Pranatosini Tantra Sanskrit Devanagari Teil 4

Aus Yogawiki

Pranatosini Tantra Sanskrit Devanagari Teil 4

Das Nirguṇakāṇḍa beschließt die Prāṇatoṣiṇī mit Lehren über innere Haltung, Verantwortung im Hausstand, Entsagung und den Kaula-Weg. Die Göttin, Guru, Mantra und innere Verehrung stehen neben ausführlichen initiationsgebundenen Ritualen. Ein Nachtrag mit historischen Arznei- und Zauberrezepten führt zum Schlussvers des Gesamtwerks.

Dieser letzte Devanagari-Teil folgt auf Bhakti und Jñāna. Die deutsche Lesefassung und die spirituelle Gesamtsynthese stehen in Pranatosini Tantra Teil 7. Vier markierte Auslassungen im Sanskrit sind dort durch sachliche Inhaltsangaben vertreten.

Für das Studium von Yoga und Meditation empfiehlt es sich, die einzelnen Zitate zusammen mit ihren Erläuterungen zu lesen. Die Sammlung bewahrt unterschiedliche Lehrmeinungen; ein Sprecherwechsel kann auch den Wechsel der zitierten Schrift anzeigen.

Deutsche Einführung: Pranatosini Tantra · Vorheriger Teil: Pranatosini Tantra Sanskrit Devanagari Teil 3

Teile der Sanskritausgabe: Pranatosini Tantra Sanskrit Devanagari · Pranatosini Tantra Sanskrit Devanagari Teil 2 · Pranatosini Tantra Sanskrit Devanagari Teil 3 · Pranatosini Tantra Sanskrit Devanagari Teil 4

Nirguṇakāṇḍa – Kaula-Praxis und Erkenntnis und Nachtrag

Kali ist eine zentrale Gestalt der shaktischen Kaula-Tradition.

महाकालोल्लासप्रथितरतियुद्धप्रणयिनी गलद्वेणीबन्धा गगनवसना स्विन्नवदना |
नवाम्भोदस्निग्धा शवविहितरक्तेक्षणयुता हृदि ध्वान्तागारे तडिदिव सदा सा स्फुरतु मे ||

निर्गुणाख्यस्य काण्डस्य सप्तमस्य विधीयते |
निर्घण्टः प्रथमस्तत्र पशुभावादिनिर्णयः |
भावत्रयफलं पूर्वाह्णादौ भावत्रयं ततः |
पशुभावे सिद्धिबीजं दिव्यवीरप्रशंसनम् |
पश्वादिलक्षणं तेषां कृत्याकृत्यविनिर्णयः |
भावत्रयस्योत्तमत्वादिनिर्णीतिस्ततः परम् |
आरम्भादिप्रभेदेन भावत्रयनिरूपणम् |
भावनिरूपणं ब्रह्मचर्यनिरूपणं ततः |
ताम्रस्य धारणफलमङ्गभेदादनेकधा |
आश्रमत्रयमात्रन्तु कलौ ज्ञेयं मनीषिभिः |
गृहस्थकृत्यमातिथ्यं पित्रार्च्चा दारलक्षणम् |
परस्त्रीवर्जनं पुत्रकन्यादिलालनादि च |
कृत्याकृत्ये गृहस्थस्यान्यद्विज्ञेयं यथास्थलम् |
भिक्षुकाश्रमकृत्यादि कलौ तत्प्रतिषेधनम् |
दशावधूतनामानि ततोऽवधूतनिर्णयः |
तत्कृत्यं लक्षणं तेषां प्रशंसा च ततः परम् |
ओं तत्सदिति निर्द्देशफलं तस्य प्रशंसनम् |
आचारभेदकथनमिति च्छेदोऽग्रिमः स्मृतः |
पूर्णाभिषेकस्तस्यापि प्रयोगस्तदनन्तरम् |
अभिषेकान्तरं वीरप्रशंसा वीरकृत्यकम् |
वैधेतरसुरापाणनिषिद्धं शास्त्रसम्मतम् |
द्रव्याभावे चानुकल्पविधानं तदनन्तरम् |

असंस्कृतसुरापाणनिन्दा विप्राधिकारिता |
तत्र तत्फलसंयुक्ता शापमुक्तिफलं ततः |
रसासक्तौ जपफलं मानसो भाव एव च |
धर्मः पञ्चमकारस्य निर्णयस्तदनन्तरम् |
फलं पञ्चमकाराणां तैर्विनार्चननिन्दनम् |
वैष्णवानां पञ्चतत्त्वं पञ्चतत्त्वस्य शोधनम् |
स्वयम्भूकुसुमादीनां निरूपणमतः परम् |
तदुत्पत्तिप्रकारश्च तेषां शोधनमेव च |
कारणानां मन्त्रादिश्च पात्राणां स्थापनक्रमः |
तर्पणस्य क्रमश्चैव तत्त्वमुद्रानिरूपणम् |
तर्पणस्थाननिर्णीति र्भावभेदक्रमेण तु |
तत्त्वशुद्धिरिति च्छेदद्वितीयस्य समापनम् ||

वीरपूजा तु तत्रादौ द्वाविंशत्यक्षरो मनुः |
ऋष्यादिन्यसनं ध्यानं पीठपूजादिरेव च |
ततो महाकालपूजा परनिन्दा ततः परम् |
जपार्द्धेन फलप्राप्ति र्वीजञ्च सिद्धिकारणम् |
ब्राह्मणादिविभेदेन पुरश्चर्याविधिस्ततः |
मालासिद्धिक्रमादिश्च ततः कूलवटीक्रमः |
अन्यान्यपि साधनानि प्रयोगत्रयं ततः परम् |
सिद्धिर्न जायते चेत्तत्रोपायान्तरमेव च |
दक्षिणादिसाधनञ्च द्वितीयायजनक्रमः |
महामन्त्रप्रशंसा च मन्त्रशुद्ध्यादिरेव च |
द्वितीयानामशतकं वीरहोमस्ततः परम् |
द्रव्यदानफलञ्चैव सुराभेदफलं ततः |
महाशङ्खप्रकरणमशोकादिनतिस्ततः |
पर्वतादौ करणीयं नतिमन्त्रस्ततः परम् |
श्मशानादिक्रियानिन्दा तेषामकरणे ततः |
रसास्वादश्च वीराणां तत्फलं तदनन्तरम् |
षट्कर्मसाधनञ्चैव वीराणां तदनन्तरम् |
तृतीयपरिच्छेदस्य समापनमिदं स्मृतम् |
कुलाचारः कुलीनस्य लक्षणं तदनन्तरम् |
कुलाचारो द्विधा कौलकर्त्तव्यं तदनन्तरम् |
कौलनिन्दानिषेधश्च गृहावधूतनिर्णयः |
रात्रिकृत्यं कुलाचारः कौलप्रशंसनं ततः |
अन्तर्यागप्रकरणं ज्ञानहोमविधिस्ततः |
श्रीचक्रस्य क्रमो लोभपाननिन्दा ततः

परम् |
अज्ञानि पाननिन्दादिपूजके लक्षणादि च |
आवश्यकं पञ्चशुद्धेर्मण्डलस्य च लक्षणम् |
तर्पणे यन्निषिद्धञ्च विहितञ्च ततः परम् |
द्रव्यशुद्ध्यादि च ततो गुरुपंक्तिक्रमस्ततः |
कुलाचारक्रमश्चैव कुपात्रादिनिषेधनम् |
अस्नातादेः कुलद्रव्यनिषेधस्तदनन्तरम् |
उच्छिष्टस्पर्शनस्यैव प्रतिषेधस्ततः परम् |
द्रव्यभाण्डोद्धारदोषश्चक्रविघ्नः सशान्तिकः |
प्रौढोल्लासे ज्ञानिमत्तज्ञानचिह्नान्यतः परम् |
चक्रे च परिहासादिवर्ज्जनं पात्रगोपनम् |
पशुसङ्गेन कृत्यं यद् वाग्वादादिविवर्ज्जनम् |
पशुशास्त्रवर्जनञ्चाश्रद्दधानस्य निन्दनम् |
अकामो गुरुशक्त्यादावर्च्चनं देवताधिया |
बलात्कारनिषेधश्चाममांसाद्यभिवन्दनम् |
कुलशास्त्रादिनिन्दायाः प्रतिषेधस्ततः परम् |
आनन्दरूपकथनमतिपानादिनिन्दनम् |
सुखार्थपानदोषश्चानुकल्पस्तदनन्तरम् |
धुस्तूरादिनिषेधश्च सर्वानुकल्प एव च |
पारम्पर्यं विना पञ्चतत्त्वसेवनगर्हणम् |
महापापं पशूनान्तु पञ्चतत्त्वनिषेवणे |
चक्रानुष्ठाननिर्णीतिस्ततश्च पात्रवन्दनम् |
पात्रमानञ्च चक्रेशशक्त्युच्छिष्टविचारणम् |
शान्तिस्तोत्रं ततश्चक्रसमाप्तिक्रमनिर्णयः |
आनन्दस्तोत्रकथनमानन्दोल्लासनिर्णयः |
इति च्छेदचतुर्थस्य समाप्तिरभिधीयते ||

चक्रपञ्चककर्त्तव्यानुष्ठानञ्चक्रनाम च |
चक्राधिकारी श्रीराजचक्रशक्त्यादिनिर्णयः |
महाचक्रशक्तिसुधाशुद्ध्यादिनिर्णयस्ततः |
देवचक्रस्य शक्त्यादिनिर्णयस्तदनन्तरम् |
वीरचक्रे तथा शक्त्यादिनिर्णीतिस्ततः परम् |
मात्रादिनिर्णयः सङ्केताज्ञवीरविवर्जनम् |
पशुचक्रस्य शक्त्यादिनिर्णीतिस्तदनन्तरम् |
कुलशक्तिः स्वीयशक्तिपूजनं प्रथमं ततः |
परशक्त्यर्च्चनं सिद्धमन्त्रिणामेव केवलम् |
शक्तिसाधनकर्मापि शक्त्याङ्गपीठनिर्णयः |
तत्र तत्र जपफलं नानाशक्तिफलं ततः |
शक्तेः पूजा च शीर्षादौ

जपनिर्णय एव च |
लिङ्गमन्त्रजपादिश्च होमः पूर्णाहुतिस्ततः |
चक्रे च कामनासिद्धिकथनं तदनन्तरम् |
लतासाधनमन्यच्च शययाशुद्धिस्ततः परम् |
नवशक्तिविनिर्द्देशः कापालिक्यादिलक्षणम् |
वेश्याविशेषनिर्द्देशो विपरीतजपे फलम् |
वयःक्रमेण सा शक्तिः काल्यादिनामधारिणी |
श्यामादिविद्यासिद्धिश्च शक्तिविशेषयोगतः |
तत्प्रयोगश्चैव योनेर्ध्यानं स्तोत्रं ततः परम् |
कवचं योनियोगे च जपस्य फलनिर्णयः |
नवपुष्पविनिर्णीतिः शक्तिप्राशस्त्यनिश्चयः |
शक्त्यर्पितफञ्चैव शक्त्यङ्गे देवतास्थितः |
अन्यल्लतासाधनञ्चार्चनेऽन्यदारसङ्गमः |
स्त्रीदेहे सर्वतीर्थानि योनिपूजाविधिस्ततः |
योनिपूजाविधा योनिस्मरणादिफलं ततः |
आवाहनादिरहितं योनिपूजनमेव च |
शक्तिपादोदकादेश्च पानादिजफलं ततः |
भगतत्त्वकुन्तलयोर्माहात्म्यं तदनन्तरम् |
बन्धाश्चेति परिच्छेदपञ्चमस्य समापनम् |
ज्ञेयमन्यद् यथास्थानं धीमद्भिर्ग्रन्थमध्यतः ||

भावसारमतियत्नचिन्तनै रामतोषणविनिर्मितं बुध ! |
पश्य काण्डमिदमेव निर्गुणं मोक्तुमिच्छसि भवार्णवाद्यदि ||

अथ भावनिर्णयः ||

रुद्रजामले उत्तरखण्डे षष्ठपटले ||

पशुभावस्थितां नाथ ! देवतां शृणु विस्तरात् |
दुर्गापूजां विष्णुपूजां शिवपूजाञ्च नित्यशः |
अवश्यं हि यः करोति स पशुरुत्तमः स्मृतः |
केवलं शिवपूजाञ्च यः करोति स साधकः |
पशूनां मध्यतः श्रीमान् शिवया सह चोत्तमः |
केवलं वैष्णवो धीरः पशूनां मध्यमः स्मृतः |
भूतानां देवतानाञ्च सेवां कुर्वन्ति सर्वदा |
पशूनां मध्यमाः प्रोक्ता नरकस्था न संशयः |
त्वत्सेवां मम सेवाञ्च ब्रह्मविष्ण्वादिसेवनम् |
कृत्वान्यसर्वभूतानां नायिकानां

महाप्रभो ! |
यक्षिणीनां भूतिनीनां ततः सेवां शुभप्रदाम् |
यः पशुर्ब्रह्मकृष्णादिसेवाञ्च कुरुते सदा |
तथा श्रीतारकब्रह्मसेवां ये वा नरोत्तमाः |
तेषामसाध्या भूतादिदेवता सर्वकामहा |
वर्ज्जयेत् पशुमार्गेण विष्णुपूजापरो जनः |
द्वितीयपटले ||

नित्यं श्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् |
देवतादर्शनं पीठदर्शनं तीर्थदर्शनम् |
गुरोराज्ञापालनञ्च देवतानित्यपूजनम् |
पशुभावस्थितो मर्त्त्यो महासिद्धिं लभेद्ध्रुवम् ||

षष्ठपटले ||

पुनर्भावं पशोरेव शृणु सादरपूर्वकम् |
अकस्मात् सिद्धिमाप्नोति पशुर्नारायणोपमः |
वैकुण्ठनगरे याति चतुर्भुजकलेवरः |
शङ्कचक्रगदापद्महस्तो गरुडवाहनः |
महाधर्मस्वरूपोऽसौ महाविद्याप्रसादतः |
पशुभावं महाभावं भावानां सिद्धिदं परम् |
आदौ भावं पशोः कृत्वा पश्चादावश्यकं चरेत् |
वीरभावं महाभावं सर्वभावोत्तमोत्तमम् |
तत्पश्चादतिसौन्दर्यं दिव्यभावं महाफलम् ||

इति भावाः ||

भावफलमपि तत्रैव ||

फलाकाङ्क्षी मोक्षगामी सर्वभूतहिते रतः |
विद्याकाङ्क्षी धनाकाङ्क्षी रत्नाकाङ्क्षी च यो नरः |
कुर्याद्भावत्रयं दिव्यं भावसाधनमुत्तमम् |
भावेन लभते राज्यं धनं रत्नं महाफलम् |
वाराणस्यां कोटिलिङ्गपूजनेन च यत् फलम् |
तत् फलं लभते मर्त्त्यः क्षणादेव न संशयः ||

इति भावफलम् ||

भावविशेषफलमपि तत्रैव ||

आदौ दशमदण्डेन पशुभावमथापि वा |
मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् |
सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम् |
अथवा पशुभावेन यजेदिष्टादिदेवताम् |
जन्मावधि जपेन्मन्त्री महासिद्धिमवाप्नुयात् |
पीठब्रह्मणमात्रेण महाषोढाश्रमेण च |
पशुभाव स्थितो मन्त्री

सिद्धिमेकामवाप्नुयात् |
यदि पूर्वपरस्थाञ्च महाकौलिकदेवताम् |
कुलमार्गस्थितो मन्त्री सिद्धिमाप्नोति निश्चितम् |
यदि विद्याः प्रसीदन्ति वीरभावं तदा भवेत् |
वीरभावप्रसादेन दिव्यभावमवाप्नुयात् |
दिव्यभावं वीरभावं ये गृह्णन्ति नरोत्तमाः |
वाञ्छाकल्पद्रुमलतापतयस्ते न संशयः |
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः |
भूत्वा भ्रामन्महापीठं साक्षान्मुक्तो भवेद् यतिः |
किमन्येन पलेनापि यदि भावादिकं भवेत् |
भावग्रहणमात्रेण मम ज्ञानी भवेन्नरः |
वाक्यसिद्धिर्भवेत् क्षिप्रं वाणी हृदयगामिनी |
नारायणं प्रविहाय लक्ष्मीस्तिष्ठति मन्दिरे |
मम पूर्णोत्तमा दृष्टिस्तस्य देहे न संशयः |
अवश्यं सिद्धिमाप्नोति सत्यं सत्यं सदाशिव ! ||

तथा |
भावस्तु त्रिविधो देव ! दिव्यवीरपशुक्रमात् |
गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता |
दिव्यभावो महादेव ! श्रेयान् स सर्वसिद्धिदः |
द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः |
बहुजापात्तथा होमात् कायक्लेशादिविस्तरैः |
न भावेन महादेव ! मन्त्रतन्त्राः फलप्रदाः ||

तथा |
प्रथमं दिव्यभावन्तु कौलिके शृणु यत्नतः |
सर्वदेवार्चितां विद्यां तेजःपुञ्जप्रपूरिताम् |
तेजोमयीं जगत् सर्वां विभाव्य मूर्त्तिकल्पनाम् ||

एकादशपटले ||

त्रिविधं दिव्यभावञ्च वेदागमविवेकजम् |
वेदार्थमधमं प्रोक्तं मध्यमञ्चागमोद्भवम् |
उत्तमं सफलं प्रोक्तं विवेकोल्लाससम्भवम् |
तत्रैव त्रिविधं भावं दिव्यवीरपशुक्रमम् |
दिव्यवीरैकजं प्रोक्तं सर्वसिद्धिप्रदायकम् |
उत्तमं तद्विजानीयादानन्दरससागरम् |
मध्यमञ्चागमोल्लासं वीरभावं क्रियान्वितम् |
वेदोद्भवं फलार्थञ्च पशुभावं हि चाधमम् |
सर्वनिन्दासमाव्याप्तं भावानामधमं पशोः |
उत्तमे उत्तमं ज्ञानं भावसिद्धिप्रदं नृणाम् |
मध्यमे मधुमत्याश्च मत्कुलागमसम्भवम् |
अकालमृत्युहरणं

भावानामतिदुर्लभम् |
वीरभावं विना नाथ ! न सिध्यति कदाचन |
अधमे अधमं व्याख्यानिन्दार्थवाचकं सदा |
यदा निन्दां न करोति तदा तत्फलमाप्नुयात् |
पशुभावेऽपि सिद्धिः स्याद्यदि वेदं सदाभ्यसेत् |
वेदार्थचिन्तनं नित्यं वेदपाठध्वनिप्रियम् |
सर्वनिन्दाविरहितं हिंसालस्यविवर्जितम् |
लोभमोहकामक्रोधमदमात्सर्य वर्जितम् |
यदि भावस्थितो मन्त्री पशुभावोऽपि सिद्धिभाक् |
पशुभावं महाभावं ये जानन्ति महीतले |
किमसाध्यं महादेव ! श्रमाभ्यासेन यान्ति तत् |
श्रमाधीनं जगत् सर्वं शर्माधीनाश्च देवताः |
श्रमाधीनं जगत् सर्वं श्रमाधीनं परं तपः |
श्रमाधीनं कुलाचारं पशुभावोपलक्षणम् |
वेदार्थज्ञानमात्रेण पशुभावं कुलप्रियम् |
स्मृत्यागमपुराणाणि वेदार्थविहितानि च |

भावाश्रमप्रकारमाह तत्रैव ||

अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा तु बुद्धिमान् |
पललानीव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् |
ज्ञानी भूत्वा भावसारमाश्रयेत् साधकोत्तमः वेदे वेदक्रिया कार्या मदुक्तवचनाद्यतः |
पशूनां श्रमदाहानामिति लक्षणमीरितम् |
आगमार्थक्रिया कार्या सदा मत्कुलचेष्टया |
वीराणामुद्धतानाञ्च मच्छरीरानुगामिनाम् |
मच्चेष्टाकुलतत्त्वानामिति लक्षणमीरितम् |
विवेकसूत्रसंज्ञानां क्रियासु दृढचेतसाम् |
सर्वत्र समभावानां भावमात्रं हि साधनम् |
सर्वत्र मत्पदाम्भोजसम्भवं हि चराचरम् |
दृष्ट्वा यत् कुरुते कर्म चातुलं फलसिद्धिदम् |
अखण्डज्ञानचित्तानामिति भावं विवेकिनाम् |
निर्मलानन्ददिव्यानामिति लक्षणमीरितम् |
दिव्यन्तु त्रिविधं भावं यो जानाति महीतले |
न नश्यति महावीरः कदाचित् साधकोत्तमः |
क्रमेण दिव्यभावादीनाश्रित्य साधयेद् यदि |
दिव्यभावे महासिद्धिं प्राप्नोति साधकोत्तमः |

दिव्यभावं विना नाथ ! मत्पदाम्भोजदर्शनम् |
य इच्छति महादेव ! स मूढः साधकः कथम् |
पशुभावं हि प्रथमे द्वितीये वीरभावकम् |
तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात् |
तत्प्रकारं शृणु शिव ! त्रैलोक्यपरिपालन ! |
भावत्रयविशेषज्ञः षडाधारस्य भेदिनः |
पञ्चतत्त्वार्थभावज्ञो दिव्याचाररतः सदा |
स एव भवति श्रीमान् साध्यानामादिपारगः |
शिववद्विहरेल्लोके अष्टैश्वर्यसमन्वितः |
सर्वत्र शुचिभावेन आनन्दघनसाधनम् |
जापनं धारणं वापि चित्तमायाति यत्नतः |
एकान्ते निर्जने देशे सिद्धो भवति निश्चितम् |
तत्कालं वीजभावार्थं भावमात्रं हि साधनम् |
भावेन लभ्यते सिद्धिर्वीरादन्यत्र कुत्रचित् |
रात्रौ सन्ध्यादि सम्पूज्य ताम्बुलपूरिताननः |
विजयानन्दसम्पूर्णो जीवात्मपरमात्मनोः |
ऐक्यं चित्ते समादाय आनन्दोद्रेकसम्भ्रमः |
यो जपेत् सकलां रात्रिं गतभीर्निर्जने गृहे |
स भवेत् कालिकादासो दिव्यानामुत्तमोत्तमः |
एवं भावत्रयं ज्ञात्वा यः कर्म साधयेत्ततः |
अष्टैश्वर्ययुतो भूत्वा सर्वज्ञो भवति ध्रुवम् ||

कुब्जिकातन्त्रे सप्तमपटले च |
भावश्च त्रिविधो देवि ! दिव्यवीरपशुक्रमात् |
विश्वञ्च देवतारूपं भावयेत् सुरसुन्दरि ! |
स्त्रीमयञ्च जगत् सर्वं पुरुषं शिवरूपिणम् |
अभेदे चिन्तयेद् यस्तु स एव देवतात्मकः |
देवतात्मको देवतास्वभाव इत्यर्थः |
सर्वत्राभेदचिन्तनेन शिवशक्तिमयत्वमखिलस्येत्यायातञ्चेत्तदा स्नानादिकं न कर्त्तव्यमिति शङ्कानिरासायोक्तं तत्रैव यथा |
नित्यस्नानं नित्यदानं त्रिसन्ध्यञ्च जपार्चनम् निर्मलं वसनं देवि ! परिधानं समाचरेत् |
वेदशास्त्रे दृढज्ञानं गुरौ देवे तथैव च |
मन्त्रे चैव दृढज्ञानं पितृदेवार्चनं तथा |
बलिवस्यं तथा श्राद्धं नित्यकार्यं शुचिस्मिते ! |
शत्रुं मित्रसमं देवि ! चिन्तयेत्तु महेश्वरि ! |
अन्न्ञ्चैव महेशानि !

सर्वेषां परिवर्जयेत् |
गुरोरन्नं महेशानि ! भोक्तव्यं सर्वसिद्धये |
कदर्यञ्च महेशानि ! निष्ठुरं परिवर्जयेत् |
देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत् |
सत्यञ्च कथयेद्देवि ! न मिथ्या च कदाचन |
केवलं दिव्यभावेन पूजयेत् परमेश्वरीम् |
गुरोराराधनं देवि ! प्रत्यहं चिन्तयेत् सुधीः |
सर्वञ्च देवतारूपं परमेष्ठिस्वरूपकम् |
एकाग्रामे स्थितो नित्यं त्रिसन्ध्यं पूजयेद्गुरुम् |
गुरुतुल्यं महेशानि ! नमस्कुर्याद्वरानने ! |
स्त्रीणां पादतलं दृष्ट्वा गुरुवद्भावयेत् सदा |
श्रीखण्डपङ्कं रुधिरं भूषितं सुमनोहरम् |
शरीरं कारयेद्देवि ! गन्धर्वदेवमुत्तमम् |
त्रिपुण्ड्रं भस्मना वापि रक्तचन्दनकेन वा |
रुद्राक्षभूषणं देवि ! सर्वाङ्गे च महेश्वरि ! |
केवलं भैरवो भूत्वा यजेद्देवीं सनातनीम् |
प्रत्यहञ्च बलिं दद्याद् देवताभावसिद्धये |
समयाञ्च गृहीत्वा तु पूजादौ च महेश्वरि ! |
निशीथे पूजनञ्चैव कर्त्तव्यञ्च महेश्वरि ! |
कुलवृक्षं तथा दृष्ट्वा कर्त्तव्यञ्च वरानने |
प्रणामं वन्दनञ्चैव प्रत्यहञ्च महेश्वरि ! |
रात्रौ चैव यजेद्देवीं न दिवापि कदाचन |
रात्रौ ताम्बूलपूरास्यो जपेन्मन्त्रं महेश्वरि ! |
सर्वञ्चैव महादेवि ! परदेव्यै समर्पयेत् ||

पशुभावकर्त्तव्याकर्त्तव्यगर्भतद्भावनिन्दामाह तत्रैव ||

पशुभावरता ये च केवलं पशुरूपिणः |
रात्रौ यन्त्रञ्च मनत्रञ्च न स्पृशेन्न जपेत् क्वचित् |
संशयो बलिदाने च तन्त्रे च संशयः सदा |
मन्त्रे चाक्षरबुद्धिश्च अविश्वासो गुरौ सदा |
प्रतिमासु शिलाबुद्धिर्भेदको दैवते पुनः |
निरामिषेण देवेशि ! देवतायाः प्रपूजनम् |
अज्ञानेन सदा स्नानं प्रत्यहं देवताडनम् |
सर्वेषाञ्चैव निन्दान्तु यः कुर्याच्च महेश्वरि ! |
स एव पशुभावेन अधमः परिकीर्त्तितः ||

नित्यातन्त्रे प्रथमपटलेऽपि ||

रात्रौ नैव यजेद्देवीं सन्ध्यायां वापराह्णके |
ऋतुकालं विना देवि ! रमणं परिवर्जयेत् |
मांसादिकं महेशानि |
त्यजेत्

पञ्चसु पर्वसु |
यदन्यद्वेदविहितं कुर्यान्नियमतत्परः ||

इति पशुभावनिन्दा ||

दिव्यवीरयोरुत्तमत्वमपि तत्रैव ||

उत्तमो दिव्यभावश्च वीरभावश्च मध्यमः |
अधमः पशुभावश्च देवि ! सत्यं न संशयः |
पशुभावे स्तिता मन्त्राः केवलं वर्णरूपिणः |
कर्त्तव्यञ्च महेशानि ! देवताभावबोधनम् |
तस्मात् खलु प्रयत्नेन वीरभावेन साधयेत् |
दृष्ट्वा कुलस्त्रियं देवि ! कुलवृक्षं विशेषतः |
कुलगेहं तथा देवि ! नमस्कुर्याद्वरानने ! |
कुलस्त्रियं महेशानि ! तन्त्रमन्त्रविशारदाम् |
दूतीं यागरताञ्चैव वेश्यां वा पुंश्चलीं तथा |
बृद्धां वा युवतीं वापि नमस्कुर्याद्वरानने ! ||

पिच्छिलातन्त्रे दशमपटले |
दिव्यवीरौ महाभावावधमः पशुभावकः |
वैष्णवः पशुभावेन पूजयेत् परमेश्वरम् |
शक्तिमन्त्रे वरारोहे ! पशुभावो भयानकः |
दिव्यैर्वीरैर्महेशानि ! जायते सिद्धिरुत्तमा |
दिव्ये वीरे न भेदोऽस्ति भेदो वीरो महोद्धतः |
दिव्यवीरौ प्रवक्ष्यामि सर्वभावोत्तमौ मतौ |
विना शक्तिं न पूजास्ति मत्स्यमांसं विना प्रिये ! |
मुद्राञ्च मैथुनञ्चापि विना नैव प्रपूजयेत् |
स्त्रीभगं पुजनाधारः स्वर्णरूप्यात्मकः कुशः |
अभावे सर्वद्रव्याणामनुकल्पः कलौ युगे |
अथवा परमेशानि ! मानसं सर्वमाचरेत् |
स्नानन्तु मानसं प्रोक्तं वैदिको मानसः सदा |
यत्र भुक्त्वा महापूजा मानसं भोजनन्तु तत् |
स्वकीयां परकीयां वा मानसन्तु रमेत् स्त्रियम् |
मानसं मद्यमांसादि स्वीकुर्यात् साधकोत्तमः |
स्वयम्भूकुसुमं तद्वन्मानसं समुपाचरेत् |
मानसं भगरोमादि मानसं भगपूजनम् |
सर्वन्तु मानसं कुर्यात्तेन सिध्यति साधकः |
न कलौ प्रकृताचारः संशयात्मनि नैव सः |
मानसेनैव भावेन सर्वसिद्धिमुपालभेत् ||

निगमकल्पद्रुमे द्वितीयपटले ||

पशुनाञ्चैव वीराणां दिव्यानां परमेश्वर ! |
आरम्भश्च समाप्तिश्च तेषाञ्चैव पृथक् पृठक् |
पशुभावसमाप्तिश्च वीरभावावरब्धकः |
दिव्यावरब्धको वीरभावनाशक एव च |
यथा बाल्यं यौवनञ्च वृद्धभावः क्रमात् प्रियम् |
यथा पुष्पं फलञ्चैव वीजञ्चैव यथाक्रमम् |
यथा दुग्धं नवनीतं घृतञ्चेति महेश्वर ! |
यथा सङ्कल्पकार्यञ्च दक्षिणा चेति भरव ! |
तथा भावत्रयं ज्ञेयमारम्भारम्भजन्मकम् ! अज्ञानप्रभवं सर्वं जगत् स्थावरजङ्गमम् |
अज्ञानरज्जुभिर्बद्धः सृजामीह पुनः पुनः |
अज्ञानञ्च क्रियामूलं यावत्तत्त्वं न विन्दति |
तत्त्वे समुद्गते किञ्चित् क्रियायां नास्ति वासना |
वासनारहितो यस्तु ह्यभिषेकः प्रपूर्वकः |
तस्यापि कारणं कार्यं शृणु मद्वाक्यसम्भवम् |
अत एव महेशानि ! वीराणां कारणं पशुः |
दिव्यानां वीरभावश्च तस्मात् किञ्चिन्न विद्यते |
मद्वाक्यं त्यजतः कोऽपि यदि शुद्धिं न चाचरेत् |
कार्यं न विद्यते तस्य यथेष्टकुलभागिनः |
अत एव वामकेश्वरतन्त्रे एकपञ्चाशत्पटले ||

जन्ममात्रं पशुभावं वर्षषोडशकावधि |
ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत् |
द्वितीयांशे वीरभावस्तृतीयो दिव्यभावकः |
एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये ! |
ऐक्यज्ञानात् कुलाचारो येन देवमयो भवेत् |
भावो हि मानसो धर्मो मनसैव सदाभ्यसेत् |
आश्रमिणो भावग्रहणस्य प्रागुक्तत्वेनाश्रमज्ञानाकाङ्क्षायामाश्रमा निरूप्यन्ते |
तत्रापि ब्रह्मचर्यस्य प्रथमोपस्थितत्वात् तदेवादौ निरूप्यते ||

निर्वाणतन्त्रे चतुर्दशपटले |
यथा |
ब्रह्मार्च्चनं प्रवक्ष्यामि शृणु देवि ! समाहिता |
यस्याचरणमात्रेण नरो नारायणो भवेत् |
गैरिकं वसनं कुर्याद् देवताध्यानतत्परः |
फलमूलाहाररतो दुग्धं गव्यं समाहरेत् |
शाल्युद्भवं न गृह्णियात् शूद्रानीतं तथा जलम् |
ऋतुकालं विना नैव

स्वकान्तागमनं चरेत् |
गृहस्थोऽपि महेशानि ! ब्रह्मचारी सदा गुरुः |
उदासीनः कदाचिद्वै गुरुकर्माधिपो भवेत् |
तस्य शिष्यस्य कल्याणं कदाचिन्नास्ति चण्डिके ! |
नखलोमादिकं देवि ! न त्याज्यं ब्रह्मचारिणा |
सदैव तु सदा भावं सदैव ध्यानतत्परः |
त्रिशूलं धारयेच्चैकं त्रिशिखां वापि धारयेत् |
ताम्रयुक्तञ्च रुद्राक्षं कर्णयुग्मे निवेशयेत् ||

ताम्रधारणस्य फलमुक्तम् योगसारे द्वितीयपरिच्छेदे ||

बाहौ च धारणात्ताम्रं ब्रह्महत्यां व्यपोहति |
हस्तयोर्धारणादेव सर्वतीर्थफलं लभेत् |
कर्णयोर्धारणात्ताम्रं कोटितीर्थफलं लभेत् |
कण्ठे च धारणात्ताम्रं योगी मोक्षमवाप्नुयात् ||

ताम्रमिति षष्ठ्यर्थे द्वितीया ||

ब्रह्मचर्यफलमुक्तं निर्वाणतन्त्रे चतुर्दशपटले ||

उद्देशे विद्यते देवि ! ब्रह्मचारी तपोधनः |
तद्देशे च स्थिरा लक्ष्मीर्जायते नात्र संशयः ||

वस्तुतस्तु कौलस्य ब्रह्मचर्याश्रमो नास्ति ||

तदुक्तं महानिर्वाणतन्त्रे अष्टमोल्लासे ||

श्रीसदाशिव उवाच ||

चत्वारः कथिता वर्णा आश्रमा अपि सुव्रते ! |
आचारश्चापि वर्णानामाश्रमाणां पृथक् पृथक् |
कृतादौ कलिकाले तु वर्णाः पञ्च प्रकीर्त्तिताः |
ब्राह्मणः क्षत्रियो वैष्यः शूद्रः सामान्य एव च ! एतेषां सर्ववर्णानामाश्रमौ द्वौ महेश्वरि ! |
तेषामाचारधर्मांश्च शृणुष्वाद्ये ! वदामि ते |
पुरैव कथितं तावत् कलिसम्भवचेष्टितम् |
तपःस्वाध्यायहीनानां नृणामल्पायुषामपि |
क्लेशप्रयासशक्तानां कुतो देहपरिश्रमः |
ब्रह्मचर्यासमो नास्ति वानप्रस्थोऽपि न प्रिये ! |
गृहस्थो भिक्षुकश्चैव आश्रमौ द्वौ कलौ युगे |
इति लिखितस्तु स आश्रमः क्वचित् क्वचित् व्यवहारदर्शनादिति ||

अथ गार्हस्थ्यम् ||

निर्वाणतन्त्रे ||

अथ वक्ष्ये गृहस्थस्य लक्षणं शृणु चण्डिके ! |
पाठो होमश्चातिथीनां सेवनं देव पूजनम् |
पितृश्राद्धं कुलाचारं तत्त्वज्ञानं समाचरेत् |
निजकान्ता सदा पूज्या निजकान्ता हि देवता |
मानसं पूजनं कुर्यात् मानसं जपमाचरेत् |
मानसो हि महाधर्मो मानसं नास्ति पातकम् ||

महानिर्वाणतन्त्रे ||

गृहस्थस्य क्रियाः सर्वा आगमोक्ताः कलौ शिवे ! |
नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् |
विप्राणामितरेषाञ्च वर्णानामितरे कलौ |
उभयत्राश्रमे देवि ! सर्वेषामधिकारिता |
सर्वेषामेव संस्कारकर्माणि शैववर्त्मना |
कर्मणामितरेषाञ्च कर्मलिङ्गं पृथक् पृथक् |
जातमात्रो गृहस्थः स्यात् संस्कारादाश्रमी भवेत् |
गाहस्थ्यं प्रथमं कुर्याद् यथाविधि महेश्वरि ! |
तत्त्वज्ञाने समुत्पन्ने वैराग्यं जायते यदा |
तदा सर्वं परित्यज्य सन्न्यासाश्रममाश्रयेत् |
विद्यामुपार्जयेद्बाल्ये धनदारांश्च यौवने |
प्रौढे धर्म्याणि कर्माणि चतुर्थे प्रव्रजेत् सुधीः |
मातरं पितरं वृद्धं भार्याञ्चैव पतिव्रताम् |
शिशुञ्च तनयं हित्वा मावधूताश्रमं व्रजेत् |
मातॄः पितृन् शिशून् दारान् स्वजनान् बान्धवानपि |
यः प्रव्रजति हित्वैतान् स महापातकी भवेत् |
मातृहा पितृहा स स्यात् स्त्रीबधी विप्रघातकः |
असन्तर्प्य तु पित्रादीन् यो गच्छेद्भिक्षुकाश्रमे |
ब्राह्मणो विप्रभिन्नश्च स्वस्ववर्णोक्तसंस्क्रियाम् |
शैवेन वर्त्मना कुर्यादेष धर्मः कलौ युगे ||

श्रीदेव्युवाच ||

को वा धर्मो गृहस्थस्य भिक्षुकस्य च किं विभो ! |
विप्रस्य विप्रभिन्नानां संस्कारादीनि मे वद ||

श्रीसदाशिव उवाच ||

गार्हस्थ्यं प्रथमं धर्मं सर्वेषां मनुजन्मनाम् |
तदेव कथयाम्यादौ शृणुकौलिनि ! तत्त्वतः |
ब्रह्मनिष्ठो गृहस्थः स्याद् ब्रह्मज्ञानपरायणः |
यद्यत् कर्म प्रकुर्वीत तद्ब्रह्मणि

समर्पयेत् |
न मिथ्याभाषणं नान्यत्र चासाध्यं समाचरेत् |
देवतातिथिपूजासु गृहस्थो निरतो भवेत् ||

अतिथिर्यथा नारदपञ्चरात्रे षष्ठाध्याये ||

अतिथिः पूजितो येन विश्वञ्च तेन पूजितम् |
अतिथिर्यस्य तुष्टो हि तस्य तुष्टो हरिः स्वयम् |
अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः |
तीर्थान्येनानि सर्वाणि पुण्यानि च ब्रतानि च |
तपांसि यज्ञाः सत्यञ्च शीलं धर्मः सुकर्म च |
अपूजितैरतिथिभिः सार्द्धं सर्वैः प्रयान्ति ते |
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते |
पितरस्तस्य देवाश्च पुण्यधर्महुताशनाः |
यशः प्रतिष्ठा लक्ष्मीश्चापीष्टदेवो गुरुस्तथा |
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापञ्च पूरुषम् |
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः |
विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च |
सत्यघ्नैश्च कृतघ्नैश्च कीर्त्तिघ्नैः पापिभिस्तथा |
आलापवारकैश्चैव कन्याविक्रयिभिस्तथा |
सोमापहारिभिश्चैव मिथ्यासाक्ष्यप्रदातृभिः |
ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्य हारिभिः |
वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः |
शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः |
श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातकैः |
गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः |
विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च |
अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः |
पितृमातृघातिभिश्च शरणागतघातिभिः |
ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः |
तुल्यदोषो भवत्येभिर्यस्यातिथिरनर्चितः |
मातरं पितरञ्चैव साक्षात् प्रत्यक्षदेवताम् |
सदा गृही निषेवेत सदा सर्वप्रयत्नतः |
तुष्टायां मातरि शिवे ! तुष्टे पितरि पार्वति ! |
तव प्रीति र्भवेद्देवि ! परं ब्रह्म प्रसीदति |
त्वमाद्ये ! जगतां माता पिता ब्रह्म परात् परम् |
युवयोः प्रीणनं यत् स्यात् तस्मात् किं गृहिणां तपः |
आसनं भोजनं वस्त्रं पानं भजनमेव च |
तत्तत्

समयमाज्ञाय मात्रे पित्रे नियोजयेत् |
श्रावयेन्मृदुलां वाणीं सर्वदा प्रियमाचरेत् |
पित्रो राज्ञानुसारी स्यात् स पुत्रः कुलपावनः |
औद्धत्यं परिहासञ्च तद्वर्ज्यं बहुभाषणम् |
पित्रोरग्रे न कुर्वीत यदीच्छेदात्मनो हितम् |
मातरं पितरं वीक्ष्य नत्वोत्तिष्ठेत् ससम्भ्रमः |
विनाज्ञया नोपविशेत् संस्थितः पितृशासने |
विद्याधनमदोन्मत्तो यः कुर्यात् पितृहेलनम् |
स याति नरकं घोरं सर्वधर्मवहिष्कृतः |
मातरं पितरं पुत्रदारानतिथिसोदरान् |
हित्वा गृहीन भुञ्जीयात् प्राणैः कण्ठगतैरपि |
वञ्चयित्वा गुरुन् बन्धून् यो भुङ्क्ते स्वोदरम्भरिः |
इहैव लोके गर्ह्योऽसौ परत्र नारकी भवेत् |
गृहस्थो गोपयेद्दारान् विद्यामभ्यासयेत् सुतान् |
गोपयेत् स्वजनान् बन्दूनेष धर्मः सनातनः |
जनन्या वर्द्धिता देहो जनकेन प्रवर्द्धितः |
स्वजनैः शिक्षितः प्रीत्या सोऽधमस्तान् परित्यजेत् |
एषामर्थे महेशानि ! कृत्वा कष्टशतान्यपि |
पीणयेत् सततं यस्तु धर्मो ह्येष सनातनः |
स धन्यः पुरुषो लोके स कृती परमार्थवित् |
ब्रह्मनिष्ठः सत्यसन्धो यो भवेद्भुवि मानवः |
न भार्यां ताडयेत् क्वापि मातृवत् पालयेत् सदा |
न त्यजेद्घोरकष्टेऽपि यदि साध्वी पतिव्रता |
स्थितेषु स्वीयदारेषु स्त्रियमन्यां न संस्पृशेत् |
दुष्टेन चेतसा विद्वानन्यथा नारकी भवेत् |
विरले शयनं वासं त्यजेत् प्राज्ञः परस्त्रिया |
अयुक्तभाषणञ्चैव स्त्रियै शौर्यं न दर्शयेत् |
धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः |
सततं तोषयेद्दारान्नाप्रियं क्वचिदाचरेत् |
उत्सवे लोकयात्रायां तीर्थेष्वन्यनिकेतने |
न पत्नीं प्रेषयेत् प्राज्ञः पुत्रमात्यविवर्जिताम् |
यस्मिन् नरे महेशानि ! तुष्टा भार्या पतिव्रता |
सर्वं धर्मं कृतं तेन भवति प्रिय एव सः |
चतुर्वर्षावधि सुतान् लालयेत् पालयेत् पिता |
ततः षोडशपर्यन्तं गुणान् विद्याञ्च शिक्षयेत् |
विंशत्यब्दाधिकान् पुत्रान् प्रेरयेद्

गृहकर्मसु |
ततस्तान् तुल्यभावेन मत्वा स्नेहं प्रदर्शयेत् |
कन्याप्येवं पालनीया शिक्षणीयातियत्नतः |
देया वराय विदुषे धनरत्नसमन्विता |
एवं क्रमेण भ्रातॄंश्च स्वसृभ्रातृसुतानपि |
ज्ञातीन् मित्राणि भृत्यांश्च पालयेत्तोषयेद्गृही |
ततः स्वधर्मनिरतानेकग्रामनिवासिनः |
अभ्यागतानुदासीनान् गृहस्थः परिपालयेत् |
यद्येवं नाचरेद्देवि ! गृहस्थो विभवे सति |
पशुरेव स विज्ञेयः स पापी लोकगर्हितः |
निद्रालस्यं देहयत्नं केशविन्यासमेव च |
आसत्तिमशने वस्त्रे नातिरिक्तं समाचरेत् |
युक्ताहारो युक्तनिद्रो मितवाङ्मितमैथुनः |
स्वच्छो नम्रः शुचिर्द्दक्षो युक्तः स्यात् सर्वकर्मसु |
शूरः शत्रौ विनीतः स्याद्बान्धवे गुरुसन्निधौ |
जुगुप्सितान्न मन्येत् नावमन्येत मानिनः |
सौहृदं व्यवहारांश्च प्रवृत्तिं प्रकृतं नृणाम् |
सहवासेन तर्के च विदित्वा विश्वसेत्ततः |
एष द्वेष्ट्युपरि क्षुद्रात् समयं वीक्ष्य बुद्धिमान् |
प्रदर्शयेदात्मभावानैव धैर्यं विलङ्घयेत् |
स्वीयं यशः पौरुषञ्च गुप्तये कथितञ्च यत् |
कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् |
जुगुप्सितप्रवृत्तौ च लिखितेऽपि पराजयः |
गुरुणा लघुना वापि यशस्वी न विवादयेत् |
विद्याधनयशोधर्मान् यत्र मानमुपार्जयेत् |
व्यसनञ्चासतां सङ्गं मिथ्याद्रोहं परित्यजेत् |
अवस्थानुगताश्चेष्टाः समयानुगताः क्रियाः |
तस्मादवस्थां समयं वीक्ष्य कर्म समाचरेत् |
योगक्षेमरतो दक्षो धार्मिकः प्रियबान्धवः |
मितवाङ्मितहास्यः स्यान्मान्याग्रे तु विशेषतः |
जितेन्द्रियः प्रसन्नात्मा सुचिन्तः स्याद्दृढव्रतः |
अप्रमत्तो दीर्घदर्शी मात्रास्पर्शान् विशोधयेत् |
सत्यं मृदु प्रियं धीरो वाक्यं हितकरं वदेत् |
आत्मोत्कर्षं तथा निन्दां परेषां परिवर्जयेत् |
जलाशयश्च वृक्षश्च विश्रामगृहमध्वनि |
सेतुः प्रतिष्ठितो येन तेत लोकत्रयं जितम् |

सन्तुष्टौ पितरौ यस्मिन्ननुरक्ताः सुहृज्जनाः |
गायन्ति यद्यशो लोकास्तेन लोकत्रयं जितम् |
सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा |
कामक्रोधौ यस्य वश्यौ तेन लोकत्रयं जितम् |
शौचन्तु द्विविधं देवि ! वाह्माभ्यन्तरभेदतः |
ब्रह्मण्यात्मार्पणं यत्तत् शौचमान्तरिकं स्मृतम् |
अद्भिर्वा भस्मना वापि मलानामपकर्षणम् |
देहशुद्धिर्भवेद्येन वहिःशौचं तदुच्यते |
भस्मात्र याज्ञिकं श्रेष्ठं मृत्स्नापि मलवर्जिता |
निदान्ते मैथुनस्यान्ते त्यागे च मलमूत्रयोः |
भोजनान्ते मले स्पृष्टे वहिःशौचं विधीयते |
किन्त्वत्र बहुनोक्तेन शोचाशौचविधौ शिवे ! मनः पूतं भवेद्येन गृहस्थस्तु तदाचरेत् |
सन्ध्या त्रैकालिकी कार्या वैदिकी तान्त्रिकी क्रमात् |
उपासनादिभेदेन पूजां कुर्याद्यथाविधि ||

तथा |
अर्घ्यदानं दिनेशाय गायत्रीजपनं तथा |
अष्टोत्तरसहस्रं वा शतं वा दशधापि वा |
जपानां नियमो भद्रे ! सर्वत्राह्निककर्मणि |
शूद्रसामन्यजातीनामधिकारोऽस्ति केवलम् |
आगमोक्तविधौ देवि ! सर्वसिद्धिस्ततो भवेत् ||

निर्वाणतन्त्रे द्वितीयपटले ||

गृहस्थस्य दिव्यमूर्त्तिं चन्दनादि-विभूषिताम् |
सर्वेषां पितृरूपोऽसौ गृहस्थः साधुरूपकः |
सदा दानरतः श्रीमान् सदा यज्ञपरायणः |
स्थापयेत् पञ्च तत्त्वानि गेहमध्ये प्रयत्नतः |
तदैव सर्वसिद्धीशो भवत्येव न संशयः |
यस्मिन्मन्त्रे विचारोऽपि सिद्धादिगणदूषणम् |
तत्तत् सर्वं महेशानि ! गृहस्थस्य मुनिश्चितम् |
सुविचार्य महामन्त्रं गृह्णीयात् साधकोत्तमः |
एकाक्षरे तथा कूटे मालामन्त्रादिके तथा |
विचारो नास्ति देवेशि ! स्वप्नलब्धे तथैव हि |
तथापि च गृहस्थस्य सुविचार्यो महामनुः |
दण्डिनो भूषणं नास्ति सर्वमन्त्रस्य दीक्षणे |

गृहस्थाश्रममासाद्य तत्त्वज्ञानेषु यो रतः |
स मुक्तः सर्वपापेभ्यः स तु साक्षान्महेश्वरः |
अन्नदानेन यत् पुण्यं तोयदानेन यत् फलम् तत्तत्सर्वं गृहस्थस्य नान्यस्य सुरसुन्दरि ! ||

नित्यातन्त्रे अष्टमपटले ||

देव्युवाच ||

कथितं परमेशान ! कौलाचारस्य लक्षणम् |
वर्त्तते तत्कथं नाथ ! गृहस्थेषु च राजसु |

ईश्वर उवाच |

सत्त्वं रजस्तम इति गुणत्रयविभेदतः |
सर्वेषु वर्त्तते देवि ! कौलधर्मः सनातनः |
सत्त्वं स्याद्भक्तियोगेन सर्वोत्पत्त्येककारणम् |
अत एव महेशानि ! गृहस्थाः सात्त्विकामताः |
रजः स्यात् कर्मयोगेन कर्मकर्त्ता महीपतिः |
अत एव महेशानि ! राजा राजसिकः स्मृतः |
तमोभावस्थितः शम्भुर्योगीशः परमेश्वरः |
अत एव तमोभावमाश्रयेत् सङ्गवर्जितः |
शक्तिचक्रं राजचक्रं वीरचक्रं महेश्वरि ! |
अत एव प्रकर्त्तव्यं क्रमेण परमेश्वरि ! ||

कुब्जिकातन्त्रे सप्तमपटले ||

अशोकं विल्ववृक्षं च शिवां चैव सुरेश्वरि ! दृष्ट्वा प्रणामं कुर्याच्च सर्वकामार्थसिद्धये |
उलूकं शङ्खचिल्लञ्च गृध्रं चैव सुरेश्वरि ! |
नमस्कुर्यान्महाकालीं युद्धेषु जयमालभेत् |
चतुष्पथं श्मशानञ्च नमस्कुर्याद्विशेषतः |
तन्त्रज्ञं चावधूतञ्च नमस्कुर्याद्वरानने ! |
उपासकं सदा दृष्ट्वा मधुरं भाषणं चरेत् |
समयाञ्च विना देवि ! न सिद्धिः स्यात् कदाचन |
तस्माच्चैव प्रयत्नेन गृह्णीयान्नात्र संशयः ||

अथ यत्याश्रमः ||

निर्वाणतन्त्रे त्रयोदशपटले ||

सर्वलक्षणसंयुक्तो ब्राह्मणो गमनं चरेत् |
गत्वा च दण्डिनिकटे प्रणमेद्दण्डवद्भुवि |
त्वमेव देवदेवेश ! त्वमेव त्राणकारकः |
त्वमेव जगतां वस्ता पाहि मां शरणागतम् |
वस्तेत्यत्रान्तर्भूतण्यर्थो विवक्षितो वस्ता वासयितेति यावत् |
इति श्रुत्वा दण्डधारी पप्रच्छ सादराज्जनम् |
कस्त्वं कस्य सुतस्त्वं हि केन वागमनं वद |
श्रुत्वा तद्वचनं विप्रः

प्रोवाचात्मनिवेदनम् |
विप्रवंशे समुद्भूतो ह्यमुकोऽहं विवेकवान् |
नास्ति मे तु पिता साक्षान्नास्ति मे स्त्रीसुतादिकम् |
मृतौ च मातापितरौ मृता भ्रातादयः सुताः |
पश्चात् स्वकान्तानाशे तु ह्यहमत्यन्ततापवान् |
अत एव हि भोः स्वामिन् ! देहि मे परमाश्रमम् |
एतेन पित्रादिषु तिष्ठत्सु यत्याश्रमो न भवतीति सूचितम् |
तान् विहाय दण्डस्य धर्त्तुर्दोषकथनगर्भदण्डिवचनं तत्रैव ||

सत्यं कुरु द्विजश्रेष्ठ ! यदुक्तं वै ममान्तिके |
मिथ्याभाषणदोषेण ब्रह्मवर्त्म विवर्जितम् |
भवत्येव न सन्देहो द्विज ! मत्पुरतो वद |
स्थितायां यौवनयुतकान्तायां परमेश्वरि ! |
सर्वं हि विफलं तस्य यः कुर्याद्दण्डधारणम् |
विद्येते पितरौ देवि ! यः कुर्याद्दण्डधारणम् |
सन्न्यासो विफलस्तस्य रौरवाख्यं गमिष्यति |
विद्यते बालभावेन यस्य कान्ता सुतस्तथा |
सन्न्यासधारणं तस्य वृथा हि परमेश्वरि ! |
स गुरुश्चापि शिष्यश्च रौरवाख्यं प्रपद्यते |
इत्यादि दृढवाक्यञ्च श्रुत्वा दण्डी जितेन्द्रियः |
सन्न्यासदानं तस्यैव दद्यान्मुक्तिञ्च शाश्वतीम् ||

इत्यादिना दोषदर्शनेन पुनः पित्रादिमरणनिश्चायकं दृढवाक्यं श्रुत्वा तस्य सन्न्यासदानमर्पयेदित्यन्वयः ||

तत्प्रकारमाह |
आदौ दशाक्षरं मन्त्रं प्रथमे श्रावयेद्गुरुः ||

श्रीशङ्कर उवाच ||

शृणु देवि ! प्रवक्ष्यामि मन्त्रं दशाक्षरं परम् |
यस्य श्रवणमात्रेण मूढोऽपि विष्णुरूपधृक् |
पुंमन्त्रोऽपि च देवेशि ! शक्तिमन्त्रं जपेद् यदि |
अज्ञात्वा तं महामन्त्रं स भवेद्ब्रह्मराक्षसः |
अज्ञात्वा तं महामन्त्रं तत्त्वज्ञानी भवेद् यदि |
तथापि नरकं गच्छेदिति वेदस्य सम्मतम् |
शृणु देवि ! प्रवक्ष्यामि दर्शनं मन्त्रमुत्तमम् |
मयावीजं बधूवीजं

लक्ष्मीः काली च पाशकम् |
गगनं पक्षिवीजञ्च वह्निकान्ता ततः प्रिये ! |
इति ते कथितं चण्डि ! दशाक्षरमनुत्तमम् |
यज्ज्ञानादमरत्वञ्च लभते नात्र संशयः |
अस्य ग्रहणमात्रेण नरो नारायणो भवेत् |
अस्य प्रसादमात्रेण दण्डी निर्वाणतां व्रजेत् |
दण्डोपरि जपेदेतद्दशार्णं परमेश्वरि ! |
अस्मान्मन्त्रान्महामन्त्रा जायन्ते नात्र संशयः |
सर्वो देवसमाचारो दशार्णाज्जायते ध्रुवम् |
महाविद्योपासकश्च दशार्णं न हि पश्यति |
इह लोके दरिद्रश्च परे च ब्रह्मराक्षसः |
तस्माद् यत्नेन देवेशि ! दशार्णं श्रावयेद्गुरुः |
केवलं श्रवणं कुर्यान्न जपेत् साधकोत्तमः |
श्रावयेद् यो दशार्णञ्च स नरो गुरुसत्तमः |
मन्त्रदाता यदा देवि ! तवैव स गुरुः स्मृतः |
दशार्णदाता यो देवि ! स एव परमो गुरुः |
यथामरतरङ्गिण्या असमाः सकलापगाः |
दशार्णस्य समो नास्ति मन्त्रस्य सुरपूजिते ! ||

तथा ||

अतः परम् प्रवक्ष्यामि यद्रूपं दण्डधारणम् |
साधुरूपो गृहस्थश्च ब्राह्मणो ब्रह्मवादकः |
सर्वमायासमात्यक्तः सर्वधर्मपरायणः |
जितेन्द्रियो जितक्रोधः समत्वं सर्वजातिषु |
पुत्रे रिपौ समत्वञ्च सन्ध्यायां पौष्टिके तथा |
कायप्राणे न सम्बन्धो मृत्यरद्य युगान्तिके |
ब्रह्मज्ञानं विना ज्ञानं यस्य चित्ते मनोरमम् |
सन्न्यासधारणं कार्यं विप्राणां मुक्तिहेतवे |
यो विप्रो धारयेद्दण्डं सैव नारायणः स्वयम् |
चतुर्भुजाः प्रजायन्ते दण्डधारणमात्रतः |
तत् श्रुत्वा च महारम्भगमनं कारयेत् |
क्रोशं वा क्रोशयुग्मं वा वेगेन गमनञ्चरेत् |
गुरुणा ह शिष्येण पृष्ठे पृष्ठे विधानतः |
तिष्ठ तिष्ठ महाबाहो ! मां त्यक्त्वा नहि गच्छतु |
शिष्यः परमहंसस्त्वं त्वत्समो नास्ति भूतले |
क्षन्तव्यमपराधं मे त्वमेव विष्णुरूपधृक् |
त्वमेव जगतां वन्द्यस्त्वमेव सर्वपूजितः |
त्वमेव परमो हंसस्तिष्ठ

तिष्ठेति मा व्रज |
स शिष्यो दण्डिना देवि ! इति वाक्यं वदेद्यतः अतः स परमो हंसः पथि शेते प्रमोहितः |
तस्यैव दर्शनार्थाय चान्तरीक्षे च देवताः |
सस्त्रीकाः सपरीवाराश्चायान्ति दिग्विदिक्षु च |
एतस्मिन् समये दण्डी सान्त्वयेच्छिष्यमुत्तमम् |
फुत्कारं बहुशो दत्वा मन्त्रेणानेन सुव्रतः |
फुत्कारैर्वायुवेगैश्च पुनः प्राणान् प्रयोजयेत् |
जन्मान्तरञ्च तस्यैव तत्क्षणे जायते किल |
जन्मान्तरं यमालोक्य संस्कारमाचरेद्गुरुः |
दण्डान्तिके समानीय अन्नप्राशनमाचरेत् |
अमुकस्त्वं समाभाष्य पुष्पं वह्नौ विनिक्षेपेत् |
इति नाम्ना तु संस्थाप्य महासंस्कारमाचरेत् |
ततोऽपि दण्डिना देवि ! शिष्याय ज्ञानहेतवे |
शृणु शिष्य ! महाधीर ! मद्वाक्यं हृदये कुरु |
जन्मान्तरन्तु तस्यैव प्राणाधिकं विकारयेत् |
मृतदेहस्वरूपोऽयं शरीरोऽयं न संशयः |
विरतो भव सर्वत्र तोषान्नाहारचेष्टया |
ब्राह्मणेनैव यद्दत्तं तन्मात्रभोजनं कुरु |
पञ्चतत्त्वं सदा सेव्यं गुप्तभावो जितेन्द्रियः |
सदैव मानसीं पूजां सदा मानसतर्पणम् |
त्रिसन्ध्यं मानसं योगं नाभिकुण्डे प्रयत्नतः |
सदैव मानसं भोगं त्यागं कुरु प्रयत्नतः |
षड्वर्गेषु जितो भूत्वा नरो नारायणः स्वयम् |
भवत्येव न सन्देहो दण्डधारणमात्रतः |
पितृवंशे सप्तदश मातृवंशे त्रयोदश |
कान्तायाः सप्तमश्चैव लक्ष्मीनारायणो भवेत् |
इति श्रुत्वा वचस्तस्य शिष्यश्चैवाब्रवीद्वचः |
यदुक्तं मयि मुक्त्यर्थं तत्करोमि निरन्तरम् |
पञ्चतत्त्वं सदा सेव्यं कस्माल्लाभो वदस्व मे |
यत्रैव वर्त्तते दण्डी बहुशिष्यसमावृतः |
तत्र गत्वा प्रयत्नेन बहुशिष्यं विचेष्टय |
अथवा वीरमध्ये तु यत्नेन गमनं चर |
तत्त्वज्ञानं गृहस्थस्य सन्निधाने व्रजेत् किल |
सुदूरमपि गन्तव्यं यत्रास्ते कुलनायकः |
भिक्षुचर्या न च स्वार्थं देवतायाः कृते पुनः |

आचार्यपत्नीं दृष्ट्वा तु भिक्षां कुर्यात् समाहितः |
हे मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् |
एवमुक्त्वा ततो दण्डी महासंस्कारमाचरेत् |
दण्डान्तिके समानीय होमयेद्विधिपूर्वकम् |
ततो हुमेत् करं धृत्वा आज्यैरष्टाहुतीः पुनः ||

विपरीतक्रमेणैव कुर्यादङ्गविशोधनम् |
ततः कुर्यात् प्रयत्नेन अन्तर्यज्ञोपवीतकम् |
शिखां तस्य शिखां मन्ये पूगमध्ये विधारयेत् |
मूलेन यज्ञसूत्रन्तु तस्मिन्नेव निवेशयेत् |
घृतैर्मृत्तिकया पूगं विलिप्य शोधयेत्ततः |
तत्पूगं मूलमन्त्रेण कुण्डमध्ये विनिक्षिपेत् |
पूर्णाहुतिं ततो दद्यात् तत्पूगमानयेत् सुधीः |
सयज्ञसूत्रं सशिखं तत्पूगं प्रेषयेत् प्रिये ! |
मूलमन्त्रं जपेत्तत्र गजान्तकसहस्रकम् |
ततश्चश्रावयेन्मन्त्रं कालिकायाश्च सुन्दरि ! |
अथवा श्रावयेन्मन्त्रं ताराया दुर्लभं परम् |
मूलमन्त्रं समुच्चार्य पूगभस्म प्रयत्नतः |
भक्षणात् तत्क्षणे साक्षादन्तर्यज्ञोपवीतवान् |
भवत्येव न सन्देहो नरो नारायणः स्वयम् |
विल्वदण्डं समानीय वंशस्यैकं समानयेत् |
विल्वदण्डे न्यसेन्न्यासान् कालिकायाः प्रयत्नतः |
जीवन्यासं ततः कृत्वा दण्डे देवीं विचिन्तयेत् |
विल्वे स्थितञ्च चैतन्यम् वंशदण्डे नियोजयेत् |
इष्टदेवीस्वरूपोऽयं दण्डश्च परमेश्वरि ! |
शिष्यस्य दक्षिणे हस्ते दण्डस्थापनमाचरेत् |
कमण्डलुं समानीय वारुणं प्रजपेत् सुधीः |
वारुणीं निक्षिपेत्तत्र ततो मूलमनुं जपेत् |
अष्टोत्तरशतं जप्त्वा तस्य वामकरे न्यसेत् |
गैरिकं कपिलं वस्त्रं यत्नेन परिधापयेत् |
दण्डधारणमात्रेण नरो नारायणी भवेत् |
अद्यावधि महामायां दण्डोपरि विभावय |
कुरु पूजां महाकाल्या दण्डोपरि हृदा ततः |
साक्षान्नारायणस्त्वं हि धर्माधर्मपरो भव |
तव माता पिता स्वामी सर्वं दण्डान्तिके स्थितम् ||

इति परमाश्रमग्रहणम् ||

दण्डिनो भिक्षाचरणप्रकारस्तु तत्रैव ||

सुदूरं गमनं गेहे गृहस्थस्य द्विजस्य च |
नारायणं समाभाष्य द्वारे तस्य व्रजेत् सुधीः |
दण्डिगमनानन्तरं गृहस्थकर्त्तव्यमाह तत्रैव ||

इति श्रुत्वा गृहस्थश्च पुटाञ्जलिपरो भवेत् |
द्वारे च दण्डिनं दृष्ट्वा प्रणमेद्ब्रह्मणो वरः |
भिक्षां दद्यात् प्रयत्नेन मधु मांसं विना प्रिये ! |
आदाय भिक्षां देवेशि ! चौरवद्गमनं चरेत् ||

दण्डिनोऽवस्थितिप्रकारोऽपि तत्रैव ||

गृहस्थस्यालये देवि ! रात्रिवासञ्च कारयेत् |
तथा हि नगरं गत्वा त्रिरात्रं वसतिं चरेत् |
तीर्थभूमिं ततो गत्वा सप्तरात्रं वसेत्ततः ||

दण्डिनं दृष्ट्वा ब्राह्मणस्य कर्त्तव्यमुक्तं तत्रैव ||

ब्राह्मणो दण्डिनं दृष्ट्वा प्रणमेद्विधिपूर्वकम् |
तोयपूर्णञ्च देवेशि ! किं वा शून्यं कमण्डलुम् |
दृष्टिमात्रेण तत्पात्रं पूर्णं कुर्याद्द्विजोत्तमः |
कमण्डलौ जलदानफलमपि तत्रैव ||

कुशाग्रमाणं विन्दुञ्च यदि यद्यात् कमण्डलौ |
समुद्रसप्तदानस्य फलं स लभते ध्रुवम् ||

जलदाननिन्दापि तत्रैव ||

दद्यान्न यदि मोहेन स भवेदापदाश्रयः |
त्रिंशद्वर्षसहस्राणि स पुनर्विटपी भवेत् |
इति ते कथितं चण्डि ! सन्न्यासधारणं परम् |
न वक्तव्यं पशोरग्रे प्राणान्तेऽपि कदाचन |
वस्तुतस्तु कलौ दण्डग्रहणं नास्ति ||

दीर्घकालं ब्रह्मचर्यं धारणञ्च कमण्डलोः |
इत्यादिभिर्वचनैरुद्वाहतत्त्वादिधृतैर्निषिद्धत्वात् ||

महानिर्वाणतन्त्रे अष्टमोल्लासेऽपि ||

भिक्षुकेऽप्याश्रमे देवि ! वेदोक्तं दण्डधारणम् |
कलौ नास्त्येव तत्त्वज्ञो यतस्तत् श्रौतसंस्कृतिः |
शैवसंस्कारविधिनावधूताश्रमधारणम् |
तदेव कथितं भद्रे ! सन्न्यासग्रहणं कलौ ||

नारदपञ्चरात्रे द्वितीयरात्रे च ||

कलौ च दण्डग्रहणं नैव निर्वाणकारणम् |
परं वेदविरुद्धञ्च विपरीताय कल्प्यते ||

इत्यादिभिः

प्रतिषिद्धत्वाच्च ||

यत्तु निर्वाणतन्त्रे चतुर्दशपटले ||

ब्राह्मणेन विनान्यत्र सन्न्यासो नास्ति चण्डिके ! |
कुर्यान्मोहेन योऽन्यत्र स वै पापाश्रयो नरः |
गुप्तभावेन देवेशि ! शृणु मत्प्राणवल्लभे ! |
सन्न्यासिना सदा सेव्यं पञ्चतत्त्वं वरानने ! |
द्वादशाब्दस्य मध्ये तु यदि मृत्युर्न जायते |
दण्डं तोये विनिक्षिप्य भवेत् परमहंसकः |
अवधूताचाररतो हंसः परमपूर्वकः |
सैव चानन्दविख्यातो द्वादशाब्दे सरस्वती ||

इति वचनमपि कलीतरपरम् |
सरस्वतीति दशानामावधूतमध्ये संज्ञाविशेषः तत्प्रमाणन्तु ||

तीर्थाश्रमवनारण्यगिरिपर्वतसागरः |
सरस्वती भारती च पुरीति दश कीर्त्तिताः ||

इति ||

एषां लक्षणवृहच्छङ्करविजये ||

विद्यारण्यस्वामिधृतं यथा |
त्रिवेणी सङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे |
स्नायात्तत्त्वार्थभावेन तीर्थनामा स उच्यते || १ ||

आश्रमग्रहणे प्रौढ आशापाशविवर्जितः |
यातायातविनिर्मुक्त एतदाश्रमलक्षणम् || २ ||

सुरम्ये निर्झरे देशे वने वासं करोति यः |
आशापाशविनिर्मुक्तो वननामा स उच्यते || ३ ||

अरण्ये संस्थितो नित्यमानन्दनन्दने वने |
त्यक्त्वा सर्वमिदं विश्वमानन्दलक्षणं किल || ४ ||

वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः |
गम्भीरचलबुद्धिश्च गिरिनामा स उच्यते || ५ ||

वसेत् पर्वतमूलेषु प्रौढो यो ध्यानधारणात् |
सारात्सारं विजानाति पर्वतः परिकीर्त्तितः || ६ ||

वसेत् सागरगम्भीरो वनरत्नपरिग्रहः |
मर्यादाञ्च न लङ्घेत सागरः परिकीर्त्तितः || ७ ||

स्वरज्ञानवशो नित्यं स्वरवादी कवीश्वरः |
संसारसागरे साराभिज्ञो यो हि सरस्वती || ८ ||

विद्याभरेण सम्पूर्णः सर्वभारं परित्यजेत् |
दुःखभारं न जानाति भारती परिकीर्त्तितः || ९ ||

ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः |
पदब्रह्मरतो नित्यं पुरीनामा स उच्यते || १० ||

केवलनिर्वाणतन्त्रदर्शिनस्त्वधुनापि

तथाचरन्ति |
अवधूततापि चतुर्थाश्रमिणामेव ||

तथा च योनितन्त्रे ||

चतुर्थाश्रमिणां मध्ये अवधूताश्रमो महान् |
तत्राहं कुलयोगेन महादेवत्वमागतः ||

अथावधूताश्रमः |
महानिर्वाणतन्त्रे अष्टमोल्लासे ||

श्रीसदाशिव उवाच ||

अवधूताश्रमो देवि ! कलौ सन्न्यास उच्यते |
विधिना येन कर्त्तव्यं तत्सर्वं शृणु साम्प्रतम् |
ब्रह्मज्ञाने समुत्पन्ने विरते सर्वकर्मणि |
अध्यात्मविद्यानिपुणः सन्न्यासाश्रममाचरेत् |
विहाय वृद्धौ पितरौ शिशुं भार्यां पतिव्रताम् |
त्यक्त्वा समर्थान् बन्दूंश्च प्रव्रजन्नारकी भवेत् |
सम्पाद्य गृहकर्माणि परितोष्यागमानपि |
निर्ममो निलयाद्गच्छेन्निष्कामो विजितेन्द्रियः |
आहूय स्वजनान् बन्दून् ग्रामस्थान् प्रतिवासिनः |
प्रीत्यानुमतिमन्विच्छेद्गृहाज्जिगमिषुर्नरः |
तेषामनुज्ञामादाय प्रणम्य परदेवताम् |
ग्रामं प्रदक्षिणीकृत्य निरपेक्षो गृहादि यत् |
मुक्तः संसारपाशैर्यः परमानन्दवृंहितः |
कुलावधूतं ब्रह्मज्ञं गत्वा सम्प्रार्थयेदिदम् |
गृहाश्रमे परं ब्रह्मन् ! ममैतद् विगतं वयः |
प्रसादं कुरु मे नाथ ! सन्न्यासग्रहणं प्रति |
निवृत्तगृहकर्माणं विचार्य विधिवद्गुरुः |
शान्तं विवेकिनं वीक्ष्य द्वितीयाश्रममादिशेत् |
ततः शिष्यः कृतस्नानो यतात्मा विहिताह्निकः |
ऋणत्रयविमुक्त्यर्थं देवर्षींश्चार्चयेत् पितॄन् |
देवा ब्रह्मा च विष्णुश्च रुद्रश्च सगणैः सह |
ऋषयः सनकाद्याश्चात्र्याद्या देवर्षयस्तथा |
अत्र ये पितरः पूज्या वक्ष्यामि शृणु तानपि |
पिता पितामहश्चैव प्रपितामह एव च |
माता पितामही देवि ! तथैव प्रपितामही |
मातामहादयोऽप्येवं मातामह्यादयोऽपि च |
प्राच्यामृषीन् यजेद्देवान् दक्षिणस्यां पितॄन् यजेत् |
मातामहान् प्रतीच्यान्तु पूजयेन्न्यासकर्मणि |
पूर्वादिक्रमतो दद्यादासनानां द्वयं द्वयम् |
देवादीन् क्रमतस्तत्राबाह्य पूजां समाचरेत् |

समर्च्य विधिवत्तेभ्यः पिण्डान् दद्यात् पृथक् पृथक् |
पिण्डप्रदानविधिना दत्त्वा पिण्डं यथाक्रमम् |
कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पितृदेवताः |
तृप्यध्वं पितरो ! देवा ! देवर्षिमातृका ! गणाः ! |
गुणातीतपदे यूयमनृणीकुरुताचिरात् |
आनृण्यमर्थयित्वा तु प्रणम्य च पुनः पुनः |
ऋणत्रयविनिर्मुक्तमात्मश्राद्धं प्रकल्पयेत् |
पितामह्यात्मैव सर्वेषां तत्पिता प्रपितामहः |
आत्मन्यात्मार्पणार्थाय कुर्यादात्मक्रियां सुधीः |
उत्तराभिमुखो भूत्वा पूर्ववत् कल्पितासने |
आवाह्यात्मपितॄन् देवि ! दद्यात् पिण्डं समर्चयेत् |
प्रागग्रान् दक्षिणाग्रांश्च पश्चिमाग्रान् यथाक्रमात् |
पिण्डार्थमास्तरेद्दर्भानुदग्रान् स्वस्वकर्मणि |
समाप्य श्राधकर्माणि गुरुदर्शितवर्त्मना |
मुमुक्षुश्चित्तशुद्ध्यर्थमिमंमन्त्रशतं जपेत् |
ह्रीं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् |
उपासनानुसारेण विद्यां मण्डलपूर्वकम् |
संस्थाप्य कलसं तत्र गुरुः पूजां समारभेत् |
ततस्तु परमं ब्रह्म ध्यात्वा शाम्भववर्त्मना |
विधाय पूजां ब्रह्मज्ञो ब्रह्मस्थापनमाचरेत् |
प्रागुक्तसंस्कृते वह्नौ सङ्कल्पोक्ताहुतिं गुरुः |
दत्त्वा शिष्यं समाहूय साकल्यं हावयेत्तु तम् |
आदौ व्याहृतिभिर्हुत्वा प्राणहोमं प्रकल्पयेत् |
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः |
तत्र होमं ततः कुर्याद्देहामेध्यस्य मुक्तये |
पृथिवी सलिलं वह्निर्वायुराकाशमेव च |
गन्धो रसश्च रूपञ्च स्पर्शः शब्दो यथाक्रमात् |
ततो वाक्पाणिपादाश्च पायूपस्थौ ततः परम् |
श्रोत्रं त्वक् नयनं जिह्वा घ्राणबुद्धीन्द्रियाणि च |
एतानि मे पदान्ते च शुध्यन्ति पदमुच्चरेत् |
ह्रीं ज्योतिरहं विरजा विपाप्मा भूयासं द्विठ इत्यपि |
चतुर्विंशतितत्त्वानि कर्माणि वैदिकानि च |
हुत्वाग्नौ निष्क्रियो देहं मृतवच्चिन्तयेत्ततः |

विभाव्य मृतवत्कार्यं रहितं सर्वकर्मणा |
स्मरन् तत् परमं ब्रह्म यज्ञसूत्रं समुद्धरेत् |
ऐं क्लीं हूं इति मन्त्रेण स्कन्धादुत्तार्य तत्त्ववित् |
यज्ञसूत्रं करे धृत्वा पठित्वा व्याहृतित्रयम् |
वह्निजायां समुच्चार्य घृताक्तमनले क्षिपेत् |
हुत्वैवमुपवीतञ्च कामवीजं समुच्चरन् |
छित्वा शिखां करे कृत्वा घृतमध्ये नियोजयेत् |
ब्रह्मपुत्त्रि ! शिखे ! त्वं हि बालरूपा सनातनी |
दीयते पावके स्थानं गच्छदेवि ! नमोऽस्तु ते |
कामं मायां कूर्चमन्त्रं वह्निजायामुदीरयेत् |
शिखामाश्रित्य पितरो देवा देवर्षयस्तथा |
सर्वाण्याश्रयकर्माणि निवसन्ति शिखोपरि |
ततः सन्तर्प्य ताः सर्वा देवर्षिपितृदेवताः |
शिखासूत्रपरित्यागाद्देही ब्रह्ममयो भवेत् |
यज्ञसूत्रशिखात्यागात् सन्न्यासः स्याद्द्विजन्मनाम् |
शूद्राणामितरेषाञ्च शिखां हुत्वैव संस्क्रिया |
ततो मुक्तशिखासूत्रः प्रणमेद्दण्डवद्गुरुम् |
गुरुरुत्थाप्य तं शिष्यं दक्षकर्णे वददिमम् |
तत्त्वमसि महाप्राज्ञ ! हंसः सोऽहं विभावय |
निर्ममो निरहङ्कारः स्वभावेन सुखं चर |
ततो घटञ्च वह्निञ्च विसृज्य ब्रह्मतत्त्ववित् |
आत्मस्वरूपं तं मत्वा प्रणमेच्छिरसा गुरुम् |
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नम्ः |
त्वमेव त्वदहमेव विश्वरूप ! नमोऽस्तु ते |
ब्रह्ममन्त्रोपासकानां तत्त्वज्ञानां जितात्मनाम् |
स्वमन्त्रेण शिखाच्छेदात् सन्न्यासग्रहणं भवेत् |
ब्रह्मज्ञानविशुद्धानां किं यज्ञैः श्राद्धपूजनैः |
स्वेच्छाचारपराणान्तु प्रत्यवायो न विद्यते |
ततो निर्द्द्वन्द्वरूपोऽसौ निष्कामः स्थिरमानसः |
निर्ममो विहरेच्छिष्यः साक्षाद्ब्रह्ममयो भुवि |
मुक्तो विधिनिषेधाभ्यां निर्योगक्षेममात्मवित् |
सुखदुःखसमो धीरो जितात्मा विगतस्पृहः |
स्थिरात्मा प्राप्तदुःखोऽपि सुखे प्राप्तेऽपि निःस्पृहः |
सदानन्दः शुचिः शान्तो निरपेक्षो निराकुलः |
नोद्वेजकः

स्याज्जीवानां सदा प्राणिहिते रतः |
विगतामर्षभीर्दान्तो निःसङ्कल्पो निरुद्यमः |
शोकद्वेषविमुक्तः स्याच्छत्रौ मित्रे समो भवेत् |
शीतवातातपसहः समो मानापमानयोः |
समः शुभाशुभे तुष्टो यदृच्छालाभवस्तुना |
निस्त्रैगुण्यो निर्विकल्पो निर्लोभः स्यात्त्वसञ्चयी |
यथा सत्यमुपाश्रित्य मृषा विश्वं प्रतिष्ठति |
आत्माश्रितस्तथा देहो जानन्नैवं सुखी भवेत् |
इन्द्रियाण्येव कुर्वन्ति स्वं स्वं कर्म पृथक् पृथक् |
आत्मा साक्षी विनिर्लिप्तो ज्ञात्वैवं मोक्षभाग्भवेत् |
धातुप्रतिग्रहं निन्दामनृतं क्रीडनं स्त्रिया |
रतस्तागमसूयाञ्च सन्न्यासौ परिवर्जयेत् |
सर्वत्र समदृष्टिः स्यात् कीटे दैवे तथा नरे |
सर्वं ब्रह्मेति जानीयात् परिब्राट् सर्वकर्मसु |
विप्रान्नं श्वपचान्नं वा यस्मात्तस्मात् समागतम् |
देशं कालं तथा चान्नमश्नीयादविचारयन् |
अध्यात्मशास्त्राध्ययनैः सदा तत्त्वविचारणैः |
अवधूतो नयेत् कालं स्वेच्छाचारपरायणः |
सन्न्यासिनां मृतं कायं दाहयेन्न कदाचन |
सम्पूज्य गन्धपुष्पाद्यैर्निखनेद्वाप्सु मज्जयेत् |
अप्राप्तयोगमर्त्त्यानां सदा कामाभिलाषिणाम् |
प्रभावाज्जायते देवि ! प्रवृत्तिः कर्मसङ्कुले |
अत्रापि ते सानुरक्ता ध्यानार्चा जपसाधने |
श्रेयस्तदेव जानन्तस्तत्रैव दृढनिश्चयः |
अतः कर्मविधानानि प्रोक्तानि चित्तशुद्धये |
नामरूपं बहुविधं तदर्थं कल्पितं मया |
ब्रह्मज्ञानं विना देवि ! कर्मसन्न्यसनं विना |
कुर्वन् कल्पशतं कर्म न भवेन्मुक्तिभाजनः |
कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः |
साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् |
यतेर्दर्शनमात्रेण विमुक्तः सर्वपातकात् |
तीर्थव्रततपोदानसर्वयज्ञफलं लभेत् ||

इत्यवधूताश्रमः ||

तद्भेदास्तु चतुर्दशोल्लासे ||

देव्यु वाच ||

द्विविधावाश्रमौ प्रोक्तौ गार्हस्थो भैक्षुकस्तथा |

किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः |
एतद्वेदितुगिच्छामि तत्त्वतः कथय प्रभो ! |
चतुर्विधावधूतानां लक्षणं सविशेषतः ||

श्रीसदाशिव उवाच ||

ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः |
गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ! |
पूर्णाभिषेकविधिना संस्कृता ये च मानवाः |
शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्चिते ! |
ब्रह्मावधूताः शैवाश्च साग्रिमाचारवर्त्तिनः |
विदध्यः सर्वकर्माणि शश्वदीरितवर्त्मना |
विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना |
निषिद्धमन्नं तोयञ्च न गृह्णीयुः कदाचन |
ब्रह्मावधूतकौलानां कौलानामभिषेकिणाम् |
प्रागेव कथितं धर्म्ममाचाराश्च वरानने ! |
स्नानं सन्न्यसनं पानं दानञ्च दाररक्षणम् |
सर्वमागममार्गेण शैवब्रह्मावधूतयोः ||

निर्वाणतन्त्रे चतुर्दशपटले ||

श्रीशङ्कर उवाच ||

शृणु देवि ! प्रवक्ष्यामि अवधूतो यथा भवेत् |
वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः |
यद्रूपं कथितं सर्वं सन्न्यासधारणं परम् |
तद्रूपसर्वकर्माणि प्रकुर्याद्वीरवल्लभः |
दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा |
तथा चैव प्रकुर्यात्तु वीरस्य मुण्डनं प्रिये ! |
असंस्कृतं केशजालमुक्तालम्बिकचोच्चयम् |
अस्थिमालाविभूषा वा रुद्राक्षानपि धारयेत् |
दिगम्बरो वा वीरेन्द्रश्चाथवा कौपिनी भवेत् |
रक्तचन्दनसिक्ताङ्गं कुर्याद्भस्माङ्गभूषणम् ||

योगसारे द्वितीयपरिच्छेदे ||

नृकरोटिं विधार्यञ्च काष्ठदण्डं तथा प्रिये ! परशुं चाजिनञ्चैव योगीव धारयेत् सदा |
खट्टाङ्गं धारयेद्योगी वासरूपकवाससी |
कपाले धारयेच्चन्द्रं चन्दनाद्यैर्विशेषतः |
ईषत्पिङ्गलकं वस्त्रं धारयेत् सर्वदा सुत |
सत इति शिवस्य सम्बोधनम् ||

सुदर्शनाख्यं यच्चक्रं तत्तु सन्धारयेद्बुधः |
विपञ्चीं कपिलञ्चैव

मड्डुडिण्डिमझर्झरान् |
वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः ||

निर्वाणतन्त्रे ||

क्षमा दानं ततो ध्यानं बालभावेन शैलजे ! |
शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः |
एवं भावपरो मन्त्रो हेतुयुक्तः सदाशिवः |
संविदासेवनं कुर्यात् सदा कारणसेवनम् |
भवेत् साक्षात् स पुरुषः सम्भु रूपो न संशयः ||

महानिर्वाणतन्त्रे ||

ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च |
कुलावधूतसंस्कारे पञ्चानामधिकारिता ||

निर्वाणतन्त्रे ||

निर्वाणमुक्तिमाप्नोति ब्राह्मणो वीरभावतः |
अवधूतः क्षत्रियश्च महायोगी न संशयः |
स्वरूपोऽपि भवेद्वैश्यः शुद्रोऽपि सह लोकवान् |
सम्पूर्णफलमाप्नोति विप्रो निर्वाणतां व्रजेत् |
त्रिभागं फलमाप्नोति क्षत्रियो वीरभावतः |
पादद्वयन्तु वैश्यस्य शुद्रस्य चैकपादकम् ||

दशानामवधूतानां प्रत्येकं नाम प्रागुक्तमिदानीमपि तेषां प्रधानत्वेनाङ्गीकरणार्थं संज्ञाकथनं गर्भलक्षणविशेषमाह तत्रैव ||

अवधूतस्य चाख्यानं शृणुष्व पर्वतात्मजे ! |
वनारण्ये भारती च गिरिश्च पुरिरेव च एकस्थाने तु संस्थित्य इष्टध्यानादिकं चरेत् |
यो मन्त्रदानं तपसा स वनः परिकीर्त्तितः |
स्रस्तकेशो जटाजूटः सदा वातूलवद्भवेत् |
अन्तर्योगी महावीरोऽरण्यसङ्गश्च शैलजे ! |
नानाशास्त्रेषु यो विज्ञो नानाकर्मविशारदः |
सदेष्टदेवीभावेन भावयेद्यो हि चामलाम् |
स एव भारती वीरो महाज्ञानी जितेन्द्रियः |
सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः |
सर्वत्र समभावेन भावयेद्यो नरोत्तमः |
इष्टदेवीं विना नास्ति स गिरिः परिकीर्त्तितः |
नानादेशेषु पीठेषु क्षेत्रेषु तीर्थभूमिषु |
भ्रमणं कुरुते नित्यं कुर्याद्यत्नेन पूजनम् |
देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा |
अन्तर्यागेषु यो निष्ठः स वीरः पुरिरेव च |
अवधूताश्रमे देवि ! यस्य भक्तिः सुनिश्चला |
तस्य तुष्टा भवेत् काली किं न सिध्यति भूतले |

अवधूतं समालोक्य शम्भुवत् पूजनं चरेत् |
शक्तितः पञ्चतत्त्वानि यत्नेनैव निवेदयेत् |
अशक्तः परमेशानि ! भक्तितः परितोषयेत् ||

महानिर्वाणतन्त्रे ||

भक्तावधूतो द्विविधः पूर्णापूर्णविभेदतः |
पूर्णः परमहंसाख्यः परिव्राडपरः स्मृतः |
कृतावधूतसंस्कारो यदि स्याज्ज्ञानदुर्बलः |
तदा लोकालये तिष्ठन्नात्मानं स तु शोधयेत् |
रक्षन् स्वजातिचिह्नञ्च कुर्वन् कर्माणि केवलम् |
सदा ब्रह्मपरो भूत्वा साधयेज्ज्ञानमुत्तमम् ||

मुण्डमालातन्त्रे द्वितीयपटले ||

अवधूतः शिवः साक्षादवधूतः सदाशिवः |
अवधूती शिवा देवी अवधूताशुभं शृणु |
चतुराश्रमिणां मध्ये अवधूताश्रमो महान् |
अवधूतश्च द्विविधो गृहस्थश्च चितानुगः |
सचेलश्चापि दिग्वासा विधियोनिविहारवान् |
सदारः सर्वदारस्थो अट्टहासो दिगम्बरः |
गृहावधूतो देवेशि ! द्वितीयस्तु सदाशिवः |
अवधूतस्य ओं तत्सदिति मन्त्रेण कर्म कर्त्तव्यमाह महानिर्वाणतन्त्रे ||

ओं तत्सन्मन्त्रमुच्चार्य सोऽहस्मीति चिन्तयन् |
कुर्यादात्मोचितं कर्म सदा वैराग्यमाश्रितः |
कुर्वन् कर्माण्यनासक्तो नलिनीदलनीरवत् |
यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः |
सर्वेषामींतत्सदिति निर्देशेन कर्मफलमाह तत्रैव ||

ओं तत्सदिति मन्त्रेण यो यत्कर्मसमाचरेत् |
गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत् |
तन्मन्त्रक्रियमाणकर्मणः सम्पूर्णत्वमपि तत्रैव ||

जपहोमप्रतिष्ठा च संस्काराद्यखिलाः क्रियाः |
ओं तत्सदिति निष्पन्नाः सम्पूर्णाः स्युर्न संशयः |
किमन्यैर्बहुभिर्मन्त्रैः किमन्यैर्भूरिसाधनैः |
ब्राह्म्येणानेन मन्त्रेण सर्वकर्माणि साधयेत् |
सुखसाध्यमबाहुल्यं सम्पूर्णफलदायकम् |
नास्त्ये तस्मान्महामन्त्रादुपायान्तरमम्बिके ! |
पुरप्रदेशे देहे वा लिखित्वा धारयेदिदम् |
गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत् |
निगमागमतन्त्राणां सारात्सारतरो मनुः |
ओं तत्सदिति देवेशि ! तवाग्रे सत्यमीरितम् |
चतुर्विधानां तत्त्वानामन्येवामपि वस्तुनाम् |
मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितम् |
पश्यन् सर्वत्र सद्रूपं जपंस्तत्सन्महामनुम् |
स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् |
जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् |
साक्षाद्ब्रह्ममयो देही सर्थमेनं जपेन्मनुम् |
त्रिपदोऽयं महामन्त्रः सर्वकारणकारणम् |
साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयम् |
युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा |
जप्त्वैतस्य महेशानि ! साधकः सिद्धिभाग्भवेत् ||

इति मन्त्रप्रशंसा ||

शैवावधुतस्य सर्व कर्मानधिकारमाह तत्रैव ||

शैवावधूतसंस्कारविधूताखिलकर्मणः |
नापि दैवे न वा पित्रे नार्षे कृत्येऽधिकारिता ||

अथ परमहंसः ||

चतुर्णामवधूतानां तुरीयो हंस उच्यते |
त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्वे शिवोपमाः |
हंसो न कुर्यात् स्त्रीसङ्गं न विधत्ते परिग्रहम् |
प्रारब्धमश्नन् विहरेन्निषेधविधिवर्जितः |
त्यजेत् स्वजातिचिह्नानि कर्माणि गृहमेधिनाम् |
तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः |
सदात्मभावसन्तुष्टः शोकमोहविवर्जितः |
निर्निकेतस्तितिक्षु स्यान्निःसङ्गो निरुपद्रवः |
नार्पणं भक्ष्यपेयानां न तस्य ध्यानधारणा |
मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः |
इति ते कथितं देवि ! चतुर्णां कुलयोगिनाम् |
लक्षणं सविशेषेण साधूनां मत्स्वरूपिणाम् |
एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् |
सर्वतीर्थफलावाप्तिर्जायते मनुजन्मनाम् ||

अथ आचारभेदाः ||

वेदाचारस्तु पूर्वमुक्तः |
अधुना वैष्णवादिरुच्यते |
नित्यातन्त्रे प्रथमपटले ||

अथ वक्ष्ये महेशानि! वैष्णवाचारमुत्तमम् |
यस्य विज्ञानमात्रेन कालः स्याद्विहिताञ्जलिः |
वेदाचारक्रमेणैव सदा नियमतत्परः |
मैथुनं तत्कथालापं कदाचिन्नैव कारयेत् |
हिंसां निन्दाञ्च कौटिल्यं वर्जयेन्मांसभोजनम् |
रात्रौ मालाञ्च यन्त्रञ्च स्पृशेन्नैव कदाचन |
विष्णुं समर्चयेद्देवि ! विष्णौ कर्म निवेदयेत् |
भावयेत् सर्वदा देवि ! सर्वं विष्णुमयं जगत् |
इति वैष्णवाचारः ||

तथा ||

शृणु चार्वङ्गि ! सुभगे ! शैवाचारं सुदुर्लभम् |
वेदाचारक्रमेणैव शैवे शाक्ते व्यवस्थितम् |
तद्विशेषं महादेवि ! केवलं पशुघातनम् |
इदानीं शृणु वक्ष्यामि दक्षिणाचारमद्रिजे ! |
दक्षिणामूर्त्तिमुनिना आश्रितोऽसौ यतः पुरा |
अत एव महेशानि ! दक्षिणाचार उच्यते |
प्रावर्त्तकोऽयमाचारः प्रथमो दिव्यवीरयोः |
वेदाचारक्रमेणैव पूजयेत् परमेश्वरीम् |
स्वीकृत्य विजयां रात्रौ जपेन्मन्त्रमनन्यधीः ||

तृतीयपटले ||

दिव्यवीरमतं भद्रे ! शृणु सर्वाङ्गसुन्दरि ! |
समासतः प्रवक्ष्यामि पञ्चमाचारमुत्तमम् |
दिवसेषु महेशानि ! ब्रह्मचारी समाहितः |
पञ्चतत्त्वानुकल्पेन रात्रौ देवीं समर्च्चयेत् |
अपरं शृणु वक्ष्यामि सारात्सारं परात्परम् |
ब्रह्मानन्दमये ज्ञाने तव स्नेहेन पार्वति ! |
वेदशास्त्रपुराणेषु गूढो ज्ञानसमुच्चयः |
काष्ठमध्ये यथा वह्निस्तथा देवि ! प्रतिष्ठितः |
अश्वमेधकृतौ नैव वाजिहत्या यथा भवेत् ! तथैव परमेशानि ! यज्ञे दोषो न विद्यते |
शुद्धाशुद्धं भवेच्छद्धं शोधनादेव पार्वति ! |
एतदेव महेशानि ! सिद्धान्ताचारलक्षणम् ||

समयाचारतन्त्रे द्वितीयपटले ||

स्नातः शुक्लाम्बरधरः शुद्धवेशधरस्तथा |
देवपूजारतो नित्यं तथा विष्णुपरो दिवा |
नक्तं द्रव्यादिकं सर्वं यथा लाभेन चोत्तमम् |
विधिवत् क्रियते भक्त्या स सर्वञ्च फलं लभेत् ||

कुलाचारं पश्चादुपपादयिष्यति ||

इत्याचारभेदाः ||

इति श्रीप्राणतोषिण्यां सप्तमे निर्गुणकाण्डे पशुभावादिनिर्णयादिरूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः ||

अथ पूर्णाभिषेकः ||

महानिर्वाणतन्त्रे दशमोल्लासे ||

श्रीसदाशिव उवाच ||

विधानमेतत् परमं गुप्तमासीज्जगत्त्रये |
गुप्तभावेन कुर्वन्तो नरा मोक्षं ययुः पुरा |
प्रबले कलिकाले तु प्रकाशे कुलवर्त्मनः |
नक्तं वा दिवसे कुर्यात् सप्रकाशाभिषेचनम् |
नाभिषेकं विना कौलः केवलं मद्यसेवनात् |
पूर्णाभिषिक्तः कौलः स्याच्चक्राधीशः कुलार्चकः |
तत्राभिषेकपूर्वाह्णे सर्वविघ्नोपशान्तये |
यथाशक्त्युपचारेण विघ्नेशं पूजयेद्गुरुः |
गुरुश्चेन्नाधिकारी स्याच्छुभपूर्णाभिषेचने |
तथाभिषिक्तकौलेन तत्सर्वं साधयेत् प्रिये ! |
खान्तार्णं विन्दुसंयुक्तं वीजमस्य प्रकीर्त्तितम् |
गणकोऽस्य ऋषिश्छन्दो नीवृद्विघ्नस्तु देवता |
कर्त्तव्यकर्मणो विघ्नशान्त्यर्थं विनियोगिता |
षड्दीर्घयुक्तमूलेन षडङ्गानि समाचरेत् |
प्राणायामं ततः कृत्वा ध्यायेद्गणपतिं शिवे ! ||

सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानम् खड्गं पाशाङ्कुशेष्टान्यरुणकरलसद्वारुणीपूर्णकुम्भम् |
बालेन्दूद्दीप्तमौलिं करिपतिवदनं वीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् ||

ध्यात्वैवं मानसैरिष्ट्वा पीठशक्तिं प्रपूजयेत् |
तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी |
उग्रा तेजस्वती सत्या मध्ये विघ्नविनाशिनी |
पूर्वादितोऽर्चयित्वैताः पूजयेत् कमलासनम् |
पुनर्ध्यात्वा गणेशानं पञ्चतत्त्वोपचारकैः |
अभ्यर्च्य च चतुर्दिक्षु गणेशं गणनायकम् |
गणनाथं गणक्रीडं यजेत् कौलिनि ! सत्तमः |
एकदन्त वक्रतुण्डं लम्बोदरगजाननौ |
महादेवञ्च विकटं धूम्राभं विघ्ननाशनम् |
ततो ब्राह्मीमुखा शक्तीर्दिक्पालांश्च प्रपूजयेत् |
तेषामस्त्राणि सम्पूज्य विघ्नराजं विसर्जयेत् |
एवं सम्पूज्य विघ्नेशमधिवासनमाचरेत् |
भोजयेच्च पञ्चतत्त्वैर्ब्रह्मज्ञान् कुलसाधकान् |
ततः परदिने स्नातः कृतनित्योदितक्रियः |
आजन्मकृतपापानां क्षयार्थं तिलकाञ्चनम् |
उत्सृजेत् कौलतृप्त्यर्थं भोज्यैकैकमपि प्रिये ! |
अर्घ्यं दत्त्वा दिनेशाय ब्रह्मविष्णुनवग्रहान् |
अर्चयित्वा मातृगणान् वसुधारां प्रकल्पयेत् |
कर्मणोऽभ्युदयार्थाय वृद्धिश्राद्धं समाचरेत् |
ततो गत्वा गुरोः पार्श्वं प्रणम्य प्रार्थयेदिदम् |
एहि नाय ! कुलाचार ! नलिनीकुलवल्लभ ! |
त्वत्पदाम्भोरुहच्छायां देहि मूर्ध्नि कृपानिधे ! |
आज्ञां देहि महाभाग ! शुभपूर्णाभिषेचने |
निर्विघ्नं कर्मणः सिद्धिर्मुपैमि त्वत्प्रसादतः |
शिवशक्त्याज्ञया वत्स ! कुरु पूर्णाभिषेचनम् |
मनोरथमयी सिद्धिर्जायतां शिवशासनात् |
इत्थमाज्ञां गुरोः प्राप्य सर्वोपद्रवशान्तये |
आयुलक्ष्मीबलारोग्यावाप्त्यै सङ्कल्पमाचरेत् |
ततस्तु कृतसङ्कल्पो वस्त्रालङ्कारभूषणैः |
कारणैः शुद्धिसहितैरभ्यर्च्य वृणुयाद्गुरुम् |
गुरुर्मनोहरे गेहे गैरिकादिविचित्रिते |
चित्रध्वजपताकाभिः फलपुष्पेण शोभिते |
किङ्किणीजालमालाभिश्चन्द्रातपविभूषिते |
घृतप्रदीपावलिभिस्तमोलेशविवर्जिते |
कर्पूरसहितैर्धूपैर्यक्षधूपैः सुवासिते |
व्यजनैश्चामरैर्बर्हैर्दर्पणाद्यैरलङ्कृते |
सार्द्धहस्तमितां वेदीमुच्चकैश्चतुरङ्गुलाम् |
रचयेन्मृण्मयीं तत्र चूर्णैरक्षतसम्भवैः |
मण्डलं सर्वतोभद्रं विदध्यात् श्रीगुरुस्ततः |
स्वस्वकल्पोक्तविधिना कुर्यादर्चाविधिक्रियाम् |
कृत्वा पूर्वोक्तविधिना पञ्चतत्त्वानि शोधयेत् |
संशोध्य पञ्चतत्त्वानि पूर्वकल्पितमण्डले |
स्वर्णं वा राजतं ताम्रं मृण्मयं घटमेव वा |
क्षालितं चन्द्रवीजेन दध्यक्षतविचर्चितम् |
स्थापयेद्ब्रह्मवीजेन सिन्दूरेणाङ्कयेत् श्रिया |

क्षकाराद्यैरकारान्तैर्वर्णैर्विन्दुविभूषितैः |
मूलमन्त्रप्रजापेन पूरयेत् कारणेन तम् |
अथवा तीर्थतोयेन शुद्धेन पाथसापि वा |
नवरत्नं सुवर्णं वा घटमध्ये विनिक्षिपेत् |
पनसोडुम्बराश्वत्थवकुलाम्रसमुद्भवम् |
पल्लवं तन्मुखे दद्याद्वाग्भवेन कृपानिधिः |
शरावं मार्त्तिकञ्चापि फलाक्षतसमन्वितम् |
रमां मायां समुच्चार्य स्थापयेत् पल्लवोपरि |
बध्नीयाद् वस्त्रयुग्मेन ग्रीवां तस्य वरानने ! |
शक्तौ रक्तं शिवे विष्णौ श्वेतवासः प्रकीर्त्तितम् |
स्थां स्थीं मायां रमां स्मृत्वा स्थिरीकृत्य घटान्तरे |
निक्षिप्य पञ्चतत्त्वानि नवपात्राणि विन्यसेत् |
राजतं शक्तिपात्रं स्याद्गुरुपात्रं हिरण्मयम् |
श्रीपात्रन्तु महाशङ्खं ताम्राण्यन्यानि कल्पयेत् |
पाषाणदारुलौहानां पात्राणि परिवर्ज्जयेत् |
शक्त्या प्रकल्पयेत् पात्रं महादेव्याः प्रपूजने |
पात्राणां स्थापनं कृत्वा गुरून् देवीं प्रतर्पयेत् |
ततस्त्वमृतसम्पूर्णघटमभ्यर्च्ययेत् सुधीः |
दर्शयित्वा धूपदीपौ सर्वभूतबलिं हरेत् |
प्राणायामं ततः कृत्वा ध्यात्वावाह्य महेश्वरीम् |
स्वशक्त्या पूजयेदिष्टां वित्तशाठ्यं विवर्जयेत् |
होमन्तु कृत्वा निष्पाद्य कुमारीशक्तिसाधनम् |
पुष्पचन्दनवासोभिरर्चयेत् स गुरुः शिवे ! |
अनुगृह्णन्तु कौला मे शिष्यं प्रति कुलव्रताः |
पूर्णाभिषेकसंस्कारे भवद्भिरनुमन्यताम् |
एवं पृच्छति चक्रेशेते ब्रूयुर्गुरुमादरात् |
महामायाप्रसादेन प्रभावात् परमात्मनः |
शिष्यो भवति पूर्णस्ते परतत्त्वपरायणः |
शिष्येण च गुरुर्देवीमर्चयित्वार्चिते घटे |
कामं मायां रमां जप्त्वा चालयेद्घटमुत्तमम् |
उत्तिष्ठ ब्रह्मकलसमुत्तराभिमुखं गुरुः |
मन्त्रैरेतैर्वक्ष्यमाणैरभिषिञ्चेत् कृपान्वितः |
शुभपूर्णाभिषेकस्य सदाशिव ऋषिः स्मृतः |
छन्दोऽनुष्टुप् देवताद्या प्रणवं वीजमीरितम् |
शुभपूर्णाभिषेकार्थे विनियोगः प्रकीर्त्तितः |
गुरुवस्त्वाभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः |
दुर्गालश्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः || १ ||

षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २ ||

जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती |
एतास्त्वाम्भिषिञ्चन्तु बगला वरदा शिवा || ३ ||

नारसिंही च वाराही वैष्णवी वनमालिनी |
इन्द्राणी वारुणी रौद्री त्वाभिषिञ्चन्तु शक्तयः || ४ ||

भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा |
श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा || ५ ||

महाकाली महालक्ष्मीर्महानीलसरस्वती |
उग्रचण्डा प्रचण्डा च अभिषिञ्चन्तु सर्वदा || ६ ||

मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा |
रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा || ७ ||

असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तभयङ्करः |
कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा || ८ ||

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी |
विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा || ९ ||

इन्द्रोऽग्निः शमनो रक्षो वरुणः पवनस्तथा |
धनदश्च महेशानः सिञ्चन्तु त्वां दिगीश्वराः || १० ||

रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः |
राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः || ११ ||

नक्षत्रं करणं योगो वाराः पक्षौ दिनानि च |
ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा || १२ ||

लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः |
समुद्रास्त्वाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १३ ||

अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः |
तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां दिगीश्वराः || १४ ||

पातालभूतलव्योमचारिणः क्षेमचारिणः |
पूर्णाभिषेकसन्तुष्टा अभिषिञ्चन्तु पाथसा || १५ ||

दौर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः |
विनश्यन्त्वभिषेकेन कालीवीजेन ताडिताः || १६ ||

भूतप्रेतपिशाचाश्च ग्रहा ये रिष्टकारिणः |
विद्रुतास्ते विनश्यन्तु रमावीजेन ताडिताः || १७ ||

अभिसारकृता दोषा वैरिमन्त्रोद्भवाश्च ये |
मनोवाक्कायजा दोषा विनश्यन्त्वभिषेचनात् || १८ ||

नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः |
अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः || १९ ||

इत्येकाधिकविंशत्या मन्त्रैः संसिक्तसाधनम् |
पशोर्मुखाल्लब्धमन्त्रं पुनः संश्रावयेद्गुरुः ||

पूर्वोक्तनाम्ना सम्बोध्य ज्ञापयन् शक्तिसाधकान् |
दद्यादीन् कुलनाथान्तमाख्यानं कौलिको गुरुः |
श्रुतमन्त्रगुरौ देवि ! सम्पूज्य निजदेवताम् |
पञ्चतत्त्वोपचारेण गुरुमभ्यर्चयेत्ततः |
गोभूहिरण्यवासांसि यानालङ्करणानि च |
गुरवे दक्सिणां दत्त्वा यजेत्कौलान् शिवात्मकान् |
कृतकौलार्चनो धीरः शान्तोऽतिविनयान्वितः |
श्रीगुरोश्चरणौ स्पृष्ट्वा भक्त्या नत्वेदमर्थयेत् |
श्रीनाथ ! जगतां नाथ ! मन्नाथ ! करुणानिधे ! |
परामृतप्रदानेन पूरयास्मन्मनोरथम् |
आज्ञा मे दीयतां कौलाः ! प्रत्यक्षशिवरूपिणः ! |
मच्छिष्याय विनीताय ददामि परमामृतम् |
चक्रेश ! परमेशान ! कौलपङ्कजभास्कर ! |
कृतार्थं कुरु सच्छिष्यं देह्यमुष्मैः कुलामृतम् |
आज्ञामादाय कौलानां परमामृतपूरितम् ||

सशुद्धिकं पानपात्रं शिष्यहस्ते समर्पयेत् |
हृद्याकृष्य गुरौ देवीं स्रुवसंलग्नभस्मना |
स्वस्य शिष्यस्य कौलानां कूर्चे च तिलकं न्यसेत् ||

कूर्चे भ्रूमध्ये ||

ततः प्रसादतत्त्वानि कौलेभ्यः परिवेशयेत् |
भक्तानुष्ठानविधिना विदध्यात् पानभोजनम् |
इति ते कथितं देवि ! शुभपूर्णाभिषेचनम् |
ब्रह्मज्ञानैकजननं शिवत्वफलसाधनम् |
नवरात्रं सप्तरात्रं पञ्चरात्रं त्रिरात्रकम् |
अथवाप्येकरात्रञ्च कूर्यात् पूर्णाभिषेचनम् |
संस्कारेऽस्मिन् महेशानि ! पञ्चकल्पाः प्रकीर्त्तिताः |
नवरात्रे विधातव्यं सर्वतोभद्रमण्डलम् |
नवनाथं सप्तरात्रे पञ्चाब्जं पञ्चरात्रके |
त्रिरात्रं चैकरात्रे च पद्ममष्टदलं प्रिये ! |
मण्डले सर्वतोभद्रे नवनाभेऽपि साधकैः |
स्थापनीया नवघटाः पञ्चाब्जे पञ्चसङ्ख्यकाः |
नलिनेऽष्टदले देवि ! घटस्त्वेकः प्रकीर्त्तितः |
अङ्गावरणदेवांश्च केशरादिषु पूजयेत् |
पूर्णाभिषेकसिद्धानां कौलानां निर्मलात्मनाम् |
दर्शनात् स्पर्शनाद्घ्राणाद्गुरुशुद्धिर्विधीयते |
शाक्तैर्वा वैष्णवैः शैवैः सौरैर्गाणपतैरपि |
कौलवर्त्माश्रितः साधुः साधयेदतियत्नतः |
तथा शक्तिपूजनं स्यात् पञ्चतत्त्वादि शोधयेत् |
स्वेष्टपूजाविधानेन न तु चक्रेश्वरो भवेत् ||

तथा ||

उक्ताः प्रयोगा बहवः कर्माणि विविधानि च ब्रह्मैकनिष्ठकौलस्य त्यागानुष्ठानयोः समम् |
एकमेव परं ब्रह्म जगदावृत्य तिष्ठति |
सर्वं तदन्वितं कर्म जानन्तो हि रताः प्रिये ! |
पृथक्त्वेन यजन्तोऽपि तत् प्रयान्ति विशन्ति च |
सर्वं ब्रह्मणि सर्वत्र ब्रह्मैव पर्यवस्यति |
ज्ञेयः स एव सत्कौलो जीवन्मुक्तो न संशयः ||

अथ पूर्णाभिषेकप्रयोगः ||

महानिर्वाणतन्त्रे ||

अभिषेकपूर्वाहे सर्वविघ्नोपशान्त्यर्थं यथाशक्त्युपचारेण गुरुर्विघ्नेशं पूजयेत् |
गुरुस्तत्र चेन्नाधिकारी तदाभिषिक्तकौलं गुरुत्वेन स्वीकृत्य तेन सर्वं कारयेत् |
गमिति गणेशस्य वीजं कृतनित्यक्रिय आसने उपविश्याचान्तोऽर्घ्य स्थापनादिभूतशुद्ध्यन्तं कर्म कृत्वा ऋष्यादिन्यासं कुर्याद् यथा |
गणक ऋषिर्नीवृच्छन्दो विघ्नराजो देवता स्वकर्त्तव्यपूर्णाभिषेककर्मणः सर्वविघ्नशान्त्यर्थं जपे विनियोगः |
शिरसि ओं गणक ऋषये नमः |
मुखे नोवृच्छन्दसे नमः हृदि विघ्नराजाय देवतायै नमः |
गां हृदयाय नम इत्यादिनाङ्गन्यासकरन्यासौ विधाय मूलेन प्राणायामत्रयं कृत्वा ध्यायेद्यथा ||

सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं खड्गं पाशाङ्कुशेष्टान्यरुणकरलसद्वारुणीपूर्णकुम्भम् |

बालेन्दूद्दीप्तमौलिं करिपतिवदनं वीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् ||

एवं ध्यात्वा मानसोपचारेण सम्पूज्य यन्त्रे घटे वा पीठशक्तीः पूजयेद्यथा |
एते गन्धपुष्पे ओं तीव्रायै नमः |
एवं सर्वत्र प्रणवादिनमोऽन्तेन ज्वालिन्यै नन्दायै कामरुपिण्यै उग्रायै तेजस्वत्यै सत्यायै मध्ये विघ्ननाशिन्यै पूर्वादिक्रमेण पूजयेत् |
तत् एते गन्धपुष्पे ओं कमलासनाय नमः |
पुनर्ध्यात्वा घटादौ दत्त्वा गणेश इहागच्छेत्यावाह्य पाद्यादिभिः पञ्चतत्त्वोपचारैश्च सम्पूज्य चतुर्दिक्षु एते गन्धपुष्पे गणेशाय नमः |
एवं गणनायकाय गणनाथाय गणक्रीडाय एकदन्ताय वक्रतुण्डाय लम्बोदराय गजाननाय महादेवाय विकटाय धूमाभाय विघ्ननाशनाय सर्वत्र प्रणवादिनमोऽन्तेन गन्धपुष्पाभ्यां पूजयेत् |
ब्राह्मयै माहेश्वर्यै कौमार्यै वैष्णव्यै वाराह्यै इन्द्राण्यै नारसिंह्यै महालक्ष्म्यै इन्द्रादिदिक्पालेभ्यो वज्राद्यस्त्रेभ्यो नम इत्यनेन पूजयित्वा ततो यथाशक्ति मूलमन्त्रं जप्त्वा जपं समर्प्य प्रणम्य गणपते क्षमस्वेति विसर्जयेत् |
ततो दीक्षापद्धत्युक्तमधिवासनं कृत्वा ब्रह्मज्ञकुलसाधकान् पञ्चतत्त्वैर्भोजयेत् |
ततः परदिने स्नातः कृतनित्यक्रियः ओं तत्सदित्युचार्य ओं अद्येत्यादि अमुके मासि अमुकराशिस्थे भास्करेऽमुके पक्षेऽमुकतिथौ अमुकगोत्रः श्री-अमुकदेवशर्मा आजन्मज्ञानाज्ञानकृतपापक्षयकाम एतत् सतिलकाञ्चनं विष्णुदैवतं यथासम्भवगोत्रनाम्ने ब्राह्मणायाहं सम्प्रददे ||

इति तिलकाञ्चनमुत्सृज्य दक्षिणां दद्यात् |
ततः कौलतृप्त्यर्थं भोज्यमेकमुत्सृजेत् |
ततः सूर्यायार्घ्यं दत्त्वा ब्रह्मविष्णुनवग्रहान् सम्पूज्य गौर्यादिषोडशमातृकापूजावसुधारासम्पातनायुष्यसूक्त- जपाभ्युदयिकश्राद्धानि कृत्वा गुरोः पार्श्वं गत्वा प्रणम्य प्रार्थयेत् |
ओं एहि नाथ ! कुलाचार ! नलिनीकुलवल्लभ ! ||

त्वत्पादाम्भोरुहच्छायां देहि मूर्द्ध्नि कृपानिधे ! |
आज्ञां देहि महाभाग ! शुभपूर्णाभिषेचने |
निर्विघ्नं कर्मणः सिद्धिमुपैमि त्वत्प्रसादतः ||

ततो गुरुर्वदेत् ||

ओं शिवशक्त्याज्ञया वत्स ! कुरु पूर्णाभिषेचनम् |
मनोरथमयी सिद्धिर्जायतां शिवशासनात् |
इति गुरोरनुज्ञां गृहीत्वा अद्येत्यादि अमुकगोत्रः श्री-अमुकदेवशर्मा आयुर्लक्ष्मीबलारोग्यप्राप्तिकामो महानिर्वाणतन्त्रीयदशमपरिच्छेदोक्तपूर्णाभिषेकमहं करिष्ये |
इति सङ्कल्प्य ओं यज्जाग्रत इति ओं देवो व इति वा पठेत् |
ततः ओं साधुभवानास्तामित्यादि कर्म कृत्वा वस्त्रालङ्करणादिना सशुद्धिकारणेन च गुरुमभ्यर्च्य ओं अद्येत्यादिमत्सङ्कल्पितमहानिर्वाणतन्त्रीयदशमपरिच्छेदोक्त- पूर्णाभिषेककर्मणि अमुकगोत्रं श्री-अमुकानन्दनाथं गुरुत्वेन गुरुकर्मकरणाय वा भवन्तमहं वृणे इति शिष्ये वदति |
ओं वृतोऽस्मीति गुरुर्ब्रूयात् |
ततः शिष्यः ओं यथाविहितं गुरुकर्म कुरु इति शिष्ये वदति |
ओं यथाज्ञानतः करवाणीति गुरुर्ब्रूयात् |
ततो गुरुर्मनोहरगृहे सुचित्रिते चित्रध्वजपताकाचन्द्रातपाद्युंपशोभिते धूपगुग्गुल्वादिभिः सुवासिते धृतप्रदीपमालाविगतान्धकारलेशे चतुरङ्गुलोच्छ्रायसार्द्धहस्तमितमृण्मयवेदिकायां सर्वतोभद्रादिमण्डलं पञ्चवर्णरजोभिर्विदध्यात् ||

तत्र क्रमः ||

नवरात्राभिषेके सर्वतोभद्रं सप्तरात्राभिषेके नवनाभं पञ्चरात्राभिषेके पञ्चाब्जं त्रिरात्रैकरात्राभिषेके अष्टदलपद्मं निर्माय तत्र घटस्थापनं दीक्षापद्धत्युक्तं कुर्यात् |
ततः पञ्चतत्त्वादिकं संशोध्य ठमिति चन्द्रवीजेन घटे दध्यक्षतौ दद्यात् |
ओमिति ब्रह्मवीजेन घटं स्थापयेत् |
श्रीमिति लक्ष्मीबीजेन घटे सिन्दूरं दद्यात् |
सविन्दुकैः क्षकाराद्यकारान्तैर्वर्णैर्मूलमन्त्रेण ठकारेण घटं पूरयेत् |
अथवा तीर्थतोयेन शुद्धजलेन वा पूरयेत् |
नवरत्नं

स्वर्णं वा घटमध्ये निक्षिपेत् |
पनसोडुम्बराश्वत्थवकुलाम्राणां पञ्चपल्लवानि ऐमिति वाग्भववीजेन घटमुखे दद्यात् |
फलाक्षतयुक्तनूतनशरावं श्रीमिति ह्रीमिति मन्त्रेण तदुपरि दद्यात् |
वस्त्रयुग्मेन घटस्य ग्रीवां वध्नीयात् |
तत्र क्रमः |
शाक्ते रक्तेन शैवे वैष्णवे च श्वेतेन |
ततः स्थां स्थीं ह्रीमिति श्रीमिति मन्त्रेण घटं स्थिरीकृत्य घटश्रीपात्रयोर्म्मध्ये दक्षिणादितो नव पात्राणि स्थापयेत् |
तत्र क्रमः |
शक्तिपात्रं राजतं गुरुपात्रं हिरण्मयं वीरपात्रं महाशङ्खमात्मपात्रमपि तथा |
अथवा पाषाणदारुलौहभिन्नानि पात्राणि कुर्यात् |
ततो गुरुं देवीञ्च कारणेन तर्पयेत् |
ततः कारणपूर्णघटे स्वस्वकल्पोक्तविधिना देवतां सम्पूज्य यथाशक्ति जप्त्वा जपं समर्प्य बलिदानादिकं कृत्वा स्तवकवचादिकं पठित्वाष्टोत्तरं सहस्रं शतं वा हुत्वा गन्धपुष्पवस्त्रमाल्यपात्रादिभिः कुमारीशक्तिसाधकान् सम्पूज्य |
ओं अनुगृह्णन्तु कौला मे शिष्यं प्रतिकुलव्रताः |
पूर्णाभिषेक संस्कारे भवद्भिरनुमन्यताम् |
इति चक्रेश्वरे पठति ते ब्रूयुः |
ओं महामायाप्रभावेण प्रभावात् परमात्मनः |
शिष्यो भवति पूर्णस्ते परतत्त्वपरायणः |
ततो गुरुः पूर्वोक्तघटे शिष्येण देवीमर्चयित्वा श्रीमिति ह्रीमिति जप्त्वा घटं चालयेत् |
ओं उत्तिष्ठ ब्रह्मकलस ! देवताभीष्टसिद्धिदः |
सर्वतीर्थाम्बुपूर्णेन पूरयास्य मनोरथम् |
इति पठित्वा |
सदाशिव ऋषिरनुष्टुप्छन्दः शिष्येष्टदेवता प्रणवो वीजं आयुःकीर्त्तिबलारोग्याद्यवाप्त्यै पूर्णाभिषेके विनियोगः |
ओं गुरवस्त्वाभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः |
दुर्गालक्ष्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः || १ ||

षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी |
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २ ||

जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती |
एतस्त्वामभिषिञ्चन्तु वगला

वरदा शिवा || ३ ||

नारसिंही च वाराही वैष्णवी वनमालिनी |
इन्द्राणी वारुणी रौद्री त्वाभिषिञ्चन्तु शक्तयः || ४ ||

भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा |
श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा || ५ ||

महाकाली महालक्ष्मीर्महानीलसरस्वती |
उग्रचण्डा प्रचण्डाद्या अभिषिञ्चन्तु सर्वदा || ६ ||

मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा |
रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा || ७ ||

असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः |
कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा || ८ ||

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी |
विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा || ९ ||

इन्द्रोऽग्निः शमनी रक्षो वरुणः पवनस्तथा |
धनदश्च तथेशानः सिञ्चन्तु त्वां दिगीश्वराः || १० ||

रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः |
राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः || ११ ||

नक्षत्रं करणं योगा वाराः पक्षौ दिनानि च |
ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा || १२ ||

लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः |
समुद्रास्त्वाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || १३ ||

अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः |
तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां दिगीश्वराः || १४ ||

पातालभूतलव्योमचारिणः क्षेमचारिणः |
पूर्णाभिषेकसन्तुष्टास्त्वाभिषिञ्चन्तु पाथसा || १५ ||

दौर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः |
विनश्यन्त्वभिषेकेण कालीवीजेन ताडिताः || १६ ||

भूताः प्रेताः पिशाचाश्च ग्रहा ये रिष्टकारकाः |
विद्रुतास्ते विनश्यन्तु रमावीजेन ताडिताः || १७ ||

अभिचारकृता दोषा वैरिमन्त्रोद्भवाश्च ये |
मनोवाक्कायजा दोषा विनश्यन्त्वभिषेचनात् || १८ ||

नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः |
अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः || १९ ||

इत्येतैर्मन्त्रैः शिष्यमभिषिच्य

९७६) पशोर्मुखाद् यन्मन्त्रो लब्धस्तं पुनस्तं गुरुः श्रावयेत् |
पूर्वोक्तनाम्ना शिष्यं सम्बोध्य शक्तिसाधकान् विज्ञाप्य गुरुरानन्दनाथान्तं नाम शिष्याय दद्यात् |
श्रुतमन्त्रो गुरौ इष्टदेवतां सम्पूज्य पञ्चतत्त्वैर्गुरुमर्चयेत् |
ततो गोभूहिरण्यवासोयानालङ्करणानि गुरवे दक्षिणां दद्यात् |
ततः पञ्चतत्त्वैः कौलशक्तिसाधकान् अभ्यर्च्य गुरोश्चरणौ स्पृष्ट्वा प्रार्थयेद् यथा |
श्रीनाथ ! जगतां नाथ ! मन्नाथ ! करुणानिधे ! |
परामृतप्रदानेन पूरयास्मन्मनोरथम् ||

ततो गुरुः ||

आज्ञा मे दीयतां कौलाः ! प्रत्यक्षशिवरूपिणः ! |
सच्छिष्याय विनीताय ददामि परमामृतम् ||

ते ब्रूयुः ||

चक्रेश ! परमेशान ! कौलपङ्कजभास्कर ! |
कृतार्थं कुरु सच्छिष्यं देह्यमुष्मैकुलामृतम् ||

इति कौलाज्ञामादाय शुद्धिसहितं कारणपात्रं शिष्याय दद्यात् |
ततः स्रुवलग्नभस्मना सर्वेषां ललाटे तिलकं दद्यात् |
ततश्चक्रसम्पूर्णं कृत्वा यथेष्टं विहरेदिति ||

इति पूर्णाभिषेकप्रयोगः ||

पूर्णाभिषेकानन्तरन्तु वामकेश्वरतन्त्रे चतुःपञ्चशत्पटले ||

भैरव उवाच ||

मण्डपं विधिवत् कुर्यात् पूजोपकरणानि च |
परमहंसेन गुरुणा पूर्णाभिषेचनञ्चरेत् |
नवरत्नं जले स्थाप्य जलेनापूर्य कुम्भकम् ||

द्विपञ्चाशत्पटले ||

नातिह्रस्वं नातिदीर्घं कलसाष्टकमुत्तमम् |
अभिषेकात्मकमिति रत्नादिभिरलङ्कृतम् |
ईशाने च पुनः कुम्भं स्वर्णादिभिरलङ्कृतम् |
वस्त्रेण वेष्टयेत् कुम्भान् माल्यचन्दनपूर्वकम् |
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च |
नदा ह्रदाः पुण्यतमा नद्यः पातालवर्त्मगाः |
सर्वतीर्थाणि पुण्यानि घटे कुर्वन्तु सन्निधिम् |
रमावीजेन जप्तेन पल्लवं प्रतिपादयेत् |
कूर्चेन फलदानं स्यात् स्त्रीवीजेन स्थिराकृतिः |
सिन्दूरं वह्निवीजेन पुष्पं प्रेतेन विन्यसेत् |

मूलेन प्रणवेनापि दूर्वां दद्याद्विचक्षणः |
हूं फट् स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् |
ईशकुम्भे यजेद्देवीं सङ्कल्पोक्तविधानतः |
सङ्कल्पोक्तेन विधिना यजेदावरणं ततः |
बलिं दद्यात् प्रयत्नेन होमयेत्तन्त्रवित् सुधीः |
आगमोक्तविधानेन कुर्यात्तत्र कुशण्डिकाम् |
त्रिमध्वाक्तेन विधिना विल्वपत्रेण होमयेत् ||

उपचारैः षोडशैस्तु पुनर्देवीं प्रपूजयेत् |
पुनरावरणं देवि ! पूजयेद् यत्नतः सुधीः |
ततः पूर्णाहुतिं दत्वा प्रकुर्याद् गुरुपूजनम् |
सुवेद्याः पूजयेदष्टौ कुमारीश्च प्रपूजयेत् ||

चतुःपञ्चाशत्पटले ||

पूजावसाने देवेशि ! कलसैरभिषेचयेत् |
विशेषतश्च तन्मन्त्रं वक्ष्यामि शृणु सादरात् |
ओं ह्रीं श्रीं ह्सौः पुत्र ! त्वं सर्वसिद्धीश्वरो भव |
इति पूर्वकलसेन गुरुः सिञ्चेच्छिशुं शुभम् |
ओं ऐं ह्रीं श्रीं क्रों हौः हं सः पुत्र ! त्वं वेतालो भव |
इत्यग्निकलसेनैव गुरुः सिञ्चेच्छिशुं शुभम् |
ओं ह्रीं ऐं ह्रीं ह्सौः हंसः पुत्र ! त्वमणिमादिसिद्धीश्वरो भव |
इति दक्षिणकलसेन गुरुः सिञ्चेच्छिशुं शुभम् |
ओं हु/ ह्रीं क्रीं श्रीं पुत्र ! त्वमञ्जनासिद्धीश्वरो भव इति नैरृतकलसेन गुरुः सिञ्चेच्छिशुं शुभम् |
अं आं ऐं क्रों श्रीं ह्रीं पुत्त्र ! त्वं लघिमादिसिद्धीश्वरो भव |
इति वारुणकलसेन गुरुः सिञ्चेच्छिशुं शुभम् |
ओं आं ऐं क्रीं ह्रीं पुत्त्र ! त्वं काम्यसिद्धीश्वरो भव |
इति मरुत्कलसेन गुरुः सिञ्चेच्छिशुं शुभम् |
ऐं ओं ह्रीं पुत्त्र ! त्वं स्तम्भनादिसिद्धिश्वरो भव |
इति कुवेरकलसेन गुरुः सिञ्चेच्छिशुं शुभम् |
हंस ऐं ह्रीं नवनवनामकरणाभिधानपूर्वकं पुत्त्र ! त्वमाकर्षणसिद्धीश्वरो भव |
इतीशानकलसेन गुरुः सिञ्चेत् शिशुं शुभम् |
दक्षिणान्तं क्रियाकाण्डं कुर्यात्साधकसत्तमः ||

इत्यभिषेकप्रकरणम् ||

अथ वीरप्रशंसा ||

उत्पत्तितन्त्रे त्रिषष्टिपटले ||

यत्र वीरोवसेद्देवि ! दिव्यो वा परमेश्वरि ! |
तत्र सर्वाणि तीर्थाणि वसन्ति वीरसाधने |
यो वीरः स शिवः साक्षाद्देव एव न संशयः |
यत्र वीरो वसेद्देवि ! तत्र कस्य भयं भवेत् |
नाकालमरणं तत्र न दुर्भिषभयं तथा |
राजपीडाभयं देवि ! तत्र नास्ति कदाचन ||

अथ वीरकृत्यं तत्रैव ||

कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् |
संविदासेवनं कुर्यात् सोमपानं महेश्वरि ! |
सर्वथा कुरुते देवि ! वीरश्चोद्धतमानसः |
दिव्यस्तु देवताप्रायश्चन्दनागुरुलेपनैः |
रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः |
भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः |
सुरापानरतो नित्यं बलिपूजापरायणः |
नरश्छागश्च महिषो मेषः शूकर एव च |
शशकः शल्लकी गोधा खड्गी कूर्मो दश स्मृताः |
वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः |
इत्यादिभिर्बलेर्दानैः पूजयेत् स्वेष्टदेवताम् ||

तथा |
नित्यं नैमित्तिकं काम्यं प्रकुर्याच्च दिने दिने |
कुलवारे कुलर्क्षे च तिथौ चन्दनके तथा |
भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये ! |
सुराणां शोधनं कुर्याद् यथावत् परमेश्वरि ! |
प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः |
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् |
ननु ब्रह्महत्यासुरापानमित्यादि स्मृत्युक्ते न महापातकजनकस्य सुरापानस्य निषिद्धत्वात् सुरापानरत इति सुराणां शोधनम् इति च कथं सङ्गच्छत इति चेत् सत्यम् |
तत्तद्वचनं नैमित्तिकवैधेतरपाननिषेधकमित्यवगन्तव्यमन्यथा वेदविरुद्धत्वेन तत्तत्स्मृतेरप्रामाण्यापत्तिः स्यात् |
तथा च सौत्रामणीष्टौ वाजपेय यागे च सुराग्रहान् गृह्णाति सोमग्रहांश्च सुराग्रहांश्च गृह्णाति वाजसृद्भ्यः सुराग्रहान् हवन्तीत्यादि |
इति हंसः शुचिसदित्यादिना

सुराशोधनञ्चोक्तम् |
तर्हि मद्यमदेयमपेयमग्राह्यमिति श्रुत्यन्तरस्य का गतिरिति चेन्नैवमर्थापरिज्ञानेन दोषमाशङ्कसे |
तथा हि देवताभ्योऽदेयं देवतासम्प्रदानकभिन्नं मद्यमपेयमग्राह्यञ्चेति तस्या अर्थः |
निमित्तयागादीतरत्र मद्यदानपानादिनिषेधार्था वा सा श्रुतिरिति मन्तव्यम् |
नराश्वमेधौ मद्यञ्च कौलवर्ज्यं द्विजातिभिरित्यादिवचनैकवाक्यतया कलीतरपरत्वं वाजपेयादीनामिति न वाच्यम् |
विद्याकरवाजपेयिप्रभृतीनां नामानुसारेण कलावपि तस्यावधारितत्वात् |
विजयाञ्चानुकल्पञ्च द्विजो दद्याद् युगे युगे ||

इत्यादिवचनादनुकल्पेन यागनिर्वाह इति तु कुधियां सिद्धान्तः मुख्यालाभ एवानुकल्पस्य उक्तत्वात् ||

तथा च निरुत्तरतन्त्रे पञ्चमपटले ||

द्रव्याभावे चानुकल्पैः पूजयेत् परदेवतामिति |
सुराभावे च गोक्षीरं द्विजो दद्याद् युगे युगे |
इत्यादिवचनादनुकल्पेन यागनिर्वाह इति तु कुधियां सिद्धान्तो मुख्यालाभ एवानुकल्पस्योक्तत्वात् ||

तथा च निरुत्तरतन्त्रे पञ्चमपटले ||

द्रव्याभावे चानुकल्पैः पूजयेत् परदेवतामिति |
सुराभावे च गोक्षीरं द्विजो दद्याद् युगे युगे |
इति चोक्तमत एव |
न मांसभक्षणे दोषो न दोषो मद्यपानतः |
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला |
इति मद्यपानदोषाभावो मनुना उक्त इति असंस्कृतसुरापानपरं वा |
तदुक्तमुत्पत्तितन्त्रे ||

असंस्कृतां सुरां पीत्वा ब्राह्मणो ब्रह्महा भवेत् |
संस्कृतान्तु सुरां पीत्वा ब्राह्मणो ज्वलदग्निवत् |
सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् |
अन्यत्र कामतः पीत्वा ब्राह्मण्यादेव हीयते |
यद्वा सुरानिषेधकवचनानि अनभिषिक्तपराणीति ज्ञेयम् |
तत्रैव सर्वेषां सुरापानविधिदर्शनात् |
तत्प्रमाणन्तु किञ्चिल्लिखितम् |
लेखितव्यञ्च यत्तु मातृकाभेदतन्त्रे तृतीयपटले ||

सर्वयज्ञाधिपो

विप्रः संशयो नास्ति पार्वति ! |
सौत्रामण्यां महायज्ञे चत्वारो ब्राह्मणादयः ! ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ! |
ब्राह्मणः परमेशानि ! यदि पानादिकञ्चरेत् |
तत्क्षणाच्छिवरूपोऽसौ सत्यं सत्यं हि शैलजे ! |
तोये तोयं यथा लीनं तैजसं तेजसे यथा |
घटे भग्ने यथाकाशं वायौ वायुर्यथा प्रिये ! |
तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये ! |
लीयते नात्र सन्देहः परमात्मनि शैलजे ! |
सायुज्यादिमहामोक्षं नियुक्तं क्षत्रियादिषु |
मद्यपानं विना देवि ! तत्त्वज्ञानं न लभ्यते |
अत एव हि विप्रस्तु मद्यपानं समाचरेत् |
वेदमातृजपेनैव ब्राह्मणो न हि शैलजे ! |
ब्रह्मज्ञानं यदा देवि ! तदा ब्राह्मण उच्यते |
देवानाममृतं ब्रह्म तदेव लौकिकी सुरा |
सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्त्तिता |
इति ब्राह्मणस्य मद्यपानविधायकवचनं तदप्यभिषिक्तब्राह्मणपरम् |
ननु अभिषेके स्वस्ववर्णं परित्यज्य शिवत्वं लभते ध्रुवमिति प्रागुक्तवचनादभिषिक्तस्य जातिविचाराभावात् कथमभिषिक्तपरमिति चेत् सत्यम् |
स्वजातिचिह्नरक्षकस्य ज्ञानदुर्बलस्य पानार्थमेतद्वचनमित्यवेहि |
अथवा अभिशप्तसुरापाणनिषेधार्थं सुरापाणनिषिद्धवचनम् |
सुरातु चतुर्युग एव पवित्रकारिणी |
केवलमभिशापेनैवापेया अतः शापमोचनपूर्वरूपतया पेयैव तदाह तत्रैव ||

मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादिमोचनम् |
प्रकुर्यात्तर्हि येनैव तदा ब्रह्ममयी सुरा |
हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् |
शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी |
अत एव हि देवेशि ! ब्राह्मणः पानमाचरेत् |
स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः |
बहु किं कथ्यते देवि ! स एव निर्गुणात्मकः |
मुक्तिमार्गमिदं देवि ! गोप्तव्यं पशुसङ्कटे |
प्रकाशात् सिद्धिहानिः स्यान्निन्दनीयो न चान्यथा |
यदि शापमोचनादप्यग्राह्यत्वं तस्या इत्युच्यते तदा गायत्रीग्रहणमपि ब्राह्मणानामसङ्गतं स्यात्तत्रापि शापदर्शनादिति |
उत्पत्तितन्त्रे |
कुलस्त्रीसेवनं कुर्यात् सर्वथा परमेश्वरि ! रमते युवतिं रम्यां कामान्मत्तविशालिनीम् |
नटीं कपालिकां वेश्यां हड्डिपानां वराङ्गनाम् |
शूद्राणीं म्लेच्छरमणीं यवनीं परमेश्वरि ! |
मातृयोनिविचारोऽस्ति मातृयोनिं विना प्रिये ! |
कुलाचारपरो वीरः कुलपूजापरायणः |
भगलिङ्गसमायोगादाकृष्य जपमाचरेत् |
निश्चलन्तु भवेच्चित्तं कोटिसूर्यग्रहेण किम् |
चले चित्ते भवेद्व्याधिर्निश्चले निश्चलं यथा ||

तथा ||

शवानां साधनं देवि ! लतासाधनमुत्तमम् |
चितायाः साधनं देवि ! सिद्धिरस्ति कलौ युगे |
महाकाल्या महापीठे यत्र कुत्र महेश्वरि ! |
बलिदानं नरस्यापि हटाद्बाधा भविष्यति |
निवृत्तं हि ततो देवि ! बलिदानं नरादिकम् |
ततः प्रभृति देवेशि ! भावद्वयं विवर्जयेत् ||

एतद्वचनं प्रबलकलीतरपरम् ||

तदुक्तं महानिर्वाणतन्त्रे ||

दिव्यवीरमयो भावः कलौ नास्ति कदाचन |
केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ||

उत्पत्तितन्त्रे चतुःषष्टिपटले ||

भावः को वा महादेव ! वीरः को वा महेश्वर ! |
दिव्य एव कथं देव ! वद मे शङ्कर ! स्वयम् |
इति देवीप्रश्नानन्तरं महादेव उवाच ||

भावस्तु मानसो धर्मः स तु साङ्गः कथं भवेत् |
निर्विकल्पं महेशानि ! परं ब्रह्ममयो भवेत् |
मानसः कारणं देवि ! शिव एव न संशयः |
सिद्धमन्त्री भवेद्वीरो न वीरो मद्यपानतः |
कलौ तु भारते वर्षे लोका भारतवासिनः |
गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि |
दिव्ये वीरेन भेदोऽस्ति ज्ञानी स्यात् कुलसाधनैः |
त्रिसूत्रज्ञः कुलाचारो ज्ञानी कुलगुरुः स्मृतः |
षट्चक्रं षोडशधारं

त्रैलोक्यं व्योमपञ्चकम् |
स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः ||

अथ पञ्चमकारः ||

निर्वाणतन्त्रे एकादशपटले ||

शङ्कर उवाच ||

शृणु देवि ! प्रवक्ष्यामि तत्त्वं परमगोपनम् |
श्रुत्वा गोपय यत्नेन स्वयोनिमिव सुन्दरि ! |
गुप्तसाधनतन्त्रे सप्तमपटले ||

शृणु देवि ! प्रवक्ष्यामि तत्त्वं परमगोपनम् |
मन्त्रोद्धारक्रमेणैव तत्सर्वं कथयामि ते |
भमं तकारसंयुक्तम् थान्तं वायुयुतं कुरु |
विन्दुयुक्तं पुनर्भान्तं साकारं विन्दुसंयुतम् |
चन्द्रबीजं समुचार्य अकारसंयुतं कुरु |
पुनर्भान्तं तकारान्तं चन्द्रं वायुसमन्वितम् |
पुनर्भान्तं महेशानि ! पञ्चमस्वरभूषितम् |
थान्तं वह्निसमारूढमाकारसंयुतं कुरु |
पुनर्भान्तं महेशानि ! सूर्यस्वरसमन्वितम् |
तान्तकुमारसंयुक्तं धान्तमकारसंयुतम् |
पञ्चतत्त्वमिदं देवि ! सर्वतन्त्रेषु गोपितम् |
कैवल्यतन्त्रे प्रथमपटले ||

पञ्चतत्त्वात् परं नास्ति शाक्तानां मुखमोक्षयोः |
केवलैः पञ्चमैरेव सिद्धो भवति साधकः |
एषां मध्ये महेशानि ! परतत्त्वं विशिष्यते ||

तथा ||

केवलेनाद्ययोगेन साधको भैरवो भवेत् |
द्वितीयेन च तत्त्वेन महाभैरवतां व्रजेत् |
तृतीयेन च तत्त्वेन साधकः शिवरूपधृक् |
चतुर्थेन वरारोहे ! रुद्ररूपधरो भवेत् |
परेण परतां याति मम तुल्यो न संशयः |
मद्यं मांसं तथा मत्स्यंमुद्रा मैथुनमेव च |
पञ्चतत्त्वमिदं देवि ! निर्वाणमुक्तिहेतवे |
मकारपञ्चकं देवि ! देवानामपि दुर्लभमिति ||

कामाख्यातन्त्रे पञ्चमपटले ||

मद्यैर्मांसैस्तथा मत्स्यैर्मुद्राभिर्मैथुनैरपि |
स्त्रीभिः सार्द्धं महासाधुरर्च्चयेद् जगदम्बिकाम् |
अन्यथा च महानिन्दा गीयते पण्डितैः सुरैः |
कायेन मनसा वाचा |
तस्मात्तत्त्वपरो भवेत् |
कालिकातारिणीदीक्षां गृहीत्वा मद्यसेवनम् |
न करोति नरो यस्तु स

कलौ पतितो भवेत् |
वैदिके तान्त्रिके चैव जपहोमवहिष्कृतः |
अब्राह्मणः स एवोक्तः स एव हस्तिमूर्खकः |
शुनीसूत्रसमं तस्य तर्पणं यत् पितृष्वपि |
कली तारामनुं प्राप्य वीराचारं करोति न |
शूद्रत्वं तच्छरीरेण प्राप्नुयात् स न चान्यथा |

समयाचारतन्त्रे द्वितीयपटले |
या सुरा सर्वकार्येषु कथिता भुवि मुक्तिदा |
तस्या नाम भवेद्देवि ! तीर्थं पानं सुदुर्लभम् |
शूद्राणां भक्ष्ययोग्यानां यन्मांसं देवनिर्मितम् |
वेदमन्त्रेण विधिवत् प्रोक्ता सा शुद्धिरुत्तमा |
भक्ष्ययोग्याश्च कथिता ये ये मत्स्या वरानने ! |
ते रहस्ये मया प्रोक्ता मीनाः सिद्धिप्रदायकाः |
पृथुका तण्डुला भृष्टा गोधूमचणकादयः |
तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी |
भगलिङ्गस्य योगेन मैथुनं यद्भवेत् प्रिये ! |
तस्य नाम भवेद्देवि ! पञ्चमं परिकीर्त्तितम् |
प्रथमन्तु भवेन्मद्यं मांसञ्चैव द्वितीयकम् |
मत्स्यञ्चैव तृतीयं स्यान्मुद्रा चैव चतुर्थिका |
पञ्चमं पञ्चमं विद्यात् पञ्चैते नामतः स्मृताः ||

मत्स्यादिशब्दव्युत्पत्तिस्तु कुलार्णवतन्त्रे पञ्चमखण्डे सप्तदशोल्लासे ||

मायामलादिशमनान्मोक्षमार्गनिरूपणात् |
अष्टदुःखादिविरहान्मत्स्येति परिकीर्त्तितः |
माङ्गल्यजननाद्देवि ! संविदानन्ददानतः |
सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते ||

तथा |
पञ्चमं देवि ! सर्वेषु मम प्राणप्रियं भवेत् |
पञ्चमेन विना देवि ! चण्डीमन्त्रं कथं जपेत् |
यदि पञ्चमकारेषु भ्रान्तिं चेत् कुरुते प्रिये ! |
तस्य सिद्धिः कथं देवि ! चण्डीमन्त्रं कथं जपेत् |
आनन्दं परमं ब्रह्म मकारास्तस्य सूचकाः ||

अथैषां फलम् निर्वाणतन्त्रे एकादशपटले ||

अष्टैश्वर्य परं मोक्षं मद्यपानेन शैलजे ! |
मांसभक्षणमात्रेण साक्षान्नारयणो भवेत् |
मत्स्यभक्षणमात्रेण काली प्रत्यक्षतामियात् |

मुद्रासेवनमात्रेण भूसुरो विष्णुरूपधृक् |
मैथुनेन महायोगी मम तुल्यो न संशयः ||

तथा ||

एकां शक्तिं समानीय एक एव तु साधकः |
पूजयेदबहुयत्नेन पञ्चतत्त्वेन कौलिकः |
एवं कृत्वा लभेत् सिद्धिं नान्यस्य दृष्टिगोचरे |
शैवे शाक्ते गाणपत्ये सौरे चान्द्रे सुलोचने ! |
तत्त्वज्ञानमिदं प्रोक्तं वैष्णवे शृणु यत्नतः ||

द्वादश पटले ||

गुरुतत्त्वं मन्त्रतत्त्वं मनस्त्वत्त्वं सुरेश्वरि ! |
देवतत्त्वं ध्यानतत्त्वं पञ्चतत्त्वं वरानने ! |
तत्रादौ श्रीगुरोस्तत्त्वं स्नेहाद्वक्ष्यामि पार्वति ! |
सतैलं वर्त्तिकायुक्तं देहस्थं ब्र्ह्मतेजसम् |
गुरुणा मन्त्रदानेन तत्सूत्रं दीपितं भवेत् |
देवतायाः शरीरं हि मन्त्रादुत्पद्यते ध्रुवम् |
अत एव हि तस्यात्मा देवरूपो न संशयः |
ईश्वरस्य तु यद्वीर्यं तदेव अक्षयात्मकम् |
तेन वर्णात्मकं देहं जन्तोरेव न संशयः |
मन्त्रवर्णे सर्ववर्णमयास्ते परमेश्वरि ! |
वर्णतत्त्वमिदं देवि ! सर्वस्वं मम यद्भवेत् |
स्वयं देवो न चान्योऽस्मि निर्मलो देवरूपकः |
सर्वत्र देवतां ध्यायेत् तृणगुल्मलतादिषु |
ध्यानेन लभते सर्वं ध्यानेन विष्णुरूपकः |
ध्यानेन सिद्धिमाप्नोति विना ध्यानं न सिध्यति |
इति ते कथितं तत्त्वं वैष्णवस्य सुरेश्वरि ! |
यज्ज्ञानादमरत्वञ्च विष्णुरूपो भवेन्नरः |
ते नरा न हि गच्छन्ति कदाचिद्यममन्दिरम् ||

तत्त्वशोधनप्रकारस्तु कैवल्यतन्त्रे द्वितीयपटले ||

श्रीशिव उवाच ||

शृणु पार्वति ! वक्ष्यामि तेषां वै शोधनक्रियाम् |
पद्मासनेन संविश्य करपुटं समाचरेत् |
वामे गुरून् नमस्कृत्य दक्षिणे गणपतिं स्मरेत् |
मध्ये देवीं नमस्कृत्य प्राणायामत्रयं चरेत् |
शरीरे मातृकां न्यस्य ऋष्यादिन्यासमाचरेत् |
स्वकल्पोक्तविधानेन षडङ्गन्यासमाचरेत् |
पश्चाद्भूमौ त्रिकोणं वा षट्कोणं वा महेश्वरि ! |
विलिख्य मण्डलं शुद्धं तस्योपरि घटं न्यसेत् |
त्रिकोणं वेत्यादिवाद्वयं सन्नियोगशिष्टचकारवत् समुच्चयसूचकम् |
तेन तन्मण्डलद्वयं कर्त्तव्यमित्यर्थः |
वक्ष्यमाणभावचूडामणिवचनैकवाक्यत्वादिति स्वतन्त्रतन्त्रवचनैकवाक्यत्वादिति तया च चतुरस्रमपि ||

बहुधा प्रोक्षणं कृत्वा फट्कारेण पुनः पुनः |
ततस्तस्मिन् कारणन्तु मूलेनैव च स्थापयेत् |
मातृकार्णेन देवेशि ! विपरीतेन चैव हि |
पुनः फट्कारमन्त्रेण प्रोक्षणं कारयेत् सुधीः |
ततो वियच्छक्तिवीजं चतुर्दशस्वरान्वितम् |
नादविन्दुयुतं कृत्वा तस्योपरि शतं जपेत् |
ततो मूलं जपेन्मन्त्रं मायावीजं ततः परम् |
धेनुं योनिं गालिनीञ्च त्रिखण्डं मीनसंज्ञकम् |
दर्शयित्वा वरारोहे ! घटं धृत्वा पठेन्मनुम् |
ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् |
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् |
ओं सूर्यमण्डलसम्भूते ! वरुणालयसम्भवे ! |
अमावीजमये ! देवि ! शुक्रशापाद्विमुच्यताम् |
ओं वेदानां प्रणवो वीजं ब्रह्मानन्दमयं यदि |
तेन सत्येन देवेशि ! ब्रह्महत्यां व्यपोहतु |
ततः षडङ्गयुक्तञ्च वकारं विन्दुसंयुतम् |
एवं सकारणञ्चापि वर्णाक्षरसमन्वितम् |
जप्त्वा मन्त्री ततो ध्यायेत् स्वमन्त्रं कुलसुन्दरि ! |
आनन्दभैरवं ध्यायेद् यथा तन्त्रानुसारतः |
रक्तवर्णं चतुर्बाहुं त्रिनेत्रं वरदं शिवम् |
जटाजूटधरं देवं वासुकीकण्ठभूषितम् |
डमरुञ्च कपालञ्च मुद्गरं पाशमुत्तमम् |
धारिणं तं भजेद्देवं व्याघ्रचर्माम्बरं शिवम् |
एवं ध्यात्वा महेशानि ! तस्य मध्ये प्रपूजयेत् |
मायावीजं ततो हु/ फट् मन्त्रेणानेन सन्त्यजेत् |
ततस्तस्मिन् महेशानि ! आनन्दभैरवीं स्मरेत् |
आनन्दभैरवीं देवीं वराभयलसत्कराम् |
घोररूपां वरारोहां त्रिनेत्रां रक्तवाससम् |
रक्तवर्णां महारौद्रीं सहस्रभैरवान्विताम् |
ब्रह्मविष्णुमहेशाद्यैः स्तूयमानां शिवां भजे |

इति ध्यात्वा महेशानि ! तेनैव मनुना यजेत् |
तयोरैक्यं विभाव्यैव गायत्रींदशधा जपेत् |
भैरवं ङेऽन्तकञ्चोक्त्वा विद्महे तदनन्तरम् |
सुधादेव्यै ततः पञ्चाद्धीमहीति ततो वदेत् |
तन्नो देवि ! ततः पश्चात्तदन्ते च प्रचोदयात् |
इति ते कथिता देवि ! गायत्री परमाक्षरी |
तस्याः स्मरणमात्रेण द्रव्यशुद्धिश्च जायते |
तस्य प्रसादादीशोऽहं सत्यं सत्यं न संशयः |
तस्य मध्ये मूलमन्त्रं विल्वदण्डैर्लिखेत् सकृत् |
रक्तवस्त्रेण सम्पूज्य सुधां वस्त्रेण गोपयेत् ||

कारणशब्दार्थस्तु तत्रैव ||

धर्मार्थकाममोक्षाणां विषयाणाञ्च पार्वति ! |
सर्वेषां कारणं यस्मात् कारणं परिकीर्त्तितम् |
अस्माकञ्च महेशानि ! शरीरकारणं हि तत् |
मृत्युञ्जयोऽहं वीरेशि ! वीरकार्यप्रसादतः |
निर्विकारेण देवेशि ! निर्विकल्पेन चेतसा |
सेव्यमानं कुलं भद्रे ! भुक्तिमुक्तिप्रदायकम् |
निर्विकल्पो महेशानि ! मुक्तिभागी न संशयः |
सविकल्पो वरारोहे ! रौरवं याति निश्चितम् ||

अथ मांसादिशोधनं तृतीयपटले ||

श्रीशिव उवाच ||

वक्ष्येऽहं परमेशानि ! मांसादेः शोधनं प्रिये ! |
पूर्ववन्मण्डलं कृत्वा पूजयेन्मण्डलोपरि |
आधारशक्तिं कूर्मञ्च अनन्तं पृथिवीं तथा |
तन्मध्ये स्थापयेन्मांसं मत्स्यं मुद्राञ्च पार्वति ! |
हु/ वीजेन च संमन्त्र्यफट्कारैः प्रोक्षणञ्चरेत् |
वारुणेन च धेन्वादिं दर्शयेत् साधकोत्तमः |
ततो मायां बधूञ्चैव श्रीवीजं क्रमशो जपेत् |
शुद्धिमन्त्रं पठेद्भक्त्या मूलमन्त्रं समुच्चरन् |
पवित्रं कुरु देवेशि ! मांसं मत्स्यं कुलेश्वरि ! |
मुद्रां शस्योद्भवां दिव्यां पूजार्थं कुलनायिके ! |
ततो हु/ फट् वारुणञ्च तस्योपरि जपेत् प्रिये ! |
मूलमन्त्रं च तन्मध्ये दशधा जपनं चरेत् ||

अथ शक्तिशोधनं तत्रैव ||

इदानीं कथयिष्यामि नारीणां शोधनं प्रिये ! |
अग्रे वा दक्षिणे वापि संस्थाप्य मण्डलोपरि |
भाले च मण्डलं कुर्यात्त्रैपुरं सिन्दुरेण च |
नयने कज्जलं दद्यान्मूलमन्त्रं जपेत् सुधीः |
अन्यैश्च विविधैर्द्रव्यैर्भक्षयेत् शक्तिमग्रतः |
ताम्बूलं वदने दद्यादिष्टमूर्त्तिं विभाव्य च |
ततः षडङ्गमन्त्रैश्च षडङ्गन्यासमाचरेत् |
मातृकार्णं ततो न्यस्य ऋष्यादिन्यासमाचरेत् |
मूलेन व्यापकं कृत्वा मूर्ध्नि मूलं शतं जपेत् |
हृदये कामवीजञ्च बध्वीजञ्च सञ्जपेत् |
नाभौ श्रीं गुह्यदेशे च सर्ववीजञ्च पार्वति ! |
मौलौ च वाग्भवं कामं कुण्डलीं कुलकुण्डलीम् |
शक्तिवीजं जपेन्मन्त्री सर्वसिद्धीश्वरो भवेत् |
वामे मायां श्रावयेच्च कर्णे चैव महेश्वरि ! |
एवं क्रमेण देवेशि ! नारीशुद्धिः प्रजायते ||

इति शक्तिशोधनम् ||

शुद्धशक्तिफलमाह तत्रैव ||

साधिता च जगद्धात्री यद्यद्वदति पार्वति ! |
तत् सर्वं सत्यतां याति सत्यं सत्यं न संशयः |
दीक्षितानाञ्च देवेशि ! शुद्धिर्नास्ति कदापि हि ||

श्यामारहस्यधृतपञ्चमकारशोधनादिर्यथा ||

स्ववामे षट्कोणान्तर्गतत्रिकोणविन्दुं विलिख्य वाह्ये वृत्तचतुरस्रं विधाय सामान्यार्घ्योदकेनाभ्युक्ष्य तत्राधारशक्तिभ्यो नम इति पूजयेत् |
नम इत्याधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य मं वह्निमण्डलाय दशकलात्मने नम इति सम्पूज्य फडिति कलसं प्रक्षाल्य कारणेन सम्पर्य रक्तवस्त्रमाल्यादिना भूषयित्वा ओं इत्याधारोपरि देवीबुद्ध्या संस्थाप्य मं वह्निमण्डलाय दशकलात्मने नम इत्याधारं पूजयित्वा अं अर्कमण्डलाय द्वादशकलात्मने नम इति कलसं सम्पूज्य उं सोममण्डलाय षोडशकलात्मने नम इति पूजयेत् |
ततः फडिति दर्भैर्द्रव्यं सन्ताड्य हुमित्यवगुण्ठनमुद्रयावगुण्ठ्य मूलमन्त्रेण संवीक्ष्य नम इत्यभ्युक्षणं कृत्वा मूलेन त्रिधा गन्धमादाय ओं इति कुम्भे पुष्पं दत्त्वा द्रव्यम्ध्ये हसौः इत्यनेन त्रिकोणं विलिखेत् |

हसौः हसौः नम इति इष्ट्वा ह्रीं क्रीं परमस्वामिनि परमाकाशशून्यवाहिनि चन्द्रसूर्याग्निभक्षिणि पात्रं शिवशिव स्वाहा |
इति घटं धृत्वा दशधा प्रजप्य ऐं ह्रीं क्रीं आनन्देश्वराय विद्महे सुधादेव्यै धीमहि तन्नोर्द्ध्वनारीश्वरः प्रचोदयात् |
इति तदुपरि जप्त्वा शापमोचनं कुर्यात् ||

तदुक्तं स्वतन्त्रे ||

ततश्च कारणं दिव्यं समानीय घटस्थितम् |
वेष्टितं रक्तवस्त्रेण रक्तमाल्येन भूषितम् |
वामभागे महेशानि ! मण्डलं चतुरस्रकम् |
तत्र संस्थापयेद्भक्त्या देवीबुद्ध्या वरानने ! |
मण्डले कलसे द्रव्ये वह्न्यर्के शशिमण्डलम् |
इति पूजयेदित्यर्थः ||

भावचूडामणौ च ||

वामभागे तु षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् |
लिखित्वा तत्र कुम्भं वै सौवर्णं राजतञ्च वा |
ताम्रं भूमिमयं वापि यद्वा लौहविवर्जितमिति ||

तन्त्रान्तरे च ||

आधारे स्थापयेन्मन्त्री सौवर्णं वाथ राजतम् |
कांस्यजं मृण्मयं वाति घटमव्रणशालिनम् ||

सुवर्णादिमयघटस्य प्रत्येकफलमाह तत्रैव ||

सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदं तथा |
कांस्यं शान्तिकरञ्चैव मृण्मयं पुष्टिदं भवेत् ||

अथ शापमोचनमन्त्रास्तदुक्तं कुमारीतन्त्रे ||

अन्यच्च शुणु देवेशि ! यथा पानादिकर्मणि |
दोषो न जायते देवि ! तान् वै मन्त्रान् शृणुष्व मे |
एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् |
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् |
सूर्यमण्डलसम्भूते ! वरुणालयसम्भवे ! |
अमावीजमये ! देवि ! शुक्रशापाद्विमुच्यताम् |
वेदानां प्रणवो वीजं ब्रह्मानन्दमयं यदि ||

इति |
तेन सत्ये न ते देवि ! ब्रह्महत्यां व्यपोहति |
एवं मन्त्रत्रयेणैव अभिमन्त्र्य सुरां शुभाम् |
प्रदद्यात् कालिकायै च ततो नैवेद्यभुग्भवेत् |
इति मन्त्रत्रयं देवि ! घटं धृत्वा त्रिधा पठेत् |
ततः ओं वा/ वी/ वू/ वै/ वौ/ वः ब्रह्मशापविमोचितायै सुधादेव्यै नम इति त्रिधा पठेत् |
इति ब्रह्मशापविमोचनम् ||

ततः ओं शा/ शी/ शू/ शै/ शौ/ शः शुक्रशापाद्विमोचितायै सुधादेव्यै नम इति दशधा जपेत् |
इति शुक्रशापविमोचनम् ||

ततः ऐ/ ह्री/ श्री/ क्रा/ क्री/ क्रू/ क्र/ क्रौ/ क्रः कृष्णशापं विमोचय अमृतं श्रावय श्रावय स्वाहा |
इति दशधा जपेत् |
इति कृष्णशापविमोचनम् ||

अथ उत्तरतन्त्रे ||

ओं हंसः शुचिसद्वसुरन्तरीक्षं सद्धोता वेदिसदतिथिर्दुरोनसत् |
नृसद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं वृहत् |
इति द्रव्योपरि वारत्रयं पठएत् |
ततो द्रव्यमध्ये आनन्दभैरवं आनन्दभरवीञ्च ध्यायेत् ||

यथा ||

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् |
अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् |
अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरि स्थितम् |
वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् |
कपालखट्टाङ्गधरं घण्टाडमरुवादिनम् |
पाशाङ्कुशधरं देव गदामुषलधारिणम् |
खड्गखेटकपट्टीशमुद्गरं शूलदण्डधृक् |
विचित्रं खेटकं मुण्डं वरदाभयपाणिनम् |
लोहितं देवदेवेशं भावयेत् साधकोत्तमः |
एवं ध्यात्वा हसक्षमलवरयूं आनन्दभैरवाय वषट् |
इत्यानन्दभैरवं वारत्रयं जपेत् ||

अथानन्दभैरवीं ध्यायेद् यथा |
भावयेच्च सुधां देवीं चन्द्रकोट्ययुतप्रभाम् |
हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् |
अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् |
प्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम् |
एवं ध्यात्वा हसक्षमलवरयीं सुधादेव्यै वौषट् |
इत्यानन्दभैरवीं सम्पूज्य द्रव्यमध्ये शक्तिचक्रं लिखेत् |
ततस्त्रिपंक्त्या दक्षिणावर्त्तेन अं १६ कं १६ खं १६ क्रमेण विलिख्य मध्ये हं लं क्षं विलिखेत् |
ततः शिवशक्त्योः

समायोगाद् द्रव्यमध्ये अमृतत्वं विचिन्त्य धेनुमुद्रया अमृतीकृत्य वमिति वरुणवीजं मूलमन्त्रञ्चाष्टधा जप्त्वा देवतामयं भावयन् घटं धृत्वा पठेत् |
इति द्रव्यशुद्धिः ||

तदुक्तं स्वतन्त्रतन्त्रे ||

ततश्च भावयेद्द्रव्यं मध्ये रक्तनिभं प्रिये ! |
अकथादित्रिपंक्त्या तु हलक्षत्रयमण्डितम् |
पूर्वोक्तयोनिमुद्रायां शिवशक्त्याः समागमे |
अमृतं चिन्तयेद्द्रव्यमष्टधा अमृतं जपेत् |
अष्टधा मूलमन्त्रञ्च जपेद्धृत्वा घटं ततः |
एतत्तु कारणं देवि ! सुरसङ्घनिषेवितम् |
अत एव तस्या नाम सुरेति भुवनत्रये |
अस्या गन्धः केशवस्तु तेन गन्धेन कौलिकः |
पूजयेच्च परां देवीं कालिकां दक्षिणां शिवाम् ||

अथ मांसशोधनम् ||

ओं प्रतद्विष्णुस्तव ते वीर्येण मृगो न भीमः कुचरो गरिष्ठा यस्योरुषु त्रिषु विक्रमे धियन्ति भुवनानि विश्वा |
इत्यनेन मांसं शोधयेत् |
ततः ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ||

इति मीनशुद्धिः ||

ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुराततम् |
ओं तद्विप्रासो विपन्यवो जागृवांसः समिन्धते |
विष्णोर्यत् परमं पदम् ||

इति मुद्राशुद्धिः ||

ओं विष्णोर्योनिं कल्पयतु त्वष्टा रूपाणि पिंसतु |
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते |
गर्भं देहि सिनीवाली गर्भं देहि सरस्वति ! |
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ||

अथ स्वयम्भूकुसुमादि ||

मुण्डमालातन्त्रे द्वितीयपटले ||

हरसम्पर्कहीनाया लतायाः काममन्दिरे |
जातं कुसुममादौ यन्महादेव्यै निवेदयेत् |
स्वयम्भूकुसुमं देवि ! रक्तचन्दनसंज्ञितम् |
तथा त्रिशूलपुष्पञ्च वज्रपुऽपं वरानने ! |
अनुकल्पं लोहिताक्षचन्दनं हरवल्लभम् ||

समायाचारतन्त्रे द्वितीयपटले ||

स्त्रीणां ऋतुः प्रथमतो यस्मिन् वयसि जायते |
गृह्णीयादाशु सुभगे ! ब्रह्मादीनाञ्च दुर्लभम् |
स्वयम्भूकुसुमं नाम देवताप्रीतये सदा |
यदि भाग्यवशाद्देवि ! लभते कुसुमन्द्विदम् |
ततः स्वदेवतानाञ्च कुर्यात् स्नानमनुत्तमम् |
वाञ्छितं लभते मन्त्री सत्यं सत्यं वरानने ! |
इदं रहस्यं कथितं देवतास्नानहेतवे |
न कुर्याद्भक्षणं देवि ! एतयोरुभयोरपि |
एतयोः शक्तिकुसुमस्वयम्भूकुसुमयोरित्यर्थः ||

तथा ||

जीवद्भर्त्तृकनारीणां पञ्चमं कारयेत् प्रिये ! |
तस्या भगस्य यद्रव्यं तत्कुण्डोद्भवमुच्यते |
मृतभर्त्तृकनारीणां पञ्चमञ्चैव कारयेत् |
तस्या भगस्य यद्द्रव्यं तद्गोलोद्भवमुच्यते |
कुण्डगोलोद्भवं पुष्पं अभावे शृणु सुन्दरि ! |
अभावे स्वयम्भूकुसुमाभावे ||

वल्लीपुष्पाणि सर्वाणि तरोः पुष्पाणि यानि च |
तानि सर्वाणि सुभगे ! देवतायै निवेदयेत् |
अपराजितायाः पुष्पं यद्वज्रपुष्पञ्च यद्भवेत् |
करवीरस्य यत् पुष्पं यत् पुष्पं बन्धुजीवकम् |
कमलस्य च यत् पुष्पं यत् पुष्पं चम्पकस्य च |
विशेषतस्तु योग्यानि पुष्पाणि सुरसुन्दरि ! |
वर्वरापत्रपुष्पाणि विल्वपत्राणि सुन्दरि ! |
पूजार्थं सर्वमादाय सर्वसौभाग्यसिद्धये ||

उत्पत्तितन्त्रे प्रथमपटले ||

स्वयम्भूकुसुमैर्हुत्वा स्वयम्भूपुष्पपूजनम् |
यः करोति महादेवि ! स वीरः शिव एव तु ||

गन्धर्वतन्त्रे द्वितीयपटले ||

आनीय कन्यकां दिव्यां प्रमदां यौवनान्विताम् |
प्रोक्षितां मूलमन्त्रेण सुशीलाञ्चारुहासिनीम् |
सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् |
गुरुभक्तां सुवेशाञ्च देवतापूजने रताम् |
तस्य गात्रे न्यसेन्मन्त्री पञ्चकामान् शवानपि |
पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृका न्यसेत् |
दिव्यमालां समादाय साधको विजितेन्द्रियः सहस्रैकप्रमाणेन जपेत् स्वप्नावतीं ततः |
अनेनैव विधानेन भवेदाकर्षणं महत् |
तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् |
सर्वसङ्क्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् |
कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः |
कामेश्वरस्वरूपञ्च आत्मानमपि भावयन् |
स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् |
तस्याः पुष्पं स्वयं यावद्रक्षणीयं प्रयत्नतः |
ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् |
नानारसान्नपानेन तृप्तिमाचर्य यत्नतः |
वस्त्रालङ्कारभूषाद्यैस्तस्याः सन्तोषमानयेत् |
यथाकाले तथा पुष्पं स्वयं तद्योग्यरूपतः |
गृह्णीयात्तु प्रयत्नेन स्वयम्भूकुसुमं हि तत् |
स्वम्भूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् |
प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि |
स्वयम्भूपष्पयोगेन साक्षात्तेन सदार्चयेत् |
विद्यां स्वप्नावती जप्त्वा क्षिप्रमाकर्षणं भवेत् |
देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये |
राजानश्च स्त्रियः सर्वा नित्यं वश्या भवन्ति हि |
स्वयम्भूकुसुमैः पूजां प्रत्यहं यः समाचरेत् |
जप्त्वा वै दिव्यमालायां सर्वकाममुपालभेत् ||

अथ स्वयम्भूकुसुमादिशुद्धिः ||

प्लुं स्लुं म्लुं श्लुं स्वाहा ! अमृते ! अमृतोद्भवे ! अमृतेश्वरि ! अमृतवर्षिणि ! अमृतं श्रावय श्रावय स्वाहा |
इति कुण्डगोलोद्भवादिशुद्धिः ||

ततः सर्वं हुं इत्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य तालत्रयं दत्त्वा दशदिग्बन्धनञ्च कृत्वा तदुपरि मूलं सप्तधा जपेदिति शोधनम् ||

हसक्षमलवरयूं आनन्दभैरवाय वषट् |
इत्यानन्दभैरवं सम्पूज्य अर्घ्यपात्रं धृत्वा पठेत् |
ऐं क्रीं सौः ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् |
आपूरितं महापात्रं पीयूषरसमाहर |
ऐं खण्डैकरसानन्दककरे रयसुधाशुनि |
स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ! |
क्लीं अकुलस्थामृताकारे शुद्धिज्ञानकरे

परे |
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ! |
सौः तद्रूपेणैकरम्यञ्च कृत्वास्यैतत्स्वरूपिणि |
भूत्वा परामृताकारं मयि विस्फुरणं कुरु |
ऐं स्लुं व्लुं अं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं श्रावय श्रावय स्वाहा |
ऐं वदवदवाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु ऐं क्लीं सौः महामोक्षं कुरु हौः हसौः |
अनेन कारणमभिमन्त्र्य तत्र देवीमावाह्य तालत्रयदिग्बन्धनं कृत्वा अवगुण्ठनमुद्रया अवगुण्ठ्य धेनुमुद्रयामृतीकृत्य योनिमुद्रां प्रदर्श्य हसौर्नम इति सम्पूज्य तत्र शङ्खमुद्रां प्रदर्श्य षडङ्गेन सकलीकृत्य मत्स्यमुद्रया पात्रमाच्छाद्य मूलं दशधा जप्त्वा देवीस्वरूपं पात्रं भावयेत् |
ततो देव्या आज्ञां गृहीत्वा घटश्रीपात्रयोर्मध्ये पात्राणि स्थापयेत् |
ततो घटसमीपे गुरुपात्रं ततो भोगपात्रं ततः शक्तिपात्रं योगिनीपात्रं वीरपात्रं बलिपात्रं पाद्यपात्रमाचमनीयपात्रञ्च स्थापयेत् सामान्यार्घ्यवत् |
ततो मत्स्यमांसादियुक्तकारणेन तत्त्वमुद्रया श्रीपात्रात् स्वमूर्ध्नि श्री-आनन्दभैरवं तर्पयामीति तन्मन्त्रेण त्रिःसन्तर्प्य तत्तन्मन्त्रेण अमुकानन्दनाथगुरुश्रीपादुकां तर्पयामि इति त्रिः सकृद्वा सन्तर्प्य एवं परमपरापरपरमेष्टिगुरून् तर्पयेत् |
ततः श्रीपात्रामृतेन देवीं सायुधां सवाहनां सपरिवारां हृदि तर्पयेत् ||

तत्त्वमुद्रा यथा निरुत्तरतन्त्रे चतुर्दशपटले ||

अङ्गुष्ठानामिकायोगाद्वामहस्तस्य पार्वति ! |
तर्पयेत् कालिकां देवीं सायुधां सपरीकराम् |
अङ्गुष्ठो भैरवो देवश्चानामा शक्तिरुच्यते |
शिवशक्तिसमायोगात्तर्पयेद्देवि ! देवताम् |
तर्पणं त्रिविधं देवि ! श्रेष्ठं मध्यं कनीयसम् |
श्रेष्ठञ्च दिव्यभावस्य वीरभावस्य मध्यमम् |
कनीयसं पशूनाञ्च हृदि यन्त्रे जले क्रमात् |
ततस्तत्त्वशुद्धिं कुर्यात् |
तदुक्तं श्रुतौ |
प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || १ ||

ओं पृथिव्यप्तेजोवायवाकाशानि मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || २ ||

ओं प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे इत्यादि || ३ ||

ओं त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे इत्यादि || ४ ||

ओं पाणिपादपायूपस्थशब्दा मे इत्यादि || ५ ||

ओं वायुतेजःसलिलभूम्यात्मानो मे इत्यादि || ६ ||

ओं स्पर्शरूपरसगन्धघोषाणि मे शुध्यन्तां ज्योतिरहमित्यादि || ७ ||

इति सप्तमात्रान् पठित्वा कारणेन करतलं सम्मार्ज्य दक्षहस्ते त्रिकोणं लिखित्वा कलासदृशीं शुद्धिं त्रिकोणदक्षिणोत्तरसम्मुखमध्ये तु निधाय वामहस्ताङ्गुष्ठमध्यमानामायोगैरेकां गृहीत्वा मूलमन्त्रान्ते ह्रीं श्रीं आत्मतत्त्वेन स्थूलदेहं शोधयामि स्वाहा |
अनेनाधःशुद्धिं स्वीकृत्य ह्रीं श्रीं विद्यातत्त्वेन सूक्ष्मदेहं शोधयामि स्वाहा |
अनेन दक्षिणस्थां स्वीकृत्य ह्रीं श्रीं शिवतत्त्वेन परदेहं शोधयामि स्वाहा |
अनेनोत्तरस्थां स्वीकृत्य ह्रीं श्रीं सर्वतत्त्वेन तत्त्वत्रयाश्रयं जीवं शोधयामि स्वाहा |
अनेन वाममध्यमाञ्च स्वीकृत्य वस्त्रेण हस्तौ संशोध्य हस्ताभ्यां सर्वाङ्गं मार्जयेदिति तत्त्वशुद्धिः ||

इति श्रीप्राणतोषिण्यां सप्तमे निर्गुणकाण्डे पूर्णाभिषेकादिकथनं नाम द्वितीयः परिच्छेदः ||

अथ वीराचारपूजा ||

कृकलासदीपिकायां तृतीयपटले ||

आदौ दीपनी देवेशि ! वक्तव्या वीरपूजिते ! |
यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः |
सर्वेषामेव देवानां दीपनीया प्रकीर्त्तिता |
चतुर्वर्गप्रदा विद्या सिद्धिविद्यासु पार्वति ! |
अनया तु विना विद्या न सिध्यति कदाचन |
विना पूजां विना ध्यानं विनाचारं महेश्वरि ! |
साधको ज्ञानमात्रेण भवेन्मुक्तो महानघः |
तत्कुले नैव दारिद्र्यं तद्गोत्रे नास्त्यपण्डितः |

प्राणं देयाद्धनं देयात् कुलं देयात् स्त्रियोऽपि च |
एनां विद्यां महेशानि ! न दद्याद्यस्य कस्यचित् |
कालीवीजत्रयं कूर्चयुगलं तदनन्तरम् |
लज्जावीजद्वयं देवि ! दक्षिणे कालिके तथा |
पुनस्तान्येव वीजानि वह्निकान्तावधिर्मनुः |
भैरवोऽस्य ऋषिः प्रोक्त उष्णिक् छन्द उदाहृतम् |
दक्षिणाकालिका प्रोक्ता देवता तन्त्रगोपिता |
वीजं शक्तिञ्च देवेशि ! कूर्चं लज्जां क्रमात् प्रिये ! |
अङ्गन्यासकरन्यासौ मायया परिकीर्त्तितौ |
करालवदनां घोरां मुक्तकेशीं दिगम्बराम् |
चतुर्भुजां महादेवीं मुण्डमालाविभूषिताम् |
सद्यः कृत्तशिरःखड्गवामोर्द्ध्वाधःकराम्बुजाम् |
अभयं वरदञ्चैव दक्षिणाधोर्द्ध्वपाणिकाम् |
महामेघप्रभां श्यामां करकङ्कालकान्विताम् |
कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् |
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् |
शवरूपमहादेवहृदयोपरिसंस्थिताम् |
महाकालेन च समं विपरीतरतातुराम् |
एवं ध्यात्वा प्रयत्नेन मद्यैर्मांसैश्च भक्तितः |
रक्तपुष्पै रक्तपद्मै रक्ताम्बरसमन्वितैः |
सम्पूज्य यत्नतो मन्त्री परिवारान् समर्च्चयेत् |
पीठपूजां ततो देवि ! आधारशक्तिपूर्वकम् |
प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च |
सुधाम्बुधिं मणिद्वीपं चिन्तामणिगृहं तथा |
श्मशानं पारिजातञ्च तन्मूले मणिवेदिकाम् |
तस्योपरि मणेः पीठं न्यसेत् साधकत्तमः |
चतुर्दिक्षु मिनीन् देवान् शिवाश्च नरमुण्डकान् ||

धर्माद्यधर्मादींश्चैव ओं ह्रीं ज्ञानात्मने नमः |
केशरेषु च पूर्वादिष्विच्छाज्ञानक्रिया तथा |
कामिनी कामदा चैव रतिः प्रीतिस्तथैव च |
श्रियानन्दा महेशानि ! मध्ये चैव मनोन्मनी |
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् |
विप्रचित्तां महेशानि ! वहिः षट्कोणके बुधः |
उग्रामुग्रप्रभां दीप्तां न्यसेत् पत्रत्रिकोणके |
मात्रां मुद्रां मिताञ्चैव न्यसेच्चान्यत्रिकोणके |
सर्वाः श्यामा असिकरा

मुण्डमालाविभूषिताः |
तर्जनीं वामहस्तेन धारयन्त्यः शुचिस्मिताः |
दिगम्बरा हसन्मुख्यः स्वस्ववाहनभूषिताः |
एवं ध्यात्वा प्रयत्नेन पूजयेदष्टपत्रके |
ब्रह्माणीं नारायणीञ्चैव तथा माहेश्वरीं प्रिये ! |
अपराजिताञ्च कौमारीं वाराहीमर्च्चयेद्बुधः |
नारसिंहीं प्रपूज्यैव ततो दक्षिणतो जयेत् |
महाकालं यजेद्देवि ! विपरीतरतान्तरे |
दिगम्बरं मुक्तकेशं चण्डवेशं प्रयत्नतः |
एवं सम्पूज्य यत्नेन यजेन्मन्त्रमनन्यधीः |
विना मद्यं विना मांसं यदि देवीम् प्रपूजयेत् |
देवताशापमाप्नोति मृते नरकमश्नुते |
विना परस्त्रिया देवि ! जपेद् यदि तु साधकः |
शतकोटिजपेनैव तस्य सिद्धिर्न जायते |
स्त्रियो गतिः स्त्रियः प्राणाः स्त्रियः सिद्धिर्न संशयः |
नारीणां स्मरणे काली स्मारिता स्यान्न संशयः |
कण्ठे कण्ठं मुखे वक्त्रं वक्षोजं चोरसि प्रिये ! |
कुलागारे तथा दण्डं दत्त्वा यो जपते नरः |
जपार्द्धेनैव देवेशि ! साक्षाद्भवति कालिका |
तस्यै कुलरसं देवि ! पाययित्वा यथोचितम् |
स्वयं पीत्वा जपेन्मन्त्रं सिद्धिर्भवति नान्यथा |
एतस्य च प्रयोगेण ग्लानिर्यस्य प्रजायते |
कालिकामन्त्रवर्गेषु नाधिकारी स उच्यते |
लक्षमात्रजपेनैव पुरश्चरणमुच्यते |
क्षत्त्रियाणां द्विलक्षं स्याद्वैश्यानाञ्च त्रिलक्षकम् |
शुद्राणान्तु चतुर्लक्षं पुरश्च्रणमुच्यते |
लक्षमात्रं जपेद्देवि ! हविष्याशी दिवा शुचिः |
रात्रौ निशीथे तावच्च पीत्वा कुलरसं प्रिये ! |
कुलनारीगणोपेतो जपेन्मन्त्रमनन्यधीः |
एवमुक्तविधानेन दशांशं होममाचरेत् |
तद्दशांशं तर्पणञ्च तद्दाशांशाभिषेचनम् |
तद्दशांशविप्रभोज्यं कीर्त्तितं परमेश्वरि ! |
पुष्पिणीमकरन्देन होमतर्पणमाचरेत् |
एवं प्रयोगमात्रेण सिद्धो भवति नन्यथा |
वाक्सिद्धिं लभते देवि ! कवित्वं निर्मलं प्रिये ! |
धनेनापि कुवेरः स्याद्विद्यया

स्याद्वृहस्पतिः |
आकल्पजीवनो भूत्वा अन्ते मुक्तिमवाप्नुयात् |
प्रयोगारम्भकाले च सुरा दुग्धमयी भवेत् |
लोहितं वा भवेद्देवि ! मांसं पुष्पमयं भवेत् |
सुरापात्रं भवेच्छून्यं मांसपात्रं विशेषतः |
कलाकलान्तरञ्चैव पुष्पं पुष्पान्तरं भवेत् |
नवनीतं मांसतुल्यं मांसं पुष्पं भवेत् प्रिये ! |
एवं ज्ञात्वा साधकेन्द्रो जायते च क्रमेण तु |
यस्यात्र प्रत्ययो देवि ! लभते नात्र संशयः |
मनोयोगं तदर्द्धे स्याद्यत्नेन वरवर्णिनि! |
सौवर्णं राजतञ्चैव तथा मौक्तिकमेव च |
विद्रुमं पद्मरागञ्च तथैव वरवर्णिनि ! |
प्रोक्तं मालाचतुष्कञ्च समभागेन मालिकाम् |
ग्रथयेत् पट्टसूत्रेण पुष्पिणी गृहवर्त्तिनी |
लोहितेन वरारोहे ! सर्पाकारां सुशोभनाम् |
स्नापयेत् पञ्चगव्येन मकरन्देन पार्वति ! |
तारं मायां कूर्च्चयुग्मं माले माले पदं तथा |
वह्निकान्तां समुच्चार्य शतं जप्त्वाभिमन्त्रयेत् |
स्नापयेत् पीठमध्ये तु शून्यागारे वरानने ! |
ततस्तां मालिकां देवि ! गृहीत्वा यत्नतः सुधीः |
ज्ञात्वा सिद्धिन्तु निकटे महोत्सवमथाचरेत् |
Auslassung N-M1: Der Wortlaut dieser sexualisierten Darstellung Minderjähriger ist ausgelassen. Eine sachliche Inhaltsangabe erläutert ihren Zusammenhang.

तत्रापि प्रत्ययो नो चेच्चारुहोमं प्रकल्पयेत् |
निशीथे निर्भयो देवि ! श्मशाने प्रान्तरे तथा गन्धैः स्नानादिकं कृत्वा पादशौचादिपूर्वकम् |
घटमारोपयेत्तत्र सौवर्णं राजतं तथा |
ताम्रं वा तं महेशानि ! विभवानुक्रमेण तु |
कल्पयित्वा निशाभागे पूजयेत् परमेश्वरीम् |
उपाचारैर्यथाशक्ति वित्तशाठ्यं विवर्जयेत् |
देवीपूजां विधायैव पिष्टन्तु परिदापयेत् |
चरौ निधाय यत्नेन चतुष्पिष्टकवर्त्तुलम् |
ततश्चरुं पाययेत्तु कुण्डमध्ये तु पूजयेत् |
रक्तां घनां बलाकाञ्च नीलां कालीं कलावतीम् |
द्वारेषु पूजयेन्मन्त्री लोकपालान् प्रयत्नतः |
ग्रहान् सम्पूजयेन्मन्त्री चतुष्कोणक्रमेण तु |
हविर्धारां हुमेन्मन्त्री यथाशक्त्या ततश्चरुम् |
श्रावयेन्मूलमन्त्रेण मधुना सिद्धिहेतवे |
हुता सञ्छादयेन्मन्त्री हुताशं पीतवाससा |
पूजयेद् यत्नतो मन्त्री ततो दक्षिणकालिकाम् |
धूपदीपैश्च नैवेद्यैः प्रदक्षिणमथाचरेत् |
पिष्टवर्त्तुलसङ्ख्यातं सुवर्णादि प्रजायते |
एकेनैव प्रयोगेण यदि सिद्धिर्भवेत् प्रिये ! |
तथा होमो द्वितीयेन रौप्यं वापि सुरेश्वरि ! |
तृतीयेन भवेत्ताम्रं लौहं तुर्येण च स्मृतम् |
एषामन्यतमां ज्ञात्वा साधयेत् सिद्धिमुत्तमाम् |
सिद्धायां कालिकायाञ्च नैन्द्रं दुर्लभमुच्यते |
गुरुमूलमिदं सर्वं तस्मादादौ समर्चयेत् |
तस्य प्रसादमात्रेण सिद्धो भवति नान्यथा |
तत्रापि प्रत्ययो नोचेत् प्रदक्षिणमथाचरेत् |
अमावस्यादिने चैव निशीथे गतसाध्वसः |
श्मशाने प्रान्तरे वापि गत्वा देवीं प्रपूजयेत् |
मद्यमांसोपचारैश्च धूपदीपैर्मनोरमैः |
नैवेद्यैः समिषान्नैश्च तथैव वरवर्णिनि ! |
द्रव्यैर्लोहितवस्त्रैश्च स्वर्णाभरणभूषितैः |
जपन्मूलं क्रोधरुद्धं प्रदक्षिणमथाचरेत् |
प्रणमेद्दण्डवद्भूमावनिशं गिरिसम्भवे ! |
निशायामुत्तमं यावन्निशाशेषं महेश्वरि ! |
यदि भीतिर्भवेत्तत्र तदा दृधतरो भवेत् |
दन्तादन्ति विधायैव मनसैव मनुं स्मरेत् |
अवश्यं श्रूयते शब्दः शिखा च दृश्यते स्थले |
यदि तत्र भवेद्देवि ! शब्दो गुणगुणो भवेत् |
ततः परलतासक्तः पुनः कार्यं तथैव च |
तदा भवति चार्वङ्गि ! देववाणी सुशोभना |
सिद्धिमावश्यकीं ज्ञात्वा महोत्सवमथाचरेत् |
तथापि प्रत्ययो नोचेत् भगयागमथाचरेत् |
कामिनीं युवतीं यत्नात् पुष्पिताञ्च विशेषतः |
तामानीय प्रयत्नेन स्वञ्च भूषणमाचरेत् |
तामुद्वर्त्त्य स्वयं गन्धैर्भूषणैर्वसनैस्तथा |
मिष्टान्नैर्भोजयित्वा च भक्त्या परमया शिवे ! |
तां विवस्त्रां विधायैव स्थापयेदूर्द्ध्वतल्पगे |
ततः पूजां विधायैव नानासम्भारसंयुतैः |
तत्रैव रचयेद्यन्त्रं रक्तचन्दनयावकैः |
भगनासां भगप्राणां भगदेहां भगस्तनीम् |
पूजयेदष्टपत्रेषु मध्ये देवीं प्रपूजयेत् |
रक्तगन्धै रक्तमाल्यै रक्तवस्त्रैर्मनोरमैः |
पूजयेद्भक्तितो मन्त्री देवीदर्शनकाम्यया |
एतस्मिन् समये देवि ! रतिमिच्छति सा यदा |
लतान्तु रमयेद्देवि ! यावद्धोमं करोति न |
पुष्पिणीमकरन्देन ततो होमं समाचरेत् |
ओं नमस्ते भगमालायै भगरूपधरे ! शुभे ! |
भगरूपे ! महाभागे ! भोगमोक्षैकदायिनि ! |
भगवत्याः प्रसादेन मम सिद्धिर्भविष्यति |
कालि ! कालकलारूपे ! कुलीने ! कुलरूपिणि ! |
कुलमार्ग प्रसादेन मम सिद्धिर्भविष्यति |
एवं स्तुत्वा महेशानि ! कूर्चवीजसहस्रकम् |
जप्यं देवेशि ! वचसा नारसिंहं

शतावधि |
उन्मत्ता सा स्वयं ब्रूते यदा साक्षाद्भविष्यति |
अवश्यं कथयेत् कान्ता नात्र कार्या विचारणा |
इति ते कथितं देवि ! गुह्याद्गुह्यतरं परम् |
प्रकाशात् कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत् |
अत्राशक्तो महेशानि ! कलावटीं समाचरेत् |
कुङ्कुमं चन्दनं चन्द्रं एकीकृत्य तु पेषयेत् |
जपेत् सहस्रं देवेशि ! देवीञ्चैव प्रपूजयेत् |
कामिनीं पूजयेद्भक्त्या तस्या मूर्द्ध्वनि कारयेत् |
तिलकं वश्यमात्रेण स्वयं शिरसि धारयेत् |
रमा वाणी भवानी च सर्वसम्मोहिनी तथा |
ङेयुता परमेशानि ! वह्निकान्तावधिर्मनुः |
अनेन शतजप्तेन तिलकं मूर्ध्नि कारयेत् |
कलाञ्च पूजयेद्यत्नान्नानाभरणभूषिताम् |
पाययेत् सा स्वयं यत्नात् स्वयं पीत्वा च यत्नतः |
जायते देववाणी च ततो देवी न संशयः |
एवं भूत्वा वरारोहे ! ततो यत्नं समाचरेत् |
अथवा देवदेवेशि ! नग्नीभूय विचक्षणः |
नग्नां परलतां पश्यन् जपेन्मन्त्रमनन्यधीः |
यामोत्तरं समारभ्य यमद्वयमतन्द्रितः |
मध्यमांसोपचारैश्च पूजयित्वेष्टदेवताम् |
रक्षार्थं खड्गपाणिस्तु स्वपार्श्वेऽपि नियोजयेत् |
गणनाथं क्षेत्रपालं वटुकं योगिनीं तथा |
बलिभिः सामिषान्नैश्च यजेत् परमसुन्दरि ! |
घृतप्रदीपं प्रज्वाल्य ततो देवीं समर्चयेत् |
ततः सहस्रं जपतो देवतादर्शनं भवेत् |
अथवा नियमौ भूत्वा भूतलिप्यादिसम्पुटम् |
जपेत् प्रतिदिनं देवि ! सहस्रं सिद्धिहेतवे |
दिवारात्रौ संस्मरणं हविष्याशनमेव च |
सर्वदा धौतवस्त्रञ्च परिधाय प्रयत्नतः |
म्लेच्छसम्भाषणञ्चैव पिष्टकं यत्नतस्त्यजेत् |
केवलं दुग्धपायौ स्यादथवा यावकाशनः |
शाकाहारो जलाहारो निराहारोऽथवा भवेत् |
तीर्थमासाद्य निवसेद्भुवो वा प्रियमेव च कुमारीं पूजयेद्यत्नान्नानाभरणसंयुताम् |
मासे पूर्णे वरारोहे !

निशीथे गतसाध्वसः |
महापूजां प्रकुर्वीत लतामण्डलमध्यगः |
मद्यैर्मांसैश्च विविधैरन्यैश्च विविधैस्तथा |
सम्पूज्य विधिवद्भक्त्या सर्वदा तिमिरालये |
सहस्रजपमात्रेण सिद्धिर्भवति नान्यथा |
साक्षादायाति सा देवी सत्यं सत्यं न संशयः |
साक्षाद्याति वरारोहे ! भवेदिन्दुसमो नरः |
अञ्जनं पादुकासिद्धिः खड्गसिद्धिर्वरानने ! |
अजरामरता देवि ! कामिनीसिद्धिहेतवे |
तथा मधुमतीसिद्धिर्जायते नात्र संशयः |
देवचेटीशतं तस्या वश्यं भवति नान्यथा |
स्वर्गे मर्त्त्ये च पाताले स यत्र गन्तुमिच्छति |
तत्रैव चेटिकाः सर्वा नयन्ति नात्र संशयः |
रम्भा वापि घृताची वा यदि जपति साधकः |
तदैव याति सा देवी नात्र कार्या विचारणा |
इच्छामृत्युर्भवेद्देवि ! किमन्यत् कथयामि ते |
एष विधिर्दक्षिणाया गुह्यस्तन्त्रसहस्रके |
तव स्नेहाद्वरारोहे ! कथितो हि न संशयः |
अथवा गणिकां गत्वा पूजयेद्भक्तिभावतः |
तया सह जपेन्मन्त्रं पिबेदनिशमासवम् |
निवेद्य परया भक्त्या पाययेत्तां प्रयत्नतः |
एवं ज्ञात्वा विधानन्तु मासमेकं वरानने ! |
प्रत्यहं होमयेद्विद्वान् नित्यं स्याद्विप्रभोजनम् |
मासे पूर्णे साधकेन्द्रो निशीथे तु लतायुतः |
साक्षात् पूजाक्रमेणैव पूजयेत् परमेश्वरीम् |
महातिमिरमध्यस्थो जपेन्मन्त्रमनन्यधीः |
तत्क्षणाज्जायते सिद्धिः सत्यं देवि ! वदामि ते |
अथवा निम्बकाष्ठेन पाञ्चालीं रचयेद्बुधः |
कान्ताकारामसिद्धाञ्च स्नातामूर्द्ध्वकरेवतीम् |
गत्वा निर्जनदेशे तु महाकान्तारके प्रिये ! |
तत्र पूजाविधिं कृत्वा प्रयोगविधिमाचरेत् |
विलिखेच्चन्दनेनैव भुवि मन्त्रं मनोरमे ! |
पाञ्चालीं स्थापयेत्तत्र रक्तवस्त्रोपरि प्रिये ! |
तत्र गत्वा चतुर्दिक्षु कीलकान् रोपयेत् प्रिये ! |
तत्रैव लोकपालांश्च स्वस्वमन्त्रेण कीलितान्

|
गणेशं वटुकं क्षेत्रं योगिनीं चन्द्रदिक्षु च |
सम्पूज्य विधिवन्मन्त्री दूर्वाक्षतसमन्वितः |
ओं ये चात्र संस्थिता भूताः श्वेताः कुष्माण्डरूपिणः |
योगिन्यो यातुधानाश्च महारौद्राश्च ये तथा |
गन्धर्वा विघ्न कर्त्तारः किन्नराश्च पिपीलिकाः |
चिपिटाः शङ्कराश्चैव घोरदंष्ट्रा महोत्कटाः |
सूचीमुखा महापापाः पापकर्मरताश्च ये |
ताडितास्तु मया सर्वे प्रयान्तु शङ्कराज्ञया |
कूर्चमन्त्रं ससुचार्य ताडयेदक्षतैर्भृशम् |
महापूजाविधानेन देवीं सम्पूज्य यत्नतः |
ततः पुत्तलिकाभाले मूलमन्त्रं लिखेत् सुधीः |
पूजयेद्देवतास्तस्या अङ्गे देवि ! यथोचिताः |
ललाटे कालिकाञ्चैव नेत्रयोर्भद्रकालिकाम् |
कर्णयोर्गुह्यकालीञ्च जिह्वायां सिद्धिकालिकाम् |
श्मशानकालिकां मूर्ध्नि महाकालीञ्च वक्षसि |
कट्याञ्च कालिकां यत्नाद् गले श्रीयोनिकालिकाम् |
एवं सम्पूज्य यत्नेन हृदि मूलं शतं जपेत् |
अन्धकारे महाघोरे निर्जने वा सुरालये |
सहस्रजपमात्रेण साक्षाद्भवति नान्यथा |
अथवापि चितामध्ये रम्भामूलं समाश्रयेत् |
पूजयेत् परया भक्त्या नानाभरणसंयुताम् |
मद्यमांसोपचारेण तरुणीगणमध्यगः |
अनिशीथं जपेन्मन्त्रं साक्षाद्भवति नान्यथा |
अथवा कर्णिकारस्य वीजेन परमेश्वरि ! |
रचयेन्मालिकां दिव्यां रक्तवस्त्रेण पार्वति ! |
पुष्पिणीगृहरक्तेन शोभयेत् परमेश्वरि ! |
ततोऽपि धूपयेद्देवि ! कालागुरुसमुद्भवैः |
धूमैरम्भोजनयने ! देवीं सम्पूज्य यत्नतः |
मद्यमांसोपचारैस्तु साक्षाद्भवति नान्यथा |
इति ते कथितं देवि ! गुह्याद् गुह्यतरं परम् |
प्रकाशात् सिद्धिहानिः स्यात्तस्माद् यत्नेन गोपयेत् |
अथवा काकजङ्घाया लतां दग्ध्वा प्रयत्नतः |
तद्भस्मना वरारोहे ! भूषयेत् स्वतनुं तथा |
ततश्चितायां देवेशि ! नग्नीभूय विचक्षणः |
जपेदेकान्तरात्मा

च साक्षाद्भवति नान्यथा |
अथवापि वराहाणां भुक्तानां भुवि रोपयेत् |
तत्र देवीं समभर्च्य मद्यमांसप्रयोगतः |
पूजयेत् परमेशानि ! नानाद्रव्यैर्मनोरमैः |
पूजयित्वा प्रयत्नेन जपेन्मन्त्रमनन्यधीः |
ततः साक्षाद्वरारोहे ! नात्र कार्या विचारणा |
अथवापि वरारोहे ! प्रयोगविधिमाचरेत् |
नरमुण्डं समानीय मार्जारस्यापि पार्वति ! |
गोमुण्डं सार्द्रमानीय भूमौ निक्षिप्य यत्नतः |
ततः पीठं समारोप्य देवीं ध्यात्वा तु साधकः |
पूजयेदर्द्धरात्रौ तामासवादिसमन्वितः |
जपेत्तु परया भक्त्या सहस्रावधि साधकः |
ततः साक्षाद्भवेद्देवि ! नात्र कार्या विचारणा |
अथवा वनितां रम्यां गत्वा देवेशि ! यत्नतः |
पीत्वा तदधरं सम्यक् कर्पूरेण तु पूरयेत् |
तद्योनौ कुङ्कुमञ्चैव तत्कर्णे क्षौद्रमेव च |
ततो भुक्त्वा तु तां कान्तां तन्मन्त्रं परमेश्वरि ! |
तत् कुङ्कुमञ्च तत् क्षौद्रमेकीकृत्य प्रयत्नतः |
तदेव तिलकं कृत्वा निशीथे गतसाध्वसः |
सहस्रञ्च जपेन्मन्त्री ततः साक्षाद्भवेत्तदा |
अथवापि शरीरोत्थरुधिरेण वरानने ! |
यन्त्रं निर्माय यत्नेन तत्र देवीं समर्चयेत् |
मद्यमांसोपचारैश्च अर्कपुष्पैर्वरानने ! |
सहस्रजपमात्रेण सिद्धिर्भवति नान्यथा |
अथवा परमेशानि ! गङ्गातीरे वसेत् सुधीः |
उपवासद्वयं कृत्वा कुर्यात् स्नानमतन्द्रितः |
ततो देवीं समभ्यर्च्य धूपदीपैर्मनोरमैः |
हविष्यान्नैश्च नैवेद्यैः स्वयं भुञ्जीत वाग्यतः |
भुक्त्वा पीत्वा स्त्रिया सार्द्धं निशीथे गतसाध्वसः |
जपेत् सहस्रं देवेशि ! ततः सिद्धिर्वरानने ! |
अथवा वटमूलस्थो दिग्वासा मुक्तकेशवान् |
लताभिर्वेष्टितो भूत्वा जपेन्मन्त्रमनन्यधीः |
ततः साक्षाद्भवेद्देवि ! नात्र कार्या विचारणा |
एतेनापि प्रयोगेण यदि साक्षान्न जायते |
ततो देवि ! प्रवक्ष्यामि उपायं परमाद्भुतम् |
एकेनैव प्रयोगेण यदि साक्षान्न जायते |
द्वितीयं वापि कुर्वीत तृतीयं वाथवा प्रिये ! |
तृतीयेन नचेत् सिद्धिस्तत्रोपायं वदामि ते |
वस्त्रे शुक्ले रक्ते पीते वा नीलवाससि |
पुत्तलीं रचयेद्देव्याः सर्वावयवसुन्दरीम् |
पूजयेत् क्रोधरूपेण रक्तवस्त्रैर्मनोहरैः |
तत्र देवीं जपेद् यन्त्रे समभ्यर्च्य सहस्रकम् रक्तचन्दनवीजेन तत्र कल्पितमालया |
ततः शाल्मलिकाष्ठेन निम्बकाष्ठेन वा प्रिये ! |
वह्निं प्रज्वाल्य यत्नेन तत्र वह्निं प्रपूजयेत् |
ततः पुत्तलिकाभाले लिखेन्मन्त्रं वरानेने ! |
सिन्दूरपुत्तलीं देवि ! ततो वह्नौ तु तापयेत् |
ताडयेन्मूलमन्त्रेण मूलमन्त्रेण रक्षयेत् |
क्षालयेत् शुद्धदुग्धेन अथवा दधिवारिणा |
ततो हु/कारं प्रजपेत् सहस्रं परमेश्वरि ! |
ततः साक्षाद्भवेद्देवि ! नात्र कार्या विचारणा |
अथवा ताडयेद्देवि ! नारसिंहेन पार्वति ! |
हविष्याशी दिवा भूत्वा ब्रह्मचारिसमो नरः |
रात्रौ ताम्बूलपूरास्यो तलामण्डलमध्यगः |
नारसिंहेन देवेशि ! पुटितन्तु मनुं जपेत् |
ततो लक्षजपेनैव साक्षाद्भवति नान्यथा |
अवश्यं जायते साक्षान्ममैव वचनं यथा |
अथवापि वरारोहे ! नौकालौहेन पार्वति ! |
शूलं निर्माय यत्नेन पटे देवीन्तु कल्पयेत् |
तां पूजयेत् प्रयत्नेन रक्तचन्दनपुष्पकैः |
पूजयित्वा प्रयत्नेन तस्याङ्गे पीठदेवताम् |
आवाह्य विधिवद्भक्त्या जपेन्मन्त्रमनन्यधीः |
शूलं सम्पूजयेद् यत्नात्तीक्ष्णं परमदुर्लभम् |
ओं महाशूल ! नमस्तुभ्यं सर्वदैत्यान्तकारिणे |
अस्त्रद्वयं समुच्चार्य ततः शूलेन वक्षसि |
उद्यमेनैव सा काली आयाति च न संशयः |
अवश्यं जायते साक्षान्ममैव वचनं यथा |
अथवा कालिकावीजं शतं संलिख्य यत्नतः |
पूर्वपत्रे कुङ्कुमेन मन्त्रं स्वर्णशलाकया |
विलिख्य भुवि देवेशि ! तत्र कान्तां समानयेत् |
तद्गात्रे पूजयेद्देवीं नानाभरणसंयुताम् |
निशीथे तु जपेन्मन्त्रमेकान्ते कान्तया सह |
जपेन्मन्त्रं सहस्रन्तु ततः

साक्षाद्भवेद्ध्रुवम् |
इति ते कथितं देवि ! गुह्याद्गुह्यतरं परम् |
अप्रकाश्यमिदं देवि ! गोपयेत् मातृजारवत् ||

चतुर्दशपटले ||

दक्षिणायाश्च विद्याया गुह्यायाश्चापि सुन्दरि ! |
महाकाल्या महाविद्या सिद्धिकाल्याश्च पार्वति ! |
श्मशानकालिकायाश्च नायिकायाश्च शैलजे ! |
तन्नायिकानां देवेशि ! वक्ष्यते साधनं ततः |
उक्तञ्च परमेशानि ! वक्तव्यश्चापि पार्वति ! |
कालीवीजं महेशानि ! मन्त्रः सर्वोत्तमोत्तमः |
त्रिगुणा देवि विख्याता विद्या परमदुर्लभा |
पूर्वोक्तं सकलं कुर्यात् फलं तावद्भवेत् प्रिये ! |
नमोऽन्तो वा भवेन्मन्त्रो वषडन्तोऽपि भाविनि ! |
लज्जाद्यो वा भवेद्देवि ! वाग्भवाद्यो महामनुः |
एतन्मन्त्रं वरारोहे ! सर्वतन्त्रेषु गोपितम् |
भैरवोऽस्य ऋषिः प्रोक्त उष्णिक् छन्द इति स्मृतम् |
पूजाध्यानादिकं सर्वं पूर्ववत् परिकीर्त्तितम् |
साधनं सकलं देवि ! पूर्ववत् परिकीर्त्तितम् |
या ख्याता त्र्यक्षरी विद्या स्वाहान्ता परिकीर्त्तिता |
पञ्चाक्षरी महाविद्या सर्वतन्त्रेषु गोपिता |
ध्यानं पूजादिकं सर्वं पूर्ववत् परिकीर्त्तितम् |
साधनं सकलं देवि ! लतागणसमन्वितम् |
एकाक्षरी महाविद्या स्वाहान्ता त्र्यक्षरी स्मृता |
साधनं परमेशानि ! मद्यमांसोपचारतः |
एकाक्षरी महाविद्या स्वाहान्ता परिकीर्त्तिता |
फडन्ता वा महेशानि ! वसडन्ता समीरिता |
नमोऽन्ता वा महेशानि ! सर्वसिद्धिप्रदायिनी |
पूर्ववीजं वरारोहे ! काली चान्द्रं वरानने ! |
कालिकाया महाविद्या गोपिता सर्वतन्त्रके |
धरावीजं वरारोहे ! काली लक्ष्मीश्च वाग्भवम् |
एतन्मन्त्राक्षरं देवि ! कालिकायाः सुदुर्लभम् |
एतेषां मन्त्रवर्याणां ऋषिः स्यादुग्रभैरवः |
छन्दोऽनुष्टुविति ख्यातं देवता दक्षिणेरिता ||

अथ वक्ष्ये महेशानि ! गुह्यकाल्याः शुभावहा |
कालीवीजत्रयं देवि ! गुह्यकालीयुतं ततः |
स्वाहान्ता कथिता विद्या विद्येयं परमा मता |
नमोऽन्ता वापि सा ज्ञेया वषडन्तापि सा स्मृता |
कालीवीजं समुद्धृत्य धरावीजं समुद्धरेत् |
लज्जावीजं समुद्धृत्य कूर्चवीजं समुद्धरेत् |
स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा |
कूर्चलज्जायुगं देवि ! तथा काली प्रकीर्त्तिता |
स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता |
एतासामेव विद्यानां छन्द उष्णिगिति स्मृतम् |
ऋषिः स्याद्दक्षिणामूर्त्तिर्देवता दक्षिणा स्मृता |
कूर्चत्रयं वरारोहे ! स्वाहान्ता हि प्रकीर्त्तिता |
कालीवीजं समुद्धृत्य कालीकालीपदं तथा |
महाकालीपदं तस्मात् स्वाहान्तः प्रतिमानतः |
सर्वतन्त्रेषु विख्यातो महाकाल्या महामनुः |
कालीवीजं समुद्धृत्य महाकाली च ङेयुता |
स्वाहान्ता कथिता विद्या चतुर्वर्गफलप्रदा |
असितावीजमुद्धृत्य महाकालीपदं द्विधा |
स्वाहान्ता कथिता विद्या महाभूतिविवर्द्धिनी |
काली लक्ष्मी रमा माया स्फें परः परिकीर्त्तितः |
नमोन्तोऽयं मनुर्देवि ! साक्षान्मुक्तिप्रदो मतः |
कालीवीजं समुद्धृत्य लज्जावीजं समुद्धरेत् |
सिद्धिकालीपदं ङेऽन्तमसितान्तं वरानने ! |
एतासामेव विद्यानां गायत्रीच्छन्द ईरितम् |
देवतास्या महाकाली चतुर्वर्गफलप्रदा |
स्वाहान्ता वा वरारोहे ! फडन्ता वापि कालिका |
लज्जावीजं समुद्धृत्य निजवीजं समुद्धरेत् |
सिद्धिकाली ततो ङेऽन्ता स्वाहान्तेयं प्रकीर्त्तिता |
नमोऽन्ता सा महादेवी चतुर्वर्गफलप्रदा |
असितामेतदुद्धृत्य भवानीवीजमुद्धरेत् |
वाग्भवं परमेशानि ! परावीजं ततः स्मृतम् |
कालीकालीपदं तस्मात् सिद्धिकाईपदं ततः |
फडन्तासौ महाविद्या सर्वतन्त्रेषु गोपिता |
रमावीजत्रयं देवि ! लज्जावीजत्रयं तथा |

कामवीजत्रयं देवि ! सिद्धिकाली च ङेयुता |
स्वाहान्ता कथिता विद्या मुक्तिमार्गप्रदीपिका |
एतासां सौम्यविद्यानां गायत्रिच्छन्द ईरितम् |
ऋषिः स्यात् कपिलो देवि ! देवता सिद्धिकालिका |
कालीवीजं समुद्धृत्य श्मशानकालिकापदम् |
ङेयुतं परमेशानि ! सर्वसिद्धिप्रदायिनौ |
कालीवीजं समुद्धृत्य कूर्चवीजं वरानने ! |
स्वाहान्ता कथिता विद्या सर्वसिद्धिप्रदायिनी |
कूर्चद्वयं वरारोहे ! देवीवीजं महेश्वरि ! |
सर्वसिद्धिप्रदा विद्या सर्वशास्त्राविरोधिनी |
विश्वामित्रो मुनिः प्रोक्तो गायत्रीच्छन्द उच्यते |
श्मशानकालिका देवी सर्वतन्त्रेषु गोपिता |
एतासां साधनं देवि ! पूर्वोक्तं परमेश्वरि ! |
सर्वासां वक्ष्यमाणन्तु पुरश्चरणमुच्यते |
अनेनापि प्रयोगेण सिद्धिर्भवति नान्यथा |
Auslassung N-M2: Der Wortlaut dieser sexualisierten Darstellung Minderjähriger ist ausgelassen. Eine sachliche Inhaltsangabe erläutert ihren Zusammenhang.

भक्तिहीनं क्रियाहीनं विधिहीनञ्च यद्भवेत् |
तदा सिद्धिर्विलम्बेन निष्फलं नैव जायते |
अविश्वासो न कर्त्तव्य आलस्यं नैव पार्वति ! |

सर्वेषां मन्त्रवर्याणां सारमुद्धृत्य पार्वति ! |
दुग्धमध्ये यथा सर्पिः काष्ठमध्ये यथानलः |
तथा समुद्धृतः सारो देवि ! नास्त्यत्र संशयः |
स्वयं सिद्धा हि ते मन्त्राः सर्वतन्त्रेषु गोपिताः |
इति ते कथितं देवि ! गोपनीयं प्रयत्नतः ||

तोडलतन्त्रे चतुर्थपटले ||

शृणु चार्वङ्गि ! सुभगे ! तारायाः पूजनं महत् |
मन्त्रेणाचमनं कृत्वा गुरुदेवं नमेत्ततः |
जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः |
मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् |
शिखां बद्ध्वा ततो देवि ! विविधं विघ्ननाशनम् |
भूम्यासनञ्च संशोध्य वस्त्रे ग्रन्थं विधाय च |
कायवाक्शोधनं कृत्वा ततः पुष्पविशोधनम् |
यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यञ्च विन्यसेत् |
द्वारपालांश्च सम्पूज्य पीठपूजां समारभेत् |
पीठशक्तीश्च लक्ष्म्याद्यास्ततः पीठमनुः यजेत् |
भूतशुद्धिं प्रवक्ष्यामि विशेष इह यद्भवेत् |
कूर्चयुक्तेन हंसेन पूरकेण सुरेश्वरि ! |
कुण्डल्या सह चात्मानं चतुर्विंशतिवीजकम् |
तत्र लीनानि देवेशि ! परमात्मनि साधकः |
मायया सन्दहेत् पापं पुरुषं कज्जलप्रभम् |
कुम्भकेन वरारोहे ! भस्म कुर्याद्विचक्षणः |
बधूवीज्न देवेशि ! भस्मना सह रेचयेत् |
पूरकेण तु कूर्चेन ललाटेऽमृतसञ्चयम् |
चिन्तयेत् परमेशानि ! कुम्भकेनामृताम्बुधिम् |
आं ह्रीं क्रीं वह्निजायान्तं हृदि चैकादशं जपेत् |
ततस्तु चिन्तयेद्धीमानाःकाराद्रक्तपङ्कजम् |
तस्योपरि पुनर्द्ध्यायेत् टाङ्काराद्रक्तपङ्कजम् |
तस्योपरि पुनर्द्ध्यायेत् हुङ्कारं नीलसन्निभम् |
तस्योपरि पुनर्द्ध्यायेद्विजभूषितकर्त्तृकाम् |
तस्योपरि परं विन्दुं शिवरूपञ्च अव्ययम् |
बालुकायाः सहस्रैकभागं विन्दुं सुदुर्लभम् |
विन्दुमध्ये मणिद्विपं शतयोजन विस्तृतम् |

विन्दुमध्ये परं ज्योतिर्वुद्वुदाकारमण्डलम् |
यथैकवुद्वुदे देवि ! प्रतिविम्बं प्रपश्यति |
तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा |
मणिद्वीपन्तु तन्मध्ये सुवर्णबालुकामयम् |
परितो भावयेन्मन्त्री पारिजातं मनोहरम् |
मध्ये कल्पद्रुमं ध्यायेदात्मानं तारिणीमयम् |
उदयादित्यसङ्काशं सहस्रादित्यवर्चसम् |
चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् |
बहुचामरघण्टादिदेवकन्यादिशोभितम् |
मन्दवायुसमायुक्तं गन्धधूपैरलङ्कृतम् |
तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभिताम् |
सुवर्णसूत्ररचितं चिन्तयेच्छत्रमुत्तमम् |
तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये ! |
तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः |
योगसारोक्तकैर्देवि ! उपचारैः प्रपूजयेत् |
प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् |
तालत्रयं छोटिकाभिर्दशदिग्बन्धनञ्चरेत् |
षोढा न्यासं ततः कृत्वा व्यापकं तदनन्तरम् |
विशेषार्घ्यञ्च संस्थाप्य पञ्चतत्त्वं विशोधयेत् |
सुधादेवीं समानीय विपञ्चीकरमाचरेत् |
कुम्भे पुष्पं समादाय त्रिकोणे त्रिःप्रपूजयेत् |
वामदेवं त्रिधा चोक्त्वा खेचरीं दशधा जपेत् |
तथा चानन्दगायत्रीमृचञ्च त्रिर्जपेत् सुधीः |
ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि ! |
दिग्जपावाशयेद्धिमान् ततो मन्त्रत्रयं पठेत् |
छुरिकाञ्च मृतञ्चैव श्रीतिरस्करिणीं प्रिये ! |
पावमानञ्च त्रिर्जप्त्वा शोधनादीन् समाचरेत् |
वारुणं त्रिर्जपेद्देवि ! चामृतं सप्तधा जपेत् |
विद्यतत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा |
कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः |
मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् |
शक्तिञ्च कुलपुष्पञ्च त्धोयेश साधकोत्तमः |
देवान् पितॄन् ऋषींश्चैव तर्पयेदिष्टदेवताम् |
शोधितं द्रव्यमादाय विशेषार्घ्यं विनिक्षिपेत् |
ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् |
नासास्थानात् समानीय पीठे पुष्पं निधाय च |

ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् |
षडङ्गेन च सम्पूज्य पुनर्मुद्रा प्रदर्शयत् |
जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् |
षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः |
गुरुपंक्तिं पूजयित्वा दलमूलेषु पूजयेत् |
महापूर्वांश्च काल्यादीन् यजेद्वैरोचनादिकान् |
पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः |
प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत् |
जपं कृत्वा महेशानि ! देव्या हस्ते समर्पणम् |
प्राणायामं ततः कृत्वा तत्त्वस्वीकारमाचरेत् |
तस्यै दत्त्वा स्वयं पीत्वा प्रजपेत् साधकोत्तमः |
पीत्वा पीत्वा जपित्वा च मुक्तः कोटिकुलैः सह |
प्रतिपात्रे जपेन्मन्त्रमष्टोत्तरशतं सुधीः |
स्तुतिञ्च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत्ततः विशेषार्घ्यं प्रदातव्यमात्मानञ्च समर्पयेत् |
रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत् |
अङ्गन्यासं महेशानि ! प्राणायामं ततः परम् |
ऐशान्यां मण्डलं कृत्वा चण्डाल्युच्छिष्टपूर्विकाम् |
निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः |
निर्माल्यं धारयेत् शीर्षे चन्दनञ्च ललाटके |
गुरुस्थाने लिखेद्विन्दुं विहरेद्भैरवो यथा |
संक्षेपपूजनं देवि ! मानसं तत्त्ववर्जितम् |
तत्रोक्तमाचरेदत्र नान्यत् सञ्चारयेत् सुधीः |
अन्यसञ्चारणाद्देवि ! क्रुद्धा भवति तारिणी ||

तत्रोक्तं वाह्यपूजाप्रकरणोक्तम् ||

तत्त्वज्ञानं मानसञ्च शक्तिमात्रे हि पार्वति ! ||

पिच्छिलातन्त्रे द्वादशपटले ||

यस्मिन् क्षणे महामन्त्रः श्रूयते सावधानतः |
तद्धीयन्ते शरीरस्थपातकानि महान्त्यपि |
प्रयोगं मन्त्रशुद्ध्यादेः कथयामि महेश्वरि ! |
मन्त्रशुद्धिं विधायाथ कुर्यान्मन्त्रशिखां ततः |
कल्लुकां मूर्ध्नि सञ्जप्य महासेतुं जपेत्ततः |
नाभौ जपेत्तु निर्वाणं ध्यायेत् कुण्डलिनीं ततः |
प्राणायामं विधायाथ षडङ्गन्यासमाचरेत् |
तत ऋष्यादिविन्यासो जपेत् सप्तच्छदां सकृत् |
ध्रुवेण पुटितं मन्त्रं सप्तधा प्रजपेत् प्रिये ! |
मन्त्रादौ प्रणवं दत्त्वा सकृज्जपेन्महेश्वरि ! |
प्रणवं वाथ मायां वा वाग्भवं वाथ दीपनीम् |
मन्त्रादौ दत्त्वा प्रजपेत् सप्तधा परमेश्वरि ! कालीमन्त्रे तु देवेशि ! क्रीं मूलं सप्तधा जपेत् |
विद्यामन्त्रञ्च मन्त्रादौ दत्त्वा च सप्तधा जपेत् |
स्वगुरुं मूर्ध्नि सञ्चिन्त्य हृदि देवीं ततः परम् |
स्वयं कामकलारूपं भावयन् जपमाचरेत् |
जपस्यान्ते शिवं ध्यात्वा ध्यानस्यान्ते पुनर्जपेत् |
अष्टोत्तरसहस्रं वा शतं वा प्रजपेन्मनुम् |
श्यामाया दीपनीं विद्यारत्नं मन्त्रादितः शिवे ! |
दत्त्वा जपेत् सप्तवारं ततो जपसमर्पणम् |
अन्यासां प्रणवं मायां दीपनी वा जपस्य च |
सेतुं जप्त्वा सप्तवारं प्रणवान्तं मनुं जपेत् |
समर्पयेज्जपं पश्चात् प्राणायामान् समाचरेत् |
जपस्यात्र विधानन्तु कथितञ्चानुषङ्गतः ||

अथ ताराशतनामस्तोत्रम् ||

श्रीशिव उवाच ||

तारिणी तरला तन्वी तारा तरुणवल्लरी |
तीररूपा तरश्यामा तनुक्षीणपयोधरा |
तुरीया तरला तीव्रगमना नीलवाहिनी |
उग्रतारा जया चण्डी श्रीमदेकजटा शिवा |
तरुणा शाम्भवी छिन्नभाला च भद्रतारिणी |
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती |
द्वितीया शोभिनी नित्या नवीना नित्यनूतना |
चण्डिका विजयाराध्या देवी गगनवाहिनी |
अट्टहास्या करालास्या चरस्यादितिपूजिता |
सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता |
रक्तप्रिया च रक्ताक्षी रुधिरासवभूषिता |
बलिप्रिया बलिरता दुर्गा बलवती वला |
बलप्रिया बलरता बलरामप्रपूजिता |
अर्द्धकेशेश्वरी केशा केशवेशविभूषिता |
पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी |
दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता |
वज्रपुष्पप्रिया रक्तप्रिया सुकुमभूषिता |

माहेश्वरी महादेवप्रिया पञ्चविभूषिता |
इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी |
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता |
इत्येतत् कथितं देवि ! रहस्य परमाद्भुतम् |
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः |
य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् |
सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले |
तस्यैव मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा |
भवत्येवं महामाये ! सत्यं सत्यं न संशयः |
मन्दे मङ्गलवारे च यः पठेन्निशि संयुतः |
तस्यैव मन्त्रसिद्धिः स्याद्गाणपत्यं लभेत्त सः |
श्रद्धयाश्रद्धया वापि पठेत्तारारहस्यकम् |
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् |
सहस्रावर्त्तनाद्देवि ! पुरश्चर्यफलं लभेत् |
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते |
ते कृतार्था महेशानि ! मृत्युसंसारबन्धनात् ||

इति मुण्डमालातन्त्रे तारिणीशतनामस्तोत्रम् समाप्तम् ||

अथ तारिणीस्तोत्रानन्तरं महानीलतन्त्रे ||

घोररूपे ! महामारे ! सर्वशत्रुवशङ्करि ! |
भक्तेभ्यो वरदे ! देवि ! त्राहि मां शरणागतम् |
सुरासुरार्चिते ! देवि ! सिद्धगन्धर्वसेविते ! |
जाड्यपापहरे ! देवि ! त्राहि मां शरणागतम् |
जटाजूटसमायुक्ते ! लोलजिह्वानुकारिणि ! द्रुतबुद्धिकरे ! देवि ! त्राहि मां शरणागतम् |
सौम्यरूपे ! घोररूपे ! चण्डरूपे ! नमोऽस्तु ते |
सृष्टिरूपे ! नमस्तुभ्यं त्राहि मां शरणागतम् |
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्चैकमानसः |
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा |
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे |
कुबुद्धिं हर मे देवि ! त्राहि मां शरणागतम् |
इन्द्रादिदिविषद्वृन्दवन्दिते ! करुणामयि ! |
तारे ! ताराधिनाथास्ये ! त्राहि मां शरणागतम् |
मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् |
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् |
इदं स्तोत्रं पठेद्यस्तु सततं लभते

नरः |
तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते |
पीडायां वापि संग्रामे जप्ये दाने तथा भये |
य इदं पठति स्तोत्रं शुभं तस्य न संशयः |
स्तोत्रेणानेन देवेशि ! स्तुत्वा देवीं सुरेश्वरीम् |
सर्वान् कामानवाप्नोति सर्वविद्यानिधिर्भवेत् |
इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् |
अस्मात् परतरं नास्ति स्तोत्रं तन्त्रे महेश्वरि ! ||

इति वृहन्नीलतन्त्रे द्वितीयपटले तारिणीस्तोत्रं समाप्तम् ||

अथ वीरहोमः ||

कैवल्यतन्त्रे पञ्चमपटले ||

शृणु पार्वति ! वक्ष्यामि वाह्यहोमविधिं प्रिये ! |
आम्नायेषु च सर्वेसु व्यासेन कथितं पुरा |
संक्षेपात् कथयिष्यामि येन मुक्तिं लभेन्नरः |
भूमित्रिकोणमालिख्य मूलमन्त्रेण साधकः |
भूर्भुवः स्वेति मन्त्रेण वह्निं संस्थापयेत्ततः |
तत्र देवीं समावाह्य परिवारसमन्विताम् |
पूजयेद्विविधैर्द्रव्यैर्निर्विकल्पेन चेतसा |
मद्येन प्रथमं दद्यादाहुतिं मूलमुच्चरन् |
एकं मांसेन मत्स्येन मुद्रया च कुलेश्वरि ! |
रम्भामूलसमुद्भूतैर्मार्जन्या गलितैः सह |
जुहुयादाज्ययोगेन सकृद्वारत्रयञ्च वा |
घृतेन हवनञ्चैकं रक्तपुष्पेण चैव हि |
कुण्डोद्भवेन देवेशि ! वारद्वयमुदाहृतम् |
गोलेन घृतयुक्तेन सकृद्धोमो विशिष्यते |
गोपीचन्दनसिन्दूरैर्दशवारं हुमेत् शुचौ |
वीरपुष्पेण गव्येन विल्वपत्रेण सुन्दरि ! |
सकृद्धोमो भवेद्वह्नौ ततो गव्येन चैककम् |
पूर्णाहुतिं ततो दद्यात् पिण्याकैर्लवणान्वितैः |
ततो मूलं जपेन्मन्त्री चाष्टोत्तरशतं प्रिये ! |
जप्त्वा स्तुत्वा नमस्कृत्य विसृजेद्वह्निमण्डले |
इति ते कथितं देवि ! कैवल्यसाधनं प्रिये ! |
अस्मात् परतरं नास्ति सत्यमेतद्ब्रवीमि ते |
इदं रहस्यं परमं पशुभ्यो न प्रकाशयेत् |
प्रकाशात् सिद्धिहानिः स्यात् सत्यं सत्यं न संशयः ||

इति वीरहोमः ||

इति सम्पूज्य हुत्वा च सामयिकैः सह द्रव्यपानादिकं कुर्यात् ||

देव्यै द्रव्यदानफलन्तु मुण्डमालातन्त्रे ||

पूजयित्वा महादेवीं सुरामांसकलादिभिः |
अन्नैर्नानाविधैर्देवि ! परितोष्य स तादृश इति |
सुरादानफलेनैव महायोगेश्वरो भवेत् ||

सुराभेदस्तु तत्रैव ||

सुरा तु द्विविधा प्रोक्ता स्फाटिकी डाकिनी तथा |
काञ्जिकीस्फाटिकीदाने धनवृद्धिरनुत्तमा |
डाकिनीदानमात्रेण सर्ववश्यो भवेद्ध्रुवम् |
काञ्जिकीमुद्रया देवि ! योऽर्चयेत् परमेश्वरीम् |
महासिद्धिश्वरो भूत्वा वसेत् कल्पशतानि च |
अन्नदातुर्महादेवि ! महासिद्धिरनुत्तमा ||

अथ महाशङ्खः ||

नित्यातन्त्रे द्वितीयपटले ||

ईश्वर उवाच ||

महाशङ्खस्य माहात्म्यं कथयामि तवानघे ! |
स्वयोनिरिव गोप्तव्यं सर्वदा पशुसङ्कटे |
भगरूपा महामाया शुक्रतर्पणतत्परा |
जगदाकर्षिणी विद्या जगद्गुह्या वरानने ! ||

तत्रैव गृह्यते सारं जगतां वीजरूपकम् |
तद्वीजं परमेशानि ! पञ्चाशद्वर्णरूपकम् |
गर्भं प्राप्य भवेदस्थि शिशोर्मज्जासमन्वितम् |
तदस्थितार्द्धमप्यस्ति पञ्चाशद्वर्णरूपकम् |
वर्णमालासु देवेशि ! शतं सञ्जप्य यत् फलम् |
एकेनोच्चारणेनास्थिमालायां तत् प्रकीर्त्तितम् ||

इति महाशङ्खमालाजपफलम् ||

तन्मालाकरणे वर्जनीयमाह तत्रैव ||

स्वेच्छामृतं स्त्रियं विप्रं तिर्यग्योनिगतं तथा |
रोगिणं यवनं वृद्धं दीक्षितञ्चापि वर्जयेत् |
ग्राह्यमपि तत्रैव ||

वज्राहतं सर्पदष्टं पतित्वा वा जले मृतम् |
व्याघ्रादिनिहतं वापि सम्मुखे वा रणे मृतम् |
चण्डालाद्याः प्रधानास्ते अधमाः शूद्रजातयः ||

वृहन्नीलतन्त्रे चतुर्थपटले ||

युद्धे मृतस्य देवेशि ! चण्डालस्यास्थिकेन च |
मस्तकस्य विशेषेण महाशङ्खं

प्रकीर्त्तितम् ||

नित्यातन्त्रे ||

अत एव महेशानि ! अस्थिमालागले मम |
प्रथमपटले ||

समाश्रित्य महाशङ्खमालां वीरपदं व्रजेत् ||

अथ महाशङ्खमालाकरणम् ||

मुण्डमालातन्त्रे द्वितीयपटले ||

नराङ्गुल्यस्थिभिर्माला ग्रथिता पर्वभेदतः |
सर्वसिद्धिप्रदा मोक्षदायिनी वरवर्णिनि ! |
नाड्या सङ्ग्रथिता माला कार्या रक्तेन वाससा |
नाडीभिर्ग्रथिता माला महासिद्धिप्रदा प्रिये ! ||

स्वतन्त्रतन्त्रेऽपि ||

आनीय छिन्नशीर्षन्तु नरस्य पतितस्य च |
तलसीगोमयास्पृष्टं तथा गङ्गोदकेन च |
यवनब्राह्मणान्यस्य तत् कार्यं साधकैर्जनैः |
अस्पृष्टं तच्च जानीयात् शालग्रामशिलादिभिः ||

अथ महाशङ्खमालासंस्कारस्तत्रैव ||

गुरुं तत्र प्रणम्यादौ संस्कूर्याज्जपमालिकाम् |
कृतनित्यक्रियो मन्त्री मालाञ्च क्रमतो यजेत् |
ओं ह्रीं श्रीं क्लीं क्लीं फट् स्वाहा |
इति मन्त्रेण सप्तधाभिमन्त्र्य चषकादिपात्रादौ निक्षिपेत् |
तत आवाहन्यादिमुद्रया देवीं तत्रावाह्य सपरिवारामुपचारैः सम्पूज्य तां वमिति धेनुमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य मत्स्यमुद्रयाच्छाद्य देवीस्वरूपां तां मालां ध्यायन् विन्दुप्रक्षेपं कुर्यात् |
तत्र मन्त्रः ||

ओं ह्रीं स्वाहा |
ओं हूं स्वाहा |
ओं ह्रः स्वाहा |
ओं फट् स्वाहा |
ओं ह्रीं श्रीं स्वाहा |
ओं ह्रीं हूं स्वाहा |
ओं ह्रीं फट् स्वाहा |
इति सप्तार्घ्यविन्दुप्रक्षेपणं कृत्वा कस्तूरीं धूपयित्वा चषकादिपात्रादुत्तोल्य मालामभिमन्त्रयेत् |
तत्र मन्त्रः ||

ओं ह्रीं श्रीं महावज्रिणि ! महाघोररूपे ! कर्कशमहास्थिमण्डले ! प्रविश सर्वसिद्धिं प्रयच्छ ओं ह्रीं श्रीं ह्रीं स्वाहा |
ओं महाकपालिनि ! महाघोररूपे ! स्वाहा |
इत्यनेनामन्त्र्य दूर्वाक्षतैरभ्यर्च्य कामवीजेनोद्दीपनं कृत्वा उपचारैरभ्यर्च्य मातृकामन्त्रेण सन्दीप्य ओंकारेण वेष्टयेत् |
ततः हूं ह्रीं हूं ओं हूं श्रीं हूं ओं हूं हूं ओं हूं फट् हूं ओं स्वाहा |
ओं हूं महायोगिनि ! त्रिभुवनतारिणि ! महाशङ्खास्थिमध्ये निवासं कुरु सर्वसिद्धिं देहि सुरामांसोपहारान् गृह्ण गृह्णापय ह्रीं श्रीं हूं फट् स्वाहा |
इत्यनेन यथोक्तद्रव्येण बलिं दत्त्वा संहारमुद्रया देवीं विसृज्य निभृतस्थाने मालाः स्थापयेत् |
विन्दुप्रक्षेप इत्यत्र विन्दुः सुराविन्दुरित्यर्थः |
एवं शोधयित्वा पश्चान्मालासंस्कारविधानेनापि संस्कारः करणीय इति तान्त्रिकाः ||

तन्त्रे ||

अकस्मादीहिता माला महाशङ्खाख्यमालया |
तथा चैवास्थिघटिता महाशङ्खाः प्रकीर्त्तिताः |
अत्रास्थिपदेन गुणदेशादिग्राह्यमिति तान्त्रिकाः |
इति महाशङ्खमालासंस्कारः ||

कुब्जिकातन्त्रे सप्तमपटले ||

अशोकं विल्ववृक्षञ्च शिवाञ्चैव सुरेश्वरि ! |
दृष्ट्वा प्रणामं कुर्याच्च सर्वकामार्थसिद्धये |
उलूकं शङ्खचिल्लञ्च गृध्रञ्चैव सुरेश्वरि ! |
नमस्कुर्यान्महाकालीं युद्धे च जयमालभेत् |
चतुष्पथं श्मशानञ्च नमस्कुर्याद्विशेषतः |
तन्त्रज्ञञ्चावधूतञ्च नमस्कुर्याद्वरानने ! |
उपासकं सदा दृष्ट्वा मधुरं भाषणञ्चरेत् ||

वृहन्नीलतन्त्रे षष्ठपटले ||

पर्वते निर्जने चैव विजने शून्यमण्डपे |
चतुष्पथे कलामध्ये यदि दैवान्महेश्वरि ! |
क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद्यथासुखम् |
गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादतन्द्रितः |
क्षेमङ्करीं तथा वीक्ष्य जम्बूकीं यमदूतिकाम् |
कुररं श्येनभूकाकौ कृष्णमार्जारमेव च ||

एतेषां प्रणाममन्त्रस्तत्रैव ||

कृशोदरि ! महाचण्डे ! |
मुक्तकेशि ! बलिप्रिये ! |
कुलाचारप्रसन्नास्ये ! नमस्ते शङ्करप्रिये ! |
श्मशाने च शवं दृष्ट्वा प्रदक्षिणमनुव्रजन् |
प्रणम्यानेन मन्त्रेण मन्त्री सुखमवाप्नुयात् |
घोरदंष्ट्रे ! करालास्ये ! किटिशब्दप्रणादिनि! |
गुरुघोषवरास्फाले ! नमस्ते चण्डनादिनि ! |
रक्तवस्त्रं रक्तपुष्पं विलोक्य त्रिपुराम्बिकाम् |
विलोक्य दण्डवद्भूमाविमं मन्त्रं पठेन्नरः |
बन्धूकपुष्पसङ्काशे ! त्रिपुरे ! भयनाशिनि ! |
भाग्योदयसमुत्पन्ने ! नमस्ते वरवर्णिनि ! |
कृष्णवर्णं तथा पुष्पं राजानं राजपुत्त्रकम् |
हस्त्यश्वरथशस्त्राणि कालवीरं तथा शिवम् |
महिषं कुलनाथञ्च दृष्ट्वा महिषमर्दिनीम् |
प्रणम्य जयदुर्गां वा स तु विघ्नेर्न लिप्यते |
जयदेवि ! जगद्धात्रि ! पूर्णे ! आद्ये ! त्रिदैवते ! |
भक्तेभ्यो वरदे ! देवि ! मुण्डमालाविभूषिते ! |
रक्तधारासमाकीर्णे ! वरदे ! त्वां नमाम्यहम् |
सर्वविघ्नहरे ! देवि ! नमस्ते हरवल्लभे ! |
एतेषां दर्शनेनैव यदि नैवं प्रकुर्वते |
शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते |
एतेषां मारणोच्चाटहिंसनं वागुरादिभिः |
क्रियते येन पापात्मा स मे भक्तः कथं भवेत् ||

इति वीरकृत्यम् ||

अथ वीराणां नैष्कर्म्यसाधनार्थं रसास्वादो वामकेश्वरतन्त्रे त्रयःपञ्चाशत्पटले ||

भैरव उवाच ||

क्रियाकाण्डप्रकथने तन्त्रं बहुतरं भवेत् |
किञ्चिल्लक्षणमेतेषां सङ्क्षेपात् कथयामि ते |
काव्यशास्त्रे नवरसा योगे चाष्टौ रसाः स्मृताः |
अष्टादशप्रकारा हि विद्यायां परिकीर्त्तिताः |
भक्तियोगे नवरसा ऋतवो विषये स्मृताः |
पञ्चमाद्या रसा देवि ! पञ्चपञ्चाशतः स्मृताः |
भेदं रसानां वक्ष्यामि शृणुष्वावहिता प्रिये ! शृङ्गारवीरकरुणाहास्याद्भुतभयानकाः |
वीभत्सः शान्तको रौद्रो नवधा काव्यशास्त्रके |
यमश्च नियमश्चैव आसनं प्राणसंयमः |
प्रत्याहारो धारणा च ध्यानं समाधिरष्टधा |
योगे शास्त्रे महादेवि ! कथिता विस्तरात् प्रिये ! |
छन्दः पादौ च वेदस्य मुखं व्याकरणं स्मृतम् |
शिक्षा घ्राणं महेशानि ! हस्तौ कल्पोऽथ कथ्यते |
ज्योतिषं देवि ! तन्नेत्रं निरुक्तं श्रोत्रमुच्यते |
अङ्गानि वेदाश्चत्वारो

मीमांसान्यायविस्तरैः |
धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश |
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्राः |
अर्थशास्त्रसमायुक्ता विद्याष्टादशधा रसाः |
मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् |
अर्चनं वन्दनं दास्यं सख्यमात्मसमर्पणम् |
इत्थं देवि ! नवरसा भक्तियोगे प्रकीर्त्तिताः |
स्रग्गन्धवनिताशययावस्त्रालङ्करणानि च |
कथिताः परमेशानि ! विषये ऋतवो रसाः |
खाद्याः पञ्चरसा गौडी माध्वीक्षुफलशस्यकाः |
एतेषु रसभावज्ञा ये ते वै रसिकाः स्मृताः |
कृत्यविधिर्जपविधिर्द्रव्यशोधनिको विधिः |
वाह्यमानसिकीपूजाविधिश्च परमेश्वरि ! |
पुरश्चर्याविधिर्देवि ! कर्मकाण्डानि पञ्चधा |
त्रिधा कृत्यविधिर्देवि ! प्रातः सायं दिनं तथा |
अनुभूय रसान् सर्वान् क्रियाकाण्डं विधाय च |
साधकः स्थिरचित्तेन कुर्यात् पूर्णाभिषेचनम् ||

चतुष्पञ्चाशत्पटले ||

देव्युवाच ||

मन्त्रप्रकथनं नाथ ! वेदप्रकथनं कथम् |
तत्तद्रसानां वचनैश्चित्तं मोहयसीव मे |
साम्प्रतं संशयच्छेदकारणं ब्रूहि मे प्रभो ! |
आश्चर्याख्यानमेवं हि श्रवणात् कौतुकं महत् ||

श्रीभैरव उवाच ||

तन्त्रोक्तं वेदवाक्यञ्च सर्वज्ञानस्य कारणम् |
भेदं रसानां वक्ष्यामि शृणुष्वावहिता मयि |
शृङ्गारो वीरतो ज्ञेयस्तस्मिन् ते करुणादयः |
शृङ्गारादिर्घृणादिश्च अपि शृङ्गारतो भवेत् |
शृङ्गारस्तु यदा देवि ! परमार्थकसूचकः |
तदैव परमा शान्तीरुद्रत्वं सम्प्रपद्यते |
तेषां प्रकरणार्थन्तु शृणु प्राणाधिके ! मयि |
पादं विना शरीरस्य न गतिर्विद्यते प्रिये ! |
छन्दसा वेदमार्गे तु प्रविशेन्न कदाचन |
अलङ्कारं विना छन्दो न शोभेत प्रियंवदे ! |
चक्षुः परोक्षभेदः स्याज्ज्योतिःशास्त्रं तथैव च |
चन्द्रसूर्यस्य प् १०१९) ग्रहणाज्ज्योतिः प्रत्यक्षतामियात् |
वेदशाखा निरुक्तं स्याच्छाखाभिर्ब्रह्म जायते |
गानकार्ये श्रूयमाणे भक्तिर्भवति ब्रह्मणि ! |
तदैव गानकृत्यञ्च मुखनासिकयोर्भवेत् |
गानं विना न नृत्यं स्यात् नृत्यं गानेन जायते |
शिक्षाशास्त्रं नाटकादिशब्दव्याकरणं स्मृतम् |
अविनाभावसम्बन्धाद् द्वयोरेव शुचिस्मिते ! |
वेदाः षडङ्गसहिता ब्रह्मव्याख्यानतत्पराः |
न्यायेन सार्द्धं मीमांसा ब्रह्म निर्णीयते ध्रुवम् |
ब्रह्मज्ञाने तु जीवस्य परमात्मविचारणम् |
धर्मशास्त्रानुसारेण व्यवस्थादिनिरूपतः |
पुराणाख्यानि तेनैव जायते सततं प्रिये ! |
ब्रह्मानन्दपरो जीव आत्मसंरक्षणोत्सुकः |
आयुर्वेदं धनुर्वेदं गान्धर्वञ्च समभ्यसेत् |
अथ सन्धानतो देवि ! पूर्णज्ञानी च साधकः |
मधुनेक्षुरसेनैव दुग्धादिफलशस्यकैः |
गन्धमाल्यादिना देवि ! वस्त्रालाङ्करणादिना |
शययायां वनितारूपं पूजयेज्जगदम्बिकाम् |
वनितापूजने देवि ! शृङ्गाररससाधनम् |
पूजनं कर्मकाण्डञ्च पञ्चधा तत् प्रकीर्त्तितम् |
तत्सर्वं स्याधयेद्वीरो देवीसम्प्राप्तिहेतवे |
पूजने नवधा भक्तिरसोल्लासश्च जायते |
तदा योगं समभ्यस्य समाधिस्थो भवेद्यतिः |
अत एव महेशानि ! पुरैव कथितं मया |
अनुभूय स्वरान् सर्वान् पञ्चपञ्चाशतः प्रिये ! |
विषये कर्मकाण्डेषु निष्कामी भवति प्रिये ! |
निष्कामे फलमाश्चर्यं तेन तृप्यति देवता |
देही देहं समाश्रित्य न च कर्म परित्यजेत् |
दिव्यां क्रियां समाप्यैवं देवीयात्रादिकर्मणा |
पूर्णज्ञानरसानन्दाज्जीवन्मुक्तो भवेद् ध्रुवम् ||

अथ वीराणां षट्कर्मसाधनम् ||

योगिनीतन्त्रे पूर्वखण्डे चतुर्थपटले ||

श्रीदेव्युवाच ||

देवदेव ! जगद्वन्द्य ! सुरासुरनमस्कृत ! |
इदानीं श्रोतुमिच्छामि वीरषट्कर्मसाधनम् |
धन्यं पुण्यवतां राज्ञां बाल्यादिकव्रयोजुषाम् |
स्त्रियान्तु सिद्धिसंस्थानां सर्वभोगविलासिनाम् ||

षट्कर्मास्याह तत्रैव ||

ईश्वर उवाच ||

शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने तथा |
मारणं परमेशानि ! सट्कर्मेदं प्रकीर्त्तितम् |
तारिणीं कालिकां छिन्नामधिकृत्य जगन्मयि ! |
कथयामि तव स्नेहाद् द्रुतसिद्धिकरं परम् |
रतिर्वाणी रमा ज्येष्ठा मातङ्गी कुलकामिनी |
दुर्गा चैव भद्रकाली कर्मादौ कर्मसिद्धये |
षोडशैरुपचारैश्च यजेद्वीरः स्वशक्तिकः ||

षट्कर्मणां मारणव्यतिरिक्तानां मारणस्य स्थानमाह तत्रैव ||

शून्यागारे महारण्ये देवतायतनेऽपि वा |
पञ्चकर्म प्रकुर्वीत मारणन्तु शवोपरि |
तदभावे पितृभूमौ वासांसि कथयामि ते |
मुख्यं दिगम्बरं ज्ञेयं द्वीपिचर्म द्वितीयकम् |
तदभावे रक्तक्षौमं नान्यद्वस्त्रं प्रकल्पयेत् ||

शान्त्यादिषु क्रमेणैव पूजापात्रमाह ||

स्वर्णमादौ द्वितीये च राजतं स्तम्भने शिला |
विद्वेषोच्चाटने ताम्रं कपालं मारणे शुभम् |
विप्रान्योऽपि नरः प्रोक्तो युवा च कृष्णवर्णकः |
अदुर्भिक्षा व्याधिमृता आसनस्य शुभावहाः |
अभावे स्फाटिकी जप्या इन्द्राक्षैर्वा जपेत् प्रिये ! |
मृदौ वा कोमले वापि विष्टरे वा सुरेश्वरि ! |
मुण्डे वा योनिके देवि ! त्वचे व्याघ्रस्य वा प्रिये ! |
एकहस्ते द्विहस्ते च चतुर्हस्ते समन्ततः |
स्थिरासनश्चरेत् सम्यक् न भयं तत्र चिन्तयेत् |
भये जाते महेशानि ! भैरवोक्तमनुं स्मरेत् |
विषञ्च वज्रजालेन हनुयुग्ममतः परम् |
सर्वभूतानृतः कूर्चमन्त्रान्ते भैरवो मनुः |
ततो भूतबलिं दद्यात् साधको धर्मसम्मितम् |
तच्च तैलं महेशानि ! उद्वर्त्त्य कालकञ्चरेत् |
कुजवारादियोगेन पञ्चकर्म समाचरेत् |
शनौ च मारणं देवि ! निश्चितं वीरवन्दिते ! |
रात्रियोगे न कर्त्तव्यं सर्वकर्म शुचिस्मिते ! |

प्राग् विद्वान् प्रजपेत् सम्यक् स्वमन्त्रं संयुतं शिवे ! |
प्रयोगस्य फलावाप्त्यै स्वस्वरक्षाकरं महत् |
ततः शोधनदिने मन्त्री याममात्रगते निशि |
मादिभिः पञ्चभिर्द्रव्यैर्यष्ट्वा कुलविलासिनीम् |
दिग्वासा गलिताशेषचिकुरः कुलकौलिके ! |
शक्तियुक्तो जपेद्विद्यां सदा तां मनसा स्मरन् |
हक्षसङ्ख्यां महेशानि ! |
शक्तिपूजापुरःसरम् |
प्रत्यहं भोजयेद्विद्वान् कौलिकान्यान् दिनान्तिमे |
मांसं मद्यं तथा मत्स्यं हुमेद् द्वौ द्वौ शतं शतम् |
दक्षिणां गुरवे दद्याद् गुरुरूपेण शाम्भवि ! |
एवमुक्तविधानेन दिव्यो वा वीरपुङ्गवः |
यदि कुर्यान्महेशानि ! देवानपि तथा नयेत् |
नापेक्षा जायते कान्ते ! अवश्यं फलभाग् भवेत् |
महाप्रयोगे देवेशि ! कृष्णच्छागं बलिं हरेत् |
पूजान्ते सततं देवि ! दशांशैर्वह्निमर्चयेत् |
विधिः सर्वत्र कथितो दिव्यवीरपशुक्रमात् |
क्रमेण फलमाप्नोति व्यत्यये पातकी भवेत् |
इति ते कथितं तुभ्यं सम्यक् षट्कर्मगोचरम् |
गोपनीयं खले दृष्टे पशुपामरसन्निधौ ||

श्रीदेव्युवाच ||

सुरा वा किंविधा देव ! शक्तिर्वा कीदृशी शुभा |
षट्कर्मसु यथायोग्यं वद मे करुणानिधे ! ||

ईश्वर उवाच ||

माध्वी शान्तिकरी प्रोक्ता वश्ये च स्फाटिकी शुभा |
स्तम्भने डाकिनी ज्ञेया विद्वेषे पैष्टिकी मता |
उच्चाटने तथा गौडी मारणे भैरवी मता |
एतासां लक्षणं देवि ! कथितं कुलमोहने ! ||

शक्तिभेदमाह तत्रैव ||

पद्मिनी शान्तिदा प्रोक्ता वश्ये च शङ्खिनी मता |
स्तम्भनोच्चाटने देवि ! प्रशस्ता नागवल्लभा |
मारणे च तथा शस्ता डाकिनी शत्रुमृत्युदा ||

पद्मिन्यादिलक्षणमपि तत्रैव ||

गौराङ्गी दीर्घकेशी या सदा

चामृतभाषिणी |
रक्तनेत्रा सुशीला च पद्मिनी साधने शुभा |
मन्त्रसिद्धिकरी ह्येषा शङ्खिनी सापि भाविनी |
दीर्घाङ्गी सा शङ्खिनी स्याज्जगद्रञ्जनकारिणी |
श्यामाङ्गी शुभदेहा च न खर्वा नातिदीर्घिका |
दीर्घकेशी ईषत्पुष्टा मृदुभाषा च नागिनी |
कृष्णाङ्गी च कृशाङ्गी च दन्तुरा मदतापिता |
ह्रस्वकेशी दीर्घघ्राणा सदा निष्ठुरवादिनी |
सदा क्रुद्धा दीर्घदेहा महाराव परायणा |
निर्लज्जा हास्यहीना च निद्रालुर्बहुभक्षिका |
इयं सा डाकिनी प्रोक्ता मृत्युयोगे प्रशस्यते |
एतास्तु शक्तयो देवि ! सर्वजातिसमुद्भवाः |
सापत्याश्च युवत्यश्च जातपुत्रादिकाः शुभाः |
गृह्या कुलरसैः पूज्या भक्तिभावेन कामिनी |

श्रीदेव्युवाच ||

केन केन च मन्त्रेण मन्त्री षट्कर्मभाग् भवेत् |
तत्तन्मन्त्रे महेशानि ! यद्यहं तव वल्लभा |

श्री-ईश्वर उवाच ||

एकाक्षरं कालिकायास्तारायास्तु त्रिवीजकम् |
वज्रवैरोचनीयाया मनुरेकादशाक्षरः |
सर्वतेजोऽपहारी च मनुराख्यात एव च |
बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे ! |
केवलं शक्तिवीजेन जपेद्देवि ! समाहितः |
अवश्यं फलमाप्नोति नान्यथा वीरवन्दिते ! |
खलो यदि फलप्राप्तः सरलो यदि निष्फलः |
भवेदत्र महेशानि ! तदा सर्वं वृथा भवेत् |
अहं धाता तथा पाता रक्षासु द्रोहणं शिवे ! |
तथापि फलसिद्धिः स्याच्चित्रमेतन्नगात्मजे ! |
एवन्तु मारणं देवि ! विशेषात् कथयामि ते |
सान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् |
कूर्चयुग्मं ततो देवि ! अमुकं मारय द्वयम् |
चतुर्दशाक्षरो मन्त्रो स्वाहान्तः शत्रुनाशकः |
खदिराङ्गारमादाय कुजाष्टम्यां विशेषतः |
लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपत्रके |
निशायां मस्तके नेत्रे ललाटे हृदये करे |
नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये |
मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् |

संहरमुद्रां वद्ध्वा तु ध्यायेद्देवीं जयप्रदाम् |
दीर्घाकारां कृष्णवर्णां सदोर्द्ध्वतनमस्तकाम् |
नृमुण्डयुगलं हस्ते चर्वयन्तीं दिगम्बरीं |
शत्रुनाशकरीं देवीं ध्यायेत् शत्रुक्षयाय च |
एवं ध्यात्वेष्टिकाचूर्णैर्वामहस्तेन शङ्करि ! |
ओं शत्रुनाशकर्यै नम इति दत्त्वा महेश्वरि ! |
हरिद्राचूर्णसहितां धारां दद्यादनेन तु |
अमुकस्य शोणितञ्च पिब पिबेति तत्परम् |
मांसं खादय खादय ह्रीं नम इति मन्त्रम् |
मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् |
जपेदेकादशाहे च रोगः स्यान्नात्र संशयः |
दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्भवेत् अथवान्यप्रकारेण शत्रुक्षयमहं वदे |
पुंगोशकृत् समादाय पूजयेदुष्णवारिणा |
विपरीतक्रमेणैव जपपूजादिकञ्चरेत् |
महादेवाय नम इति पुंगोशकृत् समाहरेत् |
शिवाय नम इति मन्त्रेण घटनञ्च समाचरेत् |
पशुपतये नम इति प्राणान् संस्थापयेत्ततः |
लौहपात्रे महेशानि ! खदिराङ्गारयोगतः |
शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेच्छिवम् |
ततो ध्यायेन्महारुद्रं ध्यानन्तु सुसमाहितः |
शत्रोर्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम् |
वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् |
नरचर्माम्बरं देवं महाव्यालादिवेष्टितम् |
पिनाकधृक् इहागच्छागच्छेत्यादिनावाह्य यत्नतः |
शूलपाणये नम इति स्नापयेत् साधकोत्तमः |
महेश्वराय नम इति पाद्यादिना प्रपूजयेत् |
ईशानादीस्तथामूर्तीर्व्युत्क्रमेण प्रपूजयेत् |
अग्निकोणादिपर्यन्तं पूर्वरीत्या महेश्वरि ! |
नमः शिवायेति मूलमष्टाविंशति स~जपेत् |
हुं क्षमस्वेति वामेन करेण तु विसर्जयेत् |
अजित ! कैशव ! विष्णो ! हरे ! सत्य ! जनार्दन ! |
हंस ! नारायण ! स्वाहा मन्त्रमेव सकृज्जपेत् |
हुं नमोभगवते वासुदेवाय स्वाहा नम इत्यपि सकृज्जपेत् |
एवमेकादशाहेन शत्रुच्छादनमञ्जसा |
अवश्यं जायते देवि ! सत्यं सत्यं त्रिलोचने ! ||

इति शत्रुच्छादनम् ||

अथ स्तम्भनम् ||

कथयामि महादेवि ! वैरस्तम्भनमुत्तमम् |
कुम्भकारस्य पयनादानयेत् पिठरं पुनः |
एकः स्वयं प्रदिक् स्फुटं यत् कृतं साधकोत्तमः |
आनीय च डखामध्याद्भस्म पर्युषितं तथा |
निक्षिप्य पिठरे शुष्कनालिकापत्रविस्तरम् |
भस्मोपरि च संस्थाप्य वटिकायाः सुरेश्वरि ! |
ऐशान्यां विवरं कृत्वा शनेर्वारे महेश्वरि ! |
पूर्णमध्याह्नकाले च निर्जने सति भाविनि ! |
चतुर्दिक्षु वाटिकाया गर्त्तस्य निकटात् प्रिये ! |
तत्रावति महादेवी चौरेभ्यो रक्षयामि च |
प्रस्कन्दमनसा देवि ! भूमौ परिक्रमं चरेत् |
तावतीञ्च ततो भूमिं वामावर्त्तेन भाविनि ! परिक्रम्य पुनस्तत्र गर्त्तस्य निकटं व्रजेत् |
तत्रैव निर्जने गर्त्त शलाकां लौहनिर्मिताम् |
रोपयित्वा तदुपरि पिठरं सशरावकम् |
संस्थाप्य मृद्भिः सम्पूर्य तद्गर्त्तं गृहमाव्रजेत् |
गतिस्तम्भो भवेद्देवि ! चौरादीनां तथा खलु |
त्वया योगवरो देव ! दुर्लभो वसुधातले |
पिशाचभूतवेतालकुष्माण्डब्रह्मराक्षसाः |
दानवानां तथान्येषां गतिस्तत्र न जायते |
धनपुत्रसमृद्धिस्तु वर्द्धतेऽहर्निशं तथा |
दिने दिने धर्मबुद्धिर्जायते नात्र संशयः ||

वृहन्नीलतन्त्रे ||

अथान्यत् सम्प्रवक्ष्यामि वशीकरणमुत्तमम् |
येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् |
प्रतिमां कारयेद्देवि ! पलेन रजतस्य च |
पलार्द्धेन महेशानि ! साध्यस्य प्रतिमां शिवे ! |
हरितालं पलार्द्धञ्च हरिद्राचूर्णकं तथा |
गर्त्तं कृत्वा सार्द्धहस्तं तत्र निक्षिप्य सुन्दरि ! |
रक्तासनं तत्र दत्त्वा विशेत्तद्गतमानसः |
चतुर्दिक्षु महेशानि ! पताका विनिवेशयेत् |
रक्तासने चोपविश्य पूर्वास्यो जपमारभेत् |
पूजाया नियमं देवि ! जानीहि नगनन्दिनि ! |
तिलपूर्णघटं तत्र स्थापयेत्तत्र देशिकः |

प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद्बुधः |
अधः कृत्वा पूजयित्वा प्रबालमालया जपेत् |
दशसाहस्रजापेन प्रयोगार्हो भवेत्ततः |
प्रणवं पूर्वमुच्चार्य मायावीजं द्वितीयकम् |
का त्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम् |
ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् |
साध्यनाम ततो न्यस्य वशमानय तत्परम् |
वह्निजायावधिर्मन्त्रो जपेद्दशसहस्रकम् |
दशांशादिप्रमाणेन होमादींश्च समाचरेत् |
प्रातः स्नात्वा हविष्याशी शुचिर्भूत्वा जितेन्द्रियः |
प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि |
जपे समाप्ते देवेशि ! हुमेद्दिने दिने शुभे ! |
जातिपुष्पस्य होमेन वशयेन्नात्र संशयः |
कर्पूरमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् |
पूर्वं प्रणवमुद्धृत्य चामुण्डां प्रवदेत्ततः |
तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि सुन्दरि ! |
अनेनैव विधानेन सन्तर्प्य परदेवताम् |
सिद्धिप्रयोगाद्देवेशि ! जायते नात्र संशयः ||

अभिषेकं ततः कुर्याद्भैरवि ! प्राणवल्लभे ! |
प्रणवञ्च महेशानि ! चामुण्डां तदनन्तरम् |
अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषिञ्चयेत् |
तद्दशांशेन देवेशि ! ब्राह्मणान् भोजयेत्तदा |
एवं कृते महेशानि ! वशीकरणमुत्तमम् |
जायते नात्र सन्देहः सत्यं सत्यं न संशयः |
कामतुल्यश्च नारीणां रिपूणां शमनोपमः |
यावजीवितपर्यन्तं स्मरवाण इवेश्वरि ! |
जायते नात्र सन्देहः सत्यं सुरगणार्चिते ! |
श्वेतापराजितामूलं पेषयेद्रोचनायुतम् |
शतेनामन्त्रितं कृत्वा तिलकं कारयेत्ततः |
वशयेन्नात्र सन्देहः सत्यं सत्यं महेश्वरि ! |
चन्द्रसूर्यावपि वृथा तदा निष्फलभाग्भवेत् |
रक्तवस्त्रेण चामुण्डां तोषयेद्बहुयत्नतः |
सुवर्णं दक्षिणा देया वित्तानुसारतः प्रिये ! |
आद्यन्ते महतीं पूजां कुर्यात्तत्र वरानने ! |
पञ्चदिनप्रयोगेण राजानं वशमानयेत् |
तव प्रीत्यै महादेवि ! कथितं भुवि दुर्लभम् ||

अथ विद्वेषणम् ||

तत्रैव ||

विद्वेषणं महेशानि ! शृणुष्वैकमनाः प्रिये ! |
करवीररसेनैव तथा धुस्तूरकेण वा |
काकोलूकौ समालिख्यौ भूर्जपत्रे महेश्वरि ! |
साध्यानां नामसहितं मन्त्रं संलेख्य साधकः |
एतयोर्यादृशं वैरं तादृशञ्चामुकयोर्भवेत् |
वह्निजायावधिर्मन्त्रः सर्वविद्वेषकारकः |
महाकालीदेवताया पूजा तस्याः शुभप्रदा |
पञ्चसहस्रमानेन जपं कुर्यात् शुचिस्मिते ! |

अथ मारणम् ||

तत्रैव ||

मारणञ्च विशेषेण शृणुष्वैकमनाः प्रिये ! |
निहतं कृष्णमार्जारं मस्तकं तत्र तं नयेत् |
सिन्दूरेण समायुक्तं कुर्यात् साधकसत्तमः |
तज्जिह्वायां महादेवि ! साध्यनाम लिखेत् प्रिये ! |
साध्यनाम लिखित्वा तु कालीनाम जपेन्मुदा |
निजवीजेन घटितं त्र्यक्षरं प्रजपेत्ततः |
दशसाहस्रजापेन मारयेदरिमग्रतः |
श्मशानकालिकां तत्र चावाह्य पूजयेत्ततः |
लौहालङ्कारसंयुक्तं वस्त्रं देव्यै निवेदयेत् |
दक्षिणास्यो जपेन्मन्त्रं ततः सिद्धो भवेन्मनुः - अन्नं पक्वा महादेवि ! निर्जने दापयेत् प्रिये ! |
अर्द्धरात्रौ बलिं दत्त्वा खनेद्वैरिगृहे यदि |
सप्ताहमध्ये देवेशि ! शत्रुर्याति यमालयम् |
इति ते कथितं देवि ! सारात्सारतरं मतम् |
तव स्नेहाद्वरारोहे ! प्रकाशितमिदं पुनः ||

कामाख्यातन्त्रे षष्ठपटले ||

पूजयित्वा महादेवीं पञ्चतत्त्वेन शाम्भवि ! |
महानन्दमयो भूत्वा साधयेत् साधनं महत् |
स्वकं मूत्रं महेशानि ! कूर्चवीजेन शोधयेत् |
तर्पयेद्भैरवीं घोरां शत्रुनाम्ना पिबेत् स्वयम् |
दशदिक्षु महापीठे प्रक्षिपेदनलेऽपि च |
नग्नो भूत्वा भ्रमेत्तत्र शत्रुनाशो भवेद्ध्रुवम् |
शुक्रशोणितमूत्रेषु वीरो घृणी भवेद्

यदि |
भैरवी कुपिता तस्य सत्यं सत्यं वदाम्यहम् ||

यथा ||

स मृत्पात्रं समादाय साध्यनामालिखेच्छिवे ! |
वायुना पुटितं कृत्वा स्वमूत्रं तत्र निक्षिपेत् |
मायावीजं महेशानि ! अष्टोत्तरशतं जपेत् |
भैरव्यै तर्पयेद्देवि ! मारणोच्चाटनं भवेत् |
स्वमूत्रञ्च समादाय वामहस्तेन पार्वति ! |
शोधितं भैरवीपात्रे निक्षिपेत् साधकोत्तमः |
उन्मादो जायते शत्रुर्म्रियते वा महेश्वरि ! |
मोहितः क्षोभितो वापि वश्यो वापि भवेद् ध्रुवम् ||

एतेषां शान्तिस्तु योगिनीतन्त्रे ||

शान्तिकं शृणु सर्वज्ञे ! येन जीवेत साधक्ः |
उर्वशीं प्रथमं नीत्वा युगान्तकारकं परम् |
स्तनद्वयेन संयुक्तं धूमिनीत्रितयं ततः |
अस्य मन्त्रस्य देवेशि ! सहस्राष्टप्रमाणतः |
जपं कुर्यान्महेशानि ! अन्नपूर्णा च देवता |
पूजयेद्विविधैर्भक्ष्यैर्नानारससमन्वितैः |
चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् |
दशांशादिप्रमाणेन होमादींश्च समाचरेत् |
पद्मपुष्पस्य होमेन शान्तिर्भवति सुन्दरि ! |
मधुना तर्पयेद्देवीं चान्नपूर्णां परां गतिम् |
रथमेऽहनि देवेशि ! जलेन पूरयेद्घटम् |
तद्घटे पूजयेद्देवीं त्वावाह्य सुरसुन्दरीम् |
मन्त्रेणानेन देवेशि ! यदि कुर्यात् प्रयोगकम् |
सर्वव्याधिर्विनश्येत नात्र कार्या विचारणा ||

इति श्रीप्राणतोषिण्यां सप्तमे निर्गुणकाण्डे वीराचारपूजादिषट्कर्मकथनं नाम तृतीयः परिच्छेदः ||

Die Verehrung der Göttin verbindet zahlreiche Überlieferungen dieser Sammlung.


अथ कुलाचारः ||

नित्यातन्त्रे तृतीयपटले ||

कुलाचारविधिं वक्ष्ये सावधानावधारय |
यस्य विज्ञानमात्रेण कर्त्ता हर्त्ता सदाशिवः |
दिक्कालनियमो नास्ति तिथ्यादिनियमो न च |
नियमो नास्ति देवेशि ! महामन्त्रस्य साधने ||

कौललक्षणन्तु तत्रैव ||

क्वचित् शिष्टः क्वचिद् भ्रष्टः क्वचिद् भूतपिशाचवत् |

नानावेशधराः कौला विचरन्ति महीतले |
कर्दमे चन्दनेऽभेदः पुत्त्रे शत्रौ तथा प्रिये ! |
श्मशाने भवने देवि ! तथैव काञ्चने तृणे |
न भेदो यस्य देवेशि स कौलः परिकीर्त्तितः |
मथित्वा ज्ञानदण्डेन वेदागममहोदधिम् |
सारमेतन्महादेवि ! कौलाचारं प्रकल्पितम् ||

समयाचारतन्त्रे ||

आर्द्रशुष्कविभागेन द्विधाचारं पुनः शृणु |
आर्द्राचारस्तु विज्ञेयो मकारैः पञ्चभिर्युतः |
मकारपञ्चरहितः शुष्काचारः प्रकीर्त्तितः |
कलौ विशेषतो देवि ! आर्द्राचारः फलप्रदः ||

गुप्तसाधनतन्त्रे प्रथमपटले ||

कुलाचारं महाज्ञानं गोप्तव्यं पशुसङ्कटे |
प्रगोप्तव्यं महादेवि ! स्वयोनिरिव पार्वति ! |
वेदागमपुराणानि यानि शास्त्राणि पार्वति ! |
तन्मध्ये सारभूतं हि कुलाचारं सुदुर्लभं |
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि |
कुलाचारस्य माहात्म्यं वर्णितुं नैव शक्यते |
किञ्चित्तथापि चापल्यात् कथयामि शृणुष्व मे |
शक्तिमूलं जगत् सर्वं शक्तिमूलं परं तपः |
शक्तिमाश्रित्य निवसेद् यत्र कुत्राश्रमे वसन् |
साधकस्योचितां शक्तिं साधकाज्ञानुवर्त्तिनीम् |
इह लोके सुखी भूत्वा देवीदेहे प्रलीयते |
साधकेन्द्रो महासिद्धिं लब्ध्वा याति हरेः पदम् ||

मुण्डमालातन्त्रे पञ्चमपटले ||

कुलधर्मं समाश्रित्य ये वसन्ति महीतले |
ते शिवास्ते शिवा जीवा भवन्ति कुलधर्मतः |
कुलिनः शङ्करो ज्ञेयः कुलीनस्तु हरिः स्वयम् |
कुलीनो वासवो देवः कुलीनस्तु पितामहः |
कुलीना मुनयः सर्वे कुलीनाः पितरः स्मृताः ||

तथा ||

मुर्खो वा पण्डितो वापि ब्राह्मणो वा वरानने ! |
क्षत्रियो वैश्यजः शूद्रश्चण्डालो वरवर्णिनि ! |
सर्वे तुल्याः कुलीनाश्च एतत् सर्वार्थसाधनम् |
शृणु देवि ! वरारोहे ! मम वाक्यं शुचिस्मिते ! |
शृङ्गाररसलावण्यकोविदः सर्वकर्मसु |

शृङ्गाराज्जायते सृष्टिः शृङ्गाराज्जायते रतिः |
शृङ्गाराच्छङ्करस्तुष्टः शृङ्गारादपि पार्वती |
प्रहारशब्दं ललितं कर्कशं वा सुरेश्वरि ! |
शृङ्गारशब्दमात्रेण जना यास्यन्ति सद्गतिम् |
स्त्रियो देवाः स्त्रियः पुण्याः स्त्रिय एव विभूषणम् |
स्त्रीद्वेषो नैव कर्त्तव्यस्तासु निन्दाप्रहारकम् |
वर्जयेदेव देवेशि ! घृणालज्जाविवर्जितः |
स्त्रीरूपं तारिणीरूपं यो वेत्ति धरणीतले |
स श्रीपतिश्च विज्ञेयः स ज्ञेयः पार्वतीपतिः ||

तथा ||

कुलमार्गरतो जीवः शिव एव न संशयः |
कुलधर्मार्थगो जन्तुर्विहरेत् कुलमार्गके |
कुलपुष्पं समाश्रित्य कुलीनाश्रममाश्रयेत् ||

षष्ठपटले ||

कुलवारे कुलीनन्तु कुलधर्मं कुलव्रतम् |
आश्रयेत् परमानन्दं परमानन्दमेव च ||

कुलीनानां भक्तिर्नास्तीत्यादिवचनेनापि दोषमाह तत्रैव ||

न कुलीने परा बुद्धिर्न कुलीने परा गतिः |
न कुलीने परा भक्तिर्न कुलीने परा क्रिया |
एवं वदति यो जन्तुः स मुक्तिं नैव याति वै |
इहैव स्वर्गो देवेशि ! इह कैलासमन्दिरम् |
इहैव भक्तिर्भुक्तिश्च मुक्तिरव्यभिचारिणी |
भोगः स्वर्गश्च मोक्षश्च करस्थश्चैव शङ्करि ! |
शाक्तानां त्रिपुरेशानि ! सत्यं वच्मि न संशयः ||

निर्वाणतन्त्रे एकादशपटले ||

यस्मिन् देशे य आचारो निर्दिष्टो मन्त्रसाधने |
तदाचारविशिष्टो यः कौलिकः स हि कीर्त्तितः |
महानिर्वाणतन्त्रे चतुर्थोल्लासे ||

कुलाचारेण पूतात्मा साक्षाच्छिवमयो भवेत् |
यत्रास्ति भोगबाहुल्यं तत्र योगस्य का कथा |
योगोऽपि भोगविरहः कौलस्तूभयमश्नुते ||

अथ कौलार्चनफलं तत्रैव ||

एकश्चेत् कुलतत्त्वज्ञः पूजितो येन सुव्रते ! |
सर्वे देवाश्च देव्यश्च पूजिता नात्र संशयः |
पृथिवीं हेमसम्पूर्णां दत्त्वा यत् फलमाप्नुयात् |
तस्मात् कोटि

गुणं पुण्यं लभते कौलिकार्चनात् |
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते |
कुलाचारविहीनस्तु ब्राह्मणः श्वपचाधमः |
कौलधर्मात् परो धर्मो नास्ति ज्ञाने तु मामके |
यस्यानुष्ठानमात्रेण ब्रह्मज्ञानी नरो भवेत् |
अयन्तु परमो मार्गो गुप्तोऽस्ति पशुसङ्कटे |
व्यक्तीभविष्यति चिरात् संवृत्ते प्रबले कलौ |
कलिकाले प्रवृत्ते हि सत्यं सत्यं मयोच्यते |
न स्थास्यन्ति विना कौलान् पशवो मानवा भुवि ||

अथ कुलाचारप्रशंसा ||

कुलार्णवे पञ्चमखण्डे द्वितीयोल्लासे ||

मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् |
सारज्ञेन मया देवि ! कुलधर्मः समुद्धृतः |
एकतः सकला धर्मा यज्ञतीर्थव्रतादयः |
एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये ! |
प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रगाः |
तथैव समयाः सर्वे प्रविष्टाः कुलमेव हि |
यथा हस्तिपदे लीनं सर्वप्राणिपदं भवेत् |
तथैव समयाः सर्वे प्रविष्टाः कुलमेव हि ||

तथा मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा |
तथान्यसमयस्यापि कौलस्य महदन्तरम् |
दर्शनेषु च सर्वेषु विनाभ्यासेन मानवाः |
मोक्षं लभन्ते कौले तु सद्य एव न संशयः ||

तथा ||

योगी चेन्न्नैव भोगी स्याद् भोगी चेन्नैव योगवित् |
भोगयोगात्मकं कौलमतः सर्वात्मकं प्रिये ! |
भोगो योगायते साक्षात् पातकं सुकृतायते |
मोक्षायते च संसारः कुलधर्मे कुलेश्वरि ! |
ब्रह्मेन्द्राच्युतरुद्रादिदेवता मुनिपुङ्गवाः |
कुलधर्मपरा देवि ! मनुष्येषु च का कथा |
विहाय सर्वधर्मांश्च नानागुरुमताय च |
कुलमेव विजानीयाद्यदीच्छेच्छ्रियमात्मनः |
पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते |
सुप्तोत्थितप्रत्ययवदुपदेशादिकं विना ||

दिवा कुलाचारनिषेधस्तु ||

वामकेश्वरतन्त्रे एकपञ्चाशत्पटले ||

न दिवा च कुलाचारः पूर्णज्ञानेन चान्यथा |
आचारो द्विविधो देवि ! वामदक्षिणभेदतः |
जन्ममात्रं दक्षिणं हि अभिषेकेन वामकम् |
निरुत्तरतन्त्रे प्रथमपटले ||

रात्रौ कुलक्रियां कुर्याद्दिवा कुर्याच्च वैदिकीम् |
दिवा रात्रौ यजेद्देवीं योगी योगप्रभेदतः ||

वामकेश्वरतन्त्रे ||

गुरोराराधनाद्देवि ! मन्त्रसाधनतः प्रिये ! |
चतुर्णामाश्रमाणां हि चावधूताश्रमो महान् |
अवधूताश्रमं गच्छेत् साधकः स्थिरमानसः |
कामक्रोधलोभमोहमदमात्सर्यवर्जितः |
अवधूतः शिवः साक्षान्मम प्राणसमः प्रिये ! |
अवधूतश्च द्विविधो गृहस्थश्च दिगम्बरः |
सचेलश्च सदारश्च भावकः साधकः शुचिः |
गुरुभक्तिरतो ज्ञानी वाह्याभ्यन्तरधर्मकृत् |
अष्टाङ्गाभ्यासनिरतः प्राणायामपरायणः |
निष्कामी ज्ञानशुद्धात्मा शिवार्च्चनपरायणः |
गृहावधूतो देवेशि ! द्वितीयश्च सदाशिवः |
दिगम्बरावधूतो हि पञ्चाचारपरायणः |
सदानन्दः सदाशान्तो दिग्वासाः सर्वदायकः |
सर्वभोगी सर्वजातिर्धर्मकर्मरतः सदा |
न कलौ शोधयेन्मद्यमगम्यागमनं न हि |
गृहावधूतैः कार्यन्तु कर्त्तव्यञ्च दिगम्बरैः |
संविदासवयोर्मध्ये संविदैव गरीयसी |
संविदापानमात्रेण स वीरः स च साधकः |
एवंविधो विधानज्ञः कुलीनो भवति प्रिये ! |
तदैव दिव्यभावश्च जायते नात्र संशयः |
ये शाक्ता ब्राह्मणा देवि ! क्षत्रिया ब्राह्मणाः स्मृताः |
वैश्याश्च ब्राह्मणा देवि ! सर्वे शूद्रा द्विजोत्तमाः |
अन्तःशाक्ता वहिःशैवाः सभायां वैष्णवा मताः |
नानारूपधराः कौला विचरन्ति महीतले |
अभिषिक्तो गृहस्थश्च सदावधूतकश्च सः |
कर्त्ता पाता च संहर्त्ता शिवतुल्यो न संशयः |
वाह्यपूजा प्रकर्त्तव्या गुरुवाक्यानुसारतः |
अन्तर्यागात्मिका पूजा सर्वपूजोत्तमोत्तमा |
वहिःपूजा

विधातव्या यावज्ज्ञानं न जायते |
ज्ञाने जाते च देवेशि ! देवतामूर्त्तिभावना |
अथवा देवतामूर्त्तिमालम्ब्य साधयेत् सुधीः ||

कामाख्यातन्त्रे पञ्चमपटले ||

स ब्राह्मणो वैष्णवः स शाक्तो गाणपतश्च सः |
स शैवः परमार्थज्ञः स एव पूर्णदीक्षितः |
पावनानीह तीर्थाणि सर्वेषामिति सम्मतम् |
तीर्थाणां पावनः कौलो गिरिजे ! बहु किं वचः |
तस्यैव जननी धन्या धन्या हि जनकादयः |
तस्य ज्ञातिकुटुम्बाश्च धन्या आलापिनो जनाः |
नन्दन्ति पितरः सर्वे गाथां गायन्ति ते मुदा |
अपि नः स्वकुले कश्चित् कुलज्ञानी भविष्यति ||

अथान्तर्यागः ||

मुण्डमालातन्त्रे षष्ठपटले ||

ध्यायेत्तु पूजयेद्देवं मनसा वाचसा हृदा |
तदेव साधको लोके चान्तर्यागपरायणः |
अन्तर्यागं महामाये ! साधकानामगम्यकम् |
ब्रह्माण्डं वै शरीरन्तु सर्वेषां प्राणधारिणाम् |
ब्रह्मण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे |
शरीरं तत्त्वघटितं नानारसपरिप्लुतम् |
चन्द्रविम्बसमायुक्तं नादविन्दुविभूषितम् |
शरीरं शङ्करस्यापि दुर्लभं मुक्तिदायकम् |
यावन्मुक्तिर्महामाये ! तावदेव हि साधकः ||

नित्यातन्त्रे चतुर्थपटले ||

अथान्तर्यजनं वक्ष्ये शृणु सर्वाङ्गसुन्दरि ! |
न पुनर्जननीगर्भं जज्ज्ञात्वा याति साधकः |
आधारे कुण्डलीं देवीं चिन्तयेद्भुजगाकृतिम् |
पूरकेण महेशानि ! त्वया चक्राणि षट् ततः |
सहस्रानन्दसन्दोहमन्दिरं प्रापयेत् सुधीः |
योजयित्वा पूरकेण साधकः परमात्मनि ! |
शिवशक्तिसमायोगात् सुखी भूयान्निरन्तरम् |
विकाशितं भवेद्देहं सकलं तत्प्रभावतः |
अनाहताद्वहिः पद्मं षोडशारं विचिन्तयेत् |
तन्मध्ये चिन्तयेन्मन्त्री सुधासागरमुत्तमम् |
शतयोजनविस्तीर्णं बलयाकारमुज्ज्वलम् |

तन्मध्ये परमेशानि ! मणिद्वीपं मनोहरम् |
पारिजातादिरचितैरुद्यानैः परिशोभितम् |
कल्पवृक्षं महादेवि ! मध्यस्थाने विचिन्तयेत् |
चतुर्वेदान्वितैः शाखैश्चतुर्भिरुपशोभितम् |
चिन्तामणिगृहं तस्य मूले देवि ! विचिन्तयेत् |
सुवर्णरचितं नानारत्नसञ्चयरञ्जितम् |
प्रबालमेखलायुक्तं घण्टाचामरराजितम् |
तन्मध्ये परमेशानि ! चिन्तयेन्मणिवेदिकाम् |
तस्योपरि महादेवि ! मणिपीठं मनोहरम् |
स्वकल्पतन्त्रमुक्तं तद्योनिरूपं विचिन्तयेत् |
भ्रूमध्ये परमेशानि ! यच्चान्द्रं पात्रमुत्तमम् |
तत्रस्थममृतं देवि ! तत्र योनौ विनिक्षिपेत् |
तेनैव विद्युदाकारं योनिमध्ये विचिन्तयेत् |
आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः |
रवेरुत्पद्यते नीरं नीरादुत्पद्यते मही |
अनेनैव विधानेन पञ्चभूतात्मकं भवेत् |
सर्वेन्द्रियसमायुक्तं सर्वायुधसमन्वितम् |
सर्वालङ्काररचितं देवीदेहं विचिन्तयेत् |
स्नात्वाथ पुष्करे तीर्थे पूजयेत् परदेवताम् |
पाद्यपात्रत्रयं भद्रे ! अर्घ्यपात्रत्रयं तथा |
तथा चमनपात्रञ्च त्रयं कुर्याद् वरानने ! |
स्नानपात्राष्टकं देवि ! नियोज्याथ दले दले |
पाद्यं चरणयोर्दत्त्वा कुण्डलिन्यमृतामृतैः |
पात्राभ्यां परमेशानि ! पादोदकमथाहरेत् |
मनसार्घ्यं त्रिधा कृत्वा गुणत्रयविभेदतः |
सुवर्णदोलया देवीमानयेत् कुलभैरवः |
स्नापयेन्मधुगन्धाद्यैः सुवर्णकलसाष्टकैः |
चीनया गात्रमार्जन्या गात्रनीरं समुद्धरेत् |
पट्टवस्त्रं ततो देव्यै निवेद्य परिधापयेत् |
कञ्चुकञ्च निवेद्याथ शङ्खं बाहुचतुष्टये |
निवेदयेन्महादेव्यै गजदन्तविनिर्मितम् |
नानालङ्करणं देव्यै निवेद्य साधकोत्तमः |
भक्तियुक्तेन मनसा स्वस्वस्थाने नियोजयेत् |
सुगन्धितैलं चिकुरे दत्त्वाथ कुलभैरवः |
सुवर्णकङ्कति?कया केशसंस्कारमाचरेत् |

ततस्तु त्रिबलीं बद्ध्वा केशपाशं नियोजयेत् |
सिन्दूरतिलकं दद्याद् भ्रूमध्ये कज्जलैः सुधीः |
नेत्रञ्च रञ्जयेद्देव्याश्चामीकरशलाकया |
अलक्तं चरणे दत्त्वा नखराग्रे कराम्ब्जुजे |
अनर्घ्यरत्नघटितं दद्याच्च नूपुरद्वयम् |
सुवर्णरचितं दद्यात् पादुकायुगलं शुचिः |
निवेदयेत् किरीटञ्च नानारत्नविनिर्मितम् |
चन्दनागुरुकस्तूरीकुसीदकुङ्कुमादिभिः |
कुर्यादालेपनं देव्याः कुण्डगोलादिभिस्तथा |
रक्तपद्मसहस्राणि मूलदेव्यै निवेदयेत् |
समानीय ततः पीठे पुनश्च स्वर्णदोलया |
चतुर्विंशतितत्त्वेन गन्धं देव्यै निवेदयेत् |
तेजोरूपं महेशानि ! दीपं देव्यै निवेदयेत् |
अम्बरं चामरं सूर्यं दद्याद्दर्पणमुत्तमम् |
चन्द्रं छत्रं महेशानि ! षट्पद्ममेखलां तथा |
अनाहतध्वनिमयीं घण्टाञ्च विनिवेदयेत् |
सुधारसाम्बुधिं दद्यात् ततस्तु मां सपर्वतम् |
ब्रह्माण्डपूरितं देव्यै पायसं विनिवेदयेत् |
आनन्दं विनिवेद्याथ न्ष्कलः कुलभैरवः |
मनोनर्त्तकसम्भूतशृङ्गारादिरसोत्तमैः |
नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम् |
एवमेव विधानेन सम्पूज्य प्रजपेन्मनुम् ||

शाक्तानन्दतरङ्गिण्यां षष्ठोल्लासे ||

कश्चित् कश्चिद्विशेषो यथा ||

आत्मस्थां देवतां त्यक्त्वा वहिर्देवं हि मृग्यते |
करस्थं कौस्तुभं त्यक्त्वा भ्रमते काचतृष्णया |
प्रत्यक्षीकृत्य हृदये हृदिस्थां पूजयेच्छिवाम् |
यस्य यस्य हि देवस्य यथा भूषणवाहनम् |
तदेव पूजने तस्य चिन्तयेत् परमेश्वरि ! |
अथान्तर्यजनं वक्ष्ये येन देवमयो भवेत् |
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः |
स्वकीयहृदये ध्यायेत् सुधासागरमुत्तमम् |
रत्नद्वीपन्तु तन्मध्ये सुवर्णबालुकामयम् |
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः |
सर्वतोऽलङ्कृतैर्दिव्यैर्नित्यपुष्पफलद्रुमैः |

नानासुगन्धिकुसुमगन्धामोदितदिङ्मुखम् |
उत्फुल्लकुसुमामोदप्रहृष्टभृङ्गसङ्कुलम् |
कूजत्कोकिलसङ्घेन वाचालितदिगन्तरम् |
सर्वतोऽलङ्कृतं दिव्यं लसत्काञ्चनपङ्घजम् |
मौक्तिकैः कुसुमैः स्रग्भिर्मुकुलैः स्वर्णतोरणैः |
तन्मध्ये संस्मरेद्देवि ! कल्पवृक्षं मनोहरम् |
चतुःशाखाचतुर्वेदं गुणत्रयसमन्वितम् |
पीतं कृष्णं तथा श्वेतं रक्तं पुष्पञ्च सुन्दरि ! |
हरितञ्च विचित्रञ्च नानापुष्पविराजितम् |
कोकिलैर्भ्रमरैर्देवि ! शोभितं बहुपक्षिभिः |
एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकाम् |
तत्रोपरि महद्व्याप्तं चिन्तयेद्रत्नमण्डपम् |
उद्यदादित्यसङ्काशं रत्नसोपानमण्डितम् |
ध्वजावलीसमाकीर्णं चतुर्द्वारसमन्वितम् |
नानारत्नविशोभाढ्यं रत्नप्राकारमण्डितम् |
स्वस्वस्थानस्थितावस्थैर्लोकपालैरधिष्ठितम् |
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः |
किन्नरैरप्सरोभिश्च क्रीडद्भिः परिदिङ्मुखम् |
नृत्यवादित्रनिरतैरमरस्त्रीगणैर्युतम् |
किङ्किणीजालसम्बन्धपताकाभिरलङ्कृतम् |
महामाणिक्यवैदूर्यरत्नचामरभूषितम् |
स्थूलमुक्ताफलोद्दामलम्बमानैरलङ्कृतम् |
चन्दनागुरुकस्तूरीकुङ्कुमादिविलेपितम् |
तन्मध्ये संस्मरेद्देवि ! महामाणिक्यवेदिकाम् |
उद्यदर्केन्दुकिरणां चतुरस्रोपशोभिताम् |
ध्यायेत् सिंहासनं तत्र ब्रह्मविष्णुशिवात्मकम् |
सिंहासने महेशानि ! प्रसूनतूलिकां न्यसेत् |
पीठपूजां ततः कृत्वा स्वकल्पोक्तक्रमेण तु |
प्रेतपद्मासने तत्र चिन्तयेत् परमेश्वरीम् |
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते |
श्रीरत्नपादुके दत्त्वा नीत्वा तां स्नानमन्दिरे |
सिंहासनोपविष्टायमुद्वर्त्तनमथाचरेत् |
कर्पूरागुरुकस्तूर्या तथा मृगमदेन च |
रोचनाकुङ्कुमैर्मिश्रैर्नानागन्धसमन्वितैः |
देव्या उद्वर्त्तनं कृत्वा गन्धतैलं विलेपयेत् |
दिव्यवारिसहस्तुस्रै

स्वर्णकुम्भसहस्रकैः |
आनीय वारिणा स्नातां चिन्तयेत् परदेवताम् |
दुकूलैर्मार्जितं गात्रं दुकूले परिधे तथा |
कङ्कत्या केशं संस्कुर्याद्विधिवद् बन्धनं तथा |
पट्टगुच्छं केशपाशैर्नानारत्नोपशोभितम् |
पादयोर्नूपुरे दद्यान्नासाग्रे गजमौक्तिकम् |
निवेदयेद् यथाशक्त्या पुष्पमालाञ्च भूषणम् |
सर्वाङ्गलेपनं कार्यं गन्धचन्दनसिक्तकैः |
काञ्चनाञ्चितकञ्चूली शोभिता हृदयोपरि |
समाधौ चिन्तयेद्देवीं भूतशुद्ध्यादिकं दिशेत् |
न्यासजालं विधायाथ समाधौ पूजयेत् सदा |
षोडशानामुपचारैर्हृदिस्थां पूजयेच्छिवाम् |
रत्नसिंहासनं दद्यात् स्वागतं कुशलं वदेत् |
पाद्यञ्च पादयोर्देवि ! शिरस्यर्घ्यं निवेदयेत् |
परामृतमाचमनं प्रदद्यान्मुखपङ्कजे |
मधुपर्कं मुखे दद्यात् त्रिधा आचमनं मुखे |
हेमपात्रगतं दिव्यं परमान्नं परिष्कृतम् |
कपिलाघृतसंयुक्तमन्नञ्च व्यञ्जनान्वितम् |
सुधाम्बुधिं मांसशैलं मत्स्यराशिं फलाति च |
भक्ष्यं भोज्यं तथा लेह्यं चर्व्यं चोष्यं तथैव च |
सकर्पूरञ्च ताम्बूलं मानसं परिकल्पयेत् |
आवरणान् ततो देव्याः पूजनं मनसैव हि |
इत्थमन्तः समाराध्य मानसैव जपेन्मनुम् |
सहस्रादिजपं कृत्वा देव्यै सोदकमर्पयेत् |
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
अत एव महादेव्याः पर्यङ्कं समुदाहृतम् |
पयःफेननिभां शययां नानापुष्पोपशोभिताम् |
पुष्पशययाञ्च संस्कुर्यात्तत्र देवीं सुरेश्वरीम् |
चिन्तयेत् साधको योगी नानासुखविलासिनीम् |
नृत्यगीतैः सवाद्यैश्च तोषयेत् परमेश्वरीम् |
ततो होमं प्रकुर्वीत पूजासाफल्यहेतवे |
अथ होमं प्रवक्ष्यामि येन चिन्मयतां व्रजेत् |
अथाधरामये कुण्डे चिदग्नौ होमयेत्ततः ||

महानिर्वाणतन्त्रे पञ्चमपटले ||

हृत्पद्ममासनं दद्यात् सहस्रारच्युतामृतैः |
पाद्यं

चरणयोर्दद्यान्मनसार्घ्यं निवेदयेत् |
तेनामृतेनाचमनं स्नानीयमपि कल्पयेत् |
आकाशतत्त्वं वसनं गन्धन्तु गन्धतत्त्वकम् |
चित्तं प्रकल्पयेत् पुष्पम् धूपं प्राणान् प्रकल्पयेत् |
तेजस्तत्त्वञ्च दीपार्थे नैवेद्यञ्च सुधाम्बुधिम् |
अनाहतध्वनिं घण्टां वायुतत्त्वञ्च चामरम् |
नृत्यमिन्द्रियकर्माणि चाञ्चल्यं मनसस्तथा |
पुष्पं नानाविधं दद्यादात्मनो भावसिद्धये |
अमायामनहङ्कारमरागममदं तथा |
अमोहकमदम्भञ्च अद्वेषाक्षोभके तथा |
अमात्सर्यमलोभञ्च दशपुष्पं प्रकीर्त्तितम् |
अहिंसां परमं पुष्पं पुष्पमिन्द्रियनिग्रहम् |
दयाक्षमाज्ञानपुष्पं पञ्चपुष्पं ततः परम् |
इति पञ्चदशैः पुष्पैर्भावपुष्पैः प्रपूजयेत् |
सुधाम्बुधिं मांसशैलं भर्जितं मीनपर्वतम् |
मुद्राराशिं सुभक्तञ्च घृताक्तं पायसं तथा |
कुलामृतञ्च तत् पुष्पं पीठक्षालनवारि च |
कामक्रोधौ तु विकृतौ बलिं दत्त्वा जपं चरेत् |
माला वर्णमयी प्रोक्ता कुण्डलीसूत्रयन्त्रिता |
सविन्दुं वर्णमुच्चार्य मूलमन्त्रं समुच्चरेत् |
अकारादिक्षकारान्तमनुलोमविलोमतः |
पुनर्लकारमारभ्य श्रीकण्ठान्तमनुं जपेत् |
विलोम इति विख्यातः क्षकारो मेरुरुच्यते |
अष्टवर्गान्तिमैर्वर्णैः सह मूलमथाष्टकम् |
एवमष्टोत्तरशतं जप्त्वा तेन समर्पयेत् |
सर्वान्तरात्मनिलये स्वाहा ज्योतिःस्वरूपिणी |
गृहाणान्तर्जपं मातराद्ये ! कालि ! नमोऽस्तु ते |
समर्प्य जपमेतेन साष्टाङ्गं प्रणमेद्धिया |
इत्यन्तर्यजनं कृत्वा वहिःपूजां समारभेत् ||

अथान्तर्होमः ||

नित्यातन्त्रे सप्तमपटले ||

ज्ञानहोमविधिं वक्ष्ये शृणु सर्वाङ्गसुन्दरि ! |
यस्य विज्ञानमात्रेण कर्त्ता हर्त्ता सदाशिवः |
आत्मेति चतुरस्रन्तु विचिन्त्य वीरवन्दिते ! |
आत्मान्तरात्मा परमज्ञानात्मा परमेश्वरि ! |
चतुर्भिरेतैर्देवेशि ! कुर्यात्तु

चतुरस्रकम् |
अर्द्धमात्रां योनिरूपां कुण्डमध्ये विचिन्तयेत् |
आनन्दं मेखलां कुर्यात्रिरेखां बलयं तथा |
ज्ञानाग्निं तत्र देवेशि ! योजयेत् कुलभैरवः |
शब्दाख्यं मातृकारूपं संविदग्नौ ततो हुमेत् |
अक्षराणीह मे देवि ! निःशब्दं ब्रह्म जायते |
पुण्यं पापं विकल्पञ्च सङ्कल्पं वीरवन्दिते ! |
कृत्यञ्चाकृत्यमीशानि ! हवींष्येतानि पार्वति ! |
चिन्तयेन्मूलविद्याञ्च जुहुयान्मनसा स्रुचा |
तदा संविन्मयः साक्षात् परं ब्रह्मपदं व्रजेत् ||

अथ पञ्चाहुतयः ||

श्यामारहस्ये मूलान्ते ||

नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा |
ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम् |
स्वाहा |
अनेन प्रथमाहुतिं दद्यात् ||

ततो मूलान्ते ||

धर्माधर्महविर्ज्ञाप्त आत्माग्नौ मनसा स्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् |
स्वाहा इति द्वितीयाहुतिं दद्यात् ||

ततो मूलान्ते ||

प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा |
धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् |
वह्निजायान्तमन्त्रेण तृतीयाहुतिमादिशेत् ||

अनेन तृतीयाहुतिं दद्यात् मूलान्ते ||

अन्तर्निरन्तरनिरिन्धनमेधमाने मायान्धकारपरिपन्थिनि संविदग्नौ |
कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वं जुहोमि वसुधादिशि वावसानम् ||

अथ श्रीचक्रक्रमः ||

कुलार्णवे पञ्चमखण्डे पञ्चमोल्लासे ||

आधारेण विना भ्रंशो न च तृप्यन्ति मातरः |
तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके ! |
आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् |
अथवा वर्त्तुलाकारं कुर्याद्देवि ! मनोहरम् |
इति पात्राधारकथनम् ||

स्वर्णरूप्यशिलाकूर्मकपालालावुमृण्मयम् |
नारिकेलञ्च शङ्खञ्च मुक्ताशुक्तिसमुद्भवम् ||

पुण्यवृक्षसमुद्भूतं पात्रं कुर्याद्विचक्षणः |
अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् |
इति पात्रकथनम् ||

सुवर्णरौप्यताम्राणि सर्वसिद्धिकराणि च |
शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् |
नारिकेलञ्च वश्यादावभिचारे च कूर्मजम् |
शङ्खं ज्ञानप्रदं मुक्ता शुक्तिविद्याप्रदायिनी |
कपालालावुपात्राणि योगसिद्धिकराणि च |
पुण्यवृक्षजपात्राणि सर्वपापहराणि च |
उक्तेष्वेतेषु देवेशि ! पात्रमेकं प्रकल्पयेत् ||

इति कर्मविशेषे पात्रफलम् ||

एतदनन्तरं कुलद्रव्यकरणमुक्त्वा इत्यादि मद्ये हेतूनि मद्यान्यन्यानि कारयेत् |
पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् |
मधूत्थं सीधुमाध्वीकमैरेयं नारिकेलजम् |
मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च |
द्वादशन्तु सुरामद्यं सर्वेषामुत्तमं प्रिये ! |
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा |
सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी |
माध्वी मुक्तिकरी प्रोक्ता सुरा स्याद्देवता प्रिये ! |
इति त्रिविधसुराकथनम् ||

विद्याप्रदैक्षवी माला माध्वी राज्यप्रदा भवेत् |
तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिनी |
नारिकेलभवा श्रीदा पानसी च शुभप्रदा |
मधूकजा ज्ञानकरी माध्वीका रोगनाशिनी |
मैरेयाख्या महेशानि ! सर्वपापापहारिणी |
इत्येकादशमद्यफलम् ||

क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् |
मधुपुष्पसमुद्भूतमासवं तण्डुलोद्भवम् |
तद्गन्धघ्राणमात्रेण शतक्रतुफलं लभेत् |
तस्य सम्पर्कमात्रेण तीर्थकोटिफलं लभेत् |
देवि ! तत्पानतः साक्षाल्लभेन्मुक्तिं चतुर्विधाम् ||

मद्याभावे वटिकोक्ता तत्रैव ||

मद्यमांसादिविजयां चाष्टगन्धैः सुमिश्रितम् |
सम्मर्द्य वटिकां कृत्वा सङ्गृह्याथ विचक्षणः |
मद्याभावे तु वटिकां

जले संयोज्य तर्पयेत् |
वटिकाभावे द्रव्यान्तरेण तर्पणमुक्तं तत्रैव ||

गुडमिश्रेण तक्रेण तर्पयेन्मधुभाजिना |
सौवीरेणाथवाकुर्यादेतत् कर्म न लोपयेत् |
प्रमादाद् यति लुप्येत देवताशापमाप्नुयात् |
मांसञ्च त्रिविधं प्रोक्तं खभूजलचरं प्रिये ! |
यथासम्भवमेष्वेकं तर्पणार्थं प्रकल्पयेत् |
मांससन्दर्शनेनापि सुरादर्शनवत् फलम् |
पितृदेवादियज्ञेषु वैवहिंसा विधीयते |
आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ! |
अनिमित्तं तृणं वापि छेदयेन्न कदाचन |
देवतार्थं द्विजार्थं वा हत्वा पापैर्न लिप्यते ||

मांसाभावे मांसप्रतिनिधिरुक्तस्तत्रैव ||

मांसाभावे तु लसुनं सार्द्रकं नागरन्तु वा |
आदाय पूजयेद्देवीं नान्यथा निष्फलं भवेत् ||

मत्स्यमांसतत्प्रतिनिध्यभावे केवलकारणेनापि तर्पणमुक्तम् तत्रैव ||

मत्स्यमांसादिहीनेन मद्येनापि च तर्पयेत् |
न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् ||

तर्पणफलमुक्तं तत्रैव ||

पिशितं तिलमात्रन्तु तिलार्द्धमपि विन्दुना |
सकृत्तर्पितमात्रेण कोटियज्ञफलं लभेत् |
कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये |
तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् |
अनधीतश्च शास्त्रज्ञो गुरुभक्तो दृढव्रतः |
कुलपूजारतो यस्तु स मे प्रियतमो भवेत् |
चतुर्णामपि वर्णानामाश्रमाणामधीश्वरि ! |
पुंस्त्रीनपुंसकानाञ्च पूजिता त्वं सदाशिवे ! |
इहामुत्र फलं दद्यात् पूज्या सुरबधूरिव |
कुलपूजादिकं विना यश्चैतत् करोति तस्य दोषमाह तत्रैव ||

कुलपूजां विना यस्तु करोत्येतत् सुदुर्मतिः |
स याति नरकं घोरमेकविंशतिभिः कुलैः ||

आराधने त्वशक्तानां कृत्यमुक्तं तत्रैव ||

तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् |
लभते सर्वसिद्धिञ्च नात्र कार्या विचारणा |

आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् |
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ||

शैवादीनामपि कुलद्रव्येण पूजनमुक्तं तत्रैव ||

शैवे च वैष्णवे शाक्ते सौरे च गणदर्शने |
बौद्धे पाशुपते साङ्ख्ये व्रते कलामुखे तथा सदक्षवामसिद्धान्ते वैनिकादिषु पार्वति ! |
निनालिपिशिताभ्याञ्च पूजनं विफलं भवेत् |
कुलद्रव्यैर्विना कुर्याज्जपयज्ञतपोव्रतम् |
निष्फलञ्च भवेद्देवि ! भस्मनीव यथाहुतिः |
एतेन वैष्णवे कुलाचाराभाव इति येनोक्तं तेनेत्यादिवचनं न श्रुतमिति भाति ||

कुलाचारकरणफलमाह तत्रैव ||

यथैवानुचरा राज्ञः प्रियाः स्युर्न वहिश्चराः |
तथान्तर्यागनिष्ठा ये ते प्रिया देवि ! नापरे |
समर्पयन्ति ये भक्त्या कराभ्यां पिशितासवम् |
उत्पादयति चानन्दं मत्प्रियाः कौलिकाश्च ते |
आवयोः परमाकारं सच्चिदानन्दलक्षणम् |
कुलद्रव्योपभोगेण परिस्फुरति नान्यथा |
अन्तःस्थात्मभवोल्लासो मनोवाचामगोचरः |
कुलद्रव्योपभोगेण जायते नान्यथा प्रिये ! |
सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शिनः |
जायते भैरवावेशः सर्वत्र समदर्शिनः |
तमःपरिवृतं वेश्म यथा दीपेन दृश्यते |
तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते |
मन्त्रपूतं कुलद्रव्यं गुरुदेवार्पितं प्रिये ! |
ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते |
सुरा शक्तिः शिवो मांसं तद्भक्तो भैरवः स्वयम् |
तयोरैक्यं समुत्पन्नमानन्दो मोक्ष उच्यते |
आनन्दं ब्रह्मणो रूपं तत्तु देहेष्ववस्थितम् |
अस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते |
निःसङ्गो निर्भयो वीरो निर्द्वन्द्वो निष्कुतूहलः |
निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पीबेत् ||

संस्कृतद्रव्यदानफलन्तु तत्रैव ||

मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति ! |
जायते देवताभावो भवबन्धविमोचकः |
ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे |
गोलम्भने च वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि |
देवान् पितॄन् समभ्यर्च्य देवि ! शास्त्रोक्तवर्त्मना ||

अर्थलोभादिना कुलद्रव्यपाने दोषस्तत्रैव ||

गुरुं स्मरन् पिबन्मद्यं खादन्मांसं न दोषभाक् |
तृप्त्यर्थं सर्वदेवानां ब्रह्मज्ञानार्थमेव च |
सेवेत मधुमांसानि तृष्णया चेत् सं पातकी |
मन्त्रार्थस्फुरणार्थाय मनसः स्थैर्यहेतवे |
भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत् |
सेवते यः सुखार्थाय मद्यादीनि स पातकी |
प्राशयेद्देवताप्रीत्यै ह्यभिलासविवर्जितः |
मत्स्यमांसासवादीनां मादनानां निषेवणम् |
यागकालं विनान्यत्र दूषणं कथितं प्रिये ! |
यथा क्रतुषु विप्राणां सोमपानं विधीयते |
मधुपानं तथा कार्यं समये भोगमोक्षदम् |
श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् ||

पञ्चमुद्रां निषेवेत चान्यथा पातकी भवेत् |
अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् |
पशुपानविधौ पीत्वा कौलोऽपि नरकं व्रजेत् |
कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति |
स महापातकी देवि ! सर्वकर्मवहिष्कृतः |
समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः |
न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् |
यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः |
न स सिद्धिमवाप्नोति परत्र न परां गतिम् |
स्वेच्छया वर्त्तमानो यो दीक्षासंस्कारवर्जितः |
न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः |
असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् |
स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् |
कौलाः पशुव्रताश्चैव पक्षद्वयविडम्बकाः |
केशसङ्ख्या स्थिता यावत्तावत्तिष्ठति रौरवे |
कुलद्रव्याणि सेवन्ते येऽन्यदर्शनमाश्रिताः |
तदङ्गरोमसङ्ख्यातं पलाशी स निगद्यते |
स्वलक्ष्यादिन्द्रियगणं सम्पाद्यात्मनि योजयेत् |
मांसाशी स भवेद्देवि ! शेषाः स्युः प्राणिहिंसकाः |

अप्रबुद्ध्वा पशोः शक्तिं प्रबुद्ध्वा कौलिकस्य च |
शक्तिं तां सेवयेद् यस्तु स भवेच्छक्तिसेवकः |
परशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः |
य आस्ते मैथुनं यत् स्यादितरे स्त्रीनिषेवकाः |
इत्यादिपञ्चमुद्राणां वासनां कुलनायिके ! ज्ञात्वा गुरुमुखाद्देवि ! यः सेवेत स मुच्यते ||

षष्ठोल्लासे ||

पूजकलक्षणादि ||

पूजाभिषेकसहितो देवि ! शास्त्रार्थतत्त्ववित् |
देवतागुरुभक्तश्च नियतं योऽर्चयेत् प्रिये ! |
कुलागमरहस्यज्ञो देवताराधनोत्सुकः |
गुरुपदेशसंयुक्तः पूजयेत् कुलनायिके ! |
शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवर्जितः |
पशुव्रतादिविमुखः सम्मुखस्तर्पयेत् प्रिये ! |
मन्त्रयोगेन देवेशि ! कुर्यात् श्रीचक्रपूजनम् |
तदहन्तु त्वया सार्द्धं गृह्णामि स्वयमादरात् |
भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः |
इति सञ्चिन्त्य योगीशः कुलपूजारतो भवेत् |
इत्यादिलक्षणोपेतः कौलिको नियतव्रतः |
यस्त्वां समर्चयेद्देवि ! भुक्तिमुक्त्योः स भाजनम् |
एकान्ते विजनेऽरण्ये देशे बाधाविवर्जिते |
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः |
आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चधा |
यावन्न कुरुते देवि ! तावद्देवार्चनं कुतः |
पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् |
सा पूजा सफला ज्ञेया चान्यथा निष्फलं भवेत् |
मण्डलेन विना पूजा विफला कथिता प्रिये ! |
तस्मान्मण्डलमालिख्य विधिवत् तत्र पूजयेत् ||

मण्डललक्षणं तत्रैव ||

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् |
त्रैलोक्यं मण्डितं येन मण्डलं तत् सदाशिवम् |
उद्यानचतुरस्रं स्यात् कामरूपञ्च वर्त्तुलम् |
जालन्धरोर्द्ध्वचन्द्राभं त्र्यस्रं पूर्णगिरिर्भवेत् |
अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् |
सामान्यं श्रीगुरोर्भोगबलिपात्राणि पञ्चधा |
द्विपात्रं वा त्रिपात्रं

एकपात्रं न कारयेत् |
स्वदक्षिणादिवामान्तं संस्थाप्यार्च्यासवेन तु |
सम्पूज्य मूलमन्त्रेण कुलेश्वरि ! विधानवित् |
तत्र माषप्रमाणन्तु मत्स्यं मांसञ्च निक्षिपेत् ||

तर्पणे निषिद्धसुरामाह तत्रैव ||

नेष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः |
हेतुभिः परपात्रस्थैस्तर्पणं विफलं भवेत् ||

असंस्कृता सुरा पापकलहव्याधिदुःखदा |
आयुःश्रीकीर्त्तिसौभाग्यधनधान्यविनाशिनी |
तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्च्चयेत् |
अन्यथा याति नरकं भोक्ता दाता न संशयः ||

सुराशोधनप्रकारस्तु तत्रैव ||

वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविशोधितम् |
द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारणम् ||

प्रत्येकं पञ्चमकारशोधनमन्त्रोऽपि तत्रैव ||

प्रथमं हंसः सदसत् प्रतद्विष्णुरनन्तरम् |
त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थं तत्पदादिकम् |
विष्णुर्योनिकमित्यादि पञ्चमं कल्पनामनुः |
एकद्वित्रिचतुःपञ्चद्विचतुर्वारमम्बिके ! |
संस्कृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया |
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् |
आपूरितं महापात्रं पीयूषरसमेव ह |
शुद्धद्रव्येण तेनापि शुद्धपुष्पाक्षतैरपि |
न्यासपूर्वोक्तमन्त्रेस्तु आत्मानं पूजयेत् प्रिये ! |
मूर्ध्नि श्रीगुरुपंक्तिञ्च मूलाधारे च पादुकाम् ||

गुरुपंक्तिक्रममाह तत्रैव ||

दिव्यौघे चादिनाथाश्च तच्छक्तीश्च सदाशिवः |
तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्बुधः |
विष्णुश्च तत्प्रियो ब्रह्मा तत्कान्ता द्वादशेरिता |
सिद्धौघे सनकश्चैव सनन्दश्च सनातनः |
सनत्कुमारश्च सनत्सुजातश्च रिभुक्षजाः |
दत्तात्रेयो दैवतको वामदेवस्ततः परम् |
ततो व्यासः शुकश्चैव एकादश समीरिताः |
मानवौघे नृसिंहश्च महेशो भार्गवस्तथा |
महेन्द्रो माधवो विष्णुः

षडेते परिकीर्त्तितः |
नमो यो योजयेद्देवि ! दिव्यौघे परमं शिवम् |
महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् |
ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये ! |
महापद्मवनान्तःस्थे ! कारणानन्दविग्रहे ! |
सर्वभूतहिते ! मातरेह्येहि परमेश्वरि ! |
देवेशि ! भक्तिसुलभे ! सर्वाभरणसंयुते ! |
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव |
मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः |
ध्यात्वा मुद्राः प्रदर्श्यार्च्येद्गन्धपुष्पाक्षतादिभिः ||

अथ कुलाचारचक्रम् ||

कुलार्णवे पञ्चमखण्डे एकादशोल्लासे ||

यदि स्वाद्दीक्षितो ज्येष्ठः कुलपूजादिवर्जितः |
तत्कनिष्ठस्तत्क्रमश्चेत् कुलपूजां समाचरेत् ||

तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा |
तस्मै निवेद्य तत्सर्वं शेषं भुञ्जीत पार्वति ! |
पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते |
नत्वा ब्रूयात् स्थितिं शिष्यमाचरेत्तदनुज्ञया |
ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ |
तत्र पूज्यवदाचारः कथितः कुलनायिके ! |
अज्ञातकालप्राप्तञ्चेत् पौर्वापर्यन्तु चिन्तयेत् |
स्मृत्वा तस्य गुरुं देवि ! समवेशेन तर्पयेत् |
नित्यार्च्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्च्चनम् |
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः |
न स्नात्वा नासनस्थो वा भुक्त्वा च प्रलपन्नपि |
गन्धपुष्पाक्षताकल्पवस्त्राद्यैरनलङ्कृतः |
अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् |
विना मन्त्रेण या पूजा विना मांसेन तर्पणम् |
विना शक्त्या च यत् पानं निष्फलं कथितं प्रिये ! |
श्रीचक्रमेको वा कुर्यादेकपात्रञ्च नार्च्चयेत् |
नार्चयेदेकहस्तेन पिबेदेकपाणिना |
मत्स्यमांसासवैर्द्देवि ! नार्च्चयेत् पशुसन्निधौ |
प्रणम्य प्रविशेच्चक्रं निर्गच्छेच्च प्रणम्य च |
श्रीचक्रदर्शनं देवि ! नेत्रयोः पापनाशनम् |
अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् |

शिवगौरीधिया देवि ! भावयेन्नावमानयेत् |
कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये |
याचेदमृतगन्धञ्च तदभावे जलं पिबेत् |
कुलाचार्येण यच्छक्त्या दत्तं पात्रन्तु भक्तितः |
नमस्कृत्य तु गृह्णियादन्यथा नरकं ब्रजेत् |
अस्नात्वा वापि भुक्त्वा वा लोभाद्वापि कुलेश्वरि ! |
यः सेवते कुलद्रव्यं स दारिद्र्यमवाप्नुयात् |
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः |
पराङ्मुखो विवादी च न पिबेत्तु कुलामृतम् |
योगामृतेन निष्ठिव्य मद्यभाण्डपरिभ्रमात् |
ऊर्द्ध्वनालेन पानाच्च देवताशापमाप्नुयात् |
एकासने निविष्टा ये भुञ्जते चैकभाजने |
एकपात्रे पिबन्त्यम्बु ते यान्ति नरकं प्रिये ! |
यः सेवते कुलद्रव्यमेकग्रामे स्थिते गुरौ |
तत्कुलज्ञे च तत्पुत्रे सज्येष्ठे कुलदेशिके |
विनानुज्ञां कुलेशानि ! सोऽक्षयं नरकं ब्रजेत् |
उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ! |
वहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् |
मद्यभाण्डं समुद्धृत्य न पात्रं पूरयेत् प्रिये ! |
भोगपात्रं सुराकुम्भे निक्षिपेन्न कदाचन |
चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् |
यः करोति विमूढात्मा स भवेदापदां पदम् |
निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् |
श्रीचक्रमध्ये यः कुर्यात् स भवेत् योगिनीपशुः |
चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि |
दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये ! |

प्रौढोल्लासे सति ज्ञानिमत्तयोर्विज्ञानं यथा तत्रैव ||

मन्त्रान् जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च |
बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये ! |
मत्ता हसन्ति गच्छन्ति विवदन्ते परस्परम् |
रुदन्ति श्रियमिच्छन्ति निन्दन्ति ज्ञानिनः प्रिये ! |
परिहासं प्रलापञ्च वितण्डां बहुभाषणम् |
औदासीन्यं

भयं क्रोधं चक्रमध्ये विवर्जयेत् |
पात्रहस्तो महादेवि ! न भ्रमेच्चक्रमध्यतः |
पूर्णपात्रं करे कृत्वा न तिष्ठेत चिरं प्रिये ! |
नालपेत् पात्रहस्तः सन् न निन्द्यात् पात्रमम्बिके ! |
न पद्भ्यां संस्पृशेत् पात्रं न विन्दुः पातयेदधः |
नैकहस्तेन दातव्यं न मुद्रावर्जितं प्रिये ! |
पात्रं न चालयेत् स्थानात् न कुर्यात् पात्रसङ्कुलम् |
सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् |
नान्योन्यं ताडयेत् पात्रं न पात्रं पातयेदधः |
साधारं नोद्धरेत् पात्रमनाधारे च निक्षिपेत् |
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ! |
न पात्रं लङ्घयेद्धीमान् पात्रं नोत्पातयेत् क्वचित् |
प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि ! |
यदसन्दीपितोल्लासः कौलिकः पशुमीक्षते |
पठित्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम् |
कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् |
श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति |
लेहाल्लोभाद्भयाद्वापि स भवेद्योगिनीपशुः |
रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः |
पितृमातृसमं पश्येत् तेनोक्तं पुरुषं सहेत् |
तथा स्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति |
तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः ||

तथा ||

नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् |
स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ! |
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् |
श्वचर्मस्थं यथा क्षीरं न पेयं स्याद्द्विजातिभिः |
तथा पशुमुखाद्धर्मो न श्रोतव्यश्च कौलिकैः |
यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् |
तावुभौ मच्छतः साक्षाद् योगिनीवीरमेलनम् |
अश्रद्दद्धाना ये चात्र कुलधर्मे कुलेश्वरि ! |
नरकान्न निवर्त्तन्ते यावदाभूतसंप्लवम् ||

तथा ||

गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् |
व्यङ्गाङ्गीं विकृताङ्गीञ्च कुब्जामपि न कारयेत् |
सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि |
न कामयेद्गुरोरग्रे

कुर्यान्नान्योन्यगूहनम् |
कृष्णां शुक्लां कृष्णवर्णां कुमारीञ्च कृशोदरीम् |
मनोहरां यौवनस्थामर्चयेद्देवताधिया |
एकदापि न सेवेत बलेन कुलयोगिनीम् |
चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि ! |
आममांसं सुराकुम्भं मत्तेभं सिद्धलिङ्गिनम् |
सहकारमशोकञ्च क्रीडालीनाः कुमारिकाः |
एकवृक्षं श्मशानञ्च समूहं योषितामपि |
नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः |
गुरुशक्तिं सुतं ज्येष्ठं कनिष्ठं कुलदेशिकम् |
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् |
प्रेरकान् सूचकान् वापि वाचकान् दर्शकांस्तथा |
शिक्षकान् बोधकान् योगियोगिनीसिद्धरूपकान् |
कन्यां कुमारिकां नग्नामुन्मत्तामपि योषितम् |
न निन्देन्न जुगुप्सेत सहासं नावमानयेत् |
नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः |
कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् |
परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृते |
न पश्येत् पतितां नग्नामुन्मत्तां प्रकटस्तनीम् |
दिवसे न रमेत् कान्तां तद्योनिं नैव वीक्षयेत् |
या काचिदङ्गना लोके सा मातृकुलसम्भवा |
कुप्यन्ति कुलयोगिन्यो वनितानामतिक्रमात् |
स्त्रियं शतापराधेन पुष्पेणापि न ताडयेत् |
दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् |
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा |
तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः |
न स्वप्यात् कुलवृक्षाधो न चोपद्रवमाचरेत् |
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन |
श्लेष्मातककरञ्जानि निम्बाश्वत्थकदम्बकाः |
विल्वो वटोडुम्बरश्च तिन्तिडिर्दशमाः स्मृताः |
प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् |
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् |
वीरहत्या वृथापानं वीरद्रव्यापहारिता |
वीरस्त्रीगमनञ्चैव तत्संसर्गश्च पञ्चमः |
महापातकमित्युक्तं कौलिकानां कुलान्वये |
शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् |
ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ ||

अथानन्दस्वरूपकथनम् ||

समयाचारतन्त्रे प्रथमपटले ||

आनन्दं परमं ब्रह्म परशक्तिः सदाशिवः |
आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः |
द्रव्यशुद्ध्यादिसकलमानन्दार्थञ्च भैरवि ! |
आनन्दे जायमाने तु भक्षयेन्न कदाचन ||

अतिपानाद्भवेन्मत्तो जपपूजादि निष्फलम् |
बुद्धिनाशो भवेद्देवि |
अत एव मितं चरेत् |
सुखार्थं भक्षयेद्यस्त्वापदस्तस्य पदे पदे |
अतिसङ्क्षोभतोऽत्यर्थलोकनिन्दा च जायते ||

तथा ||

सर्वं ब्रह्ममयं पश्यन् स च दोषैर्न लिप्यते |
मोहाद्वाकामतो वापि यः कश्चिदिह वर्त्तते |
सोऽधमः साधकानाञ्च नारकी भवति ध्रुवम् |
इह लोके निन्दितः स्यात् परे च नरकं व्रजेत् ||

अथानुकल्पः ||

समयाचारतन्त्रे ||

गव्यादीनामभावे तु नित्यं कर्म न लोपयेत् |
प्रमादाल्लोपयेद् यस्तु नरकं लभते ध्रुवम् |
द्रव्यं चतुर्दशं प्रोक्तं तच्छृणुष्व पृथक् पृथक् |
तेषां मध्ये द्वयं द्रव्यं न ग्राह्यञ्च कदाचन |
क्षीरं दधि तथा तक्रं घृतं क्षौद्रं गुडं तथा |
शर्करा शीतलं तोयमैक्षवं नारिकेलकम् |
आस्फेनं विजयाञ्चैवमुन्मत्तञ्च विषं तथा |
धूस्तूरञ्च विषं देवि ! द्रव्यं प्राणहरात्मकम् |
अन्यानि यानि द्रव्याणि आनन्दार्थं पिबेन्नरः ||

तथा ||

सर्वद्रव्याद्यभावे तु आर्द्रकं परिकीर्तितम् |
जलं वा क्षीरतक्रं वा नित्यं कर्म समापयेत् |
मकारपञ्चकाभावे पञ्चमं परिकीर्तितम् |
अभावे पञ्चमे देवि ! मनसा पञ्चमं व्रजेत् ||

अथ पारम्पर्योपदेशादिं विना पञ्चतत्त्वसेवननिन्दा ||

कुलार्णवे पञ्चमखण्डे द्वितीयोल्लासे ||

गुरूपेदशरहिता मोहयन्तीह केचन |
मोहयन्ति जनान् केचित् स्वयं पूर्वविमोहिताः |
दुराचारपराः केचिद्वाचयन्ति च पामराः |
बहवः कौलिकं धर्मं मिथ्याज्ञानविडम्बकाः |
स्वबुद्ध्या बलयन्तीशं पारम्पर्यविवर्जिताः |
मद्यपानेन मनुजो यदि सिद्धिं लभेत वै |
मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः |
मांसभक्षणमात्रेण यदि पुण्यगतिर्भवेत् |
लोके मांसाशिनः सर्वे पुण्यभाजो भवन्त्विह |
स्त्रीसम्भोगेन देवेशि ! यदि मोक्षं व्रजन्ति वै सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवणात् |
कुलमार्गो महान् देवि ! न मया निन्दितः क्वचित् |
आचररहिता येऽत्र निन्दितास्ते च सर्वदा |
अन्यथा कौलिके धर्मे आचारः कथितो मया |
विचरन्त्यन्यथा देवि ! मूढाः पण्डितमानिनः |
कृपाणधारा गमनाद्व्याघ्रकण्ठावलम्बनात् |
भुजङ्गधारणान्न्यूनमशङ्क्यं कुलवर्णनम् |
वृथापानन्तु देवेशि ! सुरापानं तदुच्यते |
यन्महापातकं ज्ञेयं वेदादिषु निरूपितम् |
अनाघ्रेयमनासेव्यमस्पृश्यञ्चाप्यपेयकम् |
मद्यं मांसं पशूनान्तु कौलिकानां महाफलम् |
यत्तु |
अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु |
द्वादशन्तु सुरामद्यं सर्वेषामधमं स्मृतम् |
तस्माद् ब्राह्मणराजन्यौ बैश्यश्च न सुरां पिबेत् |
इति द्विजातिपाननिषेधकवचनं तदपि पूर्ववचनैकवाक्यतया पशुपरमनभिषिक्तपरं वा ||

चक्रानुष्ठानं यथा श्यामारहस्यधृतम् ||

चक्राकारेण पंक्त्याकारेण वा भिन्नभिन्नासने स्वशक्तियुक्तश्चेत् युग्मयुग्मक्रमेण पद्मासनेनोपविश्य सामयिकललाटे चन्दनं दत्त्वा शिवशक्तिबुद्ध्या पुष्पञ्च दद्यात् |
ततो यदि गुरुस्तत्र तिष्ठति तदादौ गन्धादिना तं पूजयित्वा तत्पात्रे पुष्पं दत्त्वा शुद्धिसहितं तस्मै समर्प्य प्रणमेत् |
गुरोरभावे तत्पात्रं जले

क्षिपेत् |
ततः शक्तिपात्रं शुद्धिसहितं शक्त्यै दत्त्वा सामयिकेभ्योऽपि ज्येष्ठानुक्रमेण वीरपात्रात् परामृतं शुद्धिसहितं दद्यात् |
ततः सामयिकोऽपि भक्त्या हस्तद्वयेन सङ्गृह्य तदुपरि मूलमन्त्रमष्टधा जप्त्वा पूर्ववदानन्दभैरवं भैरवीञ्च सन्तर्प्य गुरून् देवताञ्च सन्तर्पयेत् |
स्वस्वकल्पोक्तविधिना भूतशुद्धिं कुर्यात् |
ततश्चक्रनायकस्तैः सह पात्रवन्दनं कुर्यात् यथा |
श्रीमद्भैरवशेखरप्रविंलसच्चन्द्रामृतप्लावितं क्षेत्राधीश्वरयोगिनीसुरगणैः सिद्धैः समाराधितम् |
आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं वन्दे श्रीप्रथमं कराम्बुजगतं देवं विशुद्धिप्रदम् ||

इत्यभिमन्त्र्य वामहस्तेन पात्रमुत्तोल्य अन्योन्यवन्दनं कृत्वा गृह्णामीति गुरुशक्तिसाधकेश्वराणामाज्ञां गृह्णीयात् |
ते जुषस्वेति ब्रूयुः ||

ततो मूलाधारात् कुण्डलिनीं इष्टदेवतास्वरूपां आजिह्वान्तां विभाव्य गुरुपादुकां स्मृत्वा शिवोऽहमिति विचिन्त्य हस्ताभ्यां पात्रं धृत्वा मूलमुच्चरन् कुण्डलिनीमुखे देवीं तर्पयेत् ||

एतदुक्तमुदयाकरपद्धत्याम् ||

कृत्वा मन्त्रतनुं स्मरेत् गुरुपदं देवीं कलां चिन्मयीं पश्चाद् वा त्रितयं हृदासनवृतं दीपैर्युतं कज्जलैः |
पुष्पादिष्वभिमन्त्रितञ्च निविडं मन्मोहकध्वंसकं ये सञ्चिन्त्य पिबन्ति यान्ति खलु ते भुक्तिञ्च मुक्तिं पराम् ||

तन्त्रान्तरे च ||

सिन्दूरतिलकं भाले पाणौ च मदिरासवम् |
कृत्वा पिबेद्गुरुं ध्यायंस्तथा देवीञ्च चिन्मयीम् |
ततः पात्रमाधारोपरि संस्थाप्य पुनस्तेन क्रमेण परामृतं गृहीत्वा पात्रवन्दनं कुर्यात् |
यथा ||

मद्यं मीनरसावहं यदि तया दातुञ्च पेयादिभिः किञ्चिच्चञ्चलरक्तपङ्कजदृशा तस्यै समावेदितम् |
वामे स्वात्मविशुद्धिकमलं पाणौ विधायात्मके वन्दे पात्रमहं द्वितीयमधुना नन्दैकसंवर्द्धनम् ||

ततः पूर्ववत् पात्रं स्वीकृत्य अन्यत्

पात्रवन्दनं कुर्यात् ||

यथा ||

सर्वाम्नायकलाकलापकलितं कौतूहलद्योतनं चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् |
ध्यातं देवगणैः परं मुनिगणैर्मोक्षार्थिभिः सर्वदा वन्दे पात्रमहं तृतीयमधुना चात्मावबोधक्षमः ||

तृतीयपात्राभिवन्दनं कृत्वान्यत् पात्रवन्दनं कुर्यात् ||

यथा ||

हैमं मीनरसावहं हरिहरब्रह्मादिभिः सेवितं मुद्रामैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयम् |
आचार्याष्टकसिद्धिभैरवकलामांसेन संशोधितं पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः ||

इति चतुर्थपात्रवन्दनं कृत्वान्यत् पात्रवन्दनं कुर्यात् यथा |
आधारे भुजगाधिराजबलयेपात्रं महीमण्डलं मद्यं सप्तसमुद्रवारिपिशितं चाष्टौ च दिग्दन्तिनः |
सोऽहञ्चैव विभावयन् प्रतिदिनं तारागणैरक्षितोऽप्यादित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः ||

इति पञ्चमं पात्रं स्वीकुर्यात् |
ततो यावद्दृष्ट्यादिकं न चलति तावत् पानादिकं कार्यम् |

अथास्य प्रमाणं यथा ||

रुद्रजामले ||

साधकेभ्यश्च शक्तिभ्यो दद्यान्निर्माल्यचन्दनम् |
सामयिकैः समं कुर्याद्देवि ! पानादिभक्षणम् ||

अन्यत्रापि |
निविशेच्चक्ररूपेण पंक्त्याकारेण वा यथा |
शक्तियुक्तो वसेद्वापि युग्मयुग्मविधानतः |
शिवशक्तिधिया सर्वं चक्रमध्ये समर्पयेत् ||

तन्त्रान्तरे च ||

ततः पुष्पं समादाय गुरोः पात्रे निवेदयेत् |
गुरवे च निवेद्याथ शक्त्यै दत्त्वा स्वयं हरेत् ||

भावचूडामणौ च ||

साक्षाद् यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् ||

अथ पानपात्रपरिमाणं यथा कुलसारे ||

नयनाग्निवाणसङ्ख्यकर्षैस्तु परमेश्वरि ! |
हेतुपात्रं प्रकर्तव्यमित्युक्तं कुलसाधने |
इतोऽप्यधिकपात्रन्तु न कर्तव्यञ्च साधकैः |
कर्षं लौकिकतोलकमित्यर्थः |
तदुक्तं कुलोत्तमे ||

गुञ्जाद्वादशमाषः स्यात्तदष्टौ कर्ष उच्यते ||

अथोत्तरतन्त्रे ||

अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् |
जुषस्वेत्यभ्यनुज्ञातो गुरुणा वा कुलीनकैः |
गृह्णियाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः ||

कुलार्णवे ||

एकासने निविष्टा ये भुञ्जीरंश्चैव भाजने |
एकपात्रे पिबन्त्येवं ते यान्ति नरकाधमे |
एकपात्रमिति सर्वैर्मिलित्वा नैकपात्रे पिबेत् |
न तु प्रतिवारं द्रव्यपाने भिन्नभिन्नपात्रं कार्यम् अनुष्ठानलक्षणापत्तेः सम्प्रदायविरोधाच्च वचनान्तरदर्शनाच्च ||

स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमग्रणीम् |
पाययित्वा पिबेद्द्रव्यमिति शास्त्रस्य निर्णयः |
गुरुशक्तियुतानाञ्च गुरुज्येष्ठकनिष्ठयोः |
उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् |
चक्रमध्ये च नियतं नान्यथा पतनं भवेत् |
कनिष्ठानां स्वशिष्याणां दद्यात् स्वोच्छिष्टमेव हि |
दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदां पदम् ||

अन्यत्रापि ||

शक्त्युच्छिष्टं पिबेद्द्रव्यं वीरोच्छिष्टञ्च चर्वणम् |
शक्तिवीरप्रसादेन किं न सिध्यति भूतले ||

चक्रेश्वरेण स्वशक्त्युच्छिष्टमपि पेयम् |
तत्प्रमाणन्तु ||

शक्त्युच्छिष्टमविचार्य पिबेच्चक्रेश्वरो यदि |
आकल्पं नरकं भुक्त्वा विष्ठायां जायते क्रिमिरिति |
अविचार्येति इयमभिषिक्ता नाभिषिक्ता वेति विचारमकृत्वेति तु कौलावलीकारः ||

पीत्वा पीत्वा पुनः पीत्वा पुनः पतति भूतले |
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते |
इदञ्च वचनं ध्यानजपाद्यवसरविषयम् |
न तु पशुसंसर्गविषयकञ्च |
प्रकटे सिद्धिहानिः स्यादित्यादिश्रवणात् |
यावन्न चलते दृष्टिर्यावन्न चलते मनः |
तावत् पानं प्रकर्तव्यं पशुपानमतः परम् |
इति वचनेन ध्यानाद्यपेक्षितत्वाच्च ||

ततः शान्तिस्तोत्रं पठेत् ||

तदुक्तं डामरे ||

पीत्वा स्वामिजनैः सार्धं शान्तिस्तोत्रं ततः पठेत् |
नश्यन्तु प्रेतकुष्माण्डा नश्यन्तु दूषका नराः |
साधकानां शिवाः सन्तु आम्नायपरिपालिनाम् |
जयन्ति मातरः सर्वा जयन्ति योगिनीगणाः |
जयन्ति सिद्धिडाकिन्यो जयन्ति गुरुपंक्तयः |
जयन्ति सिद्धिडाकिन्यो जयन्ति गुरवः सदा |
जयन्ति साधकाः सर्वे विशुद्धाः कौलिकाश्च ये |
समयाचारसम्पन्ना जयन्ति पूजका नराः |
नन्दन्तु अणिमासिद्धा नन्दन्तु कुलपालकाः |
इन्द्राद्या देवताः सन्तु तृप्यन्तु वास्तुदेवताः |
चन्द्रसूर्यादयो देवास्तृप्यन्तु मम भक्तितः |
नक्षत्राणि ग्रहा योगाः करणा राशयेश्च ये |
सर्वे ते सुखिनो यान्तु सर्पादन्यास्तु पक्षिणः |
पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः |
ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा |
स्तुता मे विदिताः सन्तु सिद्धास्तिष्ठन्तु पूजकाः |
ये ये पापधियः सुदूषणरता मन्निन्दकाः पूजने वेदाचारविमर्दनष्टहृदया भ्रष्टाश्च ये साधकाः |
दृष्ट्वा चक्रमपूर्वमन्दहृदया ये कौलिका दूषकास्ते ते यान्तु विनाशमत्र समये श्रीभैरवस्याज्ञया ||

द्वेष्टारः साधकानाञ्च सदैवाम्नायदूषकाः |
डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितैस्तु ते ||

ये वा शक्तिपरायणाः शिवपरा ये वैष्णवाः साधवः सर्वस्मादखिले सुराधिपमजं सेव्यं सुरैः सन्ततम् |
शक्तिं विष्णुधिया शिवञ्च सुधियः श्रीकृष्णबुद्ध्या तु ये सेवन्ते त्रिपुरन्त्वभेदमतयो गच्छन्तु मोक्षन्तु ते ||

शत्रवो नाशमायान्तु मम निन्दाकराश्च ये |
द्वेष्टारः साधकानाञ्च ते नश्यन्तु शिवाज्ञया |
ततो यथाशक्ति विधिना शिवशक्तियोगं कृत्वा देवीपादे स्वमात्मानं समर्प्य श्रीपात्रमुत्तोल्य देव्या उपरि त्रिर्भ्रामयित्वा पुनः संस्थाप्य संहारमुद्रया स्वहृदि समानीय श्रीदक्षिणकालिके ! क्षमस्वेति विसृजेत् ||

ओं कालिकायैः नमः ||

अथानन्दस्तोत्रम् ||

मनोभुवो मङ्गलमूलमुद्रां सौन्दर्य लक्ष्मीं पुरिवेजयन्तीम् |
श्रीसुन्दरीमिन्दुकलावतंसां सानन्दमानन्दमयीं स्मरामि || १ ||

श्रीसुन्दरीपूजनतत्पराणां हालाभिरालोहितलोचनानाम् |
अस्माकमानन्दितमानसानां माहेश्वराणां दिवसाः प्रयान्तु || २ ||

विधाय धारां वदने सुरायाः श्रीकृष्णमभ्यर्च्य कुलक्रमेण |
आस्वादयन्तः पिशितं मृगाक्षीमालिङ्ग्य मोक्षं सुधियो लभन्ते || ३ ||

दिने दिने सिद्धिघटोऽस्तु पूर्णो दिने दिने तर्पणमस्तु देव्याः |
दिने दिने सङ्घटतां द्वितीयां दिने दिने साधकसङ्गमोऽस्तु || ४ ||

आस्वादयन्तः पिशितस्य खण्डमाकण्ठपूर्णं मदिरां पिबामः |
वामेक्षणासङ्गममादधाना भुक्तिञ्च मुक्तिञ्च परां व्रजामः || ५ ||

न स्वादुलाभः पिशितस्य यस्मिन् पञ्चाक्षरी पूर्णरतिर्न यत्र |
न यत्र सङ्गो मृगलोचनायास्तत्तद्दिनं दुर्दिनमेव मन्ये || ६ ||

प्रवर्तकानां सहसाथ लक्ष्मीः प्रयाति देहं सुपदक्रमेण |
श्रीसुन्दरीसाधकनिन्दकानां प्राणाधमानीह लयं प्रयान्ति || ७ ||

अङ्गेषु कुष्ठादि गृहेष्वलक्ष्मीर्मूकत्वमास्ये भवनं श्मशानम् |
श्रीसुन्दरीसाधकनिन्दकानामायुः क्षयं गच्छति तत्क्षणेन || ८ ||

श्रीसुन्दरीसाधकपुङ्गवानां यथा यथा निन्दितमातनोति |
जनः समं पुत्रकलत्रमित्रैस्तथा तथा नाशमुपैति शीघ्रम् || ९ ||

हालां पिबन् दीक्षितमन्दिरेषु स्वपन्निशायां गणिकागृहेषु |
गृहे गृहे भोजनमेव कुर्वन् बम्भ्रम्यते साधकचक्रवर्ती || १० ||

अनन्तरं कालवशाच्च योऽहं सोऽहं भविष्यामि न मे विवादः |
श्रीसुन्दरीं जन्मनि जन्मनि त्वां यद्भैरवोऽहं जननीं स्मरामि || ११ ||

विकल्पवाटीतटसन्निविष्टे प्रवर्तमानाः पशवो

वराकाः |
प्रविश्य मोहाम्बुनिधावगाधे भ्रमन्त्यनापादितकौलमार्गाः || १२ ||

नान्यं विलोकेत च वान्यमीहे नान्यं स्मरन्नापरमाश्रयामि |
कदापि नाहं परमात्मरूपां श्रीसुन्दरीं चेतसि विस्मरामि || १३ ||

विलोक्य सिन्दूरमयं सुधाभिः श्रीचक्रराजं निशि कॢप्तवन्तः |
श्रीसुन्दरीं चेतसि चिन्तयन्तो हेलाविलोकैर्वशयन्ति लोकान् || १४ ||

उन्मूलनं पातकभूरुहाणामुन्मादनं चित्तकुतूहलानाम् |
आकर्षणं पङ्करुहेक्षणानामैरेयपानं वयमाचरामः || १५ ||

वाराणसीजह्नुसुताप्रयागकेदारतीर्थाणि विलोकितानि |
तेनैव मन्ये जगतो वृतानि श्रीसुन्दरीचिन्तनमेव यस्य || १६ ||

वामे चन्द्रमुखी मुखे च मधुरं पात्रं कराम्भोरुहे मूर्ध्नि श्रीगुरुचिन्तनं भगवतीध्यानास्पदं मानसे |
जिह्वायां जपसाधनं परिणतिः कौलाङ्गनाचिन्तनं यत् पात्रं नियतं पिबेत्तदमृतं भक्तिञ्च मुक्तिप्रदम् || १७ ||

वामे रामारमणकुशला दक्षिणे पानपात्रं चाग्रे न्यस्तं मरिचसहितं शूकरस्योष्णमांसम् |
स्कन्धे वीणा ललितसुभगा सद्गुरूणां प्रपञ्चः कौलो धर्मः परमगहनो योगिनामप्यगम्यः || १८ ||

यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः |
श्रीसुन्दरीपूजनतत्पराणां भोगश्च मोक्षश्च करस्थ एव || १९ ||

एकेन शुष्कचणकेन घटं पिबामि कुम्भं पिबामि सहसा लवणाद्रकेण |
आस्वादयामि यदि रोहितमुण्डखण्डं गङ्गां पिबामि यमुनां सह सागरेण || २० ||

करे पात्रं मुखे स्तोत्रमानन्दो हृदयाम्बुजे |
मूर्ध्नि श्रीनाथपादस्य स्मरणं किमतः परम् || २१ ||

पीत्वां मद्यं पठेत् स्तोत्रं साधकः कुलभैरवः |
कुलस्त्रीसङ्गनिरतः कुलकार्यं समाचरेत् || २२ ||

अलिपिशितपुरन्ध्रीयागपूजारतोऽहं बहुविधकुलमार्गारम्भसम्भावितोऽहम् |

गुरुचरणरतोऽहं भैरवीमाश्रितोऽहं पशुजनविरतोऽहं भैरवोऽहं शिवोऽहम् || २३ ||

इति कुलार्णवे आनन्दस्तोत्रं समाप्तम् ||

अथानन्दोल्लासः ||

कुलार्णवे पञ्चमखण्डे सप्तमोल्लासे ||

आरम्भस्तरुणश्चैव यौवनं |
प्रौढ एव च |
तदन्ते चोन्मनाश्चैव तत्त्वोल्लासस्ततः परम् |
समाधिरिति विज्ञेयस्तत्त्वोल्लासस्तु सप्तमः |
तत्त्वत्रयं स्यादारम्भः कथितं कुलनायिके ! |
कथितस्तरुणोल्लासो ह्यरुणं मुखमम्बिके ! |
यौवनं मनसः सम्यगुल्लासः कथितः प्रिये ! |
स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते |
समुल्लासपरे चक्रेय इच्छेत् पात्रमेलनम् |
आदौ प्रौढसमुल्लासं नैव कुर्यात् कदाचन ||

तथा ||

प्रौढोल्लासमधिकृत्य ||

तदारूढेषु वीरेषु कार्याकार्यं न विद्यते |
इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि ! |
तत्र यद्यत् कृतं कर्म शुभं वा यदि वाऽशुभम् |
तत् सर्वं देवताप्रित्यै जायते सुरसुन्दरि ! |
जल्पो जपफलं तन्द्रा समाधिरभिधीयते |
विक्रिया पूजनं देवि ! छर्दनं भैरवो बलिः |
मुक्तिः स्याच्छक्तिसंयोगात् स्तोत्रं तत्कालभाषणम् |
न्यासोऽवयवसंस्पर्शः कण्डूतिर्हवनक्रिया |
वीक्षणं ध्यानमीशानि ! शयनं वन्दनं भवेत् |
तत्त्वन्यासे कृता नाना या चेष्टा सा च तत्क्रिया |
कार्याकार्यविचारन्तु यः करोति स पातकी |
एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः |
येनाप्लावन्ति मनुजाः साक्षाद्भैरवरूपताम् |
सम्मोदकपरानन्दतर्पणं ज्ञानवर्तनम् |
वेणुवीणादिवाद्यञ्च कवितारचनादिकम् |
रोदनं भाषसम्पातः समुत्थानं विजृम्भणम् |
गमनं विक्रिया देवि ! योग इत्यभिधीयते |
चक्रेऽस्मिन् योगिनीवीरयोगिन्यो मदमन्थराः |
समाचरन्ति देवेशि ! यथोल्लासं मनोगतम् ||

शनैः पृच्छन्ति पार्श्वस्थानाविस्मृत्यात्मवीक्षितम् |
निधाय वदने पात्रं

निर्वाणा निवसन्ति च |
मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते ||

तथैव पुरुषस्यापि प्रौढोऽन्तोल्लाससंयुतः |
पुरुषः पुरुषं मोहादालिङ्गत्यङ्गनाजनम् |
पृच्छन्ति स्वपतिं मुग्धा कस्त्वं का त्वमिहागता |
किं कार्यं वयमायाताः किमर्थमिह संस्थिताः |
उद्यानं किमिदं हन्तः ! गृहं किं वागतं किमु ? |
मुखे सम्पूर्य मदिरां पाययन्ति स्त्रियो नरान् |
उपदंशमुखे क्षिप्त्वा निक्षिपन्ति प्रियानने |
गृह्णन्त्यन्यस्य पात्राणि व्यञ्जनानि च शाम्भवि ! |
धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः |
अज्ञानात् करतालान्तमस्पष्टाक्षरगीतकम् |
प्रस्खलत्पदविन्यासं तृप्यन्ति कुलशक्तयः |
योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि |
मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि |
मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् |
इत्यादिविविधाश्चेष्टाः कुर्वन्ति कुलनायिके ! |
विकृतिं मनसो हित्वा यदुल्लासः प्रवर्तते |
मदा तु देवताभावं भजन्ते योगिपुङ्गवाः |
कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः |
तत्त्वाशयस्य सन्देहो योगिन्यः कुलनायिकाः |
न निन्देन्न हसेद्वापि चक्रमध्ये मदाकुलान् |
एतच्चक्रगतां वार्तां वहिर्नैव प्रकाशयेत् |
तेभ्यश्च भोजनं कुर्यात् नाहितञ्च समाचरेत् |
भक्त्या संरक्षयेदेतान् गोपयेच्च प्रयत्नतः |
चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया |
मोदते वन्दते भक्त्या स गच्छेद् योगिनीपदम् |
पश्येदेवं विधं चक्रं यो भक्त्या कौलिकः प्रिये ! |
व्रततीर्थतपोदानयज्ञकोटिफलं लभेत् |
उन्मादात् पतनोत्थानात् मूर्च्छना च मुहुर्मुहुः |
उन्मत्तक्षेत्र उल्लासे षष्ठे वीरसमन्विते |
चिरं सन्निदधाते तौ यौ वित्तः पराक्षरौ |
परं ब्रह्मात्मसंस्थानकाङ्क्षिणं कुलनायिके ! |
देहेन्द्रियाणां मनसश्चानवस्थान्निगद्यते |
समवस्थाभिधा तस्मिन् तत्त्वोल्लासे समं प्रिये ! |
परमन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा |
मूर्च्छनासन्निकर्षोऽपि न्यूनं मुक्तेः परं विदुः |
अन्तर्ल्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः |
एषा च शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता |
एषा च खेचरी मुद्रा शिवस्य समवाहिनी |
सर्वोत्तीर्णः सदा हन्ता सागरस्य समाकृतिः |
अनयोल्लासिनी वीरा शिव एव न संशयः |
न किञ्चिदपि जानन्ति आत्मध्यानपरायणाः |
तदा मत्परमं सौख्यमिति वक्तुं न शक्यते |
स्वयमेवानुभवति शर्कराक्षीरपानवत् |
ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते |
दृश्यते कुलकादेश्च तद्ब्रह्मध्यानमुत्तमम् |
यत् सुखं विद्यते ध्याने देहादेशकरं परम् |
कथितुं नैव शक्नोमि प्रबुद्धस्तु समाहितः |
ब्रह्मध्यानामृतानन्दपराः सुकृतिनो नराः |
क्षणेऽप्यन्तहिते तस्मिन् मोचयन्ति हतप्रभाः |
सप्तमोल्लासयुक्तानां तद्भक्तानां महाफलम् |
अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि ! |
अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः |
बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः |
प्रतीहारीपदं प्राप्ताः सेवन्ते मुनितां चिरम् |
ये गुणाः परमेशस्य पञ्चतत्त्वतनोः शुभाः |
ते गुणाः कुलतत्त्वज्ञे ! तत्त्वज्ञानां समाहृताः |
आरम्भः स्तवनोल्लासो यौवनं प्रौढमेव च |
नन्दन्ति योगादित्युक्तश्चोन्मनाः स्वप्न उच्यते |
अनवस्था सुषुप्तिः स्यादवस्थात्रयसंयुतात् |
सप्तोल्लासं यो हि वेत्ति स मुक्तः स च कौलिकः |
प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः |
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् |
स्त्री वाथ पुरुषः षण्डश्चाण्डालो वा द्विजातयः |
चक्रमध्ये न भेदोऽस्ति सर्वे देवसमाः प्रिये ! |
नगरीनिर्झराद्यम्बु गङ्गां प्राप्य यथैकताम् |
याति श्रीचक्रमध्येषु चैकत्वं मानवास्तथा |
क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत्

|
तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते |
स्वर्गादिपुण्यलोकेषु देवादन्यो यथा न हि |
तथैव चक्रमध्ये तु देवताः सर्वमानवाः |
जातिभेदो न चक्रऽस्मिन् सर्वे शिवसमाः स्मृताः |
वेदोपस्थितमेवं हि सर्वं ब्रह्मेति चाब्रवीत् |
बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ! |
मद्रूपाः पुरुषाः सर्वे त्वद्रूपा योषितः प्रिये ! |
चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः |
तं भक्षयन्ति योगिन्यः शपन्ति कुलनायिके ! |
स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् |
अथवा मिथुनं कृत्वा क्रमात्तमुपवेशयेत् |
पुंस्त्वाकारेण वा सम्यक् चक्राकारेण वा प्रिये ! |
शिवशक्तिधिया सर्वाश्चक्रमध्ये समर्चयेत् |
अविभक्तौ यथाचारौ लक्ष्मीनारायणौ प्रिये ! |
यथा वाणीसदानन्दौ तथा वीरः सशक्तिकः |
मद्यकुम्भसहस्रैश्च मांसभारशतैरपि |
न तुष्यामि वरारोहे ! भगलिङ्गामृतं विना न चक्राङ्कं न पद्माङ्कं न वज्राङ्कमिदं जगत् |
लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् |
शिवशक्त्यात्मसंयोगो यस्मिन् काले प्रजायते |
स सन्ध्याकुलनिष्ठानां समाधिः स विधीयते |
कामुको न स्त्रियं गच्छेदनिच्छन्तीमदीक्षिताम् |
सद्यः संस्कारसंशुद्धां विहितां तां व्रजेत् स्त्रियम् ||

इति तत्त्वत्रयोल्लासपानभेदाभिचोदितम् |
समासेन कुलेशानि ! किम्भूयः श्रोतुमिच्छसि ||

इत्यानन्दोल्लासः ||

अथ पञ्चचक्रानुष्ठानम् ||

यथा निरुत्तरतन्त्रे दशमपटले ||

श्रीशिव उवाच ||

सर्वजात्युद्भवा शक्तिः योगिभिः पूज्यते सदा |
यां यां पश्यति योगीन्द्रस्तां तामेव प्रपूजयेत् |
वीरशक्तिर्विशेषेण शृणुष्व |
वरवर्णिनि ! |
पुरश्चर्या कृता वीरा प्रशस्ता वीरसाधने |
पुरश्चर्याविहीनाश्चेन्न योज्याः कुलसाधने ! |
योज्याश्चेत्

सिद्धिहानिः श्याद्रौरवं नरकं व्रजेत् |
वीरशक्तिं विना देवि ! न कुर्यात् कुलसाधनम् |
तदभावे हीनजातौ प्रशस्ता वीरसाधने |
पञ्चचक्रे प्रशस्ता यास्ताः शृणुष्व वरानने ! |
चक्रं पञ्चविधं प्रोक्तं तत्र शक्तिं प्रपूजयेत् |
राजचक्रं महाचक्रं देवचक्रं तृतीयकम् |
वीरचक्रं चतुर्थञ्च पशुचक्रञ्च पञ्चमम् |
पञ्चचक्रे यजेद्दिव्ये वीरश्च कुलसुन्दरि ! |
ब्रह्मचारी गृहस्थश्च पञ्चचक्रे प्रपूजयेत् |
बलीयसि च देवेशि ! शिवचक्रे प्रपूजयेत् |
ब्रह्मचारी गृहस्थश्च वीरचक्रेण पूजयेत् |
योगिभिः पूज्यते देवि ! पूर्वचक्रेषु कामिनी ||

माता च भगिनी चैव दुहिता च स्नुषा तथा |
गुरुपत्नी च पञ्चैता राजचक्रे प्रपूजयेत् |
गौडी वाप्यथवा माध्वी सुरा शस्ता कुलेश्वरि ! |
शुद्धिच्छागोद्भवा शस्ता तृतीयोद्दालकस्तथा |
मुद्रा गोधूमजा शस्ता स्वयम्भू कुसुमं तथा |
कुण्डगोलोद्भवं द्रव्यमनुकल्पं नियोजयेत् |
रक्तचन्दनं तथा श्वेतमनुकल्पञ्च चन्दनम् |
वस्त्रालङ्कारभूषाद्यैर्गन्धमाल्यानुलेपनैः |
पूजयेत् परया भक्त्या देवताभ्यो निवेदयेत् |
भक्ष्यं नानाविधं द्रव्यं नानावस्त्रसमन्वितम् |
आसनं शुद्धिसंयुक्तं ताभ्यो दद्यात् पुनः पुनः |
प्रणम्य प्रजपेन्मन्त्रं दृष्ट्वा ताश्च सहस्रकम् |
अङ्गं नैव स्पृशेत्तासां स्पृशेच्च नरकं व्रजेत् |
मधुमत्ता यदा तास्तु न स्वपन्ति सुसम्पदः |
तत्तदेवं भवेत् सर्वं सत्यं सत्यं न संशयः |
षष्टिवर्षसहस्राणि ब्रह्मलोके महीयते |
माता भगिनी स्नुषा कन्या वीरपत्नी कुलेश्वरि ! |
महाचक्रे यजेदेताः पञ्चशक्तीः पुनः पुनः |
द्रव्य दाने तु सम्पूज्या न शक्तौ शिवयोजनम् |
योजने सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत् |
महाव्याधिर्भवेद्देवि ! धनहानिः प्रजायते |
सदैव दुःखमाप्नोति सर्वं तस्य विनश्यति |
आद्यञ्च गौडिकं प्रोक्तं द्वितीयं कुक्कुटोद्भवं |
तृतीयं रोहितं प्रोक्तं चतुर्थं

शशसम्भवम् |
करवीरोद्भवं पुष्पं चन्दनं रक्तचन्दनम् |
पूजयेत् परया भक्त्या शिवलोके महीयते |
षष्टिवर्षसहस्राणि तत्र देवीं प्रपूजयेत् |
अष्टम्याञ्च चतुर्दश्याममायाञ्च कुजेऽहनि |
राजचक्रे महाचक्रे भक्त्या शक्तिं प्रपूजयेत् |
शुक्लपक्षे गुरोर्वारे चतुर्थीसप्तमीतिथौ |
महाचक्रे यजेद्भक्त्या सर्वकामार्थसिद्धये |
देवचक्रं प्रवक्ष्यामि शृणुष्व वरवर्णिनि ! |
विदग्धाः सर्वजातीनां पञ्च कन्याः प्रपूजयेत् |
गौडिकं फलदं रम्यं द्वितीयं पक्षिसम्भवम् |
तृतीयं शालमत्स्यन्तु चतुर्थं धान्यसम्भवम् |
सुगन्धि सर्वपुष्पञ्च देवचक्रे नियोजयेत् |
देवचक्रे यजेच्छक्तिं देवचक्रे महीयते |
षष्टिवर्षसहस्राणि देवकन्यां प्रपूजयेत् |
पञ्चकन्या यजेच्चक्रे नातिरिक्ताः कदाचन |
लोभाद्वा कामतो वापि छलाद्वा वरवर्णिनि ! |
यदि स्यात् सङ्गमस्तासां रौरवं नरकं व्रजेत् |
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि |
पितृभूमीं समागम्य वीरचक्रे प्रपूजयेत् |
दिव्यवीरान्वितो मन्त्री यजेत् शक्तिं वलीयसीम् ||

श्रीदेव्युवाच ||

मात्रादयः पञ्चकन्या यतीनाञ्च कथं प्रभो ! ||

श्रीशिव उवाच ||

मात्रादयः पञ्चकन्या हीनजाता यतः प्रिये ! |
चतुर्वर्णोद्भवां वेश्यां विशेषेण बलीयसीम् |
भूमीन्द्रकन्यका माता दुहिता रजकीसुता |
श्वपची च स्वसा ज्ञेया कापाली च स्नुषा स्मृता |
योगिनी निजशक्तिः स्यात् पञ्चकन्याः प्रकीर्तिताः |
गुरोः समीपे कर्तव्यमथवा भ्रातृभिः सह |
सिद्धमन्त्रो भवेद्वीरो न वीरो मद्यपानतः |
अभिषिक्तो भवेद्वीरः अभिषिक्ता च कौलिकी |
एवञ्च वीरशक्तिञ्च वीरचक्रे नियोजयेत् |
क्रमसङ्केतकञ्चैव पूजासङ्केतमेव च |
मन्त्रसङ्केतकञ्चैव यन्त्रसङ्केतकन्तथा |
लिखनं मन्त्रयन्त्राणां सङ्केतं गुरुमार्गतः |
सङ्केतजं विना वीरं यदि चक्रे नियोजयेत् |
निष्फलं पूजनं देवि ! दुखं तस्य पदे पदे |

सङ्केतहीनो यो वीरो नाभिषेकी गुरुक्रमात् |
कूपे भ्रष्टः स पापिष्ठस्तं त्यजेद्वीरचक्रके |
नाभिषिक्तं वामचक्रे नाभिषिक्तां च कौलिकीम् |
निवेश्य रौरवं याति सत्यं सत्यं न संशयः |
एवं क्रमं विना देवि ! वीरचक्रे वसेद्यदि |
सिद्धिहानिः सिद्धिहानी रौरवं नरकं व्रजेत् |
सर्वमद्यं सर्वशुद्धिं सर्वमीनं कुलेश्वरि ! |
सर्वमुद्रां सर्वपुष्पं स्वयम्भूकुसुमं तथा ||

कुण्डगोलोद्भवं द्रव्यं नानारससमन्वितम् |
प्रदद्यात् साधकश्रेष्ठो वीरचक्रे पुनः पुनः |
स्वशक्तिं पूजयेत्तत्र तदुच्छिष्टं पिबेत् प्रिये ! |
चर्व्यं स्वज्येष्ठतो ग्राह्यं कनिष्ठाय निवेदयेत् |
एकासने न भुञ्जीत भोजनं नैकभाजने |
परस्परमुपस्पर्शं न कर्त्तव्यं कदाचन |
एवं क्रमेण देवेशि ! वीरचक्रे समाचरेत् |
आनीय हीनजां देवीं शक्तिमन्त्रेण शोधयेत् |
संशोध्य हीनजां देवीं वीरशक्तिं निवेदयेत् |
मधुमत्ताय वीराय यो दद्याद्धीनजां शुभाम् |
वीराय शक्तिदानन्तु वीरचक्रे विधीयते |
चक्रभिन्ने चरेद्दानं रौरवं नरकं व्रजेत् |
घातयेद्गोपयेद्वापि न निन्देन्न निरीक्षयेत् |
कामं क्रोधञ्च मात्सर्यं विकारं लोभमेव च |
कुलनिन्दां दुरालापं गोपयेद्दुष्टकं प्रिये ! |
मन्त्रं मुद्रामक्षमालां योनिञ्च वीरसङ्गमम् |
मण्डलञ्च घटं पीठं सिद्धद्रव्याणि गोपयेत् |
पण्डितं वीरसन्तानं क्षेत्रं देवीञ्च योगिनीम् |
कुलाचारगुरुं दूतीं मनसापि न निन्दयेत् |
देवीं गुरुं सुधां विद्यां श्रेष्ठां शक्तिं क्रियात्मजाम् |
योगिनीं भैरवीतत्त्वमात्मतत्त्वं प्रपूजयेत् |
विमाता दुहिता भग्नी स्नुषा पत्नी च पञ्चमी |
पशुचक्रे यजेद्धीमान् पशुवत्तोषणञ्चरेत् |
गन्धं पुष्पञ्च माल्यञ्च वस्त्राणि भूषणानि च |
सिन्दूरागुरुकस्तूरीनानापुष्पाणि सुन्दरि ! |
भक्ष्यं नानाविधं द्रव्यं फलं नानाविधं प्रिये ! |

एतद्द्रव्यगणं यस्तु भक्त्या ताभ्यो निवेदयेत् |
षष्टिवर्ष सहस्राणि क्षितो राजा भवेद्ध्रुवम् |
वीरचक्रे तदा सिद्धिर्भवत्येव न संशयः ||

अथ कुलशक्तयः ||

रेवतीतन्त्रे तृतीयपटले ||

शक्तयः परमेशानि ! विदग्धाः सर्वयोषितः |
नटी कापालिकी वेश्या मालिनी कुङ्कुमालिनी |
चण्डाली च कुलाली च रजकी नापिताङ्गना |
गोपिनी योगिनी शुद्धा ब्राह्मणी राजकन्यका |
कोचाङ्गना च देवेशि ! तथैव शङ्खकारिणी |
एताः षड्विंशतिः कन्या देवानामपि दुर्लभाः |
दैवज्ञा व्याधवामा च तथा मांसापहारिणी |
बौद्धा च यवनी देवि ! तथा रसपसारिणी |
वेश्या चतुर्विधा प्रोक्ता द्विविधा कुङ्कुमालिनी |
धीवरी द्विविधा प्रोक्ता तथैव गणिकाङ्गना |
कुम्भकारी द्विधा प्रोक्ता तथैव गोपिनी स्मृता |
वातवैद्याङ्गना देवि ! यवनी द्विविधा स्मृता |
बौद्धकन्या त्रिधा देवि ! तथा कोचाङ्गना प्रिये ! |
पूर्वोक्ताभिः सहैकत्र चतुःषष्टिश्च शक्तयः ||

गुप्तसाधनतन्त्रे चतुर्थपटले ||

शिव उवाच ||

शृणु पार्वति ! वक्ष्यामि अतिगुह्यतरं महत् |
प्रकाशात् सिद्धिहानिः स्यात्तस्माद् यत्नेन गोपयेत् |
स्वशक्तिं परशक्तिं वा दीक्षितां यौवनान्विताम् |
विदग्धां शोभनां शुद्धां घृणालज्जाविवर्जिताम् |
आनीय कुलसाधनं कुर्यादित्युत्तरेणान्वयः |
तत्र व्यवस्थामाह निरुत्तरतन्त्रे अष्टमपटले ||

स्वशक्तिसिद्धिमादाय सिद्धमन्त्रस्ततो भवेत् |
सिद्धमन्त्रः कुलाचारे परयोषां प्रपूजयेत् |
सिद्धमन्त्रो यजेत् शक्तिं कायेन मनसापि वा |
परयोषां विशेषेण परयोषां प्रपूजयेत् |
सिद्धमन्त्रप्रकारस्तु नवमपटले ||

आनीय च कुलं रम्यं कुलशक्तिं कुलार्चने |
स्वचक्रं विविधं देवि ! शक्तिभाले लिखेत्ततः |
ततः कामकलांदेवीं वीरकोणे लिखेत्ततः |
तन्मध्ये

देवमन्त्रञ्च विहितं कामलाञ्छितम् |
तत्र देवीं समावाह्य ध्यात्वैव च प्रपूजयेत् |
ततो लक्षञ्च सञ्जप्य स्थिरधीः कुलसाधकः |
ततस्तच्छक्तिकर्णे च ऋषिच्छन्दःसमन्वितम् |
मूलमन्त्रं त्रिरावृत्त्या कथयेद् वामकर्णके |
अद्यप्रभृति शक्ति ! त्वं कुलदेवार्चनं कुरु ||

ततः शक्तिः पठति |
गुरोराज्ञां समादाय घृणालज्जाविवर्जिता |
शिवोक्तविधिना देव ! करिष्यामि कुलार्चनम् |
त्राहि नाथ ! कुलाचारकामिनीकामनायक ! |
त्वत्पादाम्भोरुहच्छायां देहि मे कुलवर्त्मनि |
गते च प्रथमे यामे स्वकुलं कुलकोपरि |
वामभागे समानीय रक्तवस्त्रसमन्वितम् ||

नानागन्धसमायुक्तं नानारत्नसमन्वितम् |
ललाटे मन्त्रमालिख्य मध्ये नामविचर्चितम् |
ताम्बूलपूरितमुखस्ताम्बूलारुणलोचनः |
कुलाकुलजपं कृत्वा ध्रुवमायाति तत्क्षणात् |
एवमाकर्षिते मन्त्रे सिद्धमन्त्रः कुलेश्वरि ! |
तावत् प्रयोगः कर्तव्यो यावत् सिद्धिर्न जायते |
सिद्धमन्त्रः कुलाचारे कुलयोषां प्रपूजयेत् इति ||

शक्त्यङ्गे जपस्थानमाह ||

समयाचारतन्त्रे ||

अथेदानीं प्रवक्ष्यामि जपार्थं पीठमुत्तमम् |
पूर्णगिरिश्च प्रथममुड्डीयानां द्वितीयकम् |
जालन्धरं तृतीयञ्च कामरूपं चतुर्थकम् |
कृते पूर्णगिरिश्चैव त्रेतायाञ्च द्वितीयकः |
जालन्धरं द्वापरे तु कामरूपं कलौ युगे |
चतुःपीठानि पीठानि शक्तिदेहेषु यानि च |
तानि चत्वारि वक्ष्यामि गुह्याद्गुह्यतराणि च |
शक्तेः सर्वशरीरं यत् पीठं पूर्णगिरिः स्मृतम् |
तस्याः शिरश्च सुभगे ! उड्डीयानां प्रकीर्तितम् |
स्तनौ जालन्धरं ज्ञेयं कामरूपं भगस्तथा |
सर्वेषु कामपीठन्तु देवानामपि दुर्ल्लभम् |
एषु पीठेषु च स्थित्वा यं यं मन्त्रं जपेत् प्रिये ! |
तत्तत्फलमवाप्नोति देवताशु प्रसीदति ||

तथा ||

नानाशक्त्या सहालापं ये च कुर्वन्ति साधकाः ||

ते शीघ्रकालात् सुभगे !

फलं प्राप्स्यन्ति मानवाः |
तामानीय साधकेन्द्रो दद्यात् पाद्यादिकं शुभम् |
पञ्चाचारेण तां शक्तिं पूजयित्वा यथाविधि |
शतं शीर्षे शतं भाले शतं सिन्दूरमण्डले |
शतं मुखे शतं कण्ठे शतं हृदयमण्डले |
शतद्वन्द्वं स्तनद्वन्द्वे शतं नाभौ जपेत् सुधीः |
योनिपीठे शतं जप्त्वा साधकः स्थिरमानसः |
एवं सहस्रं सञ्जप्य देवीरूपां विचिन्तयेत् |
शिवशक्तिस्वरूपाञ्च चिन्तयेत् साधकोत्तमः |
शिवमन्त्रेण देवेशि ! स्वलिङ्गं पूजयेदथ |
ताम्बूलं तन्मुखे दत्त्वा साधको हृष्टमानसः |
तदनुज्ञां समादाय योनौ लिङ्गं विनिक्षिपेत् |
ओं धर्माधर्महविर्दीप्त आत्माग्नी मनसा स्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् |
स्वाहेत्यनेन मन्त्रेण हुनेत् सर्वसमृद्धये |
ततो जपेत् सहस्रं वै शक्तियुक्तो भवेन्नरः |
शतं वापि प्रजप्तव्यं ततो न्यूनं न कारयेत् |
ततः पूर्णाहुतिं दद्यान्मन्त्रेणानेन साधकः |
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनाः स्रुचा |
धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् |
स्वाहेत्यनेन मन्त्रेण पूर्णाहुतिं समाचरेत् |
शुक्रोत्सारणकाले तु महादेव्यै निवेदयेत् |
एवं कृते मन्त्रसिद्धिर्भवत्येव न संशयः |
यं यं प्रार्थयते कामं तं तमाप्नोति निश्चितम् |
रोगी रोगात् प्रमुच्येत धनेन च धनाधिपः |
वायुतुल्यबलो लोके दुर्जयः शत्रुमर्दनः |
कामतुल्यश्च नारीणां रिपूणां शमनोपमः |
एतत्कल्पेन देवेशि ! किं न सिध्यति भूतले |
अष्टैश्वर्यमवाप्नोति स एव श्रीसदाशिवः ||

निरुत्तरतन्त्रे द्वादशपटलेऽपि ||

अथान्यत् सम्प्रवक्ष्यामि साधनं भुवि दुर्ल्लभम् |
कृते येन लभेत् सिद्धिं देवानामपि दुर्लभाम् |
ललाटे शक्तिमन्त्रन्तु त्रिरावृत्त्या लिखेद्बुधः |
तन्मध्ये कामवीजञ्च विलिखेत् कामलाञ्छितम् |
कामेन पुटितं

कृत्वा पूजयेत् परमेश्वरीम् |
सम्पूज्य कालिकां देवीं यन्त्रञ्च परिपूजयेत् |
तत्त्वचिन्तापरो योगी जपेल्लक्षं निराकुलम् |
सङ्गृह्य कुलपुष्पन्तु पूजयेच्च पुनः पुनः |
सहस्रं तर्पयेत् पीठे यन्त्रप्रक्षालनोदकैः |
एवं कृते लभेत् सिद्धिं सत्यं सत्यं न शंशयः |
यथान्यत् सम्प्रवक्ष्यामि पुरश्चरणमुत्तमम् |
शतं भाले शतं केशे शतं सिन्दूरमण्डले |
शतमेकं मुखाम्भोजे पुष्पवक्त्रे शतद्वयम् |
शतद्वन्द्वं कुचद्वन्द्वे शतञ्च नाभिमण्डले |
शतमेकं कुलागारे प्रजपेद्भक्तिभावतः |
एवं दशशतं जप्त्वा कुलागारे ततो जपेत् |
पूजयित्वा जपेन्मन्त्रं गजान्तकसहस्रकम् |
ततस्तु तत्त्वयोगेन शतमष्टोत्तरं जपेत् |
पूजनञ्च ततस्तत्र पुरश्चरणमुच्यते |
अथान्यत् सम्प्रवक्ष्यामि कलागारस्य साधनम् |
येन कृते कुलेशानि ! सर्वपापक्षयो भवेत् |
कुलागारे कुलाष्टम्यां कुलमाहूय पूजयेत् |
तर्पणञ्च जपं होमं तत्तदक्षयतां व्रजेत् |
कदलीतरुमूलञ्च द्विगुणं यदि दृश्यते |
तत्र तु महतौ पूजा कर्तव्या वरवर्णिनि ! ||

ततस्तु ब्रह्मवक्त्रेण होमं कुर्याद्विचक्षणः |
होमं कृत्वा जपेन्मन्त्रं कोटीकोटीगुणं भवेत् |
द्विगुणं रजनीमूलं संवीक्ष्य यो जपेन्मनुम् |
स भवेत् सर्वसिद्धीशस्तस्य पुण्यं न गण्यते |
रजनीं स्वेच्छयाहूय साधनं कुलभूषणम् |
विपरीतं जपेन्मन्त्रं तस्य पुण्यं न गण्यते ||

रजन्याञ्च कुलागारे पूजने निपुणो यदि |
त्वत्समा रजनीकान्ता कमला वाथ राधिका |
त्रिषु लोकेषु सा धन्या ब्रह्मविष्णुशिवात्मिका |
सिद्धविद्या महाविद्या सिद्धविद्याफलप्रदा |
तस्याः प्रसादमात्रेण दुष्टमन्त्रोऽपि सिध्यति |
तस्मात् सर्वप्रयत्नेन तामेव शरणं व्रजेत् |
रजन्यां रजनीयोगं विहरेद् यदि साधकः |
बलाद्वा पूजयेत्तत्र सर्वं तन्निष्फलं भवेत् |
येन तेन प्रकारेण

रजनीतोषणञ्चरेत् |
वाह्याद्वा क्रीडनाद्वापि वशाद्वा तोषयेत् सदा |
यं यं भावं रजन्याश्च तं तं भावं प्रकल्पयेत् |
अतिरिक्तः कृतो भावो रौरवं नरकं व्रजेत् |
कलायाः सम्मतिं कृत्वा साधयेत् कुलसाधनम् |
असम्मतकुलासङ्गात् सिद्धिहानिः प्रजायते |
यो गच्छेद्रजनीगेहं कुलसाधनवर्जितः |
स एव नरकं याति सत्यं सत्यं न संशयः |
क्रोधाद्वा कामतो वापि द्वेषाद्वा वरवर्णिनि ! |
न गच्छेद्रजनीगेहं गच्छेच्च नरकं व्रजेत् |
अज्ञात्वा कुलसङ्केतं कुलमार्गं विशेद्यदि |
स याति नरकं घोरं का कथा परजन्मनि ||

अथ शययाशुद्धिः ||

ओं आः सुरेखे वज्ररेखे हुं फट् स्वाहा |
इत्यनेन शययायां त्रिकोणं विलिख्य ओं ह्रीं आधारशक्तये कमलासनाय नमः |
इति मनसा सम्पूज्य ओं ह्रीं मृतकाय नमः फट् इति मन्त्रेण वामहस्तेन घातत्रयं दत्त्वा छोटिकाभिर्दशदिग्बन्धनं कृत्वा |
ओं शयये ! त्वं मृतरूपासि साधनीयासि साधकैः |
अतोऽत्र जप्यते मन्त्रो ह्यस्माकं सिद्धिदाभव ||

इति प्रार्थनां कृत्वा जपादिकं कुर्यात् ||

गुप्तसाधनतन्त्रे प्रथमपटले ||

पञ्चाचारेण देवेशि ! कुलशक्तिं प्रपूजयेत् |
नटी कापालिकी वेश्या रजकी नापिताङ्गना |
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका |
मालाकारस्य कन्या च नव कन्याः प्रकीर्तिताः |
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गना |
रूपयौवनसम्पन्ना शीलसौभाग्यशालिनी |
पूजनीया प्रयत्नेन ततः सिद्धिर्भवेद् ध्रुवम् ||

अत्र विशेषयति निरुत्तरतन्त्रे चतुर्दशपटले ||

नटी कापालिकी वेश्या रजकी नापिताङ्गना |
योगिनी श्वपची शुण्डी भूमीन्द्रतनया तथा |
गोपिनी मालाकारस्य आसां

कार्यविभेदतः |
चतुर्वर्णोद्भवा रम्या कापाली सा प्रकीर्तिता ||

पूजाद्रव्यं समालोक्य वेश्या रमणमिच्छति |
चतुर्वर्णोद्भवा रम्या सा वेश्या परिकीर्तिता |
पूजाद्रव्यं समालोक्य सर्वतः कुरुते च या |
पूजाद्रव्यं समालोक्य राजावस्थां प्रकाशयेत् |
सर्ववर्णोद्भवा रम्या रजकी सा प्रकीर्तिता ||

पूजाद्रव्यं समालोक्य कुलजा वीरमाश्रयेत् |
सन्त्यज्य पशुभर्त्तारं कर्मचाण्डालिनी स्मृता ||

विपरीतरता पत्यौ पात्रं या परिपृच्छति |
सर्ववर्णोद्भवा रम्या सा शौण्डी परिकीर्तिता ||

सर्वदा यन्त्रसंस्कारो यस्याश्च परिजायते |
सैव भूमीन्द्रजा रम्या सौरवर्णोद्भवा प्रिये ! ||

आत्मानं गोपयेद् या च सर्वदा पशुसङ्कटे |
सर्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता ||

पूजाद्रव्यं समालोक्य या मालेव रता भवेत् |
सर्ववर्णोद्भवा रम्या मालिनी सा प्रकीर्तिता ||

वेश्याया विशेषस्तु तत्रैव ||

गुप्तवेश्या महावेश्या कुलवेश्या महोदया |
राजवेश्या देववेश्या ब्रह्मवेश्या च सप्तधा ||

कुलजा गुप्तवेश्या स्यात् निर्लज्जा मदनातुरा |
पशुभर्त्राश्रिता लोके गुप्तवेश्या प्रकीर्तिता ||

कुलजा कुलवेश्या स्यात् महावेश्या प्रकीर्तिता |
भगलिङ्गकलापीठे चुम्बयेच्च पुनः पुनः |
एवं विधा कुलीना चेद् ब्रह्मवेश्या प्रकीर्तिता ||

दिव्यशक्तिर्वीरशक्तिस्तासां संज्ञा प्रकीर्तिता |
चतुर्वर्णोद्भवानाञ्च संज्ञैताः परिभाषिताः |
वेश्यावद्भ्रमते यस्मात् तस्माद्वेश्या प्रकीर्तिता ||

वर्णसङ्करतो जाता सर्ववेश्या प्रकीर्तिता ||

कुलमार्गे प्रवृत्ता या सा वेश्या मोक्षदायिनी ||

चुम्बनालिङ्गनं घातं रतिनिग्रहदर्शनम् |
आमन्त्रणं त्रिसन्ध्यञ्च भगलिङ्गस्य कीर्तनम् |
वेश्यानाञ्च जपाङ्गेन शङ्करेण पुरोदितम् |
जपाङ्गेन विना वेश्या वर्जनीया कुलार्चने |
जपाङ्गं प्रत्यहं कुर्यात् सा शिवैः सह मोदिता |
निशायां प्रजपेन्मन्त्रं स्वयम्भूशिवयोगतः |
वेश्यानां

जपमात्रन्तु पुरश्चरणमुच्यते |
विपरीतं जपेन्मन्त्रं सा काली नात्र संशयः |
योषितां मन्त्रसिद्धिः स्याद् विपरीतरतौ प्रिये ! |
विपरीतरतौ जप्त्वा निर्वाणपदवीं व्रजेत् |
विपरीतरतौ जप्त्वा कालीवद्विहरेद्भुवि |
विपरीतरतौ काली विपरीता च तारिणी |
विपरीता च या वेश्या सा काली नात्र संशयः ||

योषिद्विद्या न सिध्यन्ति विपरीतरतिं विना |
विपरीतरता वेश्या त्रिषु लोकेषु पूजिता ||

गाढमालिङ्गनं दत्त्वा पूजयित्वा पुनः पुनः |
कटाक्षैर्दर्शयेद्यन्त्रं दक्षिणाकालिकेरिता |
एवं विधा पुरश्चर्या वेश्यायाश्च कुलेश्वरि ! |
एवंविधा भवेद्वेश्या न वेश्या कुलटा प्रिये ! |
कुलटासङ्गमादेव रौरवं नरकं व्रजेत् |
वीरशक्तिर्भवेद्वेश्या सा शस्ता कुलसाधने |
पुरश्चर्याकृता वेश्या योजयेत् |
कुलसाधने ||

शिवलिङ्गगता साध्वी शिवलिङ्गगता सती |
शिवलिङ्गगता वेश्या कीर्तिता सा पतिव्रता ||

योनिश्च जनिका माता लिङ्गश्च जनकः पिता |
मातृभावं पितृभावमुभयोरपि चिन्तयेत् |
लिङ्गरूपो महाकालो योनिरूपा च कालिका |
तयोर्योगपरा धन्या तयोर्योगपरो महान् |
स्वभैरवं विना वेश्या शिवपूजां करोति यः |
रौरवे नरके घोरे वसेदाभूतसंप्लवम् |
स्वभैरवीं विना वीरो मनसान्यां न संस्मरेत् |
स्मरणे नरकं याति महाव्याधिपरो भवेत् |
नानाचाराश्रिता वेश्या पशुसङ्गगता च या |
वर्जनीया प्रयत्नेन कुलसाधनकर्मणि |
योज्या चेत् सिद्धिहानिः स्यात् श्रेष्ठवेश्या कुलार्चने |
रोगः शोको भवेत्तस्या धनहानिः क्षणे क्षणे |
तस्मात् सर्वप्रयत्नेन स्वशिवञ्च समाश्रयेत् |
जपपूजादिकं वेश्या स्वशिवे परिकल्पयेत् |
पुष्पिता काममापन्ना सदा रमणमिच्छुका |
सर्वसिद्धिप्रदा वेश्या कालिका रूपधारिणी |
पितृभूमिः समाख्याता सदाशिवनिवासिनी |

शिव एव नरो ज्ञेयो लिङ्गरूपधरो यतः |
शिवस्थानं श्मशानं स्यात् श्मशानं कुलजं गुरुम् |
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि |
श्मशानस्थेन यत्कार्यमवश्यं गुरु तद्भवेत् ||

तथा ||

मातृमुखे पितृमुखं जपेत् दत्त्वा सनातनीम् |
सर्वपापविनिर्मुक्तो निर्वाणपदवीं व्रजेत् ||

परजन्मे गुप्तवेश्याप्यथवा कुलजा भवेत् |
शुक्रोत्सारणकाले तु निर्वाणं विद्धि पार्वति ! |
तत्काले हि महाकालः कुलमार्गप्रवेशिनाम् |
शुक्रोत्सारणकालन्तु ज्ञापयेन्मनसापि वा |
अङ्गभङ्गक्रमेणैव कुलीनाय प्रकाशयेत् |
शुक्रोत्सारणकालस्य ज्ञापनात् कालिका स्वयम् ||

जपाङ्गे ||

कालिका देवि ! महाकालं विमोहयेत् ||

कुलीना ब्रह्मवेश्या चेन्नाल्पस्य तपसः फलम् |
वहूनां जन्मनामन्ते ब्रह्मवेश्या प्रजायते |
त्वत्समाप्रकृतिः काचिद् यद्यस्ति भुवि मण्डले |
न तथा त्वत्समा शक्तिस्त्रिषु लोकेषु विद्यते |
सा चैव दक्षिणा काली मदनातुरविह्वला |
वेदेभ्यो जायते कर्म कर्मणा बन्धनं भवेत् |
वैदिकं कर्म सन्त्यज्य सुरतेषु सदा जपेत् |
आगमोक्तपतिः शम्भुरागमोक्तपतिर्गुरुः |
स पतिः कुलजायाश्च न पतिश्च विवाहितः |
विवाहितपतित्यागे दूषणं न कुलार्चने |
विवाहित पतिं नैव त्यजेद्वेदोक्तकर्मणि |
आगमोक्तपतिस्त्राता आगमोक्तपतिः शिवः |
सिद्धविद्या न सिध्यन्ति आगमोक्तपतिं विना |
कुलजा गुरवे देवि ! पतित्वे वरणञ्चरेत् |
तदा सा गुप्तवेश्या स्यात् कुलजा च पतिं विना |
गुप्तवेश्या भवेत् सैव कुलमार्गप्रवर्तिका |
कुलमार्गप्रवृत्ता या सा मुक्ता नात्र संशयः |
कुलजा गुरवे देवि ! यदि न स्यात् पतीच्छका |
तस्याः शिवो महाकालः सत्यं सत्यं न संशयः |
Auslassung N-M3: Der Wortlaut dieser sexualisierten Darstellung Minderjähriger ist ausgelassen. Eine sachliche Inhaltsangabe erläutert ihren Zusammenhang.

विद्याविशेषे शक्तिविशेष उक्तस्त्रयोदशपटले यथा ||

श्यामाविद्या न सिध्येत ब्राह्मणीगमनं विना |
छिन्नमस्ता न सिध्येत कापालीगमनं विना |
सिद्धविद्या न सिध्येत भूमीन्द्रतनयां विना |
रजक्यास्तु गृहे देवि ! भैरवी च सुसिद्ध्यति |
साध्या सा विहिता प्रोक्ता विहिता द्रुतसिद्धिदा |
साधयेद्रजनीं सर्वां ब्राह्मणीं यावनीं विना |
सर्वारम्भान् परित्यज्य साधयेद्द्विजजां द्विजः |
राजराजेश्वरी साक्षाद् द्विजजारूपधारिणी |
द्विजजातोषणादेव द्रुतं सिध्यति सुन्दरी |
श्रेष्ठवर्णोद्भवां रम्यां साधने नैव साधयेत् |
साधने सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत् |

अथ प्रयोगः ||

गतयामायां रात्रौ स्वशक्तिं परशक्तिं वा तुलिकोपरि स्ववामभागे संस्थाप्य तस्या अङ्गे स्वकल्पोक्तन्यासान् विधाय अदीक्षितायां शुद्धिं

कुर्यात् |
यथा ||

ऐं क्लीं सौः त्रिपुरायै इमां स्वशक्तिं पवित्रीकुरु मम शक्तिं कुरु स्वाहा |
इत्यनेन जलविन्दुभिरभिषिच्य तस्या वामकर्णे अभेदबुद्ध्या मायावीजं वदेत् ||

ततो योनिं ध्यायेद्यथा |
अतिसुललितगात्रां हास्यवक्त्रां त्रिनेत्रां जितजलदसुकान्तिं पट्टवस्त्रप्रकाशाम् |
अभयवरकराढ्यां रत्नभूषातिभव्यां सुरतरुतलपीठे रत्नसिंहासनस्थाम् |
हरिहरविधिवन्द्यां बुद्धिशुद्धिस्वरूपां मदनरससमाक्तां कामिनां कामदात्रीम् |
निखिलजनविलासोद्दामरूपां भवानीं कलिकलुषनिहन्त्रीं योनिरूपां भजामि ||

इति योनिं ध्यात्वा सम्पूज्य योन्युपरि हसौः इति योनिमन्त्रमष्टोत्तरशतं जप्त्वा समर्प्यस्तवकवचादिकं पठेद्यथा ||

श्रीदेव्युवाच ||

भगवन् ! सर्वधर्मज्ञ ! कुलशास्त्रार्थंपारग ! |
सर्वं मे कथितं नाथ ! न त्वेकः परमेश्वर ! |
श्रीयोनेः स्तवराजं हि तथा कवचमुत्तमम् |
श्रोतुमिच्छामि सर्वज्ञ ! यदि तेऽस्ति कृपा मयि |
सारभूतं महादेव ! निगमान्तर्गतं रहः |
यदि नो कथ्यते देव ! प्राणत्यागं करोम्यहम् |
दिवानिशि महाभाग ! ममाश्रु पतितं भवेत् |
अतस्ते देवदेवेश ! कथ्यतां मे दयानिधे ! ||

श्रीमहादेव उवाच ||

शृणु पार्वति ! वक्ष्यामि देहत्यागं कथं कुरु |
अत्यन्तगोपनीयं हि निगमे कथितं पुरा |
ब्रह्मविष्णुग्रहादीनां न मया कथितं पुरा |
अकथ्यं परमेशानि ! इदानीं किं करोमि ते |
तव स्नेहेन बद्धोऽहं कथयामि तव प्रिये ! |
मातर्देवि ! महाभागे ! यदि कस्मै प्रकाश्यते |
शपथं कुरु मे दुर्गे ! यदि त्वं मत्प्रिया स्मृता |
ब्रह्मा यदि चतुर्वक्त्रैः पञ्चवक्त्रैः सदाशिवः |
वर्णितुं स्तवराजञ्च न शक्नोति कदाचन |
सम्यग्वक्तुं न शक्नोमि संक्षेपात् कथयामि ते ||

अस्य श्रीयोनिस्तवराजस्य कुलाचार्य ऋषिः कौलिकच्छन्दः

श्रीयोनिरूपा दशविद्यात्मिका देवता सर्वसाधने विनियोगः |
ओं योनिरूपे ! महामाये ! सर्वसम्पत्प्रदे ! शुभे ! |
कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ! || १ ||

सर्वस्वरूपे ! सर्वेशे ! सर्वशक्तिसमन्विते ! |
कृपयेत्यादि || २ ||

महाघोरे ! महाकालि ! कुलाचारप्रिये ! सदा |
कृपयेत्यादि || ३ ||

घोरदंष्ट्रे ! चोग्रतारे ! सर्वशत्रुविनाशिनि ! |
कृपयेत्यादि || ४ ||

योनिरूपे ! महाविद्ये ! सर्वदा मोक्षदायिनि ! |
कृपयेत्यादि || ५ ||

जगद्धात्रि ! महाविद्ये ! जगदुद्धारकारिणि ! |
कृपयेत्यादि || ६ ||

जगद्धात्रि ! महामाये ! योनिरूपे ! सनातनि ! |
कृपयेत्यादि || ७ ||

जय देवि ! जगन्मातः ! सृष्टिस्थित्यन्तकारिणि ! |
कृपयेत्यादि || ८ ||

सिद्धिदात्रि ! महामाये ! सर्वसिद्धिप्रदायिनि ! |
कृपयेत्यादि || ९ ||

महालक्ष्मि ! महादेवि ! महामोक्षप्रदायिनि ! |
कृपयेत्यादि || १० ||

गौरी लक्ष्मीश्च मातङ्गी दुर्गा च नवचण्डिका |
वगलामुखी भुवनेशी भैरवी च तथा प्रिये ! |
छिन्नमस्ता च काली च योनिरूपा सनातनी |
कृपयेत्यादि || ११ ||

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी |
नायिका विप्रचित्ताद्या अन्या या नायिकाः स्मृताः |
वसन्ति योनिमाश्रित्य ताभ्योऽपीह नमो नमः || १२ ||

अणिमाद्यष्टसिद्धिश्च वसत्यस्याः समीपतः |
नमस्तेऽस्तु नमस्तेऽस्तु योगमोक्षप्रदायिनि ! || १३ ||

सर्वशक्तिमयि ! देवि ! सर्वकल्मषनाशिनि ! |
हे योने ! हर विघ्नं मे सर्वसिद्धिं प्रयच्छ मे || १४ ||

आधारभूते ! सर्वेषां पूजकानां प्रियंवदे ! |
स्वर्गपातालवासिन्यै योनये च नमो नमः || १५ ||

विष्णुसिद्धिप्रदे ! देवि ! विष्णुसिद्धिप्रदायिनि ! |
ब्रह्मसिद्धिप्रदे ! देवि ! रामचन्द्रस्य सिद्धिदे ! |
शक्रादीनाञ्च सर्वेषां सिद्धिदायै नमो नमः || १६ ||

इति ते कथितं देवि !

सर्वसिद्धिप्रदायकम् |
स्तोत्रं योनेर्महेशानि ! प्रकाशितमिदं त्वयि ! |
सर्वसिद्धिप्रदं स्तोत्रं यः पठेत् कौलिकः प्रिये ! |
लिखित्वा पुस्तके देवि ! रक्तद्रव्यैश्च सुन्दरि ! |
तस्यासाध्यानि कर्माणि सुसिद्धानि कुलेश्वरि ! |
नास्ति नास्ति पुनर्नास्ति नास्त्येव भवनत्रये |
यः पठेत् प्रातरुत्थाय गाणपत्यं लभेन्नरः |
रात्रौ कान्तासमायोगे यः पठेत् साधकोत्तमः |
स्तवेनानेन संस्तुत्य साधकः किं न साधयेत् |
स्वलङ्कृतां स्वकान्ताञ्च लीलाहावविभूषिताम् |
रक्तवस्त्रपरीधानां कृत्वा सम्पूज्य साधकः |
भोजयित्वा ततो देवि ! स्वयं भुञ्जीत तत्परः |
मत्स्यमांसादिकान् भुक्त्वा क्रोडे कृत्वा स्वयोषितम् |
रात्रौ यदि जपेन्मन्त्रं सा दुर्गा स सदाशिवः |
भवत्येव न सन्देहो मम वक्त्राद्विनिर्गतम् |
येन दत्तं मयि स्तोत्रं स एव मद्गुरुः स्मृतः |
तस्यैव यदि भक्तिः स्यात् स भवेज्जगदीश्वरः |
नमोऽस्तु स्तवराजाय नमः स्तवप्रकाशिने |
यत्रास्ते स्तवराजोऽयं तत्रास्ते श्रीसदाशिवः |
इति शक्तिकागमसर्वस्वे हरपार्वतीसंवादे श्रीयोनिस्तवराजः समाप्तः ||

अथ योनिकवचम् ||

देव्युवाच ||

भगवन् ! श्रोतुमिच्छामि कवचं परमाद्भुतम् |
इदानीं देवदेवेश ! कवचं सर्वसिद्धिदम् |

महादेव उवाच ||

शृणु पार्वति ! वक्ष्यामि अतिगुह्यतमं प्रिये ! |
यस्मै कस्मै न दातव्यं दातव्यं निष्फलं भवेत् ||

अस्य श्रीयोनिकवचस्य गुप्तऋषिः कुलटाच्छन्दो राजविघ्नोत्पातविनाशे विनियोगः |
ह्रीं योनिर्मे सदा पातु स्वाहा विघ्नविनाशिनी |
शत्रुनाशात्मिका योनिः सदा मां पातु सागरे |
ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु |
राजद्वारे महाघोरे क्लीं योनिः सर्वदावतु |
हूमात्मिका सदा देवी योनिरूपा जगन्मयी |
सर्वाङ्गं पातु मां नित्यं सभायां राजवेश्मनि |
वेदात्मिका सदा

योनिर्वेदरूपा सरस्वती |
कीर्तिं श्रीकान्तिमारोग्यं पुत्रपौत्रादिकं तथा |
रक्ष रक्ष महायोने ! सर्वसिद्धिप्रदायिनि ! |
रजोयोगात्मिका योनिः सर्वत्र मां सदावतु |
इति ते कथितं देवि ! कवचं सर्वसिद्धिदम् |
त्रिसन्ध्यं यः पठेन्नित्यं राजोपद्रवनाशकृत् |
सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् |
सर्वत्र जयमाप्नोति कवचस्य जपेन हि |
श्रीयोन्याः सङ्गमे देवि ! पठेदेवमनन्यधीः |
स एव सर्वसिद्धीशो नात्र कार्या विचारणा |
मातृकाक्षरसम्पुटं कृत्वा यदि पठेन्नरः |
भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते |
इति गुह्यतमं देवि ! सर्वधर्मोत्तमोत्तमम् |
भूर्जे वा ताडिपत्रे वा लिखित्वा धारयेद् यदि |
हरिचन्दनमिश्रेण रोचना कुङ्कुमेन च |
शिखायामथवा कण्ठे शिवः सोऽपि न संशयः |
शरत्काले महाष्टम्यां नवम्यां कुलसुन्दरि ! |
पूजाकाले पठेदेतत् जयी नित्यं न संशयः ||

इति शक्तिकागमसर्वस्वे हरगौरीसंवादे श्रीयोनिकवचं समाप्तम् ||

इति कवचं पठित्वा अस्या अङ्गे षडङ्गन्यासं कृत्वा योनौ मातृकान्यासं योनिवीजन्यासञ्च कृत्वा तदनुज्ञां लब्ध्वा ताम्बूलादिकं दत्त्वा लिङ्गोपरि ऐं इति लिङ्गमन्त्रमष्टोत्तरशतं जप्त्वा इयं गौरी अहं शिव इति विभाव्य मातृमुखे पितृमुखं दत्त्वा मूलमुच्चार्य ओं धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् |
इति मन्त्रं पठित्वा लिङ्गं योनौ प्रवेश्य निधुवनासक्तशिवशक्त्योरभेदं विभाव्य अक्षुब्धः स्थिरमानसः सन् वर्णमालया अष्टोत्तरसहस्रं शतं वा प्रजप्य मूलान्ते |
ओं प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा |
धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् |
स्वाहा इति मन्त्रेण शुक्रं त्यजेत् ||

एकदा ताडने देवि ! एकदा यदि उच्चरेत् |

स कालश्चञ्चलापाङ्गि ! कोटिसूर्यग्रहैः समः |
गलच्चन्द्रं गृहीत्वा कुण्डगोलादिकं कुर्यात् |
भर्तृमत्यां कुण्डं विधवायां गोलमिति |
पूर्वोक्तक्रमेण संशोध्य तेन पूजयेत्तर्पयेच्च |
ततो योनिपीठं प्रक्षाल्य तेनोदकेन मूलमुच्चार्य सायुधां सपरिवारां सवाहनां महाकालसहितां अमुकदेवीं तर्पयामि स्वाहा |
इति योनौ त्रिस्तर्पयेत् पूजयेच्च ||

आरम्भक्रमः ||

आलिङ्गनं चुम्बनञ्च स्तनयोर्मर्दनं ततः |
दर्शनं स्पर्शनं योनीविकाशो लिङ्गघर्षणम् |
प्रवेशः स्वापनं शक्तेर्नव पुष्पाणि पूजने |
शिवशक्तिसमायोगो योग एव न संशयः |
शीत्कारो मन्त्रजापस्तु वचनं स्तवनं भवेत् |
आलिङ्गनञ्च कस्तूरी कर्पूरं चुम्बनं भवेत् |
नखदन्तक्षतादीनि पुष्पाणि विविधानि च |
मैथुनं तर्पणं विद्धि वीर्यपातो विसर्जनम् |
अष्टोत्तरशतेनापि योनिमारक्ष्य धर्मवित् |
मैथुनं यः प्रत्यात्येव स तु सर्वं फलं लभेत् |
लतारतेषु जप्तव्यं महापातकमुक्तये |
रजोऽवस्थां समादाय तन्मूलेष्विष्टदेवताम् |
पूजयित्वा महारात्रौ त्रिदिनं जपमाचरेत् |
लक्षपीठसहस्राणि लभते नात्र संशयः |
पृथ्वीमृतुमतीं वीक्ष्य सहस्रं यदि नित्यशः |
तदा वादी सुसिद्धान्तर्हतं क्षितितलं विशेत् ||

नित्यश इति षोडशदिनं यावत् |
कुलागारं पुष्पिताया दृष्ट्वा जपति यो नरः |
अयुतैकप्रमाणेन स भवेत् कल्पपादपः ||

अथ शक्तिप्रशंसादि ||

पञ्चमपटले ||

शक्तिं विना महेशानि ! सदाहं शवरूपकः |
शक्तियुक्तो यदा देवि ! शिवोऽहं सर्वकामदः |
शक्तियुक्तं जपेन्मन्त्रं न मन्त्रं केवलं जपेत् |
सावित्रीसहितोब्रह्मा सिद्धोऽभून्नगनन्दिनि ! |
द्वारावत्यां कृष्णदेवः सिद्धोऽभूत् सत्यया सह |
तथा कोचबधूसङ्गान्मम सिद्धिर्वरानने ! |
ईश्वरोऽहं महादेवि ! केवलं शक्तियोगतः |
शक्तियोगेन देवेशि ! यदि सिद्धिर्न जायते |

तदैव परमेशानि ! मम वाक्यं वृथा भवेत् |
गङ्गा काशी प्रयागादि पुष्करं नैमिषं तथा |
वदरी च तथा रेवा उत्कलं गण्डकौ तथा |
सिन्धुः सरस्वती चैव पीठानि विविधानि च |
सर्वं त्यक्त्वा महेशानि ! स्त्रीसङ्गं यत्नतश्चरेत् |
स्त्रीसङ्गे सिद्धिमाप्नोति मम वाक्यं न चान्यथा |
यद्दत्तं जलगण्डूषं शक्तिवक्त्रे सुरेश्वरि ! |
सिन्धुरूपं महेशानि ! तज्जलं नात्र संशयः |
स्वीयेष्टदेवीभावेन भोजयेत्ताञ्च यत्नतः ||

Auslassung N-M4: Der Wortlaut dieser sexualisierten Darstellung Minderjähriger ist ausgelassen. Eine sachliche Inhaltsangabe erläutert ihren Zusammenhang.

उत्तरतन्त्रे द्वितीयपटले ||

सर्वपीठमयी शक्तिः सर्वदेवस्वरूपिणी |
सर्वमन्त्रमयी शक्तिश्चतुर्वर्गप्रदायिनी |
शाक्तौ मनुष्यबुद्धिन्तु यः करोति वरानने ! |
न तस्य

मन्त्रसिद्धिः स्याद्विपरीतफलं लभेत् |
शक्तेः सम्पूजनाद्देवि ! सर्वदेवार्चनं प्रिये ! |
शक्तौ यद्दीयते देवि ! वस्त्रादिभूषणं प्रिये ! |
देव्यङ्गे दत्तमेतत्तु महासौख्यप्रदायकम् |
देव्यै यद्यद्वरारोहे ! दत्तं वस्त्रविभूषणम् |
इहैव शतसंख्येन दीयते च तदा पुनः |
पाने भ्रान्तिर्भवेद् येन घृणा स्याद्रक्तरेतसोः |
तमालोक्य वरारोहे ! कुलीनः पशुतामियात् ||

पुरश्चरणरसोल्लासतन्त्रे चतुर्दशपटले ||

कलौ तु भारते वर्षे स्त्रीसङ्गं परमं पदम् |
न धूपं चञ्चलापाङ्गि ! न दीपं वरवर्णिनि ! |
नैवेद्यं चञ्चलापाङ्गि ! तन्त्रोक्तं षोडशं प्रिये ! |
द्रव्यं नास्ति महेशानि ! कथं सिद्धिर्भविष्यति |
अत एव महेशानि ! सदानन्दमयं यतः |
पूजनं चञ्चलापाङ्गि ! प्रियाङ्गेषु व्यवस्थितम् |
सदानन्दमयी नारी स्वकीया परगोचरा |
यस्या अङ्गे महेशानि ! सर्वतीर्थाणि सन्ति वै |
तां विहाय महेशानि ! अन्यस्थाने जपेद्यदि |
तस्य सर्वं वृथा देवि ! उन्मत्तो भवति ध्रुवम् ||

निगमकल्पद्रुमे तृतीयपटले ||

सप्तलक्षा महाविद्याः कथितास्तव सुव्रत ! |
रोमकूपे वसन्त्येता मन्त्ररूपाः पृथक् पृथक् |
यावन्ति सन्ति रोमाणि शरीरे प्राणवल्लभ ! |
तावद्देवाश्च देव्यश्च सन्ति तस्यां कलेवरे |
तिस्रः कोट्यस्तदब्देन तीर्थाणि जाह्नवीजले |
जाह्नवी योनिमूले च सततं परिसंस्थिता |
मूत्रस्थाने सदा मुक्तिः स्थापिता त्वं न संशयः |
प्रकृतिश्च पुमांश्चैव परं ब्रह्म प्रकीर्तितम् ||

योनितन्त्रेऽपि ||

काली तारा योनिगर्त्ते कुन्तले छिन्नमस्तिका |
बगलामुखी च मातङ्गी वसेद् योनिसमीपतः त्रिकोणे त्रिपुरा देवी तत्पार्श्वे भैरवी स्वयम् ||

इत्यादिपुरश्चरणरसोल्लासे ||

पीठानि चञ्चलापाङ्गि ! कलौ गुह्यं

भविष्यति |
पञ्चाशत्पीठसंयुक्तं स्त्रीणामङ्गं शुभप्रदम् |
तत्कथं मूढलोकश्च विहाय स्त्रीपदं महत् |
अन्यपीठेषु तीर्थेषु मन्त्रन्तु प्रिये ! ||

एतस्मिन् रूपे देवानां तृप्तिर्भवति पार्वति ! |
नारीत्यागं तदा कृत्वा अन्यपीठं व्रजेत् प्रिये ! |
सा स्त्री तु परमेशानि ! साक्षान्मूर्तिर्न चान्यथा |
नारीप्रसङ्गे चार्वङ्गि ! सिद्धयोऽष्टौ भवन्ति हि ||

इति शक्तिप्रसंसा ||

अथ प्रकारान्तर लतासाधनम् ||

उत्तरतन्त्रे प्रथमपटले ||

वल्लीमूले वरारोहे ! लेखन्यङ्गसमुत्थया |
यो लिखेन्मन्त्र वर्णांश्च तस्य सिद्धो भवेन्मनुः |
तस्य दशनमात्रेण मुक्ताः सन्ति च पापिनः ||

वल्लीमूले योनौ ||

अङ्गसमुत्थया शेफसा ||

शैलकन्या कलानाथे कलानाथसमन्विते |
यद्द्रव्यं जायते देवि ! तद्द्रव्यं मम दुर्लभम् |
माहात्म्यं तस्य वक्तुं वै समर्थः सुरवन्दिते ! |
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि |
पुरश्चरणकर्मादि दुःसाध्यं परमेश्वरि ! |
शङ्केतमिदमेवात्र सुगोप्यं पशुसन्निधौ ||

अपरन्तु द्वितीयपटले ||

शङ्करोपरि संस्थाप्य कलां कामशरार्दिताम् ||

यस्तु चिन्तयते भक्त्या स एव कल्पपादपः ||

शङ्करोपरि विपरीतरतौ ||

वल्लीमूलसमुद्भूतं पाशं करेण सन्निभम् |
समूलं सुन्दरारक्तं पतत्रीव स लोभितम् |
स्वाद्वन्नं व्यञ्जनैर्युक्तं द्राक्षारससमन्वितम् |
नवनीतं कलाजातं कदलीनाथसम्भवम् |
रम्भारम्भेशयोरास्यं जान्तवं परमं प्रिये ! ||

एकत्र सकलं कृत्वा मुक्तकेशो दिगम्बरः |
चत्वरे वा श्मशाने वा बलिं दद्याद्वरानने ! |
स्त्रीरूपेण च सा देवी गृह्णाति परमेश्वरी |
एवं कर्तुं समर्थो यः स एव भगवान् स्वयम् |
यामिनीतिमिरे भानौ मुखे हाटकपर्वते |
आवर्ते कामरूपे च खञ्जने च सुरेश्वरि ! |
मुक्ता द्वन्द्वे च चापे च

विम्बे च तिलपुष्पके |
पद्मनाले धरायाञ्च रम्भायाञ्च वरानने ! |
यो जपेत् परमेशानि ! किमसाध्यं भवेत् प्रिये ! |
यामिनीतिमिरे केशे |
भानौ सिन्दूरमण्डले |
हाटकपर्वते स्तनयुगले |
आवर्ते नाभौ |
कामरूपे योनौ |
खञ्जने चक्षुर्द्वये |
मुक्ताद्वन्द्वे दन्ते |
चापे भ्रुवि |
विम्बे ओष्ठे |
तिलपुष्पे नासिकायाम् |
पद्मनाले बाहुद्वये |
धरायाञ्च उरूद्वये |
रम्भायाञ्च नितम्बे ||

देव्युवाच ||

कथमेव महादेव ! परशक्त्या क्रियां चरेत् |
परदारकृते दोषः कथं नैव प्रजायते |
कथं परस्त्रियां कार्यः परेण सह सङ्गमः |
साध्वीत्वं नश्यति क्षिप्रं तस्मान्नैतत्समाचरेत् ||

वृहन्नीलतन्त्रे चतुर्थपटलेऽपि ||

परदारविधौ देवि ! निन्दावादः प्रवर्तते |
तासां सङ्गान्महेशानि ! तामिस्रं नरकं व्रजेत् |
वेदार्थमिति विज्ञाय कथं कुर्याच्च साधकः |
सिद्धान्तयति तत्रैव ||

परदारान्न गच्छेरन् गच्छेच्च प्रजपेद् यदि |
श्रुतिद्वयविरोधाच्च गच्छेरन् परयोषितः |
उत्तरतन्त्रेऽपि ||

पूजाकालं विना नान्यं पुरुषं मनसा स्पृशेत् |
पूजाकाले च देवेशि ! वेश्याञ्च परितोषयेत् |
साध्वीत्वं न हतं तस्याश्चुम्बनालिङ्गनैः प्रिये ! |
काश्यादि सर्वतीर्थानि सर्वपुण्यानि सुव्रते ! |
तस्या देहे वसन्त्येव सर्वे मन्त्राश्च सुन्दरि ! |
विकल्पो नात्र कर्तव्यस्त्वया गिरिवरात्मजे ! ||

अथ योनिपूजा ||

निरुत्तरतन्त्रे प्रथमपटले ||

योनिरूपा महाकाली शवः शयया प्रकीर्तितः |
श्मशानं द्विविधं देवि ! चिता योनिर्महेश्वरि ! ||

तथा ||

कलापूजां विना देवि ! या काचित् क्रियते क्रिया |
सा क्रिया त्वभिचाराय सत्यं सत्यं न संशयः |
तस्मात् सर्वप्रयत्नेन कलापूजां समाचरेत् |
योनिरूपा कला देवि ! दक्षिणैव न संशयः |
दिव्यवीरो वरारोहे ! कलापूजां

समाचरेत् |
पशुभावाश्रितो मन्त्री कलां नैव प्रपूजयेत् |
कलाया द्विविधा पूजा गुप्ता व्यक्ता कुलेश्वरि ! |
गुप्ता च साधकैः कार्या निर्जने च महानिशि |
व्यक्ता दिवा प्रकर्तव्या लोकाचारक्रमेण तु |
लोकाचारं विना देवि ! गोपनं नैव जायते |
गोपनं सिद्धिमूलञ्च सत्यं सत्यं न संशयः |
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलसुन्दरि ! |
कलयासवयोगेन कलापूजां समाचरेत् |
द्रव्याभावे द्विजो दद्याच्चानुकल्पं युगे युगे |
कलायाश्चानुकल्पश्च कलायाश्चैव चिन्तनम् |
कलापूजां विना देवि ! दक्षिणा न फलप्रदा ||

कलात्र स्वीयेष्टदेवतोपललक्षणम् ||

तथाच समयाचारतन्त्रे द्वितीयपटले ||

अथेदानीं प्रवक्ष्यामि भगपूजां समासतः |
गुरोः प्रसादाद् यन्मन्त्रं नित्यं जपति साधकः |
तेनैव मनुना मन्त्री भगपूजां करोति च |
तदापि भगमध्ये वै चिन्तयेद्भगरूपिणीम् |
शिवो भूत्वा स्मरेद्देवीं तदेव मेलनञ्चरेत् |
शक्तिं शक्तिमयीं चिन्तेत्तदा वै मैथुनं चरेत् |
मैथुनासक्तयोगेन मानसं जपमाचरेत् |
यथोक्तं कुरुते देवि ! प्राप्यते परमं पदम् |
यानि कानि च मन्त्राणि कथितानि वरानने ! |
जप्तव्यानि च देवेशि ! सर्वतन्त्रेषु निश्चितम् ||

तथा ||

भगस्य स्मरणे पुण्यं भगस्य दर्शने तथा |
भगस्य स्पर्शनाद्देवि ! यत् पुण्यं सम्प्रजायते |
तत् सुखं न जपैर्होमैर्न ध्यानैस्तपसा तथा |
पञ्च पञ्च कृते देवि ! यत् पुण्यं भुवि जायते |
न तत् पुण्यञ्च सुभगे ! कोटितीर्थस्य दर्शने |
जपो होमस्तथा दानं दीक्षा योगादिकल्पना |
कृतपञ्चमभक्तस्य कलां नार्हन्ति षोडशीम् ||

निगमकल्पद्रुमे षष्ठपटले ||

आवाहनादिरहितां योनि पूजां विधाय च |
मूलमन्त्रेण तद्योन्यां पूजयेदिष्टदेवताम् |
मायाबीजं योनिमन्त्रं तेन तां परिपूजयेत् |
स्वशक्त्या भक्तियोगेन पूजयेद्विभवावधि |
ततो योनौ शतं मन्त्रं जपेत् साधकसत्तमः |
भगे लिङ्गं ततो दद्यादिष्टमूर्तिं विचिन्तयन् |
गाढं निपीडयेत्तां तु स्वशक्त्या कुलभैरवः |
घाते ब्रह्महत्याशतं हन्यात् सुधाकरः |
कामशास्त्रप्रसङ्गेन यथा सन्तोषणं भवेत् |
पुनः पुनः कारणादि मुखे दद्यात् सुसाधकः |
वीर्यपातादिसमये जपेन्मन्त्रमुदारधीः |
ततस्तु द्रव्यमादाय महादेव्यै निवेदयेत् |
एवं कृत्वा महादेवि ! जठरे न पुनर्भवेत् |
सत्यं सत्यं महादेवि ! ममैतद्योगमुत्तमम् |
बहुना किमिहोक्तेन शृणु मत्प्राणवल्लभे ! ||

वृहन्नीलतन्त्रे षष्ठपटले ||

अथवा कामरूपस्य दर्शनं यदि जायते |
तदा भगादिदेवीनां पूजां तत्र विधीयते |
यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते |
तदेव मानसीं पूजां तत्र तासां प्रकल्पयेत् |
भगिनीं भगजिह्वाञ्च भगास्यां भगमालिनीम् |
भगाङ्गाञ्च भगाक्षीञ्च भगवर्णां भगत्वचाम् |
भगस्तनीं भगनाशां भगस्थं भगसर्पिणीम् |
तत्र सम्पूज्य गन्धाद्यैर्मानसैर्गुरुमेव च |
नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः ||

निगमकल्पद्रुमे ||

योनिर्वा स्तनपद्मं वा भानु कृष्णसरोरुहम् |
चामरं वा नितम्बं वा दर्शनं यदि जायते |
तदा जपेन्मन्त्रराजं नमस्कृत्य पुनः पुनः |
तेषाञ्चापि महादेवि ! मुक्तिरस्ति करस्थिता |
शक्त्याः पादोदकं यस्तु पिबेद्भक्तिपरायणः |
उच्छिष्टं वापि भुञ्जीत तस्य सिद्धिरखण्डिता |
मद्वाक्ये यदि विश्वासो जायते शिवङ्करि ! |
तदा वाक्यं मया प्रोक्तं अन्यथा चेन्न चाचरेत् |
यात्राकाले योनितत्त्वमाघ्राय यदि गच्छति |
कुन्तलं शिरसा धृत्वा तस्य शत्रुर्विनश्यति |
सभायां विजयी भूयाद्राजकार्ये तथैव च |
सत्यमेतन्महाभागे ! मम वाक्य वृथा न हि |
येन तेन

प्रकारेण योनिपूजापरायणः |
स याति परमं स्थानं देवैरपि सुदुर्लभम् |
अत्युत्कटे च योगादा तथैव राजवेश्मनि |
महोपद्रवमुत्पाते यदि योनिं प्रपूजयेत् |
तदा योनिर्महादेवी चोद्धरेत् |
सर्वशङ्कटात् |
इतोऽधिकं न किञ्चित्तु विद्यते मम वाक्यतः |
सत्यमेतन्न सन्देहो यद्यहं तव वल्लभः |
सर्वधर्मं परित्यज्य योनिपूजारतो भवेत् |
तदैव परमा प्रीतिर्लज्जाकैवल्यमाप्नुयात् |
तोयानाञ्च यथा गाङ्गं गव्यानाञ्च यथा घृतम् |
तथा देवि ! मैथुनं मे भवेत् प्रियतमं प्रिये ! ||

निगमकल्पद्रुमे ||

ऊरूद्वयञ्च कान्ताया ऊर्वोरुपरि संन्यसेत् |
ग्रीवामाक्रम्य पाणिभ्यां स्तनद्वन्द्वं क्वचित् क्वचित् |
चुम्बनं बहुधा वक्त्रे बन्धोऽयं कामसुन्दरः |
योनौ लिङ्गं समादाय हस्तोपरि पदद्वयम् |
केशानाक्रम्य पाणिभ्यां स्तनद्वन्द्वं क्षणे क्षणे |
चुम्बनं सर्वगात्रेषु पिबेदोष्ठाधरं मुहुः |
दृढघातेन च रमेत् बन्धोऽयं रतिपण्डितः |
स्कन्धयोर्विन्यसेत् पादौ योनौ लिङ्गं तथा क्षिपेत् |
शिरश्चाक्रम्य हस्ताभ्यां दन्ताघातक्रमात् क्रमम् |
चुम्बनं चक्षुर्वदने स्तनयोमर्दनं मुहुः |
रमेत् स्वशक्तितः कामी बन्धोऽयं काममर्दनः |
उरस्यासनमास्थाय चोरस्यपरमूरुकम् |
स्कन्धावाक्रम्य पाणिभ्यां गण्डे चुम्बनपूर्वकम् |
रमेच्च सुदृढाघातैर्वन्धोऽयं कामकौतुकः |
एवं क्रमेण देवेशि ! बहुबन्धोऽस्ति भैरवि ! |
कामरत्नादितन्त्रेषु निशेषेण प्रकाशितम् |
विशेषबन्धं सङ्क्षेपात् प्रसङ्गात्त्वयि चोदितम् ||

अथ षोडशबन्धाः ||

रतिरहस्ये ||

बन्धाश्चतुरशीतिः स्युर्मुनिना परिकीर्तिताः |
तस्मादाकृष्य लिखिताः षोडश प्रेमहेतवः |
पादौ स्कन्धयुगे नार्याः क्षिप्त्वा लिङ्गं भगे लघु |
कामयेत् कामुको नारीं बन्धः काकपदो हि सः ||

पादमेकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् |
नारीञ्च

कामयेत् कामी बन्धो वेणुविदारकः ||

ऊरूमूलोपरि न्यस्य योषिदुरुयुगं यदि |
ग्रीवां धृत्वा कराभ्यान्तु बन्धो नागरको मतः ||

पीडयेदुरुयुग्मेन कामुक यदि सुन्दरी |
रतिपाशं समाख्यातं कामिनीनां सुखावहम् ||

स्त्रीजङ्घान्तरितो दोर्भ्यां गाढमालिङ्ग्य सुन्दरीम् |
बन्धयेद्बन्धनम् |
कामी बन्धो मायूरसंज्ञकः |
नारीपादौ स्वहस्तेन धारयेद् गलके यदि |
स्तनार्पितकरः कामी बन्धः स्याद्धि विलासवान् |
योषित्पादं हृदि न्यस्य द्वितीयं स्कन्धमाश्रितः |
स्तनौ धृत्वा रमेत्कामौ बन्धस्तनभरः स्मृतः |
नारीपादद्वयं कामी धारयेत् स्तनमण्डले |
धृतकण्ठो रमेन्नारीं बन्धोऽयं रतिसुन्दरः |
नार्या ऊरूद्वयं धृत्वा कराभ्यां पीडयेत् पुनः |
कामयेन्निर्भरं कामी बन्धोऽयं सुखसङ्गमः |
धृत्वा वामकरेणोरुं पादञ्च सिरसि स्थितम् |
सुदृढं रमयेत् कामी स्मरचक्रः प्रकीर्तितः |
स्वजानुद्वयमध्याभ्यां धारयेन्निर्भरं स्त्रियम् |
वामे निःशङ्कितः कामी बन्धोऽयं नागपाशकः |
स्त्रीपदद्वयमाकृष्य विमुखः क्षिप्तलिङ्गकः |
योनिमापीडयेत् कामी बन्धः कुलिशनामकः |
इत्यादिबन्धविन्यासे गाढमुत्पाद्यते सुखं |
तस्माद्विदग्धसंघातैर्बन्धाः कार्याः प्रयत्नतः |
बन्धः सर्वात्मना कार्यो नायके सर्वथा सुखे |
तेन मञ्जायते कामः पुरुषे मैथुने खलु || १६ ||

स्त्रिय अनीय पूर्वार्द्ध चिवुकैः पृष्ठतः क्रमात् |
धृत्वोदरे रमेत् पश्चात् बन्धोऽयं रतिसुन्दरः |
शययासीनस्तनी नारी उत्क्षिप्तजघनी यदि |
कान्तं कामयते पश्चात् बन्धोऽयं कवर्गसङ्गमः ||

इत्यधोमुखौ द्वौ कर्तव्यौ ||

उद्धृत्य पादमेकन्तु संस्थाप्य चापरं भुवि |
कुड्याश्रितां रमेत्कामी बन्धो दोलायितः स्मृतः |
पादाभ्यां मध्यमावेष्ट्य समालिङ्ग्याशु सुन्दरीम् |
चुम्ब्य मुखं प्रियायास्तु बन्धो नागेश्वरो मतः ||

स्त्रियं सुखं

समालिङ्ग्यानुचुम्ब्य च मुखं मुहुः |
प्रियायाः कटिमाकृष्य स्वकण्ठे धारयेत् प्रियाम् |
कामचालनमेवाशु प्रदद्यात् पुरुषो दृढः ||

नारीपादद्वयं कृत्वा कान्तस्योरुद्वयोपरि |
कटिमालोकयेद्यस्तु बन्धोऽयं सपदः स्मृतः |
कान्तक्रीडे स्थिता नारी भूमौ दत्तपदद्वया |
हृदये दत्तहस्ता च बन्धो लीलानलोत्तमः ||

वीपरीतरतिः ||

भगनिःक्षिप्त लिङ्गायाः सुन्दर्या लेढितं प्रियम् |
तथा संपुटकञ्चेति नारीलिङ्गप्रवर्तनम् ||

इति सुखरतम् ||

इति श्रीप्राणतोषिण्यां पञ्चपुष्पस्तवकान्वितं सप्तमं निर्गुणज्ञानकाण्ड समाप्तम् ||


Nachtrag: traditionelle Rezepte und Verfahren

Shiva als göttlicher Lehrer der im Werk angeführten Überlieferungen.

अथौषधम् ||

मत्स्यसूक्ते एकविंशति पटले ||

दीपं कृत्वा ताम्रपात्रे कज्जलं पातयेदथ |
गवां घृतेन चालोड्य चक्षुषी त्वथ रञ्जयेत् |
जन्मान्तरे यथा रूपं तादृशञ्च प्रपश्यति || १ ||

काकमाची दक्षमूलं शिखायां धारयेत्तु यः |
निद्रां करोति देवेशि ! अर्द्धशूलं हरत्यपि || २ ||

कृष्णतुलस्याः पत्ररसं मधुना सारनालकम् |
तैलेन संयुतं कृत्वा मन्दाग्नौ तापयेत्ततः |
कर्णे तु तापयेद्देवि ! कर्णकौट्वादिकं हरेत् || ३ ||

भृङ्गराजं सारनालं अर्द्धशूलं हरेदथ || ४ ||

जम्बु पत्ररसेनापि कर्णस्य परिपूरणात् |
कर्णकीटः पतेदाशु रात्रौ दद्यान्न संशयः || ५ ||

सहदेवामूलपत्रं कर्णे बद्ध्वा व्यथां हरेत् || ६ ||

हस्तिशूण्डापत्ररसैश्चक्षुषी परिपूरयेत् |
चक्षुर्व्यथां हरेदाशु तथा वृहदसोर्मणी || ७ ||

शुण्ठीनिम्बदलरसं पिष्ट्वा चक्षुश्छदे प्रिये ! |
विलेपयति पञ्चम्यां चक्षुशूलं विनश्यति || ८ ||

अपामार्गस्य मूलञ्च रोचना सरलं तथा |
गव्यमुस्तकसंयुक्तं ताम्रपात्रे तु पेषयेत् |
अञ्जनाच्चक्षुषो देवि ! सर्वशूलं विनश्यति || ९ ||

तुलस्या कृष्णपत्रस्य रसेन कटुतैलकम् |
लवणं वारनालञ्च

भौमवारे प्रदानतः |
चक्षुश्छदे महेशानि ! पटलं याति संक्षयम् || १० ||

अजवृक्षोग्रमांसञ्च महिषस्य तथैव च |
गोधामांसञ्च तज्जिह्वां भौमवारे तथा निशि |
खादिराग्नौ पचेद्देवि ! क्षणाद्रात्र्यन्धनाशनम् || ११ ||

कार्पासकोमलफलत्रयं स्वात्यां समाहरेत् |
चर्वित्वा चक्षुषोर्देवि ! पूरणाच्च विनश्यति || १२ ||

चक्षुरोगे न सन्देहास्तिमिरस्य तथा शृणु |
रक्तचन्दनसंयोगान्मधुना सह रौद्रके |
कियदुष्णमञ्जनाच्च तिमिरं हन्ति सुन्दरि ! || १३ ||

मधुयुक्ते वटफले पृष्ठे चक्षुषि लेपनात् |
तथा रोगं हरेदाशु तथैव च पुनर्णवाम् || १४ ||

घृतेन भर्जितां भक्षेत् चक्षुस्तेजस्करं महत् || १५ ||

निम्बनिर्यासपत्रं वा तैलेन सह भक्षणात् |
चक्षुस्तेजस्करं देवि ! पामरीशूलदण्डकम् |
नारिकेलोदकसमं तथा रोगं हरत्यपि || १६ ||

त्रिफला गुडसयुक्ता गुडमार्द्रकसंयुतम् |
द्वाभ्यां प्रभाते देवेशि ! क्षणात् कामलनाशनम् || १७ ||

धात्रीं तप्तोदकैर्भक्षेत् तथा रोगो विनश्यति |
पुराणकण्टकी मज्जा तथा वासन्तिकालभा |
शर्षपस्योग्रतैलेन किञ्चिदुष्णेन भावयेत् |
त्रिवारं लेपनादेव सर्वां हन्ति विचर्चिकाम् || १८ ||

चलदलस्य त्वचा शुष्कं दग्ध्वा सर्षपतैलके |
एरण्डतैलैर्वा देवेशि ! उष्णेन परिलेपनात् |
एतद्विचर्चिकां हन्ति तालमूलो तथैव च || १९ ||

वनमरीचवीजेन तमःपक्षे विशेषतः |
अजादुग्धसमेतेन लेपात् सर्वविचर्चिकाम् |
हन्ति देवि ! न सन्देहस्तथाजीपलमूलकाम् || २० ||

मानं शुष्कं ततो दग्धा शङ्खचूर्णेन लेपयेत् |
गात्रविचर्चिकां हन्याल्लेपाद्वारत्रयेण तु || २१ ||

मानं शुष्कं पुराणञ्च घृतेन सह भक्षणात् |
अङ्गवातं हरेदाशु पटुस्थक्षणमर्कटम् || २२ ||

त्रिवर्षीयं समानीय देशिमानञ्च पार्वति ! |
क्षतं कृत्वा ततो लेपाद्ग्रन्थिवातहरं परम् || २३ ||

मधुसैन्धवसंयुक्तं कोलमत्स्य समन्वितम् |
चकशां मूलकं पक्त्वा शासुल्लेन वरानने ! |
वातघ्नं परमं देवि ! तापघ्नं नात्र संशयः || २४ ||

सर्ववाते मर्दनञ्च तिलतैलेन पार्वति ! |
तथा क्रौञ्चस्य तैलेन नागतैलेन वा प्रिये ! || २५ ||

शुशुतैलेन दुग्धेन अजाक्षीरेण भावयेत् |
श्रीपदं वातिकं हन्ति कटिवातं तथैव च || २६ ||

उन्मत्तं कुम्भरूपञ्च विशाढकीयपत्रकम् |
समूलमटसारञ्च वासकं रामवासकम् |
योगपत्रं सभेरण्डं मृदःकुम्भे विनिःक्षिपेत् |
अर्काग्नौ तापयेद्देवि ! पुनः पिण्डन्तु कारयेत् |
अर्कमूल पुनर्द्रव्यं स्नुहीमूलसमन्वितम् |
स्वदयेत् सर्ववातेषु त्रिदिनेन विनश्यति || २७ ||

तुलसीमूलवीजानि कुमारीवीजमेव च |
प्रलेपात् सर्वकुष्ठघ्नं जलसारञ्च नश्यति || २८ ||

हस्तिकर्णं तुलायाञ्च समुद्धृत्य वरानने ! |
स्नुहीमूलं विल्वमूलसमरीचं सशर्करम् |
तोलं तोलञ्च सप्ताहात् महावातविनाशनम् || २९ ||

कलिवृक्षत्वचं देवि ! गले बद्ध्वा विशेषतः |
ओकस्य नाशनं प्रोक्तं पामरीशूलकं तथा || ३० ||

तिन्तिडौवीजकं पिष्ट्वा तक्रेण सहयोगतः |
पानादीकं हरत्याशु वस्तावामस्य वीजकम् || ३१ ||

दन्तमासं हरेदाशु वार्तकीबीजकैस्तथा |
पक्ववार्ताकुना स्वेदात् करोषाग्नी तथा हरेत् || ३२ ||

श्वेतापराजितामूल तथा वास्युदकेन च |
मुखमध्ये प्रलेपाच्च जाड्यं नाशयति ध्रुवम् || ३३ ||

श्वेतगुञ्जा समुत्पाट्य नक्षत्रे पुष्पके तथा |
प्रलेपात्तत्क्षणाद्देवि ! विषरोगो विनश्यति || ३४ ||

नीलकण्ठं मधुयुतं तथा रोगविनाशनम् || ३५ ||

श्वेतापराजितामूलं तथा श्वेतजयन्तिकाम् |
श्वेतचित्रकमेतेन कारयेद्गुलिकां ततः |
स्वात्यां चन्द्रोदये देवि ! समुत्पाट्य विधानतः |
भाले च तिलकं कृत्वा वशीकरणमुत्तमम् || ३६ ||

पलाशबीजं समधु घृतेन सह

पेषयेत् |
भक्षणान्मासमात्रन्तु वलीपलितनाशनम् || २७ ||

वृहतीनीलकण्ठानां त्रिफलालवणैः सह |
दन्ते विलेपनाद्देवि ! दन्तशूलं हरत्यपि || ३८ ||

छागमांसमजाक्षीरं भुक्त्वा शाल्युदकैः सह |
यक्ष्मकुष्ठादिक हन्ति तालमूली तथैव च || ३९ ||

नागकेशरमूलञ्च मधुना च तथा हरेत् |
यष्टोमधुसमन्त्वास्ये तथा हन्यान्न संशयः || ४० ||

तस्य पत्रपक्वपानात् सर्वज्वरनिवारणम् || ४१ ||

मधुना सह पानाच्च शातकाले ज्वरं हरेत् || ४२ ||

अनुदितार्के चोद्धृत्य सवज्वरहरं प्रिये ! श्वेतापराजितामूल पुष्यार्के धारणात्तथा |
अपामार्गस्य च तथा कन्यकासूत्रबन्धने || ४३ ||

ज्वरं हन्यान्महेशानि ! स्वात्यां वा विष्णुभे प्रिये ! |
रक्तवाट्यालमूलञ्च अर्कवारे विशेषतः |
निर्वेष्ट्य कदलीसूत्रैः शययायां दापयेत्ततः |
सर्वज्वरं ततो हन्यात्तथा तापज्वरापनुत् ||

कुद्दालस्य त्वचञ्चैव अर्जुनस्य त्वचं तथा |
घृतेन सह पानाच्च सर्वकासं हरत्यपि || ४५ ||

नागेश्वरस्य मूलञ्च मधुना सह शङ्करि ! |
पानाच्च चोदरं हन्ति विष्णुक्रान्ता तथैव च || ४६ ||

पिप्पलीं सैन्धवयुतां पाययेन्मधुना समम् |
मूत्रस्रावं ततो हन्यात् सप्ताहान्नात्र संशयः || ४७ ||

विल्वमूलं सगुडूचीं मधुना पाययेत्ततः |
वान्तं हन्ति न सन्देहो मातुलुङ्गस्य वीजकम् || ४८ ||

पलाशबिजं सिद्धार्थं मधुतैलसमन्वितम् |
भक्षयत् समभागेन ज्वरां हन्ति न संशयः || ४९ ||

तिलकल्के समं युक्तं तथा भल्लातकं प्रिय ! |
अत्यग्निर्जायते देवि ! त्रिरात्रेण न संशयः || ५० ||

चन्द्रमूलींपिप्पलीं च शुण्ठीञ्च मरिचानि च |
पुरातनगुडेनापि गुलिकां कारयेत्ततः |
अत्यग्निर्जायते शीघ्रं भक्षणात् शैवयोगतः || ५१ ||

काकोलूकस्य पक्षेण दद्याद्धूपं विचक्षणः |
विनाशयति तत्भीतिं तथा

जङ्गमवारणे || ५२ ||

नीलकण्ठस्य पक्षञ्च भुजगस्य च कञ्चुकम् |
समभागे कृतं धूपं पूर्ववद्भवति ध्रुवम् || ५३ ||

हयमारस्य रक्तस्य गृहीत्वा कुसुमं बुधः |
अम्लं सवेतसञ्चैव सन्मार्ज्यं तेन दर्पणम् |
अश्वोष्ट्रगर्द्धभानाञ्च रूपं पश्येदनन्यधीः || ५४ ||

शूकराश्वगर्द्धभस्य वानरस्य तथैव च |
गृह्णीयात्तु नखं तावत् पुटाग्नौ दाहयेत्ततः |
पश्चान्मण्डूकवशया दर्पणं मार्जयेदथ |
तेषां रूपाणि संपश्येन्नात्र कार्या विचारणा ||

ऋतुमत्या दुर्भगायास्तद्दिनावधि सप्तके |
वासरे शर्षपान् श्वेतान् योनौ पक्षेपयेद्बुधः |
भक्ष्यैस्तैः शर्षपैर्योऽयं स्पृशत्येतेव तं व्रजेत् ||

अङ्कोठवृक्षवीजस्य गृह्नीयात्तैलमेव तु |
मोचिके तु ततो वृश्चत्तस्य दोहदमेव च |
बलपुष्टिकरञ्चैव आयुर्वृद्धिकरं परम् ||

जम्बोरफलपत्रञ्च सैन्धवेन समन्वितम् |
दन्तलेपं भवेत्तीक्ष्णं माषपुष्पं घृतौदनम् |
आयुर्वृद्धिकरञ्चैव चिरकाले बलं भवेत् ||

कूर्ममांसे बलं हीनं मांसञ्च कोरकस्य च |
अल्पायुर्याति वै शीघ्रं हंसमांसेन पार्वति ! ||

पूगस्य शीकरञ्चैव स्नुहीकर्दमसंयुतम् |
मांसयुक्ते अर्कदुग्धं मन्दारफलसंयुतम् |
वाते रजनिसंयुक्तं तालमूली सभक्तकम् |
मछक्ती च छदे दद्याज्जिह्वारोगे कुलेश्वरि ! |
पर्पटं गुडसंयुक्तं दधिभक्तं निवेदयेत् |
उष्णं कृत्वा पाययेच्च नाभौ संलेपयेत्ततः |
अशोकमूलं पिन्याकं कफरोगे गलग्रहे |
अण्डरोगे पर्णशिरां माणमूलन्तथैव च |
तालमूलञ्च कुष्माण्डं वातसारे शिरौषकम् ||

त्रयोविंशति पटले ||

दन्तशूले मारुतञ्च सैन्धवं पिप्पलीयकम् |
समूलं दन्तिसारञ्च दन्तरोगोपशान्तये |
क्षते कौटे प्रजाते च मन्दाराग्रं सचूर्णकम् |
स्नुहीक्षीरसमेतञ्च |
कीटः पतति तत्क्षणात् ||

इति गवादीनां क्षते प्रत्यक्षं द्रष्टव्यम् ||

अथ वक्ष्ये महेशानि ! तुरगाणां चिकित्सितम् |
वान्ते दद्यात् पललतां शृङ्गवेरं सपिप्पलीम् |
यमानीं नारिकेलञ्च मुण्डवासकमूलकम् |
कोषलञ्च गुडञ्चैव पिण्डं तापहरं परम् ||

जीरं सर्जरसं कोलं दूर्वाधन्याकसंयुतम् |
योगपत्रं गिमाशाकं मरीचं लवणान्वितम् |
वासन्तीमूलसहितं त्रिपुण्ड्रन्तु श्रमापहम् |
वृहत्पानीयमूलपत्रं सङ्कस्य बीजपत्रकम् |
शृङ्गवेरं यवञ्चैव हरिद्राद्वयमेव च |
एतत्पिण्ड वातहरे बलपुष्टिकरं परम् |
अरण्यवदरीं सूक्तिं कानने रामवासकम् |
खर्जूरस्य च बीजेन सगुडेन ज्वरं हरेत् |
धान्यमूलं रविमूलं कालञ्जरसमन्वितम् |
सोमधान्येन तद्दद्याच्छर्दिकारोगनाशनम् ||

तथा ||

अपामर्गं विडङ्गञ्च सैन्धवं नागकेशरम् |
सैन्धवेन समायुक्तं पक्षिरोगो विनश्यति |
चर्चिकायान्तु भेकस्य तैलं भेरुण्डकस्य च |
निशायोगेन दातव्यं सर्वकुष्ठविनाशनम् ||

नागेश्वरस्य तैलेन मधुवृक्षस्य चूर्णितम् |
दग्धं कृत्वा ददेल्लेपं नश्येद्देवि ! विचर्चिका ||

षड्विंशति पटले ||

दानवस्य च पुष्पाणि धृतसिक्तानि भक्षयेत् रक्तस्रावं ऋतुस्नानं जलन्धारञ्च नश्यति ||

उत्तराशामुखो भूत्वा कन्यासूत्रेण वेष्टयेत् |
विष्णुक्रान्तामपामार्गं तथा जीरमरीचकम् |
एककेन पिबेत् पीत्वा सुखं सूयेत गर्भिनी |
माहीषनवनीतेन तथा कविकलाक्षतम् |
विलिप्य ताभ्यां देवेशि ! लिङ्गं स्थलं भवेदनु |
रक्तभेरण्डमूलञ्च तथा |
चलदलपद्मकम् |
मरीचञ्च प्रियङ्गुञ्च पिष्ट्वा लिङ्गं विवर्धयेत् ||

गुवाकपुष्पमेकन्तु गोक्षीरेण समं पिबेत् ||

स्वात्यां वा जन्मदिवसे अपुष्पा पिष्पिता भवेत् ||

हस्तिशूण्ड्यास्ततो मूलं कलविङ्कस्य नासिकाम् |
घृतेन भर्जितं भक्षेदिन्द्रियः प्रबलो भवेत् ||

नागार्जुनकृतकक्षपुटे द्वितीयपटले ||

भूदारवटमूलञ्च जलेन सह घर्षयेत् |
विभूत्या संयुतं देवि ! तिलकं लोकवश्यकृत् || १ ||

पुष्ये पुनर्नवामूलं रुदन्तीं मूलिकां तथा |
यवमूलं तथा बध्वा कण्ठे सप्ताभिमन्त्रितम् |
पूज्यो भवति सर्वत्र मन्त्रमत्रैव कथ्यते ||

ऐं पुरं क्षोभय भगवति गम्भीरे ल्कौ स्वाहा |
अमुं मन्त्रमयुतद्वयं जपेत् ततः सिद्धिः || १ ||

उग्रातपत्रमञ्जिष्ठा कुङ्कुमं तगरं समम् |
स्नाने पाने तथा स्पर्शे दत्तं वश्यं भवत्यलम् || २ ||

सिंहीमूलं हरेत् पुष्ये कट्यां बद्ध्वा जगत्प्रियः || ३ ||

निशि कृष्णचतुर्दश्यां महानीलीं श्मशानतः |
उद्धृत्य नरतैलेन चाञ्जनेनैव वश्यकृत् || ४ ||

तन्मूलं बन्धयेद्धस्ते सर्वलोकप्रियो भवेत् || ५ ||

चन्द्रं पुष्ये समुद्धृत्य ब्रह्मदण्डीय मूलकम् |
भोजने सर्वसत्वानां वशीकरणमुत्तमम् ||

उलूकहृदयं तुल्यं कुमार्या रोचनं सुधीः |
अञ्जने रोचने वश्यमानयेद्भुवनत्रयम् || ६ ||

ओं नमो यक्षिणि अमुकं वशमानय स्वाहा ओं |
अस्य मन्त्रस्य पूर्वमेवायुतं जप्त्वा तत उग्रातपत्रादि सर्वप्रयोगाः |
शतवारमभिमन्त्रिता सिद्धा भवति चोषधिः |
सर्वेषामेव मन्त्राणां मन्त्रध्यानं पृथक् पृथक् |
तत्तत्स्थाने यथासङ्ख्यमनुक्ते त्वयुतं जपेत् |
मृगशीर्षे तु सङ्ग्राह्यं सुरक्तकरवीरकम् |
नवाङ्गुलं कीलकं तत् सप्तवाराभिमन्त्रितम् |
यस्य नाम्ना खनेद्भूमौ स वश्यो भवति ध्रुवम् |
ओं हु/ हु/ स्वाहा |
शतमष्टोत्तरं जप्त्वा पूर्वमेवारभेन्नरः || ७ ||

तृतीय पटले ||

कुङ्कुमं चन्दनञ्चैव रोचनं सशिमिश्रितं |
गवां क्षीरेण तिलकं राजवश्यकरं परम् |
ओं ह्रीं सः अमुकं वशं कुरु कुरु स्वाहा |
पूर्वमेव सहस्रं जप्त्वा ततोऽनेन मन्त्रेण पूर्ववत् तिलकं कुर्यात् |
ओं ह्रीं रक्तचामुण्डै कुरु कुरु अमुकं वशमानय स्वाहा |
इति चामुण्डामन्त्रैः सर्वसिद्धो भवति ||

मञ्जिष्ठा

कुङ्कुमञ्चैव बाला मोदा कुमारिका |
चिताभस्म स्वरक्तञ्च नियमैरेव भावयेत् |
पुष्येण गुटिकां कृत्वा भक्ष्ये पाने च दापयेत् |
पृष्टो वा राजवश्यः स्यात् चण्डमन्त्रप्रभावतः || ८ ||

अथ विवादजयः ||

गोजिह्वा शिखिमूला वा मुखे शिरसि संस्थिता |
कुरुते सववादेषु जयं पुष्ये समुद्धृता |
मार्गशीर्षे तु पूर्णायां शिखिमूलं समुद्धरेत् |
वाहौ शिरे शिखे धार्यं विवादे विजयो भवेत् |
बन्धनान्मुच्यते जन्तुः शिखामन्त्रान्न संशयः || २ ||

मेघनादस्य मूलञ्च चक्रस्यान्तरवेष्टितम् |
परदारी भवेन्मूकोऽथवा याति दिगन्तरम् |
निशि कृष्णचतुर्दश्यां महानीलीं श्मशानतः |
आदाय बन्धयेद्धस्ते विवादे विजयो भवेत् |
श्वेतगुञ्जान्वितं मूलं मुखस्थं दुष्टतुण्डजित् |
उक्त योगानां चण्डमन्त्रेण सिद्धिः ||

मन्त्रस्तु ओं सुदर्शनाय हुं फट् स्वाहा |
पूर्वमेवायुतं जप्त्वा चण्डमन्त्रस्य सिद्धये |
ततो ह्यौषधियोगश्च सप्ताभिमन्त्रितो भवेत् || ४ ||

शुक्लपक्षयुते पुष्ये गुञ्जामूलं समुद्धरेत् |
बद्धं शिरसि तत्सर्वं चौरवाधाहरं परम् ||

योगसारे प्रथमपरिच्छेदे ||

देवीवाक्यम् ||

व्याधिनाशमहं वक्ष्ये पलमात्रं घृतं पिबेत् |
पठित्वानेन मनुना यः पिबेत् साधकोत्तमः |
सर्वव्याधिविनिर्मुक्तो भवत्येव न संशयः |
मन्त्रं तस्य प्रवक्ष्यामि शृणु मद्भैरवोत्तम ! |
तारं माया भृगुः शम्भुः पुनर्भृगुरुदाहृतः ||

सृष्टियुक्तो गुरुश्चैव तथा चन्द्रः शिवः स्मृतः |
एतन्मन्त्रं समाख्यातं घृतशुद्धिरितीरितम् || १ ||

तृष्णानाशं प्रवक्ष्यामि रक्तचन्दनतोलकम् |
घर्षयित्वा वामहस्ते गृहीत्वा साधकोत्तमः |
तोलकं जलसंमिश्र्य मनुनाष्टोत्तरं शतम् |
तत्तदुपरि संजप्य यः पिबेत् साधकोत्तमः |
सप्ताहाज्जायते तस्य तृष्णानाशस्तु भैरव ! |

सर्वेषां भक्षणं प्रोक्तं सप्ताहञ्च कुलेश्वर ! |
सर्वमष्टोत्तरशतं पिबेज्जप्त्वा च साधकः |
शब्दबीजद्वयं भद्रे ! नाशयद्वितयं वदेत् |
तृष्णेति पदमुच्चार्य ततः स्वाहा मनुर्मतः |
अनेन मनुना देव ! तृष्णानाशोऽभिजायते || २ ||

आहारनाशनार्थाय कृष्णचित्रां समाहरेत् |
तोलार्द्धं वा तदर्द्धं वा तदर्द्धं वा सुरेश्वर ! |
आनीय मनुनानेन वटिकां कार्येद्बुधः |
घृतेनालोड्य देवेश ! मनुनानेन भक्षयेत् ||

कामबीजं समुच्चार्य क्षुन्नाशिनि पदं ततः |
निवारयपदं चोक्त्वा स्वाहेति च मनुर्मतः || ३ ||

अथवान्यप्रकारेण क्षुन्निवृत्तिर्विधीयते |
हविष्याशौ भवेदादौ पश्चाज्जपति मातृकाम् |
पश्चाद्घृतं प्रयोक्तव्यं मनुनानेन शङ्कर ! |
हसौर्वा येन मनुना भक्षयेत् साधकोत्तमः || ४ ||

अथवा सर्पिषा देव जिह्वामालोड्य यत्नतः |
यावदोष्ठं परिव्याप्तं जिह्वया कुलभैरवः ! |
तावत्प्रमार्जयेज्जिह्वां यावदोष्ठसमां नयेत् |
अनेनैव प्रकारेण क्षुन्निवृत्तिर्भविष्यति || ५ ||

अथवान्यप्रकारेण क्षुन्निवृत्तिर्विधीयते |
प्रत्यहं विजयाधूमं ब्रह्मरन्ध्रेण मन्त्रवित् |
पानं करोति देवेश ! क्षुन्नाशो जायते ध्रुवम् |
ब्रह्ममन्त्रमहं वक्ष्ये येन क्षुन्नाशनं भवेत् |
सम्बर्तकचन्द्रवह्निभौतिकी बिन्दुसंयुतः |
एवं वीजत्रयं देव ! समुच्चार्य कुलेश्वर ! |
अनेन मनुना देव ! विजयाधूमशोधनम् |
शोधयित्वा पिबेद्धूमं न दोषो जायते हर ! || ६ ||

अथ मूत्रप्रनाशार्थं वक्ष्यामि मन्त्रमुत्तमम् |
अश्वगन्धां समानीय अस्त्रमन्त्रेण मन्त्रयेत् |
तोलकं सर्पिषा देव ! मिश्रयित्वा पिबेत् सुधीः |
लिङ्गमूले कामबीजं जप्त्वा च स्तम्भयेद्धिया |
द्वात्रिंशत्तोलकं दुग्धं मरीचं तोलकद्वयम् |
सम्मिश्र प्रपचेद्यत्नाद्यावत् शुष्कं समानयेत् |
ततो वै वाग्भवं जप्त्वा भक्षयेत् साधकोत्तमः अनेनैव

विधानेन मूत्रनाशोऽभिजायते || ७ ||

पुरीषनाशनार्थाय विडङ्गं तोलकद्वयम् |
पिप्पलीतोलकं ग्राह्यं शुण्ठीञ्च तोलकत्रयाम् |
तेजपत्रस्य क्षारेण मिश्रयित्वा जपेन्मनुम् |
शतमष्टोत्तरं जप्त्वा मिश्रयेद्बहु यत्नतः |
मन्त्रं तस्य प्रवक्ष्यामि शृणुष्वाननभैरव ! |
श्रीर्माया वाग्भवञ्चैव शक्तिवीजत्रयं तथा |
शिववायुजलं पृथ्वी वह्निजाया ततः परम् |
मन्त्रयित्वा पिबेद्द्रव्यं पुरीषं नाशयेद् ध्रुवम् || ८ ||

शुक्रस्तम्भं प्रवक्ष्यामि शृणु मद्भैरवोत्तम ! |
पिष्ट्वा चैरण्डकं मूलं नाभिमूले विलेपयेत् |
रोहितमत्स्यपित्तेन तन्मूलं लेपयेच्छिव ! |
शब्दवीजैर्मन्त्रयित्वा स्तम्भयेत् शुक्रशोणितम् |
शब्दबीजं समुद्धृत्य मर्दयेदस्त्रमुच्चरन् |
स्तम्भयेन्नियतं शुक्रं तथोक्तं कुलसुन्दर ! |
मन्त्रेणानेन शुक्रस्य स्तम्भनं कारयेद्बुधः || ९ ||

शुक्रस्तम्भनकं प्रोक्तमालस्यनाशनं शृणु हुङ्कारध्वनिमाहूय करतालद्वयं द्वयम् |
कृत्वा वेतालमूलञ्च पिष्ट्वा यो भक्षयेत् सुधीः ||

फट्कारैर्मन्त्रयित्वा च तालमूलं पिबेत् सुधीः |
ततो मधु पिबेद्धीमानालस्यनाशनं भवेत् || १० ||

निद्रानाशं प्रवक्ष्यामि शृणुष्वानन्दभैरव ! |
अलक्तकं तोलकार्द्धं तोलार्द्धं कटुतैलकम् |
श्वेतधूपं मिश्रयित्वा मनुना मन्त्रयेत् सुधीः |
मनुं तस्य प्रवक्ष्यामि येन निद्राक्षयो भवेत् |
निद्रा यमसमादेव ! निद्रा व्याधिकरी मता |
निद्रायां सर्वदोषः स्यान्निद्रया ज्ञाननाशनम् |
निद्रया लीयते सर्वं निद्रया नरकं व्रजेत् |
तस्माद्यत्नेन कर्त्तव्यं निद्रानाशन्तु भैरव ! |
सम्बर्तं वह्निसंयुक्तं चन्द्रखण्डसमन्वितम् |
क्रमात्त्रयं समुद्धृत्य वह्निजायां परे वदेत् |
शतमष्टोत्तरं जप्त्वा मर्दयेद्बहुयत्नतः |
प्रत्यहं चक्षुषोर्दद्यान्निद्रानाश इतीरितः ||

ततो जपेद्वाग्भवन्तु चक्षुषोर्मध्यभागयोः |
ततो ध्यायेत् कुलगुरुं कुलदेवीं प्रयत्नतः |

प्रार्थयेद्बहुयत्नेन निद्राया नाशनं द्रुतम् |
ओं निद्रेदेवि ! महामाये ! जगन्निर्वाणकारिणि ! मां जहि त्वं जगद्धात्रि ! मां जहि परमेश्वरि ! |
प्रणवं पूर्वमुच्चार्य निद्रापतिपदं ततः |
निद्रापतिपदं ब्रूयात् ततो ब्रूयात् सनातनी |
वह्निजायां ततो ब्रूयात् निद्राक्षयमनुर्मतः |
एतन्मन्त्रजपादेव निद्रानाशो भवेद् ध्रुवम् |
शतमष्टोत्तरं वापि सहस्रं वा कुलेश्वर ! |
जप्त्वा निद्रा क्षयं याति क्रिमन्यत् कथयामि ते |
अत्र स्थितवृ?त्यध्याहाराज्जप्तेत्यनेनैककर्त्तृकता || ११ ||

अथान्यत् सम्प्रवक्ष्यामि चेन्द्रियाणाञ्च निग्रहम् |
योनितन्त्रोक्तमार्गेण कुलाकारं करोति हि ||

कान्तां मनोरमां देव ! आनीय बहुयत्नतः |
जयेत्तेन मार्गेण कामयेद्बहुयत्नतः ||

एवं सत्कारयोगेन शुक्रस्तम्भो भवेन्नृणाम् ||

यस्य यद्देवताभावो यद्रूपा देवता स्मृता |
तत्तद्रूपजगत्सर्वं ||

ध्यात्वा च मदिरां पिबेत् ||

ततः प्राणायामयोगे वायुञ्चापि वशं नयेत् |
ततो घृतं समालोड्य नालमूलं तथा शिव ! |
पिष्ट्वा पूर्वोक्तमनुना जप्त्वा च साधकः पिबेत् |
सर्वव्याधिविनिर्मुक्तो नरो भवति तत्क्षणात् ||

गुरुपादरजो ध्यात्वा मधुमांससमन्वितम् |
सुरायुक्तं महादेव ! मर्दयेद्बहुयत्नतः |
ततः पूर्वोक्तमन्त्रेण सम्मन्त्र्याष्टदिनं पिबेत् |
एवं संस्कारयोगेन तृष्णानाशो भवेद् ध्रुवम् || ३ ||

कुलेश्वरीं ततो ध्यात्वा कृष्णचित्रां ततः पिबेत् |
ततः पिबेन्मद्यमांसं घृतं वा कालभैरव ! |
एवं संस्कारयोगेन क्षुन्नाशो जायते ध्रुवम् ||

वाक्चिन्तामणिनिर्मितातिवितता सर्वैर्गुणैरन्विता |
साक्षात्कल्पलताश्रितार्थसहिता विश्वोपकारे हिता ||

ध्यात्वा विज्ञसभाजितातिफलिता श्रीप्राणतोषिण्यसौ ||

द्रष्टव्या भवता सता मतिमता शुभ्रातिशुभ्रा लता ||

इति श्रीप्राणतोषिणी समाप्ता

Textgrundlage

An vier markierten Stellen des Nirguṇakāṇḍa wird der Wortlaut sexualisierter Darstellungen Minderjähriger ausgelassen. Diese Ausgabe beansprucht an diesen Stellen keine vollständige Wiedergabe.

Sanskrittext nach der elektronischen Ausgabe des Muktabodha Indological Research Institute, zusammengestellt von dessen Mitarbeitern unter der Leitung von Mark S. G. Dyczkowski. Zugrunde liegt die von Jīvānanda Vidyāsāgara Bhaṭṭācārya herausgegebene Druckausgabe, Kalkutta 1898, in bengalischer Schrift. Die elektronischen Texte tragen den Lizenzvermerk CC BY-NC 4.0. Für die bibliographischen Angaben, den Umfang und die Überlieferungslücke siehe Pranatosini Tantra.

Die überlieferten Zählungen bleiben erhalten; der Text besitzt keine durchgehende Versnummerierung. Unnummerierte Prosa und Zitatnachweise gehören zum Werk und stehen im Sanskrittext. Offenkundige Lesungsprobleme der elektronischen Grundlage sind nicht stillschweigend durch Vermutungen ersetzt. Ein fremder Bhaktikāṇḍa-Kolophon nach Sargakāṇḍa 7 bleibt als überlieferte Unstimmigkeit erkennbar. Der Textumfang entspricht dem zugänglichen Bestand mit der Überlieferungslücke im Bhaktikāṇḍa und den vier ausdrücklich markierten Auslassungen im Nirguṇakāṇḍa. Eine lückenlose Wiedergabe des historischen Gesamtwerks wird nicht behauptet.

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Energiearbeit

18.10.2026 - 23.10.2026 Tantra Vinyasa Yoga Ausbildung - Teil 2

Buchung nur nach Besuch von Teil 1 möglich (Termin: 18.-23.5.2025) möglich. www.yoga-vidya.de/ausbildung-weiterbildung
Vorkenntnisse: Lektüre der Bü…
Ravi Ott
23.10.2026 - 30.10.2026 Klangtherapie Chakra Kur

Klang und Klangschwingungen haben einen intensiven Bezug zu den Chakras, den Energiezentren. Im Yoga ist es daher eine alte Tradition, Chakras mit Klang…
Maik Hofmeister, Jeannine Hofmeister

Deutsche Einführung: Pranatosini Tantra · Vorheriger Teil: Pranatosini Tantra Sanskrit Devanagari Teil 3