्बुषा मता |
यशस्विनी शङ्खिनी च कुहुः स्युः सप्त नाडयः |
आसां स्थितिस्वरूपं योगार्णवे ||
इडापृष्ठे तु गान्धारी मयूरगलसन्निभा |
सव्यपादादिनेत्रान्ता गान्धारी परिकीर्तिता |
हस्तिजिह्वोत्पलप्रेक्षा नाडी तस्याः पुरः स्थिता |
सव्यभागस्य मूर्द्धादिपादाङ्गुष्ठान्तमाश्रिता |
पूषा तु पिङ्गलापृस्ठे नीलजीमूतसन्निभा |
याम्यभागस्य नेत्रान्ता यावत् पादतलं गता |
यशस्विनी शङ्खवर्णा पिङ्गला पूर्वदेशगा |
गान्धार्याश्च सरस्वत्या मध्यस्था शङ्खिनी मता |
सुवर्णवर्णा पादादिवर्णान्ता सव्यभागके |
पादाङ्गुष्ठादिमूर्द्धान्तयाम्यभागे कुहुर्मता |
रावणा सरस्वती विश्वोदरी शङ्खिनी एता अपि प्रधानत्वेनोक्ताः |
उकञ्च |
ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश |
सुषुम्नेडा पिङ्गला च कुहूरथ सरस्वती |
गान्धारी हस्तिजिह्वा च रावणा च यशस्विनी |
विश्वोदरी शङ्खिनी च ततः पूषा यशस्विनी |
अलम्बुषेति ||
शाक्तानन्दतरङ्गिणीधृतज्ञानभाष्ये ||
इडा च वामनासायां दक्षिणे पिङ्गला मता |
सुषुम्ना ब्रह्मरन्ध्रे च गान्धारी वामचक्षुषि |
दक्षिणे हस्तिजिह्वा च पूषा कर्णेऽथ दक्षिणे |
वामे यशस्विनी ज्ञेया मुखे चालम्बुषा मता |
कुहुश्च लिङ्गमूले स्यात् शङ्खिनी शिरसोपरि |
एवं द्वारं समाश्रित्य तिष्ठन्ति दश नाडिकाः |
क्षितिश्च वारि तेजश्च वायुराकाशमेव च |
स्थैर्यं गता इमे पञ्च वाह्याभ्यन्तर एव च ||
एवं प्रधाननाडीनिरूपणानन्तरं शाखारूपनाडी निरूपिता ||
शारदायां ||
नाड्योऽनन्ताः समुत्पन्नाः सुषुम्ना पञ्चपर्वसु |
सर्वाणि स्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञान्तानि |
तत्राधोऽधोग्रन्थिमारभ्योर्धोर्द्धसर्वग्रन्थिपर्यन्तं समाप्तिः |
गणयितुमशक्यत्वादनन्ताः |
यदाहुः |
पूर्वोक्तायाः सुषुम्नाया मध्यस्थायाः सुलोचने ! |
नाभिहृत्कण्ठतालुभ्रूमध्यपर्वसमुद्भवाः |
अधोमुखाः शिराः काश्चित् काश्चिदूर्द्धमुखास्तथा |
परास्थिर्यग्गताः काश्चित्तत्र लक्षत्रयाधिकाः |
नाड्योऽर्द्धलक्षसंख्याताः प्रधानाः समुदीरिताः ||
तासु सर्वासु बलवान् प्राणो वायुः समन्ततः ||
विश्वसारे तु ||
नाभेः सकाशाज्जायन्ते नाड्यः क्षेत्रप्रपोषिक्ताः |
इडा तु वामभागे स्याद्दक्षिणे पिङ्गला मता |
मध्ये सुषुम्ना विज्ञेया चन्द्रसूर्यानलात्मिका |
नाड्योऽनन्ताः समुत्पन्नास्तस्याः पञ्चसु पर्वसु |
इति नाभेः सकाशादिति यदुक्तं तत्क्षेत्रपोषिका इत्यनेन रसादिचालनेन शरीरपुष्ट्यर्थं न तु ज्ञानध्यानाद्यर्थं वायुसाधनप्रकरणे एतत् स्पष्टीकरिष्ये |
नरपतिजयचर्यास्वरोदयधृतब्रह्मब्रह्मजामलमपि शरीरपुष्ट्यर्थमेअ नाभौ कुण्डलिनी माह यथा महाशक्तिः कुण्डलिनी नाडीस्थाहिस्वरूपिणी |
ततो दशोर्द्धगा नाड्यो दश चाधोगतास्तथा द्वे द्वे तिर्ययग्गते नाड्यौ चतुर्विंशतिसंख्यया |
सूक्ष्ममुख्यास्त्वतो नाड्यः सहस्राणां द्विसप्ततिः |
कुण्डलिन्यां महाशक्तौ मूलमार्गा भवन्त्यमी |
ताभ्यः सूक्ष्ममुखा नाड्यः शरीरं प्रतिपोषिकाः |
सप्त शतानि जायन्ते सप्तोत्तराणि संख्यया |
प्रधाना दश नाड्यस्तु दश वायुप्रवाहिकाः ||
योगियाज्ञवक्ल्ये प्रथमध्यायेऽपि नाभिचक्रमुपक्रम्य |
कन्दमध्ये स्थिता नाडी सुषुम्नेति प्रकीर्तिता |
तिष्ठन्ति परितः सर्वाश्चक्रेऽस्मिन् नाडिकास्ततः |
नाडीनामपि सर्वासां मुख्या गार्गि ! चतुर्दश ||
गार्गि इति याज्ञवक्यस्य स्थियाः सम्बोधनम् ||
इडा च पिङ्गला चैव सुषुम्ना च सरस्वती |
वारूणी चैव पूषा च हस्तिजिह्वा यशस्विनी |
विश्वोदरी कुहुश्चैव शङ्खिनी च पयस्विनी |
अलम्बुषा च गान्धारी मुख्याश्चैताश्चतुर्दश |
तासां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा |
मुक्तिमार्गे तु सा प्रोक्ता सुषुम्ना विश्वधारिणी |
कन्दस्य मध्यमे गार्गि ! सुषुम्ना च प्रतिष्ठिता |
पृष्ठमध्ये तु तेनास्थ्ना सह मूर्ध्नि व्यवस्थिता |
मुक्तिमार्गे सुषुम्ना वैष्णवी स्थिता |
इडा च पिङ्गला चैव तस्याः सव्ये च दक्षिणे |
इडायां पिङ्गलायाञ्च चरतश्चन्द्रभास्करौ |
इडायां चन्द्रमा ज्ञेयः पिङ्गलायां दिवाकरः |
चन्द्रस्तामस इत्युक्तः सूर्यो राजस उच्यते |
विषभागो रवेर्भागश्चन्द्रभागोऽमृतं तथा |
तावेव तदधः सर्वं कालं रात्रिन्दिवात्मकम् ||
भोक्ती सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् |
सरस्वती कुहुश्चैव सुषुम्ना पार्श्वयोः स्थिते |
गान्धारी हस्तिजिह्वा च इडायाः पृष्ठपूर्वयोः |
यशस्विनी च पूषा च पिङ्गला पृष्ठपूर्वयोः |
कुहुश्च हस्तिहिह्वा च मध्ये विश्वोदरी स्थिता |
यशस्विन्याः कुहोर्मध्ये वारुणी सा प्रतिष्ठिता |
पूषायाश्च सरस्वत्याः स्थिता मध्ये यशस्विनी |
गान्धार्याश्च सरस्वत्याः स्थिता मध्ये च शङ्खिनी |
अलम्बुषा च विप्रेन्द्रि ! कन्दमध्यादधः स्थिता |
पूर्वभागे सुषुम्नायास्त्वामेढ्रान्तं कुहुः स्थिता |
अधश्चोर्द्धञ्च विज्ञेया वारुणी सर्वगामिनी |
यशस्विनी च याम्यस्य पादाङ्गुष्ठान्तमिष्यते |
पिङ्गला चोर्द्ध्वगा याम्ये नासान्तं विद्धि मे प्रिये ! |
याम्ये पूषा च नेत्रान्ता पिङ्गलायाः सुपृष्ठतः |
पयस्विनी तथा गार्गि ! याम्ये नेत्रान्तमिष्यते |
सरस्वती तथाचोर्द्धं हस्तिजिह्वा प्रकीर्तिता |
आसव्यकर्णाद्विप्रेन्द्रि ! शङ्खिनी चोर्द्धमागता |
गाधारी सव्यन्तेत्रान्तमिडायाः सव्यतः स्थिता |
इडा च सव्यनासान्तं मध्यभागे व्यवस्थिता |
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते |
विश्वोदरी तु सा नाडी तुन्दमध्ये व्यवस्थिता |
अलम्बुषा महाभागे ! वायुमूला तथोर्द्ध्वगा |
एतास्त्वन्याः समुत्पन्नाः शिवास्त्वन्याश्च ता अपि |
यदश्वत्थदले तद्वत् पद्मपत्रेषु चापि वा |
नाडीष्वतासु सर्वासु विज्ञातव्या तपोधने ! ||
इति नाड्युत्पत्तिकथनम् |
आध्यात्मविवेके |
अस्यां शरीरं संख्या स्यात् षष्टियुक्तं शतत्रयम् |
त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत |
द्वे शते त्वस्थिसन्धीनां स्यातामत्र दशोत्तरे |
पेशीस्नायुशिरासन्धिसहस्रद्वितयं मतम् |
नव स्नायुशतानि स्युः पञ्च पेशीशतान्यपि |
अधिका विंशतिः स्त्रीणां स्तनयोर्दिग्दिगीरिता |
शिराधमनिकानान्तु लक्षाणि नव विंशतिः |
सार्द्धानि स्युर्नवशती षट्पञ्चाशद्युता तथेति ||
इत्यस्थ्याद्युत्पत्तिकथनम् ||
रुद्रजामले सप्तदशपटले ||
तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानि मानुषे |
नाडीमुखानि सर्वाणि धर्मबिन्दुं क्षरन्ति च |
इति नाडीमुखस्थानकथनम् ||
इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डेऽन्नमयकोषात्मकमनुष्यदेहकथनं नाम चतुर्थः परिच्छेदः ||
एवं नाडीप्रभृतीनां निरूपणानन्तरं वायुप्रकरणस्यौचित्यात्तन्निरूप्यते ||
शारदातिलके ||
मूलाधारोद्गतः प्राणस्ताभिर्व्याप्नोति तत्तनुम् |
वायवोऽत्र दश प्रोक्ता वह्न्यश्च दश स्मृताः ||
ताभिर्नाडीभिः ||
तत्तनुमनुभूततनुम् ||
वायुनामानि तत्रैव |
प्राणाद्या मरुतः पञ्च नागः कूर्मो धनञ्जयः |
कृकरः स्याद्देवदत्त इति नामभिरीरिताः ||
प्राणाद्या इति प्राणापानव्यानोदानसमानाः |
यगियाज्ञवल्क्ये चतुर्थाध्यायेऽपि |
प्राणोऽपानः समानश्च उदानो व्यान एव च |
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः |
एते नाडीषु सर्वासु चरन्ति दश वायवः |
एतेषु वायवः पञ्च मुख्याः प्राणादयः स्मृताः |
तेषु मुख्यतमावेतौ प्राणापानौ नरोत्तमे ! |
प्राण एवैतयोर्मुख्यः सर्वप्राणभृतां सदा ||
एषां रूपाणि स्थानानि च योगार्णवे |
इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्तितम् |
आस्यनासिकयोर्मध्ये हृन्मध्यनाभिमध्यके |
प्राणालयमिति प्राहुः पादाङ्गुष्ठेऽपि केचन ||
अपानयत्यपानोऽयमाहारञ्च प्रलापितम् |
शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः |
इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः |
स च मेढ्रे च पायौ च उरुवङ्क्षणजानुषु ||
मेढ्रे लिङ्गे पायौ गुदे ऊरौ प्रसिद्धरूपे वङ्क्षणे उरुसन्धौ जानुनि प्रसिद्धरूपे |
इन्द्रगोपो रक्तवर्णकीटविशेषः |
कापासियापोका इति ख्यातः |
जङ्घोदरकृकाट्याञ्च नाभिमूले च तिष्ठति ||
व्यानो व्यानशतोत्पन्नः सर्वव्याधिप्रकोपणः |
महारजतसम्प्रेक्षो हारोपादानकारकः |
महारजतं काञ्चनम् |
हारोपादानकारक आहारग्राहक इत्यर्थः ||
स्वीयाक्षिकर्णयोर्मध्ये कट्यां वै गुल्फयोरपि |
कटिः प्रसिद्धाः |
गुल्फः पादग्रन्थिः |
घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् |
स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः |
उद्वेजयति चार्थानि तूदानो नाम मारुतः |
विद्युत्पावकवर्णः स्यादुत्थानासनकारकः |
पादयोर्हस्तयोश्चापि स तु सन्धिषु वर्तते ||
पीतं भक्षितमाघ्रातं रक्तापित्तकफानिलान् ||
समं नयति गात्रेषु समानी नाम मारुतः |
गोक्षीरसदृशाकारः सर्वदेहे व्यवस्थितः ||
योगियाज्ञवल्क्ये च ||
आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यके |
प्राणालयमिति प्राहुः पादाङ्गुष्ठे च केचन |
अधश्चोर्द्धं कुण्डलिन्याः परितः प्राणस.ंश्रयः |
अपाननिलयं केचिद् गुदमध्योरुजानुषु |
उदरे वृषणे कट्यां जङ्घे नाभौ वदन्ति हि |
गुदाधारद्वयोस्तिष्ठेन्मध्येऽपानप्रभञ्जनः |
स्थानेष्वेतेषु सततं प्रकाशयति दीपवत् |
उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि |
समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः ||
रायमुकुटस्तु ||
हृदि प्राणो गुदेऽपानः समानो नाभिदेशके |
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरग इत्याह ||
उद्गारे ना इत्युक्तो नीलजीमूतसन्निभः ||
उन्मीलने स्थितः कूर्मो भिन्नाञ्जनसमप्रभः ||
कृकरः क्षुत्परश्चैव जवाकुसुमसन्निभः ||
विजृम्भणे देवदत्तः शुद्धस्फटिकसन्निभः ||
धनञ्जयस्तथा घोषे महारजतवर्णकः ||
ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु |
नागाद्या वायवः पञ्च सहैव परिनिष्ठिताः ||
विश्वसारप्रथमपटले तु ||
प्राण आदौ हृदि स्थाने पद्मरागसमद्युतिः |
अपानो गुह्यदेशे च इन्द्रगोपसमः स्मृतः |
गोक्षीरधवलाकारः समानो नाभिदेशके |
उदानः कण्ठदेशे च धूम्रवर्णः प्रकीर्तितः |
व्यानः सर्वेषु चाङ्गेषु ज्योतीरूपेण वर्तते ||
एतद्वचनानुसारेण पूर्वकथितरायमुकुटधृतं वचननमिति पूर्ववचनोक्तैतद्वचनोक्तरूपभेदस्त्वाम्नायादिभेदेन समाधेय इति ||
प्रपञ्चसारकारस्तु ||
धनञ्जयाख्यो देहेऽस्मिन् कुर्याद्बहुविधान् श्वसान् |
स तु लौकिकवायुत्वान्मृतञ्च न विमुञ्चतीति ||
अतएव विश्वसारे |
मैथुनञ्चेच्छति यदा मैथुनञ्च तदा चरेत् |
काले धनञ्जयो वायु र्बीजं गर्भे च सञ्चयेत् |
निधायानिलमार्गे च पुनरेव प्रवेशयेदिति धनञ्जयवायुतो गर्भसञ्चार इत्युक्तम् |
अन्यैस्तु चत्वारो वायवोऽधिका उक्ता यथा |
वैरम्भणः स्थानमुख्यः प्रद्योतः प्रकृतस्तथा |
वैरम्भणादयस्तत्र सर्ववायुवशं गता इति |
नरपतिजयचर्यास्वरोदयधृतब्रह्मजामले ||
पिङ्गलेडासुषुम्नाभिर्नाडीभिस्तिसृभिर्बुधैः |
प्रकटो वयुसञ्चारो लक्ष्यते देहमध्यतः |
इडानाड्यां स्थितश्चन्द्रः पिङ्गला भानुवाहिनी |
सुषुम्ना शम्भुरूपा च शम्भुर्हंसस्वरूपकः |
हकारो निर्गमः प्रोक्तः सकारस्तु प्रवेशने |
हकारः शम्भुरूपः स्यात् सकारः शक्तिरुच्यते |
अत्र विशेषोऽग्रे वक्ष्यते |
शारदायां द्वितीयपटले ||
पिङ्गलायां स्थिता ह्रस्वा इडायां सङ्गताः परे |
सुषुम्नामध्यगा ज्ञेयाश्चत्वारो ये नपुंसकाः |
अत्र प्रकारः वामनासातो दक्षिणनासाप्रवेशप्रारम्भसमये देहवायुः कञ्चित् काल मुभयत्र वहति स दक्षिणायणप्रारम्भसमयस्तदानीं ऋऌकारात्मकं ह्रस्वद्वन्द्वमुदेति |
एवं दक्षिणनासातो वामनासागमनकालेऽपि स उत्तरायणप्रारम्भकालस्तदानीं ॠॡरूपं दीर्घद्वन्द्वमुदेति |
तदुक्तं प्रयोगसारे ||
स्वरं सप्त समारभ्य चत्वारो ये नपुंसकाः |
ते सुषुम्नाश्रिते प्राणे प्रोद्यन्त्वयनसंक्रमे इति ||
जामले ||
शक्तिरूपः स्थितश्चन्द्रो वाम्नाडीप्रवाहकः |
दक्षनाडीप्रवाहे तु शम्भु रूपी दिवाकरः |
इति शरीरस्थवायुकथनम् ||
शारदायाम् ||
अग्नयो दोषदूष्येषु संलीना दश देहेषु |
तेषां नामानि राघवभट्टधृतानि यथा ||
जृम्भको दीपकश्चैव विभ्रमो भ्रमशोभनः |
आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च |
अन्वाहार्यो गार्हपत्य इत्येते दश वह्नयः ||
भ्रमेण सह शोभन इति मध्यपदलोपिससासाश्रयणेन भ्रमशोभनश्चेति दशाग्निकथनम् ||
शारदायाम् ||
बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ |
शोकमोहौ शरीरस्य जरा मृत्युः षडूर्मयः ||
प्रपञ्चसारेऽपि ||
बुभुक्षा च पिपासा च शोकमोहौ जरामृती |
षडूर्मयः प्राणबुद्धिदेहधर्मेषु संस्थिता इति ||
ऊर्मीनामार्त्युत्पादकोऽवस्थाविशेषः ||
शारदायाम् ||
शुक्रात् स्नायुस्थिमज्जानस्त्वङ्मांसाश्रूणि शोणितात् |
पितुः शुक्रात् स्नायवादि |
शोणितान्मातुः शोणितात् त्वगादि |
षाट्कौषिकमिति प्रोक्तं सर्वदेहेषु देहिनाम् |
प्रपञ्चसारे द्वितीयपटलेऽपि ||
मज्जास्थिस्नायवः शुक्राद्रक्तात्त्वङ्मांसशोणितम् |
इति षाट्कौषिको नाम देहो भवति देहिनाम् |
वेदान्तविद्भिस्त्वपरप्रकारेण पञ्च कोषा उक्ता यथा पौर्णमास्यां पञ्चकोषविवेकेऽष्टमप्रकरेणे विद्यानन्दस्वामिना |
पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्द्धते |
देहः सोऽन्नमयो नात्मा प्राक् चोर्द्धं तदभावतः ||
पितृभुक्तेत्यत्रैकशेषेण मातृपितृभुक्तान्नजातादिति लभ्यते |
अन्नेन दुग्धाद्याहारेण प्राक् जन्मन इति शेषः |
मरणादूर्द्धं तदभावतः देहाभावतः |
पूर्णो देहे बलं स्याद् यल्लक्षाणां यः प्रवर्तकः |
वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् |
लीना सूप्तौ वपुर्बोधे वाप्नुयादानखाग्रगा |
चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् |
भवतीति शेषः |
कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् ||
विज्ञानमनसी अन्तर्वहिश्चैते परस्परमिति |
अत्र रामकृष्णपण्डितस्य व्याख्यानम् |
ननु मनोबुद्ध्योरन्तःकरणत्वाविशेषान्मनो-मयविज्ञानमयरूपेण नोमयविज्ञानमयरूपेण कोषद्वयकल्पना अनुपपन्नेत्याशङ्क्य कर्तृकरणत्वाभ्यां भेदसद्भावाद् घटत एव मनोमयत्वादिभेद इत्याह |
कर्तृत्वेत्यादि अन्तरिन्द्रियमन्तःकरणं कर्तृत्वकरणत्वाभ्यां कर्तृरूपेण कर्णरूपेण च विक्रियेत विपरिणमेत इत्यर्थः |
एते कर्तृकरणे विज्ञानमनसी विज्ञानमनःशब्दवाच्ये भवतः |
एते च परस्परमन्तर्वहिर्भावेन वर्तेते |
अतः कोषद्वयत्वमुपपद्यते इत्यर्थः ||
कादिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् |
पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते |
इदानीमानन्दमयस्यानात्मत्वं दर्शयितुं तत्स्वरूपमाह काचिदित्यादि |
पुण्यभोगे पुण्यकर्मफलानुभवकाले काचिद्धीवृत्तिरन्तर्मुखा सती आनन्दप्रतिबिम्बभाक् आत्मस्वरूपस्यानन्दस्य प्रतिविम्बं भजते |
सैव भोगशान्तौ पुण्यकर्मफलभोगोपरमे सति निद्रारूपेण लीयते विलीना भवति |
सा वृत्तिरानन्दमय इत्यभिप्रायः |
एतेन मज्जामयोऽस्थिमयः स्नायुमयश्चर्ममयो मांसमयो रक्तमयश्चेति ये षट्कोषास्तन्त्रविद्भिरुक्तास्ते तु वेदान्तविद्भिरन्नमयकोषान्तर्गतत्वेनैव पर्यवसिताः |
अधिकास्तु प्राणमयविज्ञानमयमनोमयानन्दमयेति चत्वार उक्ताः |
अतो दशकोषकोऽयं देह इत्यायातम् |
इति शरीरकोषविवरणम् ||
प्रपञ्चसारे ||
रसादितः क्रमात् पाकशुक्रान्तेषु तु धातुषु |
धातुषु रसादितः क्रमात् पाको भवतीत्यन्वयः |
शुक्रपाकात् स्वयं भिद्याज्जराणामष्टमी दशा |
क्षेत्रज्ञस्य तदा जन्तु केवलाश्रयमिष्यते |
यथा स्नेहः प्रदीपस्य यथाभ्रमशनित्विषः |
बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः |
यथा तेजः प्रसरति समीपालोकशक्तिमत् |
तथा देहावृतस्यापि क्षेत्रज्ञस्य महात्विषः |
इन्द्रियैः संविवर्द्धन्ते स्वं स्वमर्थग्रहं प्रति |
प्रदीपस्य प्रज्वलनसमये स्नेहस्तैलादिर्यथा प्रज्वलनार्थं शिखां प्रति प्रसरति स्वयमायाति यथा वा अशनित्विषो विद्युतो द्युतिसमयेऽभ्रं मेघो यथा व बहुच्छिद्रकुम्भावृतस्य वह्नेर्घृतभक्षणसमये समीपालोकशक्तिमन्निकटप्रकाशकशक्तियुक्तं तेजस्तथा देहावृतस्य कोषदशकाभ्यन्तरवर्तिन आत्मनः स्वं स्वं विषयग्रहणं प्रति इन्द्रियैः करणैस्तेजांसि संविवर्द्धन्ते प्रसरन्ति इत्यर्थः |
यथा स्नेहमिति पाठे तु व्यक्त एवार्थस्तथापि व्याख्यायते |
प्रदीपस्य तेजो यथा स्नेहं विद्युतस्तेजो यथा मेघं बहुच्छिद्रपात्रावृतवह्नेर्यथा घृतं प्रति तेजः प्रसरति तथात्मनस्तेजांसि स्वं स्वं विषयग्रहणं प्रति प्रसरन्तीत्यर्थः |
संविवर्द्धन्ते इति बहुवचननिर्देशादेकदापि बह्विन्द्रियैर्बह्वर्थग्रहणमिति सूचितम् |
अतएव अन्तर्दृष्टिर्वहिरुपगतप्रेक्षणाच्छिन्नपाशः प्रौढोल्लासाधिगतपरमब्रह्मनिर्विघ्नचेताः |
तत्तद्भावोदितमधुरगीः सुप्रसन्नान्तरात्मा स्मेरास्या मे भवतु सततं शाम्भवो काप्यवस्था ||
इत्यादि कुलयोगिनः प्रौढोल्लासप्रार्थना ||
अन्तर्दृष्टिर्वहिश्चक्षुरित्यादिवक्ष्यमाणकुलार्णववचनञ्च साधु सङ्गच्छते |
वैष्णवैरप्युच्यते |
पुङ्खानुपुङ्खविषये क्षणतत्परोऽपि धीरो न मुह्यति मुकुन्दपदारविन्दे |
सङ्गीतनृत्यगतितालवशं गतापि मौलिस्थकुम्भपरिरक्षणधीर्नटीव |
इत्यादि प्रत्यक्षसिद्धमपि कश्चिद् युगपद् गात्रं कण्डूयते एवं प्रेषयत्यपरं पश्यति च |
एतेन युगपदुभयविषयकज्ञानं न मन्यामह इति केषाञ्चिम्मतं प्रशस्यमप्रशस्यं वा सुधीभिर्निपुणं विभाव्य विचारणीयमित्यास्तां विस्तरः |
प्रकृतमनुसरामः |
इन्द्रियेषु पञ्चभूतस्थितिप्रकारमाहुः प्रपञ्चसारे आचार्याः ||
नभःश्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथोदकम् |
जिह्वायामवनी घ्राणे इत्थमर्थप्रवर्तनम् |
नभ आकाशं अनिलो वायुरुदकं जलमवनी पृथ्वी |
इदन्तु प्रधानतया उक्तम् |
वस्तुतस्तु प्रागुक्तपञ्चीकरणरूपेण पञ्चस्वपि पञ्च भूतानि सन्तीति पुरैवोक्तम् |
यदा पित्तं मरुन्नून्नं विलीनं प्रविलापयेत् |
धातुस्तदा क्रमाद्रक्तं लसौकां द्रावयेत् क्षणात् |
द्रुता सा तुलसीकाह्वा रोमकूपैः प्रवर्द्धते |
वहिः सर्वत्र कणशस्तथा स्वेदः प्रवर्तते |
यदा कफो मरुत्पित्तनुन्नो लीनः प्रवर्तते |
ऊर्ध्वद्रुतो द्रुतं वाष्पं प्रत्येकञ्च प्रवर्तते |
कफात्मिका तु विकृतिः कर्णशष्कुलिपूरिका |
गण्डमालादिकान् वापि कुर्याज्जन्तोस्तु कर्मजान् ||
शारदायाम् ||
इत्थं भूतस्तदा गर्भे पूर्वजन्मशुभाशुभम् |
स्मरंस्तिष्ठति दुःखात्मा छन्नदेहो जरायुणा ||
शाक्तानन्दतरङ्गिण्याम् |
नवमे मासि गर्भस्थः सर्वान् संस्मरते हृदा |
नवद्वारपुरे देही समयान् गमयेच्छनैः |
स्थितिप्रकारस्तु राघवभट्टधृते |
कृताञ्जलिर्ललाटेऽसौ मातृपृष्ठमभिश्रितः |
अध्यास्ते सङ्कुचद्गात्रो गर्भे दक्षिणपार्श्वगः |
वामपार्श्वाश्रिता नाडीं क्लीवं मध्याश्रितं मतम् ||
विश्वसारे |
योनिदेशोद्भवं रन्ध्रं नाभिमूलमतः परम् |
गर्भाशयन्तु तं प्राहुः सर्वतन्त्रविदो जनाः |
कललं तत्र तिष्ठेद्वै तत्र गर्भः प्रजायते |
कर्मयोगात्मरूपेण निर्माणं विधिरादिशेत् ||
पूर्वार्जितकर्मफलं पूर्वपूर्वतरार्जितम् |
जीवः प्रवेशनं कुर्यात् पूर्वकर्मबुभुक्षया |
प्राक्तनकर्मफलं भोक्तुमिच्छया जीवोऽविद्योपाधिकः प्रवेशनं कुर्याद् गर्भ इति शेषः |
पूर्वकर्मफलं किम्भूतं पूर्व पूर्वार्जितमित्यादि |
अयमाशयः |
कर्म त्रिविधं सञ्चितं प्रारब्धमागामि च |
तत्र सञ्चितस्य प्रायश्चित्तौषधादिना नाशः |
आगामिनश्च तपसा |
अत एव दोषप्रागभावासमकालीनदोषध्वंसवन्तः शिष्टा इति गोपीनाथतर्काचार्येण शिष्टलक्षणं कृतम् |
प्रारब्धस्य भोगं विना न गत्यन्तरमस्ति |
अतस्तत्फलभोगाय गर्मे जीवप्रवेशमाह |
उक्तञ्च प्रारब्धकर्मणां भोगादेव क्षय इति ||
शाक्तानन्दतरङ्गिण्याम् ||
सुकृतं दुष्कृतञ्चैव यत् कृतं पूर्वजन्मनि |
तत् सर्वं सकलं ज्ञात्वा ऊर्ध्वपादस्त्वधोमुखः |
गर्भे तु सम्प्रविष्टोऽसौ स्तिमिते घोरदर्शने ||
स्तिमितेऽन्धकारे घोरदर्शने भयङ्करे |
अभ्यस्यामि शिवं ज्ञानं संसारार्णवतारणम् |
चिरयोगी ततो भूत्वा मुक्तो यास्यामि तत्पदम् |
एवं गर्भस्थितो जीवो गर्भयातनयार्दितः |
नित्यं भावयते चित्ते लब्धचैतन्यलक्षणः ||
विश्वसारे ||
इत्थम्भूतस्तदा गर्भः पूर्वजन्मशुभाशुभम् |
क्षणं तिष्ठेत् स्मरंस्तत्र निश्चेष्टो भवति ध्रुवम् |
शरीरे पञ्चाशदक्षरस्थितिं विना शब्दादिर्नं निर्गन्तुमाननतः शक्तोऽतः शब्दब्रह्मप्रादुर्भावः गर्भं तेषां स्थानमुक्तम् तत्रैव |
पुरा कृतयुगे देवि |
कैलासे पर्वतोत्तमे |
त्वदीयपादयुगलं ध्यायेऽहं ध्यानयोगतः |
मम सिद्धिर्भवेत्तत्र युगान्ते कमलानने ! |
परानन्दमयस्तत्र हस्तवाद्यो ममाभवत् |
तस्मिन्नेव क्षणे देवि ! शब्दब्रह्मविभूषितः |
पटहश्चाभवत्तत्र ममानन्दविवृद्धये |
शब्दार्थकात्मनादेन द्रव्ययोगेन शब्द्यते |
पञ्चाशद्वर्णसंयुक्तं नादबिन्दुविभूषितम् |
पञ्चाशद्वर्णसंयुक्ता मातृका चक्रसंस्थिता |
षट्चक्राङ्धितमन्त्रा च मातृकान्तः शरीरिणाम् |
आधारे लिङ्गनाभौ हृदयसरजिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के |
वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वरांश्च हक्षौ कोदण्डमध्ये न्यसतु विमलधीर्न्याससम्पत्तिसिद्ध्यै |
देहे चतुर्दशभुवनस्थानमुक्तम् शाक्तानन्दतरङ्गिण्याम् |
पातालं भूधरा लोका आदित्यादिनवग्रहाः |
भूधरादिसप्तस्वर्गाश्च नागाश्च सर्वदेहिनाम् |
पिण्डमध्ये स्थिताः सर्वे स्थानं तेषां वदामि ते |
पादाधस्तात्तलं विद्यात्तदूर्द्धं वितलन्तथा |
जानुनोः सुतलञ्चैव अतलं सन्धिरन्ध्रके |
तलातलं गुदमध्ये लिङ्गमूले रसातलम् |
पातालं कटिसन्धौ च पादादौ लक्षयेद्बुधः |
भूर्लोको नाभिदेशेच भुवोलोकस्तथा हृदि |
स्वर्लोकः कण्ठदेशे च महर्लोकश्च चक्षुषि |
जनलोकस्तदूर्द्धञ्च तपोलोको ललाटके |
सत्यलोको महायोनौ भुवनानि चतुर्दश |
त्रिकोणे च स्थितो मेरुरूर्द्धकोणे च मन्दरः |
कैलासो दक्षिणे कोणे वामकोणे हिमालयः |
विन्ध्यो विष्णुस्तदूर्द्धे च सन्त्येते कुलपर्वताः |
अस्थिस्थाने महेशानि ! जम्बुद्वीपो व्यवस्थितः |
मांसेषु च कुशद्वीपः क्रौञ्चद्वीपः शिरासु च |
शाकद्वीपः स्मृतो रक्ते प्राणिनां सर्वसन्धिषु |
तदूर्द्धं शाल्मलिद्वीपः प्लक्षश्च लोमसञ्चये |
नाभौ च पुष्करद्वीपः सागरस्तदनन्तरम् |
लवणोदस्तथा मूत्रे शुक्रे क्षीरोदसागरः |
मज्जा दधिसमुद्रश्च तदूर्द्धं घृतसागरः |
वशापः सागरः प्रोक्त इक्षुः स्यात् कटिशोणितम् |
शोणिते च सुरासिन्धुः कथिताः सप्त सागराः |
ग्रहाणां मण्डलञ्चैव शृणु वक्ष्यामि पार्वति ! |
नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः |
लोचने मङ्गलः प्रोक्तो हृदि सोमसुतस्तथा |
उदरे च गुरुश्चैव शुक्रे शुक्रस्तथैव च |
नाभिस्थितोऽथ मन्दो वै मुखे राहुस्तथा स्थितः |
पादौ पाणौ च केतुश्च शरीरे तीर्थमण्डलम् |
विश्वसारे ||
शीर्षे मुखे तथा वाहौ हृदये चोदरे क्रमात् |
कटौ वस्तौ च गुह्योरुजानुजङ्घाङ्घिषु स्थिताः |
मेषाद्या राशयो देहे तेषां रूपाण्यतः शृणु |
अरुणसितहरितपाटलपाण्डुविचित्राः सितेतरपिशङ्गौ |
पिङ्गलकर्वुरकमलिनारुचयो यथासंख्यम् |
हरितः श्यामलः |
सितेतरः कृष्णः |
पिशङ्गो नीलपीतमिश्रः |
कर्वुरः प्रसिद्धः |
वभ्रुः कपिलः ||
मेषं वृषं समिथुनं कर्कटं सिंहमेव च |
कन्यां तुलां वृश्चिकञ्च धनुषं मकरं तथा |
कुम्भं मीनं न्यसेद् गात्रे ओंकाराद्यं नमोऽन्वितम् ||
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा |
मृगशिरस्तथार्द्रा च पुनर्वसुरतः परम् |
पुष्याश्लेषा मघा चैव पूर्वफल्गुन्यतः परम् |
उत्तराफल्गुनी चैव हस्ता चित्रा ततः परा |
स्वाती विशाखानुराधा ज्येष्ठा मूला ततः परा |
पूर्वाषाढा चोत्तरा च श्रवणाभिजितस्तथा |
धनिष्ठा शतभिषा चैव पूर्वभाद्रपदा तथा |
उत्तरभाद्रपदा चैव रेवत्यन्ताः समीरिताः |
मूर्ध्नि भ्रुयुगले चाक्ष्णोः कर्णयोर्नसि गण्डयोः |
ओष्ठयोर्दन्तपंक्तौ च जिह्वायां ग्रीवमूलके |
स्तनद्वन्द्वे तथा वक्षःपार्श्वयोर्नाभिदेशके |
नितम्बे च तथा पृष्ठे गुह्ये च पादयोः पुनः |
पादमेकं द्विनक्षत्रं राशीनां परिणामकृत् |
शरीरे राशिनक्षत्रकथनप्रयोजनन्तु प्रश्नकाले प्रष्टा यदङ्गे हस्तं दत्त्वा पृच्छति तदङ्गे यो राशिः पतितः तेन वर्णादिकं ज्ञातव्यम् इत्याभिप्रायः ||
श्रीविद्याया राशिन्यासो नक्षत्रन्यासश्चानेनैवोक्त इति ||
शाक्तानन्दतरङ्गिणीघृतज्ञानभाष्ये |
शुक्रादुत्पद्यते रक्तं रक्ताद्बिन्दुसमुद्भवः |
प्राणतो वायुरुत्पन्नः कालाग्निः स्यादपानतः |
शुक्रतो नाभिरुत्पन्ना शुक्रादग्निसमुद्भवः |
अपानात् कालाग्निर्जातो नाभिस्थानस्थो वडवाग्निरूपो य आहारं पचति शुक्रसम्भूता वायुपित्तकफधातुस्था दशाग्नय इति भेदेन वह्न्युत्पत्तिर्द्विरुक्ता |
मांसतश्च मलोत्पत्तिर्मज्जा चापि ततो भवेत् |
शुक्रेणोत्पादिता जिह्वा नासिका सप्त देहिनाम् |
रक्तादुत्पद्यते नेत्रं वामञ्चैव तु दक्षिणम् |
प्राणादुत्पद्यते शून्यं घ्राणरन्ध्रद्वयं तथा ||
तत्त्वसारे षष्ठपटले ||
ईश्वर उवाच |
चन्द्रः सूर्यस्तथा वह्निः शरीरे दश नाडिकाः |
देहस्था वायवः पञ्च मनो बिन्दुस्तथैव च |
षट्चक्रं मेरुदण्डञ्च उड्डीयानं तथैव च |
जालन्धरः कामरूपः पूर्णग्रीवः श्रीहट्टकः ||
निर्वाणतन्त्रे प्रथमपटले ||
जान्तोराकारं ब्रह्माण्डं नानावर्ष्म च पार्वति ! |
ब्रह्माण्डं विग्रहं प्रोक्तं स्थूलसूक्ष्मादिकं हि तत् |
मेरुपर्वतो मध्ये च देवि ! सप्त कुलाचलाः |
मूलादिमस्तकान्तं हि सुमेरुर्नाम पर्वतः |
स्थितो मेरोरधोभागे द्व्यङ्गुलञ्चोर्द्धदेशतः |
भूर्लोकादि महेशानि ! सप्तसर्गं क्रमेण हि |
द्व्यङ्गुलं सप्त पातालास्थिष्ठन्ति परमेश्वरीति |
तत्त्वसारे ||
प्रकृतिः पुरुषो देहे ब्रह्मा विष्णुः शिवस्तथा |
नदाश्चैव समुद्राश्च भुवनानि चतुर्दश |
ब्रह्माण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे |
तेषां सङ्क्षेपतः सर्वं प्रवक्ष्यामि शुचिस्मिते ! |
मेरुपृष्ठे स्थितश्चन्द्रो द्विरष्टकलयान्वितः |
अहर्निशं तुषाराभां धारां वर्षत्यधोमुखः |
सुधांशुर्विविधस्रावी पीयूषबिन्दुरेव च |
बिन्दुरत्नस्य मध्येन देहसिद्धिः प्रजायते |
जवाकुसुमसङ्काशो वस्तिदेशे सुशोभने ! |
शङ्खिनीमूलं संव्याप्य सूर्यस्तिष्ठति देहिनाम् |
द्वादशकलया सूर्यो वह्निर्दशकलात्मकः |
सर्वेषां देहिनां देहे सदा अन्नादिपाचकः |
तुषारं वर्षते चन्द्रो रविः शुष्यति सर्वदा |
संयोगेन स्थितः प्राणो वियोगे मरणं भवेत् |
ऊर्द्ध्वं त्ववयवे रश्मिरधश्चन्द्रामृतं सदा |
अभ्यासं कामरूपस्य योगं योगविदो विदुः |
संयोगी च भवेद्योगी प्राणापानैकयोगतः |
प्राणश्चन्द्रमयः प्रोक्तोऽपानः सूर्यमयस्तथा |
अनयोः सङ्गमो मध्ये रजो रोगस्य साधनम् |
उड्डीयानं दृढं बद्धा कुर्याद्रेचकपूरकौ |
समानोदानयोर्योगः प्राणापानैकयोगतः |
कामरूपे त्रिभिर्योगं प्राणापानसमानकैः ||
नाभिशक्तिद्वयोर्मध्ये उड्डीयानः स उच्यते |
वस्तौ जालन्धरो ज्ञेयः कामरूपस्य गर्भके |
पूर्णग्रीवो भ्रुवोर्मध्ये श्रीहट्टस्तालुकोपरि ||
तथा |
नाभिमध्ये स्थितो ब्रह्मा हृदि मध्ये च केशवः |
शङ्करः शिरसि ज्ञेयस्त्रिस्थानं मुक्तिदायकम् ||
इति शरीरे तीर्थादिकथनम् ||
शाक्तानन्दतरङ्गिण्याम् ||
एतस्मिन्नन्तरे देवि ! विश्वेषां गर्भसङ्कटे |
नवमे दशमे मासि प्रबलैः सूतिमारुतैः |
निःसार्यते वाण इव जन्तुश्छिद्रेण सज्वरः |
पीडार्दितः इत्यर्थः |
पातितोऽपि न जानाति मूर्च्छितोऽपि ततश्चपतिम् |
सूतिवातस्य वेगेन योनिरन्धस्य पीडनात् |
विस्मृतं सकलं ज्ञानं गर्भे यच्चिन्तितं हृदि ||
तत्र पापिनां जन्मसमये पीडाधिक्यं तदुक्तम् प्रपञ्चसारे द्वितीयपटले ||
अथ पापकृतां शरीरभाजामुदरान्निष्क्रमितुं महान् प्रयासः |
नलिनोद्भवधीर्विचित्रवृत्ता नितरां कर्मगतिस्तु मानुषाणाम् |
नलिनोद्भवस्य ब्रह्मणः |
जायतेऽधिकसद्विग्नो जृम्भतेऽङ्गैः प्रकम्पितैः |
यात्युल्वणं निश्वसिति भीत्या रोदितुमिच्छति |
मूलाधारात् प्रथममुदितो यस्तु तारः पराख्यः पश्चात् पश्यत्यथ हृदयगो बुद्धियुङ्मध्यमाख्यम् |
वक्त्रे वैखर्यथ रुरुदिषोर्यस्य जन्तोः सुषुम्नाबद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्गः |
जन्मानन्तरबालकरोदनस्याप्यव्यक्तवर्णात्मकत्वात् वर्णोत्पत्तिप्रकारं वदन् कुण्डलिनीतः सामान्यतः सववर्णानामुत्पत्तिं दर्शितवान् |
श्रोतोमार्गस्याविभक्तत्वहेतोस्तत्रार्णानां जायते न प्रकाशः |
तावद् यावत्कण्ठमूर्द्धादिभेदो वर्णव्यक्तिस्थानसंस्था यतोऽतः |
जातोऽस्मीति यदा भावो मनोऽहङ्कारबुद्धिमान् |
जातश्चित्पूर्वको जन्तोः स्वभावः क्रमवर्द्धितः |
बध्नाति मातापित्रोस्तु ततो बन्धुषु च क्रमात् |
स पीत्वा बहुशं स्तन्यं मातरं स्तनपायिनीम् |
न रोदिति च तांवीक्ष्य तत्र स्यादितरेतरम् ||
शाक्तानन्दतरङ्गिण्यां ||
पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः |
आयुः कर्म च वित्तञ्च विद्या निधनमेव च |
बालकश्च शिशुश्चैव गण्डः कैशोरकस्तथा |
अतः परन्तु युवकः प्रौढश्चैव ततः परम् |
अतिप्रौढस्तथा वृद्धस्त्वतिवृद्धस्ततः परम् |
पलितं मरणञ्चैव अवस्थाः परिकीर्त्तिताः ||
इत्येकादशावस्थाकथनम् ||
मरणानन्तरमपि तत्रैव ||
ततः स नरके याति स्वर्गे वा स्वेन कर्मणा |
देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा |
कृमित्वं स्थावरत्वञ्च जायते जन्म्कर्मभिः ||
तथा |
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते |
देहे विनष्टे तत्कर्म पुनर्देहं प्रपद्यते |
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् |
तथा शुभाशुभं कर्म कर्तारमनुगच्छति |
नन्वाशु विनाशिनः कथं कर्मणोऽमुत्र भोग इति सन्देहस्य निरसनाय सदृष्टान्तमुक्तम् कुलार्णवे पञ्चमखण्डे प्रथमोल्लासे ||
इह यत् क्रियते कर्म तत्परत्रोपभुज्यते |
सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते इति ||
इति श्रीप्राणतोषिण्यां प्रथमकाण्डे मनुष्यजन्मकथनं नाम पञ्चमः परिच्छेदः |

प्रस्तुतं वर्णोत्पत्तिप्रकारं क्रमेण दर्शयति प्रपञ्चसारे ||
अवैशद्यान्मुखश्रोतोमार्गस्याविशदाक्षरम् |
अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा |
मूलाधारे विष्वनति सुषुम्नां वेष्टते मुहुः |
मुखश्रोत्रमार्गस्यावैषम्यादनैर्मूल्याद्धेतोर्यदा सा कुण्डली अविशदाक्षरमविस्पष्टमक्षरं यत्राव्यक्ते ध्वनाविति शेषस्तं प्रलपति अर्थात् कलभाषणादिकं करोति तदा मूलाधारे विष्वनति शब्दायते सुषुम्नाञ्च मुहुर्वेष्टते इत्यन्वयः |
कुण्डलीस्वरूपमुक्तम् शारदातिलके ||
ततश्चैतन्यरूपा सा सर्वगा विश्वरूपिणी |
शिवसन्निधिमागत्य नित्यानन्दगुणोदया ||
तिष्ठतीति परेणान्वयः |
शिवसन्निधीत्यनेन शक्तिशब्दवाच्येयमित्यायातम् अतः स्त्रीलिङ्गेन विशेषणानि |
यद्यपि शिवशक्त्योरेकात्मकत्वेनाभेदस्तथापि काल्पनिकं भेदमुरीकृत्य शिवसन्निधीत्युक्तम् ||
तदुक्तमभिनवगुप्तपादाचार्यैः ||
शक्तिश्च शक्तिमद्रूपाद्व्यक्तिरूपेण वाञ्छति |
तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव |
गुणा नामुदयो यस्यां नित्यानन्दा चासौ गुणोदया चेति सा |
दिक्कालाद्यनवच्छिन्ना सर्वा सर्वार्थगा शुभा |
परापरविभागेन परा शक्तिरियं मता |
काचन परशक्तिः काचनापरशक्तिस्तद्विभागेनापीयं परशक्तिरेव ||
तदुक्तं भगवद्गीतायाम् |
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा |
अपरेयमिति त्वन्यां प्रकृतिं विद्धि मे पराम् |
जीवभूतां महावाहो ! ययेदं धार्यते जगत् ||
शारदायम् ||
योगिनां हृदयाम्भोजे नृत्यन्ती नृत्यमञ्जसा ||
अञ्जसा तत्त्वेनेत्यर्थः ||
आधारे सर्वभूतानां स्फुरन्ती विद्युदाकृतिः |
आधारे मूलाधारे भूतानां जन्तूनाम् ||
शङ्खावर्तक्रमाद्देवी सर्वमावृत्य तिष्ठति |
शङ्खमध्ये य आवर्त्तः स यथा शङ्खमावृत्य तिष्ठति तद्वदियमपि सर्वं शिवमावृत्य तिष्ठतीत्यर्थः |
कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी |
सर्ववेदमयी देवी सर्वमन्त्रमयी शिवा |
सर्वतत्त्वमयी साक्षात् सूक्ष्मात् सूक्ष्मतरा विभुः |
विभुः इयत्तया ज्ञातुमशक्या |
त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी |
त्रिधामेति चन्द्रसूर्याग्निरूपा |
द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी ||
द्विचत्वारिंशदिति भूतलिपिमन्त्रमयी |
पञ्चाशदिति मातृकामयीत्यर्थः |
गुणिता सर्वगात्रेण कुण्डली परदेवता ! विश्वात्मना प्रबुद्धा सा सूते मन्त्रमयं जगत् |
सर्वगात्रेण सर्ववर्णेन गुणिता परस्परमिलिता सती मन्त्रमयं जगत् सूते प्रकाशयतीत्यन्वयः ||
मूलाधारे सर्पवत् कुण्डलीभूता नाडी वर्तते तन्मध्यस्थायित्वादियं कुण्डली |
एकधा गुणिता शक्तिः सर्वविश्वप्रवर्तिनी |
सर्वविश्वेत्युभयोपादानात् शब्दार्थरूपोभयोत्पादिकेति सूचितम् ||
वेदादिबीजं श्रीबीजं शक्तिबीजं मनोभवम् ||
प्रासादं तुम्बुरुं पिण्डं चिन्तारत्नं गणेश्वरम् |
मार्तण्डभैरवं दौर्गं नारसिंहं वराहजम् |
वासुदेवं हयग्रीवं बीजं श्रीपुरुषोत्तमम् |
अन्यान्यपि च वीजानि तदोत्पादयति ध्रुवम् |
यदा भवति सा संविद्द्विगुणीकृतविग्रहा |
संहवर्णौ परात्मानौ शब्दार्थौ वासरक्षपे |
सृजत्येषा परा देवी तदा प्रकृतिपुरुषौ |
यद्यदन्यज्जगत्यस्मिन् युगं तत्तदजायत |
त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी |
प्रसूते त्रैपुरं मन्त्रं मन्त्रं शक्तिविनायकम् |
पाशाद्यं त्र्यक्षरं मन्त्रं त्रैपुटं चण्डनायकम् |
सौरं मृत्युञ्जयं शक्तिं शाम्भवं विनतासुतम् |
वागीशी त्र्यक्षरं मन्त्रं नीलकण्ठं विषापहम् |
मन्त्रं त्रिगुणितं देव्या लोकत्रयगुणत्रयम् |
धामत्रयं सा वेदानां त्रयं वणत्रयं शुभा |
त्रिपुष्करं स्वरान् देवी ब्रह्मादीनां त्रयं त्रयम् ||
त्रिपुष्करमिति ज्येष्ठमध्यमकनिष्ठत्वेन तीर्थत्रयम् |
स्वरानिति उदात्तानुदात्तसमाहारान् ||
वह्नेः कालत्रयं शक्तेस्त्रयं वृत्तित्रयं महत् |
नाडीत्रयं त्रिवर्गं सा यद्यदन्यत्त्रिधा मतम् ||
प्रपञ्चसारे द्वितीयपटलेऽपि ||
द्विचतुःपञ्चषट्सप्त चाष्टौ च दश एव च |
तथा द्वादशपञ्चाशद्भेदेन गुणयेत् क्रमात् |
यदा यदा त्रिगुणयेत्तदा त्रिगुणता विभुः |
शक्तिः कालाग्निनादात्मा गूढमूर्तिः प्रतीयते |
तदा तां तारमित्याहुर्व्योमात्मेति बहुश्रुताः |
तामेव शक्तिं ब्रुवते हरेत्यात्मिति चापरे |
त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी स चा |
त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते |
एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः |
यदा चतुर्धा गुणिता सूक्ष्मादिस्थानचारिका |
वाचिका जाग्रदादीनां करणानाञ्च सा तदा |
सा यदा पञ्चगुणिता पञ्चपञ्चविभेदिनी |
पञ्चानामक्षराणाञ्च वर्णानां मरुतां तथा |
मरुतां प्राणादीनां ||
गुणिता सा यदा षोढा कोषोमिरसभेदिनी |
तदा षड्गुणिताख्यस्य चन्द्रस्य च विभेदिनी |
यदा सा सप्तगुणिता तारहृल्लेखयोस्तथा |
भेदैरहाद्यैः शान्तान्तैर्विद्यते सप्तभिः पृथक् |
अकारश्चाप्युकारश्च मकारो बिन्दुरेव च |
नादः शक्तिंश्च शान्तिश्च तारभेदाः समीरिताः |
हकारो रेफमाये च बिन्दुनादौ तथैव च |
शक्तिशान्तौ च सा प्रोक्ताः शक्तेर्भेदाश्च |
अङ्गेभ्योऽस्यान्तु सप्तभ्यः सप्तधा भिद्यते जगत् |
लोकाद्रिद्वीपपातालसिन्धुग्रहमुनीश्वरैः |
धात्वादिभिस्तथान्यैश्च सप्तसंख्याप्रभेदकैः |
यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी |
दशधा गुणिता नाडी मर्माशादिविभेदिनी |
द्वादशादिक्यापि यदा तदा राश्यर्कमूर्तियुक् |
मन्त्रञ्च द्वादशार्णाख्यमभिधत्ते स्वरानपि |
तत्संख्यञ्च तदा मन्त्रं शक्तिस्तद्गुणितात्मकम् |
पञ्चाशद्धाप्रगुणिता पञ्चाशद्वर्णभेदिनी |
पञ्चाशदंशगुणिताथ यदा भवेत् सा देवी तदात्मविनिवेशितदिव्यभावा |
सौषुम्नवर्त्मशुषिरोदितनादसङ्गात् पञ्चाशदीरयति पंक्तिश एव वर्णान् |
सुषुम्नापथरन्ध्रोद्गतध्वनेः सङ्गात् सा शक्तिः पञ्चाशतं वर्णान् प्रेरयतीत्यर्थः ||
शारदायाम् ||
चतुःप्रकारगुणिता शाम्भवी शर्मदायिनी |
तदानीं पद्मिनीबन्धोः करोति चतुरक्षरम् |
चतुष्टयं गणेशानामात्मादीनां चतुष्टयम् |
ओजापूजादिकं पीठं धर्मादीनां चतुष्टयम् |
दलकादीन् गजान् देवि ! यद्यदन्यच्चतुष्टयम् |
पञ्चधा गुणिता पत्नी शम्भोः सर्वार्थदायिनी |
त्रिपुरा पञ्चकूटं सा तस्याः पञ्चाक्षरद्वयम् |
पञ्चरत्नं महादेव्या सर्वकामफलप्रदम् |
पञ्चाक्षरं महेशस्य पञ्चवर्णं गरुत्मतः |
सम्मोहनान् पञ्च वाणान् कामान् पञ्च सुरद्रुमान् |
पञ्च प्राणादिकान् वायून् पञ्च वर्णान् महेशितुः |
मूर्तिः पञ्चकलाः पञ्च पञ्च ब्रह्म ऋचः क्रमात् |
सृजत्येषा परा शक्तिर्वेदवेदार्थरूपिणी |
षोढा सा गुणिता देवी धत्ते मन्त्रं षडक्षरम् |
षट्कूटं त्रिपुरामन्त्रं गाणपत्यं षडक्षरम् |
षडक्षरं हिमरुचेर्नारसिंहं षडक्षरम् |
ऋतून् वसन्तमुख्यान् षडामोदादीन् गुणाधिपान् |
कोषानूर्मात्रसान् शक्तीर्डाकिन्याद्याः षडध्वनः |
यन्त्रं षड्गुणितं शक्तेः षडाधारन्जीजनत् |
षड्विधं यज्जगत्यस्मिन् सर्वं तत् परमेश्वरी |
सप्तधा गुणिता नित्या शङ्खरार्द्धशरीरिणी |
सप्तार्णं त्रिपुरामन्त्रं सप्तवर्णं विनायकम् |
सप्तकं व्याहृतीनां सा सप्तवर्णं सुदर्शनम् |
लोकान् गिरीन् सुरान् धातून् मुनीन् सप्त ग्रहान् द्विपान् |
समिधः सप्त संख्याताः सप्त जिह्वा हविर्भुजः |
अन्यं सप्तविधं यद् यद् तत्तदस्यामजायत |
अष्टधा गुणिता शक्तिः शैवमष्टाक्षरद्वयम् |
अष्टाक्षरं हरेः शक्तेरष्टा क्षरद्वयं परम् |
भानोरष्टाक्षरं दौर्गमष्टार्णं परमात्मनः |
अष्टार्णं नीलकण्ठस्य वासुदेवात्मकं मनुम् |
यन्त्रं कामार्गलं दिव्यं देवीयन्त्रं घटार्गलम् |
गन्धाष्टकं शुभं देवीदेवानां हृदयङ्गम् |
ब्राह्म्याद्या भैरवान् सर्वान् मूर्त्तीराशा वसूनपि |
अष्टपीठं महादेव्या अष्टाष्टकसमन्वितम् |
चाष्टौ सा प्रकृतिर्विघ्नवक्रतुण्डादिकान् क्रमात् |
अणिमादिगुणानागान् वह्नेर्मूर्त्तीर्यमादिकान् |
अष्टात्मकं जगत्यन्यं सर्वं वितनुते तदा |
नवधा गुणिता नित्या सूते मन्त्रं तदात्मकम् |
नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी |
नवकं पीठशक्तीनां शृङ्गारादीन् रसान्नव |
माणिक्यादीनि रत्नानि नव वर्गयुतानि च |
नवकं प्राणदूतीनां मण्डलं नवकं शुभम् |
यद् यन्नवात्मकं लोके सर्वमस्यामुदञ्चति |
दशधा विकृता शम्भोर्भाविनी भवदुःखहा |
दशाक्षरी गणपतेस्त्वरिताया दशाक्षरम् |
त्रिपुरा दशकूटं सा त्रिपुराया दशाक्षरम् |
दशाक्षरं सरस्वत्या यक्षिण्याः सा दशाक्षरम् |
वासुदेवात्मकं मन्त्रमश्वारूढादशाक्षरम् |
नाम्ना पद्मावतीमन्त्रं वायुमन्त्रं दशाक्षरम् |
दशकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी |
नारीणां दशकं विष्णोरवतारान् दश क्रमात् |
दशकं लोकपालानां यद् यदन्यत् सृजत्यसौ |
एकादश क्रमात् संविद्गुणिता सा जगन्मयी |
रुद्रैकादशिनीमाद्यशक्तेरेकादशाक्षरम् |
एकादशाक्ऽरं वाण्या रुद्रानेकादश क्रमात् |
समुद्गिरति सर्वज्ञा गुणिता द्वादश क्रमात् |
नित्यामन्त्रं महेशाद्या वासुदेवात्मकं मनुम् |
राशीन् भानून् हरेर्मूर्तीर्यन्त्रं सद्वादशात्मकम् |
अन्यदेतादृशं सर्वं यत्तदस्यामजायत ||
राघवभट्टधृतपदार्थादर्शे |
त्रयोदशधा गुणिता वागीश्वर्यश्वारूढामन्त्रं विश्वेदेवादिकञ्च |
चतुर्दशा गुणिता वासुदेवगोपालमन्त्रभुवनादिकम् |
पञ्चदशधा गुणिता नित्या शूलिनो मन्त्रतिथ्यादिकम् |
षोढशधा गुणिता चक्रमन्त्रस्वरकलादिकम् |
स्वरेति अकारादिविसर्गान्तम् |
सप्तदशधा गुणिता लघु पञ्चमी ताराविद्यामन्त्रादिकम् |
ऊनविंशतिधा कृष्णधरामन्त्रादिकम् |
विंशतिधा गुणिता रत्नधारोमामहेश्वरमन्त्रादिकम् |
एकविंशतिधा गुणिता बहुकनाममन्त्रयन्त्रादिकम् |
द्वाविंशतिधा गुणिता कृष्णान्नाधिपतिसुमुखीमन्त्रादिकम् |
त्रयोविंशतिधा गुणिता लघुश्यामापुरुषोत्तमहृदयङ्गममन्त्रादिकं सूते इति ||
शारदायाम् ||
चतुर्विंशतितत्त्वात्मा तदा भवति शोभना |
गायत्री सवितुः शम्भोर्गायत्री नदनात्मिका |
गायत्री विण्षुगायत्री गायत्री त्रिपुरात्मनः |
गायत्री दक्षिणामूर्तेर्गायत्री शम्भुयोषितः |
चतुर्विंशतितत्त्वानि तस्यामासन् परात्मनि |
तत्राप्यन्यदिति ज्ञेयम् ||
द्वात्रिंशद्भेदगुणिता सर्वमन्त्रमयी विभुः |
सूते मृत्युञ्जयं मन्त्रं नारसिंहं महामनुम् |
लवणाद्यं महामन्त्रं वरुणस्य महात्मनः |
हयग्रीवमनुं दौर्गं वाराहं वह्निनायकम् |
गणशितुर्महामन्त्रं मन्त्रं सेनाधिपस्य सा |
मन्त्रं श्रीदक्षिणामूर्तेर्मालामन्त्रं मनोभुवः |
त्रिष्टुभं वनवासिन्या अघोराख्यं महामनुम् |
मन्त्रं सा देवकीसूनोर्मन्त्रं श्रीपुरुषोत्तमम् |
श्रीगोपालमनुं भूर्ममनुं तारामनुं क्रमात् |
महामन्त्रं महालक्ष्म्या मन्त्रं भूतेश्वरस्य सा |
क्षेत्रपालात्मकं मन्त्रं मन्त्रमापन्निवारकम् |
सूते मातङ्गिनीं विद्यां सिद्धिविद्यां शुभोदयाम् |
अनेन क्रमयोगेन गुणिता शिववल्लभा |
षट्त्रिंशत्पञ्चतत्त्वानि शैवानि रचयत्यसौ |
अन्यान्मन्त्रांश्च यन्त्राणि शुभदानि प्रसूयते |
अत्र प्रकरणे सूते अजीजनदित्यादि यदुक्तं तत् प्रकाशकत्वाभिप्रायेण प्रतीत्यभिप्रायेण वा |
अन्यथा सर्ववेदमयीत्यादि प्रागुक्तमनुपपन्नं स्यात् |
सर्वेषां मातृकारूपकुण्डल्यवयवात्मकत्वेन जन्मादि विरुद्धमिति सुधीभिः सुनिपुणेन मानसेन विवेचनीयम् |
अक्षरोत्पत्तिक्रममाहुः शारदायामाचार्याः ||
द्विचत्वारिंशता मूले गुणिता विश्वनायिकाः |
सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः |
शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निबोधिका |
ततोऽर्द्धेन्दुस्ततो बिन्दुस्तस्मादासीत् परा ततः ||
मूले मूलाधारे द्विचत्वारिंशता गुणिता विश्वनायिका कुण्डलिनी अनेन क्रमेण अकारादिसकारान्तां द्विचत्वारिंशदात्मिकां भूतलिपिमन्त्रात्मिकां वर्णमालिकां सूते इत्यन्वयः |
क्रममाह शक्तिमिति |
सा कुण्डलिनी शक्तिं सूते ततः शक्तेर्ध्वनिरासीदिति योजना |
ततो ध्वनेरित्यादि ज्ञेयम् |
अयञ्च क्रमः सर्वाक्षरोत्पत्तौ सैव सत्त्वप्रविष्टा रजोऽनुविद्धा सती ध्वनिशब्दवाच्या अक्षरावस्था सैव तमोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था सैव तमःप्राचुर्यान्निबोध्किकाशब्दवाच्या सैव तत्त्वभयप्राचुर्यादर्द्धेन्दुशब्दवाच्या उक्तञ्च पदार्थादर्शे |
इच्छाशक्तिबलोद्घुष्टो ज्ञानशक्तिप्रदीपकः |
पुंरूपिणी च सा शक्तिः क्रियाख्या सृजति प्रभुः |
असावेव बिन्दुः स्थानान्तरगतः पराद्याख्यो भवति |
पश्यन्ती मध्यमा वाची वैखरी शब्दजन्मभूः ||
तत्र परा मूले पश्यन्ती स्वाधिष्ठाने मध्यमा हृदये वैखरी मुखे |
तदुक्तं पदार्थादर्शे ||
सुक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रास्वरूपिणी |
अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्ध्वगामिनी |
स्वयंप्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् |
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी |
ततः सञ्जल्पमात्रा स्यादविभक्तोर्द्धगामिनी |
सैवोरः कण्ठतालुस्था शिराघ्राणवदस्थिता |
जिह्वामूलोष्ठनिर्धूतसर्ववर्णपरिग्रहा |
शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी |
इच्छाज्ञानक्रियात्मासौ तेजोरूपा गुणात्मिका |
क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् |
अकारादिसकारान्तां द्विचत्वारिंशदात्मिकाम् |
पञ्चाशद्द्वारगुणिता पञ्चाशद्वर्णमालिकाम् |
सूते तद्वर्णतो भिन्नाः कला रुद्रादिकान् क्रमात् |
कला रुद्राश्च पूर्वोक्ताः |
आदिशब्देन पञ्चाशत्कामाः कामशक्तयो गणेशास्तच्छक्तयः क्षेत्रपालाश्चोक्ताः |
कामनामानि राघवभट्टधृतानि यथा ||
कामकामदकान्ताश्च कान्तिमान् कामगस्तथा |
कामचारश्च कामी च कामुकः कामवर्द्धनः |
रामो रमश्च रमणो रतिनाथो रतिप्रियः |
रात्रिनाथो रमाकान्तो रममाणो निशाचरः |
नन्दको नन्दनश्चैव नन्दी नन्दयिता पुनः |
पञ्चवाणो रतिसखः पुष्पधन्वा महाधनुः |
भ्रामणो भ्रमणश्चैव भ्रममाणो भ्रमोऽपरः |
भ्रान्तश्च भ्रामको भृङ्गी भ्रान्ताचारो भ्रमावहः |
मोहनो मोहको मोहो मोहवर्द्धन एव च |
मदनी मन्मथश्चैव मातङ्गी भृङ्गनायकः |
गायनी गीतिजश्चैव नर्तकः खेलकस्तथा |
उन्मत्तो मत्तकश्चैव विलासो लोभवर्द्धनः |
दाडीमीकुसुमाभश्च वामार्द्धे शक्तिसंयुतः |
सौम्या रक्ताम्बराः सर्वे पुष्पवाणाक्षकार्मुके |
विभ्राणाः सर्वभूषाट्याः कामाः पञ्चाशदीरिताः ||
तच्छक्तिनामानि च तत्रैव ||
रतिः प्रीतिः कामिनी च मोहिनी कमलप्रिया |
विलासिनी कल्पलता श्यामला च शुचिस्मिता |
विस्मिताक्षी विशालाक्षी लेलिहाना दिगम्बरी |
वामा कुब्जाधरा नित्या कल्याणी मोहिनी तथा |
मदना च सुरश्रेष्ठा लापिनी मर्दिनी तथा |
कलहप्रिया तथैवकाक्षी सुमुखी नलिनी ततः |
जयिनी पालिनी चैव शिवा मुग्धा सविभ्रमा |
चारुनेत्रा सुलोला च दीर्घजिह्वा रतिप्रिया |
लोलाक्षी शृङ्गिणी चैव पावना मादना तथा |
माला च हंसिनी विश्वतोमुखी नन्दिनी तथा |
रमणी च तथा कान्तिः कलकण्ठी वृकोदरी |
मेघश्यामा रुषोन्मत्ता एकपञ्चादशीरिताः |
शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः |
नीलोत्परकरा ध्येयास्त्रैलोक्याकर्षणक्षमा इति ||
पञ्चाशद्गणेशास्तच्छक्तयश्च तत्रैव |
विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ |
विघ्नहृद्विघ्नकर्ता च गणैकद्विसुदन्तकाः |
गजवक्त्रनिरञ्जनौ कपर्दी दीर्घजिह्वकः |
शङ्कुकर्णश्च वृषभध्वजश्च गणनायकः |
गजेन्द्रः सूर्यकर्णश्च स्यात् त्रिलोचनसंज्ञकः |
लम्बोदरमहानन्दौ चतुर्मूर्तिसदाशिवौ |
अमोघदुर्मुखौ चैव सुमुखश्च प्रमोदकः |
एकपादो द्विजिह्वश्च सूरवीरशिवामुखाः |
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः |
सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः |
जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः |
भक्ष्यप्रियो गणेशश्च मेघनायकसंज्ञकः |
व्यापी गणेश्वरः प्रोक्तः पञ्चाशद्गणपा इमे |
तरुणारुणसङ्काशा गजवक्त्रास्त्रिलोचनाः |
पाशाङ्कुशवराभीतिहस्ताः शक्तिसमन्विताः ||
ह्रीः श्रीश्च पुष्टिः शान्तिश्च क्षान्तिश्चैव सरस्वती |
स्वाहा मेधा कान्तिकामिन्यो मोहिन्यपि वै नटी |
पार्वती ज्वलिनी नन्दा सुयशाः कामरूपिणी |
उग्रतेजोवती सत्या विघ्नेशानी सुरूपिणी ||
कामदा मद जिह्वा च भूतिः स्याद्भौतिका सिता |
रमा च महिषी प्रोक्ता भञ्जिनी च विकर्णया |
भ्रूकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्द्धरा |
यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा |
लोलाक्षी चञ्चला दीप्तिः शुभगा दुर्भगा शिवा |
गर्भा च भगिनी चैव भोगिनी सुभगा मता |
कालरात्रिः कालिका च पञ्चाशच्छक्तयः स्मृताः |
सर्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुशोभना |
रक्तोत्पलकरा ध्येया रक्तमाल्याम्बरारुणाः |
इत्येकोनपञ्चाशद्गणेशशक्तयः |
एकोनपञ्चाशत् क्षेत्रपालाश्च क्षेत्रपालप्रकरणे प्रयोगसारे ||
भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्तिताः |
मातृकावीजभेदेन सम्भिन्ना नामभेदतः |
अजरश्चापकुम्भश्च इन्द्रस्तुतिस्ततः परम् |
इडाचारश्चोक्तसंज्ञ उष्माद ऋषिसूदनः |
समुक्तो लुप्तकेशश्च क्षेपकश्चैकदंष्ट्रकः |
ऐरावतश्चौघबन्धूरोगाधीशस्तथैव च |
अञ्जनश्चास्त्रवारश्च कवलः खरुखानलः |
चामुख्यश्चैव घण्टादोङ्मनश्च चण्डवारणः |
छटाटोपो जटालाख्यो ऋद्धीवश्च जडश्चरः |
टङ्कपाणिस्तथा चान्यष्ठानबन्धुश्च डामरः |
ढक्वावारोणवाणश्च तडिद्देहः स्थिरस्तथा |
दन्तुरो धनदश्चाप्यनत्तिक्तान्तः प्रचण्डकः |
फट् कारो वीरसङ्घश्च शृङ्गाख्यो मेघभामुरः |
युगान्तो चौह्यवश्चाथ लम्बोष्ठी वसवस्तथा |
शुकनन्दः षडालाख्यः शुनानाहं वृकस्तथा |
एते भेदाः समाख्याता मातृकाक्षरयोनिकाः |
क्षेत्रपालकथनप्रयोजनमुक्तम् तत्रैव ||
नामपद्यस्य वर्णानां यो वर्णो मातृकान्तरे |
दृश्यते प्रथमं तत्र तत्रायं क्षेत्रपालकः |
तत्र तत्र विशिष्टात्मा भेदैरेतैर्व्यवस्थितः |
ततो विशिष्टो यष्टव्यः क्षेत्रपालस्तु सर्वतः |
क्षेत्रपालमसम्पूज्य यः कर्म कुरुते क्वचित् |
तस्य कर्मफलं हन्ति क्षेत्रपालो न संशयः |
इति एकोनपञ्चाशत्क्षेत्रपालकथनम् |
वैखरीसृष्टिं वक्तुमारभते ||
शारदायां द्वितीयपटले ||
ततो व्यक्तिं प्रवक्ष्यामि वर्णानां वदने नृणाम् |
प्रेरिता मरुता नित्यं सुषुम्नारन्ध्रनिर्गताः |
कण्ठादिकरणैर्वर्णाः क्रमादाविर्भवन्ति ते |
नृणां वदने वर्णव्यक्तिं वर्णप्रकाशकारणं वक्ष्यामीत्यन्वयः |
ननु |
पञ्जरे शुकसारङ्गपतगाः पक्षियोनयः |
गृह्णन्ति साधुसंसर्गान्मन्नाम मङ्गलं महत् |
इति रुद्रजामलोत्तरखण्डप्रथमपटलोक्तवचनेन पक्षिणामपिवर्णोच्चारणदर्शनात् |
महाभारतादावपि हंसकाकीयोपाख्यानादिनास्तस्य सुस्पष्टावगमात् पक्षिपठनस्य प्रत्यक्षसिद्धत्वाच्च कथं नृणामित्युक्तमिति चेत् सत्यं प्रायिकत्वेन मनुष्यस्य प्रकरणबललब्धत्वेन वा नृणामित्युक्तं न तु पक्ष्यादिव्यावर्तनाय |
यद्वा नृणामिति बहुवचननिर्देशाद्वर्णोच्चारणार्हगणो लभ्यते अतो न कश्चिद्दोष इति वर्णव्यक्तिप्रकारमाह प्रेरिता इत्यादि ||
मरुता प्रेरिताः पश्यन्तीस्थानं प्रापिता उत्पत्त्युन्मुखीकृताः |
सुषुम्नारन्ध्रनिर्गताः कण्ठादिकरणैः क्रमादाविर्भवन्ति इति सम्बन्धः |
एकदोच्चारणाभावात् क्रमादित्युक्तं तदुक्तं भर्तृहरिणा ||
आत्मा बुद्ध्या समर्थ्यार्थान् मनोयुक्ते विवक्षया |
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् |
मारुतस्तूरसि चरन् मन्द्रं जनयति ध्वनिमिति ||
कण्ठादीत्यादिशब्देन ताल्वादि ||
तथाच शिक्षासूत्रम् ||
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा |
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु चेति |
पञ्चांशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेदिति वक्ष्यमाणवचनेन मनुष्यस्य वर्णोच्चारणेऽपि गुरुरूपसाधुसंसर्गः पक्षिणामिव कारणात्मकत्वेनावधार्यः |
पूर्वस्मिन् वर्णानां सोमसूर्याग्निरूपत्वं सामान्यत उक्तम् |
अधुना तद्विशेषयति शारदायाम् |
एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः |
आग्नेया व्यापकाः सर्वे सोमसूर्याग्निरूपिणः ||
एषु वर्णेषु ||
स्वराः षोडश विख्याताः स्पर्शांस्ते पञ्चविंशतिः |
तत्त्वात्मानः स्मृताः स्पर्शा मकारः पुरुषो यतः |
यस्मान्मकारः पुरुषः परमात्मा रविस्वरूपस्तस्मात् ककारादिभपर्यन्तास्तत्त्वात्मानः प्रकृत्यादिचतुर्विंशतितत्त्वमया इत्यर्थः |
अतएव सर्ववीजेषु विष्णुरूपमकारयोगात् पुरुषैक्यं तेषामिति मन्तव्यम् |
मकारस्य बिन्दुरूपत्वाद्बिन्दुः पुसान् रविः प्रोक्त इति वक्ष्यमाणं साधु सङ्गच्छते |
सूर्यरूपविन्द्वात्मना मकारेण स्पृश्यमानत्वादेते कादयः स्पर्शाः |
व्यापका दश ते कामधनधर्मप्रदायिनः |
एषां दोषदूष्येषु वर्तमानत्वाद्व्यापकत्वम् |
तत्राग्नीनामपि सत्त्वादाग्नेया इत्यपि |
नृसिंहाख्यकालाग्निरूपक्षकारान्तत्वेन वा आग्नेया इति द्रष्टव्यम् |
ते वर्णा यथाक्रमं स्वराः कामप्रदाः स्पर्शा धनप्रदा व्यापका धर्मप्रदा इत्यर्थः |
प्रणवाद्धंसोत्पत्तिप्रकारो दर्शितः सम्प्रति हंसतः सर्वाक्षरोत्पत्तिप्रकारमाह प्रपञ्चसारे तृतीयपटले ||
यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः |
भेदा येन प्राकारेण तथा वक्ष्यामि तत्त्वतः |
समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः |
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः |
उच्चैरुन्मार्गणो वायुरुदात्तं कुरुते स्वरम् ||
नीचैर्गतेऽनुदात्तञ्च स्वरितं तिर्यगागतः |
स्वरितं समाहारम् ||
अर्द्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् |
सव्यञ्जनह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः |
अकारेकारयोर्योगादेकारो वर्ण इष्यते |
तस्यैवाकारयोगेन स्यादैकाराक्षरं तथा |
उकारयोगात्तस्यैव स्यादोकाराह्वयः स्वरः |
तस्याकारस्य ||
तस्यैवौकारयोगेन स्यादौकाराह्वयः स्वरः |
सन्ध्यक्षराः स्युश्चत्वारी मन्त्राः सर्वार्थसाधकाः |
ऌवर्णवर्णयोर्व्यक्तिर्न वै सम्यक् प्रदर्श्यते |
बिन्दुसर्गात्मनोर्व्यक्तिमनसोरजपा वदेत् |
कण्ठात्तु निःसरन् सर्गः प्रायश्चात्मकतः परः |
नश्वरः सर्ग एव स्यात् सोच्छासः प्राणकस्तु हः ||
सर्गो विसर्ग एव नश्वरो विकृतः |
सोच्छासः काररूपः उच्छासोऽन्तःप्रवेशशाली वायुः स्यादित्यन्वयः |
एवं प्राणको वहिर्निर्गमनशाली वायुर्हः स्यात् स एव उच्छासः सोच्छास इति सन्धिस्तु न विसर्गगीयेति नञा निर्दिष्टत्वात् |
सश्चासावुच्छासश्चेति वा |
प्राणश्चासौ को वायुश्चेति प्राणकः |
स सर्गः श्लेषितः कण्ठो वायुना कादिमीरयेत् |
वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् |
स्तोकगम्भीरसंस्पर्शात् पघौ ङञ्च वहिर्गतम् |
विसर्गस्तालुगः सोष्मा शञ्च वर्गञ्च यं तथा |
ऋटुरेफषकारञ्च मूर्द्धगो दन्तगस्तथा |
ऌतवर्गलसानोष्ठ्यानुपूपध्यानसंज्ञकान् |
दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समीरयेत् ||
अत एवोक्तं शिक्षासूत्रे ||
अवर्णकवर्गहविसर्जनीयाः कण्ठ्याः ||
इवर्णचवर्गयशा स्तालव्याः ||
ऋवर्गटवर्गरषा मूर्द्धन्याः ||
ऌवर्णतवर्गलसा दन्त्याः ||
उवर्णपवर्गोपध्मनीया ओष्ठ्याः ||
वो दन्तौष्ठ्यः ||
एऐ कण्ठ्यतालव्यौ ||
ओऔ कण्ठ्यौष्ठौ ||
वरदातन्त्रे दशमपटले ||
श्रीशिव उवाच ||
यद्गुह्यं सर्वतन्त्रेषु वर्णोच्चारविधिं शिवे ! |
तव स्नेहान्महेशानि ! तदद्य कथयामि ते |
पञ्चाशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेत् |
अकुचुटुतुपुयुशु अष्टौ वर्गाः प्रकीर्तिताः |
उकारः पञ्चपञ्चवर्णविभागार्थः |
अकहाःकण्ठतो ज्ञेयास्तालुतश्चुयशाः स्मृताः ||
ऋटुरषास्तु मूर्द्धन्या दन्त्या ऌतुलसा मताः ||
उपराश्चोष्ठसम्भूताः स्थानानि कथितानि ते |
विशेषं कथयाम्यद्य प्रोच्चार्याः कण्ठतः स्वराः |
ऋद्वयं जिह्वाया मूर्द्धा ऌद्वयं जिह्वदन्तजम् |
मुखस्थानाद्धलो वाच्याः क्षकारः कण्ठघातजः |
व्यञ्जनद्वयसंयोगे भवेत् पूर्वस्वरो गुरुः |
पादान्तादिमवर्णस्य संयोगेषु श्रुतिर्द्वयोः |
अपदान्तादिसंयोगे यवोरन्यत्र तथेष्यते |
यवोः श्रुतिस्तु तिरोभूय स्वरवत् श्रुतितां व्रजेत् |
त्रियावीजे शकारस्य छश्रुतिः परमेश्वरि ! |
छश्रुतिश्च वादिभृगौ तथादिस्थे तु चश्रुतिः ||
सहस्र इत्यादौ नमस्तस्मै आस्था इत्यादौ च ||
रेफादिके तदन्ते वा हाकारे समवाच्यता |
वर्हह्नद इत्यादौ |
किन्तु वैजात्यमाश्रित्य स्फुटं नात्रास्य वाच्यता |
चु तुर्यध्वनिमाप्नोति यादिस्थे परमेश्वरि ! |
वाह्य इत्यादौ |
पु चतुर्थध्वनिं याति वादिस्थे तु विशेषतः |
आह्वानमित्यादौ |
लादिस्थेऽप्यथ नादिस्थे वैजात्यं स्वल्पवाच्यता |
प्रह्लाद अह्नाय इत्यादौ |
मादिस्थे मे च मस्यापि नासिकामूलवाच्यता |
ङञणनमा बिन्दुनासिकामूलजाः स्मृताः |
यकारश्चुतृतीयत्वं पदादौ सर्वदा व्रजेत् |
केयूरादावपि तथा अन्यत्र कण्ठमात्रगः ||
नादिस्थशसयोश्छत्वं स्वंरयोगान्तवर्गके |
प्रश्न स्नान इत्यादौ |
वर्णोत्तरेषु डढयोर्वक्रजिह्वादिवाच्यता |
वैजात्यमपि तत्रास्ति गुरोरेव समभ्यसेत् |
आदिरेफस्तु संप्रोक्तो दृशेरन्यो व्रेजेदृताः |
एवं ज्ञात्वा महेशानि ! पठेत् स्तोत्रं जपेन्मनुम् |
कवचञ्च महेशानि ! नान्यथा फलमाप्नुयात् |
यत्रैव परमेशानि ! स्तोत्रं वा संहितां पठेत् |
तत्र तत्र परं यत्रात् समाप्तं कीर्तयेद्बुधः |
इति वर्णोच्चारणप्रकारणकथनम् ||
शारदायाम् ||
ह्रस्वः स्वरेषु पूर्वोक्तः परो दीर्घः क्रमादिमे |
शिवशक्तिमयास्ते स्युर्बिन्दुसर्गावसानकाः |
बिन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिर्निशाकरः |
एकारोकारस्योर्दीर्घत्वेऽप्यत्र परिभाषिकं ह्रस्वत्वम् |
इमे ह्रस्वदीर्घाः क्रमात् शिवशक्तिमया ह्रस्वा अ इ उ ऋ ऌ ए ओ अं एते शिवमयाः पुंरूपाश्च इत्यर्थः |
आ ई ऊ ॠ ॡ ऐ औ अः एते दीर्घाः शक्तिमयाः स्त्रीरूपाश्चेति |
बिन्दुविसर्गौ पुरुषप्रकृतिरूपौ पृथग्भूतावेताविति विवक्षया ते बिन्दुसर्गावसानकाः स्युरित्यन्वयः |
ते ह्रस्वा अन्ते बिन्दुयुक्ता दीर्घाश्च अन्ते विसर्गयुक्ता ह्रस्वेषु बिन्दुरष्टमो दीर्घेषु विसर्गोऽष्टम इत्यर्थः |
विसर्गो निशाकर इत्युक्ते तदितरस्वराणां तत्कलारूपतिथ्यात्मकत्वम् |
अत एव स्वराः सौम्या इत्युक्तम् |
स्वराणां मध्यगं यत्तु तच्चतुष्कं नपुंसकम् |
विना स्वरैस्तु नान्येषां जायते व्यक्तिरञ्जसा |
शिवशक्तिमयान् प्राहुस्तस्माद्वर्णान् मनीषिणः |
अयमभिप्रायः स्वराणां शक्तिमयत्वं पूर्वमुक्तं स्वरं विना व्यञ्जनानामुच्चारणस्याशक्यत्वात् स्वरसहितोच्चारणे शिवशक्तिमयत्वमिति |
शारदायाम् |
कारणात् पञ्चभूतानामुद्भूता मातृका यतः |
ततो भूतात्मका वर्णाः पञ्चपञ्चविभागतः ||
शिवशक्तिसमवायाद्विन्दोः कारणाद् यतो मातृका उद्भूतास्ततः कारणात् पञ्चपञ्चविभागतो वर्णाः पञ्चभूतात्मका ज्ञेया इत्यन्वयः |
अकारादिक्षकारान्तवर्णसमुदायस्य मातृका इति संज्ञा |
उद्दिष्टं स्पष्टयति |
वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् |
पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः |
पञ्चशः कादयो यक्षलसहान्ताः समीरिताः |
वायवाकाशयोराद्यन्तेन निर्दिष्टत्वाद्व्युत्क्रमोक्तिः पञ्चीकरणप्रक्रियाया मुख्यत्वद्योतनाय |
अन्यत् सर्वं सुगमम् |
ननु कथमत्र विसर्गो न गणित इति चेदुच्यते मूलाधारात् सञ्जातविवक्षोत्पन्नप्राणपवनप्रेरितः स्थानान्तरमप्राप्य कण्ठादेव निःसरन् प्रकृत्यात्मकसर्गोऽत्र भूतेषु न गणितः ||
इति श्रीप्राणतोषिण्यां प्रथमकाण्डे वर्णोत्पत्तिक्रमकथनं नाम षष्ठः परिच्छेदः || ६ ||
एवं वर्णेषु प्रादुर्भूतेषु कदाचित् शब्दात्मकेषु पुरुषाणां भ्रान्तिरपि सम्भवतीत्यतस्तेषामीश्वरेण पत्रारूढमूर्तिः कल्पिता ||
तदुक्तं ज्योतिस्तत्त्वे वृहस्पतिना ||
षाण्मासिकेऽपि समये भ्रान्तिः सञ्जायते यतः |
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा इति |
तेषां लेखनप्रकारस्तु वर्णोद्धारतन्त्रे प्रथमपटले भगवतीप्रश्नानन्तरं शिव उवाच ||
वर्णोद्धाराख्यतन्त्रे तु कथयामि शृणुष्व मे |
पञ्चाशन्मातृका नित्या साक्षाद् ब्रह्मरूपिणी |
इत्युपक्रम्य सर्ववर्णलेखनप्रकारं स एवोपदर्शितवान् स प्रकारोऽग्रे स्फुटीभविष्यति |
कामधेनुतन्त्रे प्रथमपटले ||
शृणु तत्त्वमकारस्य अतिगोप्यं वरानने ! |
शरच्चन्द्रप्रतीकाशं पञ्चकोणमयं सदा |
पञ्चदेवमयं वर्णं शक्तिद्वयसमन्वितम् |
निर्गुणं सगुणोपेतं स्वयं कैवल्यमूर्तिमत् |
बिन्दुद्वयमयं वर्णं स्वयं प्रकृतिरूपिणी |
वर्णोद्धारतन्त्रे |
दक्षतः कुण्डली भूत्वा कुञ्चिता वामतो गता |
ततोर्द्धसङ्गता रेखा दक्षोर्द्धा तासु शङ्करः |
विधिर्नारायणश्चैव सन्तिष्ठेत् क्रमतः सदा |
अर्द्धमात्रा शक्तिरूपा ध्यानमस्य च कथ्यते |
अ ||
कामधेनुतन्त्रे द्वितीयपटले ||
आकारं परमाश्चर्यं शङ्खज्योतिर्मयं प्रिये ! |
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ! |
पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली ||
वर्णोद्धारतन्त्रे ||
अकाररूपमासाद्य दक्षक्रोडायता त्वधः |
ब्रह्मादयस्तथा शक्तिस्तासु तिष्ठन्ति नित्यशः |
आ |
कामधेनुतन्त्रे ||
इकारं परमानन्दं सुगन्धकुङ्कुमच्छवि |
हरिब्रह्ममयं वर्णं सदा रुद्रमयं प्रिये ! |
सदाशक्तिमयं देवि ! गुराब्रह्ममयं तथा |
सदाशिवमयं वर्णं परंब्रह्मसमन्वितम् ||
वर्णोषारतन्त्रे ||
ऊर्द्ध्वाधः कुब्जिता मध्ये रेखा तत्सङ्गता भवेत् |
लक्ष्मी?र्वाणी तथेन्द्राणी क्रमात्तास्वेव संवसेत् |
शीर्षाधः कुञ्चिता रेखा दक्षोर्द्धा कामरूपिणी |
मात्रा शक्तिः कोणयुता ध्यानमस्य प्रवक्ष्यते ||
इ ||
कामधेनुतन्त्रे ||
ईकारं परमेशानि ! स्वयं परमकुण्डली |
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा |
पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिः |
चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा |
वर्णोद्धारतन्त्रे ||
ऊर्द्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः |
अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा |
शीर्षाद्दक्षे कोणयुता कुञ्चितोर्द्धगता पुनः |
चन्द्रसूर्याग्निरूपा सा मात्राशक्तिः प्रकीर्तिता ||
ई ||
कामधेनुतन्त्रे ||
उकारं परमेशानि ! अधः कुण्डलिनी स्वयम् |
पीतचम्पकसङ्काशं पञ्चदेवमयं सदा |
पञ्चप्राणमयं देवि ! चतुर्वर्गप्रदायकम् |
वर्णोद्धारे ||
ऊर्द्ध्वाधोमध्यतः कुब्जा रेखा वामगता शुभा |
तिष्ठन्ति वायुवह्नीन्द्राः शक्तिर्मात्रा परा स्मृता ||
उ ||
कामधेनुतन्त्रे ||
शङ्खकुन्दसमाभास उकारः परकुण्डली |
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा |
पञ्चप्राणयुतं वर्णं तथा त्रयगुणात्मकम् |
बिन्दुत्रययुतं वर्णं पीतविद्युल्लताकृति |
धर्मार्थकाममोक्षञ्च सदा सुखप्रदायकम् ||
वर्णोद्धारतन्त्रे ||
तद्रूपाधोगता रेखा कुब्जिता वामतः शुभा |
तद्रूपा पूर्वोक्तोकाररूपा |
तिष्ठन्ति तासु रेखासु यमाग्निवरुणाः क्रमात् |
अधोर्द्धगामिनी मात्रा लक्ष्मीर्वाणी च सा स्मृता ||
ऊ ||
कामधेनौ ||
ऋकारः परमेशानि ! कुण्डली मूर्तिमान् स्वयम् |
अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने ! |
सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् |
वर्णोद्धारतन्त्रे |
ऊर्द्धा दक्षगता वक्रा त्रिकोणा वामतस्ततः |
पुनस्त्वधोदक्षगता मात्राशक्तिः परा स्मृता |
मात्रासु ब्रह्मविष्ण्वीशास्तिष्ठन्ति क्रमतः परा ||
ऋ ||
वर्णोद्धारतन्त्रे ||
तद्रूपाधोगता दक्षा वामतः कुञ्चिता त्वधः |
पुनर्दक्षगता रेखा तासु ब्रह्मेशविष्णवः |
मात्राशक्तिः परा ज्ञेया ध्यानमस्य प्रवक्ष्यते ||
ॠ ||
कामधेनुतन्त्रे ||
ऌकारं चञ्चलापाङ्गि ! कुण्डली परदेवता |
तत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये ! |
पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा |
पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् |
बिन्दुत्रयत्माकं वर्णं पीतविद्युल्लताकृति ||
वर्णोद्धारे ||
रेखाधः कुण्डली वक्रा दक्षतो वाभतो गता |
वह्नीशवायवस्तासु नित्यं सन्ति च नित्यशः ||
ऌ ||
कामधेनुतन्त्रे ||
ॡकारं परमेशानि ! पूर्णचन्द्रसमप्रभम् |
पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा |
गुणत्रयात्मकं वर्णं तथा बिन्दुत्रयात्मकम् |
चतुर्वर्गमयं देवि ! स्वयं परमकुण्डली ||
वर्णोद्धारतन्त्रे ||
तत्क्रोडतुल्यरूपा च रेखा सा वैष्णवी स्मृता |
तासु बन्ध्या सुरेशानि ! दुर्गा वाणी सरस्वती ||
ॡ ||
कामधेनुतन्त्रे ||
एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् |
वङ्किनीकुसुमप्रेक्ष्यं पञ्चदेवमयं सदा |
पञ्चप्राणात्मकं वर्णं तथा विलशयात्मकम् |
चतुर्वर्णमयं देवि ! स्वयं परमकुण्डली |
वर्णोद्धारतन्त्रे ||
कुञ्चितां वामतो रेखा दक्षकोणायता त्वधः |
पुनर्वामगता सैव तासु वह्नीशवायवः ||
ए ||
कामधेनुतन्त्रे षष्ठपटले ||
ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् |
कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा |
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ! |
सदाशिवमयं वर्णं बिन्दुत्रयसमन्वितम् |
वर्णोद्धारतन्त्रे |
एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्द्धतः |
चन्द्रेन्द्रभानवस्तासु मात्राशक्तिः क्रमात् स्मृताः |
त्रिधा शक्तिमयी पूर्वा दुर्गा वाणी सरस्वती ||
ऐ ||
कामधेनुतन्त्रे ||
एतद्वर्णं महेशानि ! स्वयं परमकुण्डली ||
वर्णोद्धारतन्त्रे ||
वामतः कुण्डली भूत्वा दक्षान्मध्ये तु कुञ्चिता |
किञ्चिद्दक्षगता या तु कुञ्चिता वामतस्त्वधः |
ब्रह्मेशविष्णवस्तासु मात्रा तु ब्रह्मरूपिणी |
शक्तिश्च परमा सैव ध्यानमस्य प्रवक्ष्यते ||
ओ ||
कामधेनुतन्त्रे ||
रक्तविद्युल्लताकारमौकारं कुण्डली स्वयम् ||
स्वयं ब्रह्मादयस्तत्र तिष्ठन्ति सततं प्रिये ! |
पञ्चप्राणमयं वर्णं सदाशिवमयं सदा |
सदा ईश्वरसंयुक्तं चतुर्वर्गप्रदायकम् ||
वर्णोद्धारतन्त्रे ||
ओकारमध्यदक्षे तु गता तूर्द्धगतायता |
किञ्चित् सा वामतो वक्रा तासु ब्रह्मेशविष्णवः |
शक्तिमध्यगता रेखा ध्यानमस्य च कथ्यते ||
औ ||
कामधेनुतन्त्रे ||
अकारं बिन्दुसंयुक्तं पीतविद्युत्समप्रभम् |
पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् |
सर्वज्ञानमयं वर्णं बिन्दुत्रयसमन्वितम् |
शक्तित्रयमयं वर्णं स्वयं परमकुण्डली ||
वर्णोद्धारतन्त्रे ||
अकाररूपशीर्षे तु दक्षिणे बिन्दुरूपिणी |
ब्रह्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति |
या तु बिन्दुमयी रेखा सैवाद्या शक्तिरीरिता ||
अं ||
कामधेनुतन्त्रे ||
अःकारं परमेशानि ! रक्तविद्युत्प्रभामयम् |
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा |
सर्वज्ञानमयं वर्णमात्मादितत्त्वसंयुतम् |
बिन्दुत्रयमयं वर्णं शक्तित्रयमयं सदा ||
वर्णोद्धारे ||
आकाररूपदक्षे तु द्विबिन्दुरध ऊर्ध्वतः |
ब्रह्मेशविष्णवस्तासु मात्राशक्तिः समीरिता |
बिन्दुद्वयान्विता रेखा सैवाद्या शक्तिरीरिता |
अः ||
वर्णोद्धारे ||
वामरेखा भवेद् ब्रह्मा विष्णुर्दक्षिणरेखिका |
अघोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती ||
कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः ||
कदम्बगोलकाकारं ककारं भावयेत् सुधीः ||
क ||
कामधेनुतन्त्रे तृतीयपटले ||
वामरेखा भवेद् ब्रह्मा विष्णुर्दक्षिणरेखिका |
अघोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती |
कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः |
जवाकुसुमसङ्काशा वामरेखा वरानने ! |
शरच्चन्द्रप्रतीकाशा दक्षरेखा महेश्वरि ! |
अधोरेखा वरारोहे ! महामरकतद्युतिः |
शङ्खकुन्दसमा कीर्तिर्मात्रा साक्षात् सरस्वती |
कुण्डली चाङ्कुशाकारा कोटिविद्युल्लताकृतिः |
कोटिचन्द्रप्रतीकाशो मध्ये शून्यः सदाशिवः |
शून्यगर्भस्थिता काली कैवल्यपददायिनी ||
अर्थश्च जायते देवि ! तथा धर्मश्च नान्यथा |
ककारः सर्ववर्णानां मूलप्रकृतिरेव च |
कामिनी या महेशानि ! स्वयं प्रकृतिसुन्दरी |
माता सा सर्वदेवानां कैवल्यपददायिनी |
ऊर्द्ध्व कोणे स्थिता वामा ब्रह्मशक्तिरितीरिता |
वामकोणे स्थिता ज्येष्ठा विष्णुशक्तिरितीरिता |
दक्षकोणस्थिता शक्तीरौद्री संहाररूपिणी |
ज्ञानात्मा सा तु चार्वङ्गी कुलचतुष्टयात्मकम् ||
इच्छाशक्तिर्भवेद् ब्रह्मा विष्णुश्च ज्ञानशक्तिमान् |
क्रियाशक्तिर्भवेद्रुद्रः सर्वप्रकृतिमूर्च्छिमान् |
आत्मविद्याशिवैस्तत्त्वै सदा मात्रा प्रतिष्ठिता |
आसनं त्रिपुरादेव्याः ककारः पञ्चदैवतः |
ईश्वरो यस्तु देवेशि ! त्रिकोणे तस्य संस्थितिः |
त्रिकोणमेतत् कथितं योनिमण्डलमुत्तमम् |
कैवल्यं प्रपदे यस्याः कामिनी सा प्रकीर्तिता ||
क ||
वर्णोद्धारतन्त्रे ||
शिवरूपा वामरेखा वह्निरूपा च सा स्मृता ||
ख ||
वर्णोद्धारतन्त्रे ||
अग्राकुञ्चितरेखा या गणेशी सा प्रकीर्त्तिता |
ततो दक्षगता या तु कमला तत्र संस्थिता |
अधोगतागता या तु तस्यामीशः सदा वसेत् |
अधोमुखेन गता पुनरूर्द्ध मुखेनागतेत्यर्थः ||
ग ||
वर्णोद्धारतन्त्रे ||
स्रष्टिरूपा वामरेखा किञ्चिदाकुञ्चिता ततः |
कुण्डलीरूपमास्थाय ततोऽधोगत्य दक्षतः |
अत ऊर्द्धं गता रेखा शम्भुर्नारायणस्तयोः |
ब्रह्मस्वरूपिणी देवि ! मात्राशक्तिः प्रकीर्तिता ||
घ ||
वर्णोद्धारतन्त्रे ||
ऊर्द्धाधः क्रमतो रेखा किञ्चिदाकुञ्चिता ततः |
अधोगता कुण्डली तु मात्राशक्तिः स्वरूपिणी |
रेखात्रयेषु ब्रह्मेशविष्णवः सन्ति सर्वदा ||
ङ ||
कामधेनुतन्त्रे ||
चवर्णं शृणु सुश्रोणि ! चतुर्वर्गप्रदायकम् |
कुण्डलीसहितं देवि ! स्वयं परमकुण्डली ||
स ततः कुण्डलयुक्तं पञ्चदेवमयं सदा |
पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा |
त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं प्रिये ! ||
वर्णोद्धारतन्त्रे ||
वार्त्ताकुवर्त्तुलाकार ऊर्द्ध्वाधः क्रमतो गतः |
रेखाःत्रयेषु चन्द्राग्निसूर्यास्तिठन्ति नित्यशः |
शक्तिर्मात्रा तु विज्ञेया ध्यानमस्य प्रवक्ष्यते ||
च ||
वर्णोद्धारतन्त्रे ||
ऊर्द्ध्वादधोगता रेखा कुञ्चिता कुण्डली ततः ||
पुनश्चाधोगता तासु सन्ति ब्रह्मैशविष्णवः ||
छ ||
कामधेनुतन्त्रे ||
जकारं परमेशानि ! या स्वयं मध्यकुण्डली |
शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम् |
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ||
त्रिशक्तिसहितं वर्णं द्विबिन्दुसहितं प्रिये ! |
वर्णोद्धारतन्त्रे ||
उर्द्धाधः कुञ्चिता रेखा तासु ब्रह्मेशविष्णवः |
वाग्देवी कमला नित्या द्विधा मात्रा प्रकीर्तिता ||
ज ||
कामधेनुतन्त्रे ||
झकारं परमेशानि ! कुण्डलीमोहरूपिणी |
रक्तविद्युल्लताकारं सदा त्रिगुणसंस्थितम् |
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा |
त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ||
वर्णोद्धारतन्त्रे ||
त्रिकोणकुण्डलीरूपा वामदक्षिणयोगतः |
क्रमशस्तासु तिष्ठन्ति चन्द्रसूर्याग्नयः प्रिये ! |
तत्र षोडशधा मात्रा शक्तिर्ब्रह्मस्वरूपिणी |
ऊर्द्ध्वमात्रा तथेन्द्राणी मध्ये नारायणीस्मृता ||
झ ||
कामधेनुतन्त्रे ||
सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि ! |
रक्तविद्युल्लताकारं या स्वयं परकुण्डली |
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा |
त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ||
वर्णोद्धारतन्त्रे ||
कुण्डलीरूपमास्थाय दक्षतो वामतस्ततः |
ऋजुश्चाधोगता मात्रा वामतः कुञ्चिता पुनः |
तिष्ठन्ति तासु नित्यासु सूर्येन्द्रवरुणाः सदा |
कुण्डलीद्वयरूपा तु या मात्रा मध्यतः स्थिता |
महाशक्तिस्वरूपा सा ध्यानमस्य प्रवक्ष्यते ||
ञ ||
कामधेनुतन्त्रे ||
टकारं परमेशानि ! स्वयं परमकुण्डली |
कोटिविद्युल्लताकारं पञ्चदेवमयं सदा ||
पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् |
त्रिगुणीसहितं वर्णं द्विबिन्दुसहितं सदा ||
वर्णोद्धारतन्त्रे ||
ऊर्द्ध्वाधः क्रमतो रेखा कुण्डलीरूपतस्त्वधः |
तिष्ठन्ति तासु नित्यासु कुवेरयमवायवः |
मात्रा कोणगता चोर्द्ध्वा तत ऊर्द्ध्वगता तु सा |
या नित्या परमा शक्तिश्चतुर्वर्गप्रदायिनी ||
ट ||
कामधेनुतन्त्रे ||
ठकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी |
पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् |
पञ्चदेवात्मकं वर्णं त्रिशक्तिसहितं सदा ||
वर्णोद्धारतन्त्रे ||
वात्ताकुवर्त्तुलाकारा रेखाधिष्ठितदेवताः |
तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्याग्नयः प्रिये ! |
मात्राहीनस्तूर्द्ध्वशिखष्ठकारः परमेश्वरि ! ||
ठ ||
वर्णोधारतन्त्रे ||
ऊर्द्ध्वाधः क्रमतो रेखा मध्ये त्वाकुञ्चिता तथा |
लक्ष्मीर्वाणी भवानी च क्रमशस्तत्र संस्थिता |
ब्रह्मरूपा तथा मात्रा महाशक्तिः प्रकीर्तिता ||
ड ||
वर्णोद्धरन्त्रे ||
ऊर्द्ध्वाधः क्रमतो रेखा वामदक्षिणतो गता |
ततः सा कुण्डलीरूपा विष्ण्वीशब्रह्मरूपिणी |
महाशक्तिमयी मात्रा ध्यानमस्य प्रवक्ष्यते ||
ढ ||
कामधेनुतन्त्रे ||
णकारं परमेशानि ! या स्वयं परकुण्डली |
पीतविद्युल्लताकारं पञ्चदेवमयं सदा |
पञ्चप्राणमयं देवि ! सदा त्रिगुणसंयुतम् |
आत्मादितत्त्वसंयुक्तं महामोक्षप्रदायकम् |
वर्णोद्धारतन्त्रे ||
कुण्डलीत्वगता रेखा मध्यतस्त्वत ऊर्द्ध्वतः |
वामादधोगता सैव पुनरूर्द्धं गता प्रिये ! |
ब्रह्मेशविष्णुरूपा सा चतुर्वर्गफलप्रदा ||
ण ||
कामधेनुतन्त्रे पञ्चमपटले ||
महादेव उवाच ||
तकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली |
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं तथा |
त्रिशक्तिसहितं वर्णं आत्मादितत्त्वसंयुतम् |
त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम् ||
वर्णोद्धारतन्त्रे ||
आदौ बिन्दुस्ततो मध्ये कुण्डलीत्वमवाप्य सा |
दक्षाद्वामगता नित्या ब्रह्मविष्ण्वीशरूपिणी ||
त ||
कामधेनुतन्त्रे |
थकारं चञ्चलापाङ्गि ! कुण्डलीमोक्षरूपिणी |
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ||
वर्णोद्धारतन्त्रे ||
कुञ्चिता कुण्डली भूत्वा वामाद्दक्षिणतस्ततः |
वामतः कुञ्चिता भूत्वा दक्षाधो दक्षतो गता |
ऊर्द्ध्वं ऋज्वायता रेखा सुरा गङ्गादयः क्रमात् |
वाणी भवानी लक्ष्मीश्च ध्यानमस्य प्रवक्ष्यते ||
थ ||
कामधेनुतन्त्रे ||
दकारं शृणु चार्वङ्गि ! चतुर्वर्गप्रदायकम् ||
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ||
द ||
वर्णोद्धारतन्त्रे ||
त्रिकोणरूपरेखायां त्रयो देवा वसन्ति च |
विश्वेश्वरी विश्वमाता वामतः स्कन्धतः स्थिता ||
ध ||
कामधेनुतन्त्रे |
नकारं शृणु चार्वङ्गि ! रक्तविद्युल्लताकृति |
पञ्चदेवमयं वर्णं स्वयं परमकुण्डली |
पञ्चप्राणात्मकं वर्णं हृदि भावय पार्वति ! |
वर्णोद्धारतन्त्रे ||
वामतः कुण्डली रेखा ऊर्द्ध्वाधः क्रमतः स्थिता |
चन्द्रसूर्याग्निरूपा सा मात्रा वाणी प्रकीर्तिता ||
न ||
कामधेनुतन्त्रे ||
अतः परं प्रवक्ष्यामि पकाराक्षरमव्ययम् |
चतुर्वर्गप्रदं वर्णं शरच्चन्द्रमयप्रभम् |
पञ्चदेवमयं वर्ण स्वयं परमकुण्डली |
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा |
त्रिगुणीसहितं वर्णं आत्मादितत्त्वसंयुतम् |
महामोक्षप्रदं वर्णं हृदि भावय पार्वति ! |
वर्णोद्धारतन्त्रे ||
कुञ्चिता वामरेखायाः कोणाद्दक्षिणतोऽपरा |
कुञ्चिता सापि विज्ञेया मात्रा वामोद्गता तथा |
शम्भुर्ब्रह्मा भगवती क्रमशस्तासु तिष्ठति ||
प ||
कामधेनुतन्त्रे ||
फकारं शृणु चार्वङ्गि ! रक्तविद्युल्लतासमम् |
चतुर्वर्गप्रदं वर्णं पञ्चदेवमयं सदा |
पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् |
आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा |
वर्णोद्धारतन्त्रे ||
वक्रा वामगता रेखा ततोऽधः सङ्गता भवेत् |
तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली |
ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी |
मात्रा वामादक्षिणतः क्रमशः शक्तिरीरिता ||
फ ||
कामधेनुतन्त्रे |
बकारं शृणु चार्वङ्गि ! चतुर्वर्गप्रदायकम् |
शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा |
पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा ||
वर्णोद्धारतन्त्रे ||
त्रिकोणरूपिणी रेखा विष्ण्वीशब्रह्मरूपिणी |
मात्राशक्तिः परा ज्ञेया ध्यानमस्य प्रवक्ष्यते ||
ब ||
कामधेनुतन्त्रे ||
भकारं शृणु चार्वङ्गि ! स्वयं परमकुण्डली |
महामोक्षप्रदं वर्णं तरुणादित्यसम्प्रभम् |
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा |
वर्णोद्धारतन्त्रे ||
उर्द्ध्वाधः क्रमतो रेखा वामे वक्रा तु कुण्डली |
पुनश्चाधोगता सैव अत ऊर्द्ध्वगता पुनः |
ब्रह्मा शम्भुश्च विष्णुश्च क्रमतस्तासु तिष्ठति ||
भ ||
कामधेनुतन्त्रे ||
मकारं शृणु चार्वङ्गि ! स्वयं परमकुण्डली |
तरुणादित्यसङ्काशं चतुर्वर्गप्रदायकम् |
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ||
वर्णोद्धारतन्त्रे ||
ऊर्द्ध्वाधः क्रमतो रेखा चतुष्कोणमयी शुभा |
नारायणेशविधयस्तासु तिष्ठन्ति नित्यशः |
मात्रा कुण्डलिनी ज्ञेया ध्यानमस्य प्रवक्ष्यते ||
म ||
कामधेनुतन्त्रे ||
यकारं शृणु चार्वङ्गि ! चतुर्वर्गमयं सदा |
पलालधूमसङ्काशं स्वयं परमकुण्डली |
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ||
वर्णोद्धारतन्त्रे ||
ऊर्द्ध्वाधः क्रमतो रेखा त्रिकोणाधोगता हि सा |
विधिरीशः केशवश्च तासु तिष्ठन्ति नित्यशः |
ऊर्द्ध्वस्थिता तु या मात्रा सा शक्तिः परिकीर्तिता |
तस्य मध्यगता रेखा वह्निरूपा हि सा स्मृता |
निर्गुणोऽसौ सदा वर्णो न कदाचिद् गुणी भवेत् ||
य ||
कामधेनुतन्त्रे षष्ठपटले ||
रेफञ्च चञ्चलापाङ्गि ! कुण्डलीद्वयसंयुतम् |
रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा |
पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा |
वर्णोद्धारतन्त्रे ||
दक्षतः कुण्डली रेखा वामाद्दक्षगताप्यधः |
पुनर्दक्षगता द्वेधा ततोऽधोगत्य चोर्द्ध्वतः |
भवानी शङ्करो वह्निस्तासु तिष्ठन्ति नित्यशः |
अर्द्धमात्रा ब्रह्मरूपा महाशक्तिः प्रकीर्तिता ||
र ||
कामधेनुतन्त्रे ||
लकारं चञ्चलापाङ्गि ! कुण्डलीत्रयसंयुतम् |
पीतविद्युल्लताकारं सर्वरत्नप्रकाद्यकम् |
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा |
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा |
आत्मादितत्त्वसहितं हृदि भावय पार्वति ! |
वर्णोद्धारतन्त्रे ||
कुण्डलीत्रयसंयुक्ता वामाद्दक्षगता त्वधः |
पुनरूर्द्ध्वगता रेखा तासु नारायणः शिवः |
ब्रह्मशक्तिश्च सन्तिष्ठेद्ध्यानमस्य प्रवक्ष्यते ||
ल ||
कामधेनुतन्त्रे ||
वकारं चञ्चलापाङ्गि ! कुण्डली मोक्षमव्ययम् |
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा |
त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् |
पञ्चदेवमयं वर्णं पीतविद्युल्लतामयम् |
चतुर्वर्गप्रदं वर्णं सर्वसिद्धिप्रदायकम् |
त्रिशक्तिसहितं देवि ! त्रिबिन्दुसहितं सदा ||
वर्णोद्धारतन्त्रे ||
कोणत्रययुता रेखा ब्रह्मविष्णुशिवात्मिका |
मायाशक्तिः परा नित्या ध्यानमस्य प्रवक्ष्यते ||
ब ||
शकारं परमेशानि ! शृणु वर्णं शुचिस्मिते ! |
रक्तवर्णप्रभाकारं स्वयं परमकुण्डली |
चतुर्वर्गप्रदं देवि ! शकारं ब्रह्मविग्रहम् |
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये ! |
रत्नपञ्चतमोद्युक्तं त्रिबिन्दुसहितं सदा |
त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् ||
वर्णोद्धारे ||
चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात् |
वह्नीन्द्रविष्ण्वस्तासु तिष्ठन्ति क्रमतः सदा |
ऊर्द्ध्व मात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता |
मात्रा मध्यगता मात्रा वाग्देवी सा परा स्मृता ||
श ||
कामधेनुतन्त्रे ||
षकारं शृणु चार्वङ्गि ! अष्टकोणमयं सदा |
रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली |
चतुर्वर्गमयं वर्णं सुधानिर्मितविग्रहम् |
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा |
रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा |
त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् |
सर्वदेवमयं वर्णं हृदि भावय पार्वति ! ||
वर्णोद्धारतन्त्रे ||
कुञ्चिता वामतो दक्षगता च गोकृतिस्त्वधः |
पुनरूर्ध्वगता तासु वह्निचन्द्रदिवाकराः |
मात्रा भवानी विज्ञेया ध्यानमस्य प्रवक्ष्यते ||
ष ||
कामधेनुतन्त्रे ||
सकारं शृणु चार्वङ्गि ! शक्तिबीजं परात्परम् |
कोटोविद्युल्लताकारं कुण्डलीत्रयसंयुतम् |
पञ्चदेवमयं देवि ! पञ्चप्राणात्मकं सदा ||
रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा ||
स ||
कामधेनुतन्त्रे ||
हकारं शृणु चार्वङ्गि ! चतुर्वर्गप्रदायकम् |
कुण्डलीद्वयसंयुक्तं रक्तविद्युल्लतोपमम् |
रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा |
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा |
त्रिबिन्दुसहितं वर्णं हृदि भावय पार्वति ! |
वर्नोद्धारतन्त्रे ||
ऊर्द्ध्वादाकुञ्चिता मध्ये कुण्डलीत्वगता त्वधः |
ऊर्द्ध्वं गता पुनः सैव तासु ब्रह्मादयः क्रमात् |
मात्रा च पार्वती ज्ञेया ध्यानमस्य प्रवक्ष्यते ||
ह ||
कामधेनुतन्त्रे ||
क्षकारं शृणु चार्वङ्गि ! कुण्डलीत्रयसंयुतम् |
चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा |
पञ्चप्राणात्मकं वर्णं त्रिशक्ति सहितं सदा |
त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् |
शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि ! ||
क्ष ||
योगिनीतन्त्रे तृतीयभागे सप्तमपटले |
न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तके लिखेत् |
न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् |
भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् |
भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता |
तदा भवति देवेशि ! तस्मात् तत् परिवर्जयेत् ||
इति भूमौ वर्णलेखनादिनिषेधः |
वंशसूच्या लिखेद्वर्णं तस्य हानिर्भवेद् ध्रुवम् |
ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत् |
महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शलाकया |
वृहन्नलस्य सूच्या वै मतिवृद्धिः प्रजायते |
वृहन्नलस्य वोल इति गौडप्रसिद्धस्य ||
तथा अग्निमयैर्देवि ! पुत्त्रपौत्त्रधनागमः |
अग्निमयैश्चित्रकाष्ठमयैः ||
रौत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत् |
रौत्येन पित्तलेन ||
अष्टाङ्गुलप्रमाणेन दशाङ्गुलेन वाथवा |
चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे ! |
तत्तदक्षरसंख्ये तु स्वल्पायुर्याति वै दिने ||
यथा रौत्येनेत्यादिवचने एकत्रैव विधिनिषेधौ |
तथात्राप्यष्टाङ्गुलदशाङ्गुलयोर्विधिर्निषेधश्चतुरङ्गुले ||
इति लेखनीकरणशुभाशुभे पुस्तकमानमपि तत्रैव ||
मानं वक्ष्ये पुस्तकस्य शृणु देवि ! समासतः |
मानेनापि फलं विन्द्यादमाने श्रीर्हता भवेत् |
हस्तमात्रं मुष्टिमात्रमाबाहु द्वादशाङ्कुलम् |
दशाङ्गुलं तथाष्टौ च अतो हीनं न कारयेत् |
इति पुस्तकमानम् ||
वेधद्वयं मुष्टिहस्तं बाहुमात्रे चिरन्तनम् |
समभागे महेशानि ! हस्तादौ रूपबन्धकम् |
अष्टाङ्गुलं परित्यज्य मध्ये वेधं न कारयेत् |
प्रादेशादौ भवेद्रन्ध्रो द्व्यङ्गुले वा समाचरेत् |
पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत् |
भार्याहानिर्भवेदाशु धनानां वा क्षयो भवेत् |
दग्धरन्ध्रे भवेत् पीडा वर्त्तुलं शुभदं भवेत् |
चतुष्कोणे विप्लवस्तु त्रिकोणे मरणं भवेत् |
इति पुस्तकवेधफलम् ||
भूर्जे वा तेजपत्रे वा ताले वा टाडिपत्रके |
अगुरुणापि देवेशि ! पुस्तकं कारयेत् प्रिये ! |
सम्भवे स्वर्णपात्रे च ताम्रपात्रे च शङ्करि ! |
अन्यवृक्षत्वचि देवि ! तथा केतकिपत्रके |
मार्त्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ! |
अन्यपत्रे च सुदले लिखित्वा यः समभ्यसेत् |
स दुर्गतिमवाप्नोति धनहानिर्भवेद् ध्रुवम् |
इति पुस्तककरणपत्रफलम् ||
वेदस्य लिखनं कृत्वा यः पठेद् ब्रह्महा भवेत् |
पुस्तकं वा गृहे स्थाप्यं वज्रपातो भवेद् ध्रुवम् |
इति पुस्तके वेदलिखननिषेधः ||
सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः |
प्रजापतिर्द्वापरे च त्रेतायां सूर्य एव च |
कृते युगे पिनाकी च कलौ लिप्यक्षरे हरिः |
आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत् |
हरिञ्च गन्धपुष्पाद्यैर्वस्त्रैश्च सुमनोहरैः |
यावदक्षरसंख्यानं प्रतिपत्रे च सुन्दरि ! |
तावद् युगसहस्राणि ब्रह्मलोके वसेच्चिरम् ||
इति लेखकपूजाफलम् ||
वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु |
यावदक्षरसंख्यानं तावच्च नरके वसेत् ||
इति लिखितस्य वेतनग्रहणदोषः ||
इति श्रीप्राणतोषिण्यां प्रथमसर्गकाण्डे अक्षरलेखनादिप्रकारकथनं कोरकनाम सप्तमः परिच्छेदः |
इति श्रीप्राणतोषिण्यां पञ्चमे भक्तिकाण्डे शिवप्रकरणकथनरूपस्तृतीयः परिच्छेदः |
तन्त्रसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः |
वर्णनामानि कतिचि - इक्ष्यामि विदुषां मुदे |
ओंकारो वर्त्तुलस्तारो वामश्च हंसकारणम् |
मन्त्राद्यः प्रर्णवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् |
सर्वजीवोत्पादकश्च पञ्चदेवो ध्रुवं त्रिकः |
सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः |
आदिबीजं वेदसारो वेदबीजमतः परम् |
पञ्चरश्मिस्त्रिकुटे च त्रिभवे भवनाशनः |
गायत्रीवीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः |
अक्षरं मातृकासूश्चानादिरद्वैतमोक्षदौ ||
ओं ||
अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः |
पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियंवदः |
महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् |
कीर्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् |
ब्रह्मा वामाद्यजो ह्रस्वः करसूः प्रणवाद्यकः |
प्रणवाद्यावयव इत्यर्थः ||
ब्रह्माणी कामरूपश्च कामेशी वाशिनी वियत् |
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी |
अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ||
अः ||
आकारो विजयानन्तो दीर्घच्छायो विनायकः |
क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ |
प्रचण्ड एकजो रुद्रो नारायण इतेश्वरः |
प्रतिष्ठा मानदा कान्तो विश्वान्तकगजान्तकः |
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः |
द्वितीया मानदा काशी विघ्नराजः कुजो वियत् |
स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ||
आ ||
इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः |
सुमित्रं सुन्दरो वीरः कोटरः काटरः पयः |
भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रश्च नासिका |
शान्तः कान्तः कामिनी च कामो विघ्नविनायकः |
नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ||
इः ||
ईस्त्रिमूर्तिर्महामाया लोलाक्षी वमलोचनम् |
गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः |
विष्णुर्लक्ष्मीः प्रहासश्च वायविशुद्धः परापरः |
कलोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः |
शिवोत्तमः शिवा तुष्टिश्चतुर्थी बिन्दुमालिनी |
वैष्णवी वैन्दवी जिह्वा कामकलसनादका |
पावकः कोटरः कीर्तिर्मोहिनी कालकारिका |
कुचद्वन्द्वं तर्जनी च शान्तिस्त्रिपुरसुन्दरी ||
ई ||
उः शङ्करो वर्त्तुलाक्षो भूतः कल्याणवाचकः |
अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः |
उग्रप्रभुर्धृतिर्विष्णर्विश्वकर्मा महेश्वरः |
शत्रुघ्नश्चेटिका पुष्टिः पञ्चमी वह्निवासिनी |
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही |
डटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः ||
उ ||
ऊः कण्ठको रतिः शान्तिः क्षोधनो मधुसूदनः |
कामराजः कुजेशश्च महेशो वामकर्णकः |
अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती |
विलासिनी विघ्नकर्ता लक्ष्मणो रूपकर्षिणी |
महाविद्येश्वरी षष्ठी षण्डो भूः कान्यकुब्जकः ||
ऊ ||
ऋः पुर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः |
भावभूतिः क्रिया क्रूरा रेचिका नासिकाधृतः |
एकपादशिरोमाला मण्डला शान्तिनी जलम् |
कर्णः कामलभा मेधो निवृत्तिर्गणनायकः |
रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी ||
ऋ ||
ॠः क्रोधोऽतिथिशो वाणी वामनो गोऽथ श्रीधृतिः |
ऊर्द्ध्वमुखी निशानाथः पद्ममालाविनष्टधीः |
शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता |
एकदन्ताह्वयो माता हरिता मिथुनो दया |
कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी |
ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी ||
ॠ ||
ऌः स्थाणुः श्रीधरः शुद्धो मेधधूम्रो वको वियत् |
देवयोनिर्दक्षगण्डो वहेशः कौन्तरुद्रकौ |
विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा |
चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः |
शुचिस्मिता च नवमी कान्तिरायातकेश्वरः |
चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी ||
ऌ ||
ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः |
सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा |
शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् |
कुशमी सुस्थिरो माता नीलपीतो गजाननः |
कामिनी विश्वया कालो नित्याशुद्धः शुचिः कृती |
सूर्यो धैर्ययोऽकर्षणी च एकाकी दनुजप्रसूः ||
ॡ ||
एकारो वास्तवः शक्तिर्झीण्टीशोष्ठो भगं मरुत् |
सूक्ष्माभूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्दनः |
भयं ज्ञानं कृपा धीरा जङ्घा सर्वसमुद्भवः |
वह्निर्विष्णुर्भगवती कुण्डली मोहिनी वसः |
योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः |
सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः ||
ए ||
ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः |
दक्षा दामोदरः प्रज्ञोऽधरो विकृतमुख्यपि |
क्षमात्मको जगद्योनिः परः परनिबोधकृत् |
ज्ञानामृता कपर्दिश्रीः पीठेशोऽग्निः समातृकः |
त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः |
महेश्वरो द्वादशी च विमलश्च सरस्वती |
कामकोटो वामजानुरंशुमान् विजया जटा ||
ऐ ||
ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा |
सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः |
आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणीमुखी द्विजः |
उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः |
प्रणवांशो ब्रह्मसूत्रमजेशः सर्वमङ्गला |
त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा |
त्रैलोक्यविजया प्रज्ञा प्रीतिर्वीजादिकर्षिणी ||
ओ ||
औकारः शक्तिको नादस्तेजसो वामजङ्घकः |
मनुबद्धग्रहेणश्च शङ्कुकर्णः सदाशिवः |
अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती |
आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः परः |
अनन्ता ज्वालिनी व्योमा चतुर्दशी रतिः प्रियः |
नेत्रमात्मा कर्षणि च ज्वालामालिनिका भृगुः ||
औ ||
अङ्कारश्चक्षुषो दन्तो घटिका समगुह्यकः |
प्रद्युम्नः श्रीमुखी प्रीतिर्वीजयोनिर्वृषध्वजः |
परं शशी प्रमाणीशः सोमबिन्दुः कलानिधिः |
अक्रूरश्चेतना नादपूर्णा दुःखहरः शिवः |
शिरःशम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः |
पूर्णिमा रेवती शुद्धः कन्याचरवियद्रविः |
अमृता कर्षिणी शून्यं विचित्रा व्योमरूपिणी |
केदारो रात्रिनाशश्च कुब्जिका चैव वुद्बुदः ||
अं ||
अः कण्ठको महासेनः काला पूर्णामृता हरिः |
इच्चहा भद्रा गणेशश्च रतिविद्यामुखी सुखम् |
द्विबिन्दुरसना सोमोऽनिबद्धो दुःखसूचकः |
द्विजिह्वः कुण्डलं वक्त्रः सर्गः शक्तिर्निशाकरः |
सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ||
अः ||
कः क्रोधीशो महाकाली कामदेव प्रकाशकः |
कपाली तेजसः शान्तिर्वासुदेवो जयानलः |
चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः |
अनन्तः पार्थिवो बिन्दुस्तापिनी परमात्मकः |
वर्गाद्यश्च मुखी ब्रह्मा स खाद्योऽम्भः शिवो जलम् |
माहेश्वरी तुला पुष्पा मङ्गलश्चरणं करः |
नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः |
श्रीपुरं रमणो वङ्गकुसुमा परमात्मकः ||
क ||
खः प्रचण्डः कामरूपी ऋद्धिर्वह्निः सरस्वती |
आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः |
शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि |
शून्यं कपाली कल्याणी सूर्पकर्णो जरामरः |
शुभ्राग्नेया चण्डलिङ्गो जनाव्याङ्गारखड्गकौ ||
ख ||
गो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः |
शार्ङ्गी पञ्चान्तको गाथा गन्धर्वः सर्वगः स्मृतिः |
सर्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः |
विश्वात्मा गौः पृथग्रूपा बालबद्धस्त्रिलोचनः |
गीतं सरस्वती विद्या भोगिनी नन्दनो धरा |
भोगवती च हृदयं ज्ञानं जालन्धरो लवः ||
ग ||
घः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरान्तकः |
वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः |
मरीचिर्वरुणो मेधा कालरूपी च दाम्भिकः |
लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः |
त्रैलोक्यविद्यासंहर्ता कामाख्यमनघामयः ||
घ ||
ङः शङ्खी भैरवश्चण्डो बिन्दूत्तंसः शिशुप्रियः |
एकरुद्रो दक्षनखः खर्परो विषयस्पृहा |
कान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् |
मन्त्रशक्तिश्च वदनो विघ्नेशी चात्मनायकः |
एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः |
शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ||
ङ ||
च पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः |
चर्ममुण्डधरो भूत्वा महिषाचारसन्धिनी |
एकरूपो रुचिः कूर्मश्चामुण्डा दीर्घवालुकः |
वामबाहुर्मूलमाया चतुर्मूर्तिस्वरूपिणी |
दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः |
चन्दनं चन्द्रमा दैवश्चेतनोवृश्चिको बुधः |
देवी केटमुखेच्छात्मा कौमारी पूर्वफल्गुनी |
अनङ्गमेखला वायुर्मोदिनी च मुलावती ||
च ||
छश्छन्दनं सुषुम्ना च पशुः पतिमृतिः |
निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी |
एकनेत्रश्च वृषली द्विशिरा वामकूर्परः |
गोकर्णा लाङ्गली वामः काममत्ता सदाशिवः |
माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ||
छ ||
जः शवो वानरः शूली भोगदा विजया स्थिरा |
ललदेवो जयो जेता धातकी सुमुखी विभुः |
लम्बोदरी स्मृतिः शाखा सुप्रभा कर्तृका धरा |
दीर्घरूपो बहुरुचिर्हंसो नन्दीं तेजाः सुराधिपः |
जवनो वेगितो वामो मानवाक्षः सदात्मकः |
हृन्मारुतेश्वरो वेगी चामोदो मदविह्वलः ||
ज ||
झो झङ्कारी गुहो झज्झावायुः सत्यः षडुन्नतः |
अजेशो द्राविणी नादः पाशी जिह्वा जलं स्थितिः |
विराजेन्द्रो धनुर्हस्तः कर्कशो नादजः कुजः |
दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः |
दुर्मुखो नष्ट आत्मवान् विकटाकुचमण्डलः |
कलहंसप्रिया वामा अङ्गुलीमध्यपर्वकः |
दक्षहासाष्टहासश्च पाथात्मा व्यञ्जनः स्वरः ||
झ ||
ञकारो बोधिनी विश्वा कुण्डली मथदो वियत् |
कौमारी नागविज्ञानी सव्याङ्गुलनथरो वकः |
सर्वेशचूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः |
धर्मैकपादौ सुमुखौ विरजा चन्दनेश्वरी |
गायनः पुष्पधन्वा च रागात्मा च वराक्षिणी ||
ञ ||
टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः |
मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः |
दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः |
वृहस्पतिधनुश्चित्रा प्रमोदा विमला कटिः |
राजा गिरिर्महाधनुर्घ्राणात्मा सुमुखो मरुत् ||
ट ||
ठः शून्यो मञ्जरी वीजः पाणिनी लाङ्गली क्षया |
वनजो नन्दनो जिह्वा सुनञ्जघूर्णकः सुधा |
वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः |
दक्षजानूरुभावश्च देवभक्षो वृहद्ध्वनिः |
एकपादो विभूतिश्च ललाटं सर्वमित्रकः |
वृषघ्नो नलिनी विष्णुर्महेशो ग्रामणीः शशी ||
ठ ||
डः स्मृतिर्दारुको नन्दिरूपिणी योगिनीप्रियः |
कौमारी शङ्करस्त्रासस्त्रिवक्रो नदको ध्वनिः |
दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती |
कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च लोचनम् ||
ड ||
ढो ढक्कानिर्णयः पूर्वो यज्ञेशादनदेश्वरः ||
अर्द्धनारीश्वरस्तोयमिश्वरी त्रिशिखी नवः |
दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डा विनायकः |
प्रहासा त्रिवरा ऋद्धिर्निर्गुणो निधनो ध्वनिः |
विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः |
एलापूरं त्वगात्मा च विशाखा श्रीमनो रतिः ||
ढ ||
णो निर्गुणं रतिज्ञानं जम्भनः पक्षिवाहनः |
जया शम्भो नरकजित् निष्कला यीगिनीप्रियः |
द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मता |
त्रेइनेत्रो मानुषी व्योम दक्षपादाङ्गुलेर्मुखः |
बाधवः शङ्खिनी वीरो नारायणश्च निर्णयः ||
ण ||
तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा |
वामस्फिक्वामकट्यौ च कामिनी मध्यकर्णकः |
आषाढी तण्डतुन्नश्च कामिकापृष्ठपुच्छकः |
रत्नकश्च श्याममुखी वाराही मकरोऽरुणा |
सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः |
गन्धो विस्वा मरुच्छत्रश्चानुराधा च सौरकः |
जयन्ति पुलको भ्रान्तिरनङ्गमदनातुरा ||
त ||
थः स्थिरामी महाग्रन्थिर्ग्रन्थिर्ग्राहो भयानकः |
शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः |
कृष्णो बुद्धिर्विकर्मा च दक्षनासाधिपोऽमरः |
वरदा भोगदा केशो वामजानुरसोऽनलः |
लोलौ जर्जयिनी गुह्यः शरच्चन्द्रो दिवाकरः ||
थ ||
दोऽद्रीशोधातकिर्धाता दाता दलं कलत्रकम् |
दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा |
सुषुम्ना योगिनी सद्यः कुण्डली वामगुल्फकः |
कात्यायनी शिवा दुर्गा लङ्घनाना त्रिकण्डकी |
स्वस्तिकः कुटिलारूपः कृष्णश्चोमाजितेन्द्रियः |
धर्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला |
हरिद्रापुरमत्रौ च दक्षपाणिस्त्रिरेखकः ||
द ||
धो धनार्थो रुचिः स्थाणुः सात्त्वतो योगिनीप्रियः |
मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी |
धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः |
पीतवासा त्रिवर्णा च धाता धर्मप्लवङ्गमः |
सन्दर्शो मोहनो लज्जा वज्रतुण्डाधरं धरा |
वामपादाङ्गुलेर्मूलं जेष्ठा सुरपुरम्भवः |
स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः ||
ध ||
नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी |
मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः |
ऊर्द्धचामी द्विरण्डश्च वामपादाङ्गुलेर्मुखः |
वैनतेयस्तुतिर्वत्मस्त्वरणिर्बालिरागमः |
वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्वियत् |
शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ |
गिरिनायकनीलौ च शिवो नादिर्महामतिः ||
न ||
पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा |
गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता |
तपनः पालनः पाता पद्मरेणुर्निरञ्जनः |
सावित्री पातिनी पानं वीरतत्त्वो धनुर्धरः |
दक्षपार्श्वश्च सेनानी मरीचिः पवनाशनिः |
उड्डीशं जयिनी कुम्भोऽलसं रेखा च मोहकः |
मूला द्वितीयमिन्द्राणी लोकाक्षी मन आत्मनः ||
प ||
फः सखई दुर्गिणी धूम्रा वामपार्श्वो जनार्दनः |
जया पादः शिखा रौद्री फेत्कारः शाखिनीप्रियः |
उमाविहङ्गमः कालः कुब्जिनी प्रियपावकौ |
प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी |
फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः |
निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ||
फ ||
बोऽवनीभूधरो मार्गो घर्घरी लोचनप्रियः |
प्रचेताः कलसः पक्षी स्थलगण्डः कपर्दिनी |
पृष्ठवंशोभयामात्तः शिखिवाहो युगन्धरः |
मुखबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः |
क्लेदिनी तापिता भूमिसुगणिन्द्रबलिप्रियः |
सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः |
षष्ठी पुरं चपेटा च मोदको गगनं प्रति |
पूर्वाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ||
ब ||
भः क्लिन्ना भ्रमरो भीमो विश्वमूर्तिर्निशा भयम् |
द्विरण्डो भूषणो मूलं यज्ञसूत्रस्थ वाचकः |
नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः |
नाभिर्भद्रं महाबाहुर्विश्वमूर्तिर्विताण्डकः |
प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका |
भीमसेनः सुधासेनः मुखो मायापुरं हरः ||
भ ||
मः काली क्लेशितः कालो महाकालो महान्तकः |
वैकुण्ठो वसुधा चन्द्रो रविः पुरुषराजकः |
कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः |
जठरञ्च भ्रमा मानं लक्ष्मीर्मातोग्रबन्धनौ |
विषं शिवो महा महावीरः शशिप्रभा जनेश्वरः |
प्रमत्तः प्रियसूरुद्रः सर्वाङ्गो वह्निमण्डलम् |
मातङ्गमालिनी बिन्दुः श्रवणाभरथो वियत् ||
म ||
यो वाणी वसुधा वायुविकृतिः पुरुषोत्तमः |
युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः |
शङ्खा भ्रमो जटी लोला वायुवेगीयशङ्करी |
सङ्कर्षणः क्षपा बालो हृदयं कपिला प्रभा |
आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् |
चण्डः सर्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ||
त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः ||
तेन मः शोषको मीनो धनिष्ठानङ्गवेदिनी |
मेष्ठः सोमं पक्तिनामा पापहा प्राणसंज्ञकः ||
य ||
रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः |
प्रकाशा दर्शनो दीपो रतकृष्णा परं बली |
भुजङ्गेशो मतिः सूर्यो धातुरक्तः प्रकाशकः |
व्यापको रेवती दासं कुक्ष्यंशो वह्निमण्डलम् |
उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा |
प्रकृतिः मुगलो ब्रह्मशब्दश्च गायको धनम् |
श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी |
सविन्दुयोनिजो ज्वाला श्रीशैलो विश्वतोमुखी ||
र ||
लश्चन्द्रः पुतना पृथ्वी माधवः शत्रुवाचकः |
बलानुजः पिनाकीशो व्यापको मांससंज्ञकः |
खड्गी नादोऽमृतं देवी लवणं वारुणीपतिः |
शिखा वाणी क्रिया माता भामिनी कामिनी प्रिया |
ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः |
विश्वात्ममन्द्रौ बली चेतो मेरुर्गिरिः कला रसः ||
ल ||
वो बालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः |
खड्गीशो ज्वालिनी वङ्कः कलसध्वनिवाचकः |
उत्कारीशस्तु नावीतो वज्रा स्फिक् सागरः शुचिः |
त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ||
व ||
शः सव्यश्च कामरूपकामरूपौ महामतिः |
सौख्यनामा कुमारोऽस्ति श्रीकण्ठो वृषकेतनः |
वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी |
मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी |
बाहुर्हंसो वियद्वक्त्रं हृदनङ्गाङ्कुशः खलः |
वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः ||
श ||
षः श्वेतो वासुदेवश्च पीता प्रज्ञा विनायकः |
परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः |
लम्बोदरो यमोऽजेशः कामधुक् कामधूमकः |
सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः |
सूर्यात्मा जठरः कोषो मत्ता वक्षोविदारिणी |
कलकण्ठो मध्यभिन्ना युद्धात्मा मलपूः शिवः ||
ष ||
सो हंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः |
जगद्वीजं शक्तिनामा सोऽहं वेशरती भृगुः |
प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्ज्वलः |
दक्षपादोऽमृतं ब्राह्मी परमात्मा परोऽक्षरः |
सुरूपा च गुणेशो गौः कलकण्ठो वृकोदरी |
प्राणाद्याश्च पुरा देवी लक्ष्मीः सोमो हिरण्यपुः |
दुर्गोत्तारिणी सम्मोहाज्जीवो मूर्त्तिमनोहरः ||
स ||
हः शिवो गगनं हंसो नागलोकोऽम्बिकापतिः |
नकुलीशो जगत्प्राणः प्राणेशः कपिलामलः |
परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनः |
मृगोभयोऽरुणा स्थाणुः क्रुटकूपविरावणः |
लक्ष्मीर्मविहरः शम्भुः प्राणशङ्किललाटजः |
स्वकोपवारणः शूली चैतन्यं पादपूरणः |
महालक्ष्मीः परं शम्भुः शाखीठः सोममण्डलम् ||
ह ||
ला पृथ्वी विमला मेघोऽनन्तोऽव्यवहासिता |
व्यापिनी शिवदा केतुर्जगत्सारतरं हठः |
ग्लौर्मृडानी च वेदार्थसारो नारायणः स्वयम् |
जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी ||
ल ||
क्षः कोपस्तुम्बुकः कालो रूक्षः संवर्त्तकः परः |
नृसिंहो विद्युता माया महातेजा युगान्तकः |
परात्मा क्रोधसंहारौ बलान्तो मेरुवाचकः |
सर्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः |
क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः |
मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः |
छायापुत्रश्च सङ्घातो मलयश्रीर्ललाटकः ||
क्ष ||
इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे वर्णाभिधानकथनं नामाष्टमः परिच्छेदः ||
मन्त्राणां वर्णमयत्वात् वर्णप्रकरणानन्तरं मन्त्रप्रकरणस्यौचित्यात् मन्त्रप्रकरणमुच्यते विश्वसारतन्त्रे तृतीयपटले ||
अथ मन्त्रान् प्रवक्ष्यामि शृणुष्व कमलानने ! |
यस्य प्रसादमात्रेण चतुर्वर्गं लभेन्नरः |
कैलासस्य चतुर्दिक्षु मन्त्राणां साधकस्य च |
सन्ति सर्वत्र तन्त्राणि चतुर्द्धा परमेश्वरि ! |
कोटिकोटिश्च मन्त्राणां यन्त्राणां साधकस्य च |
पृथिव्यां देवलोकेषु गन्धर्वेषु रसातले |
नरलोके ऋषिलोके कुष्माण्डराक्षसेषु च |
नानारूपाणि तन्त्राणि सन्ति वैशेषिकाणि च |
सर्वेषां तन्त्रमन्त्राणां मानुषेषु विशिष्यते ||
तथा |
मुक्तापीतपयोदविद्रुमजवावर्णैर्मुखैः पञ्चभिस्त्र्यक्षैरञ्जितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् |
शूलं तङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानमसिताकल्पोज्ज्वलाङ्गं भजे ||
प्रणम्य कथयिष्येऽहं सर्वलोकहितं परम् |
यस्मिन् यादृश आचारस्तत्र धर्मस्तु तादृशः |
कृतार्थस्तेन जायेत स्वर्गमोक्षसमन्वितः |
भ्रान्तिस्तत्र न कर्त्तव्या तदा सिद्धिः प्रजायते ||
तथा |
मुक्तामुखे देवतायाः सर्वमन्त्रं जगाद, सः |
यक्षगन्धर्वनागेषु तथा पीतमुखेन च |
कुष्माण्डविघ्नलोश?शु पयोदेन मुखेन वै |
वैदूर्येण जवाभेन मनुष्येषु निगद्यते |
शिष्येभ्यो दापयामास महाविद्या शुरेश्वरः |
शिष्येभ्यो दापनप्रकारस्तु गायत्रीतन्त्रे दशमब्राह्मणपटले ||
शिव उवाच ||
लम्बोदर ! महाभाग ! शृणु मे परमं वचः |
इदं महासुसन्दर्भं मम वक्त्राद्विनिर्गतम् |
निर्गतं पार्वती वक्त्रात्तन्त्रं परमदुर्लभम् |
विलिख्य बहुयत्नेन गच्छ सिद्धाश्रमं सुत ! |
यत्र तिष्ठन्ति मुनयो वेदवेदाङ्गपारगाः |
अणिमादिगुणैर्युक्तः शीघ्रं त्वं भव मे सुत ! |
इत्युक्तः शङ्करेणासौ चाष्टबाहुरभूत्ततः |
चतुर्भिर्हस्तैः संलिख्य शिवाय विनिवेदयेत् ||
शिव उवाच ||
गच्छ पुत्र ! महावाहो ! तन्त्रमादाय सत्वरम् |
सिद्धाश्रमं वनं रम्यं यथेन्द्रस्य च नन्दनम् |
प्रणम्य प्रययौ शीघ्रं तन्त्रमादाय तद्वनम् ||
इत्युपक्रम्य ||
मुनेर्वाक्यं ततः श्रुत्वा तत्तन्त्रं मुनये ददौ |
एवं तन्त्राणि सर्वाणि विलिख्य विनिवेदयेत् ||
इति पृथिव्यां तन्त्रावतरणप्रकारः ||
विश्वसारे ||
जीवकोटिप्रविष्टा सा महाविद्या महेश्वरि ! |
महाविद्या महेशानि ! जीवेनैव प्रकीर्तिता |
जीवेजीवत्वसिद्धिः स्याद्देवदेवत्वसिद्धये |
मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे |
प्रजज्ञिरे प्रादुर्वभूवुरित्यर्थः ||
महाविद्या महापूर्वा महामन्त्राश्च भाविनि ! |
सर्वेषां बीजमित्युक्तं शङ्करस्य मतेन च |
कुलमूलावतारकल्पसूत्रटीकाधृततापनी च |
परमशिवभट्टारकः श्रुत्यष्टादशविद्याः सर्वाणि दर्शनानि च लीलया तत्तदवस्थापन्नः प्रणीय सविमत्या भगवत्या स्वात्माविभिन्नया पृष्टः पञ्चभिर्मुखैः पञ्चाम्नायान् परमार्थस्वरूपान् प्रणिन्ये इति |
एतान् व्याचक्षते शङ्कराचार्याः |
प्ररमशिव इति तदुक्तं परिमलोल्लासे ||
परमेशः प्रसन्नात्मा प्रकाशस्य महेशितुः |
प्रथमो यः परिस्पन्दः शिवतत्त्वं तदुच्यते ||
भट्टारकः सर्वनियमकर्त्ता |
कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे ||
भवपापप्रशमनात् टङ्कारेन्दुकशेखरात् |
रक्षणात् कमनीयाद्वा भट्टारक इति स्मृतः ||
श्रुतिप्रसिद्धा अष्टादशविद्या इति |
चत्वारो वेदा उपवेदाश्चत्वारः षडङ्गानि पुराणन्यायमीमांसाधर्मशास्त्राण्येतावत्यः ||
श्रुतिप्रसिद्धा इति सर्वतः प्रामाण्येनोक्तम् |
चत्वारो वेदा इति ऋक्सामाथर्वयजूंषि |
उपवेदा इत्यायुर्वेदगान्धर्ववेददण्डनीतिधनुर्वेदा यथाक्रममुक्तवेदानामित्यवगन्तव्यम् |
तथा च शौनकोक्तौ चरणव्यूहे ऋग्वेदस्यायुर्वेदोपवेदो यजुर्वेदस्य धनुर्वेदोपवेदः सामवेदस्य गान्धर्ववेदोपवेदोऽथर्ववेदस्यार्थशास्त्राणि भवन्तीति अस्त्रशास्त्राणि भवन्तीति चतुर्थचरणं दाक्षिणात्याः पठन्ति |
श्रीभागवते तृतीयस्कन्धे द्वादशाध्याये तु |
आयुर्वेदं धनुर्वेदं गान्ध्र्वं वेदमात्मनः |
स्थापत्यं चासृजद्वेदं क्रमात् पूर्वादिभिर्मुखैरित्युक्तम् |
स्थापत्यं विश्वकर्मशास्त्रमिति स्वामी |
तत्तु गृहवास्तुकुण्डादिकरणशास्त्रम् |
एतेषां श्रुतिवेदभिन्नशास्त्रेभ्यः प्रामाण्यकीर्त्तनाय सर्वशास्त्राणामादौ निर्देशः कृतः शङ्कराचार्यैः |
श्रीधरस्वामिना तु श्रीभगवद्गीताटीकायां स्मृतिशास्त्रापेक्षया दण्डनीतेर्दुर्बलत्वमुक्तम् |
तथात्वे त्वायुर्वेदोक्तमहौषधानामभक्ष्यापेयानाम-ग्राह्यत्वं स्यात् |
शरलांस्तु तादृशौषधभक्षणे तु प्रायश्चित्तमाहुः |
तन्न |
एतान्येव व्याधितस्य भिषक्क्रियायामप्रतिषिद्धानि यानि चैवं विधानि तेष्वप्यदोष इति स्मृत्युक्तेः |
षडङ्गानीति शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतींषि |
पुराणं पञ्चलक्षणाक्रान्तं व्यासप्रणीतम् |
न्यायः कर्ममीमांसा |
गौतमेन तथा न्यायमिति वक्ष्यमाणवचनादान्वीक्षिक्यपि |
मीमासां ब्रह्ममिमांसा वेदान्त इति यावत् |
धर्मशास्त्राणिमन्वादिप्रणीतानि |
एतावत्योऽष्टादशविद्या इति दर्शनानि व्याचक्षते आचार्याः |
यथादर्शनानि बौद्धशैवब्राह्मसौरवैष्णवशाक्तानीति |
सम्प्रति तु वेदान्तसांख्यमीमांसाविशेषतर्कशास्त्राणि दर्शनानि मन्यन्ते सुधिय इति |
लीलयेति लीला इच्छाविशेषः |
अन्यथा सृष्टिकर्तृत्वे निरीहस्य भगवतः कारणान्तरापेक्षा नास्त्येव |
तत्तदवस्थापन्न इति ब्रह्मविष्णुरुद्रव्यासनारदादिशरीरीति |
अत-एव गन्धर्वतन्त्रे प्रथमपटले ||
प्रथमं हि मया प्रोक्तं शैवं पाशुपतादिकम् |
मच्छक्त्यावेशितैर्विप्रैः सम्प्रोक्तानि ततः परम् |
कणादेन च सम्प्रोक्तं शास्त्रं वैशेषिकं महत् |
गौतमेन तथा न्यायं सांख्यन्तु कपिलेन तु |
धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् |
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा |
बौद्धशास्त्रं तथा प्रोक्तं लग्ननीलपटादिकम् |
आपत्यं श्रुतिवाक्यान्यां दर्शयन् लोकगर्हितम् |
कर्मस्वरूपत्याज्यत्वमत्र वै प्रतिपद्यते |
सर्वकर्मपरिभ्रष्टं कल्पषन्तु तदुच्यते |
गौतमप्रोक्तशास्त्रार्थनिरताः सर्व एव हि |
शार्गालीं योनिमापनाः सन्दिग्धाः सर्वकर्मसु |
अत-एव महाभारते मोक्षधर्मे काश्यपेन्द्रसंवादे ||
अहमासं पण्डितको हौतुको वेदनिन्दकः |
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकामिति प्रस्तुत्य आक्रोष्टा चातिवक्ता च ब्रह्मयज्ञषु वै द्विजान् |
यस्येयं फलनिष्पत्तिः शृगालत्वं मम द्विजेति ब्राह्मणं प्रति शृगालवाक्यम् ||
ननु आन्वीक्षीकी दण्डनीतिस्त्रयी त्रिदिवसुन्दरीति कालीकुलसर्वस्वी- यवचनेनाद्यासहस्रनामान्तर्गतत्वेनान्वीक्षिक्याः श्रीमद्दक्षिणकालिकास्वरूपाया अध्ययनरूपोपासनया यदि शृगालत्वं स्यात्तदा चतुर्वर्गफलं कुतो लब्धव्यमिति चेत् सत्यमान्वीक्षिक्यध्यात्मविद्येति ब्रूमः |
सा च दत्तात्रेयप्रणीता न गौतमोक्ता |
तता च भागवते प्रथमस्कन्धे |
षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनुसुयया |
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवानिति |
अत्रिणा वृतः सन् तस्यापत्यत्वं प्राप्तः |
कथमित्याह अनुसूयायामामेवापत्यं वृतवानिति दोषदृष्टिमकुर्वन्नित्यर्थः |
शेषं सुगमम् |
आन्वीक्षिकीमात्मविद्यामिति श्रीधरस्वामिना व्याख्यातम् |
न गौतमोक्तविद्या सा तु तर्काह्वयत्वेन पसिद्धेति चेन्नैवम् |
तथात्वे आन्वीक्षिकीं तर्कविद्यामिति मोक्षधर्मश्लोके तर्कविद्येति विशेषणमान्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोरित्यमर-सिंहोक्तञ्च न सङ्गच्छते |
तस्मात्तयोर्द्वयोरेवान्वीक्षिकीति नामधेयम् |
अथ तर्हि उक्तदोषस्तदवस्थ इति सत्यं गन्धर्वतन्त्राभिप्रायमनालोच्य दोषमाशङ्कसे तथाहि |
निष्ठाया अतीतार्थाभिधायित्वाच्छार्गालीं योनिमापन्नाः प्राप्तशृगालयोनिकाः सर्व एव गौतमप्रोक्तशास्त्रार्थनिरताः केवलतर्कशास्त्रनिपुणाः सन्तः सर्वकर्मसु सन्दिग्धा भवन्तीति वचनस्य निर्गलितार्थः |
शास्त्रान्तरव्यावृत्तिस्तु निपातेन व्यज्यते |
अत-एव आम्नायार्थाविवादेन न्यायचिन्तां करोति यः |
तेन निःश्रेयसं प्राप्यं शार्गाली योनिरन्यथेति पठन्ति |
मोक्षधर्मश्लोकार्थसु |
तर्कविद्यामान्वीक्षिकीमनुरक्तोऽहं द्विजानाक्रोष्टातिवक्ता च यस्य ब्राह्मणं प्रत्याक्रोशस्यातिवादस्य च फलनिष्पत्तिर्मम शृगालत्वमिति |
युक्तञ्चैतद्वाचिकपापस्य मनुना तथात्वस्य प्रतिपादितत्वात् ||
तथा च मनुः ||
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः |
वाचिकैः पक्षिजातित्वं मानसैरन्त्यजातितामिति |
मानसपापन्तु न गृहस्थानामित्यग्रे वक्ष्यते कलीतरपरं वा |
तथा च भागवते प्रथमस्कन्धे |
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् |
कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत् |
सारङ्गो भ्रमर इव सारग्राही सम्राट् राजा कलिं नानुद्वेष्टीत्यन्वयः |
कुशलानि पुण्यानि आशु सङ्कल्पेन सिध्यन्ति फलन्ति |
इतराणि पापानि नाशु सिध्यन्ति यतस्तानि कृतान्येव सिध्यन्ति न तु सङ्कल्पमात्राणीत्यर्थः |
सङ्कल्पः कर्म मानसमित्यमरः |
यदि तु तर्कविद्यापाठेन शृगालत्वमुच्यते तदा तु मोक्षधर्मस्याक्रोष्टेत्यादि श्लोकस्य वैयर्ययं स्यादिति सुधीभिर्विचार्ययमिति ||
गान्धर्वे ||
द्विजन्मना जैमिनिना सर्ववेदमपार्थतः |
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् |
सविमत्येति सविमतिर्विमर्षरूपा |
भगवत्येति भगवती सच्चिदानन्दरूपलक्षणा |
स्वात्माविभिन्नयेति |
स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत |
सहैतावाननवास यथा स्त्रीपुंसौ सम्परिष्वक्तौ स तावानेवात्मानं द्वेधार्पयेत् |
पतिश्च पत्नी चाभवताम् |
तस्मादिदमर्द्धं गच्छत इति तस्मात्तु याज्ञवल्क्यस्तस्मादयमाकाशस्त्रिधापूर्ययत एव तां समभवत्ततो मनुष्या अजायन्त सौहे यमीक्षाञ्चक्रे |
इति श्रुतिः |
एतदुक्तं स्वच्छन्दभैरवे |
गुरुशिष्यपदे स्थित्वा स्वयं देवो महेश्वरः |
पूर्वोत्तर पदैर्वाक्यैस्तन्त्रान् समवतारयत् ||
परापञ्चाशिकायामपि |
परमेशः प्रकाशात्मा प्रकाशस्य महेशितुः |
विमर्षैकस्वभावत्वं न क्वचिद्व्यवधीयते |
पञ्चभिर्मुखैरिति ईशानतत्पुरुषवामदेवाघोरसद्योजातस्वरूपैः |
पञ्चाम्नायानिति पूर्वपश्चिमदक्षिणोत्तरनिरुत्तरान् सर्वेषां देवानां तत्तत्प्रकरणस्वरूपान् ||
तदुक्तं भैरवतन्त्रे ||
पूर्वपश्चिमदक्षिण उत्तरञ्च निरुत्तरमिति |
अन्यत्रापि पूर्वाम्नायः पूर्वमुखः पश्चिमः पश्चिमामुखः |
दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरः परः |
निरुत्तरं तथा चोर्द्धं सिद्धान्तागमरूपिणम् |
ऊर्द्धाम्नायपरिज्ञानं नाल्पस्य तपसः फलमिति |
अन्यत्र पूर्वाम्नायः शब्दरूपो दक्षिणः कर्णरूपकः |
पश्चिमः प्रश्नरूपः स्यादुत्तरश्चोत्तरस्तथा |
ऊर्द्ध्वाम्नायस्तत्त्वबोधः केवलानुभवात्मकः ||
कुलार्णवतन्त्रेऽपि ||
मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गता इत्यादि |
परमार्थस्वरूपानिति सर्वेषां शैवाद्याम्नायानां सारभूतान् ||
निर्वाणन्त्रे षष्ठपटलेऽपि ||
विभाव्य सुखपद्मं हि शिवस्य वरवर्णिनि ! |
सद्योजतं वामदेवमघोरञ्च ततः परम् |
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् |
सयोजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् |
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् |
कृष्णवर्णमघोरञ्च समं भीमविवर्द्धनम् |
रक्तं तत्पुरुषं देवि ! दिव्यमूर्तिमनोहरम् |
श्यामलञ्च तथेशानं सर्वदेवशिवात्मकम् |
चिन्तयेत् पश्चिमे चाद्यं द्वितीयञ्च तथोत्तरे |
अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा |
ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः ||
समयाचारतन्त्रे द्वितीयपटले तु षडाम्नाया उक्ता यथा ||
पूर्वाम्नायो यदा मन्त्रस्तदा प्राचीदिशि स्थितः |
सदाशिवोऽहं भगवानाचारः परिकीर्तितः |
एवं वै दक्षिणाम्नायो दक्षिणस्यां दिशि स्थितः |
एवमेवोत्तराम्न्याय उत्तरस्यां दिशि स्थितः |
मुखमूर्द्ध कृतं देवि ! यत् प्रोक्तं तव सन्निधौ |
ऊर्द्ध्वाम्नायश्च कथितो देवानामपि दुर्लभः |
यदाचारो मुखे देवि ! यत् प्रोक्तं गिरिजे ! प्रिये ! |
अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे ! |
षडाम्नायश्च कथिताश्चोत्पत्तिक्रमनामतः |
यस्मिन् यस्मिंश्च ये देवाः कथिताश्च वरानने ! |
तान् देवांश्च प्रवक्ष्यामि साधकानां हिताय वै |
श्रीविद्याभेदसहिता तारा च त्रिपुरा तथा |
भुवनेशी चान्नपूर्णा पूर्वाम्नाये प्रकीर्तिता |
वगलामुखी वशिनी त्वरिता धनदा तथा |
महिषघ्नी महालक्ष्मीर्दक्षिणाम्नायकीर्तिताः |
वाशिनी बालभैरवीत्यर्थः ||
महासरस्वती विद्या तथा वाग्वादिनी परा |
प्रत्यङ्गिरा भवानी च पश्चिमाम्नायकीर्तिताः ||
कालिकाभेदसहिता ताराभेदैश्च संयुता |
मातङ्गी भैरवी च्छिन्ना तथा धूमावती परा |
उत्तराम्नायकथिताः कलौ शीघ्रफलप्रदाः |
समस्तभेदसहिताः कालिकायाः प्रकीर्त्तिताः |
द्वाविंशत्यक्षरी तासां दक्षिणाम्नायकीर्तिता |
तत्परा परमा विद्या न विद्यान्तरगोपिता ||
पराप्रासादमन्त्रश्च ऊर्द्ध्वाम्नाये प्रकीर्तितः |
वागीश्वरादयो देवा अध आम्नायकीर्तिताः |
ऊर्द्ध्वाम्नाया अधश्चैव केवलं मोक्षदो भवेत् |
धर्मार्थकाममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः |
यथोक्तविधाना भद्रे ! कृत्वा फलमवाप्नुयात् |
पूर्वाम्नायादि सर्वासां विधानं शृणु सुन्दरि ! |
कृत्वा येनाशु लभते फलं यदुत्तमोत्तमम् |
षट्कर्मफलदा नॄणां षडाम्नायाः प्रकीर्त्तिताः |
उत्तराम्नायो देवीशि ! तेषामाशु फलप्रदः ||
अत-एव पादुकापञ्चकस्तोत्रे षडाम्नायफलोपेतमित्युक्तम् |
अत्राम्वायादीनां नानातन्त्रैर्वर्णविरोधः पञ्चसडित्याम्नायविरोधश्चाम्नायादिभेदेन समाधानीय इति पूर्वमुक्तं कल्पभेदेन वा |
तत्राम्नायभेदेनाचारभेद उक्तस्तु निरुत्तरतन्त्रे प्रथमपटले ||
पूर्वाम्नायोदिवं कर्म पाशवं कथितं प्रिये ! |
यदुक्तं दक्षिणाम्नाये तदेव पाशवं स्मृतम् |
पश्चिमाम्नायजं कर्म पशुवीरसमाश्रितम् |
उत्तराम्नायजं कर्म दिव्यवीराश्रितं प्रिये ! |
दिव्योऽपि वीरभावेन साधयेत् पितृकानने |
वीरासनं विना दिव्यः पूजयेत् पितृकानने |
ऊर्द्ध्वाम्नायोदितं कर्म दिव्यभावाश्रितं प्रिये ! |
एतेन तन्त्रादीनामेवाम्नायत्वमायातम् |
तुल्यप्रमाणत्वज्ञापनाय तु श्रुतिवेदाम्नायानामेकपर्ययायता अमरसिंहेन स्वीकृता |
अत-एव मेरुतन्त्रे प्रथमप्रकाशे ||
न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमुत्थितं |
तस्माद्वेदपरो मन्त्रो वेदाङ्गश्चागमः स्मृत इति |
तन्त्राणां वेदाङ्गत्वमुक्तम् वेदे परो वेदपर उत्तम इत्यर्थः |
वेदा मन्त्रा एवाङ्गानि यस्य स तथा निरुत्तरतन्त्रेऽपि ||
आगमः पञ्चमो वेदः कौलस्तु पञ्चमाश्रम इति |
एवञ्च प्रागुक्ततापनीव्याख्याने शङ्कराचार्ययैरेतावत्य इति विशेषणदानेन तापन्युक्ताष्टादशेति विशेषणेन च दर्शनानां पृथङ्निर्देशेनाप्यन्येषां न विद्यात्वं किन्तु सामान्येन शास्त्रत्वमेव |
तानि तु कामसूदनटमुद्राशिल्पाश्वगजरत्नश्येन- परीक्षास्त्रनिर्माणस्थापत्यकेरलिस्वरशकुनराजनीतिकाव्या-लङ्कारप्रभृतीनि |
अत-एवं विद्याः शास्त्राणि शिल्पानि नृत्यगीतादिकञ्च यदि सरस्वतीस्तवे विद्याशास्त्रयोः पृथगुपादानम् तर्हि शिल्पादीनामपि शास्त्रत्वात् कथं तत्र पृथङ्निर्देश इति चेन्नैवम् |
शिल्पादिशब्देन शिल्पादिक्रिया तन्त्राभिमता अतो न दोषः |
तेषां शास्त्रत्वे प्रमाणन्तु कामशास्त्रमजानन्तो रमन्ते पशवो यथेत्यादिवचनम् |
अष्टादशविद्यान्तःपातिपुराणविद्यामध्ये प्रचरद्रूपत्वात् सटीकतया निःसन्दिग्धार्थत्वाच्च भागवतमात्रस्य लक्षणमुच्यते |
नारदपञ्चरात्रे द्वितीयरात्रे सप्तमाध्याये ||
ग्रन्थाष्टादशसाहस्त्र्यं द्वादशस्कन्धसम्मितम् |
शुकप्रोक्तं भागवतं श्रुत्वा निर्वाणतां व्रजेत् |
पुरा भगवता प्रोक्तं कुष्णेण ब्रह्मणे शुके |
पुराणसारं शुद्धं तत् तेन भागवतं विदुः ||
शारदाद्वितीयपटले ||
मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे |
मन्त्रविद्याविभागेन द्विविधा मन्त्रजातयः |
मन्त्राः पुंदेवता ज्ञेया विद्याः स्त्रीदेवताः स्मृताः ||
प्रयोगसारेऽपि ||
द्विधा प्रोक्ताश्च ते मन्त्राः सौम्यसौरविभागतः |
सौराः पुंदेवता मन्त्रास्ते च मन्त्राः प्रकीर्त्तिताः |
सौम्याः स्त्रीदेवतास्तद्वद्विद्यास्ते विश्रुता इति प्रयोगविशेषसिद्ध्यर्थं मन्त्राणां त्रैविध्यमाह शारदायाम् |
पुंस्त्रीनपुंसकात्मानो मन्त्राः सर्वे समीरिताः |
पुंमन्त्रा हुंफडन्ताः स्युर्द्विष्ठान्ताश्च स्त्रियो मताः |
नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ||
ननु निष्कलचेतन्यात्मकानन्दवाच्यस्य मन्त्रस्य कथं पुंस्त्र्यादिकल्पनमिति चेत् सत्यं वस्तुतो नास्त्येव उपासकानामर्थे कल्पनामात्रं यदाहुः |
चिन्मयस्य द्वितीयस्य निष्कलस्याशरीरिणः |
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना |
हुं फडिति सम्प्रदायाद्व्यस्तसमस्तास्तदन्ता इति |
द्विठान्ता इति स्वाहान्त इत्यर्थाः ||
ठशब्देन लिपिसाम्यादर्थाद्बिन्दुरुच्यते |
ठः शून्ये च वृहद्धलाविति कोषात् |
शून्यरूपमेव तस्य द्वित्वं तेन विसर्गः स च शक्तिरूप इति द्विठशब्देनाग्निशक्तिः स्वाहोक्ता |
प्रयोगसारे तु वषट्स्वाहान्तगाः स्त्रियः |
नपुंसका हुं नमोऽन्ता इति मन्त्रास्त्रिधा स्मृताः |
तारेणाप्यनुमीयन्ते मन्त्राः स्वाद्यन्तमध्यतः |
प्रत्यासन्नात्मभावेन यथा पुंस्त्रीनपुंसकाः |
बिन्दुसर्गेन्दुखण्डान्तास्तद्वदेव प्रकीर्त्तिताः |
शारदायाम् ||
शस्तास्ते त्रिविधा मन्त्रा वश्यशान्त्याभिचारके ||
नाराणणीये ||
शेषाः पुमांसः शस्तास्ते वश्योच्चाटविशेषतः |
क्षुद्रक्रियाद्युपध्वंसे स्त्रियोऽन्यत्र नपुंसकाः |
शारदायाम् ||
अग्नीषोमात्मका मन्त्रा विज्ञेयाः क्रूरसौम्ययोः |
पूर्वं मातृकायाः कुण्डल्या आविर्भावस्योक्तत्वात्तस्य अग्नीषोमात्मकत्वात् मन्त्राणामपि तथेति हृदयम् |
तत्रैव कर्मणोर्वह्नितारान्त्यवियत्प्रायाः समीरिताः ||
क्रूरसौम्ययोः कर्मणोरित्यन्वयः |
वह्नीरेफः |
तार ओंकारः |
अन्तः क्षकारः |
वियत् हकारः |
प्रायःशब्दो बाहुल्यवाची ||
आग्नेया मनवः सौमाय भूयिष्ठेन्द्वमृताक्षराः |
आग्नेया इति पूर्वेण सम्बध्यते ||
इन्दुः सकारः |
तत्त्वन्यासे इन्दुमण्डलस्य सकारादित्वेन न्यस्तत्वात् |
अमृतं वकारः ||
अत्रैकस्य बाहुल्ये तत्त्वम् |
उक्तञ्चेशानसंहितायाम् ||
ताराकाशाद्यन्तवाद्यन्तवर्णा आग्नेयाः स्युः सौम्यवर्णास्ततोऽन्ये |
आग्नेयोऽपि स्यात्तु सौम्यो नमोऽन्तः सौम्योऽपि स्यादग्निमन्त्रः फडन्त इति |
स्यादाग्नेयः क्रूरकर्मप्रसिद्धः |
सौम्यः सौम्यकर कुर्ययाद् यथावदिति ||
नारायणीयेऽपि ||
तारोऽन्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते |
शिष्टः सौम्यप्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोरिति ||
शारदायाम् ||
आग्नेयाः सम्प्रबुद्ध्यन्ते प्राने चरति दक्षिणे ||
भागे नाभिस्थिते प्राणे सौम्या बोधं प्रयान्ति च |
नाडीद्वयं गते प्राणे सर्वे बोधं प्रयान्ति च |
प्रयच्छन्ति शुभं सर्वे प्रबुद्धा मन्त्रिणां सदा ||
सुप्तकाले प्रयोगो न कार्ययः |
उक्तञ्च नारायणीये ||
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति |
स्वापकाले वामवहो जागरे दक्षिणावहः ||
आग्नेयस्य मनःसौम्यमन्त्रस्यैतद्विपर्यययः ||
स्वापकाले दक्षिणश्वासो जागरणे वामनिश्वास इति वैपरीत्यम् |
प्रबोधकालं जानीयादुभयोरन्तयोर्वहमिति ||
इति श्रीप्राणतोषिण्यां प्रथमे सर्गकाण्डे आम्नायभेदरूपकेशरकथनं नाम नवमः [नामाष्टमः] परिच्छेदः |
यद्यपि छिन्नादिदुष्टमन्त्राणां लक्षणं तन्त्रसारकारेणैव धृतं तथापि तेषां व्याख्यानार्थं नानाशोधनदर्शनार्थञ्चात्र लिख्यते ||
शारदायाम् |
छिन्नादिदुष्टमन्त्रास्ते पालयन्ति न साधकम् |
छिन्नो रुद्धः शक्तिहीनः पराङ्मुख इतीरितः |
वधिरो नेत्र हीनश्च कीलितः स्तम्भितस्तथा |
दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः |
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः |
हृतवीर्यश्च हीनश्च प्रध्वस्तो बालकः पुनः |
कुमारश्च युवा प्रौढो वृद्धोनिस्त्रिंशकस्तथा |
निर्वीर्ययः सिद्धिहीनश्च मन्दः कूटस्तथा पुनः |
निरंशः सत्त्वहीनश्च केकरो वीजहीनकः |
धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधार्त्तकः |
अतिदृप्तोऽङ्गहीनः स्यादतिक्रुद्धः समीरितः |
अतिक्रूरश्च सव्रीडः शान्तमानस एव च |
स्थानभ्रष्टश्च विकरः सातिवृद्धः प्रकीर्त्तितः |
निःस्नेहः पीडितश्चापि वक्ष्याम्येषाञ्च लक्षणम् ||
तथा पुनरित्यनेन कूट एव निरंशक इत्याह |
अतिवृद्ध इति निःस्नेहविशेषणम् |
तेन निःस्नेह इत्यनन्तरमतिवृद्ध इत्युक्तमिति राघवभट्टः ||
मनोर्यस्यादिमध्यान्तेष्वानलं वीजमुच्यते |
संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः |
चतुर्धा पञ्चधा वाथ स मन्त्रश्छिन्नसंज्ञकः |
आदिमध्यावसानेष्विति समुच्चयः |
संयुक्तं वा अक्षरान्तरयुक्तं वियुक्तं वा केवलं वा इत्येकैकं द्विः सम्बध्यते |
विशिष्टं मलिनं वा विशिष्टं बीजं वा यस्य स छिन्नसंज्ञक इति |
बीजं शक्तिबीजं स्वराक्रान्तं दीर्घस्वराक्रान्तम् आ ई ऊ ऐ ओ एतत् स्वरयुक्तम् इति सम्प्रदायविदः |
वीजशब्देन मायाबीजं कथमिति चेदुक्तं शैवे ||
मायावीजस्य नामानि मानिनी शिववल्लवी |
वातावर्त्तिः कला वाणी बीजं शक्तिश्च कुण्डलीति ||
आदिमध्यावसानेषु भूवीजद्वन्द्वलाञ्छितम् |
रुद्धमन्त्रः स विज्ञेयो भुक्तिमुक्तिविवर्ज्जितः |
भूवीजं लः |
द्वन्द्वेति प्रत्येकं सम्बध्यते |
पिङ्गलामते |
आदौ द्विधा द्विधा मध्ये पुनश्चान्ते द्विधा भवेत् |
इन्द्रवीजमसौ मन्त्रो रुद्ध इत्यभिधीयते ||
मायात्रितत्त्वश्रीवीजवारहीनस्तु यो मनुः |
शक्तिहीनः स कथितो यस्य मध्ये न विद्यते |
माया भुवजेशीवीजम् |
त्रितत्त्वं हुङ्कारः प्रणवो वा |
वारः फ्रेङ्कारः |
चीबीजं लक्ष्मीवीजम् |
एषां न समुच्चयः |
तदुक्तं |
मायाबीजं न यत्रास्ति त्रितत्त्वं वारमेव वा |
श्रीगृहं वापि मन्त्रोऽसौ शक्तिहीनः प्रकीर्त्तितः |
पिङ्गलामतेऽपि |
मायाबीजं त्रितत्त्वं वा श्रीगृहं यत्र नास्ति चेत् |
शक्तिहीन इति ख्यातः सामर्थ्यं हन्ति मन्त्रिण इति ||
कामबीजं मुखे माया शिरस्यङ्कुशमेव वा |
असौ पराङ्मुखः प्रोक्तो हकारो बिन्दुलाञ्छितः |
यस्य मध्ये इति पूर्वपद्यचरणेनान्वयः |
मुखे आदौ |
शिरसि अन्ते |
अङ्कुशं क्रोङ्कारः |
वाशब्दः समुच्चये |
यदुक्तं पिङ्गलामते ||
कामबीजं नयन्मध्ये मायादावन्तिमोऽङ्कुशः |
पराङ्मुख इति प्रोक्तो मनुः सिद्ध्यै पराङ्मुख इति ||
यन्त्रमुक्तावल्यामपि |
यस्य कामकलाबीजं मध्यस्थाने न विद्यते |
आदौ मायाङ्कुशश्चान्ते ज्ञेयश्चासौ पराङ्मुख इति ||
आद्यन्तेमध्येष्बिन्दुर्वा न भवेद्वधिरः स्मृतः |
हकारो बिन्दुलाञ्छित इति पूर्वश्लोकचरणेनान्वयः |
बिन्दुलाञ्छित इन्दुरित्यनेनापि सम्बन्ध्यते |
आद्यन्तमध्येष्विति न समुच्चयः |
यदुक्तम् |
शून्यं बिन्दुसमायुक्तमाद्यन्ते वाथ मध्यतः |
न भवेज्जीवबीजं वा यस्यासौ वधिरः स्मत इति |
केचिद्बिन्दुशब्देन ठकाराख्यमाचक्षते |
जीवबीजेयनेन एतदपि परास्तम् |
पञ्चवर्णो मनुर्यः स्याद्रेफार्केन्दुविवर्जितः |
नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः |
अर्को हकारः ||
वैष्णवकृत्तत्त्वन्यासे ||
अर्कमण्डलतत्त्वस्य हकारादित्वेन न्यस्तत्वात् हकारस्य पुंरूपत्वाद्वा अर्कत्वम् |
इन्दुः सकारः |
दुःखशोकामयप्रद इति क्रमेण फलम् |
यतोऽग्निसूर्ययचन्द्राणां नेत्रत्रयात्मकत्वादेकद्विहीनतः कारणतापि ज्ञेया |
तदुक्तं पिङ्गलामते ||
पञ्चाक्षरस्तु यो मन्त्रो वह्निचन्द्रार्कवर्जितः |
नेत्रहीन इति ज्ञेयो दुःखशोकभयावह इति ||
आदिमध्यावसानेषु हंसप्रासादवाग्भवौ |
विद्येते स तु मन्त्रः स्यात् स्तम्भितः सिद्धिरोधकः |
हंसस्वरूपं प्रसादो होंवीजम् |
वाग्भव ऐंवीजम् ||
वह्निवायुसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि |
सप्तधा दृश्यते तन्तु दग्धं मन्येत मन्त्रवित् |
वह्नीरेफः वायुर्यकारस्तेन समवेतः अत ऊर्द्ध्वं वा मूर्द्धनि आदौ |
तदुक्तं पिङ्गलामते |
आदिस्थैः सप्तभिर्वीजैर्मारुतैः पावकाक्षरम् |
दीपितं यत्र तं मन्त्रमार्यया दग्धं प्रचक्षते ||
अस्त्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरैः |
स्रस्तः सोऽभिहितो यस्य मुखेन प्रणवः स्मृतः |
द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्वा अक्षरैर्वा यस्य अस्त्रं फट्कारो दृश्यते |
पिङ्गलामते भीतनाम्ना अयमुक्तः |
आदिमध्यावसानेषु यदि मन्त्रोऽसंयुतः |
भीत इत्युच्यते मन्त्रः फलहीनो विशारदैः ||
शिवो वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः |
यस्य मुखेनेत्यादिगतश्लोकचरणेनान्वयः |
यस्य मुखे आदौ शिवो हङ्कारः शक्तिः सकारो नास्ति |
अयन्तु मन्त्रान्तरेणोक्तः |
पिङ्गलामते ||
शिवशक्तिस्तथोङ्कारो यस्यादौ नास्ति तं मनुम् |
वदन्ति मातृकाहीनं हीनशक्तिप्रदायकम् ||
आदिमध्यावसानेषु भवेन्मार्णचतुष्टयम् |
यस्य मन्त्रः स मलिनो मन्त्रवित्तु विवर्ज्जयेत् ||
आदीत्यादेः समुच्चयः |
मार्णचतुष्टयमित्यत्रापि समुच्चयः |
तेन स्थानत्रये मिलित्वा मार्णचतुष्टयमपेक्षितम् |
तदुक्तं पिङ्गलामते ||
आदिमध्यान्तदेशेषु चतुर्द्धा यत्र दृश्यते |
मकारो मलिनं विद्यात्तं मन्त्रं मन्त्रवित् सदा ||
यस्य मध्ये दकारो वा क्रोधो वा मूर्द्धनि द्विधा |
अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदाहृतः |
क्रोधो हूं वीजम् |
मध्ये दकारक्रोधयोर्विकल्प इति |
मूर्द्धनि अन्ते |
अस्त्रं द्विधास्त्रमिति सम्बन्धः |
तदुक्तम् |
दकारः क्रोधबीजं वा यस्य मध्ये व्यवस्थितम् |
फड्द्वयञ्च स्थिते प्राप्ते यन्मनोः स तिरस्कृत इति ||
ओं द्वयं मुखे शीर्षे वषडस्त्रञ्च मध्यतः |
यस्यासौ भेदितो मन्त्रस्त्याज्यः सिद्धिषु सूरिभिः |
शीर्षे अन्ते |
वषट् अस्त्रं फट् ||
मन्त्रमुक्तावल्याम् |
अस्त्रवर्णद्वयं मध्ये वषडन्ते तथैव च |
यस्य मन्त्रस्य भिन्नोऽसौ विज्ञेयः सिद्धिवर्ज्जित इति ||
पिङ्गलामतेऽपि ||
अस्त्रवर्णद्वयं मध्ये वषडन्ते तथोदिताः |
अधमाः स्युरसौ मन्त्रो भेदितः परिकीर्त्तितः ||
त्रिवर्णो हंसहीनो यः सुषुप्तः स उदाहृतः |
त्रिवर्ण इति त्रिवर्णत्वं हंसहीनत्वमेकस्यैवोक्तम् ||
पिङ्गलामते ||
वर्णत्रयं भवेद् यत्र हंसहीनं स शम्भुना |
सुषुप्त इति सिद्धान्तः प्रोक्तः सिद्धिफलापह इति ||
मन्त्रमुक्तावल्यामपि ||
वर्णत्रयात्मको मन्त्रो यस्तु हंसविवर्ज्जितः |
प्रसुप्तः स तु विज्ञेयः सर्वसिद्धिफलापहः |
शारदायाम् ||
मन्त्रो वाप्यथ वा विद्या सप्ताधिकदशाक्षरः |
फट्कारपञ्चकादिर्यो मदोन्मत्त उदीरितः |
सप्ताधिकानि अष्टौ दश चाक्षराणि यत्र सः ||
फट्काराणां पञ्चकमादौ यस्य सः ||
तदुक्तं राघवभट्टधृतेन |
विद्या वा यदि वा मन्त्रो यद्यष्टादशवर्णकः |
पञ्चफट्कारपूर्वः स्यान्मदोन्मत्तः स उच्यते |
पिङ्गलामतेऽपि ||
विद्या वा मन्त्रराजो वा यः स्यात् सप्तदशाधिकः |
फट्काराः पञ्च पूर्वञ्चेदुन्मत्तः स प्रकीर्त्तितः ||
शारदायाम् ||
तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्च्छितः |
यस्य मन्त्रस्य मध्ये तदस्त्रं स्थितं पञ्च वा फट्कारवीजानि स्थितानि स मूर्च्छित इत्यर्थः ||
विरामस्थानगं यस्य हृतवीर्ययः स उच्यते |
विरामस्थानगमन्ते अस्त्रं यस्येत्यर्थः |
पिङ्गलामते तु ||
अस्त्रमन्ते भवेद्यस्य मध्ये प्रान्ते च शम्भुना |
हृतविर्मा इति ख्यातः स मन्त्रो नैव सिद्धिद इति ||
शारदायाम् ||
आदौ मध्ये तथा चान्ते चतुरस्रयुतो मनुः |
ज्ञातव्यो हीन इत्येष यः स्यादष्टादशाक्षरः |
आदाविति समुच्चयः |
स्थानत्रये मिलित्वा अस्त्रचतुष्टयम् |
तन्त्रान्तरे तु भीतनाम्ना अयमुक्तः |
तथा |
आदावन्ते तथा मध्ये चतुरस्रेण संयुतम् |
अष्टादशाक्षरं मन्त्रं भीतं तं भैरवोऽव्रवीत् |
अन्यत्र भीमनाम्ना अयमुक्तः |
यथा |
आदौ मध्ये तथा चान्ते चतुरस्रयुतो मनुः |
ज्ञातव्यो भीम इत्येष यः स्यादष्टादशाक्षरः ||
शारदायाम् ||
एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः |
हृल्लेखाङ्कुशवीजाट्यस्तं प्रध्वस्तं प्रचक्षते |
तारः प्रणवः |
हृल्लेखा ह्रीमिति |
अङ्कुशः क्रोमिति |
एकोनविंशतिवर्णोऽष्टादशाक्षरो वा ||
तथा च राघवभट्टधृतवचनम् |
स स्यादष्टादशाक्षरः |
विंशत्येकोनवर्णश्च मायौङ्काराङ्कुशान्वितः |
प्रध्वस्त इत्यसौ मन्त्रः शम्भुदेवेन कीर्तित इति ||
सप्तवर्णो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः |
ध्रुवः प्रणवः |
अन्यत् सुगमम् ||
सप्तवर्णो मनुर्बालः कुमारोऽष्टाक्षरः स्मृतः |
षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः ||
लिपिरक्षरम् ||
राघवभट्टधृतमपि ||
सप्ताक्षरो भवेद्बालः कुमारश्चाष्टवर्णकः |
चत्वारिंशाक्षरः प्रौढस्तरुणः षोडशाक्षर इति ||
त्रिंशवर्णश्चतुःषष्टिवर्णोमन्त्रः शताक्षरः |
चतुःशताक्षरश्चापि वृद्ध इत्यभिधीयते ||
नवाक्षरो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः |
नवाक्षरत्वं ध्रुवयुक्तत्वञ्चैकस्यैव ||
पिङ्गलामते ||
नवाक्षरस्तु निस्त्रिंशो ध्रुवयुक्तश्च मृत्युद इति ||
शारदायाम् ||
यस्यावसाने हृदयं शिरोमन्त्रो च मध्यतः |
शिखा वर्म च न स्यातां वौषट् फट् कार एव वा ||
शिवशक्त्यार्णहीनो वा स निर्वीर्यय इति स्मृतः |
हृदयं नमः |
शिरः स्वाहा |
शिखा वषट् |
वर्म हूम् |
शिवो हकारः |
शक्तिः सकारः |
राघवभट्टधृतम् ||
अन्ते तु हृच्छिरोवीजो मध्ये वर्म्म शिखा तथा |
शिवशक्त्यात्मकौ वर्णौ न स्तो यस्य स मन्त्रराट् |
निर्वीर्यय इति सम्प्रोक्तः सर्वकर्मसु गर्हितः ||
तन्त्रान्तरे तु ||
निर्वीर्ययस्तु समाख्यात आदावोङ्कारवर्ज्जित इति ||
एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते |
स मन्त्रः सिद्धिहीनः स्यान्मन्दः पंक्त्यक्षरो मनुः |
आदिमध्यावसानेषु एषां समुच्चयः |
षोढेति स्थानत्रये मिलित्वेत्यर्थः |
मन्द इति पंक्त्यक्षरो दशाक्षरः |
पंक्तिच्छन्दसो दशाक्षरत्वात् उक्तदशाक्षरो भवेन्मन्त्र इति ||
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ||
द्विवर्णः सत्त्वहीनः स्यात् चतुर्वर्णस्तु केकरः ||
षडक्षरो वीजहीनस्त्वर्द्धसप्ताक्षरो मनुः |
अत्रार्द्धसप्ताक्षरत्वम् अर्द्धद्वादशवर्णत्वञ्च वक्ष्यमाणम् |
अन्ते स्वरस्य न सत्त्वाज्ज्ञेयम् ||
सार्द्धद्वादशवर्णो वा धूमितः स तु निन्दितः |
सार्द्धवीजत्रयं तद्वदेकविंशतिवर्णकः |
सार्द्धवीजत्रयमपि पूर्ववत् तद्वद्धूमित इत्यर्थः |
तदुक्तं पिङ्गलामते |
अर्द्धसप्ताक्षरो मन्त्रः सार्द्धद्वादशवर्णकः |
धूमितः स समाख्यातः सार्द्धवर्णत्रयोऽथ वेति ||
विंशत्यर्णस्त्रिंशदर्णो वा यः स्यादालिङ्गितस्तु सः ||
द्वाविंशत्यक्षरो मन्त्रोमोहितः परिकीर्त्तितः ||
द्वात्रिंशदर्णो मन्त्रो यः सप्तविंशतिवर्णकः |
क्षुधार्त्तः स तु विज्ञेयश्चतुर्विंशतिवर्णकः ||
एकादशाक्षरो वापि पञ्चविंशतिसंख्यकः |
त्रयोविंशतिवर्णो वा मन्त्रो दृप्त उदाहृतः ||
उद्देशावसरे अतिदृप्तस्योक्तत्वात् लक्षणावसरे दृप्तलक्षणं कथं क्रियते इति नोद्देश्यं सत्यपि उत्सर्गे भेदात् ||
तदुक्तं राघवभट्टधृतमन्त्रमुक्तावल्याम् ||
धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते |
तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ||
षड्विंशत्यक्षरो मन्त्रः षड्विंशत्यक्षरस्तथा |
त्रिंशदेकोनवर्णो वाप्यङ्गहीनोऽभिधीयते ||
अष्टाविंशत्यक्षरो य एकत्रिंशदथापि वा |
अतिक्रुद्धः स कथितो निन्दितः सर्वकर्मसु ||
त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा |
अतिक्रूरः स गदितो निन्दितः सर्वकर्मसु ||
चत्वारिंशतमारभ्य त्रिषष्टिर्यावदापतेत् |
तावत्संख्या निगदिता मन्त्राः सव्रीडसंज्ञकाः |
चत्वारिंशदक्षरमारभ्य एकैकाक्षरवृद्ध्या चतुर्विंशतिप्रकारः स व्रीडित इत्यर्थः ||
पञ्चषष्ट्यक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः |
एकोनशतपर्यन्ताः पञ्चषष्ट्यक्षरोदिताः |
ये मन्त्रास्ते निगदिताः स्थानभ्रष्टाह्वया बुधैः ||
पञ्चषष्ट्यक्षरमादिर्यस्य इति अतङ्गुणसंविज्ञानो बहुव्रीहिरयम् |
अन्यथा पञ्चषष्ट्यक्षरस्य पूर्वं शान्तमानसत्वेनोक्तत्वात्तस्यापीयं संज्ञा स्यात् ||
स्पष्टमुक्तं मन्त्रमुक्तावल्यां यथा ||
पञ्चषष्ट्युत्तरा ये च यावदेकोनकं शतमिति |
तेन एकैकाक्षरवृद्ध्या चतुस्त्रिंशत्प्रकाराः स्थानभ्रष्टसंज्ञका इति ||
त्रयोदशाक्षरा ये स्युर्मन्त्राः पञ्चदशाक्षराः |
विकलास्तेऽभिधीयन्ते शतं सार्द्धंशतन्तु वा |
शतद्वयं द्विनवतिरेकहीनाथवापि वा |
शतत्रयं वा यत्संख्या निःस्नेहास्ते समीरिताः |
एकहीना द्विनवतिरेकाधिका नवतिरित्यर्थः ||
चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् |
अतिवृद्धः प्रयोगेषु परित्याज्यः सदा बुद्धैः ||
सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः ||
द्विसहस्राक्षरा मन्त्राः खण्डशः सप्तधा कृताः |
ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः |
तथा विद्याश्च बोद्धव्या मन्त्रिभिः सर्वकर्मसु |
तथा सदोषा इत्यर्थः ||
राघवभट्टधृतम् ||
यथा मन्त्रास्तथा विद्या भेदभिन्नाः परस्परम् |
ज्ञातव्या देशिकेन्द्रेण नानातन्त्रेषु भाषिता इति |
भेदभिन्ना इति लक्षणभेदेन भिन्ना न तु परमार्थतः |
केचित्तु सर्वकर्मस्वित्यत्र काम्यकर्मस्विति पठन्तो मुक्त्यर्थजपे एतद्दोषाभावात् दशसंस्कारादि न कर्त्तव्यमित्याहुः |
तन्न |
मुक्त्यर्थजपेऽपि वक्ष्यमाणशोधनादिकं कर्त्तव्यमेवेति राघवभट्टोक्तवदिति ||
शारदातिलके द्वितीयपटले ||
दोषानिमानविज्ञाय यो मन्त्रान् भजते बुधः |
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि |
इत्यादिदोषदुष्टांस्तान्मन्त्रानात्मनि योजयन् |
शोधयेदूर्द्धपवनो बद्धया योनिमुद्रया |
बद्धया योनिमुद्रया ऊर्द्ध्वपवनः कृतकुम्भकः साधक आत्मनि मन्त्रान् योजयन् शोधयेदित्यन्वयः ||
शोधनप्रकारस्तु राघवभट्टधृतेनोक्तो यथा ||
बद्ध्वा तु योनिमुद्रां तां सङ्कोच्याधारपङ्कजम् |
तदुत्पन्नान् मन्त्रवर्णान् कुर्वतश्च गतागतान् |
ब्रह्मरन्ध्रावधि ध्यात्वा वायुनापूर्यय कुम्भयेत् |
सहस्रं प्रजपेन्मन्त्रं मन्त्रदोषोपशान्तये |
योनिस्थानमुद्रणाद् योनिमुद्रा |
महामुद्रया मूलबन्धं संशोधयेत् ||
महामुद्रा तु राघवभट्टधृता यथा ||
पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् |
पादं प्रसारितं कृत्वा कराभ्यां पूरयेन्मुखम् |
कण्ठे वक्त्रं समारोप्य धारयेद्वायुमूर्द्धतः |
मूलरन्ध्रस्तु |
पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद् गुदम् |
अपानमूर्द्ध्वमाकृष्य मूलबन्धो निगद्यते ||
अथ योनिमुद्रा कुब्जिकातन्त्रे षष्ठपटले ||
अथ वक्ष्ये महेशानि ! शारदेन्दुनिभानने ! |
अतीव परमं देवि ! न प्रकाश्यं कदाचन |
न प्रकाश्यमिदं देवि ! स्वयोनिरिवं पार्वति ! |
निशीथे मुक्तकेशस्तु नग्नः शक्तिसमन्वितः |
चिन्तयेदिष्टदेवीञ्च योगिनां योगरूपिणीम् |
गुह्यदेशे वामपादगुल्फं संयोजयेत् सुधीः |
शरीरञ्च स्थिरीकृत्य जिह्वायां तालुकं न्यसेत् |
नासाग्रं नेत्रयुक्तञ्च कर्तव्यञ्च महेश्वरि ! |
कण्ठासनं तथा कृत्वा चिन्तयेदूर्द्ध्ववाहिनीम् |
भुजङ्गरूपिणीं देवीं मूलाधारनिवासिनीम् |
प्रातराधारकमले हुतभुङ्मण्डलोपरि |
चतुर्भुजां महादेवीं परमामृतवृंहिताम् |
श्यामवर्णां महादेवीं महापद्मासनस्थितम् |
अभयञ्च वरञ्चैव दक्षिणे धारिणीं सदा |
खड्गं मुण्डञ्च वामेऽस्मिन् धारयन्तीं सनातनीम् |
मुक्तकेशीं स्मितमुखीं श्मशानालयवासिनीम् |
दन्तुरां दक्षिणव्याप्ति मुक्तकेशीं दिगम्बरीम् |
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ||
लम्बमानां मुण्डमालां धारयन्तीं सदाशिवाम् |
शवस्य हृदये चैव दक्षपादनिषेविताम् |
महाकालेन रत्यर्थमत्यन्तलालसापराम् |
चन्द्रसूर्ययवह्निरूपनयनत्रयसंयुताम् |
अर्द्धचन्द्रधरां देवीं पीनोन्नतपयोधराम् |
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् |
चतुर्वेदैरपाराञ्च सर्ववेदविभूषिताम् |
कामदां कामरूपाञ्च भक्तानां त्राणकारिणीम् |
चतुर्वर्गप्रदां भीमां वन्दे दक्षिणकालिकाम् |
स्वाधिष्ठाने महादेवीं चिन्तयेदिन्दुरूपिणीम् |
तत्र देवीञ्च सञ्चिन्त्य निर्मलं विश्वरूपिणम् |
अभयं वरदञ्चैव हस्तञ्च सुरसुन्दरि ! |
धनुर्वाणधरां देवीं पाशाङ्कुशधरां पुनः |
वाणलिङ्गसमायुक्तां नीलमेघाननप्रभाम् |
ललज्जिह्वां महादेवीं विष्णुरूपां सनातनीम् |
बालयुग्मलसत्कर्णां दुष्टासुरनिसूदिनीम् ||
व्याघ्रचर्मपरीधानां ब्रह्मरन्ध्रनिवासिनीम् |
अतिप्रसन्नवदनां स्मेराननसरोरुहाम् |
मणिपूरे चिन्तयेत्तु तेजः पुञ्जां सनातनीम् ||
दिगम्बरीं करालास्यां मुक्तकेशीं चतुर्भुजाम् |
रक्तवर्णां महादेवीं रक्तवस्त्रविधारिणीम् |
पद्मासनां महादेवीं सर्वनागविभूषिताम् |
शङ्खचक्रगदापद्मधारिणीं सुरपूजिताम् |
धर्मार्थदायिनीं देवीं भक्तानां त्राणकारिणीम् |
सर्वसिद्धिप्रदां देवीं जगतां मोहिनीं पुनः |
महामायां मोहिनीञ्च ज्ञानिनां ज्ञानदां सतीम् |
सुन्दरीं रमणीं रामां चतुवर्गफलंप्रदाम् |
शान्तां शान्तप्रियामुग्रामुग्रदैत्यविनाशिनीम् |
मधुमांसप्रियां कृष्णां यशोदानन्दकारिणीम् |
भक्तिगम्यां महादेवीं महाकालनिवासिनीम् |
सर्वेषां जननीं नित्यां चिन्तन्येत् सुरपूजिताम् |
अनाहते महादेवि ! चिन्तयेत् परदेवताम् |
अष्टभुजां महादेवीं रक्तवर्णां त्रिशक्तिकाम् |
धनुर्वाणञ्च खड्गञ्च चक्रञ्च दधतीं शिवे ! |
पाशाङ्कुशधरां देवीं ब्रह्मादिसुरवन्दिताम् |
अर्द्धचन्द्रधरां देवीं पीनोन्नतपयोधराम् |
पद्मासनां महामायां महापद्मासनस्थिताम् |
एवं सञ्चिन्तयेद् देवीं ब्रह्ममार्गेण गामिनीम् |
विशुद्धे तु महाचक्रे चिन्तयेत् परमेश्वरीम् |
दशभुजां महादेवीं पीतवर्णां सनातनीम् |
कपालं खेटकं शङ्खं दर्पणं चामरं तथा |
दक्षिणे बिभ्रतीं देवीं कामराजोपरि स्थिताम् |
वामे खड्गं महापद्मं कर्त्तृकं पाशमङ्कुशम् |
धारयन्तीं महादेवीं महासिंहासनस्थिताम् |
दिव्यवस्त्रपरीधानां जटामुकुटमण्डिताम् |
ब्रह्मविष्णुमहादेववन्दितां सुरसुन्दरीम् |
आज्ञाचक्रे महेशानि ! द्विभुजां चिन्तयेत् सुधीः |
सिंहस्कन्धसमारूढां द्विभुजां सुमनोहराम् |
वराभयं दधानाञ्च नानामणिविभूषिताम् ||
जटामुकुटसंयुक्तामर्द्धचन्द्रविभूषिताम् |
रत्नकाञ्चीसमायुक्तां रत्नमालाविभूषिताम् |
रक्तवस्त्रपरीधानां कमलापतिसेविताम् |
संसारदुःखशमनीं संसारार्णवतारिणीम् |
सुषुम्नावर्त्मना देवीं चिन्तयेद्व्यालरूपिणीम् |
षट्चक्रभेदयोगेन चिन्तयेत् परमेश्वरीम् |
सहस्रारदले चैव चिन्तयेत् परमेश्वरीम् |
कामं भ्रमन्तं तन्मध्ये पञ्चवाणविभूषितम् |
गङ्गादिसर्वतीर्थञ्च अमृतं प्रतिचक्रके |
वसन्तादि महादेवि ! सर्वर्त्तुपरिशोभितम् |
श्वेतवर्णं महादेवि ! सहस्रदलमुत्तमम् |
सर्वदेवसमायुक्तं सर्वशक्तिसमन्वितम् |
सर्वमन्त्रमयं देवि ! चतुर्वेदविभूषितम् |
एकादशमहादेवां ब्रह्मविष्णुशिवात्मिकाम् |
कर्णिकां स्वर्णवर्णाञ्च तत्र देवं विचिन्तयेत् |
चिन्मयं परशिवं देवि ! ध्यानगम्यं सनातनम् |
सारात्सारतरं परादपि परं चेतोवचोऽगोचरम् नित्यानन्दनिरन्तरं निरूपमं वेदैरपारं परम् |
शिवशक्तिमयं देवि ! निर्गुणं सगुणात्मकम् |
प्रदीपकलिकाकारं योगिनां ध्यानरूपिनम् |
चैतन्यरूपिणं देवं परमामृतवृंहितम् |
तन्मध्ये चिन्तयेद्देवीं त्रिगुणाञ्च सनातनीम् |
घोरदंष्ट्रां करालास्यां ललज्जिह्वां चतुर्भुजाम् |
सद्यञ्छिन्नशिरःखड्गवामोर्द्ध्वाधः कराम्बुजाम् |
अभयं वरदञ्चैव दक्षिणाधोर्द्ध्वपाणिकाम् |
नीलमेघप्रभां तन्वीं घोररूपां दिगम्बराम् |
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् |
कर्णावतंसतां नीतशवयुग्मभयानकाम् |
बालार्कमण्डलाकारलोचनत्रितयान्विताम् |
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ||
मुक्तकेशीं स्मितमुखीं श्मशानालयवासिनीम् |
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् |
शवरूपमहादेवहृदयोपरि संस्थिताम् |
महाकालेन रत्यर्थमुपविष्टां स्मरातुराम् |
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् |
अतिप्रसन्नवदनां स्मेराननसरोरुहाम् |
अनाहतस्तु तत्रैव तडित्कोटिसमप्रभाम् |
तस्योर्द्ध्वे तु शिखा तन्वि ! चिद्रूपा परमा कला |
तया सहितमात्मानमेवम्भूतं विचिन्तयेत् |
गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु ||
सूर्ययकोटिप्रभाकारं चन्द्रकोटिसुशीतलम् |
अमृतं तद्धि संज्ञस्थं परमानन्दलक्षणम् ||
गत्वा कुलाकुलां दिव्यां पुनरेव कुलं विशेत् |
एवमभ्यस्यमानस्य अत्यन्तस्येह निश्चयात् |
जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ||
चतुर्विधा तु सा सृष्टिस्तस्यां योनौ प्रवर्त्तते |
योनिमुद्रेयमाख्याता सर्वसिद्धिप्रदायिका |
मूलाधारसरोजे तु त्रिकोणं सुमनोहरम् |
कामं भ्रमन्तं तन्मध्ये बालार्ककोटिसन्निभम् |
तदूर्द्ध्वे कुण्डलीं शक्तिं तडित्कोटिसमप्रभाम् |
सुषुप्तभुजगाकारां सार्द्धत्रिबलयान्विताम् ||
मूलाधारत्रिकोणे तां भावयेत् सुरसुन्दरीम् |
अरोप्यारोप्यशक्तिं कमलजनिलयामात्मना साकमेषु स्थानेष्वब्जासनेषु प्रणिहितहृदयां चिन्तयन्तीं क्रमेण |
नित्यानन्दावसानं खगमुकुलमहापद्मसङ्घान्तरस्थां ध्यायेच्चैतन्यरूपामभिनवजलदां मोक्षमार्गैकमार्गाम् ||
साक्षाल्लाक्षारसाभां गगनगतमहापद्मसंस्थाच्च हंसात् पीत्वा दिव्यामृतौघं पुनरपि च विशेन्मध्यदेशं कुलस्य |
चक्रे चक्रे क्रमेणामृतरसविसरैस्तर्पयेद्देवतास्ताः डाकिन्याद्याः समस्ताः सकलदलगतां तर्पयेत् कुण्डलीं ताम् |
इन्द्रस्तदूर्द्ध्व बोधिन्यां नादेनादस्तथैव च |
शक्तौ पुनर्व्यापिकांशमामनुं मनुगोचरे ||
मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् |
तामेव परमो व्योम्नि परमामृतवृंहिते |
दर्शयेदात्मसम्भावं पूजाहोमादिकं विना |
एवं सञ्चिन्तयेन्मन्त्रं स योगी नात्र संशयः ||
सर्वपापविनिर्मुक्त इष्टदेवीं प्रपश्यति |
षण्मासे सर्वसिद्धिः स्यादात्मानञ्च प्रपश्यति ||
अष्टादशमहासिद्धिर्वत्सरान्ते भविष्यति |
एवं सञ्चिन्तयेद्देवीं परमात्मस्वरूपिणीम् ||
स एव शङ्करः साक्षात् स एव विष्णुरव्ययः |
स एव परमं ब्रह्म स एव देवतोत्तमः ||
इति ते कथिता देवि ! योनिमुद्रा महेश्वरि ! |
वत्सरेण लभेत् सिद्धिं पूर्णकामः लभेत् पुनः |
श्रीपार्वत्युवाच ||
अशक्ता योनिमुद्रायां हीनबुद्धिनराः कलौ |
विहितं साधने शक्तौ कथं यान्ति परां गतिम् ||
सदाशिव उवाच ||
साधु पृष्टं महादेवि ! जन्तूनां हितकारिणि ! |
योनिमुद्रां महेशानि ! कर्त्तुं न शक्यते |
मायया वा श्रिया वापि कामेन प्रणवेन वा ||
सम्पुटं मूलमन्त्रन्तु जपेदष्टसहस्रकम् |
तेनैव च सुसिद्धं स्यान्मन्त्रसाधनमाचरेत् |
शृणु चान्यत् प्रवक्ष्यामि साधनं परमाद्भुतम् |
येनानुष्ठितमात्रेण सर्वसिद्धिः प्रजायते |
पञ्च ह्रस्वाः सन्धिवर्णा व्योमेराग्निर्जलं धरा |
अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् ||
पञ्चवर्णाक्षराणि स्युर्वान्तः श्वेतेन्दुभिः सह |
एषां भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः |
आयम्बरार्णवर्गाणां पञ्चमाः शान्तसंयुताः |
वर्गाद्या इति विज्ञेया नववर्गाः स्मृता अमौ |
एतद्वचनं शारदायां षष्ठपटलेऽपि ||
अस्यार्थः ||
पञ्चह्रस्वाः अ इ उ ऋ ऌ इति प्रथमवर्णः |
सन्धिवर्णा ए ऐ ओ औ इति द्वितीयो वर्गः |
व्योम हकारः |
इरो यकारः |
अग्नीरेफः |
जलं वकारः |
धरा लकार इति तृतीयो वर्गः |
पञ्चवर्गाक्षराणां क्रममाह अन्त्यमिति |
अन्त्यं डः |
आद्यं कः |
द्वितीयं खः |
चतुर्थं घः |
मध्यमं गः |
अयं क्रमश्चतुर्ष्वन्येष्वपि वर्गेषु एवमष्टवर्गः |
रान्तः शकारः |
श्वेतं यकारः |
इन्दु सकारः |
अयं नवमवर्गः |
नवमवर्गाद्यक्षराण्याह आयम्बरार्ण इति |
अम्बरार्णो हकारः |
अश्च एश्च अम्बरार्णश्चेति द्वन्द्वे अ ए इत्यत्र सन्धौ ऐ अम्बरे परे आयादेशे आम्बर इति वर्गाणां पञ्चमा ङ ञ ण न म इति वर्णाः |
शान्तसंयुताः शकारान्तास्तेन अ ए इ ङ ञ ण न म श इत्यक्षराणि इति नवमो वर्गः |
वर्गवर्णानां पञ्चभूतात्मकं दर्शयति शारदा ||
व्योमेराग्निजलक्षौणी वर्गवर्णान् पृथग्विधः |
द्वितीयवर्गे भूर्न स्यान्नवमे न जलं धरा |
द्वितीयवर्गस्य चतुरक्षरत्वादन्त्यभूतात्मकमक्षरं नास्ति एवमन्त्यवर्गस्य त्रिवर्णात्मकत्वादुभयं नास्तीत्यर्थः |
विरिञ्चिविष्णुरुद्राश्विप्रजापतिदिगीश्वराः |
क्रियादिशक्तिसहिताः क्रमात् स्युर्वर्गदेवताः |
दिगीश्वरा इन्द्रयमवरुणचन्द्राः |
सर्वे किम्भूताः क्रियाज्ञानेच्छाशक्तिसंहिता इत्यन्वयः |
त्रिधावृत्तक्रियाज्ञानेच्छाशक्तिभिरुपेताः |
केचित्तु दिगीश्वरा इत्येकक्रियाशक्त्यादयस्तिस्र इति नव देवता वदन्ति |
ऋषिः स्याद्दक्षिणामूर्त्तिर्गायत्रं छन्द ईरितम् |
देवता कथिता सद्भिः साक्षाद्वर्णेश्वरी परा |
हादिषड्वर्गकैः कुर्ययात् षडङ्गानि सजातिभिः |
ध्यायेल्लिपितरोर्मूले देवीं तन्मयपङ्कजे |
वदन्ति सुधियो वृक्षं नित्यवर्णमयं परम् |
परसंविन्महाबीजं बिन्दुनादमहाशिफम् |
पृथिव्यक्षरशाखाभिः सर्वाशासु विजृम्भितम् |
मलिलाक्षरपत्रः स्वैः सञ्च्छादितजगत्त्रयम् |
वह्निवर्णाङ्कुरैर्दीप्तं रत्नैरिव सरद्रुमम् |
मरुद्वर्णलसत्पुष्पैर्द्योतयन्तं वपुःश्रियम् |
आकाशार्णफलैर्नम्रं सर्वभूताश्रये परम् |
परामृताक्षमधुभिः सिञ्चन्तीं परमेश्वरीम् |
वेदागमादिभिः कॢप्तं समुन्नतिमनोहरम् |
शिवशक्तिमयं साक्षाच्छायाश्रितजगत्त्रयम् |
एनमाश्रित्य सुनयः सर्वान् कामानवाप्नुयुः ||
अस्यार्थः ||
लिपितरोर्मूले तन्मयपङ्कजे वर्णमयपद्मे देवीं ध्यायेदित्यन्वयः |
ध्यानं पश्चाद्वक्ष्यति |
लिपितरुमाह वदन्तीति |
वर्णमयं वृक्षं पण्डिता नित्यं वदन्ति |
किम्भूतं परसंवित् कुण्डलिनी परंब्रह्म वा वीजम् |
एवं बिन्दुनादो शिफे मूले यस्य तम् |
ननु तद्वृक्षो नित्यश्चेत्तदा कथं परसंविन्महावीजमित्युक्तम् |
सत्यं व्यञ्जकत्वेन वीजवदुपचर्ययते |
शेषं सुगमम् |
ध्यानमाह ||
अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं चन्द्रार्द्धाङ्कितमस्तकां मधुमदादालोलनेत्रयाम् |
बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करैराद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ||
कुब्जिकातन्त्रोक्तध्यानं यथा |
अक्षस्रजं हरिणपीतमुदग्रटङ्कं विद्याः करैरविरतं दधतीं त्रिनेत्राम् |
अर्द्धेन्दुमौलिमरुणामरविन्दमालां वर्णेश्वरीं प्रणमत स्तनभारनम्रामिति |
तथा |
पाशाङ्कुशपुटं कृत्वा मायां ततः समीरणम् |
दहनं धरणीं तोयं माहेश्वरं ततः परम् ||
प्रासादञ्च समुच्चार्यय शक्तिः सूर्ययसमन्विता |
अमुष्या भूतलिप्याश्च प्राणा इह ततो वदेत् |
पुनर्मन्त्रान् समुच्चार्यय पाशादींश्च ततो वदेत् |
जीव इह स्थित इति पुनस्तांश्च समुच्चरेत् |
सर्वेन्द्रियाणीत्येताश्च क्रमात्तानुच्चरेत् सुधीः |
वाङ्मनश्चक्षुस्त्वगिति श्रोत्रघ्राण प्राणा इहागत्य ततो वदेत् |
सुखं चिरं समुच्चार्यय तिष्ठन्तु वह्निवल्लभा |
इति प्राणान् प्रतिष्ठाप्य ध्यायेत्तामिष्टसिद्धये ||
इत्युक्त्वा ध्यानमुक्तम् |
ततो न्यासं कुर्ययात् ||
तदुक्तं शारदायाम् ||
आधारदेशेऽधिष्ठाने नाभौ हृदि पदे पुनः |
विन्दौ नादे ततः शक्त्यां शिवे देशिकसत्तमः |
नवाधारेषु विन्यसेत् स्वरान्नव यथाविधि |
मूलाधारे स्वाधिष्ठाने नाभौ हृदि पदे भ्रुमध्ये मूर्द्ध्नि तदुपरिदेशे द्वादशदलपद्मे इति नवसु स्थानेषु नव स्वरान् न्यसेदित्यर्थः |
हादिवर्णांस्ततो न्यसेन्मुखे मूर्द्धादितः सुधीः |
ऊर्द्ध्वमाहेन्द्रयाम्य दिक्पश्चिमेषु समाहितः |
दोःपत्सु वेदवर्गांश्च वर्णान् देशिकसत्तमः |
वर्णा मूलोपमूलाग्रमध्यदेशक्रमेण तु |
तत्राग्रमङ्गुल्यः |
मूलमंशादि |
उपमूलं कूर्परजानुनी |
उपाग्रं करपादाङ्गुली प्रथमसन्धिः मणिबन्धगुल्फे |
समाहित इत्यनेन सावधानतया स्थानविपर्यययाः |
भावदुष्टेऽप्युक्त.ः शारदायाम् ||
गुह्यहृद्भ्रुविले न्यस्येच्छादिवर्णत्रयं क्रमात् |
सृष्ट्यां सर्गावसाना स्यात् स्थितौ वह्निर्मरुत् प्रियः |
वियद्भूमिक्रमात्र्यस्येद्बिन्दुसर्गावसानिकाम् |
संहृतौ प्रतिलोमेन विन्यसेद्बिन्दुभूषिताम् |
सृष्ट्यामिति सर्गावसानिका भूतलिपिरिति शेषः |
स्थितौ बिन्दुसर्गावसानिकां तां क्रमात्र्यस्येदित्यर्थः |
तत्रायं क्रमः ||
ऊंः इंः ऋंः अंः ऌंः ओंः औंः ऐंः एंः रंः यंः वंः हंः लंः |
खंः कंः घंः गंः ङंः छंः चंः झंः जंः ञंः ठंः टंः ढंः डंः णंः थंः तंः धंः दंः नंः फंः पंः भंः बंः मंः संः षंः शंः |
कश्चित्तु वह्निवर्गवर्णान् सर्वान् प्रथमं विन्यस्य पश्चान्मरुद्वर्णान् ततो जलान्तान् एतान् सबिन्दून् ततो वियद्भूमिवर्णान् सविसर्गान् न्यस्येदित्याह स्म |
शारदायाम् |
आगमोक्तेन मार्गेण दीक्षितः साधकोत्तमः |
लक्षं न्यस्येज्जपेत्तावज्जुहुयादयुतं तिलैः ||
तावदिति लक्षम् |
तत्र एको न्यास एकावृत्तिश्चेति क्रमोऽनुसन्धेयः |
शारदायाम् |
पूजयेदन्वहं देवीं पीठे प्रागीरिते सुधीः |
प्रागीरिते इत्यनेन सरस्वतीप्रकरणीयपीठशक्तिरत्रापि पूजयेदिति सूचितम् |
तेनाष्टदलं षोडशदलं द्वात्रिंशद्दलं चतुःषष्टिदलं भूपरञ्च कृत्वा तत्र पीठशक्तिं पूजयेत् ||
शारदायाम् ||
वर्णाब्जेनासनं कुर्ययान् मूर्तिं मूलेन कल्पयेत् |
देवीं सम्पूजयेदस्यामङ्गाद्यावरणैः सह |
आदावङ्गावृतिः पश्चादम्बिकाद्याभिरीरिता |
द्वितीया मातृभिः प्रोक्ता तृतीया ह्यष्टशक्तिभिः ||
चतुर्थी पञ्चमी प्रोक्ता द्वात्रिंशच्छक्तिभिः पुनः |
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकपालकैः |
सप्तमी वृतिरेतेषां मन्त्रे स्यादष्टमी वृतिः |
वर्णाब्जे नासनं दत्त्वा मूर्तिं मूलेन सङ्कल्प्य तत्र देवीमभ्यर्च्य केशरेषु अङ्गान्यभ्यर्च्य तदुपरि दिग्दलेषु चतस्रोऽम्बिकादिकाः तदुपरि ब्राह्म्याद्यास्ततः षोडशदले करालाद्या द्वात्रिंशद्दले विद्याद्याश्चतुःषष्टिदले पिङ्गलाद्याः पूजयेत् ||
तदुपरि भूपुरे लोकपालांस्तदस्त्राणि चेति |
वर्णाब्जेन हेसौः भूतलिपिः सरस्वती |
योगपीठाय नम इति प्रयोगः ||
शारदा ||
एवं पूज्या जगद्धात्री श्रीभूतलिपिदेवता |
स्थानेषूक्तेषु विधिवदभ्यर्च्च्याङ्गानि पूर्ववत् ||
पूर्ववत् सरस्वतीप्रकरणवत् ||
अम्बिका वाग्भवी दुर्गा श्रीशक्तिः प्रोक्तलक्षणा |
ब्राह्म्याद्याः पूर्ववत् पूज्याः कराली विकराल्युमा |
सरस्वती श्रीर्दुर्गोमा लक्ष्मीः श्रुतिः स्मृतिर्धृतिः |
श्रद्धा मेधा मतिः कान्तिरार्ययाः षोडशशक्तयः |
खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः |
विद्याश्रीपुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः |
रुद्रवीर्या प्रभा नन्दा स्यात् पिषिण्यृद्धिदा शुभा |
कालरात्रिर्महारात्रिर्भद्रकाली कपालिनी |
प्रकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनो |
निशुम्भशुम्भमथनी महिषासुरमर्दिनी |
इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी |
नारी नारायणी चैव त्रिशूलिन्यपि पाशिनी |
अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयः शिवाः |
चक्रहस्ताः पिशाचास्याः सम्पूज्याश्चारुभूषणाः |
पिङ्गलाङ्गी पिशाचाक्षी समृद्धिर्वृद्धिरेव च |
श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुन्धरा |
त्रिलोकरात्रिः सावित्री गायत्री त्रिदशेश्वरी |
स्वरूपा बहुरूपा च स्कन्दमाता हुतप्रिया |
विमला चामला पश्चादरुणी पूर्णवारुणी |
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च |
सन्ध्या माया सती हंसी मर्दिकी रक्तिकी परा |
देवमाता भगवती देवकी कमलासना |
त्रिमुखी सप्तमुख्यान्या सुरासुरविमर्दिनी |
लम्बोष्ठी चोर्द्ध्वकेशी च बहुशीर्षा वृकोदरी ||
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा |
गगनवेगा पवनवेगा च तदनन्तरम् |
ततो भुवनपालाख्या ततः स्यान्मदनातुरा ||
अङ्गनानङ्गवदना तथैवानङ्गमेखला |
अनङ्गकुसुमा विश्वरूपासुरभयङ्करी |
आख्याह्वसत्यवादिन्यौ वज्ररूपा शुचिव्रता |
वरदाख्या च वागीशी चतुःषष्टिः समीरिताः |
चापवाणधराः सर्वा ज्वालाब्धिज्ञा महाप्रभाः |
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः |
सर्वाभरणसन्दीप्ता पूजनीयाः प्रयत्नतः |
लोकेशाः पूर्ववत् पूज्यास्तद्वद्वज्रादिकान्यपि |
इत्थं यः पूजयेन्मन्त्री श्रीभूतलिपिदेवताम् |
श्रीवाण्योः स भवेद्भूमिर्देवैरप्यभिनन्द्यते |
कमलैरयुतं हुत्वा राजानं वशमानयेत् |
उत्पलैर्जुह्वतस्तद्वन्महालक्ष्मीः प्रजायते |
पलाशकुसुमेर्हुत्वा वत्सरेण कविर्भवेत् |
वाजीलवणहोमेन वनितां वशमानयेत् |
मातृकोक्तानि कर्माणि कुर्ययादत्रापि साधकः |
भूतलिप्या पुटीकृत्य यो मन्त्रं भजते नरः |
क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः |
कुब्जिकातन्त्रे ||
ध्यानानन्तरम् ||
एवं ध्यात्वा महेशानि ! जपेत्ताञ्च प्रसन्नधीः |
क्रमोत्क्रमाच्छतावृत्त्या भूतलिप्या पुरस्क्रिया |
भूतलिप्या पुटीकृत्य यो यं मन्त्रं जपेन्नरः |
सहस्रैकप्रमाणेन हठात् सिद्धिर्भवेद्ध्रुवम् |
मासमात्रं जपेन्मन्त्रं भूतलिप्या तु सम्पुटम् |
क्रमोत्क्रमाद्वरारोहे ! ततः सिद्धिरनुत्तमा |
मन्त्र दोषशान्त्यर्थं शारदायां दशसंस्कारकरणमपि लिखितम्||
तत्तस्मादत्यतिवृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकृष्णा- नन्दागमवागीशभट्टाचार्यैः स्वकृतन्त्रसारे लिखितम् |
अन्वेषकैस्तत्र द्रष्टव्यम् |
दोषान्तरेऽपि दश संस्कारा उक्ताः समयाचारतन्त्रे यथा ||
गुरोर्गृहीतमन्त्रश्च जप्त्वा तां गतिसाधकः |
दुष्टाचारं प्रमादाद्वा आलस्याद्वापि सुन्दरि ! हीनवीर्ययत्वमाप्नोति स तु मन्त्रो वरानने ! |
इत्यादिदोषनाशार्थं दशसंस्कारमाचरेत् ||
इति मन्त्रदोषशान्तिविधिः ||
वीजसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः |
वीजनामानि कतिचिद् वक्ष्यामि विदुषां मुदे |
माया लज्जा परा संवित् त्रिगुणा भुवनेश्वरी |
हृल्लेखा शम्भुवनिता शक्तिर्देवीश्वरी शिवा |
महामाया पार्वती च संस्थानकृतरूपिणी |
परमेश्वरी च भुवना धात्री जीवनमध्यगा ||
स्त्रीं ||
वह्निहीनेऽस्त्रयुङ्माया स्थिरमाया प्रकीर्त्तिता ||
ह्रीं ||
शाग्निशान्तिबिन्दुनादैर्लक्ष्मीप्रणव उच्यते |
श्रीर्लक्ष्मीर्विष्णुवनिता रमा क्षीरसमुद्रजा ||
श्रीं ||
षोडशव्यञ्जनं वह्निवामाक्षिबिन्दुसंयुतम् |
चन्द्रवीजसमारूढं बधूवीजमिदं स्मृतम् |
बधूर्वामेक्षणा योषिदेकाक्षी स्त्री च कामिनी ||
स्त्रीं ||
नादबिन्दुसमायुक्तो द्वादशस्तु सुरो भगम् |
योनिः सरस्वती वीजमधरं वाग्भवञ्च वाक् |
ऐं ||
हकारो वामकर्णाढ्यो नादबिन्दुविभूषितः |
कूर्च्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते |
शब्दश्च दीर्घकवचं तारा प्रसव इत्यपि ||
हूं ||
कामाक्षरं वह्निसंस्थं रतिबिन्दुविभूषितम् |
कालीवीजमिदं प्रोक्तं रतिबीजं तदेवहि ||
क्रीं ||
कामाक्षरं धरासंस्थं रतिबिन्दुविभूषितम् |
गुप्तकालीवीजमिदं गोपालवीजमित्यपि ||
तत्कामबीजं कामेशीबीजं शक्तिस्त्वसौ परा ||
क्लीं ||
सत्यान्तयुग् व्योमसेन्दु शैवं प्रासादमुच्यते ||
हौं ||
कलाद्यं क्लेदिनीबीजं क्रोङ्कारस्त्वङ्कुशाभिधः ||
क्रों ||
आकारो बिन्दुमान् पासः शेषश्च समुदीरितः |
सकला भुवनेशानी कामेशीवीजमुच्यते |
नमस्तु हृदयम् स्वाहा द्विठष्ठयुगलं ठठः ||
नमः स्वाहा ||
चन्द्रयुग्मं शिवो वेदमाता ज्वलनसुन्दरी |
स्वाहा परा देवभोज्यं ठद्वयं चन्द्रयुग्मकम् |
श्रुवो हविर्वेदमाता देवास्यं वह्निसुन्दरी ||
स्वाहा ||
शिखा वषट् शिरोमध्यं शक्रमाता हरप्रिया |
शिखा वषट् च |
वषट् कवचं क्रोधो वर्म हुमित्यपि |
क्रोधाख्यो हं तनुत्वञ्च शस्त्रादौ रिपुसंज्ञकः ||
हूं ||
अस्त्रनेत्रयुगं वौषट् ||
वषट् ||
फडस्त्रं शस्त्रमायुधम् ||
फट् ||
तार्त्तीयन्तु हेसौः प्रेतवीजम् ||
हेसौः ||
हंसोऽजपामनुः ||
हंसः ||
गकारो बिन्दुमान् वीघ्नबीजं गणेशवीजकम् ||
गं स्मृतिस्थं मांसमौ बिन्दुयुतम् ||
भूवीजमीरितम् ||
लं ||
ठान्तं दहननेत्रेन्दुयुतन्तु विम्बवीजकम् ||
ड्रीं ||
अथ कामकला वामनयनं बिन्दुसंयुतम् अर्कमात्रा कलावाणी नादोऽर्धेन्दुः सदाशिवः |
अनुच्चार्यय तुरीया च विश्वमातृकलापरा ||
ं ||
नादः ||
भूतडामरसङ्केतबोधार्थं भूतडामरीयवीजनामान्यपि लिख्यन्ते ||
प्रणवो विषवीजं स्याद् ध्रुवं हालाहलं स्मृतम् कालश्रुतिपथं ज्ञेयं बहुरूपि निरञ्जनम् ||
प्रणवम् ||
क्षतजस्थं व्योमवक्त्रं धूम्रभैरव्यलङ्कृतम् |
नादबिन्दुसमायुक्तं बीजं प्राणात्मिकं स्मृतम् ||
ह्रीं ||
क्रोधीशं क्षतमारूढं धूम्रभैरव्यलङ्कृतम् |
विद्याज्जिह्वाबिन्दुयुतं पितृभूवासिनी स्मृतम् ||
क्रीं ||
क्रोधकालात्मकं कुर्याद्भौतिकं वाग्भवं स्मृतम् |
नादबिन्दुसमायुक्तं समाधायोग्रभैरवीम् |
वीजमेतत्तु कथितं शुद्धबुद्धिप्रवर्त्तकम् ||
ऐं ||
क्रोधीशं बलभृद्धूम्रभैरवी नादबिन्दुभिः |
त्रिमूर्तिमन्मथं कामराजस्त्रैलोक्यमोहनम् |
इन्द्रासनगतो ब्रह्मसमूर्त्तिस्तु समन्मथः ||
क्लीं ||
संयुक्तं धूम्रभैरव्यारक्तस्थं बलिभोजनम् |
नादबिन्दुसमायुक्तं किङ्किनीवीजमुत्तमम् ||
ह्रीं ||
नादबिन्दुसमायुक्तं रक्तस्थं बलिभोजनम् |
कालरात्र्यासनोपेतं विशिखाख्यं महामनुम् ||
ह्रां ||
विदार्ययालिङ्गितोग्रास्यो वसिस्तु क्षतजोक्षितः |
नादबिन्दुसमायुक्तो विज्ञेयः पिशिताशनः ||
हुं ||
धूम्रध्वजाधः कालाग्निः सोर्द्ध्वकेशीन्दुबिन्दुभिः |
युगान्तकारकं बीजं भैरवेण प्रकाशितम् ||
स्फें ||
कपर्दिनं समादाय क्षतजोक्षितविग्रहम् |
संयुक्तं धूम्रभैरव्यां क्षोऽयं नादबिन्दुमान् ||
प्रीं ||
कपालीद्वयमादाय महाकालेन मण्डितम् |
समासनमिति प्रोक्तं चण्डिकाढ्यं प्रयोजयेत् ||
ठं ठं ठः ठः ||
क्षतजस्थं व्योमवक्त्रं चन्द्रखण्डविभूषितम् |
खद्योतमिति सम्प्रोक्तं ग्रासिनी कालरात्रियुक् ||
ह्रं ह्रं ||
क्षतजोक्षितमाकाशं नादबिन्दुविभूषितम् |
विदारीभूषितञ्चैव बीजं वैवस्वतो दृकम् ||
ह्रां ||
कीर्त्त्याख्याकालवक्त्रा च महाकालेन साधितम् |
तदनादिपञ्चरश्मिः सृष्टिस्थित्यन्तकृद्विधिः ||
ओं ||
व्योमस्थं तालजङ्घास्थं बिन्दुनादविभूषितम् |
कूर्चं कालो महाकालः क्रोधबीजं निरञ्जनम् ||
हूं ||
पृथ्वीपालो नवद्वीपपतिरतिमतिः कृष्णचन्द्रो महात्मा विद्याब्राह्मण्यमान्यं यमजनयदमुं दान्तमीशानचन्द्रम् |
तस्मात् सत्स्वाप यो विश्वविजयिपदवीं स्वेष्टदेवीप्रसादाच्चक्रे तेनाद्यमेतद्विदभिमतफलं सर्गकाण्डं विचित्रम् ||
हंसः प्राणो मनश्चन्द्रः कृष्णो मध्यं गतस्तयोः |
गौडोदये पुष्पवन्तौ श्रीप्राणकृष्णचन्द्रकौ ||
अन्नदामङ्गलं देशभाषयाचीकरोद् यतः |
तस्माद्विदेशेऽमावास्याकृष्णचन्द्रस्य भूपतेः ||
एषा निर्जरभाषया समुदिता भास्वत्प्रभा निर्मला विश्वोद्दीप्तिकरी जगद्दिनकरी श्रीप्राणतोषिण्यतः |
श्रीमान्निवृति निवृति क्षितितलेऽभूत् प्राणकृष्णाभिधो हंसो नास्तमितः सदोदययुतः कीर्त्यानया शाश्वतः |
इति श्रीप्राणकृष्णविश्वासानुमतायां विश्वविजयिश्रीरामतोषणविद्यालङ्कारविरचितायां श्रीप्राणतोषिण्यां फलकथनरूपदशमपरिच्छेदान्वितं सर्गकाण्डं समाप्तम् |
Dharmakāṇḍa – Lebensriten und Einweihung

अचिन्त्यापि ध्येया स्वखिलहृदये ध्वान्तरुचिरा मनोध्वान्त गाढं हरसि करुणाम्भोनिधिरपि |
महाकाली स्वैरिण्यसि सकलमूर्त्तिः कदहमानदृश्या लोकानां त्वमसि जयतादद्भुततमः ||
आसीद्रामहरीति पूरुषहरी राकेन्दुभाजित्वरीराशापूर्त्तिकरीः सुशीतलहरीः कीर्त्तिः समासादयन् |
विश्वासान्वयपावनो गुरुकृपापात्रं कुलोद्दिपकम् यो दैवैर्जनयाम्बभूवकृतिनं श्रीप्राणकृष्णाभिधम् ||
कृष्णमङ्गलविद्यावागीशसूनुः सतां मुदे |
गङ्गादेवीसुतोऽकार्षीद्धर्मकाण्डं द्वितीयकम् ||
द्वितीयस्योच्यते धर्मकाण्डस्य संस्क्रियात्मनः |
निर्घण्टः प्रथमं तत्र संस्कारस्य प्रशंसनम् ||
द्विजानां दश संस्काराः कर्ममात्राधिकारकाः |
शूद्रशूद्रप्रकाराणां विज्ञातव्या नवैव ते |
मायादिकत्वं मन्त्राणां विज्ञेयं कलिसम्मतम् |
ऋतुकर्म ततो गर्भाधानं पुंसवनं ततः |
पञ्चामृतप्रदानञ्च सीमन्तोन्नयनं तथा |
जातकर्म ततो मेधाजननं कवितारकम् |
मायादिदानं विप्रेभ्यो बालस्य पुष्टिकारणम् |
विज्ञेयं नामकरणं ततो निष्क्रमणं स्मृतम् |
अन्नाशनं ततश्चूडाकर्णवेधस्ततः परम् |
कुमारीशूद्रजातीनां सर्वमेतदमन्त्रकम् |
उपनायो वेदभेदे सूत्रमाणं प्रकीर्त्तितम् |
सूत्रनिर्माणसंस्कारौ सूत्राधिष्ठातृदेवता |
सावित्रीग्रहणं कर्म समावर्त्तनमित्यपि |
अदारजननिन्दा च धर्मपत्नीनिरूपणम् |
विवाहो दशसंस्कारप्रयोगस्तदनन्तरम् |
इति द्वितीयकाण्डाद्यपरिच्छेदसमापनम् ||
आदौ गुरोर्लक्षणञ्च ततः सद्गुरुलक्षणम् |
कौलगुरुप्रशंसा च कूटार्थकृतिदूषणम् |
गुरुविशेषकथनं शास्त्रे त्वावश्यकं गुरोः |
गुरुमन्त्रदेवतानामेकत्वभावनाक्रमः |
गुरुसन्तुष्ट्यादिफलं गुरूच्चारणजं फलम् |
गुरुतृप्ते जगत्तृप्तिराधिक्यं सर्वतो गुरोः |
जगत्पूजाफलावाप्तिर्गुरुपादाम्बुजेऽर्च्चिते |
दीक्षाशिक्षादिभेदेन गुरुभेदनिरूपणम् |
एक एव महाकालोगुरुर्न मानुषः क्वचित् |
तदधिष्ठानवशतो माहात्म्यं मानुषस्य च |
गुरुवंशस्य मर्ययादा पशुमन्त्रादिभेदतः |
परापरादिभेदश्च गुरुणां तदनन्तरम् |
स्त्रीगुरोर्लक्षणं वर्ज्यं गुरुत्वकल्पने तथा |
त्याज्यो गुरुश्च शिष्यस्य लक्षणं वर्जनं तथा |
वर्ज्या शिष्यकर्तृनिन्दा गुर्वाज्ञालङ्घने तथा |
गुरुद्रव्यादिहरणदोषानिष्टकृतेस्तथा |
गुरुशापजन्यदोषस्तन्निन्दा श्रवणस्य च |
तच्छ्रवणप्रतीकारो गुरुनिन्दाकरस्य च |
दोषो गुरौ मनुष्यत्वज्ञाननिन्दा तथैव च |
गुरुद्रोहादिदोषश्च त्यागे गुरुकुलस्य च |
निषेधो गुरुगोत्रस्य माननापूजने तथा |
गुरुदर्शनकालस्य पूज्यत्वं गुरुपूजनम् |
विनेष्टपूजादोषश्च गुरुपूजादिजं फलम् |
गुरुगेहस्थितकृत्यपुण्यस्याक्षयता तथा |
गुरुपादपद्मरेणूदकमाहात्म्यवर्णनम् |
गुर्वन्नभक्षणफलं गुरूच्छिष्टफलं तथा |
तदुच्छिष्टाभोजनजदोषश्च तदनन्तरम् |
गुरुपादुकादिप्रणतिर्निषिद्धं गुरुसन्निधौ |
गुर्वाज्ञया निषिद्धस्याचरणान्नास्ति पातकम् |
जातिविद्यादिगर्वस्य त्यागः श्रीगुरुसन्निधौ |
सदा श्रीगुरुपादाब्जध्यानस्य फलनिर्णयः |
गुरुणैकासनत्यागो गुरुभक्तिफलं तथा |
पैत्रगुरुकुलत्यागदोषः श्रीपूर्वकीर्त्तनम् |
गुर्वादेरर्च्चनाकाल एवं तन्नामभाषणम् |
चतुर्विधा तु शुश्रूषा गुरुमित्रादिमानना |
गुर्वालये प्रवेशस्य प्रकारस्तदनन्तरम् |
इति द्वितीयकाण्डस्य परिच्छेदो द्वितीयकः ||
नाडीचक्रविचारश्च भूपरीक्षा ततः परम् |
दिग्विशेषप्लवा भद्राफलप्रदायिनी |
ब्रह्मण्यादिमहीज्ञानं शुभभूमिनिरूपणम् |
त्याज्या भूम्यो हि चक्रञ्च तस्य व्याख्यानमेव च |
शल्योद्धारः स द्विविधः शङ्कुना दिङ्निरूपणम् |
मण्डपकरणं तस्मात्तोरणञ्च ततः परम् |
अङ्कुरारोपणं तस्य परीक्षा तदनन्तरम् |
अशुभाङ्कुरशान्तिश्च परिच्छेदतृतीयके ||
दीक्षाशब्दार्थनिर्णीतिर्दीक्षामाहात्म्यकीर्त्तनम् |
अदीक्षितस्य निन्दा च दीक्षितस्य प्रशंसनम् |
दीक्षया चैव ज्येष्ठत्वं दीक्षया मोक्षसाधनम् |
एकमन्त्रसाधनेन सर्वमन्त्रस्य साधनम् |
मन्त्रग्रहणनिन्दा च पुस्तकालोकनादितः |
दीक्षां विना नाधिकारः पूजादौ निन्द्यदीक्षितः |
ततश्च त्रिविधा दीक्षा चतुर्धापि प्रकीर्त्तिता |
अधिवासनिधिश्चाङ्कुरार्पणाद्यधिवासयोः |
प्रयोग इति तुर्ययाख्य परिच्छेदसमापनम् ||
गुरोर्निमन्त्रणं पूर्वं स्नानादितन्त्रकर्मणि |
सौरमाससमुल्लेखो मातृकादिप्रपूजनम् |
वृद्धिश्राद्धं सर्वकार्यये पञ्चदेवप्रपूजनम् |
लक्ष्म्यादिपूजनञ्चैव ग्रहमन्त्रस्ततः परम् |
ग्रहपूजादानविधिर्ग्रहाणां कवचं ततः |
तिथिध्यानमन्त्रपूजाकवचं तदनन्तरम् |
वर्णध्यानाद्यासनस्य शुद्धिश्चैव ततः परम् |
अर्च्चनाहोमकर्माणि समासेन ततः परम् |
इति पञ्चमविच्छेदसमाप्तिरभिधीयते ||
दीक्षा नानाविधा षष्ठे कीर्तितान्यद् यथास्थलम् |
ज्ञातव्यमुद्देशमात्रं निर्घण्टेन कृतं मया |
व्याख्यया ग्रन्थबाहुल्यदर्शनादधुना मया |
प्रमाणमात्रं लिखितं मीमांसापि क्वचित् क्वचित् ||
इदानीं प्राप्तावसरेण गर्भाधानादिसंस्कारा उच्यन्ते |
संस्काराणां प्रयोगस्यावश्यम्भावादग्रे प्रयोगो लेखनीयो नातो व्याख्याजाता प्रमाणमात्रं लिख्यते ||
महानिर्वाणतन्त्र नवमोल्लासे ||
सदाशिव उवाच ||
संस्कारेण विना देवि ! देहशुद्धिर्न जायते |
नामंस्कृतोऽधिकारी स्याद्दैवे पैत्र्ये च कर्मणि |
अतो विप्रादिभिर्वर्णैः स्वस्ववर्णोक्तसंस्क्रिया ||
कर्त्तव्या सर्वथा यत्नैरिहामुत्र हितेप्सुभिः |
वीजसेकः पुंसवनं सीमन्तोन्नयनं तथा |
जातनाम्नो निष्क्रमणमन्नाशनमतः परम् |
चूडोपनयनोद्वाहाः संस्काराः कथिता दश |
शूद्राणां शूद्रभिन्नानामुपवीतं न विद्यते |
शूद्रभिन्नानां शूद्रप्रकाराणामधमशूद्रकैवर्त्तादीनामित्यर्थः |
तेषां नवैव संस्कारा द्विजातीनां दश स्मृताः |
नित्यानि सर्वकार्माणि तथा नैमित्तिकानि च |
काम्यान्यपि वरारोहे ! कुर्ययाच्छाम्भववर्त्मना |
संस्कारेषु च सर्वेषु तथैवान्येषु कर्मसु |
विप्रादिवर्णभेदेन क्रमान्मन्त्राश्च दर्शिताः |
सत्यत्रेताद्वापरेषु तत्तत्कर्मसुकालिके ! |
प्रणवाद्यांस्तु तान् मन्त्रान् प्रयोगेषु नियोजयेत् |
कलौ तु परमेशानि ! तैरेव मनुभिर्नराः |
मायाद्यैः सर्वकर्माणि कुर्ययुः शङ्करशासनात् |
निगमागमतन्त्रेषु वेदेषु संहितासु च |
सर्वे मन्त्रा मयैवोक्ताः प्रयोगा युगभेदतः |
अथोच्यते महामाये ! गर्भाधानादिका क्रिया |
तत्रादावृतुसंस्कारः कथ्यते क्रमतः शृणु |
कृतनित्यक्रियः शुद्धः पञ्च देवान् समर्चयेत् |
ब्रह्मा दुर्गा गणेशश्च ग्रहा दिक्पतयस्तथा |
स्थण्डिलेन्द्रादिदिग्भागे घटेष्वेतान् प्रपूजयेत् |
ततसु मातृकाः पूज्या गौर्ययाद्यां षोडश क्रमात् |
गौरी पद्मा शची मेधा सावित्री विजया जया |
देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा |
आत्मनो देवता चैव तथैव कुलदेवता |
आयान्तु मातरः सर्वास्त्रिदशानन्दकारिकाः |
विवाहव्रतयज्ञानां सर्वाभीष्टं प्रकल्प्यताम् |
यानशक्तिसमारूढाः सौम्यमूर्तिधराः सदा |
आयान्तु मातरः सर्वा यज्ञोत्सवसमृद्धये |
इत्यावाह्य मातृगणान् स्वशक्त्या परिपूज्य च |
देहल्यां नाभिमात्रायां प्रादेशपरिमाणतः |
सप्तधा पञ्च वा बिन्दून् दद्यात् सिन्दूरचन्दनैः |
प्रत्येकविन्दौ मतिमान् कामं मायां रमां स्मरन् |
घृतधारामविच्छिन्नां दत्त्वा तत्र वसुं यजेत् |
वसुधारां प्रकल्प्यैवं मयोक्तेनैव वर्त्मना |
विरच्य स्थण्डिलं धीरो वह्निस्थापनपूर्वकम् |
होमद्रव्याणि संस्कृत्य पचेच्चरुमनुत्तमम् |
प्राजापत्यश्चरुश्चात्र वायुनामा हुताशनः |
समाप्य धाराहोमान्तं कृत्यमार्त्तवमारभेत् |
ह्रीं प्रजापतये स्वाहा चरुणैवाहुतित्रयम् |
प्रदायैवाहुतिं दद्यादिमं मन्त्रमुदीरयन् |
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि यच्छतु ||
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते |
स्वाहा आज्येन चरुणापि वा |
सूर्ययं प्रजापतिं विष्णुं ध्यायन्नाहुतिमुत्सृजेत् |
गर्भं धेहि सिनीवाली गर्भं धेहि सरस्वती |
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ |
ध्यात्वा देवीं सिनीवालीं सरस्वत्यश्विनौ तथा |
स्वाहान्तमनुनानेन दद्यादाहुतिमुत्तमाम् |
अतः कामं बधूं मायां रमां कूर्च्चं समुच्चरन् |
अमुष्यै पुत्रकामायै गर्भमाधेहि सद्विठम् |
उक्त्वा ध्यात्वा रविं विष्णुं जुहुयात् संस्कृतेऽनले |
यथेयं पृथिवी देवी ह्युत्ताना गर्भमादधे |
तथा त्वं गर्भमाधेहि दशमे मासि सूतये |
स्वाहान्तेनामुना विष्णुं ध्यायन्नाहुतिमाचरेत् |
पुनराज्यं समादाय ध्यात्वा विष्णुं परात्परम् |
विष्णो ! ज्येष्ठेन रूपेण नार्ययामस्यां वरीयसम् |
सुतमाधेहि ठद्वन्द्वमुक्त्वा वह्नौ हविस्त्यजेत् |
कामेन पुटितां मायां मायया पुटितां बधूम् |
पुनः कामञ्च मायाञ्च पठित्वास्याः शिरः स्पृशेत् |
पतिपुत्रवतीभिश्च नारीभिः परिवेष्टितः |
शिर आलभ्य हस्ताभ्यां बध्वाः क्रीडाञ्चले पतिः |
विष्णुं दुर्गां विधिं सूर्ययं ध्यात्वा दद्यात् फलत्रयम् |
ततः स्विष्टिकृतं हुत्वा प्रायश्चित्तं समापयेत् |
यद्वा प्रदोषसमये गौरीशङ्करपूजनात् |
भास्करार्घ्यप्रदानाच्च दम्पत्योः शोधनं भवेत् |
आर्त्तवं कथितं कर्म्म गर्भाधानमथो शृणु ||
तद्रात्रावन्यरात्रौ वा युग्मायां निशि भार्ययया |
सदनाभ्यन्तरं गत्वा ध्यात्वा देवं प्रजापतिम् |
स्पृशेत् पत्नीं पठेद्भर्त्ता मायावीजपुरःसरम् |
आवयोः सुप्रजायै त्वं शययाशुभङ्करी भव |
आरुह्य भार्ययया शययां प्राङ्मुखो वाप्युदङ्मुखः |
उपविश्य स्त्रियं स्पृश्यन् हस्तमादाय मस्तके |
वामेन पाणिनालिङ्ग्य स्थाने स्थाने मनुं जपेत् |
शीर्षे कामं शतं जप्त्वा चिवुके वाग्भवं शतम् |
कण्ठे रमां विंशतिधा स्तनद्वन्द्वे शतं शतम् |
हृदये दशधा मायां नाभौ तां पञ्चविंशतिम् |
जप्त्वा योनौ करं दत्त्वा कामेन सह वाग्भवम् |
शतमष्टोत्तरं जप्त्वा लिङ्गेऽप्येवं समाचरन् |
विकाम्य मायया योनिं स्त्रियं गच्छेत् सुताप्तये |
रेतःसम्पातसमये ध्यात्वा विश्वकृतं पतिः |
नाभेरधस्तात् चित्कुण्डे वस्तिकायां प्रपातयेत् |
शुक्रसेकान्तरे विद्वान् इमं मन्त्रमुदीरयेत् |
यथाग्निना सगर्भा भूर्द्यौर्यथा वज्रधारिणा |
वायुना दिग् गर्भवती तथा गर्भवती भव ||
इति गर्भाधानम् ||
जाते गर्भे ऋतौ द्वाम्?सन्नयस्मिन् वा महेश्वरि ! |
तृतीये गर्भमासे तु चरेत् पुंसवनं गृही |
कृतनित्यक्रियो भर्त्ता पञ्च देवान् समर्च्चयेत् |
गौर्ययादिमातृकाश्चैव वसोर्धारां प्रपातयेत् |
वृद्धिश्राद्धं ततः कृत्वा पूर्वोक्तविधिना सुधीः |
धाराहोमान्तमापाद्य कुर्ययात् पुंसवनक्रियाम् |
प्राजापत्यश्चरुस्तत्र चन्द्रनामा हुताशनः |
गव्ये दध्नि यवञ्चैकं द्वौ माषावपि निक्षिपेत् |
पतिः पृच्छेत् स्त्रियं भद्रे ! किं त्वं पिबसि त्रिः कृतम् |
ततः सीमन्तिती ब्रूयान्मया पुंसवनं त्रिधा |
प्रसृतींस्त्रीन् पिबेन्नारी यवमाषयुतं दधि |
जीवत्सुताभिर्वनितां यागस्थानं समानयेत् |
संस्थाप्य वामभागे तां चरुहोमं समाचरेत् |
पूर्ववच्चरुमादाय मायां कूर्च्चं समुच्चरन् |
ये गर्भविघ्नकर्त्तारो ये च गर्भविनाशकाः |
भूताः प्रेताः पिशाचाश्च वेताला बालघातकाः |
तान् सर्वान् नाशय द्वन्द्वं गर्भरक्षां कुरु द्विठः |
मन्त्रेणानेन रक्षोघ्नं चिन्तयित्वा हुताशनम् |
रुद्रं प्रजापतिं ध्यायन् प्रदद्याद्वादशाहुतीः |
ततो मायाचन्द्रमसे स्वाहेत्याहुतिपञ्चकम् |
दत्त्वा भार्ययां हृदि स्पृष्ट्वा मायां लक्ष्मीं शतं जपेत् |
ततः स्विष्टिकृतं हुत्वा प्रायश्चित्तं समापयेत् ||
इति पुंसवनम् ||
ततस्तु पञ्चमे मासि दद्यात् पञ्चामृतं स्त्रियै |
शर्करा मधु दुग्धञ्च घृतं दधि समांशकम् |
पञ्चामृतमिदं प्रोक्तं देहशुद्ध्यै विधीयते |
वाग्भवं मदनं लक्ष्मीं मायां कूर्च्चं पुरन्दरम् |
पञ्चगव्योपरि शिवे ! प्रजप्य पञ्च पञ्चधा |
एकीकृत्यामृतान्यत्र प्राशयेद्दयितां पतिः ||
इति पञ्चामृतदानम् ||
सीमन्तोन्नयनं कुर्ययान्मासि षष्ठेऽष्टमेऽपि वा |
यावन्न जायतेऽपत्यं तावत् सीमन्तनक्रिया |
पूर्वोक्तधाराहोमान्तं कर्म्म कृत्वा स्त्रिया सह |
उपविश्यासने प्राज्ञः प्रदद्यादाहुतित्रयम् |
विष्णवे भास्करे धात्रे वह्निजायां समुच्चरन् |
ततश्चन्द्रमसं ध्यात्वा शिवनाम्नि हुताशने |
सप्तधा हवनं कुर्ययात् सोममुद्दिश्य मानवः |
अश्विनौ वासवं विष्णुं शिवं दुर्गां प्रजापतिम् |
ध्यात्वा प्रत्येकतो दद्यादाहुतीः पञ्चधा शिवे ! |
स्वर्णकङ्कतिकां भर्त्ता गृहीत्वा दक्षिणे करे |
सीमन्ताद्बद्धकेशान्तःकेशपाशे निवेशयेत् |
शिवं विष्णुं विधिं ध्यायन् मायाबीजं समुच्चरन् |
भार्यये ! कल्याणि ! सुभगे ! दशमे मासि सुव्रते ! |
सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्म्मणः |
आयुष्मति ! कङ्कतिका वर्च्चस्वी ते शुभं कुरु |
ततः समापयेत् कर्म्म स्विष्टिकृद्धवनादिभिः ||
इति सीमन्तोन्नयनम् ||
जातमात्रं सुतं दृष्ट्वा दत्त्वा स्वर्णं गृहान्तरे |
पूर्वोक्तविधिना धीरो धाराहोमं समापयेत् |
ततः पञ्चाहुतीर्दद्यादग्निमिन्द्रं प्रजापतिम् |
विश्वान् देवांश्च ब्रह्माणमुद्दिश्य तदनन्तरम् |
मधुसर्पिः कांस्यपात्रे समानीय समांशकम् |
वाग्भवं सप्तधा जप्त्वा प्राशयेत्तनयं पिता |
दक्षहस्तानामिकया मन्त्रमेवं समुच्चरन् |
आयुर्वर्च्चो बलं मेधा वर्द्धतां ते सदा शिशो ! |
इत्यायुर्जननं कृत्वा गुप्तं नाम प्रकल्पयेत् |
गन्धर्वतन्त्रे द्वितीयपटले ||
बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे न्यसेत् |
मधुना श्वेतदूर्वाभिः सुवर्णस्य शलाकया |
इदं वाग्भवकूटन्तु लिखेद्वै जननान्तरे |
स एव पण्डितो भूयान्न तु मूर्खो भवेद्ध्रुवम् ||
वाग्भवकूटमपि तत्रैव यथा |
कामदेवस्ततो योनिस्तुर्ययस्वरपुरन्दरी |
भुवनेशी ततः पश्चात् पञ्चवक्त्रविभूषितः |
अयं स वाग्भवो देवीवागीशत्वप्रदायकः |
इदं वाग्भवकूटन्तु बालिशस्यापि मूर्द्धनि |
हस्तं दत्त्वा पठेत् सिद्धमष्टोत्तरशतं प्रिये ! |
सोऽपि श्लोकं महेशानि ! करोत्येव न संशयः ||
बालिशस्य मूर्खस्य |
सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित् |
जिह्वायां न्यासनाद्देवि ! मूकोऽपि सुकविर्भवेत् |
वृहन्नीलतन्त्रे सप्तमपटले द्वितीयविद्यात्र्यक्षरीमन्त्रमधिकृत्य |
इदानीं शृणु चार्वङ्गि ! कविताकारकं परम् |
प्रयोगं दुर्लभं गोप्यं तव स्नेहात् प्रकाशितम् |
चण्डीं चाण्डालिनीञ्चैव त्यागिनं सर्वमोहनम् |
वीजत्रयं जपेद्रात्रौ मध्ये चैव रवेर्दिने |
अष्टाधिकसहस्रस्य प्रमाणेन जपं चरेत् |
शताभिमन्त्रितं कृत्वा पिबेच्च जलमुत्तमम् |
सप्तदिनप्रयोगेण कविता चित्तमोदिनी |
जायते नात्र सन्देहः सत्यं सुरगणार्चिते ! |
पाणिना दक्षिणेनैव मधुलाजान् समानयेत् |
नाडीच्छेदाच्च प्रागेव बालं संस्कुर्ययाच्च साधकः |
कवित्वं जायते तेन पाण्डित्यं सुरवन्दिते ! |
जिह्वां सम्मार्ज्य देवेशि ! लिखेद्धेमशलाकया |
दूर्वया वा महादेवि ! जिह्वोष्ठयोः समालिखेत् |
पंक्तिद्वयेन संलेख्य कुर्याच्च बालसंस्क्रियाम् |
एकादशाहे देवेशि ! द्वादशाहेऽथ वा पुनः |
वर्णजात्यादिभेदेन मासान्तः सम्भविष्यति |
यथाशक्त्युपचारेण देवतां पूजयेत् पुनः |
सम्पूज्य देवतां भक्त्या लिखेन्मन्त्रं महेश्वरि ! |
यदा पिता न देशस्थः पितृव्यो मातुलोऽपि वा |
लिखित्वा परमेशानि ! कुर्ययाच्च बालसंस्क्रियाम् |
मूलमन्त्रं लिखेन्मन्त्री यस्यौष्ठे श्वेतदूर्वया |
वाक्योच्चारणतो बालो वाग्मी द्रुतकविर्भवेत् |
जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते |
जिह्वायाञ्च लिखेद्यन्त्रं यत्ने दारुकुशेन वा |
वारत्रयन्तु सम्मार्ज्य दक्षिणेनैव पाणिना |
मन्त्रमुच्चार्यय प्रत्येकं पंक्तिं कुर्ययात् सुशोभनम् |
आदौ संस्कारः कर्त्तव्यस्तदन्ते विलिखेन्मनुम् |
गन्धचन्दनपुष्पैश्च पूजयेत् तारिणीं शिवे ! |
उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमम् |
पूजयेत् तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः |
षोडशैरुपचारैश्च पूजयेद् भक्तिभावतः |
धूपं दद्याद्गुग्गुलुना सर्वकर्म्मफलप्रदम् |
नारिकेलं तथा रम्भां वदरं वकुलं तथा |
वीजपूरं कर्णिकारं शर्करां गन्धसंयुताम् |
मधूदकं कलायञ्च सिद्धान्नं पायसाप्लुतम् |
माषं मत्स्यं पिष्टकञ्च दद्यादतिप्रियं महत् |
कविर्वाग्मी भवेत् पुत्रः सर्वकामप्रकारकः |
जितेन्द्रियः सत्यवादी धार्मिको जायते महान् ||
दद्यादित्यनेन सम्प्रदानोपस्थितेर्वचने ब्राह्मणपदस्याभावेऽपि ब्राह्मणेभ्य इति लभ्यते |
अतो ब्राह्मणसम्प्रदानकमाषादिदानव्यवहार इति ||
महानिर्वाणतन्त्रे ||
कृतोपनयने पुत्रे तेन नाम्ना समाह्वयेत् |
प्रायश्चित्तादिकं कृत्वा जातकर्म्म समापयेत् |
नालच्छेदं ततो धात्री कुर्ययादुत्साहपूर्वकम् |
यावन्न च्छिद्यते नालं तावत् शौचं न बाधते |
प्रागेव नाडीकाच्छेदात् दैवीं पैत्रीं क्रियाञ्चरेत् |
कुमार्याश्चापि कर्त्तव्यमेवमेवममन्त्रकम् ||
इति जातकर्म्म ||
षष्ठे वा चाष्टमे मासि नाम कुर्ययात् प्रकाशतः |
स्नापयित्वा शिशुं माता परिधाप्याम्बरे शुभे |
भर्त्तुः पार्श्वं समागत्य प्राङ्मुखं स्थापयेत् सुतम् |
अभिषिञ्चेत् शिशोर्मूर्ध्नि सहिरण्यकुशोदकैः |
जाह्नवी यमुना रेवा सपवित्रा सरस्वती |
नर्म्मदा वरदा कुम्भी सागराश्च सरांसि च |
एते त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये |
ह्रीं |
आपो हिष्ठा मयो भुवस्ता न ऊर्ज्जे दधातन |
महेरणाय चक्षषे यो वः शिवतमो रसस्तस्य भाजयतेह नः |
उशतीरिव मातरः तस्मा अरङ्गमाम वो क्षयाय जिन्वथ आपो जनयथा च नः |
अभिषिच्य त्रिभिर्मन्त्रैः पूर्ववद्वह्निसंस्क्रियाम् |
कत्वा सम्पाद्य धारान्तं दद्यात् पञ्चाहुतीः सुधीः |
अग्नये प्रथमं दत्त्वा वासवाय ततः परम् |
ततः प्रजानां पतये विश्वेदेवेभ्य एव |
ब्रह्मणे चाहुतीं दद्याद्वह्नौ पार्थिवसंज्ञके |
ततोऽङ्के पुत्रमादाय श्रावयेद्दक्षिणश्रुतौ |
स्वल्पाक्षरं सुखोच्चार्यं शुभं नाम विचक्षणः |
श्रावयित्वा त्रिधा नाम ब्राह्मणेभ्यो निवेद्य च |
ततः समापयेत् कर्म्म कृत्वा स्विष्टिकृतादिकम् |
कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धं न विद्यते |
नामान्नप्राशनं चूडां कुर्ययाद्धीमानमन्त्रकम् |
चतुर्थे मासि षष्ठे वा कुर्ययान्निष्क्रमणं शिशोः |
कृतनित्यक्रियस्तातः सम्पूज्य गणनायकम् |
स्नापयित्वा तु तनयं वस्त्रालङ्कारभूषितम् |
संस्थाप्य पुरतो विद्वानिमं मन्त्रमुदीरयेत् |
ब्रह्मा विष्णुः शिवो दुर्गा गणेशो भास्करस्तथा |
इन्द्रो रायुः कुवेरश्च वरुणोऽग्निर्वृहस्पतिः |
शिशोः शुभं प्रकुर्वन्तु रक्षन्तु पथि सर्वदा |
इत्युक्त्वाङ्के समादाय गीतवाद्यपुरःसरम् |
वहिर्निष्क्रामयेद्बालं सानन्दैः स्वजनैः सह |
गत्वाध्वनि कियद्दूरं शिशुं सूर्ययं निरीक्षयेत् |
ह्रीं |
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् |
पश्येमशरदः शतं जीवेम शरदः शतम् |
शृणुयाम शरदः शतम् |
इत्यादित्यं दर्शयित्वा समागत्य निजालयम् |
अर्घ्यं दत्त्वा दिनेशाय स्वजनान् भोजयेत् पिता ||
इति निष्क्रमणम् ||
षष्ठे मासि कुमारस्य मासे वाप्यष्टमे शिवे ! |
पितृभ्राता पिता वापि कुर्ययादन्नाशनक्रियाम् |
पूर्ववद्देवपूजादि वह्निसंस्करणं तथा |
एवं धारान्तकर्माणि सम्पाद्य विधिवत् पिता |
दद्यात् पञ्चाहुहीस्तत्र शुचिनाम्नि हुताशने |
अग्निमुद्दिश्य प्रथमां द्वितीयां वासवं स्मरन् |
ततः प्रजापतिं देवं विश्वान् देवान् ततः परम् |
ब्रह्माणञ्च समुद्दिश्य पञ्चमीमाहुतिं त्यजेत् |
ततोऽग्नावन्नदां ध्यात्वा दत्तपञ्चाहुतिः पिता |
तत्राथवा गृहेऽन्यस्मिन् वस्त्रालङ्कारशोभितम् |
क्रोडे निधाय तनयं प्राशयेत् पायसामृतम् |
पञ्चप्राणाहुतेर्मन्त्रैर्भोजयित्वा तु पञ्चधा |
ततोऽन्नव्यञ्जनादीनां दत्त्वा किञ्चित् शिशोर्मुखे |
शङ्खतूर्ययादिघोषेण प्रायश्चित्तं समापयेत् |
इत्यन्नप्राशनं प्रोक्तं चूडाविधिमतः शृणु |
तृतीये पञ्चमे वर्षे कुलाचारानुसारतः |
चूडाकर्म शिशोः कुर्ययाद्बालसंस्कारसिद्धये |
देवपूजादिधारान्तकर्म निष्पाद्य साधकः |
सत्याग्नेरुत्तरे देशे वृषगोमयपूरितम् |
तिलगोधूमसंयुक्तं शरावं स्थापयेद् बुधः |
कवोष्णं सलिलञ्चापि क्षुरमेकं सुशाणितम् |
आसाद्य तनयं तत्र जनकः स्वीयवामतः |
संस्थाप्य जननीक्रोडे कवोष्णसलिलैश्च तैः |
वारुणं दशधा जप्त्वा सम्मार्ज्य शुशुमूर्द्धजान् |
मायया कुशपत्राभ्यां जुष्टिमेकां प्रकल्पयेत् |
मायां लक्ष्मीं त्रिधा जप्त्वा गृहीत्वा लौहजं क्षुरम् |
छित्त्वा तु जुष्टिकामूलं मातृहस्ते निवेशयेत् |
कुमारमाता हस्ताभ्यामादाय गोमयान्विते |
शरावे स्थापयेज्जुष्टिं नापिताय पिता वदेत् |
क्षुरमुण्डे शिशोः क्षौरं सुखं साधय ठद्वयम् |
पठित्वा नापितं पश्यन् सत्यनामनि पावके |
प्रजापतिं समुद्दिश्य प्रदद्यादाहुतित्रयम् |
नापितेन कृतक्षौरं स्नापयित्वा शुशुं ततः |
वस्त्रालङ्कारमाल्येन भूषयित्वाग्निसन्निधौ |
स्ववामभागे संस्थाप्य स्विष्टिकृद्धोममाचरेत् |
प्रायश्चित्तं ततः कृत्वा दद्यात् पूर्णाहुतिं पिता |
माया शिशो ! ते कुशलं कुरुतां विश्वकृद्विभुः |
पठित्वैनं शिशोः कर्णे स्वर्णमयया शलाकया |
राजत्या लौहमयया वा तत्र वेधं प्रकल्पयेत् |
आपोहिष्ठेति मन्त्रेण अभिषिच्य सुतं ततः |
शान्त्यादिदक्षिणां कृत्वा चूडाकर्म समापयेत् |
गर्भाधानादिचूडान्तं समानं सर्वजातिषु |
शूद्रसामान्यजातीनां सर्वमेतदमन्त्रकम् |
जातकर्मादिचूडान्तं कुमार्ययाश्चाप्यमन्त्रकम् |
कर्त्तव्यं पञ्चभिर्वर्णैरेकं निष्क्रमणं विना ||
अथोच्यते द्विजातीनामुपवीतिक्रियाविधिः |
यस्मिन् कृते द्विजन्मानो दैवपैत्र्याधिकारिणः |
गर्भाष्टमेऽष्टमे वाब्दे कुर्ययादुपनयं शिशोः |
षोडशाब्दाधिको नोपनेतव्यो निष्क्रियो हि सः |
कृतनित्यक्रियो विद्वान् पञ्च देवान् समर्च्चयेत् |
गौर्ययादिमातृकाश्चैव वसुधारां प्रकल्पयेत् |
वृद्धिश्राद्धं ततः कुर्ययात् देवतापितृतृप्तये |
कुशण्डिकोक्तविधिना धाराहोमान्तमाचरेत् |
प्रातः कत्वाशनं बालं सुस्नातञ्च स्वलङ्कृतम् |
शिखां विना कृतक्षौरं क्षौमाम्बरविभूषितम् |
छायामण्डपमानीय समुद्भवहुताशितुः |
समीपे चात्मनो वामे संस्थाप्य विमलासने |
शिष्यं वदेद्ब्रह्मचर्ययं कुरु वत्स ! ततः शिशुः |
ब्रह्मचर्ययं करोमीति गुरवे विनिवेदयेत् |
ततो गुरुः प्रसन्नात्मा शिशवे शान्तचेतसे |
काषायवाससी दद्याद्दीर्घाषुष्ट्वाय वर्च्चसे |
मौञ्जीं कुशमयीं वापि त्रिवृत्तां ग्रन्थिसंयुताम् |
तूष्णीञ्च मेखलां दद्यात् काषायवस्त्रधारिणे |
मायामुच्चार्य सुभगा मेखला स्याच्छुभपदा |
इत्युक्त्वा मेखलां बद्ध्वा मौनी तिष्ठेद् गुरोः पुरः |
यज्ञोपवीतं परमं पवित्रं वृहस्पतेर्यत् सहजं पुरस्तात् |
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ||
मन्त्रेणानेन शिशवे दद्यात् कृष्णाजिनान्वितम् |
यज्ञसूत्रपरिमाणन्तु मातृकाभेदतन्त्रे एकादशपटले ||
यज्ञसूत्रस्य यन्मानं तत् शृणुष्व वरानने ! |
ऋग्वेदी धारयेत् सूत्रं नाभेरूर्द्ध्वं स्तनादधः |
यजुषां सूत्रमानं हि आश्चर्यं शृणु शैलजे ! |
बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः |
धारणीयं प्रयत्नेन नान्यदघ्नं कदाचन |
नान्यदघ्नं नान्यप्रमाणमित्यर्थः |
सामगस्य दीर्घसूत्रं त्रिविधं वरवर्णिनि ! |
ब्रह्मरन्ध्रान्नाभिदेशपर्ययन्तं यज्ञसूत्रकम् |
अथवापि च ग्रीवायामारोप्य नाभिमा-स्पृशेत् |
तस्मात् पृष्ठे मेरुदण्डपर्ययन्तं यज्ञसूत्रकम् |
अथवा परमेशानि ! प्रकारान्तरमुच्यते |
ग्रीवाया दक्षिणाङ्गुष्ठपर्ययन्तं यज्ञसूत्रकम् |
अथर्वो धारयेत् सूत्रं यत्नेन यजुषां मतम् |
अथवा धावयेत् सूत्रं सामगस्य प्रमाणतः |
अथवा धारयेत् यज्ञसूत्रं परममोहनम् |
आज्ञाचक्रान्नाभिदेशपर्ययन्तं यज्ञसूत्रकम् |
एतत् सङ्केतमज्ञात्वा यः कुर्ययात् सूत्रधारणम् |
स चण्डालसमो देवि ! यदि व्याससमो भवेत् ||
प्रसङ्गाद् यज्ञसूत्रस्य कर्त्तनं जीवन्यासश्च लिख्यते ||
गायत्रींतन्त्रे चतुर्थब्राह्मणपटले ||
कन्या च कर्त्तयेत् सूत्रं पतिपुत्त्रवती तथा |
विधवाऽविधवा वापि पुत्रहीनापि ब्राह्मणी |
क्षत्राणी वैश्यदारा च कर्त्तयेन्न तु शूद्रिणी |
दीक्षिता यदि सा शूद्रा कर्त्तनेन च निन्दिता |
सच्छूद्रा यदि सा भद्रे ! शुद्धा सा सूत्रकर्त्तने |
अस च्छूद्रा महेशानि ! निन्दिता सूत्रकर्त्तने |
कार्पाससम्भवं सूत्रं यज्ञसूत्रं विनिर्मितम् |
सूक्ष्मातिसूक्ष्मं परमं सर्वदेवमयं तथा ||
इति निर्माणम् ||
अणुग्रन्थिः |
ग्रन्थिकाले स्मरेद्विप्रान् सूत्रं भवति मूर्तिमत् |
ब्रह्मा च काश्यपो विप्रः सनकश्च सनन्दनः |
सनत्सनातनो विप्रो नारदः कपिलस्तथा |
मरीचिरत्रिः पुलहः पुलस्त्यो गौतमः क्रतुः |
भृगुर्दक्षः प्रचेताश्च वशिष्ठो वाल्मिकिस्तथा |
द्वैपायनो भरद्वाजः शुक्रो जैमिनिरेव च |
विदूरथः शुनःशेफो जातुकर्णश्च रौरवः |
और्वः संवर्त्तकः शुक्रः सुराचार्यो वृहस्पतिः |
चन्द्रः सूर्ययो बुधः श्रीमान् यज्ञसूत्रस्य ग्रन्थिषु |
तिष्ठन्तु मम वामांशे वामस्कन्धे त्वहर्निशम् |
ब्रह्माद्या देवताः सर्वा यज्ञसूत्रस्य देवताः ||
तथा |
जीवन्यासं प्रवक्ष्यामि यज्ञसूत्रस्य संशृणु |
यज्ञसूत्रं करे कृत्वा दक्षिणे द्विजसत्तमः |
गायत्रीं प्रथमं जप्त्वा प्रणवं प्रजपेत् शतम् |
गायत्रीं पुनरुक्त्वा वै वामस्कन्धे निवेशयेत् |
जीवन्यासं विना देवि ! यज्ञसूत्रञ्च सूत्रवत् ||
महानिर्वाणे ||
यज्ञोपवीतं दण्डञ्च वैणवं खादिरञ्च वा |
पालाशमथवा दद्यात् क्षीरवृक्षसमुद्भवम् |
आपोहिष्ठेति मन्त्रेण मायया पुटितेन च |
त्रिरावृत्त्या कुशाम्भोभिर्धृतदण्डोपवीतकम् |
अभिषिच्य ततस्तोयैः पूरयेद्बालकाञ्जलिम् |
तदञ्जलिं दिनेशाय दातारं ब्रह्मचारिणम् |
तच्चक्षुरिति मन्त्रेण दर्शयेद्भास्करं गुरुः |
दृष्ट्वा भास्करमाचार्यो वदेन्माणवकं ततः |
मम व्रते मनो धेहि मम चित्तं ददामि ते |
जुषस्वैकमना वत्स ! मम वाचोऽस्तु ते शिवम् |
हृदि स्पृष्ट्वा पठित्वैनं किंनामासीति तं वदेत् |
शिष्यस्त्वमुकशर्माहं भवन्तमभिवादये |
कस्य त्वं ब्रह्मचारीति गुरौ पृच्छति पार्वति ! |
शिष्यः सावहितो ब्रूयाद्भवतो ब्रह्मचार्ययहम् |
इन्द्रस्य ब्रह्मचारो त्वमाचार्ययस्ते हुताशनः |
इत्युक्त्वा स गुरुः पश्चाद्देवेभ्यस्तं समर्पयेत् |
त्वां प्रजापतये वत्स ! सवित्रे वरुणाय च |
पृथिव्यै सर्वदेवेभ्यः सर्ववेदेभ्य एव च |
समर्पयामि ते सर्व रक्षन्तु त्वां निरन्तरम् |
ततो माणवको वह्निं दक्षिणावर्त्मयोगतः |
गुरुं प्रदक्षिणीकृत्य आसने पुनराविशेत् |
गुरुः शिष्येण सम्पृष्टः समुद्भवहुताशने |
पञ्च देवान् समुद्दिश्य दद्यात् पञ्चाहुतीः प्रिये ! |
प्रजापतिस्ततः शक्रो विष्णुब्रह्मा शिवस्तथा |
मायादिवह्निजायान्तैर्जुहुयात् स्वस्वनामभिः |
अनुक्तमन्त्रे सर्वत्र विधिरेष प्रकीर्त्तितः |
ततो दुर्गा महालक्ष्मीः सुन्दरी भुवनेश्वरी |
इन्द्रादिदशदिक्पाला भास्करादिनवग्रहाः |
प्रत्येकनाम्ना हुत्वैतान् वाससाच्छाद्य बालकम् |
पृच्छेन्माणवकं प्राज्ञो ब्रह्मचर्ययाभिमानिनम् |
को वाश्रयस्ते तनय ! ब्रूहि किन्ते मनोगतम् |
ततः शिष्यः सावहितो धृत्वा गुरुपदद्वयम् |
करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः |
एवं प्रार्थयमानस्य दक्षकर्णे शिशोस्तदा |
श्रावयित्वा त्रिधा तारं सर्वमन्त्रमयं शिवे ! |
व्याहृतित्रयमुच्चार्यय सावित्रीं श्रावयेद् गुरुः |
ऋषिः सदाशिवः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् |
अधिष्ठात्री च सावित्री मोक्षार्थे विनियोगिता |
अन्तर्गतं महद्वर्च्चो वरणीयं यथात्मभिः |
ध्यायेम तत् पदं सत्यं सर्वव्यापि सनातनम् |
यो भर्गः सर्वसाक्षी नो मनोबुद्धीन्द्रियाणि च |
धर्मार्थकाममोक्षेषु प्रेरयेद्विनियोजयेत् |
इत्थमर्थयुतां ब्रह्मविद्यामासाद्य सद्गुरुः |
शिष्यं नियोजएद्देवि ! गृहस्थाश्रमकर्मसु |
ब्रह्मचर्ययोचितं वेशं वत्सेदानीं परित्यज |
शाम्भवोदितमार्गेण देवान् पितॄन् समर्च्चय |
ब्रह्मविद्योपदेशेन पवित्रं ते कलेवरम् |
प्राप्ता गृहस्थाश्रमिता तदुक्तं कर्म कल्पय |
उपवीतद्वयं दिव्यवस्त्रालङ्करणानि च |
गृहाण पादुकाच्छत्रं गन्धमाल्यानुलेपनैः |
ततः काषायवसनं कृष्णाजिनसमन्वितम् |
यज्ञसूत्रं मेखलाञ्च दण्डं भिक्षाकरण्डकम् |
आचारादर्जितां भिक्षां समर्प्य गुरवे शिवे ! |
शुद्धोपवीतयुगलं परिधायाम्बरे शुभे |
गन्धमाल्यधरस्तूष्णीं तिष्ठेदाचार्यसन्निधौ |
ततो गृहस्थाश्रमिणं शिष्यमेतद्वदेद् गुरुः |
जितेन्द्रियः रात्यवादी ब्रह्मविद्यारतो भव |
स्वाध्यायाश्रमकर्माणि यथाधर्मेण साधय |
इत्यादिश्य त्विदं पश्चात् समुद्भवहुताशने |
मायादिप्रणवान्ते न भूर्भुवःस्वस्त्रयेण च |
हावयित्वा त्रिधाचार्ययः स्विष्टिकृद्धोममाचरेत् |
दत्त्वा पूर्णाहुतिं भद्रे ! व्रतकर्म समापयेत् |
बीजसेकादिसंस्कारा व्रतान्ता.ः पितृतो नव |
उद्वाहः पितृतो वापि स्वतोऽपि सिध्यति प्रिये ! ||
मत्स्यमूक्ते एकत्रिंशत्पटले ||
अदारस्य गतिर्नास्ति सर्वास्तस्याफलाः क्रियाः |
सुरार्च्चनं महायज्ञं हीनभार्ययो विवर्जयेत् |
एकचक्ररथो यद्वदेकपक्षो यथा खगः |
अभार्ययोऽपि नरस्तद्वदयोग्यः सर्वकर्मसु |
भार्याहीने क्रिया नास्ति भार्ययाहीने कुतः सुखम् |
भार्याहीने गृहं कस्य तस्माद्भार्ययां समाश्रयेत् |
सर्वस्वेनापि देवेशि ! कर्त्तव्यो दारसंग्रहः |
इति दारपरिग्रहस्यावश्यकत्वम् तत्रैव ||
सत्र्यासमथवा कार्ययं तृतीयं नोपपद्यते |
सवर्णा ब्राह्मणी या तु धर्मपत्नी च सा स्मृता |
असवर्णा च या भार्यया कामपत्नी तु सा स्मृता ||
इति धर्मपत्नीनिर्णयः |
महानिर्वाणतन्त्रे ||
विवाहे हि कृतस्नानः कृतनित्यक्रियः कृती |
पञ्च देवान् समभ्यर्च्य गौर्ययादिमातृकास्तथा |
वसोर्धारां कल्पयित्वा वृद्धिश्राद्धं समाचरेत् |
रात्रौ प्रतिश्रुतं पात्रं गीतवाद्यपुरःसरम् |
छायामण्डपमानीय उपविश्य वरासने |
वासवाभिमुखं दाता पश्चिमाभिमुखो विशेत् |
आचार्ययः स्वस्तिमृद्धिञ्च कथयेद्ब्राह्मणैः सह |
साधुप्रश्नं वरं पृच्छेदर्च्चनाप्रश्नमेव च |
वरात्प्रश्नोत्तरं नीत्वा पादाद्यैर्वरमर्चयेत् |
समर्पयामि वाक्येन देशद्रव्यं समर्पयेत् |
पादयोरर्पयेत्पाद्यं शिरस्यर्घ्यं निवेदयेत् |
आचम्यं वदने दद्याद्गन्धं माल्यं सुवाससी |
दिव्याभरणरत्नानि यज्ञसूत्रं समर्पयेत् |
ततस्तु भाजने कांस्ये कृत्वा दधि घृतं मधु |
समर्पयामि वाक्येन मधुपर्कं करेऽर्पयेत् |
वरोऽपि पात्रमादाय वामे पाणौ निधाय च |
दक्षाङ्गुष्ठानामिकाभ्यां प्राणाहुत्युक्तमन्त्रकैः |
पञ्चधाघ्राय तत्पात्रमुदीच्यां दिशि धारयेत् |
मधुपर्कं समाप्यैवं पुनराचामयेद् द्वयम् |
दूर्वाक्षताभ्यां जामातुर्विधृत्य जानुदक्षिणम् |
स्मृत्वा विष्णुं तत्सदिति मासपक्षौ तिथिं ततः |
समुल्लिख्य निमित्तानि वृणुयाद्वरमुत्तमम् |
गोत्रप्रवरनामानि प्रत्येकं प्रपितामहात् |
षष्ठ्यन्तानि समुच्चार्य वरस्य जनकावधि |
द्वितीयान्तं वरं ब्रूयाद्गोत्रप्रवरनामभिः |
तथैव कन्यामुद्दिश्य ब्राह्मोद्वाहेन पण्डितः |
दातुं भवन्तमित्युक्त्वा वृणेऽहमिति कीर्त्तयेत् |
वृतोऽस्मीति वरो ब्रूयात् ततो दाता वदेद्वरम् |
यथाविहितमित्युक्त्वा विवाहकर्म्म कुर्विति |
वरो ब्रूयाद् यथाज्ञानं करवाणि तदुत्तरम् |
ततः कन्यां समानीय वस्त्रालङ्कारभूषिताम् |
वस्त्रान्तरेण सञ्छाद्य स्थापयेद्वरसम्मुखे |
पुनर्वरं समभ्यर्च्य वासोऽलङ्करणादिभिः |
वरस्य दक्षिणे पाणौ कन्यापाणिं नियोजयेत् |
तन्मध्ये पञ्चरत्नानि फलताम्बूलमेव वा |
दत्त्वार्च्चयित्वा तनयां वराय विदुषेऽर्पयेत् |
प्राग्वत् त्रैपुरुषाख्यानं निमित्ताख्यानमेव च |
आत्मनः काममुद्दिश्य चतुर्थ्यन्तं वरं वदेत् |
कन्याभिधां द्वितीयान्तामर्च्चितां समलङ्कृताम् |
साच्छादनां प्रजापतिदेवताकामुदीरयन् |
तुभ्यमहमिति प्रोच्य दद्यात् सम्प्रददे वदन् |
वरः स्वस्तीति स्वीकुर्ययात् सम्प्रदाता वरं वदेत् |
धर्मे चार्थे च कामे च भवता भार्ययया सह |
वर्त्तितव्यं वरो वाचमुक्त्वा कामस्तुतिं पठेत् |
दाता कामो ग्रहीतापि कामायादाच्च कामिनीम् |
कामेन त्वां प्रतिगृह्णापि कामः पूर्णोऽस्तु चावयोः |
ततो वदेत् सम्प्रदाता कन्यां जामातरं प्रति |
प्रजापतिप्रसादेन युवयोरभिवाञ्छितम् |
पूर्णमस्तु शिवञ्चास्तु धर्मं पालयतं युवाम् |
तत आच्छाद्य वस्त्रेण सम्प्रदाता सुमङ्गलैः |
परस्परमुखालोकं कारयेद्वरकन्ययोः |
ततो हिरण्यरत्नानि यथाशक्त्यनुसारतः |
जामात्रे दक्षिणां दद्यादच्छिद्रमवधारयेत् |
वरस्तु भार्ययया सार्द्धं तद्रादौ दिवसेऽपि वा |
कुशण्डिकोक्तविधिना वह्निस्थापनमाचरेत् |
योजकाख्यः पावकोऽत्र प्राजापत्यश्चरुः स्मृतः |
धारान्तं कर्म्म सम्पाद्य दद्यात् पञ्चाहुतीर्वरः |
शिवं दुर्गां तथा विष्णुः ब्रह्माणं वज्रधारिणम् |
ध्यात्वैकेकैकं समुद्दिश्य जुहुयात् संस्कृतेऽनले |
भार्ययायाः पाणियुगलं गृह्णीयात्तान्युदीरयन् |
पाणिं गृह्णामि सुभगे ! गुरुदेवरता भव |
गार्हस्थ्यं धर्मकर्मेण यथावदनुशीलय |
घृतेन स्वामिदत्तेन लाजैर्भ्रात्राहृतैः शिवे ! |
प्रजापतिं समुद्दिश्य दद्याद्द्वे चाहुती वरः |
प्रदक्षिणीकृत्य वह्निमुत्थाय भार्ययया सह |
दुर्गां शिवं रमां वुष्णुं ब्राह्मीं ब्रह्माणमेव च |
युग्मं युग्मं समुद्दिश्य त्रिस्त्रिधा हवनं चरेत् |
अश्ममण्डलिकासप्तारोहौ कुर्ययादमन्त्रकम् |
निशायाञ्चेत्तदा स्त्रीभिः पश्येद्धूम्रामरुन्धतीम् |
प्रत्यावृत्यासने सम्यगुपविश्य वरस्तदा |
स्विष्टिकृद्धोमपूर्णाहुत्यन्तं कर्म्म समापयेत् |
ब्राह्मो विवाहो विहिती दोषहीनः सवर्णया |
कुलधर्मानुसारेण गोत्रभिन्ना सपिण्डजा |
ब्राह्मोद्वाहेन या ग्राह्या सैव पत्नी गृहेश्वरी |
तदनुज्ञां विना ब्राह्मविवाहं नाचरेत् पुनः |
अस्या अपत्ये तद्वंशे विद्यमाने कुलेश्वरि ! ||
अथ महानिर्वाणतन्त्रोक्तदशसंस्कारप्रयोगः |
संस्कारैर्विना दैवपैत्रकर्म्मानधिकारितया सर्वैर्विप्रादिभिर्वर्णैः स्वस्ववर्णोक्ताः संस्काराः कार्ययाः |
दश संस्कारास्तु वीजसेकपुंसवनसीमन्तोन्नयनजातकर्म्म- नामकरणनिष्क्रमणान्नप्राशनचूडोपनयनविवाहाः |
ततः शूद्राणामधमशूद्राणामुपनयनं नास्ति तेषां नवैव संस्काराः |
ब्राह्मणक्षत्रियवैश्यानान्तु दश संस्कारा इति ||
अथ गर्भाधानम् |
कृतनित्यक्रिय आसने उपविश्य दीक्षापद्धतिलिखिष्यमाणमन्त्रैर्घटान् संस्थाप्य तत्र ब्रह्मदुर्गागणेशविष्णुसूर्ययशिवादित्यादिनवग्रहेन्द्रादि-दशदिक्पालान् सम्पूज्य ततो गौर्ययादिषोडशमातृकाः पूजयेत् |
षोडशमातृकास्तु ||
गौरी पद्मा शची मेधा सावित्री विजया जया |
देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा ||
आत्मदेवता कुलदेवता एतावत्यः |
पूजाक्रमस्तु ||
अर्घ्यस्थापनं कृत्वा बद्धाञ्जलिः |
ह्रीं आयान्तु मातरः सर्वास्त्रिदशानन्दकारिकाः |
विवाहव्रतयज्ञानां सर्वाभीष्टं प्रकल्प्यताम् |
यानशक्तिसमारूढाः सौम्यमूर्तिधराः सदा |
आयान्तु मातरः सर्वा यज्ञोत्सवसमृद्धये ||
इति मातृकागणमावाह्य ह्रीं गौर्यये मात्रे नम इति पाद्यादिभिर्यथाशक्ति सम्पूज्य एवं पद्मायै मात्रे नम इत्यादिभिः षोडशमातृकार्च्चनं स्वशक्त्यां विधाय नाभिमात्रायां भित्तौ प्रादेशमात्रमध्ये सिन्दूरेण रक्तचन्दनेन वा सप्त वा पञ्च वा बिन्दून् दद्यात् |
ततः प्रत्येकविन्दौ क्लीमिति ह्रीमिति श्रीमिति वीजत्रयेणाविच्छिन्नां घृतधारां दत्त्वा तत्र वसुं यजेत् |
ततो होमप्रकरणलेख्यस्थण्डिलादिवह्निस्थापनान्तं कर्म्म कृत्वा होमद्रव्याणि संस्कृत्य प्राजापत्य चरुं श्रपयेत् |
ततो वायुनामानमग्निं ध्यात्वा आवाह्य घृतेन पाद्यादिभिः सम्पूज्य धाराहोमान्तं कर्म्म कृत्वा ह्रीं प्रजापतये स्वाहा इति मन्त्रेण चरुणा वारत्रयं जुहुयात् |
ततो ह्रीं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि यच्छतु |
असिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते |
स्वाहा इत्यनेन चरुणा वारमेकं जुहुयात् |
तत आज्येन चरुणा साज्येन न चरुणा वा सूर्ययप्रजापतिविष्णून् ध्यात्वा ह्रीं सूर्ययाय स्वाहा ह्रीं प्रजापतये स्वाहा ह्रीं विष्णवे स्वाहा इति मन्त्रत्रयेण प्रत्येकं जुहुयात् |
ततः सिनीवालीसरस्वत्यश्विनान् ध्यात्वा ह्रीं |
गर्भं धेहि सिनीवाली गर्भं धेहि सरस्वती |
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ||
स्वाहा इत्यनेन घृतेन जुहुयात् |
ततो मनसा रविं विष्णुं ध्यात्वा क्लीं स्त्रीं ह्रीं श्रीं हुमित्यमुष्यै पुत्रकामायै गर्भमाधेहि स्वाहा |
इति मन्त्रेणाज्येन जुहुयात् |
ततो विष्णुं मनसा ध्यात्वा ह्रीं |
यथेयं पृथिवी देवी ह्युत्ताना गर्भमादधे |
तथा त्वं गर्भमाधेहि दशमे कासि सूतये ||
स्वाहा इति मन्त्रेणाज्येनं जुहुयात् |
ततः पुनरपि विष्णुं मनसा ध्यात्वा ह्रीं |
विष्णोर्ज्येष्ठेन रूपेण नार्ययामस्यां वरीयसम् |
सुतमाधेहि |
स्वाहा इत्यनेनाज्येन जुहुयात् |
ततः क्लीं ह्रीं स्त्रीं ह्रीं क्लीं ह्रीमिति मन्त्रेण बध्वाः शिरः स्पृशेत् |
ततः पुत्रवतीभिर्नारीभिः परिवेष्टितो हस्ताभ्यां बध्वाः शिर आलस्य विष्णुं दुर्गां विधिं सूर्ययञ्च ध्यात्वा तस्याः क्रोडाञ्चले फलत्रयं पतिर्दद्यात् |
ततः स्विष्टिकृतं हुत्वा प्रायश्चित्तहोमं कुर्ययात् |
ततः प्रदोषसमये गौरीसहितशङ्करं सम्पूज्य भास्करार्घ्यं दद्यादिति |
ततस्तद्रात्रावन्यरात्रौ वा युग्मायां भार्ययया सह भवनान्तरं गत्वा प्रजापतिं मनसा ध्यात्वा पत्नीं संस्पृश्य शययाशोधनं कुर्ययात् |
यथा |
ह्रीं आवयोः सुप्रजायै त्वं शयये ! शुभकरी भव |
ततो भार्ययया सह शययामारुह्य प्राङ्मुख उदङ्मुखो वा उपविश्य स्त्रियं पश्यन् तन्मस्तके हस्तं दत्त्वा वामेन पाणिना तामालिङ्ग्य तस्याः शीर्षे क्लीमिति शतधा चिवुके ऐमिति शतधा कण्ठे श्रीमिति विंशतिधा स्तनद्वन्द्वे श्रीमिति शतधा हृदये ह्रीमिति पञ्चविंशतिधा जप्त्वा योनौ करं दत्त्वा क्लीं ऐमिति अष्टोत्तरशतं जप्त्वा लिङ्गेऽपि ऐं क्लीमित्यष्टोत्तरशतं जपेत् |
ततो ह्रीमिति मन्त्रेण योनिं विकाश्य सुतप्राप्तये स्त्रियमुपगच्छेत् |
ततो रेतःपातसमये विश्वकर्माणं ध्यात्वा नाभेरधस्तात् चित्कुण्डे रेतः पातयेत् |
शुक्रपातान्तसमये इमं पठेत् |
ह्रीं |
यथाग्निना सगर्भा भूर्द्यौर्यथा वज्रधारिणा |
वायुना दिग्गर्भवती तथा गर्भवती भव ||
इति गर्भाधानम् |
अथ पुंसवनम् |
पतिः कृतनित्यक्रियः पञ्चदेवतापूजादिवृद्धिश्राधान्तं गर्भाधानपद्धत्युक्तं विधाय ततो वह्निस्थापनादि कृत्वा चन्द्रनामानमग्निं ध्यात्वावाह्य सम्पूज्य प्राजापत्यं चरुं पचेत् |
ततो गव्ये दधि यवमेकं द्वौ माषौ च निक्षिप्य स्त्रियं पृच्छेत् |
हे भद्रे ! किं त्वं त्रिः कृतं पिबसि इति |
ततः स्त्री ब्रूयात् मया पुंसवनं कृत्वं पीयते |
इत्युक्त्वा यवमाषयुतदधिप्रसृतित्रयं पिबेत् |
तनो जीववत्साभिर्वनिताभिस्तां यागस्थानं समानयेत् |
ततो वामभागे तां संस्थाप्य चरुमानीय ह्रीं हुं ये चात्र विघ्नकर्त्तारो ये च गर्भविनाशकाः |
भूताः प्रेताः पिशाचाश्च वेताला बालघातकाः |
तान् सर्वान्नाशय नाशय गर्भरक्षां कुरु स्वाहा |
इत्यनेन मन्त्रेण रक्षोघ्नं विचिन्त्य प्रजापतिञ्च ध्यायन् चरुणा द्वादशाहुतीर्जुहुयात् |
ह्रीं चन्द्रमसे स्वाहेति मन्त्रेण पञ्चाहुतीर्दद्यात् |
ततो भार्ययाहृदि स्पृष्ट्वा ह्रीं श्रीमिति मन्त्रं शतं जपेत् |
ततः स्विष्टिकृद्धोमस्तदनन्तरं प्रायश्चित्तहोमादिवह्निविसर्ज्जनान्तं कर्म्म कृत्वा दक्षिणाच्छिद्रावधारणान्तं कुर्ययादिति पुंसवनम् ||
अथ पञ्चामृतदानम् |
तत्तु गर्भजननमासावधिके पञ्चमे मासि गर्भिण्यै देयम् |
पञ्चामृतन्तु समांसेन दधिमधुदुग्धघृतशर्करामिश्रितरूपम् |
अनेन स्त्रिया देहशुद्धिर्भवति |
तत्र प्रत्येकं द्रव्ये ऐम् क्लीं श्रीं ह्रीं हुं लमिति पञ्चधा जप्त्वा सम्मिश्र्य गर्भिणीं प्राशयेदिति पञ्चामृतदानम् ||
अथ सीमन्तोन्नयनम् |
तत्तु षष्ठेऽष्टमे वा मासि कर्त्तव्यम् |
तत्राशक्तावपत्यजननात् पूर्वं कार्ययम् |
तत्र पतिः पञ्चदेवतापूजादिधारोहोमान्तं गर्भाधानप्रकरणोक्तं विधाय स्त्रिया सहासने उपविश्य शिवनामानमन्गिं ध्यात्वा आवाह्य यथाशक्ति सम्पूज्य ह्रीं विष्णवे स्वाहा ह्रीं भास्वते स्वाहा ह्रीं धात्रे स्वाहा इत्याहुतित्रयं दद्यात् |
ततः सोमं ध्यात्वा ह्रीं सोमाय स्वाहा इति सप्तधा जुहुयात् |
अश्विनौ वासवं विष्णुं शिवं दुर्गाञ्च प्रजापतिञ्च ध्यात्वा प्रत्येकं पञ्चाहुतीर्दद्यात् |
ततः पतिः स्वर्णकङ्कतिकां दक्षिणहस्तेन गृहीत्वा स्त्रियाः सीमन्ताद्बद्धकेशान्तपाशे निवेश्य शिवं विष्णुं विधिञ्च ध्यायन् ह्रीं |
भार्यये |
कल्याणि ! सुभगे ! दशमे मासि सुव्रते |
सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्म्मणः |
आयुष्मति ! कङ्कतिका वर्च्चस्वी ते शुभं कुरु ||
इति पठेत् ||
ततः स्विष्टिकृद्धोमप्रायश्चित्तहोमौ कृत्वा दक्षिणामग्निविसर्ज्जनादिकञ्च कुर्ययादिति सीमन्तोन्नयनम् ||
अथ जातकर्म्म |
जातमात्रबालकं पिता स्वर्णं दत्वा पश्येत् |
ततो गृहान्तरे गर्भाधानपद्धत्युक्तं पञ्चदेवतापूजादिधाराहोमान्तं कर्म्म कृत्वा पञ्चाहुतीर्हृद्यात् |
ह्रीमग्नये स्वाहा ह्रीमिन्द्राय स्वाहा ह्रीं प्रजापतये स्वाहा ह्रीं विश्वेभ्यो देवेभ्यः स्वाहा ह्रीं ब्रह्मणे स्वाहा |
इत्येभिर्मन्त्रैरिति |
ततः कांस्यपात्रसमांशेन मधुसर्पिषी समानीय तदुपरि ऐमिति सप्तधा जप्त्वा |
ह्रीं |
आयुर्वर्च्चो बलं मेधा वर्द्धतां ते सदा शिशो ! |
इति मन्त्रेण दक्षिणहस्तानामिकया शिशुं प्राशयेत् |
इत्यायुर्जननं कृत्वा पिता गुप्तं नाम कुर्ययात् |
ततो जन्मदिनावधि त्रिदिनाभ्यन्तरे श्वेतदूर्वाभिः स्वर्णशलाकया वा मधुना बालकस्य जिह्वायां वाग्भवकूटं लिखेत् |
अनेन वाग्भवकूटेन बालकः पण्डितः सुकविः शब्दालङ्कारविच्च भवति |
यदीमं मन्त्रं कृतपुरश्चरणो मूर्खस्य शिरसि हस्तं दत्त्वा अष्टोत्तरशतं जपेत्तदा सोऽपि श्लोकं करिष्यति |
यदि चेमं मूकस्य जिह्वायां न्यसेत्तदा सोऽपि कविर्भवति |
अथ वा द्वितीयायास्त्र्यक्षरीं दूर्वया बालकस्य जिह्वौष्ठौ सम्मार्ज्य पंक्तिद्वयेन लिखेत् |
तत्र क्रमः |
नाडीच्छेदात् प्रागेकादशाहे द्वादशाहे मासान्ते वा यथाशक्ति उपचारेण तां देवतां सम्पूज्य मन्त्रं लिखेत् |
यदि पिता न देशस्थस्तदा पितृव्यादिरेतत् कुर्ययात् |
अथवा श्वेतदूर्वया कुलदेवतामन्त्रं बालकस्यौष्ठे लिखेत् |
स बालो वाग्मी द्रुतकविर्भवेत् |
ततः स्विष्टिकृद्धोमादिवह्निविसर्ज्जनान्तं कर्म्म कुर्ययात् |
कुमार्यया अप्येवं सर्वममन्त्रकं कुर्ययात् |
तत उत्साहपूर्वकं धात्री नाडी छिन्द्यात् |
तदनन्तरमशौचं भवतीति जातकर्म्म ||
अथ नामकरणम् |
षष्ठेऽष्टमे वा मासि प्रकाशतो नाम कुर्ययात् |
तत्र माता शिशुं स्नापयित्वा नवे अम्बरे परिधाप्य पत्युः पार्श्वं वामक्रोडासनमागत्य बालं प्राङ्मुखं स्थापयेत् |
ततः पिता सहिरण्यकुशजलेन शिशोर्मूर्द्धानमभिषिञ्चेदेभिर्मन्त्रैर्यथा |
ह्रीं जाह्नवी यमुना रेवा सपवित्रा सरस्वती |
नर्म्मदा वरदा कुम्भी सागराश्च सरांसि च |
एते त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये |
ह्रीं |
आपोहिष्ठामयो भुवस्ता न ऊर्जे दधातन महेरणाय चक्षसे |
यो वः शिवतमो रसस्तस्य भाजयतेह नः |
उशतीरिव मातरः |
तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ |
आपो जनयथा च नः |
इत्यभिषिच्य पूर्ववद्वह्निस्थापनादिधाराहोमान्तं कर्म्म कृत्वा पार्थिवनामानमग्निं ध्यात्वा स्वल्पाक्षरं सुखोच्चार्यं नाम त्रिधा पिता श्रावयित्वा ब्राह्मणेभ्यो निवेदयेत् |
ततः स्विष्टिकृद्धोमान्तं कर्म्म समापयेत् |
एतत् कर्म कन्याया अप्यमन्त्रकं कर्त्तव्यम्ति नाम करणम् ||
अथ निष्क्रमणम् |
निष्क्रमणन्तु चतुर्थे मासि षष्ठे वा कुर्ययात् |
तत्र पिता कृतनित्यक्रियो गणेशं सम्पूज्य शिशुं स्नापयित्वा वस्त्रालङ्कारैर्भूषयित्वा अग्रे संस्थाप्य ह्रीं ब्रह्मा विष्णुरित्यादिप्रमाणप्रकरणोक्तं पठित्वा बालकमङ्के निधाय गीतवाद्यपुरःसरं सानन्दैः स्वजनैर्वृतो वहिर्निष्क्रामयेत् |
ततः कियद्दूरं गत्वा ह्रीं तच्चक्षुर्देवहितमिति मन्त्रेण बालकं सूर्यं दर्शयेत् |
ततो गृहमागत्य सूर्ययायार्घ्यं दत्त्वा स्वजनान् भोजयेदिति निष्क्रमणम् ||
अथान्नाप्राशनम् |
तत्र षष्ठे मासि अष्टमे वा पितृभ्राता पिता वा अन्नप्राशनक्रियां कुर्ययात् |
तत्र कृतनित्यक्रियः पूर्ववत् सगणाधिपगौर्ययादिकं सम्पूज्य शुचिनामानमग्निं संस्कृत्य प्रागुक्तधाराहोमान्तं कर्म समाप्य पञ्चाहुतीर्जुहुयात् |
यथा ह्रीं अग्नये स्वाहा ह्रीं इन्द्राय स्वाहा ह्रीं प्रजापतये स्वाहा ह्रीं विश्वेभ्यो देवेभ्यः स्वाहा ह्रीं ब्रह्मणे स्वाहा |
इति हुत्वा तन्त्रान्यस्मिन् गृहे वा बालकं क्रोडे कृत्वा पञ्चप्राणाहुतिमन्त्रैः पायसं पञ्चधा भोजयित्वा शिशोर्मुखे किञ्चिदन्नव्यञ्जनादि दत्त्वा आचामयेत् |
ततो गीतवाद्यपुरःसरं प्रायश्चित्तहोमादि समापयेदित्यन्नप्राशनम् ||
अथ चूडाकरणम् ||
तृतीये वर्षे पञ्चमे कुलाचारप्राप्ते वा चूडाकरणम् |
तत्र कृतनित्यक्रियः सगणाधिपमातृकादिपूजां विधाय सत्यनामानमग्निं संस्कृत्य धाराहुत्यन्तं कर्म समाप्याग्नेरुत्तरे तिलगोधूमसहितं वृषगोमयपूर्णं नवशरावं स्थापयेत् कवोष्णं जलं शाणित क्षुरञ्च |
ततः पिता स्ववामे जननीक्रोडे बालकं निधाय वमिति दशधा जप्त्वा तेन कवोष्णतोयेन केशान् सम्मार्ज्य ह्रीमिति मन्त्रेण कुशपत्रद्वयनिर्मितजुष्टिकामेकां तत्र बध्नीयात् |
ततो मायालक्ष्मीवीजद्वयं त्रिधा जप्त्वा लौहजं क्षुरं गृहीत्वा सजुष्टिककेशमुपमूलं छिन्द्यात् |
ततः कुमारमाता तं सजुष्टिककेशं हस्ताभ्यां गृहीत्वा तस्मिन् गोमयान्वितनवशरावे स्थापयेत् |
ततः पिता नापिताय ब्रूयात् |
क्षुरमुण्डे शिशोः क्षौरं मुखं साधय स्वाहा |
इति पठित्वा बालकं पश्यन् सत्यनामाग्नौ ह्रीं प्रजापतये स्वाहा इति त्रिवारं जुहुयात् |
ततः कृतक्षौर स्नातं समलङ्कृतं समाल्यं बालं वामभागे संस्थाप्य स्विष्टिकृतप्रायश्चित्तहोमं हुत्वा पूर्णाहुतिं दद्यात् |
ततो ह्रीं शिशो ! ते विश्वकर्मा कुशलं कुरुतामिति पठित्वा स्वर्णमयया राजत्या शलाकया वा शिशोः कर्णद्वये वेधं कल्पयेत् |
तत आपोहिष्ठेत्यादिमन्त्रेण तमभिषिच्य शान्त्यादिकं कृत्वा दक्षिणां कुर्ययादिति चूडाकरणम् ||
गर्भाधानादिचूडान्तं कर्म सर्वजातिषु समानं केवलं शूद्राणामिदं सर्वममन्त्रकमिति ||
अथोपनयनम् ||
गर्भाष्टमेऽष्टमेऽब्दे वा उपनयनं कर्त्तव्यमिति |
षोडशाब्दपर्ययन्तमनुपनीतस्य बालस्य दैवपैत्र्यक्रियायां नाधिकारः ||
तत्र कृतनित्यक्रियः सगणाधिपमातृपूजादिवृद्धिश्राद्धान्तं कर्म कृत्वा कुशण्डिकोक्तविधानेन समुद्भवनामानमग्निं संस्थाप्य धाराहोमान्तं कर्म कृत्वा प्रातः कृताशनं शिखां विना मुण्डितशिरसं सुस्नातं क्षौमाम्बरधरं स्वलङ्कृतं बालं छायामण्डपमनीय वहिः समीपे स्ववामे शुद्धासने उपवेशयेत् |
ततो ह्रीं ब्रह्मचर्ययं कुरु इति गुरुः |
ह्री.ं ब्रह्मचर्ययं करोमीति शिष्यो ब्रूयात् |
ततो गुरुस्तस्मै शिष्याय काषाये वाससी कुशमयीं मेखलाञ्च दद्यात् |
ह्रीं सुभगा मेखला शुभप्रदा स्यादिति पठित्वा शिष्यो मौनि तिष्ठेत् |
ह्रीं यज्ञोपवीतमिति मन्त्रं पठित्वा गुरुः शिष्याय कृष्णाजिनयुक्तयज्ञोपवीतं दद्यात् |
वेदभेदे सूत्रमानन्तु प्रमाणमध्ये अनुसन्धेयम् |
पुनर्यज्ञोपवीतमात्रं वंशदण्डञ्च दद्यात् पालाशञ्च |
ततो मायापुटितापोहिष्ठादिमन्त्रेण त्रिपत्रकुशेन धृतकायं वस्त्रमेखलाजिनयज्ञसूत्रदण्डं शिष्यमभिषिच्य तोयेन तदञ्जलिं पूरयेत् |
ततः सूर्ययायाञ्जलिं दापयित्वा बालं ह्रीं तच्चक्षुरिति मन्त्रेणादित्यं दर्शयेत् |
ततो गुरुर्माणवकहृदयं स्पृष्ट्वा ह्रीं मम व्रते ते इति मन्त्रं पठित्वा किं नामासि इति पृच्छेत् |
ततः शिष्यः श्री-अमुकनामाहं त्वामभिवादये इति वदेत् |
ततो गुरुः कस्य त्वं ब्रह्मचारीति |
शिष्यः भवतो ब्रह्मचार्ययहम् |
ततो गुरुः |
इन्द्रस्य ब्रह्मचारी त्वमाचार्ययस्ते हुताशनः |
इत्युक्त्वा ह्रीं प्रजापतये वत्स इति मन्त्रेण माणवकं समर्प्य दक्षिणावर्त्तयोगेन वह्निं प्रदक्षिणीकारयित्वा आसने उपवेशयेत् |
ततः शिष्येण स्पृष्टो गुरुः ह्रीं प्रजापतये स्वाहा |
ह्रीं इन्द्राय स्वाहा |
ह्रीं विष्णवे स्वाहा |
ह्रीं ब्रह्मणे स्वाहा |
ह्रीं शिवायं स्वाहा |
ततो मायादिस्वाहान्तेन नाम्ना दुर्गालक्ष्मीसुन्दरी- भुवनेश्वरीन्द्रादिदशदिक्पालभास्करादिनवग्रहेभ्यं स्वस्वनाम्ना प्रत्येकं जुहुयात् |
ततो माणवकं वाससा आच्छाद्य को वाश्रमस्ते तनय ! ब्रूहि किन्ते मनोगतम् |
ततः शिष्यो गुरुपादद्वयं धृत्वा करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः |
इति प्रार्थयमानस्य शिष्यस्य दक्षकर्णे त्रिधा प्रणवं संश्राव्य सव्याहृतिकां सावित्रीं श्रावयेत् |
अन्याब्रह्मविद्या |
गायत्र्याः सदाशिव ऋषिरनुष्टुप्छन्दः सावित्री देवता मीक्षार्थे विनियोगः |
तदर्थञ्च ज्ञापयेत् |
ततो माणवको भिक्षां कुर्ययात् |
ततो गुरुः ह्रीं ब्रह्मचार्ययुक्तवेशमिति पठेत् |
ततो माणवकः कषायवस्त्रं सकृष्णाजिनयज्ञसूत्रं मेखलां दण्डं भिक्षाकरण्डमर्जितभिक्षाञ्च गुरवे निवेद्य शुद्धयज्ञोपवीतद्वयं शुक्लवस्त्रद्वयञ्च परिधाय धृतगन्धमाल्य आचार्ययसन्निधौ तूष्णीं तिष्ठेत् |
ततो गुरुः |
ह्रीं जितेन्द्रियः सत्यवादीत्यादि पठित्वा शिष्येण हावयेत् |
यथा |
ह्रीं ओं भूः स्वाहा ह्रीं ओं भुवः स्वाहा ह्रीं ओं स्वः स्वाहा इत्यनेन |
ततः स्विष्टिकृद्धोमादिदक्षिणान्तं कर्म समापयेदित्युपनयनम् ||
अथ विवाहः |
तत्र कृतनित्यक्रियः पञ्चदेवतापूजादिवृद्धिश्राधान्तं कर्म कृत्वा रात्रौ गीतवाद्यपुरःसरं वरं छायामण्डपमानीय पूर्वाभिमुखमासने समुपवेशयेत् |
ततो ब्राह्मणैः पुण्याहं वाचयित्वा ह्रीं साधुभवानास्तामिति वरं पृच्छेत् |
ततो वरः |
ह्रीं साध्वहमासे इति वदेत् |
ह्रीं अर्च्चयिष्यामो भवन्तमिति वरं पृच्छेत् |
ह्रीमर्च्चय इति वरो वदेत् |
ह्रीं पाद्यं समर्पयामीत्यादिना पाद्यार्घ्याचमनीयगन्धपुष्पवस्त्रालङ्कारयज्ञसूत्रैर्-वरमभ्यर्च्य ह्रीं मधुपर्कं समर्पयामीति वरहस्ते मधुपर्कं समर्पयेत् |
ततो वरो मधुपर्कं गृहीत्वा वामहस्ते निधाय दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां ह्रीं प्राणाय स्वाहा ह्रीं अपानाय स्वाहा ह्रीं समानाय स्वाहा ह्रीं उदानाय स्वाहा ह्रीं व्यानाय स्वाहा इति मन्त्रेण तन्मधुपर्कद्रव्यं पञ्चधा आघ्नाय तत् पात्रमुदीच्यां दिशि स्थापयेत् |
ततो वराय पुनराचमनीयं दत्त्वा दाता दूर्वाक्षताभ्यां वरस्य दक्षिणं जानु स्पृष्ट्वा विष्णुरोम् तत्सदद्य अमुके मासि अमुकराशिस्थे भास्करे अमुके पक्षे अमुकतिथौ अमुकगोत्रः श्रीअमुकदेवशर्मा अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्मणः प्रपौत्रं पुनर्गोत्राद्युल्लिख्यामुकदेवशर्मणः पौत्रं पुनर्गोत्राद्युल्लिख्यामुकदेवशर्म्मणः पुत्रं पुनर्गोत्रादिद्वितीयान्तमुल्लिख्य श्री-अमुकदेवशर्म्माणमर्च्चितं वरम् |
एवं गोत्रप्रवरनामषष्ठ्यन्तं प्रपितामहपितामहपितॄणामुक्त्वा यथाक्रमं प्रपौत्रीं पौत्रीं पुत्रीञ्चोक्त्वा अमुकगोत्राममुकप्रवरां श्रीअमुकीदेवीं ब्राह्मविवाहेन दातुं भवन्तमहं वृणे इति वदेत् |
वरस्तु ह्रीं वृतोऽस्मीति वदेत् |
तदा यथाविहितं विवाहकर्म कुरु |
वरः ह्रीं यथाज्ञानतः करवाणीति |
ततः सवस्त्रालङ्कारां कन्यां छायामण्डपमानीय वरसम्मुखे स्थापयेत् |
ततो वरहस्ते कन्याहस्तं नियोज्य फलरत्नादिकं दत्त्वा प्राग्वत् सौरमासाद्युल्लेखानन्तरं प्रपितामहपितामहपितॄणां गोत्रप्रवरनामषष्ठ्यन्तमुल्लिख्य यथाक्रमं प्रपौत्राय पौत्राय पुत्राय इत्युक्त्वा अमुकगोत्राय अमुकप्रवराय श्री-अमुकदेवशर्म्मणे वराय इत्युच्चार्यय कन्यायाश्च प्रपितामहपितामहपितॄणां षष्ठ्यन्तं गोत्रप्रवरनामोल्लिख्य प्रपौत्रीं पौत्त्रीं पुत्त्रीमिति यथासम्भवमुच्चार्यय अमुकगोत्राममुकप्रवरां श्रीअमुकीदेवीं कन्यामित्यन्तं त्रिरुच्चार्यय एनामर्चितां साच्छादनालङ्कारां प्रजापतिदेवताममुककामस्तुभ्यमहं सम्प्रददे |
इति वराय दद्यात् |
वरः स्वस्तीति स्वीकुर्ययात् |
ततः सम्प्रदाता धर्मे चार्थे च कामे च भवता भार्ययया सह वर्त्तितव्यम् |
वरो वाढमित्युक्त्वा कामस्तुतिं पठेत् |
ततः सम्प्रदाता कन्याजामातरौ ह्रीं प्रजापति प्रसादेनेत्यादि श्रावयित्वा वस्त्रेणाच्छाद्य सुमङ्गलपुरःसरैर्वरकन्ययोः परस्परमुखावलोकं कारयेत् |
ततः काञ्चनादिकं वराय दक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्ययात् |
ततो वरस्तद्रात्रौ परदिवसे वा कुशण्डिकोक्तविधानेन योजकनामाग्निं संस्हाप्य प्राजापत्यं चरुं श्रपयेत् |
ततो धाराहोमान्तं कर्म कृत्वा ह्रीं शिवाय स्वाहा |
ह्रीं दुर्गायै स्वाहा ह्रीं विष्णवे स्वाहा ह्रीं ब्रह्मणे स्वाहा ह्रीं इन्द्राय स्वाहा इति जुहुयात् |
ततो ह्रीं पाणिं गृह्णामीति मन्त्रं पठित्वा भार्ययायाः पाणिं गृह्णीयात् |
ततः कन्या हस्तस्थेन स्वामिदत्तेन घृतेन भ्रात्राद्याहृतलाजैः प्रजापतिमुद्दिश्य ह्रीं प्रजापतये स्वाहा इति चतुर्धा जुहुयात् |
ततो भार्ययया सह उत्थाय वह्निं प्रदक्षिणीकृत्य ह्रीं दुर्गाशिवाभ्यां स्वाहा ह्रीं ब्राह्मीब्रह्मभ्यां स्वाहा |
इति त्रिधा हुत्वा अश्मारोहणसप्तपदीगमने अमन्त्रकं कारयेत् |
रात्रौ चेद्धोमस्तदा स्त्रीभिः सह चन्द्रमरुन्धतीञ्च पश्येत् ||
ततः स्विष्टिकृद्धोमादिदक्षिणान्तं कर्म्म समापयेत् ||
इति विवाहः ||
इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे संस्काररूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः ||
वक्ष्यमाणवचनैर्दीक्षाया अपि संस्काररूपत्वात् संस्कारमध्ये वक्तव्यत्वमुचितम् |
तस्या गुरुमूलतया त्वादौ गुरुप्रकरणमुच्यते |
तत्र गुरुलक्षणं शारादायां द्वितीयपटले ||
मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः |
सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् |
परोपकारनिरतो जपपूजादितत्परः |
अमोघवचनः शान्तो वेदवेदाङ्गपारगः |
योगमार्गार्थसन्धायी देवताहृदयङ्गमः |
इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः |
देवतावत् हृदयङ्गमो मनोहर इत्यर्थः ||
विश्वसारतन्त्रे द्वितीयपटलेऽपि ||
सर्वशास्त्रपरो दक्षः सर्वशास्त्रार्थवित् सदा |
सुवचाः सुन्दरः स्वाङ्गः कुलीनः शुभदर्शनः |
जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः |
पितृमातृहिते युक्तः सर्वकर्मपरायणः |
आश्रमी देशस्थायी च गुरुरेवं विधीयते ||
आश्रमी गृहस्थः |
तथाच मत्स्यसूक्ते महातन्त्रे त्रयोदशपटले ||
मध्यदेशसमुद्भूतः शान्तः सर्वगुणैर्युतः |
पुत्रदारैश्च सम्पन्नो गुरुरागमसम्मतः ||
मध्यदेशसमुद्भूत इति श्रेष्ठत्वदर्शनार्थम् |
तत्प्रमाणन्तु तन्त्रसारकारेणैव लिखितमतोऽत्र न प्रयोजनमिति गुरुलक्षणम् ||
रुद्रजामले पूर्वखण्डीयपञ्चदशपटलोत्तरखण्डीयद्वितीयपटलयोः |
आदौ साधकदेवश्च सदाचारमतिः सदा |
पशुभावस्ततो वीरः सायाह्ने दिव्यभाववान् |
एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः |
शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् |
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् |
आश्रमी ध्यानिष्ठश्च मन्त्रतन्त्रविशारदः |
निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः ||
शान्त इत्याद्येतत् सर्वं रामार्च्चनचन्द्रिकायामपि केवलं शेषचरणे वशीत्यादौ गुरुरित्यभिधीयत इति पाठः ||
शान्तो विषयोत्कटेच्छारहितः शमादिगुणसंयुक्तः |
शमस्तु श्रवणादिकव्यतिरिक्तविषयेभ्यो मनसो निग्रहः |
यथा तीव्रायां बुभुक्षायां जातायां भोजनादन्यो व्यापारो मनसि न रोचते |
भोजनविलम्बञ्च सहते तथा स्रक्चन्दनादिविषयेष्वत्यन्तमभिरुचिस्तत्त्वज्ञानमाधनेषु श्रवणमननादिष्वत्यन्तमभिरुचिश्च जायते इति |
शान्तरूपेण प्रसिद्धो वा |
दान्तस्तपःक्लेशसहः दमयुक्तो वा |
दमस्तु वाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्त्तनम् |
ज्ञानसाधनश्रवणादिसाधनेभ्यो विलक्षणेषु शब्दादिविषयेषु प्रवर्त्तमानानि श्रोत्रादीनि वाह्येन्द्रियाणि येन वृत्तिविशेषेण निवर्त्तन्ते स दम इत्यभिप्रायः |
अत - एव शान्तोऽन्तरिन्द्रियनिग्रहकर्त्ता दान्तो वहिरिन्द्रियनिग्रहकर्त्ता इति वेदान्तविद्भिरुक्तम् ||
वृहन्नीलमन्त्रे तृतीयपटलेऽपि |
वहिरिन्द्रियहर्त्ता च गुरुः सर्वत्र दुर्लभः |
अन्तरिन्द्रियहर्त्ता च गुरुः सर्वत्र शोभनः |
आचारवान्महाविद्याराधनिष्ठश्च तत्परः |
तत्कल्पाचारसंसक्तो गुरुरित्यभिधीयत्र इति |
कुलीनः कौलः |
एतेषामित्यादिवचनान्यदृष्ट्वा कुलीनः शुद्धजन्मा आचारादिनवगुणशाली वेति कश्चित् स्वबुद्ध्या व्याचष्टे एतदतीव मन्दम् |
वक्ष्यमाणसारसंग्रहवचने विशुद्धमातापितृककुलीनेति द्वयोरुपादानात् |
येनैवं व्याख्यायते तस्य सन्देहस्तु विष्णुमन्त्रोपदेष्टरि कुलाचाराभाव इति |
स तु सन्देहः कामाख्याकुलार्णवरुद्रजामलादीनामद्रष्टुरेव स्फुरति |
तत्र तु सौरगाणपत्यशैववैष्णवशाक्तानां सर्वेषां कुलावारोपदेशस्य सुस्पष्टत्वादिति तत्प्रमाणमग्रे लिखितव्यमिति |
गुरुकरणे वर्जनीयप्रकरणे श्यावदन्तं कुलाचाररहितमित्यादिपञ्चाचारविवर्जितमिति च वक्ष्यमाणं तेन न दृष्टमिति |
अत एव कुलीनः सर्वमन्त्राणामधिकारीति गीयते |
दीक्षाप्रभुः स एवात्मा सर्वमन्त्रस्य नापरः |
इति तन्त्रसारधृतं साधु सङ्गच्छते ||
कामाख्यातन्रे तृतीयपटलेऽपि ||
शान्तो दान्तः कुलीनश्च शुद्धान्तःकरणस्तथा |
पञ्चतत्त्वात्मको यस्तु सद्गुरुः स प्रकीर्तितः |
सिद्धोऽसाविति विख्यातो बन्धुभिः शिष्यपालकः |
चमत्कारी दैवशक्त्या सद्गुरुः कथितः प्रिये ! |
अश्रुतं सम्भृतं वक्ति वाक्यं साधु मनोहरम् |
तन्त्रमन्त्रं समावेत्ति य एव सद्गुरुश्च सः ||
महानिर्वाणतन्त्रे दशमोल्लासे च ||
शाक्ते शाक्तो गुरुः शस्तः शैवे शिवो गुरुर्मतः |
वष्णवे वैष्णवः सौरे सौरो गुरुरुदाहृतः |
गाणपे गाणपः ख्यातः कौलः सर्वत्र सद्गुरुः |
अतः सर्वात्मना धीमान् कौलाद्दीक्षां समाचरेत् ||
नानाविकल्पविभ्रान्तिर्नाशमित्यादिसद्गुरुलक्षणं वक्ष्यते |
इति सद्गुरुलक्षणम् ||
तथा ||
पशोर्वक्त्राल्लब्धमन्त्रः पशुरेवं न संशयः |
वीराल्लब्धमनुर्वीरः कौलाच्च ब्रह्मविद्भवेत् ||
वृहन्नीलतन्त्रेऽपि ||
शैवोऽपि परविद्यानामुपदेष्टा न संशयः |
वैष्णवः स्वमतस्थानां सौरः सौरविदां सताम् ||
गाणपत्यस्तु देवेशि ! गणदीक्षाप्रवर्त्तकः |
शैवे शाक्ते च सर्वत्र दीक्षास्वामी न संशयः |
कौलस्तस्मात् प्रयत्नेन कुलीनं गुरुमाश्रयेत् ||
इति कुलीनगुरुप्रशंसा ||
ननु रुद्रजामलीयोत्तरखण्डीयषष्ठपटलोक्तेन |
भावस्तु त्रिविधो देव ! दिव्यवीरपशुक्रमात् |
गुरवस्तिविधाश्चात्र तथैव मन्त्रदेवताः |
इत्यनेन पशुगुरुविषयकमेतद्व्याख्यादीनां वामसिद्धान्तकुलमार्गानुसारिणां वचनैरामार्च्चनचन्द्रिकादिवचने पारिभाषिकं कुलीनमङ्गीकृत्य कथमेतादृग् व्याख्यानं कर्त्तव्यमिति चेन्न ||
महानिर्वाणतन्त्रे कौलस्य सर्वमन्त्रोपदेष्टत्वसद्गुरुत्वयोः स्पष्टमुक्तत्वात् |
एतेन शान्त्या दिगुणवत्त्वे सति अभिशस्तत्वादिदोषरहितत्वं सद्गुरुत्वमिति सद्गुरुलक्षणमर्वाचीनैः कृतमप्यपास्तम् |
कौलस्यैव सद्गुरुत्वेनोक्तत्वात् |
अथ कुलीनः शुद्धवंशजन्मा आचारादिनवगुणशालीव इतीतरलोकप्रसिद्धकुलीनव्याख्यानेन को दोष इति चेन्न |
तन्त्रशास्त्रे कूटार्थकल्पनाया निन्दाश्रुतेः |
यथा महानिर्वाणतन्त्रे एकादशोल्लासे ||
एतस्मिन् शाम्भवे शास्त्रे व्यक्तार्थपदवृंहिते |
कूटेनार्थं कल्पयन्तः पतिता यान्त्यधोगतिम् ||
रुद्रजामले उत्तरखण्डे द्वितीयपटले ||
नीरोगी निरहङ्कारो विकाररहितो महान् |
तपस्वी सत्यवादी च सदा ध्यानपरायणः |
आगमार्थविशिष्टज्ञो निजधर्मपरायणः |
अव्यक्तलिङ्गचिह्नस्थो भावको भद्रदानवान् |
लक्ष्मीमान् धृतिमान्नाथो गुरुरित्यभिधीयते ||
गुरुनाथाचार्ययशब्दानां व्युत्पत्तिस्तु कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे |
गुह्यागमार्थतत्त्वानुसन्धानाद्बोधनादपि |
रुद्रादिदेवरूपत्वाद्गुरुरिन्यभिधीयते |
श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् |
स्थगितज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये ! |
स्वयमाचरते शिष्यानाचारे स्थापयत्यपि |
आचिनोति हि शास्त्रार्थानाचार्ययस्तेन कथ्यते |
चराचरसमासन्नमध्यापयति यः स्वयम् |
यमादियोगसिद्धत्वादाचार्यय इति कथ्यते ||
शाक्तानन्दतरङ्गिणीधृतसारसंग्रहे ||
विशुद्धमातापितृको जितेन्द्रियः सर्वागमज्ञः परदुःखकातरः |
यथार्थवाग्वेदविदङ्गपारगः शान्तः कुलीनो गुरुरीरितो द्विजः ||
द्विज इत्युपादानान्नान्येभ्यो मन्त्रग्रहणम् |
अनाचारो द्विजो यस्तु वर्णानां गुरुरेव सः ||
इति वचनात् |
स इत्यनेनैवकारः सम्बध्यते |
स एव गुरुरित्यनेन जात्यन्तरं व्यवच्छिद्यते |
गुरुशब्देनैवकारः सम्बध्यते व्यावृत्तेरभावात् ||
कुलमूलावतारकल्पसूत्रटीकाधृतनवचक्रेश्वरे ||
शिवरूपं समादाय भवपाशनिवृत्तये |
सिद्धान्तसारवेत्ताहं सिद्धान्तसारभेदकः |
अविच्छिन्नाप्रमत्तश्च सदानुग्रहनिग्रहे |
शिवोदिव्याकृतिर्देवि ! न च दृग्गोचरोऽप्यहम् |
तथा श्रीगुरुरूपेण शिष्यान् शास्यामि पार्वति ! |
परं संवित्तिजननं परानन्दसमुद्भवम् |
तत्तत्त्वं विदितं येन स गुरुः कुलनायिके ! |
भूतभव्यौ मन्त्रतन्त्रौ शाम्भवं वेत्ति यः सदा |
वेधस्य षड्विधं देवि ! स गुरुः कुलनायिके ! |
वर्णं कलां पदं तत्त्वं मन्त्रं भुवनमेव च |
बोधयेद्यः षडध्वानं स गुरुः कुलनायिके ! |
षडाधारं नवद्वारं षोडशाधारनिर्णयम् |
यो जानाति विधानेन स गुरुः कुलनायिके ! |
जाग्रत्स्वप्नसुषुप्तिञ्च रूपञ्च तदतीतकम् |
यो वेत्ति पञ्चकं देवि ! स गुरुः कुलानायिके ! ||
सम्मोहनतन्त्रे प्रथमपटलेऽपि ||
षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् |
स्वदेहे यो विजानाति स गुरुः कथितो बुधैः ||
क्रमेणैतानि व्याख्यायन्ते |
यः षडध्वानं शिष्यं बोधयेत् स गुरुरित्यन्वयः |
अध्वानमाह वर्णमित्यादि |
एतान् षडध्वनो दीक्षाप्रकरणे स्पष्टीकरिष्ये |
षडाधारं षट्चक्राणि पृथिव्यादीनामाधाररूपत्वात् |
नवद्वारं दृक्श्रोत्रास्यनासिकागुह्यलिङ्गच्छिद्ररूपम् |
उक्तञ्च सम्मोहनतन्त्रे द्वितीयपटलेऽपि |
नवद्वारं नवच्छिद्रं पुरं वपुः प्रकीर्त्तीतम् |
नवपद्माणि चक्राणि त्रिसूत्रं नाडिकात्रयमिति |
षोडशाधारस्वरूपमपि तत्रैव ||
मूलाधारस्वाधिष्ठानं मणिपूरमनाहतम् |
विशुद्धमाज्ञाचक्रञ्च बिन्दुर्भूयः कलापदम् |
निबोधिका तथार्द्धेन्दुर्नादो नादान्त एव च |
उन्मनी विष्णुवक्त्रञ्च ध्रुवमण्डलिका ततः |
इत्येतत् षोडशाधारं कथितं योगिदुर्लभमिति |
विधानेन प्रयत्नेन प्राणायामादिनेति यावत् |
जाग्रत्स्वप्नसुषुप्तिमिति बुद्धेरावर्त्तत्रयरूपम् |
बिन्दुस्तदतीतं निरञ्जनमित्यग्रे स्पष्टीभविष्यति |
त्रिलक्षादिकमपि तत्रैव स्वयम्भूर्वाण इतरस्त्रिलक्षं परिकीर्त्तितम् |
पृथिव्यादीनि भूतानि कथितं व्योमपञ्चकमिति |
तत्र स्वयम्भूलिङ्गं मूलाधारे वाणलिङ्गमनाहते |
इतरमाज्ञाचक्रे ||
नवचक्रेश्वरे ||
पिण्डं पदं तथा रूपं रूपातीतं चतुष्टयम् |
यो वा सम्यग् विजानाति स गुरुः परिकीर्तितः |
पिण्डादिचतुष्टयं स्पष्टीकृतं गुरुगीतायाम् |
पिण्डं कुण्डलिनीशक्तिः पदं हंसः प्रकीर्त्तितः |
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ||
नवचक्रेश्वरे ||
यो वा पराञ्च पश्यन्तीं मध्यमामपि वैखरीम् |
चतुष्टयं विजानाति स गुरुः परिकीर्त्तितः ||
इति गुरुविशेषलक्षणम् ||
रुद्रजामले उत्तरखण्डे प्रथमपटले ||
गुरुमूलं जगत् सर्वं गुरुमूलं परं तपः |
गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी ||
मुण्डमालातन्त्र प्रथमपटले ||
गुरुरेकः शिवः साक्षात् गुरुः सर्वार्थसाधकः |
गुरुरेव परं तत्त्वं सर्वं गुरुमयं जगत् |
विना गुरुप्रसादेन कोटिपुरश्चरणेन किम् |
पिञ्छिलातन्त्रे पूर्वखण्डे प्रथमपटलेऽपि |
गुरुमूलमिदं शास्त्रं नान्यः शिवतमः प्रभुः |
अत-एव महेशानि ! यत्नतो गुरुमाश्रयेत् ||
इति गुरुमाहात्म्यम् ||
रुद्रजामले पूर्वखण्डे चतुर्दशपटले ||
गुरुं विना यस्तु मूढः पुस्तकादिविलोकनात् |
जपबन्धं समाप्नोति किल्विषं परमेश्वरि ! |
न माता न पिता भ्राता तस्य को वा गतिः प्रिये ! |
गुरुरेको वरारोहे ! पापं नाशयति क्षणात् |
गुरुं विना यतस्तन्त्रे नाधिकारः कथञ्चन |
अत - एव प्रयत्नेन गुरुः कर्त्तव्य उत्तमः ||
इति शास्त्रे गुरोरावश्यकत्वम् |
जामले ||
गुरुरेकः शिवः प्रोक्तः सोऽहं देवि ! न संशयः |
गुरुस्त्वमपि देवेशि ! मन्त्रोऽपि गुरुरुच्यते |
अतो मन्त्रे गुरौ देवे न हि भेदः प्रजायते |
कदाचित् ससहस्रारे पद्मे ध्येयो गुरुः सदा |
कदाचित् हृदयाम्भोजे कदाचिदृष्टिगोचरे ||
मुण्डमालातन्त्रे ||
देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया |
तदा सिद्धो भवेन्मन्त्रः प्रकटे हानिरेव च ||
पार्वत्युवाच ||
ऐक्यज्ञानं महादेव ! कथमुत्पद्यते प्रभो ! |
नराकृतिं गुरुं मन्ये देवता ध्यानरूपिणी |
मन्त्रश्चाक्षररूपो हि कथमैक्यं भवेच्छिव ! ||
शिव उवाच ||
एकजातिस्वरूपेण स्वभावादेकजन्मतः |
एतेषां भावयोगे तु एकसाधनमेव हि |
गुरोर्जातश्च मन्त्रश्च मन्त्राज्जाता तु देवता |
अत - एव वरारोहे ! देवतायाः पितामहः |
पितुश्च भावनाद्देवि ! यथा चैव पितुः पितुः |
तदुद्भवस्तोषमेति विपरीते विपर्यययः ||
अयमभिप्रायः |
एकजातिस्वरूपेणेति निराकारस्वरूपेणेति तात्पर्ययम् ||
तथा हि महाकालस्यैव गुरुत्वेन वक्ष्यमाणत्वान्मन्त्रस्य ध्वनिमयत्वाद्देवताया आकारस्य कल्पितत्वाच्च त्रयाणां निराकारत्वमवगन्तव्यम् |
एकप्रकारसाधनत्वेनेति वा |
गुरोर्जातश्च मन्त्रश्चेत्यनेन यथा पुत्रपौत्राभ्यां पितुरंशजत्वेनैक्यं तथा गुरुमन्त्रदेवतानामिति मन्तत्रयेणैक्यं दर्शितम् ||
यद्वामातृकाभेदतन्त्रे दशमपटले ||
श्रीदेव्युवाच ||
नराकृतिं गुरुं नाथ ! मन्त्रवर्णात्मकं सदा |
ध्यानानुरूपिणं देवमेकत्वं वा कथं वद ||
श्रीशिव उवाच ||
गुरुवक्त्रान्महामन्त्रो लभ्यते साधकोत्तमैः |
यद्देवाज्जायते वीजस्तस्य मुक्तिर्भवेद्ध्रुवम् |
देवतायाः शरीरं हि वीजादुत्पद्यते प्रिये ! |
गुरोराज्ञानुसारेण चान्यमूर्त्तिस्तु जायते |
गुर्वादिभावनाद्देवि ! भावसिद्धिः प्रजायते |
अत - एव महेशानि ! चैकत्वं परिकथ्यते ||
मुण्डमालातन्त्रे ||
मन्त्रे वा गुरुदेवे वा न भेदं यस्तु कल्पते |
तस्य तुष्टा जगद्धात्री किन्न दद्याद्दिने दिने ||
इति गुरुमन्त्रदेवतानामेकत्वप्रकारकथनम् ||
गुरुतन्त्रे ||
गुरुः कर्ता गुरुर्हर्ता गुरुः पाता महीतले |
गुरुसन्तोषमात्रेण तुष्टाः स्युः सर्वदेवताः |
वामकेश्वरतन्त्रे एकपञ्चाशत्पटलेऽप्येतद्वचनम् |
किन्तु पातेत्यत्र गुरुर्दातेति पाठः |
गुरौ तुष्टे शिवस्तुष्टो रुष्टे रुष्टस्त्रिलोचनः |
गुरौ तुष्टे शिवा तुष्टा रुष्टे रुष्टा च सुन्दरी |
अतो गुरुर्महेशानि ! संसारार्णवलङ्घने |
कर्त्ता पाता च हर्त्ता च गुरुर्मोक्षप्रदायकः ||
इति गुरुतुष्ट्यादिफलम् ||
शाक्तानन्दतरङ्गिणीधृतरुद्रजामले |
गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः |
उकारः शम्भुरित्युक्तस्त्रितयात्मा गुरुः स्मृतः ||
कङ्कालमालिनीतन्त्रे प्रथमपटले ||
निर्गुणञ्च परंब्रह्म गुरुरित्यक्षरद्वयम् |
महामन्त्रं महादेवि ! गोपनीयं परात्परम् ||
गुरुतन्त्रे ||
गुरुरित्यक्षरं यस्य जिह्वाग्रे देवि ! वर्त्तते |
तस्य किं विद्यते मोहः पाठैर्वेदस्य किं वृथा |
गकारोच्चारणमात्रेण ब्रह्महत्या व्यपोहति |
उकारोच्चारमात्रेण मुच्यते जन्मपातकात् |
रेफोच्चारणमात्रेण उकारोच्चारणात् पुनः |
विसर्गोच्चारणात् कोटिजन्मजं पातकं हरेत् |
गुरुरित्यक्षरं देवि ! जपतो मम निश्चितम् |
ब्रह्महत्या पुरा मुक्ता सत्यमेतन्न संशयः |
परशुरामो मातृबधात् देवेन्द्रो ब्रह्महिंसनात् ||
पातकादपि मुक्तोऽभूत् गुरोरुच्चारमात्रतः ||
इति गुरुशब्दोच्चारणफलम् ||
तत्रैव ||
ब्रह्मा विष्णुश्च रुद्रश्च पार्वती परमेश्वरी |
इन्द्रादयस्तथा देवा यक्षाद्याः पितृदेवताः |
गङ्गाद्याः सरितः सर्वा गन्धर्वाः सर्पजातयः |
स्थावरा जङ्गमाश्चान्ये पर्वताः सार्वभौतिकाः |
एते चान्ये च तिष्ठन्ति नित्यं गुरुकलेवरे |
श्रीगुरोस्तृप्तिमात्रेण तृप्तिरेषाञ्च जायते ||
इति गुरौ तृप्ते जगत्तृप्तिकथनम् ||
तत्रैव ||
न गुरोरधिकं शास्त्रं न गोरोरधिकं तपः |
न गुरोरधिको मन्त्रो न गुरोरधिकं फलम् |
न गुरोरधिका देवि न गुरोरधिकः शिवः |
न गुरोरधिका मूर्त्तिर्न गुरोरधिको जपः ||
विश्वसारतन्त्रीयगुरुगीतायाम् ||
गुरोर्मूर्त्तेः सदा ध्यानं गुरोस्तत्त्वं सदा जपेत् |
काशीक्षेत्रं निवासोऽस्य जाह्नवी चरणोदकम् |
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् |
तथा |
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् |
मन्त्रमूलं गुरोर्वाक्यं सिद्धिमूलं गुरोः कृपा |
तथा |
मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि |
कालमृत्युभयाच्चा?पि गुरूरक्षति पार्वति ! ||
गुप्तसाधनतन्त्रे द्वितीयपटले ||
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः |
गुरुस्तीर्थं गुरुर्यज्ञो गुरुर्दानं गुरुस्तपः |
गुरुरग्निर्गुरुः सूर्ययः सर्वं गुरुमयं जगत् ||
इति सर्वेभ्यो गुरोराधिक्यकथनम् ||
किं दानेन किं तपसा किमन्यत्तीर्थसेवया |
श्रीगुरोरर्च्चितौ येन पादौ तेनार्च्चितं जगत् |
ब्रह्माण्डभाण्डमध्ये तु यानि तीर्थानि सन्ति वै |
गुरोः पादतले तानि निवसन्ति हि सन्ततम् |
इत्यनेन गुरुपादार्च्चनवशात् विश्वपूजासिद्धिः स्पष्टमवगम्यते ||
इति गुरुपूजने जगत् पूजनसिद्धिकथनम् ||
पिञ्छिलातन्त्रे ||
गुरुस्तु द्विविधः प्रोक्तो दीक्षाशिक्षाप्रभेदतः |
आदौ दीक्षागुरुः प्रोक्तः शेषे शिक्षागुरुर्मतः |
यन्मुखात्तु महामन्त्रः श्रूयतेऽभ्यस्यतेऽपि वा |
स गुरुः परमो ज्ञेयस्तदाज्ञा सिद्धिदायिनी |
कुलमूलावतारकल्पसूत्रटीकाधृतकुलागमे ||
प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा |
शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः |
पञ्चैते कार्ययभूता स्युः कारणं बोधको भवेत् ||
इति गुरुभेदकथनम् |
तहा |
तत्त्वज्ञैरुपदिष्टा ये तत्त्वज्ञास्ते न संशयः |
पशुभिश्चोपदिष्टा ये देवि ! ते पशवः स्मृताः |
अभिज्ञश्चोद्धरेन्मूर्खं न मूर्खो मूर्खमुद्धरेत् |
शिलां सन्तारयेल्लौहो न शिला तारयेच्छिलाम् ||
अत-एव गुरुतन्त्रे ||
गुरवो बहवः सन्ति शिष्यवितापहारकाः |
तमेकं दुर्लभं मन्ये शिष्यहृत्तापनाशकम् |
एकः श्रेष्ठो भवेत्तेषां भुक्तिमुक्तिप्रदायकः |
इति तत्त्वज्ञगुरुकरणवीजम् ||
योगिनीतन्त्रे पूर्वखण्डे प्रथमपटले ||
श्रीदेव्युवाच ||
गुरुः को वां महेशान ! वद मे करुणामय ! |
त्वत्तोऽप्यधिक एवायं गुरुस्त्वया प्रकीर्त्तितः |
श्री-ईश्वर उवाच ||
आदिनाथो महादेवि ! महाकालो हि यः स्मृतः |
गुरुः स एव देवेशि ! सर्वमन्त्रेषु नापरः |
शैवे शाक्ते वैष्णवे च गाणपत्ये तथैन्दवे |
महाशैवे च सौरे च स गुरुर्नात्र संशयः |
मन्त्रवक्ता स एव स्यान्नापरः परमेश्वरि ! |
मन्त्रप्रदानकाले हि मानुषे गिरिनन्दिनि ! |
अधिष्ठानं भवेत्तस्य महाकालस्य शङ्करि ! |
अतो न गुरुता देवि ! मानुषे नात्र संशयः |
मन्त्रदाता शिवः पद्मे यद्ध्यानं कुरुते गुरोः |
तद्ध्याननं कुरुते देवि ! शिष्योऽपि शीर्षशङ्कजे |
तद्ध्यानं शिष्यशिरसि चोपदिष्टं न चान्यथा |
इति कामाख्यातन्त्रे तृतीयपटले शेषार्द्धम् ||
अत-एव महेशानि ! एक एव गुरुः स्मृतः |
अधिष्ठानवशात्तस्य मानुषस्य महेश्वरि ! |
माहात्म्यं कीर्त्तितं तस्य सर्वशास्त्रेषु शङ्करि ! ||
कामाख्यातन्त्रे तृतीयपटलेऽपि ||
अत-एव महेशानि ! कृतो हि मानुषो गुरुः |
मानुषे गुरुता देवि ! कल्पना न तु मुख्यतः |
मोक्षो न जायते देवि ! मानुषे गुरुभावनादिति ||
तथा |
अत-एव गुरुर्नैव मनुजः किन्तु कल्पना |
दीक्षादौ साधकानाञ्च वृक्षादौ पूजनं यथा |
ननु यदि मानुषश्चेन्न गुरुस्तदा |
अविद्यो वा सविद्यो वा गुरुः परमदैवतम् |
इत्यादितन्त्रसारधृतवचनस्य का गतिरिति चेत् सत्यं प्रागुक्तवृक्षादिवन्माननीयत्वेनोक्तम् |
न तु वस्तुतस्तथात्वे वक्ष्यमाणगुरौ मनुष्यबुद्धीत्यादिवचनं गुरौ मनुष्यताबुद्धिमित्यादितन्त्रसारकारधृतञ्च न सङ्गच्छते |
घटस्य छिद्रव्रणादिदोषवन्महापातकादिदोषो मनुष्यस्य इति सुधीभिर्ध्येयम् ||
गुरुतन्त्रेऽपि ||
एक एव गुरुर्देवि ! सर्वत्र परिगीयते |
भेदस्तस्य न कर्त्तव्यः सर्वं गुरुमयं जगत् ||
इति वचनाद्गुरोर्नित्यत्वेन गुरुमरणे त्रिरात्राशौचमिति वदन्तो मूर्खा एव |
अशौचादेः स्मृत्युक्तत्वेन गुरुमरणाशौचं स्मृत्युक्तगुरुपरं वैदिकगुरुपरं वा |
यदि च मत्स्यसूक्तादिवचनानुसारेण तान्त्रिकगुरुपरमप्यङ्गीकुर्वते |
तदपि कुलागमप्रोक्तप्रेरकादिगुरुपरम् |
पश्वाचारयुक्तशिष्यस्य कर्त्तव्यत्वेनोक्तं वेति केचित् |
न तु बोधकगुरुपरमिति सुधीभिर्येयम् |
विशेषं शृणु वक्ष्यामि माहात्म्यं गुरुगोचरम् |
पशुमन्त्रप्रदाने तु मर्ययादा दशपौरुषी |
वीरमन्त्रप्रदाने तु पञ्चविंशतिपौरुषी |
महाविद्यासु सर्वासु पञ्चाशत्पौरुषी मता |
ब्रह्मयोगप्रदाने तु मर्यादा शतपौरुषी |
अयमभिप्रायः |
पाश्वाचारादिमतप्रदेयमन्त्रो यदि शिष्येण गुरुतो गृहीतस्तदनन्तरं शिष्यसन्तत्या गुर्वन्तराद् यदि मन्त्रो गृहीतस्तथापि पैतृकगुरुत्यागजन्यदुरदृष्टशालिना पैतृकनुरुदशमादिवंशपर्ययन्तं स्वीयदशमादिवंशावधिकेन गुरुवन्मर्ययादा कार्यया |
अन्यथा प्रत्येकेन प्रत्येकतो यदि मन्त्रो गृह्यते तदा तेषां सर्वेषां गुरुतया वंशमर्ययादाकल्पनमनर्थकं स्यादिति त्यक्तगुरुवंशमर्ययादाकथनम् |
यद्वा वक्ष्यमाणकामाख्यातन्त्रोक्तवचनेन लुब्धदुष्टादिगुरुत्यागस्य वैधत्वेन यदि शिष्येण स गुरुस्त्यज्यते तथापि तद्वंशमर्ययादार्थमेतदुक्तम् |
दिव्यवीरगुर्वोरपि दोषदुष्टत्वे स्थाज्य?त्वं वक्ष्यते |
एवञ्च गुरुत्यागाद्भवेन्मृत्युरित्यादितन्त्रसारकारधृत- वचनमदुष्टादिगुरुत्यागे बोध्यम् ||
शाक्तानन्दतरङ्गिणीधृतमहिषमर्दिनीतन्त्रे ||
मानवस्य महेशानि ! सङ्क्षेपात्विगदामि ते |
गुरुः परगुरुश्चैव परापरगुरुस्तथा |
श्वगुरुः परमेशानि ! साक्षाद्वश्च न संशयः |
तत्पिता परमगुरुः स्वयं विष्णुः क्षितौ सदा |
तत्पिता परापरगुरुर्महेश्वरसमः सदा |
वृहन्नीलतन्त्रे द्वितीयपटले तु ||
परापरगुरूणाञ्च निर्णयं शृणु पार्वति ! |
आदौ सर्वत्र देवेशि ! मन्त्रदः परमो गुरुः |
परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ||
कुलार्णवतन्त्रे |
पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ! |
सर्वं गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ||
पारम्पर्ययशब्दव्युत्पत्तिस्तु सप्तदशोल्लासे ||
पाशच्छेदकराद्देवि ! रञ्जनात्परतेजसः |
जातिभिश्छिद्यमानाच्च पारम्पर्ययमितीरितम् ||
अथ स्त्रीगुरुलक्षणम् ||
रुद्रजामले उत्तरखण्डद्वितीयपटलपूर्वखण्डपञ्चदशपटलयोः ||
साध्वीचैव सदाचारा गुरुभक्ता जितेन्द्रिया |
सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता |
सर्वलक्षणसम्पन्ना रूषिका पद्मलोचना |
रत्नालङ्कारसंयुक्ता स्वर्णाभरणभूषिता |
शान्ता कुलीना कुलजा चन्द्रास्या सर्वबुद्धिगा |
अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया |
गुरुरूपा शक्तिदात्री शिवज्ञानविरूपिणी |
गुरुयोग्या भवेत् सा हि विधवा परिवर्जिता |
स्त्रिया दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता |
पुत्त्रिणी विधवा ग्राह्या केवलानन्दकारिणी |
सिद्धमन्त्रं यदि तदा गृह्णीयाद्विधबामुखे |
केवलं सुफलं तत्र मातुरष्टगुणं स्मृतम् |
स्वयं वा स्वप्नविलये ददाति यदि मन्मनुम् |
तत्राष्टगुणमाप्नोति यदि सा पुत्रिणी सती |
यदि माता स्वीयमन्त्रं ददाति तनुजाय च |
तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न संशयः |
तदेव दुर्लभं देव ! यदि मात्रा प्रदीयते |
आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कामरूपधृक् |
सहस्रकोटिविद्यार्थं जानाति नात्र संशयः |
स्वप्ने वा यदि वा माता ददाति च स्वमन्त्रकम् |
पुनर्दीक्षां सोऽपि कृत्वा दानवत्वमवाप्नुयात् |
यदि भास्यवशेनैव जननीच्छानुवर्त्तिनी |
तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् |
स्वीयमन्त्रोपदेशेन न कुर्ययाद्गुरुचिन्तनम् ||
इति स्त्रीगुरुकथनम् ||
गुरौ कर्त्तव्ये वर्ज्जनीयमाह रुद्रजामलीयोत्तरखण्डीयद्वितीय- पटलपूर्वखण्डीयपञ्चदशपटलयोः ||
वर्ज्जयेच्च परानन्दरहितं रूपवर्ज्जितम् |
निन्दितं रोगिणं क्रूरं महापातकिनं गुरुम् |
अष्टप्रकारकुष्ठे च गलत्कुष्ठिनमेव च |
श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा |
स्वर्णविक्रयिणं चौरं बुद्धिहीनं सुखर्वरम् |
श्यावदन्तं कुलाचाररहितं शान्तिवर्ज्जितम् |
सकलङ्कं नेत्ररोगपीडितं परदारगम् |
असंस्कारप्रवक्तारं स्त्रीजितञ्चाधिकाङ्कम् |
कपटात्मानमेवञ्च विशिष्टं बहुजल्पकम् |
बह्वाशिनं हि कृपणं मिथ्यावादिनमेव च |
अशान्तं भावहीनञ्च पञ्चाचारविवर्जितम् |
दोषजालैः पूजिताङ्गं पूजयेन्न गुरुं विना |
गुरुं विना न पूजयेदित्यभिधानात् गुरौ कृते यः कुष्ठादिदोषदुष्टो भवति तं पूजयेत् |
गुरुकरणसमये तु यः कुष्ठादिस्तं वर्जयेदिति वचनस्य तात्पर्ययम् |
तच्चोक्तं महापातकिनं गुरुं वर्जयेदिति तदपि भाविनि भूतवदुपचार इति कर्त्तव्यगुरुपरमन्यथा पूर्वापरलिखितैकग्रन्थयोर्वैषम्यं स्यात् ||
निरुत्तरतन्त्रे द्वादशपटले ||
पशुं शठञ्च धूर्त्तञ्च चुम्बकञ्च विशेषतः |
धर्मार्थकाममोक्षार्थी गुरत्वेन न चार्च्चयेत् ||
जामले पूर्वखण्डे पञ्चदशपटले तु ||
गुरोर्विचारः सर्वत्र तातमातामहं विना |
प्रमादाच्च यदा ताभ्यां दीक्षाविधिमुपाचरेत् |
प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् |
सावित्री मन्त्रजापञ्च लक्षसंख्यं जगत्पतेः |
विष्णोर्वा प्रणवं लक्षं प्रायश्चित्तमिति स्मृतम् |
अशक्तश्चेन्महादेवि ! चायुतं प्रजपेन्मनुम् |
दशसाहस्र्यजप्येन सर्वकिल्विषनाशिनी |
गायत्री छन्दसां माता पापराशितुलानलः |
कठिनञ्च रिपुञ्चैव सोदरं वैरिपक्षिणम् |
मातामहञ्च पितरं यतिनं वनवासिनम् |
वर्ज्जयित्वा च शिष्येन्द्रो दीक्षाविधिमुदाचरेत् |
अन्यथा तद्विरोधेन कायनाशो भवेद्ध्रुवम् |
सिद्धमन्त्रञ्च गृह्णीयाद्दुष्कुलादपि भैरवि ! |
स्वप्ने तु नियमो नास्ति दीक्षासु गुरुशिष्ययोः |
स्वप्नलब्धे स्त्रिया दत्ते संस्कारेणैव शुध्यति ||
राघवभट्टधृतमहाकपिलपञ्चरात्रे ||
नातिबालो न वृद्धश्च न खञ्जो न कृशस्तथा |
नाधिकाङ्गो न हीनाङ्गो न खल्वाटो न दन्तुरः |
वीरमित्रोदयधृतकल्पचिन्तामणौ ||
क्षयरोगी च दुश्चर्मा कुनखी श्यावदन्तकः |
कर्णान्धः कुसुमाक्षश्च खल्वाटः खञ्जरीटकः ||
कर्णान्धो वधिरः |
खञ्जरीटः खञ्जः ||
अङ्गहीनोऽतिरिक्ताङ्गः पिङ्गाक्षः पूतिनासिकः |
वृद्धाण्डो वामनः कुब्जः श्वित्री चैव नपुंसकः |
पूतिनासिको दुर्गन्धिनासिकः |
इत्याद्यैर्देहजैर्दोषैः संयुक्तो निन्दितो गुरुः |
संस्काररहितो मूर्खो वेदशास्त्रविवर्जितः |
श्रौतस्मार्त्तक्रियाशून्यः शुष्कभाषः सुकुत्सितः |
पुरयाजनजीवी च नरो वैद्यश्च कामुकः |
क्रूरो दम्भी मत्सरी च व्यसनी कृपणः खलः |
कुसङ्गी नास्तिको भीतो महापातकचिह्नितः |
देवाग्निगुरुविद्यादिपूजाविधिपराङ्मुखः |
सन्ध्यातर्पणपूजादिमन्त्रज्ञानविवर्ज्जितः |
आलस्योपहतो भोगी धर्म्महीन उपश्रुतः |
इत्याद्यैर्बहुभिर्दोषैरागमोक्तैश्च यत्नतः |
वर्जनीयो गुरुः प्राज्ञैर्दीक्षासु स्थापनादिषु ||
मत्स्यसूक्ते त्रयोदशपटले ||
अपुत्रश्चासुतपत्नीकः शक्तिहीनोऽथ वामनः |
कुब्जः कुष्ठः श्यावदन्तो वृषलीपतिरेव च |
मातामहस्यानुजस्य सोदरस्य तथैव च |
पित्रोर्मन्त्रं न गृह्णीयात्तथा चैवाश्रितस्य च |
कदाचिद्यदि गृह्णाति पुनः संस्कारमर्हति ||
त्याज्यगुरुसाह कामाख्यायां तृतीयपटले ||
मानुषे गुरुत्वस्य कल्पनामात्रमुक्त्वा |
यथा भोक्त्रे तु भोज्यं हि स्वर्णादिपात्रके न च |
दीयते च यथा देवि ! तस्मै सर्वसमर्पणम् |
यदि निन्द्यञ्च तत्पात्रं स्वर्णं वापि कुलेश्वरि ! |
तदा त्यजेत्तु तत्पात्रमन्यपात्रेण भोजयेत् |
अतो हि मनुजं लुब्धं दुष्टं शिष्यो हि सन्त्यजेत् |
सर्वेषां भुवने सत्यं ज्ञानाय गुरुरेव हि |
ज्ञानान्मोक्षमवाप्नोति तस्माज्ज्ञानं परात्परम् |
अतो यो ज्ञानदानं हि न क्षमेत्तं त्यजेद्गुरुम् |
अन्नाकाङ्क्षी निरन्नं हि यथा सन्त्यजति प्रिये ! |
ज्ञानं तत्र समाभाति स गुरुः शिव एव हि |
अ ज्ञानिनं वर्ज्जयित्वा शरणं ज्ञानिनां व्रजेत् |
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् |
ज्ञानलुब्दस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ||
तथा |
पूर्वोक्तदोषयुक्तश्चेद्दिव्यो वा वीर एव वा |
तयोरपि न कर्त्तव्या शिष्येण गुरुभावना |
किन्तु कार्यय हितैषित्वं गुरुताकल्पनं त्यजेत् ||
कौलानान्तु तत्रैव ||
महाविद्यां सम्प्रदाय वीराचारं ददाति न |
स याति नरकं घोरं शिष्योऽपि पतितो भवेत् |
पशुभावे स्थितो यो हि कालिकातारिणीमनुम् |
दत्त्वाचारं वदेन्नैव नरकान्न निवर्त्तते |
तस्मात् पशुगुरुस्त्याज्यः साधकैः सर्वदा प्रिये ! |
यदि दैवात् पशोर्दीक्षां लभते शाक्त एव च |
कौलात्तु कौलिकीं कृत्वा तन्मनुं पुनरालभेत् ||
इत्युक्तवचनादभिषेकादिना पुनर्गुरुः करणीय इत्यग्रेऽपि वक्ष्यते ||
गुरुता शिष्यत्वापेक्षणीत्यतो गुरुप्रकरणानन्तरं शिष्यप्रकरणमुच्यते ||
तत्र शिष्यशब्दव्युत्पत्तिस्तु कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे ||
शरीरमथ प्राणांश्च सद्गुरुभ्यो निवेद्य यः |
गुरुभ्यः शिष्यतो योगं शिष्य इत्यभिधीयते ||
अथ शिष्यलक्षणम् |
रुद्रजामले उत्तरखण्डे द्वितीयपटले ||
गुरुलक्षणमुक्त्वा |
शिष्यस्तु तादृशो भूत्वा सद्गुरुं पर्ययुपाश्रयेत् ||
कुलमूलावतारकल्पसूत्रटीकायाम् |
चतुर्भिराद्यैः संयुक्तः श्रद्धावान् सुस्थिराशयः |
अलुब्धः स्थिरगात्रश्च प्रेक्षाकारी जितेन्द्रियः |
आस्तिको दृढभक्तिश्च गुरौ मन्त्रे च दैवते |
एवंविधो भवेत् शिष्यस्त्वितरो दुःखकृद्गुरोः ||
चतुर्भिराद्यैः संयुक्तः शमादिचतुष्कयुक्त इत्यर्थः ||
शारदातिलके द्वितीयपटले ||
शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः |
अधीतवेदः कुशलो दूरमुक्तमनोभवः |
हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः |
स्वधर्म्मनिरतो भक्त्या पितृमातृहितोद्यतः |
वाङ्मनःकायवसुभिर्गुरुशुश्रूषणे रतः |
एतादृशगुणोपेतः शिष्यो भवति नापरः |
समाचारतन्त्रे द्वीइयपटले ||
शिष्योऽपि स्वगुणैर्युक्तो गुरुभक्तिरतः सदा |
धर्मकामादिसंयुक्तो गुरुमन्त्रपरायणः |
सत्यबुद्धिर्गुरोर्मन्त्रे देवपूजनतत्परः |
गुरूपदिष्टमार्गे च सत्यबुद्धिरुदारधीः |
एवंलक्षणसंयुक्तः शिष्यश्चापि परीक्षितः ||
मत्स्यसूक्ते महातन्त्रे त्रयोदशपटलेऽपि |
शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः |
अधीतवेदः कुशलो दूरमुक्तमनोभवः |
हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः |
स्वधर्मनिरतो भक्त्या पितृमातृहितोद्यतः |
वाङ्मनःकायवसुभिर्गुरुशुश्रूषणे रतः |
एतादृशगुणोपेतः शिष्यो भवति शङ्करि ! ||
इति शिष्यलक्षणम् ||
रुद्रजामलीयगुरुमाननादिप्रकारविधायकानि |
गुरुः पितेत्यादिजन्महेतुरित्यादि |
सद्गुरुः स्वाश्रितमित्यादिवचनान्यस्मदत्यतिवृद्धप्रपितामह-कृष्णानन्दागमवागीशेन स्वकृततन्त्रसारे लिखितान्यतो नैवात्र प्रयोजनमिति ||
वर्ज्यशिष्यमाह रुद्रजामलपूर्वखण्डपञ्चदशपटलोत्तर-खण्डद्वितीयपटलयोः ||
कामुकं कुटिलं लोकनिन्दितं सत्यवर्ज्जितम् |
अविनीतमसमर्थं प्रजाहीनं रिपुप्रियम् |
सदा पापक्रियायुक्तं विद्याशून्यं जडात्मकम् |
कलिदोषसमूहाङ्गं वेदक्रियाविवर्जितम् |
आश्रमाचारहीनञ्चाशुद्धान्तःकरणोद्यतम् |
सदा श्रद्धाविरहितमधमं क्रोधिनं भ्रमम् |
असच्चरित्रं विगुणं परदारातुरं तथा |
सम्बद्धाङ्गं समूहोग्रमभक्तं द्वैतचेतसम् |
नानानिन्दावृताङ्गञ्च तं शिष्यं वर्जयेद्गुरुः ||
इति निन्द्यशिष्यलक्षणम् ||
जामले ||
यदि न त्यज्यते वीरो धनादिदानहेतुना |
नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् |
क्षणादसिद्धः स भवेच्छिष्यासादितपातकैः |
अकस्मान्नरकं प्राप्य कार्ययनाशाय केवलम् |
विचार्यय यत्नाद्विधिवच्छिष्यसंग्रहमाचरेत् |
अन्यथा शिष्यदोषेण नरकस्थो भवेद्गुरुः |
इति वर्ज्यशिष्यकरणनिन्दा ||
शिष्यकर्त्तव्याकर्त्तव्ये उक्ते रुद्रजामले उत्तरखण्डे प्रथमपटले |
यथा |
न लङ्घयेद्गुरोराज्ञामुत्तरं न वदेत्तथा |
दिवा रात्रौ गुरोराज्ञां दासवत् प्रतिपालयेत् ||
इति गुर्वाज्ञापालनविधिः ||
न शृणुयाद्गुरोर्वाक्यं शृणुयाद्वा पराङ्मुखः |
अहितं वा हितं वापि रौरवं नरकं व्रजेत् |
आज्ञाभङ्गं गुरोर्देवि ! यः करोति स मूढधीः |
प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् ||
तथा एकविंशतिपटले ||
वृथा धर्मं वृथा चर्ययं वृथा दीक्षां वृथा तपः |
वृथा सुकृतिमाख्यातिं गुर्वाज्ञालङ्घने नृणाम् ||
इति गुर्वाज्ञालङ्घनदोषः |
द्वितीयपटले |
आज्ञाभङ्गं तथा निन्दां गुरोरप्रियवर्णनम् |
गुरुद्रोहञ्च यः कुर्यात्तत्संसर्गं न कारयेत् |
कारयेत् इत्यत्र स्वार्थेणिच् न कुर्यादित्यर्थः |
कुलार्णवे पञ्चमखण्डे एकादशोल्लासे ||
गुरुद्रव्याभिलाषी यो गुरुस्त्रीगमनोत्सुकः |
स तिर्ययग्योनिमाप्नोति क्रव्याद्यैर्भक्ष्यते प्रिये ! ||
रुद्रजामले ||
गुरुद्रव्याभिलाषी च गुरुस्त्रीगो भवेद् यदि |
पातकञ्च भवेत्तस्य प्रायश्चित्तं न कारयेत् ||
प्रायश्चित्तं न कारयेदित्यनेनात्यन्तनिषिद्धमिति ध्वनितम् ||
यथा |
कामतो ब्राह्मणबधे निष्कृतिर्न विधीयते |
इति मनुवचनतात्पर्ययमुक्तम् |
भविष्यपुराणे ||
कामतो ब्राह्मणबधे यदेतन्मनुनोदितम् |
एकान्ततो विप्रबधवर्ज्जनार्थमुदीरितम् ||
जामले ||
गुरुं दुष्कृत्य रिपुवन्निर्गत्य परिवादतः |
अरण्ये निर्जने देशे स भवेद्ब्रह्मराक्षसः ||
इति गुर्वनिष्टकरणदोषः |
गुरुगीतायाम् ||
अशक्ता हि सुराः सर्वे अशक्ता मुनयस्तथा |
गुरुशापमृताः क्षीणाः क्षयं यान्ति न संशयः ||
इति गुरुशापजन्यदोषः ||
रुद्रजामले पूर्वखण्डे चतुर्दशपटले ||
गुरोर्निन्दाञ्च पैशुन्यं यः शृणोति दिनान्तरे |
तस्य तद्दिनजां पूजां न तु गृह्णाति सुन्दरी ||
इति गुरुनिन्दाश्रवणदोषः ||
कुलार्णवे द्वादशोल्लासे ||
यत्र श्रीगुरुनिन्दा स्यान्निधाय श्रवणे स्वके |
सद्यस्तस्माद्विनिष्क्रमेद्दूरं न श्रवणं यथा |
गुरोर्नाम स्मरेत् पश्चात् श्रवणे सायसिकिसा |
इति गुरुनिन्दाश्रवणप्रतीकारः ||
जामले ||
गतश्रीश्च गतायुश्च गुरोर्निन्दाकरो नरः |
कल्पकोटिशतं देवि ! नरके पतति ध्रुवम् ||
तथा |
एवं श्रुत्वा महादेवि ! गुरुनिन्दां करोति यः |
स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ||
इति गुरुनिन्दाकरणे दोषः ||
गुरुतन्त्रे ||
गुरौ मनुष्यताबुद्धिः शिष्याणां यदि जायते |
न हि तस्य भवेत् सिद्धिः कल्पकोटिशतैरपि ||
इति गुरौ मनुष्यज्ञानजन्यदोषकथनम् ||
कुलार्णवे ||
आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्णनम् |
गुरद्रोहमिदं प्राहुर्यः कुर्ययात् स तु पातकी |
गुरुकोपात्तु नाशः स्याद्गुरुद्रोहात्तु पातकम् |
विमृत्युर्गुरुनिन्दायां गुर्वनिष्टान्महापदः |
जीवेदग्निं प्रविष्टो वा नरः पीतविषोऽपि वा |
मृत्युहस्तगतो वापि नापराधकरो गुरोः ||
इति गुर्वपराधादिदोषः ||
रुद्रजामले पूर्वखण्डे ||
गुरोस्तु सन्ततिं त्यक्त्वा न गुर्वन्तरमाश्रयेत् |
गुरुनिन्दा न कर्त्तव्या न श्रोतव्या कदाचन ||
इति गुरुसन्ततित्यागनिषेधः ||
गुर्वादिमाननप्रकारश्च पुरश्चरणसोल्लासे दशमपटले ||
गुरुञ्च भावयेन्नित्यं सदा शिवमयं सदा |
गुरोः सुतञ्च चार्वङ्गि ! गणेशसदृशं सदा |
गुरोः स्रुषा वरारोहे ! वाणी लक्ष्मीरिव प्रिये ! |
गुरोः कुलं महेशानि ! भैरवाणां गणं यथा ||
कल्पसूत्रटीकाधृतकुलागमे शाक्तानन्दतरङ्गिण्याञ्च ||
गन्धैर्माल्यैश्च चार्वङ्गि ! पूजयेत् सर्वदा गुरुम् |
गुरोः पत्नीं तथा देवि ! पूजयेद्विधिनामुना ||
गुरुपत्नीपदं गुरुयोषिदुपलक्षणम् |
न तु पत्युर्नो यज्ञसम्बन्धे इति पाणिनिसूत्रानुसारेण विवाहसंस्कृतापरम् |
सुत्रार्थस्तु पतिशब्दस्यान्ते नकारादेशो भवति यज्ञसम्बन्धे गम्यमाने |
यज्ञशब्देनात्र विवाहाङ्गयज्ञ उच्यते |
तथात्वे पञ्चविधगुरुयोषित्पूजाविधानं कुलार्णवोक्तमसङ्गतं स्यात्तथा च |
कुलार्णवतन्त्रे पञ्चमखण्डे प्रथमोल्लासे ||
ऊढा धृता तथा क्रीता मूल्येन च समाहृता |
सकृत् कामगता चापि पञ्चधा गुरुयोषितः |
अलङ्घ्याः पूजनीयाश्चागम्याश्च गुरुयोषितः ||
वृहन्नीलतन्त्रे तृतीयपटले ||
गुरुपत्नी च युवती न संवाह्येत पादयोः |
पुनर्विंशतिवर्षेण गुणदोषौ विजानता |
अत-एव महेशानि ! न कुर्ययात् पादसेवनम् ||
कुलागमे ||
गुरुवद्गुरुपुत्रेषु गुरुवत्तत्सुतादिषु |
पूजयेत् प्रत्यहं भक्त्या अमुना विधिना प्रिये ! ||
पूजाक्रमस्तु तत्रैव ||
गुरोरभावे चार्वङ्गि ! गुरुपत्नीं प्रपूजयेत् |
अभावे अलाभे ||
तदभावे च चार्वङ्गि ! गुरुपुत्रं समर्चयेत् |
तदभावे वरारोहे ! गुरुकन्याञ्च पूजयेत् |
तदभावे च चार्वङ्गि ! गुरुस्नुषां प्रपूजयेत् |
एषामभावे चार्वङ्गि ! गुरुगोत्रं प्रपूजयेत् |
तदभावे वरारोहे ! तथा मातामहस्य च |
मातुलं मातुलानीं वा पूजयेद्विधिनामुना ||
इति गुरुकुलपूजाक्रमकथनम् |
तथा |
पूजाकाले च चार्वङ्गि ! आगच्छेच्छिष्यमन्दिरे |
गुरुर्वा गुरुपत्नी वा पुत्रो वापि समागतः |
ज्येष्ठो वाप्यर्चनामध्ये शिष्यः सर्वार्चनां त्यजेत् |
तमेव पूजयेच्छिष्य इति शास्त्रस्य निर्णयः ||
इति पूजाकाले गुर्वादावागते सति शिष्यकर्त्तव्यम् तत्रैव ||
शिष्यस्य तद्दिनं देवि ! कोटिसूर्ययग्रहैः समम् |
चन्द्रग्रहणकालं हि तद्दिनं वरवर्णिनि ! |
गुरोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते |
तत्क्षणाच्चञ्चलापाङ्गि ! दानं कुर्ययाद्विचक्षणः ||
इति गुरुदर्शनदिनप्रशंसा ||
गुरौ प्रीतिसमापन्ने देवता प्रीतिमाप्नुयात् |
देवे च प्रीतिमापन्ने मन्त्रसिद्धिर्भवेद्ध्रुवम् ||
इति गुरुप्रीतिफलम् ||
मुण्डमालातन्त्रे ||
गुरुपूजां विना देवि ! इष्टपूजां करोति यः |
मन्त्रस्य तस्य तेजांसि हरते भैरवः स्वयम् ||
रुद्रजामले ||
गुरुपूजां विना नाथ ! कोटिपुण्यं वृथावहम् |
अतः सर्वजने ख्यातं गुरुणा सिद्धिमाप्नुयात् ||
राघवभट्टधृतम् ||
गुर्वनुक्ताः क्रियाः सुर्वा निष्फलाः स्युर्यतो ध्रुवम् |
जपो होमार्च्चनविधिः कार्ययो दीक्षान्वितैस्ततः ||
तथा |
प्रणम्य गुरुपादाब्जं ध्यात्वा च गुरुपादुकाम् |
ज्ञात्वा परमतत्त्वं वै यो जपेत् कुलचण्डिकाम् |
स कृतार्थः स धन्यश्च स कुलज्ञः स पण्डितः |
स भावज्ञो महादेवि ! जायते नात्र संशयः ||
गुरुगीतायाम् ||
संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिसेवितसिद्धिमन्त्रम् |
दारिद्र्यदुःखभयशोकविनाशमन्त्रं वन्दे महाभयहरं गुरुदेवमन्त्रम् ||
गुरुतन्त्रे ||
गुरोः सेवा गुरोर्ध्यानं गुरोः स्तोत्रं गुरोर्जपः |
गुरोः पूजा गुरोस्तृप्तिर्गुरोर्भक्तिर्नृणां यदि |
जन्मभाग्यवशाद्देवि ! येषां सञ्जायते क्वचित् |
तेषां मन्त्रो भवेत् सिद्धो जीवन्मुक्ताश्च ते नराः |
गुरोर्गेहे स्थितः शिष्यो यत् पुण्यं समुपाचरेत् |
तत् पुण्यमक्षयं प्रोक्तं पुण्यतीर्थे शताधिकम् ||
इति गुरुगृहनिष्पादितपुण्यकर्मफलम् ||
तत्रैव ||
गुरोः पादरजो यस्तु सुधीर्मूर्द्धनि धारयेत् |
स तीर्थकोटिजफलात् फलं दशगुणं लभेत् |
गुरोः पादोदकं यस्तु नित्यं पिबति भक्तितः |
सार्द्धत्रिकोटितीर्थानां फलं स लभते ध्रुवम् ||
गुप्तसाधनतन्त्रे ||
त्रिसन्ध्यं पिबते यस्तु गुरुपादोदकं सुधीः |
तस्य नास्ति पुनर्जन्म संसारे मोहवर्त्मनि |
ब्रह्मा विष्णुश्च रुद्रश्च सर्वाश्च पितृदेवताः |
तिष्ठति श्रीगुरोः वादपद्मार्च्चितजले शुभे |
पुरोः पादोदकं यस्तु नित्यं पिबति मानुषः |
धर्मार्थकाममोक्षाणामधिपो जायते च सः ||
योगिनीतन्त्रे ||
सुभक्त्या विगलत्पादप्रक्षालनजलं यदि |
पिबेदमृतभावेन यः स देवीपुरं व्रजेत् ||
गुप्तसाधनतन्त्रे ||
गुरोः पादोदकं यस्तु शिरसा धारयेन्नरः |
स सर्वतीर्थजं पुण्यं लभते नात्र संशयः ||
गुरुतन्त्रे ||
त्रिसन्ध्यं पूजयेद् यस्तु गन्धपुष्पैर्जगद्गुरुम् |
तस्य किं मन्त्रपूजादिविधानैर्न्यासजापकैः |
गुरोरन्नं महादेवि ! यस्तु भक्षणमाचरेत् |
कोटिजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति |
न स्नानं पादशौचञ्च न चैवाचमनञ्चरेत् |
प्राप्तिमात्रेण भोक्तव्यं नैव स्थानं विचारयेत् |
न ब्राह्मण्यं न कौलीन्यं न जातीनां विचारणम् |
न ज्ञातिसुतबन्धूनां सभ्यानां तत्र चिन्तनम् |
एकस्थानस्थितं ह्यन्नं तत्तीर्थमण्डलीकृतम् |
भोक्तव्यं मोक्षदं देवि ! शूद्रस्पृष्टं न चिन्तयेत् |
गुरोरन्नं सुधाबुद्ध्या यस्त्वद्यान्मतिमान्नरः |
शिवोऽपि तस्य देवेशि ! तुष्टो भवति नान्यथा |
गुरोरुच्छिष्टकं देवि ! भक्तिमुक्तिप्रदं भवेत् |
अवश्यम् वैष्णवैः शिष्येर्भोक्तव्यं तद्दिने दिने ||
योगिन्यां प्रथमपटले ||
गुरूच्छिष्टञ्च देवेशि ! तत्सुतोच्छिष्टमेव च |
भोजनीयं न सन्देहो विकारश्चेदधोगतिः |
तवोच्छिष्टं महादेवि ! ब्रह्मादीनां सुदुर्लभम् |
गुरूच्छिष्टं तथा प्रोक्तं महापूतं परात्परम् |
नन्वेतावता गुरुपत्न्युच्छिष्टं न भक्षणीयमिति चेन्न |
गुरुपत्नी महेशानि ! गुरुरेव न संशय इत्येतद्वचनेन तस्या गुरुत्वेन गुरूच्छिष्टभोजनविधिना तदुच्छिष्टभोजनविधेः सिद्धत्वात् |
गुरुणा गुरुपत्न्यः वा गुरुपुत्त्रेण वा प्रिये ! |
सृष्टान्नं मुष्टिमात्रं वा योऽश्नीयाहर्षविंशतिम् |
चिरजीवी जरारोगविमुक्तोऽसौ शिवो भवेत् ||
गुरुतन्त्रे ||
गुरोरुच्छिष्टकैर्यस्तु सर्वाङ्गमनुलेपयेत् |
वज्रोऽपि तस्य गात्राणि न भिनत्ति कदाचन |
गुरोरुच्छिष्टमन्नं यो भक्षयेद्भक्तिंभावतः |
अन्नपूर्णा जगद्धात्री तस्येश्वर्यं प्रयच्छति |
इति गुरूच्छिष्टभोजनफलं तत्रैव ||
कदाचित् परमेशानि ! यदि तत्र भ्रमो भवेत् |
न तस्य निष्कृतिर्दृष्टा कल्पकोटिशतैरपि |
न भक्षयेद् यस्तु मोहाद्गुरोरुच्छिष्टकं प्रिये ! |
तस्य क्रुद्धा भवेस्त्वं हि विपत्तिश्च पदे पदे ||
इति गुरूच्छिष्टाभक्षणजन्यदोषकथनम् ||
तत्रैव ||
पादुकां वसनं छत्रं शयनं भूषणादिकम् |
दृष्ट्वा गुरोर्नमस्कुर्ययादात्मभोगं न कारयेत् ||
कुलार्णवे पञ्चमखण्डे द्वादशोल्लासे ||
पादुकामासनं छत्रं वाहनं वस्त्रचामरे |
दृष्ट्वा गुरोर्नमस्कुर्यात् नात्मभोगाय कल्पयेत् |
पादाप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् |
मूत्रनिष्ठीवनं क्षौरं शयनं स्त्रीनिषेवणम् |
वीरासनञ्च दुर्वाक्यमासनं हास्यरोदनम् |
केशमोचनमुष्णीषं कञ्चुकं लग्नतां तथा |
पादप्रसारणं वादं कलहं दूषणं प्रिये ! |
अङ्गभङ्गाङ्गवाद्यादिकरास्फालविधूननम् |
द्यूतकुक्कुटमल्लादियुद्धमित्यादि चाम्बिके ! |
गुरुसिद्धमहासिधपीठक्षेत्राश्रयेषु च |
नाचरेदाचरेन्मोहात् देवताशापमाप्नुयात् |
उपचारं विना विष्ठेद् गुर्वग्रे नेच्छया विशेत् ||
इति गुरुसमीपे महापीठादौ पादप्रक्षालनादिनिषेधः ||
योगिनीतन्त्रे पूर्वखण्डे प्रथमपटले ||
सुरां यद्यप्यसंस्कारां गुरोराज्ञावशात् पिबेत् |
प्रायश्चित्तं न तत्रास्ति वेदेऽपि स्थितमेव हि |
अपि तन्त्रविरुद्धं वा गुरुणा कथ्यते यदि |
तत्सम्मतं भवेद्वेदैर्महारुद्रचचो यथा |
इति गुर्वाज्ञया निषिद्धाचरणे दोषाभावः |
निर्गतं यद् गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते |
गुरुकार्यये स्वयं शक्तो नापरं प्रेरयेत् प्रिये ! |
रुद्रजामले |
बन्धुभृत्यपुरैर्भृत्यैः सहितोऽप्यतिभक्तिमान् |
गच्छन् तिष्ठन् स्वपन् जाग्रत् जपन् जुह्वत् प्रपूजयेत् |
गुर्वाज्ञामेव कुर्वीत तद्गतेनान्तरात्मना |
अभिमानो न कर्त्तव्यो जातिविद्याधनादभिः |
सर्वदा सेवयेन्नित्यं शिष्यः श्रीगुरुसन्निधौ ||
इति गुर्वग्रे माननिषेधः ||
तत्रैव ||
सदा च पादुकामन्त्रं जिह्वाग्रे यस्य वर्त्तते |
अनायासेनं धर्मार्थंकाममोक्षं लभेन्नरः ||
श्रीगुरोश्चरणाम्भोजं ध्यायेद् यश्च सदैवतम् |
भुक्तये मुक्तये वीरो नान्यो भक्तस्ततोऽधिकः |
विद्याङ्गमासनं मन्त्र मुद्रां तन्त्रादिकं प्रभो ! |
सर्वं गुरुमुखाल्लब्धं सफलं नान्यथा भवेत् ||
वाक्यभेदेनान्वयः ||
कम्बले कमले वापि प्रासादे संस्थिते तथा |
दीर्घकाष्ठे तथा पृष्ठे गुरोरेकासनं त्यजेत् |
श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् ||
शिष्याय नैव देवेश ! प्रवदेद्यस्य कस्यचित् |
यद्यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् |
गुरोर्लब्धैकवर्णो यस्तस्य तुष्यामि सुव्रत ! |
भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् |
तयोरेव फलं देव ! तुल्यामाढ्यदरिद्रयोः |
स्वल्पे महति वा पुण्यमिति तृतीयचरणे कुलार्णवे पञ्चमखण्डे द्वादसोल्लासे पाठः ||
सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः |
नरकं तदवाप्नोति भक्तिरेव हि कारणम् |
कुलार्णवे तु |
शिष्यो न फलमाप्नोति इति तृतीयचरणे पाठः |
गुरुभक्त्या च शक्रत्वं मद्भक्त्या शूकरो भवेत् ||
गुरुं विना मययेव या भक्तिस्तयेति तात्पर्ययम् |
गरुभक्तिपरं नास्ति सर्वशास्त्रेषु तत्त्वतः ||
इति गुरुभक्तिफलम् ||
धिग्धनं धिग्बलं तेषां धिक्कुलं धिग्विचेष्टितम् |
तेषां नोत्पद्यते भक्तिर्गुरुदेवे महेश्वरि ! |
इति भक्त्यनुत्पत्तौ दोषः |
जामले ||
गुरुस्त्रीपुत्त्रबन्धूनां दोषं नैव प्रकाशयेत् |
भक्षयेन्न च तद्द्रव्यं दत्तं नैव परित्यजेत् |
गुरुगीतायाम् ||
गुरुणा दर्शिते मार्गे मनःशुद्धिञ्च कारयेत् |
गुरुणा सदसद्वापि यदुक्तं तन्न लङ्घयेत् |
गुरोरग्रे न वक्तव्यमसत्यञ्च कदाचन ||
पिच्छिलातन्त्रे ||
पैत्रं गुरुकुलं यस्तु त्यजेद्वै धर्ममोहितः |
स याति नरकं घोरं यावच्चन्द्रार्कतारकम् ||
कुलार्णवे पञ्चमखण्डे एकादशोल्लासे ||
ब्रह्मादिस्तम्बपर्यन्तं यस्य या गुरुसन्ततिः ||
तस्य मे सर्वशिष्यस्य कौलः पूज्यो महीतले |
इति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः ||
श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च |
भक्त्या श्रीपूर्वकं देवि ! प्रणम्य च प्रकीर्त्तयेत् |
गुरुं नाम्ना न भाषेत जपकालादृते प्रिये ! |
श्रीनाथदेवस्वामीति विवादे साधने वदेत् |
अथ गुरुशुश्रूषा |
तथा द्वादशोल्लासे ||
आत्मार्थमान्यसद्भावैः शुश्रूषा स्याच्चतुर्विधाः |
शुश्रूषया धिया देवि ! शिष्यः सन्तोषयेद्गुरुम् |
पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् |
केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये ! |
मद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा |
क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः |
सिध्यन्ति सर्वकार्ययाणि गुरुशुश्रूषया प्रिये |
यदात्महितं वस्तु तत्तद्वित्तमवञ्चयन् |
गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते |
गुरुमित्रसुहृद्दासीदासाद्यान्नावमानयेत् |
न निन्देदस्य समयान् वेदशास्त्रागमादिकान् |
तथा |
विविक्षुर्देशिकावासं सान्तचित्तोऽतिभक्तिमान् |
वाहनं पादुकां छत्रं चामरं व्यजनादिकम् |
ताम्बूलं वेशमुत्सृज्य प्रविशेच्च शनैः शनिः ||
देशिकव्युत्पत्तिस्तु सप्तदशोल्लासे ||
देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् |
करुणामयमूत्तित्वाद्देशिकः कथ्यते प्रिये ! ||
देशिकावासं गुर्वावासमित्यर्थः |
तथा |
रिक्तहस्तश्च नोपेयाद्राजानं दैवतं गुरुम् |
फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् ||
इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे गुरुशिष्यप्रकरणरूपशाखाद्वयकथनं नाम द्वितीयः परिच्छेदः |
दरपतिजयचर्ययास्वरोदयधृतब्रह्मजामले ||
अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् |
तत्र वेधवशाज्ज्ञेयं विवाहादिशुभाशुभम् |
त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रा युगोत्तरा |
हस्तेन्द्रमूलवारुण्यः पूर्वाभाद्रपदास्तथा |
याम्यः सौम्यो गुरुर्योनिश्चित्रामित्रजलाह्वयम् |
धनिष्ठा चोत्तराभाद्रमध्यनाडी व्यस्थिता |
कृत्तिका रोहिणी सर्पो मघा स्वातीविशाखके |
उत्तरा श्रवणा पौष्यक्रोडनाडी व्यवस्थिता |
अश्विन्यादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् |
याम्यादितुर्ययं तुर्ययञ्च कृत्तिकादौ द्विषट्ककम् |
एवं निरीक्षयेद्वेधं कन्यामन्त्रे गुरौ सुरे |
पुण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे |
एकनाडीस्थधिष्ण्याणि यदि स्युर्वरकन्ययोः |
तदा वेधं विजानीयाद् गुर्वादिषु तथैव च |
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः |
प्रशस्तं जन्मभं यस्य तस्य नामर्क्षतो वदेत् |
द्वयोर्जन्मभयोर्वेधे न कर्त्तव्यं कदाचन |
एकनाडीस्थिता चेत् स्याद्भर्त्तृनाशाय चाङ्गना |
एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता |
तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् |
प्रभुः पुण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम् |
एकनाडीगता त्याज्या भव्या वेधविवर्ज्जिता ||
इत्यादिवचनाद् गुरुशिष्यमन्त्राणां नाडीनक्षत्रविचारोऽवश्यकरणीय इति ||
दीक्षायां कर्तव्यायां चक्रादिविचारस्यावश्यकत्वम् |
तत्तु अस्मद्गोष्ठीगरिष्ठक्ष्णानन्दागमवागीशेन स्वकृततन्त्रसारे सर्वं लिखितमतो नात्र प्रयोजनम् ||
यत्तु नात्र सिद्धाद्यपेक्षास्तीत्यादिवचनमात्रप्रदर्शिभिरिदं प्रशंसापरं सर्वत्र विचारस्यावश्यकत्वमिति तन्त्रसारकारस्य स्वकपोलकल्पितमित्युपहसितम् |
तैः रुद्रजामलोत्तरख्ण्डीयचतुर्थपटलाद्युक्तं न दृष्टं न श्रुतञ्च तद्यथा |
कालीतारादिमन्त्रस्य सिद्धादीन्नैव शोधयेत् |
तथापि शोधयेन्मन्त्रं प्रशंसापरमेव तत् |
विचाराभावप्रतिपादकवचनमात्रं यत्यादिपरं न गृहस्थपरमित्यग्रे वक्ष्यते ||
चक्रविचारप्रतिप्रसवस्त्वन्नदाकल्पे द्वितीयपटले उक्तो यथा ||
हरचक्रादिचक्रनरकमुक्त्वा ||
नवचक्रविशुद्धात्मा मन्त्रोऽभीष्टाय कल्प्यते |
उपासिता यदि भवेत् पैतृकी पुरुषाःक्रमात् |
तदा तद्ग्रहणे धीरो विचारं नैव कारयेत् |
तत्तु मन्त्रञ्च वनिताश्रयेद्भाग्यवशाद्यदि |
तदा भर्त्तुर्विचारेण विचारोऽस्या न तु स्वतः |
कुलचक्रे समुत्पन्ने वीरान् माहेश्वरीमुखात् |
कृपया दीयमानस्य विचारो नास्ति भैरव ! |
स्वान्तःकरणवृत्तैर्वा यत्र श्रद्धा गरियसी |
सैवोपास्या प्रयत्नेन विचारस्तत्र निष्फलः ||
दीक्षाकर्म्मणि मण्डपकरणस्यावश्यम्भावेन भूमिपरीक्षां विना मण्डपादिकरणनिषेधदर्शनेन चादौ भूमिपरीक्षोच्यते ||
तत्तु राघवघट्टधृतमहाकपिलपञ्चरात्रे ||
तत्र भूमीं परीक्षेत वास्तुतत्त्वविशारदः |
स्फुटिता च सशल्या च वल्मीकारोहिणी तथा |
दूरतः परिवर्ज्या भूः कर्त्तुरायुर्धनापहा ||
स्फुटिता चेत् चकारेणोषरेति न लभ्यते |
स्फुटिता मरणं कुर्ययादूषरा धननाशिनी |
सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् ||
इति वर्जनीयभूमिकथनम् ||
तत्रैव ||
ईशकोणप्लवासा च कर्त्तुः श्रीदा मुनिश्चितम् |
पूर्वप्लवा वृद्धिकरी धनदा तूत्तरप्लवा |
विद्वेषं मरणं व्याधिं कुर्यादग्निप्लवा मही |
धर्मराजप्लवा भूमिर्नित्यं मृत्युभयप्रदा |
गृहक्षयकरी सा च भूमिर्या नै-ऋतप्लवा |
धनहानिकरी पृथ्वी कीर्त्तिता वरुणप्लवा |
वातप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी |
इति दिक्प्लवभूमिशुभाशुभे ||
तत्रैव |
श्वेता तु ब्राह्मणी भूमिरक्ता वै क्षत्रिया स्मृता |
वैश्या पीता तु विज्ञेया शूद्रा कृष्णा प्रकीर्त्तिता |
ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्तगन्धिका |
क्षीरगन्धा भवेद्वैश्या शूद्रा विड्गन्धिनी क्षितिः |
मधुरा ब्राह्मणी भूमिः कषाया क्षत्रिया स्मृता |
वैश्या तिक्ता च विज्ञेया शूद्रा स्यात् कटुका मही |
ब्राह्मणी भूः कुशोपेता क्षत्रिया स्याच्छवाकुला |
कुशकाशाकुला वैश्या शूद्रा सर्वतृणाकुला ||
इति ब्राह्मण्यादि भूमिज्ञानकरणकथनम् तत्रैव |
सिता पीता तथा रक्ता कृष्णवर्णसमन्विता |
स्थिरोदका दृढा स्निग्धा भूमिः सर्वसुखावहा |
शीतस्पर्शोष्णकाले च वह्निस्पर्शा हिमागमे |
वर्षासु चोभयस्पर्शा सा शुभा परिकीर्त्तिता |
तद्धृतहयशीर्षषञ्चरात्रेऽपि ||
सुरभीणां रतिर्यत्र सवत्सानां वृषैः सह |
सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तमः ! |
काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी |
कमलोत्पलगन्धा च जातिचम्पकगन्धिनी |
पाटला मल्लिकागन्धा नागकेशरगन्धिनी |
दधिक्षीराज्यगन्धाढ्या मंदिरासवगन्धिनी |
सुगन्धिव्रीहिगन्धाढ्या शुभगन्धयुता च सा |
सर्वेषामेव वर्णानां भूमिः साधारणी मता |
इति शुभभूमिकथनम् |
मदग्रजरामलोचनविद्याभूषणकृतवास्तुयागप्रदीपिका-धृतहयशीर्षपञ्चरात्रे ||
ज्ञात्वा भूमीं परीक्षेत पूर्वोदक्प्लवनां शुभाम् |
असङ्कटां तथाच्छन्नां कृतैस्तोयपरिप्लुताम् |
सम्पूर्यय मार्गे खाते तु तथाधिकमृदं शुभाम् |
कुसुमप्रकरस्तद्वद्यस्यां न ग्लानिमृच्छति |
न निर्वाति तथा दीपः शीघ्रं पुष्पं न शीर्यते |
श्वेतारुणा पीतकृष्णा विप्रादीनां विशिष्यते ||
प्रशस्यते इत्यर्थः ||
त्याज्या भूमिः क्षारगन्धा पूतिगन्धा च या भवेत् |
मधुरा च कषाया च अम्ला च कटुका च या |
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता |
सम्भृता अत्यन्तसङ्कीर्णा ||
तथाधिकमृदमित्याद्युक्तविवरणमुक्तं प्रयोगसारे ||
वितस्तिमात्रविस्तारं निर्माय विवरं भुवि |
निक्षिपेत्तां मृदं तस्मिन् तासु शिष्टासु शोभनम् |
समासु मध्यमं विद्यान्नूनास्वधममुच्यते |
परीक्ष्यैवं प्रयत्नेन त्यक्त्वा भूमीं कनीयसमीम् |
अङ्गारतुषकेशास्थिहीनं कत्वाथ भूतलम् |
अङ्गारेत्यादिनिषिद्धद्रव्यमात्रोपलक्षणम् |
हीनं कृत्वेत्यनेन शल्योद्धारक्रमः सूचितः |
अकरणे दोषोऽपि |
अतएव कुण्डकरणे दुष्टा ||
खन्यमाने यदा कुण्डे पाशो न प्राप्यते भुविम् |
तदापमृत्यवे चास्थिकेशाङ्गारैर्धनक्षयः |
भस्मनाग्निभयं प्रोक्तं तुषैः प्रोक्ता दरिद्रता |
इति दुष्टफलमुपदर्शितवान् ||
शुभफलमपि स एव |
गोशृङ्गं पीतमण्डूकः शङ्खः शूक्तिश्च कच्छपः |
शम्बूकश्च प्रशस्ताः स्युर्ये चान्ये रत्नजातयः ||
अथ शल्योद्धारधनोद्धारौ ||
स्वरोदयधृतब्रह्मजामले ||
अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम् |
द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः |
निधिर्निर्वर्त्तनैकस्थः सम्भ्रान्तो यत्र भूतले |
तत चक्रमिदं स्थाप्यं स्थानद्वारमुपस्थितम् ||
ऊर्द्ध्वरेखाष्टकं लेख्यं तिर्ययक् पञ्च तथैव च |
अहिचक्रं भवेत्येवमष्टाविंशतिकोष्ठकम् |
तत्र पौष्णाश्वियाम्यर्क्षं कृत्तिकामघभाग्यभम् |
उत्तराफाल्गुनी लेख्यं पूर्वपंक्त्या भसप्तकम् ||
अहिब्रध्नाजपा दक्षं पतभं ब्रह्मसर्पभम् |
पुष्यं हस्तं समालेख्यं द्वितीयां पंक्तिमास्थितम् |
अभिजिद्विष्णुवस्वृक्षं सौम्यं रौद्रपुनर्वसू |
चित्रभञ्च तृतीयायां पंक्तौ धिष्ण्यस्य सप्तकम् |
विश्वर्क्षं तोयभं मूलं ज्येष्ठा मैत्रं विशाखभम् |
स्वातीं पंक्त्यां चतुर्थ्यान्तु कृत्वा चक्रं विलोकयेत् |
एवं सञ्जायते चक्रं संस्थाने पन्नगाकृति |
द्वारदेशे मघायाम्यौ द्वारस्था कृत्तिका मता |
अश्वीशपूर्वाषाढादित्रिकपञ्चतुष्टयम् |
पौष्णप्रौष्ठपदा चेन्दोर्भानि शेषाणि भास्वतः |
१ |
२ |
३ |
६ |
७ |
८ |
९ |
१० |
२० |
२१ |
२२ |
२७ |
२५ |
इति चन्द्रस्य |
४ |
५ |
११ |
१२ |
१३ |
१४ |
१५ |
१६ |
१७ |
१८ |
१९ |
२३ |
२४ |
२६ |
इति सूर्ययस्य |
उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके |
दिनेन्दुभुक्तयुक्तोऽसौ भवेत्तत्कालचन्द्रमाः |
चन्द्रवत् साधयेत् सूर्ययमृक्षस्थं चेष्टकालिकम् |
पश्चाद्विलोकयेत्तौ च स्वस्वर्क्षे वान्यतः स्थितौ |
चन्द्र-ऋक्षे दायर्केन्दू तदास्ते नियतं निधिः |
भानु-ऋक्षस्थिते तौ तु तदा शल्यं विनिर्दिशेत् |
स्वस्वभे द्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्ययये |
स्थितं न लभ्यते द्रव्यं चन्द्रे क्रूरग्रहान्विते |
पुष्टे चन्द्रे भवेत्पुष्टः क्षीणचन्द्रेऽल्पको निधिः |
ग्रहदृष्टिवशात् सोऽपि विज्ञेयो नवधा बुधैः |
हेम ताम्रञ्च तारारं रत्नकांस्यायसं त्रपु |
नागं चन्द्रे विजानीयाद् भास्करादिग्रहेक्षिते |
मिश्रे मिश्रं भवेद् द्रव्यं शून्यं दुष्टिविवर्जिते |
सर्वग्रहेक्षिते चन्द्रे विज्ञेयोऽसौ महानिधिः |
हेम तारञ्च ताम्रारं पाषाणं मृण्मयायसम् |
सूर्ययादिग्रहगे चन्द्रे द्रव्यभाण्डं प्रजायते |
शुभक्षेत्रगते चन्द्रे द्रव्यलाभो न संशयः |
पापक्षेत्रे न लाभः स्याज्ज्ञातव्यं ज्योतिषां बुधैः |
भुक्तराश्यंशमानेन भूमानं कार्मिकैः करैः |
नीचे विघ्नं परे नीचे जलस्थोऽसौ भवेन्निधिः |
उच्चस्थे ऊर्द्ध्वगं द्रव्यं नवांशकक्रमेण च |
परमोच्चे परे तुङ्गे भित्तिस्थमृक्षसंक्रमे |
चन्द्रांशभुक्तमानेन द्रव्यसंख्या विधीयते |
तस्माच्चेज्जायते वृद्धिः षड्वर्गेषु बलक्रमात् |
अधिष्ठितं भवेद्द्रव्यं यत्र चन्द्रो ग्रहान्वितः |
तदधिष्ठायको ज्ञेयो भास्करादिग्रहैः क्रमात् |
ग्रहा ह्युपग्रहाश्चैव क्षेत्रपालश्च मातृका |
दीपेशो भीषणो रुद्रो यक्षो नागः क्रमान्मतः |
ग्रहहोमश्च कर्त्तव्यो मुखे नारायणे बलिः |
क्षेत्रपाले सुरा मांसं मातृकायां महाबलिः |
दीपे प्रदीपजा पूजा भीषणे भीषणार्च्चनम् |
रुद्रे रुद्रजपो जप्यो यक्षे यक्षादिशान्तिकम् |
नागे नागगणाः पूज्या गणनाथेन संयुताः |
लक्ष्मीं धरादितत्त्वानि सर्वकार्ययेषु पूजयेत् |
एवं कृते विधानेन दुःसाध्यः साध्यते निधिः |
निधिप्राप्त्या नरो लोके पूज्यते सर्वदा बुधैः ||
अस्यार्थः ||
सर्वज्ञभाषितं श्रीसदाशिवभाषितम् |
अहिचक्रम् अहं प्रवक्ष्यामि प्रकर्षेण कथयिष्यामीत्यन्वयः |
येन चक्रेण द्रव्यं शल्यं तदुभयं शून्यं द्रव्यशल्यहीनं स्थानं पण्डिता जानन्ति भविष्यत्सामीप्ये वर्त्तमाननिर्देशात् ज्ञास्यन्तीति तात्पर्ययम् ||
निधिरिति निवर्त्तनैकस्थो दीर्घप्रहस्ततः द्विशतहस्तमाने भूतले दशाधिकद्विशतहस्तपरिमिते वा यत्र सम्भ्रान्तो भ्रमविषयो निधिस्तत्र इदं चक्रं स्थाप्यम् |
निवर्त्तनप्रमाणन्तु सिद्धान्तशिरोमणौ लीलावत्यभिधे पाटीगणिते तथा करणाद् दशकेन विंशः निवर्त्तनं विंशतिवंशसर्गाख्यः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धमिति |
स्वरोदयटीकाकारस्तु ||
सप्तहस्तेन हस्तेन त्रिंशद्दण्डो निवर्त्तनमित्याह |
तदुभयमतं प्रामाण्यम् |
अस्य दीर्घतः प्रहस्ततश्च एकादशवार्षिकनवाङ्गुलैश्चतुर्दशहस्तैश्च परिमितद्वयमबधार्ययम् |
स्वरोदयटीकाकृन्मते दीर्घप्रहस्तादिकमेतदनुसारेण पण्डितैर्विविच्य कर्त्तव्यम् |
चक्रं कीदृशं स्थानद्वारमुखस्थितं क्षेत्रादौ द्वाराज्ञाने एवं प्रजायते |
चक्रे प्रस्तारं पन्नगाकृतिरित्युपसंहारवचनार्थतो भाद्रादित्रिषु मासेषु पूर्वादिचतुर्दिक्षु शिरः कृत्वा नागः शेते तेन तत्तन्मासि प्रश्ने सति तस्यां तस्यां दिशि अहिबलचक्रमुकं कृत्तिकानक्षत्रव्यवस्थितं कृत्वा व्यवहरणीयमित्युपदेशः |
ऊर्द्ध्वेति ||
ऊर्द्ध्वरेखाष्टकं ऊर्द्धा च क्रमेण रेखाष्टकं लेख्यम् |
तथैव पञ्चरेखास्तिर्ययक्क्रमेण लिखेत् |
एवमष्टाविंशतिकोष्ठम् |
तत्र कोष्ठेषु पौष्णो रेवती अश्विनी याम्यर्क्षं भरणी कृत्तिका मघा भाग्यभं पूर्वफल्गुनी उत्तरफल्गुनी चेति नक्षत्रसप्तकं प्रथमपंक्त्यां लेखनीयम् |
अहिब्रध्नेति ||
अहिब्रध्नः उत्तरभाद्रपदः अजपादः पूर्वभाद्रपदः शतभिषा ब्राह्मं रोहिणी सर्पभमश्लेषा पुष्या हस्ताश्चेति नक्षत्रसप्तकं द्वितीयपंक्तिमास्थितं लेख्यम् |
विधिरिति |
विधिः अभिजित् विष्णुः श्रवणा सौम्यं मृगशिरा रौद्र आर्द्रा पुनर्वसु चित्रा चेति नक्षत्रसप्तकं तृतीयपंक्तौ |
विश्वक्षमुत्तराषाढा मूलं ज्येष्ठा अनुराधा विशाखा स्वाती चेति नक्ष?त्रसप्तकं चतुर्थपंक्तौ |
एवं कृत्वा अर्थादालोक्य चक्रं विलोकयेदिति |
एवमनेन प्रकारेण कृत्तिकानिक्षत्रानुक्रमस्थित्या पन्नगाकृतिः सर्पाकृतिः |
द्वारशाखेति मघाभरण्यौ |
द्वारशाखे द्वारोभयपार्श्वस्थिते |
कृत्तिकाद्वारस्थनागमुखम् |
अश्वीशेति |
अश्विनी ईश आर्द्रा पूर्वाषाढा एतानि आदिभूतानि कृत्वानुक्रमेण त्रिपञ्चचतुष्टयं नक्षत्रं यथा अश्विनी भरणी कृत्तिका इति त्रीणि |
आर्द्रा पुनर्वसु पुष्या अश्लेषा मघा चेति पञ्च |
पूर्वाषाढोत्तराषाढा अभिजित् श्रवणेति चत्वारि नक्षत्राणि |
अश्विनी भरणी कृत्तिकार्द्रा पुनर्वसु पुष्या अश्लेषा मघा पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा रेवती पूर्वभाद्रपदा एतानि नक्षत्राणि |
इन्द्रोश्चन्द्रस्य |
शेषाणि भानि रोहिणी मृगशिराः पूर्वफल्गुन्युत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला धनिष्ठा शतभिषा उत्तरभाद्रपदसंज्ञकानि |
भास्वतः सूर्ययस्य ज्ञातव्यानि ||
उदयादीति |
उदयो नक्षत्रप्रवृत्तिसमयस्तदादिः |
इष्टसमयेन च यावन्तो दण्डाश्चन्द्रेण भुक्तास्तदवधिगता नाड्यो भघ्नाः सप्तविंशत्या पूरिताः षष्ट्या हृताः कार्ययाः |
गृहीतभागेनाप्तशेषके आप्ते लब्धे शेषे चासौ तत्कालचन्द्रमा भवति |
स किम्भूतः दिनेन्दुभुक्तयुक्तः |
दिने दिने इन्दुना चन्द्रेण भुक्तेन नक्षत्रेण युक्तः |
सप्तविंशत्यधिके सप्तविंशतिमपास्य अधिकमश्विनीतो भुक्तनक्षत्रसंख्या भवति |
एवं सुर्ययोऽपि स्वभुक्ताश्विन्यादिनक्षत्रयोगेन तात्कालिको भवति |
एवमेव स्वरोदयटीकायां नरहरिणा व्याख्यातम् |
सूर्ययभुज्यमाननक्षत्रज्ञानन्तु मानसपञ्जिकागणनवमश्लोकेनोक्तम् |
सङ्क्षेपतः प्रवक्ष्यामि तत्कालेन्दुं परिस्फुटम् |
येन विज्ञानमात्रेण बुध्यते च शुभाशुभम् |
अहोरात्रस्य मध्ये तौ विश्रान्तौ धिष्ण्यमण्डले |
स चैव प्रश्नकाले च यात्राकाले विशेषतः |
दण्डेश्च पञ्चभीराशिरेव स्युर्द्वादश क्रमात् |
लग्नवद्भुक्तभागस्य त्यागाच्छेषः क्रमोत्क्रमः |
प्रवासः सुस्थता मृत्युर्हास्यो जयो ज्वरो रतिः |
शून्यता ह्रासिता क्रीडा सुप्तिर्भुक्तिश्च मेषतः |
एताश्च द्वादशावस्थाः शशाङ्कस्य दिने दिने |
शुभाशुभेषु कार्ययेषु फलं नामानुरूपतः ||
नक्षत्रमेकं प्रतिपञ्चदण्डक्रमेण द्वादशचन्द्रास्तात्कालिका भवन्ति चेन्न |
यस्य नक्षत्रस्य उदयादिगता नाडी ग्राह्या तस्यादौ पञ्च दण्डान् व्याप्य तस्य नक्षत्रस्य चन्द्रो भवति |
तत्परपञ्चदण्डान् व्याप्य तत्परचन्द्रमा भवति |
एवं क्रमेण द्वादश चन्द्रमसो भवन्ति |
कस्यचिन्मते सूर्ययोदयावधिषष्टिदण्डात्मककाले द्वादश चन्द्रमसो भवन्ति |
तन्मते सूर्ययोदयावधिपञ्चदण्डे यन्नक्षत्रं तस्य चन्द्रमा भवति |
तत्परपञ्चपञ्चदण्डे क्रमेण चन्द्रमा दिवारात्रौ द्वादशचन्द्रास्तात्कालिका भवन्ति |
यात्रायामेवेति |
उदयादिगता इत्यस्यार्थः |
षष्ट्याप्तश्च शेषः षष्ट्याप्तशेषकं तस्मिन् षष्ट्याप्तशेषके |
एतेन षष्ट्या दण्डषष्ट्या हृतशेषके चेति यावत् |
तस्मिन् षष्ट्या हृतलब्धाङ्को दिनेन्दुभुक्तयुक्तस्तत्कालचन्द्रमा भवति |
तत्षष्ट्या हृतभागशेषाङ्के उदयादिगतनाडीयुक्तेन यः संख्याङ्को भवति स तस्य चन्द्रमसो भोग्यदण्डो भवतीति भावः |
शेषक इति स्वार्थे कः |
अत्र यदि शेषो न लब्धस्तदा उदयादिगता नाडीमात्रसंख्याङ्कस्तस्य भोग्यदण्ड इति भावः |
एतेन खण्डनक्षत्रस्यैवं भोगवशात्तात्कालिकचन्द्रस्य स्थाननिश्चयो बोद्धव्यः |
षष्ट्याप्तशेषकैरिति पाठे तु षष्ट्याप्तेन षष्ट्या हृतलब्धाङ्केन दिनेन्दुभुक्तयुक्तश्चेत् तत्कालचन्द्रमा भवति |
शेषकैः षष्ट्या हृतभागशेषाङ्कैरुदयादिगतानाडीसंख्याङ्कयुक्तेन यः संख्याङ्कः स तस्य चन्द्रमसो भोग्यदण्डो भवति ||
चन्द्रवदिति ||
ऋज्ञस्थं नक्षत्रस्थं चेष्टनाडीकं प्रश्नसमय इष्टदण्डस्थं कृत्वा एकद्वित्रिदिनक्रमेण प्रत्येकं दिनं दण्डानां सार्द्धचतुष्कं सङ्कलयय ग्राह्यम् |
एवं क्रमेण नक्षत्रस्य प्रश्नकाले सूर्ययेण यावन्तो दण्डा भुक्तास्तानेव सप्तविंशतिसंख्यया सङ्गुण्य षष्ट्या हरणाल्लब्धं शेषञ्च भवति लब्धञ्च सूर्ययभुक्तनक्षत्रसंख्यया संयोज्य सप्तविंशत्यधिके सति सप्तविंशतिमपास्यावशिष्टं भुक्तनक्षत्रं तत्संख्या अश्विनीतो भवति |
षष्टिहरणशेषं भुज्यमाननक्षत्रम् |
तत्र कोष्ठे तन्नक्षत्रस्थतात्कालिकः सूर्यो वेधनीयः पश्चात् स्वनक्षत्रचन्द्रनक्षत्रयोर्व्यवस्थितश्चिन्तनीयः |
नक्षत्रे सूर्ययभुक्तषष्टिदण्डपूर्णता तु चत्वारिंशद्दण्डन्यूनचतुर्दशदिनेन सकलनक्षत्रभोगः प्रत्यहं सप्तदशपलाधिकाश्चत्वारो दण्डा भवन्ति न्यूनभोग्येन किञ्चित् पले ह्रसति |
तेन नक्षत्रभोगप्रवृत्तिसमयादारभ्य प्रश्नसमयपर्ययन्तं यावन्तो दण्डास्तेषु प्रतिषष्टि चत्वारो दण्डाः सप्तत्रिंशत्पलानि षष्टिमानेन तदनुमानेन न्यूनता सूक्ष्मकालस्थसूर्ययमण्डलादिग्रहनक्षत्रतात्कालिकीकरणे पैतामहश्लोकौ लिख्येते ||
ऋक्षप्रवेशा दिष्टान्तनाड्यः षष्ट्या भताडिताः |
ऋक्षप्रदेशादात्यागघटिकाभिर्विभाजिताः |
लब्धं दण्डादि यत्र तु तद्भग्नं षष्टिभिर्हृतम् अश्व्यादिसूर्यभुक्तेन युक्तस्तात्कालिको रविः |
पश्चात्तात्कालिकीकरणानन्तरं सूर्ययाचन्द्रमसौ स्वस्वर्क्षव्यवस्थितौ स्वनक्षत्रे वापरनक्षत्रे स्थितौ विलोकयेत् |
चन्द्र इति चन्द्र-ऋक्षे अश्वीशेत्यादिकथितनक्षत्रे यदि अर्केन्दू तात्कालिकौ स्तस्तदा निधिर्नियतं निश्चितमस्ति चेद्भानुनक्षत्रे सूर्ययनक्षत्रे तौ सूर्ययाचन्द्रमसौ स्थितौ तदा शल्यं भवति |
स्वस्वभ इति स्वस्वभे चन्द्रे रवौ च स्वस्वनक्षत्रे स्थितौ द्वितीयं निधिः |
शल्यञ्च चन्द्रस्थाने निधिं सूर्ययस्थाने शल्यं वदेत् ||
विपर्ययये चन्द्रनक्षत्रे सूर्यये सूर्ययनक्षत्रे चन्द्रे स्थिते सति न किञ्चित् निधिः शल्यञ्च नास्तीत्यर्थः |
क्रूरान्विते तात्कालिकचन्द्रे स्थिते द्रव्यं न लभ्यते पारिशेष्यात् शुभग्रहयोगे लभ्यते इति ||
पुष्ट इति ||
चन्द्रपुष्टे शुक्लपक्षैकादशीपर्ययन्तं पुष्टस्तत्र पुष्टोऽतिशयितो निधिर्भवेत् |
क्षीणचन्द्रे तु निधिरल्पक इति |
क्षीणेन्दुश्च कृष्णैकादशीतः शुक्लपञ्चमीं यावदिति ||
उभयपक्षषष्ठीदशमीपर्ययन्तं न तु मध्यबलत्वम् |
तेन मध्यत्वं द्रव्यस्य ग्राह्यम् |
एवं व्यवस्थितौ किं द्रव्यमित्याकाङ्क्षायामाह ||
हेमेति ||
सूर्ययादिना वीक्षिते तात्कालिके चन्द्रे हेमादिद्रव्यं विजानीयादित्यर्थः |
तत्र सूर्ययवीक्षिते हेम सुवर्णं स्थूलचन्द्रेक्षिते तारं रजतं कुजेक्षिते ताम्रं बुधेक्षिते आरं पित्तलं जीवेक्षिते रत्नं शुक्रेक्षिते कांस्यं शनैश्चरेक्षिते आयसं लौहविकारः राहुवीक्षिते वङ्ग इति केतुवीक्षिते नागं सीमकमिति प्रसिद्धं द्रव्यम् ||
मिश्रेति ||
मिश्रैर्नानाग्रहैर्दृष्टे मिश्रं नानाप्रकारं वदेत् |
ये ये ग्रहाः पश्यन्ति तस्य तस्य द्रव्याणि भवन्तीति तात्पर्ययम् |
दृष्टिवर्जिते चन्द्रे शून्यं न किमपीत्यर्थः |
सर्वग्रहेक्षिते चन्द्रे असौ महानिधिर्विज्ञेय इति |
असौ निधिः ग्रहाणां सूर्ययादिग्रहाणां दृष्टिवशान्नवधा नवप्रकारो बुधैर्ज्ञातव्य इति ||
द्रव्याधारमाह हेमेति ||
चन्द्रे सूर्ययादिराशिस्थे द्रव्यभाण्डमाधारो भाजनं प्रजायते इत्यर्थः |
यथा सूर्ययगृहे सिंहे हेम |
चन्द्रगृहे कर्कटे रजतम् |
कुजगृहे मेषे वृश्चिके वा ताम्रम् |
बुधगृहे कान्यायां मिथुने वा आरम् |
गुरुगृहे धनुषि मीने वा पाषाणः |
शुक्रगृहे वृषे तुलायां वा मृण्मयम् |
शनिगृहे मकरे कुम्भे वा आयसं लौहम् |
एवं राहुगृहं कन्या तत्र बुधदृष्टिविहीने वङ्गम् |
केतुगृहे मीने जीवानलोकिते सीसकमित्यपि ज्ञेयम् ||
शुभक्षेत्र इति ||
शुभाश्चन्द्रबुधगुरुशुक्रास्तेषां क्षेत्रे राशौ चन्द्रे सति द्रव्यस्य लाभो न संशय एव |
एवं पापक्षेत्रे पापग्रहराशिगे सति तदा न लाभः |
इति स्वरविद्भिर्ज्ञातव्यमित्यर्थः ||
भुक्तेति |
भुक्तराश्यंशमानेन तात्कालिकचन्द्रेण यावन्तो राश्यंशा भुक्तास्तन्मानेन तत्संख्यया कार्मिकैर्बद्धमुष्टिभिः करैर्हस्तैर्भूमानं धृतद्रव्यगतभूमानं भुक्तांशकसंख्यकहस्तप्रमाणं कर्त्तव्यं खांते द्रव्यमस्तीति वक्तव्यम् |
नीचे नीचराशिवृश्चिकस्थे चन्द्रे तदेव मानं द्विघ्नं द्विगुणितं परें नीचे वृश्चिकतृतीयांशस्थे च चन्द्रे असौ निधिर्जलस्थो वक्तव्यः ||
तावत् खातन्तु यावज्जलस्थं द्रव्यं लभ्यते ||
उच्चस्थे इति |
वृषराशिद्वितीयांशस्थे चन्द्रे नवांशकक्रमेण यावन्तो नवांशा भुक्तास्तावन्तः पूर्ववदूर्द्ध्वगं परमोच्चे वृषतृतीयांशस्थे चन्द्रे अत्युच्चप्रदेशे द्रव्यमस्तीति |
ऋक्षसंक्रमे तात्कालिकनक्षत्रशेषपलगते भित्तिस्थं भवति ||
चन्द्रांशेति ||
चन्द्रांशभुक्तकालेन तात्कालिकचन्द्रेण राशेर्यावन्तोऽंशा भुक्तास्तन्मानेन द्रव्यसंख्या विधीयते |
प्रत्येकं भुक्तांशे दशसंख्या च षड्वर्गेषु गृहे होराद्रेक्काणनवांशद्वादशांशत्रिंशांशेषु बलक्रमाद्दशगुणे वृद्धिः यदि स्वकीयषड् वर्गभागे तिष्ठति तदा अंशादुदितद्रव्यं दशगुणं स्यात् |
अधिष्ठितमिति वर्णप्रश्ने चन्द्रो ग्रहान्वितो भाति तत्र द्रव्यधिष्ठितं भास्करादिग्रहैः प्रत्येकं सहिते क्रमात्तदधिष्ठायको द्रव्याधिष्ठितो ज्ञेयः |
यथा चन्द्रे सूर्ययान्विते ग्रहस्थूलचन्द्रसहिते उपग्रहः कुजसहिते क्षेत्रपालः बुधसहिते मातृका गुरुसहिते दीपेशः शुक्रसहिते भीषणः शनिसहिते रुद्रः राहुसहिते यक्षः केतुसहिते नाग इति क्रमात् ||
ग्रह इति |
ग्रहे अधिष्ठिते हेमग्रहस्यैव मुखे मुखग्रहः नारायणो नारायणसम्बन्धी बलिः पूजोपहारादिरिति ||
क्षेत्रपाले अधिष्ठिते तस्मै सुरा मद्यं मांसञ्च देयमिति |
मातृकायामधिष्ठितायां महाबलिः |
मानुषबलिस्तदभावे छागादयोऽपि अविरुद्धा बलित्वेनोपकल्प्याः |
दीपेशे अधिष्ठिते दीपजा दीपप्रधाना पूजा |
भीषणे भीषणार्च्चनं भयजनकार्च्चनम् |
लोहितपुष्पादिकृते रुद्रेऽधिष्ठिते रुद्रजापो रुद्रमन्त्रस्य जपः जाप्यो रुद्राध्यायः |
यक्षेऽधिष्ठिते यक्षादिशाकं यक्षादिपूजनं |
नागेऽधिष्ठिते नागगणाः पूज्याः |
गणनाथेन गणेशेन संयुताः प्रतिशान्तिके गणेशपूजा |
लक्ष्मीधरादिभूत्यादिपञ्चविंशतिसंख्यकानि सर्वकार्ययेषु पूजयेत् ||
एवमिति |
विमाने यथाविधि क्रमेण एवं कृते पूजाहोमादौ दुःसाध्यो निधिः साध्यते |
एतन्निरूपकस्य दृष्टप्रयोजनमाह एवं प्रकारेण नरो मनुष्यो निधिप्राप्त्या वन्दनीयः नमस्करणीयः स्तुत्यो वा भवत्यत्र न संशयः इति ||
अथवा महाकपिलपञ्चरात्रोक्तक्रमेण शल्योद्धारः कर्त्तव्यः |
स क्रमो यथा |
प्रासादारम्भकाले च गृहादौ च विशेषतः |
शल्योद्धारस्तु कर्त्तव्यो यदीच्छेच्छुभमात्मनः |
प्रासादारम्भकाले च यदङ्गं स्पृशते पुमान् |
वास्तुदेहे दृढं तत्र शल्यं दद्याद्विचक्षणः |
कण्डूयति शिरः पुंसि शिरःशल्यं समुद्धरेत् |
शल्यं तत्रास्ति विज्ञेयं खन्यमाने करत्रये |
अग्निदाहश्च रोगश्च धनहानिश्च जायते |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः |
बाहौ कण्डूयमाने तु निर्दिशेल्लौहशृङ्खलम् |
हस्तद्वयेन मानं तल्लक्षणं कथितं तव |
स्वामिनो मरणं विद्याद्विदेशगमनं तथा |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः |
ऊरौ कण्डूयमाने तु कांस्यशल्यं विनिर्दिशेत् |
हस्तैकेन च सन्तिष्ठेल्लक्षणं कथितं तव |
असती च भवेद्भार्यया यशोहानिः प्रजायते |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः |
हस्ते कण्डूयमाने कङ्कालञ्च विनिर्दिशेत् |
त्रिहस्तेन तु सन्तिष्ठेत् खन्यमाने न चान्यथा |
अग्निदाहश्च रोगश्च पीडा च मरणं भवेत् |
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः |
पृष्ठे कण्डूयमाने तु बाहुशल्यं विनिर्दिशेत् |
हस्तेनैकेन सन्तिष्ठेन्नात्र कार्यया विचारणा |
स्वामिनाशो भवेत्तत्र भार्यया वा जायतेऽसती |
पदे कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् |
सार्द्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव |
अङ्गनाशो राजदण्डः शस्यहानिश्च जायते |
यत्नेनोत्पाटयेच्छल्य यदीच्छेत् सिद्धिमात्मनः |
कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् |
हस्तद्वितयमानेन लक्षणं गदितं तव |
भुजङ्गदंशस्तत्र स्यात् तस्माच्छल्यं समुद्धरेत् |
जानौ कण्डूयमाने तु भस्म तत्र विनिर्दिशेत् |
हस्त द्वयेन सन्तिष्ठेल्लक्षणं गदितं तव |
अग्निदाहो मनस्तापं क्लेशदुःखभयानि च |
करोत्येवंविधं कर्म्म तस्मात्तं वै समुद्धरेत् ||
ज्योतिषे ||
सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधियत्नतस्ताम् |
कुर्ययाद्विशल्यामथवा न मानं स्याद्वाथवा प्रश्नवशाद्विधिक्षः |
दूर्वाप्रबालाक्षतपुष्पपाणिः शुचिः शुचिं दैवविदं समेत्य |
पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वं भवने तदीशः |
तत्प्रश्नस्यादिमो वर्णः सन्धार्ययो यत्नतोऽथ वा |
क्रमात् पु.पापरादेव फलानां ब्राह्मणादितः |
क्रमादित्यनेन ब्राह्मणः पुष्पनाम वदेत् क्षत्रियो नदीनाम वैश्यो देवनाम शूद्रः फलनाम इत्यायातम् |
प्रणवो धरणौ धारिणी करौ न तदनन्तरम् |
भूत्यै नमश्च इत्येष मन्त्रो वह्निप्रियान्तकः |
वह्निप्रिया स्वाहा |
मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत् |
नवधा सदनक्षेत्रं तया पश्चाद्विलेखयेत् |
वकचत-एहाः शपया नव चेत् प्रश्नाक्षराणि जायन्ते प्रागादिकोष्ठनवके वर्णास्ते शल्यमाख्यान्ति |
प्रश्ने वकारः पुरतो नरास्थि ब्रवीति शल्यं मरकप्रदायि || १ ||
क्षौणीशदण्डोरगहेतुमृत्युप्रदं ककारः खरशल्यमग्नौ || २ ||
याम्यां चकारः प्लवगास्थिवेश्म प्रभोर्विनाशावहमाह शल्यम् || ३ ||
रक्षोदिशि श्वास्थिगृहस्थितानां महद्भयं वक्ति सुनिश्चितं तः || ४ ||
एः पाशिदिश्यस्थिशिशोर्ब्रवीति मृत्युप्रवासाहवमाह शल्यम् || ५ ||
हो वायुकोणे नररूपमाह दारिद्र्यमिष्टक्षयकृद्विधत्ते || ६ ||
धनपदिशि शकारः प्राह विप्रास्थिवित्तक्षयकृत् || ७ ||
अथ पकारो वक्ति ऋक्षास्थिशम्भौ || ८ ||
तदिह कुलविनाशं गोधनानाञ्च हानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः |
यो मध्यभागे भसितं कपालं कालायसञ्चाह कुलक्षयाय || ९ ||
यत्नादपास्यान्यधुना प्रमाणं सर्वत्र तथ्यं कथयामि शल्ये |
इन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ |
वह्न्यन्तककुवेरेषु पुरुषे मध्यवातयोः ||
देवीपुराणे ||
पुरुषाधःस्थितं शल्यं न गृहे दोषदं भवेत् |
प्रसादे दोषदं शल्यं भवेद् यावज्जलान्तिकम् ||
इति शल्योद्धारः ||
पूर्वादिज्ञाननिश्चयमेव मण्डपादि कुर्ययादन्यथा दोष उक्तो राघवभट्टधृतवचनेन यथा |
यदि कुर्ययाद् यथा दृष्टं विपन्नो निरयं व्रजेत् |
भानोर्गत्या दिशो ज्ञात्वा कुर्ययात् कर्माणि देशिकः |
वास्तुवैषम्यतो यत्र सम्यङ् न ज्ञायते किल |
तत्र शङ्कुं प्रतिष्ठाप्य जानीयात् शुद्धदिक्स्थितिम् ||
शङ्कुप्रमाणन्तु ज्योतिस्तत्त्वे |
अर्काङ्गुलाथ सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका |
शङ्कुसंज्ञा भवेत्तस्यास्तच्छायां परिकल्पयेत् ||
राघवभट्टधृतम् ||
तद्गत्या दिक्परिज्ञानं शृणु वक्ष्ये यथाविधि |
सुसमे भूतले कृत्वा वृत्तं भ्रमणरूपतः |
तन्मध्यबिन्दौ शङ्कुन्तु स्थापयेद् द्वादशाङ्गुलम् |
अग्रच्छायान्वयवशाद्वृत्ते |
पूर्वापराह्वयोः कृत्वा चिह्ने तमभितस्तथा |
सुसमानपरिभ्रान्त्या कार्ययं वृत्तद्वयं पुनः |
तयोः संश्लेषसञ्जातमध्यदक्षोत्तरे स्थिते |
सन्धिद्वये तु प्राक् प्रत्यक् सूत्रं मध्ये च विन्यसेत् |
सूत्रदक्षोत्तरं तेषामग्रैः प्रागादि कल्पयेत् ||
क्रियासारेऽपि ||
कृत्वा भूमिं समां तत्र वृत्तं हस्तमितं समम् |
द्वादशाङ्गुलमानोच्चं शङ्कुं खादिरनिर्मितम् |
अलाभे यज्ञकाष्ठस्य तत्र संस्थापयेत् सुधीः |
तच्छाया संश्पृशेद्यत्र तन्मध्ये मध्यमं स्मृतम् |
तिर्यक् प्रसारयेत् सूत्रं मध्ये याम्योत्तरे स्मृते |
कोणाः स्युरन्ये चत्वारश्चतुःसूत्रप्रसारणात् |
एवमाशापरिज्ञानं समाख्यातं सदा स्फुटम् |
ज्ञात्वैवं मण्डपादीनि कुर्ययात् सम्यग् विचारतः ||
महाकपिलपञ्चरात्रे तु विशेषः |
विषुवेऽनुगते सूर्यये शङ्कुमानं समाचरेत् |
खादिरं विन्यसेच्छङ्कुं द्वादशाङ्गुलविस्तृतम् |
इति पूर्वादिदिग्ज्ञाननिर्णयः ||
शङ्कुनिखननप्रकारोऽपि तत्रैव |
निश्चलीकृत्य हन्तव्यं गृहीत्वा लौहमुद्गरम् |
अष्टधा च समाहन्यात् प्रशस्तं क्रमतो लघु |
हन्यमाने यदा शङ्कौ हस्तात् पतति मुद्गरः |
तदा ताडयितुः शोको जायते दुस्तरो महान् ||
इति शङ्कुनिखननप्रकारः ||
शङ्कुसूत्रकरणमपि तत्रैव ||
मौञ्जकौशेयकार्पासं प्राणिबालजमेव वा |
चतुर्यवपरीणाहं सूत्रं शङ्कौ तु वेष्टयेत् |
वेष्ट्यमानं यदा सूत्रं शङ्कुं मुञ्चति लक्षणम् |
पुत्त्रस्य मरणं विद्यात् छिन्ने वैश्यविनाशनम् ||
तत्रापि नारसिंहेन होमेनाशुभनाशनमिति ||
तथा ||
शङ्कुं सारं भूमेः प्रोक्तं तस्याग्रं चित्रवृत्तकम् |
तस्य वृत्तादिनादौ तु स्थापयेत् समभूतले |
शङ्कुद्विगुणमानेन तन्मध्ये वर्त्तुलं लिखेत् |
पूर्वापराह्णयोश्छाया यदा तन्मण्डलान्तगा |
तद्बिन्दुद्वयगं सूत्रं पूर्वपरा दिगिष्यते |
बिन्दुद्वयान्तरभ्रान्तशरफद्वयपुच्छगम् |
दक्षिणोत्तरगं सूत्रमेवं सूत्रद्वयं न्यसेत् |
तदग्राण्यपरान्तानि सूत्राणि च विनिक्षिपेत् ||
सूत्राणि स्थापयेत् प्राज्ञः प्रागुत्तरमुखानि चेति ||
हयशीऋषपञ्चरात्रेऽपि ||
भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् |
द्वादशाङ्गुलमानेन तत्र वृत्तञ्च भ्रामयेत् |
मध्ये तु निश्चलं शङ्कु स्थाप्य छायां निरीक्षयेत् |
वृत्तरेखा या वाह्यस्था शङ्कुच्छाया प्रकल्पिता |
प्रवेशनिर्गमे तस्यां शङ्कुच्छायां निरूपयेत् |
शङ्कुच्छायाग्रचिह्नाभ्यां प्राक्प्रतीच्यौ प्रसाधयेत् |
रात्रौ तु प्राचीसाधनं यथा ||
कृत्तिका श्रवणा पुष्या चित्रास्वात्योर्यदन्तरम् |
एतत् प्राच्या दिशो रूपं युगमात्रोदिते पुर इति ||
त्रिकाण्डमण्डलेऽपि ||
श्रवणस्योदये प्राची कृत्तिकायास्तथोदये |
चित्रास्वात्यन्तरे चन्द्रसूर्यययोः |
इति शङ्कुप्रकरणम् ||
अथ मण्डलप्रकरणम् |
विश्वसारे द्वितीयपटले ||
दीक्षार्थं मण्डपं कूर्यात् सुन्दरं सुमनोहरम् |
नानावर्णैश्चित्रवर्णैश्चित्रितं सुमनोहरम् |
भित्तिस्तम्भादिसर्वेषु स्वर्णरत्नविभूषितम् |
नानावर्णैश्चित्रवर्णैश्चित्रितं मणिमण्डपम् |
वितानपत्रशालप्यैरलङ्कुर्ययाद्विधानतः |
पताकाभिर्ध्वजं कुर्ययाच्चतुर्दिक्षु मनोहरम् |
अष्टौ कुम्भानष्टदिक्षु मण्डपं रचयेत् सुधीः ||
अत्रेतिकर्त्तव्यता उक्ता शारदातिलके द्वितीयपटले ||
पुण्याहं वाचयित्वा तु मण्डपम् रचयेच्छुभम् ||
पुण्याहमिति यजमानस्य |
पुण्याहं भवन्तोऽधिब्रुवन्तु एवं स्वस्ति भवन्त इति ऋद्धिं भवन्त इति त्रिभिः पुण्याहवाचनम् ||
तदुक्तं राघवभट्टधृतबौधायनेन ||
पुण्याहं स्वस्ति ऋद्धिमित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषं वाचयित्वेति |
आशिषं वाचयित्वेति निर्देशात् सुतरां यजमाननामोल्लेख आयाति |
तेन नामोल्लेखमकृत्वा केवलं पुण्याहमित्यादिवचनमनुभवविरुद्धमिति |
शारदायाम् ||
पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् |
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः |
अष्टहस्तसमुच्छ्रायाः संस्थाप्य द्वादशाभितः |
पञ्चहस्तप्रमाणास्ते निञ्छिद्रा ऋजवः शुभाः ||
मध्यस्तम्भस्याष्टहस्तपरिमाणमितरेषां द्वादशानां पञ्चहस्तपरिमाणमिति ||
तत्पञ्चमांशं निखनेन्मेदिन्यां मन्त्रवित्तमः ||
नारिकेलदलैर्वंशैश्छादयेत्तत्समन्ततः ||
वंशैर्वंशदलैरुभयत्र बहुवचननिर्देशेनेत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायाच्छादनोपयुक्तमन्यदपि लभ्यते |
द्वारेषु तोरणानि स्युः क्रमात् क्षीरिमहीरुहाम् |
स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् |
दशाङ्गुलप्रमाणेन तत्परीणाह ईरितः |
तिर्ययक् फलकमानं स्यात् स्तम्भानामूर्द्धमानतः |
मूलानि कल्पयेन्मध्ये तोरणे हस्तमानतः |
दिक्षु ध्वजानि बध्नीयात् लोकपालसमप्रभान् |
वितानदर्भमानाद्यैरलङ्कुर्वीत मण्डपम् ||
क्षीरिमहीरुहामिति अश्वत्थोडुम्बरप्लक्षवटानाम् ||
तदुक्तं राघवभट्टधृतेन ||
न्यग्रोधतोरणं पूर्वे याम्ये तूडुम्बरं मतम् |
पश्चिमेऽश्वत्थसम्भूतमुत्तरे प्लक्षतोरणम् ||
पूर्वे वा प्लक्षसम्भूतं न्यग्रोधञ्चोत्तरे मतमिति ||
तोरणकरणकारणन्तु महाकपिलपञ्चरात्रे |
देवास्तोरणरूपेण संहिता यज्ञमण्डपे |
विघ्नविध्वंसनार्थञ्च रक्षार्थं त्वध्वरस्य च |
अध्वरस्य यज्ञस्य |
इति मण्डपादिकरणम् ||
अथाङ्कुरार्णपणम् |
प्रपञ्चसारे पञ्चमपटले ||
सप्ताहतो वा नवमाहतो वा प्रागेव दीक्षादिवशाद्यथावत् |
सपालिकापञ्चमुखीशरावचतुष्टये वीजनिवापयुक्तम् |
अन्यस्मिन् भवने च भूतलतले शुद्धे स्थले मण्डलं कुर्ययात् प्राग्वरुणायतं पदचतुष्कोणे तु भानूदयम् |
पीतारक्तसितासितं प्रतिपदं वह्न्यादिसप्तान्तिकम् याम्योदीच्यसमायतं प्रणिगदन्त्यन्येऽपि तन्मन्त्रिणः |
वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलिव्यापका वैरिञ्च्यो घटिकास्तु पञ्चवदनाद्यष्टाङ्गुलोच्छ्रायकाः |
शैवाः स्युर्द्विषडङ्गुला अपि शरावास्त्रा जलक्षालिताः सूत्रैश्च प्रकलयय पंक्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ||
पृथगपि शालीतण्डुलपूर्णासु सदर्भबद्धकूर्च्चासु |
मृद्बालुकाकरीषैः क्रमेण पूर्णानि पात्राणि ||
शालीकङ्कुश्यामाकतिलसर्षपमुद्गमाषनिष्पावाः |
खल्वाढकीसमेता वीजानि विदुः प्ररोहयोग्यानि ||
प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूलवीजेन साधकवरस्त्वपि पात्रकेषु |
विप्राशिषा च विधिवत् प्रतिपाद्यमानशङ्खादिमुख्यतमपञ्चकनिस्वनैश्च ||
हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रैराच्छाद्याद्भिः सिच्यतां पञ्चघोषैः |
सायं प्रातः शर्वरीषु प्रदद्यादुक्तैर्द्रव्यैस्तद्बलिं साधकेन्द्रः ||
भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः |
ताभ्यः क्रमेण रात्रिषु सप्त सुरान् वसु वा तद्बलिर्देयः ||
लाजतैलरक्तरजनीदधिशक्त्वन्नानि भूतक्रूराख्यम् |
पैत्र्यं तिलतण्डुलकं सान्नपूपं करम्भलाजकं याक्षम् ||
नारिकेलोदकशक्तुपिष्टं नागं पद्माक्षतञ्च वैरिञ्च्यम् |
अन्नापूपं शैवं दुग्धान्नञ्च वैष्णवेयम् ||
यदि नवरात्रं क्रमेण बलिरुक्तं |
तारादिकैर्नमोऽन्तैः स्वैः स्वैरपि नामभिर्बलिमन्त्रः |
पात्राणि त्रिविधान्यपि परितः पुनरष्टदिक्षु बलिकॢप्तिः |
वीजारोपणकर्म्म प्रथितमिदं सार्वकामिकं भवति |
सार्वकामिकमित्युपादानाद्वक्ष्यमाणदीक्षायामित्यादि-वचनाच्चास्यावश्यकत्वम् |
एतेषामर्थस्तु विश्वसारशारदावक्ष्यमाणप्रमाणैः स्पष्टीभविष्यत्यतोऽत्र व्याख्या न कृता |
विश्वसारतन्त्रे तृतीयपटले च |
जाताङ्कुराः प्रकुर्वीत चतुर्दिक्षु च पालिकाः |
पालिकाः पञ्च मुख्यश्च शरावाश्च ततः क्रमात् |
षोडशद्वादशाष्टाभिरङ्गुलीभिः क्रमादिमाः |
सुगन्धितोयपूर्णेन जाताङ्कुरमुदाहृतम् |
सुधावीजेन वीजानि निक्षिपेत्तत्र सर्वतः |
आचार्ययो विधिना कुर्ययात् सर्वशास्त्रार्थपारगः |
श्यामाकमाषकङ्ग्वश्च व्रीहयः सर्वतः स्मृताः |
दीक्षायाः सप्तमे पूर्वं दिवसे संयतः सदा |
सप्तरात्रेषु कुर्वीत पूजनं सर्वदेवताः |
नानोपहारबलिभिः पूजयेत् परमेश्वरि ! |
प्रणवाद्या नमोऽन्ताश्च पूजयेत् सर्वतः सुधीः |
भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः |
क्रमेण पूजयेत् सर्वान् सप्तरात्रिषु देशिकः |
सप्तानामपि रात्रीणां देवताः सर्वसम्मताः |
उपहारैः पूजयेत्तान् तानि वक्ष्यामि पार्वति ! |
लाजैश्च पूजयेद्भूतान् गन्धपुष्पादिचन्दनैः ||
भूताधिपं भूतगणं भूतेशञ्च क्रमेण तान् |
तैलहरिद्रादधिशक्तुभिः पूजोपहारकैः |
तण्डुलान् तिलसम्मिश्रान् सान्नपूपैः प्रपूजयेत् |
पितॄणां पूजयेन्नित्यं कथितं पद्मयोनिना |
करम्भलाजौ यक्षेभ्यो नारिकेलोदकान्वितम् |
शक्तुं पिष्टञ्च नागेभ्यः पूजयेद्विधिनामुना |
पङ्कजातपतण्डुलदूर्वाशालिभिरुत्तमा |
पूजयेत् कथिता तेवि ! ब्रह्मणः सर्वसम्मता |
सापूपमन्नं सर्वाय सर्वतन्त्रस्य सम्मतम् |
गुडोदकं गुडान्नञ्च नानारससमन्वितम् |
दधि दुग्धं पायसान्नं दद्यात् प्रियतमं महत् |
विष्णवे च निवेद्याथ सर्वसिद्धिं लभेन्नरः ||
अत्र बलिद्रव्याधिक्यदर्शनात् प्रागुक्तप्रपञ्चसारोदितबलिद्रव्यमुपलक्षणमात्रं शक्ताशक्तपरं वा |
शारदातिलके तृतीयपटलेऽपि ||
प्रागेव दीक्षादिवशात् सप्तभिर्विधिवद्दिनैः |
सर्वमङ्गलसम्पत्त्यै विदध्यादङ्कुरार्पणम् |
मण्डलस्योत्तरे भागे शालां पूर्वापरायताम् |
गूढां कुर्ययात्ततस्तस्यां मण्डलं रचयेत् सुधीः |
पञ्चहस्तप्रमाणानि पञ्चसूत्राणि पातयेत् |
पूर्वापरायतान्येषामम्भरुं द्वादशाङ्गुलम् |
दक्षिणोत्तरसूत्राणि तद्वदेकादशार्पयेत् |
पदानि तत्र जायन्ते चत्वारिंशत् प्रमार्ज्जयेत् |
पंक्त्या वीथीश्चतस्रोऽन्तश्चतुष्कोभयपार्श्वयोः |
वीथ्यौ द्वे च चतुष्कोष्ठमेकमत्रावशिष्यते |
पदानि रञ्जयेत्तानि श्वेतपीतारुणासितैः |
रजोभिः श्यामलेनाथ वीथीरापूरयेत् सुधीः |
पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्म्मणि |
पालिकाः पञ्चमुख्यश्च शरावाश्च ततः क्रमात् |
प्रोक्ताः स्युः सर्वतन्त्रेषु हरिब्रह्मशिवात्मकाः |
एषामुत्सेधतोऽन्वेयैः षोडशद्वादशाष्टभिः |
अङ्गुलैः क्रमशस्तानि शुभान्यावेष्ट्य तन्तुना |
प्रक्षाल्य देशिकस्तेषु पादेष्वाहितशालिषु |
सगन्धदर्भकूर्च्चेषु पश्चिमादि निवेशयेत् |
करीषबालुकामृद्भिस्तानि पात्राणि पूरयेत् |
सुधावीजेन वीजानि दुग्धैः प्रक्षाल्य तत्त्ववित् |
मूलमन्त्रत्रिजप्तानि पञ्चघोषपुरःसरम् |
आशीर्वाग्भिर्द्विजातीनां मङ्गलाचारपूर्वकम् |
निर्वपेत्तेषु पात्रेषु देशिको यतमानसः |
शालिश्यामाढकीमुद्गतिलनिष्पात्रसर्षपाः |
कुलत्थकङ्गुमाषाश्च वीजान्यङ्कुरकर्म्मणि |
हरिद्राद्भिः समभ्युश्य वरुन्नैराच्छाद्य देशिकः |
बलिं विविधपात्राणां दिक्षु पूर्वादितः क्षिपेत् |
प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः |
भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः |
सप्तानामपि रात्रीणां देवताः समुदीरिताः |
भूतेभ्यः स्युर्लाजतिलहरिद्रादधिशक्तवः |
शाल्यः पितृभ्यः सतिलास्तण्डुलाः परिकीर्त्तिताः |
करम्भलाजौ यक्षेभ्यो नारिकेलोदकान्वितम् |
शक्तुं पिष्टञ्च नागेभ्यो ब्रह्मणे पङ्कजाक्षतम् |
सपूपमन्नं सर्वाय विष्णवे स्याद्गुडौदनम् |
ततो लोकेश्वरेभ्योऽपि विधिवद्वितरेद्बलिम् |
दीक्षायामभिषेकेषु नववेश्मप्रवेशने |
उत्सवेषु च सम्पत्त्यै विदध्यादङ्कुरार्पणम् ||
एतेषामर्थः ||
दीक्षादिवशात् पाकसप्तभिर्दिनैरित्यनेन दीक्षादिनमष्टमं यथा भवति तथा कर्त्तव्यमित्युक्तम् |
विधिवदित्यनेन नवभिः पञ्चभिस्त्रिभिर्वा इत्यायातम् ||
तदुक्तं सिद्धान्तशेखरे ||
प्रतिष्ठायाञ्च दीक्षायां स्थापने चोत्सवे तथा |
सम्प्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने |
सर्वमङ्गलकार्ययेषु कारयेदङ्कुरार्पणम् ||
महाकपिलपञ्चरात्रेऽपि ||
पुण्याहघोषणं कृत्वा ब्राह्मणैः सह देशिकः |
मङ्गलाङ्कुरयज्ञञ्च कुर्ययात्तत्रैव वाहनि ||
प्रशस्तयागदिवसात् पुरस्तात् सप्तमेऽहनि शुभे नवमे वा |
पञ्चमेऽठ सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत ||
गुरुर्विशुद्धः प्रागेव शुद्धाहात् सप्तमेऽहनि |
सङ्कल्प्योपोष्य कर्त्तव्यमङ्कुरारोपणं शुभम् |
कुर्ययान्नान्दीमुखश्राद्धं पूर्वेद्युः स्वस्तिवाचनम् |
स्वगृह्योक्तप्रकारेण तदेतद्विदधीत वै |
संहितायामपि ||
सर्वत्राभ्युदयश्राद्धमङ्कुरोत्पादनं तथा |
आदावेव प्रकुर्वीत कर्म्मणोऽभ्युदयात्मनः ||
शालामिति विंशत्या तु करैर्मानं दशायामेन विष्तृतेति शालाया उत्तममानम् |
अत्रैतावत्याः प्रयोजनाभावादर्द्धेन मध्यममानेन शाला कार्यया |
तेन दशहस्तदीर्घा पञ्चहस्तायामा अत्र शाला कर्त्तव्या तामेव पूर्वापरायातामिति |
दीर्घप्रहस्तचतुरस्ररूपां गूढां कपाटादिपरिवृतां दक्षिणैकद्वारवतीं निवाताञ्च कुर्ययात् |
तदुक्तं प्रयोगसारे ||
अर्वादुदक्स्थितां कृत्वा निवातां तां कुटीं दृढामिति |
तत्र मण्डलकरणप्रकारमाह |
पञ्चहस्तेति पूर्वपश्चिमक्रमेण पञ्चसूत्राणि पातयित्वा द्वादशाङ्गुलान्येकैकान्तरितान्येकादशसूत्राणि दक्षिणोत्तरक्रमेण पातयेत् तेन चत्वारिंशत्कोष्ठा भवन्ति |
मार्जयेदिति पश्चादन्वेति ||
पंक्त्यावाह्य चतस्रो वीथीर्मार्ज्जयेत् मार्ज्जनप्रकारस्तु ||
प्रथमं पूर्वस्यां चतुष्कोष्ठात्मिकामेकां वीथीम् ततो दक्षिणस्यामष्टकोष्ठात्मिकामपराम् पश्चिमायां चतुष्कोष्ठात्मिकामन्याम् उत्तरस्यामष्टकोष्ठात्मिकामितराञ्च मार्जयेत् |
ततः अन्तश्चतुष्कस्य उभयपार्श्वयोर्द्वे वीथ्यौ द्विद्विकोष्ठरूपे पुनर्मार्जयेत् |
तेनात्र मण्डले चतुष्कोष्ठत्रयमवशिष्यते |
तानि शिष्टानि चतुष्कोष्ठत्रयस्थानि द्वादशपदानि प्रत्येकं चतुष्कोष्ठं श्वेतादिभीरजोभीरञ्जयेत् |
तत्र वायुपदे श्वेतं आग्नेये पीतं नैर्-ऋते अरुणं ईशाने कृष्णम् |
ततः श्यामलेन वीथीरापूरयेत् |
पत्राणीति स्थूलान्युच्चानि शरावाण्येव पालिकाशब्देनोच्यन्ते |
पालिका एव नीचाः पञ्चमुखस्थिताः पञ्चमुख्य उच्यन्ते शरावाः प्रसिद्धा एव |
पालिका हरिरूपाः पञ्चमुख्यो ब्रह्मरूपाः शरावाः शिवरूपाः |
एतेन हरिब्रह्मेशा एषु पात्रेषु पूज्या इत्युक्तं भवति |
तदुक्तं सारस्वततन्त्रे ||
प्रोक्तेषु तेषु पात्रेषु ब्रह्मविष्णुशिवान् यजेत् ||
सिद्धान्तशेखरेऽपि ||
सम्पूजयेत् शरावेषु रुद्रं चन्दनपुष्पकैः |
पालिकासु तथा विष्णुं ब्रह्माणं घटिकासु चेति |
उत्सेधत औन्नत्येन ||
महाकपिलपञ्चरात्रे ||
पालिका वक्त्रविस्तारा षोडशाङ्गुल उच्यते |
भवेत्कण्ठविलञ्चास्या गुदेऽष्टाङ्गुलविस्तृतम् |
पादपीठस्य विस्तारः षडङ्गुल उदाहृतः |
चतुरङ्गुल उत्सेधस्तत्सन्धिश्चाङ्गुलद्वयम् |
तत्सन्धेश्च भवेन्नाहः पादपीठार्द्धमेव च |
भवेत् पञ्चमुखी चैवं घटिका सर्वकामदा |
चरतुङ्गुलविस्ताराण्याहुर्वक्त्राणि पञ्च वै |
चत्वारि च चतुर्दिक्षु ऊर्द्ध्वमेकं यथाविधि |
घटिकायामविस्तारो द्वादशाङ्गुल उच्यते |
आचार्ययाः कथयन्त्येके षोडशाङ्गुलमेव वा |
द्वादशाङ्गुलविस्तारं शरावस्य मुखं स्मृतम् |
चतुरङ्गुलविस्तारमधस्तान्मूलमुच्यते |
राघवभट्टधृतम् |
तालमात्रमपि पञ्चमुखी स्याद्व्यासतोच्छ्रयमिता घटिका स्यात् |
दिक्षु तन्मुखचतुष्टयमेकं मध्यमन्तु समवर्त्तितमागम् |
अलविस्तृतमुखे तु शरावं व्यासतोच्छ्रयगतार्द्धमिताङ्घ्रिः |
दण्डमस्य चरङ्गुलनाहं कण्ठमध्यविलवर्ज्जमदग्रम् |
सम्भवे कनकरूप्यताम्रतो मार्त्तिकाण्यभिनवान्यथवा स्युः ||
सिद्धान्तशेखरे तु ||
यथासम्भवमानन्तु पालिकादि समाचरेदित्युक्तम् |
शुभानीति कृष्णवर्णव्रणादिरहितानीति राघवभट्टः |
तन्तुनेति त्रिगुणेन पूर्वं प्रक्षालनं पश्चात्त्रिगुणतन्तुना वेष्टनम् |
दर्भकूर्च्चमग्रे वक्ष्यमाणम् |
पश्चिमादीति पश्चिमचतुष्के पालिकाचतुष्टयम् मध्यमचतुष्के पञ्चमुखीचतुष्टयम् पूर्वचतुष्के शरावचतुष्टयं निवेशयेत् |
तन्मध्ये आग्नेयादिस्थापनम् |
देशिक इत्यनेनोक्तम् ||
तदुक्तं प्रयोगसारे ||
एवं कृत्वा साधकस्तु तत्र पात्राणि विन्यसेत् |
वह्न्यादीशानपर्ययन्तं चतुष्केषु पृथक् पृथक् |
करीषेत्यादि ||
करीषं शुद्धगोमयचूर्णम् ||
एतैरुत्तरोत्तरं सर्वाण्यपि पात्राणि पूरयेत् |
तदुक्तं हयशीर्षपञ्चरात्रे ||
पूरयेदुत्तरोत्तर इति |
प्रयोगसारेऽपि |
मृद्बालुकाकरीषैश्चोर्द्ध्वतः पात्राणि पूरयेदिति ||
अत्र विशेषः सिद्धान्तशेखरे ||
गन्धादिभिश्च कुद्दालं पूजयित्वा दिनान्तरे |
गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् |
गुर्वादयो रथारूढा गजारूढास्तथा परे |
गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा |
तत्र शुद्धं भुवो भागं दर्भैः सम्मार्ज्य वास्त्रतः |
अभ्युक्ष्य चार्घ्यतोयेन तत्तन्मन्त्रमनुस्मरन् |
हृदा भूमिं समावाह्य गन्धपुष्पैः समर्च्चयेत् |
कुद्दालीमन्त्रमन्त्रेण खात्वा भूमिमथो मृदम् |
गृहीत्वा वामदेशेन पूरयेत् कांस्यपात्रके |
हृदा मृदन्तु सम्मृज्य वस्त्रेणाच्छाद्य धारयेत् |
पुरं वा निलयं वापि सर्वमङ्गलनिस्वनैः |
गुरुः प्रदक्षिणं कृत्वा मण्डपं वानयेत्ततः |
तत्तत्कर्म्म दिवाकाले कुर्ययाद्रात्रौ न बुद्धिमान् |
तेषु वीजारोपणमाह सुधेति ||
सुधावीजेन वमितिमन्त्रेण |
दुग्धैः प्रक्षाल्येति |
महाकपिलपञ्चरात्रे तु विशेषः ||
द्वादशाक्षरमन्त्रेण क्षालयित्वा तु वारिणेति ||
सारस्वतमतेऽपि ||
वीजानि तानि प्रक्षाल्य जलक्षीरेण च क्रमादिति |
एतत्सर्वं तन्त्रविदित्यनेन सूचितम् |
मूलेति मूलमन्त्रेण अभिजप्तानि अष्टोत्तरशतमित्यर्थः |
तदुक्तं महाकपिलपञ्चरात्रे ||
सख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिष्विति ||
पञ्चघोषस्तु ||
पटहकांस्यमृदङ्गमुखवाद्यशङ्खाः |
मङ्गलाचारेति |
चतुरङ्गैः सुप्रसिद्धहुलहुलध्वन्यादिभिः |
ततस्तानि वीजान्येकीकृत्य रात्रौ प्राङ्मुख उदङ्मुखो वा मूलमन्त्रेण पालिकादिषु निर्वपेदित्युक्तम् |
तदुक्तं सिद्धान्तशेखरे |
वीजमुख्येन मूलेन प्राङ्मुखो वाप्युदङ्मुखः |
वापयेत् सर्ववीजानि पालिकादिष्वनुक्रमात् |
वीजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् ||
सारस्वतमतेऽपि ||
वीजेभ्यो दैवतेभ्यश्च स रात्रौ कान्तिमान् यतः |
तस्माद् गुरुस्तु वीजानि निशायामेव वापयेदिति ||
वीजान्याह शालीति |
शालयो हैमन्तिकाः श्यामाः श्यामाकाः |
कान्यकुब्जभाषायां साम्बा इति |
गौडभाषायां शामा इति प्रसिद्धिः |
आढकी तुवरी अरहर इति गौडभाषाप्रसिद्धिः |
निष्पावा वोरा इति गौडभाषाप्रसिद्धिः |
सारस्वतमते प्रत्येकं वीजेषु देवतापूजोक्ता यथा |
स्कन्दं प्रियङ्गौ निष्पावे वायुमग्निं कुलत्थके |
आढक्यां निर्-ऋतिं सोमं मुग्धे ! वैवस्वतं तिले |
प्रजापतिं शालिवीजे त्वनन्तं सर्षपेऽर्च्चयेत् |
इमं श्यामे च माषे च वरुणन्तु नगात्मजे ! इति |
सिद्धान्तशेखरे तु प्रत्यहं सोमपूजाजाप्युक्ता यथा |
सोमं सम्पूजयेन्नित्यमधिवासदिनावधि |
अधिवासदिने प्राप्ते सोममुल्लासयेद्गुरुरिति |
हरिरिन्द्रेति तत्तन्मन्त्रे उक्तः |
प्रयोगसारे |
त्रिपञ्चकाय सर्वाय शङ्कराय शिवाय च |
सर्वलोक प्रधानाय शाश्वताय नमो नमः |
विकीर्ययानेन मन्त्रेण हरिद्रा चूर्णमिश्रितम् |
तोयं प्रवर्षयेत्तेषु सिञ्चेत् तोयैर्दिनं प्रति |
प्रतिदिनमित्यर्थः |
वस्त्रैर्नूतनवस्त्रैः |
बहुवचनं कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्ययवस्यति |
आच्छाद्येति पात्रचतुष्टयमेकैकेन रात्रौ बलिं क्षिपेदित्यन्वयः |
प्रातः पुनः स्थलमार्जनादि कृत्वा द्वितीयरात्रादौ बलिदानं प्रणवाद्यैरिति तत्र मन्त्रः |
ओं भूतेभ्यो नम एवमन्यत्रापि मन्त्रः |
महाकपिलपञ्चरात्रे तु विशेषः |
ततो गन्धविमिश्रेण सिञ्चेद्वै शुद्धवारिणा |
त्रिरात्रन्तु यथान्यायं पञ्चरात्रमथापि वा |
सारस्वतमते तु |
प्ररूढान्यङ्कुराण्यन्यो न वीक्षेत कदाचन |
आचार्यय एव प्रविशेत् शिष्यो वापि तदा ज्ञयेति ||
सिधान्तशेखरेऽपि ||
वस्त्रैराच्छाद्य यत्नेन सुगुप्तानि च कारयेत् |
सप्तसु रात्रिषु पृथग्बलिद्रव्याण्याह भूतेभ्य इति |
करम्भो दधिशक्तवः |
अक्षता अखण्डतण्डुला इति राघवभट्टः |
श्राद्धतत्त्वधृतवचने अक्षता यवा इति |
यदा नवसु रात्रिषु बलिदानं तदा रात्रिद्वये बलिदानम् |
द्रव्यं देवता च पुरैवोक्तम् |
तत्तद्दिशि पायसादिना बलिर्विधेयः |
तत्रेशानपूर्वयोर्मध्ये ब्रह्मणे नैर्-ऋतपश्चिमयोर्मध्येऽनन्ताय बलिर्देयः ||
अथाङ्कुरपरीक्षा ||
सिद्धान्तशेखरे |
यजमानाभिवृद्ध्यर्थमङ्कुराणि परीक्षयेत् |
सम्यगर्द्धं प्ररूढानि कोमलानि सितानि च |
धूम्रवर्णान्यपूर्वाणि तथा तिर्ययग्गतानि च |
श्यामलानि च कुब्जानि वर्जयेदशुभानि तु |
आवृष्टिं कुरुते कृष्णं धूम्राभं कलहं तथा |
अपूर्वं जननाशञ्च कुभिक्षं श्यामलाङ्कुरम् |
तिर्ययग्गते भवेद्व्याधिः कुब्जे शत्रुभयं तथा |
सारस्वतमतेऽपि ||
प्ररूढैरङ्कुरैः कर्त्तुर्निर्दिशेच्च शुभाशुभम् |
श्यामैः कृष्णैरङ्कुरैरर्थहानिस्तिर्ययग्रूढैर्व्याधिरान्दोलितैस्तैः |
कुब्जैर्दु.खं दुष्प्ररूढैर्मृतिश्च रोगं भुग्ने स्थानदेशेष्टहानिरिति ||
अशुभे चाङ्करे जाते शान्तिहोमं समाचरेत् |
मूलमन्त्रेण जुहुयाद् गुरुश्च ब्राह्मणैः सह |
अघोरास्त्रेण चास्त्रेण शतं वाथ सहस्रकमित्यङ्कुरारोपणम् ||
इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे गुरुशिष्यविचाराद्यङ्कुरारोपणान्तकर्मकथनरूप-पल्लवकथनं नाम तृतीयः परिच्छेदः |

दीक्षाव्युत्पत्तिस्तु रुद्रजामले |
ददाति शिवतादात्म्यं क्षिणोति च मलत्रयम् |
अतो दीक्षेति सम्प्रोक्ता दीक्षातन्त्रार्थवेदिभिः ||
लघुकल्पसूत्रे च ||
दीयते परमं ज्ञानं क्षीयते पापपद्धतिः |
तेन दीक्षोच्यते मन्त्रे स्वागमार्थबलाबलात् |
योगिनी तन्त्रे तृतीयभागे षष्ठपटलेऽपि |
दीयते ज्ञानमत्यर्थं क्षीयते पाशबन्धनम् |
अतो दीक्षेति देवेशि ! कथिता तत्त्वचिन्तकैः |
मनसा कर्मणा वाचा यत् पापं समुपार्जितम् |
तेषां विशेषकरणी परमज्ञानदा यतः |
तस्माद्दीक्षेति लोकेऽस्मिन् गीयते शास्त्रवेदकैः |
विज्ञानफलदा सैव द्वितीया लयकारिणी |
तृतीया मुक्तिदा चैव तस्माद्दिक्षेति धीयते ||
विश्वसारतन्त्रे द्वितीयपटले च ||
अथ दीक्षां प्रवक्ष्यामि शृणुष्व कमलानने ! |
यस्य विज्ञामात्रेण देवत्वं लभते नरः |
दिव्यज्ञानं यतो दद्यात् कुर्ययात् पापक्षयं ततः |
तस्माद्दीक्षेति सा प्रोक्ता सवतन्त्रस्य सम्मता ||
अथ दीक्षामाहात्म्यम् |
रुद्रजामलपूर्वखण्डे तृतीयपटले ||
देवि ! दीक्षाविहीनस्य न सिद्धिर्न च सङ्गतिः |
तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् |
विचारं चक्रसारस्य करणीयमवश्यकम् |
अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् |
तस्माद्दीक्षां प्रयत्नेन सदा कुर्ययाच्च तान्त्रिकीम् ||
पञ्चदशपटले ||
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः |
न भवन्ति प्रिये ! तेषां शिलायामुप्तवीजवत् |
कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे ||
रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् |
दीक्षाविद्धस्तथैवात्मा शिवत्वं लभते प्रिये ! |
दीक्षाग्निदग्धकर्मासौ यायाद्विच्छिन्नबन्धनः |
गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत् |
गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता |
दीक्षासंस्कारसम्भिन्ने जातिभेदो न विद्यते |
शिवलिङ्गे शिलाबुद्धिं कुर्वन् यत्पापमाप्नुयात् |
दीक्षितस्यापि पूर्वत्वं स्मरन् तत्पापमाप्नुयात् |
दार्वश्मलौहमृद्रत्नजातिलिङ्गं प्रतिष्ठितम् |
यथोच्यते तथा शुद्धाः सर्वे वर्णाश्च दीक्षिताः |
येन पूजितमात्रेण चाब्रह्मभुवनान्तिकम् |
पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः |
दीक्षितस्य न कार्ययं स्यात्तपोभिर्नियमव्रतैः |
न तीर्थगमनेनापि न च शारीरयन्त्रणैः ||
पञ्चमखण्डे षष्ठोल्लासेऽपि |
गवां सर्पिः शरीरस्थं न करोत्यात्मपोषणम् |
स्वकर्मचरितं दण्डं पुनस्तामेव पोषयेत् |
एवं सर्वशरीरस्थसर्पिर्वत् परमेश्वरि ! |
विना चोपासनाद्देवि ! न ददाति फलं नृणाम् ||
पुरश्चरणरसोल्लासे प्रथमपटले |
न च दीक्षापरं ज्ञानं न च दीक्षापरं तपः |
न च दीक्षापरं कालं तस्माद्दीक्षा गरीयसी ||
इति दीक्षाप्रशंसा ||
दीक्षायां वारतिथिनक्षत्रमासादिभद्राभद्रे अस्मदत्यतिवृद्धप्रपितामहकृष्णानन्दागमवागीशेन तन्त्रसारे लिखिते ते तत्र द्रष्टव्ये |
विशेषस्तु पुरश्चरणरसोल्लासे ||
दीक्षायां चञ्चलापाङ्गि ! न कालनियमः क्वचित् |
सद्गुरोर्दर्शनादेव सूर्ययपर्व च सर्वदा |
शिष्यमाहूय गुरुणा कृपया यदि दीयते |
तत्र लग्नादिकं किञ्चिन्न विचार्ययं कदाचन |
एतत् सर्वं दिव्यवीरविषयम् |
तथा च इतः पूर्वम् |
दिव्यवीरगुरुं लब्ध्वा दीक्षां कृत्वा विचक्षणः |
ततः समाहितो भूत्वा पुरश्चर्ययां करिष्यति |
इत्युक्तम् एतेन पशुगुरुतो दीक्षायां सर्वं विचार्ययमित्यायातम् |
कल्पसूत्रटीकाधृतकुलार्णवे ||
द्विजोऽपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः |
द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रस्य निर्णयः |
ज्येष्ठत्वेन च ते पूज्या नावमान्याः कथञ्चन ||
इति दीक्षाज्येष्ठत्वादिकथनम् ||
कुलार्णवेऽपि ||
दीक्षां विना न मोक्षः स्यात् प्राणिनां शिवशासनात् |
सा च न स्याद्विनाचार्ययमित्याचार्ययपरम्परा |
उपासनाशतेनापि यां विना नैव सिध्यति |
तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये ||
महाकपिलपञ्चरात्रनारायणीययोः ||
मन्त्रो यः साधयेदेकं जपहोमार्चनादिभिः |
क्रियाभिर्भूरिभिर्यस्य सिध्यन्त्यन्येऽल्पसाधनात् |
सम्यक् सिद्धैकमन्त्रस्य नासाध्यमिह किञ्चन |
बहुमन्त्रवतः पुंसः का कथा हानिरेव सः |
इत्येकमन्त्रसाधनफलं राघवभट्टधृतम् ||
पुस्तके लिखितो मन्त्रो येन सुन्दरि ! जप्यते |
न तस्य जायते सिद्धिर्हानिरेव पदे पदे ||
षट्कर्मदीपिकाधृतमपि ||
पुस्तके लिखिता विद्या येन सुन्दरि ! जप्यते |
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि |
राघवभट्टधृतम् ||
द्विजानामनुपेतानां षट्कर्माध्ययनादिषु |
यथाधिकारो नास्तीहस्याच्चोपनयनादनु |
तथाचादीक्षितानाञ्च मन्त्रदेवार्चनादिषु |
नाधिकारोऽस्त्यतः कुर्ययादात्मानं शिवसंस्कृतमिति ||
दीक्षाया अकरणे दोषकथनम् ||
नारायणीये ||
यदृच्छया श्रुतं मन्त्रं छन्नेनापि छलेन वा |
पत्रेक्षितं वा यथावत्तज्जघन्यमनर्थकृत् ||
इति निन्द्यदीक्षाकथनम् ||
राघवभट्टेऽपि ||
विप्रस्य विधिवद्दीक्षामभिषेकाव्रसानिकाम् |
श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेद्दीक्षितं मनुम् |
गुरुमुख्याः क्रियाः सर्वा भुक्तिमुक्तिफलप्रदाः |
तस्मात् सेव्यो गुरुर्नित्यं मुक्त्यर्थं सुसमाहितैः |
गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवम् |
जपो होमार्चनविधिः कार्ययो दीक्षान्वितैर्नरैः ||
इति दीक्षाविधिकथनम् ||
मूलसूत्रम् ||
दीक्षास्तिस्रः शाक्ती शाम्भवी मान्त्री चेति |
तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात् मान्त्री मन्त्रोपदिष्टा सर्वाश्च कुर्ययादेकैकमित्येके |
एतद्व्याचक्षते श्रीशङ्कराचार्ययाः |
शाक्तीति शक्तिः कुण्डलिनी परचिद्रूपा तस्याः क्रियासमभिव्याहारेण कुलाकुलभेदाद्ब्रह्मनाड्यां परशम्भुमेलनं शक्तिप्रवेशः |
शाम्भवी चरणविन्यास्यादिति ते चरणाश्चत्वारः शुक्लरक्तमिश्रपरस्वरूपाः |
मान्त्री मन्त्रोपदिष्टेति |
तदुक्तं रुद्रजामले ||
शाक्ती शक्तिभवा दीक्षा शक्तिः श्रीपरकुण्डली |
तस्याः प्राणविलोमेन प्रवेशः परशाम्भवे |
चरणद्वयसम्भूता शाम्भवी शीघ्रसिद्धिदा |
मान्त्री मन्त्रोद्भवा दीक्सा तच्छक्तिः स्वात्मसम्भवा |
मन्त्रयन्त्रार्च्चनादुक्त क्रियाभिर्भोगमोक्षदा |
चरणद्वयं शिवशक्तिरूपम् |
तत्र सत्त्वप्रधानः शुक्लः रजःप्रधानो रक्तः तमःप्रधानो मिश्रः |
गुणातीतो निर्वाणः |
साक्षात् परमानन्दनिर्भरः सदाशिवस्वरूपः |
सहस्रदलकमलकर्णिका-मध्यवर्त्ति- चन्द्रमण्डलगतपीयूषधाराप्लाव्यमानाश्चिन्तनीयाः |
उक्तञ्च भगवता दत्तात्रेयेण ||
भ्रूमध्यगौ विधिहरौ तव शुक्लरक्तौ पादौ रजोमलगुणौ खलु सेव्यमानौ |
सृष्टिस्थिती वितनुतो हृदये तृतीयमाद्यं भजन् हरति विश्वमुदग्रमुग्रः |
तूर्यं तवार्ययचरणं निरुपाधिबोध्यम् सान्द्रामृतं शिवपदे सततं नतोऽस्मि ||
रुद्रजामले ||
त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा |
शाक्ती च शाम्भवी चान्या सद्यो मुक्तिविधायिनी |
मन्त्रार्चनासनन्यासध्यानोपचारकादिभिः ||
दीक्षा सा आणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी |
सिद्ध्यै च शक्तिमालोक्य तया केवलया शिशोः |
निरुपायं कृता दीक्षा शाक्तेयी परिकीर्त्तिता |
अभिदन्धिं विनाचार्ययशिष्ययोरुभयोरपि |
देशिकानुग्रहेणैव शिष्यता व्याप्तिकारिणी ||
षडन्वयमहारत्नेऽपि ||
त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा |
शाक्तेयी शाम्भवी चान्या सद्योमुक्तिविधायिनी |
मन्त्रार्चनासनध्यानस्थापनोपासनादिभिः |
कृता दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी |
सिद्ध्यै स्वशक्तिमालोक्य तया केवलया शिशोः |
निरुपायं कृता दीक्षा शाक्तेयी परिकीर्त्तिता |
अभिसन्धिं विनाचार्ययशिष्ययोरुभयोरपि |
देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी |
सेयन्तु शाम्भवी दीक्षा शिवादेशनकारिणी |
वायवीयसंहितायामपि |
शाम्भवी चैव शक्ती च मान्त्री चैव शिवागमे |
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना |
गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि |
सद्यः संज्ञा भवेज्जन्तोर्दीक्षा सा शाम्भवी मता |
शाक्ती ज्ञानवति दीक्षा शिष्यदेहं प्रविश्य तु |
गुरुणा ज्ञानमार्गेण क्रियते ज्ञानचक्षुषा |
मान्त्री क्रियावती दीक्षा कुम्भमण्डलपूर्विका ||
इति नामक्रियाभेदाद्दीक्षाभेदकथनम् ||
दीक्षाभेदान्तरन्तु शारदायां चतुर्थपटले ||
चतुर्विधा सा सन्दिष्टा क्रियावत्यादिभेदतः |
क्रियावती वर्णमयी कलात्मा वेधमययपि ||
प्रयोगसारे ||
मन्त्रमार्गानुसारेण साक्षात्कृत्वेष्टदेवताम् |
गुरुश्चोद्बोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते ||
सूत्रान्तरमाह सर्वाश्च कुर्ययादेकैकां वेत्येके ||
रुद्रजामले ||
आणवी बहुधा दीक्षा शाम्भवी च तथा पुनः |
एकैका वापि विद्वद्भिः पठ्यते शास्त्रकोविदैः |
शिवशक्तिसमायोगाज्जन्मान्तरकृतात् शुभात् |
शिवपूजानुसन्धानात् कर्मसाम्यं यदा भवेत् |
शिव एव तदा साक्षादाणव्या दीक्षया भवेत् |
इति दीक्षाफलकथनम् ||
विश्वसारतन्त्रे ||
चतुर्विधा तु सा दीक्षा ब्रह्मणा भाषिता पुरा |
क्रियावती कलावती वर्णवेधमयी गुनः |
ताः क्रमेणापि कथ्यन्ते सर्वसम्पत्प्रदाः शुभाः ||
एवं सर्वासां दीक्षाणां मानसादिकैवल्यान्तं समानमेव फलम् ||
तदुक्तं रुद्रजामले ||
सर्वासासेव दीक्षाणां मुक्तिः फलमखण्डितम् |
अविरोधाद्भवत्येषा प्रासङ्गिक्यस्तु भक्तयः ||
अथाधिवासविधिः ||
तत्रादौ गृहप्रवेशानन्तरं विघ्ननिवारणपूर्वकं सूर्ययः सोमादि पठित्वा भूरसीत्यादि मन्त्रैर्घटस्थापनं कुर्ययात् |
तदुक्तं विश्वसारतन्त्रे तृतीयपटले ||
गुरुणा वात्मना शिष्यः सर्वं कुर्ययाद्विधानतः |
गुरुणा कारयेत् कर्म शिष्यः सर्वं हरेत् सुधीः |
चन्दनागुरुकर्पूरैर्धूपयेद् यागमण्डपम् |
गृहं प्रविश्य विधिना तत्र विघ्नान् विनाशयेत् |
कृताञ्जलिपुटो भूत्वा मन्त्रमेनं समुच्चरेत् |
ओं सूर्ययः सोमो यमः कालो महाभूतानि पञ्च च |
एते शुभाशुभस्येह कर्मणो नव साक्षिणः |
घटस्यारोपणं कुर्ययान्मन्त्रेणानेन देशिकः |
घटारोपणमन्त्रोऽयं सर्वतन्त्रेषु सम्मतः |
ओं भूरसि भूमिरस्यदितिरसि विश्वधा या विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा हिंसीः भूमिशोधनमित्युक्तं सर्वतन्त्रसमन्वितम् |
मन्त्रेणानेन देवेशि |
शुक्लधान्यं विनिक्षिपेत् |
ओं धान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि मां यज्ञनम् |
ओं प्राणो मन्त्रो दा नाम त्वा कामाय मत्वा दीर्घा ननु प्रमितिदशानुमेषां देवो वः सविता हिरण्यपाणिः |
प्रतिगृह्णात्यच्छिद्रेण शिलाचक्षुषे त्वा मही मां पयोऽसि |
हस्तमानं घटं कृत्वा नवरत्नोदरेण च |
घटं संस्थापयेत्तत्र मन्त्रेणानेन देशिकः |
ओं आजिघ्र कलसं मह्यात्मा विशन्तुन्दवम् |
पुनरूर्जानि वर्त्तस्व सा नः ||
सहस्रं धुक्षोरुधारा पयस्वती पुनर्माविशता द्रयिः |
मन्त्रेणानेन देवेशि ! घटं संस्थापयेत्ततः |
मुक्तामाणिक्यवैदूर्ययगोमेदवज्रविद्रुमान् |
पद्मरागं मरकतं नीलञ्चैव क्रमान्नव |
नवरत्नानि तत्रैव निक्षिपेद् विभावावधि |
मेरुतन्त्रेऽपि |
पुष्पं नीलञ्च वैदूर्ययं विद्रुमं मौक्तिकं तथा |
ततो मरकतं वज्रं गोमेदं पद्मरागकम् |
प्रोक्तानि नवरत्नानि देशिकैर्मन्त्रवित्तमैः |
ओं आप्यायस्व समेतु ते विश्वतः सोमवृष्ट्यं भवावाजस्य सङ्गये |
मन्त्रेणानेन देवेशि ! जलं दद्याद्घटोपरि |
ओं धन्नना गा धन्नना जिञ्जयेम धन्नना तीव्राः समदो जयेम |
धनुः शत्रोरपकामं कुणोतु धन्ननाः सर्वाः प्रदिशो जयेम |
मन्त्रेणानेन देवेशि ! शाखां दद्याद्घटोपरि |
ताम्बूलं श्रीफलं दद्यात् कदलीं वा विशेषतः ||
ओं श्रीश्च ते लक्ष्मीश्च पत्न्या अहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ |
व्याप्तमिष्टुमीशानमुं म ईशानः सर्वलोकमहेशानः ||
मन्त्रेणानेन देवेशि ! घटे पुष्पं विनिक्षिपेत् |
सफलं शालिचूर्णञ्च शरावञ्च घटोपरि |
विनिक्षिप्याथ विधिना क्षीरशाखिसमन्वितम् |
सुवस्त्राच्छादनं कुर्ययान्मन्त्रेणानेन साधकः |
ओं वस्त्रञ्च पावनं श्वेतं बहुतन्तुविनिर्मितम् |
मया निवेदितं भक्त्या वस्त्रञ्च प्रतिगृह्यताम् |
क्वाथितो जम्बुचूर्णेन इन्द्रबल्लीदलेन च |
घटं संवेष्ट्य विधिना सिन्दूरादिविभूषितम् |
स्थापयेत्तं घटं मन्त्रमुच्चार्य यत्नतः सुधीः ||
क्वाथितो जम्बु चूर्णेनेति प्रदर्शनार्थमुक्तमन्येनापि तद्विशेषो मेरुतन्त्रे तृतीयप्रकाशे ||
पञ्चाशदोषधीः क्वाथैः पूरयेत्तदनन्तरम् |
एकेन सहितास्ताश्च वर्णौषध्यः क्रमादिमाः |
चन्दनञ्चापि रक्ताख्यचन्दनञ्चागुरुस्तथा |
कर्पूरोशौरकुष्ठानि बालकञ्चापि केशरम् |
कक्कोलकं जातिफलं जटामांसीं मुरां तथा |
ग्रन्थिकं रोचना जातीपत्रं पिप्पलविल्वकौ |
पृश्निपर्णी चित्रकञ्च करङ्गं कत्तृणं तथा |
कट्फलञ्चापि गुञ्जा च दद्रुहं वककाश्मरी |
पद्मकोषं शङ्खपुष्पी मयूरस्य शिखा तथा |
प्लक्षोऽग्निमन्थश्च तथा मुद्गपर्णी कुशाः पुनः |
पाषाणभेदकः कृष्णशङ्खपुष्पी च रोहिणी |
श्योणाकोवृहती चैव पाटली मुखकर्णिका |
तुलसी शिखरा इन्द्रवल्ली भृङ्गाभिधा पुनः |
ततोऽपराजिता तालमूली चापि कृताञ्जली |
दूर्वा श्रीदेवकन्याख्या भार्ग्याख्या भद्रमुस्तकम् |
लवङ्गरहिताश्चैताः पञ्चाशत्संख्यका इति ||
यद्यपि प्रथमकाण्डे पञ्चाशदोषधयो निरूपितास्तथाप्येकपञ्चाशत्त्वप्राप्त्यर्थमुक्तस्य दुरूहत्वनिवृत्तये क्रमभेदज्ञापनाय च पुनर्दर्शिताः |
दुग्धवृक्षत्वचः क्वाथैर्ब्रह्मवृक्षोद्भवैस्तथा |
गन्धपङ्कप्रसूनादिवासितैर्वाशृतैर्जलैरिति |
ततो घटं स्थिरीकुर्ययात् यावद्दीक्षाविधिर्भवेत् |
ओं स्थिरो भव विडङ्ग आशुर्भव वायवर्वन् पृथुर्भव सुषदस्थमग्ने पुरीशराहनः |
मन्त्रेणानेन देवेशि ! स्थिरीकरणमुत्तमम् |
ततः कृताञ्जलिर्भूत्वा मन्त्रमेनं पठेत्ततः |
ओं गुरुभ्यो गणपतिभ्यश्च वो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः |
व्रातेभ्यो व्रातपतिभ्यश्च नमः |
नमो गृह्येभ्यो गृह्यपतिभ्यश्च वो नमः |
पुण्याहं वाचयेदादौ स्वस्तिवाचनपूर्वकम् ||
ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षोऽरिष्टनेमिः |
स्वस्ति नो वृहस्पतिर्दधातु ||
अस्त्राय फडिति मन्त्रेण भौमान् विघ्नान् विदारयेत् |
दिव्यदृष्ट्या दिव्यविघ्नान् दूरयेच्च चतुर्दिशि दिव्यदृष्टिलक्षणं तत्रैव |
अनिमेषाक्षिदृष्टिश्च दिव्यदृष्टिः प्रकीर्त्तिता |
माषभक्तेन चान्नेन यावकेन च संयुतम् |
अजाकर्णस्य रक्तेन दुग्धेन मधुरेण च |
माषभक्तबलिं दद्याद्भूतप्रेतपिशाचके |
ओं भूताः प्रेताः पिशाचाश्च पातालभूतले स्थिताः |
पर्वताग्रे तथा वृक्षे गृहक्षेत्रादिषु स्थिताः |
तुष्टा भवन्तु ते सर्वे मम गृह्णन्त्विमं बलिम् |
यजेच्च रक्तकुसुमैरक्तमाहिंषशोणितैः |
मत्स्यमांसादिभिर्भृष्टैर्दुग्धैश्च विधिनामुना |
बलिं दद्याच्च तत्रापि तदा मङ्गलमारभेत् |
दीक्षाया धर्म्मकर्म्मरूपत्वेन तत्र विघ्ननिरास उक्तो योगिनीतन्त्रे उत्तरखण्डेऽष्टमपटले |
तीर्थे प्रासादकरणे धर्मारम्भे विशेषतः |
व्रतयज्ञसमारम्भे विघ्नानि निवसन्ति वै |
तानि सम्पूजयेदादौ बलिभिर्मोदकादिभिः |
अन्यथा जायते विघ्नमिति जानीहि मे प्रिये ! |
अथापराणि विघ्नानि शरीरे निवसन्ति वै |
मानसाज्ञाननिर्हारास्तानि शृणु मम प्रिये ! |
कश्चिन्निवर्त्तको देवि ! कश्चित् प्रवर्त्तकस्तथा |
सन्निकर्षं विदूरं वा सहस्रं फलमेव वा |
पापानुसरणञ्चैव आलस्येनापि दूषणम् |
शोकमोहज्वराव्याधितारुण्यं धनलालसा |
कलहं भार्ययया सार्द्धं दुर्भिक्षं गृहसङ्गटम् |
नानाव्रतसमाकीर्णं धार्मिकोऽस्मीतिमानसः |
प्राप्तशोकस्तु धर्म्मस्य कारणे हीनपत्निकम् |
वृक्षपत्रञ्च तुलसी धात्री वृक्षफलं तथा |
शालग्रामं शिलाखण्डं प्रतिमां दारुजां तथा |
मानुषं ब्राह्मणञ्चैव स्वयम्भूवर्त्तुलां शिलाम् |
शङ्खं शम्बूकभेदञ्च खड्गस्य मांससम्भवम् |
दृष्ट्यादावाभवेदेवं तीर्थजातं जलं तथा |
गङ्गायां वा नदीरूपं पुण्यक्षेत्रञ्च भूमिकाम् |
इत्येतानि च विघ्नानि संयान्ति च पुनः पुनः |
पूजयित्वा विधानेन द्वारदेशे न साधयेत् |
कवचेनैव वीजेन सप्तकृत्वो जपेन च |
निःसार्यय विघ्नान् तान् सर्वान् तदा रक्षां दिशेत् पुनः ||
विश्वसारतन्त्रे ||
आत्मानं रक्षयेत् तत्र वह्निप्राचीरयोगतः |
वह्निवीजे चतुर्दिक्षु प्राचीरं भावयेद्धिया |
तदा तालत्रयं दद्याद्वह्निवीजेन देशिकः |
ऊर्द्ध्वोर्द्ध्व क्रम योगेन गुरूंश्च प्रणमेत्ततः |
ओं गुरुभ्यो नमो नित्यं तदा च गुरुपादुकाम् |
परं परापरं देवि ! परात्परमतः परम् |
क्रमेण प्रणमेद्धीमान् ओंकारादि उदीरितान् |
गणेशं दक्षिणे नत्वा सम्मुखे चेष्टवताम् |
गणेशं स्थापयेत्तस्य पूर्वोक्ते तु घटे सुधीः |
आवाहम्यहं देवं गणेशं शिवनन्दनम् |
व्याघ्रचर्माम्बरधरं व्यालयज्ञोपवीतिनम् |
गणकोट्या परिवृतं देवं मोदकभोजनम् |
अविघ्नेशं महाकायं सर्वलोकैकपूजितम् |
बलिनं सर्वशान्त्यर्थं रौद्रमावाहयाम्यहम् |
एह्येहि भगवन् ! देव ! सर्वविघ्नविनाशक ! |
इमां पूजां गृहाण त्वं सर्वं मे सफलं कुरु |
सिन्दूररक्तपुष्पाद्यैः पूजयेच्छिवनन्दनम् |
अञ्जल्यावाहयेदादौ सर्वत्रायं विधिः स्मृतः |
स्वागतादि ततः प्रश्नं प्रत्युत्तरसमन्वितम् |
आसनन्तु ततो दत्त्वा पाद्यमर्घ्यं निवेदयेत् |
ओं पाद्यं सुवासितं देव ! सर्वभूतसुखावहम् |
दूरयात्राश्रमहरं पाद्यं तत्प्रतिगृह्यताम् |
पाद्यं नमः पादयुगे स्वाहार्घ्यं शिरसि स्थितम् |
मधुपर्कं स्वधान्ते तु पुनराचमनीयकम् |
स्नानीयञ्च नमो ब्रूयात् पुनर्गन्धादिकं ततः |
वस्त्रं यज्ञोपवीतञ्च नमोऽन्ते परिकल्पयेत् |
अन्नं भक्ष्यं स्वधान्ते तु धूपं दीपं विधानतः |
क्रमेण निक्षिपेत्तत्र देवाय विधिनामुना |
अर्घ्यपात्रे प्रदायार्घ्यं ततः शृणु वरानने ! |
अर्घ्योदकं भवेच्छङ्खे स्यामाकयवदूर्वके |
नानागन्धसमायुक्तं कुशांश्च तिलसर्षपम् |
विष्णुक्रान्ताञ्च यवकं षडर्घ्योऽयं प्रकीर्त्तितः |
ओं काण्डाच्चैव मन्त्रेण अर्घ्यं दद्याच्च साधकः |
पाद्यमन्त्रेण कुर्वीत तथा चाचमनीयकम् |
ओं नमः स्वाहासमायुक्तं ब्रह्मत्वफलहेतवे |
मया निवेदितं भक्त्या मधुपर्कं गृहाण मे |
मूलमन्त्रेण सर्वत्र ओंकारादिनमोऽन्विते ||
छान्दसत्वान्न वर्णनाशः |
ओंकारादिनमोऽन्वितेन मूलमन्त्रेणेत्यर्थः ||
दध्ना च मधुसर्पिर्भ्यां मधुपर्कं प्रकीर्त्तितः |
यज्ञोपवीतमन्त्रेण दद्याद्यज्ञोपवीतकम् |
यज्ञोपवीतमन्त्रस्तु ||
ओं यज्ञोपवीतं परमं पवित्रं वृहस्पतेर्यत् सहजं पुरस्तात् |
आयुष्यमग्रं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ||
ओं नानारत्नैश्च घटितं विश्वकर्मादिनिर्मितम् |
सर्वाङ्गशोभाभरणं गृहाण फलहेतवे |
ओं वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः |
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् |
ओं सुप्रकाशो महादीपः सर्वतस्तिमिरापहः |
सवाह्याभ्यान्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् |
प्रदीपावलिभिः कुर्ययान्निकटे धूपदीपकौ |
प्रक्षालनाय हस्तस्य पश्चात्पात्रं क्षिपेत् सुधीः |
शातकुम्भप्रपूर्णेन मण्डपं रचयेत् सुधीः |
गणेशं पूजयित्वा च अर्कं विष्णुं शिवं शिवाम् |
पूजयेद्विधिना तत्र घटे सर्वसमृद्धये |
कूर्च्चमुष्टिं क्षिपेदादौ फड्मन्त्रेण तु साधकः |
तिलान् कुशान् सर्षपांश्च कूर्च्चमुष्टिः प्रकीर्त्तिता |
विकिरान् प्रक्षिपेत्तत्र सप्त सप्त शराणुना ||
विकिरा दीक्षायां बक्ष्यन्ते ||
शराणुना अस्त्रमन्त्रेण |
ततो गुरुः स वेद्यान्तु गत्वा स्वस्यासने विशेत् ||
मेरुतन्त्रे तृतीयप्रकाशे ||
सञ्चिन्त्यमन्त्रेण मूर्तिमेवं तस्मिन् गुरूत्तमः |
तस्यां मूर्त्तौ समावाह्य पूजयेदिष्टदेवताम् |
स्मृत्वा मूलमनुं मन्त्री सम्यङ्नाडीमुखात्ततः |
निर्गमस्य च चैतन्यं नासिकाग्रविनिर्गतम् |
अञ्जलौ मातृकापद्मे महः पुष्पान्विते गुरुः |
मस्तकास्तं समुत्थाप्य तस्यामावाहयेत्ततः |
संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् |
सम्मुखीकरणञ्चापि सकलीकरणं ततः |
ततोऽवगुण्ठनं कार्ययममृतीकरणं ततः |
परमीकरणं कुर्ययात् क्रमशः स्वस्वमुद्रया |
क्रमाद्विदध्याच्च तत उपचारान् प्रकल्पयेत् |
आसनादि प्रभूतानां उपचारान् प्रकल्प्य च |
ततो मन्त्रविधानेषु प्रोक्ताङ्गावरणान्यपि ||
पुनः पूर्वादिकाष्ठासु क्रमादस्त्रादिकान् यजेत् |
लोकपालान् मण्डलेषु कुम्भोपरि च तत्र वा |
ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ |
पुष्पदन्तं सार्वभौमं सुप्रतीकं तदग्रतः |
सर्वान्ते लोकपालानां तदस्त्राणां प्रपूजनम् |
इन्द्रादिपूजनात् पूर्वं ब्राह्म्यादिपूजनमपि |
तथा च विश्वसारे ||
अष्टदिक्षु चाष्ट कुम्भान् क्वाथतोयप्रपूरितान् |
ब्राह्म्यादिमातृकाः पूज्याः सर्वतन्त्रसमन्विताः |
ज्ञात्वा ज्ञानविधानेन गन्धपुष्पान्नवारिभिः |
दण्डं कमण्डलुकरमक्षसूत्राभयं तथा |
बिभ्रती कनकच्छायां ब्राह्मी कृष्णाजिनोज्ज्वला || १ ||
शूलं कपालं परशुं नृणां पोतं मनोहरम् |
वहन्ती हेमसङ्काशा ध्येया माहेश्वरी शुभा || २ ||
अङ्कुशं दण्डखट्वाङ्गं पाशञ्च दधती करैः |
ध्येया बन्धूकसङ्काशा कौमारी शर्म्मदायिनी || ३ ||
चक्रं घण्टां गदां खड्गं बिभ्रती सुमनोहरा |
तमालश्यामला ध्येया वैष्णवी शर्म्मदायिनी || ४ ||
मुषलं करबालञ्च खेटकं दधती हलम् |
करैश्चतुर्भिर्वाराही ध्येया कालघनच्छविः || ५ ||
अङ्कुशं तोमरं विद्युत् कुलिशं बिभ्रती करैः |
इन्द्रनीलनिमेन्द्राणी ध्येया सर्वसमृद्धिदा || ६ ||
शूलं कपालं नृशिरः कपालं दधती करैः |
मुण्डस्रङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा || ७ ||
अक्षस्रजं वीजपूरं कपालं पङ्कजं करैः |
वहन्ती हेमसङ्काशा महालक्ष्मीहरिप्रिया || ८ ||
मेरुतन्त्रे |
विधाय पूजामेवं हि धूपदीपनिवेद्यकैः |
कृते निवेद्ये च ततो मण्डलं परितः क्रमात् |
प्रबालाङ्कुरपत्राणि स्थापनीयानि मन्त्रिणा |
वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् |
संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समारभेत् |
यथाविधि ततस्तत्र गन्धाद्यैर्देवतां यजेत् |
ततः प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः पुरा |
जुहुयान्मूलमन्त्रेण पायसेन घृतेन च |
पञ्चविंशतिभिः पश्चाद्धुत्वा व्याहृतिभिः पुरा |
सम्पूज्य तां चन्दनाद्यैः पीठमूर्तौ नियोजयेत् |
अग्निं विसृज्य शिष्टेन पायसेन बलिं हरेत् |
पार्श्वदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् |
तत उत्थाप्य नैवेद्यं तत्स्थलं शोधयेत् सुधीः |
पुनर्यजेच्चोपचारैः पञ्चभिर्दर्शयेत्ततः |
दर्पणं व्यजनं छत्रं चामरं मुखवासकम् |
सहस्रञ्च जपेन्मन्त्री मूलमन्त्रं समाहितः ||
विश्वसारे ||
जलं समर्प्य विधिना तदा कुर्वीत मङ्गलम् |
द्विजस्त्रीणां ब्राह्मणानामाशीर्वादं प्रगृह्य च |
जयशब्दैर्ब्रह्मशब्दैर्ब्राह्मणान् परितोष्य च |
बन्धुवर्गं प्रतोष्याथ अधिवासं ततो दिशेत् |
मन्त्रेणानेन द्रव्येण क्रमेण देशिकोत्तमः |
अधिवासं अकुर्वीत शिष्यस्य सावधानतः |
ओंकारं पूर्वमुच्चार्यय नमोऽन्तेन समर्पयेत् |
ओं भूरसीति च मन्त्रेण मृत्तिकां प्रक्षिपेत्ततः |
ओं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् |
ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम् |
गन्धं दद्याच्च विधिना मन्त्रेणानेन साधकः |
ओं प्रपर्वतस्य वृषभस्य पुष्टां वावश्चरन्ती शशि च इयानाता आवृत्तमदधागुदक्ता |
अहिं व्रध्नमनुरीषमणाविष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि वैष्णवे त्वा ||
मन्त्रेणानेन विधिना शिलां दद्याद्विचक्षणः |
धान्यमन्त्रेण धान्यस्य दानं तन्त्रेषु सम्मतम् |
ओं काण्डात् काण्डात् प्ररोहन्ती पुरुषं पुरुषः पवि |
एतान् दूर्वे प्रतनु सहस्रेण शतेन च |
मन्त्रेणानेन देवेशि ! दूर्वां दद्याद्विधानतः |
ओं श्रीश्च तेति च मन्त्रेण पुष्पं दद्याद्विधानतः |
ओं याः फलिनीति च मन्त्रेण फलं दद्याद्विचक्षणः |
ओं दधिक्राव्रोऽत्यकार्षं जिष्णोरश्वस्य वाजि वः |
सुरभीनो मुखाकरत् प्रणतानंसितायत् |
मन्त्रेणानेन तं ध्यात्वा अधिवासं समादिशेत् |
ओं घृतवती भुवनानामभित्रियोर्वी पृथ्वीमधुदुघे सुपेशसा |
द्यावापृथिवी वरुणस्य धर्मणा विष्कभीते अजरे भूरिरेतसा |
मन्त्रेणानेन देवेशि ! दद्याच्छिष्यस्य मस्तके |
ओं स्वस्ति न इति मन्त्रेण स्वस्तिकं विनिवेदयेत् |
ओं सिन्धोरिव प्राध्वने सुघनासो वातप्रमीयपतन्ती जिह्वा घृतस्य धारा अरुषो न वाजीकाष्ठाभिन्दन्नूर्मिभिः पिन्नमानः |
इति मन्त्रेण सुन्दूरं दद्याच्च शिष्यमस्तके |
ओं शङ्ख ! त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् |
विष्णुता विधृता नित्यं मम शान्तिप्रदो भव |
शङ्खस्पर्शनमन्त्रोऽयं सर्वतन्त्रस्य सम्मतः |
ओं समिधोऽङ्गनं कृदरं मतीनां घृतमग्ने मधुमत् पिन्नमानः |
वाजीवहन् वाजिनं जातवेदा देवानां वाक्षिप्रियमादधन्त |
मन्त्रेणानेन देवेशि ! कज्जलं विनिसज्जयेत् |
ओं युञ्जन्ति व्रध्नमरुषं चरन्तं परितस्थुषः |
रोचन्ते रोचना दिवि |
रोचनां परितो दद्यान्मन्त्रेणानेन सुन्दरि ! |
ओं अन्नषते अन्नस्य नो धेह्यन्नमीरस्य शुष्मिणः |
प्रदातारं तार्ष ऊर्ज्जं नो धेहि द्विपदेशं चतुष्पदे |
विश्वकर्म्मणे स्वाहा |
मन्त्रेणानेन देवेशि ! स्पर्शनं परिकीर्त्तितम् |
ओं हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः प्रतिरेक आसीत् |
स दाधार पृथिवीं द्यामुतेमां कस्मैदेवाय हविषा लिधेम वा |
मन्त्रेणानेन देवेशि ! काञ्चनं परितो न्यसेत् |
ओं रूपेण वै रूपमर्त्यानां पुथोमा विश्ववेदा विभजतु मुत्तमस्य यथा वेदश्चन्द्रदक्षिणापश्यव्यन्तरीक्षं यत् सुषदुच्चैः |
मन्त्रेणानेन देवेशि ! रूप्यं दद्याद्विधानतः |
ओं असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः |
ये चैनं रुद्रा अभितो दिक्षु श्रिताः |
सहस्रशो वै यां हेलषीमहे |
मन्त्रेणानेन देवेशि ! ताम्रं दद्याद्विधानतः |
ओं रक्षोहनो बल्गहनः प्रोक्षयामि वैष्णवान् रक्षोहनो बल्गहनो बलयामि वैष्णवान् रक्षोहनो बल्गहनो वस्तृणामि वैष्णवान् रक्षोहनो बल्गहन उपदधामि वैष्णवं रक्षोहनो बल्गहनः पययमामि वैष्णवीन् वैष्णवमसि वैष्णवाः स्थ |
मन्त्रेणानेन सिद्धार्थं दत्त्वा बालस्य मूर्द्धनि |
ओं आकृष्णेन रजसा वर्त्तमानौ निवेशयन्न मृतं मर्त्यञ्च |
हिरण्मयेन सविता रथेना देवो याति भुवनानि पश्यन् |
मन्त्रेणानेन देवेशि ! दर्पणं प्रतिपदयेत् |
ओं मनोज्योतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमं तनोतु |
अरिष्टं यज्ञमिमं दधातु विश्वे देवाः स इह मादयन्ता मोम्प्रतिष्ठ |
मन्त्रेणानेन देवेशि ! दीपं दद्याद्विधानतः ||
ओं प्रतिपदसि प्रतिपदेत्वा अनुपदसि अनुपदे त्वा सम्पदसि सम्पदे त्वा तेजोऽसि तेजसेत्वा तेजोमयि धेहि |
ओं प्रशस्तमात्रमसि भूतपात्रे शिरसार्थं मम कुरु सर्वं देवीचरयुगलं वन्दनीयम् ||
शारदातिलके चतुर्थपटले ||
अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके ! |
तण्डुलान् शालिसम्भूतान् मूलमन्त्राभिमन्त्रितान् |
प्रसृतीनाञ्च दशभिः क्षिप्त्वा चान्त्रमौं जपेत् |
प्रक्षाल्य प्रात्रवदनं विधाय कवचानुना |
प्राङ्मुखो मूलमन्त्रेण देशिकेन्द्रश्चरुं पचेत् |
श्रुवेणाज्येन संस्विन्ने दद्यात्तप्ताभिमारणम् |
मूलेन पश्चात्तत्पात्रं कवचेनावतारयेत् |
अस्त्रजप्ते कुशास्तीर्णे मण्डले विधिवद्गुरुः |
तं विभज्य त्रिधा भागमेकं देवाय कल्पयेत् |
अन्यदग्नौ च जुहुयादपरं देशिकः स्वयम् |
शिष्येण सार्द्धं भुञ्जीत विहिताचमनं ततः |
आचान्तं शिष्यमादाय सकलीकृत्य देशिकः |
तालप्रमाणं हृज्जप्तं क्षीरिवृक्षादिसम्भवम् |
दन्तकाष्ठं तदा दद्याच्छिष्याय नियतात्मने |
दन्तान् विशोध्य स पुनस्तत् प्रक्षाल्य विसज्जने |
यथाविधि तमाचान्तं शिखाबन्धाभिरक्षितम् |
विधाय सार्द्धममुना वेद्यां दर्भान्तरे गुरुः |
शयीत तस्यां तां रात्रिमधिवासः समीरितः ||
विशेषस्तु मेरुतन्त्रे तृतीयप्रकाशे अनुसन्धेयः ||
इति अधिवासविधिः ||
अथाङ्गुरारोपणप्रयोगः |
तत्र दीक्षादिवशात् प्राक् नवमे सप्तमे पञ्चमे शुभे तस्मिन् वह्निमण्डपप्रान्तरे पञ्चहस्तमितानि प्रञ्चसूत्राणि पूर्वपश्चिमक्रमेण पातयित्वा दक्षिणोत्तरक्रमेण द्वादशाङ्गुलान्तरितान्येकादशसूत्राणि पातयेत् तेन चत्वारिंशत्कोष्ठा भवन्ति |
तेषां वहिश्चतुस्रो वीथीर्मार्ज्जयेत् |
मार्ज्जनप्रकारश्च प्रथमं पूर्वस्यां चतुष्कोष्ठात्मिकामेकां वीथीं ततो दक्षिणस्यामष्टकोष्ठात्मिकामपरां पश्चिमायां चतुष्कोष्ठात्मिकामन्यामुत्तरस्यामष्टकोष्ठात्मिकामित-राञ्च मार्ज्जयेत् |
ततोऽन्तश्चतुष्कस्य पूर्वपश्चिमपार्श्वयोर्द्वे वीथ्यौ द्विकोष्ठात्मिके पुनर्मार्जयेत् |
तेन मण्डले चतुष्कोष्ठात्मकं कोष्ठत्रयमवशिष्यते |
ततश्चतुष्कोष्ठत्रयस्थानि द्वादशपदानि प्रत्येकं चतुष्कोष्ठं श्वेतादिभीरजोभीरञ्जयेत् |
तत्र वायुपदे श्वेतमाग्नेये पीतं नैर्-ऋते अरुणमीशाने कृष्णम् |
ततः श्यामलेन मार्जितवीथीरापूरयेत् |
तेषु पदेषु पालिकापञ्चमुखीशरावाणां सुप्रक्षालितं त्रिगुणसूत्रसूत्रवेष्टितं शुष्कगोमयचूर्णबालुकामृद्भिरुत्तरोत्तरपरिपूरितम् |
हरिब्रह्मरुद्रस्वरूपं कृष्णवर्णव्रणादिरहितं पश्चिमादिक्रमेणाग्निकोणमारभ्येशानकोणपर्ययन्तं प्रत्येकं चतुष्कोष्ठेषु स्थापयेत् |
ततः पश्चिमदिशि पालिकाचतुष्के विष्णुं मध्ये पालिकाचतुष्के ब्रह्माणं पूर्वस्यां शरावचतुष्के रुद्रं ध्यात्वावाह्य पूजयेत् |
ततो वमिति मन्त्रेण विष्णुविषये ओं नमो भगवते वासुदेवायेति मन्त्रेण दुग्धेनाम्भसा च वीजानि प्रक्षाल्य वीजोपरि दातव्यमन्त्रमष्टोत्तरशतं जपेत् |
ततः कङ्कौ स्कन्दं निष्पावे वायुं कुलत्थे वह्निमाढक्यां निर्-ॠतिं मुद्गे सोमं तिले वैवस्वतं शालौ प्रजापतिं सर्षपेऽनन्तं श्यामाके सूर्ययं माषे च वरुणं सम्पूज्य वीजानि मिश्रयित्वा तत्र सोमं पूजयित्वा प्राङ्मुख उदङ्मुखो वा |
ओं त्रिपञ्चकाय सर्वाय शङ्कराय शिवाय च |
सर्वलोकप्रधानाय शाश्वताय नमो नमः |
इति मन्त्रेण तेषु पात्रेषु वीजानि निर्वपेत् |
ततो हरिद्राचूर्णमिश्रितजलेन गन्धमिश्रितजलेन च तानि सिञ्चेत् |
उक्तप्रकारजलसेचनं सोमपूजनञ्चाधिवासदिनपर्ययन्तं प्रत्यहं कुर्ययात् |
ततो नूतनवस्त्रत्रयेण तानि पात्राण्याच्छाद्य प्रत्येकरात्रिषु देवताभ्यो बलिं दद्यात् |
तत्र प्रथमरात्रौ ओं भूतेभ्यो नम इति मन्त्रेण गन्धपुष्पे दत्त्वा लाजतिलदधिशक्तुभिर्बलिं दद्यात् |
ततः स्थानमार्ज्जनादि कुर्ययात् |
द्वितीयरात्रौ ओं पितृभ्यो नम इति गन्धपुष्पे दत्त्वा सतिलान्नतण्डुलैर्बलिं दद्यात् |
तृतौयरात्रौ ओं यक्षेभ्यो नम इति गन्धपुष्पे दत्त्वा दधिशक्तुलाजैर्बलिं दद्यात् |
चतुर्थरात्रौ ओं नागेभ्यो नम इति गन्धपुष्पे दत्त्वा नारिकेलोदकशक्तुपिष्टकैर्बलिं दद्यात् |
पञ्चमरात्रौ ओं ब्रह्मणे नम इति गन्धपुष्पे दत्त्वा सपङ्कजाक्षततण्डुलेन बलिं दद्यात् |
षष्ठरात्रौ ओं शिवाय नम इति गन्धपुष्पे दत्त्वा सपूपान्नबलिं दद्यात् |
सप्तमरात्रौ ओं विष्णवे नम इति गन्धपुष्पे दत्त्वा गुडौदनेन बलिं दद्यात् |
ततः पायसादिना लोकपालेभ्यो बलिदानम् |
तत्र ईशानपूर्वयोर्मध्ये ब्रह्मणे |
नै-ऋतवरुणयोर्मध्ये अनन्ताय बलिर्देयः |
प्ररूढानङ्कुरानन्यो न पश्येत् |
अशुभेषु अङ्कुरेषु शान्त्यादिकं कुर्ययादित्यङ्कुरारोपणम् ||
अथ अधिवासप्रयोगः ||
तत्रादौ गुरुर्गृहं प्रविश्य चन्दनागुरुधूपाद्यैर्गृहं सुवासितं कृत्वा विघ्नान् विनाश्य ओं सूर्ययः सोम इत्यादि पठित्वा घटस्थापनं कुर्ययात् |
तत्क्रमस्तु ओं भूरसीति भूमिशोधनम् || १ ||
ओं धान्यमसीति मन्त्रेण तत्र शुक्लधान्यनिक्षेपः || २ ||
ओं प्राण इति मन्त्रेण हस्तप्रमाणस्य घटस्योदरे नवरत्नदानम् || ३ ||
ओं आजिघ्र इत्यादिमन्त्रेण तत्र तस्य स्थापनम् || ४ ||
ओं आप्यायस्वेति मन्त्रेण घटोपरि जलदानम् || ५ ||
ओं धन्न नेति तदुपरि शाखादानम् || ६ ||
तदुपरि ताम्बूलस्य श्रीफलस्य च दानं कदली फलस्य वा || ७ ||
ओं श्रीश्च तेति तदुपरि पुष्पदानम् || ८ ||
ततः सफलं शालिचूर्णयुक्तं शरावस्य घटोपरिनिधानम् || ९ ||
ओं वस्त्रञ्चेति क्षीरशाखिशाखासहितवस्त्रार्पणम् || १० ||
जम्बूपञ्चाशदोषधिक्वाथेन घटपूरणम् || ११ ||
इन्द्रवल्ल्या घटवेष्टनम् || १२ ||
घटे सिन्दूरदानम् || १३ ||
ओं स्थिरो भवेति दीक्षापर्ययन्तं गटस्य स्थिरीकरणम् || १४ ||
एवं घटं संस्थाप्य ओं गुरुभ्यो नम इत्यादि पठित्वा ओं यजमानस्य पुण्याहमित्यादिना पुण्याहं वाचयित्वा ओं स्वस्ति न इति स्वस्तिवाचनं कृत्वा ओं अस्त्राय फडिति भौमान् विघ्नाननिमेषाक्षिदृष्टिरूपदिव्यदृष्ट्या चतुर्दिशिदिव्यान् विघ्नानपसार्यय ओं भूताः प्रेता इति मन्त्रेण मांषभक्तेनान्नेन यावकेनाजाकर्णरक्तेन दुग्धेन मधुरद्रव्येण वा बलिं दत्त्वा रक्तपुष्पेण तान् पूजयेत् |
ततो हुमिति सप्तकृत्वो जप्तेन विकिरेण सर्वान् विघ्नान् निःसार्यय रमिति जलधारया चतुर्दिक्षु वह्निप्राकारं कल्पयेत् |
ततो वमित्यूर्द्ध्वोर्द्धक्रमेण तालत्रयं दत्त्वा ओं गुरुभ्यो नम एवं गुरुपादुकाभ्यः परमगुरुभ्यः परापरगुरुभ्यश्च ऊर्द्ध्वोर्द्धक्रमेण वामे नत्वा दक्षिणे ओं गणेशाय नमः मध्ये इष्टदेव्यै नमः इति प्रणमेत् |
ओं आवाहयाम्यहमित्यादिना गणेशं ध्यात्वा एह्येहीत्यादिना घटे आवाह्य सिन्दूररक्तकुसुमादिना तं पूजयेत् |
तत्क्रमस्तु स्वागतप्रश्नोत्तरानन्तरमासनदानम् |
ओं पाद्यमिति पादयोर्नम इति पाद्यदानम् |
शङ्खोदकश्यामाकदूर्वाकुशतिलसर्षपापराजितायवरूप-षडङ्गार्घ्यं गन्धयुक्तं शङ्खे निधाय |
ओं काण्डादिभिः स्वाहेति शिरस्यर्घ्यदानम् |
पाद्यमन्त्रेणाचमनीयदानम् |
ओं नम इति दधिमधुघृतरूप मधुपर्कस्य स्वधेति दानम् |
मूलमन्त्रेण स्वधेति पुनराचमनीयदानम् |
मूलमन्त्रेण नम इति स्नानीयदानम् |
ओं यज्ञोपवीतमिति यज्ञसूत्रदानम् |
ओं नानारत्नैश्चेत्याद्याभरणदानम् |
मूलेन नम इति गन्धदानम् |
मूलेन वौषडिति पुष्पदानम् |
वनस्पतीति धूपदानम् |
ओं सुप्रकाश इति दीपदानम् |
मूलेन दीपाबलिभिर्नम इति नीराजनम् |
मूलेन निवेदयामीति नैवेद्यदानम् |
ततः प्रागुक्तनमो गुरुभ्य इति वन्दनम् |
इति गणेशं सम्पूज्य |
एवं क्रमेणार्कविष्णुशिवदुर्गा घटेपूजयेत् |
तत ओं फडिति मन्त्रेण तिलकुशसर्षपरूपकूर्चमुष्टिं प्रक्षिपेत् |
तत ओं अस्त्राय फडिति सप्तकृत्वः सञ्जप्य लाजचन्दनश्वेतसर्षपभस्मदूर्वारूप- विघ्नविनाशकविकिरप्रक्षेपं कुर्ययात् |
ततो गुरुर्वेदिकोपरि स्वीयासने उपविश्य मूलेन मूर्तीं कल्पयित्वावाह्य आवाहन्यादिमुद्राः प्रदर्श्यासनादिपुष्पान्तेनेष्टदेवतां सम्पूजयेत् |
ततोऽङ्गावरणादिं सम्पूजयेत् |
तत्क्रमस्तु तन्त्रसारेऽनुसन्धेयः |
ततोऽष्टसु दिक्षु अष्ट कुम्भान् क्वाथतोय प्रपूरितान् पूर्वोक्तमन्त्रैः संस्थाप्य तेष्वष्टमातृकाध्यानावाहनपूर्वकं पूजयेत् |
ततो दशदिक्षु इन्द्रादिलोकपालानैरावतादीनष्टौ गजान् वज्राद्यस्त्राणि सम्पूज्य धूपदीपौ नैवेद्यञ्चेष्टदेवतायै निवेद्य वेदिकाया दक्षभागे मण्डलं कृत्वाङ्कुरपात्राणि स्थापयेत् |
ततो दक्षिणे स्थण्डिलं कृत्वाङ्कुरं संस्कृत्य तत्र देवतां सम्पूज्य ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा इति व्याहृतिभिर्घृतेन हुत्वा पायसेन मूलमन्त्रेण पञ्चविंशतिवारं जुहुयात् |
पुनर्व्याहृतिभिर्हुत्वा गन्धपुष्पादिभिः सम्पूज्याग्निं विसृजेत् |
ततोऽवशिष्टपायसेन पार्श्वदेवेभ्यो बलिं दद्यात् |
ततो नैवेद्यमुत्थाप्य स्थानमार्ज्जनं कृत्वा पुनर्दशोपचारैरिष्टदेवतां घटे सम्पूज्य दर्पनं चामरं व्यजनं छत्रं मुखवासकताम्बूलञ्च दर्शयेत् ततो मूलमन्त्रं सहस्रधा जप्त्वा जपं समाप्य प्रणम्य ब्राह्मणान् परितोष्य मङ्गलध्वनिनृत्यगीतपुरःसरमधिवासं कुर्ययात् ||
यथा ओं भूरसीति शिष्यमस्तके मृत्तिकास्पर्शनम् || १ ||
ओं गन्धद्वारामिति गन्ध || २ ||
ओं प्रपर्वतस्येति शिला || ३ ||
ओं धान्यमसीति धान्यम् || ४ ||
ओं काण्डादिति दूर्वा || ५ ||
ओं श्रीश्चतेति पुष्पम् || ६ ||
ओं याः कलिनीति फलम् || ७ ||
ओं दधीति दधि || ८ ||
ओं धृतवतीति घृतम् || ९ ||
ओं स्वस्ति न इति स्वस्तिकम् || १० ||
ओं सिन्धोरिवेति सिन्दूरम् || ११ ||
ओं शङ्ख त्वमिति शङ्खः || १२ ||
ओं समिध इति कज्जलम् || १३ ||
ओं युञ्जन्तीति रोचना || १४ ||
ओं अन्नेति सिद्धान्नम् || १५ ||
ओं हिरण्येति काञ्चनम् || १६ ||
ओं रूपेणेति रूप्यम् || १७ ||
ओं असौ य इति ताम्रम् || १८ ||
ओं रक्षोहन इति सिद्धार्थः || १९ ||
ओं आकृष्णेनेति दर्पणम् || २० ||
ओं मनोज्योतिरिति दीपः || २१ ||
ओं प्रतिपदेति प्रशस्तपात्रम् || २२ ||
सर्वाण्येतानि शिष्यमस्तके दद्यात् ||
ततः फडिति मन्त्रेण प्रक्षालिते नवे पात्रे मूलमन्त्राभिमन्त्रितदशप्रसृतिमितशालितण्डुलान् कृत्वा हुमिति मन्त्रेण पात्रवदनं प्रक्षाल्य चरुं पचेत् |
सुस्विन्ने चरौ मूलेनाभिघारणं कुर्ययात् |
ततो हूमिति तत्पात्रमवतार्यय कुशास्तीर्णे मण्डले फडिति मन्त्रेण स्थापयेत् |
तं चरुं त्रिधा विभज्य एकं देवाय दद्यात् अपरं वह्नौ जुहुयात् |
अपरं भागं शिष्येण सार्द्धं गुरुर्भुञ्जीत |
तत आचान्ताय शिष्यायाङ्गन्यासं कृत्वा स्थिताय द्वादशाङ्गुलं दन्तकाष्ठं गुरुर्दद्यात् |
शिष्यस्तु तेन दन्तकाष्ठेन दन्तान् संशोध्य तत् काष्ठं प्रक्षाल्य विसृजेत् |
तत आचान्तशिष्येन सार्द्धं वेद्यां दर्भसंस्तरे तां रात्रिं गुरुः शयीतेत्यधिवासविधिः ||
इति श्रीप्राणतोषिण्यां द्वितीये धर्मकाण्डे अधिवासरूपपुष्पकथनं नाम चतुर्थः परिच्छेदः |
अथ दीक्षा ||
विश्वसारतन्त्रे ||
गुरोर्निमन्त्रणं कृत्वा परेद्युः साधकस्तदा |
वस्त्रालङ्कारवर्णाद्यैर्गोभिश्चैव विधानतः |
ततः स्नात्वा विधानेन नद्यादौ साधकोत्तमः ||
विधानेन सङ्कल्पादिना तान्त्रिककर्मणि सङ्कल्पादौ सौरमासोल्लेख उक्तः |
पिच्छिलातन्त्रे पञ्चमपटले ||
सौरे मासि शुभा दीक्षा न चान्द्रे न च तारके |
प्रयोगादीनि सर्वाणि सौरेणैव समाचरेत् ||
विश्वसारे द्वितीयपटले |
अङ्कुरारोपणानन्तरम् ||
मातृकाः पूजयेत्तत्र गौर्ययाद्याः सर्वसम्मताः |
गणेशाद्याः पूजयेत्ताः क्षमस्वेति क्षमां वदेत् ||
मातृकाः पूर्वमुक्ताः ||
वसोर्धारा तदा देया सर्वविघ्नविनाशिनी |
पूजयेत् परया भक्त्या राजोपरिचरं बुधः |
तथा नान्दीमुखश्राद्धं कुर्ययाच्च विधिनामुना |
पितरं पितामहञ्चैव तथैव प्रपितामहम् |
जीवे पितरि तत् श्राद्धं कुर्ययात्तत् पितृपूर्वकम् |
मातामहं प्रमातामहं वृद्धप्रमातामहं ततः |
षट्पिण्डान् प्रक्षिपेद्देवि ! तानुपास्य सुसाधकः |
नामगोत्रानुरूपेणं श्राद्धं कुर्ययाद्विधानतः |
देवतापूर्वकं श्राद्धं कुर्ययान्नान्दीमुखं ततः |
पुरोरवा माद्रवाश्च सर्वकार्येषु देवता |
नान्दौमुखवसुः सत्या देवता परिकीर्त्तिता |
सर्वं दैवक्रमेणैव श्राद्धे दद्याज्जलादि च |
यत्तु महां निर्वाणतन्त्रे दशमोल्लासे ||
नान्दीमुखाश्च पितरो नान्दीमुख्यश्च मातरः |
पितामहादयोऽप्येवं मातामहादयोऽपि च |
श्राद्धे नान्द्याभ्युदयिके समुल्लेख्या वरानने ! ||
तथा |
तत्रादौ देवपक्षे तु वाक्यं शृणु शुचिस्मिते ! |
कालादीनि निमित्तानि समुल्लिख्य ततः परम् |
तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमः |
पित्रादीनां त्रयाणान्तु मात्रादीनां तथैव च |
मात्रामहानाञ्च मातामह्यादीनामपि प्रिये ! |
षष्ठ्यन्तं कीर्त्तयेन्नाम गोत्रोच्चारणपूर्वकम् |
विश्वेषाञ्चैव देवानां श्राद्धं पदमुदीरयेत् |
कुशनिर्मितयोः पश्चाद्विप्रयोरहमित्यपि |
करिष्ये परमेशानीत्यनुज्ञावाक्यमीरितम् |
विश्वान् देवान् परित्यज्य पितृपक्षे तु पार्वति ! |
तथा मातामहस्यापि पक्षेऽनुज्ञा प्रकीर्त्तिता ||
इति मात्रादीनां मातामह्यादीनाञ्च श्राद्धमुक्तं तद्द्वादशदैविकश्राद्धपरम् |
विश्वसारोक्तवचनन्तु आभ्युदयिकश्राद्धपरम् |
तदपि सामगानामेव |
ऋग्वेदयजुर्वेदयोस्तु नवदैवतश्राद्धमिति |
एवञ्च द्वादशदैवताभ्युदयिकश्राद्धयोरुक्तप्रमाण- दर्शनादिच्छाविकल्पयति ||
विश्वसारे तथा ||
पुण्याहं वाचयित्वा तु सर्वकार्ययं समुद्दिशेत् ||
इति वृद्धिश्राद्धम् ||
पञ्चदेवपूजापि तत्रैव ||
सर्वत्र सर्वकार्ययेषु गणेशघटपूर्वकम् |
गणेशं सवितारञ्च शिवां शिवमतः परम् |
विष्णुञ्च पूजयेद् यत्नात् सर्वकार्ययार्थसिद्धये |
लक्ष्मीं सरस्वतीं गङ्गां यमुनाञ्च तथैव च |
दिक्पालान् दिग्गजान् देवानृषीन् विघ्नवासिनीं ग्रहांस्ततः परम् |
मासराशितिथीर्योगान् करणानि च पार्वति ! |
पूजयेत् परया भक्त्या सर्वतन्त्रसमन्वितान् ||
दिक्पालादिपूजा पूर्वमुक्ता तद्विशेषस्त्वग्रतोऽनुसन्धेयः |
सम्प्रति ग्रहपूजार्थमादौ ग्रहमन्त्रा उच्यन्ते ||
ग्रहजामले चतुर्थपटले ||
प्रणवो वह्निमारूढः शिव आस्येन्दुसंयुतः |
मायायाः सप्तमः सर्गश्चतुर्वर्णो रवेर्मनुः |
मन्त्रस्तु ओं ह्रां ह्रीं सः || १ ||
प्रणवः कचतुर्थस्तु स मनुः स्वरबिन्दुकः |
हादिवह्निसमारूढश्चतुर्दशस्वरान्वितः |
बिन्दू रषष्ठः सर्गश्च इन्दोर्वेदार्णको मनुः |
मन्त्रस्तु ओं घौं स्रौं सः || २ ||
तारः शिखिसमारूढः शिवो मुखसमन्वितः |
विन्द्वाढ्यः पुटितानेन माषाहादिः ससर्गकः |
पञ्चवर्णात्मको देवि ! भौमस्य कथितो मौः |
मन्त्रस्तु ओं ह्रां ह्रीं सः || ३ ||
तारो नादसमारूढः सतुर्ययः समनुस्वरः |
बिन्दुरेतद्द्वयं भानोर्द्विचतुर्थार्णकस्तथा |
पञ्चवर्णात्मको देवि ! बुधमन्त्रः समीरितः |
मन्त्रस्तु ओं ह्रौं ह्रौं ह्रां सः || ४ ||
तारः कदशमार्णश्च समनुस्वरबिन्दुकः |
एतत्रयं सूर्ययतुर्ययो गुरोः पञ्चार्णको मनुः ||
मन्त्रस्तु ओं ञौं ञौं ञौं सः || ५ ||
चन्द्रजादिद्वितीयश्च दिननाथत्रितुर्ययकः |
चतुर्वर्णात्मको मन्त्रः शुक्रस्य कथितः प्रिये ! |
मन्त्रस्तु ओं ह्रौं ह्रीं सः || ६ ||
प्रणवो रचतुर्थस्तु समनुस्वरबिन्दुकः |
एतद्द्वयं सूर्ययतुर्ययश्चतुर्वर्णः शनेर्मनुः |
मन्त्रस्तु ओं शौं शौं सः || ७ ||
मनुस्वराढ्यो घतुर्ययः सबिन्दुस्तेन सम्पुटः |
खषष्ठो मुखविन्द्वाढ्यो भानुतुर्ययास्तकः प्रिये ! |
चतुर्वर्णात्मको मन्त्रः श्रीराहोः समुदीरितः |
मन्त्रस्तु ओं छीं छां छौं सः || ८ ||
तारो दपञ्चमो वर्णो मनुस्वरनभोऽन्वितः |
साम्यबिन्दुः खषष्ठार्णः सोष्ठावो बिन्दुनाष्टमः |
सूर्ययतुर्ययो महेशानि ! केतोः पञ्चार्णको मनुः |
मनुः |
मन्त्रस्तु ओं फौं फां फौं सः || ९ ||
पूजाक्रमस्तु आदौ मन्त्रं समुच्चार्यय पश्चात् द्रव्यमुदीरयेत् |
सम्प्रदानपदं पश्चात्त्यागात्मकपदं ततः |
इति रुद्रजामलीयवचनानुसारेण मूलमुच्चार्यय एतत्पाद्यं ओं सूर्ययाय ग्रहाय नम इत्यादिना पूजयेत् |
सर्वेषामेष क्रमो ज्ञेयः |
प्रसङ्गात्तेषां पुरश्चरणादिकं लिख्यते ||
यथा ब्रह्मजामले शिववाक्यम् ||
विगुणे तु ग्रहे देवि ! व्याधिशत्रुनृपार्दने |
राष्ट्रोपप्ल्वने घोरे आयुषो नाश आगते |
जातिध्वंसे कुलोच्छेदे सर्वनाश उपस्थिते |
धनपुत्रादिकामे च कुर्ययाद्ग्रहपुरष्क्रियाम् |
दशोक्तवर्षसंख्येन सहस्रेण जपेन तु |
पुरश्चरणमुद्दिष्टं सर्वेषां व्योमचारिणाम् |
दशांशं जुहुयाद्वह्नौ त्रिमध्वाक्तसमिद्वरैः |
कल्पोक्तैर्गन्धकर्पूरमिश्रितेनोदकेन च |
तर्पयेद्देवतां देवि ! तद्दशांशक्रमेण तु |
अभिषिञ्चेत्तद्दशांशं कर्पूरवासितैर्जलैः |
तद्दशांशक्रमेणैव कुर्ययाद्ब्राह्मणभोजनम् |
आद्यन्ते महती पूजा दक्षिणा विभवाविधि ||
इति ग्रहपुरश्चरणम् |
वरदातन्त्रे तृतीयपटले ||
अतस्तत् साधकेनापि कर्त्तव्यं ग्रहपूजनम् |
अन्यथा ग्रहदोषेण न कदाचित् फलं भवेत् |
सर्वाणि साधनानीह कृत्वा भक्त्या विधानतः ऐहिके फलफलभाङ् न स्याद्विना हि ग्रहपूजनम् |
कथयामि समासेन ग्रहसाधनमुत्तमम् |
चन्द्रतारानुकूलं हि दिनं ग्राह्यं विचक्षणैः |
ये ग्रहाश्चाभवन् दुष्टास्तान् प्रयत्नेन पूजयेत् |
वस्त्रपुष्पाणि सर्वाणि तत्तद्वर्णानि दापयेत् |
जुहुयात्तु यथाशक्ति ग्रहेष्विष्टप्रसिद्धये |
तत्तद्ग्रहोक्तद्रव्याणि तेभ्यो दत्त्वा द्विजे दिशेत् ||
ग्रहदानन्तु ग्रहजामले षष्ठपटले ||
श्रीदेव्युवाच ||
दीनबन्धो ! दयासिन्धो ! यदि तुष्टोऽसि मां प्रति |
आपद्विनाशनं कर्म्म कृपया कथय प्रभो ! ||
ईश्वरोवाच ||
तैलवर्त्तिप्रपन्नस्य दीपस्य पवनात् प्रिये ! |
विनाशः स्याद्यथा तद्वदकाले प्राणसंक्षयः ||
अत आपद्विनाशाय दीर्घायुष्कत्वहेतवे |
सारमेकं प्रवक्ष्यामि यत्नाद्दानं समाचरेत् |
तुलादानञ्च यो दद्याद्ग्रहविप्राय सुन्दरि ! |
आपन्मुक्तो भवेत् सोऽपि भुवि सम्मोदते सुखम् || १ ||
सुवर्णस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये ! |
तस्य तुष्टः सुरगुरुरायुर्वृद्धिं करोति सः |
यस्तु रौप्यतुलादानं दद्याद् ग्रहद्विजाय च |
सन्तुष्टस्तस्य शुक्रः सन् संसृजेद्दीर्घजीवितम् || २ ||
ग्रहद्विजाय यो दव्यात्तुलां ताम्रस्य पार्वति ! |
सन्तुष्टो मङ्गलस्तस्य दीर्घायुष्ट्वं करोति हि || ३ ||
यो यद्याद् ग्रहविप्राय पित्तलस्य तुलां प्रिये ! |
तस्य तुष्टो बुधः कुर्ययादायुःपुष्टिं सुगौरवम् || ४ ||
ग्रहविप्राय लौहस्य तुलां यस्तु प्रयच्छति |
प्रीतः शनैश्चरस्तस्य विपुलायुः प्रयच्छति || ५ ||
सीसकस्य तुलां दद्याद् ग्रहविप्राय यः प्रिये ! |
तस्याशु राहुः सुप्रीतः सौभाग्यायुः प्रयच्छति || ६ ||
यः खर्परतुलां दद्याद् ग्रहविप्राय सुन्दरि ! |
सन्तुष्टो भगवान् केतुस्तस्यायुर्वर्द्धयेत् सुखम् || ७ ||
तुलां ताम्रस्य यो दद्याद् ग्रहविप्राय सुन्दरि ! |
आदित्यस्तस्य सुप्रीतो दीघायुः परियच्छति || ८ ||
ग्रहविप्राय यो दद्यात्तुलां कांस्यस्य सुन्दरि ! |
सन्तुष्टस्तस्य रात्रीशो विभूत्यायुः प्रयच्छति || ९ ||
वैदूर्ययं नीलमाणिक्ये पद्मरागञ्च मौक्तिकम् |
वज्रं परेशं गोमेदं तथा मरकतं प्रिये ! |
दद्यादुत्सृज्य विप्राय स्वयञ्च बिभृयात्करे ||
इति ग्रहदानम् ||
अथ ग्रहकवचम् ||
अष्टादशपटले ||
पार्वत्युवाच |
श्रीशान् ! सर्वशास्त्रज्ञ ! देवताधीश्वर ! प्रभो ! |
अक्षयं कवचं दिव्यं ग्रहादिदैवतं विभो ! |
पुरा संसूचितं गुह्यं सुभक्ताक्षयकारकम् ||
कृपा मयि तवास्ते चेत् कथय श्रीमहेश्वर ! ||
श्रीशिव उवाचः ||
शृणु देवि ! प्रियतमे ! कवचं देवदुर्लभम् |
यद्धृत्वा देवताः सर्वे अमराः स्युर्वरानने ! |
तव प्रीतिवशाद्वक्ष्मि न देयं यस्य कस्यचित् |
ओं ह्रां ह्रीं सो मे शिरः पातु श्रीसूर्ययग्रहभूपतिः |
ओं घौं सौं ओं मे मुखं पातु श्रीचन्द्रो ग्रहराजकः |
ओं ह्रां ह्रीं ह्रां सः करौ पातु ग्रहसेनापतिः कुजः |
पायादर्थौ ह्रौं ह्रां सः पादौ ज्ञो नृपबालकः |
ओं ञौं ञौं ञौं सः कटिं पातु पायादमरपूजितः |
ओं ह्रौं ह्रीं सो दैत्यपूज्यो हृदयं परिरक्षतु |
ओं शौं शौं सः पातु नाभिं मे ग्रहप्रेष्यं शनैश्चरः |
ओं छौं छां छौं सः काण्ठदेशं श्रीराहुर्देवमर्दकः |
ओं फौं फां फौं सः शिखी पातु सर्वाङ्गमभितोऽवतु |
ग्रहाश्चैते भोगदेहा नित्यास्तु स्फुटितग्रहाः |
एतदंशांशसम्भूताः पान्तु नित्यन्तु दुर्जनात् |
अक्षयं कवचं पुण्यं सूर्ययादिग्रहदैवतम् |
पठेद्वा पाठयेद्वापि धारयेद्यो जनः शुचिः |
स सिद्धिं प्राप्नुयादिष्टां दुर्लभां त्रिदशैस्तु थाम् |
तव स्नेहवशादुक्तं जगन्मङ्गलकारकम् |
ऋषिः प्रोक्तो भैरवोऽस्य छन्दोऽनुष्टुप्प्रक्रीर्त्तितम् |
श्रीसूर्यादिग्रहास्तत्र देवताः परिकीर्त्तिताः |
सर्वकामार्थसंसिद्ध्यै विनियोगो मयोदितः |
ग्रहयन्त्रान्वितं कृत्वाभीष्टमक्षयमाप्नुयात् ||
इति ग्रजामले पार्वतीश्वरसंवादे जगद्दुर्लभाक्षय नाम कवचं समाप्तम् ||
अथ तिथिपूजा ||
गायत्रीतन्त्रे |
श्रीमहादेव उवाच ||
तिथेर्ध्यानं विना देवि ! तिथेर्मन्त्रं तथैव च |
अज्ञात्वा परमेशानि ! दिनकृत्यं करोति यः |
तस्य सर्वं भवेद्यर्थं दिनकृत्यं वरानने ! |
या तिथिः सा महामाया आद्यामूर्त्तिजगन्मयी |
कृष्णपक्षे कृष्णवर्णा शुक्ले चन्द्र समप्रभा |
द्विभुजां शुक्लरूपाञ्च खेलत्खञ्जनगामिनीम् |
द्विलोचनां शशिकलां सिन्दूरतिलकोज्ज्वलाम् |
तप्तहाटकनिर्माणनानालङ्कारभूषिताम् |
दाडिमीवीजसदृशदशनद्युतिशोभनाम् |
ध्यायेत् प्रतिपदं देवीं जपपूजाविशुद्धये ||
मन्त्रो यथा |
ग्रीं प्रतिपद्भ्यः स्वाहा || १ ||
एवं द्विलोचनां शशिकलां शुद्धस्पह्टिकशोभनाम् |
शुद्धाभरणशोभाढ्यां शुक्लवस्त्रपरिच्छदाम् |
नानाकटाक्षसंयुक्तभ्रूलतापरिशोभिताम् ||
सिन्दूरतिलकोद्दीप्तां खञ्जनाञ्चितलोचनाम् |
द्विभुजां सुन्दराङ्गीञ्च किशोरीं नवयौवनाम् |
ध्यात्वा द्वितीयां चार्वङ्गि ! जपेन्मन्त्रं यथा शृणु |
ऐं द्वितीयायै स्वाहा || २ ||
शुक्लपद्मप्रतिकाशां शुक्लवस्त्रपरिच्छदाम् |
शुक्लाभरणशोभाढ्यां पुण्डरीकोपरिस्थिताम् |
द्विलोचनां शशिकलां सिन्दूरतिलकोज्ज्वलाम् |
कटाक्षविशिखोपेतां द्विभुजां तृतीयां भजेत् |
ओं ऐं तृतीयायै स्वाहा || ३ ||
चतुर्थीं शुक्लचार्वङ्गीं यज्ज्ञात्वा सिद्धितां व्रजेत् |
कुन्दपुष्पसमाभासां द्विभुजां लोललोचनाम् |
शुक्लवस्त्रपरीधानां शुक्लाभरणभूषिताम् |
सिन्दूरतिलकोद्दीप्तां खञ्जनाञ्चितलोचनाम् ||
ऐं हुं चतुर्थ्यै स्वाहा || ४ ||
पञ्चमीं शृणु चार्वङ्गि ! सर्वसिद्धिप्रदायिनीम् |
यज्ज्ञात्वा परमेशानि ! तिथेः फलमवाप्नुयात् ||
शुद्धस्फटिकसङ्काशां श्वेतपद्मोपरिस्थिताम् |
हास्ययुक्तां प्रसन्नास्यां कटाक्षविशिखोज्ज्वलाम् |
कन्दर्पधनुराकारभ्रूलतापरिशोभिताम् |
द्विभुजां श्वेतवर्णाञ्च श्वेतालङ्कारभूषिताम् ||
लोचनद्वयसंयुक्तां सिन्दूरतिलकोज्ज्वलाम् |
मृणालसदृशाकारबाहुवल्लीविराजिताम् |
खेलत्खञ्जनगामीञ्च चारुचूडाविराजिताम् ||
ह्रीं ऐं ह्रीं पञ्चम्यै स्वाहा |
ह्रीं ऐं ह्रीं विशेषः |
श्रीपञ्चमीदिने कर्त्तव्यं पूजनं महत् |
निरीक्ष्य दक्षिणनाथे यद्ध्यानपूजादिकञ्चरेत् |
ध्यायेत् परमयत्नेन पञ्चमीतिथिरूपिणीम् |
ध्यात्वां पाद्यादिकं दत्त्वा प्रजपेद्दशधा मनुम् |
ततस्तु पूजयेद्देवीं शारदा वाग्विलासिनीम् || ७ ||
कुन्दपुष्पसमाभासां द्विभुजां लोललोचनाम् |
कटाक्षविशिखोद्दीप्तां सिन्दूरतिलकोज्ज्वलाम् |
दाडिमीवीजसदृशदशनद्युतिमुज्ज्वलाम् |
शुक्लालङ्कारसुभगां शुक्लासननिवासिनीम् |
शुक्लवस्त्रपरिच्छिन्नां शुक्लहारविनोदिनीम् |
द्विभुजां चन्द्रवदनां ध्यायेदात्मविभूतये |
ओं ह्रीं षष्ठ्यै स्वाहा || ६ ||
शरच्चन्द्रप्रतीकाशां द्विभुजां शशिशेखराम् |
लोचनद्वयसंयुक्तां खेलत्खञ्जनगामिनीम् |
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् |
कटाक्षविशिखोपेतां भ्रूलतापरिशोभिताम् |
शुक्लासनसमासीनां शुक्लाभरणभूषिताम् |
शुक्लवस्त्रपरीधानां ध्यायेदात्मविभूतये |
ह्रीं ओं सप्तम्यै स्वाहा ओं ह्रीं || ७ ||
राकाचन्द्रप्रतीकाशां द्विभुजां चन्द्रशेखराम् |
पूर्णचन्द्रमुखश्रेणीं कुटिलालकशोभिताम् |
हास्ययुक्तां प्रसन्नास्यां श्वेतवस्त्रपरिच्छदाम् |
श्वेताभरणशोभाढ्यां किशोरीं नवयौवनाम् |
मालाकटाक्षसंयुक्तां भ्रूलतापरिशोभिताम् |
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् |
क्रीं हुं ऐं अष्टम्यै स्वाहा ऐं हुं क्रीं || ८ ||
श्वेतपद्मप्रतीकाशां द्विभुजां लोललोचनाम् |
दाडिमीवीजसदृशदन्तपंक्तिपरिच्छदाम् |
शुक्लपट्टाम्बरधरां शुक्लवस्त्रोत्तरीयिणीम् |
ललाटे पट्टिकां शुद्धां सिन्दूरतिलकोज्ज्वलाम् |
नानाभरणदीप्ताङ्गीं पीतगन्धप्रलेपिताम् |
मुक्तावर्त्तुलहारेण कम्बुकण्ठशुशोभिताम् |
नानामाल्यपरिच्छिन्नां चित्रराजविराजिताम् |
ओं हुं नवम्यै स्वाहा हुं ओं || ९ ||
मल्लिकापुष्पसङ्काशां द्विभुजां लोललोचनाम् श्वेतासनोपविष्टाञ्च श्वेतांशुकपरिछदाम् |
श्वेताभरणसंयुक्तां श्वेतगन्धविलेपनीम् |
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् ||
ऐं ओं दशम्यै स्वाहा ओं ऐं || १० ||
केतकीपुष्पसङ्काशां भ्रूलता परिभूषिताम् |
नानाकटाक्षसंयुक्तां मत्तद्विरदगामिनीम् |
नानालङ्कारसुभगां पीतवस्त्रपरिच्छदाम् |
पीतगन्धप्रलिप्ताङ्गीं सिन्दूरतिलकोज्ज्वलाम् |
दाडिमीवीजसदृशदन्तपंक्तिमनुत्तमाम् |
द्विभुजां सुन्दरीं देवी नमाम्यात्मविभूतये ||
ओं क्रीं ओं एकादश्यै स्वाहा ओं क्रीं ओं || ११ ||
पीतपद्मसमाभासां शुक्लवस्त्रपरिच्छदाम् |
शुक्लचन्दनसिक्ताङ्गीं द्विभुजां लोललोचनाम् |
शुक्लाभरणशोभाढ्यां शुक्लासनसमाश्रयाम् |
दाडिमीवीजसदृशदशनद्युतिशोभनाम् |
सिन्दूरतिलकोद्दीप्तां ललाटपट्टिकां शुभाम् |
ह्रीं ओं ह्रीं द्वादश्यै स्वाहा ह्रीं ओं ह्रीं || १२ ||
रक्तचन्द्रप्रतीकाशां किशोरीं नवयौवनाम् |
रक्तवस्त्रपरीधानां कुटिलालकमण्डिताम् |
द्विभुजां सुन्दरीं शुद्धां पूर्णचन्द्रमुखप्रभाम् |
द्विलोचनां चन्द्ररेखां विष्णुपूज्यां वृहत्कटीम् |
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् |
नानाकटाक्षसंयुक्तां नानाशृङ्गारशोभनाम् |
ध्यात्वां त्रयोदशीं देवीं प्रजपेन्मन्त्रमुत्तमम् ||
ओं ऐं त्रयोदश्यै स्वाहा ऐं ओं || १३ ||
शुद्धस्फटिकसङ्काशां हरिद्वस्त्रविनोदिनीम् |
नानालङ्कारसुभगां पीतमाल्यपरिच्छदाम् |
श्वेतपद्मसमासीनां द्विभुजां लोललोचनाम् |
कटाक्षविशिखोद्दीप्तां सिन्दूरतिलकोज्ज्वलाम् |
दाडिमीवीजसदृशदशनद्युतिमुज्ज्वलाम् |
कदम्बकोरकाकारस्तनद्वयमनोहराम् |
हास्ययुक्तां प्रसन्नास्यां किशोरीं नवयौवनाम् ||
क्रीं ओं ह्रीं चतुर्दश्यै स्वाहा ह्रीं ओं क्रीं || १४ ||
सप्तमपटले ||
श्रीमहादेव उवाच ||
पूर्णिमां शृणु चार्वङ्गि ! यया सिद्धिमयो भवेत् |
कोटिविद्युल्लताकारां चतुर्बाहुसमन्विताम् |
पीतांशुकपरीधानां रत्नहारविराजिताम् |
शङ्ककङ्कणकेयूरनानाशृङ्गारभूषिताम् |
रत्नकुण्डलसंयुक्तस्फुरद्गण्डमनोहराम् |
त्रिभङ्गललिताकारां सिन्दूरतिलकोज्ज्वलाम् |
कटाक्षलक्षसंयुक्तां भ्रूलतापरिशोभिताम् ||
ह्रीं ओं क्रीं ओं पूर्णिमायै स्वाहा ओं क्रीं ओं ह्रीं || १५ ||
एतत्ते कथितं देवि ! पूर्णमन्त्रं परात्परम् |
एतास्तु तिथयो देवि ! शुक्लपक्षे वरानने ! |
कृष्णपक्षे महेशानि ! तिथयस्तु सुशोभनाः |
नीलाञ्जनचयप्रख्याः किशोर्ययो नवयौवनाः |
तासां ध्यानं प्रवक्ष्यामि सावधानावधारय ||
दलिताञ्जनसङ्काशां पीतांशुकपरिच्छदाम् |
पीतगन्धप्रलिप्ताङ्गीं पीताभरणभूषिताम् |
पीतपद्मसमासीनां किशोरीं नवयौवनाम् |
द्विलोचनां चन्द्ररेखां द्विभुजां कोरकस्तनीम् ||
ललाटपट्टिकाशुद्धां सिन्दूरतिलकोज्ज्वलाम् |
खेलत्खञ्जनगामीञ्च त्रिभङ्गिललिताकृतिम् |
दाडिमवीजसदृशदशनज्योतिरुज्ज्वलाम् |
कृष्णपक्षे महेशानि ! एतद्ध्यानं प्रशस्यते |
सर्वासां परमेशानि ! एकेन भवति प्रिये ! |
सर्वासां पूर्ववन्मन्त्रममावास्यां विना शिवे ! |
अमावास्यामनुं देवि ! शृणुष्व वरवर्णिनि ! ||
ओं ह्रीं ह्रीं ओं अमावास्यायै स्वाहा ओं ह्रीं ह्रीं ओं ||
अथ वक्ष्यामि सफलं पक्षध्यानं वरानने ! ||
शङ्खकुन्दसमाभासां नवयौवनसंयुताम् |
चतुर्भुजां त्रिनयनां मत्तद्विरदगामिनीम् |
ललाटपट्टिकामध्ये सिन्दूरतिलकस्थितिम् |
भ्रमद्भ्रमरनीलाभामञ्जनाञ्चितलोचनाम् |
पीतांशुकपरीधानां कृष्णवस्त्रोत्तरीयिणीम् |
नानालङ्कारसुभगां नीलपद्मोपरिस्थिताम् |
घूर्णायमाननयनां नीलपद्मविधारिणीम् |
सदा षोडशवर्षीयां कदम्बकोरकस्तनीम् |
हीरकद्युतिसङ्काशदशनज्योतिरुज्ज्वलाम् |
नानापुष्पमयैर्हारैर्नानागन्धमयीं पराम् |
प्रत्यहं भावयेद्देवीं शुक्लपक्षस्वरूपिणीम् ||
ऐं ऐं क्रीं क्रीं शुक्लपक्षाय स्वाहा ऐं ऐं क्रीं क्रीं ||
कृष्णपक्षे महेशानि ! अधुना निगदामि ते |
महामरकतश्यामां चतुर्बाहुसमन्विताम् |
पीनोत्तुङ्गकुचां रम्यां चित्रवस्त्रविलासिनीम् |
नानाशृङ्गारवेशाढ्यां स्फुरच्चकितलोचनाम् |
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् |
कन्दर्पधनुराकारभ्रूलतापरिशोभिताम् |
रत्नहारेण सहितनागहारविराजिताम् |
पीतपद्मसमासीनां चित्रचूडाविराजिताम् |
पीताविद्युत्समाकान्त्युत्तरीयवसनच्छविम् |
पूर्णचन्द्रमुखीं देवीं कृष्णपक्षस्वरूपिणीम् ||
ओं ओं कृष्णपक्षाय स्वाहा ओं ओं ||
श्रीशिव उवाच ||
तिथेर्ध्यानं तिथेर्मन्त्र पक्षध्यानं तथैव च |
पक्षमन्त्र तथा देवि ! दिवसे दिवसे सुधीः |
प्रत्यहं कुरुते यस्तु तस्य सिद्धिरदूरतः |
एतास्तु तिथयो देवि ! सूर्ययमण्डलसंस्थिताः |
पक्षध्यानं प्रथमतस्तिथिध्यानं ततः प्रिये ! |
पक्षमन्त्रं ततो जप्त्वा तिथिमन्त्र ततो जपेत् |
ततः सिद्धिमवाप्नोति जपपूजादिका च या |
दिनकृत्यं महेशानि ! यः करोति दिने दिने |
पक्षपूजां प्रथमतः कृत्वा सिद्धिमवाप्नुयात् |
तिथिपूजां विना देवि ! जपयज्ञादिका क्रिया |
सर्वं निष्फल |
याति आमपात्रमिवाम्भसि |
दिवसे दिवसे देवि ! तिथिमासाद्य यत्नतः |
प्रातःकाले ततो धीमान् तिथिध्यानं समाचरत् |
दशधा प्रजपेन्मन्त्रं सूर्ययं दृष्ट्वा प्रयत्नतः |
तदा तिथिफलं प्राप्य सर्वं पूजाफल लभत् |
एतत्तत्त्वमविज्ञाय आयुर्याति दिने दिने |
तिथिरूपा महादेवी महामाया जगन्मयी |
ध्यानमन्त्रं विना देवि ! सर्वेषां सिद्धिनाशिनी |
प्रत्यहं कुरुते यस्तु जपध्यानं तिथेः प्रिये ! |
गङ्गास्नानफलं सोऽपि लभते नात्र संशयः |
अश्वमेधमहायज्ञे व्यासो होता यदि प्रिये ! |
विफलमश्वमेधं हि तिथिध्यानं विना भवेत् |
अमृतेनामृतं कृष्णे प्रीयन्ते देवताः क्रमात् |
प्रथमां पिबते वह्निर्द्वितीयां तपनः कलाम् |
विश्वदेवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः |
पञ्चमीं वरुणश्चापि षष्ठीं पिबति वासवः |
सप्तमीमृषयो दिव्या वसवोऽष्टौ तथाष्टमीम् |
नवमीं कृष्णपक्षस्य पिबतीन्द्रः कलामपि |
दशमीं मरुतश्चापि रुद्र एकादशीं कलाम् |
द्वादशीन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् |
चतुर्दशीं पशुपतिः कलां पिबति नित्यशः |
ततः पञ्चदशीञ्चापि पिबन्ति पितरः कलाम् ||
अथ तिथिकवचम् |
अस्य तिथीनां कवचस्य अश्वत्थामबलिव्यासहनूमद्विभीषणकृपपरशुरामा ऋषयो गायत्रीच्छन्दः श्रीमृत्युञ्जयशिवो देवता धर्मार्थकाममोक्षेसु विनियोगः |
पूर्वे पातु सदा नित्या क्रीङ्कारी प्रतिपत्तिथिः |
क्लीङ्कारी पातु मे नित्यं द्वितीया ब्रह्मपूजिता |
ऐङ्कारी पातु मे नित्यं तृतीया पश्चिमे परा व्लुङ्कारी पातु मे नित्या चतुर्थी विष्णुपूजिता |
व्लूङ्कारी पातु मे नित्यमूर्द्धदेहमहर्निशम् |
ह्रीङ्कारी पातु मे नित्यं पञ्चमी मुखमण्डलम् |
श्रीङ्कारी पातु मे नित्यं षष्ठीरूपा च पार्वती |
स्त्रीङ्कारी सप्तमी पातु नित्यं मे नाभिमण्डलम् |
हुंकारी चाष्टमी नित्यं कण्ठं मे पातु सर्वदा |
श्रीङ्कारी नवमी नित्यं स्वाधिष्ठानं सदावतु |
दशमी पातु मे नित्यं हस्तयुग्मं यथा तथा |
एकादशी सदा पातु चाक्षियुग्ममहर्निशम् |
द्वादशी पातु मे नित्यं हस्तयुग्मं यथा तथा |
त्रयोदशी महालक्ष्मीः क्षेत्रस्थाननिवासिनी |
त्रयोदशी पातु नित्यं हंस इत्यक्षरात्मिका |
हङ्कारः पातु मे नित्यं पादयुग्ममहर्निशम् |
सःकारः पातु मे नित्यं पादाग्रात् केशमण्डलम् |
चतुर्दशी महामाया सर्वत्र परिरक्षतु |
स्वाकारश्चतुर्दशी नित्या नित्यं मे धनसम्पदम् |
हाकारः पूर्णिमा नित्यं देवि मे आयुवर्द्धनम् |
श्रीं हुं ह्रीं स्वाहा सर्वरूपा देवी तिथिरूपा च मां परिरक्षतु सर्वदा |
हुं ह्रीं अमावास्या सदा पातु दारान् पुत्त्रपरिच्छदम् |
ह्रीं हुं ह्रीं स्वाहा कथितं कवचं देवि ! त्रैलोक्येषु च दुर्लभम् |
इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः |
अन्येषां कवचानाञ्च तेजांसि हरते तिथिः |
तस्माद्यत्नेन हे देवि ! तिथीनां कवचं पठेत् |
ध्यानं मन्त्रं तथा स्तोत्रं कवचञ्च तथा प्रिये ! |
कलिकालमतं देवि ! परतत्त्वं विनिर्गतम् |
इति ते कथितं देवि ! सारात्सारं परात्परम् ||
इति श्रीवर्णविलासतन्त्रे गणेशजतुकर्णसुभगासंवादे तिथिकवचं समाप्तम् ||
मासादीनां ध्यानन्तु कामधेनुतन्त्रादावनुसन्धेयमत्र ग्रन्थगौरवभिया न लिखितम् ||
अथ वर्णानां ध्यानादिकं वर्णोद्धारतन्त्रोक्तम् |
प्रणाममन्त्रस्तु सर्वत्र कामधेनुतन्त्रोक्त इति |
तद्यथा ||
केतकीपुष्पगर्भाभां द्विभुजां हंसलोचनाम् |
शुक्लपट्टाम्बरधरां पद्ममाल्यविभूषिताम् |
चतुर्वर्गप्रदां नित्यं नित्यानन्दमयीं पराम् |
वराभयकरां देवीं नागपाशसमन्विताम् |
एवं ध्यात्वा अकारन्तु तन्मन्त्रं दशधा जपेत् ||
अ ||
ध्यानमस्याः प्रवक्ष्यामि षड्भुजां रक्तलोचनाम् |
रत्नकङ्कणकेयूरहारोज्ज्वलकलेवराम् |
सिद्धां सिद्धिप्रदां सौम्यां सिद्धगन्धर्वसेविताम् |
एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ||
आ ||
धूम्रवर्णां महारौद्रीं पीताम्बरयुतां पराम् |
कामदां सिद्धिदां सौम्यां नित्योत्साहविवर्द्धिनीम् |
चतुर्भुजान्तु वरदां हरिचन्दनभूषिताम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
इ ||
चतुर्भुजां रक्तवर्णां रक्तपुष्पोपशोभिताम् |
चारुचन्दनदिग्धाङ्गीं रक्तपङ्कजलोचनाम् |
रक्तचीरपरीधानां धर्मकामार्थमोक्षदाम् |
एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ||
ई ||
पीतवर्णां त्रिनयनां पीताम्बरधरां पराम् |
द्विभुजां जटिलां भीमां सर्वसिद्धिप्रदायिनीम् |
एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् ||
उ ||
द्विभुजां शुक्लवर्णाञ्च जटामुकुटशोभिताम् |
शुक्लमाल्याम्बरधरां चारुचन्दनभूषिताम् |
चतुर्वर्गप्रदां नित्यां रक्तपङ्कजलोचनाम् |
एवं ध्यात्वा तु तन्मन्त्रं दशधा जपमाचरेत् ||
ऊ ||
षड्भुजां नीलवर्णाञ्च नीलाम्बरधरां पराम् |
नानालङ्कारभूषाढ्यां सर्वालङ्कृतमस्तकाम् |
भक्तिप्रदां भगवतीं भोगमोक्षप्रदायिनीम् |
एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् |
पञ्चप्राणमयं वर्णं चतुर्ज्ञानमयं तथा |
रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम् ||
ऋ ||
ध्यानमस्य प्रवक्ष्यामि द्विभुजां पद्मलोचनाम् |
सन्तप्तस्वर्णवर्णाभां सर्वालङ्कारभूषिताम् |
रक्तपद्मेक्षणां देवीं रत्नहारविभूषिताम् |
एवं ध्यात्वा सुरश्रेष्ठां तन्मन्त्रं दशधा जपेत् |
चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा |
त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये ! ||
ॠ ||
स्वर्णचम्पकवर्णाञ्च स्वर्णालङ्कार विग्रहाम् |
चतुर्भुजां त्रिनयनां रक्तचन्दनचर्च्चिताम् |
प्रणमामि सदा देवीं धर्मकामार्थमोक्षदाम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
ॡ ||
ध्यानमस्याः प्रवक्ष्यामि पीतवर्णां चतुर्भुजाम् |
पीताम्बरपरीधानां नानालङ्कारमस्तकाम् |
विचित्रमाल्याभरणां देवदानवसेविताम् |
चतुर्वर्गप्रदां नित्यां नित्योत्साहविवर्द्धिनीम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
ॡ ||
रक्ताम्बरपरीधानां षड्भुजां रक्तलोचनाम् |
विचित्राभरणां नित्यां चतुर्वर्गप्रदायिनीम् |
ईषद्धास्यमुखीं सौम्यां देवगन्धर्वसेविताम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
ए ||
विचित्ररूपिणीं देवीं विचित्राम्बरधारिणीम् |
विचित्रमाल्याभरणां चतुर्बाहुसमन्विताम् ||
नानालङ्कारसंयुक्तां चतुवर्गफलप्रदाम् |
देवदानवगन्धर्वैः सेवितां मोक्षकाङ्क्षिभिः |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
ऐ ||
रत्नालङ्कारसंयुक्तां पद्मरागप्रभां शुभाम् |
शरत्पूर्णेन्दुवदनां विचित्रवसनान्विताम् |
चतुर्भुजां त्रिनयनां स्मेरास्यां नीलकुन्तलाम् |
विद्युद्दामसमानाङ्गीं मुक्तापंक्तिस्रजं भजे |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
ओ ||
चतुर्भुजां त्रिनयनां जटामुकुटमण्डिताम् |
श्वेतरोहितपीतादिपुष्पहारोपशोभिताम् |
सदा स्मेरमुखीं सौम्यां चतुर्वर्गप्रदायिनीम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
औ ||
जवादाडिमपुष्पाभां द्विभुजां रक्तलोचनाम् |
रक्ताम्बरपरीधानां रक्तालङ्कारभूषिताम् |
चतुर्वर्गप्रदां सौम्यां वरदां नागशेखराम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
अं ||
सन्तप्तहेमवर्णाभां सर्वालङ्कारभूषिताम् |
रत्नयज्ञोपवीताञ्च रत्नाकङ्कणराजिताम् |
पूर्णेन्दु वदनां सौम्यां तुरीयकरसंयुताम् |
चन्द्रसूर्ययाग्निरूपेण नयनत्रितयान्विताम् |
साधकाभीष्टदां नित्यां धर्मकामार्थमोक्षदाम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ||
अः ||
जवायावकसिन्दूरसदृशीं कामिनीं पराम् |
चतुर्भुजां त्रिनेत्राञ्च बाहुवल्लीविराजिताम् |
कदम्बकोरकाकारस्तनयुग्मविराजिताम् |
रत्नकङ्कणकेयूरहारनूपुरभूषिताम् |
एवं ककारं ध्यात्वा तु तन्मन्त्रं दशधा जपेत् ||
क ||
बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम् |
वराभयकरां नित्यामीषद्धास्यमुखीं पराम् |
एवं ध्यात्वा खकारन्तु तन्मन्त्रं दशधा जपेत् |
गुणत्रययुतं देवि ! पञ्चदेवमयं सदा |
त्रिशक्तिसंयुतं वर्णं खकारं प्रणमाम्यहम् ||
ख ||
दाडिमीपुष्पसङ्काशां चतुर्बाहुसमन्विताम् |
रक्ताम्बरधरां नित्यां रक्तालङ्कारभूषिताम् |
एवं ध्यात्वा गकारन्तु तन्मन्त्रं दशधा जपेत् |
पञ्चप्राणमयं वर्णं सर्वशक्त्यात्मकं प्रिये ! |
तरुणादित्यसङ्काशां कुण्डलीं प्रणमाम्यहम् ||
ग ||
मालतीपुष्पवर्णाभां षड्भुजां रक्तलोचनाम् |
शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषिताम् |
तदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम् |
एवं ध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत् |
निर्गुणं त्रिगुणोपेतं सदा त्रिगोलसंयुतम् |
सर्वगं सर्वदा शान्तं घकारं प्रणमाम्यहम् ||
घ ||
धूम्रवर्णां महाघोरां ललज्जिह्वां चतुर्भुजाम् |
पीताम्बरपरीधानां साधकाभीष्टसिद्धिदाम् |
एवं ध्यात्वा ब्रह्म रूपां तन्मन्त्रं दशधा जपेत् |
सर्वदेवमयं वर्णं त्रिगुणं लोललोचने ! |
पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् ||
ङ ||
तुषारकुन्दपुष्पाभां नानालङ्कारभूषिताम् |
सदा षोडशवर्षीयां वराभयकरां पराम् |
शुक्लवस्त्रावृतकटिं शुक्लवस्त्रोत्तरीयिणीम् |
वरदां शोभनां रम्यामष्टबाहुसमन्विताम् |
एवं ध्यात्वा चकारन्तु तन्मन्त्रं दशधा जपेत् ||
च ||
ध्यानमस्याः प्रवक्ष्यामि द्विभुजान्तु त्रिलोचनाम् |
पीताम्बरधरां नित्यां वरदां भक्तवत्सलाम् |
एवं ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिबिन्दुसहितं वर्णं सदैवेश्वरसंयुतम् |
पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् ||
छ ||
नानालङ्कारसंयुक्तैर्भुजैर्द्वाशभिर्युताम् |
रक्तचन्दनदिग्धाङ्गीं चित्राम्बरविधारिणीम् |
त्रिलोचनां जगद्धात्रीं वरदां भक्तवत्सलाम् |
एवं ध्यात्वा जकारन्तु तन्मन्त्रं दशधा जपेत् ||
ज ||
सन्तप्तहेमवर्णाभां रक्ताम्बरविभूषिताम् |
रक्तचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम् |
चतुर्दशभुजां देवीं रत्नहारोज्ज्वलां पराम् |
एवं ध्यात्वा झकारन्तु तन्मन्त्रं दशधा जपेत् ||
झ ||
चतुर्भुजा धूम्रवर्णां कृष्णाम्बरविभूषिताम् |
नानालङ्कारसंयुक्तां जटामुकुटराजिताम् |
ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम् |
एवं ध्यात्वा ञकारन्तु तन्मन्त्रं दशधा जपेत् ||
ञ ||
मालतीकुन्दपुष्पाभां पूर्णचन्द्रनिभेक्षणाम् |
दशबाहुसमायुक्तां सर्वालङ्कारभूषिताम् |
परमोक्षप्रदां नित्यां सदा स्मेरमुखीं पराम् |
एवं ध्यात्वा टकारन्तु तन्मन्त्रं दशधा जपेत् ||
टं ||
पूर्णचन्द्रानिभां देवीं विकसत्पङ्कजेक्षणाम् |
सुन्दरीं षोडशभुजां धर्मकामार्थमोक्षदाम् |
एवं ध्यात्वा ठकारन्तु तन्मन्त्रं दशधा जपेत् ||
ठ ||
जवासिन्दूरसङ्काशां वराभयकरां पराम् |
त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् |
एवं ध्यात्वा डकारन्तु तन्मन्त्रं दशधा जपेत् |
चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुताम् |
पीताविद्युल्लताकारां डकारं प्रणमाम्यहम् ||
ड ||
रक्तोत्पलनिभां रम्यां रक्तपङ्कजलोचनाम् |
अष्टादशभुजां भीमां महामोक्षप्रदायिनीम् |
एवं ध्यात्वा ढकारन्तु तन्मन्त्रं दशधा जपेत् |
सदा त्रिगुणसंयुक्तमादितत्त्वमयं सदा |
रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम् ||
ढ ||
द्विभुजां वरदां वन्द्यां भक्ताभीष्टप्रदायिनीम् |
राजीवलोचनां नित्यां धर्म्मकामार्थमोक्षदाम् |
एवं ध्यात्वा णकारन्तु तन्मन्त्रं दशधा जपेत् ||
ण ||
चतुर्भुजां महाशान्तां महामोक्षप्रदायिनीम् |
सदा षोडशवर्षीयां रक्ताम्बरधरां पराम् |
नानालङ्कारभूषां वा सर्वसिद्धिप्रदायिनीम् |
एवं ध्यात्वा तकारस्तु तन्मन्त्रं दशधा जपेत् ||
त ||
नीलवर्णां त्रिनयनां षड्भुजां वरदां पराम् |
पीतवस्त्रपरीधानां सदा सिद्धिप्रदायिनीम् |
एवं ध्यात्वा थकारन्तु तन्मन्त्रं दशधा जपेत् |
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा |
तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम् ||
थ ||
चतुर्भुजां पीतवस्त्रां नवयौवनसंस्थिताम् |
अनेकरत्नघटितहारनूपुरशोभिताम् |
एवं ध्यात्वा दकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं देवि ! त्रिबिन्दुसहितं सदा |
आत्मादितत्त्वसंयुक्तं दकारं प्रणमाम्यहम् ||
द ||
षड्भुजां मेघवर्णाञ्च रक्ताम्बरधरां पराम् |
वरदां शुभदां रम्यां चतुर्वर्गप्रदायिनीम् |
एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत् ||
ध ||
दलिताञ्जनवर्णाभां ललज्जिह्वां सुलोजनाम् |
चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् |
कृष्णाम्बरपरीधानामिषद्धास्यमुखीं सदा |
एवं ध्यात्वा नकारन्तु तन्मन्त्रं दशधा जपेत् ||
न ||
विचित्रवसनां देवीं द्विभुजां पङ्कजेक्षणाम् |
रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषिताम् |
मणिरत्नादिकेयूरहारकेयूरविग्रहाम् |
चतुर्वर्गप्रदां नित्यां नित्यानन्दमयीं पराम् |
एवं ध्यात्वा पकारन्तु तन्मन्त्रं दशधा जपेत् ||
प ||
प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् |
भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् |
एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् ||
फ ||
नीलवर्णां त्रिनयनां नीलाम्बरधरां पराम् ||
नागहारोज्ज्वलां देवीं द्विभुजां पद्मलोचनाम् |
एवं ध्यात्वा बकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं वर्णं विविधामृतलेपिताम् |
स्वयं कुण्डलिनीं देवीं सततं प्रणमाम्यहम् ||
ब ||
तडित्प्रभां महादेवीं नागकङ्कणशौभिताम् |
चतुर्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम् |
एवं ध्यात्वा भकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! |
आत्मादितत्त्वसंयुक्तं भकारं प्रणमाम्यहम् ||
भ ||
कृष्णां दशभुजां भीमां पीतलोहितलोचनाम् |
कृष्णाम्बरधरां नित्यां धर्म्मकामार्थमोक्षदाम् |
एवं ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा |
आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम् ||
म ||
धूम्रवर्णां महारौद्रीं षड्भुजां रक्तलोचनाम् |
रक्ताम्बरपरीधानां नानालङ्कारभूषिताम् |
महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् |
एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा |
प्रणमामि सदा वर्णं शक्तिमामोक्षमव्ययम् ||
य ||
ललज्जिह्वां महारौद्रीं रक्तास्यां रक्तलोचनाम् |
रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम् |
रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् |
महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिकाम् |
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं देवि ! आत्मादितत्त्वसंयुतम् |
सर्वतेजोमयं वर्णं सततं प्रणमाम्यहम् ||
र ||
चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् |
सर्वदा वरदां भीमां सर्वालङ्कारभूषिताम् |
योगीन्द्रसेवितां नित्यां योगिनीं योगरूपिणीम् |
चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम् |
एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत् ||
ल ||
कुन्दपुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् |
शुक्लमाल्याम्बरधरां रत्नहारोज्ज्वलां पराम् |
साधकाभीष्टदां सिद्धां सिद्धिदां सिद्धसेविताम् |
एवं ध्यात्वा वकारन्तु तन्मन्त्रं दशधा जपेत् ||
व ||
चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् |
शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् |
रत्नालङ्कारभूषाढ्यां श्वेतमाल्योपशोभिताम् |
देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः |
एवं ध्यात्वा शकारन्तु तन्मन्त्रं दशधा जपेत् ||
श ||
शुक्लाम्बरां शुक्ल वर्णां द्विभुजां रक्तलोचनाम् |
श्वेतचन्दनलिप्ताङ्गीं मुक्ताहारोपशोभिताम् |
गन्धर्वगीयमानाञ्च सदानन्दमयीं पराम् |
अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम् |
एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् |
त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् |
प्रणम्य सततं देवि ! हृदि भावय सुन्दरि ! ||
ष ||
करौषभूषिताङ्गीञ्च साट्टहासां दिगम्बरीम् |
अस्थिमाल्यामष्टभुजां वरदामम्बुजेक्षणाम् |
नागेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम् |
सर्वसिद्धिप्रदां नित्यां धर्मकामार्थमोक्षदाम् |
एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत् ||
स ||
चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम् |
रक्तालङ्कारसंयुक्तां वरदां पद्मलोचनाम् |
ईषद्धास्यमुखीं लोलां रक्तचन्दनचर्च्चिताम् |
स्याद्दात्रीञ्च चतुर्वर्गप्रदां सौम्यां मनोहराम् |
गन्धर्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम् |
एवं ध्यात्वा हकारन्तु तन्मन्त्रं दशधा जपेत् ||
ह ||
तन्मन्त्रपुटितं कृत्वा मूलमन्त्रं ततो जपेत् ||
इति सर्ववर्णषु ज्ञेयम् |
अन्यथा निष्फलं ज्ञेयं जपपूजादिसाधनम् |
दीक्षा च निष्फला ज्ञेया तस्मात् कुर्ययात् प्रयत्नतः |
कृत्वा जपं प्रकुर्वीत यथोक्तफलमाप्नुयात् |
शैवे शाक्ते वैष्णवे च सर्वतन्त्रेष्वयं विधिः |
तन्मन्त्रपुटितं मन्त्रं दशधा दशधा जपेत् |
दीक्षादौ गुरुणा सार्द्धं कर्त्तव्यं मन्त्रशोधनम् |
अन्यथा निष्फला दीक्षा जपपूजादिकञ्च यत् |
सद्गुरुः संयतो नित्यं ध्यात्वाभ्यर्च्य जपादिकम् |
गुरुचैतन्यमात्रेण चैतन्यं जनयेत्ततः |
संस्कारञ्च शोधनञ्च सागमेन विशेषतः |
तन्मन्त्रपुटितं कृत्वा शतमष्टोत्तरं जपेत् |
दीक्षादौ गुरुणा पूर्वं कर्त्तव्योऽयं क्रमः सदा |
पञ्चाशद्वर्णमनुना पुटिता मनवः प्रिये ! |
चतुर्वर्गप्रदाः शान्ता यथोक्तफलदाः सदा |
अन्यथा निष्फला दीक्षा जपपूजादिसाधनम् |
विधिनानेन हीना या सा दीक्षा निष्फला भवेत् |
इह दारिद्र्यमतुलमन्ते च निरयं व्रजेत् |
दीक्षादौ गुरुकर्त्तव्यक्रम एव प्रयत्नतः |
आद्यावसाने वर्णेन पुटितं प्रजपेन्मनुम् |
शिष्यः प्रयत्नतो नित्यं कुर्ययादेतं क्रमं प्रिये ! |
पूजादौ वा जपादौ वा अन्यथा विफलं भवेत् ||
इति वर्णानां ध्यानम् ||
एतेषां मन्त्रस्तु ओं अकाराय नम इत्यादि द्रष्टव्यम् ||
पञ्चदेवादिवर्णान्तपूजानां सर्वत्रोपयोगित्वेनादौ लिखितं सामान्यार्घ्यस्थापनमन्तरमेव कर्त्तव्यम् |
शारदायां चतुर्थपटले ||
आचम्य विधिना तत्र सामान्यार्घ्यं विधाय च |
द्वारमन्त्राम्बुभिः प्रोक्ष्य द्वारपूजां समाचरेत् |
सामान्यार्घ्यस्थापनन्तु मण्डपद्वार्ययेव |
द्वारपूजा तु अर्थकाण्डेऽनुसन्धेया ||
रुद्रजामले पूर्वखण्डे द्वितीय पटले ||
मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द उच्यते |
कूर्मो देवतासनयोगे विनियोगः प्रकीर्त्तितः |
मायाबीजं समुच्चार्यय कूर्म्मासनाय ते नमः |
पार्ष्णिघातत्रयेणैव वारयेद्भूमिविघ्नकान् |
तालत्रयेणान्तरीक्षान् तथा विघ्नान्निवारयेत् ||
पिच्छिलातन्त्रे पञ्चमपटले ||
सौरे मासीत्यादि प्रागुक्तम् ||
विश्वसारे ||
क्षेत्राधिपं क्षेत्रपालं गृहदेवीं ततः परम् |
गन्धपुष्पौ धूपदीपौ नैवेद्यञ्च निवेदयेत् |
एषां पूजां विलङ्घ्याथ नाच्चयेद्देवतान्तरम् ||
शारदायाम् ||
पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेद्यागमण्डपम् |
चतुष्पथान्तां तच्छुद्धिं विदध्याद्वीक्षणादिभिः |
वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् |
तेनैव ताडनं दर्भैर्वर्म्मणाभ्युक्षणं मतम् |
चन्दनागुरुकर्पूरैर्धूपयेदन्तरं सुधीः |
विकिरान् विकिरेत्तत्र सप्तजप्ताच्छराणुना |
लाजचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षताः |
विकिरा इति सन्दिष्टाः सर्वे विघ्नौघनाशनाः |
सोमशम्भोस्तु विशेषो राघवभट्टधृतो यथा |
विकिरान् शुद्धलाजान् वा सप्तमन्त्राभिमन्त्रितान् |
अस्त्राद्भिः प्रोक्षितानेतान् कवचेनावगुण्ठितान् |
नानाप्रहरणाकारान् विघ्नौघविनिवारकान् |
अस्त्रजप्तेन दर्भाणां मुष्टिमामार्ज्जयेच्च तत् |
ईशस्य दिशि बन्धन्या आसनाय प्रकल्पयेत् |
पुण्याहं वाचयित्वा तु ब्राह्मणानुपवेश्य च |
उक्तेषु मण्डलेष्वेकं वेदिकायां समालिखेत् |
विशेन्मृद्वासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः |
बद्धपद्मासनो मौनी समाहितो जितेन्द्रियः |
ऋजुकायो जितेन्द्रिय इति मेरुतन्त्रे पाठः ||
मङ्गलाङ्कुरपात्राणि स्थापयेद्दिक्षु देशिकः |
मङ्गलरूपाणि यान्यङ्कुर पात्राणि उक्तरीत्या उक्तानि तानि दिक्षु स्थापयेदित्यर्थः |
कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः |
नत्वा गुरुं गणेशानं भूतशुद्धिं समाचरेत् |
करशुद्धिं समापाद्य कुर्ययात्तालत्रयं ततः |
ऊर्द्ध्वोर्द्ध्वमन्त्रमन्त्रेण दिग्बन्धमपि देशिकः |
तेन सोऽञ्जलितस्तेजो रक्षां कुर्ययात् समन्ततः |
ऋषिश्छन्दो दैवतानि न्यसेन्मन्त्रस्य मन्त्रवित् |
आत्मनो मूर्द्ध्निवदने हृदये च यथाक्रमम् ||
प्रपञ्चसारेऽष्टमपटले ||
ऋषिर्गुरत्वाच्छिरसैव धार्ययश्छन्दोऽक्षरत्वाद्रसनागतं स्यात् |
धियावगन्तव्यतया सदैव हृदि प्रविष्टा मनुदेवता च |
विधाय मूलमन्त्रेण प्राणायामं यथाविधि |
विदध्यान्मातृकान्यासं मन्त्रन्यासमतः परम् |
अङ्गुष्ठादिष्वङ्गुलीषु न्यसेदङ्गैः सजातिभिः |
अस्त्रं तत्तालयोर्न्यस्य कुर्ययात्तालत्रयादिकम् |
दिशस्तेनैव बध्नीयाच्छोटिकाभिः समाहितः |
हृदादिषु च विन्यस्येदङ्गमन्त्रैस्ततः सुधीः |
हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा |
शिखायै वषडित्युक्त्वा कवचाय हुमीरितम् |
नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् |
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् |
अंसोरुयुग्मयोर्विद्वान् प्रादक्षिण्येन देशिकः |
धर्मं ज्ञानञ्च वैराग्यमैश्वर्ययं न्यस्य तु क्रसात् |
मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् |
धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे |
अनन्तं हृदये पद्ममस्मिन् सूर्ययेन्दुपावकान् |
एषु स्वस्वकला न्यस्येन्नामाद्याक्षरपूर्वकान् |
सत्त्वादींस्त्रीन् गुणान् न्यस्येत्तथैवात्र गुरूत्तमः |
आत्मानमन्तरात्मानं परमात्मानमत्र तु |
ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः |
एवं देहमये पीठे चिन्तयेदिष्टदेवताम् |
मुद्रां प्रदर्श्य विधिवदर्घ्य स्थापनमाचरेत् |
शङ्खमन्त्राम्बुना प्रोक्ष्य वामतो वह्निमण्डले |
साधारं स्थापयेद्विद्वान् बिन्दुस्रुतसुधामयैः |
तोयैः सुगन्धिपुष्पाद्यैः पूजयेत्तं यथाविधि |
आधारं पावाकं शङ्खं सूर्ययं तोयं निशाकरम् |
स्मरेद्वह्न्यर्कचन्द्राणां कलास्तास्तेष्वनुक्रमात् |
कलास्तु प्रथमकाण्डे निरूपिताः |
मूलमन्त्रं जपेत् सृष्ट्वा न्यासे तस्याङ्गमन्त्रवित् |
हृन्मन्त्रेणाभिसम्पूर्यय हस्ताभ्यां छादयन्नपः |
जपेद्विद्वान् यथान्यायं देशिको देवताधिया |
अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च |
धेनुमुद्रां समापाद्य बोधयेत् स्वस्वमुद्रया |
दक्षिणे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् |
किञ्चिदर्घ्याम्बु संगृह्य प्रोक्षण्यम्भसि योजयेत् |
अर्घ्यस्योत्तरतः कार्ययं पाद्यमाचमनीयकम् |
आत्मानं यागवस्तूनि मण्डलं प्रोक्षयेद्गुरुः |
प्रोक्षणीपात्रतोयेन मनुनान्यदपि क्रमात् |
न्यासक्रमेण देहे स्वे धर्मादीन् पूजयेत्ततः |
पुष्पाद्यैः पीठमन्वन्तं तस्मिंश्च परदेवताम् |
पञ्चकृत्वः पुनः कुर्ययात् पुष्पाञ्जलिमनन्यधीः |
उत्तमाङ्गहृदाधारपादसर्वाङ्गके क्रमात् |
विना नैवेद्यं गन्धाद्यैरुपचारैः समर्च्चयेत् |
गुरूपदिष्टविधिना शेषमन्यत् समापयेत् |
सर्वमेतत् प्रयुञ्जीत प्रोक्षणीस्थेन वारिणा |
विसृज्य तोयं प्रोक्षण्याः पूरयेत्तत् यथापुरा |
ततस्तन्मण्डलं मन्त्री गन्धाद्यैः साधु पूजयेत् |
शालिभिः कर्णिकामध्यमापूर्ययोपरि तण्डुलैः |
अलङ्कृत्य पुनस्तेषु दर्भानास्तीर्यय मन्त्रवित् |
कूर्च्चमक्षतसंयुक्तं न्यसेत्तेषामथोपरि ||
मेरुतन्त्रे चतुर्थप्रकाशेऽपि ||
पूरयेत् कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः |
दर्भान्न्यसेदुपर्ययेषां साक्षतं कूर्च्चकं ततः |
छिन्नमूलाः कुशाः दीर्घाः सप्तविंशतिसंख्यकाः |
ब्रह्मग्रन्थियुतास्त्वग्रेदेशे कूर्च्च इहोच्यते |
आधारशक्तिमारभ्य पीठमन्त्रमयं यजेत् |
अधः कूर्च्चशिलारूढां शरच्चन्द्रनिभप्रभाम् |
आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् |
मूर्ध्नि तस्याः समासीनं कूर्मं नीलाभमर्च्चयेत् |
ऊर्द्ध्वब्रह्म शिलासीनमनन्तं कुन्दसन्निभम् |
यजेच्चक्रधरं मुर्ध्नि धारयन्तं वसुन्धराम् |
तमालश्यामलां तत्र नीलेन्दीवरधारिणीम् |
समर्च्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् |
तस्यां रत्नमयं द्वीपं तस्मिंश्च मणिमण्डपम् |
यजेत् कल्पतरुं तस्मिन् साधकाभीष्टसिद्धिदम् |
अधस्तात् पूजयेत्तस्य वेदिकां मण्डलोज्ज्वलाम् |
पश्चादभ्यर्च्चयेत्तस्यां पीठं धर्मादिभिः पुनः |
रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः |
वृषकेशविभूतेन्द्ररूपान् धर्मादिकान् यजेत् |
गात्रेषु पूजयेत्तांस्तु नञ्पूर्वानुक्तलक्षणान् |
आग्नेयादिषु कोणेषु दिक्षु मध्येऽम्बुजं यजेत् |
आनन्दकन्दं प्रथमं संविन्नालमनन्तरम् |
सर्वतत्त्वात्मकं पद्ममभ्यर्च्य तदनन्तरम् |
मन्त्री प्रकृतिपत्राणि विकारमयकेशरान् |
पञ्चाशद्वर्णवीजाढ्यकर्णिकां पूजयेत्ततः |
कलाभिः पूजयेत् सार्द्धं तस्यां सूर्ययेन्दुपावकान् |
प्रणवस्य त्रिभिर्भागैरथ सत्त्वादिकान् गुणान् |
आत्मानमन्तरात्मानं परमात्मानमर्च्चयेत् |
ज्ञानात्मानञ्च विधिवत् पीठमन्त्रावसानकम् |
पीठशक्तीः केशरेषु मध्ये च सवराभयाः |
हेमादिरचितं कुम्भं मन्त्राद्भिः क्षालितान्तरम् ||
चन्दनागुरुकर्पूरधूपितं शोभनाकृतिम् |
आवेष्टिताङ्गं नीरन्ध्रं तन्तुना त्रिगुणात्मना |
अर्च्चितं गन्धपुष्पाद्यैः कुर्च्चाक्षतसमन्वितत् |
नवरत्नोदरं मन्त्री स्थापयेत्तारमुच्चरन् |
ऐक्यं सङ्कल्प्य कुम्भस्य पीठस्य च विधानवित् |
क्षीरद्रुमकषायेण पलाशत्वग्भवेन वा |
तीर्थोदकैर्वा कर्पूरगन्धपुष्पसुवासितैः |
आत्मभेदेन विधिवत् मातृकां प्रतिलोमतः |
जपेन्मूलमनुं तद्वत् पूजयेद्देवताधिया |
शङ्खेक्वाथाम्बुसम्पूर्णे गन्धाष्टकमभीष्टदम् |
विलोड्य पूरयेत्तस्मिन्नावाह्य सकलाः कलाः |
दशवह्नेः कलाः पूर्वं द्वादश द्वादशात्मनः |
षोडशापि च सोमस्य पश्चात्पञ्चशतं कलाः |
जपित्वा प्रतिलोमेन मूलमन्त्रञ्च मन्त्रवित् |
समाहितेन मनसा ध्यायन् मन्त्रस्य देवताम् |
प्राणप्रतिष्ठां कुर्वीत तत्र तत्र विचक्षणः |
कलात्मकं शङ्खसंस्थं क्वाथं कुम्भे विनिक्षिपेत् |
पाशादित्र्यक्षरात्मान्ते स्यादमुष्य पदं पुनः |
क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः |
अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्य पदं वदेत् |
वाङ्मनोनयनश्रोत्रघ्राणप्राणपदान्यथ |
पश्चादिहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् |
अयं प्राणमनुः प्रोक्तः सर्वजीवप्रदायकः |
पश्चादश्वत्थपनसचूतकोमलपल्लवैः |
इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः |
कुम्भवक्त्रं पिधायास्मिंश्चषकं सकलीकृतम् |
संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् |
ततः कुम्भं निर्मलेन क्षौमयुग्मेन वेष्टयेत् |
मूलमन्त्रं समुच्चार्यय सुषुम्नावर्त्मना सुधीः |
संस्थापनं सन्निधानं सन्निबोधमनन्तरम् |
सकलीकरणं पश्चाद्विदध्यादवगुण्ठनम् |
अमृतीकरणं कृत्वा कुर्वीत परमीकृतिम् |
क्रमादेतानि कुर्वीत स्वमुद्राभिः समाहितः |
अथोपचारान् कुर्वीत मन्त्रवित् स्वागतादिकान् |
स्वागतं कुशलप्रश्नं निगदेदग्रतो गुरुः |
पाद्यं पादाम्बुजे दद्याद्देवस्य हृदयात्मना |
हृदयात्मना नम इति मन्त्रेण |
अर्घ्यं दिशेत्ततो मूर्द्ध्नि शिरोमन्त्रेण देशिकः |
स्वधामन्त्रेण वदने दद्यादाचमनीयकम् |
स्वधात्मना ततः कुर्ययान्मधुपर्कं मुखाम्बुजे |
तेनैव मनुना दद्यादद्भिराचमनीयकम् |
गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् |
दद्याद्यज्ञोपवीतञ्च हाराद्याभरणैः सह |
न्यासक्रमेण मनुना पुटितैर्मातृकाक्षरैः |
अभ्यर्च्य देवं गन्धाद्यैरङ्गादीत् पूजयेत्ततः |
तत्र तत्र जलं दयादुपचारान्तरान्तरा |
अङ्गानि लोकपालान्तं यजेदावरणान्यपि |
केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् |
षडङ्गपूजादिक्रमस्तु गन्धर्वतन्त्रे चतुर्थपटले ||
अग्नीशासुरवायव्यमध्ये दिक्षु च पार्वति ! |
षडङ्गयुवतीः पश्चात् पूजयित्वा विधानतः |
नेत्रमग्रे दिशां वस्त्रं ध्यातव्यान्यङ्गदेवताः |
तुषारस्फटिकश्यामनीलकृष्णारुणार्च्चिषः |
वरदाभयधारिण्यः प्रधानतो वरस्त्रियः |
पश्चादभ्यर्च्चनीयाः स्युः कल्पोक्तावृषयः क्रमात् |
अन्ते यजेल्लोकपालान् मूलपारिषदान्वितान् |
हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात् |
एवं सम्पूज्य विधिवन्नैवेद्यान्तं ततो गुरुः |
दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम् |
संस्कृत्य विधिवद्विद्वान् वैश्वदेवमखं चरेत् |
तत्र सम्पूज्य गन्धाद्यैर्देवतामुक्तविग्रहाम् |
तारस्य व्याहृतिं हत्वा मूलमन्त्रेण मन्त्रवित् |
सर्पिष्मता पायसेन पञ्चविंशतिसंख्यया |
हुत्वा व्याहृतिभिर्भूयो गन्धाद्यैः पुनरर्च्चयेत् |
संयोजयित्वा पीठस्थमूर्त्तौ वह्निं विसर्ज्जयेत् |
अवशिष्टेन हविषा विकिरेत् परितो बलिम् |
देवतायाः पार्षदेभ्यो गन्धपुष्पाक्षतान्वितम् |
ततो निवेद्यमुद्धृत्य शोधयित्वा स्थलं पुनः |
पञ्चोपचारैः सम्पूज्य दर्शयेच्छत्रचामरे |
कर्पूरशकलोन्मिश्रं ताम्बूलञ्च निवेदयेत् |
सहस्रावृत्य सञ्जप्य मूलमन्त्रमनन्यधीः |
तज्जप्तं सर्वसम्पत्त्यै देवतायै निवेदयेत् |
ततः शम्भोर्दिशि गुरुर्विकिरेत् पूर्वसञ्चिते |
हेमवस्त्रादिसंयुक्तां घर्घरीं तोयपूरिताम् |
संस्थाप्य तस्यां सिंहस्थां खड्गखेटकधारिणीम् |
घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् |
चलासनेन सम्पूज्य तामादाय गुरुः पुनः |
रक्षेति लोकपालानां नालमुक्तेन वारिणा |
देवाज्ञां श्रावयन्नन्तः परिवृत्ते प्रदक्षिणम् |
अस्त्रमन्त्रं समुच्चार्यय यथापूर्वं निवेशयेत् |
विलोक्य दिव्यदृष्ट्या तं तच्चैतन्यं हृदम्बुजात् |
गुरुरात्मनि संयोज्य कुर्ययादध्वविशोधनम् |
तं शिष्यम् |
उक्तं कलाध्वा तत्त्वाध्वा भुवनाध्वेति च त्रयम् |
वर्णाध्वा च पदाध्वा च मन्त्राध्वेत्यपरत्रयम् |
निवृत्त्याद्याः कलाः पञ्च कलाध्वेति प्रकीर्त्तितम् |
तत्त्वाध्वा बहुधा भिन्नः शैवाद्यागमभेदतः |
षट्त्रिंशच्छैवतत्त्वानि द्वात्रिशद्वैष्णवानि तु |
चतुर्विंशतितत्त्वानि मैत्राणि प्रकृतेः पुनः |
उक्तानि दश तत्त्वानि सप्त च त्रिपदात्मनः |
तत्त्वानि शैवान्युच्यन्ते शिवः शक्तिः सदाशिवः |
ईश्वरो विद्यया सार्द्धं पञ्च शुद्धान्यमूनि तु |
माया कालश्च नियतिः कालविद्या पुनः स्मृता |
रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च |
प्रकृतिर्बुद्ध्यहङ्कारौ मनो ज्ञानेन्द्रियाण्यथ |
कर्मेन्द्रियाणि तन्मात्राः पञ्च भूतानि देशिकाः |
एतान्याहुरशुद्धानि चतुर्विंशतिमागमे |
शैवानामिति तत्त्वानां विभागोऽत्र प्रदर्शितः |
जीवः प्राणो धियश्चित्तं ज्ञानकर्मेन्द्रियाण्यथ |
तन्मात्राः पञ्च भूतानि हृत्पद्मं तेजसां त्रयम् |
वासुदेवादयश्चेति तत्त्वान्येतानि शार्ङ्गिणः |
पञ्च भूतानि तन्मात्रा इन्द्रियाणि मनस्तथा |
गर्वो बुद्धिः प्रधानञ्च मैत्राणीति विदुर्बुधाः |
निवृत्ताद्याः कलाः पञ्च ततो बिन्दुः कलाः पुनः |
नादः शक्तिः सदापूर्वः शिवश्च प्रकृतिर्विदुः |
आत्मविद्या शिवः पश्चाच्छिवो विद्यात्मना पुनः |
सर्वतत्त्वञ्च तत्त्वानि प्रोक्तानि त्रिपदात्मनः |
तत्त्वाध्वा कथितो ह्येवं तत्तदागमवेदिभिः |
ईरितो भुवनाध्वेति भुवनानि मनीषिभिः |
वर्णाध्वेति वदन्त्यर्णानादीक्षान्तान्मनीषिणः |
वर्णसङ्घः पदाध्वा स्यान्मन्त्राध्वा मन्त्रराशयः |
क्रमादेतानध्वनः षट् शोधयेद्गुरुसत्तमः |
पदान्धुनान्धुहृद्भालमूर्द्ध्वस्वपि शिशोः स्मरेत् ||
अन्धुर्गुदस्थानम् ||
तत्र कृच्छ्रेण विधिवत्तत् स्पृशन् जुहुयाद्गुरुः |
आचार्ययकुण्डे संशुद्धैस्तिलैराज्यपरिप्लुतैः |
शोधयाम्यमुमध्वानं स्वाहेति पृथगध्वनाम् |
ताराद्या माहुतीरष्टौ क्रमात्तान् विलयं नयेत् |
शिवे शिवात्तान् संलीनान् जनयेत् सृष्टिमार्गतः |
विलोकयन् दिव्यदृष्ट्या |
तत् स्थितं तच्च चैतन्यं पुनः शिष्ये नियोजयेत् |
स्रुचा पूर्णाहुतिं दत्त्वा मूलमन्त्रेण देशिकः |
नेत्रे शिष्यस्य बध्नीयान्नेत्रमन्त्रेण वाससा |
करे गृहीत्वा तत् शिष्यं कुण्डतो मण्डलं नयेत् |
तस्याञ्जलिं पुनः पुष्पैः पूरयित्वा यथाविधि |
कलसे देवताप्रीत्यै क्षेपयेन्मूलमूच्चरन् |
व्यपोह्य तं नेत्रबन्धमासीनं दर्भसंस्तरे |
आत्मयागक्रमाद्भूयः संहृत्योत्पाद्य देशिकः |
तत्तन्मन्त्रोदितान्न्यासान् कुर्ययाद्देहे शिशोस्तदा |
पञ्चोपचारैः कुम्भस्थां पूजयित्वेष्टदेवताम् |
तस्य तन्त्रोक्तमार्गेण विदध्यात् सकलीकृतिम् |
मण्डलेऽलङ्कृते शिष्यमन्यस्मिन्नुपवेशयेत् |
नदत्सु पञ्चवाद्येषु सार्द्धं विप्राशिषा गुरुः |
विधिवत् कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् |
शिशोः शिरसि विन्यस्य मातृकां मनसा जपन् |
मूलेन साधितैस्तोयैः सिञ्चेद्रक्षार्थमञ्जसा ||
अथाभिषेकविधिः ||
वामकेश्वरतन्त्रे पञ्चाशत्पटले ||
अभिषेकस्तु द्विविधः शाक्तश्च पूर्ण एव च |
अवधूतेन गुरुणा शाक्ताभिषेकमाचरेत् |
किञ्चिज्जलञ्च कुम्भानां ब्रह्मकुम्भे निवेशयेत् |
आनीय ब्रह्मकलसं सम्मुखे स्थापयेद्बुधः |
निरुत्तरतन्त्रे सप्तमपटले ||
श्रीशिव उवाच ||
अभिषेकश्च द्विविधो राज्ञो वा ज्ञानिनामपि |
राजाभिषेके देवेशि ! वैदिकीञ्च क्रियाञ्चरेत् |
ज्ञानिनामभिषेकन्तु सर्वतन्त्रेषु गोपितम् |
सर्वशान्तिकरं पुण्यं सर्वरोगनिवारणम् |
धनदं कीर्त्तिदञ्चैव आयुर्वृद्धिकरं नृणाम् |
सर्वसौभाग्यजननं महापातकनाशनम् |
सर्वाशापूरकं सर्वमन्त्रदोषनिवारणम् |
सर्वार्थसाधकं देवि ! सर्वतीर्थफलप्रदम् |
अभिचारहरं सर्वग्रहदोषविनाशकम् |
भूतावेशादिशमनं डाकिनीनां भयापहम् |
तेजोवृद्धिकरं देवि ! बलवृद्धिकरं परम् |
तक्षकेणापि दष्टस्य विषपीडाविनाशकम् |
तेजोह्रासे बलह्रासे बुद्धिह्रासे धनक्षये |
स्त्रीकृतेष्वपि दोषेषु शारीरे मानसे तथा |
विकारे देशिकः कुर्ययादभिषेकं विचक्षणः |
असौभाग्ये च नारीणामभिषेकः प्रवर्त्तते |
गुरुत्वञ्च लभेद्देवि ! कर्म्मणाभिषेकवर्त्मना |
वैष्णवो ज्ञानसम्पन्नः शैवश्चैव कुलेश्वरि ! |
अभिषेकं प्रकुर्वीत शाक्तश्च कुलभूषणः |
मन्त्रतन्त्रञ्च सर्वेषामभिषेकेण सिध्यति |
अभिषेकेण सर्वेषामधिकारो भवेद्ध्रुवम् |
अभिषेककृतो विप्रो ब्रह्मत्वं लभते ध्रुवम् |
अभिषेककृतः क्षेत्री विप्रधर्म्मत्वमागतः |
वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमागतः |
अभिषेकेण सर्वेषां चतुर्णां वर्णतां त्यजेत् |
ब्राह्मणस्य सुरापाने ब्राह्मण्यं त्यजते क्षणात् |
अभिषेककृते विप्रे सुरापानं विधीयते |
आगमः पञ्चमो वेदः कौलश्च पञ्चमाश्रमः |
शिवोऽपि पञ्चमो वर्णो महाविद्यां जपेद्यतः |
स्वस्ववर्णं परित्यज्य शिवत्वञ्च प्रजायते |
अभिषेकं विना नैव ब्राह्मणः प्रपिबेत् सुराम् |
प्रगृह्य सिद्धविद्याञ्च सङ्केतज्ञस्ततो भवेत् |
सङ्केतज्ञः कुलाचारे त्वभिषेकं समाचरेत् |
अभिषेककृतो मन्त्री कुलपूजां समाचरेत् |
कुलपूजाकृतो मन्त्री पितृभूमिं ततो व्रजेत् |
पितृभूमिकृतं स्थानमेकाकी विहरेत्तदा |
एकाकी विहरेद्वीरः प्रान्तरे रात्रिपान्तरे |
तत्र सिद्धिं लभेद्देवि ! देवानामपि दुर्लभाम् |
कुलाचारं विना देवि ! मन्त्रतन्त्रं न सिध्यति |
सिद्धविद्या कुलाचारे द्रव्यं सिध्यति निश्चितम् |
अभिषेकसुरां दद्याद् कुलकर्म युगे युगे |
सुरां पीत्वा जपेद्विद्यां कालाधिपविशेषतः |
विजयाञ्चानुकल्पञ्च सुराभावे निवेदयेत् |
आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः |
पञ्चमेनार्चयेत् कालीं कामाख्यायां विशेषतः |
कामाख्यायां विशेषेण कालिका सिद्धिदा भवेत् |
कुलाचारं विना नैव कालिमन्त्रश्च सिध्यति |
अभिषेकं विना देवि ! कुलकर्म्म करोति यः |
तस्य पूजादिकं कर्म अभिचाराय कल्प्यते |
अभिषेकं विना देवि ! सिद्धविद्यां ददाति यः |
तावत्कालं वसेद्घोरे यावच्चन्द्रदिवाकरौ |
ब्रह्मत्वञ्च हरित्वञ्च शिवत्वञ्च कुलेश्वरि ! |
सर्वसिद्धीश्वरत्वञ्च अभिषेकेण जायते |
दिव्यो वीरश्च देवेशि ! कुलभक्तिपरायणः |
अभिषेकञ्चरेद्देवि ! अधिवासपुरःसरम् |
वृद्धिश्राद्धं ततः कृत्वा शिवशक्तीः प्रपूजयेत् |
गुरुं सम्पूज्य विधिवत् स्वर्णालङ्कारभूषणैः |
ततः सङ्कल्प्य विधिना गुरूणां वरणं चरेत् |
ततः पूजां चरेद्देव्याः पञ्चमैश्च पृथक् पृथक् |
प्रणम्य सद्गुरुं देवं देवीञ्च साधकेश्वरः |
गुरुपूजां विधायाथ देव्या ध्यानपरायणः |
अभिषेकं विधायाथ शुचौ देशे च साधकः |
शून्यागारे नदीतीरे विल्वमूले त्रिपान्तरे |
महात्रिपान्तरे वापि निर्ज्जने पितृकानने |
ग्रामे पलातके वापि पर्वते तटिनीतटे |
देवतायतने वापि स्थानञ्च परिचिन्तयेत् ||
अष्टमपटले ||
शिवशक्तिं पूजयित्वा स्थापयेद्घटमुत्तमम् |
नातिह्रस्वं नातिदीर्घं स्वर्णरौप्यविनिर्मितम् |
विशेषार्घ्यं स्वयन्त्रे वा त्रिकोणे वापि विन्यसेत् |
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च |
सर्वे समुद्राः सरितः सरांसि जलदा नदाः |
ह्रदाः प्रस्रवणाः पुण्याः स्वःपातालमहीगताः |
सर्वतीर्थानि पुण्यानि घटे कुर्वन्ति सन्निधिम् |
श्रीवीजेन प्रजप्तेन पल्लवं प्रतिपादयेत् |
कूर्च्चेन फलदानं स्यात् स्त्रीवीजेन स्थिराकृतिः |
सिन्दूरं वह्निवीजेन पुष्पं प्रेतेन विन्यसेत् |
मूलेन दूर्वां प्रणवैः कुर्ययादभ्युक्षणं ततः |
हुं फट् स्वाहेति मन्त्रेण कुर्ययाद्दर्मेण ताडनम् |
विचिन्त्य देवि ! पीठन्तु तत्रावाह्य प्रपूजयेत् |
अनेनैव विधानेन सर्वकर्म्मसु सुन्दरी ! |
घटं संस्थापयेद्देवि ! षट्कर्म्मसु विशेषतः |
महापूजाञ्चरेद्देवि ! षोडशैरुपचारकैः |
गुरूणाञ्च महापूजां शाक्तीनाञ्च ततः परम् |
तत्पश्चात् साधकानाञ्च कुमारीणाञ्च पूजनम् |
कुमारीभ्यो बलिं दत्त्वा कुलजाभ्यो विशेषतः |
अभिषेकं ततो देवि ! कुर्ययात् स्वगुरुमार्गतः |
स्वतन्त्रोक्तविधानेन मन्त्रप्रोच्चारणेन च |
चालयेत्तं घटं मन्त्री मन्त्रेणानेन देशिकः |
ओं उत्तिष्ठ ब्रह्मकलस ! देवताभीष्टसिद्धिदः |
सर्वतीर्थाम्बुपूर्णेन पूरयास्य मनोरथम् |
ईशानेन्दुस्मरक्षौणी तदन्ते भुवनेश्वरी |
मन्त्रेणानेन वादित्रनिर्घोषैश्चालयेद्घटम् |
अभिषिञ्चेद्गुरुः शिष्यं यजमानं पुरोहितः |
सिञ्चेदश्वत्थवृक्षोत्थैः पल्लवैर्भूतसङ्गमे |
सिञ्चेदौडुम्बरैर्मन्त्रदोषे च करवीरजैः |
यशोधनायुस्तेजः श्रीफलकामेन चूतजैः |
तुलसीममञ्जरीभिश्च सर्वपापक्षयार्थिभिः |
सर्वतीर्थफलावाप्त्यै शाक्तानां विल्वपल्लवैः |
अभिचारे नारसिंहैरभिषेकः प्रवर्त्तते ||
नारसिंह चुनियाहागडा इति यस्य प्रसिद्धिः ||
कुर्ययाद्दर्भैरगर्भैश्च दोषेषु स्वीकृतेष्वपि |
असौभाग्ये च नारीणां दूर्वाभिरभिषेचनम् |
सर्वकार्ययेषु मन्त्राणां सिद्ध्यर्थं चूतपल्लवैः |
तस्याभिषेकमन्त्रस्य दक्षिणामूर्त्तिर्-ऋषिरनुष्टुप्छन्दः शक्तिर्देवता सङ्कल्पसिद्धिप्राप्तये विनियोगः ||
ओं राजराजेश्वरी देवी भैरवी कालभैरवी |
श्मशानभैरवी देवी त्रिपुरानन्दभैरवी |
त्रिकूटात्रिपुरा देवी तथा त्रिपुरसुन्दरी |
त्रिपुरेशी महादेवी तथा त्रिपुरकारिका |
त्रिपुरानन्दिनी देवी तथैव त्रिपुरातनी |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १ ||
छिन्नमस्ता महादेवी तथा चैकजटेश्वरी |
तारा च जयदुर्गा च शूलिनी भुवनेश्वरी |
त्वरिताख्या महादेवी तथैव च त्रिखण्डिका |
नित्या च नित्यरूपा च वज्रप्रस्तरिणी तथा |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २ ||
अश्वारूढा महेशानी तथा महिषमर्दिनी |
दुर्गा च वनदुर्गा च श्रीदुर्गा भगमालिनी |
तथा भगन्दरी देवी भगक्लिन्ना तथापरा |
सर्वचक्रेश्वरी देवी तथा नीलसरस्वती |
सर्वसिद्धिकरी देवी सर्वगन्धर्वसेविता |
उग्रतारा महादेवी तथा दक्षिणकालिका ||
एतास्त्वामित्यादि || ३ ||
क्षेमङ्करी महाकाली चानिरुद्धसरस्वती |
मातङ्गिनी चान्नपर्णा राजराजेश्वरी तथा ||
एतास्त्वामित्यादि || ४ ||
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका |
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका |
एतास्त्वामित्यादि || ५ ||
उग्रदंष्ट्रा महादंष्ट्रा शुभदंष्ट्रा कपालिनी |
भीमनेत्रा विशालाक्षी मङ्गला विजया जया ||
एतास्त्वामित्यादि || ६ ||
मङ्गला नन्दिनी भद्रा कीर्त्तिर्लक्ष्मीर्यशस्विनी |
पुष्टिर्मेधा शिवा साध्वी यशः शोभा जयाधृतिः |
श्रीनन्दा च सुनन्दा च नन्दिन्यानन्दपूजिता ||
एतास्त्वामित्यादि || ७ ||
विजया नन्दिनी भद्रा स्मृतिः शान्तिर्धृतिः क्षमा |
सिद्धिस्तुष्टीरमा पुष्टिः श्रीर्वृद्धिश्च रतिस्तथा |
दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरी बुद्धिरेव च |
शाक्री मायावती ब्राह्मी जयन्ती चापराजिता |
अजिता मानवी श्वेता दितिश्चादितिरेव च |
माया चैव महामाया मोहिनी क्षोभिणी तथा |
कमला विमला गौरी शरण्याम्बुधिसुन्दरी |
दुर्गा क्रियारुन्धती च घण्टाकर्णा कपालिनी |
रौद्री काली च मायूरी त्रिनेत्रा चापराजिता |
स्वरूपा बहुरूपा च तथैव विग्रहात्मिका |
चर्चिका चापरा ज्येष्ठा तथैव सुरपूजिता |
वैवस्वती च कौमारी तारा माहेश्वरी परा |
वैष्णवी च महालक्ष्मीः कार्त्तिकी कौषिकी तथा |
शिवदूती च चामुण्डा मुण्डमालाविभूषिता ||
एतास्त्वामित्यादि || ८ ||
इन्द्रो वह्निर्यमश्चैव नैर्-ऋतो वरुणस्तथा |
पवनो धनदेशानौ ब्रह्मानन्तौ दिगीश्वराः |
एते त्वामित्यादि || ९ ||
संवत्सरश्चायनौ च भासाः पक्षौ दिनानि च |
तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १० ||
रविः सोमः कुजः सौम्यो गुरुः शुक्रः शनैश्चरः |
राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः || ११ ||
नक्षत्रं करणं योगः अमृतं सिद्धिरेव च |
दग्धं पापं तथा भद्रा योगा वाराः क्षणास्तथा |
वारवेला कालवेला दण्डा वृद्धादयस्तथा |
अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा || १२ ||
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः |
कपाली भीषणश्चैव संहारोऽष्टौ च भैरवाः |
अभिषिञ्चन्तु इत्यादि || १३ ||
डाकिनीपुत्रकाश्चैव राकिणीपुत्रकास्तथा ||
लाकिनीपुरकाश्चान्ये काकिनीपुत्रकाः परे |
शाकिनीपुत्रका भूयो हाकिनीपुत्रकास्तथा |
ततश्च यक्षिणीपुत्रा देवीपुत्रास्ततः परम् |
मातॄणाञ्च तथा पुत्रा ऊर्द्ध्वमुख्याः सुताश्च ये |
अधोमुख्याः सुता ये च उन्मुख्याश्च सुताः परे ||
एते त्वामित्यादि || १४ ||
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
एते त्वामित्यादि || १५ ||
पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश |
आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्त्तिताः |
आत्मनश्च गुणा ये तु स्थूलाः सूक्ष्मास्तथा परे ||
एते त्वामित्यादि || १६ ||
वेदादिबीजं हुंबीजं स्त्रीबीजं मीनकेतनम् |
शक्तिबीजं रमाबीजं मायाबीजं सुधाकरम् |
चिन्तारत्नं महाबीजं नारसिंहञ्च शाङ्करम् |
मार्त्तण्डभैरवं दौर्गं बीजं श्रीपुरुषोत्तमम् |
गाणपत्यञ्च वाराहं कालीबीजं भयापहम् |
एते त्वामित्यादि || १७ ||
गङ्गा गोदावरी रेवा यमुना च सरस्वती |
आत्रेयी भारती चैव सरयूर्गण्डकी तथा |
करतोया चन्द्रभागा श्वेतगङ्गा च कौशिकी |
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ||
एतास्त्वामित्यादि || १८ ||
भैरवो भीमरूपश्च शोणो घर्घर एव च |
सिन्धुतोयह्रदाः पान्तु तथा पातालसम्भवाः |
यानि कानि च तीर्थानि पुण्यान्यायतनानि च |
तानि त्वामभिषिञ्चन्त्वित्यादि || १९ ||
जम्बुद्विपादयो द्वीपाः सागरा लवणादयः |
अनन्ताद्यास्तथा नागाः सर्पा ये तक्षकादयः |
एते त्वामित्यादि || २० ||
रतिश्च वल्लभा वह्नेर्वषट्कूर्च्चमतः परम् |
वौषट्कारस्तु फट्कारमभिषिञ्चन्तु सर्वदा || २१ ||
नश्यन्तु प्रेतकुष्माण्डा राक्षसा दानवाश्च ये |
पिशाचा गुह्यका भूता अभिषेकेण ताडिताः || २२ ||
अलक्ष्मीः कालकर्णो च पापानि सुमहान्ति च |
नश्यन्तु चाभिषिकेण तारावीजेन ताडिताः || २३ ||
रोगाः शोकाश्च दौर्बल्यं दारिद्र्यं चित्तविक्रिया |
नश्यन्तु चाभिषेकेण वाग्वीजेनैव ताडिताः || २४ ||
लोकानुरागत्यागश्च दौर्भाग्यमपि दुर्वशः |
नश्यन्तु चाभिषेकेण मन्मथेनैव ताडिताः || २५ ||
तेजोह्रासो बलह्रासो बुद्धिह्रासस्तथैव च |
नश्यन्तु चाभिषेकेण शक्तिवीजेन ताडिताः || २६ ||
विषापमृत्युरोगश्च डाकिन्यादिभयं तथा |
घोराभिचाराः क्रूराश्च ग्रहा नागास्तथा परे |
नश्यन्तु चाभिषेकेण कालीवीजेन ताडिताः || २७ ||
नश्यन्तु चापदः सर्वाः सम्पदः सन्तु सुस्थिराः |
अभिषेकेण शाक्तेन पूर्णाः सन्तु मनोरथाः || २८ ||
शारदायाम् ||
अवशिष्टेन तोयेन शिष्यमाचामयेद्गुरुः |
ततस्तत् सकलीकुर्ययाद्देवतात्मानमात्मवित् |
आचम्य वाग्यतो भूत्वा निषीदेत् सन्निधौ गुरोः |
देवतामात्मनः शिष्ये संक्रान्तां देशिकोत्तमः |
पूजयेद्गन्धपुष्पाद्यैरैक्यं सम्भावयंस्तयोः ||
निरुत्तरतन्त्रे ||
एवं संसिच्य शिष्यन्तु पुनः पूजां समाचरेत् |
मेरुतन्त्रे तृतीयप्रकाशेऽपि ||
अथ शिष्यञ्चाभिषिञ्चेदाशुसम्पदवाप्तये |
कुम्भास्यस्थसुरद्रुश्च मूर्द्ध्वन्यस्य शिशोर्गुरुः |
अथ पञ्चनिनादैश्च विप्राशीर्वचनैः सह |
गृहीत्वाभ्यर्च्चितं पूर्वं करकं ह्यस्ररूपिणम् |
तत्तोयैरभिषिञ्चेत्तं रक्षायै देशिकोत्तमः |
शिष्योऽपि तत्र सम्पूज्य गुरवे दक्षिणां ददेत् |
गोभूमिशिष्यसत्त्वञ्च रौप्यरत्नानि पार्वति ! |
सर्वस्वं वा तदर्द्धं वा तदर्द्ध्वं वापि दक्षिणाम् ||
दक्षिणैषा तु मन्त्रग्रहणानन्तरं यदि अभिषेकः क्रियते तदा कर्त्तव्या |
अभिषेकानन्तरं चेन्मन्त्रग्रहणं तदा तद्दक्षिणायै वा अङ्गीभूताभिषेकादिदक्षिणा सिद्धेति ||
वामकेश्वरतन्त्रे त्रिपञ्चाशत्पटले ||
अभिषिक्तः साधकेन्द्रः क्रियादक्षो भवेत् प्रिये ! |
शरीरशोधनं देवि ! न प्रसिध्येत् क्रियां विना ||
शारदायाम् ||
दद्याद्विद्यान्तरं तस्मै विनीतायाम्बुपूर्वकम् |
गुरोर्लब्ध्वां पुनर्विद्यामष्टकृत्वो जपेत् सुधीः |
गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया |
प्रणमेद्दण्डवद्भूमौ गुरुं तं देवतात्मकम् |
तस्य पादाम्बुजद्वन्द्वं निजमूर्द्धनि योजयेत् |
शरीरमर्थं प्रणञ्च सर्वं तस्मै निवेदयेत् |
ततः प्रभृति कुर्वीत गुरोः प्रियमनन्यधीः |
ऋत्विग्भ्यो दक्षिणां दद्यात् समग्रां प्रीतमानसः |
ब्राह्मणांस्तर्पयेत् पश्चात् भक्ष्यभोज्यसदक्षिणान् |
एषा क्रियावती दीक्षा प्रोक्ता सर्वसमृद्धिदा ||
वृहन्नीलतन्त्रे तृतीयपटले ||
तस्य छायानुसारी स्यान्निकटे त्रिदिनं वसेत् |
नोचेत् सञ्चारिणी शक्तिर्गुरुमेति न संशयः ||
इति क्रियावती दीक्षा ||
आणवी दीक्षा तु दशविधा |
तद्यथा ||
आणवी बहुधा दीक्षा नादेयी शाम्भवी पुनः |
एकधैवेति विद्वद्भिः पठ्यते शास्त्रकोविदैः ||
राघवभट्टधृतं वचनम् ||
आणवी बहुधेत्युक्ता तद्भेदमधुनोच्यते |
स्मार्ती मानसिकी यौगी चाक्षुषी स्पार्शिकी तथा |
वाचिकी मान्त्रिकी हौत्री शास्त्री चेत्यभिषेचिका |
विदेशस्थं गुरुं स्मृत्वा शिष्यं पापत्रयं क्रमात् |
विश्लेष्य लयभागाङ्गविधानेन परे शिवे |
सम्यग्योजनरूपैर्या स्मार्ती दीक्षेति कथ्यते |
स्वसन्निधौ समासीनमालोक्य मनसा शुचिः |
मलत्रयादुपायैर्या विज्ञेया सा तु मानसी ||
योगोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु |
गृहीत्वा तस्य चात्मानं स्वदेहयोजनात्मिका |
योगदीक्षेति सा प्रोक्ता मलत्रयविनाशिनी || ३ ||
शिवोऽहमिति निश्चित्य वीक्षणं करुणार्द्रया |
दृशा सा चाक्षुषी दीक्सा सर्वपापप्रणाशिनी || ४ ||
स्वयं परशिवो भूत्वा निःसन्दिग्धमना गुरुः |
शिष्यहस्तेन शिष्यस्य स्वमन्त्रं मूर्ध्निसंस्पृशेत् |
स्पर्शदीक्षेति सा प्रोक्ता शिवाभिव्यक्तिकारिणी || ५ ||
शिवहस्तलक्षणं यथा सोमशम्भौ ||
गन्धैर्मण्डलकं स्वीयैर्विदध्याद्दक्षिणे करे |
विधिना त्वर्च्चयेद्देवमित्थं स्याच्छिवहस्तकमिति |
स्वीयैर्गन्धैः स्वस्वगन्धाष्टकैरित्यर्थः ||
गुरुवक्त्रं निजं वक्त्रं विभाव्य गुरुरादरात् |
गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशोः |
मन्त्रन्यासादिभिः सार्द्धं दद्यात् सेयञ्च वाचिकी || ६ ||
दीपवातो यथा मन्त्रन्याससंयुक्तविग्रहः |
स्वयं मन्त्रतनुर्भूत्वा संक्रमं मन्त्रमादरात् |
दद्यात् शिष्याय सा दीक्षा मान्त्री मलविघातिनी || ७ ||
कुण्डे वा स्थैण्डिले वापि निक्षिप्याग्निं विधानतः |
लयभागक्रमेणैव प्रत्यध्वानं यथाक्रमम् |
मन्त्रवर्णकला तत्र पदविष्टपमेव च |
संशोध्य होमरूपैर्या हौत्री दीक्षा समीरिता || ८ ||
योग्यशिष्याय भक्ताय शुश्रूषार्च्चापराय च |
सार्द्धं शास्त्रपदा द्रव्या शास्त्री दीक्षेति सोच्यते || ९ ||
शिवञ्च शिवपत्नीञ्च कुम्भे सम्पूज्य सादरम् |
शिवकुम्भाभिषेकात्मा दीक्षा स्यादभिषेचिका || १० ||
शारदायाम् ||
अथ वर्णात्मिकां वक्ष्ये दीक्षामागमचोदितात् |
पुंप्रकृत्यात्मका वर्णाः शरीरमपि ताऋशम् |
यतस्तस्मात्तनौ न्यस्येद्वर्णान् शिष्यस्य देशिकः |
तत्तत्स्थानयुतान् वर्णान् प्रतिलोमेन संहरेत् |
आज्ञया देवताभावाद्विविधा देशिकोत्तमः |
तदा विनीय तत्तोयं शिष्यो दिव्यतनुर्भवेत् |
परमात्मनि संयोज्य तच्चैतन्यं गुरूत्तमः |
तस्मादुत्पादितान् वर्णान्न्यस्येच्छिष्यतनौ पुनः |
सृष्टिक्रमेण विधिवच्चैतन्यञ्च नियोजयेत् |
जायते देवताभावः परानन्दमयः शिशोः |
एषा वर्णमयी दीक्षा प्रोक्ता ज्ञानप्रदायिनी ||
कलावती दीक्षा तु अस्मद्गोष्ठीगरिष्ठकृष्णानन्दागम-वागीशेन स्वकृततन्त्रसारग्रन्थे लिखिता |
संक्षेपदीक्षापीत्यतो नैतयोरत्र प्रयोजनम् ||
वेधमयीइ दीक्षाप्यप्रचरद्रूपतया न लिखिता ||
अन्वेषकैः शारदायां पञ्चमपटले अन्वेष्येति ||
अथ क्रम्दीक्षा ||
कामाख्यातन्त्रे द्वात्रिंशत्पटले ||
देव्युवाच ||
क्रमदीक्षां ब्रूहि नाथ ! यदि तेऽस्ति कृपा मयि |
कथं वा कुरुते दीक्सां क्रमेण जगदीश्वर ! ||
शिव उवाच ||
श्रुता दीक्षा बहुविधा देवानां प्रीतिदायिका |
इदानीं कथयिष्यामि यदि कस्मै न वक्ष्यसि |
प्रकाशाद्बहवो दोषाः सर्वत्र गोपिता मया |
कलौ पापसमाचारे सिद्धिर्न स्यात् कदाचन |
सिद्धिर्न स्यात् सिद्धिर्न स्यात् कलौ नान्यविधानतः |
क्रमदीक्षाविहीनस्य कलौ न स्यात् कथञ्चन |
इति ज्ञात्वा महेशानि ! क्रमदीक्षां समाचरेत् |
रसैर्मन्त्रैर्यथा विद्धमयः सौवर्णतां व्रजेत् |
कमदीक्षाप्रभावेण तथात्मा शिवतां लभेत् |
जपो देवार्च्चनविधिः कार्ययो दीक्षाक्रमेण वै |
उपचारसहस्रैस्तु योजितां भक्तिसंयुताम् |
क्रमदीक्षां विना देवि ! न गृह्णन्ति कदाचन |
आदौ काली ततस्तारा सुन्दरी तदनन्तरम् |
क्रमदीक्षेति विख्याता सर्वदा सिद्धिकामतः |
राज्यं देयं शिरो देयं न देयं क्रमयोगतः |
विधानं क्रमतः सिद्धिरभिषेकाच्च पार्वति ! |
विशुद्धमातापितृको जितेन्द्रियः सर्वागमज्ञः परदुःखकातरः |
एवंविधानो गुरुरेव शान्तः कुलीनशिष्यः क्रमतो विधानम् |
नात्र शुद्धाद्यपेक्षास्ति न वा सिद्धादिचिन्तनम् |
न चाधिकारिचिन्ता च ग्रहणे क्रमयोगतः |
एकाहे वा वत्सरे वा वत्सरान्तेऽपि पार्वति ! |
तस्मात् शिष्यः प्रयत्नेन गृह्णीयात् क्रमयोगतः |
गृहीत्वा गुरुवक्त्राच्च क्रमेण पूजयेच्च ताः |
क्रमेण च यजेद्देवि ! पुरश्चर्ययाक्रमेण च |
प्रथमे दिवसे शिष्यः संयतात्मा जितेन्द्रियः |
द्वितीये चोपवासश्च त्रिदिने दीक्षयेद्गुरुः |
कुलीनत्वस्य स्वीकारं कारयित्वा मनून् वदेत् |
एकाक्षरं त्र्यक्षरं वा द्वाविंशत्यक्षरं तथा |
द्वितीयायास्तथा प्रोक्तं तृतीयायास्त्रिकूटतः |
क्रमेण दिवसे वापि क्रमेण वत्सरेण च |
वत्सरान्ते तथा देवि ! क्रमेण दीक्षयेद्गुरुः |
ग्रामान् दासांश्च दासीश्च सुवर्णञ्च यथाक्रमम् |
गुरवे दक्षिणां दद्याद् विभवस्यानुसारतः |
यदि भाग्यवशाद्देवि ! क्रमदीक्षा च जायते |
तदा सिद्धिर्भवेत्तस्य नात्र कार्यया विचारणा |
क्रमदीक्षाविहीनस्य कथं सिद्धिः कलौ भवेत् |
सर्वाश्रमेपु भूतेषु सर्वदेवेषु सुव्रते ! |
क्रमं विना महेशानि ! सर्वं तेषां वृथा भवेत् |
तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षित् भवेत् |
क्रममूलं जगत् सर्वं क्रममूलं परं तपः |
अदीक्षिता यदि ज्ञाता किञ्चिदादाय भोजयेत् |
वृथा दानं भवेत्तस्य तस्मात् सर्वं विवर्जयेत् |
सद्गुरोराहिता दीक्षा सर्वकर्माणि कारयेत् ||
इति क्रमदीक्षा ||
शाक्तानन्दतरङ्गिणीधृतगुप्तदीक्षातन्त्रे ||
मृतमप्यनुगच्छेत विद्यामन्त्रो विशेषतः |
मन एव मनुष्यस्य पूर्वकर्माणि शंसति |
यदि न स्यान्महेशानि ! मनुष्यस्य कथं भवेत् |
दीक्षायाञ्च कथं तस्य मनो भवति पार्वति ! |
तस्मात्तु यत्नतो देवि ! पूर्वविद्यां समुद्धरेत् |
वकुलाश्वत्थवटकं पत्ररत्नं शृणु प्रिये ! |
वटपत्रे महेशानि ! शक्तिमन्त्रं लिखेत् प्रिये ! |
अश्वत्थे विष्णुमन्त्रञ्च वकुले शिवमन्त्रकम् |
रक्तचन्दनेन देवेशि ! काश्मीरेण महेश्वरि ! |
शक्तिमन्त्रं लिखेद्देवि ! चन्दने विष्णुमन्त्रकम् |
भस्मना शिवमन्त्रञ्च विलिखेत् परमेश्वरि ! |
सप्तसप्तकपत्रेषु तत्तद्देवताया मन्त्रं लिखेदित्यर्थः ||
प्राणप्रतिष्ठां तन्मन्त्रे कारयेद्यत्नतः सुधीः |
तत्तद्देवतायाः प्राणप्रतिष्ठां कारयेत् |
यथाशक्त्युपचारेण सम्पूज्य परमेश्वरि ! |
ततः शिष्योऽर्घ्यपात्रञ्च हस्ते कृत्वा महेश्वरि ! |
अनेन मनुना मन्त्री भास्कराय निवेदयेत् ||
अर्घ्यद्रव्यमाह ||
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु |
रक्तानि करवीराणि तथैव रक्तचन्दनम् |
अष्टाङ्ग एषोऽर्घ्यो वै भानवे परिकीर्त्तितः |
ओं भो देव ! पृथिवीपाल ! सर्वशक्तिसमन्वितः |
ममार्घ्यञ्च गृहाण त्वं पूर्वविद्यां प्रकाशय |
अर्घ्यं दत्त्वा नमस्कृत्य कृताञ्जलिः पठेत्ततः ||
गान्धर्वे ||
न दद्याद्भास्करायार्घ्यं शङ्खतोयैर्महेश्वरि ! |
ओं सूर्ययः सोमो यमः कालो महाभूतानि पञ्च वै |
एते शुभाशुभस्येह कर्म्मणो नव साक्षिणः |
सर्वदेवाः शरीरस्था मम मन्त्रस्य साक्षिणः |
पूर्वजन्मार्जितां विद्यां मम हस्ते प्रदापय |
पठित्वेदं महेशानि ! सत्वरं पत्रमुद्धरेत् |
उद्धृत्य पत्रमेकन्तु गुरोर्हस्ते प्रदापयेत् |
गुरुस्तु अक्षरश्रेणीमुद्धृत्य परमेश्वरि ! |
सेतुं दत्त्वा महेशानि ! तत्राष्टशतकं जपेत् |
शिष्यस्य मस्तके हस्तं दत्त्वा चाष्टशतं जपेत् |
गुरुस्तु प्राङ्मुखो भूत्वा शिष्यः प्रत्यङ्मुखः स्थितः ||
अन्यत्र |
प्राङ्मुखो गुरुरासीनः शिष्यः प्रत्यङ्मुखः स्थितः |
त्रिवारं दक्षिणे कर्णे वामकर्णे तथा सकृत् |
स्त्रीशूद्रविषये कुर्ययाद्वैपरीत्येन चिन्तनम् |
आचम्य संयतो भूत्वा प्राणायामं विधाय च |
अष्टोत्तरशतं जप्त्वा ऋष्यादिकसमन्वितम् |
अष्टकृत्वो जपेन्मन्त्रं वामकर्णे सुरेश्वरि ! |
इयं दीक्षा सर्वतन्त्रे शक्तेर्या परिकीर्त्तिता |
गुरोर्लब्धां महाविद्यामष्टोत्तरशतं जपेत् |
गुरवे दक्षिणां दद्याद्वित्तशाठ्यं न कारयेत् |
गुरवे गुरुपुत्राय तत्पत्न्यै वा प्रदापयेत् ||
कुलार्णवे ||
गुरुप्रीतिसमुत्पन्ने देवता प्रीतिमाप्नुयात् |
देवताप्रीतिमापन्ने मन्त्रसिद्धिर्भवेद्ध्रुवम् |
पत्ररत्नं प्रधानेन दीक्षां कुर्ययात् कलौ युगे |
ततः सिद्धो भवेन्मन्त्री नात्र कार्यया विचारणा |
एतज्ज्ञानं विना देवि ! दीक्षां कुर्ययाच्च यो नरः |
दीक्षा तु विफला तस्य अन्ते तु नरकं व्रजेत् |
ततः शिष्यो महेशानि ! प्रणमेद्दण्डवद्भुवि ||
ततो गुरुर्वदेत् ||
उत्तिष्ठ वत्स ! मुक्तोऽसि सम्यगाचारवान् भव |
कीर्त्तिः श्रीकान्तिमेधायुर्बलारोग्यं सदास्तु ते ||
योगिनीहृदये ||
मन्त्रं दत्त्वा गुरुश्चैव उपवासं समाचरेत् |
महान्धकारनरके कृमिर्भवति नान्यथा ||
रुद्रजामले ||
श्यामाभया भैरवी ताराच्छिन्नमस्तासु भैरवे ! |
मञ्जुघोषे तथा रौद्रे पञ्चाङ्गं न्यस्यते बुधैः ||
तत्रापि गुह्यकालीविषये पञ्चायतनदीक्षा तत् पुरैवोक्तम् ||
कलौ तान्त्रिकसंस्कारः पत्ररत्नदीक्षादिकञ्चोक्तम् ||
प्राप्ताक्सरेणेदानीं प्रबलकलिलक्षणमुच्यते ||
यथा महानिर्वाणतन्त्रे चतुर्थोल्लासे ||
यदा तु वैदिकी दीक्षा दीक्षा पौराणिकी तथा |
न स्थास्यति वरारोहे ! तदैव प्रबलः कलिः |
यदा तु पुण्यपापानां परीक्षा वेदसम्भवा |
न स्थास्यति शिवे ! शान्ते ! तदैव प्रबलः कलिः |
क्वचिच्छिन्ना क्वचिद्भिन्ना यदा सुरतङ्गिणी |
भविष्यति कुलेशानि ! तदैव प्रबलः कलिः |
यदा स्त्रियोऽतिदुर्दान्ताः कर्कशाः कलहे रताः |
यदा तु म्लेच्छजातीया राजानो धनलोलुपाः |
भविष्यन्ति महाप्राज्ञे ! तदैव प्रबलः कलिः |
यदा तु मानवा भूमौ स्त्रीजिताः कामकिङ्कराः |
द्रुह्यन्ति गुरुमित्रादीन् तदैव प्रबलः कलिः |
यदा क्षौणी स्वल्पफला न मेघास्तोयवर्षिणः |
असम्यकफलिनो वृक्षास्तदैव प्रबलः कलिः |
भ्रातरः स्वजनामात्या यदा धनफलेच्छया |
मिथः सम्प्रहरिष्यन्ति तदैव प्रबलः कलिः |
प्रकटे मध्यमांसादौ निन्दारम्भविवर्जिते |
गूढपानं प्रकुर्वन्ति तदैव प्रबलः कलिः |
सत्यत्रेताद्वापरे च यथा मद्यादिसेवनम् |
कलावपि तथा कुर्ययात् कुलवर्त्मानुसारतः ||
इति प्रबलकलिलक्षणम् ||
कलेरुपंशमप्रकारोऽपि तत्रैव ||
ये कुर्वन्ति कुलाचारं सत्यपूता जितेन्द्रियाः |
व्यक्ताचारदयाशीला न हि तान् बाधते कलिः ||
गुरुशुश्रूषणे युक्ता भक्ता मातृपदाम्बुजे |
अनुरक्ताः स्वदारेषु न हि तान् बाधते कलिः |
सत्यव्रताः सत्यनिष्ठाः सत्यधर्म्मपरायणाः |
कुलसाधनसत्या येन हि तान् बाधते कलिः |
कुलमार्गेण तत्त्वानि शोधितानि च योगिने |
ये दद्युः सत्यवचसे न हि तान् बाधते कलिः |
हिंसामात्सर्ययरहिता दम्भद्वेषविवर्ज्जिताः |
कुलधर्मेषु निष्ठा ये न हि तान् बाधते कलिः |
लौकिकैः सह संसर्गं वसितं कुलसाधुषु |
कुर्वन्ति कौलसेवां ये न हि तान् बाधते कलिः |
नानावेशधराः कौलाः कुलाचारेषु निश्चलाः |
सेवन्ते त्वां कुलाचारैर्न हि तान् बाधते कलिः |
वीजसेकादिसंस्कारान् पितृश्राद्धादिकाः क्रियाः |
ये कुर्वन्ति कुलाचारैर्न हि तान् बाधते कलिः |
कुलतत्त्वं कुलद्रव्यं कुलयोगिनमेव च |
नमस्कुर्वन्ति ये भक्त्या न हि तान् बाधते कलिः |
कौटिल्यानृतहीनानां स्वच्छानां कुलमार्गिणाम् |
परोपकारव्रतिनां साधूनां किङ्करः कलिः ||
अथ कलेर्गुणः |
कलेर्दोषसमूहस्य महानेको गुणः प्रिये ! |
सत्यप्रतिज्ञा कौलानां श्रेयः सङ्कल्पमात्रतः |
अपरे तु युगे देवि ! पुण्यपापञ्च मानसम् |
नृणामासीत् कलौ पुण्यं मानसं न तु दुष्कृतम् |
कुलाचारविहीना ये सततं सत्यभाषिणः |
परद्रोहपरा ये च ते नराः कलिकिङ्कराः |
कुलधर्मेष्वभक्ता ये परयोवित्सु कामुकाः |
द्वेष्टारः कुलनिष्ठानां ते ज्ञेयाः कलिकिङ्कराः |
प्रकटेऽत्र कलौ देवि ! सर्वे धर्माश्च दुर्बलाः |
स्थास्यत्येकं सत्यमात्रं तस्मात् सत्यमयो भवेत् |
सत्यधर्मं समाश्रित्य यत्कर्म्म कुरुते नरः |
तदेव सफलं कर्म्म सत्यं जानीहि सुव्रते ! |
न हि सत्यात् परो धर्मो न पापमनृतात्परम् |
तस्मात् सर्वात्मना मर्त्यः सत्यमेकं समाश्रयेत् |
सत्यहीना वृथा पूजा सत्यहीनो वृथा जपः |
सत्यमूलाः क्रियाः सर्वाः सत्यात् परतरं न हि |
अत-एव मया प्रोक्तं दुष्कृते प्रबले कलौ |
कुलाचारोऽपि सत्येन कर्त्तव्यो व्यक्तभावतः |
गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना |
तस्मात् प्रकाशतः कुर्ययात् कौलिकः कुलसाधनम् |
कुलधर्म्मस्य गुप्त्यर्थं नानृत्यं स्याज्जुगुप्सितम् |
यदुक्तं कुलतन्त्रेषु न शस्तं प्रबले कलौ |
कृते धर्मश्चतुष्पादस्त्रेतायां पादहीनकः |
द्विंपादो द्वापरे देवि ! पादमात्रं कलौ युगे |
तरापि सत्यं बलवत्तपः खण्डं दयापि च |
सत्यपादे कृते लोपे धर्म्मलोपः प्रजायते |
तस्मात् सत्यं समाश्रित्य सर्वकर्माणि साधयेत् |
कुलाचारं विना यत्र नास्त्युपायः कुलेश्वरि ! |
तत्रानृतप्रवेशः स्यात् कुतो निःश्रेयसं भवेत् |
सर्वथा सत्यपूतात्मा मन्मुखेरितवर्त्मना |
सर्वं कर्म नरः कुर्ययात् स्वस्ववर्णाश्रमोदितम् |
दीक्षां पूजां जपं होमं पुरश्चरणतर्पणम् |
व्रतोद्द्वाहौ पुंसवनं सीमन्तोन्नयनं तथा |
जातकर्म तथा नाम चूडाकरणमेव च |
यात्रां गृहप्रवेशञ्च नववस्त्रादिधारणम् |
वापोकूपतडागानां संस्कारं तिथिकर्म च |
गृहारम्भं प्रतिष्ठाञ्च देवतास्थापनं तथा |
मयोक्तेन विधानेन तत्सर्वं साधयेन्नरः |
यदि मन्मतमुत्सृज्य महेशि ! प्रबले कलौ |
तदा यत् क्रियते कर्म विपरीताय तद्भवेत् ||
अष्टमोल्लासे ||
अतोऽत्र कथितं देवि ! द्विजानां प्रबले कली ||
गायत्र्यामधिकारोऽस्ति नान्यमन्त्रेषु कर्हिचित् |
द्विजातीनां प्रभेदार्थं शूरेभ्यः परमेश्वरि ! |
सन्ध्येयं वैदिकी प्रोक्ता प्रागेवाह्निककर्मणः ||
विश्वासो रामहर्ययाह्वय इह सकृती पुण्यकीर्त्तिर्वरिष्ठः साक्षाद्धर्मो महात्मा स्म जनयति नरः श्रीलनारायणभौ |
शान्तौ दान्तौ सदन्तःकृतिमिलितजगन्मोहनप्राणकृष्णौ श्रीवाणीशौ प्रतापानलकलितमहारातिवंशाटवीकौ ||
श्रीप्राणकृष्णविश्वासः सुतान् सप्त महोदयान् |
अजीजनद्देवविप्रभक्तान्नानागुणान्वितान् ||
श्रीलानन्दमयज्येष्ठः सदानन्दमयः कृती |
श्रीरामचन्द्रस्तदनु दयाधर्मप्रतापवान् |
श्रीविश्वनाथो विश्वात्मा तदनु ज्ञानदानवान् |
श्रीशम्भुनाथस्तदनु स्निग्धमूर्तिर्दयामयः |
श्रीकाशीनाथविश्वासो विश्वासकुलपावनः |
श्रीचन्द्रनाथस्तदनु चन्द्रदृक्षो गुणाकारः |
एतेऽप्युदयोगिनो ग्रन्थकारणायै यतः सदा |
अतो नामान्यत्र तेषां निबध्नाम्यतियत्नतः ||
धीमान् श्रीमान् भुवनविदितस्तन्त्रसारस्य कर्त्ता कृष्णानन्दोऽजनि भुवि नवद्वीपदेशप्रदीपः |
काशीनाथोऽभवदिह सुतस्तस्य सारावलीकृत् विद्वान् मान्योऽजनि तदनुजो विश्वनाथाह्वयोऽतः ||
गोपालो निर्णयकृतियशस्वी मधोः सूदनाच्चाभूतां पुत्रौ मधुसुत इतः कालिदासः प्रसिद्धः |
तत्पुत्रोऽभूद्रघुवरपरो नाथ एकान्तबुद्धिस्तत्सूनुश्चाभवदिह सुधीमङ्गलः कृष्णपूर्वः ||
श्रीकृष्णमङ्गलसुतो नववल्लिकायाः श्रीरामतोषण इदं कृतवान् द्वितीयम् |
काण्डन्तु संस्कृतियुतं फलपुष्पशोभं धर्माभिधं कृतिमतां सकलेष्टसिद्ध्यै ||
इति श्रीप्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्ययचाविरचितायां श्रीप्राणतोषिण्यां दीक्षारूपफलकथनात्मकषष्ठ-परिछेदान्वितधर्मकाण्डं समाप्तम् ||
Textgrundlage
Sanskrittext nach der elektronischen Ausgabe des Muktabodha Indological Research Institute, zusammengestellt von dessen Mitarbeitern unter der Leitung von Mark S. G. Dyczkowski. Zugrunde liegt die von Jīvānanda Vidyāsāgara Bhaṭṭācārya herausgegebene Druckausgabe, Kalkutta 1898, in bengalischer Schrift. Die elektronischen Texte tragen den Lizenzvermerk CC BY-NC 4.0. Für die bibliographischen Angaben, den Umfang und die Überlieferungslücke siehe Pranatosini Tantra.
Die überlieferten Zählungen bleiben erhalten; der Text besitzt keine durchgehende Versnummerierung. Unnummerierte Prosa und Zitatnachweise gehören zum Werk und stehen im Sanskrittext. Offenkundige Lesungsprobleme der elektronischen Grundlage sind nicht stillschweigend durch Vermutungen ersetzt. Ein fremder Bhaktikāṇḍa-Kolophon nach Sargakāṇḍa 7 bleibt als überlieferte Unstimmigkeit erkennbar. Der Textumfang entspricht dem zugänglichen Bestand mit der Überlieferungslücke im Bhaktikāṇḍa und den vier ausdrücklich markierten Auslassungen im Nirguṇakāṇḍa. Eine lückenlose Wiedergabe des historischen Gesamtwerks wird nicht behauptet.
Seminare
Kundalini Yoga
- 30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Arjuna Wingen
- 13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe
Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…- Manuel Hirning
Energiearbeit
- 18.10.2026 - 23.10.2026 Tantra Vinyasa Yoga Ausbildung - Teil 2
Buchung nur nach Besuch von Teil 1 möglich (Termin: 18.-23.5.2025) möglich. www.yoga-vidya.de/ausbildung-weiterbildung
Vorkenntnisse: Lektüre der Bü…- Ravi Ott
- 23.10.2026 - 30.10.2026 Klangtherapie Chakra Kur
Klang und Klangschwingungen haben einen intensiven Bezug zu den Chakras, den Energiezentren. Im Yoga ist es daher eine alte Tradition, Chakras mit Klang…- Maik Hofmeister, Jeannine Hofmeister
Deutsche Einführung: Pranatosini Tantra · Nächster Teil: Pranatosini Tantra Sanskrit Devanagari Teil 2