Kalika Purana Sanskrit Devanagari Teil 2
Kalika Purana Sanskrit Devanagari Teil 2 enthält die Kapitel 52–90 des Kalika Purana im Sanskritoriginal in Devanagari. Er setzt Teil 1 mit Kapitel 1–51 unmittelbar fort. Im Mittelpunkt stehen die Verehrung der Devi, Mantra, innere Sammlung und Ritual, heilige Orte sowie die abschließenden Erzählungen und Segensverse.
Für Yoga-Aspiranten eröffnet dieser Teil besonders die Frage, wie äußere Verehrung und innere Gegenwart zusammenfinden. Kapitel 55 verbindet Guru, Mantra, Herz und Japa; die Schlussverse in Kapitel 90 führen zu Hingabe, Schriftstudium und Segen zurück. Lies einzelne Abschnitte mit Ruhe und ziehe die vollständige deutsche Übersetzung unter Kalika Purana hinzu. Die Umschrift bietet Kalika Purana Sanskrit IAST, eine erläuterte Auswahl Kalika Purana 108 Verse und Mantras.
Die Artikel dieser Ausgabe: Einführung und deutsche Übersetzung, Kapitel 1–90 · Sanskrit in IAST · Devanagari, Kapitel 1–51 · Devanagari, Kapitel 52–90 · 108 Praxisverse und ausgewählte Mantras
Hinweise zum Lesen
Die Kapitel- und Versnummern werden aus der Vorlage fortgeführt. Ein Satz kann mehrere Verse umfassen; die Zeilenumbrüche trennen die überlieferten Versglieder und sind keine zusätzliche Atemanweisung. Die ausführlichen Ritualvorschriften sind in ihrem jeweiligen Zusammenhang zu lesen. Die Beschäftigung mit dem Sanskrit kann Aufmerksamkeit und Svadhyaya vertiefen; sie ersetzt keine Unterweisung in einer konkreten Ritualpraxis.
Auffällige Schreibungen und Nummerierungsstörungen bleiben erhalten. Erläuterungen zu unsicheren Stellen stehen bei der deutschen Übersetzung im Hauptartikel. Der zweite Teil beginnt unmittelbar mit Kapitel 52; die Eingangsverehrung des Gesamtwerkes steht im ersten Teil.
Sanskrittext
Kapitel 52
द्विपञ्चाशोऽध्यायः
और्व उवाच
एवं वदति भूतेशे तदा वेतालभैरवौ |
प्राहतुर्व्योमकेशं तौ हर्षोत्फुल्लविलोचनौ || १ ||
वेतालभैरवावूचतुः
पार्वत्या न हि जानीवो ध्यानं मन्त्रं विधिं तथा |
कथमाराधयिष्यावो भगवन् सम्यगुच्यताम् || २ ||
श्रीभगवानुवाच
महामायाविधिं मन्त्रं कल्पं च भवतोः सुतौ |
उपदेक्ष्यामि तत्त्वेन येन सर्वं भविष्यति || ३ ||
और्व उवाच
इत्युक्त्वा स महामायाध्यानं मन्त्रं विधिं तथा |
कथयामास गिरिशस्तयोः सम्यङ् नृपोत्तम || ४ ||
यदष्टादशभिः पश्चात्पटलैश्च स भैरवः |
स निर्णयविधिं कल्पं निबबन्ध शिवामृते || ५ ||
सगर उवाच
कीदृङ् मन्त्रं पुरा शम्भुरवोचदुभयोस्तयोः |
येनाराध्य महामायां तौ गणेशत्वमापतुः || ६ ||
सकल्पं सरहस्यं च साङ्गं तच्छ्रोतुमुत्सहे |
दशाष्टपटलैर्यत् तु निबबन्ध स भैरवः || ७ ||
और्व उवाच
बहुत्वाद् वदितुं तस्य चिरेणैव तु शक्यते |
तस्मात् सद्यः समुद्धृत्य यन्महादेवभाषितम् |
संक्षेपात् कथये तत्त्वं तच्छृणुष्व नृपोत्तम || ८ ||
पृच्छन्तौ पार्वती मन्त्रं तदा वेतालभैरवौ |
जगाद स महादेवः शृणुत मन्त्रकल्पकौ || ९ ||
श्रीभगवानुवाच
शृणु मन्त्रं प्रवक्ष्यामि गुह्याद् गुह्यतमं परम् |
अष्टाक्षरं तु वैष्णव्या महामायामहोत्सवम् || १० ||
अस्य श्रीवैष्णवीमन्त्रस्य नारद ऋषिः शम्भुर्देवता |
अनुष्टुप् छन्दः सर्वार्थसाधने विनियोगः || ११ ||
हान्तान्तयुर्वो रान्तश्च नान्तो णान्तस्तथैव च |
कैकादशाष्टादिषष्ठः खान्तो विष्णुपुरःसरः || १२ ||
एभिरष्टाक्षरैर्मन्त्रं शोणपत्रसमप्रभम् |
ओंकारं पूर्वतः कृत्वा जप्यं सर्वैस्तु साधकैः || १३ ||
महामन्त्रमिदं गुह्यं वैष्णवीमन्त्रसंज्ञकम् |
मन्त्रं कलेवरगतं तस्मादङ्गं प्रकीर्तितम् || १४ ||
महादेवस्योर्ध्वमुखं बीजमेतत् प्रकीर्तितम् |
ओंकाराक्षरबीजं च यकारः शक्तिरुच्यते || १५ ||
सबीजं कथितं मन्त्रं कल्पं च शृणु भैरव |
तीर्थे नद्यां देवखाते गर्तप्रस्रवणादिके || १६ ||
परकीयेतरे तोये स्नानं पूर्वं समाचरेत् |
आचान्तः शुचितां प्राप्तः कृतासनपरिग्रहः || १७ ||
उत्तराभिमुखो भूत्वा स्थण्डिलं मार्जयेत् ततः |
करेणानेन मन्त्रेण यूं सहः क्षित्या इति स्वयम् || १८ ||
ओं ह्रीं स इति मन्त्रेण आशापूरणकेन च |
तोयैरभ्युक्षयेत् स्थानं भूतानामपसारणे || १९ ||
ततः सव्येन हस्तेन गृहीत्वा स्थण्डिलं शुचिः |
मन्त्रं लिखेत् सुवर्णेन याज्ञिकेन कुशेन वा || २० ||
ओं वैष्णव्यै नमः इति मन्त्रराजमथापि वा |
ततस्त्रिमण्डलं कुर्यात् तेनैव समरेखया || २१ ||
नित्यासु न हि पूजासु रजोभिर्मण्डलं लिखेत् |
पुरश्चरणकार्येषु तत्काम्येषु प्रयोजयेत् || २२ ||
रेखामुदीच्यां प्रथमं पश्चिमे तदनन्तरम् |
दक्षिणे तु ततः पश्चात् पूर्वभागे तु शेषतः || २३ ||
वर्णानां च सहद्वारैरेवमेव क्रमो भवेत् |
ओं ह्रीं श्रीं स इति मन्त्रेण मण्डलं पूजयेत् ततः || २४ ||
हस्तेन मण्डलं कृत्वा कुर्याद् दिग्बन्धनं ततः |
आशाबन्धनमन्त्रेण पूर्वोक्तेन यथाक्रमम् || २५ ||
फडन्तेनात्मनाप्यत्र करेणैव निबन्धयेत् |
यवानां अण्डलैरेकमङ्गुलं चाष्टभिर्भवेत् || २६ ||
अदीर्घयोजितैर्हस्तैस्चतुर्विंशतिरङ्गुलैः |
तत्प्रमाणेन हस्तेन हस्तैकं तस्य मण्डलम् || २७ ||
पद्मं वितस्तिमात्रं स्यात् कर्णिकारं तदर्धकम् |
दलान्यन्योन्यसक्तानि ह्यायतानि नियोजयेत् || २८ ||
न न्यूनाधिकभागानि सबहिर्वेष्टितानि च |
मध्यभागे न्यसेद् द्वारं न न्यूने नाधिके तथा |
सुबद्धं मण्डलं तच्च रक्तवर्णं विचिन्तयेत् || २९ ||
इतोऽन्यथा मण्डलमुग्रमस्याः
करोति यो लक्षणभागहीनम् |
फलं न चाप्नोति न काममिष्टं
तस्मादिदं मण्डलमत्र लेख्यम् || ३० ||
इति श्रीकालिकापुराणे महामायाकल्पेऽष्टादशपटले
इपञ्चाशत्तमोऽध्यायः || ५२ ||
Kapitel 53
त्रिपञ्चाशोऽध्यायः
श्रीभगवानुवाच
ततो लमिति मन्त्रेण अर्घपात्रस्य मण्डलम् |
चतुष्कोणं विधायाशु द्वारपद्मविवर्जितम् || १ ||
ओं ह्रीं श्रीमितिमन्त्रेण अर्घपात्रं तु मण्डले |
विन्यसेत् प्रथमं तत्र पूजयित्वा समिध्यति || २ ||
ओं ह्री ह्रौमितिमन्त्रेण गन्धपुष्पे तथा जलम् |
अर्घपात्रे क्षिपेत् तत्र मण्डलं विन्यसेत् ततः || ३ ||
पूर्ववन्मण्डलं कृत्वा अर्घपात्रे ततो जलैः |
त्रिभागैः पूरयेत् पात्रं पुष्पं तत्र विनिःक्षिपेत् || ४ ||
ततो ह्रीमिति मन्त्रेण आसनं पूजयेत् स्वकम् |
ततः क्षौमितिमन्त्रेण आत्मानं पूजयेद् बुधः || ५ ||
गन्धैः पुष्पैः शिरोदेशे ततः पूजां समाचरेत् |
ओं ह्रीं स इति मन्त्रेण पुष्पं हस्ततलस्थितम् || ६ ||
संमृज्य सव्यहस्तेन घ्रात्वा वामकरेण तु |
ऐशान्यां निक्षिपेदेतत् पूर्वमन्त्रेण कोविदः || ७ ||
रक्तं पुष्पं गृहीत्वा तु कराभ्यां पाणिकच्छपम् |
बद्ध्वा कुर्यात् ततः पश्चाद् दहनप्लवनादिकम् || ८ ||
वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् |
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् || ९ ||
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः |
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च || १० ||
वामस्य पितृतीर्थेन मध्यमानामिके तथा |
अधोमुखे तु ते कुर्याद् दक्षिणस्य करस्य च || ११ ||
कूर्मपृष्ठसमं पृष्ठं कुर्याद् दक्षिणहस्ततः |
एवं बद्धः सर्वसिद्धिं ददाति पाणिकच्छपः || १२ ||
कुर्यात् तद्धृदयासन्नं निमील्य नयनद्वयम् |
समं कायशिरोग्रीवं कृत्वा स्थिरमना बुधः || १३ ||
ध्यानं समारभेद् देव्या दाहप्लवनपूर्वकम् |
अग्निं वायौ विनिक्षिप्य वायुं तोये जलं हृदि || १४ ||
हृदयं निश्चले दत्त्वा आकाशे निक्षिपेत्स्वनम् |
ओं हूं फडिति मन्त्रेण भित्त्वा रन्ध्रं तु मस्तके || १५ ||
शब्देन सहितं जीवमाकाशे स्थापयेत् ततः |
वायवग्नियमशक्राणां बीजेन वरुणस्य च || १६ ||
परास्थानपराश्चैतैः सार्धचन्द्रैः सबिन्दुकैः |
शोषं दाहं तथोच्छादं पीयूषासेवनं परम् || १७ ||
यथाक्रमेण कर्तव्यं चिन्तामात्रं विशुद्धये |
ततस्तु देवीबीजेन अणुं जाम्बूनदाकृतिम् || १८ ||
तत्रासाद्य द्विधा कुर्यात् उम् ह्रीं श्रीमिति मन्त्रकाः |
तदूर्ध्वभागेषु हृद्लोकं स्वर्गं च खं तथा || १९ ||
निष्पाद्य शेषभागेन भुवं पातालवारिणि |
चिन्तयेत्तत्र सर्वाणि सप्तद्वीपां च मेदिनीम् || २० ||
तत्तेषु सागरांस्तांस्तु स्वर्णद्वीपं विचिन्तयेत् |
तन्मध्ये रत्नपयङ्क रत्नमण्डपसंस्थितम् || २१ ||
आकाशगङ्गातोयोधैः सदैव सेवितं शुभम् |
तत्पर्यङ्के रक्तपद्मं प्रसन्नं सर्वदाशिवम् || २२ ||
चिन्तयेत् स्वर्णमानाङ्कं सप्तपातालनालकम् |
आब्रह्मभुवनस्पर्शि उवर्णाचलकर्णिकम् || २३ ||
तत्रस्थितां महामायां ध्यायेदेकाग्रमानसः |
शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीं || २४ ||
चलत्काञ्चनामारुह्य कुण्डलोज्ज्वलशालिनीम् |
सुवर्णरत्नसम्पन्न किरीटवयधारिणीम् || २५ ||
शुक्लकृष्णारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् |
सन्ध्याचन्द्रसमप्रख्य-कपोलां लोललोचनाम् || २६ ||
विपक्वाअडिमीबीजदन्तान् सुभ्रूओगोज्ज्वलाम् |
बन्धूकदन्तवसनां शिरीषप्रभनासिकाम् || २७ ||
कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् |
चतुर्भुजा विवसनां पीनोन्नतपयोधराम् || २८ ||
दक्षिणोर्ध्वेन निस्त्रिंशत्परेण सिद्धसूत्रकम् |
बिभ्रतीं वामहस्ताभ्यामभीतिं वरदायिनीम् || २९ ||
निम्नाभिरमायातां क्षीणमध्यां मनोहराम् |
आनमन्नागपाशोरूं गुप्तगुल्फां सुपार्ष्णिकाम् || ३० ||
बद्धपर्यङ्कसङ्कल्पां निवीरासनराजिताम् |
गात्रेण रत्नसंस्तम्भं सम्यगालम्ब्य संस्थिताम् || ३१ ||
किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः |
पन्चाननं पुरःसंस्थं निरीक्षन्तीं सुवाहनम् || ३२ ||
मुक्तावली स्वर्णरत्नहाअकङ्कणादिभिः |
सर्वैरलङ्कारगणैरुज्ज्वलां सस्मिताननाम् || ३३ ||
सूर्यकोटिप्रतीकाशां सर्वलक्षणसंयुताम् |
नवयौवनसम्पन्नां तथा सर्वाङ्गसुन्दरीम् || ३४ ||
ईदृशीमम्बिकां ध्यात्वा नमः फडिति मस्तके |
स्वकीये प्रथमं दद्यात् साऽहमेव विचिन्त्य च || ३५ ||
अङ्गन्यासकरन्यासौ ततः कुर्यात् क्रमेण च |
एभिर्मन्त्रैः स्वरैः अह सृमीसूमैः क्रमान्वितैः || ३६ ||
ओम् क्षौम् चैते सप्रणवां रक्तवर्णा मनोहराम् |
अङ्गुष्ठादिकनिष्ठान्तमन्त्रसंबेष्टनं फट् || ३७ ||
प्रान्तेन कुर्याद् विन्यासं पूर्वं करतलद्वये |
हृच्छिरःशिखाकवचनेत्रेषु रमतो न्यसेत् || ३८ ||
ततस्तु मूलमन्त्रस्य वक्त्रे पृष्ठे तथोदरे |
बाह्वोर्गुह्ये पादयोश्च जङ्घयोर्जघने क्रमात् || ३९ ||
विन्यसेदक्षराण्यष्टौ ओंकारं च तथा स्मरन् |
एभिः प्रकारैरतिसुद्धदेहः पूजां सदैवार्हति नान्यथा हि |
शरीरशुद्धिं मनसो निवेशं भूतप्रसारं कुरुते नृणां तत् || ४० ||
इति श्रीकालिकापुराणे महामायाकल्पे रिपञ्चाशोऽध्यायः || ५३ ||

Kapitel 54
चतुःपञ्चाशोऽध्यायः
श्रीभगवानुवाच
ततोऽर्घपात्रे तन्मन्त्रमष्टधाकृत्य सञ्जजपेत् |
तेन तोयानि पुष्पाणि स्वं मण्डलमथासनम् || १ ||
आशोधयेत् ततः पश्चात् पूजोपकरणं समम् |
ओं ऐं ह्रीं ह्रौंइति मन्त्रेण शब्दप्रांशुविवर्जितम् || २ ||
द्वारपालं ततो देव्या आसनानि च पूजयेत् |
नन्दिभृङ्गिमहाकालगणेशा द्वारपालकाः |
उत्तरादिक्रमात् पूज्या आसनानि च मध्यतः || ३ ||
आधारशक्तिप्रभृति एमाद्यन्तात् प्रपूजयेत् |
प्रसिद्धान् सर्वतन्त्रेषु पूजाकल्पेषु भैरव || ४ ||
दशदिक्पालसहितान् धर्माधर्मादिकांस्तथा |
मण्डलाग्न्यादिकोणेषु पूजयेत् पार्श्वदेशतः || ५ ||
सूर्याग्निसोममरुतां मण्डलानि च पद्मकम् |
रजस्तथा तमः सत्त्वं योगपीठं गुरोः पदम् || ६ ||
सारादीन् भद्रपीठान्तान् साङ्गोपाङ्गान् प्रपूजयेत् |
ब्रह्माण्डं स्वर्णडिम्बं च ब्रह्मविष्णुमहेश्वरान् || ७ ||
ससागरान् सप्तद्वीपान् स्वर्णद्वीपं समण्डपम् |
रत्नपद्मं सपर्यङ्कं रत्नस्तम्भं तथैव च || ८ ||
पञ्चाननं मण्डलस्य मध्येऽवश्यं प्रपूजयेत् |
रीं मन्त्रेण ततः कूर्मपृष्ठं पाण्योर्निबध्य च || ९ ||
ध्यायेच्च पूर्ववद् देवीमासाद्यासनमुत्तमम् |
हृन्मध्ये चिन्तयेत् स्वर्णद्वीपं पर्यङ्कसम्भृतम् || १० ||
पश्यन्निव ततो देवीमेकाग्रमनसा स्मरेत् |
प्रत्यक्षीकृत्य हृदये मानसैरुपचारकैः || ११ ||
सोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् |
ततस्तु वायुबीजेन दक्षिणे च पुटेन च || १२ ||
नासिकाया विनिःसार्य क्रीं मन्त्रेण च भैरव |
स्थापयेत् पद्ममध्ये तु तद्धस्तं न वियोजयेत् || १३ ||
कृते वियोगे हस्तस्य पुष्पात् तस्माच्च भैरव |
गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम् || १४ ||
आवाहनं ततः कुर्याद् गायत्र्या शिरसा सह |
महामायायै विद्महे त्वां चण्डिकाख्यां धीमहि || १५ ||
तदुक्त्वा ततः पश्चाद् धियो यो नः प्रचोदयात् |
स्नानीयं देवि ते तुभ्यं ओं ह्रीं श्रीं नम इत्यतः || १६ ||
स्नानीयं च ततो देव्यै दद्याल्लक्षणलक्षितम् |
ततस्तु मूलमन्त्रेण गन्धपुष्पं सदीपकम् || १७ ||
धूपादिकं प्रदद्यात् तु मोदकं पायसं तथा |
सितां गुडं दधि-क्षीरं सर्पिर्नानाविधैः फलैः || १८ ||
रक्तपुष्पं पुष्पमालां सुवर्णरजतादिकम् |
नैवेद्यमुत्तमं देव्या लाङ्गलं मोदकं सिताम् || १९ ||
शाण्डिल्यकरताम्राख्य-कूष्माण्डानां फलानि च |
हरीतकीफलं चापि नागरङ्गकमेलकम् || २० ||
बालप्रियं च यद् द्रव्यं कसेरुकबिसादिकम् |
तोयं च नारिकेलस्य देव्यै देयं प्रयत्नतः || २१ ||
रक्तं कौशेयवस्तं च देयं नीलं कदापि न |
देव्याः प्रियाणि पुष्पाणि बकुलं केशरं तथा || २२ ||
माध्यं कह्लारवज्राणि करवीरकुरुण्टकान् |
अर्कपुष्पं शाल्मलकंदूर्वाङ्कुरं सुकोमलम् || २३ ||
कुशमञ्जरिका दर्भा बन्धूककमले तथा |
मालूरपत्रं पुष्पंच त्रिसन्ध्यारक्तपर्णके || २४ ||
सुमनांसि प्रियाण्येतान्यम्बिकायाश्च भैरव |
बन्धूकं बकुलं माध्यं बिल्वपत्राणि सन्ध्यकम् || २५ ||
उत्तमं सर्वपुष्पेषु द्रव्ये पायसमोदकौ |
माल्यं बन्धूकपुष्पस्य शिवायै बकुलस्य वा || २६ ||
करवीरस्य माध्यस्य सहस्राणां ददाति यः |
स कामान् प्राप्य चाभीष्टान् मम लोके प्रमोदते || २७ ||
चन्दनं शीतलं चैव कालीयकसमन्वितम् |
अनुलेपनमुख्यं तु देव्यै दद्यात् प्रयत्नतः || २८ ||
कर्पूरं कुङ्कुमं कूर्चं मृगनाभिं सुगन्धिकम् |
कालीयकं सुगन्धेषु देव्याः प्रीतिकरं परम् || २९ ||
यक्षधूपः प्रतीवाहः पिण्डधूपः सगोलकः |
अगुरुः सिन्धुवारश्च धूपाः प्रीतिकरा मताः || ३० ||
अङ्गरागेषु सिन्दूरं देव्याः प्रीतिकरं परम् |
सुगन्धि शालिजं चान्नं मधुमांससमन्वितम् || ३१ ||
अपूपं पायसं क्षीरमन्नं देव्याः प्रशस्यते |
रत्नोदकं सकर्पूरं पिण्डीतककुमारकौ || ३२ ||
रोचनं पुष्पकं देव्याः स्नानीयं परिकीर्तितम् |
घृतप्रदीपो दीपेषु प्रशस्तः परिकीर्तितः || ३३ ||
पुष्पाञ्जलित्रयं दद्याद् मूलमन्त्रेण शोभनम् |
दत्त्वोपचारानखिलान्मध्ये चैताः प्रपूजयेत् || ३४ ||
कामेश्वरीं गुप्तदुर्गां विन्ध्यकन्दरवासिनीम् |
कोटेश्वरीं दीर्घिकाख्यां प्रकटीं भुवनेश्वरीम् || ३५ ||
आकाशगङ्गां कामाख्यां यदा दिक्करवासिनीम् |
मातङ्गीं ललितां दुर्गां भैरवी सिद्धिदां तथा || ३६ ||
बलप्रमथिनीं चण्डीं चण्डोग्रां चण्डनायिकाम् |
ग्रां भीमां शिवां शान्तां जयन्तीं कालिकां तथा || ३७ ||
मङ्गलां भद्रकालीं च शिवां धात्रीं कपालिनीम् |
स्वाहां स्वधामपर्णां च पञ्चपुष्करिणीं तथा || ३८ ||
मदनीं सर्वभूतानां मनःप्रोत्साहकारिणीम् |
दमनीं सर्वभूतानां चतुःषष्टिं च योगिनीः || ३९ ||
एताः सम्पूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत् |
हृच्छिरस्तु शिखावर्मनेत्रबाहुपदानि च || ४० ||
मूलमन्त्राद्यक्षरैस्तु त्रिभिराद्यङ्गपूजनम् |
एकैकं वर्द्धयेत् पश्चान्मन्त्राण्यङ्गौघपूजने || ४१ ||
सिद्धसूत्रं च खड्गं च खड्गमन्त्रेण पूजयेत् |
ततोऽष्टपत्रमध्ये तु पूजयेदष्टयोगिनीः || ४२ ||
शैलपुत्रीं चण्डघण्टां स्कन्दमातरमेव च |
कालरात्रिं च पूर्वादिचतुर्दिक्षु प्रपूजयेत् || ४३ ||
चण्डिकामथ कूष्माण्डीं तथा कात्यायनीं शुभाम् |
महागौरीं चाग्निकोणे नै-ऋत्यादिषु पूजयेत् || ४४ ||
महामायां षमस्वेति मूलमन्त्रेण चाष्टधा |
पूजयेत् पद्ममध्ये तु बलिदानं ततः परम् || ४५ ||
एवं यदा कल्पविधानमानैः
सम्पूज्यते भैरव कामदेवी |
तदा स्वयं मण्डलमेत्य देयं
गृह्णाति कामं च ददाति सम्यक् || ४६ ||
इति श्रीकालिकापुराणे अष्टादशपटलोद्धारे
महामायाकल्पचतुःपञ्चाशोऽध्यायः || ५४ ||
Kapitel 55
पञ्चपञ्चाशोऽध्यायः
श्रीभगवानुवाच
बलिदानं ततः पश्चात् कुर्याद् देव्याः प्रमोदकम् |
मोदकैर्गजवक्त्रं च हविषा तोषयेद्रविम् || १ ||
तौर्यत्रिकैश्च नियमैः शङ्करं तोषयेद्धरिम् |
चण्डिकां बलिदानेन तोषयेत् साधकः सदा || २ ||
पक्षिणः कच्छपा ग्राहाश्छागलाश्च वराहकाः |
महिषो गोधिकाशोषा तथा नवविधा मृगाः || ३ ||
चामरः कृष्णसारश्च शशः पञ्चाननस्तथा |
मत्स्याः स्वगात्ररुधिरैश्चाष्टधा बलयो मताः || ४ ||
अभावे च तथैवैषां कदाचिद्धयहस्तिनौ |
छागलाः शरभाश्चैव नरश्चैव यथाक्रमात् || ५ ||
बलिर्महाबलिरिति बलयः परिकीर्तिताः |
स्नापयित्वा बलिं तत्र पुष्पचन्दनधूपकैः || ६ ||
पूजयेत् साधको देवीं बलिमन्त्रैर्मुहुर्मुहुः |
उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा || ७ ||
निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् |
वरस्त्वं बलिरूपेण मम भाग्यादुपस्थितः || ८ ||
प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् |
चण्डिकां प्रीतिदानेन दातुरापद्विनाशनः || ९ ||
वैष्णवीबलिरूपाय बले तुभ्यं नमो नमः |
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा || १० ||
अतस्त्वां घातयाम्यद्य तस्माद् यज्ञे वधोऽवधः |
(ओं) ऐं ह्रीं श्रीं इति मन्त्रेण तं बलिं कामरूपिणम् || ११ ||
चिन्तयित्वा न्यसेत् पुष्पं मूर्ध्नि तस्य च भैरव |
ततो देवीं समुद्दिश्य काममुद्दिश्य चात्मनः || १२ ||
अभिषिच्य बलिं पश्चात् करवालं प्रपूजयेत् |
रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः || १३ ||
इं ह्रीं श्रीमिति मन्त्रेण ध्यात्वा खड्गं प्रपूजयेत् |
कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् || १४ ||
उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् |
रक्ताम्बरधरं चैकं पाशहस्तं कुटुम्बिनम् || १५ ||
पीयमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् |
असिर्विशसनः खड्गस्तीक्ष्णधरो दुरासदः || १६ ||
स्रीगर्वो विजयश्चैव धर्मपाल नमोऽस्तु ते |
पूजयित्वा ततः खड्गं ओं अं ह्रीं फडितिमन्त्रकैः || १७ ||
गृहीत्वा विमलं खड्गं छेदयेद् बलिमुत्तमम् |
ततो बलीनां रुधिरं तोयसैन्धवसत्फलैः || १८ ||
मधुभिर्गन्धपुष्पैश्च अधिवास्य प्रयत्नतः |
ओं ऐं ह्रीं श्रीं कौशिकीति रुधिरं दापयामि ते || १९ ||
स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम् |
एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः || २० ||
हीनं स्याद्धीनतामूलं निष्फलं स्याद् विपर्ययात् |
बलिदाने तु दुर्गाया अन्यत्रापि विधिः सदा || २१ ||
अयमेव प्रयोक्तव्यः सद्भिर्वेतालभैरवौ |
जपं समारभेत् पश्चात् पूर्ववद्ध्यानमास्थितः || २२ ||
हस्तेन स्रजमादाय चिन्तयेन्मनसा शिवाम् |
चिन्तयित्वा गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् || २३ ||
मन्त्रं च कण्ठतो ध्यात्वा सितवर्णं हिरण्मयम् |
महामायां च हृदये आत्मानं गुरुपादयोः || २४ ||
अचक्षेत ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः |
देव्याश्चाप्येकतां ध्यात्वा सुषुम्नावर्त्मना ततः || २५ ||
तत्त्वस्वरूपमेकं तु षट्चक्रं प्रति लम्बयेत् |
षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः || २६ ||
लम्बयेन्मूलमात्रेण वादिषोडशचक्रकम् |
आदिषोडशचक्रस्थां साधकानन्दकारिणीम् || २७ ||
इन्तयन् साधको देवीं जपकर्म समारभेत् |
भ्रवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते || २८ ||
तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् |
रक्तवर्णं तु योगज्ञैराज्ञाचक्रमितीर्यते || २९ ||
कण्ठे त्रयाणां नाडीनां वेष्ठनं विद्यते नृणाम् |
सुषुम्नेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् || ३० ||
तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् |
त्रयाणामथ नाडीनां हृदये चैकता भवेत् || ३१ ||
तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः |
अत्प्रयुक्तं तु योजज्ञैरादिषोडशचक्रकम् || ३२ ||
ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च |
यस्मादाद्यं तु हृदयं तस्मादादीति गद्यते || ३३ ||
जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः |
निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा || ३४ ||
ओं माले माले महामाये सर्वशक्तिस्वरूपिणि |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव || ३५ ||
पूजयित्वा ततो मालां ऋह्णीयाद् दक्षिणे करे |
मध्यमाया मध्यभागे वर्जयित्वाथ तर्जनीम् || ३६ ||
अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः |
स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् || ३७ ||
प्रत्येकं बीजमादाय जप्यादर्धेन भैरव |
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं च चालयेत् || ३८ ||
मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् |
पूर्वजापप्रयुक्तेन नैवाङ्गुष्ठेन भैरव || ३९ ||
पूर्वबीजं जपन् यस्तु परबीजं च संस्पृशेत् |
अङ्गुष्ठेन भवेत् तस्य निष्फलस्तस्य तज्जपः || ४० ||
मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना |
देवीं विचिन्तयन् जप्यं कुर्याद् वामेन न स्पृशेत् || ४१ ||
स्फटिकेन्द्राक्षरुद्राक्षैः पुत्रञ्जीवसमुद्भवैः |
सुवर्णमणिभिः सम्यक् प्रवालैरथवाब्जजैः || ४२ ||
अक्षमाला तु कर्तव्या देवीप्रीतिकरी परा |
जपेदुपांशु सततं कुशग्रन्थ्याथ पाणिना || ४३ ||
मालाबीजेषु सर्वेषु रुद्राक्षो मत्प्रियाप्रियः |
रुद्रप्रीतिकरी यस्मात् तेन रुद्राक्षरोचनी || ४४ ||
प्रवालैरथवा कुर्यादष्टाविंशतिबीजकैः |
पञ्चपञ्चाशता वापि न न्यूनैरधिकैश्च वा || ४५ ||
रुद्राक्षर्यदि जप्येत इन्द्राक्षैः फटिकैस्तथा |
नान्यं मध्ये प्रयोक्तव्यं पुत्रञ्जीवादिकं च यत् || ४६ ||
यद्यन्यत् तु प्रयुज्येत मालायां जपकर्मणि |
तस्य कामं च मोक्षं च ददाति न प्रियङ्करी || ४७ ||
मिश्रीभावं ततो याति चाण्डालैः पापकर्मभिः |
जन्मान्तरे जायते स वेदवेदाङ्गपारगः || ४८ ||
एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसम्भवः |
आद्यं स्थूलं ततस्तस्माद् न्यूनं न्यूनतरं तथा || ४९ ||
विन्यसेत् क्रतस्तस्मात् सर्पाकारा हि सा यतः |
ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं यथाश्तितम् || ५० ||
अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् |
विरावृत्याथ मध्येन चार्धवृत्यान्तदेशतः || ५१ ||
ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसंज्ञकः |
अत्मना योजयेन्मालां नामन्त्रो योजयेन्नरः || ५२ ||
दृढं सूत्रं नियुञ्जीत जपे त्रुट्यति नो यथा |
यथा हस्तान्न च्यवेत जपतः स्रक् तमाचरेत् || ५३ ||
हस्तच्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् |
एवं यः कुरुते मालां जपं च जपकोविदः || ५४ ||
स प्राप्नोतीप्सितं कामं हीने स्यात् तु विपर्ययः |
अन्यत्रापि जपेन्मालां जप्यं देवमनोहरम् || ५५ ||
तादृशः साधकः कुर्यान्नान्यथा तु कदाचन |
यथाशक्ति जपं कुर्यात् सङ्ख्ययैव प्रयत्नतः || ५६ ||
असङ्ख्यातं च यज्जप्तं तस्य तन्निष्फलं भवेत् |
जप्त्वा मालां शिरोदेशे प्रांशुस्थानेऽथ वा न्यसेत् || ५७ ||
स्तुतिपाठं ततः कुर्यादिष्टं कामं निवेद्य च |
स्तुतिश्चापि महामन्त्रं साधनं सर्वकर्मणाम् || ५८ ||
वक्ष्ये युवां महाभागौ सर्वसिद्धिप्रदायकम् |
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके || ५९ ||
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते |
सप्तधावर्तनं कृत्वा स्तुतिमेनां च साधकः || ६० ||
पञ्चप्रणामान् कृत्वाथ ऐं ह्रीं श्रीमितिमन्त्रकैः |
अन्येषां पुरतश्चैव अधिकं वा यथेच्छया || ६१ ||
योनिमुद्रां ततः पश्चाद् दर्शयित्वा विसर्जयेत् |
द्वौ पाणी प्रसृतीकृत्य कृत्वा चोत्तानमञ्जलिम् || ६२ ||
अङ्गुष्ठाग्रद्वयं न्यस्य कनिष्ठाग्रद्वयोस्ततः |
अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् || ६३ ||
दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च |
अनामिकायाः पृष्ठे तु मध्यमे द्वे निवेशयेत् || ६४ ||
द्वे तर्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत् |
योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता || ६५ ||
त्रिवारं दर्शयेत् तां तु मूलमन्त्रेण साधकः |
तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत् ततः || ६६ ||
ऐशान्यामग्रहस्तेन द्वारपद्मविवर्जितम् |
तत्र नत्वा रक्तचण्डां ह्रीं श्रीं मन्त्रेण साधकः || ६७ ||
रक्तचण्डायै नम इति निर्माल्यं तत्र निक्षिपेत् |
उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् || ६८ ||
एवं यः पूजयेद् देवीं विधानेन शिवां नरः |
सोऽचिरेण लभेत्कामान् सर्वानेव मनोगतान् || ६९ ||
अर्धलक्षजपं जप्त्वा प्रथमं चैव साधकः |
पुरश्चरेद् विशेषेण नानानैवेद्यवेदनैः || ७० ||
कुण्डं मण्डलवत् कृत्वा चाष्टम्यां समुपोषितः |
नवम्यां शुक्लपक्षस्य रजोभिः पञ्चभिर्नरः || ७१ ||
पूर्ववन्मण्डलं कृत्वा गुरुपित्रोश्च सन्निधौ |
अनेनैव विधानेन पूजयित्वा तु चण्डिकाम् || ७२ ||
सहितैर्बिल्वपत्रैश्च अष्टोत्तरशतत्रयम् |
तिलैर्होमं चरेत् तस्यां सहस्रत्रितयं जपेत् || ७३ ||
नैवेद्यं गन्धपुष्पे च वस्त्रं दद्याच्च अत्प्रियम् |
पूर्वोक्तं चान्यदप्यस्यै प्रदद्यात् पायसं तथा || ७४ ||
पूजावसाने देयं स्यात् तज्जातीयं बलित्रयम् |
सिन्दूरं स्वर्णरत्नानि अद्यत् स्त्रीणां विभूषणम् || ७७ ||
निवेदयेद् यथाशक्त्या पुष्पमाल्यं च भूरिशः |
महाशक्तुं सशाल्यन्नं गव्यव्यञ्जनसंयुतम् || ७६ ||
देव्यै नवम्यां सम्पूर्णं बलिं दद्याद् घृतादिभिः |
दक्षिणां गुरवे दद्यात् सुवर्णं गां तथा तिलम् || ७७ ||
अभिशप्तमपुत्रं च सावद्यं कितव तथा |
क्रियाहीनमकल्पज्ञं वामनं गुरुनिन्दकम् || ७८ ||
सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्जयेत् |
गुरुर्मन्त्रस्य मूलं स्यान्मूलशुद्धौ तदुद्गतम् || ७९ ||
सफलं जायते यस्मान्मन्त्रं यत्नात्परीक्षयेत् |
शाठ्यात् क्रोधात्तु मोहाद्वा आसन्मत्या गुरोर्मुखात् || ८० ||
कल्पेषु दृष्ट्वा वा मन्त्रं गृह्णीयाच्छद्मनाऽथ वा |
स मन्त्रस्तेय पापेन तामिस्रे नरके नरः || ८१ ||
मन्वन्तरत्रयं स्थित्वा पापयोनिषु जायते |
शठे क्रूरे च मूर्खे च छद्मकारिण्यभक्तिके || ८२ ||
मन्त्रं न दूषिते दद्यात् सुबीज विपिने तथा |
लक्षेण साधयेत कामं पुरश्चरणपूर्वकम् || ८३ ||
पापक्षयो भवेद् यस्मात् पुरश्चरणकर्मणा |
लक्षद्वयेन मन्त्रस्य जपेन नरसत्तमौ || ८४ ||
त्रिसन्ध्यासु प्रतिदिनं बीजसंघातकेन च |
कविर्वाग्मी पण्डितश्च यशस्वी च प्रजायते || ८५ ||
साधकः साधकश्रेष्ठ पूजास्थानं ततः शृणु |
यत्र यत्र नरः पूजां निर्जने कुरुते च यः || ८६ ||
तस्यादत्ते स्वयं देवी पत्रं पुष्पं फलं जलम् |
शिला प्रशस्ता पूजायां स्थण्डिलं निर्जनं तथा || ८७ ||
जपश्चोपांशु सर्वेषामुत्तमः परिकीर्तितः |
अशुचिर्न महामायां पूजयेत् तु कदाचन || ८८ ||
अवश्यं तु स्मरेन्मन्त्रं योऽतिभक्तियुतो नरः |
दन्तरक्ते समुत्पन्ने स्मरणं च न विद्यते || ८९ ||
सर्वेषामेव मन्त्राणां स्मरणन्नरकं व्रजेत् |
जानूर्ध्वे क्षतजे जाते नित्यं कर्म न चाचरेत् || ९० ||
नमित्तिकं च तदधः स्रवद्रक्तो न चाचरेत् |
सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने || ९१ ||
धूमोद्गारे तथा वान्ते नित्यकर्माणि संत्यजेत् |
द्रव्ये भुक्ते त्वजीर्णे च न वै भुक्त्वा च किञ्चन || ९२ ||
कर्म कुर्यान्नरो नित्यं सूतके मृतके तथा |
पत्रं पुष्पं च ताम्बूलं भेषजत्वेन कल्पितम् || ९३ ||
कणादिपिप्पल्यन्तं च फलं भुक्त्वा न चाचरेत् |
जलस्यापि नरश्रेष्ठ भोजनाद् भेषजादृते || ९४ ||
नित्यक्रिया निवर्तेत सह नैमित्तिकैः सदा |
जलौकां गूढपादं च कृमिगण्डूपदादिकम् || ९५ ||
कामाद्धस्तेन संस्पृश्य नित्यकर्माणि संत्यजेत् |
विशेषतः शिवापूजां प्रमीतपितृको नरः || ९६ ||
यावद् वत्सरपर्यन्तं मनसापि न आचरेत् |
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् || ९७ ||
आर्त्विज्यं ब्रह्मयज्ञं च श्राद्धं देवयजं च यत् |
गुरुमाक्षिप्य विप्रं च प्रहृत्यैव च पाणिना || ९८ ||
न कुर्यान्नित्यकर्माणि रेतःपाते च भैरव |
आसनं चार्घ्यपात्रं च भग्नमासादयेन्नतु || ९९ ||
ऊषरे कृमिसंयुक्ते स्थाने मृष्टेऽपि नार्चयेत् |
नीचैरासनमासाद्य शुचिः प्रयतमानसः || १०० ||
अर्चयेच्चण्डिकां देवीं देवमन्यं च भैरव |
दिग्विभागे तु कौबेरी दिक् छिवा प्रतिदायिनी || १०१ ||
तस्मात् तन्म्ख आसीनः पूजयेच्चण्डिकां सदा |
पुष्पं च कृमिसंमिश्रं विशीर्णं भग्नमृद्गते || १०२ ||
सकेश मूषिकोद्धूतं यत्नेन परिवर्जयेत् |
याचितं परकीयं च तथा पर्युषितं च यत् |
अन्त्यसृष्टं पदा स्पृष्टं यत्नेन परिवर्जयेत् || १०३ ||
इदं शिवायाः परमं मनोहरं
करोति योऽनेन तदीयपूजनम् |
स वाञ्छितार्थं समवाप्य चण्डिका-
गृहं प्रयाता नचिरेण भैरव || १०४ ||
इति श्रीकालिकापुराणे और्वसगरसंवादे महामायाकल्पः
अञ्चपञ्चाशोऽध्यायः || ५५ ||
Kapitel 56
षट्पञ्चाशोऽध्यायः
श्रीभगवानुवाच
अस्य मन्त्रस्य कवचं शृणु वेतालभैरव |
वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः || १ ||
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् |
वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः || २ ||
चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः |
शक्तिः स्वयं पकारश्च महामाया जगन्मयी || ३ ||
यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वतो |
योगिनीपूर्ववर्णस्य शैलपुत्री प्रकीर्तिता || ४ ||
द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता |
चन्द्रघण्टा तृतीयस्य कुष्माण्डी तत् परस्य च || ५ ||
स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् |
कालरात्रिः सप्तमस्य महादेवीति संस्थिता || ६ ||
प्रथमं वर्णकवचं योगिनीकवचं तथा |
देवौघकवचं पश्चाद् देवीदिक्कवचं तथा || ७ ||
ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च |
कवचं तु ततः पश्चात् षड्वर्णं कवचं तथा || ८ ||
अभेद्यकवचं चेति सर्वत्राणपरायणम् |
इमानि कवचान्यष्टौ यो जानाति नरोत्तमः || ९ ||
सोऽहमेव महादेवी देवीरूपश्च शक्तिमान् |
अस्य वैष्णवीतन्त्रकवचस्य आरद-ऋषिअनुष्.उप्छन्दः || १० ||
कात्यायनी देवता सर्वकामार्थसाधने विनियोगः |
अः पातु पूर्वकाष्ठायामाग्नेययां पातु कः सदा || ११ ||
पातु चो यमकाष्ठायां दो नै-ऋत्यां च सर्वदा |
मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता || १२ ||
यः पातु मां चोत्तरस्यामैशान्यां अस्तथावतु |
मूध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः || १३ ||
मां वामबाहौ चः पातु हृदि टो मां सदावतु |
तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु || १४ ||
यः पातु दक्षिणे पादे षो मां वामपादे तथा |
शैलपुत्री तु पूर्वस्यामाग्नेययां पातु चण्डिका || १५ ||
चन्द्रघण्टा पातु याम्यां अमभीतिविवर्धिनी |
नैर्-ऋत्ये त्वथ कूष्माण्डी पातु मां जगतां प्रसूः || १६ ||
स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि |
कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा || १७ ||
कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् |
महागौरी तथैशान्यां सततं पातु पावनी || १८ ||
नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः |
ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः || १९ ||
नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः |
गजवक्त्रः स्तनयुग्मे पातु नित्यं हरात्मजः || २० ||
वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः |
महामाया स्वयं नाभौ मां पातु परमेश्वरी || २१ ||
महालक्ष्मीः पातु गुह्ये जानुनोश्च सरस्वती |
महामाया पूर्वभागे नित्यं रक्षतु मां शुभा || २२ ||
अग्निज्वाला तथाग्नेययां पायान्नित्यं वरासिनी |
रुद्राणी पातु मां याम्यां नैर्-ऋत्यां चण्डनायिका || २३ ||
उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी |
प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी || २४ ||
ईश्वरी च तथैशान्यां पातु नित्यं सनातनी |
ऊर्ध्वं पातु महामाया पात्वधः परमेश्वरी || २५ ||
अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा |
ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना || २६ ||
माहेश्वरी वामपार्श्वे नित्यं पायाद् वृषध्वजा |
कौमारी पर्वते पातु वाराही सलिले च माम् || २७ ||
नारसिंही दंष्टिभये पातु मां विपिनेषु च |
ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले || २८ ||
सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः |
देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः || २९ ||
हा पातु मां तथैवोर्वोर्माया रक्षतु जङ्घयोः |
सर्वैन्द्रियाणि यः पातु रोमकूपेषु अर्वदा || ३० ||
त्वचि मां वै सदा पातु मां शम्भुः पातु सर्वदा |
नखदन्तकरोष्ठादौ रां मां पातु सदैव हि || ३१ ||
देवादिः पातु मां वस्तौ देवान्तः स्तनकक्षयोः |
एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः || ३२ ||
आज्ञाचक्रे सुषम्नायां षट्चक्रे हृदि सन्धिषु |
आदिषोडशचक्रे च ललाटाकाश एव च || ३३ ||
वैष्णवी तन्त्रमन्त्रो मां नित्यं रक्षंश्च तिष्ठतु |
अर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च || ३४ || ३४ ||
रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु |
द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः || ३५ ||
रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः |
षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा || ३६ ||
नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी |
सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी || ३७ ||
श्रोत्रयोर्हूं फडित्येवं नित्यं रक्षतु कालिका |
नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु अक्षितुम् || ३८ ||
ओं ऐं ह्रीं ह्रौ नासिकायां रक्षन्ती चास्तु चण्डिका |
ओं ह्रीं हूं मां सदा तारा जिह्वामूले तु तिष्ठतु || ३९ ||
हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् |
ओं क्षौं फट् च महामाया पातु मां सर्वतः सदा || ४० ||
ओं युं सः प्राणान् कौशिकी मां प्राणान् रक्षतु रक्षिका |
ओं ह्रीं हूं सौं भर्गदैता देहशून्येषु पातु माम् || ४१ ||
ओं अमः सदा शैलपुत्री सर्वान् रोगान् प्रमृज्यताम् |
ओं ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् || ४२ ||
शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु |
ओं हां हीं सश्चण्डघण्टा कर्णच्छिद्रेषु पातु माम् || ४३ ||
ओं क्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु |
ओं आं हूं फडुग्रचण्डा रिपून् विघ्नान् वमर्दताम् || ४४ ||
ओं पं पातु नारसिंही मां क्रव्यादेभ्यस्रयास्त्रतः |
ओं श्रीं ह्रीं ह्रां ह्रं कालरात्रिः खड्गाद्रक्षतु मां सदा || ४५ ||
ओ अं शूलात् पातु नित्यं वैष्णवी जगदीश्वरी |
ओं कं ब्रह्माणी पातु चक्रात् (ओं) चं रुद्राणी तु शक्तितः || ४५ ||
ओं टं कौमारी पातु वज्रात् ओं तं वाराही तु काण्डतः |
ओं पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः || ४६ ||
शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः |
चण्डिकां मां सदा पातु य सं देव्यै नमो नमः |
विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः || ४७ ||
ओं नमो महामायायै ओं वैष्णव्यै नमो नमः |
रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरि || ४८ ||
आधारे वायुमार्गे हृदि कमलदले चन्द्रवत् स्मेरसूर्ये |
वस्तौ वह्नौ समिद्धे विशतु वरदया मन्त्रमष्टाक्षरन्तत् |
यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं |
तं मां पातु प्रधानं निखिलमतिशयं पद्मगर्भाभबीजम् || ४९ ||
आद्याः शेषाः स्वरौघैर्मायवलवरैरस्वरेणापियुक्तैः
सानुस्वाराविसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् |
अन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे
तन्मां पायात्पवित्रं परमपरमजं हूतलव्योमभागे || ५० ||
अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ
तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव |
अष्टावष्टाष्टसंख्या जगति रतिकलाः क्षिप्रकाष्ठाङ्गयोगा
मययष्टावक्षराणि क्षरतु न हि गणो यद्धृदो यस्त्वमूषाम् || ५१ ||
इयि तत्कवचं प्रोक्तं धर्मकामार्थसाधनम् |
इदं रहस्य परममिदं
सर्वार्थसाधकम् || ५२ ||
यः सकृच्छृणुयादेतत् कवचं मयकोदितम् |
स सर्वांल्लभते कामान् परत्र शिवरूपताम् || ५३ ||
सकृद् यस्तु पठेदेतत् कवचं मयकोदितम् |
स सर्वयज्ञस्य फलं लभते नात्र संशयः || ५४ ||
सङ्ग्रामेषु जयेच्छत्रुं मातङ्गानिव केशरी |
दहेत् तृणं यथावह्निस्तथा शत्रुं दहेत् सदा || ५५ ||
नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै |
न तस्य जायते व्याधिर्न च दुःखं कदाचन || ५६ ||
गुटिकाञ्जनपातालपादलेपरसाञ्जनम् |
उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः || ५७ ||
वायोरिव गतिस्तस्य भवेदन्यैरवारिता |
दीर्घायुः काम्भोगी च धनवानभिजायते || ५८ ||
अष्टम्यां संयतो भूत्वा नवम्यां विधिवच्छिवाम् |
पूजयित्वा विधानेन विचिन्त्य मनमा शिवाम् || ५९ ||
यो न्यसेत् कवचं देहे तस्य पुण्यफल शृणु |
जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा || ६० ||
धनरत्नौघसम्पूर्णो विद्यावान् स च जायते |
नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च || ६१ ||
न शोषयति तं वायुः रव्यात् तं न हिनस्ति च |
शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः || ६२ ||
न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः |
वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः || ६३ ||
सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः |
नित्यं पठति यो भक्त्या कवचं हरिनिर्मितम् || ६४ ||
सोऽहमेव महादेवो महामाया च मातृका |
धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः || ६५ ||
अन्यस्य वरदः सोऽर्थैर्नित्यं भवति पण्डितः |
कवित्वं सत्यवादित्वं सततं तस्य जायते || ६६ ||
वदेच्च्लोकसहस्राणि भवेच्च्रुतिधरस्तथा |
लिखितं यस्य गेहे तु कवचं भैरव स्थितम् || ६७ ||
न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् |
ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः || ६८ ||
यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः |
सेतुर्देवः शक्तिबीजं पञ्चमोहाय ते नमः || ६९ ||
वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् |
सेतुर्देवोऽठ वैष्णव्यै षडक्षरमिदं स्मृतम् || ७० ||
एतद् द्वयं तु जिह्वाग्रे सततं यस्य वर्तते |
तस्य देवी महामाया काये तिष्ठति वै सदा || ७१ ||
मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः |
षरत्यनोङ्कृतः पूर्वं परस्ताच्च विशीर्यते || ७२ ||
नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः |
द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि || ७३ ||
अकार चात्युकारं च मकारं च प्रजापतिः |
वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा || ७४ ||
स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः |
प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् || ७५ ||
चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः |
स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते || ७६ ||
निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति |
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् || ७७ ||
तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः |
पार्श्वयोः सेतुमादाय जतकर्मसमारभेत् || ७८ ||
शूद्राणामादिसेतुर्वा द्विःसेतुर्वा यथेच्छतः |
द्विःसेतवः समाख्याताः सर्वदैव द्विजातयः || ७९ ||
और्व उवाच
एतत् ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् |
अभेद्यं कवचं तत् तु कवचाष्टकमुत्तमम् || ८० ||
महामायामन्त्रकल्पं कवचं अन्त्रसंयुतम् |
षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् || ८१ ||
एतत् त्वं नृपषार्दूल नित्यभक्तियुतः पठन् |
जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि || ८२ ||
इति श्रीकालिकापुराणे महामायामन्त्रकल्पे (कवचं)
नामसट्पञ्चाशोऽध्यायः || ५६ ||
Kapitel 57
सप्तपञ्चाशोऽध्यायः
मार्कण्डेय उवाच
श्रुत्वेमं सगरो राजा संवादं भैरवेण वै |
वेतालेनापि भर्गस्य पुनरौर्वमपृच्छत || १ ||
सगर उवाच
मन्त्रं कलेवरगतं आङ्गं प्रोक्तं त्वया द्विज |
अङ्गमन्त्राणि मे देव्याः कथ्यन्तां भो द्विजोत्तम || २ ||
तथा मन्त्राणि सर्वाणि पूजास्थानानि सर्वशः |
तथैवोत्तरमन्त्राणि कवचानि पृथक् पृथक् || ३ ||
कामाख्यायाश्च माहात्म्यं सरहस्यं समन्त्रकम् |
यथा शशंस भगवान् महादेव उमापतिः || ४ ||
वेतालभैरवाभ्यां तत् समाचक्ष्व सविस्तरात् |
शृण्वतो न हि मे तृप्तिर्जायते महदद्भुतम् || ५ ||
भवता कथ्यमानं हि परं कौतूहलं मम |
और्व उवाच
शृणु त्वं राजशार्दूल यत्पुत्राभ्यामुमापतिः || ६ ||
उवाच महदाख्यानं तन्मे निगदतोऽधुना |
एतद्रहस्यं परमं पवित्रं पापनाशनम् || ७ ||
अरं स्वस्त्ययनं पुंसां गर्भे पुंसवनं स्मृतम् |
कल्याणकारकं भद्रं चतुर्वर्गफलप्रदम् || ८ ||
शठाय चलचित्ताय नास्तिकायाजितात्मने |
देवद्विजगुरूणां च मिथ्यानिर्बन्धकारिणे || ९ ||
न पापायाभिशस्ताय खञ्जकाणादिरोगिणे |
न कथ्यं न च वा देयं श्रद्धाविरहिताय च || १० ||
महामायामन्त्रकल्पं प्रोक्त्वा ताभ्यामुमापतिः |
वेतालभैरवाभ्यां तु पुनरेवाभ्यभाषत || ११ ||
भगवानुवाच
अङ्गमन्त्रं प्रवक्ष्यामि प्रोक्तवांस्तन्त्रमुत्तमम् |
तदेव प्रथमं विद्धि सर्वपूजासु सङ्गतम् || १२ ||
आचान्तः शुचितां प्राप्तः सुस्नातो देवपूजने |
पूजावेद्या बहिःस्थित्वा चतुर्हस्तान्तरे धिया || १३ ||
गृहे वां द्वारदेशस्थः प्रणम्य शिरसा गुरुम् |
प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा || १४ ||
यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा |
प्रायश्चित्तैर्नापनुन्नं तच्च पापं स्मरेद्धिया || १५ ||
तत्पापस्यापनोदाय मन्त्रद्वयमुदीरयेत् |
देवि त्वं प्राकृतं चित्तं पापाक्रान्तमभून्मम || १६ ||
तन्निःसारय चित्तान्मे पापं हूं फट् च ते नमः |
सूर्यः सोमो यमः कालो महाभूतानि पञ्च वै || १७ ||
एते शुभाशुभस्येह कर्मणो नव साक्षिणः |
ततः पुनर्हूं फडिति पार्श्वमूर्ध्वमधस्तथा || १८ ||
आत्मानं क्रोधदृष्ट्याथ निरीक्ष्य सुमना भवेत् |
एवं कृते प्रथमतः पापोत्सारणकर्मणि || १९ ||
यत् स्याद् दृढतरं पापं तद् दूरे चावतिष्ठते |
अतीते पूजने स्थानं स्वं प्रयाति पुनश्च यत् || २० ||
यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति |
ओं अः फडितिमन्त्रेण पूजावेदीं ततो विशेत् || २१ ||
पूजने त्यक्तपापस्य काममिष्टं क्षणाद् भवेत् |
नाराचमुद्रया दृष्ट्वा समया अम्प्रलोकयेत् || २२ ||
पुष्पनैवेद्यगन्धादि ह्रीं हूं फडिति मन्त्रकैः |
यदात्मनानवज्ञातं सम्यक् पुष्पादिदूषणम् || २३ ||
अस्पृश्यस्पर्शनं वापि यदन्यायार्जितं च वा |
तथा निर्माल्यसंसृष्टं कीटाद्यारोहणं च यत् || २४ ||
तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् |
ततो रमितिमन्त्रेण शिखां दीपस्य संस्पृशेत् || २५ ||
स तस्य सुभगो दीपो भवेत् स्पर्शनमात्रतः |
पतङ्गकीटकेशादि-दाहात् क्रव्यादसंहतः || २६ ||
वसामज्जास्थिसम्पूतिर्यज्ञादावुअयोजनम् |
अज्ञातरूपं तत्सर्वं दोषं स्पर्शाद् विनाशयेत् || २७ ||
नारसिंहेन मन्त्रेण देवतीर्थेन संस्पृशेत् |
पानीयं घटमध्यस्थं वीक्सन्नभ्युक्ष्य याजकः || २८ ||
वामेन पाणिना धृत्वा वामपार्श्वे स्थितं तदा |
पात्रमाधारमन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् || २९ ||
यज्ञदानादपेयादि संसृष्टिरिह सङ्गता |
यदन्यद् दूषणं पात्रे तोये वा ज्ञानतो भवेत् || ३० ||
जलाशयं शवस्पर्शाज्जलं स्ननाच्च सङ्गतम् |
दूषणानि विनश्यन्ति तानि वै देवपूजने || ३१ ||
प्रजापतिसुतो हान्तप्रान्तः स्वरसमन्वितः |
चन्द्रार्धबिन्दुसहितो मन्त्रोऽयं नारसिंहकः || ३२ ||
स्वसंज्ञाद्यक्षरं बिन्दुचन्द्रार्धपरियोजितम् |
आधारमन्त्रं जानीयात् साधकः कार्यसिद्धये || ३३ ||
तत आधारमन्त्रेण पाणिभ्यामासनं स्वकम् |
आदाय विनिधायाशु पुनः संस्पृश्य पाणिना || ३४ ||
आत्ममन्त्रेण्पविशेत् तदा तस्मिन् वरासने |
दुःशिल्पिरचितत्वादि यद्वान्यासनऊषणम् || ३५ ||
अज्ञातं विलयं याति उपवेशात् समन्त्रकात् |
आहूय स्वाक्षरं पूर्वं सोमसामिसमन्वितम् || ३६ ||
सबिन्दुकं विजानीयादात्ममन्त्रं तु साधकः |
ततस्तु मातृकान्यासं नादबिन्दुसमन्वितम् || ३७ ||
कुर्यात् तु मातृकामन्त्रैः स्वशरीरे विचक्षणः |
कल्पेषु च यदज्ञातं मन्त्रोच्चारणकर्मणि || ३८ ||
यद्दुष्टं वा तथा स्पृष्टं माताभ्रष्टादिदूषणम् |
तन्न्यस्ता मातृकामन्त्रा नाशयन्ति सदैव हि || ३९ ||
व्यञ्जनानि च सर्वाणि तथा विष्ण्वादयः स्वराः |
सर्वे ते मातृकामन्त्राश्चन्द्रबिन्दुविभूषणा || ४० ||
सर्वे युगान्तवन्द्येषु न्यस्तेषु न्यूनपूरणम् |
मन्त्रे कल्पे च कुर्वन्ति विन्यस्ता मातृकाः स्वयम् || ४१ ||
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते |
प्लुतस्त्रिमात्रो विज्ञेयो वर्णा एते व्यवस्थिताः || ४२ ||
सर्वेषामेव वर्णानां मात्रादेव्यस्तु मातृकाः |
शिवदूतीप्रभृतयस्तन्न्यासास्तत्तनुस्थिताः || ४३ ||
पूरयन्ति च तान् न्यूनांश्चतुर्वर्ग तथाचिरात् |
ददत्येव सदा रक्षां कुर्वन्ति सुरपूजने || ४४ ||
चतुर्वर्गप्रदश्चायं सर्वकामफलप्रदः |
सर्वदामातृकान्यासस्तुष्टिपुष्टिप्रदायकः || ४५ ||
यः कुर्याद् मातृकान्यासं विनापि सुरपूजनात् |
तस्माद् बिभेति सततं भूतग्रामश्चतुर्विधः || ४६ ||
तं द्रष्टुमपि देवाश्च स्पृहयन्ति महौजसम् |
स सर्वं च वशं कुर्याद् न च याति पराभवम् || ४७ ||
कुसुमं विष्णुमन्त्रेण अङ्गुल्यग्रेण साधकः |
विमर्दनार्थं गृह्णीयात करशोधनकर्मणि || ४८ ||
उपान्तः सामि चन्द्रेण रञ्जितः शून्यसंयुतः |
रुद्रान्तोपरिसंसृष्टो मन्त्रोऽयं वैष्णवो मतः || ४९ ||
प्रासादेन तु मन्त्रेण अङ्गुल्यग्रेण साधकः |
गृहीत्वा च ततः कुर्यात् कराभ्यां पुष्पमर्दनम् || ५० ||
इर्मथेत् कामबीजेन जिघ्रेद् ब्राह्मेण तत् पुनः |
प्रासादेन परित्यागो दिश्यैशान्यां विशेषतः || ५१ ||
एवं कृते तु करयोर्विशुद्धिरतुला भवेत् |
जलौकागूढपादादिस्पर्शाच्छुद्दिर्विशोधनात् || ५२ ||
दुर्गन्ध्युच्छिष्टसंस्पर्शाद् दूषणं करयोस्तु यत् |
अज्ञातरूपं तत्सर्वं नाशयेत् सुविधानतः || ५३ ||
अङ्गुल्यग्राणि शुद्धानि पुष्पाणां ग्रहणाद् भवेत् |
तलद्वयं मर्दनात् तु विशुद्धमभिजायते || ५४ ||
निर्मञ्छनात् पाणिपृष्ठं घ्राणान्नासाग्रमुत्तमम् |
तीर्थानि च समायान्ति नासिकायां करं प्रति || ५५ ||
तस्माद् यत्नेन कार्याणि कर्माण्येतानि भैरव |
प्रान्तादिर्वासुदेवेन वर्णेनापि च संहितः || ५६ ||
शम्भुचूडाबिन्दुयुक्तः प्रासाद च स उच्यते |
कामबीजं तु विज्ञेयं वासुदेवेन्दुविन्दुभिः || ५७ ||
व्यञ्जनं चाद्यदन्तं च प्रान्तदन्त्या तु पूर्वकम् |
आद्यदन्त्यद्वयं पश्चाद् व्यञ्जनं प्रणवोत्तरम् || ५८ ||
ब्रह्मबीजमिदं प्रोक्तं सर्वपापप्रणाशनम् |
प्रणवं दीर्घमुच्चार्य प्रथमं मुखशुद्धये || ५९ ||
वासुदेवस्य बीजेन प्राणायामं समाचरेत् |
यस्य देवस्य यद्रूपं तथा भूषणवाहनम् || ६० ||
तदेव पूजने तस्य चिन्तयेत् पूरकादिभिः |
वैष्णवीतन्त्रमन्त्रस्य कण्ठाद्यं यत्पुरःसरम् || ६१ ||
तद् बीजं वासुदेवस्य पूर्णचन्द्रनिभं सदा |
गङ्गावतारबीजेन प्रथमं धेनुमुद्रया || ६२ ||
अमृतीकरणं कुर्यादर्घपात्राहिते जले |
शशिखण्डयुतः कण्ठ्यः पञ्चमीबलबीजकः || ६३ ||
गङ्गावतारमन्त्रोऽयं सर्वपापप्रणाशकः |
मात्राद्वययुतो विष्णुर्बलबीजमुदाहृतम् || ६४ ||
अमृतीकरणे वृत्ते तोयं यद् दीयतेऽमृतम् |
भूत्वा प्रयाति देवस्य प्रीतये सुरपूजने || ६५ ||
गङ्गापि स्वयमायाति पूजापात्रजलं प्रति |
अमृतीकरणं कुर्याद् धर्मकामार्थसिद्धये || ६६ ||
स्वस्तिकं गोमुखं पद्ममर्धस्वस्तिकमेव च |
पर्यङ्कमासनं शस्तुमभीष्टसुरपूजने || ६७ ||
पादयन्त्रमिदं प्रोक्तं सर्वमन्त्रोत्तमोत्तमम् |
तद् गृह्णीयाद् वराहस्य बीजेन प्रथमं बुधः || ६८ ||
मायादिरग्निबीजस्य चतुर्थः समव्याप्तिकः |
सष्ठस्वरोपरिचरो वाराहं बीजमुच्यते || ६९ ||
वाराहबीजसंशुद्धं मन्त्रपादद्वये कृतम् |
पश्यन्नभीष्टदेवं तु पाददोषं न पश्यति || ७० ||
न युक्तमन्यथा पाददर्शनं सुरपूजने |
अन्त्रेण लभतेऽभीष्टांस्तस्मान्मन्त्रपरो भवेत् || ७१ ||
पाणिकच्छपिकां कुर्यात् कूर्ममन्त्रेण साधकः |
तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः || ७२ ||
पूजिते तेन पुष्पेण देवत्वं स्वस्य जायते |
द्वितीयं वैष्णवीतन्त्रं बीजं बिन्द्विन्दुसंयुतम् || ७३ ||
षष्ठस्वरोपरिचरं कूर्मबीजं प्रकीर्तितम् |
दहनप्लवनस्यादौ रन्ध्रस्य दशमस्य तु || ७४ ||
भेदनं साधकः कुर्यान्मन्त्रेण प्रणवेन तु |
बीजेन वासुदेवस्य आकाशे विनिधापयेत् || ७५ ||
प्राणेन सहितं बीजं ततपूर्वं प्रतिपादितम् |
अज्ञाता प्रयतानां तु मण्डलस्थानमार्जनात् || ७६ ||
द्रव्याणां विप्रकारः स्यात् संसर्गाणां तथैव च |
मधुकैटभयोर्मेदःसंघातैर्दृढतां गता || ७७ ||
मेदिनी सर्वदा शुद्धा सुरपूजासु सर्वतः |
अद्यापि सर्वे त्रिदशा न स्पृशन्ति पदा क्षितिम् || ७८ ||
न च स्वीयतनुच्छायां योजयन्ति च भूतले |
तस्य दोषस्य मोक्षार्थं मन्त्रराजं लिखेत् क्षितौ || ७९ ||
प्रोक्षणाद् वीक्षणाद् वापि शुद्धा भवति मेदिनी |
वीक्षणं धर्मबीजेन स्थण्डिलस्य समाचरेत् || ८० ||
दान्तो बलेन संयुक्तश्चूडाविन्दुसमन्वितः |
धर्मबीजमिति प्रोक्तं धर्मकामार्थसाधनम् || ८१ ||
आदानं धारणं चैव तथा संस्थानपूजने |
पूरणं संलिलेनैव निःक्षेपो गन्धपुष्पयोः || ८२ ||
मण्डलस्याथ विन्यासः पुनः पुष्पस्य संश्रयः |
अमृतीकरण पात्रप्रतिपतीरियं नरः || ८३ ||
आनिरुद्धेन चादाय अस्त्रमन्त्रेण धारणम् |
पात्रे तु मण्डलन्यासं वाग्बीजाग्रेण योजयेत् || ८४ ||
आनिरुद्धं भवेद्बीजमाद्यं बिन्दुद्वयोत्तरम् |
फडन्तेनानिरुद्धं तु अस्त्रमन्त्रं प्रकीर्तितम् || ८५ ||
शम्भुराद्यवलः प्रान्तः अम्पूर्णा सहिता इमे |
परतः परतः पूर्वं समाप्त्यन्ताः सबिन्दुकाः || ८६ ||
तृतीयं वाग्भवं बीजं सकलं निष्कलाह्वतम् |
स्वरश्चतुर्थः सकलः संसृष्टौ बिन्दुनेन्दुना || ८७ ||
वर्गाद्यादिर्द्वितीयं तु वाग्भवं बीजमुच्यते |
कामराजाह्वयं चैतद् धर्मकामार्थसाधनम् || ८८ ||
मनोभवस्य बीजं तु कुण्डलीशक्तिसंयुतम् |
वासुदेवेन सम्पृक्तमाद्यं वाग्भवमुच्यते || ८९ ||
इदं सारस्वतं नाम यदाद्यं वाग्भवं स्मृतम् |
एकैकं कामबीजादि त्रिभिस्तु त्रिपुरामहः || ९० ||
आद्यं तृतीयं सामीन्दुबिन्दुभ्यः समलंकृतम् |
मदनस्य तु मन्त्रोऽयं कामभोगफलप्रदः || ९१ ||
औदेतोरूपविन्यस्तं यन्त्रं भास्करसन्निभम् |
तद् वक्ष्ये कुण्डलीशक्तिमभेदात् तु निगद्यते || ९२ ||
भूतापसारणं कुर्यान्मन्त्रेणानेन याजकः |
यस्मिन् कृते स्थानभूता ऊरं यान्ति सुरार्चने || ९३ ||
स्थितेषु तत्र भूतेषु नैवेद्यमण्डलं तथा |
विलुम्पन्ति सदा लुब्धा न गृह्णन्ति च देवता || ९४ ||
तस्माद् यत्नेन कर्तव्यं भूतानामपसारणम् |
अस्त्रमन्त्रेण सहितं तस्य मन्त्रमिदं स्मृतम् || ९५ ||
अपसर्पन्तु ते भूता ये भूता भूमिपालकः |
भूतानामविरोधेन ऊजाकर्म करोम्यहम् || ९६ ||
अनेन स्थण्डिलाद् भूतानपसार्याथ साधकः |
ततो दिग्बन्धनं कृत्वा दिग्भ्यस्तानपसारयेत् || ९७ ||
विष्णुबीजं फडन्तं तु मन्त्रं दिग्बन्धने स्थितम् |
करेण होटिकापूर्वं वेष्टनं बन्धनं दिशः || ९८ ||
आत्मनः पूजनेनाथ कर्मारम्भाधिकारिता |
पूजितं चासनं योगपीठस्य सदृशं भवेत् || ९९ ||
स्वभावतः सदा शुद्धं पञ्चभूतात्मकं वपुः |
मलपूतिसमायुक्त श्लेषम्विण्मूत्रपिच्छिलम् || १०० ||
रेतोनिष्ठीवलालाभिः स्रवद्भिरपरिष्कृतम् |
बीजभूतानि चैतस्य महाभूतानि पञ्च वै || १०१ ||
तेषां तु सर्वभूतानां बीजानां देहसङ्गिनाम् |
वायुतेजःपृथिव्यम्भोवियतां शुद्धये क्रमात् || १०२ ||
शोषणं दहनं भस्मप्रोत्सादोऽमृतवर्षणम् |
आप्लावनं च कर्तव्यं चिन्तामात्रविशुद्धये || १०३ ||
अण्डस्य चिन्तनाद् भेदात्तन्मध्ये देवचिन्तनात् |
स्वकीयस्येष्टदेवस्य चिन्ता सर्वात्मना भवेत् || १०४ ||
सोऽहमित्यस्य सततं चिन्तनाद् देवरूपता |
आत्मनो जायते सम्यक् संस्कृतिः पुष्पदानतः || १०५ ||
अहं देवोऽथ नैवेद्यं पुष्पगन्धादिकं च यत् |
पूजोपकरणार्थं च देवत्वमिह जायते || १०६ ||
देवाधारो ह्यहं देवो देवं देवाय योजयेत् |
सर्वेषां देवतासृष्ट्या जायते शुद्धतापि च || १०७ ||
मनोजीवात्मनोः शुद्धिः प्राणायामेन जायते |
अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते || १०८ ||
गृहे चेत् पूजयेद् देवं तदा तस्य विलोकनम् |
कुर्यादादित्यबीजेन चतुःपार्श्वेष्वपि क्रमात् || १०९ ||
हान्तः समाप्तिसहितो वह्निबीजेन संहितः |
उपान्तः सचतुर्थस्तु स तथा सकलोऽग्रतः || ११० ||
आदित्यबीजं कथितं सर्वरोगविनाशनम् |
धर्मार्थकाममोक्षाणां कारणं तोषदायकम् || १११ ||
अशुद्धपक्षिसंयोग-पक्षिविष्ठाप्रसेचने |
मूषिकाणां तथा स्पर्शः कृमिकीटादिसङ्गमः || ११२ ||
एवमादीनि नश्यन्ति लोकनाद् गृहदूषणम् |
ततस्तु योगपीठस्य ध्यानं प्रथमतश्चरेत् || ११३ ||
ध्यानमात्रं योगपीठं प्रविशत्येव मण्डलम् |
योगपीठे स्मृते सर्व योगपीठमय समम् || ११४ ||
न योगपीठादधिकं विद्यते परमासनम् |
यस्य ध्यानाज्जगद् व्याप्तं सचराचरमानुषम् || ११५ ||
तच्चिन्तनस्य माहात्म्यं को वा वक्तुं समुत्सहेत् |
चिन्तामात्रेण मानुष्यं पश्य शोकविनाशनम् || ११६ ||
धारणाद् योगपीठं तु चतुर्वर्गफलप्रदम् |
शुद्धस्फटिकसंकाशं चतुष्कोणं चतुर्वृतिम् || ११७ ||
आधारशक्त्या विहितं प्रग्रहं सूर्यसन्निभम् |
आग्नेयादिषु कोणेषु चतुर्षु क्रमतः स्थितम् || ११८ ||
धर्मो ज्ञानं तथैश्वर्यं वैराग्यं क्रमतः सदा |
पूर्वादिदिक्षु चैतानि स्थितानि क्रमतो यथा || ११९ ||
अधर्मश्च तथाज्ञानमनैश्वर्यं ततः परम् |
अवैराग्यं परं तस्माद्धारणार्थं व्यवस्थितम् || १२० ||
तस्योपरि जलौघस्तु तस्मिन् ब्रह्माण्डमास्थितम् |
ब्रह्माण्डाभ्यन्तरे तोयं कूर्मस्तस्योपरि स्थितः || १२१ ||
कूर्मोपरि तथानन्तः पृथ्वी तस्योपरि स्थिता |
अनन्तगात्रसंयुक्तं नालं पातालगोचरम् || १२२ ||
पृथ्वीमध्ये स्थितं पद्मं दिक्पत्रं गिरिकेशरम् |
तस्याष्टदिक्षु दिक्पालाः स्वर्गो मध्ये व्यवस्थितः || १२३ ||
कर्णिकायां ब्रह्मलोको महर्लोकादयो ह्यधः |
स्वर्गे ज्योतीषिं देवाश्च चतुर्वेदास्तदन्तरे || १२४ ||
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
सदा स्थिताः पद्ममध्ये परं तत्त्वं तथैव च || १२५ ||
आत्मतत्त्वं तत्र संस्थमूर्ध्वच्छदनमूर्धतः |
अधोऽधश्छदनं तत्र केशराग्रे स्थितं पुनः || १२६ ||
सूर्याग्निचन्द्रमरुता मण्डलानि क्रमात् ततः |
शावासनं योगपीठे सुखासनमतः परे || १२७ ||
आराध्यासनमस्माच्च ततश्च विमलासनम् |
मध्ये विचिन्तयेत् सर्वं जगद्वै सचराचरम् || १२८ ||
ब्रह्मविष्णुशिवांश्चैव भागत्रयविनिश्चितान् |
आत्मानं चिन्तयेत् तत्र पूजने समुपस्थितम् || १२९ ||
मण्डलं योगपीठं तु पद्मं पद्मं तु चिन्तयेत् |
शावादीन्यासनानीह चत्वार्यपि विचिन्तयेत् || १३० ||
योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम् |
पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः || १३१ ||
ध्यानेन योगपीठस्य यथा यद्दीयते जलम् |
नैवेद्यपुष्पधूपादि तत् स्वयं चोपतिष्ठते || १३२ ||
सर्वे देवाः सगन्धर्वाः सचराचरगुह्यकाः |
चिन्तताः पूजिताश्च स्युर्योगपीठस्य पूजने || १३३ ||
अभीष्टदेवतापूजां विना यस्य विचिन्तनात् |
लभते वै चतुर्वर्गं तुष्टिः पुष्ठिश्च जायते || १३४ ||
आवाहनानन्तरतः पाणिभ्यामवतारयेत् |
प्रागुत्तानौ करौ कृत्वा ऊर्ध्वमुत्क्षिप्य सान्तरौ || १३५ ||
निरन्तरावधः कुर्यान्नामयन् पूजकस्तथा |
हेरम्बस्य तु बीजेन तस्मादवतरेति च || १३६ ||
आम्रेडितेन चाभीष्टदेवानां लम्बनाय वै |
नासिकावायुनिःसाराद्वियत्स्था देवना भवेत् || १३७ ||
एवं कृते मण्डले तु स्थितिस्तस्य प्रजायते |
स्वान्तः शुद्धांशुबिन्दुभ्यां हैरम्बं बीजमुच्यते || १३८ ||
नाशनं विघ्नबीजानां धर्मकामार्थसाधनम् |
गन्धपुष्पे तथा धूपदीपौ नैवेद्यमेव च || १३९ ||
यदन्यद् दीयते वस्त्रमलङ्कारादिकं च यत् |
तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने || १४० ||
उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत् |
वरुणस्य तु बीजेन तेषां प्रोक्षणमाचरेत् || १४१ ||
ष्टेन मूलमन्त्रेण तथोत्सर्गनिवेदने |
लपरश्चन्द्रबिन्दुभ्यां बीजं वारुणमुच्यते || १४२ ||
विलोकनं पूजनं च तथा दानं पृथक् पृथक् |
जपकर्मणि मालायाः प्रतिपत्तिरिदं त्रयम् || १४३ ||
इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् |
बीजं गाणपतं पूर्वमुच्चार्यं तदनन्तरम् || १४४ ||
अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन च |
जपान्ते शिरसि न्यासो मालायाः परिकीर्तितः || १४५ ||
स्रजमादाय पाणिभ्यां श्रीबीजेन तथार्चयेत् |
अन्त्यदन्त्यान्तमात्राभ्यां चादिवर्गतृतीयकौ || १४६ ||
परतः परतः पूर्वं श्रीबीजं बिन्दुनेन्दुना |
मालाया अवतारस्तु शिरसः क्रियते तदा || १४७ ||
तां समादाय पाणिभ्यां कुर्यात् सारस्वतेन वै |
श्रीबीजानामाद्यमाद्यं बिन्दुचन्द्रार्धसंयुतम् || १४८ ||
एतच्चतुष्टयं बीजं सारस्वतमुदीरितम् |
पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि || १४९ ||
प्रदक्षिणां प्रणामं च कुर्याद्धर्मार्थसाधकम् |
भूमिं वीक्ष्य तथाभ्युक्ष्य क्षितिबीजेन पूर्वतः || १५० ||
स्पृशंस्तां शिरसा भूमिं प्रणमेदिष्टदेवताः |
समाप्तिहीनं बाराहं बीजं बिन्द्विन्दुसंयुतम् || १५१ ||
क्षितिबीजं विजानीयाच्चतुर्वर्गप्रदायकम् |
दर्पणं व्यजनं घण्टां चामरं प्रोक्षयेत् पुनः || १५२ ||
नैवेद्यालोकमन्त्रेण पूर्वप्रोक्तेन भैरव |
नामाक्षराणि चाद्यानि चैतेषां बिन्दुनेन्दुना || १५३ ||
तस्मै नम इति प्रान्ते गहणे मन्त्र उच्यते |
निवेदनमथैतेषामिष्टमन्त्रेण चाचरेत् || १५४ ||
वाग्भवस्य द्वितीयेन कामबीजेन भैरव |
मुद्राया बन्धनं कार्यं मूलमन्त्रेण दर्शनम् || १५५ ||
परित्यागं तु मुद्रायास्ताराबीजेन चाचरेत् |
प्रान्तादिश्चन्द्रबिन्दुभ्यां
षष्ठस्वरसमन्वितः || १५६ ||
ताराबीजमिति प्रोक्तं धर्मकामार्थसाधनम् |
मुदं ददाति यस्मात् सा मुद्रा तेन प्रकीर्तिता || १५७ ||
दर्शितायां तु मुद्रायां भवेत् पूजासमापनम् |
कामं मोक्षं तथा धर्ममर्थमोदयुता स्वयम् || १५८ ||
ददाति साधकायाशु देवता गन्तुमुत्सुका |
मुद्रान्ते तु महामन्त्रान् षडिमान् समुदीरयेत् || १५९ ||
यद् दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् |
आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया || १६० ||
आवाहनं न जानामि न जानामि विसर्जनम् |
पूजाभावं न जानामि त्वं गतिः परमेश्वरि || १६१ ||
कर्मणा मनसा वाचा त्वत्तो आन्यं गतिर्मम |
अन्तश्चरेण भूतानां त्वं अतिः परमेश्वरि || १६२ ||
मातर्योनिसहस्रेषु येषु येषु व्रजाम्यहम् |
तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि || १६३ ||
एवी दात्री च भोक्त्री च देवी सर्वमिदं जगत् |
देवी जयति सर्वत्र या देवी सोऽहमेव च || १६४ ||
यदक्षरपरिभ्रष्टं मात्राहीनं च यद् भवेत् |
तत्सर्वं क्षम्यतां देवि कस्य न स्खलितं मनः || १६५ ||
मन्त्रेषु पठितेष्वेषु स्वयमेव प्रसीदति |
दातुं देवीं चतुर्वर्गं न चिरादेव भैरव || १६६ ||
ऐशान्यां मण्डलं कुर्याद् द्वारपद्मविवर्जितम् |
विसर्जनार्थं निर्माल्यधारिण्याः पूजनाय वै || १६७ ||
पाद्मादिभिः पूजयित्वा ध्यात्वा निर्माल्यधारिणीम् |
निःक्षिप्य तस्मिन् निर्माल्यं मन्त्रेण तु विसर्जयेत् || १६८ ||
गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरि |
यत्र ब्रह्मादयो देवा न विदुः परमं पदम् || १६९ ||
विसृज्य मन्त्रेणानेन ततः पूरकवायुना |
ध्यायंस्तु मन्त्रेणानेन नत्वा तां स्थापयेद्धृदि || १७० ||
तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि |
यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि || १७१ ||
तत एकजटाबीजैरिष्टदेवीं धिया स्मरन् |
निर्माल्यं मूर्ध्नि गृह्णीयाद् धर्मकामार्थसाधनम् || १७२ ||
मण्डलप्रतिपतीं तु ततः कुर्याद् विभूतये |
सर्वाङ्गुलीनामग्रौधैः पद्ममष्टदलान्वितम् || १७३ ||
निर्मन्थेत् क्षितिबीजेन मण्डलं चापि भैरव |
ततस्तु मूलमन्त्रेण सर्ववश्येन वा पुनः || १७४ ||
अनामिकानामग्रेण ललाटमपि संस्पृशेत् |
समाप्तिसहितः प्रान्तस्ताराबीजं ततः परम् || १७५ ||
स्मरबीजं विसर्गेण परतः परतः परम् |
भबेदेकजटाबीजं धर्मकामार्थसाधनम् || १७६ ||
ततो भास्करबीजेन सहितेनात्मना पुनः |
मन्त्रेण भास्करायार्धमच्छिद्रार्थं निवेदयेत् || १७७ ||
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे |
जगत्सवित्रे शुचये सवित्रे कर्मदायिने || १७८ ||
ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् |
एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् || १७९ ||
यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम |
सर्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः || १८० ||
ततस्तु पुष्पनैवेद्य तोयपात्रादिकं च यत् |
देवीबीजेन तत्सर्वं पुनरेव विलोकयेत् || १८१ ||
हस्तेन चक्षुषा वापि यत्र यत्र कृतः पुरा |
मन्त्रन्यासस्तत्र तत्र विसृष्टिरमुना भवेत् || १८२ ||
प्रान्तादिपञ्चमो वह्निबीजषष्ठस्वराहितः |
तथोपान्तं वाग्भवाद्यं दुर्गाबीजं प्रचक्षते || १८३ ||
स्थण्डिले ज्वलदग्नौ च तोये सूर्यमरीचिषु |
प्रतिमासु च शुद्धासु शालग्रामशिलासु च || १८४ ||
शिवलिंगे शिलायां तु पूजा कार्या विभूतये |
सर्वत्र मण्डलन्यासं कुर्यादेकाग्रमानसः || १८५ ||
योगपीठस्य बीजेन स्थण्डिलादिषु साधकः |
वासुदेवस्य रुद्रस्य ब्रह्मणो मिहिरस्य च || १८६ ||
कुर्यात् सर्वत्र पूजासु प्रतिपत्तिमिमां बुधः |
एवं यः पूजयेद् विष्णुममीभिः प्रतिपत्तिभिः || १८७ ||
चतुर्वर्गप्रदस्तस्य न चिराज्जायते हरिः |
शिवो वा मिहिरो वापि येऽन्ये लम्बोदरादयः || १८७ ||
प्रसीदन्ति सुराः सर्वे पूजाया विधिनामुना |
विशेषतो महादेवी महामाया जगन्मयी || १८९ ||
प्रतिपत्तिमिमां नित्यं स्पृहयत्येव पूजने |
एवं यः कुरुते पूजां सम्यक् स फलभाग्भवेत् || १९० ||
एतैर्विहीना या पूजा अतोऽल्पाल्पं फलं भवेत् |
अङ्गहीनस्तु पुरुषो न सम्यग्याझिको यथा || १९१ ||
अंगहीना तथा पूजा न सम्यक् फलभाग्भवेत् |
इदं रहस्यं परममिदं स्वस्त्ययनं परम् |
मन्त्रवेदमयं शुद्धं सर्वपापप्रणाशनम् || १९२ ||
यः श्रावयेद् ब्राह्मणसन्निधाने
श्राद्धेषु यज्ञे सुरपूजनेषु |
सम्यक् फलं तस्य लभेत् स कर्मणो
विनापि पूजां तदनन्तमश्नुते || १९३ ||
इति श्रीकालिकापुराणे उत्तरतन्त्रे अप्तपञ्चाशोऽध्यायः || ५७ ||
Kapitel 58
अष्टपञ्चाशोऽध्यायः
श्रीभगवानुवाच
देव्यास्तन्त्रं विशेषेण शृणुतं साम्प्रतं युवाम् |
येन चाराधिता देवी नचिराद्वरदा भवेत् || १ ||
ऊर्वतन्त्राद्विशेषेण तथा वै तन्त्रमुत्तरम् |
विशेषेण च सामान्यात् कथितं भवतोः पुरा || २ ||
पुनर्देव्या विशेषेण पूजायां भक्तिकर्मणि |
यानि अन्त्राणि शेषाणि तानि वक्ष्याम्यहं पुनः || ३ ||
यः कुर्यात् तु महामायाभक्तिमेकाग्रमानसः |
अङ्गिना आङ्गिमन्त्रेण तेन कार्यमिदं शुभम् || ४ ||
फलं पुष्पं च ताम्बूलमन्नपानादिकं च यत् |
अदत्त्वा तु महादेव्यै न भोक्तव्यं कदाचन || ५ ||
पथि वा पर्वताग्रे वा सभायामपि साधकः |
यथा तथा निवेद्यैव स्वमर्थमुपकल्पयेत् || ६ ||
दृष्ट्वैव मदिराभाण्डं रक्तवर्णास्तथा स्त्रियः |
सिंहं शवं रक्तपद्मं व्याघ्रवारणसङ्गमम् || ७ ||
गुरुं राजानमथवा महामायां ततो नमेत् |
पतिव्रतायां भार्यायां सदैव ऋतुसङ्गमः || ८ ||
क्रियते चण्डिकां ध्यात्वा तदा कार्यो विभूतये |
शान्तिकं पौष्टिकं वापि तथेष्टापूर्तकर्मणी || ९ ||
यदा कुर्यात् तदा नत्वा देवीयात्रां समाचरेत् |
तौर्यत्रिकं यदा पश्येत् केवलं गीतमेव वा || १० ||
तच्च देव्यै निवेद्यैव कर्तव्यं स्वोपयोजनम् |
यदेव भूषणं वासो मलयोद्भवमेव वा || ११ ||
स्वकाये परियुञ्जीत तत्र मन्त्रं धिया न्यसेत् |
व्यायामे च विधाने च सभायां वा जले स्थले || १२ ||
यत्र यत्र स्वयं गच्छेत् तत्र देवीं सदा स्मरेत् |
यद् यत् कर्म तु पूजाङ्गं तत्तन्मन्त्रेण चाचरेत् || १३ ||
मन्त्रहीनं पूजनाङ्गं कर्म यत् तत्तु निष्फलम् |
यस्मिन् कर्मणि योद्दिष्टो मन्त्रर्पूजासु भैरव || १४ ||
नैवेद्यालोकमन्त्रेण तत् तत् कर्म समाचरेत् |
देव्यास्तु मण्डलन्यासमिष्टमन्त्रेण चाचरेत् || १५ ||
पूजान्ते मण्डलं लिप्त्वा तिलकं तेन कारयेत् |
सर्ववश्येन मन्त्रेण धर्मकामार्थदायिना || १६ ||
बलिदाने बलिं छित्वा खड्गस्थै रुधिरैः स्वकैः |
सर्ववश्येन मन्त्रेण ललाटे तिलकं न्यसेत् || १७ ||
जगद्वशे भवेत् तस्य चतुर्थः कस्य वह्निना |
षष्ठस्वरेण संयुक्तः कलाबिन्दुसमन्वितः || १८ ||
अथोपान्तस्थकारान्तः सपरोऽपि तथा पुनः |
द्विर्मोहीति अकारास्य तुर्यो द्विस्वरसंयुतः || १९ ||
तृतीयवर्ग-प्रान्तेन तृतीयस्वरसंज्ञिना |
पूरितान्तो विधा वर्णस्तथा आदिचतुर्थकः || २० ||
स्वरो द्वितीयश्च तथा क्षोभशब्दः पुरः सरः |
पुरेति सहितः सोऽपि मित्र्ऽम् शत्रुश्च राक्षसः || २१ ||
अक्षप्रजा तथा राजा सर्वशास्त्र इति श्रुतः |
विनापि पूजनं कुर्याद् यो रहस्तिलकं नरः || २२ ||
मन्त्रेणानेन सततं सर्वं तस्य वशे भवेत् |
राजा वा राजपुत्रो वा स्त्रियो वा यक्षराक्षसाः || २३ ||
सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः |
प्रवासे पथि वा दुर्गे स्थानाप्राप्तौ जलेऽपि वा || २४ ||
कारागारे निबद्धो वा रायोवेशगतोऽपि वा |
कुर्यात् तत्र महामायापूजां वै मानसीं बुधः || २५ ||
अनोभये समुत्पन्ने सिंहव्याघ्रसमाकुले |
परचक्रागमे वापि कुर्यान्मानसपूजनम् || २६ ||
मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम् |
तत्रैव पृथिवीमध्ये पूजां तत्र समाचरेत् || २७ ||
मैत्रं प्रसाधनं स्नानं दन्तधावनकर्म वै |
अन्यच्च सर्वं मनसा कृत्वा कुर्याच्च पूजनम् || २८ ||
अश्चात् पुष्पादिभिः पूजा बहिर्देशे विधीयते |
तथा हृद्यपि कर्तव्या सर्वाश्च प्रतिपत्तयः || २९ ||
अष्टम्यां सततं देवीयाजकः स्यात् सदा व्रती |
नवम्यां तु तथा पूजा कर्तव्या निजशोणितैः || ३० ||
लिङ्गस्थां पूजयेद् देवीं पुस्तकस्थां तथैव च |
स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च || ३१ ||
इत्रे च त्रिशिखे खड्गं जलस्थां वापि पूजयेत् |
पञ्चाशदङ्गुलं खड्गं त्रिशिखं च त्रिशूलकम् || ३२ ||
शिलायां पर्वतस्याग्रे तथा पर्वतगह्वरे |
देवीं सम्पूजयेन्नित्यं भक्तिश्रद्धासमन्वितः || ३३ ||
वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी |
ततस्तद्द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ || ३४ ||
ततोऽपि द्विगुणा प्रोक्ता द्वारावत्यां विशेषतः |
सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा || ३५ ||
विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा |
आर्यावर्ते मध्यदेशे ब्रह्मावर्ते तथैव च || ३६ ||
विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा |
ततश्चतुर्गुणा प्रोक्ता करतोया नदीजले || ३७ ||
तस्माच्चतुर्गुणफला नन्दिकुण्डे च भैरव |
ततश्चतुर्गुणा प्रोक्ता जल्पिषे(भे)श्वरसन्निधौ || ३८ ||
तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता |
ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि || ३९ ||
तत्समा कामरूपे तु सर्वत्रैव जले स्थले |
सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा || ४० ||
देवीपूजा तथा शस्ता कामरूपे सुरालये |
देवीक्षेत्रं कामरूपं विद्यतेऽन्यत्र ततत्समम् || ४१ ||
अन्यत्र विरला देवी कामरूपे गृहे गृहे |
ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके || ४२ ||
ततोऽपि द्विगुणा प्रोक्ता एरुके शिवलिङ्गके |
ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्यादियोनिषु || ४३ ||
ततः शतगुणा प्रोक्ता कामाख्यायोनिमण्डले |
कामाख्यायां महामायापूजां यः कृतवान् सकृत् || ४४ ||
स चेह लभते कामान् परत्र शिवरूपताम् |
न तस्य सदृशोऽन्योऽस्ति कृत्यं तस्य न विद्यते || ४५ ||
वाञ्छितार्थमवाप्येह चिरायुरभिजायते |
वायोरिव गतिस्तस्य भवेदन्यैरबाधिता || ४६ ||
सङ्ग्रामे शास्त्रवादे वा दुर्जयः स च जायते |
वैष्णवीतन्त्रमन्त्रेण कामाख्यायोनिमण्डले |
सकृत् तु पूजनं कृत्वा फलं शतगुणं लभेत् || ४७ ||
मूलमूर्तिर्महामाया योगनिन्द्रा जगन्मयी |
तस्यास्तु वैष्णवीतन्त्रं मन्त्रं प्राक् प्रतिपादितम् || ४८ ||
अन्या या मूर्तयः प्रोक्ता शैलपुत्र्यादयोऽपराः |
तस्या एव विभागास्तास्तच्छरीरविनिर्गताः || ४९ ||
निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः |
देव्यास्तथोग्रचण्डाद्या महामायाशरीरतः || ५० ||
तासामेवाङ्गरूपाणि वक्तव्यानि मया तव |
एकैव तु महामाया कार्यार्थं भिन्नतां गता || ५१ ||
कामाख्या तु महामाया मूलमूर्तिः प्रगीयते |
पीठैर्भिन्नाह्वया सा तु महामाया प्रगीयते || ५२ ||
क एव यथा विष्णुर्नित्यत्वाद् हि सनातनः |
जनानामर्दनात् सोऽपि जनार्दन इति श्रुतः || ५३ ||
तथैव सा महामाया कामार्थ सङ्गता गिरौ |
कामाख्येति सदा देवैर्गद्यते सततं नरैः || ५४ ||
यथा हि पुरुषः कोऽपि च्छत्रो च्छत्रग्रहाद् भवेत् |
स्नापकः स्नानकाले वै कामाख्यापि तथाह्वया || ५५ ||
महामायाशरीरं तु कामार्थं समुपस्थितम् |
लोहितैः कुङ्कुमैः पीतं कामार्थमुपयोजितैः || ५६ ||
खड्गं त्यक्त्वा कामकाले सा गृह्णाति स्रजं स्वयम् |
यदा तु त्यक्तकामा सा तदा स्यादसिधारिणी || ५७ ||
कामकाले शिवप्रेते न्यस्तलोहितपङ्कजे |
अमते त्यक्तकामा तु सितप्रेतोपरि स्थिता || ५८ ||
तथैवेतस्ततो गत्या सिंहस्था कामदा भवेत् |
कदाचित् सा सितप्रेते कदाचिद्रक्तपङ्कजे || ५९ ||
कदाचित् केशरीपृष्ठे रमते कामरुपिणी |
यदा लोहितपद्मस्था अथाग्रे केशरी चरः || ६० ||
यदा प्रेतगता देवी तदाग्रेऽन्यं निरीक्षते |
महामायास्वरूपेण यदा सा वरदा भवेत् || ६१ ||
पूजाकाले तदा प्रेतपद्मसिंहोपरि स्थिता |
रक्तपद्मे यदा ध्यायेत् तदाग्रे चिन्तयेद्धरिम् || ६२ ||
यदा ध्यायेद्धरौ चान्यद्वयमग्रे विचिन्तयेत् |
त्रिषु ध्यातेषु युगपत् प्रेतपद्महरौ क्रमात् || ६३ ||
स्थितेषु कामदा देवी तेषु ह्यायेत कामदाम् |
एकैकस्मिन्नपि तथा यथावच्छिन्तयेच्छिवाम् || ६४ ||
एका समस्ता जगतां प्रकृतिः सा यतस्ततः |
विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा जगन्मयी || ६५ ||
सितप्रेतो महादेवो ब्रह्मालोहितपङ्कजम् |
हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः || ६६ ||
स्वमूर्त्या वाहनत्वं तु तेषां यस्मान्न युज्यते |
तस्मान्मूर्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः || ६७ ||
यस्मिन् यस्मिन् महामाया प्रीणाति सततं शिवा |
तेन तेनैव रूपेण आसनान्यभवंस्त्रयः || ६८ ||
सिंहोपरि स्थितं पद्मं रक्तं तस्योर्ध्वगः शिवः |
तस्योपरि महामाया वरदाऽभयदायिनी || ६९ ||
एवं रूपेण यो ध्यात्वा पूजयेत् सततं शिवाम् |
ब्रह्मविष्णुशिवास्तेन पूजिताः स्युरसंशयम् || ७० ||
एवं सदा महामाया कामाख्या चैकरूपिणी |
ध्यानतो रूपतो भिन्ना तस्मात्तां तत्र पूजयेत् || ७१ ||
एवं विशेषतन्त्राणि दुर्गायाः कथितानि वाम् |
अङ्गमन्त्राणि तस्यास्तु श्रूयतां अरसत्तमौ || ७२ ||
इति श्रीकालिकापुराणे ष्टपञ्चाशोऽध्यायः || ५८ ||
Kapitel 59
एकोनषष्टितमोऽध्यायः
श्रीभगवानुवाच
अङ्गमन्त्राण्यहं वक्ष्ये चण्डिकाया विशेषतः |
यैः समाराधिता देवी चतुर्वर्गप्रदा भवेत् || १ ||
तालव्यान्तो युतः षष्ठस्वरबिन्द्विन्दुवह्निभिः |
तथोपान्तः स्वरस्त्वेते बाह्यं वाग्भवमेव च || २ ||
नेत्रबीजं चण्डिकायास्त्रयमेतत् प्रकीर्तितम् |
वामललाटदाक्षिण्यनेत्रेषु त्रितयं क्रमात् || ३ ||
धर्मार्थकाममोक्षाणां सर्वदा कारणं परम् |
मन्त्रमेतन्महागुह्यं दुर्गाबीजमिति स्मृतम् || ४ ||
यदा कात्यायनमुनेराश्रमेषु दिवौकसाम् |
तेजोभिर्धृतकायाभूद् देवी देवौघसंस्तुता || ५ ||
तदा नेत्रत्रयाद् देव्या मूलमूर्तिर्विनिःसृता |
तेजोमयी जगद्धात्री महिषासुरघातिनी || ६ ||
तेजोभिः सर्वदेवानां सा धृत्वा वपुरुत्तमम् |
अस्त्राण्यनेकान्यादाय देवैर्दत्तानि भागशः || ७ ||
सगणं सानुवन्धं च सामात्यबलवाहनम् |
ब्रह्माद्यैः संस्तुता देवी जघान महिषासुरम् || ८ ||
हते तु महिषे देवी पूजिता त्रिदशैस्ततः |
अनेनैव तु मन्त्रेण लोके ख्यातिं च सा गता || ९ ||
ततः प्रभृति सा मूर्तिः सर्वैः सर्वत्र पूज्यते |
मूलमूर्तिः सुगुप्ताभूत् स्वमूर्त्या ख्यातिमागता || १० ||
देवानां वरदानेन ब्रह्माद्यैरुपयोजनात् |
यन्मूर्तिः पूज्यते सर्वैस्तां मूर्तिं शृणु भैरव || ११ ||
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् |
लोचनत्रयसंयुक्तां ऊर्णेन्दुसदृशाननाम् || १२ ||
तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम् |
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् || १३ ||
सुचारुदशनां तीक्ष्णां पीनोन्नतपयोधराम् |
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् || १४ ||
मृणालायतसंस्पर्शदशबाहुसमन्विताम् |
त्रिशूलं दक्षिणे देयं खड्गं चक्रं क्रमादधः || १५ ||
तीक्ष्णबाणं तथा शक्तिं बाहुसंघेषु सङ्गताम् |
खेटकं पूर्णचापं च पाशं चाङ्कुशमूर्धतः || १६ ||
घण्टां च परशुं चापि वामेऽधः प्रतियोजयेत् |
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् || १७ ||
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् |
हृदि शूलेन निर्भिन्नं इर्यदन्त्रविभूषितम् || १८ ||
रक्तरक्तीकृताङ्गं च रक्तविस्फुरितेक्षणम् |
वेष्टितं नागपाशेन भ्रुकुटीकुटिलाननम् || १९ ||
सपाशवामहस्तेन धृतकेशं च दुर्गया |
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् || २० ||
देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् |
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि || २१ ||
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका |
चण्डा चण्डवती चैव चामुण्डा चण्डिका तथा || २२ ||
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् |
चिन्तयेत् सततं देवीं धर्मकामार्थमोक्षदाम् || २३ ||
एतस्याश्चाङ्गमन्त्रं तु दुर्गातन्त्रमिति श्रुतम् |
शृणुष्वैकमना भूत्वा धर्मकामार्थसाधनम् || २४ ||
वह्निभार्या स्वरः षष्ठो हान्तः प्रान्तोऽग्निरेव च |
दुर्गादिरिति सोङ्कारं दुर्गामन्त्रं मिति श्रुतम् || २५ ||
रवौ मकरराशिस्थे या भवेत् सितपञ्चमी |
तस्यामनेन मन्त्रेण सम्पूज्य विधिवच्छिवाम् || २६ ||
शुक्लाष्टम्यां पुनर्देवीं पूजयित्वा यथाविधि |
नवम्यां बलिदानानि प्रभूतानि समाचरेत् || २७ ||
सन्ध्यायां च बलिं कुर्याग्निजगात्रासृगुक्षितम् |
एवं कृते तु कल्याणैर्युक्तो नित्यं प्रमोदते || २८ ||
पुत्रपौत्रसमृद्धस्तु धनधान्यसमृद्धिभिः |
(न तस्य जायते शोको न च पारी प्रजायते |
दीर्घायुः सर्वसुभगो लोकेऽस्मिन् स च जायते || २९ ||
सिताष्टम्यां तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः |
अशोकैरपि यः कुर्यान्मत्रेणानेन पूजनम् || ३० ||
न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः |
ज्यैष्ठे तु शुक्लपक्षस्य अष्टाम्यां समुपोषितः || ३१ ||
नवम्यां सतिलैरन्नैर्यावकैरथ मोदकैः |
क्षीरैराज्यस्तथा क्षौद्रैः शर्कराभिः सपिष्टकैः || ३२ ||
नानापशूनां रुधिरैर्मांसैरपि च पूजयेत् |
ततो दशम्यां शुक्लायामद्भिस्तु तिलमिश्रितैः || ३३ ||
दुर्गातन्त्रेण मन्त्रेण दातव्यमञ्जलित्रयम् |
एवं कृते दशम्यां तु यत्पापं दशजन्मभिः || ३४ ||
कृतं तत्प्रलयं याति दीर्घायुरपि जायते |
आषाढे शुक्लपक्षस्य याष्टमी श्रावणस्य च || ३५ ||
पवित्रारोपणं कुर्याद् देवीप्रीतिकरं परम् |
दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव || ३६ ||
ऐष्णवीतन्त्रमन्त्रेण दुर्गाबीजेन भैरव |
वैष्णवीतन्त्रमन्त्रेण पवित्रारोपणं चरेत् |
विशेषाच्छ्रावणं प्राप्य देव्याः कुर्यात् पवित्रकम् || ३७ ||
सर्वेषामेव देवानां पवित्रारोपणं चरेत् |
आषाढे श्रावणे वापि संवत्सरफलप्रदम् || ३८ ||
प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः |
द्वितीया तु श्रियो देव्यास्तिथीनामुत्तमा स्मृता || ३९ ||
तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य च |
पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च || ४० ||
सप्तमी भास्करस्योक्ता दुर्गायाश्च तथाष्टमी |
मातृणां नवमी प्रोक्ता वासुकेर्दशमी मता || ४१ ||
एकादशी ऋषीणां च द्वादशी चक्रपाणिनः |
त्रयोदशी त्वनङ्गस्य मम चैव चतुर्दशी || ४२ ||
ब्रह्मणो दिक्पतीनां च पौर्णमासी तिथिर्मता |
पवित्रारोपणं यो वै देवानां न समाचरेत् || ४३ ||
तस्य सांवत्सरीपूजाफलं हरति केशवः |
तस्माद् यत्नेन कर्तव्यं पवित्रारोपणं परम् || ४४ ||
कृते बहुफलप्राप्तिस्तत्पूजा सफला भवेत् |
पवित्रं येन सूत्रेण यथा कार्यं विजानता || ४५ ||
तच्छ्रणुष्व प्रमाणं तु वचनान्मम भैरव |
प्रथमं दर्भसूत्रं च पद्मसूत्रं ततः परम् || ४६ ||
ततः क्षौमं सुपुण्यं स्यात् कार्पासकमतः परम् |
पट्टसूत्रं तथान्येन पवित्राणि न कारयेत् || ४७ ||
विचित्राणि पवित्राणि कर्तव्यानि तु यत्नतः |
गन्धमाल्यैः सुरभिभिः रचितानि यथोदितम् || ४८ ||
कन्या च कर्तयेत् सूत्रं प्रमदा च पतिव्रता |
विधवा साधुशीला वा दुःखशीला न कर्तयेत् || ४९ ||
यत्सूचिभिन्नं दग्धं च भस्मधूमाभिगुण्ठितम् |
तद्वर्जनीयं यत्नेन सूत्रमस्मिन् पवित्रके || ५० ||
उपयुक्तं चाखुजग्धं मद्यरक्तादिदूषितम् |
मलिनं नीलरक्तं च प्रयत्नेन विवर्जयेत् || ५१ ||
सूत्रैः पवित्रं कुर्वीत कनिष्ठोत्तममध्यमम् |
कनिष्ठं यत् पवित्रं तु सप्तविंशतितन्तुभिः || ५२ ||
मर्त्यलोके यशः कीर्तिः सुखसौभाग्यवर्धनम् |
चतुःपञ्चाशता प्रोक्तं तन्तूनां मध्यमं परम् || ५३ ||
दिव्यभोगावहं पुण्यं स्वर्गमोक्षरदायकम् |
उत्तमं चैव तन्तूनामष्टोत्तरशतेन वै || ५४ ||
तद्दत्वा तु महादेव्यै शिवसायुज्यमाप्नुयात् |
उत्तमं वासुदेवाय दद्याद् यदि पवित्रकम् || ५५ ||
तदा याति हरेर्लोकं साधको नात्र संशयः |
अष्टोत्तरसहस्रं तु रत्नमालेति गीयते || ५६ ||
पवित्रं सु महादेव्या भुक्तिमुक्तिप्रदायकम् |
रत्नमाल्यां तु यो यच्छेन्महादेव्यै पवित्रकम् || ५७ ||
कल्पकोटिसहस्राणि स्वर्गे स्थित्वा शिवो भवेत् |
एतत् तु नागहाराख्यं शङ्करस्य पवित्रकम् || ५८ ||
अष्टोत्तरसहस्रेण तन्तुना सुमनोहरम् |
यः प्रयच्छति मह्यं तु स यावांस्तन्तुसञ्चयः || ५९ ||
तावत्कल्पसहस्राणि मम लोके प्रमोदते |
अष्टोत्तरसहस्रेण वनमाला हरेः स्मृता || ६० ||
तन्तूनां तस्य दानेन विष्णुसायुज्यमाप्नुयात् |
यत् कनिष्ठं पवित्रं तु नाभिमात्रं भवेत् तु तत् || ६१ ||
द्वादशग्रन्थिसंयुक्तमात्ममानेन योजयेत् |
ऊरुप्रमाणं मध्यं स्याद् ग्रन्थीनां तत्र योजयेत् || ६२ ||
चतुर्विंशतिमप्यस्य मानमात्मन एव च |
पवित्रमुत्तमं प्रोक्तं जानुमात्रं च भैरव || ६३ ||
षट्त्रिंशत्तन्तुग्रन्थीनां योजयेदात्ममानतः |
शतमष्टोत्तरं कार्यं ग्रन्थीनां सुविधानतः || ६४ ||
नागहाराह्वयं तद्वदन्येषु च विधानतः |
पवित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः || ६५ ||
तदन्यवर्णसूत्रेण कर्तव्या लक्षणान्विता |
ग्रन्थिं तु सप्तभिः कुर्याद् वेष्टनैस्तु कनिष्ठके || ६६ ||
द्विगुणैर्मध्यमे कुर्यात्त्रिगुणरुत्तमे तथा |
अधिवास्य पवित्राणि पूर्वस्मिन् दिवसे ततः || ६७ ||
मन्त्रन्यासं पवित्रे तु कुर्यात् तत्रापरेऽहनि |
दुर्गाबीजेन मन्त्रेण मन्त्रन्यासं द्विजश्चरेत् || ६८ ||
वैष्णवीतन्त्रमन्त्रेण कुर्युरन्ये च भैरव |
प्रतिग्रन्थि स्वयं कुर्यान्मन्त्रन्यासं विचक्षणः || ६९ ||
अङ्गुष्ठाग्रेण जपनं मालायामिह भैरव |
यावन्तो ग्रन्थयश्चात्र तावन्त्येव च सन्न्यसेत् || ७० ||
मन्त्राणि तस्य तेन स्यादेवाङ्गोपनियोजनम् |
दुर्गातन्त्रेण मन्त्रेण तत्त्वन्यासं तु कारयेत् || ७१ ||
एकत्र न्यस्य सकलं यज्ञपात्रे पवित्रकम् |
तस्मिन् निधाय गन्धादि पुष्पाणि च सुशोभनम् || ७२ ||
तत्त्वन्यासं ततः कुर्यादङ्गुल्यग्रेण भैरव |
विष्णोस्तु मूलमन्त्रेण तत्त्वन्यासं तु कारयेत् || ७३ ||
इदं विष्णुरिति प्रोक्तं मन्त्रन्यासं द्विजस्य हि |
शूद्राणां मन्त्रविन्यासे मन्त्रो वै द्वादशाक्षरः || ७४ ||
प्रासादेन तु मन्त्रेण तत्त्वन्यासो मम स्मृतः |
अनेन मन्त्रन्यासं च दानं चानेन कारयेत् || ७५ ||
कुङ्कुमोशीरकर्पूरै श्चन्दनादिविलेपनैः |
पवित्राणि विलिप्याथ तत्त्वन्यासं तु योजयेत् || ७६ ||
सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः |
वैष्णवीतन्त्रमन्त्रेण दुर्गातन्त्रेण भैरव || ७७ ||
दुर्गाबीजेन दद्यात् तु देव्या मूर्ध्नि पवित्रकम् |
यस्य देवस्य यः प्रोक्तस्तस्य तेनैव मण्डलम् || ७८ ||
यस्य यस्य तु यो मन्त्रो यथा ध्यानादिपूजनम् |
तत् तत् तेनैव मन्त्रेण पूजयित्वा प्रयत्नतः || ७९ ||
तस्यैव बीजमन्त्राभ्यां मूर्ध्नि दद्यात् पवित्रकम् |
पवित्रं मम यो दद्याद् देवेभ्यश्च पवित्रकम् || ८० ||
सर्वेषामेव देवानां सम्पूर्णार्थश्च भैरव |
अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः || ८१ ||
स्कन्दो भानुर्मातृगणो दिक्पालाश्च नवग्रहाः |
एतान् घटेषु प्रत्येकं पूजयित्वा यथाविधि || ८२ ||
पवित्रं मूर्ध्नि चैकैकं दद्यादेभ्यः समाहितः |
पञ्चगव्यचरुं कृत्वा देव्यै दत्त्वाहुतित्रयम् || ८३ ||
तेनैव विष्णवे दत्त्वा शम्भवे च यथाविधि |
आज्यैरष्टोत्तरशतं तिलैराज्यैस्तथैव च || ८४ ||
अष्टोत्तरशतं दद्यान्महादेव्यै च साधकः |
एवमेव विधानेन विष्ण्वादीनां च साधकः || ८५ ||
पवित्रारोपणं कुर्याद् धर्मकामार्थसिद्धये |
नैवेद्यैर्विविधैः पेयैर्वटपिष्टकमोदकैः || ८६ ||
कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा |
आम्रदाडिमकर्कारुद्राक्षादिविविधैः फलैः || ८७ ||
भक्ष्यभोज्यादिभिः सर्वैर्मत्स्यैर्मांसैस्तथौदनैः |
गन्धैः पुष्पैस्तथा धूपैर्दीपैश्च सुमनोहरैः || ८८ ||
वासोभिर्भूषणैश्चैव भवानीसाधको यजेत् |
नटनर्तकसङ्घैश्च वेश्याभिश्चैव भैरव || ८९ ||
नृत्यगीतः समुदितो जागरं कारयेन्निशि |
भोजयेद् ब्राह्मणांश्चापि ज्ञातीनपि द्विजातिभिः || ९० ||
पवित्रारोपणे वृत्ते दक्षिणामुपदापयेत् |
हिरण्यं गां तिलघृतं वासो वा शाकमेव वा || ९१ ||
इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत् |
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः || ९२ ||
इयं सांवत्सरी पूजा तवास्तु परमेश्वरि |
ततो विसर्जयेद् देवीं पूजाभिः प्रतिपत्तिभिः || ९३ ||
एवं कृते पवित्राणां दाने देव्या यथाविधि |
संवत्सरस्य या पूजा सम्पूर्णा वत्सराद् भवेत् || ९४ ||
कल्पकोटिशतं यावद् देवीगेहे वसेन्नरः |
तत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत् || ९५ ||
इति श्रीकालिकापुराणे कोनषष्टितमोऽध्यायः || ५९ ||
Kapitel 60
षष्टितमोऽध्यायः
श्रीभगवानुवाच
दुर्गातन्त्रेण मन्त्रेण कुर्याद् दुर्गामहोत्सवम् |
महानवम्यां शरदि बलिदानं नृपादयः || १ ||
आश्वनस्य तु शुक्लस्य भवेद् या अष्टमी तिथिः |
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा || २ ||
तनोऽनु नवमी या स्यात् सा महानवमी स्मृता |
सा तिथिः सर्वलोकानां पूजनीया शिवप्रिया || ३ ||
अनयोर्वत्स पूजायां विशेषं शृणु भैरव |
सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः || ४ ||
वैष्णवीतन्त्रमन्त्रेण दुर्गातन्क्षेण भैरव |
मूर्तिभेदे यथा देवी पूजां गृह्णाति भूतये || ५ ||
कन्यासंस्थे रवौ वत्स शुक्लामारभ्य नन्दिकाम् |
अयाचिताशी नक्ताशी एकाशी त्वथ चापदः || ६ ||
प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः |
जपहोमसमायुक्तो भोजयेच्च कुमारिकाः || ७ ||
बोधयेद् बिल्वशाखासु षष्ट्यां देवीफलेषु च |
सप्तम्यां बिल्वशाखां तामाहृत्य प्रतिपूजयेत् || ८ ||
पुनः पूजां तथाष्टम्यां विशेषेण समाचरेत् |
जागरं च स्वयं कुर्याद् बलिदानं महानिशि || ९ ||
प्रभूतबलिदानं तु नवम्यां विधिवच्चरेत् |
ध्यायेद् दशभुजां देवीं दुर्गातन्त्रेण पूजयेत् || १० ||
विसर्जनं दशम्यां तु कुर्याद् वै साधकोत्तमः |
कृत्वा विसर्जनं तस्यां तिथौ नक्तं समाचरेत् || ११ ||
यदा तु षोडशभुजां महामायां प्रपूजयेत् |
दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु || १२ ||
कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः |
द्वादश्यामेकभक्तं तु नक्तं कुर्यात् परेऽहनि || १३ ||
चतुर्दश्यां महामायां बोधयित्वा विधानतः |
गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः || १४ ||
अयाचितं बुधः कुर्यादुपवासं परेऽहनि |
एवमेव व्रतं कुर्याद् यावद्वै नवमी भवेत् || १५ ||
ज्येष्ठायां च समभ्यर्च्य मूलेन प्रतिपूजयेत् |
उत्तरेणार्चनं कृत्वा श्रवणान्ते विसर्जयेत् || १६ ||
यदा त्वष्टादशभुजां महामायां प्रपूजयेत् |
दुर्गातन्त्रेण मन्त्रेण तत्रापि शृणु भैरव || १७ ||
कन्यायां कृष्णपक्षस्य पूजयित्वार्द्रभे दिवा |
नवम्यां बोधयेद् देवीं गीतवादित्रनिस्वनैः || १८ ||
शुक्लपक्षे चतुर्थ्यां तु देवीकेशविमोचनम् |
प्रातरेव तु पञ्चम्यां स्नापयेत् तु शुभैर्जलैः || १९ ||
सप्तम्यां पत्रिकापूजा अष्टम्यां चाप्युपोषणम् |
पूजाजागरणं चैव नवम्यां विधिवद्बलिः || २० ||
सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः |
नीराजनं दशम्यां तु बलवृद्धिकरं महत् || २१ ||
यदा वै वैष्णवी देवीं महामायां जगन्मयीम् |
पूजयेत् तत्र च तदा विशेषं शृणु भैरव || २२ ||
कन्यासंस्थे रवौ पूजा या शुक्ला तिथिरष्टमी |
तस्यां रात्रौ पूजितव्या महाविभवविस्तरैः || २३ ||
नवम्यां बलिदानं तु कर्तव्यं वै यथाविधि |
जपं होमं च विधिवत् कुर्यात् तत्र विभूतये || २४ ||
सम्पूजयेन्महादेवीमष्टपुष्पिकया नरः |
रामस्यानुग्रहार्थाय रावणस्य वधाय च || २५ ||
रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा |
ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते || २६ ||
जगाम नगरीं लङ्कां यत्रासीद्राघवः पुरा |
तत्र गत्वा महादेवी तदा तौ रामरावणौ || २७ ||
युद्धं नियोजयामास स्वयमन्तर्हिताम्बिका |
रक्षसां वानराणां च जग्ध्वा सा मांसशोणिते || २८ ||
रामरावणयोर्युद्धं सप्ताहं सा न्ययोजयत् |
व्यतीते सप्तमे रात्रौ नवम्यां रावणं ततः || २९ ||
रामेण घातयामास महामाया जगन्मयी |
यावत्तयोः स्वयं देवी युद्धकेलिमुदैक्षत || ३० ||
तावत् तु सप्तरात्राणि सैव देवैः सुपूजिता |
निहते रावणे वीरे नवम्यां सकलैः सुरैः || ३१ ||
विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः |
ततः सम्प्रेषिता देवी दशम्यां शार्वरोत्सवैः || ३२ ||
शाक्रोऽपि देवसेनाया नीराजनमथाकरोत् |
शान्त्यर्थं सुरसैन्यानां देवराज्यस्य वृद्धये || ३३ ||
रामरावणबाणेन युद्धं चावेक्ष्य भोतिदम् |
तृतीयायां तु लङ्कायाः पूर्वोत्तरदिशि स्थितम् || ३४ ||
स्वातीनक्षत्रयुक्तायां भीतं सुरबलं महत् |
शान्त्यर्थं वरयामास देवेन्द्रो वचनाद् हरेः || ३५ ||
ततस्तु श्रवणेनाथ दशम्यां चण्डिकां शुभाम् |
विसृज्य चक्रे शान्त्यर्थं बलनीराजनं हरिः || ३६ ||
नीराजितबलः शक्रस्तत्र रामं च राघवम् |
सम्प्राप्य प्रययौ स्वर्गं सह देवैः शचीपतिः || ३७ ||
इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे |
प्रादुर्भूता दशभुजा देवी देवहिताय वै || ३८ ||
नृणां त्रेतायुगस्यादौ जगतां हितकाम्यया |
पुराकल्पे यथावृत्तं प्रतिकल्पं तथा तथा || ३९ ||
प्रवर्तते स्वयं देवी दैत्यानां नाशनाय वै |
प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः || ४० ||
तथैव जायते युद्धं तथा त्रिदशसंगमः |
एवं रामसहस्राणि रावणानां सहस्रशः || ४१ ||
भवितव्यानि भूतानि तथा देवी प्रवर्तते |
पूजयन्ति सुराः सर्वे बलं नीराजयन्त्यपि || ४२ ||
तथैव च नराः सर्वे कुर्युः पूजां यथाविधि |
बलनीरजनं राजा कुर्याद् बलविवृद्धये || ४३ ||
दिव्यालङ्कारयुक्ताभिर्वारुणीभिः प्रवर्तनम् |
कर्तव्यं नृत्यगीतानि क्रीडाकौतुकमङ्गलैः || ४४ ||
मोदकैः पिष्टकैः पेयैर्भक्ष्यभोज्यैरनेकशः |
कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा || ४५ ||
द्राक्षामलकशाडिल्यैः प्लीहैश्च करुणैस्तथा |
कशेरुक्रमुकैर्मूलैः सजम्बुतिन्दुकादिभिः || ४६ ||
गव्यैर्गुडैस्तथा मांसैर्मद्यैर्मधुभिरेव च |
बालप्रियैश्च नैवेद्यैर्लाजाक्षतफलादिभिः || ४७ ||
इक्षुदण्डैः सिताभिश्च लवलीनागरङ्गकै |
अजाभिर्महिषैर्मेषैरात्मशोणितसञ्चयैः || ४८ ||
पक्ष्यादिबलिजातीयैस्तथा नानाविधैर्मृगैः |
पूजयेच्च जगद्धात्रीं मांसशोणितकर्दमैः || ४९ ||
रात्रौ स्कन्दविशाखस्य कृत्वा पिष्टकपुत्रिकाम् |
पूजयेच्छत्रुनाशाय दुर्गायाः प्रीतये तथा || ५० ||
होमं च सतिलैराज्यैर्मांसैरपि तथा चरेत् |
उग्रचण्डादिकाः पूज्यास्तथाष्टौ योगिनीः शुभाः || ५१ ||
योगिन्यश्च चतुःषष्ठिस्तथा वै कोटियोगिनीः |
नवदुर्गास्तथा पूज्या देव्याः सन्निहिताः शुभाः || ५२ ||
जयन्त्यादिर्गन्धपुष्पैस्ता देव्या मूर्तयो यतः |
देव्यः सर्वाणि चास्त्राणि भूषणानि तथैव च || ५३ ||
अङ्गप्रत्यङ्गयुक्तानि वाहनं सिंहमेव च |
महिषासुरमर्दिन्याः पूजयेद् भूतये सदा || ५४ ||
पुराकल्पे महादेवी मनोः स्वायम्भुवेऽन्तरे |
नृणां कृतयुगस्यादौ सर्वदेवैः स्तुता सदा || ५५ ||
महिषासुरनाशाय जगतां हितकाम्यया |
योगनिद्रा महामाया जगद्धात्री जगन्मयी || ५६ ||
भुजैः षोडशभिर्युक्त्या भद्रकालीति विश्रुता |
क्षीरोदस्योत्तरे तीरे बिभ्रती विपुलां तनुम् || ५७ ||
अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला |
जटाजूटसखण्डेन्दुकुटत्रयभूषिता || ५८ ||
नागहारेण सहिता स्वर्णहारविभूषिता |
शूलं चक्रं च खड्गं शङ्खं बाणं तथैव च || ५९ ||
शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः |
बिभ्रती सततं देवी विकाशिदशनोज्ज्वला || ६० ||
खेटकं चर्म चापं च पाशं चाङ्कुशमेव च |
घण्टां पर्शुं च मुषलं बिभ्रती वामपाणिभिः || ६१ ||
सिंहस्था नयनै रक्तवर्णैस्त्रिभिरतिज्वला |
शूलेन महिषं भित्त्वा तिष्ठन्ती परमेश्वरी || ६२ ||
वामपदेन चाक्रम्य तत्र देवी जगन्मयी |
तां दृष्ट्वा सकला देवाः प्रणम्य परमेश्वरीम् || ६३ ||
नोचुः किञ्चन तं दृष्ट्वा निहतं महिषासुरम् |
ततः प्रोवाच देवांस्तान् ब्रह्मादीन् परमेश्वरी || ६४ ||
स्मितप्रभिन्नवदना विकाशिवदनोज्ज्वला |
गच्छन्तु भोः सुरगणा जम्बुद्वीपान्तरं प्रति || ६५ ||
हिमवत् पर्वतासन्ने वरं कात्यायनाश्रमम् |
तत्रैव भवतां साध्यं भविष्यति न संशयः || ६६ ||
इत्युक्त्वा सा महादेवी तत्रैवान्तरधीयत |
देवा अपि तदा जग्मुः कात्यायनमुनेः पुरम् || ६७ ||
आश्रमं प्रति ते गत्वा विस्मयाविष्टमानसाः |
निहतो महिषो देव्या दिष्टोऽस्माभिर्यदर्थतः || ६८ ||
स्तुता चैषा महादेवी जगद्धात्री जगन्मयी |
किमर्थमाह सा देवी गन्तुं कात्यायनाश्रमम् || ६९ ||
किमन्यद् वाञ्छितं कार्यमस्माकं वा भविष्यति |
इति ब्रुवन्तस्ते सर्वे गच्छन्ति स्म परस्परम् || ७० ||
हिमवत्-पर्वतासन्नं मुनि-कात्यायनाश्रमम् |
ततः सेन्द्राः सदिक्पाला ब्रह्मविष्णुशिवास्तथा || ७१ ||
निषेदुः सुचिरं प्रीता दुर्गादर्शनलालसाः |
ततो रुद्रगणाः सर्वे महिषासुरचेष्टितम् || ७२ ||
आगत्य कथयामासुर्देवलोकपराभवम् |
ततस्तत्र महाकोपं ब्रह्मविष्णुशिवादयः || ७३ ||
चक्रुः कोऽन्योऽस्ति महिषो हतो देव्या स दानवः |
पुनर्येनेह क्रियते जगद्विध्वंसनं भृशम् || ७४ ||
इति प्रकुप्यतां तेषां शरीरेभ्यः पृथक् पृथक् |
निश्चक्रमुश्च तेजांसि शक्तिरूपाणि तत्क्षणात् || ७५ ||
तत्तेजोभिर्धृतवपुर्देवी कात्यायनेन वै |
सन्धुक्षिता पूजिता च तेन कात्यायनी स्मृता || ७६ ||
ततस्तेनैव मन्त्रेण दशबाहुयुतेन वै |
पश्चाज्जघान महिषं जगद्धात्री जगन्मयी || ७७ ||
यदा स्तुता महादेवी बोधिता चाश्विनस्य च |
चतुर्दशी कृष्णपक्षे प्रादुर्भूता जगन्मयी || ७८ ||
देवानां तेजसां मूर्तिः शुक्लपक्षे सुशोभने |
सप्तम्यां साऽकरोद् देवी अष्टम्यां तैरलङ्कृता || ७९ ||
नवम्यामुपहारैस्तु पूजिता महिषासुरम् |
निजघान दशम्यां तु विसृष्टान्तर्हिता शिवा || ८० ||
मार्कण्डेय उवाच
श्रुत्वेमां सगरो राजा देव्याः सङ्गतिमुत्तमाम् |
संशयालुश्च तद्रूपे पुनरौर्वमपृच्छत् || ८१ ||
सगर उवाच
यदि पश्चान्महादेवी जघान महिषासुरम् |
कथं पूर्वं हद्रकाली-रूपाभून्महिषासुरम् || ८२ ||
तथाहि दर्शनं तस्याः पादाक्रान्तश्चकार च |
हृदिशूलेन निर्भिन्नं ददृशुः सकलाः सुराः |
एवं तु संशयं छिन्धि मुनिश्रेष्ठ समाधुना || ८३ ||
और्व उवाच
शृणु त्वं नृपशार्दूल भद्रकाली यथा पुरा |
प्रादुर्भूता महामाया महिषेण सहैव तु || ८४ ||
महिषासुर एवासौ निद्रायां निशि पर्वते |
स्वप्नं प्रददृशे वीरो दारुणं घोरदर्शनम् || ८५ ||
महामाया भद्रकाली छित्त्वा खड्गेन मे शिरः |
पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा || ८६ ||
ततः प्रातर्भययुतः स दैत्यो महिषासुरः |
तामेव पूजयामास सुचिरं सानुगस्तदा || ८७ ||
आराधिता तदा देवी महिषेणासुरेण वै |
प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता || ८८ ||
ततः प्रणम्य महिषो महामायां जगन्मयीम् |
उवाचेदं वचो नम्रमूर्तिर्भक्तियुतोऽसुरः || ८९ ||
महिष उवाच
देवि खड्गेन सञ्छिद्य शोणितानि शिरो मम |
त्वया मुक्तानि दृष्टानि मया स्वप्नेन निश्चितम् || ९० ||
अवश्यं तु त्वया कार्यं मया ज्ञातं प्रमाणतः |
एतद्रुधिरपाअं मे तत्रैकं देहि मे वरम् || ९१ ||
वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि |
ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते || ९२ ||
किन्तु त्वयैव सहितः शम्भुराराधितः पुरा |
मम पित्रा मदर्थेन जातः पश्चादहं ततः || ९३ ||
मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथाविधाः |
मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् || ९४ ||
अकण्टकं मया भुक्तमनुतापो न विद्यते |
कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् || ९५ ||
सीमन्तिनी विनाशं ते करिष्यति न संशयः |
पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम सत्तमम् || ९६ ||
मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके |
दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात् तदा || ९७ ||
मया सम्मोहितो विप्रोऽत्यजत् सद्यस्तदा तपः |
नदूरात् संस्थितेनाहं मुनिना कात्यसूनुना || ९७ ||
ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना |
यस्मात् त्वया मे शिष्योऽयं मोहितस्तपसश्च्युतः || ९९ ||
कृतस्त्वया स्त्रीरूपेण तत् त्वां स्त्री निहनिष्यति |
इति मां शप्तवान् पूर्वं मुनिः कात्यायनः स्वयम् || १०० ||
तस्य शापस्य कालोऽयमागत्य समुपस्थितः |
देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् || १०१ ||
किञ्चिन्न शोच्यं मेऽत्रास्ति वाञ्छनीयं हि यन्मया |
तस्मात् त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मम |
यदूदेहि देवि दुर्गे त्वं भूयस्तुभ्यं नमो नमः || १०२ ||
देव्युवाच
प्रार्थनीयो वरो यस्ते तं वृणुष्व महासुर |
दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते || १०३ ||
महिष उवाच
यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः |
यथा मखेषु सर्वेषु पूज्योऽहं स्यां तथा कुरु || १०४ ||
त्वत्पादसेवां न त्यक्ष्ये यावत्सूर्यः प्रवर्तते |
एवं वरद्वयं देहि यदि देयो वरो मम || १०५ ||
देव्युवाच
यज्ञभागाः सुरेभ्यस्तु कल्पिता वै पृथक् पृथक् |
भागो न विद्यते चान्यो यं दास्यामि तवाधुना || १०६ ||
किन्तु त्वयि मया युद्धे निहते महिषासुर |
नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः || १०७ ||
मम प्रवर्तते पूजा यत्र यत्र च तत्र ते |
पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव || १०८ ||
इति श्रुत्वा वचस्तस्याः प्रत्यूषे महिषासुरः |
वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा || १०९ ||
उग्रचण्डे भद्रकालि दुर्गे देवि नमोऽस्तुते |
प्रभूता मूर्तया देवि भवत्या सकलात्मिकाः || ११० ||
काभिस्ते मूर्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि |
तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता || १११ ||
देव्युवाच
यानि नामानि प्रोक्तानि त्वयेह महिषासुर |
तासु मूर्तिषु संपृष्टः पूज्यो लोके भविष्यसि || ११२ ||
उग्रचण्डेति या मूर्तिर्भद्रकाली ह्यहं पुनः |
यया मूर्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्तिता || ११३ ||
एतासु मूर्तिषु सदा पादलग्नो नृणां भवान् |
पूज्यो भविष्यति स्वर्गे देवानामपि रक्षसाम् || ११४ ||
आदिसृष्टावुग्रचण्डामूर्त्या त्वं निहितः पुरा |
द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः || ११५ ||
दुर्गारूपेणाधुना त्वां हनिष्वामि सहानुगम् |
किन्तु पूर्व न गृहीतस्त्वं मया पादयोस्तले || ११६ ||
अधुना प्रार्थितवरो ग्रहीतः पूर्वकामयोः |
ग्रहीतव्यश्च पश्चात् त्वं यज्ञभागोपभुक्तये || ११७ ||
और्व उवाच
इत्युक्त्वा सा महामाया उग्रचण्डाह्वयां तनुम् |
दर्शयामास च तदा महिषायासुराय वै || ११८ ||
या मूर्तिः षोडशभुजा भद्रकालीति विश्रुता |
तथैव मूर्ति बाहुभ्यामपराभ्यां तु बिभ्रती || ११९ ||
दक्षिणाधो गदां वामपाणिना पानपात्रकम् |
सुरापूर्णं च शिरसा मुण्डमालां विलेशयम् || १२० ||
भिन्नाञ्जनचयप्रख्या प्रचण्डा सिंहवाहिनी |
रक्तनेत्रा महाकाया युक्ताऽष्टादशबाहुभिः || १२१ ||
उग्रचण्डा भद्रकाली देव्या मूर्तिद्वयं तथा |
महिषः प्रणनामाशु दृष्ट्वा विस्मयमागतः || १२२ ||
ततो यथा पदाक्रम्य निहतो महिषासुरः |
तथैव जगृहे पादतले देवीद्वयं तु तम् || १२३ ||
हृदि शूलेन निर्भिन्नं माहिषं विशिरस्ककम् |
गुहीतकेशं देव्या तु इर्यदन्त्रविभूषितम् || १२४ ||
वमद्रक्तं महाकायं दृष्ट्वा पूर्वतनुं स्वकम् |
भयं प्राप्यासुरः सोऽथ शुशोच च मुमोह च || १२५ ||
ततस्तु क्षणमात्मानं संस्तभ्य स तु दानवः |
प्रणम्य वचनं देवीमिदमाह स गद्गदम् || १२६ ||
महिष उवाच
यदि देवि प्रसन्नासि यज्ञभागाश्च कल्पिताः |
तदा ममान्यदा नाश एवमेतद् भवेन्न हि || १२७ ||
यथाहं न सुरैः सार्धं करिष्ये वैरमद्भुतम् |
तथा मां कुरु भो देवि न जन्म प्रलभे यथा || १२८ ||
देव्युवाच
आराधिताऽहं भवता वरो दत्तो मया तव |
वध्यश्च त्वं ममैवेह नात्र कार्या विचारणा || १२९ ||
यत् त्वया प्रार्थितं चापि सर्वैः सुरगणैः सह |
विरोधो मे सदा मा भूदिति चापि भविष्यति || १३० ||
मत्पादतलसंस्पर्शाच्छरीरं तव दानव |
यज्ञभागोपभोगाय विशीर्णं न भविष्यति || १३१ ||
तव जीवात्मभिः प्राणाः सर्व एव महासुरः |
हरस्य पादसंयोगाच्चिरं स्थास्यति केवलम् || १३२ ||
कल्पकोटिसहस्राणि त्रिंशत् त्वं महिषासुर |
शतानि चाष्टावन्यानि जन्म ते न भविष्यति || १३३ ||
इति देवी वरं दत्त्वा महिषायासुराय वै |
प्रणता तेन शिरसा तत्रैवान्तरधीयत || १३४ ||
महिषोऽपि निजस्थानं अयौ संमोहितः पुनः |
मायया चासुरं भावमादाय नृप पूर्ववत् || १३५ ||
सगर उवाच
अनेके निहिता दैत्या मायया लोकभूतये |
न ते पुनः प्रगृहीतास्तेभ्यो दत्त्वा वराञ् शुभान् |
एन वा कारणेनायं प्रगृहीतो वरः कथम् |
दत्तास्तस्मै समाचक्ष्व मम सम्यग् द्विजोत्तम || १३६ ||
और्व उवाच
आराधितो महादेवो रम्भेण सुरवैरिणा |
चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः || १३७ ||
अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुचिवान् |
प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् || १३८ ||
एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् |
अपुत्रोऽह महादेव यदि ते मययनुग्रहः || १३९ ||
मम जन्मत्रये पुत्रो भवान् भवतु शङ्कर |
अवध्यः सर्वभूतानां जेता च त्रिदिवौकसाम् || १४० ||
चिरायुश्च यशस्वी च लक्ष्मीवान् स च शङ्कर |
एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः || १४१ ||
भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव |
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत || १४२ ||
रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः |
पथि गच्छन् स रम्भोऽथ ददर्श महिषीं शुभाम् || १४३ ||
त्रिहायणीं चित्रवर्णां सुन्दरीमृतुशालिनीम् |
स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः || १४४ ||
दोर्भ्यां गृहित्वा च तदा चकार सुरतोत्सवम् |
तयोः प्रवृत्ते सुरते तदा सा तस्य तेजसा || १४५ ||
दधार महिषी गर्भं तदाऽभून्महिषासुरः |
तस्यां स्वांशेन गिरिशस्तत्पुत्रत्वमवाप्तवान् || १४६ ||
ववृधे स तदा राम्भिः शुक्लपक्षशशाङ्कवत् |
तं च कात्यायनमुनिः शप्तवान्महिषासुरम् || १४७ ||
दुर्नयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः |
कात्यायनेन शप्तं तं विज्ञाय महिषासुरम् || १४८ ||
ईश्वर उवाच
देवी कात्यायनेनायं शप्तोऽद्य महिषासुरः |
योषिद्विनाशक्र्त्रीति भवितेति जगन्मये || १४९ ||
निःसंशयमृषेर्वाक्यं भविष्यति न संशयः |
मदीयो माहिषः आयो देवि कार्यस्त्वया त्वयि || १५० ||
हन्तव्यः सततं योगयुक्तः पूर्वे परेऽपि च |
हरिर्हरिस्वरूपेण न त्वां वोढुं क्षमोऽधुना || १५१ ||
ममायं माहिषः कायस्तव वोढा भविष्यति |
इति पूर्वं महादेवो देवीं प्रार्थितवान् पुरा || १५२ ||
तेन देवी महादेवं जग्राह महिषासुरम् |
त्रिषु जन्मसु पुत्रोऽभूद्रम्भस्य भगवान् हरः || १५३ ||
सृष्टित्रये स रम्भोऽपि रम्भ एव व्यजायत |
आसुर तादृशं तेपे तपह् परमदारुणम् || १५४ ||
तथैवाराधितः शम्भुः पुत्रार्थे प्रददौ वरम् |
तथैव महिषीं भेजे प्रथमं सुरताय सः || १५५ ||
तस्यां तथाऽभवद्वीरो दानवो महिषासुरः |
तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् || १५६ ||
इति प्रवृत्ते पूर्वेऽस्मिन् परस्मिन् स तु जन्मनि |
महिषः पूजयित्वाऽथ देवीं वरमयाचत || १५७ ||
तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः |
नेह मे जन्म भवितेत्येवं वरमयाचत || १५८ ||
तेन देवीपादतले तिष्ठत्येषोऽसुरोऽधुना |
नोत्पत्तिरपि तस्याथ संवर्तान्तादभून्नृप || १५९ ||
एवं देवीप्रसादेन महादेवांशसम्भवः |
परामवाप सततं प्रतिपत्तिं महासुरः || १६० ||
इति ते कथितं राजन् यथा स महिषासुरः |
देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते |
प्रस्तुतं शृणु भो राजन् कथयामि नृपोत्तम || १६१ ||
मार्कण्डेय उवाच
इति वः कथितं राजा सगरः सहितो यथा |
और्वेण चक्रे संवादं देवीमहिषयोजने || १६२ ||
पुनर्यदाह भूयोऽपि सगराय महात्मने |
तच्छृण्वन्तु मुनिश्रेष्ठा गुह्याद् गुह्यतरं परम् || १६३ ||
इति श्रीकालिकापुराणे महिषासुरोपाख्यानो नामसष्टितमोऽध्यायः || ६० ||
Kapitel 61
एकषष्टितमोऽध्यायः
और्व उवाच
यथाह भगवान् देवो भैरवाय महात्मने |
वेतालाय नृपश्रेष्ठ तथा त्वं प्रस्तुतं शृणु || १ ||
श्रीभगवानुवाच
उग्रचण्डा च या मूर्तिरष्टादशभुजाऽभवत् |
सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ || २ ||
प्रादुर्भूता महामाया योगिनीकोटिभिः सह |
आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् || ३ ||
दक्षः कर्तुं समारेभे वृताः सर्वे दिवौकसः |
ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना || ४ ||
कपालीति सती चापि तज्जायेति च नो वृता |
ततो रोषसमायुक्ता प्राणास्तत्याज सा सती || ५ ||
त्यक्तदेहा सती चापि चण्डमूर्तिस्तदाऽभवत् |
ततः प्रवृत्ते यज्ञेऽपि तस्मिन् द्वादशवार्षिके || ६ ||
नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्तिधृक् |
योगनिद्रा महामाया योगिनीकोटिभिः सह || ७ ||
सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् |
शङ्करस्य गणैः सर्वैः सहिता शङ्करेण च || ८ ||
स्वयं बभञ्ज सा देवी महासत्रं महात्मनः |
ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः || ९ ||
पूजयाञ्चक्रुरतुलां देवीं पूर्वोदितेन वै |
पूर्वोदितविधानेन पूजामस्या दिवौकसः || १० ||
कृत्वैव परमामापुर्निवृतिं दुःखहानये |
एवमन्यैरपि सदा कार्यं देव्याः प्रपूजनम् || ११ ||
विभूतिमतुलां प्राप्तुं चतुर्वर्गप्रदायिकाम् |
यो मोहादथवाऽलस्याद् देवीं दुर्गां महोत्सवे || १२ ||
न पूजयति दम्भाद् वा द्वेषाद्वाऽप्यथ भैरव |
क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै || १३ ||
परत्र च महामाया - बलिर्भूत्वा प्रजायते |
अष्टम्यां रुधिरैश्चैव महामांसैः सुगन्धिभिः || १४ ||
पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः शिवाम् |
सिन्दूरैः पट्टवासोभिर्नानाविधविलेपनैः || १५ ||
पुष्पैरनेकजातीयैः फलैर्बहुविधरपि |
उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् || १६ ||
यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् |
पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा || १७ ||
विसर्जयेद् दशम्यां तु श्रवणे शावरोत्सवैः |
अन्त्यपादो दिवाभागे श्रवणस्य यदा भवेत् || १८ ||
तदा सम्प्रेषणं देव्या दशम्यां कारयेद् बुधः |
सुवासिनी कुमारीभिर्वेश्याभिर्नर्तकैस्तथा || १९ ||
शङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा |
ध्वजैर्वस्त्रैर्बहुविधैर्लाजपुष्पप्रकीर्णकैः || २० ||
धूलिकर्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः |
भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः || २१ ||
भगलिङ्गादिशब्दैश्च क्रीद्ऽयेयुरलं जनाः |
परैर्नाक्षिप्यते यस्तु यः परान्नक्षिपेद् यदि || २२ ||
क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् |
आदिपादो निशाभागे श्रवणस्य यदा भवेत् || २३ ||
तदा देव्याः समुत्थानं नवम्यां न पुनर्दिवा |
अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् || २४ ||
तदा देव्याः समुत्थानं नवम्यां दिनभागतः |
विसर्जनमनेनैव मन्त्रेण वत्स भैरव || २४ ||
कर्तव्यमम्भसि स्थाप्य विसृज्य च विभूतये |
उत्तिष्ठ देवि चण्डेशे शुभां पूजां प्रगृह्य च || २६ ||
कुरुष्व मम कल्याणमष्टभिः शक्तिभिः सह |
गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके || २७ ||
यत् पूजितं मया देवि परिपूर्णं तदस्तु मे |
व्रज त्वं स्रोतसि जले तिष्ठ गेहे च भूतये || २८ ||
निमज्ज्याम्भसि सन्त्यज्य पत्रिकावजिते जले |
पुत्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया || २९ ||
इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले |
सर्वलोक-हितार्थाय सर्वलोकविभूतये || ३० ||
दुर्गा-तन्त्रेण मन्त्रेण पूजितव्ये उभे अपि |
भद्रकालीमुग्रचण्डां महामायां महोत्सवे || ३१ ||
नेत्रबीजं तु सर्वासां पूजने परिकीर्तितम् |
योगिनीनां तु सर्वासां मूलमूर्तेस्तथैव च || ३२ ||
मन्त्रं तथोग्रचण्डायाः पृथक् त्वं शृणु भैरव |
आद्यद्वयं नेत्रबीजं मन्त्रस्योपान्तमन्तरे || ३३ ||
वह्निनाऽन्तःस्वरेणेन्दुबिन्दुभ्यां तन्त्रमौग्रकम् |
नेत्रबीजं द्वितीयं तु द्विधावर्तितमुच्यते || ३४ ||
भद्रकाल्यास्तु मन्त्रोऽयं धर्मकामार्थसिद्धये |
यदा तु वैष्णवी देवी महामाया जगन्मयी || ३५ ||
पुज्यते वैष्णवी देवी तन्त्रोक्ता अष्टयोगिनीः |
ताः प्रोक्ताः शैलपुत्र्याश्च पूर्वकल्पे च भैरव || ३६ ||
उग्रचण्डादयश्चाष्टौ दुर्गातन्त्रस्य कीर्तिताः |
भद्रकाल्यास्तु मन्त्रेण भद्रकालीं प्रपूजयेत् || ३७ ||
पूजयेद् भूतिवृद्ध्यर्थमेता एवाष्टयोगिनीः |
जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् || ३८ ||
दुर्गां शिवां क्षमां धात्रीं दलेष्वष्टसु पूजयेत् |
यदोग्रचण्डातन्त्रेण सा देवो तत्र पूज्यते || ३९ ||
योगिन्यस्तत्र पूज्याः स्युरष्टावन्याश्च भैरव |
कौशिकी शिवदूती च उमा हैमवतीश्वरी || ४० ||
शाकम्भरी च दुर्गा च सप्तमी च महोदरी |
उमायाः सौम्यमूर्तेस्तु तन्त्रं त्वं शृणु भैरव || ४१ ||
पादिः समाप्तिसहितः फडन्तो नान्त एव च |
एकाक्षरस्त्र्यक्षरश्य उमामन्त्र इति स्मृतः || ४२ ||
सुवर्णसदृशीं गौरीं भुजद्वयसमन्विताम् |
नीलारविन्दं वामेन पाणिना बिभ्रतीं सदा || ४३ ||
शुक्लं तु चामरं धृता भर्गस्याङ्गेऽथ दक्षिणे |
विन्यस्य दक्षिणं हस्तं तिष्ठन्तीं परिचिन्तयेत् || ४४ ||
विनापि शम्भुं रुद्राणीं भक्तस्तु परिचिन्तयेत् |
द्विभुजां स्वर्णगौराङ्गीं पद्मचामरधारिणीम् || ४५ ||
व्याघ्रचर्मस्थिते पद्मे पद्मासनगता सदा |
एतस्याः पूजने प्रोक्ता अष्टौ वेतालभैरव || ४६ ||
योगिन्यो नायिकाश्चापि पृथक्त्वेन व्यवस्थिताः |
जया च विजया चैव मातङ्गी ललिता तथा || ४७ ||
नारायण्यथ सावित्री स्वधा स्वाहा तथाऽष्टमी |
पूर्वं शुम्भो निशुम्भश्च दानवौ भ्रातरावुभौ || ४८ ||
बभूवतुर्महासत्त्वौ महाकायौ महाबलौ |
अन्धकस्य सुतौ द्वौ तौ दन्तिनाविव दुर्मदौ || ४९ ||
मया विनिहते तस्मिन्नन्धकाख्ये महाबले |
ससैन्यवाहनौ तौ तु पातालतलमाश्रितौ || ५० ||
अतस्तप्त्वा तपस्तीव्रं ब्रह्माणन्तौ महासुरौ |
सम्यक् तदाऽतोषयतां स सुप्रीतो वरं ददौ || ५१ ||
तौ ब्रह्मवरदृप्तौ तु समासाद्य जगत्त्रयम् |
इन्द्रत्वमकरोच्छुम्भश्चन्द्रत्वं च निशुम्भकः || ५२ ||
सर्वेषामेव देवानां यज्ञभागानुपाहरत् |
स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं च तौ गतौ || ५३ ||
सर्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् |
गङ्गावतारनिकटे महामायां प्रतुष्टुवुः || ५४ ||
अनकेशः स्तुता देवी तदा सर्वामरोत्करैः |
मातङ्गवनितामूर्तिर्भूत्वा देवानपृच्छत || ५५ ||
युष्माभिरमरैरत्र स्तूयते का च भामिनी |
किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति || ५६ ||
एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः |
समुद्भूताऽब्रवीद् देवी मां स्तुवन्ति सुरा इति || ५७ ||
शुम्भो निशुम्भो ह्यसुरौ बाधैते सकलान् सुरान् |
तस्मात् तयोर्वधायाहं स्तूये तैः सकलैः सुरैः || ५८ ||
विनिःसृतायां देव्यां तु मातङ्ग्याः कायकोषतः |
भिन्नाञ्जननिभा कृष्णा साऽभूद् गौरी क्षणादपि || ५९ ||
कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया |
तामुग्रतारामृषयो वदन्तीह मनीषिणः || ६० ||
उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका |
एतस्याः प्रथमं बीजं कथितं त्रयमेव च || ६१ ||
एषैवैकजटाख्या तु यस्मात्तस्माज्जटैकिका |
शृणुतं चिन्तनं चास्याः सम्यग्वेतालभैरवौ || ६२ ||
यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् |
चतुर्भुजा कृष्णवर्णां मुण्डमालाविभूषिताम् || ६३ ||
खड्गं दक्षिणपाणिभ्यां इभ्रतीं चामरं त्वधः |
कर्त्रीं च खर्परं चैव क्रमाद्वामेन बिभ्रतीम् || ६४ ||
द्यां लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् |
मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्वदा || ६५ ||
वक्षसा नागहारं तु बिभ्रतीं रक्तलोचनाम् |
कृष्णवस्त्रधरां कट्यां व्याघ्राजिन-समन्विताम् || ६६ ||
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् |
विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् || ६७ ||
साट्टहासां महाघोरां रावयुक्तातिभीषणाम् |
चिन्त्याग्रे तारा सततं भक्तिमद्भिः सुखेप्सुभिः || ६८ ||
एतस्याः सम्प्रवक्ष्यामि या अष्टौ योगिनीः स्मृताः |
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च || ६९ ||
घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी |
भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत् || ७० ||
या कायकोषान्निःसृता कालिकायास्तु भैरव |
सा कौशिकीति विख्याता चारुरूपा मनोहरा || ७१ ||
निःसृता हृदयाद् देव्या रसनाग्रेण चण्डिका |
नैतस्याः सदृशी मूर्त्या चारुरूपेण विद्यते || ७२ ||
त्रिषु लोकेषु कान्त्या वा नास्त्यास्तुल्या भविष्यति |
योगनिद्रा महामाया या मूलप्रकृतिर्मता || ७३ ||
तस्याः प्राणस्वरूपेयं देवी या कौशिकी स्मृता |
नेत्रबीजं तथैतस्या बीजं तु परिकीर्तितम् || ७४ ||
अन्त्रमस्याः प्रवक्ष्यामि मूर्तिरूपं च भैरव |
समाप्तिनान्त्यदन्त्यस्तु षड्वर्गादि-सबिन्दुभिः || ७५ ||
षष्ठस्वरेण संस्पृष्ठो बिन्दुना समलङ्कृतः |
कौशिकीमन्त्रतन्त्रोऽयं सर्वकामार्थदायकः || ७६ ||
तस्यास्तु सम्प्रवक्ष्यामि या मूर्तिरिह भैरव |
शृणुष्वैकमना भूत्वा जगदाह्लादकारकम् || ७७ ||
धम्मिल्लसंयतकचां विधोश्चाधोमुखीं कलाम् |
केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा || ७८ ||
मणिकुण्डलसंघृष्टगण्डा मुकुटमण्डिता |
सज्ज्योतिः कर्णपूराभ्यां कर्णमापूर्य सङ्गता || ७९ ||
सुवर्णमणिमाणिक्यनागहारविराजिता |
सदा सुगन्धिभिः अद्मैरम्लानैरतिसुन्दरी || ८० ||
मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी |
मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः || ८१ ||
राजन्ती कञ्चुकोपेत-पीनोन्नतपयोधरा |
क्षीणमध्या पीतवस्त्रा त्रिवलीप्रख्यभूषिता || ८२ ||
शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च |
दक्षिणैः पाणिभिर्देवी गृहीत्वा तु विराजिता || ८३ ||
गदां घण्टां च चापं च चर्म शङ्खं तथैव च |
ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभिः || ८४ ||
सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्माणि कौशिकी |
बिभ्रती रूपमतुलं ससुरासुरमोहनम् || ८५ ||
एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः |
ताः पूजिताश्च कुर्वन्ति चतुर्वर्गं नृणां सदा || ८६ ||
ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी मता |
कौमारी चैव वाराही वैष्णवी पञ्चमी तथा || ८७ ||
नारसिंही तथैवैन्द्री शिवदूती तथाऽष्टमी |
एताः पूज्या महाभागा योगिन्यः कामदायिकाः || ८८ ||
देव्या ललाटनिष्क्रान्ता या कालीति च विश्रुता |
तस्या मन्त्रं प्रवक्ष्यामि कामद शृणु भैरव || ८९ ||
समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः |
षष्ठस्वराग्निबिन्द्विन्दुसहितः सादिरेव च || ९० ||
कालीमन्त्रमिति प्रोक्तं धर्मकामार्थदायकम् |
एतन्मूर्तिं प्रवक्ष्यामि वत्सैकाग्रमनाः शृणु || ९१ ||
नीलोत्पलदलश्यामा चतुर्बाहुसमन्विता |
खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे || ९२ ||
वामे चर्म च पाशं च ऊर्ध्वाधोभागतः पुनः |
दधती मुण्डमालां च व्याघ्रचर्मधरा वराम् || ९३ ||
कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा |
लोलजिह्वा निम्नरक्त-नयना नादभैरवा || ९४ ||
कबन्धवाहनासीना विस्तार-श्रवणानना |
एषा ताराह्वया देवी चामुण्डेति च गीयते || ९५ ||
एतस्या योगिनीश्चाष्टौ पूजयेच्चिन्तयेद् यदि |
त्रिपुरा भीषणा चण्डी कर्त्री हर्त्री विधायिनी || ९६ ||
कराला शूलिनी चेति अष्टौ ताः परिकीर्तिताः |
एषाऽतिकामदा देवी जाड्यहानिकरी सदा || ९७ ||
एतस्याः सदृशी काचित् कामदा न हि विद्यते |
कौशिक्या हृदयाद् देवी निःसृता ध्यायतो हरेः || ९८ ||
शिवदूतीति सा ख्याता या च देवशतैर्वृता |
मन्त्रमस्याः प्रवक्ष्यामि धर्मकामार्थदायकम् || ९९ ||
यच्छ्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् |
यामाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् || १०० ||
नचिराल्लभते कामान् नरः सर्वजयी भवेत् |
अन्तः समाप्तिसहितो बिन्द्विन्दुभ्यां दशावरः || १०१ ||
स्वरेणोपान्तदन्त्येन संस्पृष्टोऽन्तेन पूर्वशः |
स एव बिन्दुयुगलपूर्वस्थोपान्तपावकः || १०२ ||
षष्ठस्वरकलाशुन्यैः सहितः प्रथमस्थितः |
मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः || १०३ ||
रूपमस्याः प्रवक्ष्यामि शृणु वत्सैकसम्मतः |
चतुर्भुजं महाकायं सिन्दूरसदृशद्युति || १०४ ||
रक्तदन्तं मुण्डमाला-जटाजूटार्धचन्द्रधृक् |
नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् || १०५ ||
व्याघ्रचर्म-परिधानं दक्षिणे शूलखड्गधृक् |
वामे पाशं तथा चर्म बिभ्रदूर्द्व्हापरक्रमात् || १०६ ||
स्थूलवक्त्रं च पीनोष्ठं तुङ्गमूर्ति भयङ्करम् |
निक्षिप्य दक्षिणं पादं सन्तिष्ठत् कुणपोपरि || १०७ ||
वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् |
ईदृशीं शिवदूत्यास्तु मूर्तिं ध्यायेद् विभूतये || १०८ ||
ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् |
पूजनादचिराद् देवी सर्वान् कामान् ददाति च || १०९ ||
यः शिवाविरुतं श्रुत्वा विशदूतीं शुभप्रदाम् |
प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः || ११० ||
यदा जघान जगतां रक्तबीजं हिताय वै |
महादेवी महामाया तदास्याः कायतः सृताः || १११ ||
दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका |
तेन सा शिवदूतीति देवैः सर्वैः प्रगीयते || ११२ ||
क्षेमकारी च शान्ता च वेदमाता महोदरी |
कराला कामदा देवी भगास्या भगमालिनी || ११३ ||
भगोदरी भगारोहा भगजिह्वा भगा तथा |
एता द्वादश योगिन्यः पूजने परिकीर्तिताः || ११४ ||
एता द्वादश योगिन्यः शिवदूत्याः सदैव हि |
विचरन्ती स्वयं देवी यत्र तत्रैव गच्छति || ११५ ||
योगिन्यो ह्यथ सख्यः स्युर्यथान्यासां तथा पुनः |
चण्डिकायास्तु योगिन्यः सख्योऽत्र च प्रकीर्तिताः || ११६ ||
इति ते त्वङ्गमन्त्राणि कथितानि समासतः |
कामाख्यायाश्च महात्म्यं कल्पमात्रं वदामि वाम् || ११७ ||
इति श्रीकालिकापुराणे कामाख्यामाहात्म्ये एकषष्टितमोऽध्यायः || ६१ ||
Kapitel 62
द्विषष्टितमोऽध्यायः
भगवानुवाच
कामार्थमागता यस्मान्मया सार्धं महागिरौ |
कामाख्या प्रोच्यते देवी नीलकूटे रहोगता || १ ||
कामदा कामिनी कामा कान्ता कामाङ्गदायिनी |
कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते || २ ||
एतस्याः शृणु माहात्म्यं कामाख्याया विशेषतः |
या सा प्रकृतिरूपेण जगत्सर्वं नियोजयेत् || ३ ||
मधुकैटभनाशाय महामायाविमोहितः |
यदा संयुयुधे विष्णुस्तदैषामोहयद्धरिम् || ४ ||
दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे |
तस्य श्रवणविड्जातावसुरौ मधुकैटभौ || ५ ||
कूर्मपृष्ठे स्थिता देवी विशीर्णेवाभवज्जलैः |
तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् || ६ ||
तां वै दृढतरां पृथ्वीं कर्तुं प्रति तदेश्वरी |
उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा || ७ ||
इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः |
सृष्टिकाले जनान् सोढुं कथं शक्ता भविष्यति || ८ ||
इति सञ्चिन्त्य सा माया जगतां सृष्टिरूपिणी |
उपगम्य तदा विष्णुमाससाद सुनिद्रितम् || ९ ||
तं तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् |
वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् || १० ||
निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् |
चूर्णीचकार सा देवी योगनिद्रा जगत्प्रसूः || ११ ||
तत्कर्णमलचूर्णेभ्यो मधुर्नामासुरोऽभवत् |
ततो दक्षिणहस्तस्य कनिष्ठाग्रं तु दक्षिणे || १२ ||
कर्णे न्यवेशयद् देवी तस्मादप्युद्धृतं मलम् |
तच्चापि क्षोदयामास करशाखाद्वयेन तु || १३ ||
ततोऽभूत् कैटभो नाम बलवान् सोऽसुरो महान् |
उत्पन्नः स च पानार्थं यस्मान्मृगितवान्मधु || १४ ||
ततस्तस्य महादेवी मधुनामाकरोत्तदा |
उत्पन्नः कीटवद्भाति महामायाकरे यतः || १५ ||
ततोऽस्य कैटभं नाम महामाया तदाकरोत् |
आवुवाच महामाया युध्यतां हरिणा सह || १६ ||
युवां नो श्रद्धयेवात्र भवन्तौ निहनिष्यति |
युवां यदा प्रभाषेथे आवां विष्णो वधान भो || १७ ||
तदैवायं युवां हन्ता नान्यथा हरिरप्यथ |
महामायामोहितौ तौ विष्णुगात्रं तदा गतौ || १८ ||
भ्रममाणौ ददृशतुर्नाभिपद्मोत्थितं विधिम् |
तमूचतुस्तौ धातारं हनिष्यावोऽद्य त्वामिह || १९ ||
तं जागरय वैकुण्ठं यदि जीवितुमिच्छसि |
ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् || २० ||
प्रसादयामास तदा स्तुतिभिर्बहुभिर्भयात् |
चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना || २१ ||
प्रसन्ना तरसा व्यग्रमुवाच च यथाविधि |
किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव || २२ ||
तद् वद त्वं महाभाग करिष्याम्यहमद्य ते |
ततस्तेन महामाया प्रोक्ता धात्रा महात्मना || २३ ||
प्रबोधय जगन्नाथं यावत्रो मां हनिष्यतः |
सम्मोहय दुराधर्षावसुरौ मधुकैटभौ || २४ ||
इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना |
बोधयामास वैकुण्ठं मोहयामास तौ तदा || २५ ||
ततः प्रबुद्धः कृष्णस्तु ददर्श भयशालिनम् |
ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ || २६ ||
ततस्ताभ्यां स युयुधे ह्यसुराभ्यां जनार्दन |
नाशकद्धारितुं वीरावसुरौ मधुकैटभौ || २७ ||
अनन्तोऽपि फणाग्रेण तान्नो धर्तुं क्षमोऽभवत् |
युध्यमानान् महावीरान् वैकुण्ठ मधुकैटभान् || २८ ||
अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् |
अर्धयोजनविस्तीर्णामर्धयोजनमायताम् || २९ ||
तस्यां शिलायां गोविन्दो युयुधे नृपसत्तम |
सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम् || ३० ||
तस्यां तु शक्त्यां मग्नायां तोये स युयुधे हरिः |
पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम् || ३१ ||
यदा वै नाशकद् हन्तुं तौ विष्णुर्जगतां पतिः |
परां चिन्तां तदावाप विधातापि भयात् ततः || ३२ ||
ततस्तावेव तं विष्णुमूचतुर्बलदर्पितौ |
पुनः पुनर्जगन्मातृ-महामाया-विमोहितौ || ३३ ||
तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव |
तवेष्टं सम्प्रदास्यावः सत्यमेतद् ब्रुवोऽधना || ३४ ||
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः |
उवाच तौ युवां वध्यौ भवतां मे महाबलौ || ३५ ||
इति देहि वरं मह्यं दातव्यं यदि विद्यते |
तौ तदा प्राहतुर्नाशस्त्वत्तो नौ शोभनोऽधुना || ३६ ||
तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते |
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः || ३७ ||
ब्रह्माणं मां च शीघ्रेण प्राहेदं चात्मसंज्ञया |
ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य ध्रियतां यथा || ३८ ||
तत्र स्थित्वा महाघोरौ हनिष्यामि महाबलौ |
ततो ब्रह्मा ह्यहं चैव उद्दधार शिलां तु ताम् || ३९ ||
तस्यां मध्ये पूर्वभागे ह्यह पर्वतरूपधृक् |
ऊर्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम् || ४० ||
ऐशान्यामभवत् कूर्मः पर्वतश्चाग्रहीच्छिलाम् |
वायव्यां तथानन्तो नैर्-ऋत्यां च सुरेश्वरी || ४१ ||
महामाया जगद्धात्री शैलरूपप्रधारिणी |
आग्नेययां च तथा विष्णुरेकरूपेण संस्थितः || ४२ ||
ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः |
मध्ये ब्रह्मा त्वहं चैव वराहश्च तथापरः || ४३ ||
ततो वराहपृष्ठस्य चरमे जगतांपतिः |
स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम् || ४४ ||
वामोरुजघने यत्नादारोप्य शिरसी तयो |
जगदाधारभूतः स सर्वयत्नेन संयुतः || ४५ ||
सर्वर्बलैः समाक्रम्य चिच्छेद च पृथक् पृथक् |
मधुकैटभयोः सम्यग् ग्रीवयोः पृथिवीमृते || ४६ ||
तस्य चाक्रमत स्थेम्ना ब्रह्मशक्तिरधोगता |
ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः || ४७ ||
ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः |
ब्रह्मशक्तिं समुद्धृत्य न्यधात् तस्यां प्रयत्नतः || ४८ ||
उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः |
सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः || ४९ ||
मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा |
अद्यापि पृथिवी देवी देवराक्षसमानुषैः || ५० ||
अथ काले बहुतिथे व्यतीते प्राणिसर्जने |
अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् || ५१ ||
सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः |
अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् || ५२ ||
ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् |
न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा || ५३ ||
ततो मोहं समाक्रान्ततामादाय मृतामहम् |
प्रातः पीठवरं तं तु भ्रममाण इतस्ततः || ५४ ||
तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः |
तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः || ५५ ||
तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् |
पतितं तत्र सा देवी महामाया व्यलीयत || ५६ ||
लीनायां योगनिद्रायां मयि पर्वतरूपिणिः |
स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले || ५७ ||
स तु शैलो महातुङ्गः पातालतलमाविशत् |
तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् || ५८ ||
स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः |
शैलरूपोऽभवत् तेन शैलरूपेण मामधात् || ५९ ||
ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि |
स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः || ६० ||
उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः |
सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः || ४९ ||
मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा |
अद्यापि पृथिवी देवी देवराक्षसमानुषैः || ५० ||
अथ काले बहुतिथे व्यतीते प्राणिसर्जने |
अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् || ५१ ||
सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः |
अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् || ५२ ||
ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् |
न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा || ५३ ||
ततो मोहं समाक्रान्ततामादाय मृतामहम् |
प्रातः पीठवरं तं तु भ्रममाण इतस्ततः || ५४ ||
तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः |
तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः || ५५ ||
तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् |
पतितं तत्र सा देवी महामाया व्यलीयत || ५६ ||
लीनायां योगनिद्रायां मयि पर्वतरूपिणिः |
स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले || ५७ ||
स तु शैलो महातुङ्गः पातालतलमाविशत् |
तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् || ५८ ||
स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः |
शैलरूपोऽभवत् तेन शैलरूपेण मामधात् || ५९ ||
ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि |
स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः || ६० ||
ततो वराहः संसक्तो मयि मां स तु माधवः |
शैलरूपः शैलरूपं धर्तुं समुपचक्रमे || ६१ ||
सोऽप्यधोऽयान्मया सार्धं तदा पर्वतरूपिणी |
आक्रम्य देवीं पृथिवीं स्थितो भुवि निखानितः || ६२ ||
शतं शतं योजनानां तुङ्गमासीद् गिरित्रयम् |
तदाक्रान्तं महादेव्या सर्वमेव ह्यधोगतम् || ६३ ||
क्रोशमात्रस्थितं तुङ्गशेषं तत्त्रितयस्य तु |
एका समस्तजगतां प्रकृतिः सा यतस्ततः || ६४ ||
ब्रह्मविष्णुशिवैर्देवैर्धृता सा जगतां प्रसूः |
तत्र पूर्वो ब्रह्मशैलः श्वेत इत्युच्यते सुरैः || ६५ ||
मद्रूपधारी शैलस्तु नील इत्युच्यते तथा |
स तु मध्यगतः पीठस्त्रिकोणोलूखलाकृतिः || ६६ ||
विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः |
वराहः शैलरूपो यः स चित्र इति कथ्यते || ६७ ||
सर्वेषां संस्थितः पश्चाद् दीर्घः सर्वेभ्य एव तु |
ऐशान्यां योऽभवत् कूर्मः शैलरूपो महाद्युतिः || ६८ ||
मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः |
योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः || ६९ ||
मणिपर्वतसंज्ञोऽसौ पर्वतो माधवप्रियः |
महामाया गिरिर्यस्तु नैर्-ऋत्यां समवस्थितः || ७० ||
स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः |
वराहपृष्ठचरमे यतश्छिन्नौ महासुरौ || ७१ ||
हरिणा तत्र संयातः पाण्डुनाथ इति स्मृतः |
ब्रह्मशक्तिशिलायास्तु पूर्वभागे तु मध्यतः || ७२ ||
यस्तु पर्वतरूपोऽहं स तु भस्मचलाह्वयः |
एवं पुण्यतमे पीठे कुब्जिकापीठसंज्ञके || ७३ ||
नीलकूटे मया सार्धं देवी रहसि संस्थिता |
सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् || ७४ ||
शिलात्वमगमच्छैले कामाख्या तत्र संस्थिता |
संस्पृश्य तां शिलां मर्त्यो ह्यमरत्वमवाप्नुयात् || ७५ ||
अमर्त्यो ब्रह्मसदनं तत्स्थो मोक्षमवाप्नुयात् |
तस्याः शिलाया माहात्म्यं यत्र कामेश्वरी स्थिता || ७६ ||
अद्भुतं यस्य गुह्ये तु लोहं भस्म भवेद्गतम् |
सा चापि प्रत्यहं तत्र पञ्चमूर्तिधराभवत् || ७७ ||
मोहार्थं सर्वलोकानां ममापि प्रीतये शिवा |
अहं पञ्चमुखेनाशु पञ्चभागे व्यवस्थितः || ७८ ||
ईशानः पूर्वभागस्थः कामेश्वर्याः प्रधानतः |
ऐशान्यां वै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ || ७९ ||
सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः |
देव्याश्चापि नरश्रेष्ठ पञ्चरूपाणि भैरव || ८० ||
शृणु वेताल गुह्यानि देवैरपि सदैव हि |
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा || ८१ ||
शारदाथ महालोका कामरूपगुणैर्युता |
मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले || ८२ ||
सर्वे शिलात्वमगमच्छैलरूपाश्च निर्जराः |
यथाहं निजरूपेण रेमे वै सह कामया || ८३ ||
शिलारूपप्रतिच्छन्नास्तथा सर्वास्तु देवताः |
शिलारूपप्रतिच्छन्नाः शैले शैले व्यवस्थिता || ८४ ||
रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः |
ब्रह्मा विष्णुर्हरश्चात्र दिक्पालाः सर्व एव ते || ८५ ||
अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि |
उपासितुं तदा देवीं कामाख्यां कामरूपिणीम् || ८६ ||
नीलशैलस्त्रिकोणस्तु मध्यनिम्नः सदाशिवः |
तन्मध्ये मण्डलं चारु त्रिंशच्छक्तिसमन्वितम् || ८७ ||
उहा मनोभवा तत्र मनोभवविनिर्मिता |
योनिस्तस्यां शिलायां तु शिलारूपा मनोहरा |
वितस्तिमात्रविस्तीर्णा एकविंशाङ्गुलीयुता || ८८ ||
क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी |
अहामाया जगद्धात्री मूलभूता सनातनी || ८९ ||
सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी |
तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी || ९० ||
तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः |
पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः || ९१ ||
तासां तु पीठनामानि शृणु चैकत्र भैरव |
गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी || ९२ ||
कोटीश्वरी वनस्था तु पाददुर्गा तथापरा |
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी || ९३ ||
स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः |
सर्वतीर्थानि चैकत्र जलरूपाणि भैरव || ९४ ||
स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा |
विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत || ९५ ||
कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः |
लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते || ९६ ||
ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती |
गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः || ९७ ||
सिद्धः स नाम्ना विख्याता द्वारे देव्याः प्रियः सुतः |
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता || ९८ ||
भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये |
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः || ९९ ||
जघने शिरसी कृत्वा जघान मधुकैटभौ |
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा || १०० ||
ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसंज्ञकम् |
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव || १०१ ||
क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी |
अहामाया जगद्धात्री मूलभूता सनातनी || ८९ ||
सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी |
तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी || ९० ||
तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः |
पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः || ९१ ||
तासां तु पीठनामानि शृणु चैकत्र भैरव |
गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी || ९२ ||
कोटीश्वरी वनस्था तु पाददुर्गा तथापरा |
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी || ९३ ||
स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः |
सर्वतीर्थानि चैकत्र जलरूपाणि भैरव || ९४ ||
स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा |
विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत || ९५ ||
कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः |
लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते || ९६ ||
ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती |
गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः || ९७ ||
सिद्धः स नाम्ना विख्यातो द्वारे देव्याः प्रियः सुतः |
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता || ९८ ||
भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये |
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरियतः || ९९ ||
जघने शिरसी कृत्वा जघान मधुकैटभौ |
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा || १०० ||
ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसंज्ञकम् |
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव || १०१ ||
तस्यासन्ने गयाक्षेत्रं क्षत्रं वाराणसी तथा |
योनिमण्डलसंकाशं कुण्डं भूत्वा व्यवस्थितम् || १०२ ||
तत्रैवामृतकुण्डं तु सुधासङ्घप्रपूरितम् |
मम प्रियार्थमिन्द्रेण स्थापितं सह निर्जरैः || १०३ ||
वामदेवाह्वयं शीर्षं श्रीकामेश्वरसंज्ञकम् |
कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम् || १०४ ||
केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः |
दीर्घं चतुर्दशव्यामच्छायाच्छत्राह्वयं तु तत् || १०५ ||
तस्यासन्ने शैलपुत्री गुप्तकामाह्वया तु सा |
गुप्तकुण्डस्य मध्यस्था कामेशग्रावणि सङ्गता || १०६ ||
कामेश्वरशिलासक्ता कामाख्यासंज्ञिता सदा |
पूर्वभागेण संसक्ता योनेस्तु परमार्गतः || १०७ ||
कामकामाख्ययोर्मध्ये कालरात्रिर्व्यवस्थिता |
पीठे दीर्घेश्वरो नाम्ना सीमाभागे प्रचण्डिका || १०८ ||
कामाख्याप्रस्तरप्रान्ते कूष्माण्डी नाम योगिनी |
पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता || १०९ ||
यच्चाघोराह्वयं शीर्षं तत्कामायास्तु दक्षिणे |
पीठे भैरवनामा तु गदिते परमार्थिभिः || ११० ||
चामुण्डा भैरवी नाम्ना भैरवासन्नसंस्थिता |
नायिका कामदा भक्तेश्चण्डमुण्डविनाशिनी || १११ ||
कामाभैरवयोर्मध्ये स्वयं देवी सुरापगा |
हिताय सर्वजगतां देव्यास्तु प्रीतये सदा || ११२ ||
सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम् |
भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम् || ११३ ||
विद्धि तत्रैव दुर्गाख्यां नायिकां योनिरूपिणीम् |
सिद्धकामेश्वरी नाम्ना ख्याता देवेष नित्यशः || ११४ ||
अजीर्णपत्रः सुच्छायो वृक्षस्तत्र सुसंस्थितः |
आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः || ११५ ||
पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता |
आम्रातकस्य निकटे मम प्रीतिविवृद्धये || ११६ ||
पुष्कराख्यं तु तत्क्षेत्रं पीठे त्वाम्रातकाह्वयम् |
ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम् || २१७ ||
भुवनेश्वरनाम्ना तु पीठे ख्यातं च भैरव |
गह्वरं भुवनेशस्य भुवनानन्दसंज्ञकम् || ११८ ||
तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता |
कामधेनुरिति ख्याता पीठे कामप्रदायिनी || ११९ ||
योऽसौ शरभमूर्तिर्मे मध्यखण्डप्रचण्डकः |
महाभैरवनामाभूत् कोटिलिङ्गाह्वयस्तु सः || १२० ||
मूर्तिभिः पञ्चभिः पञ्चभागेषु समवस्थितः |
अहं पश्चादतिप्रात्या भैरवाख्यः स्थितो धरे || १२१ ||
महागौरी तु या देवी योगिनी सिद्धरूपिणी |
सा ब्रह्मपर्वते चास्ते शिलारूपेण चोर्ध्वतः || १२२ ||
अतीवरूपसम्पन्ना नाम्ना सा भुवनेश्वरी |
यत्र ब्रह्मा तु संसक्तो मयि पर्वतरूपिणि || १२३ ||
कल्पवल्ली तु तत्रास्ते नाम्ना सा त्वपराजिता |
कामधेनुरदूरस्था पूर्वभागे महेश्वरी || १२४ ||
श्रीकामाख्या योनिरूपा चण्डिका सा तु योगिनी |
आग्नेययां विद्धि तां संस्थां सर्वकामप्रदां शुभाम् || १२५ ||
योगिनी चण्डघण्टाख्या पीठेऽभूद् विन्ध्यवासिनी |
योगिनी स्कन्दमाता तत्पीठेऽभूद् वनवासिनी || १२६ ||
कात्यायनी पीठनाम्ना पाददुर्गेति गद्यते |
नैर्-ऋत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा || १२७ ||
योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक् |
संस्थितः पश्चिमद्वारि हनुमान् पीठनामतः || १२८ ||
और्व उवाच
इति तस्य वचः श्रुत्वा शम्भोरमिततेजसः |
भैरवस्य तु पप्रच्छ वेतालोऽपि समुत्सुकः || १२९ ||
वेतालभैरवावूचतुः
श्रुतः पीठक्रमस्तात देव्याः पूजाक्रमस्तथा |
श्रोतुमिच्छामि मूर्तीनां पञ्चानामपि शङ्कर || १३० ||
रूपाणि पञ्चमूर्तीनां मन्त्राणि च समन्ततः |
तत्र मन्त्राणि तन्त्राणि वद नौ वृषभध्वज || १३१ ||
ईश्वर उवाच
शृणु वक्ष्यामि वेताल मन्त्रं तन्त्रं पृथक् पृथक् |
कामाख्यापञ्चमूर्तीनां रूपं कल्पं च भैरव || १३२ ||
कामस्थं काममध्यस्थं कामदेवपुटीकृतम् |
कामेन कामयेत् कामी कामं कामे नियोजयेत् || १३३ ||
ज्येष्ठं तु व्यञ्जनं ब्रह्मन् परः शान्तं तदुच्यते |
प्रथमं क्रमतः कुर्यात्तत्संसक्तं सुधामयम् || १३४ ||
प्रजापतिस्तथा शक्रबीजं संस्थादिसंयुतम् |
चन्द्रार्धसहितं बीजं कामाख्यायाः प्रचक्ष्यते || १३५ ||
इदं धर्मप्रदं काममोक्षार्थानां प्रदायकम् |
इदं रहस्यं परममन्यत्र तु सुदुर्लभम् || १३६ ||
श्रोत्रेणोद्यम्य शृणुयाद् गुरुवक्त्रान्नरोत्तमः |
स कामानखिलान् प्राप्य शिवलोके महीयते || १३७ ||
श्रुतिसकलितसारं देवकण्ठौघहारं
सकलकलुषहारि श्रीधरानन्दकारि |
सुनयसुभगगोभिभ्राजयेद्यद्यशोभि-
स्तदिह शिवसमस्तं विघ्नहन्त्रीङ्गितार्थम् || १३८ ||
नयनकरभकारि ध्यानिनां चोपकारि
प्रणयिसुनयसंस्थं देवसत्याह्निकस्थम् |
परमपदविशीर्णं सर्वदौर्भाग्यजीर्णं शृणु शिवपदरूपं
कामदेव्याः स्वरूपम् || १३९ ||
श्रवणगगनमात्रा चार्दितं यस्य नाम
प्रभवति बहुभूत्यै नीतिमार्गैकधाम |
सुरगणगणनायां कुण्डली यस्य शक्ति-
स्तदिह परमरूपं चिन्तनीयं हताशैः || १४० ||
रविशशियुतकर्णा कुङ्कुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा |
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा || १४१ ||
अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा |
शवहृदि पृथुतुङ्गस्तन युग्मा मनोज्ञा
शिशुरविसमवस्त्रा अर्वकामेश्वरी सा || १४२ ||
विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
अलितनखरदन्ता सामिचन्द्रावनम्रा |
मनसिजदृषदिस्था योनिमुद्रालसन्ती
अवनगमनशक्ता संश्रुतस्थानहागा || १४३ ||
चिन्त्या चैवं विद्युदग्निप्रकाशा
धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः |
कल्प्यन्तु त्रीण्यर्यतदं सम्यगर्यं
वेताल त्वं भैरव श्रीप्रतिष्ठम् || १४४ ||
तस्मिन्नर्धं मण्डलं यद्धि पश्चात्
कार्यं चैतच्चन्दनैः पुष्पयुक्तैः |
पर्यायो यो लेखने पूर्वमुक्तो देवीतन्त्रे सोऽत्र पूर्व विधेयः || १४५ ||
इति श्रीकालिकापुराणे कामाख्यापूजातन्त्रे विषष्टितमोऽध्यायः || ६२ ||
Kapitel 63
त्रिषष्टितमोऽध्यायः
ईश्वर उवाच
वैष्णवीतन्त्रमन्त्रस्य यथापूर्वं मयोदितम् |
मण्डलं प्रतिपत्त्या तु पर्यायो मण्डलस्य यः || १ ||
स एवं प्रथमं कार्यः शिलायां पुष्पचन्दनैः |
पात्रादीनां प्रतिष्थानं तथैवात्रापि योजयेत् || २ ||
वैष्णवीतन्त्रमन्त्रस्य प्रोक्ता याः प्रतिपत्तयः |
अत्र ताः सकला योज्या आसनाद्यैश्च पूजनम् || ३ ||
तेभ्योऽन्यो यो विशषोऽत्र तद् वक्ष्ये शृणु भैरव |
प्रथमं भास्करायार्घ्यं प्रदद्याच्श्वेतसर्षपैः || ४ ||
पुष्पचन्दनसंवीतैः सगणाय महात्मने |
आसनार्चनशेषे तु पठोक्ताः सर्वदेवताः || ५ ||
पीठनाम्ना तु संयोज्या मण्डलस्य तु मध्यतः |
ध्यानस्वरूपं भिन्नं तद् वैष्णव्या सह भैरव || ६ ||
कामायाः सर्वमन्यत् तु महामायास्तवोदितम् |
योगिनीस्तु चतुःषष्टिः पूजयेच्च पृथक् पृथक् || ७ ||
गुहां मनोभवां चापि महोत्साहां तथा सखीम् |
अनन्तरं पूजयेत् तु दिक्पालांश्च नवग्रहान् || ८ ||
रूपतस्तान् समुद्दिश्य पूजयेदिष्टसिद्धये |
पूर्वद्वारे गणपतिं प्रथमं तु प्रपूजयेत् || ९ ||
नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत् |
भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे || १० ||
एते मम द्वारपाला देव्या द्वारे प्रपूजयेत् |
पात्रामृतीकृतिविधौ कुर्याद् वै काममुद्रया || ११ ||
भूतापसारणं कुर्यात् पूर्वं तालत्रयेण तु |
वामहस्ते दक्षिणेन पाणिना तालमाहरेत् || १२ ||
हूं हूं फडितिमन्त्रेण वेतालादींश्च सारयेत् |
सर्वमुत्तरतन्त्रोक्तं तन्त्रं कुर्यात् तु साधकः || १३ ||
अत्रोक्तेन स्वरूपेण प्राणायामं तथा चरेत् |
स्नापयेत् प्रथमं देवीं मूलमन्त्रेण पूजकः || १४ ||
मधुक्षीराज्यदधिभिर्गोमूत्रैर्गोमयैस्तथा |
रत्नोदकैः शर्कराभिर्गुडरत्नकुशोदकैः || १५ ||
सितसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः |
रक्तचन्दनपुष्पैश्च दूर्वाभी रोचनायुतैः || १६ ||
नवभिर्वितरेदर्घ्यं शिलायां योनिसन्निधौ |
आसनं पाद्यमर्घ्यं च तत आचमनीयकम् || १७ ||
मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणम् |
पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् || १८ ||
नैवेद्याचमनीये च प्रदक्षिणनमस्कृती |
एते षोडश निर्दिष्टा उपचारास्तु पीठतः || १९ ||
आवाहयेन्महादेवीं गायत्र्या कामयोगया |
तामेव विद्धि वेताल गुह्यं भैरवदैवतम् || २० ||
कामाख्ये त्वमिहागच्छ यथावन्मम सन्निधौ |
पूजाकरणि सान्निध्यमिह कल्पय कामिनि || २१ ||
कामाख्यायै च विद्महे कामेश्वर्यै तु धीमहि |
ततः कुर्यान्महादेवी ततश्चानु प्रचोदयात् || २२ ||
एषा तु कामगायत्री पूजयेदनया शुभाम् |
पूजावसाने च बलीन्देव्याः प्रीत्यै निवेदयेत् || २३ ||
रुद्राक्षमालया जाप्यमादायैव समाचरेत् |
त्रयक्षरैर्मूलमन्त्रस्य त्रिधा वृत्तः प्रपूजयेत् || २४ ||
कामाख्यायाः षडङ्गानि आह्वानानन्तरे तथा |
वैष्णवीतन्त्रमन्त्रस्य कराङ्गन्यासयोश्च ये || २५ ||
स्वराः प्रोक्तास्तैः स्वरैस्तु सार्धचन्द्रैः सबिन्दुकैः |
मूलमन्त्राद्यक्षराभ्यां युगपत्तु नियोजितैः || २६ ||
कनिष्ठादिक्रमेणैव ह्यङ्गन्यासं समाचरेत् |
अङ्गन्यासकरन्यासौ कृत्वा पश्चात्तु साधकः || २७ ||
हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः |
बाह्वोः पाण्योर्जङ्घयोश्च पादयोश्चापि विन्यसेत् || २८ ||
अभयं वरदं हस्तमक्षमालां च सूत्रकम् |
पूजयेच्छशिनं सूर्यं शिरश्चान्द्रकलां तथा || २९ ||
रक्तपद्मं शवं चैव लौहित्यं ब्रह्मपुत्रकम् |
मनोभवां शिलां तत्र शक्तिस्थां शवमध्यतः || ३० ||
देव्याः प्रपूजयेद्भक्तः कारवालं च पार्श्वतः |
पीठादिदेवतास्तत्र यजेत् कामेश्वरीं शुभाम् || ३१ ||
त्रिपुरां पूजयेन्मध्ये पीठप्रत्यधिदेवताम् |
शारदां च महोत्साहां मध्य एव प्रपूजयेत् || ३२ ||
चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी |
योनिमुद्रा समाख्याता कामाख्या विसर्जने || ३३ ||
इदं द्रव्यं तु सिन्दूरचन्दनागुरुकुङ्कुमैः |
इति यो हि मया प्रोक्तो विशेषः परिपूजने || ३४ ||
एभिर्विशेषैः सहितं वैष्णवीतन्त्रगोचरम् |
सर्वं कल्पं समासाद्य कामाख्यां परिपूजयेत् || ३५ ||
अनेनैव विधानेन कामाख्यां यस्तु पूजयेत् |
मनोभवगुहामध्ये स याति परमां गतिम् || ३६ ||
ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च |
कौमारी वैष्णवी दुर्गा नरसिंही च कालिका || ३७ ||
चामुण्डा शिवदूती च वाराही कौशिकी तथा |
माहेश्वरी शाङ्करी च जयन्ती सर्वमङ्गला || ३८ ||
काली कपालिनी मेधा शिवा शाकम्भरी तथा |
भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा || ३९ ||
क्षमा धात्री तथा स्वाहा स्वधापर्णा महोदरी |
घोररूपा महाकाली भद्रकाली भयङ्करी || ४० ||
क्षेमकरी चोग्रचण्डा चण्दोग्रा चण्डनायिका |
चण्डा चण्डवती चण्डी महामोहा प्रियङ्करी || ४१ ||
कलविकरिणी देवी बलप्रमथिनी तथा |
मदनोन्मथिनी देवी सर्वभूतस्य दामनी || ४२ ||
उमा तारा महानिद्रा विजया च जया तथा |
पूर्वोक्ताः शैलपुत्र्याद्या योगिन्यष्टौ च याः क्रमात् || ४३ ||
ताभिरेभिश्च सहिताः चतुःषष्टिं च योगिनीः |
पूजयेन्मण्डलस्यान्तः सर्वकामार्थसिद्धये || ४४ ||
नानाविधं तु नैवेद्यं पानं पायसमेव च |
मोदकापूपपिष्टादि देव्यै सम्यक् प्रदापयेत् || ४५ ||
एवं तु पूजयेद् देवीं कामाख्यां वरदायिनीम् |
भक्तियुक्तो नरो यस्तु सर्वान् लभते प्रियान् || ४६ ||
महोत्साहा तु या देवी महामाया तु सा स्मृता |
वैष्णवीतन्त्रमन्त्रेण सा पूज्या योनिमण्डले || ४७ ||
तदेव मण्डलं चास्य ह्यङ्गन्यासं तथैव च |
सा एव पूजापर्याये तद्ध्यानं सैव दैवता || ४८ ||
तन्त्रं तदेवमुक्तं तु तस्मान्नान्यं तु किञ्चन |
मण्डलादिविसृष्ट्यर्थं महामायामहोत्सवे || ४९ ||
यत्प्रोक्तं तेन तां देवीं महोत्साहां तु मण्डले |
स्नानपूर्वं पूजयेत्तु मध्वाज्यादिभिरासवैः || ५० ||
शृणुतं त्रिपुरामूर्तेः कामाख्यायाः प्रपूजनम् |
एतस्या मूलमन्त्रं तु पूर्वमुत्तरतन्त्रके || ५१ ||
युवयोरिष्टयोः सम्यक् क्रमात् तत् प्रतिपादितम् |
वाग्भवं कामबीजं तु डामरं चेति तत्त्रयम् || ५२ ||
सर्वधर्माथकामादिसाधकं कुण्डलीयुतम् |
त्रीण्यस्मात् पुरतो दद्याद् दुर्गा ध्याता महेश्वरी || ५३ ||
त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी |
तस्यास्तु स्नापनं यादृक्कामाख्यायाः प्रकीर्तितम् || ५४ ||
तेनैव स्नापनं कुर्यान्मूलमन्त्रेण पूजकः |
रिकोणं मण्डलं चास्यास्त्रिपुरं तु त्रिरेखकम् || ५५ ||
मन्त्रं तु अक्षरं ज्ञेयं तथा रूपं त्रयं पुनः |
त्रिविधा कुण्डली शक्तिस्त्रिदेवानां च सृष्टये || ५६ ||
सर्वं त्रयं त्रयं यस्मात् त्रिपुरा तेन सा स्मृता |
उदीच्याद्यथ पूर्वान्ता रेखाः कार्यास्तु मण्डले || ५७ ||
त्रिस्त्रिरेखास्तु कर्तव्यास्ता एव पुष्पचन्दनैः |
ऐशान्यमथ नैर्-ऋत्यां मन्त्रं कृत्वा तु संलिखेत् || ५८ ||
नै-ऋत्यां चैव वायव्यां ततो ह्यैशान्यगां पुनः |
एवं त्रिकोणं विलिखेन्मण्डलस्यान्तरे पुनः || ५९ ||
इशान्याद्यास्तु या रेखा सा तु शक्तिर्निगद्यते |
नैर्-ऋत्यां वायवीं याता ततो ह्यैशान्यगा तु या || ६० ||
सा तु शम्भुः समाख्याता शक्त्या शम्भुं विभेदयेत् |
शक्त्या विभिन्नं भूतेशं वेष्टयेत् कमलेन तु || ६१ ||
अष्टपत्रेण तां ध्यात्वा त्रिवर्णां प्राक् प्रपूजयेत् |
त्रिभिस्त्रिभिस्तु रेखाभिः शक्तिं शम्भुं च वेष्टयेत् || ६२ ||
स्थानस्याभ्युक्षणं सम्यद्ध मार्जनं लिखनं तथा |
अस्त्रमन्त्रप्रयोगाणां भूतानामपसारणम् || ६३ ||
वैष्णवीतन्त्रमन्त्रोक्तं तथैवोत्तरतन्त्रके |
यत् प्रोक्तं तत् तु सामान्यं प्राक् कुर्यात् साधको नरः || ६४ ||
त्रिपुराया विशेषेण सहितं पूजनक्रमम् |
एतत् त्रिकोणं देवानां त्रयाणां स्थानमिष्यते || ६५ ||
ऐशान्यां तु तथेशानो नैर्-ऋत्यां चतुराननः |
वायव्यां तु तथा ब्रह्मा षट्कोणेषु प्रकीर्तिताः || ६६ ||
दलं त्वेकपुरं प्रोक्तं केशरं चापरं पुरम् |
पुरं शेषं त्रिकोणं तु त्रिकोणं मण्डलं स्मृतम् || ६७ ||
दलेषु केशरे चापि त्रिकोणे च त्रिधा त्रिधा |
रेखास्तु विहिताः सम्यक् कुर्यात् तत्र पुनः पुनः || ६८ ||
उत्तरं तद् भवेद् द्वारं तस्य वै धनुराकृतिः |
पूर्वद्वारं तु षट्कोणं चतुष्कोणं तु दक्षिणे || ६९ ||
पश्चिमं तोरणाकारं यथा चान्यत्र मण्डले |
ऐशान्यां पञ्चबाणांस्तु लिखेद् वह्नौ च तद्धनुः || ७० ||
नैर्-ऋत्यां पुस्तकं चापि वायव्यामक्षमालिकाम् |
एवं कृत्वा मण्डलं तु धृत्वा वामेन पाणिना || ७१ ||
वाग्वेश्मने नम इति मण्डलं पूजयेत् ततः |
पूजयित्वा ततो भूतान् नालिकात्रितयेन तु || ७२ ||
मूलमन्त्रेण पूर्वोक्तैर्मन्त्रैरपि अमाचरेत् |
नवभिश्छोटिकाभिस्तु त्रिधा कृत्वा तु वेष्टनम् || ७३ ||
अभ्युक्षणं ततः कुर्याद् भूतानामपसारणम् |
प्रतिपत्तिस्तु पात्रस्य अर्घ्यार्थं नवधा पुनः || ७४ ||
पूर्ववत् साधकः कुर्याद् दहनं प्लवनं तथा |
अमृतीकरणं कुर्यात् प्रथमं धेनुमुद्रया || ७५ ||
योनिमुद्रां ततः कुर्यात् पात्रतोयं तु त्रिः स्पृशेत् |
मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिद्धसर्षपैः || ७६ ||
रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत् |
पाणिकच्छपिकां कृत्वा चिन्तनं योनिमुद्रया || ७७ ||
आदौ मध्ये च कर्तव्यं क्रमाद् वेतालभैरव |
अस्त्रमन्त्रेण पात्रस्य स्थापनार्थं तु मण्डलम् || ७८ ||
षट्कोणं तु लिखेत् पूर्वं तन्मन्त्रस्थापनेऽपि च |
ऐं आं क्लीमिति मन्त्रेण त्रिधा पात्रे जलं क्षिपेत् || ७९ ||
त्रिधा गन्धं च पुष्पं च त्रिधा दूर्वाक्षतं पुनः |
रां ह्रीं ह्रूं ह्रैं ह्रौमिति च अङ्गुष्ठादि क्रमान्न्यसेत् || ८० ||
ओं ह्र इत्यस्त्रमन्त्रेण पाणिपृष्ठतले तथा |
हृदयादिक्रमात् पश्चान्न्यासं कुर्यात् त्रिधा त्रिधा || ८१ ||
संयोज्य पाण्योः क्रमतश्चाङ्गुष्ठादि द्वयं द्वयम् |
त्रिधा त्रिधा पृथक् कुर्याच्छेषाङ्गानि च विन्यसेत् || ८२ ||
कर्णरन्ध्रे तथा ब्रह्मद्वारं केशतलं तथा |
नासिकारन्ध्रयुगलं जानुयुग्मं पदद्वयम् || ८३ ||
त्रिधा त्रिधा न्यसेदेभिः षड्भिर्मन्त्रैः पृथक् पृथक् |
प्राणायामं ततः कुर्यात् पूरकैः स्तम्भकैस्तथा || ८४ ||
रेचकेनापि त्रिपुरामूर्तिं देवीं विचिन्तयेत् |
दहनप्लवनं कृत्वा आद्यां मूर्तिं विचिन्तयेत् || ८५ ||
त्रिधादृत्याथ हृदये तां मूर्तिं शृणु भैरव |
सिन्दूरपुञ्जसंकाशां त्रिनेत्रां तु चतुर्भुजाम् || ८६ ||
वामोर्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा |
दक्षिणोर्ध्वे पञ्चबाणानक्षमालां दधात्यधः || ८७ ||
चतुर्णां कुणपानां तु पृष्ठेऽन्यं कुणपान्तरम् |
निधाय तस्य पृष्ठे तु समपादेन संस्थिताम् || ८८ ||
जटाजूटार्धचन्द्रेण समाबद्धशिरोधराम् |
नग्नां त्रिवलिभेदेन चारुमध्यां मनोहराम् || ८९ ||
सर्वालङ्कारसम्पूर्णां सर्वाङ्गसुन्दरी शुभाम् |
स्रवद्द्रविणसन्दोहां सर्वलक्षणसंयुताम् || ९० ||
एनां तु प्रथमं ध्यात्वा त्रिधात्मानं तु चिन्तयेत् |
अद्रूपं च ततः पश्चात् पुष्पं तद्वाग्भवेन तु || ९१ ||
स्वमस्तके पुनर्दद्यादङ्गन्यासं पुनस्तथा |
मन्त्रद्वयं त्रिधा जप्त्वा वाग्भवाद्यं तु साधकः || ९२ ||
अर्घ्यपात्रस्य तोयेषु तैस्तोयैः सेचयेच्छिरः |
पजोपकरणं चापि त्रिरभ्युक्ष्य तथैव तु || ९३ ||
कामपीठं ततो ध्यात्वा पूजयेत् क्रमतस्त्विमान् |
गणेशं च गणाध्यक्षं गणनाथं तथैव च || ९४ ||
गणक्रीडं च पूर्वादिद्वारे मन्त्रेण पूजयेत् |
हैरम्बबीजमेतेषां मन्त्रस्तु परिकीर्तितः || ९५ ||
विद्याशान्तिनिवृत्तिश्च प्रतिष्ठा द्वारपालकाः |
कलान्ताः पूजयेत् सम्यक् पूर्वादिक्रमतस्तथा || ६९ ||
सिद्धपुत्रं ज्ञानपुत्रं तथा सहजपुत्रकम् |
शेषं समयपुत्रं तु पूजयेद् बटुकानिमान् || ९७ ||
प्रत्येकं तु श्रियं देवीं बटुकानां परे वरे |
श्रीमित्यनेन मन्त्रेण पूर्वादौ पूजयेत् क्रमात् || ९८ ||
सिद्धस्य सहजस्याथ ज्ञानस्य समयस्य च |
कुमारीं पूजयेत् कोणे ऐशान्यादौ तु मण्डले || ९९ ||
योरटं डामरं चैव लोहजङ्घं तथैव च |
भूतनाथं क्षेत्रपालमीशानादौ प्रपूजयेत् || १०० ||
मण्डलस्य च मध्ये तु पञ्चबाणान् प्रपूजयेत् |
द्रावणं शोषणं चैव बन्धनं मोहनं तथा || १०१ ||
आकर्षणं च मध्येन मन्त्रेणैव प्रपूजयेत् |
ततस्त्रिष्वथ कोणेषु पूजयेत् तु त्रियोगिनीः || १०२ ||
भगं च भगजिह्वां च भगास्यामुत्तरादिकम् |
क्रमात्तु पूज्यास्तिस्रोऽन्या अन्या मध्ये त्रिकोणके || १०३ ||
भागमालिनीं तु प्रथमे द्वितीये तु भगोदरीम् |
तृतीये भगरोहां तु योगिनीं कामरूपिणीम् || १०४ ||
अनङ्गकुसुमां देवीं तथैवानङ्गमेखलाम् |
अनङ्गमदनां चैव ह्यनङ्गमदनातुराम् || १०५ ||
अनङ्गवेशां चानङ्गमालिनीं मदनातुराम् |
दलकेशरमध्ये तु ह्यष्टमीं मदनाङ्गकुशाम् || १०६ ||
शैलपुत्र्यादयश्चाष्टौ त्रिपुरापूजनक्रमे |
एतन्नामभिरव्यग्रा बभूवुः कामयोगिनीः || १०७ ||
वाग्भवेन तथा दुर्गां नेत्रबीजान्तकेन तु |
अङ्गन्यासं समन्त्रैस्तु षड्भिरष्टाविमान् पुनः || १०८ ||
पूजयेत् क्षेत्रपालांस्तु मव्ये किञ्जल्कपत्रयोः |
हेतुकं विपुरघ्नं च अग्निजिह्वं तथैव च || १०९ ||
अग्निवेतालसंज्ञं च कालं चाथ करालकम् |
एकपादं भीमनाथमुत्तरादिक्रमेण तु || ११० ||
एभिरेवाष्टभिर्मन्त्रैः कामराजेन संयुतैः |
नवैतानसिताङ्गादीन् नायकान् पूजयेत् क्रमात् || १११ ||
मण्डलस्य चतुर्दिक्षु द्वौ द्वौ पूर्वादिषु क्रमात् |
पद्ममण्डलयोर्मध्ये शेषमेकं तु पूजयेत् || ११२ ||
असिताङ्गी रुरुश्चण्डः क्रोधोन्मत्तौ भयङ्करः |
कपाली भीषणश्चैव अंहारश्चेति वै नव || ११३ ||
ऐशान्यादिक्रमाद् द्वे द्वे नायिकां पूजयेन्नरः |
पद्ममण्डलयोर्मध्ये अग्नौ द्वे च प्रपूजयेत् || ११४ ||
ब्रह्माणीं भैरवीं चैव तथा माहेश्वरीमपि |
कौमारीं वैष्णवीं चैव नारसिंहीं तथैव च || ११५ ||
वाराहीं च तथेन्द्राणीं चामुण्डां चण्डिकां तथा |
आधारशक्तिप्रभृतीन् मण्डलस्य तु मध्यतः || ११६ ||
वैष्णवी तन्त्रकल्पोक्तान् सर्वान् भैरव पूजयेत् |
शिवस्य पञ्च याः प्रोक्ताः सद्योजातादयः पुरा || ११७ ||
मूर्तयस्ताः पद्ममध्ये पञ्चप्रेतत्वमागताः |
ताः पञ्च पूजयेन्मध्ये रक्तपद्मं शवं तथा || ११८ ||
सिंहं च पूजयेत् तत्र जगदाधारसंज्ञितम् |
जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् || ११९ ||
दुर्गां क्षमां शिवां धात्रीं स्वधां स्वाहां च पूजयेत् |
उग्रचण्डा प्रचण्डा चण्डोग्रा चण्डनायिका || १२० ||
चण्डा चण्डवती चैव अण्डरूपातिचण्डिका |
एताः सम्पूजयेन्मध्ये मण्डलस्य विशेषतः || १२१ ||
आदित्यादीन् ग्रहान् सर्वान् रूपतो ह्यस्त्रसंयुतान् |
क्रमात् प्रत्येकमुद्दिश्य पार्श्वे पार्श्वे प्रपूजयेत् || १२२ ||
दिक्पालानां तु मन्त्रेण तथा सर्वांस्तु दिक्पतीन् |
अस्त्रमन्त्रैस्तु तान् सर्वांस्तेषां मन्त्राणि भैरव || १२३ ||
नाथं कामेश्वरं तत्र एकवत्रं चतुर्भुजम् |
भस्मश्वेतं मध्यहृदि रक्तपुष्पैस्तु कुङ्कुमैः || १२४ ||
त्रिशूलं च पिनाकं च वामहस्तद्वये स्थितम् |
उत्पलं बीजपूरं च दक्षिणद्वितये तथा || १२५ ||
श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत् |
कामाख्यां मूर्तितो ध्यात्वा कामाख्यामपि पूजयेत् || १२६ ||
कामेश्वरीं तत्र देवीं पूजयेत् परमेश्वरीम् |
वक्ष्यमाणेन रूपेण तत्र वेतालभैरवी || १२७ ||
करालं क्षेत्रपालं च कर्त्रिखर्परधारिणम् |
पूजयेदीशमत्यर्थं दंष्त्राभिन्नाधरं भयम् || १२८ ||
तिन्तिडीं कल्पवृक्षं च सुच्छायं रत्नभूषितम् |
त्रिकूटं कृष्णवर्णं च नीलशैलं महाद्युतिम् || १२९ ||
मनोभवां गुहां तत्र पञ्चव्यामायतां शुभाम् |
रत्नमण्डलसंयुक्तां रक्तवर्णां सुवर्तुलाम् || १३० ||
अपराजितां च वल्लीं च व्यामत्रयसुविस्तृताम् |
आरक्तवर्णां सततं कुसुमैरूपशोभिताम् || १३१ ||
बटुकं कम्बलाख्यं तु स्वर्णगौरं गजासनम् |
द्विभुजं दक्षिणे दण्डपाणिं वामे कपालकम् || १३२ ||
बिभ्रतं पुरतो देव्याः पूज्यो विघ्नविपत्तये |
भैरवः पाण्डुनाथश्च रक्तगौश्चतुर्भुजः || १३३ ||
गदां पद्मं च शक्तिं च चक्रं चापि करेषु च |
बिभ्रद् देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक् || १३४ ||
श्मशानं हेरुकाख्यं च रक्तवर्णं भयङ्करम् |
असिचर्मधरं रौद्रं भुञ्जानं मनुजामिषम् || १३५ ||
तिसृभिर्मुण्डमालाभिर्गलद्रक्ताभिराजितम् |
अग्निनिर्दग्धविगलद्दन्तप्रेतोपरिस्थितम् || १३६ ||
पूजयेच्चिन्तनेनैव शत्रस्वाहनभूषणम् |
महोत्साहां योगिनीं तु महामायास्वरूपिणीम् || १३७ ||
ध्यानतो रूपतस्तां तु देव्या अग्रे प्रपूजयेत् |
पुरीं चन्द्रवतीं देव्या नीलपर्वतपूर्वतः || १३८ ||
योजनद्वयविस्तीर्णामर्धयोजनमायताम् |
उच्चैरनेकप्रासाद सौधसद्मविभूषिताम् || १३९ ||
मणिरत्नसुवर्णौघजातप्रासादविस्तृताम् |
क्रीडासरोवरैः सद्भिः सञ्छन्नां विकचैः कचैः || १४० ||
संयुतां पूजयेत् तत्र देव्या अग्रे समन्त्रकम् |
लौहित्यं रक्तगौराङ्गं नीलवस्त्रविभूषितम् || १४१ ||
रत्नमालासमायुक्तं चतुर्बाहुसमन्वितम् |
पुस्तकं श्वेतपद्मं च बिभ्रतं दक्षिणे करे || १४२ ||
वामे शक्तिध्वजं चैव शिशुमारस्थितं शुभम् |
पीठेश्वरानिमान् मध्ये मन्त्रेरेतैः प्रपूजयेत् || १४३ ||
नाथ कामेश्वरं देवं प्रासादेन प्रपूजयेत् |
कामेश्वर्यास्तु मन्त्रेण यजेत् कामेश्वरी शुभाम् || १४४ ||
द्वावुपान्तौ बलेनैव मदनान्ते च तत्क्रमात् |
योजयेन्नादबिन्दुभ्यां आयाकरणमन्त्रकम् || १४५ ||
चण्डिकानेत्रबीजस्य यच्छेषमक्षरं तु तत् |
कल्पं तिन्तिडिकावृक्षमन्त्रमेतत् प्रकीर्तितम् || १४६ ||
उग्राया मध्यबीजं तु नीलशैलस्य मन्त्रकम् |
मनोभवस्य बीजं तु महादेवेन संहितम् || १४७ ||
अदिस्थेनेन्दुना बिन्दुयुक्तं वान्तेन योजितम् |
मनोभवगुहायां तु मन्त्रमेतत् प्रकीर्तितम् || १४८ ||
वैष्णवीतन्त्रमन्त्रस्य यच्छेषं बीजमस्वरम् |
तदधो वान्तसंश्लिष्टं चतुर्थस्वरसंयुतम् || १४९ ||
चन्द्रबिन्दुसमायुक्तं तन्मन्त्रञ्चापराजितम् |
हयग्रीवस्वरूपस्य विष्णोर्यद्बीजमुत्तमम् || १५० ||
कम्बलस्य तु तन्मन्त्रं पूजनं परिकीर्तितम् |
केवलः सप्ररोहादिषष्ठस्वरसमन्वितः || १५१ ||
चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम् |
भैरवं पाण्डुनाथं च वनमालिस्वरूपिणम् || १५२ ||
वाराहेण तु बीजेन पूजयेत् तु विधानतः |
सपरौ द्वावनुस्वारविसर्गाभ्यां तु संयुतौ || १५३ ||
महाभैरवमन्त्रेण भैरवान्तेन पूजयेत् |
महोत्साहां महामायां द्वितीयाष्टाक्षरेण तु || १५४ ||
देवीतन्त्रोदितेनैव पूजयेद् भूतिवृद्धये |
आद्याक्षरं तु सामीन्दुबिन्दुभ्यां समलङ्कृतम् || १५५ ||
स्वनाम्नश्चन्द्रवत्यास्तु पूजामन्त्रं प्रकीर्तितम् |
सर्वलक्षणसम्पूर्णं सर्वालङ्कारभूषितम् || १५६ ||
लौहित्यनदराजस्य ब्रह्मपुत्रस्य भूतिदम् |
ब्रह्मबीजं तु मन्मत्रं वह्निभार्यान्तमिष्यते || १५७ ||
द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम् |
आवाहनार्थं देव्यास्तु चिन्तयेद् योनिमुद्रया || १५८ ||
बन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम् |
सर्वलक्षणसम्पूर्णां सर्वालङ्कारभूषिताम् || १५९ ||
उद्यद्रविप्रभां अद्मपर्यङ्केषु सुसंस्थिताम् |
मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम् || १६० ||
वलिविभङ्गचतुरामासवामोदमोदिताम् |
नेत्राह्लादकरीं शुभ्रां क्षोमणीं जगतां तथा || १६१ ||
त्रिनेत्रां योनिमुद्रायामीषद्धाससमायुताम् |
नवयौवनसम्पन्नां ऋणालाभचतुर्भुजाम् || १६२ ||
वामार्धे पुस्तकं धत्ते अक्षमालां तु दक्षिणे |
वामेनाभयदां देवीं दक्षिणार्धे वरप्रदाम् || १६३ ||
स्रवद्रक्तौघसूर्याभां शिरोमालां तु बिभ्रतीम् |
आपादलम्बिनीं कल्पद्रुममासाद्य संस्थिताम् || १६४ ||
कदम्बोपवनान्तस्थां कामाह्लादकरीं शुभाम् |
द्वितीयां त्रिपुरां ध्यायेदेवंरूपां मनोहराम् || १६५ ||
तृतीयं त्रिपुरारूपं शृणु वेतालभैरव |
जवाकुसुमसङ्काशां मुक्तकेशीं शुभाननाम् || १६६ ||
सदाशिवं हसन्तं तु प्रेतवद् विनिधाय वै |
हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम् || १६७ ||
रक्तोत्पलैर्मिश्रितां तु मुण्डमालां पदानुगाम् |
ग्रीवायां धारयन्तीं तु पीनोन्नतपयोधराम् || १६८ ||
चतुर्भुजां तथा नग्नां दक्षिणार्धेऽक्षमालिनीम् |
वरदां तदधो वामे जगन्मायां तथाभयाम् || १६९ ||
अधस्तु पुस्तकं धत्ते त्रिनेत्रां हसिताननाम् |
स्रवद्रुधिरभोगार्तां तथा सर्वाङ्गसुन्दरीम् || १७० ||
एवंविधं तृतीयं तु रूपं ध्यायेत् तु पूजकः |
आद्यं तु वाग्भवं रूपं द्वितीयं कामराजकम् || १७१ ||
डामरं मोहनं चापि तृतीयं परिकीर्तितम् |
एकैकं तु त्रिरूपाणि प्राग्विचिन्त्यार्थसाधकः || १७२ ||
मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा |
पूजयेदुपचारैस्तु बहिर्यद्वत्तथैव च || १७३ ||
मन्त्रत्रयं तथैकत्र कृत्वा च मनमूर्तयः |
कर्तव्या एकतस्तत्र मध्यरूपे निवेशयेत् || १७४ ||
नासापुटेन निःसार्य दक्षिणेनाथ तां पुनः |
अवतार्य कराभ्यां तु देवीमावाहयेत् त्रिधा || १७५ ||
गायत्रीत्रयमुचार्य स्नापयेत् प्रथमं तु ताम् |
आवाहने तु मन्त्रोऽयं पठितव्यश्च साधकैः || १७६ ||
एहि देवि शुभावर्ते यज्ञेऽस्मिन् मम सन्निधौ |
अव्युच्छिन्नां ततः शुभ्रां वाचं कण्ठस्य देहि मे || १७७ ||
एह्येहि भगवत्यम्ब त्रिपुरे कामदायिनि |
इमं भागबलिं गृह्य सान्निध्यमिह कल्पय || १७८ ||
नारायण्यै च विद्महे आग्मयायै च धीमहि |
एवमुक्त्वा ततः पश्चात् तन्नो देवी प्रचोदयात् || १७९ ||
नारायण्यै विद्महे त्वां चण्डिकाय च धीमहि |
शेषभागे प्रयुञ्जीत तन्नः कुब्जि प्रचोदयात् || १८० ||
महामायायै विद्महे त्वां सम्मोहिन्यै च धीमहि |
पश्चादेवं प्रयुञ्जीत तन्नाश्चण्डि प्रचोदयात् || १८१ ||
एतास्तु त्रिपुरादेव्या गायत्र्यः परिकीर्तिताः |
प्रत्येकं स्नापनं कुर्यात् त्रिपुराणां च तिसृभिः || १८२ ||
वाग्भवेन तु मन्त्रेण प्रथमं पूजयेच्छिवाम् |
कामराजेन वै पश्चाड्डामरेणापि पूजयेत् || १८३ ||
पश्चादेनां त्रिभिर्मन्त्रैरेकत्रैव तु पूजयेत् |
ततो मन्त्रेण वै दद्यादुपचारास्तु षोडश || १८४ ||
कामाख्यातन्त्रगदितान् सम्पूज्याङ्गाक्षरान् पुनः |
अङ्गन्यासस्य यन्मत्रैर्देव्या अङ्गानि पूजयेत् || १८५ ||
शेषं तु मूलमन्त्रेण चाष्टाङ्गानां प्रपूजनम् |
एकैकं प्रक्रमं पूज्य त्रिपुरायै अमस्ततः || १८६ ||
नवधा पूजयेद् देवीं त्रिपुरां कामरूपिणीम् |
उत्तरादिचतुष्पत्रे पद्मस्यैतान् प्रपूजयेत् || १८७ ||
ब्रह्माणं माधवं शम्भुं भास्करं च तथैव च |
ऐशान्यादिषु तेष्वेवं क्रमाद् देव्याः प्रपूजयेत् || १८८ ||
जयन्तीं प्रथमं पश्चाद् वायव्यामपराजिताम् |
नैर्-ऋत्यां विजयां चैव तथाग्नेययां जयाह्वयाम् || १८९ ||
त्रिकोणे केशरस्यान्ते कामं प्रीतिं रतिं तथा |
पूजयेत् पञ्चबाणांश्च पुष्पं चापं च पुस्तिकाम् || १९० ||
अक्षमालां अञ्चशरान् रत्नपर्यङ्कमेव च |
प्रेतपद्मशिवं चैव सम्यक् तत्रैव पूजयेत् || १९१ ||
सम्पूज्य पूर्ववन्मालां स्फाटिकामेव भैरव |
आदायाथोत्तरीयेण तामाच्छाद्य प्रयत्नतः || १९२ ||
पूर्वोद्धृतं जपेत् सम्यक् साधकस्त्रिपुरामनुम् |
जप्त्वा स्तुतिं पठित्वा च प्रणम्य च मुहुर्मुहुः || १९३ ||
त्रिपुरायै बलिं दद्यात् सम्भवात् तत् त्रिजातिकम् |
सफेनैस्तोयसंयुक्तैः शर्करामधुसैन्धवैः || १९४ ||
अभ्युक्ष्य रुधिरं दद्यात् कामराजेन भैरव |
छेदयेद् वाग्भवेनैव डामरैर्विहरेच्छिरः || १९५ ||
यत्र यत्र बलिं दद्यात् साधको देवतार्चने |
वैष्णवीतन्त्रकल्पोक्तमादद्यात् पूजने बलिम् || १९६ ||
ततो देव्यै वलीन् दद्यादेतद्वर्णक्रमात् पुनः |
गोक्षीरं ब्राह्मणो दद्याद् गव्यमाज्यं तु राजजः || १९७ ||
वैश्यस्तु माक्षिकं दद्याच्छूद्रः पुष्पासवादिक्रम् |
घ्रात्वा
पुष्पमथैशान्यां निर्माल्यं निक्षिपेद् बुधः || १९८ ||
निर्माल्यधारिणी चास्या देवी त्रिपुरचण्डिका |
विसृज्यादौ योनिमुद्रां पद्ममुद्रां तथैव च || १९९ ||
अर्धमुद्रां त्रिमुद्रां च प्रत्येकमपि दर्शयेत् |
निर्माल्यमथ गृह्णीयात् कामराजह्वयेन तु || २०० ||
एवं यः पूजयेद् देवी त्रिपुरां कामरूपिणीम् |
स कामानखिलान् प्राप्य देवीलोकमवाप्नुयात् || २०१ ||
इति श्रीकालिकापुराणे त्रिपुरापूजने रिषष्टितमोऽध्यायः || ६३ ||
Kapitel 64
चतुःषष्टितमोऽध्यायः
मार्कण्डेय उवाच
देव्याः कामेश्वरीं मूर्तिं शृणु वक्ष्यामि भैरव |
यस्याश्चिन्तनमात्रेण साधको लभते प्रियान् || १ ||
तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम् |
ततः पूजाक्रमं वक्ष्ये क्रमाद् वेताल भैरव || २ ||
प्रजापतिस्ततो वह्निरिन्द्रबीजं ततः परम् |
चूडाचन्द्रार्धसहितं चतुर्थस्वरसंयुतम् || ३ ||
इदं कामेश्वरं बीजमन्त्रं सर्वार्थसाधनम् |
स्थानाभ्युक्षणयन्त्रादि पात्रन्यासादिकं यथा || ४ ||
भूतापसारणादींश्च वैष्णवीतन्त्रभाषितान् |
तथोक्तानुत्तरे यन्त्रे गृह्णीयात् साधकोत्तमः || ५ ||
प्राणायामत्रयं कुर्याद् दहनं प्लवनं तथा |
विशेषमण्डलं चास्याः शृणु वेताल भैरव || ६ ||
षट्कोणं मण्डलं कुर्याद्रक्तवर्ण तु चिन्तयेत् |
विभेद्य शक्त्या शम्भुं तु त्रिपुरातन्त्रवद् बुधः || ७ ||
ततः शक्तिं शम्भुनापि भेदयेत् क्रमतः सुधीः |
ऐशान्यादिनैर्-ऋतान्तां रेखां कृत्वाथ दक्षिणे दक्षिणे तु कामरूपं तु
पूर्वतः || ११ ||
देव्या द्वादशगुह्यानि यानि द्वादशभिः करैः |
लिखेन्मण्डलकोणेषु तानि दिक्षु त्रयं त्रयम् || १२ ||
षड्भिः षड्भिस्तु रेखाभिः कर्तव्यो मण्डलक्रमः |
अन्यदुत्तरतन्त्रोक्तं वैष्णवीतन्त्रभाषितम् || १३ ||
मण्डलस्य क्रमं सर्वं विद्धि वेताल भैरव |
ओं क्लीं मण्डलतत्त्वाय नम इत्यत्र मण्डलम् || १४ ||
पूजयेत् प्रथमं ध्यात्वा मण्डलं योगपीठकम् |
पीठे शिलायां विलिखेन्मण्डलं योनिमण्डलम् || १५ ||
त्रिकोणं विलिखेत् पश्चाद् वेष्टयेत् कमलेन तु |
रूपं तु चिन्तयेद् देव्याः कामेश्वर्या मनोहरम् || १६ ||
प्रभिन्नाञ्जनसङ्काशां नीलस्निग्धशिरोरुहाम् |
षड्वक्त्रां द्वादशभुजामष्टादशविलोचनाम् || १७ ||
प्रत्येकं षट्सु शीर्षेषु चन्द्रार्धकृतशेखराम् |
मणिमाणिक्यमुक्तादिकृतमालामुरःस्थले || १८ ||
कण्ठे च बिभ्रतीं नित्यं सर्वालङ्कारमण्डिताम् |
पुस्तकं सिद्धसूत्रं च पञ्चबाणं तु तं तथा || १९ ||
खड्गं शक्तिं च शूलं च बिभ्रतीं दक्षिणैः करैः |
अक्षमालां महापद्मं कोदण्डं चाभयं तथा || २० ||
चर्म पश्चात् पिनाकं च बिभ्रतीं वामपाणिभिः |
शुक्लं रक्तं च पीतं च हरितं कृष्णमेव च || २१ ||
विचित्रं क्रमतः शीर्षमैशान्यां पूर्वमेव च |
दक्षिणं पश्चिमं चैव तथैवोत्तरशीर्षकम् || २२ ||
मध्यं चेति महाभाग क्रमाच्छीर्षाणि वर्णतः |
शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते || २३ ||
त्रिपुरा पीतसङ्काशा शारदा हरिता तथा |
कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते || २४ ||
धम्मिल्लसंयतकचं प्रतिशीर्षं प्रकीर्तितम् |
सिंहोपरिसितप्रेतं तस्मिंल्लोहितपङ्कजम् || २५ ||
कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना |
विचित्रांशुकसंवीतां व्याघ्रचर्माम्बरां तथा || २६ ||
एवं कामेश्वरीं ध्यायेद् धर्मकामार्थसिद्धये |
पीठेऽन्यत्राथवादेव्याः पूजायां कथ्यते क्रमः || २७ ||
पीठे विशेषो वक्तव्यः सामान्ये त्वन्यदिष्यते |
अङ्गुष्ठादिक्रमादेव संयोज्याथ युगं युगम् || २८ ||
मूलमन्त्रस्याक्षरेण दीर्घस्वरयुतेन च |
षड्भिराद्यैर्न्यसेत् पूर्वमङ्गुलीयकमेव च || २९ ||
हृच्छिरस्तु शीर्षवर्मनेत्रास्त्राणि पुनस्तथा |
न्यसेद् दक्षिणहस्तेन षड्भिर्मन्त्रैस्तथा क्रमात् || ३० ||
आस्यं बाहुयुगं कुक्षि गुह्यं जानुयुगं तथा |
पादयुग्मं क्रमात् तेस्तु षड्भिर्मन्त्रैन्यसेत् तथा || ३१ ||
अष्टधा मूलमन्त्रं तु जप्त्वाथार्घाहिते जले |
तेनोपकरणं देयं चाभ्युक्ष्य क्रममारभेत् || ३२ ||
दैशिकः पूजयेद् देवीं पीठेनादैशिकः क्वचित् |
तस्यैव हि करस्पर्शाद् देवी नोद्विजते शिवा || ३३ ||
यदि देशान्तराद् यातः पीठं देशान्तरं प्रति |
तद्दैशिकोपदेशेन तदा पूजां समारभेत् || ३४ ||
यद्यन्यतः समायाता कामरूपादृते नरः |
तद्देशजोपदेशेन सम्पूज्यफलमाप्नुयात् || ३५ ||
यस्मिन् देशे तु यः पीठ ओड्रपाञ्चालकादिषु |
तद्देशजोपदेशेन पूज्यः पीठे सुरो नरैः || ३६ ||
इतोऽन्यथा पूजने न सम्यक् फलमवाप्नुयात् |
महाविभवसम्पूर्णैर्विहितेनैव भैरव || ३७ ||
अनुक्तो यः क्रमश्चात्र वैष्णवीतन्त्रगोचरे |
तथैवोत्तरतन्त्रेऽपि प्रोक्तो ग्राह्यस्तु साधुकैः || ३८ ||
पूर्वद्वारि प्रथमतः कामतत्त्वं प्रपूजयेत् |
दक्षिणे प्रीतितत्त्वं तु रतितत्त्वं च पश्चिमे || ३९ ||
उत्तरे मोहनं तत्त्वं क्रमादेतानि पूजयेत् |
ऐशान्यां पूजयेद् देव गणेशं द्वारपालकम् || ४० ||
अग्नौ तु चाग्निवेतालं नैर्-ऋत्यां कालमेव च |
वायव्यां नन्दिनं चापि पूजयेत् क्रमतस्त्विमान् || ४१ ||
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः |
षट्कारं चैव यो वेद स योग्यः पीठपूजने || ४२ ||
ओड्राख्यं प्रथमं पीठं द्वितीयं जालशैलकम् |
तृतीयं पूर्णपीठं तु कामरूपं चतुर्थकम् || ४३ ||
ओड्रपीठं पश्चिमे तु तथैवोड्रेश्वरी शिवाम् |
कात्यायनीं जगन्नाथमोड्रेशं च प्रपूजयेत् || ४४ ||
उत्तरे पूजयेत् पीठं प्रशस्तं जालशैलकम् |
जालेश्वरं महादेवं चण्डीं जालेश्वरीं तथा || ४५ ||
दीर्घिकां चोग्रचण्डां च तत्रैव परिपूजयेत् |
दक्षिणे पूर्णशैलं तु तथा पूर्णेश्वरीं शिवाम् || ४६ ||
पूर्णनाथं महानाथं सरोजामथ चण्डिकाम् |
पूजयेद् दमनीं देवीं शान्तामपि तथा शिवाम् || ४७ ||
कामरूपं महापीठं तथा कामेश्वरीं शिवाम् |
नीलं च पर्वतश्रेष्ठं नाथं कामेश्वरं तथा || ४८ ||
पूजयेद् द्वारि पूर्वे तु क्रमादेतांस्तु भैरव |
औड्रादीनां तु पीठानां क्षेत्रपालान् गुरूंस्तथा || ४९ ||
अन्यांस्तु द्वारपालादीन् स्वे स्वे स्थाने प्रपूजयेत् |
विशेषात् कामरूपस्य कामेश्वरीं प्रपूजयन् || ५० ||
आनेव नीलशैलस्थान् शृणु वेताल भैरव |
नाथः कामेश्वरो देवो देवी कामेश्वरी तथा || ५१ ||
करालः क्षेत्रपालाश्च चिञ्चावृक्षस्तथैव च |
त्रिकूटे नीलशैलस्तु गुहा चापि मनोभवा || ५२ ||
बटुकः कम्बलो नाम वल्ली चैवापराजिता |
भैरवः पाण्डुनाथश्च श्मशानं हेरुकाह्वयम् || ५३ ||
योगिनी च महोत्साहा तथा चन्द्रवती पुरी |
लौहित्यो नदराजश्च प्रान्ता दिक्करवासिनी || ५४ ||
जल्पीशाख्यस्तु वायव्यां केदाराख्योऽथ राक्षसे |
एतान् सम्पूजयेद् द्वारि तथा देव्यास्तु मण्डले || ५५ ||
द्वारपालो योगिनी च बटुकाद्या यथा तथा |
कामरूपे पीठवरे ओड्रादिष्वथ तत् तथा || ५६ ||
मध्ये तु मण्डलस्याथ द्रावणं शोषणं तथा |
बन्धनं मोहनं चैव तथैवाकर्षणाह्वयम् || ५७ ||
मनोभवस्य बाणांस्तु पश्चैतान् परिपूजयेत् |
षट्कोणाग्रेषूत्तरादौ भगादिषट्कमेव च || ५८ ||
त्रिपुरातन्त्रमन्त्रोक्तं पूजयेत् क्रमतः सुधीः |
गणाक्रीडादिकं तद्वत् तथा विद्याकलादिकान् || ५९ ||
बटुकान् सिद्धपुत्रादीन सिद्धाद्याश्च कुमारिकाः |
चतुश्चतुष्कमित्येतच्चतुष्कमिति चोच्यते || ६० ||
कामं रतिं च प्रीतिं च अनङ्गमेखलादिकम् |
सप्त वै त्रिपुरघ्नाद्या असिताङ्गादयो नवे || ६१ ||
माहेश्वर्यादिका देव्यो दशभिः पञ्चभिगणैः |
द्वितीयं पञ्चकं प्रोक्तं पीठे कामफलप्रदम् || ६२ ||
आधारशक्तिमुख्या ये नित्यं तत्र प्रतिष्ठिता |
धर्माद्याश्च तथैवाष्टौ तथा सत्त्वादिका गुणाः || ६३ ||
एकत्र ग्रहदिक्पालाश्चतुष्कमपरं स्मृतम् |
देव्यास्तथोग्रचण्डाद्या नायिकाः परिपूजयेत् || ६४ ||
पूर्वोक्तदेशे मन्त्रेण भक्त्या वेताल भैरव |
आवाहनं षोडशोपचाराणां प्रतिपादनम् || ६५ ||
जपं च बलिदानं च अङ्गास्त्राणां प्रपूजनम् |
मुद्रा पूर्वा विसृष्टिश्च षट्कमेतत् प्रकीर्तितम् || ६६ ||
एतानि सप्त जानाति प्रकारान् पूजकः सुधीः |
स एवोड्रादिपीठानि सम्पूजयितुमर्हति || ६७ ||
योऽज्ञात्वा सम्यगेतानि कुरुते पीठपूजनम् |
न सम्यक् फलमाप्नोति हीनायुरपि जायते || ६८ ||
त्रिपुरातन्त्रमन्त्रोक्तस्थानेष्वेतेषु भैरव |
पूजयित्वा प्रथमतः पूजयेत् परमेश्वरीम् || ६९ ||
कामेश्वरि इहागच्छ सम्मुखी भव चेश्वरि |
चिन्तयित्वाथ मनसाऽभ्यर्च्य कामेश्वरीं हृदि || ७० ||
मानसैर्गन्धपुष्पाद्यैस्ततो दक्षिणनासया |
निःसार्य वायुं तत् पुष्पमारोप्य मण्डलान्तरे || ७१ ||
आवाहयेन्महादेवीं सर्वकामेश्वरेश्वरीम् |
कामेश्वरि इहागच्छ सम्मुखी भव सन्निधौ || ७२ ||
कामेश्वरि विद्महे त्वां कामाख्ययै च धीमहि |
तन्नः कुब्जि महामाये ततः पश्चात् प्रचोदयात् || ७३ ||
एह्येहि भगवत्यम्ब लोकानुग्रहकारिणि |
कामेशे कामरूपे त्वं कामकान्ते प्रसीद मे || ७४ ||
ततस्तु प्रथम स्नानं जलं दत्त्वा तु पूजकः |
मूलमन्त्रेण वितरेदुपचारांस्तु षोडश || ७५ ||
पूजयेन्मध्यभागे तु षडङ्गानि ततोऽर्चयेत् |
अङ्गन्यासे तु ये मन्त्राः क्रमे पूर्वं तु भाषिताः || ७६ ||
तैरेव मन्त्रैरङ्गानि देव्या अपि च पूजयेत् |
पूर्वाद्यष्टदलेष्वेता योगिनीः परिपूजयेत् || ७७ ||
यथाक्रमेण कामानां सिद्ध्यर्थं कामदायिकाः |
गुप्तकामां तु श्रीकामां तथैव विन्ध्यवासिनीम् || ७८ ||
कोटेश्वरीं वनस्थां तु योगिनीं पादचण्डिकाम् |
दीर्घेश्वरीं तु प्रकटां भुवनेशीं क्रमाद् यजेत् || ७९ ||
वैष्णवीतन्त्रमन्त्रस्य यान्यष्टावक्षराणि तु |
तानि बिन्द्बन्दुयुक्तानि मन्त्रन्यासांश्च च प्रक्षते || ८० ||
मन्त्रेषु षण्णां कोणानां षडिमाः परिपूजयेत् |
ऐशान्यादिक्रमेणैव कामाख्यां त्रिपुरां तथा || ८१ ||
शारदां च महोत्साहां प्रकटां भुवनेश्वरीम् |
सिद्धकामेश्वरीं चापि देव्या रूपाणि भैरव || ८२ ||
अष्टपुष्पिकया देवीं पुनः सम्पूज्य चाष्टधा |
जप्त्वा स्तुत्वा बलिं दत्त्वा नत्वा मुद्रां प्रदर्श्य च || ८३ ||
देव्यास्तु सिद्धचण्ड्या वै निर्माल्यं प्रतिपाद्य च |
विसृज्य मण्डलाद् देवीं स्थापयेद् योनिमण्डले || ८४ ||
एतत् कामेश्वरीतन्त्रं कथितं युवयोः सुतौ |
शारदाया महातन्त्रं समन्त्रं शृणु भैरव || ८५ ||
इति श्रीकालिकापुराणे त्रिपुरापूजनं नाम चतुःषष्टितमोऽध्यायः || ६४ ||
Kapitel 65
पञ्चषष्टितमोऽध्यायः
श्रीभगवानुवाच
शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः |
शारदा सा समाख्याता पीठे लोके च मानव || १ ||
तस्यां तु नेत्रबीजाख्यं मन्त्रं प्राक् प्रतिपादितम् |
दुर्गातन्त्रं च तन्मन्त्रमङ्गमन्त्रं पुरोदितम् || २ ||
ताभ्यामेव तु मन्त्राभ्यां पूजयेत् तां जगन्मयीम् |
तृतीयं पीठमन्त्रं तु शारदाया अनुत्तमम् || ३ ||
शृणुतं चैकमनसा चतुर्वर्गप्रदयाकम् |
चतुर्थस्वरसंयुक्तमुपान्तो वह्निना युतः || ४ ||
कामराजं तथा नान्तमुपान्तस्वरसंयुतम् |
वह्निना चापि सन्दीप्तः सर्वबिन्द्बिन्दुसंयुतः || ५ ||
हादिः समाप्तिसहित एतद्बीजं चतुर्थकम् |
चतुर्भिरेभिः कथितो मन्त्रोक्तैश्च षडक्षरैः || ६ ||
अयं तृतीयो मन्त्रस्तु शारदायाः प्रकीर्तितः |
अनेन पूजयेत् पीठे सर्वसिद्धिमवाप्नुयात् || ७ ||
रूपमस्याः पुरा प्रोक्तं सिंहस्थं दशबाहुभिः |
तत्र पूजाक्रमं सम्यक् शृणुतं पुत्रकौ मम || ८ ||
चतुर्द्वारमण्डलं तु कुर्यात् तत्र विभूतये |
महामायामण्डलं तु शारदायस्तु मण्डलम् || ९ ||
वैष्णवीतन्त्रकल्पोक्तैर्मन्त्रस्थानादिमार्जनम् |
कृत्वा तु नेत्रबीजेन मण्डलं प्रस्तरे लिखेत् || १० ||
योनावष्टदलं कृत्वा त्रिकोणं मध्यतो न्यसेत् |
अयं विशेषः कथितो वैष्णवीमण्डलात् पुनः || ११ ||
मण्डलोल्लेखनं चैव तथा भूतापसारणम् |
पात्रस्य प्रतिपत्तिस्तु अमृतीकरणं तथा || १२ ||
गन्धपुष्पाम्भसां क्षेप आत्मासनप्रपूजनम् |
प्राणायामश्च त्रिविधो भूतिशुद्धिप्रवेशनम् || १३ ||
दहनप्लवने चैव पाणिकच्छपिका तथा |
योगपीठस्य च ध्यानं वैष्णवीतन्त्रभाषितम् || १४ ||
तथैवोत्तरतन्त्रोक्तं कुर्याद् देव्याः प्रपूजनम् |
अमृतीकरणं कुर्यात् सलिले धेनुमुद्रया || १५ ||
रूपं त्वेवं दशभुजं पूर्वोक्तं तु विचिन्तयेत् |
अङ्गन्यासकरन्यासौ दुर्गातन्त्रेण भैरव || १६ ||
नवाक्षरेण वै कुर्यादङ्गुष्ठादि क्रमेण तु |
हृदयादिक्रमात् पश्चाद् वक्त्रादावपि पूर्ववत् || १७ ||
एतदेवार्धपात्रे चाष्टधा मन्त्रं जपेत् सुधीः |
तत् तोयैः सेचयेच्छीर्षं पुष्पगन्धादिकं तथा || १८ ||
एवं पूजाक्रमं तत्र कुर्याद् देव्यास्तु मण्डले |
आदित्यं चण्डिकारूपं ध्यात्वा पूर्वे शिलातले || १९ ||
तस्मै निवेदयेदर्घ्यं सिद्धार्थाक्षतपुष्पकैः |
आधारशक्तिप्रभृतीन् क्लीं मन्त्रेण च साधकः || २० ||
पूजयेत् प्रथमं मध्ये धर्मादीनपि पूर्ववत् |
सत्त्वादीन् गुरुपादान्तान् पूर्वतन्त्रोदितान् बुधः || २१ ||
पूजयेन्मध्यपद्मे तु सुमेरुमपि मध्यतः |
पूर्वभागे मण्डलस्य देव्याः शक्तीः प्रपूजयेत् || २२ ||
नाथकामेश्वरादींस्तु लौहित्यान्तान् विशेषतः |
सर्वान् वै पीठदेवांस्तु मण्डलस्योत्तरे यजेत् || २३ ||
मणिकर्णं चित्ररथं भस्मकूटं तथैव च |
श्वेतं नीलं च चित्रं च वाराहं गन्धमादनम् || २४ ||
मणिकूटं नन्दनं च पश्चिमे पूजयेदिमान् |
जल्पीशमथ केदारं देवीं दिक्करवासिनीम् || २५ ||
धात्रीं स्वधां तथा स्वाहां मानस्तोकापराजिते |
दक्षिणे पूजयेदेताश्चतुःषष्टिं च योगिनीः || २६ ||
ग्रहांश्च दशदिक्पालान् पूर्वाद्युक्तक्रमेण तु |
पूर्ववत् पूजयेद् धीमान् भैरव भैरवीमपि || २७ ||
ततः कच्छपिकां बद्ध्वा पुनरेव तु पूजकः |
ध्यायेच्च पूर्ववद् देवीं हृदिस्थां मनसापि च || २८ ||
मानसैर्गन्धपुष्पाद्यैः पूजयित्वा हृदि स्थिताम् |
नासापुटेन निःसार्य दक्षिणेनाथ मण्डले || २९ ||
पुष्पमारोप्य कामाख्यां शारदामाह्वयेन्मुहुः |
एह्येहि परमेशानि सान्निध्यमिह कल्पय || ३० ||
पूजाभागं गृहाणेमं मखं रक्ष नमोऽतु ते |
दुर्गे दुर्गे इहागच्छ सर्वैः परिकरैः सह || ३१ ||
पूजाभागं गृहाणेम मखं रक्ष नमोऽस्तु ते |
नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि || ३२ ||
शेषभागे तु गायत्र्यास्तन्नश्चण्डि प्रचोदयात् |
दत्त्वा स्नानमनेनैव दुर्गा तन्त्रण वै पुनः || ३३ ||
नेत्रबीजेन च तथा पीठमन्त्रेण चान्तरम् |
चतुरक्षरेण शेषेण त्रिभिर्मन्त्रैः प्रपूजयेत् || ३४ ||
चतुरक्षरमन्त्रेण पाद्यादीनथ षोडश |
वितरेदुपचारांस्तु पूर्वोक्तांस्तांस्तु भैरव || ३५ ||
दुर्गातन्त्रेण मन्त्रेण देव्यङ्गानि प्रपूजयेत् |
दुर्गेत्यनेन हृदयं पुनर्दुर्गेत्यनेन कम् || ३६ ||
शिखाकवचनेत्रञ्च पादपादांश्च पञ्चभिः |
वादिपञ्चाक्षरैः शेषैः पूजयेत् क्रमतः सुधीः || ३७ ||
पूर्वाद्यष्टदलेष्वेताः पूजयेन्नाधिकक्रमात् |
जयन्तीं पूर्वपत्रे तु आग्नेययादौ तु मङ्गलाम् || ३७ ||
कालीं च भद्रकालीं च तथा चैव कपालिनीम् |
दुर्गां शिवां क्षमां चैव क्रमादेव तु नामतः || ३८ ||
केशवस्य तु मध्ये तु अष्टावेतास्तु नायिकाः |
नेत्रबीजस्य मन्त्रेण बीजेन षट्सु नायिकाः || ४० ||
अमीषां च तथवासौ षड्भिरेतान्तराहितैः |
ह्रां ह्रां श्रीमित्युपान्तां तु प्रान्तामाद्यस्वरेण वै || ४१ ||
उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् |
चण्डां चण्डवतीं चैव चण्डरूपां च चण्डिकाम् || ४२ ||
त्रिकोणकेशरान्तं च कामं प्रीतिं रतिं तथा |
पञ्चबाणान् पुष्पधनुः पूजयेत् काममन्त्रकैः || ४३ ||
अष्टपुष्पिकया पश्चात् सम्पूज्य परमेश्वरीम् |
देव्यास्तु करगृह्याणि शस्त्राण्यस्त्राणि वाहनम् || ४४ ||
पञ्चाननं केशरं च देव्यग्रे तु प्रपूजयेत् |
पीठदेवीं शारदां तु कामाख्यामधिदेवताम् || ४५ ||
त्रिपुराख्यां महादेवीं पीठमत्यधिदेवताम् |
कामेश्वरीं महोत्साहां मध्य एव प्रपूजयेत् || ४६ ||
चतुरक्षरमन्त्रेण दद्यात् पुष्पाञ्जलित्रयम् |
जप्त्वा स्तुत्वा बलिं दत्त्वा नमस्कृत्यावगुण्ठ्य च || ४७ ||
योनिमुद्रां प्रदर्श्याथ निर्माल्यं दिशि शूलिनः |
चण्डेश्वर्यै नमः इति निक्षिप्य च विसर्जयेत् || ४८ ||
ततस्तु भास्करायार्घ्यं दद्याच्छिद्रावधारणम् |
देवीं च हृदये स्थाप्य स्थापयेद् योनिमण्डले || ४९ ||
एवं देवी तु कामाख्यां योनिमुद्रां जगन्मयीम् |
शारदाख्यां महादेवीं योगेन विधिना यजेत् || ५० ||
सर्वकामान् सुसम्प्राप्य शिवलोकमवाप्नुयात् |
यदि पीठं विनान्यत्र पूजयेत् कामरूपिणीम् || ५१ ||
नीलकूटे तदाप्येतत् सर्वमेव समाचरेत् |
यदान्यत्र यजेद् देवीं जले वा स्थण्डिलेऽपि वा || ५२ ||
शिलादिषु च वह्नौ वा देवपीठे यथेच्छया |
यजेद् वा न यजेद् वापि पीठेऽवश्यं प्रपूजयेत् || ५३ ||
एवं यः पञ्चभिर्मन्त्रैः पञ्चमूर्तिधरां शिवाम् |
एकैकेनाथ वा तस्य स्वयं स्याद् वरदायिका || ५४ ||
विघ्ना न तस्य जायन्ते नाधयो व्याधयस्तथा |
न तस्य सदृशोऽन्यः स्याद् धनधान्यसमृद्धिभिः || ५५ ||
गवां कोटिप्रदानात् तु यत्फलं जायते नृणाम् |
तत्फलं समवाप्नोति कामाख्यां पूजयन्नरः || ५६ ||
दशपूर्वान् दशपरान् वंशानुद्धृत्य पापतः |
सकृत् सम्पूजनेनैव मम लोकमवाप्नुयात् || ५७ ||
द्विः सम्पूज्य महादेवीं कामाख्यां योनिमण्डले |
शतं वंश्मान् समुद्धृत्य देवीलोकमवाप्नुयात् || ५८ ||
यस्त्रिवारान् पूजयेत् तु विधिनानेन मानवः |
नीलपर्वतमारुह्य कामाख्यां योनिमण्डले || ५९ ||
स सहस्रं तु वंशानामुद्धृत्य पापकोषतः |
इहलोके सुखैश्वर्यचिरायुष्यमवानुयात् || ६० ||
देहान्ते मद्गृहं प्राप्य गणानामधिपो भवेत् |
यस्यां कस्यामथाष्टम्यां नवम्यां वापि साधकः || ६१ ||
पञ्चरूपां तु कामाख्यां पञ्चमन्त्रैः सतन्त्रकैः |
पूजयेद् वरदां देवीं मण्डलैश्च पृथक् पृथक् || ६२ ||
ध्यात्वा तु पञ्चरूपाणि जप्त्वा मन्त्रांश्च पञ्च वै |
कल्पकोटिसहस्राणि मम लोके च मानवः || ६३ ||
स्थित्वा देवीप्रसादेन परे निर्वाणमाप्नुयात् |
इह लोके वाञ्छितार्थं सुखं प्राप्य यशस्तथा || ६४ ||
रिपूञ्जित्वा स धर्मात्मा मातङ्गानिव केसरी |
चिरायुः पुत्रपौत्रैश्च विभवैश्च समन्वितः || ६५ ||
क्रीडयित्वा ह्यमरवद् युवतीभिश्च सादरात् |
यक्षरक्षःपिशाचानां नेता भवति नित्यशः |
सर्वान् कामानवाप्यैव द्विजराजसमो भवेत् || ६६ ||
इति श्रीकालिकापुराणे पञ्चषष्टितमोऽध्यायः || ६५ ||
Kapitel 66
षट्षष्टितमोऽध्यायः
और्व उवाच
एतत्तन्त्रं समस्तं तु श्रुत्वा वेतालभैरवौ |
पप्रच्छतुस्त्र्यम्बकं च हर्षोत्फुल्लविलोचनौ || १ ||
वेतालभैरवावूचतुः
कामाख्यायाः श्रुतं तन्त्रं साङ्गं युष्मत्प्रसादतः |
नमस्कारं तथा मुद्रां बलिदानं तथैव च || २ ||
तथैव मातृकान्यासं पूजायां चान्यतः क्रमम् |
एतत् सर्वं समाचक्ष्व विस्तरेण जगत्प्रभो |
शृण्वतो नहि नौ तृप्तिर्जायते मोदभूमिषु || ३ ||
श्रीभगवानुवाच
वक्ष्यामि यदहं पृष्टो भवद्भ्यां पुत्रकोत्तमौ |
शृणुतं नरशार्दूलावेकाग्रमनसाधुना || ४ ||
त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् |
दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् || ५ ||
ऐशानी वाथ कौबेरी दिक् कामाख्याप्रपूजने |
प्रशस्ता स्थण्डिलादौ च सर्वमूर्तेश्च सर्वतः || ६ ||
त्रिकोणादिव्यवस्था तु यदि पूर्वमुखो यजेत् |
पश्चिमाच्छाम्भवीं गत्वा व्यवस्थां निर्दिशेत् तदा || ७ ||
यदोत्तरामुखः कुर्यात् साधको देवपूजनम् |
तदा याम्यां तु वायव्यां गत्वा कुर्यात् तु संस्थितिम् || ८ ||
दक्षिणाद् वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् |
ततोऽपि दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् || ९ ||
त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः |
दक्षिणाद् वायवीं गत्वा वायव्याच्छाम्भवीं ततः || १० ||
ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाग्नौ प्रविश्य च |
अग्नितो राक्षसीं गत्वा तत्पश्चादुत्तरां दिशम् || ११ ||
उत्तराच्च तथाग्नेयीं भ्रमणं द्वित्रिकोणवत् |
षठ्कोणोऽयं नमस्कारः प्रीतिदः शिवदुर्गयोः || १२ ||
दक्षिणाद् वायवीं गत्वा तस्मादावृत्य दक्षिणम् |
गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रः प्रकीर्तितः || १३ ||
सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः |
नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः || १४ ||
त्यक्त्वा स्वमासनस्थानं पश्चाद् दुर्गानमस्कृतिः |
प्रदक्षिणं विना यातु निपत्य भुवि दण्डवत् || १५ ||
दण्ड इत्युच्यते देवैः सर्वदेवौघमोददः |
पूर्ववद् दण्डवद् भूमौ निपत्य हृदयेन तु || १६ ||
चिबुकेन मुखेनाथ नासया हनुकेन च |
रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् || १७ ||
स चाष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः |
प्रदक्षिणत्रयं कृत्वा साधको वर्तुलाकृतिः || १८ ||
ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यस्मान्नमस्कृतौ |
स् उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः || १९ ||
नदानां सागरो यद्वद् द्विपदां ब्राह्मणो यथा |
नदीनां जाह्नवी यादृग् देवानामपि चक्रधृक् || २० ||
नमस्कारेषु सर्वेषु तथैवोग्रः प्रशस्यते |
त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः || २१ ||
चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः |
नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा || २२ ||
सर्वेषामेव देवानामन्येषामपि भैरव |
योऽसावुग्रो नमस्कारः प्रीतिदः सतत हरेः || २३ ||
महामायाप्रीतिकरः स नमस्करणोत्तमः |
उक्तास्तत्र नमस्काराः शृणुतं परतो युवाम् || २४ ||
मुद्राणां परिसंख्यानं स्वरूपं च यथाक्रमम् |
धेनुश्च सम्पुटश्चैव प्राञ्जलिबिल्वपद्मकौ || २५ ||
नाराचो मुण्डदण्डौ च योनिरर्धं तथैव च |
अन्दनी च महामुद्रा महायोनिस्तथैव च || २६ ||
भगश्च पुटकश्चैव निषङ्गोवाऽर्धचन्द्रकः |
अङ्गश्च द्विमुखं चैव शङ्खमुद्रा च मुष्टिकः || २७ ||
वज्रं चैव तथा रन्ध्रं षड्योनिर्विमल तथा |
घटः शिखरिणीतुङ्गः पुण्ड्रोऽथ ह्यर्धपुण्ड्रकः || २८ ||
सम्मिलनी च कुण्डश्च चक्रं शूलं तथैव च |
सिंहवक्त्रं गोमुखं च प्रोन्नामोन्नमनं तथा || २९ ||
इम्बं पाशुपतं शुद्धं त्यागोऽथोत्सारिणी तथा |
प्रसारिणी चोग्रमुद्रा कुण्डलीव्यूह एव च || ३० ||
त्रिमुखा चासिवल्ली च योगो भेदोऽथ मोहनम् |
बाणो धनुश्च तूणीरं मुद्रा एताश्च सत्तमाः || ३१ ||
अष्टोत्तरशतं मुद्रा ब्रह्मणा याः प्रकीर्तिताः |
तासां तु पञ्चपञ्चाशदेता ग्राह्यास्तु पूजने || ३२ ||
शेषास्तु यास्त्रिपञ्चाशन्मुद्रास्ताः समयेषु च |
द्रव्यानयनसंकेत नटनादिषु ताः स्मृताः || ३३ ||
देवानां चिन्तने योगे ध्याने जप्ये विसर्जने |
आद्यास्तु पञ्चपञ्चाशन्मुद्रा भैरव कीर्तिता || ३४ ||
मुद्रां बिना तु यज्जप्यं प्राणायामः सुरार्चनम् |
योगो ध्यानासने चापि निष्फलानि च भैरव || ३५ ||
प्रत्येकं लक्षणं तेषां शृणुतं तनयौ युवाम् |
दक्षिणामध्यमाग्रेण सव्यहस्तस्य तर्जनीम् || ३६ ||
योजयेत् सव्यम्ध्यां तु तर्जन्या दक्षिणेन वै |
तथा दक्षिणानामिकया वामहस्तकनिष्ठिकाम् || ३७ ||
अनामिकां तु वामस्य दक्षिणस्य कनिष्ठया |
योजयेद् भक्तिमान् सम्यग् दक्षिणावर्तनेन तु || ३८ ||
धेनुमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा |
संयोज्य द्वौ तलौ सर्वाण्यंगुल्यग्राणि हस्तयोः || ३९ ||
संयोज्य पाश्वतोऽङ्गुष्ठौ सम्पुटः प्रोच्यते सुरैः |
सर्वेषामथ देवानां सम्पुटः प्रीतिदायकः || ४० ||
ध्यानचिन्तनयोगादौ सम्पुटः शस्यते सदा |
निकुब्जयुगलं पाण्योस्तं संयोज्यार्ध एव च || ४१ ||
मध्यशून्यः पुटाकारः प्राञ्जलिः परिकीर्तितः |
अङ्गुष्ठमन्तरं कृत्वा पाण्योमुष्टिं विधाय च || ४२ ||
संयोज्य बिल्ववत्ते तु बिल्वमुद्रा प्रकीर्तिता |
मणिबन्धादाकरभं संयोज्य करयोर्दयोः || ४३ ||
अङ्गुष्ठे चापि संयोज्य तथैव च कनिष्ठिके |
तिस्रस्तिस्रस्तयोः पाण्योरङ्गुलोर्विरलास्तथा || ४४ ||
पद्ममुद्रा समाख्याता चतुर्वर्गफला नृणाम् |
अङ्गुष्ठाग्रेण तर्जन्या संयोज्याथोर्ध्वरेखया || ४५ ||
अन्याङ्गुलीस्तथानम्य नाराचः स्यात् प्रसार्य ते |
मम चैव शिवायाश्च प्रीतिदेयं प्रियङ्करी || ४६ ||
नाराचमुद्रा सततं प्रीत्यै वेतालभैरव |
अन्तराङ्गुष्ठमुष्टिं च कृत्वा वामकरस्य तु || ४७ ||
मध्यमाया दक्षिणस्य तथानम्य प्रयत्नतः |
मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रं नियोज्य च || ४८ ||
दक्षिणं योजयेत् पाणिं वाममुष्टौ च साधकः |
दर्शयेद् दक्षिणे भागे मुण्डमुद्रेयमिष्यते || ४९ ||
इयं तु गणनाथस्य प्रीतिदा मुद्रिकोत्तमा |
सर्वेषामपि देवानां तुष्टिदा सर्वकर्मसु || ५० ||
अङ्गुष्टमध्यमादींश्च सम्यगानम्य तर्जनीम् |
प्रसार्य दण्डमुद्रेति दक्षिणस्य करस्य च || ५१ ||
सर्वाङ्गुलीस्तु संयोज्य करयोरुभयोरपि |
संवेष्ट्य रज्जुवद् वेति पाण्योरपि कनिष्ठिके || ५२ ||
वामस्यानाममूले वै उदग्रं विनियोजयेत् |
दक्षस्य मध्यमामूले तथाग्रं वाममेव च || ५३ ||
योजयेद् योजनात् पश्चादावर्त्य करशाखिकाः |
योन्याकारं तु तन्मध्यं योनिमुद्रा प्रकीर्तिता || ५४ ||
कामाख्यायाः पञ्चमूर्तेर्दुगाया अपि भैरव |
प्रीतिदा योनिमुद्रेयं मम कामस्य च प्रिया || ५५ ||
संसक्ता अङ्गुलीः सर्वाः प्रसार्याङ्गुष्ठपर्वणा |
अग्रेण च कनिष्ठाया अग्रेणापि च योजयेत् || ५६ ||
करस्य दक्षिणस्यैवमर्धयोनिः प्रकीर्तिता |
महायोनिस्तु कथिता वैष्णवीतन्त्रणे वरे || ५७ ||
सम्पुटं प्राञ्जलिं वापि यदि शीर्षे प्रदर्शयेत् |
वन्दनीया समख्याता मुद्रा विष्णुप्रमोदिनी || ५८ ||
सैव चेच्छ्रवणासक्ता महामुद्रा प्रकीर्तिता |
दक्षिणाङ्गे तु सा सक्ता वैष्णवी परिकीर्तिता || ५९ ||
महायोनिस्तु कथिता वैष्णवी तन्त्रगोचरे |
द्वयोस्तु मूलेऽङ्गुष्ठाग्रमङ्गुलीं च कनिष्ठयोः || ६० ||
नियोज्य प्रसृतीकृत्य दौ पाणी योजयेत् पुनः |
भगमुद्रा समाख्याता लक्ष्मीवाणीशिवप्रिया || ६१ ||
सर्वाङ्गुलीनामग्रौघं दक्षिणस्य च |
संयोज्यैकत्र पुरतो निर्देशः पुटकः स्मृतः || ६२ ||
कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः |
अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै || ६३ ||
कुब्जिकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् |
निःसङ्गनाममुद्रेयं नरसिंहवराहयोः || ६४ ||
कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु |
करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या || ६५ ||
सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी |
ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु || ६६ ||
कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः |
ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता || ६७ ||
एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः |
अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु || ६८ ||
द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च |
विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च || ६९ ||
नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः |
क्रमान्नव समाख्याता नायिकानां तथैव च || ७० ||
संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् |
प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः || ७१ ||
अङ्गुष्ठौ च तथासक्तौ शङ्खमुद्रा प्रकीर्तिता |
उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः || ७२ ||
मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् |
सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा || ७३ ||
मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् |
सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा || ७४ ||
अनामिके कनिष्ठे च संयोज्य वायुना पुनः |
मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् || ७५ ||
सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी |
करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता || ७६ ||
नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च |
कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः |
अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै || ६३ ||
कुब्जीकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् |
निःसङ्गनाममुद्रेयं नरसिंहवराहयोः || ६४ ||
कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु |
करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या || ६५ ||
सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी |
ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु || ६६ ||
कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः |
ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता || ६७ ||
एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः |
अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु || ६८ ||
द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च |
विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च || ६९ ||
नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः |
क्रमान्नव समाख्याता नायिकानां तथैव च || ७० ||
संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् |
प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः || ७१ ||
अङ्गुष्ठौच तथासक्तौ शङ्खमुद्रा प्रकीर्तिता |
उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः || ७२ ||
मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् |
सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा || ७३ ||
मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् |
सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा || ७४ ||
अनामिके कनिष्ठे च संयोज्य वायुना पुनः |
मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् || ७५ ||
सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी |
करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता || ७६ ||
नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च |
अग्रैरग्रैयोजयेत् तु मुद्रा सम्मीलनी तु सा || ७७ ||
भौमभूमिमुनीशानामियं प्रीतिविवर्धिनी |
सर्वाङ्गुलीस्तु संयोज्य दक्षिस्य करस्य च || ७८ ||
कियद्भागं तथानम्य तलं कुर्यात् तु कुण्डवत् |
समाख्याता कुण्डमुद्रा बुधवाणीशिवप्रिया || ७९ ||
सर्वाङ्गुलीनां मध्यं तु वामहस्तस्य चाङ्गुलीः |
प्रसार्याङ्गुष्ठयुगलं संयोज्याग्रेण भैरव || ८० ||
तदङ्गुष्ठद्वयं कार्य सम्मुखं वितरेम् ततः |
चक्रमुद्रा समाख्याता गुरुविष्णुशिवप्रिया || ८१ ||
अङ्गुष्ठं मध्यमां चैव नामयित्वा करस्य तु |
दक्षिणस्य परास्तिस्रो योजयेदग्रतः पुनः || ८२ ||
शूलमुद्रा समाख्याता मम शुक्रग्रहप्रिया |
निकुब्जीकृत्य तु करौ वामङ्गुलिगणस्य तु || ८३ ||
अग्राणि योजयेन्मध्ये तलस्यासव्यहस्ततः |
अधःकृत्वा वामहस्तं मुद्रा सिंहमुखी स्मृता || ८४ ||
इयं प्रीत्यै तु दुर्गायाः सूर्यपुत्रस्य चक्रिणः |
भगमुद्रा कर्णमूले गोमुखाख्या प्रकीर्तिता || ८५ ||
मम विष्णोस्तथा राहोः सर्वदा प्रीतिदायिनी |
मुष्टिद्वयमथोत्तानं कृत्वा संयोज्य पार्श्वतः || ८६ ||
दक्षिणस्य कनिष्ठादीन प्रसार्य क्रमतः पुनः |
तथा वामकनिष्ठाभ्यामेकैकेन प्रसारयेत् || ८७ ||
अष्टौ मुद्राः समाख्याता नामतः क्रमतः शृणु |
प्रोल्लासोन्नमनं चैव विम्बं पाशुपतं तथा || ८८ ||
शुद्धं त्यागः सारणी च तथा चैव प्रसारणी |
आकुञ्चकरशाखास्तु दक्षिणा सा तु मुद्रिका || ८९ ||
उग्रमुद्रा समाख्याता स्वहस्तस्य विपर्ययात् |
इन्द्रादिलोकपालानां दशमुद्राः प्रकीर्तिताः || ९० ||
सर्वेषामेव देवानां परमप्रीतिवर्धनाः |
अङ्गुष्ठाग्रं तु तर्जन्या अग्रे भागेन योजयेत् || ९१ ||
आकुञ्चमध्यमाद्यास्तु दक्षहस्तस्य चाङ्गुलीः |
दशयेत् कुण्डलाकारं कुण्डलीशक्तितुष्टिदम् || ९२ ||
सर्वेषामपि देवानां यथा तुष्टिकरं महत् |
अङ्गुष्ठतर्ज्नीमध्या अग्रभागं नियोज्य च || ९३ ||
मध्यमां च कनिष्ठां च आकुञ्च्य दक्षिणे करे |
त्रिमुखाख्या समाख्याता विश्वदेवप्रिया सदा || ९४ ||
केतोः प्रियेयं सतत मातृणामपि तुष्टिदा |
तर्जन्यङ्गुष्ठयोरग्रभागौ संयोज्य चाऽऽगुलीः || ९५ ||
अन्या आकुञ्चयेत् तिस्रः साऽसिवल्ली प्रकीर्तिता |
पितृणामथ साध्यानां रुद्राणां विश्वकर्मणः || ९६ ||
सर्वदा प्रीतिजननी साऽसिवल्ली प्रकीर्तिता |
पादौ तलाभ्यां संयोज्य तदङ्गुष्ठद्वयं यतः || ९७ ||
ऊर्ध्वं संयोजयेन्नाभौ तस्योपरि तथाञ्जलिः |
योगमुद्रा समाख्याता योगिनां तत्त्वदायिनी || ९८ ||
सर्वेषामपि देवानां पूजने चिन्तने तथा |
योगमुद्रा समाख्याता तुष्टप्रीतिकरी सदा || ९९ ||
प्राञ्जलिर्नाम् मुद्रा तु ऊर्ध्वाधो भावयोजिता |
विभिद्य दर्शयेद्धस्तौ ऊर्ध्वाधः प्रसृतीकृतौ || १०० ||
भेदमुद्रा समाख्याता मम विष्णोविधेः प्रिया |
अङ्गुष्ठे द्वे तु निक्षिप्य करयोरुभयोरपि || १०१ ||
अग्रेण योजयेत् पश्चात् कनिष्ठायुगलं ततः |
उभयोर्हस्तयोश्चान्यास्तर्जन्याद्याश्च योजयेत् || १०२ ||
अग्राग्रैस्तु पृथक्कृत्य दर्शयेत् तु कनिष्ठिकाम् |
मुद्रा सम्मोहनं नाम कामदुर्गारमाप्रिया || १०३ ||
सर्वेषामिह देवानां मोहनं प्रीतिदं स्मृतम् |
आनम्यासव्यहस्तस्य मध्यमानामिके तथा || १०४ ||
तयोः पृष्ठे सुसंयोज्य अङ्गुष्ठाग्रं ततः परम् |
कनिष्ठां तर्जनीं चैव अग्रेणायोजयेत् ततः || १०५ ||
बाणमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा |
सर्वाङ्गुलीस्तु सङ्कोच्य अङ्गुष्ठमथ तर्जनीम् || १०६ ||
प्रसार्य करयोः पश्चादङ्गुष्ठाग्रं तु योजयेत् |
अछ्गुष्ठाग्रेण तर्जन्या अग्रेणापि च तर्जनीम् || १०७ ||
यथाशक्ति प्रसार्यापि धेनुमुद्रा प्रकीर्तिता |
सर्वाङ्गुलीनामग्राणिब्राह्मे तीर्थे नियोजयेत् || १०८ ||
अनामिकायाः पृष्ठे तु अङ्गुष्ठाग्रं नियोज्य च |
शून्यं तूणीरवत् कृत्वा तेषामन्तस्तु भैरव || १०९ ||
तूणीरमुद्रा चाख्याता सर्वेषां प्रीतिवर्धिनी |
मुद्रासु संस्थिता पूजा सर्वेषु परिचिन्तनम् || ११० ||
मुद्रासु संस्थिता योगा मुद्रा मोदकरास्ततः |
यदा यदा पुजनेषु चिन्तने ध्यानकर्मणि || १११ ||
यज्ञादौ स्तवने वापि हस्तकृत्यं न विद्यते |
तदा मुद्रान्वितं कुर्यादिष्टापूर्ते करद्वयम् || ११२ ||
यज्ञकृत्येषु चेच्छक्तो हस्तो मुद्रासु च क्षमः |
तदा मुद्रां विधायैव तत्तत् कृत्यं समाचरेत् || ११३ ||
मुद्राविमुक्तहस्तं तु क्रियते कर्म दैविकम् |
कृत्वा तन्निष्फलं यस्मात् तन्मान्मुद्रान्वितो भवेत् || ११४ ||
विसर्जने तु देवानां यस्य या परिकीर्तिता |
मुद्रां तां पूजनादौ तु तस्य नैव प्रयोजयेत् || ११५ ||
विसृज्योक्तामृते मुद्रां मुद्रायुक्तः समाचरेत् |
पूजनादि समस्तं तु कर्मवृद्धौ विचक्षणः || ११६ ||
अतो मुद्रा परं नाम मुद्रा पुण्यप्रदायिनी |
देवानां मोददा मुद्रा तस्मात् तां यत्नतश्चरेत् || ११७ ||
अर्धयोनिर्महायोनिर्योनिर्ब्राह्मी च वैष्णवः |
मुद्रा विसर्जने प्रोक्ता शिवात्रिपुरयोः सदा || ११८ ||
दुर्गायाः सर्वरूपेषु मुद्रा एताः प्रकीर्तिताः |
योनिं च सम्पुटं चैव महायोनिं तथैव च || ११९ ||
वर्जयित्वा व्यस्तभावादुक्तादन्यत्र योजयेत् |
भवेद् यास्तु त्रिपञ्चाशदन्या मुद्राः समन्ततः || १२० ||
ता व्यस्तभावाद् वामाः स्युर्मुद्रा मोदकराः पराः |
एवं वां कथिता मुद्राः पूजने पूज्यतुष्टिदा |
क्रमस्तु बलिदानस्य शृणु वेतालभैरव || १२ ||
इति श्रीकालिकापुराणे मुद्राकथने षट्षष्टितमोऽध्यायाः || ६६ ||
Kapitel 67
सप्तषष्टितमोऽध्यायः
श्रीभगवानुवाच
क्रमस्तु बलिदानस्य स्वरूपं रुधिरादितः |
यथा स्यात् प्रीतये सम्यक् तद् वां वक्ष्यामि पुत्रको || १ ||
वैष्णवीतन्त्रकल्पोक्तः क्रमः सर्वत्रः सर्वदा |
साधकैर्बलिदानस्य ग्राह्यः सर्वसुरस्य च || २ ||
पक्षिणः कच्छपा ग्राहा मत्स्या नवविधा मृगाः |
महिषो गोधिका गावश्छागो रुरुश्च शूकरः || ३ ||
खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः |
शार्दूलश्च नरश्चैव स्वगात्ररुधिरं तथा || ४ ||
चण्डिकाभैरवादीनां बलयः परिकीर्तिताः |
बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् || ५ ||
बलिदानेन सततं जयेच्छत्रून्नृपान् नृपः |
मत्स्यानां कच्छपानां तु रुधिरैः सततं शिवा || ६ ||
मासैकं तृप्तिमाप्नोति ग्राहैर्मासांस्तु त्रीनथ |
मृगाणां शोणितैर्देवी नराणामपि शोणितैः || ७ ||
अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा |
गोधिकानां ओरुधिरैर्वाषिकीं तृप्तिमाप्नुयात् || ८ ||
कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः |
प्राप्नोति सततं देवी तृप्तिं द्वादशवार्षिकीम् || ९ ||
अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् |
महिषाणां च खड्गानां रुधिरैः शतवार्षिकीम् || १० ||
तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा |
सिंहस्य शरभस्याथ स्वगात्रस्य च शोणितैः || ११ ||
देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरान् |
मांसैरपि तथा प्रीति रुधिरैर्यस्य यावती || १२ ||
कृष्णसारं मृगं खड्गं तथा मत्स्यं च रोहितम् |
वार्धीणसयुगं चापि फलं तेषां पृथक् पृथक् || १३ ||
कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका |
वर्षाणां च शतान्येव तृप्तिमाप्नोति केवलम् || १४ ||
रोहितस्य तु मत्स्यस्य मांसैर्वार्ध्रीणसस्य च |
तृप्तिं प्राप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया || १५ ||
ऋप्नुवन्त्विन्द्रियक्षीणं स्वेतं वृद्धमजापतिम् |
वार्ध्रीणसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः || १६ ||
नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः |
वार्ध्रीणसः स्यात्पक्षी च मम विष्णोरपि प्रियः || १७ ||
नरेण बलिना देवी सहस्रं परिवत्सरान् |
विधिदत्तेन चाप्नोति तृप्तिं लक्षं त्रिभिर्नरैः || १८ ||
नरेणेवाथ मांसेन त्रिसहस्रं च वत्सरान् |
तृप्तिमाप्नोति कामाख्या भैरवी मम रूपधृक् || १९ ||
मन्त्रपूतं शोणितं तु पीयूषं जायते सदा |
मस्तकं चापि तस्यात्ति मांसं चापि तथा शिवा || २० ||
तस्मात् तु पूजने दद्याद् बलेः शीर्षं च लोहितम् |
भोज्ये होमे च मांसानि नियुञ्जीयाद् विचक्षणः || २१ ||
पूजासु नाममांसानि दद्याद् वै साधकः क्वचित् |
ऋते तु लोहितं शीर्षममृतं तत्तु जायते || २२ ||
कूष्माण्डभिक्षुदण्डं च मद्यमासवमेव च |
एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा || २३ ||
चन्द्रहासेन कर्त्र्या वा छेदनं मुख्यमिष्यते |
दात्रासिधेनुक्रकचशंकुलाभिस्तु मध्यमम् || २४ ||
क्षुरक्षुरप्रभल्लैश्च वाधम परिकीर्तितम् |
एभ्योऽन्यः शक्तिबाणाद्यैर्बलिश्छेद्यः कदापि न || २५ ||
नात्ति देवी बलि तत्तु दाता मृत्युमवाप्नुयात् |
हस्तेन छेदयेद् यस्तु प्रोक्षित साधकः पशुम् || २६ ||
अक्षिणं वा ब्रह्मवध्यामवाप्नोति सुदुःसहाम् |
नामन्त्र्य खण्डं तु बलिं नियुञ्जीत विचक्षणः || २७ ||
खड्गस्यामन्त्रणे मन्त्रा यावन्तः कथिताः पुरा |
महामायाबलौ ते वै योज्यास्तत्रोदिता बुधैः || २८ ||
तैः सार्धमेते मन्त्रास्तु योज्याः खड्गादिमन्त्रणे |
पूजने शारदादीनां कामाख्याया विशेषतः || २९ ||
द्विः कालीति ततो देव्या वज्रेश्वरिपदं ततः |
ततोऽनु लौहदण्डायै नमः शेषे तु योजयेत् || ३० ||
सम्पूज्यानेन मन्त्रेण खड्गमादाय पाणिना |
कालरात्र्यास्तु मन्त्रेण तं खड्गमभिमन्त्रयेत् || ३१ ||
नेत्रबीजस्य मध्यं तु द्विरावर्त्य प्रयोजयेत् |
ततोऽनु कालिकालीति करालोष्ठी ततः परम || ३२ ||
हान्तादींश्च तृतीयेन स्वरेणैकादशेन वै |
योजिता नादबिन्दुभ्यां द्वौ तत् पश्चान्नियोजयेत् || ३३ ||
फेत्कारिणिपदं तस्मात् खादयच्छेदयेत्यतः |
सर्वान् दुष्टानिति ततो द्विर्मारय लुलायकम् || ३४ ||
खड्गेन छिन्धि छिन्धीति ततः किलकिलेति वै |
ततः चिकिचिकीत्येवं ततः पिबपिबेति च || ३५ ||
ततोऽनु रुधिरं चेति स्फैं स्फैंकिरि किरीति च |
कालिकायै नम इति काल रात्र्यास्तु मन्त्रकम् || ३६ ||
इत्यनेन तु मन्त्रेण करवालेऽभिमन्त्रिते |
कालरात्री स्वयं तत्र प्रसीदत्यरिहानये || ३७ ||
बलेः पूर्वोदिता मन्त्रा नित्यं गुह्यास्तु साधकैः |
अयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये || ३८ ||
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा |
अतस्त्वां धातयिष्यामि तस्माद् यज्ञे वधोऽवधः || ३९ ||
ततो दैवतमुद्दिश्य काममुद्दिश्य चात्मनः |
छेदयेत् तेन खड्गेन बलिं पूर्वाननं तु तम् || ४० ||
अथवोत्तरवक्त्रं तं स्वयं पूर्वमुखस्तथा |
पूर्वोक्तान् सैन्धवादींस्तु वक्त्त्रेऽवश्यं नियोजयेत् || ४१ ||
सौवर्णं राजत ताम्रं रैत्यं पत्रपुट च वा |
माहेयं कांस्यमथवा यज्ञकाष्ठमयं च वा || ४२ ||
पात्रं रुधिरदानाय कर्तव्यं विभवावधि |
न लौहे वल्कले वापि वैत्रे राङ्गेऽथ सैसके || ४३ ||
दद्याद्रक्तं बलीनां तु भूमौ स्रुचि स्रुवे तथा |
न घटे भूतले वापि देयं क्षुद्रे न भाजने || ४४ ||
रुधिराणि प्रदद्यात्तु भूतिकामो नरोत्तमः |
नरस्य तु सदा रक्तं माहैये तैजसेऽथ वा || ४५ ||
दद्यान्नरपतिस्तत्तु न पत्रादौ कदाचन |
हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् || ४६ ||
तथा दिक्पालमेधे तु गजं दद्यान्नराधिपः |
न कदाचित् तदा देव्यै प्रदद्याद्धयहस्तिनौ || ४७ ||
हयाकर्षे चामरं तु बलिं दद्यान्नराधिपः |
सिंहं व्याघ्रं नरं चापि स्वगात्ररुधिरं तथा || ४८ ||
न दद्यात् ब्राह्मणो मद्यं महादेव्यै कदाचन |
सिंहं व्याघ्रन्नरं दत्वा ब्राह्मणो नरकं व्रजेत् || ४९ ||
इहापि स्यात् स हीनायुः सुखसौभाग्यवर्जितः |
स्वगात्ररुधिरं दद्याच्चात्मवध्यामवाप्नुयात् || ५० ||
मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते |
न कृष्णासारं वितरेद् बलिं तु क्षत्रियादिकः || ५१ ||
ददतः कृष्णसारं तु ब्रह्महत्या भवेद् यतः |
यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः || ५२ ||
ब्रह्मणोक्ता तु बल्यादौ तत्रायं विहितः क्रमः |
कृत्वा घृतमयं व्याघ्रं नरं सिंहं च भैरव || ५३ ||
अथवा पूपविकृतं यवक्षोदमयं च वा |
घातयेच्चन्दहासेन तेन मन्त्रेण संस्कृतम् || ५४ ||
प्रभूतबलिदाने तु द्वौ वा त्रीन् वाग्रतः कृतान् |
पूजयेत् प्रमुखान् कृत्वा सर्वान् मन्त्रेण साधकः || ५५ ||
सामान्यपूजा कथिता बलीनां पूर्वतो मया |
विशेषो यत्रः यत्रास्ति तन्मत्तः शृणु भैरव || ५६ ||
महिषं प्रददेद् देव्यै भैरव्यै भैरवाय वा |
अनेनैव तु मन्त्रेण तदा तं पूजयेद् बलिम् || ५७ ||
यथा वाहं भवान् द्वेष्टि यथा वहसि चण्डिकाम् |
तथा मम रिपून् हिंस शुभं वह लुलायक || ५८ ||
यमस्य वाहनस्त्वं तु वररूपधराव्यय |
आयुर्वित्तं यशो देहि कासराय नमोऽस्तु ते || ५९ ||
खड्गस्य तु यदा दानं क्रियते तन्त्रमन्त्रकम् |
जलेनाभ्युक्ष्य कुर्वीत गुहाजातेति भाषयन् || ६० ||
दैवे पैत्रे च शुभगः खड्गस्त्वं खड्गसन्निभः |
छिन्धि विघ्नान् महाभागे गुहाजात नमोऽस्तु ते || ६१ ||
प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकीर्तितः |
कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजोविवर्धन || ६२ ||
चतुर्वेदमयं प्राज्ञ प्रज्ञां देहि यशो महत् |
तथा शरभपूजायां मन्त्रमेतत् प्रकीर्तितम् || ६३ ||
त्वमष्टपादो विभ्रष्टचन्द्रभागसमुद्भव |
अष्टमूर्ते महाबाहो भैरवाख्य नमोऽस्तु ते || ६४ ||
यथा भैरवरूपेण वराहो निहतस्त्वया |
तथा शरभरूपेण रिपून् विघ्नान् निषूदय || ६५ ||
हरिस्त्वं हररूपेण यथा वहसि चण्डिकाम् |
तथा शुभानि मे नित्यं बहुविघ्नांश्च सूदय || ६६ ||
त्वं हरिः सिंहरूपेण जगत्प्रत्यूहरूपिणम् |
जघान येन सत्येन हिरण्यकशिपुं हरन् || ६७ ||
इत्येवं सिंहपूजायां क्रम उक्तो मयानघ |
नरे स्वगात्ररुधिरे पर्यायं शृणु भैरव || ६८ ||
पीठे चेद् दीयते मर्त्यो बलिं दद्यात् श्मशानके |
श्मशानं हेरुकाख्यं तु तत्पूर्वं प्रतिपादितम् || ६९ ||
कामाख्यानिलये शैले ओडादौ विद्धि तत् क्रमम् |
मम रूपं श्मशानं तद् भैरवाख्यं च कथ्यते || ७० ||
तत्राङ्गत्वं तपःसिद्धौ त्रिभागां तु भविष्यति |
पूर्वाङ्गे भैरवाख्ये तु समुत्सृष्टिर्नरस्य तु || ७१ ||
दक्षिणाङ्गे शिरो दद्याद् भैरव्या मुण्डमालया |
रुधिरं पश्चिमाङ्गे तु हेरुकाख्ये नियोजयेत् || ७२ ||
दत्त्वा सम्पूज्य तु नरं विसृज्यागमनक्रमे |
पीठश्मशानेषु बलिं नेक्षेत्तु बलिदीपकम् || ७३ ||
अन्यत्रापि यतो यत्र दीयते यन्महाबलिः |
तत्राप्यन्यत्र चोत्सृज्यच्छित्वान्यत्र शिरोऽमृतम् || ७४ ||
नियोजयेत् साधकस्तु विसृज्य न विलोकयेत् |
सस्नातं मनुजं दीप्तं पूर्वाह्णनियताशनम् || ७५ ||
मांसमैथुनभोग्येन हीनं स्रक्चन्दनोक्षितम् |
कृत्वोत्तरामुखं तं तु तदङ्गेष्वङ्गदेवताः || ७६ ||
पूजयेत् तं तु नाम्ना तु दैवतेन च मानुषम् |
तद्ब्रह्मरन्ध्रे ब्रह्माणं तन्नासायां च मेदिनीम् || ७७ ||
कर्णयोस्तु तथाकाशं जिह्वायां सर्वतोमुखम् |
ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूजयेत् || ७८ ||
ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः |
वामगण्डे तथा वह्निं ग्रीवायां समवर्तिनम् || ७९ ||
केशाग्रे निर्-ऋतिं मध्ये भ्रूवोश्चापि प्रचेतसम् |
नासामूले तु श्वसनं स्कन्ध चापि धनेश्वरम् || ८० ||
हृदये सर्पराजं तु पूजयित्वा पठेदिदम् |
नरवर्यं महाभाग सर्वदेवमयोत्तम || ८१ ||
रक्ष मां शरणापन्नं सपुत्रपशुबान्धवम् |
सराज्यं मां सहामात्यं चतुरङ्ग समन्वितम् || ८२ ||
रक्ष परित्यज्य प्राणान्मरणे नियते सति |
महातपोभिर्ज्ञानैश्च यज्ञैर्यत् साध्यतेऽमृतम् || ८३ ||
तन्मे देहि महाभाग त्वं चापि प्राप्नुहि श्रियम् |
राक्षसाश्च पिशाचाश्च वेतालाद्याः सरीसृपाः || ८४ ||
नृपाश्च रिपवश्चान्ये न मां ते ध्नन्तु त्वत्कृते |
त्वत्कण्ठनालगलितैः शोणितैरङ्गसंयुतैः || ८५ ||
आप्यायस्वात्मवन्मृत्वा मरणे नियते सति |
एवं सम्पूज्य विधिवत् पूर्वतन्त्रैश्च पूजयेत् || ८६ ||
पूजितो मत्स्वरूपोऽयं दिक्पालाधिष्ठितो भवेत् |
अधिष्ठितस्तथान्यैश्च ब्रह्माद्यैः सकलैः सुरैः || ८७ ||
कृतपापोऽपि मनुजो निष्पाप्मा स तु जायते |
तस्य निष्कलुषस्याशु पीयूषं शोणितं भवेत् || ८८ ||
प्रीणाति च महादेवी जगन्माता जगन्मयी |
सोऽपि कायं परित्यज्य मानुषं नचिरान्मृतः || ८९ ||
भवेद् गणानामधिपो मयापि बहुसत्कृतः |
इतोऽन्यथा पापयुक्तं मलमूत्रवसायुतम् || ९० ||
तं बलिं न हि गृह्णाति कामाख्यान्यापि नामतः |
अन्येषां महिषादीनां बलीनामथ पूजनात् || ९१ ||
कायो मेध्यत्वमायाति रक्तं गृह्णाति वै शिवा |
अन्येभ्योऽपि च देवेभ्यो यदा यत्तु प्रदीयते || ९२ ||
तदर्चितं र्पदद्यात् तु पूजिताय सुराय वै |
काणं पङ्गुं चातिवृद्धं रोगिणं च गलद्व्रणम् || ९३ ||
क्लीबं हीनाङ्गमथवा वृद्धलिङ्गं कुलक्षणम् |
श्वित्रिणं चातिह्रस्वं च महापातकिनं तथा || ९४ ||
अद्वादशकवर्षीयं शिशु सूतकसंयुतम् |
ऊर्ध्वं संवत्सराच्चापि महागुरुनिपातिनम् || ९५ ||
बलिकर्मणि चेतांस्तु वर्जयेत् पूजितानपि |
पशूनां पक्षिणां वापि नराणां च विशेषतः || ९६ ||
स्त्रियं न दद्यात् तु बलीन् दत्त्वा नरकमाप्नुयात् |
सङ्घातवलिदानेषु योषितं पशुपक्षिणः || ९७ ||
बलिं दद्यान्मानुषीं तु त्यक्त्वा सङ्घातपूजितम् |
न त्रिमासीयकान्यूनं पशुं दद्याच्छिवाबलिम् || ९८ ||
न च त्रैपक्षिकान् न्यून प्रदद्याद् वै पतत्त्रिणम् |
काणव्यङ्गादिदुष्टं तु न पशुं पक्षिणं तथा || ९९ ||
देव्यै दद्यात् तथा मर्त्यं तथैव पशुपक्षिणौ |
छिन्नलाङ्गूलकर्णादीन् भग्नदन्तांस्तथैव च || १०० ||
भग्नशृङ्गादिकं वापि न दद्यात् तु कदाचन |
न ब्राह्मणं बलिं दद्याच्चाण्डालमपि पार्थिव || १०१ ||
नोत्सृष्टं द्विजदेवेभ्यो भूपतेस्तनयं तथा |
रणेन विजितं दद्यात्तनयं रिपुभूभृतः || १०२ ||
स्वपुत्रं भ्रातरं वापि पितरं चाविरोधिनम् |
विट्पतिं च न दद्यात्तु भागिनेयं च मातुलम् || १०३ ||
अनुक्तान्नापि दद्यात् तु तथाज्ञातान् मृगद्विजान् |
उक्तालाभे प्रदद्यात्तु गर्दभं चोष्ट्रमेव च || १०४ ||
लाभेऽन्येषां न वितरेद् व्याघ्रमुष्ट्रं खरं तथा |
सम्पूज्य विधिवन्मर्त्यं पशुं पक्षिणमेव वा || १०५ ||
सञ्छिन्नं चापि मन्त्रेण मन्त्रेणैव निवेदयेत् |
नारं मर्त्यशिरोरक्तं देव्याः सम्यग् निवेदयेत् || १०६ ||
छागं तु वामतो दद्यान्माहिषं वितरेत् पुरः |
पक्षिणं वामतो दद्यादग्रतो देहशोणितम् || १०७ ||
क्रव्यादानां पशूनां तु पक्षिणां तु शिरोऽसृजम् |
वामे निवेदयेत् पार्श्वे जलजानां च सर्वशः || १०८ ||
कृष्णसारस्य कूर्मस्य खड्गस्य शशकस्य च |
ग्राहाणामथ मत्स्यानामग्र एव निवेदयेत् || १०९ ||
सिंहस्य दक्षिणे दद्यात् खड्गिनोऽपि च दक्षिणे |
पृष्ठदेशे न दद्यात् तु शिरो वा रुधिरं वलेः || ११० ||
नैवेद्यं दक्षिणे वामे पुरतो ने तु पृष्ठतः |
दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः || १११ ||
वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे |
निवेदयेत पुरोभागे गन्धं पुष्पं च भूषणम् || ११२ ||
मण्डले चेन्मध्यभागे वामदक्षादिपूर्ववत् |
मदिरां पृष्ठतो दद्यादन्यत् पानं तु वामतः || ११३ ||
अवश्यं विहित यत्र मद्यं तत्र द्विजः पुनः |
नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु || ११४ ||
नापद्यपि द्विजो मद्यं कदाचिद् विसृजेदपि |
ऋते पुष्पासवादुक्ताद गृञ्जनाद् वा विशेषतः || ११५ ||
राजपुत्रस्तथामात्यः सचिवः सौप्तिकादयः |
दद्युर्नरबलिं भूप सम्पत्त्यै विभवाय च || ११६ ||
नृपाननुमते मर्त्यं दत्त्वा पापमवाप्नुयात् |
उपप्लवे रणे वापि यथेच्छं वितरेन्नरम् || ११७ ||
यः कश्चिद्राजपुरुषो नान्यस्त्वपि कदाचन |
बलिदानदिनात् पूर्वं दिवसे तु बलिं नरम् || ११८ ||
मानस्तोकेति मन्त्रेण देवीसूक्तेन येन च |
गन्धद्वारेत्यनेनापि खड्गं शीर्षे निधाय च || ११९ ||
तस्मिन् खड्गे सुगन्धादि दत्त्वा तेनाधिवासयेत् |
गन्धादिकं तु खड्गस्थं गले तस्य प्रदापयेत् || १२० ||
अम्बेऽम्बिकेति मन्त्रेण रौद्रेण भैरवस्य च |
एवं तु संस्कृते मर्त्ये देवी रक्षति तं बलिम् || १२१ ||
न तस्य व्याधयश्चापि क्षुण्णतारजसी न च |
न सूतकं दूषयेत्तज्ज्ञात्युत्पत्तिमृतादिकम् || १२२ ||
छिन्नं नरस्य शीर्षं तु पतितं यत्र यत्र च |
यच्छुभं चाशुभं वापि पश्वादीनां च तच्छृणु || १२३ ||
छिन्नं शिरस्तथैशान्यां नारं दिश्यथ राक्षसे |
पतितं राज्यहानिं च विनाशं च विनिर्दिशेत् || १२४ ||
पूर्वाग्नियाम्यवारुण्य-वायव्यादिगतं क्रमात् |
श्रियं पुष्टिं भयं लाभं पुत्रलाभं धनं तथा || १२५ ||
क्रमाद् विनिर्दिशेन्नारं छिन्नशीर्षं तु भैरव |
उत्तरादिक्रमादेव महिषस्यापि मस्तकः || १२६ ||
पतितो वायुकाष्ठान्ते सूचयेद् यच्छृणुष्व तत् |
भाग्यं हानिन्तथैश्वर्य वित्तं रिपुजयं भयम् || १२७ ||
राज्यलाभं श्रियं चापि क्रमाद् विद्धि तु भैरव |
पशूनां चैव सर्वेषां छागादीनामशेषतः || १२८ ||
एवं फलं क्रमाद् विद्यादृते जलजवाण्डजौ |
जलजानां पक्षिणां तु याम्यनैर्-ऋत्ययोर्भयम् || १२९ ||
अन्यत्र तु श्रियं दद्यात् पतितं शातितं शिरः |
यः स्यात् कटकटाशब्दो दन्तानां छिन्नमस्तके || १३० ||
नराणां पशुपक्ष्यादिग्राहादीनां च रोगदः |
लोतकं चक्षुषोर्जातं यदि स्रवति मस्तके || १३१ ||
छिन्ने नरस्य राज्यस्य ता हानिं विनिर्दिशेत् |
माहिषे मस्तके नेत्राद् यदि स्रवति लोतकम् || १३२ ||
छिन्ने निवेदितं वैरिभूपमृत्युं तदादिशेत् |
अन्येषामथ पश्वादिवलीनां शिरसोऽर्दितात् || १३३ ||
निर्गतं लोतकं धत्ते परां भीतिं गदं तथा |
हसति च्छिन्नशीर्षं चेन्नारं स्यात् तु रिपुक्षयः || १३४ ||
श्रीवृद्धिरायुषो वृद्धिः सदा दातुरसंशयः |
यद् यद्वाक्यं निगदति तथा भवति चाचिरात् || १३५ ||
ऊङ्काराद्राज्यहानिः स्याच्छूलेष्मस्रावाच्च पञ्चता |
देवानां यदि नामानि भाषते छिन्नमस्तकः || १३६ ||
विभूतिमतुलां विद्यात् षण्मासाभ्यन्तरे तदा |
रुधिरादानकाले तु शकृन्मूत्रे यदि स्रवेत् || १३७ ||
कायं तदाधश्चोर्ध्वं वा दातुः स्यान्मरणं तदा |
आक्षेपाद् वामपादस्य महारोगः प्रजायते || १३८ ||
अन्यदाक्षेपचलनैः कल्याणमुपजायते |
माहिषस्य तु रक्तस्य मानुषस्य तु साधकः || १३९ ||
अङ्गुष्ठानामिकाभ्यां तु किंचिदुद्धृत्य भूतले |
महाकौशिकमन्त्रेण निक्षिपेद् बलिमुत्तमम् || १४० ||
देवेभ्यः पूतनादिभ्यो नैर्-ऋत्यां दिशी पूर्वतः |
महिषः पञ्चवर्षीयः पञ्चविंशतिवार्षिकः || १४१ ||
बलिर्देयो नरो देव्यै तस्य रक्तं तु भूतये |
नेत्रबीजत्रयं कामबीजं हन्ता प्रजापतिः || १४२ ||
वह्निबीजं षट्स्वराभ्यां संपृक्तश्च तथा परः |
स एवैतास्तथैतावदादिवर्गान्तसंयुतः || १४३ ||
षष्ठस्वरशिखाबिन्दुश्चन्द्रयुक्तस्थापरः |
विर्मासिकाबीजकान्तः कौशिकीत्यभिमन्त्रणम् || १४४ ||
एष बलिः स्वाहेति मन्त्रोऽयं कौशिकी स्मृतः |
नृपो वैरिबलिं दद्यात् खड्गमामन्त्र्य पूर्वतः || १४५ ||
महिषं चाथ छागं वा वैरिनाम्नाभिमन्त्र्य च |
सूत्रेण वदने बद्धं त्रिधा तस्य तु मन्त्रकैः || १४६ ||
छित्त्वा तस्योत्तमाङ्गं तु देव्यै दद्यात् प्रयत्नतः |
यदा यदा रिपोर्वृद्धिर्वलिदानं तदा परम् || १४७ ||
दद्यात् तदा शिरश्छित्त्वा रिपोस्तस्य क्षयाय च |
प्राणप्रतिष्ठां च रिपोः कुर्यात् तस्मिन् पशावय || १४८ ||
तस्मिन् क्षीणे रिपोः प्राणाः क्षीयन्ते विपदा युताः |
आदौ विरुद्धरूपिणि चण्डिके च ततः परम् || १४९ ||
वैरिणन्त्वमुकं चेति याहीत्याम्रेडितं पुनः |
वह्निभार्या ततः पश्चात् खड्गमन्त्रं प्रकीर्तितम् || १५० ||
स्वयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणम् |
विनाशय महामारी स्फें स्फें खादय खादय || १५१ ||
इत्यनेन तु मन्त्रेण वद्व्यः शिरसि पुष्पकम् |
दद्यात् ततस्तद्रुधिरं द्व्यक्षराभ्यां निवेदयेत् || १५२ ||
महानवम्यां शरदि यद्येवं दीयते बलिः |
तदा तदष्टाङ्गभवैर्मांसैर्होमं समाचरेत् || १५३ ||
दुर्गातन्त्रेण मन्त्रेण प्रणीते दहने शुचौ |
एवं दत्त्वा बलिं मर्त्यो रिपुक्षयमवाप्नुयात् || १५४ ||
नाभेरधस्ताद्रुधिरं पृष्ठभागस्य च श्रिये |
स्वगात्ररुधिरै दद्यान्न कदाचन साधकः || १५५ ||
नोष्ठस्य चिबुकस्यापि नेन्द्रियाणां च मानवः |
कण्ठाधो नाभितश्चोर्ध्वं बाह्वोः पाणिमृते तथा || १५६ ||
प्रदद्याद्रुधिरं घातं नातिकुर्याच्च साधकः |
गण्डयोश्च ललाटस्य भ्रुवोर्मध्यस्य शोणितम् || १५७ ||
कर्णाग्रस्य च बाह्वोश्च गलयो रुदरस्य च |
कण्ठादो नाभितश्चोर्ध्वं हृद्भागस्य यतस्ततः || १५८ ||
पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् |
न गुल्पतोऽसृक्प्रदद्यान्न जत्रोर्नापि वक्त्रतः || १५९ ||
न च रोगबिलादङ्गान्नान्यघाताच्च भैरव |
तदर्थे च कृताघातः सश्रद्धोऽक्षुब्धमानसः || १६० ||
श्रुते रक्तं प्रदद्यात्तु पद्मपुष्पस्य पत्रके |
सौवर्णे राजते कांस्ये लौहे फाले न वा नरः || १६१ ||
निधाय देव्यै दद्यात् तु तद्रक्तं मन्त्रपूर्वकम् |
खननं क्षुरिकाखड्गशङ्कुलादि यदस्त्रकम् || १६२ ||
घातेन बृहदस्त्रस्य महाफलमवाप्नुयात् |
पद्मपुष्पस्य पत्रं तु यावद् गृह्णाति शोणितम् || १६३ ||
तत्प्रमाणे चतुर्भागाधिकं रक्तं तु साधकः |
न कदाचित् प्रदद्यात्तु नाङ्गच्छेदमथाचरेत् || १६४ ||
यः स्वहृदयसञ्जातमांसं माषप्रमाणतः |
तिलमुद्गप्रमाणाद् वा देव्यै दद्यात् तु भक्तितः || १६५ ||
षण्मासाभ्यन्तरे तस्मात् काममिष्टमवाप्नुयात् |
बाह्वोस्तु स्कन्धयोर्वापि यो दद्याद् दीपवर्तिकाम् || १६६ ||
हृदये वा स्नेहपात्रं विना भक्त्या तु साधकः |
क्षणमात्रेण तद्दीपप्रदानस्य फलं शृणु || १६७ ||
भुक्त्वा च विपुलान् भोगान् देवीगेहे यदृच्छया |
कल्पत्रयं तु संस्थाय सार्वभौमो नृपो भवेत् || १६८ ||
महिषस्य शिरश्छिन्नं सप्रदीपं शिवापुरः |
हस्ताभ्यां यः समादाय अहोरात्रं तु तिष्ठति || १६९ ||
स चिरायुः पूतमूर्तिरिह भुक्त्वा मनोरमान् |
भोगान्ते मद्गृहगो गणानामधिपो भवेत् || १७० ||
नरस्य शीर्षमादाय साधको दक्षिणे करे |
वामेन रौधिरं पात्रं गृहीत्वा निशि जाग्रतः || १७१ ||
यावद्रात्रं स्थितो मर्त्यो राजा भवति चेह वै |
मृते मम गृहं प्राप्य गणानामधिप् भवेत् || १७२ ||
क्षणमात्रं वलीनां यः शिरोरक्तं करद्वये |
गृहीत्वा चिन्तयेद् देवीं पुरस्तिष्ठति मानवः || १७३ ||
स कामानिह सम्प्राप्य देवीलोके महीयते |
महामाये जगन्नाथे सर्वकामप्रदायिनि || १७४ ||
ददामि देहरुधिरं प्रसीद वरदा भव |
इत्युक्त्वा मूलमन्त्रेण नतिपूर्व विचक्षणः || १७५ ||
स्वगात्ररुधिरं दद्याद् मानवः सिद्धसन्निभः |
यनात्ममांसं सत्येन ददामीश्वरि भूतये || १७६ ||
निर्वाणं तेन सत्येन देहि हं हं नमो नमः |
इत्यनेन तु मन्त्रेण स्वमांसं वितरेद् बुधः || १७७ ||
सौभाग्यं सुखसम्पन्नं प्रदीपं परमं रुचिः |
दीपयेन्मांसमिह तं दीपं ह्नौं ह्नौं नमो नमः || १७८ ||
इत्यनेन तु मन्त्रेण दीपं दद्याद् विचक्षणः |
महानवम्यां शरदि रात्रौ स्कन्दविशाखयोः || १७९ ||
यवचूर्णमयं कृत्वा रिपुं मृन्मयमेव वा |
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः || १८० ||
अनेनैव तु मन्त्रेण खड्गमामन्त्र्य यत्नतः |
रक्तं किलिकिली घोर घोराधारविहिंसकः || १८१ ||
ब्रह्मशिष्याम्बिकाशिष्यममुकं चारिसत्तमम् |
आन्तो विसर्गसहितः स च बिन्दुयुतोऽपरः || १८२ ||
शिरश्छित्त्वा वलिं दद्यात् कृत्वा तस्य तु मन्त्रतः |
अनेनैव तु मन्त्रेण बिन्दुना च समन्वितः || १८३ ||
ब्रह्माग्निर्योगचन्द्रेण बिन्दुना च समन्वितः |
फडन्तो वलिषु प्रोक्तः खड्गः स्कन्दविशाखयोः || १८४ ||
रक्तद्रव्यैः शोचयित्वा कृत्रिमं तं वलिं रिपुम् |
कुचन्दनस्य तिलकं ललाटे विनिवेश्य च || १८५ ||
रक्तमाल्याम्बरं कृत्वा रक्तवस्त्रधरं तथा |
कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ शल्यं च कृत्रिमम् || १८६ ||
दत्त्वोत्तरशिरः स्कन्धं कृत्वा खड्गेन छेदयेत् |
शिरस्तस्य ततो दद्यात् स्कन्दमन्त्रेण मन्त्रितम् || १८७ ||
चतुर्दशस्वराग्निभ्यां सम्पृक्तः स्तात् पुरःसकम् |
परतः परतः पूर्वं चन्द्रबिन्दुसमन्वितम् || १८८ ||
स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत् |
चतुर्दशस्वराग्निभ्यां तृतीयं तु च पूर्ववत् || १८९ ||
प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं सृजेत् |
कुटिलाक्षो कृष्णपिङ्गवर्णौ रक्ताङ्गधारिणौ || १९० ||
त्रिशूलं करवालं च पाणिभ्यां दक्षिणे तथा |
बिभ्रतौ नृकपालं च कत्रिकां चाति वामतः || १९१ ||
त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ |
विकटौ दशनैर्भीमैर्गणेशौ द्वारपालकौ || १९२ ||
ध्यानेन चिन्तयेद् देव्याः पुरतः संस्थितौ सदा |
चैत्रे मास्यसिते पक्षे चतुर्दश्यां विशेषतः || १९३ ||
वलिभिर्महिषैश्छागैः मां च भैरवरूपिणम् |
तोषयेन्मधुमिर्मांसैस्तेन तुष्याम्यहं सुतौ || १९४ ||
चण्डिका वलिदाने तु वलिशीर्षं जलेन च |
अभिषिच्य तु मन्त्रेण मूलेनैव निवेदयेत् || १९५ ||
ईषत्प्राणं तु बहुधा चलितं पूर्वमर्चितम् |
वीक्षेत्कायसमृद्धिं तु सिद्धभावं च साधकः || १९६ ||
सितप्रेतो रथस्तेषां योगपीठस्य सन्निभः |
ध्यायाम्यस्मिन् महामाये सिद्धिं बोधयते नमः || १९७ ||
अनेनामन्त्रितं शीर्षं न चिराद् यदि वेपते |
तत्कार्यस्य तदा सिद्धिरसिद्धिस्तु विपर्ययात् || १९८ ||
एवं ददद् वीरो यथोक्त विधिनाऽमुना |
वलिदानादेव चतुर्वर्गमाप्नोत्यसंशयम् || १९९ ||
एवं वलिप्रदानस्य क्रमो रूपं तथैव च |
कथितो रुधिराध्याय उपचाराञ् शृणुष्व मे || २०० ||
इति श्रीकालिकापुराणे वलिदानविवरणं नाम अप्तषष्टितमोऽध्यायः || ६७ ||
Kapitel 68
अष्टषष्टितमोऽध्यायः
श्रीभगवानुवाच
उपचारान् प्रवक्ष्यामि शृणु षोडश भैरव |
यः सम्यक् तुष्यते देवो देवोऽप्यन्यो हि भक्तितः || १ ||
आसनं प्रथमं दद्यात् पौष्ण्यं दारवमेव वा |
वास्त्रं वा चार्मणं कौशं मण्डलस्योत्तरे सृजेत् || २ ||
यदैव दीयते पद्मे मण्डलस्य तदुत्सृजेत् |
वाक्पुष्पतोयैः कुसुमं विना यच्छादकं भवेत् || ३ ||
पद्मस्य तद्बहिर्देशे द्वारादौ विनिवेदयेत् |
अर्घ्यं पाद्यं चाचमनं स्नानीयं नेत्ररञ्जनम् || ४ ||
मधुपर्कं च गन्धं च पुष्पं पद्मे निवेदयेत् |
प्रतिमासु च यद्योग्यं गात्रे दातुं च तत् तनौ || ५ ||
दद्याद् योग्यं तु पुरतो नैवेद्यं भोजनादिकम् |
पौष्पासनं यद् विहितं यस्य तद् यदि गर्भकम् || ६ ||
निवेदयेत् तदा पद्मे विपुलं द्वारि चोत्सृजेत् |
पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम् || ७ ||
अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव |
यज्ञकाष्ठसमुद्भुतमासनं मसृणं शुभम् || ८ ||
नोच्छ्रायं नातिविस्तीर्णमासनं विनियोजयेत् |
अन्यद् दारुभवं चापि दद्यादासनमुत्तमम् || ९ ||
सकण्टकं क्षीरयुत दारुसारविवर्जितम् |
चैत्यश्मशानसम्भूतं वर्जयित्वा विभीतकम् || १० ||
वल्कलं कोषजं शाणं वस्त्रमेतत् त्रयं मतम् |
रोमजं कम्बलं ऐतदनेन तु चतुष्टयम् || ११ ||
अनेन रचितं दद्यादासनं चेष्टभूतये |
इंहव्याघ्रतरक्षूणां छागस्य महिषस्य वा || १२ ||
गजानां तुरगाणां च कृष्णसारस्य चर्मणः |
सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् || १३ ||
चर्मभिः सर्वदेवानामासनं प्रीतिदं श्रुतम् |
वस्त्रेषु कम्बलं शस्तमासनं देवतुष्टये || १४ ||
राङ्कवं चार्मणं श्रेष्ठं दारवं चन्दनोद्भवम् |
यच्चासनं कुशमयं तदासनमनुत्तमम् || १५ ||
सर्वेषामपि देवानामृषीणां च यतात्मनाम् |
योगपीठस्य सदृशमासनं स्थानमुच्यते || १६ ||
आसनस्य प्रदानेन सौभाग्यं मुक्तिमाप्नुयात् |
शम्बरो रोहितो रामो न्यङ्कुरङ्कुशशा रुरुः || १७ ||
एणश्च हरिणश्चेति मृगा नवविधा मताः |
हरिणश्चापि विज्ञेयो अञ्चभेदोऽत्र भैरव || १८ ||
ऋष्यह् खड्गो रुरुश्चैव पृषतश्च मगस्तथा |
एते वलिप्रदानेषु चर्मदानेषु कीर्तिताः || १९ ||
सर्वेषां तैजसनां च आसनं श्रेष्ठमुच्यते |
आयसं वर्जयित्वा तु कांस्यं सीसकमेव वा || २० ||
शिलामयं मणिमयं तथा रत्नमयं मतम् |
आसन देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् || २१ ||
अत्रैव साधकानां च आसनं शृणु भैरव |
यत्रासीनः पूजयंस्तु सर्वसिद्धिमवाप्नुयात् || २२ ||
ऐन्धनं चार्मणं वास्त्रं तैजसं च चतुष्टयम् |
आसनं साधकानां च सततं परिकीर्तितम् || २३ ||
अत् सर्वमासनं शस्तं पूजाकर्मणि साधके |
न यथेष्टासनो भूयत् पूजाकर्मणि साधकः || २४ ||
काष्ठादिकासनं कुर्यात् सितमेव सदा बुधः |
चतुर्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् || २५ ||
षोडशाङ्गुलविस्तीर्णमुच्छ्रायं चतुरङ्गुलम् |
षडङ्गुलं वा कुर्यात् नोच्छ्रितञ्चात आचरेत् || २६ ||
पूर्वोक्तं वर्जयेद् वर्ज्यमासनं पूजनेष्वपि |
वस्त्रं द्विहस्तान्नो दीर्घं सार्धहस्तान्न विस्तृतम् || २७ ||
न र्यङ्गुलात् तथोच्छ्रायं पूजाकर्मणि संश्रयेत् |
यथेष्टं चार्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम् || २८ ||
षडङ्गुलाधिकं कुर्यान्नोच्छ्रितं च कदाचन |
काम्बलं चार्मणं शैलं महामायाप्रपूजने || २९ ||
प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च |
त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम् || ३० ||
बहुदीर्घं बहुंच्छ्रायं तथैव बहुविस्तृतम् |
दारु भूमिसमं प्रोक्तमश्मापि सर्वकर्मणि || ३१ ||
पृथक् पृथक् कल्पयेत् तु बहिर्द्वारि तथासनम् |
न पत्रमासनं कुर्यात् कदाचिदपि पूजने || ३२ ||
न प्राण्यङ्ग-समुद्भूतमस्थिजं द्विरदादृते |
मातङ्गदन्तसञ्जातं कामिकेष्वासनं चरेत् || ३३ ||
चार्मं पूर्वोदितं ग्राह्यं तथा गन्धमृगस्य च |
सलिले यदि कुर्वीत देवतानां प्रपूजनम् || ३४ ||
तत्राप्यासन आसीनो नोत्थितस्तु कदाचन |
तोये शिलामयं कुर्यादासनं कौशमेव वा || ३५ ||
दारवं तैजसं वापि नान्यदासनमाचरेत् |
आसनारोपसंस्थानं स्थानाभावे तु पूजकः || ३६ ||
आसनं कल्पयित्वा तु मनसा पूजयेज्जले |
यद्यासितुं न संस्थानं विद्यते तोयमध्यतः || ३७ ||
अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत् |
इत्येतत् कथितं पुत्र पूज्यपूजकसङ्गतम् || ३८ ||
आसनं पाद्यमधुना शृणु वेताल भैरव |
पादार्थमुदकं पाद्यं केवलं तोयमेव तत् || ३९ ||
तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत् |
धर्मार्थकाममोक्षाणां सस्थानं पाद्यमिष्यते || ४० ||
तदासनोत्तरं दद्यान्मूलमन्त्रेण सर्वतः |
कुशपुष्पाक्षतैश्चैव सिद्धार्थैश्चन्दनैस्तथा || ४१ ||
तोयैर्गन्धैर्यथालब्धैरर्घ्यं दद्यात् तु सिद्धये |
अर्घ्येण लभते कामानर्घ्येण लभते धनम् || ४२ ||
पुत्रायुःसुखमोक्षाणि दानादर्घ्यस्य वै लभेत् |
न दद्याद् भास्करायार्घ्यं शङ्खतोयैर्विचक्षणः || ४३ ||
तथा न शुक्तिपात्रेण विष्णवेऽर्घ्यं निवेदयेत् |
दद्यादाचमनीयं तु सुगन्धिसलिलैः शुभैः || ४४ ||
कर्पूरवासितैर्वापि कृष्णागुरुविधूपितैः |
यथा तथा सुगन्धैर्वा प्रसङ्गैः फेनवर्जितैः || ४५ ||
तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत् |
उदकं दीयते यत् तु प्रसन्नं फेनवर्जितम् || ४६ ||
आचमनाय देवेभ्यस्तदाचमनमुच्यते |
केवलं तोयमात्रेण तद् वा दद्यान्न मिश्रितम् || ४७ ||
वासितं तु सुगन्धाद्यैः कर्तव्यं यदि लभ्यते |
आयुर्बलं यशोवृद्धिं प्रदायाचमनीयकम् || ४८ ||
लभते साधको नित्यं कामांश्चैव यथोत्थितान् |
दधिर्सर्पिर्जल क्षौद्रं सिता ताभिश्च पञ्चभिः || ४९ ||
प्रोच्यते मधुपर्कस्तु सर्वदेवौघतुष्टये |
जलं तु सर्वतः स्वल्पं सितादधिघृतं समम् || ५० ||
सर्वेभ्य श्चाधिकं क्षौद्रं मधुपर्केप्रयोजयेत् |
तद् दद्यात् कांस्यपात्रेण रौक्मश्वेतमयेन वा || ५१ ||
ज्योतिष्टोमाश्वमेधादौ पूर्ते चेष्टे च पूजने |
मधुपर्कः प्रदिष्टोऽयं सर्वदेवौघतुष्टिदः || ५२ ||
धर्मार्थकाममोक्षाणां साधकः परिकीर्तितः |
मधुपर्कः सौख्यभोग्य-तुष्टि-पुष्टि-प्रदायकः || ५३ ||
पिष्टातकोऽथ कस्तूरी रोचनं कुङ्कुमं तथा |
गुडः क्षौद्रं पञ्चगव्यं सर्वौषधिगणस्तथा || ५४ ||
सिता निर्णेजनं तैलं स्निग्धस्तेहेन तत्तिलाः |
प्रान्ते तोयमिति प्रोक्तं स्नानीयं कल्पकोविदैः || ५५ ||
स्वर्णरत्नोदकं चैव कर्पूराद्यधिवासितम् |
तैजसैः कांस्यपात्रैर्वा शङ्खैर्वा तन्निवेदयेत् || ५६ ||
अण्डले केशरे देयमादित्यप्रतिमासु च |
शिवलिङ्गे तथा भोगे पीठे देवतनौ तथा || ५७ ||
अद्यःस्निग्धं ऋन्मयं वा सर्पिःसिन्दुरजे तथा |
श्रीचन्दनप्रतिष्ठे वा लेपयेत् प्रतिमातनौ || ५८ ||
वस्तिकस्थापिते खड्गे स्नापयेद् दर्पणेऽथ वा |
एवं दद्यात् तु स्नानीयं महादेव्यै विशेषतः || ५९ ||
अवि विष्णुशिवेभ्यो वा यत्र तत्र प्रपूजने |
पूजकः स्नानदानात् त चिरायुरुपजायते || ६० ||
सम्यक् स्नानप्रदानात् तु कल्पान्तं स्वर्गभाग्भवेत् |
यदेव दीयते पाद्यं गन्धपुष्पादिकं तथा || ६१ ||
उपाचारांस्तथा सर्वानर्घ्यपात्राहितैर्जलैः |
अमृतीकरणाद्यैस्तु संस्कृतैस्त्वभिषिच्य तैः || ६२ ||
प्रदद्यादिष्टदेवेभ्यो गृह्णाति च ततः स्वयम् |
अर्घ्यपात्राणि तैस्तोयैर्विना यद्विनिवेदनम् || ६३ ||
दीयते चेष्टदेवेभ्यः सर्वं तन्निष्फलं भवेत् |
रागाल्लोभात् प्रमादाद् वा ह्यर्घ्यं पात्रामृतीकृतम् || ६४ ||
तोयं स्रुतं स्यात् पात्रात् तु पुनः कुर्यात् तदा मृतम् |
स्वल्पावशेषतोये तु पात्रस्थे ह्यमृतीकृते || ६५ ||
तत्रान्यदुदकं दद्यात् तत्तैनैवामृतं भवेत् |
बहूनि यदि पुष्पाणि माला वा प्रचुरा यदि || ६६ ||
दीयन्ते चार्घ्यपात्रस्थैर्जलैः संसिच्य चोत्सृजेत् |
अन्यतोयैर्यदुत्सृष्टमर्घ्यपात्रस्थितेतरैः || ६७ ||
तन्न गृह्वातीष्टदेवो दत्तं विधिशतैरपि |
संस्कृते त्वर्घ्यपात्रे तु नवभिः प्रतिपत्तिभिः || ६८ ||
तिष्ठन्ति सवतीर्थानि पीयूषाणि च सर्वतः |
तस्मात् तत्र स्थितैस्तोयैरभ्युक्ष्योपचारानुत्सृजेत् || ६९ ||
न योग्यमर्घ्यपात्रेषु निधाय विनिवेदयेत् |
इदं ते भैरव प्रोक्तं षट्कं चैवासनादिकम् |
वस्त्रादि दश वक्ष्यामि शृणु विज्ञानवृद्धये || ७० ||
इति श्रीकालिकापुराणे अष्टषष्टितमोऽध्यायः || ६८ ||
Kapitel 69
एकोनसप्ततितमोऽध्यायः |
श्रीभगवानुवाच |
कार्पासं कम्बलं बाल्कं कोशजं वस्त्रमिष्यते |
तत्पूर्वं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् || १ ||
निर्दशं मलिनं जीर्णं छिन्नं गात्राअलिङ्गितम् |
परकीयं ह्याखुदष्टं सूचीविद्धं तथोषितम् || २ ||
प्तलेशं विधौतं च श्लेष्ममूत्रादिदूषितम् |
प्रदाने देवताभ्यश्च दैवे पित्र्ये च कर्मणि || ३ ||
वर्जएत् स्वोपयोगेन यज्ञादावुपयोजने |
उत्तरीयोत्तरासङ्गैर्निचोलो मोदचेलकः || ४ ||
परिधानं च पञ्चैतान्यस्यूतानि प्रयोजयेत् |
साण वस्त्रं निशारं च तथैवातपवारणम् || ५ ||
चण्डातकं तथा दृश्यं पञ्च स्यूतान्यदुष्टये |
पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् || ६ ||
अन्यत्रावरणादौ च तद्विनाशस्य तेन तत् |
रक्तं कौशेयवस्त्रं च महादेव्यै प्रशस्यते || ७ ||
पीतं तथैव कौशेयं आसुदेवाय चोत्सृजेत् |
रक्तं तु कम्बलं दद्याच्छिवाय परमात्मने || ८ ||
विचित्रं सर्वदेवेभ्यो देवीभ्योंऽशु निवेदयेत् |
कार्पासं सर्वतोभद्रं दद्यात् सर्वेभ्य एव च || ९ ||
नैकान्तरक्तं दद्यात् तु वासुदेवाय चैलकम् |
तथा नैकान्तनीलं तु शिवाय विनिवेदयेत् || १० ||
नीलीरक्तं तु यद्वस्त्रं तत् सर्वत्र विवर्जितम् |
दैवे पित्र्ये तूपयोगे वर्जयेत् तु विचक्षणः || ११ ||
नीलीरक्तं प्रमादात्तु यो दद्याद् विष्णवे बुधः |
निष्फला तस्य तत्पूजा तदा भवति भैरव || १२ ||
विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् |
वस्त्रं दद्यान्महादेव्यै नान्यस्मै तु कदाचन || १३ ||
द्विपदां ब्राह्मणो यद्वद्देवानां वासवो यथा |
तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते || १४ ||
वस्त्रेण जीर्यते लज्जा वस्त्रेण हीयते त्वधम् |
वस्त्रात् स्यात् सर्वतः सिद्धिश्चतुर्वर्ग प्रदं च तत् || १५ ||
वस्त्रं ते कथितं पुत्र सर्वप्रीतिप्रदायकम् |
भोग्यं भूषोत्तमं नित्यं भूषणानि शृणुष्व मे || १६ ||
किरीटं च शिरोरत्नं कुण्डलं च ललाटिका |
तालपत्रं च हारश्च ग्रैवेयकमथोर्मिका || १७ ||
प्रालम्बिकारत्नसूत्रमुत्तङ्गोतर्क्स्ऽमालिका |
पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा || १८ ||
जूटालकं मानवको मूर्धतारा खलन्तिका |
अङ्गदो बाहुवलयः शिखाभूषण इङ्गिका || १९ ||
राग्दण्डबन्धमुद्भासनाभिपूरोऽथ मालिका |
सप्तकी शृङ्खलं चैव दन्तपत्रं च कर्णकः || २० ||
ऊरुसूत्रं च नीवीं च मुष्टिबन्धं प्रकीर्णकम् |
पादाङ्गदं हंसकश्च नूपुरं क्षुद्रघण्टिका || २१ ||
सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः |
चत्वारिंशदमी प्रोक्ता लोके वेदे तु सौख्यदाः || २२ ||
अलङ्कारप्रदानेन चतुर्वर्गप्रसाधनम् |
एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये || २३ ||
तेषां दैवतमुच्चार्य पूजयेत् तु विचक्षणः |
शिरोगतानि वा दद्यात् सौवर्णानि तु सर्वदा || २४ ||
चूडारत्नादिकानीह भूषणानि तु भैरव |
ग्रैवेयकादिहंसान्तं सौवर्णं राजतं च वा || २५ ||
निवेदयेत् तु देवेभ्यो नान्यत् तैजसम्भवम् |
ईतिरङ्गादि संजातं पात्रोपकरणादिकम् || २६ ||
दद्यादायसवर्जं तु भूषणं न कदाचन |
घण्टाचामरौम्भादिपात्रोपकरणादिकम् || २७ ||
तद्भूषणान्तरे दद्यादयस्त्मात् तदुपभूषणम् |
सर्वं ताम्रमयं दद्याद् यत् किंचिद् भूषणादिकम् || २८ ||
सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रे ततोऽधिकम् |
पूजार्घ्यपपात्रनैवेद्याधारपात्रं च पानकम् || २९ ||
औदुम्बरं सदा विष्णोः प्रीतिदं तोषदं तथा |
ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः स्थिताः सदा || ३० ||
सर्वप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत् |
स्वोपयोगे नरः कुर्याद् देवानामपि भैरव || ३१ ||
ग्रीवोर्ध्वदेशे रौप्यं तु न कदाचिच्च भूषणम् |
प्रावारः पानपात्रं च गण्डको गृहमेव च || ३२ ||
पर्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम् |
योमयमृते कांस्यमृते यद्भूषणं भवेत् || ३३ ||
स्वर्णरौप्यस्य चाभावे त्वधः काये नियोजयेत् |
एतेषां भूषणादीनां यद् दातुं शक्यते नरैः || ३४ ||
तत् तद् दद्यात् सम्भवे तु सर्वमेव प्रदापयेत् |
चतुर्वर्गप्रदं वित्थं भूषणं सर्वसौख्यदम् || ३५ ||
तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् |
इदं वा भूषणं प्रोक्तं सर्वदेवस्य तुष्टिदम् || ३६ ||
गन्धं च सम्यक् शृणुतं पुत्रौ वेतालभैरवौ |
चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव वा || ३७ ||
रसः सम्मर्दजो वापि प्राण्यङ्गोद्भव एव वा |
गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः || ३८ ||
गन्धचूर्णं गन्धपत्रं चूर्णं सुमनसस्तथा |
प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि तु || ३९ ||
तानि गन्धवहानि स्युः सगन्धः प्रथमः स्मृतः |
घृष्टो मलयजो गन्धः सचूर्णीकृतमेरुणा || ४० ||
अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते |
गन्धो दृष्ट्वामघृष्टोऽयं द्वितीयः परिकीर्तितः || ४१ ||
देवदार्वगुरुपद्मगन्धसारान्त चन्दनाः |
प्रियादीनांच् अ यो दग्ध्वा गृह्यते दाहजो रसः || ४२ ||
सदाहाकर्षितो गन्धस्तृतीयः परिकीर्तितः |
सुगन्धकरवीबिल्वगन्धीनि तिलकं तथा || ४३ ||
प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते |
ससम्मर्दोद्भवो गन्धः सम्मर्दज इतीष्यते || ४४ ||
मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा |
गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् || ४५ ||
कर्पूरगन्धसाराद्याः क्षोदे घृष्टे च संस्थिताः |
चन्द्रभागादयश्चापि रसे पङ्के च सङ्गताः || ४६ ||
गन्धसारं अर्वरसं गन्धादौ च प्रयुज्यते |
मृगनाभिर्भवेद् घृष्टश्चूर्णोऽप्यन्यस्य योगतः || ४७ ||
एवं सर्वं तु सर्वत्र गन्धो भवति पञ्चधा |
घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरं परः || ४८ ||
गन्धस्य विस्तरो भेदः प्रोक्तः कालीयकादयः |
सर्वः पञ्चविधेष्वेव प्रविष्टो भवति क्षणात् || ४९ ||
गन्धो मलयजो यस्तु दैवे पित्र्ये च सम्मतः |
तस्य पङ्को रसो वापि चूर्णो वा विष्णुतुष्टिदः || ५० ||
सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः |
तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा || ५१ ||
कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः |
वैष्णवीप्रीतिदो गन्धः कामाख्यायाश्च भैरव || ५२ ||
कुङ्कुमागुरुकस्तूरीचन्द्रभागैः समीकृतैः |
त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शस्यते || ५३ ||
दैवतोद्देशपूर्वेण गन्धं सम्पूज्य साधकः |
देवायेष्टाय वितरेत् सर्वसिद्धिप्रदं सदा || ५४ ||
गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा |
अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः || ५५ ||
अयं वां कथितो गन्धः पुत्रौ वेतालभैरवौ |
पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु सम्प्रति || ५६ ||
बकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्टकैः |
करवीरार्कपुष्पैश्च शाल्मलैश्चापराजितैः || ५७ ||
दमनैः सिन्धुवारैश्च सुरभी कुरुवकैस्तथा |
लताभिर्ब्रह्मवृक्षस्य दूर्वाङ्कुरैश्च कोमलैः || ५८ ||
मञ्जरीभिः कुशानां च बिल्वपत्रैः सुशोभनैः |
पूजयेद् वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा || ५९ ||
अन्याश्च या शिवाप्रीत्यै जायन्ते पुष्पजातयः |
ता इमाः शृणु कथ्यन्ते मया वेताल भैरव || ६० ||
मालती मल्लिका जाती यूथिका माधवी तथा |
पाटला करवीरश्च जवा तर्कारिका तथा || ६१ ||
कुब्जकस्तगरश्चैव कर्णिकारोऽथ रोचना |
चम्पकाभ्रातकौ बाणो बर्बरा मल्लिका तथा || ६२ ||
अशोको लोध्रतिलकौ अटरूषशिरीषकौ |
शमीपुष्पं च द्रोणश्च पद्मोत्पलबकारुणाः || ६३ ||
श्वेतारुणस्त्रिसन्ध्ये च पलाशः खदिरस्तथा |
वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः || ६४ ||
चक्रं कोकनदं चैव तण्डिलो गिरिकर्णिका |
नागकेशरपुन्नागौ केतक्यञ्जलिका तथा || ६५ ||
दोहदा बीजपूरश्च नमेरुः शाल एव च |
त्रपुषी चण्डबिल्वश्च झिण्टी पञ्चविधास्तथा || ६६ ||
एवमाद्युक्तकुसुमैः पूजयेद् वरदां शिवाम् |
अपामार्गस्य पत्रं तु ततो भृङ्गारपत्रकम् || ६७ ||
ततोऽपि गन्धिनोपत्रं वलाहकमतः परम् |
तस्मात् खदिरपत्रं तु वञ्जुलस्तवक स्तथा || ६८ ||
आम्रं तु बकगुच्छं तु जम्बुपत्रं ततः परम् |
बीजपूरस्य पत्रं तु ततोऽपि कुशपत्रकम् || ६९ ||
दूर्वाकुरं ततः प्रोक्तं शमीपत्रमतः परम् |
पत्रमामलकं तस्मादामलं पत्रमन्ततः || ७० ||
सर्वतो बिल्वपत्रं तु देव्याः प्रीतिकरं मतम् |
पुष्पं कोकनदं पद्मं जवा बन्धुक एव च || ७१ ||
पत्रं बिल्वस्य सर्वेभ्यो वैष्णवीतुष्टिदं मतम् |
सर्वेषां पुष्पजातीनां रक्तपद्ममिहोत्तमम् || ७२ ||
रक्तपद्मसहस्रेण यो मालां सम्प्रयच्छति |
भक्तियुक्तो महादेव्यै तस्य पुण्यफलं शृणु || ७३ ||
कल्पकोटिसहस्राणि कल्पकोटिशतानि च |
स्थित्वा मम पुरे स्रीमांस्ततो राजा क्षितौ भवेत् || ७४ ||
पत्रेषु बिल्वपत्रं तु देवीप्रीतिकरं मतम् |
तत्सहस्रकृता माला पूर्ववत् फलदा भवेत् || ७५ ||
किंचात्र बहुनोक्तेन समान्येनेदमुच्यते |
उक्तानुक्तैस्तथापुष्पैर्जलजैः स्थलसम्भवैः || ७६ ||
पत्रैः सर्वैर्यथालाभं सर्वौषधिगणैरपि |
वनजैः सर्वपुष्पैश्च पत्रैरपि शिवां यजेत् || ७७ ||
पूजयेत् परमेशानीं पुष्पाभावेऽपि पत्रकैः |
पत्राणामप्यभावे तु तृणगुल्मौषधादिभिः || ७८ ||
औषधीनामभावे तु तत्फलैरपि पूजयेत् |
अक्षतैर्वा जलैर्वापि तदभावे तु सर्षपैः || ७९ ||
सितैस्तस्याप्यलाभे तु मानसीं भक्तिमाचरेत् |
आजिदन्तकपत्रैश्च पुष्पौघैरपि पूजयेत् || ८० ||
तुलसीकुसुमैः पत्रैरर्चयेच्छ्रीविवृद्धये |
पुरश्चरणकार्येषु बिल्वपत्रयुतैस्तिलैः || ८१ ||
साक्षतैः सघृतैर्वापि शिवामुद्दिश्य यत्नतः |
जुहुयादनलं वृद्धं संस्कृतं कामवृद्धये || ८२ ||
संकल्पितः कामसिद्ध्यै संख्यया यः कृतो जपः |
तदन्ते पूजनं यत्तु विहितं क्रियते द्विजैः || ८३ ||
पुरश्चरणसंज्ञं तु कीर्तितं द्विजसत्तमैः |
तस्मिन् पुराणके पूर्वं पूर्वोक्तैर्विस्तरोदितैः || ८४ ||
विधानैः पूजयेद् देवीं कामाख्यां वैष्णवीमपि |
यथासम्भवमेवात्र दद्यात् षोडश साधकः || ८५ ||
उपचारांस्तथैवोक्तान् विधिकृत्यान्न लंघयेत् |
सम्पूर्णं पूजनं कृत्वा कल्पोक्तं शतधा जपेत् || ८६ ||
जपान्ते जुहुयादग्निं होमान्ते तु बलित्रयम् |
त्रिजातीयं तु वितरेत्तौर्यत्रिकमतः परम् || ८७ ||
पत्नी स्वयं वा भ्राता वा गुरुर्वा विनियोजयेत् |
नैवेद्यादीनि सर्वाणि स्वपुत्रः शिष्य एव वा || ८८ ||
यज्ञावसाने दद्यात् तु गुरवे दक्षिणां शुभाम् |
चामीकरं तिलान् गाञ्च तदशक्तौ तु चेलकम् || ८९ ||
अष्टम्यां शुक्लपक्षस्य ब्रह्मचारी जितेन्द्रियः |
नवम्यां वा चतुर्दश्यां महादेव्याः पुरश्चरेत् || ९० ||
आदद्याद् गुरुवक्त्रात् तु विधिना विस्तरेण तु |
कल्पोदितेन सम्पूज्य तिथिष्वेतासु भैरव || ९१ ||
सम्पूर्णपूजां नो कृत्वा नादद्यान्मन्त्रमीप्सितम् |
न पुरश्चरणं वापि कुर्यात् कृत्वाऽवसीदति || ९२ ||
नित्यपूजा सा तु पुनः सम्पूर्णा यदि शक्यते |
कल्पोदितं पूजयितुं तदा कुर्यादतन्द्रितः || ९३ ||
न चेद् विस्तरशः कर्तुं देव्याः पूजां तु भैरव |
कल्पोक्तां वाऽन्यदेवस्य तत्रायं विधिरुच्यते || ९४ ||
मार्जनाद्यैस्तु संस्कृत्य स्थण्डिले मण्डलं लिखेत् |
पात्रस्य प्रतिपत्तिं तु कृत्वा दाह प्लवं तथा || ९५ ||
ध्यायेदात्मानमथ च संस्कृत्याङ्गस्वरूपतः |
अङ्गुष्ठाद्यस्त्रपर्यन्तं द्वादशाङ्गस्य शुद्धये || ९६ ||
अर्घ्यपात्रेऽष्टधा जप्त्वा उपचारान् प्रसेचयेत् |
आधारशक्तिप्रमुखं मूलवर्णान् प्रयुज्य च || ९७ ||
हृदिस्थां देवतां ध्यात्वा बहिःकृत्यं च वायुना |
आरोप्य मण्डले दद्यादुपचारान् यथाविधि || ९८ ||
पूजयित्वा षडङ्गानि तथाष्टौ दलदेवताः |
पुष्पाञ्जलित्रयं दत्त्वा जप्त्वा स्तुत्वा प्रणम्य च || ९९ ||
मुद्रामग्ने प्रदर्श्याथ ततः पश्चाद् विसर्जयेत् |
सर्वेषामेव देवानामेष एव विधिः स्मृतः || १०० ||
सम्यक् कल्पोदिता पूजा यदि कर्तुं न शक्यते |
उपचारांस्तथा दातुं पञ्चैतान् वितरेत् तदा || १०१ ||
गन्धं पुष्पं च धूपं च दीपं च नैवेद्यमेव च |
अभावे पुष्पतोयाभ्यां तदभावे तु भक्तितः || १०२ ||
संक्षेपपूजा कथिता तथा वस्त्रादिकं पुनः |
पुरश्चरणकृत्ये च प्रदीपं शृणु भैरव || १०३ ||
दीपेन लोकाञ्जयति दीपस्तेजोमयः स्मृतः |
चतुर्वर्गप्रदो दीपस्तस्माद् दीपैर्यजेच्छ्रियम् || १०४ ||
सततं पुष्पदीपाभ्यां पूजयेद् यस्तु देवताम् |
ताभ्यामेव चतुर्वर्गः कथितो नात्र संशयः || १०५ ||
पुष्पैर्देवाः प्रसीदन्ति पुष्पे देवाश्च संस्थिताः |
चराचराश्च सकलाः सदा पुष्परसाः स्मृताः || १०६ ||
किंचाति बहुनोक्तेन पुष्पस्योक्तिर्मतल्लिका |
परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति || १०७ ||
त्रिवर्गसाधनं पुष्पं तुष्टिश्रीपुष्टिमोक्षदम् |
पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः || १०८ ||
पुष्पाग्रे तु महादेवः सर्वे देवाः स्थिता दले |
तस्मात् पुष्पैर्यजेद् देवान्नित्यं भक्तियुतो नरः || १०९ ||
उच्चारितं नाममात्रं जायते सर्वभूतये |
घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः || ११० ||
सार्षपफलनिर्यासजातो वा राजिकोद्भवः |
दधिजश्चान्नजश्चैव दीपाः सप्त प्रकीर्तिताः || १११ ||
पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथवा |
शणजा बादरी वापि फलकोषोद्भवा तथा || ११२ ||
वर्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः |
तैजसं दारवं लौहं मार्तिक्यं नारिकेलजम् || ११३ ||
तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते |
दीपवृक्षाश्च कर्तव्यास्तैजसाद्यैस्तु भैरव || ११४ ||
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन |
सर्वसहा वसुमती सहते न त्विदं द्वयम् || ११५ ||
अकार्यपादघातं च दीपतापं तथैव च |
तस्माद् यथा तु पृथ्वी तापं नाप्नोति वै तथा || ११६ ||
दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव |
कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः || ११७ ||
स ताम्रतापं नरकं प्राप्नोत्येव शतं समाः |
सुवृत्तवर्तिः सुस्नेहः पात्रमग्नः सुदर्शनः || ११८ ||
सूच्छ्राये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः |
लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् || ११९ ||
न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः |
नेत्राह्लादकरः स्वर्चिर्दूरतापविवर्जितः || १२० ||
सुशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः |
दक्षिणावर्तवर्तिस्तु प्रदीपः श्रीविवृद्धये || १२१ ||
दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते |
दक्षिणावर्तवर्त्या तु चारुदीप्तः प्रदीपकः || १२२ ||
उत्तमः प्रोच्यते पुत्र सर्वतुष्टिप्रदायकः |
वृक्षेण वर्जितो दीपो मध्यमः परिकीर्तितः || १२३ ||
विहीनः पात्रतैलाभ्यामधमः परिकीर्तितः |
शाणं वा दारवं वस्त्रं जीर्णं मलिनमेव वा || १२४ ||
उपयुक्तं च नादद्याद् वर्तिकार्थं तु साधकः |
उपादद्यान्नूत्नमेव सततं श्रीविवृद्धये || १२५ ||
कोषजं रोमजं वस्त्रं वर्तिकार्थं न चाददेत् |
न मिश्रीकृत्य दद्यात् तु दीपे स्नेहघृतादिकान् || १२६ ||
कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत् |
वसामज्जास्थिनिर्यासैः स्नेहैः प्राण्यङ्गसम्भवैः || १२७ ||
प्रदीपं नैव कुर्यात् तु कृत्वा पङ्केऽवसीदति |
अस्थिपात्रेऽथ वा पच्येद् दुर्गन्धास्थिपवासिनि || १२८ ||
नैवं दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये |
नैव निर्वापयेद् दीपं कदाचिदपि यत्नतः || १२९ ||
सततं लक्षणोपेतं देवार्थमुपकल्पितम् |
न हरेज्ज्ञानतो दीपं तथा लोभादिना नरः || १३० ||
दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् |
उद्दीप्तदीपप्रतिमं काष्ठकाण्डसमुद्भवं || १३१ ||
बिल्वेघ्मोद्भवमेवाथ दीपालाभे निवेदयेत् |
उल्मुकं नैव दीपार्थे कदाचिदपि चोत्सृजेत् || १३२ ||
प्रसन्नार्थं तु तं दद्यादुपचाराद् बहिष्कृतम् |
एवं वां कथितो दीपो धूपं च शृणुतं सुतौ || १३३ ||
नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः |
दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य च || १३४ ||
परागस्याथवा धूमो निस्तापो यस्य जायते |
स धूप इति विज्ञेयो देवानां तुष्टिदायकः || १३५ ||
राशीकृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् |
तुषाग्निवर्तुलां कृत्वा न तत् फलमवाप्नुयात् || १३६ ||
श्रीचन्दनं च सरलः शालः कृष्णागुरुस्तथा |
उदयः सुरथस्कन्दो रक्तविद्रुम एव च || १३७ ||
पीतशालः परिमलो विर्मदी काशलस्तथा |
नमेरुर्देवदारुश्च बिल्वसारोऽथ खादिरः || १३८ ||
सन्तानः पारिजातश्च हरिचन्दनवल्लभौ |
वृक्षेषु धपाः सर्वेषां प्रीतिदाः परिकीर्तिताः || १३९ ||
अरालः सह सूत्रेण श्रीवासः पट्टवासकः |
कर्पूरः श्रीकरश्चैव परागः श्रीहरामलौ || १४० ||
सर्वौषधीप आतीच वराहश्चूर्णं उत्कलः |
जातीकोषस्य चूर्णं च गन्धः कस्तूरिका तथा || १४१ ||
क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः |
यक्षधूपो वृक्षधूपः श्रीपिष्टोऽगुरु झर्झरः || १४२ ||
पत्रिवाहः पिण्डधूपः सुगोलः कण्ठ एव चः |
अन्योन्ययोगा निर्यासा धूपा एते प्रकीर्तिताः || १४३ ||
एतैर्विधूपयेद् देवान् धूमिभिः कृष्णवर्त्मना |
येषां धूपोद्भवैर्घ्राणैस्तुष्टिं गच्छन्ति जन्तवः || १४४ ||
निर्यासश्च परागश्च काष्ठं गन्धं तथैव च |
कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकराः पराः || १४५ ||
न यक्षधूपं वितरेन्माधवाय कदाचन |
न रक्तं विद्रुमं मह्यं सुरथं कद्र्लं तथा || १४६ ||
यक्षधूपः पुत्रिवाहः पिण्डधूपः सुगोलकः |
कृष्णागुरुः सकर्पूरो महामायाप्रियः स्मृतः || १४७ ||
वृक्षधूपेन वा देवीं महामायां प्रपूजयेत् |
मेदोमज्जासमायुक्तान् न धूपान् विनियोजयेत् || १४८ ||
परकीयांस्तथाघ्रातांस्तेऽपि कृत्याभिमर्दितान् |
पुष्पं धूपं च गन्धं च उपचारांस्तथापरान् || १४९ ||
घ्रात्वा निवेद्य देवेभ्यो नरो नरकमाप्नुयात् |
न भूमौ वितरेद् धूपं नासने न घटे तथा || १५० ||
यथातथाधारगतं कृत्वा तद् विनिवेदयेत् |
रक्तविद्रूमशालौ च सुरथः सुरलस्तथा || १५१ ||
सन्तानको नमेरुश्च कालागुरुसमन्वितः |
जातीकोषाक्षसंयुक्तो धूपः कामेश्वरीप्रियः || १५२ ||
त्रिपुरायास्तथैवायं मातृणामपि नित्यशः |
सर्वेषां पीठदेवानां रुद्रादीनां च पुत्रकौ || १५३ ||
एष वां कथितो धूपः शृणु तन्नेत्ररञ्जनम् |
येन तुष्यति कामाख्या त्रिपुरा वैष्णवी तथा || १५४ ||
सौवीरं यामुनं तुत्थ्रं मयूरग्रीवकं तथा |
दर्विका मेघनीलश्च अञ्जनानि भवन्ति षट् || १५५ ||
स्रवद्द्रुमं च सौवीरं यामुनं प्रस्तरं तथा |
मयूरग्रीवकं रत्नं मेघनीलस्तु तैजसम् || १५६ ||
घृष्ठानि ग्राह्य चैतानि शिलायां तैजसेऽथ वा |
प्रदद्यात् सर्वदेवेभ्यो देवीभ्यश्चापि पुत्रक || १५७ ||
घृततैलादियोगेन ताम्रादौ दीपवह्निना |
यदञ्जनं जायते तु दर्विका परिकीर्तिता || १५८ ||
सर्वाभावे तु तद् दद्याद् देवीभ्यो दाहजाञ्जनम् |
महामाया जगद्धात्री कामाख्या त्रिपुरा तथा || १५९ ||
आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः |
विधवा नाञ्जनं कुर्यान्महामायार्थमुत्तमम् || १६० ||
नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतम् |
त मृत्पात्रे योजयेत् तु साधको नेत्ररञ्जनम् || १६१ ||
न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः |
चतुर्वर्गप्रदो धूपः कामदं नेत्ररञ्जनम् || १६२ ||
तस्माद् द्वयमिदं दद्याद् देवेभ्यो भक्तितो नरः |
इति वां गदितो धूपस्तथोक्तं नेत्ररञ्जनम् |
नैवेद्यं तु महादेव्याः शृण्वैकाग्रमनाः पुनः || १६३ ||
इति श्रीकालिकापुराणे एकोनसप्ततितमोऽध्यायः || ६९ ||
Kapitel 70
सप्ततितमोऽध्यायः
श्रीभगवानुवाच
निवेदनीयं यद् द्रव्यं प्रशस्तं प्रयतं तथा |
तद्भक्ष्याद्यं पञ्चविधं नैवेद्यमिति गद्यते || १ ||
भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् |
सर्वत्र चैतन्नैवेद्यमाराध्येष्टे निवेदयेत् || २ ||
तेषु प्रियतरं देव्याः कथये शृणुतं तु वाम् |
भक्ष्यादिपञ्चकैर्देवी दत्तैरेवाभितुष्यति || ३ ||
नादत्ते विधिवत् किंचिद् दत्तं चैतन्न विद्यते |
नागरं च कपित्थं च द्राक्स्.आं क्रमुकमेव च || ४ ||
करकं वरदं कोलं कुष्माण्डं पनसं तथा |
बकुलं च मधूकं च रसालाम्रातकेशरम् || ५ ||
आक्षोडं पिण्डखर्जूरं करुणं श्रीफलं तथा |
औदुम्बरं च पुन्नागं माधवं कर्कटीफलम् || ६ ||
जाम्बवं पिण्डखर्जूरं बीजपूरं च जाम्बवम् |
हरीतकीमामलक षड्विधं नागरङ्गकम् || ७ ||
देवकं मधुकं शीतं पटोलं क्षीरवृक्षजम् |
पाटलं शालजं वृन्तमग्निजं कदलीफलम् || ८ ||
तिन्दुकं कुसुमं पीतं कारविन्दं करूषकम् |
गर्भावर्तं च तत्पुष्पं क्षीरस्राव्यमनङ्गजम् || ९ ||
कुमुदानां पङ्कजानां फलानि विविधानि च |
वन्यानां सकलैर्देवीं फलैः पुष्पैः प्रपूजयेत् || १० ||
ऋते श्लेष्मातकं बिम्बशैलकं वैष्णवीं तथा |
सर्वेषां फलजातीनां मध्ये देवीप्रियं फलम् || ११ ||
लाङ्गलं मातुलुङ्गं च करमर्दं रसालकम् |
एवं फलानि देयानि कामाख्यायै च भैरव || १२ ||
त्रिपुरायै तथा सम्यक् पीठदेवीभ्य एव च |
शृङ्गाटकं कशेरुं च शालूकं च मृणालकम् || १३ ||
शृङ्गवेरं काञ्चनं च स्थूलं कन्दं बकुलकम् |
एवमादीनि कनानि देव्यै सर्वाणि चोत्सृजेत् || १४ ||
परमान्नं पिष्टकं च यावकं कृशरं तथा |
मोदकं पृथुकादीनि कन्दुपक्वानि चोत्सृजेत् || १५ ||
हविःशाल्योदनं दिव्य माज्ययुक्तं सशर्करम् |
निवेदयेन्महादेव्यै सर्वाणि व्यञ्जनानि च || १६ ||
क्षीरादीन्यथ गव्यानि माहिष्याणि च सर्वशः |
अजाविकमृगाणां च क्षीरादीनि निवेदयेत् || १७ ||
मध्वादीनि च सर्वाणि गुडधानाः सितां तथा |
अन्नानि चैव पानानि मांसानि विनिवेदयेत् || १८ ||
सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् |
शाकमांसादिसम्भूतं माहादेव्यै निवेदयेत् || १९ ||
आमिषं परमान्नं च दधिसर्पिः सशर्करम् |
महादेव्यै निवेद्याथ वाजिमेधफलं लभेत् || २० ||
सितासम्मिश्रितां दत्त्वा सुरां मधुसमन्विताम् |
देवीलोके चिरं स्थित्वा राजा क्षितितले भवेत् || २१ ||
लाङ्गलं क्रमुकं दत्त्वा रुचकं करमर्दकम् |
सौभाग्ममतुलं प्राप्य देवीलोके महीयते || २२ ||
माषान् मुद्गान् मसूरांश्च-तिलान् भङ्गास्तथैव च |
यवादीन्यथ सर्वाणि यथायोग्यं निवेदयेत् || २३ ||
यथा यथा भवेद्भक्ष्यं यथा द्रव्यं तथा तथा |
संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् || २४ ||
महावीरो मुनिर्वापि ब्राह्मणश्चेतरोऽथ वा |
यद् यद् भक्ष्यं स्वमर्थं तु प्रकल्प्यं स्याद् यथा यथा || २५ ||
तथा तथा महादेव्यै भक्तियुक्तो निवेदयेत् |
संस्कार्याण्यथ संस्कृत्य यथा संस्कारकं भवेत् || २६ ||
संस्कार्यश्च यथा तस्यास्तत्तद् दद्यात्तथा तथा |
यत्पूतिगन्धसंयुक्तं दग्धं भोज्यंविवर्जितम् || २७ ||
तदुक्तमपि नो दद्यान्महादेव्यै कदाचन |
ताम्बूलं गन्धसंयुक्तं कर्पूराद्यधिवासितम् || २८ ||
सञ्चूर्णेर्जलजानां च संस्कृतं विनिवेदयेत् |
वलिदानेषु विहिता य एव मृगपक्षिणः || २९ ||
तेषां मांसानि मत्स्यानां मांसानि निवेदयेत् |
खड्गवार्ध्रीणसच्छागमांसैर्मिश्रीकृतैः कृतम् || ३० ||
व्यञ्जनं स्वादुगन्धाढ्यं पासितं सुमनोहरम् |
सकृद् दत्त्वा महादेव्यै सार्वभौमो नृपो भवेत् || ३१ ||
मूलकैरेणमांसेन लोहपात्रे सुसंस्कृतम् |
व्यञ्जनं गन्धिनं दत्त्वा देवीलोकमवाप्नुयात् || ३२ ||
खर्जूरं पिण्डखर्जूरं यवचूर्णं च साज्यकम् |
वैष्णव्यै विनिवेद्यैव राजसूयफलं लभेत् || ३३ ||
कृशरान्नप्रदानेन सौभाग्यमतुलं भवेत् |
दत्त्वैव नारिकेलाम्बु वह्निष्टोमफलं लभेत् || ३४ ||
जाम्बवं लवली-धात्री-श्रीफलानि निवेद्य च |
वह्निष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् || ३५ ||
द्राक्षां सितासमायुक्तां नागरङ्गकसंयुताम् |
विनिवेद्य महादेव्यै लक्ष्मीवान् रूपवान् भवेत् || ३६ ||
धान्यं च पृथुकं देव्यै दत्त्वा श्रियमवाप्नुयात् |
इक्षुदण्डं मुद्गमण्डं नवनीतं निवेद्य च || ३७ ||
सौभाग्यमुत्तमं प्राप्य देवीलोके महीयते |
नवनीतसमायुक्तं तिलं देव्यै निवेद्य च || ३८ ||
इह कामानवाप्यैव मृतो मोक्षमवाप्नुयात् |
अभक्ष्यवर्ज्यं सर्वान्नं व्यञ्जनेन समन्वितम् || ३९ ||
भोज्यवत् परिकल्प्याथ महादेव्यै निवेदयेत् |
रत्नतोयसमायुक्तं सलिलं नारिकेलजम् || ४० ||
क्षीराज्यमधुभिर्मिश्रं सितादधिसमन्वितम् |
यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत् || ४१ ||
भक्तिप्रवणचित्तेन तस्य पुण्यफलं शृणु |
कल्पकोटिसहस्राणि कल्पकोटिशतानि च || ४२ ||
स्थित्वा देवीपुरे धीरः सार्वभौमो भवेत् क्षितौ |
ततः परं तु कैवल्यमाप्नोति च यथेच्छया || ४३ ||
कलायं च सनीवारं क्वथितं दधिसंयुतम् |
महादेव्यै निवेद्यैव काममिष्टमवप्नुयात् || ४४ ||
मरिचं पिप्पलीकोलं जीरकं तन्तुभं तथा |
संस्कारे च समक्षे च महादेव्यै निवेदयेत् || ४५ ||
तिन्तिडीं खण्डसंयुक्तां भक्तियुक्तो निवेद्य च |
ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् || ४६ ||
राजमाषं मसूरं च पालङ्कं चाथ पोतिकाम् |
कालशाकं कलायं च ब्राह्मीमूलकमेव च || ४७ ||
वास्तूकं च कलम्बीं च कञ्चुकं हिलमोचिकाम् |
चक्रं विद्रुमपत्रं च तथैव च पुनर्नवाम् || ४८ ||
शाकानेतान् महादेव्यि योजयेद् भक्तिसंयुतः |
सोऽतुलां श्रियमाप्नोति मम लोके महीयते || ४९ ||
श्रद्धापरीष्टिसंस्कारभक्तिद्रव्याभिसम्भ्रमम् |
रागाधिक्यात् फलाधिक्यं हीनाद् वै हीनतां व्रजेत् || ५० ||
मन्त्रकालविरुद्धानि नैवेद्यानि कदाचन |
देवेभ्यो नोपयुञ्जीत गुरुताविहितानि च || ५१ ||
राजते वाऽथ सौवर्णे ताम्रे वा प्रस्तरेऽपि च |
पद्मपत्रेऽथवा दद्यान्नैवेद्यं मत्प्रियाप्रियम् || ५२ ||
तैजसेषु च पात्रेषु सौवर्णं ताम्रमेव वा |
प्राशनार्थमुपादद्यादर्घ्यपात्रार्थमेव वा || ५३ ||
यज्ञदारुमयं वापि पात्रः मध्यममिष्यते |
सर्वालाभे तु माहेयं स्वहस्तघटितं यदि || ५४ ||
एतद् वां कथितं पुत्रौ नैवेद्यं वैष्णवीप्रियम् |
कामाख्यायास्तथा देव्यास्त्रिपुराया विशेषतः |
प्रदक्षिणनमस्कारौ साम्प्रतं शृणुतं युवाम् || ५५ ||
इति श्रीकालिकापुराणे सप्ततितमोऽध्यायः || ७० ||

Kapitel 71
एकसप्ततितमोऽध्यायः
श्रीभगवानुवाच
प्रसाय दक्षिणं हस्तं स्वयं नम्रशिराः पुनः |
दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः || १ ||
सकृत् त्रिर्वा वेष्टयेयुर्दैव्याः प्रीतिः प्रजायते |
स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः || २ ||
अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् |
अ सर्वकाममासाद्य पश्चान्मोक्षमवाप्नुयात् || ३ ||
मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम् |
प्रदक्षिणाद् यमगृहे नरकाणि न पश्यति || ४ ||
कायिको वाग्भवश्चैव मानसस्त्रिविधिः स्मृतः |
नमस्कारः श्रुतस्तज्ज्ञैरुत्तमाधममध्यमः || ५ ||
प्रसार्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ |
जानुभ्यामवनिं गत्वा शिरसास्पृश्य मेदिनीम् || ६ ||
क्रियते यो नमस्कार उत्तमः कायिकस्तु सः |
जानुभ्यां च क्षितिं स्पृष्ट्वा शिरसास्पृश्य मेदिनीम् || ७ ||
क्रियते यो नमस्कारो मध्यमः कायिकः स्मृतः |
पुटीकृत्य करौ शीर्षे दीयते यद् यथा तथा |
अस्पृष्ट्वा जानुशीर्षाभ्यां क्षिति सोऽधम उच्यते || ८ ||
या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः |
क्रियते भक्तियुक्तेन वाचिकस्तूत्तमस्तु सः || ९ ||
पौराणिकैर्वैदिकैर्वा मन्त्रैर्वा क्रियते नतिः |
स मध्यमो नमस्कारो भवेद् वाचनिकः सदा || १० ||
यत् तु मानुष्यवाक्येन नमनं क्रियते सदा |
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ || ११ ||
इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः |
नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् || १२ ||
त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः |
कायिकैस्तु नमस्कारैर्द्वास्तुष्यन्ति नित्यशः || १३ ||
यमेव नमस्कारो दण्डादिप्रतिनामभिः |
प्रणाम इति विज्ञेयः स पूर्वं प्रतिपादितः || १४ ||
नैवेद्येन भवेत् सर्वं नैवेद्यनामृतं भवेत् |
धर्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः || १५ ||
सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम् |
ज्ञानदं कामदं पुण्यं सर्वभोग्यमयं तथा || १६ ||
मनसापि महादेव्यै नैवेद्यं दातुमिच्छति |
यो नरो भक्तियुक्तः सन् स दीर्घायुः सुखी भवेत् || १७ ||
महामायां सदा देवीमर्चयिष्यामि भक्तितः |
नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः |
स सर्वकामान् सम्प्राप्य मम लोके महीयते || १८ ||
मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम् |
स दक्षिणे यमगृहे नरकाणि न पश्यति || १९ ||
देवमानुषगन्धर्वा यक्षराक्स्ऽसपन्नगाः |
नमस्कारेण तुष्यन्ति महात्मानः समन्ततः || २० ||
नमस्कारेण लभते चतुर्वर्गं महामतिः |
सर्वत्र सर्वसिद्ध्यर्थं नतिरेव प्रशस्यते || २१ ||
नत्या विजयते लोकान्नत्यायुरपि वर्धते |
नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः || २२ ||
नमस्कुरु महादेव्यै प्रदक्षिणमथो कुरु |
नैवेद्यं देहि नितरामिति यो भाषते मुहुः |
सोऽपि कामानवाप्येह मम लोके प्रमोदते || २३ ||
विदधाति च नैवेद्यं महादेव्यै सुभक्तिमान् |
दातुं प्रति नरः सोऽपि देवीलोकमवाप्नुयात् || २४ ||
इति वां कथिताः सम्यगुपचारास्तु षोडश |
किमन्यद्रुचितं वां तत् कथयिष्यामि पृच्छतोः || २५ ||
इति श्रीकालिकापुराणे षोडशोपचारनिर्णये एकसप्ततितमोऽध्यायः || ७१ ||
Kapitel 72
द्विसप्तितमोऽध्यायः
श्रीभगवानुवाच
कामाख्यायाश्च माहात्म्यं शृणुतं च वदामि वाम् |
साङ्ग तद् सरहस्यं च शृणु वेताल भैरव || १ ||
एकदा गरुडेनाशु विष्णुर्विष्णुपरायणौ |
गच्छन् देवीं तु कामाख्यां नीलस्थामाससाद ह || २ ||
आसाद्य तं गिरिश्रेष्ठमवज्ञाय स केशवः |
गच्छ गच्छेति गरुडं चोदयामास तं गतौ || ३ ||
तं च देवी महामाया कामाख्या जगतां प्रसूः |
गरुडेन समं कृष्णं स्तम्भयामास रोदसी || ४ ||
स तु गन्तुं महामाया-मायया परिमोहितः |
न गन्तुमथ वागन्तुमशकद् बद्धवत् स्थितः || ५ ||
अशक्तं गरुडं दृष्ट्वा गमने गरुडध्वजः |
क्रुद्धस्तं पर्वतश्रेष्ठमुत्सारयितुमुद्यतः || ६ ||
ततः कराभ्यां तं शैलं क्रोडीकृत्य जगत्पतिः |
अभूत् क्षमश्चालयितुं मनागपि न केशवः || ७ ||
तं चिचालयिषुं शैलं कामाख्या क्रोधतत्परा |
सिद्धसूत्रेण वैकुण्ठं बबन्ध गरुडेन हि || ८ ||
तं बद्द्वा सिद्धसूत्रेण ग्राहाग्रे लवणार्णवे |
चिक्षेप हेलया देवी संक्षेपात् प्रापतत् तलम् || ९ ||
तं सागरतलं प्राप्तं पुनरेव स्वमायया |
यन्त्रयित्वा समाक्रम्य जग्राहाब्धितल स्थितम् || १० ||
स प्रयत्नेन महता नोत्प्लुतिं कर्तुंमिष्टवान् |
महायत्नं प्रकुर्वाणः पुनरुन्मज्जने हरिः || ११ ||
तस्यासारं प्रसारं च कामाख्या प्रतिषेधयेत् |
ज्ञानोद्गमनमप्यस्य सा देवी प्रतिषेधयेत् || १२ ||
ततः प्रज्ञानरहितः प्रसारासारवर्जितः |
गरुडेन समं तोयतले शीर्णमभूच्चिरम् || १३ ||
मार्गमाणस्तु तं स्रष्टा सागरान्तरसंस्थितम् |
हरिमासादयामास विशीर्णं प्राकृतं यथा || १४ ||
तमासाद्य सतार्क्ष्यं तु स्रष्टा लोकपितामहः |
हस्ताभ्यां त समादाय वोत्प्लावयितुमिष्टवान् || १५ ||
तमुत्प्लावयितुं शक्तो नाभूल्लोकपितामहः |
स्वयं च देवीमावाभिर्बद्धः सन् विम्सयन् स्थितः || १६ ||
मार्गमाणास्तु ते सर्वे देवाः शक्रपुरोगमाः |
चिरेण चाथ कालेन समासे दुर्जलान्तरे || १७ ||
तावासाद्य ततः सर्वे सुराः शक्रपुरोगमाः |
समुत्प्लावयितुं यत्नं चक्रुर्नाशक्नुवंश्च ते || १८ ||
ततः सर्वेऽपि ते देवा मोहिता मायया भृशम् |
विधिंविष्ण स्थितौ यद्वत् तद्वत् ते तत्र संस्थिताः || १९ ||
मार्गमाणोऽथ तान् सर्वान् देवान् देवगुरुस्तदा |
बृहस्पतिंर्महादेवं हिमवत् सानुसंस्थितम् || २० ||
समासाद्य स देवानां वृत्तान्तं देवपूजितः |
पृष्टवान् सादरं सम्मक् स्तुत्वा नत्वा यथाविधि || २१ ||
गुरुरुवाच -
महादेव जगद्धाम जगत्प्रशमकारण |
शक्रादीन्मार्गमाणोऽहं देवांस्त्वां समुपस्थितः || २२ ||
ब्रह्मा विष्णुश्च न ब्रह्मसदने नापि नाकतः |
संस्थितौ नापि कुत्रापि ज्ञायेने ह्यन्यदा यथा || २३ ||
तमिमं संशयं देव च्छिन्धि त्वं देवदेवताः |
कुत्र तिष्ठन्ति कस्माद् वा तथा भूत्वा ह्यवस्थिताः || २४ ||
अनुयास्यामि तान् सर्वानुपदेशात् तव प्रभो |
तेषां स्थितिं त्वं कथय यदि ते वर्तते दया || २५ ||
तस्य तद् वचनं श्रुत्वा तदुद्देशमहं पुनः |
तत् सर्वमुक्तवान् कर्म यथा बद्धाश्च मायया || २६ ||
अवज्ञाता महादेवी महामाया जग्गन्मयी |
तेन तन्मायया बद्धो विष्णुस्तिष्ठति सागरे || २७ ||
तं मार्गमाणास्त्रिदशा ब्रह्माद्या मायया पुनः |
निबद्धा निकटे तस्य स्थिताश्चात्यर्थसंयताः || २८ ||
तांस्तु मार्गयितुं यासि यदिह त्वं मया विना |
बद्धस्तथैव त्वं चापि नायातुं भविता प्रभुः || २९ ||
तस्माद् गच्छाम्यहं तत्र यत्रास्ते गरुडध्वजः |
ब्रह्मेन्द्राद्यास्तथा गुप्तान्मोचयिष्ये च तान् क्रमात् || ३० ||
इत्युक्त्वा गरुणा सार्धं सम्भूय स वृषध्वजः |
देवौघा यत्र तिष्ठन्ति गतस्तत्र महेश्वरः || ३१ ||
तत्र गत्वा महादेवो विष्णुमाभाष्य वेधसम् |
सर्वांस्तान् परिपप्रच्छ किमर्थं संस्थितास्त्विह || ३२ ||
गतागतविहीनाश्च जडवज्ज्ञानवर्जिताः |
किमर्थमभवन् देवास्तन्मे भाषन्तु सम्प्रति || ३३ ||
तस्य तद्वचनं श्रुत्वा महादेवस्य केशवः |
शनैर्भर्गमुवाचेदं ब्रह्मादीनां पुरस्तदा || ३४ ||
श्री भगवाननुवाच
नीलकूटस्य शिखरादूर्ध्वभागेन गच्छता |
वियता गरुडस्थेन मया नीलो महागिरिः || ३५ ||
धृतः करेण चोद्धर्तुं गरुडागतिवारणे |
तत्र मां सा महामाया कामाख्या कामरूपिणी || ३६ ||
योगनिद्रा स्वयं धृत्वा चिक्षेपाम्बुधिपुष्करे |
ततोऽहं तलमासाद्य तोयराशेः सवाहनः || ३७ ||
पतितो निवसाम्यत्र चिरमन्धकसूदन |
निवसामि चिरं चाहमत्र सागरतोयके || ३८ ||
नाद्यापि सा महामाया नुदते मां महेश्वर |
मदर्थमागता देवा ब्रह्मेन्द्राद्याः समन्ततः || ३९ ||
तेऽपि बद्धा महादेव्या मायापाशेन वै हठात् |
तस्मान्नो ह्यनुगृह्णीष्व नयेदानीं शिवालये || ४० ||
तां च प्रसादयिष्यामः सम्यग्बन्धविहिंसया |
हरेस्तद्वचनं श्रुत्वा ह्यहं च करुणायुतः || ४१ ||
उवाच परमप्रीत्या विधिविष्णू प्रति स्वयम् |
ईश्वर्याः कामपूर्वायाः कवचं सुमनोहरम् || ४२ ||
बद्ध्वा शरीरे चाप्लाव्य पश्चाद् गच्छन्तु तां प्रति |
अहं निबद्धकवचस्तेनाहं मायया त्विह || ४३ ||
न बद्धो मम संसर्गात् तथा चेह बृहस्पतिः |
तस्माद् यूयं तु कवचं शृणुध्व अचनान्मम || ४४ ||
येन सौख्यात् समुत्प्लुत्य द्रक्ष्यामः परमेश्वरीम् |
ओं कामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः || ४५ ||
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते |
विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः || ४६ ||
सिरः कामेश्वरी देवी कामाख्या चक्षुषी मम |
सारदा कर्णयुगलं त्रिपुरावदनं तथा || ४७ ||
कण्ठे पातु महामाया हृदि कामेश्वरी पुनः |
कामाख्या जठरे पातु शारदा मां तु नाभितः || ४८ ||
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने |
गुदे कामेश्वरी पातु कामाख्योरुद्धये तु माम् || ४९ ||
जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः |
महामाया पादयुगे नित्यं रक्षतु कामदा || ५० ||
केशे कोटेश्वरी पातु नासायां पातु दीर्घिका |
भैरवी दन्तसंघाते मातंग्यवतु चाङ्गयोः || ५१ ||
बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी |
विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु || ५२ ||
रोमकूपेषु सर्वेषु गुप्तकमा सदावतु |
पादाङ्गुलिपार्ष्णिभागे पातु मां भुवनेश्वरी || ५३ ||
जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु |
लः पातु चान्तरे वक्ष हः पातु जठरान्तरे || ५४ ||
सामीन्दुः पातु मां अस्ताविन्दुबिन्द्वन्तरेऽवतु |
अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा || ५५ ||
लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु |
चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् || ५६ ||
पूर्वस्यां दिशि चाग्नेययां दक्षिणे नैर्-ऋते तथा |
वारु.एन् चैव वायव्यां कौबेरे हरमन्दिरे || ५७ ||
अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः |
पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये || ५८ ||
ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा |
नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे || ५९ ||
नवस्वरं तु मां नित्यं नासादिषु समन्ततः |
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् || ६० ||
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च |
तत्सेतू सततंपातां क्रव्याद्भ्यो मान्निवारकौ || ६१ ||
नमः कामेश्वरी देवीं महामायां जगन्मयीम् |
या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् || ६२ ||
कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां-
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् |
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्यामग्नौ
बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् || ६३ ||
मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया- लीला लोकस्य कोष्ठे
सकलगुणयुता व्यक्तरूपैकनम्रा |
विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या
नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः || ६४ ||
इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि |
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः || ६५ ||
इत्ययं कवचं यस्तु कामाख्यायाः पठेद् बुधः |
सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा || ६६ ||
नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा |
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः || ६७ ||
दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः |
आवर्तयञ्छतं देवी-मन्दिरे मोदते परे || ६८ ||
यथा तथा भवेद् बद्धः संग्रामेऽन्यत्र वा बुधः |
तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु || ६९ ||
ईश्वर उवाच
इति श्रुत्वा तु कवचं हरिर्ब्रह्मा सुरास्तथा |
शक्रोऽपि कवच देहे न्यासं चक्रुः पृथक् पृथक् || ७० ||
ते तु विन्यस्तकवचा महामायाप्रभावतः |
उत्प्लुप्य सागरस्याम्भ आसेदुः क्षितिमञ्जसा || ७१ ||
आसाद्य पृथिवीं सर्वे ब्रह्मविष्णवादयः सुराः |
नीलकूटं समासाद्य कामाख्यां द्रष्टुमागताः || ७२ ||
दृष्ट्वा कामेश्वरीं देवी केशवस्तां जगन्मयीम् |
इदमाह स्वयं ज्ञात्वा प्रभावं तत् प्रतिष्ठितम् || ७३ ||
त्वमेव प्रकृतिर्देवी त्वमेव पृथिवी जलम् |
त्वमेव जगतां माता त्वमेव च जगन्मयी || ७४ ||
त्वं कर्त्री सर्वजगतां विद्या त्वं मुक्तिदायिनी |
परापरात्मिका देवी स्थूलसूक्ष्मात्मिका तथा || ७५ ||
प्रसीद त्वं महादेवि प्रसन्नायां शुभे त्वयि |
देवाः सर्वे प्रसीदन्ति चतुर्वर्गप्रदेऽनघे || ७६ ||
रत्यक्षरूपा कामाख्या केशवस्य महात्मनः |
प्रत्यक्षरूपा कामाख्या हरिमाभाष्य चाब्रवीत् || ७७ ||
देव्युवाच -
केशव ब्रह्मणा सार्धं सर्वैर्देवैस्तथा गणैः |
मद्योनिसलिलेष्वद्य स्नानं पानं कुरु द्रुतम् || ७८ ||
ततस्त्वं निरहङ्कारः परवीर्यसमन्वितः |
आरुह्य गरुडं याहि त्रिदिवं सह वेधसा || ७९ ||
एवमुक्तो महादेव्या केशवः सह एधसा |
योनिमण्डलतोयेषु स्नानं पानं चकार ह || ८० ||
कृतप्लावास्ततो देवाः कृतस्नानश्च केशवः |
गता देव्याश्च सम्मत्या त्रिदिवं प्रति हर्षिताः || ८१ ||
गच्छन्तस्ते देवगणाः सहिताः केशवेन च |
ब्रह्मणा च तदाद्राक्षुः कामाख्यां तां वियद्गताम् || ८२ ||
नीलकूटसहस्राणि योनिभिः सह तद्गतै |
ऊर्ध्वाधोभागयोगेन ददृशुः संस्थितानि च || ८३ ||
तानि प्रत्येकतो देवा आरुह्यारुह्य तत्क्षणात् |
अपुः सस्नुः पूर्ववत् ते प्रीतिमापुस्तथातुलाम् || ८४ ||
निरामयास्तथा जग्मुर्विस्मयाक्लिष्टचेतनाः |
स्तुवन्तः प्रस्तुवन्तश्च कामाख्यायोनिमण्डलम् || ८५ ||
ततो देवगुरुं नत्वा मां स्तुत्वा च मया पुनः |
विसृष्टास्त्रिदिवं याता हर्षोत्फुल्लविलोचनाः || ८६ ||
माहात्म्यमीदृशं देव्याः कामाख्यास्तु भैरव |
कवचं चेदृशं प्रोक्तं तत्त्वमासाद्य पुत्रक || ८७ ||
यथेष्टविनियोगेन तमासाद्य सुखी भव |
कामाख्यायाश्च माहात्म्यं किमन्यत् कथयामि ते ||
यस्या योनिशिलायोगाल्लोहाद्या यान्ति स्वर्णताम् || ८८ ||
यद्योनिमण्डले स्नात्वा सकृत् पीत्वा च मानवः |
नेहोत्पत्तिमवाप्नोति परं निर्वाणमाप्नुयात् || ८९ ||
इति श्रीकालिकापुराणे कामाख्याकवचमाहात्म्यवर्णनं नाम
विसप्ततितमोऽध्यायः || ७२ ||
Kapitel 73
त्रिसप्ततितमोऽध्यायः
श्रीभगवानुवाच -
मातृकान्यासमधुना शृणु वेताल भैरव |
येन देवत्वमायाति नरोऽपि विहितेन वै || १ ||
वाग् ब्रह्माणीमुखा देव्यो मातृकाः परिकीर्तिताः |
तासां मन्त्राणि सर्वाणि व्यञ्जनानि स्वरास्तथा || २ ||
चन्द्रबिन्दुप्रयुक्तानि सर्वकाम प्रदानि च |
ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्तितः || ३ ||
प्रोक्तश्छन्दश्च गायत्री देवता च सरस्वती |
शरीरशुद्धिमुख्ये तु सर्वकामार्थसाधने || ४ ||
विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे |
अकारेण समं कादिर्वर्गो यः प्रथमः स्मृतः || ५ ||
तैश्चन्द्रबिन्दुसंयुक्तैस्तत्रस्थैरक्षरैर्बहिः |
आकारं च तथोच्चार्य अङ्गुष्ठाभ्यां नमस्तथा ||
प्रथमं मातृकामन्त्रमङ्गुष्ठद्वयतो न्यसेत् || ६ ||
परे वर्गाः स्वरैः सार्धं ये वान्ये न्यासकर्मणि |
ते सर्वे चन्द्रबिन्दुभ्यां युक्ताः कार्यास्तु सर्वतः || ७ ||
ह्रस्वेकारश्चवर्गेण दीर्घेकारान्तकेन तु || ८ ||
तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्तेन तु पूर्ववत् |
ह्रस्वोकारष्टवर्गेण दीर्गोकारान्तकेन तु || ९ ||
मध्यमायुगले सम्यग्वषडन्तेन् विन्यसेत् |
एकारादितवर्गन्तु ऐकारान्तेन चैव हुम् || १० ||
न्यसेदनामिकायुग्मे नियतं तत्र भैरव |
कारादिपवर्गं तु औकारान्तमशेषतः || ११ ||
वौषडन्तं कनिष्ठायां विन्यसेत् कार्यसिद्धये |
अंकारादियकारादिवर्गेण क्षान्तकेन तु || १२ ||
अ इत्यन्तेन वलयोर्विन्यसेत् पाणिपृष्ठयोः |
वषट्कारं शेषभागे अंगत्रन्यासे नियोजयेत् || १३ ||
हृदयादिषडङ्गेषु पूर्ववत् क्रमतो न्यसेत् |
अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः || १४ ||
पुनस्तथा पादजानुसक्थिगुह्येषु पार्श्वयोः |
वस्तौ च विन्यसेन्मन्त्रान् क्रमात् पूर्ववदक्षरैः || १५ ||
बाह्वोः पाण्योस्तथा कट्यां नाभौ च जठरे तथा |
स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत् || १६ ||
वक्त्रे च चिवुके गण्डे कर्णयोश्च ललाटके |
अंसे कक्षे च षड्वर्गैः पूर्ववन्न्यासमाचरेत् || १७ ||
रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा |
नखेषु पादपार्ष्ण्योश्च तथा पूर्ववदाचरेत् || १८ ||
एवं तु मातृकान्यासं यः कुर्यान्नरसत्तमः |
स सर्वयज्ञपूजासु पूतो योग्यस्तु जायते || १९ ||
नातः परतरं मन्त्रं विद्यते क्वचिदेव हि |
यत्सर्वकामदं पुण्यं चतुर्वर्गप्रदं परम् || २० ||
वाग्देवतां हृदि ध्यात्वा मूर्तिसर्वाक्षराणि च |
त्रिधा च मातृकामन्त्रैः सक्रमैश्च पिबेज्जलम् || २१ ||
स वाग्मी पण्डितो धीमान् जायते च वरः कविः |
चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद् बुधः || २२ ||
व्यञ्जनानि तु सर्वाणि केवलानि पठेत् ततः |
अकारादिक्षकारान्तान्येवं श्वासैश्च पूरकैः || २३ ||
जलं करतले गृह्य पठित्वाक्षरसंख्यकम् |
अभिमन्त्र्य तु तत् तोयं प्रथमं पूरकैः पिबेत् || २४ ||
कुम्भकेन द्वितीयं तु तृतीयन्त्वथ रेचकैः |
एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः || २५ ||
दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः |
त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम् || २६ ||
तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च |
सततं कुरुत यस्तु मातृकामन्त्रमन्त्रितम् || २७ ||
तोयपानं महाभाग पूरकुम्भकरेचकैः |
स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् || २८ ||
भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः |
सर्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् || २९ ||
राजानमथवा राजपुत्रं भार्यामथापि वा |
वशीकरोति नचिरान्मातृकामन्त्रपानतः || ३० ||
न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु |
अक्षराणां क्रमेणाथ तोयपानं समाचरेत् || ३१ ||
ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् |
ते मन्त्रा मातृकामन्त्रै र्नित्यमेव प्रतिष्ठिताः || ३२ ||
सर्वमन्त्रमयश्चायं सर्ववेदमयस्तथा |
चतुर्वर्गप्रदश्चायं मातृकामन्त्र उच्यते || ३३ ||
इति ते कथितं पुत्र मातृकान्यासमद्भुतम् |
विभागमथ मुद्राणां शृणु वेताल भैरव || ३४ ||
इति श्रीकालिकापुराणे मातृकान्यासवर्णने रिसप्ततितमोऽध्यायः || ७३ ||
Kapitel 74
चतुःसप्ततितमोऽध्यायः
श्रीभगवानुवाच -
या योनिमुद्रा कथिता मुद्राविभजने पुरा |
अष्टधा योनिमुद्रा स्यात् प्रथमा सा तु कीर्तिता || १ ||
द्वितीया खेचरी मुद्रा कामाख्यायास्तु भैरव |
तां विद्धि चाद्भुतं गुह्यं येन तुष्यति चण्डिका || २ ||
अनामिकां दक्षिणस्य तर्जन्यां वामतो न्यसेत् |
वामानामां दक्षिणस्य तर्जन्यां विनिवेशयेत् || ३ ||
ते द्वे तथा तर्जनीभ्यां वेष्टयेदग्रतोऽग्रतः |
मध्ये द्वयं तु विन्यस्य चोर्ध्वभागे त्वनामयोः || ४ ||
तदग्राग्रेण संयोगात् तथैव च कनिष्ठिके |
अग्रेणैव च संयुक्ते तन्मूलेऽङ्गुष्ठके न्यसेत् || ५ ||
इयं ते खेचरी योनिर्योनिमुद्रा तु कामदा |
एषैवाधः कनिष्ठे द्वे नियोज्य यदि युज्यते || ६ ||
उह्ययोनिस्तु सा ख्याता कामेश्वर्यास्तु तुष्टिदा |
संवेष्ट्य पूर्ववत् पाण्योर्द्वे कनिष्ठे त्वनामिके || ७ ||
अधोभागे नियोज्याथ मध्यमे चोर्ध्वतस्तथा |
तासां परस्परश्चाग्रैरन्योऽन्यं योजयेद् यदि || ८ ||
मध्यां मध्ये तथाङ्गुष्ठे निःक्षिप्याग्रे नियोजयेत् |
ओनिस्त्रिशाङ्करी प्रोक्ता त्रिपुरा तुष्टिदा सदा || ९ ||
मध्ये द्वे च तथा वेष्ट्या पूर्ववच्चाप्यनामिका |
कनिष्ठाभ्यां पुरो न्यस्य अङ्गुष्ठौ मूलयोस्तयोः || १० ||
मुद्रेयं शारदी प्रोक्ता शारदायास्तु तुष्टिदा |
मूलयोनिस्तु कथिता वैष्णवीतन्त्रगोचरे || ११ ||
तर्जन्यनामिकं मध्ये कनिष्ठेऽपि क्रमादपि |
करयोर्योजयित्वैव कनिष्ठामूलदेशतः || १२ ||
अङ्गुष्ठाग्रं तु निःक्षिप्य महायोनिः प्रकीर्तिता |
अङ्गुष्ठौ चाथ संवेष्ठ्य संयुज्याथ कराङ्गुलीः || १३ ||
अग्रभागैर्मध्यशून्यं तत्र कुर्यात् करद्वयम् |
इयं तु योगिनीयोनिर्योगिनीनां प्रियंकरी || १४ ||
एता अष्टौ समाख्याता योन्यः कामेश्वरीप्रियाः |
मूर्तिभेदेन चान्येषां देवानामपि तुष्टिदाः || १५ ||
यात्रायां युद्धविषये वाग्वादे कलहे तथा |
अष्टौ योन्यः स्मरेद् यस्तु जयस्तस्य सनातनः || १६ ||
विसर्जने पूजने च स्मरणे कर्मभेदतः |
एता योन्यः समाख्याताश्चण्डिकापूजनेषु च || १७ ||
एतास्तु कथिता योन्यः क्रमात् क्रमविसर्जने |
रहस्य वामदाक्षिण्यं मन्त्रशुद्धिं शृणुष्व मे || १८ ||
मन्त्रेण क्रियते यत् तु शारीरं मन्त्रमुत्तमम् |
तद्रहस्यमिति प्राहुर्मन्त्रेषु मन्त्रकोविदाः || १९ ||
कामाख्यायास्तु षट्कोणं मण्डलस्य दलान्तरे |
त्रिधा लिखेन्मूलमन्त्रमूर्ध्वं त्रिष्वपि सन्धिषु || २० ||
अधस्त्रिसन्धिषु पुनर्विधिं शक्रं हरं तथा |
सहितं मदनेनैव लिखेद् भूर्जत्वचि त्रिधा || २१ ||
अन्तुमादाय साहस्रं दक्षिणेन करेण वै |
मालामपि समादाय संजपेदुत्तरामुखः || २२ ||
अद्भुजे दक्षिणे धार्यं बाहौ वा साधकोत्तमैः |
जपान्ते लिखितं यन्त्रं तेन सर्वजयी भवेत् || २३ ||
दीर्घायुः सर्ववशकृद्घनधान्यसमृद्धिमान् |
मृतो देवीगृहे याति यन्त्रयन्त्रितबुद्धिमान् || २४ ||
षट्कोणानन्तरकृतं वेष्टिताष्टकलेष्वथ |
लिखित्वा भूर्जपत्रेषु विलीनैर्यावकोदकैः || २५ ||
उत्तरादिक्रमेणैव वैष्णवीतन्त्रसङ्गतान् |
अष्टौ वर्णान्मध्यभागे पूर्ववत् कामराजकम् || २६ ||
त्रीन् वर्णान् नेत्रबीजस्य त्रिकोणस्याग्रतो लिखेत् |
एवं त्रिधाकृतं यन्त्रं कृत्वा वामकरे स्थितः || २७ ||
जपेत् त्रीणि सहस्राणि मालामादाय दक्षिणे |
जपान्ते वैष्णवीरूपध्यानं कुर्यादतन्द्रितः || २८ ||
प्राणायामसहस्रं तु ततस्तं लिखितोत्तमम् |
ग्रीवायां धारयेद् यन्त्रं तेन सर्वजयी भवेत् || २९ ||
राजपुत्रो भवेद्राजा तदन्यः सचिवो भवेत् |
द्विजराजो भवेद् विद्वान् कविर्वाग्मी च वा भवेत् || ३० ||
राक्षसेभ्यः पिशाचेभ्यो भूतेभ्यश्चापि चान्यतः |
साधु संविद्यते तस्य न कदाचित् पराजयः || ३१ ||
दीर्घायुर्बलवान् प्राज्ञो मृते मोक्षमवाप्नुयात् |
सम्पूर्णं मण्डलं कृत्वा अष्टपत्रसमन्वितम् || ३२ ||
भूर्जत्वचि श्रीफलस्य निर्यासैस्तस्य मध्यतः |
षट्कोणं विलिखेत् तस्य प्रागग्रेष्वथ त्रिष्वपि || ३३ ||
विलिखेत् त्रिपुरावर्णानधो बीजं तु नेत्रकम् |
दलेष्वष्टासु तु पुनर्वैष्णवीतन्त्रसङ्गतान् || ३४ ||
अष्टौ वर्णास्तु विलिखेत् तथा द्वार्षु चतुर्ष्वपि |
षट्कोणेषूत्तराकोणक्रमेणैकाग्रमानसः || ३५ ||
तद्धृत्वा दक्षिणकरे वैष्णवीतन्त्रमन्त्रकम् |
जपेत् त्रिर्भिर्दिनैरेवायुतं संयतमानसः || ३६ ||
प्राणायामसहस्राणि त्रीणि कृत्वा तु हर्षितः |
सन्ध्याकाले नवम्यां तु शीर्षेण धारयेद् बुधः || ३७ ||
शतायुः सर्वदमनो मतिमान् पण्डितोत्तमः |
बलवीर्यधनैश्वर्ययुक्तः पार्थिव एव वा || ३८ ||
प्रत्यक्षतो महामायां कामाख्यां त्रिपुरामपि |
नित्यं पश्यति मेधावी महोच्छवासां च शारदाम् || ३९ ||
सिंहव्याघ्रौ भुजङ्गो वा येऽन्ये वा तस्य हिंसकाः |
सर्वे तस्य तनुं प्राप्य विषीदन्ति न संशयः || ४० ||
जयहेतुरतोऽन्यस्मात् संग्रामे शास्त्रवादतः |
न विद्यते त्रिभुवने तस्मात् कुर्यात् तु यन्त्रकम् || ४१ ||
अन्ते देवीगृहं प्राप्य ततो मोक्षमवाप्नुयात् |
महामाया शारदाख्या कामाख्या त्रिपुरा तथा || ४२ ||
महोत्साहा तथैतेषां मन्त्राणां यो गणो भवेत् |
मण्डलं चाष्टदलकं तन्मध्ये विलिखेत् पुनः || ४३ ||
लिखित्वा पूर्ववत् पूर्वं प्रोक्तं मन्त्रगणं समम् |
अन्यद्वयं द्वारदेशे ओष्ठेष्वक्षरतो लिखेत् || ४४ ||
शुक्लकौशैयवस्त्रेषु रसैर्वह्निशिखस्य तु |
उत्तरीयं तु तद्वस्त्रं कृत्वा जप्यं समाचरेत् || ४५ ||
कृतोपवासः शुद्धश्च मातृकान्यासपूर्वकम् |
पञ्चानामपि वर्गाणां सहस्राणि तु पंच वै || ४६ ||
दिवसैः पञ्चभिर्जप्त्वा तदन्ते च समाचरेत् |
प्राणायामसहस्राणि पंच वै पंचभिर्दिनैः || ४७ ||
अन्ते तु कवचन्यासं कात्यायन्याः समाचरेत् |
ततस्तु मातृकामन्त्रैः श्वासरोधनपूर्वकम् || ४८ ||
त्रिः पिबेत् कपिलाक्षीरं जागृवांश्च तदा निशि |
एवं यः कुरुते यन्त्रं शरीरे शुक्लवाससा || ४९ ||
सोऽत्र सिद्धिमवाप्नोति देवीलोकं च गच्छति |
य उत्तरीयं बिभृयाद् वस्त्रं मन्त्रेण मन्त्रितम् || ५० ||
नित्यमेव महाभाग प्रभावं तस्य वै शृणु |
न तस्य देहे शस्त्राणि प्रवेक्ष्यन्ति कदाचन || ५१ ||
नाग्निर्दहति तत्कायं नापः संक्लेदयन्ति च |
राक्षसाश्च पिशाचाश्च भूताद्या ये तु हिंसकाः || ५२ ||
ते तं दृष्ट्वा महाभागं भुवं गच्छन्ति वै भिया |
गच्छेदवारितः सोऽपि सर्वत्र साधकोत्तमः || ५३ ||
वशीकरोति देवांश्च नृपानन्यांश्च योषितः |
उत्सहेद् यदि मेधावी वाग्मी राजा च वै भवेत् || ५४ ||
चिरजीवी महाभागो धनधान्यसमृद्धिमान् |
कविः प्रज्ञासमायुक्तः सोऽभेद्यो जायतेऽरिभिः || ५५ ||
यस्मिन् पुरे स निवसेद् वज्रपातो न तत्र वै |
रसः शरीरं शस्त्राणि दृढहस्तोज्झितान्यपि || ५६ ||
एतं न घ्नन्ति सततं जयः सर्वत्र भैरव |
अपराध्यन्ति सततं तस्य सर्वत्र भैरव || ५७ ||
नाधयो व्याधयस्तस्य जायन्ते तु कदाचन |
देवीपुत्रः स मतिमान् मृतो मोक्षमवाप्नुयात् || ५८ ||
यन्त्रता स्वामिना यन्त्रं या दधाति पतिव्रता |
पुत्रैश्वर्यमवाप्नोति दीर्घायुः सा वधुर्भवेत् || ५९ ||
प्रत्येकमेकं संहत्यावर्धनासहितेन च |
क्रमाद् विंशतियन्त्राणि कथितानि मयेह वै || ६० ||
तानि प्रत्येकतो बुद्ध्वा यो न्यसेत् सर्वदा हृदि |
लिखित्वा सर्वयन्त्राणि बिभृयाद्योऽथ वा गले || ६१ ||
देवेन्द्रो जायते सोऽत्र प्रभावेणेह भूतले |
पूर्वोक्तानि समस्तानि फलान्याप्नोति तत्क्षणात् |
पिहितः सर्वलोकांस्त्रीन्नित्यमेव प्रपश्यति || ६२ ||
एवं सार्धं यन्त्रवर्गैः समस्तै-
रष्टाभिर्यत् पूर्वमुक्तं सहस्रम् |
शुक्ले वस्त्रे संलिखित्वा स्वदेहे
धृत्वा नित्य प्राप्नुयाद् वै समस्तम् || ६३ ||
यः क्षत्रजाहिर्हृदये स कुर्यात्
संग्रामकाले कवचेष्टधाम्नि |
मन्त्राक्षराण्यादिकृतानि देव्या
अष्टौ बहिर्गात्रविशेषतश्च || ६४ ||
गले हरि वक्षसि वै लिखेद् विधिं
स्तनद्वये पुत्रयुतं महेश्वरम्
बाह्वंगसन्ध्योश्च हरं च वैष्णवीं
बाह्वोस्तु लक्ष्मीं च सरस्वतीं च || ६५ ||
एवं रणाष्टाङ्गमिदं विधाय
गात्रे सवर्मण्यनुचिन्तयेच्छिवाम् |
लिखेल्ललाटे तिलकान्तरे नरः
समस्तमन्त्रक्षरयन्त्रमुत्तमम् || ६६ ||
ततो जपेदष्टधा तु पाणिं दत्त्वाष्टधामसु च |
वैष्णवीतन्त्रमन्त्रं तु ततो गच्छेद्रणाजिरम् || ६७ ||
स तु वीरो मम समः संग्रामेषु च जायते |
तृणानीव परास्त्राणि जायन्तेऽग्नौ तथात्मनि || ६८ ||
विनिःसरन्ति रिपवो याचका धनिनि धनम् |
सिंहाग्र्यान्नरशार्दूलो वीर्यवान् बलवान् भवेत् || ६९ ||
इदं रहस्यं कथितं कामाख्यायास्तु भैरव |
वैष्णवव्यास्तन्त्रमुख्येषु त्रिपुरायास्ततः शृणु || ७० ||
तस्यास्तु सर्वमन्त्राणि त्रयोदशयुतानि वै |
विंशतिं तु सहस्राणां तत्राद्यं वाग्भवं स्मृतम् || ७१ ||
द्वितीयं कामराजाख्यं मोहनं च तृतीयकम् |
आम्रेडितं वाग्भवं तु चतुर्थं परिकीर्तितम् || ७२ ||
नेत्रबीजं द्वितीयं तु द्विरुक्तं वाग्भवं तथा |
आद्यं तत्पंचमं प्रोक्तं चतुर्भिरपि चाक्षरैः || ७३ ||
नेत्रबीजं द्वितीयं तु प्रथमं परिकीर्तितम् |
द्वितीयं कामबीजं तु तृतीयं वाग्भवं तथा || ७४ ||
एभिस्त्रिभिस्तु यन्मन्त्रं तत् षष्ठं परिकीर्तितम् |
नेत्रबीजं द्वितीयं तु वाग्भवं तेन सप्तमम् || ७५ ||
तदेवं वाग्भवाद्यं तु अष्टमं परिकीर्तितम् |
वाग्भवं कामबीजं तु नेत्राभ्यां नवमं स्मृतम् || ७६ ||
कामबीजं तथैवाद्यं दशमं चैव मोहनम् |
एकादशमिदं प्रोक्तं डामराद्यं तु वाग्भवम् || ७७ ||
द्वादशं कीर्तितं मन्त्रं शेषतस्त्रैपुरं महः |
तन्महस्त्रैपुरं मन्त्रं शृणुष्वैकमनास्त्विदम् || ७८ ||
प्रान्तादिस्तस्य चाप्यादिर्वह्निर्वाग्भवसन्धितः |
आद्यं त्रिपुरभैरव्या बीजमाद्यं प्रकीर्तितम् || ७९ ||
उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा |
चतुर्थस्वरबिन्द्विन्दुयुताश्चैतत् द्वितीयकम् || ८० ||
उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा |
समाप्तिर्बिन्दुसहिता सहितस्तु तृतीयकः || ८१ ||
एतत् तत्त्वं विजानाति यो नरो भुवि भूमणिः |
सिद्धविद्याधरेभ्यस्तु सोऽधिकस्तत्समो भवेत् || ८२ ||
एते त्रयोदश प्रोक्ता मन्त्रा मन्त्रेषु चोज्ज्वलाः |
विंशतेस्तु सहस्रेभ्यः पराश्चैते प्रकीर्तिताः || ८३ ||
विंशतेस्तु सहस्राणामाद्यमेतत् प्रकीर्तितम् |
त्रिपुरायास्तु बालाया मन्त्रं तच्छृणु भैरव || ८४ ||
वाग्भवं कामराजस्तु उपान्तादिः सबिन्दुकः |
शेषस्वरसमाप्तिभ्यां मन्त्रमेतत् प्रकीर्तितम् || ८५ ||
एषा तु त्रिपुरा बाला मध्या प्रोक्ता पुरैव हि |
शेषा तेजस्विनी प्रोक्ता येयं त्रिपुरभैरवी || ८६ ||
मध्यायाः पूजनं प्रोक्तं बालायाः शृणु साम्प्रतम् |
तथा त्रिपुरभैरव्याः सर्वसिद्धिप्रदायकम् || ८७ ||
विभिद्य शक्त्या शम्भुं तु शक्तिं चापि विभेदयेत् |
शम्भवे वर्णषट्कोणं केशरं तत्र संलिखेत् || ८८ ||
मध्यायास्त्रिपुरायास्तु यादृशे द्वारमण्डले |
तादृशेऽत्रापि कर्तव्यं कोणेषु लिखितं तथा || ८९ ||
पापोत्सारणकर्माणि भूम्यादीनां विशोधनम् |
पूर्वमुत्तरतन्त्रोक्तं त्रिपुरापीठभाषितम् || ९० ||
कामाख्यापूजने प्रोक्तं सर्वं कुर्यात् तु साधकः |
दहनप्लवनादीनि प्रतिपत्तिं च पात्रके || ९१ ||
सर्वं तु पूर्ववत् कार्यं कामाखयापूजने यथा |
कृत्वाऽत्र देहन्यासं तु मन्त्रवर्णैस्तथाक्षरैः || ९२ ||
सर्वैः स्वरैस्तथा काद्यैस्ततो रूपं विचिन्तयेत् |
चतुर्भुजां रक्तवर्णां रक्तवस्त्रविभूषिताम् || ९३ ||
दक्षिणोर्ध्वे स्रजं चाधो बिभ्रतीं पुस्तकोत्तमम् |
अभयं वामहस्ताभ्यां वरं च दधतीं तथा || ९४ ||
सहस्रसूर्यसंकाशां त्रिनेत्रां जगगामिनीम् |
पीनतुङ्गस्तनयुगां सितप्रेतासनस्थिताम् || ९५ ||
स्मितप्रसन्नवदनां सर्वालंकारसंयुताम् |
तिसृभिर्मुण्डमालाभिः शिरोवक्षःकटीषु च || ९६ ||
त्रिगुणां त्रिगुणीभूतैः प्रत्येकं परिभूषिताम् |
मदिराघूर्णनयनां रक्तदन्तच्छदद्वयाम् || ९७ ||
चिन्तयेद् वरदां देवीमेवं त्रिपुरभैरवीम् |
बालायास्त्रिपुरायस्तु रूपं पूर्वं प्रपूजने || ९८ ||
उक्तः क्रमः पीठयोगे तन्त्रादि शृणु भैरव |
पुष्पबाणांस्तु पाशं च धत्ते पौष्पं शरासनम् || ९९ ||
पाशं च कुणपारूढा सा बाला त्रिपुरा स्मृता |
मन्मथे त्रिपुरे देवीं विद्महे पदमादितः || १०० ||
कामेश्वरीं धीमहि त्वां तन्नः क्लिन्ने प्रचोदयात् |
एषा त्रिपुरगायत्रीत्यावाहनविशेषतः || १०१ ||
स्नानाद्यैः पूजयेत् सम्यग् बालामन्यां च भैरवीम् |
अस्याः क्रमे विशेषो यो न्यासे चोत्तरकर्मणि || १०२ ||
तत्सर्वं सह मन्त्रौघैः शृणु वेताल भैरव |
ब्राह्मे मुहूर्ते उत्थाय चिन्तयेत् परमं गुरुम् || १०३ ||
ततोऽनु स्वगुरुं शुद्धं ततस्त्रिपुरभैरवीम् |
चतुर्भुजां शुक्लवर्णां वरदाभयपुस्तकाम् || १०४ ||
अक्षमालां च क्रमतो धत्ते वामे च दक्षिणे |
सुवर्णरत्नखचिते संस्थितां प्रवरासने || १०५ ||
सौवर्णमुत्तरीयं तु धत्ते सौवर्णकुण्डले |
स्वगुरुं वर्णतो ध्यानात् तथैव परिचिन्तयेत् || १०६ ||
भैरवीं चिन्तयित्वा तु तत उत्थाय चाचरेत् |
मैत्रमाचमनं चैव दन्तानां शोधनं तथा || १०७ ||
प्रातःस्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् |
सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवीम् || १०८ ||
त्रिपुरां चिन्तयेन्नित्यं देवमन्त्रेषु च क्रमात् |
त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् || १०९ ||
देवानामपि सर्वेषु भैरवेषु अदं सदा |
कुर्याद् विशेषणं नित्यं नोच्चार्यं निर्विशेषणम् || ११० ||
अपः पुनन्तु पृथिवीमुक्त्वा त्रिपुरभैरवीम् |
कुर्यादाचमनं विप्रो द्रुपदायां तथाचरेत् || १११ ||
इदं विष्णुर्भैरवस्तु विचक्रम इतीरितम् |
मृदालम्भनकृत्येषु नित्यमेवाप्युदीरयेत् || ११२ ||
गायत्रीं त्रिपुराद्यां तु भैरवीमाह्वयेच्छिवाम् |
मार्तण्डभैरवायेति सूर्यायार्घ्यं निवेदयेत् || ११३ ||
उदुत्यं जातवेदसं देवं वहन्ति केतवः |
दृशे विश्वाय सूर्यं शेषे भैरवमीरयेत् || ११४ ||
तर्पणादौ प्रयुंजीत तृप्यतां ब्रह्मभैरवः |
आवाहने स्वयं पितृन् भैरवानिति कीर्तयेत् || ११५ ||
तृप्यतां भैरवीमातः पितर्भैरव तृप्यताम् |
आदौ च त्रिपुरापूर्वं तर्पणेऽपि प्रयोजयेत् || ११६ ||
ज्योतिष्टोमाश्वमेधादौ यत्र यं यं प्रपूजयेत् |
तत्र भैरवरूपेण देवीमपि च भैरवीम् || ११७ ||
मदिरापात्रमालोक्य रक्तवस्त्रां स्त्रियं तथा |
शिरो नरस्य दृष्ट्वा तु भैरवीं चिन्तयेद् द्विजः || ११८ ||
स्त्रियो दृष्ट्वा ह्यथैकत्र युवतीः सुमनोहराः |
ताभ्यस्त्रिपुरभैरव्याः प्रीतये वन्दनादिकम् || ११९ ||
दद्याद् भक्त्या तु मनसा चिन्तयन्नथ भैरवीम् |
भैरवीं प्रतिगृह्णामि भैरवोऽहं प्रतिग्रही || १२० ||
कन्यायां भावयेद् धीमांस्त्रिपुरायाः प्रपूजकः |
भैरवाय ददाम्यद्य देवीं त्रिपुरभैरवीम् || १२१ ||
इतीरयेत् प्रदाने तु कन्यायास्त्रिपुरां ततः |
तस्याः पूजोपकरणपात्रादि नान्यपूजने || १२२ ||
आसवाद्यं च सततं नोपयोज्यं कदाचन |
सकृत् तु दापयेदन्यैर्मदिरां साधको द्विजः || १२३ ||
शूद्रादयस्तु सततं ददयुरासवमुत्तमम् |
एवं तु वामभावेन यजेत् त्रिपुरभैरवीम् || १२४ ||
बालां तु वामदाक्षिण्यमार्गाभ्यामपि पूजयेत् |
श्मशानभैरवीं देवीमुग्रतारां तथैव च || १२५ ||
उच्छिष्टभैरवीं चण्डीं तथा त्रिपुरभैरवीम् |
एतास्तु वामभावेन पूज्या दक्षिणतां विना || १२६ ||
ऋषीन् देवान् पितृश्चैव मनुष्यान् भुतसञ्चयान् |
यजेत् पंचभिर्यज्ञैर्-ऋणानि परिशोधयेत् || १२७ ||
विधिवत् स्नानदानाभ्यां कुर्वन् यद्विधिपूजनम् |
क्रियते सरहस्यं तु तद्द्दाक्षिण्यमिहोच्यते || १२८ ||
सर्वे च पितृदेवादौ यस्माद् भवति दक्षिणः |
देवी च दक्षिणा यस्मात् तस्माद् दक्षिण उच्यते || १२९ ||
या पुनः पूज्यमाना तु देवादीनां च पूर्वतः |
यज्ञभागं स्वयं धत्ते सावामा तु प्रकीर्तिता || १३० ||
पूजकोऽपि भवेद् वामस्तत्रैव सततं सुत |
पंचयज्ञान् न वा कुर्याद् यद् वा वाम्यप्रपूजने || १३१ ||
अन्यस्य पूजाभागं हि यतो गृह्णाति वापिका |
यत्पूजयेद्वामभावैर्न तत् स्यादृणशोधनम् || १३२ ||
पितृदेवनरादीनां जायते च कदाचन |
सोऽभ्यस्य त्रिपुरायोगं तेन योगेन संयुतः || १३३ ||
जायते यदि सुप्राज्ञस्तदा मोक्षमवाप्नुयात् |
स च मोक्षश्चिरेणैव जायतेऽत्र पुनः पुनः || १३४ ||
ऋणाशोधनजैः पापैराक्रान्तश्चैव भैरव |
इह लोके सुखश्वैर्ययुक्तः सर्वत्र वल्लभः || १३५ ||
मदनोपमकान्तेन शरीरेण विराजता |
सराष्ट्रकं च राजानं वशीकृत्य समन्ततः || १३६ ||
मोहयन् वनिताः सर्वाः सर्वाश्च मदविह्वलाः |
सिंहान् व्याघ्रान् स्तरक्षूंश्च भूतप्रेतपिशाचकान् || १३७ ||
वशीकुर्वन् विचरति वायुवेगोद्यतस्ततः |
बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् || १३८ ||
यो यजेत् परया भक्त्या यश्च बाणोपमाकृतिः |
कामेश्वरीं तु कामाख्यां पूजयेत् तु यथेच्छया || १३९ ||
दाक्षिण्याद् वामभावाद् वा सर्वथा सिद्धिमाप्नुयात् |
महामायां शारदां च शैलपुत्रीं तथैव च || १४० ||
यथा तथा प्रकारेण दाक्षिण्यादेव पूजयेत् |
यो दाक्षिण्यं विना भावं महामायां समर्चति || १४१ ||
स पापः स्वर्गलोकेभ्यश्च्युतो भवति रोगधृक् |
अन्यास्तु शिवदूत्याद्या देव्यो याः पूर्वमीरिताः || १४२ ||
तास्तु वां पान्तु दाक्षिण्यात् पूजितव्यास्तु साधकैः |
किन्तु यः पूजको वामः सोऽन्यासां परिवर्जितः || १४३ ||
सर्वासां पूजकः स्यात् तु दक्षिणस्तेन उत्तमः |
अथ त्रिपुरभैरव्या न्यासं च शृणु भैरव || १४४ ||
येन वै न्यासमात्रेण देववज्जायते नरः |
भैरवीतन्त्रमन्त्रस्य ऋषिर्दक्षिण उच्यते || १४५ ||
छन्दः पंक्तिः समाख्याता देवी त्रिपुरभैरवी |
कामार्थयोः साधने च विनियोगः प्रकीर्तितः || १४६ ||
हकारं विन्यसेन्नाभौ सकारं वस्तितो न्यसेत् |
वकारं शेफे विन्यस्य एकारं च गुदे तथा || १४७ ||
पुनरूर्वोस्तथैवाद्यं जानुयुग्मे द्वितीयकम् |
तृतीयं जङ्घयोर्न्यस्य चतुर्थ पादयोर्न्यसेत् || १४८ ||
त्रिविधं विन्यसेद् देवं नाभ्यादेः पादसङ्गतम् |
द्वितीयस्य तु बीजस्य आद्यं ह्यद्येव विन्यसेत् || १४९ ||
वामे स्तने द्वितीयं तु तृतीयं दक्षिण स्तने |
चतुर्थमुदरे न्यस्य पंचमं पार्श्वयोर्न्यसेत् || १५० ||
षष्ठं नाभौ परिन्यस्य न्यसेचापि त्रिधा त्रिधा |
तृतीयस्य तु बीजस्य मूर्ध्नि चाद्यं तु विन्यसेत् || १५१ ||
द्वितीयं न्यस्य केशान्ते तृतीयं वदने न्यसेत् |
चतुर्थं हृदये न्यस्य यथा स्यात् तु त्रिधा त्रिधा || १५२ ||
आद्याद्यं दक्षिणाङ्गुष्ठे द्वितीयं तर्जनीं पुनः |
तृतीयं च मध्यमायामनामायां चतुर्थकम् || १५३ ||
द्वितीयाद्यं कनिष्ठायां वामाङ्गुष्ठे द्वितीयकम् |
तृतीयं वामतर्जन्यां चतुर्थं मध्यमातनौ || १५४ ||
अनामायां पंचमं तु षष्ठं शेषे तु विन्यसेत् |
एवं त्रिधा तु विन्यस्य द्वितीयमथ बीजकम् || १५५ ||
उभयोर्हस्तयोः कृत्वा अङ्गुष्ठाद्यं युगं युगम् |
तृतीयं बीजवर्णांस्तु विन्यसेत् क्रमतो बुधः || १५६ ||
पिण्डितं सर्वबीजं तु विन्यसेत् तु कनिष्ठयोः |
आद्य तु तलयोर्न्यस्य पृष्ठयोश्च द्वितीयकम् || १५७ ||
तालत्रयं ततो दत्त्वा तृतीयेन तु वेष्टनम् |
कर्णयोश्चिबुके गण्डे मुखे दृङासयोस्तथा || १५८ ||
स्कन्धयोश्च कफोणौ च जठरे शिश्नमूर्धनि |
पादयोः पार्श्वयोश्चैव हृदये स्तनयुग्मके || १५९ ||
कण्ठदेशे च न्यस्तव्या मन्त्रवर्णक्रमात् पुनः |
लिङ्गे रत्यै नम इति वाग्भवाद्येन विन्यसेत् || १६० ||
ओं क्लीं प्रीत्यै नम इति हृदये विन्यसेत् ततः |
मनोभवायेति ततो भ्रुवोर्मध्ये तृतीयकम् || १६१ ||
विन्यसेत् त्रिपुराबीजं सद्यो देवत्वसिद्धये |
ओं ईं ईशानरूपाय ततो मनोभवाय वै || १६२ ||
नम इत्यन्ततः प्रोक्तो मूर्ध्नीशानं न्यसेत् पुनः |
वक्त्रे तत्पुरुषं चापि बीजेन मकरध्वजम् || १६३ ||
हृदये घोरकन्दर्पमाद्यबीजेन वै न्यसेत् |
शिश्ने वा वामदेवं तु मन्मथं चापि विन्यसेत् || १६४ ||
सद्योजातं पादद्वये कामदेवं च विन्यसेत् |
ओकारं च हकारं च रेफमेकत्र सन्धितम् || १६५ ||
प्रान्तस्वरं वाग्भवाद्यं स्वरैर्ह्रस्वैस्तु पञ्चभिः |
एभिस्तु पञ्चभिर्मन्त्रैरीशनादीनि विन्यसेत् || १६६ ||
वक्त्राणि पूर्वमुक्तानि स्वमुखोर्ध्वे तु पूर्वतः |
दक्षिणोत्तरयोः पश्चात् पश्चिमे चापि विन्यसेत् || १६७ ||
हृदयादिषडङ्गानि दीर्घैराद्यस्वरैः पुनः |
न्यसेत् ततः पञ्चबाणान् मूर्धादिष्वथ विन्यसेत् || १६८ ||
ओं ह्रीं क्लीं सौं द्रावणाय न्यसेन्मूर्ध्नि ततः पुनः |
ओं ह्रीं क्षोभणबाणाय पद्भ्यां नम इतीरयेत् || १६९ ||
ओं क्लीं क्लीं ह्रीं समाप्यन्तु षट्कारान्तार्धचन्द्रकैः |
वक्त्रे वशीकृतं लिङ्गे सम्मोहनमथो न्यसेत् || १७० ||
आकर्षणं तथा बाणं हृदि मन्त्रैः क्रमान्न्यसेत् |
वाग्भवाद्यन्तकारान्तो वषट्कारसमन्वितः || १७१ ||
त्रिःशेषस्वर एवात्र चन्द्रार्धो बिन्दुसंयुतः |
एभिस्तु पञ्चभिर्मन्त्रैरष्टशक्तीः क्रादिमाः || १७२ ||
एतेषु चाष्टस्थानेषु विन्यसेन्मन्त्रवित् पुनः |
सुभगां च भगां देवीं तृतीयां भगरूपिणीम् || १७३ ||
भगमालां चतुर्थीं तु अनङ्गकुसुमां ततः |
अनङ्गमेखलां पश्चादनङ्गमदनां तथा || १७४ ||
अष्टमीं च तथा देवीं मदविभ्रममन्थराम् |
रूपतो ध्यान्तश्चैता यथा त्रिपुरभैरवी || १७५ ||
ललाटभ्रूमध्यभागमुखकर्णातकण्ठके |
हृन्नाभिलिंगेष्वेवात्र न्यस्तव्या अष्टशक्तयः || १७६ ||
शिरोललाटभ्रूयुग्मकर्णनेत्रद्वयेषु च |
गण्डयोरथ नासायां दन्तवीथ्या मुखे तथा || १७७ ||
चतुर्दशपदेष्वेषु न्यसेच्चतुर्दशस्वरान् |
चिबुके त्वथ ग्रीवायां कण्ठेदेशे तु पार्श्वयोः || १७८ ||
स्तनयोः कक्षयोश्चापि कफोण्योर्हस्तयोस्तथा |
तत् पृष्ठयोस्तथा नाभौ लिङ्गे चोरुद्वये तथा || १७९ ||
अष्ठीवतोर्जङ्घयोस्तु स्फिचोस्तु पदमूलयोः |
चरणाङ्गुष्ठयोः कादिमात्रान् वर्णास्तु विन्यसेत् || १८० ||
मेखलायां कण्ठदेशे बाहुभूषणभागतः |
आरे स्रजि कुण्डले च केशबन्धे तथैव च || १८१ ||
चूडामणौ च न्यस्तव्या यकाराद्याः क्रमात्पुनः |
मन्त्राक्षराणि त्रीण्येव सन्धितानि पुनस्तथा || १८२ ||
प्रातिलोम्येन विन्यस्य मत्रैमूर्ध्नि त्रिधा त्रिधा |
अमृतां योगिनीं विश्वयोगिनीं चाक्षरक्रमात् || १८३ ||
ततो बीजत्र्यक्षराणि मूर्ध्नि बाहौ तथा हृदि |
विन्यस्य पूर्ववत् पूजामारभेन्मन्त्रविद् बुधः || १८४ ||
पूर्ववत् पूजयेद् देवीं पीठदेवविवर्जिताम् |
विशषतो ह्यष्टशक्तीः क्राम्त् तु सुवभगादिकाः || १८५ ||
मण्डलस्याष्टदिग्भागे पूर्वादौ परिचिन्तयेत् |
त्रिकोणाग्रेऽमृताद्यास्तु सम्पूज्यास्तु त्रिनोनयः || १८६ ||
मध्येऽष्टभूषणान्येव पूजयेत् तु ततः पुनः |
ईशानादीनि वक्त्राणि मम भैरव मध्यतः || १८७ ||
पूजयेत् तु तथा तत्र मनोभवमुखानपि |
अन्यच्च पूजने तत्र क्रमः पूर्वोदितश्च यः || १८८ ||
स एव सततं ग्राह्यः त्रिपुरापरिपूजने |
निर्माल्यधारिणी देवी चैतस्याः शृणु भैरवी || १८९ ||
विसर्जनं चोत्तरस्यां त्यक्त्वा निर्माल्यमाचरेत् |
त्रिमूर्ति पूजयेत् तां तु देवीं त्रिपुरभैरवीम् || १९० ||
न जपेत् त्रिंशता न्यूनं साधकस्तु कदाचन |
अङ्गुष्ठमध्यमानामाङ्गुलीभिस्तिसृभिः पुनः |
सदा पुष्पादिकं दद्यान्मालां तु त्रिगुणां चरेत् || १९१ ||
चर्मासनमधिष्ठाय पश्चात् कृत्वा पदद्वयम् || १९२ ||
पुजयेन्निर्जने देशे साधकोऽनन्यमानसः |
आसादयेत् तु पुष्पादि नैवेद्यादि च यद् भवेत् |
तद् वामहस्तमुख्येन सततं साधको बुधः || १९३ ||
त्रिच्छिद्रा त्रिपुरा प्रोक्ता न सम्यक्पूजिता यदि || १९४ ||
शरीरे निन्दितो व्याधिर्जायतेऽवश्यमेव हि |
अवश्याः पुत्रदाराश्च भृत्याद्याश्च भवन्ति हि || १९५ ||
अस्त्राघातो भवेत् स्वस्य प्राणत्यागो न संशयः |
त्रिच्छिद्रदायिनी चैवमन्यथा पूजिता यदि || १९६ ||
इतः प्रकारां सततं सम्यग् वेताल भैरव |
एषा च त्रिपुरादेवी याश्चान्याः पूर्वभाषिताः || १९७ ||
सर्वास्तु माया भैरव्या योगनिद्रा जगत्प्रसूः |
तस्याः प्रपंचरूपैस्तु बहुभिः सैव क्रीडति || १९८ ||
महामाया मूलभूता ततस्तु शारदा पुरा |
उमा ततः शैलपुत्री मत्प्रियायास्ततस्त्विमाः || १९९ ||
उग्रचण्डा प्रचण्डाद्यास्त्रिषुराद्यास्तथैव च |
तासां चापि सदैवाहं महाभैरवरूपधृक् || २०० ||
नायकः सुतरां ताभिर्नित्यं नित्यं वसेद् बुधः |
मम भैरवरूपस्य मन्त्रः पूर्वं मयोदितः || २०१ ||
रूपं चोक्तं पूजनेषु त्रिपुरायाः क्रमः स्मृतः |
महाभैरवं विद्महे कालरुद्राय धीमहि || २०२ ||
तन्नः कामो भैरवस्तु क्लेदिन् नित्यं प्रचोदयात् |
एषा भैरवरूपस्य गायत्री मे प्रतिष्ठिता || २०३ ||
यथेष्ठमांसमद्यादि भोजनार्थं मया धृतः |
महाभैरवकायोऽयं तथा स्त्रीरतिसङ्गमे || २०४ ||
अयं तु वाम्यभावेन पूज्यो मद्यादिभिः सदा |
वामः कायो ब्रह्मणोऽपि मांसमद्यादिभुक्तये || २०५ ||
कृतो महामोहनामा चार्वाकादिप्रवर्तकः |
विष्णोर्वामात्मिका मूर्तिर्नरसिंहाह्वया भवेत् || २०६ ||
सा तु दाक्षिण्यवामाभ्यां पूजनीया सदा बुधैः |
तथैव बालगोपालमूर्तिर्जरायुवेष्टिता || २०७ ||
मद्यमांसाशनो भोगी लोलुपः स्त्रीषु सर्वदा |
वह्व्यस्तु चण्डिकादेव्याः वामिका मूर्तयः स्मृताः || २०८ ||
लक्ष्म्यास्तु वामिकामूर्तिरुक्ता दहनभैरवी |
याग्निदाहं पुरग्राममन्दिरेष्वकरोदियम् ||
अपूजिता महालक्ष्मीर्देहल्यां तां तु पूजयेत् || २०९ ||
वाग्भैरवी सरस्वत्या वामिकामूर्तिरीरिता || २१० ||
तस्या मन्त्रं पुरा प्रोक्तं शुक्लवर्णा तु सा स्मृता |
मध्यायास्त्रिपुरायास्तु रूपं ध्यानमिहोच्यते || २११ ||
पूजाक्रमस्तथैवोक्तः सर्वत्रैव तु भैरव |
मार्तण्डभैरवो नाम मूर्तिः सूर्यस्य कीर्तिता || २१२ ||
गणेशस्याग्निवेतालः कथितो वामनामकः |
एते वाम्येन भावेन पूजनीया विशेषतः || २१३ ||
त्रिधाद्यस्तु यथापूर्वं नमयैर्रलवैस्तथा |
वान्तैर्द्विरेफैः सर्वत्र यथा कृत्वा तथा तथा || २१४ ||
अनुस्वारविसर्गाभ्यां प्राक्शेषौ परिकीर्तितौ |
मध्ये तु केवलाः पूर्वं सानुस्वारविसृष्टिभिः || २१५ ||
पश्चाद् द्वित्रिक्रमाद् यस्तु वर्णैरेकेन चैव हि |
व्यस्तैः समस्तैरपि च दकारादिषु संयुतैः || २१६ ||
आद्यायास्त्रिपुरायास्तु मन्त्रवद् योजितैस्तथा |
तथा त्रिपुरभैरव्या मन्त्रवच्चाक्षरैरपि || २१७ ||
त्रिश्चतुर्दशभिः कृत्वा डादींस्त्रींस्तु विशारयेत् |
द्वितीयं द्विगुणं कृत्वा शेषेऽत्रादौ च योजयेत् || २१८ ||
विंशतिस्तु सहस्राणि शेषे चापि त्रयोदश |
आद्यमाद्यं ततः प्रोक्तं वाग्भवाद्यं तृतीयकम् || २१९ ||
एवं च परमप्येतन्मन्त्राणां च चतुष्टयम् |
एतज्ज्ञात्वा नरः कामानखिलान् प्राप्य सङ्गतः || २२० ||
मृते देवीपुरं याति क्रमादेव तु भैरव |
यः सकृत् तु जपेदेतत् सकलं मन्त्रसञ्चयम् || २२१ ||
प्रथमं कामतो न्यस्य साधकस्तु त्रिभिर्दिनैः |
चिन्तयन्मनसा देवीं सम्यक् त्रिपुरभैरवीम् || २२२ ||
स कामानखिलान् प्राप्य स्वरूपे मदनोपमः |
धार्मिको नृपतिर्भूयाद् ब्राह्मणो द्विजराड् भवेत् || २२३ ||
वाधितशरीरस्तु पिशाचाद्यैः सदैव हि |
नीरोगश्च चिआयुश्च वलवानपि जायते || २२४ ||
एवं त्रिपुरभैरव्या मया प्रोक्तस्त्वयं क्रमः |
वैष्णव्यास्तु महादेव्याः सहस्राणि तु षोडश || २२५ ||
शृणु भैरव मन्त्राणि शिवैकाग्रमनाः पुनः |
अष्टोत्तरसहस्रं तु चतुःषष्टिस्तथा त्रयः || २२६ ||
मन्त्राः प्रोक्ता महादेव्या मूर्तिभेदेन ताः पुनः |
अनुस्वारविसर्गाभ्यां द्विगुणास्ते पुनः समाः || २२७ ||
कादिव्यञ्जनसंयोगादूर्ध्वाधो व्यस्तभावतः |
द्वाभ्यां त्रिभिश्च सततमुद्धरेन्मन्त्रवित् पुनः || २२८ ||
अष्टावष्टौ ततः कृत्वा समस्तव्यस्तसंयुतैः |
विस्वरैः सस्वरैश्चापि सानुस्वारविसर्गकैः || २२९ ||
केवलैरपि तत्रैव द्विव्यस्तैरन्तरैस्तथा |
एवमष्टोत्तरं यावत् संयोगयोगभावतः || २३० ||
देव्यास्तु षट्सहस्राणि सहस्राणि तथा दश |
मन्त्रास्तु संख्यया ख्याताः क्रमाद् वेताल भैरव || २३१ ||
समस्तव्यस्तरूपेण वैष्णव्या ये मयोदिताः |
आञ् ज्ञात्वा मानवो याति ममैव सदनं प्रति || २३२ ||
अष्टम्यां च नवम्यां च सहस्राणि तु षोडश |
यो जपेन्मन्त्रबीजानि सकृदेव तु भैरव || २३३ ||
ध्यायंस्तु वैष्णवीं मूर्तिं तदेकाग्रमनाः शृणु |
नरराजो भवेद् भूमौ पण्डितश्चातिहर्षितः |
चिरायुः सुखभोगी स्यादुद्रिक्तो बलवाहनैः || २३४ ||
तान्येव चाष्टधा जप्त्वा सार्वभौमो नृपो भवेत् |
गणाध्यक्षो मृते स स्यात् ततो मुक्तिमवाप्नुयात् || २३५ ||
इति सकलगुणौघैरस्तदोषस्तु नित्यं
भवति कलुषहन्ता श्रीविवृद्ध्यै सुमन्त्रः |
सततमखिलवेत्ता यो भवेदेतयोस्तु
स च भवति जितारी रोगशोकप्रमुक्तः || २३६ ||
इति श्रीकालिकापुराणे त्रिपुरभैरवीबालात्रिधाकल्पे चतुःसप्ततितमोऽध्यायः
|| ७४ ||
Kapitel 75
पञ्चसप्ततितमोऽध्यायः
श्रीभगवानुवाच -
निष्पल्लवोद्वादशभिर्लक्षैर्मन्त्रजपिस्तथा |
पुरश्चरेत् साधक्स्तु काममिष्टाप्तिहेतवे || १ ||
जातीपुष्पं च बकुलं मालतीपुष्पमेव च |
नन्द्यावर्त पाटलं च सितपद्ममतः परम् || २ ||
आज्यमन्नं पायसं च दधिक्षीरं तथा मधु |
लाजाश्चापि सकर्पूरा अमी एव चतुर्दश || ३ ||
पुरश्चरणसम्भूता त्रिपुरायाः प्रकीर्तिताः |
द्वादशष्वेव लक्षेषु जप्तेष्वपि च साधकः || ४ ||
एतानि सर्वद्रव्याणि जुहुयादनलोज्ज्वले |
लक्षत्रयं तु यो जप्त्वा पुरश्चरणमाचरेत् || ५ ||
स तु साज्यं सकर्पूरं जुहुयात् तु चतुष्टयम् |
दशभिर्नवलक्षेषु द्रव्यैर्मन्त्री पुरश्चरेत् || ६ ||
जप्तेषु चाष्टभिः षट्सु सर्वैः सर्वत्र चाचरेत् |
हस्तमात्रं तु कुण्डं स्यात् षट्कोणं त्र्यङ्गुलाधिकम् || ७ ||
त्रिपुरायास्तु मध्याया बालायाश्च सदैव हि |
तथा त्रिपुरभैरव्याः कुण्डमानं प्रकीर्तितम् || ८ ||
चतुष्कोणं भवेत् कुण्डं हस्तमात्रद्वयेषु च |
अष्टाङ्गुलाधिकं प्रोक्तं वैष्णव्यास्तु पुरश्चरे || ९ ||
त्रिकोणं हस्तमात्रं तु कामाख्यायास्तु कुण्डकम् |
एवं सर्वप्रपञ्चानामासामपि तथा तथा || १० ||
संस्कुर्यादनलं वृद्धं विधिवद् वैष्णवीकृतौ |
कामाख्यायास्तथा कुर्याज्ज्योतिष्टोमादि मत्सुत || ११ ||
आदौ त्रिपुरभैरव्याश्चतुर्भिर्दशभिस्तथा |
जुहुयादनले वृद्धे आहुतीश्च चतुर्दश || १२ ||
पश्चात् तु मूलमन्त्रेण अष्टोत्तरशतत्रयम् |
होमं यन्पन् वा तेन शतानि नव वाऽथवा || १३ ||
जपान्ते तु बलिं दद्याद् वैष्णव्या बलिदानतः |
रत्नकर्पूरकनकान् यत्रैव गुरुदक्षिणाः || १४ ||
अलाभे दधिपुष्पाज्यलाजैर्देव्याः पुरश्चरेत् |
लाभे चतुर्दशद्रव्यैर्जुहुयाद् विधिपूर्वकम् || १५ ||
अस्या यन्त्रं रहस्येन शृणु वेतालभैरव |
यत्कृत्वैवाखिलान् कामांल्लभते नरसत्तमः || १६ ||
षट्कोणं मण्डलं कृत्वा तत् तु कोणत्रये लिखेत् |
मन्त्रं त्रिपुरभैरव्यास्त्रिवर्णं तु ततस्त्वधः || १७ ||
आद्यायास्त्रिपुरायास्तु त्रिबीजानि लिखेदनु |
मध्यबीजत्रयं मध्ये लिखित्वा पीठयन्त्रके || १८ ||
सर्वैस्तु आतृकावर्णैस्त्रिधा संवेष्टयेदनु |
लाक्स्.आरसैर्लिखित्वा तु त्रिलोहैर्वेष्टयेत् ततः || १९ ||
तद् धार्यं मूर्ध्नि सततं तेन सर्वजयी भवेत् |
रूपवान् बलवान् वाग्मो धनरत्नयुतः सदा || २० ||
दीर्घायुः कामभोगी च सुप्रजः स च जायते |
मध्ये बीजं लिखित्वैकं मूर्ध्नि चाधस्तथापरम् || २१ ||
आद्यायास्त्रिपुरायास्तु भैरव्यास्तद्वदेव हि |
इमानि षट्कमन्त्राणि क्रमाद् वेतालभैरव || २२ ||
पूर्ववत् संल्लिखित्वैकं संवेष्ट्याथ त्रिलोहकैः |
वामे बाहौ दक्षिणे च हृदि कण्ठे करे तथा || २३ ||
मूर्ध्नि धार्याणि क्रमतः फलमेतच्च तद्भवम् |
सम्पत्सौभाग्यसंस्तम्भ-वशीकरणमोहनम् || २४ ||
कवित्वमथ सर्वत्र भवेदेतन्न संशयः |
यन्त्रमन्त्राणि तन्त्राणि त्रैपुराणि तु भैरव || २५ ||
स पञ्च षट् सहस्राणि मन्त्रौघैस्त्रिगुणीकृतैः |
तज्ज्ञात्वा पूजको धीमान् परत्रेह न सीदति || २६ ||
मन्त्रौघैस्तन्त्रमन्त्रैरविचलितपदं त्रैपुरं यत् प्रधानं
यद्विप्राद्यैरदेयं विगतभयपदं यत्कवित्वप्रदातृ |
त्रैवर्गीयं त्रिरूपं त्रिदिवमथ सुरा यत्र सन्ति त्रयोऽपि
तज्ज्ञानौघैः सुभूतं सकलशुभफलं यन्महस्त्रैपुराख्यम् || २७ ||
कवचं त्रिपुरायास्तु शृणु वेताल भैरव |
यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने || २८ ||
उपचाराः पुरा प्रोक्ता येन एवात्र पूजने |
प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने || २९ ||
कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः |
वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन || ३० ||
क्रव्याद् भयं न लभते तथा तोयपरिप्लवे |
कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् || ३१ ||
ओं त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते |
छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुर भैरवी || ३२ ||
धर्मार्थकाममोक्षाणां विनियोगस्तु साधने |
यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत || ३३ ||
नामतो वाग्भवादीनि कीर्तितानि मया पुरा |
तथा त्रिपुरभैरव्या बीजानामपि नामतः || ३४ ||
वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः || ३५ ||
अवतु सकलशीर्षं वाग्भवे वाचमुग्रां
निखिलरचितकामान् कामराजोऽवतान्मे |
सकलकरणवर्गमीश्वरः पातु नित्यं
तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः || ३६ ||
कुटैस्तु पञ्चभिरिदं गदितं हि यन्त्रम्
मन्त्रं ततोऽनु सततं मम तेज उग्रम् |
तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम्
|| ३७ ||
आधारे वाग्भवः पातु कामराजस्तथा हृदि || ३८ ||
भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः || ३९ ||
विततकुलकलाज्ञा कामिनी भैरवी या
त्रिपुरपुरदहाख्या सर्वलोकस्य माता |
वितरतु मम नित्यं नाभिपद्मे सकुक्षौ
गणपतिवनिता मां रोगहानिं सुखं च || ४० ||
योगैर्जगन्ति परिमोहयतीव नित्यं
जागर्ति या त्रिपुरभैरवभामिनीति |
सायं च भावकलिता मम पञ्चभागे
नासाक्षिकर्णरसनात्वचि पातु नित्यम् || ४१ ||
आद्या तु त्रिपुरेयं या मध्या या कामदायिनी || ४२ ||
त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी || ४३ ||
उदयदिशि सदा मां पातु बाला तु माता
यमदिशि मम मध्याभद्रमुग्रं विदध्यात् |
वरुणपवनकाष्ठामध्यतो भैरवी मा-
मवतु सकलरक्षां कुर्वती सुन्दरी मे || ४४ ||
अहामाया महायोनिर्विश्वयोनिः सदैव तु |
सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या || ४५ ||
ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा |
नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी || ४६ ||
भ्रुवोर्मध्ये तथाग्नेययां दिशि मां त्रिपुरा च या |
वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी || ४७ ||
वदने दक्षिणस्यां च दिशि मां भगसर्पिणी |
त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु || ४८ ||
कर्णयोः पश्चिमायां च दिशि मां भगमालिनी |
अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु || ४९ ||
अनङ्गकुसुमाकण्ठे प्रतीच्यां दिशि सुन्दरी |
त्रिपुराभैरवई माता नित्यं पातु महेश्वरी || ५० ||
हृदि मारुतकाष्ठायां देवी चानङ्गमेखला |
नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा || ५१ ||
अनङ्गमदना देवी पातु त्रिपुरभैरवी |
ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा || ५२ ||
वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी |
गुदमेढान्तरे पातु रतिस्त्रिपुरभैरवी || ५३ ||
हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी |
भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः || ५४ ||
रावणी मां ग्रहत् पातु वाणी मां दुर्गमूर्धनि |
क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः || ५५ ||
वशीकरणवाणी मामग्नितः पातु राजतः |
आकर्षणाह्वया वाणी मां पातु सस्त्रघाततः || ५६ ||
मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा |
नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् || ५७ ||
माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु |
पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम || ५८ ||
वरः पातु सदा धाम्नि हामतेजो विवर्धयन् |
अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् || ५९ ||
ऊर्ध्वाधोभावभूतस्थितरकरणै रक्तकीर्णा सुचक्रा
कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला |
ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं
तथाधः सकलभयभूतो भोगभीरोस्तु विद्या || ६० ||
अः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः |
रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः || ६१ ||
रकारो मम नाडीषु शिरः सौः पातु सर्वदा |
शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः || ६२ ||
विद्या विद्याभाविनी कामरूपा
स्थूला सूक्ष्मा मायया यादिमाया |
ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् || ६३ ||
आद्या मध्या भाविनी नीतियुक्ता
सम्यग्ज्ञानज्ञेयरूपापरा या |
आदावन्ते मध्यभागे च तारा
पायाद् देवी त्रैपुरी भैरवी या || ६४ ||
यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः |
ब्रह्मा रुद्रश्च जानाति तत्वं नान्यो नमोऽस्तु तान् || ६५ ||
त्वं ब्रह्माणी भवानी विश्वभवितुर्लक्ष्मीरतिर्योगिनी |
त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् |
वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा
त्वं देवी त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु || ६६ ||
इदं तु कवचं देव्या यो जानाति स मन्त्रवित् |
नाधयो व्याधयस्तस्त न भयं च सदा क्वचित् || ६७ ||
इति ते परमं गुह्यमाख्यातं कवचं परम् |
तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि || ६८ ||
इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् |
त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् || ६९ ||
यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् |
लिखितं कवचं यस्तु कण्ठे गह्वाति मन्त्रवित् || ७० ||
न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव |
संग्रामे शास्त्रवादे च विजयस्तस्य जायते || ७१ ||
इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः |
स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि || ७२ ||
बीजमुच्चारयेत् स्वस्थो गतवाग् दोषनिश्चितः |
संयोगबोधः प्रत्येकभेद-श्रवणगोचरः || ७३ ||
यथैव जायते अम्यग्यज्ञादिदोषवर्जितः |
यस्योच्चारणरणकृत्ये तु संयोगो बोधदूषणम् || ७४ ||
प्रत्येकभिन्नताबोधः स कुष्ठी जायते नरः |
न्यासानां प्रचुरत्वे तु फलानामपि भूरिता || ७५ ||
उक्तन्यासो न हि त्याज्यो ह्यधिकं तु समाचरेत् |
मयोक्तन्यासमज्ञात्वा न कृत्वा वा प्रमादतः || ७६ ||
यः कुर्यात् पूजनं देव्या आप्नुयात् स महापदम् |
मन्त्राक्षरस्य विन्यासः सर्वमन्त्रेषु कीर्तितः || ७७ ||
वैष्णवे चाथवा रौद्रे महाभागेऽथवा पुनः |
मन्त्रे कलेवरगते महामायाप्रपूजने || ७८ ||
मन्त्रन्यासे न वा कुर्यात् वान्यत्र वाचरेत् |
अङ्गरागेषु सिन्दूरं पानेषु मदिरा तथा || ७९ ||
वस्त्रं रक्तं तु कौशेयं त्रिपुराप्रीतिदं मतम् || त्रयो दीपाः प्रदातव्याः पञ्च वा सप्त भैरव || ८० ||
इतो न्यूनान् न पदद्यात् त्रिपुरायै कदाचन || मल्लिकामालतीकुन्दं वको द्रोणः सिताम्बुजम् || ८१ ||
शुक्लपुष्पाणि त्रिपुराप्रीतिदानि तु भैरव |
रक्ताम्बुजं जवा रक्ता करवीरोऽथ कोमलः || ८२ ||
रक्तं त्रिपुरभैरव्याः प्रीतिदा स्नेहकाञ्चनैः |
इदं ते कथितं पुत्र संक्षेपादेव भैरव || ८३ ||
अवाप्य सिद्धिं परमां स्वयं विस्तारयिष्यसि |
आराध्य त्वं महामायामवाप्य च गणेशताम् || ८४ ||
कल्पमन्त्रौघमन्त्राणां भविष्यसि वितानक |
अस्यास्त्रिपुरभैरव्याः शुक्लरूपाणि यानि तु || ८५ ||
तानि सारस्वताख्यानि मन्त्राः सम्यगुदीरिताः |
सरस्वती तु या देवी वीणापुस्तकधारिणी || ८६ ||
स्रक् कमण्डलुहस्ता च दक्षिणे शुक्लपर्णिका |
महाचलस्य पृष्ठस्था
सितपद्मोपरिस्थिता || ८७ ||
शुक्लवर्णा शुक्लवस्त्रा शुक्लाभरणभूषिता |
तस्यास्तु वाग्भवाद्याभ्यां नेत्रबीजं द्वितीयकम् || ८८ ||
कृत्वान्ते विनियोज्यैव मन्त्रं प्राक्प्रतिपादितम् |
वरदाभयहस्ता च मालापुस्तकधारिणी || ८९ ||
शुक्लपद्मासनगता सा परा वाग् सरस्वती |
बालाबीजाद्यक्षरं तु द्विरुक्तं चार्धचन्द्रकम् || ९० ||
मन्त्रमस्याः पुरा प्रोक्तं तन्त्रं सामान्यमीरितम् |
एषा तु या रक्तवर्णा मुण्डमालाविभूषिता || ९१ ||
तस्याः प्रोक्तः पुरा मन्त्रः सा तु वृद्धा सरस्वती |
षष्ठमन्त्रस्तथैतस्यास्त्रयोदशनिरूपणे || ९२ ||
एषा कवित्वशास्त्रौघ-तत्त्ववादविनिश्चये |
सुखसम्प्त्करा प्रोक्ता नित्यमेव तु भैरव || ९३ ||
अस्या व्यस्तसमस्तैश्च शुक्रक्तादिभेदतः |
चतुःषष्टिमूर्तयश्च त्रैपुरादुत वाग्भवम् || ९४ ||
महामाया योगनिद्रा मूलभूता जगत्प्रसूः |
जगन्माता जगद्धात्री विद्याविद्यापरात्मिका || ९५ ||
तस्या एव महाभाग त्रिपुराद्या विभूतयः |
प्रस्तुताः कथिता नित्यं ताः स्वयंगत एव हि || ९६ ||
इति ते कथितं पुत्र महादेव्या मनोहरम् |
रहस्यं वामदाक्षिण्यं मन्त्रसिद्धिं शृणुष्व मे || ९७ ||
इति श्रीकालिकापुराणे त्रिपुराकवचं नाम पञ्चसप्ततितमोऽध्यायः || ७५ ||
Kapitel 76
षट्सप्ततितमोऽध्यायः
श्रीभगवानुवाच -
मन्त्रशुद्धिमवेक्ष्यैव गृह्णीयान्मन्त्रमुत्तमम् || १ ||
तत्र सिद्धं सुसिद्धं च साध्यं शात्रवमेव च |
मन्त्रं चतुर्विधं प्रोक्तं तद्विद्ध्यक्षरभेदतः || २ ||
वर्णक्रमः शाश्वतस्तु यो मया भाषितः पुरा |
तत्रादौ भैरव ज्ञात्वा पश्चाच्चक्रं शृणुष्व मे |
वर्णानां तु मुखादीनां वैष्णवीतन्त्रसंज्ञक || ३ ||
यः प्रोक्तोऽभून्महामन्त्रस्तस्यासन्नक्षराणि तु |
मूलभूतानि तान्येव ततोऽन्यानपि वर्धयेत् || ४ ||
अकारश्च ककारश्च चटकारौ तथैव च |
तपकारौ यकारश्च वर्गाद्याः परिकीर्तिताः || ५ ||
आ इ ई उ ऊ ऋ ॠ ऌ ॡ एतेऽदीर्घदीर्घकाः |
ऐ ओ औ विसर्गश्च बिन्द्वादिर्याज्ञिकस्तथा || ६ ||
ह्वनेरन्तरजाश्चेति कीर्तितास्तु स्वरा अमी |
खकराश्च गकाराश्च घ ङो वर्गः प्रकीर्तितः || ७ ||
यञ्जनकारादिछजौ टकारः परमस्मृतः |
उकराश्च डकारश्च भैरवशब्दादिरेव च || ८ ||
णकारान्तस्तृतीयोऽयं वर्गोष्ठादिः प्रकीर्तितः |
थकारश्च दकारश्व धर्मशब्दादिरेव च || ९ ||
नवशब्दस्य चैवादिश्चतुर्थो वर्ग उच्यते |
फलशब्दस्य यश्चादिर्बहुशब्दादिरेव च || १० ||
भकारो मनःशब्दादि पञ्चमो वर्ग उच्यते |
यकारश्च रकारश्च लकारो वस्तथैव च || ११ ||
एभिश्चतुर्भिर्वर्गाऽयं षष्ठो भैरव उच्यते |
शषसा हः क्षकारश्च संयोगः परिवेदकः || १२ ||
पञ्चभिः शेषवर्गोऽयं सप्तमः परिकीर्तितः |
संयोगयोगसंलोमप्रतिलोमैरिमे सुत || १३ ||
वर्णाः स्युर्मन्त्रनामादौ वाङ्मात्रेऽपि च भैरव |
चतुर्वर्गप्रदा वर्णाः सुखदुःखकरास्तथा || १४ ||
रोगं च तेजसम्पूज्यपूजकाः परिकीर्तिताः |
अहंः विष्णुश्च ब्रह्मा च गायत्री ब्रह्ममातृकाः || १५ ||
अपरं ब्रह्मवर्णा ये परब्रह्मसुखप्रदम् |
अपरं ब्रह्मकुशलः परब्रह्माधिगच्छति || १६ ||
सिसृक्षुरीश्वरो वर्णाज्ज गन्ति स्वेच्छया पुनः |
ससर्ज मम वक्त्रे तां ब्रह्मवक्त्रे च वै न्यधात् || १७ ||
अहं तु सकलान् वर्णान् न्यस्य भैरव तन्त्रकम् |
अकार बहुलं पुत्र ज्ञानमार्गं विवर्धयन् || १८ ||
य इमे गदिता वर्णा मया वर्णविनिश्चये |
मन्त्रशुद्धिविवेकार्थं वर्णचक्रं ततः शृणु || १९ ||
शक्तिशम्भुस्वरूपिण्यो रेखे द्वे प्रथमं न्यसेत् |
तन्मध्यतः उनारेखे विष्णुलक्ष्मीतले तथा || २० ||
तयोस्तु रेखयोर्मध्ये द्वे रेखे समतो न्यसेत् |
तस्य चक्रस्य चारेषु रेखास्तु परिसंख्यया || २१ ||
चतस्रस्तु प्रदातव्याः स्वरमध्ये तु भैरव |
भिन्नानां च तथा वर्णाः सन्धयोऽष्टौ प्रकीर्तिताः || २२ ||
नेमयस्तु चतस्रोऽस्य सन्धिमध्येषु कीर्तिताः |
अष्टारसंयुतं चक्रं चतुर्नेमिसमन्वितम् || २३ ||
बहिर्वेष्टनसंयुक्तं वर्णचक्रं प्रकीर्तितम् |
मेषादीनां च राशीनामुदयास्तप्रतिज्ञया || २४ ||
इदमेव भवेच्चक्रं ज्ञानश्रीवृद्धि-कारकम् |
इदं चक्रं लिखित्वा तु समभूमावुदङ्मुखः || २५ ||
प्राङ्मुखो वा लिखेद् वर्णांच्छुचिरिष्टं नमन् गुरुम् |
प्रदक्षिणं लिखेत् तस्मिन् वर्णास्तेष्वेव तु क्रमात् || २६ ||
उरो नेमेवकारं तु रकारं चापि वै लिखेत् |
अकारं वर्जयेद् दीर्घमीकारं च स्वरेषु वै || २७ ||
अकरादिक्षकारान्त झ ट ञ ण वर्जितम् |
प्रदक्षिणक्रमादेव लिखित्वा वर्णसञ्चयम् || २८ ||
स्बनामाद्यक्षरं गृह्य कुर्यात् तु गणनक्रमम् |
मन्त्रस्याद्यक्षरं यावत् सिद्धाद्यं तत्र योजयेत् || २९ ||
नवैकपञ्चके सिद्धः साध्यः षड्युग्मपङ्किषु |
त्रिसप्तैकादशेष्वेव सुसिद्धः परिकीर्तितः || ३० ||
द्वादशाष्टचतुर्थेषु हात्रवः परिकीर्तितः |
सिद्धेनैवाचिरात् सिद्धिः साध्यः कालेन सिध्यति || ३१ ||
क्रामान्नाशयते शत्रुः सुसिद्धः सिद्धिदोऽचिरात् |
यो यो वर्णक्रमः प्रोक्तो मन्त्रे दक्षिणगोचरे || ३२ ||
वाम्याराधनमन्त्रेषु क्रमं शृण्विह भैरव |
ऋऌ द्वयं ङ ञ ण ना वर्ज्याश्च वर्णगोचरे || ३३ ||
लिखेद् वामक्रमेणैव तत्र वर्णास्तु मन्त्रवित् |
नृसिंहार्कवराहाणां प्रसादप्रणवस्य च || ३४ ||
एकाक्षरद्व्यक्षराणां न सिद्धादिविचिन्तनम् |
बीजेषु चापि सर्वेषु दीक्षार्थेषु च भैरव || ३५ ||
सिद्धादिचिन्ता नो कार्या ग्राह्यास्तु दश वश्यकम् |
सुसिद्धं कामदं ग्राह्यं साध्यसिद्धविचारणात् || ३६ ||
न ग्राह्यः शात्रवो धीरैर्गृहीत्वाप्नोति चापदम् |
यो यस्यैकाक्षरो मन्त्रस्तन्नाम्ना स निगद्यते || ३७ ||
सहितश्चन्द्रबिन्दुभ्यां तद्बीजमिति गद्यते |
तथा शक्रो सकारः स्यात् सार्धचन्द्रः सबिन्दुकः || ३८ ||
स एव शक्रबीजं स्यात् तथान्यत्रापि योजयेत् |
मन्त्रोद्धारेषु सर्वत्र परतः परतः पुरः || ३९ ||
पूर्वतोऽपि परे कार्यमनुक्तः पूर्वपक्षकः |
यदा षोडशसाहस्रं वैष्णव्या मन्त्रसञ्चयम् || ४० ||
चक्रे निरीक्ष्यते तत्र षोडशारं तु चक्रकम् |
विंशतिस्तु सहस्राणि त्रिपुराया यदीक्षते || ४१ ||
द्वात्रिंशारं तत्र चक्रं लेखनीयं सदा बुधैः |
इदमेव महाचक्रं षोडशारादिकं कृती || ४२ ||
कुर्यादधिकरेखाभिर्मन्त्रशुद्ध्यन्तरे सुत |
इयं ते कथिता पुत्र मन्त्रसिद्धिरभीष्टदा || ४३ ||
जानाति सम्यक् य इमां स जयी काममाप्नुयात् |
रहस्यं परमं पुत्र प्रयोगादिप्रकारतः || ४४ ||
वक्ष्यामि तत् समासेन शृणु वेताल भैरव |
दन्तः पक्षविडालस्य तत्त्वचा परिवेष्टितः || ४५ ||
निर्माल्येन तु वैष्णव्या तत् संवेष्ट्य गुणत्रयम् |
तत् तद् वा वामसूत्रस्य तत्तन्मन्त्रेण मन्त्रितम् || ४६ ||
गृहीत्वा दक्षिणे पाणौ मन्त्राणां शतमादितः |
सञ्चयेदथ वैष्णव्या अष्टम्यां नियतेन्द्रियः || ४७ ||
ततस्तु दक्षिणे बाहौ धार्यं यन्त्रोत्तमं बुधैः |
ततो द्वादशसिद्धिः स्याद्धर्ताचेन्नात्रितित्तिलीम् || ४८ ||
जयः संग्रामवादेषु शरीरस्याप्यरोगिता |
वशकृद्राजपुत्राणां राज्ञामपि च सन्ततम् || ४९ ||
भूतप्रेतपिशाचाश्च नो यान्ति नेत्रगोचरम् |
योषितां समदानां तु वशकृच्चिन्तनात् सकृत् || ५० ||
रुधिराणां श्लेष्मणा च धातूनां स्तम्भनं तथा |
तेजसां स्तम्भकं चैव चक्षुस्तेजःप्रदं तथा || ५१ ||
मूर्ध्नि पक्षविडालस्य हस्तं दत्त्वा शतत्रयम् |
वैष्णवीतन्त्रमन्त्रं तु जप्त्वा तं स्थापयेद् गृहे || ५२ ||
तं विडालं तु या पश्येन्मलिनी वनिता सुत |
नापुत्रा सा भवित्री तु कदाचिदपि भैरव || ५३ ||
तादृक् पक्षविडालस्तु यस्य तिष्ठति मन्दिरे |
मृतापत्यापि तद्गेहे जीवत्पुत्रा प्रजायते || ५४ ||
कोकिलो भृङ्गराजो वा चकोरो वा शुकोऽथवा |
वैष्णवीतन्त्रमन्त्रेण मन्त्रितो यत्र तिष्ठति || ५५ ||
विघ्नं न मन्दिरे तस्य भवितृ सुप्रजा भवेत् |
न सर्पास्तत्र गच्छन्ति गताः खादन्ति नो नरान् |
नारी न बन्धकी तस्य मन्दिरेऽपि प्रजायते || ५६ ||
पञ्चमूर्तेश्चण्डिकाया निर्माल्यानि च पञ्चमः || ५७ ||
तेषां वलीनां मांसेन स्थाल्यां पक्त्वा दिनत्रयम् |
अष्टम्यां तत्पुनर्देव्यै दत्त्वा तन्मन्त्रमन्त्रितैः || ५८ ||
तोयैरभ्युक्ष्य भुञ्जीयान्मनसा चिन्तयेच्छिवाम् |
तस्मिन् भुक्ते तु दीर्घायुर्जरा शोकविवर्जितः || ५९ ||
तेजस्वी शत्रुदमनः कविर्वाग्मी च जायते |
ललाटे मूर्ध्नि कण्ठे च बाह्वोः पाण्योस्तथा हृदि || ६० ||
वैष्णवीतन्त्रमन्त्रस्य यानि चाष्टाक्षराणि च |
लिखित्वा तानि चैतेषु स्थानेषु मन्त्रविद् बुधः || ६१ ||
कुङ्कुमं क्षीरमलयजातपङ्कः सुयावकैः |
अष्टम्यां संयतो भूत्वा नवम्यां प्रथमं नरः || ६२ ||
प्रतिष्ठाने न्यस्य करमष्टावष्टौ जपेद् बुधः |
आवर्तनेन मन्त्राणां ततोऽनु पूजयेच्छिवाम् || ६३ ||
ततस्तस्मिन् दिने देव्यै विजातीयं वलित्रयम् |
दत्त्वा सहस्रं मन्त्रस्य संख्यया जपमारभेत् || ६४ ||
जपान्ते तु हविर्भुक्त्वा संयतो रजनीं नयेत् |
एवं सकृत्कृते पुत्र रणे तस्य पराजयः || ६५ ||
कदाचिदपि नो भूयान्न च वादेषु शास्त्रतः |
इधिमेवं सकृत्कृत्वा रणकाले यथा तथा || ६६ ||
सदा लिखेत् क्षत्रियस्तु विजयाय रणेषु च |
अपरं तु रणाष्टाङ्गं गुह्यमेतत् प्रकीर्तितम् || ६७ ||
अनेनैव तु गुह्येन विजयी त्वं भविष्यसि |
इति नौ कथितं सर्वं गुह्याद् गुह्यतरं शुभम् || ६८ ||
सुखसम्पत्करं मन्त्रं यन्त्रतन्त्रसमन्वितम् |
यच्छ्रोतुं त्रिदशाः सर्वे नित्यं वाञ्छन्ति चामृतम् || ६९ ||
तदिदन्ते समाख्यातं पुत्र वेताल भैरव |
एतत् सर्वं नदो ज्ञात्वा तत्त्वतः पुत्र भैरव || ७० ||
स कामानखिलान् प्राप्य नित्यं कैवल्यमाप्नुयात् |
शृणोति यःसकृदिदं कथ्यमानो दिव्जोत्तमैः || ७१ ||
न तस्य विघ्ना जायन्ते नापुत्रः स च जायते |
दीर्घायुर्बलयुक्तश्च नित्यं प्रमुदितः कृती |
वाञ्छितार्थमवाप्नोति देवीगृहमवाप्नुयात् || ७२ ||
गच्छतं कामरूपान्तःपीठं नीलाचलाह्वयम् || ७३ ||
कामाख्यानिलयं गुह्यं कुब्जिकापीठसंज्ञकम् |
आकाशगङ्गा यत्रास्ति तज्जलैरभिषिच्य च || ७४ ||
तत्राराधयतं पुत्रौ महामायां जगन्मयीम् |
सा प्रसन्नाचिराद् देवी वरदा नौ भविष्यति || ७५ ||
और्व्य उवाच -
इत्युक्त्वा वृषभारूढस्तदा वेतालभैरवौ |
स पुत्रौ तु परित्यज्य तत्रैवान्तरधीयत || ७६ ||
ततस्तौ नाटकं शैलं परित्यज्य तपस्विनौ |
आसेदतुर्महात्मानं वसिष्ठं ब्रह्मणः सुतम् || ७७ ||
स तु सन्ध्याचलगतस्तौ दृष्ट्वा समुपस्थितौ |
सभाजयामास मुनिः शिष्यवत् तौ हरात्मजौ || ७८ ||
ततस्तस्योपदेशेन वसिष्ठस्य महात्मनः |
जग्मतुस्तौ महाशैलं नीलं कामाख्ययागतम् || ७९ ||
तत्र गत्वा महात्मानौ वैष्णवीतन्त्रगोचरम् |
आदाय जातां तां देवीं महामायां जगन्मयीम् || ८० ||
भैरवाख्यस्य लिङ्गस्य निक्ऽतस्थौ शिवात्मनः |
आकाशगङ्गामाप्लाव्य स्थण्डिले मण्डलोत्तमम् || ८१ ||
विधाय नरशार्दूलौ जपेतुर्मन्त्रमुत्तमम् |
तौ जप्त्वा विधिवन्मन्त्रं सिद्धमष्टाक्षरात्मकम् || ८२ ||
वेतालस्य तथासाध्यमष्टलक्षाणि संख्यया |
त्रिभिर्वर्षैस्तु लक्षाणां चतुर्णामन्ततस्ततः || ८३ ||
त्रिधा पुरश्चरणं च तौ भक्त्या समकुर्वताम् |
यद्यदुत्तरतन्त्रोक्तं कल्पोक्तं पूजने कृतम् || ८४ ||
तत्सर्वं चक्रतुस्तौ तु तं त्रिहायणसंवृतौ |
कामाख्या त्रिपुरादीनामन्यासामपि पूजनम् || ८५ ||
सकृत्कृत्वा पीठयात्रां चेरतुर्विधिवत् तदा |
एवं तौ बद्धकवचौ कृतन्यासौ हरात्मजौ || ८६ ||
सुप्रीता चानुजग्राह महामायाठ तौ तदा |
ध्यानस्थयोस्तु जपतोर्यजतोश्च जगन्मयो || ८७ ||
शिवलिङ्गं विनिर्भिद्य तदा प्रत्यक्षतां गता |
तस्यां विनिर्गतायां तु शिवलिङ्गं त्रिधाऽभवत् || ८८ ||
भैरवो भैरवी चेति हेरुकश्च तथा त्रयः |
तां ददर्श तदा देवीं वेतालो भैरवस्तदा || ८९ ||
यथा ध्यानगता दृष्टा बहिश्चापि तथा तथा |
तां दृष्ट्वा चारुसर्वाङ्गी पीनोन्नतपयोधराम् || ९० ||
वरदाभयहस्तां च सिद्धसूत्रासिधारिणीम् |
रक्तपद्मप्रतीकाशां सितप्रेतासनस्थिताम् || ९१ ||
निमील्य नयनद्वन्द्वं तदा वेतालभैरवौ |
त्राहि त्राहि महामाये ऊचतुस्तौ मुहुर्मुहुः || ९२ ||
ततस्तया महादेव्या तेजसाप्यायितौ तु तौ |
पस्पर्श वरहस्तस्य चाग्रभागेन वैष्णवी || ९३ ||
आप्यायितौ ततस्तौ तु स्पृष्टावपि तथा पुनः |
आसेदतुश्च देवत्वं मनुष्यत्वं विहाय च || ९४ ||
देवभूतौ तदा तौ तु महामायां जगन्मयीम् |
स्तुतिभिर्नतिभिश्चेति तदा तुष्टुवतुः शिवाम् || ९५ ||
वेतालभैरवावूचतुः-
जय जय देवि सुरगणार्चितपङ्कजे विश्वस्य भूतिभाविनी शशिमौलि-
केलिभाविनि गिरिजे |
नेत्रत्रयनिर्जितविवस्वद्विधुवह्लिकान्तितुलितकमलजे
मध्यनेत्रनतभ्रूभङ्गभक्तरक्तमतिचयज्वायकविमलजे || ९६ ||
आज्ञाचक्रान्तशान्तनवकोटि-
करोटितुल्यकान्त शान्तशशधरे |
बहुमायकायभोगयोगतरङ्ग-
आरस्य पद्मवसुचरे || ९७ ||
रिनाडिनीतमध्यबधविष्किर-
वल्लभशुभसुषुम्नसमाधारपरे |
इबुधरत्नविमोदिविश्वमूर्ति-
महोमयानवसि षट्चक्रधरे || ९८ ||
आदिषोडशचक्रचुम्बितचारुदेहपीनतुङ्ग-
कुचाचलालिंगितभूमिमध्यनागशाकगते |
सिद्धसूत्रवराभयासिशान्तपातक पङ्कजातकमूलमणिचतुर्बाहुयुते |
ज्ञानतालकमन्त्रतन्त्रयोगियोग-
निबद्धसारसूतभङ्ग विनोदकृते |
आत्मतत्त्वपरैकशाररत्नहारक-
मुक्तिसूक्तिविवेकसितप्रेतरते || ९९ ||
रत्नसारसमस्तसङ्गतरंगराग-
वियोगिमन्त्रशान्तपुरविशेषकृते |
योगिनीगणनृत्यभृत्यभावन-
निबद्धनद्धहारकङ्कणमुख्यभूषणपते |
साट्टहासविनोदमोदितमुक्त-
केशसुरेशनिबद्धदेहपुटे |
देहि देवि शोकशोचनबन्ध-
मोचनपापशातनशुद्धमते || १०० ||
सर्वविद्यात्मिकां गुह्यां मन्त्रयन्त्रमयीं शिवाम् |
प्रणमामि महामायां लोके वेदे च कीर्तिताम् || १०१ ||
परापरात्मिकां नित्यां साध्याधारैकसंस्थिताम् |
कामाह्लादकरीं कान्तां त्वां नमामि जगन्मयीम् || १०२ ||
प्रपञ्चपरमव्यक्तं जगदेकविवर्धिनि |
प्रभावेनार्धरक्तांगि देवि तुभ्यं नमोऽस्तु ते || १०३ ||
कामाख्या नित्यरूपाख्या महामाया सरस्वती |
या लक्ष्मीर्विष्णुवक्षःस्था नमावो ह्यच्युतां शिवाम् || १०४ ||
मन्त्राणि यस्यास्तन्त्राणि सहस्राणि च षोडश |
मन्त्रयन्त्रात्मके तुभ्यं नमोऽस्तु मम पार्वति || १०५ ||
और्व उवाच -
इति स्तुता ततस्ताभ्यां महामाया जगत्प्रसूः |
उवाच मुदिता चेति वरं वरयतं युवाम् || १०६ ||
प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् |
तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् || १०७ ||
वैतालभैरवावूचतुः |
देव्यनेन शरीरेण भवत्याः शङ्करस्य च |
प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी || १०८ ||
नान्यं वरं सोधयावओ माये त्वत्तो जगन्मयी |
अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे || १०९ ||
और्व उवाच -
एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी |
एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः || ११० ||
एवं इद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके |
निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा || १११ ||
ततस्तु निःसृतं क्षीरं पाययामास भैरवम् |
वेतालं च महाराज पिबतस्तौ च तत् तदा || ११२ ||
पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् |
अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ || ११३ ||
तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ |
पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी || ११४ ||
गणानां देवदेवस्य भवतस्चाधिपौ युवाम् |
द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ || ११५ ||
इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी |
योगिनीगणसंयुक्ता तत्रैवान्तरधीयत || ११६ ||
अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ |
मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः || ११७ ||
अथागच्छद् देवगणैः सार्धं सप्रमथो हरः |
सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ || ११८ ||
तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् |
सकलं दर्शयामास पीठं तु स्थानभेदतः || ११९ ||
प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् |
तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् || १०७ ||
वैतालभैरवावूचतुः |
देव्यनेन शरीरेण भवत्याः शङ्करस्य च |
प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी || १०८ ||
नान्यं वरं सोधयावो माये त्वत्तो जगन्मयि |
अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे || १०९ ||
और्व उवाच -
एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी |
एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः || ११० ||
एवं सिद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके |
निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा || १११ ||
ततस्तु निःसृतं क्षीरं पाययामास भैरवम् |
वेतालं च महाराज पिबतस्तौ च तत् तदा || ११२ ||
पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् |
अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ || ११३ ||
तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ |
पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी || ११४ ||
गणानां देवदेवस्य भवतस्चाधिपौ युवाम् |
द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ || ११५ ||
इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी |
योगिनीगणसंयुक्ता तत्रैवान्तरधीयत || ११६ ||
अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ |
मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः || ११७ ||
अथागच्छद् देवगणैः सार्धं सप्रमथो हरः |
सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ || ११८ ||
तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् |
सकलं दर्शयामास पीठं तु स्थानभेदतः || ११९ ||
कामाख्याया गुहां तत्र दर्शयित्वा मनोभवाम् |
ततः स्वीयां कामगुहां छायाच्छत्रं स्वमालयम् || १२० ||
स्वकीयं पञ्चमूर्तीनां संस्थानं चाप्यदर्शयत् |
कामरूपस्य सकलं पीठं देवमयं तथा || १२१ ||
प्रत्येकं दर्शयामास क्रमतस्त्रिपुरान्तकः |
प्रथमं करतोयाख्यां सत्यगङ्गा सदाशिवाम् || १२२ ||
पुण्यतोयमयीं शुद्धां दक्षिणाब्ध्येकगामिनीम् |
इति श्रीकालिकापुराणे वेतालभैरवयोः सिद्धिलाभो नाम
षट्सप्ततितमोऽध्यायः || ७६ ||
Eine weitere Anleitung zur heutigen Chakra-Energie-Meditation:
Kapitel 77
सप्तसप्ततितमोऽध्यायः
और्व उवाच -
ततस्तु कामरूपस्य वायव्यां त्रिपुरान्तकः |
आत्मनो लिङ्गमतुलं जल्पीशाख्यं व्यदर्शयत् || १ ||
यत्र नन्दी समाराध्य महादेवं जगत्पतिम् |
अभिन्नेन शरीरेण गाणपत्यमवाप्नुयात् || २ ||
नन्दिकुण्डं महाकुण्डं यत्र नन्दी पुराऽकरोत् |
अभिषेकं लब्धवरं पीतं तोयमनुत्तमम् || ३ ||
तत्र स्नात्वा च पीत्वा च कृतकृत्यो नरोत्तमः |
हरस्य सदनं याति नन्दिनोऽपि महाश्रियः || ४ ||
तस्यासन्ने महादेवीं नातिदूरे व्यवस्थिताम् |
सिद्धेश्वरीं योनिरूपां महामायां जगन्मयीम् || ५ ||
त्र्यम्बको दर्शयामास भैरवाय महात्मने |
यत्र नन्दी महामायामाज्ञया शशिधारिणः || ६ ||
स्तुतिभिर्नतिभिः पूज्य गाणपत्यमवाप्नुयात् |
सुवर्णमानसस्तत्र नदमुख्यो मनोहरः || ७ ||
नन्दिनोऽनुग्रहायाशु मानसाख्यं अरस्तु तत् |
आगतं चाज्ञया शम्भोः पूर्वमेव तपस्यतः || ८ ||
जटोद्भवा तत्र नदी हिमवत्प्रभवा शुभा |
यस्यां स्नात्वा नरःपुण्यमाप्नोति जाह्नवीसमम् || ९ ||
गौरीविवाहसमये सर्वैर्मातुगणैः कृतः |
जलाभिषेको भर्गस्य जटाजूटेषु यः पुरा || १० ||
तैस्तओयैरभवद्यस्माज्जटोदाख्या नदी ततः |
चैत्रे मासि सिताष्टम्यां स्नात्वा यस्यां नरो व्रजेत् || ११ ||
पूर्णायुर्वै नरश्रेष्ठ शिवस्य सदनं प्रति |
द्वापरस्य तु या गङ्गा त्रिःस्रोताख्या सरिद्वरा || १२ ||
हिमवत्प्रभवा शुद्धचन्द्रविम्बाद् विनिर्गता |
यस्यां स्नात्वा महामाध्यां मातृयोनौ न जायते || १३ ||
चन्द्रसूर्यग्रहे स्नात्वा कैवल्यं प्राप्नुयान्नरः |
सितप्रभा नाम नदी महादेवावतारिता || १४ ||
हिमवत्प्रभवा सापि सिता दक्ष समुद्रगा |
तस्यां दशहरायां तु दशम्यां शुक्लपक्षके || १५ ||
स्नात्वा विष्णुगृहे याति नरो वै मुक्तपातकः |
नवतोया नाम नदी ततः पूर्वस्थिता पुरा || १६ ||
नवं नवं नवं नित्यं कुर्वन्ती सा पुनाति हि |
नवतोया ततः प्रोक्ता हिमवत्प्रभवैव सा || १७ ||
तस्यां स्नात्वा महामाघ्यां नरो गच्छति देवताम् |
सम्पूर्णं माघमासं तु स्नात्वा विष्णुगृहं व्रजेत् || १८ ||
तासां नदीनां तु पतिरगदो नाम वै नदः |
पीठपूर्वे स्थितः पुण्यो ब्रह्मपादसमुद्भवः || १९ ||
हिमवत्प्रभवः सोऽपि देवगन्धर्वसेवितः |
तत्र स्नात्वा च पीत्वा च नरो ब्रह्मगृहं व्रजेत् || २० ||
कार्तिकं सकलं मासं योऽगदाख्ये महानदे |
स्नानं करोति मौजस्तस्य पुण्यफलं शृणु || २१ ||
इह लोके त्वरोगः स प्राप्य चैवोत्तमं सुखम् |
शेषे ब्रह्मगृहं प्राप्य ततो मोक्षमवाप्नुयात् || २२ ||
नन्दिकुण्डे नरः स्नात्वा भक्तं कुर्यात् तदा निशि |
ततः परस्मिन् दिवसे गच्छेज्जल्पीशमन्दिरम् || २३ ||
तत्र स्नात्वा महानद्यां जल्पीशं प्रतिपूज्य च |
तस्यां निशि हविष्याशी संयतस्तां निशां नयेत् || २४ ||
ततोऽनुदिवसे प्राप्ते गच्छेत् सिद्धेश्वरीं शिवाम् |
तां पूजयेत् तथाष्टम्यामुपवासं तथाचरेत् || २५ ||
चतुर्भुजा तु सा देवी पीनोन्नतपयोधरा |
सिन्दूरपुञ्जसङ्काशा धत्ते कर्त्री च खर्परम् || २६ ||
दक्षिणे वामबाहुभ्यामभीतिवरदायिनी |
जटामण्डितशीर्षा च अक्तपद्मोपरिस्थिता || २७ ||
पंचाक्षरजपान्तादिर्मन्त्रेऽस्याः परिकीर्तितः |
कामख्यातन्त्रमेवास्याः पूजने तन्त्रमीरितम् || २८ ||
एवं कृत्वा नरो धीरः पुनर्योनौ न जायते |
जामदग्न्यभयाद् भीताः क्षत्रियाः पूर्वमेव ये || २९ ||
लेच्छच्छद्माण्युपादाय जल्पीशं शरणं गताः |
ते म्लेच्छवाचः सततमार्यवाचश्च सर्वदा || ३० ||
जल्पीशं सेवमानास्ते गोपायन्ति च तं हरम् |
त एव तु गणास्तस्य महाराजमनोहराः || ३१ ||
तोषयित्वा तथा सर्वान् जल्पीशं पूजयेन्नरः |
वरदाभयहस्तोऽयं द्विभुजः कुन्दसन्निभः || ३२ ||
तत्पुरुषस्य तु मन्त्रेण पूजयेद् देवमुत्तमम् |
एवं पुण्यकरः पीठो जल्पीशस्य महात्मनः |
एवं ज्ञात्वा नरो याति शंकरस्य परं प्रति || ३३ ||
इति श्रीकालिकापुराणे सप्तसप्ततितमोऽध्यायः || ७७ ||
Kapitel 78
अष्टसप्ततितमोऽध्यायः
मार्कण्डेय उवाच -
एतच्छ्रुत्वा तु संवादमुत्तमं शंकरस्य च |
भैरवस्य तु वेतालसहितस्य महात्मनः || १ ||
भूयश्च सगरो राजा मुनिमौर्वं महामतिम् |
पप्रच्छ मोदसंहृष्टः सूनृतं चेदमुत्तमम् || २ ||
सगर उवाच -
विचित्रमिदमाख्यातं भगवन्मुनिसत्तम |
कामरूपस्य पीठस्य संस्थानं निर्णयं तथा || ३ ||
भूयश्च श्रोतुमिच्छामि विस्तरेण महामते |
वायव्यस्याथ मध्यस्य पूर्वभागस्य निर्णयम् || ४ ||
यथा यस्मिन् निष्ठितोऽस्ति महादेवोऽम्बिका तथा |
तत्सर्वं मुनिशार्दूल कथय श्रोतुमुत्सहे || ५ ||
और्व उवाच -
उक्तो वायव्यभागस्य निर्णयो नृपसत्तम |
नैर्-ऋत्योत्तरमध्याद्रेः शृण्विदानीं विनिर्णयम् || ६ ||
बहुरोक्ता नाम ननी करतोया प्रदक्षिणे |
उत्तरश्रावणी चास्ते तत् पूर्वं कामरूपकम् || ७ ||
सुरसो नाम जीमूतः कामरूपं ततः स्थितः |
निःसृता बहुरोकेति नदी तस्माद् वृषप्रदा || ८ ||
आसन्ने सुरसाख्यस्य शिवलिङ्गो महावृषः |
माहेश्वरी तत्र देवी योनिमण्डलरूपिणी || ९ ||
स्नात्वा तु बहुरोकायामारुह्य सुरसाचलम् |
महावृषं पूजयित्वा महादेवीं महेश्वरीम् || १० ||
धूतपापो जितद्वन्द्वः पुनर्योनौ न जायते |
चतुर्भूजो वृषारूढो वरदाभयशूलधृक् || ११ ||
शुद्धस्फटिकसंकाशो जटावान् स महावृषः |
अघोरस्य तु मन्त्रेण पूजाऽस्य परिकीर्तिता || १२ ||
कामेश्वर्याः स्वरूपं तु माहेश्वर्याः प्रकीर्तितम् |
पूजापि यद्वदेवास्यास्तद्वत्फलप्रदायिका || १३ ||
तत्र वसिष्ठकुण्डं तु वसिष्ठमुनिसेवितम् |
यत्र स्थितो वसिष्ठस्तु नरकेण निवारितः || १४ ||
अप्राप्य गन्तुं जीमुतं नीलाख्यं वाशपत्तुतम् |
स्वस्नानार्थं कृतं तत्र कुण्डं देवगणार्चितम् || १५ ||
तत्र स्नात्वा नरो याति नाकपृष्ठं यथेच्छया |
सुरसस्य च पूर्वस्यां कृत्तिवासाह्वयो गिरिः || १६ ||
कृत्तिवासाः स्वयं तत्र सत्या सहावसत् पुरा |
चन्द्रिकाख्या नदी यत्र तस्यां स्नात्वा दिवं व्रजेत् || १७ ||
चन्द्रिकायां नरः स्नात्वा सम्पूज्य कृत्तिवाससम् |
भाद्रशुक्लचतुर्थ्यां तु निष्कलङ्को भवेन्नरः || १८ ||
पूर्णभाद्रपदं मासं चन्द्रिकायां नरोत्तमः |
स्नात्वा गच्छति भूतेशं दृष्ट्वै कृत्तिवाससम् || १९ ||
उत्तरस्राविणी नित्यं चन्द्रिकाख्या सरिद्वरा |
नातिदूरे चन्द्रिकायाः पूर्वस्यां दिशि फेनिला || २० ||
संज्ञया च सरिच्छ्रेष्ठा शतानन्दावतारिता |
ब्रह्मणो दुहिता स तु गङ्गा पर्वतसम्भवा || २१ ||
फेनिलायां नरः स्नात्वा ब्रह्मोत्थानदिने पुनः |
फाल्गुने मासि नरकं जित्वा स्वर्गमवाप्नुयात् || २२ ||
ततः सिताह्वया पूर्वं सरिदुत्तरगामिनी |
तस्यां स्नात्वा महाचैत्र्यां गङ्गास्नानफलं लभेत् || २३ ||
ततः पूर्वं सुमदना योजनद्वितयान्तरे |
नदी जनकराजेन समाराध्य वृषध्वजम् || २४ ||
हिताय भैरवाख्यस्य सुतीक्ष्णादवतारिता |
सुतीक्ष्णं गिरिमारुह्य स्नात्वा सुमदनाजले || २५ ||
माघशुक्लचतुर्थ्यां तु पूजयित्वा महेश्वरम् |
संप्राप्य सकलान् कामान् शिवलोकाय गच्छति || २६ ||
एता नद्यः कामरूपे नैरृत्यामुत्तरस्रवाः |
पीठस्य पूर्वतस्तत्र त्रिपुरा यत्र पूज्यते || २७ ||
एवं ते कथितं राजन् महापुण्यदमुत्तमम् |
कामरूपस्य नैर्-ऋत्यां यत्र शम्भुः सदाम्बिका || २८ ||
उनरेव महाराज या नद्यो दक्षिणस्रवाः |
हिमवत्प्रभवा याताः क्रमशः शृणु भूपते || २९ ||
अगदस्य नदस्योर्ध्वं भद्राख्या तु महानदी |
भाद्रे कृष्णचतुर्दश्यां यस्यां स्नात्वा दिवं व्रजेत् || ३० ||
ततः पूर्वं सुभद्राख्या नदी पुण्यतमा सदा |
वैशाख्यस्य तृतीयायां यस्यां स्नात्वा दिवं व्रजेत् || ३१ ||
ततस्तु मानसा नाम नदी पुण्यतमा मता |
सरसो मानसाख्यात् तु तणबिन्द्ववतारिता || ३२ ||
वैशाखं सकलं मासं तस्यां स्नात्वा नरोत्तमः |
विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् || ३३ ||
हिमवन्निकटे शैलो विभ्राटः स महाद्युतिः |
यस्मिन् वसति भूतेशः सदा भैरवरूपधृक् || ३४ ||
तस्मात् तु भैरवी नाम नदी पुण्योदका शुभा |
प्राङ् मानसाद्या स्रवति गङ्गेव फलदायिनी || ३४ ||
यस्यां वसन्तसमये स्नात्वा गच्छति वे दिवम् |
यस्यां सम्पूज्य कामाख्यामिष्टं ज्ञानमवाप्नुयात् || ३६ ||
सम्पूज्याथ महामायां द्विगुणं प्राप्नुयात् फलम् |
ऊर्ध्वं ततो देवगङ्गा वर्णासाख्या सरिद्वरा || ३७ ||
हिमवत्प्रभवा नित्यं फलदा मानसोपमा |
सुभद्राद्यास्तु याः प्रोक्ता वर्णासान्ताः सरिद्वराः || ३८ ||
हिमवत्प्रभवास्तास्तु सर्वा एवोत्तरप्लवाः |
पूर्वे तु मदनायास्तु ब्रह्मक्षेत्रस्य पश्चिमे || ३९ ||
रविक्षेत्रं यत्र देव आदित्यः सततं स्थितः |
भैरवस्य हितार्थाय यत्र सर्वेश्वराः स्थिताः || ४० ||
कामरूपे महापीठे ब्रह्मेन्द्रवरुणादयः |
तदा अत्त्वाह्वये शैले श्री सूर्योऽपि व्यवस्थितः || ४१ ||
त्रिस्रोता नाम यस्यास्ति नदी पूर्वदिशि स्थिता |
कपोतकरणं पश्चादस्य कुण्डद्वयं स्थितम् || ४२ ||
कपोतकुण्डे विधिवत् स्नात्वा करणकुण्डके |
तत्त्वाचलं समारुह्य सम्पूज्य च दिवाकरम् || ४३ ||
सकृदेव नरो याति भास्करस्य गृहं प्रति |
सूर्यरश्मिसमुद्भूतं कपोतकरणामृतम् || ४४ ||
पुण्यतोयसमाख्यातं पापं कपोत मे हर |
इत्यनेन तु मन्त्रेण स्नात्वा कपोतपुष्करे || ४५ ||
करणं समुपस्पृश्य तत्त्वशैले रविं यजेत् |
त्रिविधं ब्रह्मबीजं तु सहस्रपदमन्ततः || ४६ ||
रश्मयेऽपि चतुर्थ्यं तु देवोजाया तु चेष्टतः |
अङ्गबीजमिदं प्रोक्तमादित्यस्यातिकामदम् || ४७ ||
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः |
सप्ताश्वः सप्तरज्जुश्च द्विभुजो भास्करः सदा || ४८ ||
वर्तुलं मण्डलं चास्य अष्टपत्रसमन्वितम् |
अङ्गुष्ठाग्राङ्गुलीनां च हृदादीनां तथा च षट् || ४९ ||
अङ्गमन्त्रेण सहित उपान्ते वह्निसंयुतः |
सर्वन्यासे समुद्दिष्टो मन्त्रः सर्वफलप्रदः || ५० ||
हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः |
बाह्वोः पाण्योर्जङ्घयोस्तु पादयोश्चापि विन्यसेत् || ५१ ||
जघने च समस्तानि क्रमान्मन्त्राक्षराणि च |
रमाच्चोत्तरतः प्रोक्तः पूजने परिकीर्तितः || ५२ ||
विसर्जनं तथैशान्यां विद्याद्या दलशक्तयः |
निर्माल्यधृक् तत्त्वचण्डो माठराद्यास्तु पार्श्वयोः || ५३ ||
बीजमुत्तरतन्त्रस्य पूर्वतः प्रतिपादितम् |
अनेन विधिना तत्त्वे पूजयित्वा नरोत्तमः || ५४ ||
स कामानखिलान् प्राप्य इहलोके प्रमोदते |
सुखी शेषे तथा गच्छेद् भास्करस्यालयं प्रति || ५५ ||
नातिदूरे भास्करस्य दक्षिणस्यां शुभाह्वयः |
तस्योर्ध्वसानौ वसति लिङ्गं शांकरमुत्तमम् || ५६ ||
परिवार्य सदा यान्ति महाकायास्तु वानराः |
परिवार्यावतिष्ठन्ते सेवमानाश्च शङ्करम् || ५७ ||
त्रिस्रोतायां नरः स्नात्वा यः पश्येत् तु शुभाचले |
महात्मानं महादेवं काममिष्टं लभेन्नरः || ५८ ||
ततः पूर्वं सुरनदी नाम्ना सुकुममालिनी |
क्षीरोदाख्यापरा तस्मात् ते गते दक्षिणस्रवे || ५९ ||
एते अपि महाराज पुण्यतोयेऽमृतस्रवे |
तयोः स्नात्वा नरो याति शङ्करस्यालयं प्रति || ६० ||
ततोऽपि पूर्वतो देवी लीलाख्या चापरा नदी |
यस्यां स्नात्वा महानद्यां शिवलोकाय गच्छति || ६१ ||
ततः पूर्वं शिवा चण्डी चण्डिकाख्या महानदी |
निर्याति धवलाख्यात् तु पर्वतात् सुमनोहरात् || ६२ ||
शिवलिङ्गद्वयं तत्र नातिदूरे व्यवस्थितम् |
गोलोकं चाथ शृङ्गं च क्रोशमात्रान्तरे स्थितम् || ६३ ||
चण्डिकायां नरः स्नात्वा आरुह्य धवलेश्वरम् |
दक्षिणं सागरं वीक्ष्य पृष्ट्वा गोलोकसंज्ञकम् || ६४ ||
ततोऽवतीर्य च पुनः शृङ्गिणं भूमिपीठकम् |
शिवपूजाविधानेन पूजयित्वा महेश्वरम् || ६५ ||
अश्वमेधस्य यज्ञस्य फलं सम्प्राप्य मानवः |
सर्वान् कामानवाप्येह देहान्ते शिवतां व्रजेत् || ६६ ||
एता याः कथिता नद्यः सर्वा वै दक्षिणस्रवाः |
तस्मादीशानकाष्ठायां पर्वतो गन्धमादनः || ६७ ||
यत्र भृङ्गाह्वयं लिङ्गं शिवस्यास्ते महत्तरम् |
स एव पर्वतश्रेष्ठः प्राप्तः क्षेत्रस्य पश्चिमे || ६८ ||
धृत्वा ब्रह्मशिलां देवीं सावित्रं प्रतिगामिनी |
गन्धमादनकस्यान्ते भृङ्गेशस्य पदद्वयम् || ६९ ||
स्रवद्गङ्गाजलं चास्ते कुण्डं तत्रान्तरालकम् |
अन्तरालककुण्डे तु स्नात्वा पीत्वा च तज्जलम् || ७० ||
भृङ्गेशस्य ततो दृष्ट्वा शिलासंस्थं पदद्वयम् |
पूजयित्वा महाभृङ्गं गाणपत्यमवाप्नुयात् || ७१ ||
शम्भुपादसमुद्भूतमन्तरालदृशाकरम् |
वृषध्वजपदानां त्वं संयोजय महावृष || ७२ ||
इत्यनेन तु मन्त्रेण स्नानं कृत्वान्तराजले |
भृङ्गदेवं ततः पश्येत् कुब्जपीठान्तवासिनम् || ७३ ||
मणिकूटस्याथ गिरेर्गन्धमादनकस्य च |
मध्ये स्रवति लौहित्यो ब्रह्मणाग्निसमुत्थितः || ७४ ||
अर्णाशाया दक्षिणस्यां लौहित्यो नाम सागरः |
मणिकूटः स्थितः पूर्वे हयग्रीवो हरिर्यतः || ७५ ||
स हयग्रीवरूपेण विष्णुर्हत्वा ज्वरासुरम् |
निहत्य स हयग्रीवः क्रीडायै यत्र संस्थितः || ७६ ||
हत्वा ज्वरं तथा विष्णुस्तत्र वासमथाकरोत् |
नरदेवासुरादीनां यथा भवति वै हितम् || ७७ ||
ज्वरेणापीडित तनुर्ज्वरं हत्वा महासुरम् |
सर्वलोकहितार्थाय सोऽगदस्ना नमचरेत् || ७८ ||
अगदस्नानसम्भूतं संजातं च अहासरः |
तस्य स्वयं हयग्रीवो नाम चक्रेऽपुनर्भवम् || ७९ ||
न पुनर्जायते यस्मात् तत्र स्नात्वा नरोत्तमः |
अपुनर्भवसंज्ञं तत् सरस्तु परिकीर्तितम् || ८० ||
मणिकटाचले विष्णुर्हयग्रीवस्वरूपधृक् |
शतव्यामप्रमाणेन विस्तरेणैव शोभितम् || ८१ ||
तस्मात् पूर्वे भद्रकामः पर्वतस्तु त्रिकोणकः |
यत्र कालहयो नाम शिवलिङ्गो व्यवस्थितः || ८२ ||
तस्यासन्ने दक्षिणस्यामपुनर्भवकुण्डकम् |
अपुनर्भूःसरस्तीरे पर्वते भद्रकामदे || ८३ ||
हरवीथीति विख्याता शिला ब्रह्मस्वरूपिणी |
तत्र योगी महादेवो योगज्ञो ध्यानतत्परः || ८४ ||
यं दृष्ट्वा योगवान् मर्त्यो मृतो मोक्षमवाप्नुयात् |
तस्यामेव शिलायां तु गोकर्णो नाम शङ्करः || ८५ ||
गोकर्णो निहतो येन अन्धकस्य सखा पुरा |
गोकर्णस्य तथैशान्यां केदारः शम्भुरन्ततः || ८६ ||
ततोऽन्धकसमः प्रोक्तः कमलाकरभोगधृक् |
यत्रास्ति शम्भुः केदारः स गिरिर्मदनाह्वयः || ८७ ||
तत्रैव कमलः प्रोक्तः स महात्मालयप्रदः |
स्नात्वाऽपुनर्भवजले दृष्ट्वा गोकर्णयोगिनौ || ८८ ||
केदारकमलौ दृष्ट्वा मुक्तिर्माधवदर्शने |
दृष्ट्वा तु माधवं देवं ततः कामं विलोकयेत् || ८९ ||
कामं विलोक्य तत्रस्थो निरीक्षेदपुनर्भवम् |
एवं कृत्वा पीठयात्रामनेन क्रमयोगतः || ९० ||
सप्त पूर्वान् सप्त परानात्मानं दश पञ्च च |
पितृनुद्धृत्य त्रिदिवं नयेत् स पुरुषोत्तमः || ९१ ||
विष्णुस्थानसमुद्भुता पुनर्भवहरीश्वर |
पापं हर स्वर्गहेतोर्जितसङ्गमहोदधे || ९२ ||
अनेनैव तु मन्त्रेण स्नायाद् वीरोऽपुनर्भवे |
हयग्रीवस्य तन्त्रं तु पुरैव प्रतिपादितम् || ९३ ||
रूपं शृणु महाराज चिन्तयेत् तस्य यादृशम् |
कर्पूरकुन्दधवलः सितपद्मोपरिस्थितः || ९४ ||
चतुर्भुजः कुण्डलादिनानालङ्कारभूषितः |
वरदाभयहस्तस्तु वामहस्तद्वयेन तु || ९५ ||
पुस्तकं सितपद्मं च धत्ते हस्तद्वयेऽपरे |
श्रीवत्सकौस्तुभोरस्कः क्वचिच्च गरुदासनः || ९६ ||
सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने |
विष्वक्सेनो हयारेस्तु निर्माल्यधृग्विसर्जने || ९७ ||
शिलारूपर्पतिच्छन्नः सदास्ते गरुडध्वजः |
क्रीडमानोऽथ गन्धर्वैः स्थितो लोकहिताय च || ९८ ||
हयग्रीवस्य मन्त्रस्य सिद्धिर्लक्षद्वयेन तु |
यावकैः पायसैराज्यैर्होमं कुर्वन् पुरश्चरेत् || ९९ ||
एकेनैव तु राजेन्द्र पुरश्चरणकर्मणा |
इष्टसिद्धिमवाप्येह विष्णुलोकमवाप्नुयात् || १०० ||
मन्त्रैस्तु पञ्चवक्त्राणां पञ्चमूर्तीः सदार्चयेत् |
पूर्वे तत्पुरुषादीनां कामादीन् पूजको द्विजः || १०१ ||
कामस्तत्पुरुषो ज्ञेयो योगीशानः प्रकीर्तितः |
अघोरो ह्यथ गोकर्णः केदारो वामदेवकः || १०२ ||
सद्योजातस्तु कमलामन्त्रैस्तैस्तैः प्रपूजयेत् |
पर्वतश्चैव केदारः शिवगङ्गा तु तु कालिका || १०३ ||
हयग्रीवस्य पूर्वस्यां केदारस्य तु पश्चिमे |
छायाभोगाह्वयस्थानं पुरी भोगवती तथा || १०४ ||
यो गच्छेन्मणिकूटाख्यात् कौतुकाच्च पुनर्भवम् |
स सर्वतीर्थयात्राणां फलमाप्नोति मानवः || १०५ ||
ज्यैष्ठे मासि सिते पक्षे पञ्चदश्यष्टमीषु च |
स्नात्वाऽपुनर्भवजले यः पश्येद् विधिवद्धरिम् |
स सर्वं कुलमुद्धृत्य विष्णुसायुज्यमाप्नुयात् || १०६ ||
ज्येष्ठं तु सकलं मासं नित्यं पश्येत् तु यो हरिम् |
हरौ विलीनतां याति स सर्वैः सहितः कुलैः || १०७ ||
एतत् ते कथितं पुण्यं मणिकूटाह्वयं परम् |
वाराणसीतो ह्यधिकं सिद्धविद्याधरार्चितम् || १०८ ||
यः पठेच्छृणुयाद्विप्रो मणिकूटस्य निर्णयम् |
स सर्ववेदस्य फलं प्राप्नोत्येव न संशयः || १०९ ||
इति श्रीकालिकापुराणे अष्टसप्ततितमोऽध्यायः || ७८ ||
Kapitel 79
एकोनाशीतितमोऽध्यायः
और्व उवाच -
ततः पूर्वं महाराज दर्पणो नाम पर्वतः |
कुबेरो यत्र वसति धनपालैः समं सदा || १ ||
यस्मिन्नास्ते मध्यभागे रोहितो रोहिताकृतिः |
यस्मिंल्लोहादिकं स्पृष्टं स्वर्णतां याति तत्क्षणात् || २ ||
यत्रातिदूरे स्रवति दर्पणो नाम वै नदः |
हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फलैः || ३ ||
समुत्पन्नं हि लौहित्यं सर्वैर्दैवगणैर्हरिः |
सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् || ४ ||
तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः |
तेनायं दर्पणो नाम पुरा देवगणैः कृतः || ५ ||
तस्मिन् स्नात्वा नदवरे योऽर्चयेद् दर्पणाचले |
कुबेरं प्रतिपत्तिथ्यां कार्तिके शुक्लपक्षके || ६ ||
स याति ब्रह्मसदनमिह भूतिशतैर्युतः |
दर्पणाद् दिशि पूर्वस्यामग्निमालाह्वयौ गिरिः || ७ ||
सर्पाकारः सप्तशतव्यामदीर्घोदर्ध विस्तृतः |
तत्र तिष्ठति वै वह्निरूर्ध्वभागेऽग्निमण्डले || ८ ||
सिन्दूरपुञ्जसङ्काशे चारुदारूशिलातले |
तस्मिन्निरिन्धनो वह्निर्नित्यमद्यापि काशते || ९ ||
भैरवस्य हितार्थाय कामाख्यापरिसेवने |
पूर्वमेव स्थितस्तत्र साक्षाद् वह्निर्गणैः सह || १० ||
लौहित्यपाथसि स्नात्वा त्वग्निमालाह्वयं गिरिम् |
आरुह्य वह्निं सम्पूज्य मोदते विष्णुमन्दिरे || ११ ||
पुरस्तादग्निमालस्य कुण्डकं वारुणाह्वयम् |
तस्य तीरे गिरिश्रेष्ठो नाम्ना कंसकरः स्मृतः || १२ ||
वरुणस्तत्र वसति नित्यमेव जलाधिपः |
तस्मिन् कंसकरे सम्यक् पूजयित्वा प्रचेतसम् || १३ ||
स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् |
आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् || १४ ||
शम्भुचूडाशिखायुक्तं कौवेरं बीजमुच्यते |
सप्तमो यः पकारस्य बिन्दुश्चन्द्रार्धसंयुतः || १५ ||
वह्निबीजमिति ख्यातं तेन वह्नि प्रपूजयेत् |
मकारपञ्चमः सोमबिन्दुना वारुणः स्मृतः || १६ ||
एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् |
वायुकूटो नाम गिरिः पूर्वस्यां वरुणाचलात् || १७ ||
द्विखण्डो वायुबीजेन मण्डलेन समन्वितः |
वायुलोकस्थितश्चन्द्रो यस्मान्निःसृत्य मारुतः || १८ ||
ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूपते |
तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् || १९ ||
पूर्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः |
त्रिकोणश्चन्द्रसङ्काशस्तदूर्ध्वे चन्द्रमण्डलम् || २० ||
द्वितीयवर्गस्याद्यं तु बिन्दुना समलङ्कृतम् |
चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् || २१ ||
अद्यापि प्रतिदर्शे तु पर्वतं तं निशापतिः |
प्रदक्षिणीकरोत्येव दशाभिश्चापि खेचरैः || २२ ||
तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः |
तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते || २३ ||
स्वर्गादवतरच्चन्द्रः कामाख्यासेवने यदा |
तदा तद्रश्मिसङ्घातान्निःसृतास्तोयराशयः || २४ ||
तैस्तोयैर्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः |
मध्ये पुण्यतमे स्थाने स्वयं ब्रह्मशिलोपरि || २५ ||
चन्द्ररश्मिसमुद्भुत चन्द्रकुण्दमहोदधे |
यं यं भावं समासाद्य त्वं चन्द्र कलुष हर || २६ ||
सुधास्रवणमाह्लाद त्वं चन्द्र कलुषं हर |
इत्यनेन तु मन्त्रेण यः स्नात्वा चन्द्रपाथसि || २७ ||
चन्द्रकूटं समारुह्य पूजयेद् यस्तु तं नरः |
अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते || २८ ||
परत्र चन्द्रभवनं भित्त्वा याति परं पदम् |
तीरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः || २९ ||
तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः |
पञ्चभावं समासाद्य सर्वदेवेश्वरो हरिः |
सेवितुं त्रिदशेशानीं सततं वर्तते नरः || ३० ||
चन्द्रकूटगिरेर्याम्यभागे गिरिजनार्दनः |
तस्य याम्ये त्वधोभागे अश्वक्रान्ताह्वयं सरः || अ ||
न तस्य सदृशं तीर्थमस्ति ब्रह्माण्डगोचरे |
जले स्थले मृता येऽत्र यान्ति ब्रह्म सनातनम् || ब् ||
जनार्दनगिरौ विष्णुः कूर्मरूपस्वरूपधृक् |
शिलां भित्त्वा स्थितस्तत्र देवगन्धर्वसेवितः || च् ||
अश्वक्रान्तजले स्नात्वा पूजयित्वा जनार्दनम् |
वंशकोटिं समुद्धृत्य स्वयं स्यात् पुरुषोत्तमः || द् ||
चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः |
प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा || ३१ ||
चन्द्रकूटजले स्नात्वा समारुह्याथ नन्दनम् || ३२ ||
आराध्य शक्रं लोकेशं महाफलमवापुयात् |
नन्दनात् पूर्वभागे तु भस्मकूटो महागिरिः || ३३ ||
यः स्वयं भर्गरूपः स सदा चेच्छान्तमुत्तमम् |
दक्षिणे भस्मकूटस्य देवी पीयूषधारिणी || ३४ ||
उर्वशी नाम विख्याता शक्रप्रीतिकरी सदा |
देवैर्यत् स्थापितं पूर्वमभृतं भोजनाय वै || ३५ ||
कामाख्यायास्तदादाय स्वयं तिष्ठति चोर्वशी |
शिलारूपो हरस्तां तु समावृत्यैव तिष्ठति || ३६ ||
सा चैवामृतराशिं तु कृत्वा किंचन किंचन |
उपस्थापयते नित्यं कामाख्यायोनिमण्डले || ३७ ||
सुधाशिलान्तरस्था तु उर्वशीकुण्डवासिनी |
उर्वशीभस्मकूटस्य मध्ये कुण्डं सदावृतम् || ३८ ||
द्वात्रिंशद्धनुराकीर्णं पञ्चाशद्धनुरायतम् |
तत्र स्नात्वा च पीत्वा च नरा मोक्षमवाप्नुयात् || ३९ ||
कामाख्यायोनिरैशानीं दिशं याति सदैव हि |
भस्मकूटे प्रविशति उर्वशीमपि योगिनी || ४० ||
आप्यायिता चामृतेन नित्यं देवी प्रमोदते |
मोदयुक्ता महादेवी कामेन मोदते सदा || ४१ ||
भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः |
मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकम् || ४२ ||
स सद्योजातरूपस्तु मणिकर्ण इतीरितः |
सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः || ४३ ||
चन्द्रतीर्थजले स्नात्वा दृष्ट्वा चन्द्रं सवासवम् |
मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते || ४४ ||
श्वेतः श्वेताम्बरधरो दशाश्वो हेमभूषितः |
गदापाणिर्द्विबाहुश्च कर्तव्यो बरदः शशी || ४५ ||
सहस्रनेत्रो गौराङ्गो द्विभुजो वामहस्तगम् |
वज्रं गदांकुशं धत्ते दक्षिणेनापि पाणिना || ४६ ||
ऐरावतगजस्थस्तु बाणतूणीरबन्धनः |
धनुश्च कक्षे गृह्णाति सेवमानो महेश्वरीम् || ४७ ||
वकारानन्तरो वर्णश्चन्द्रबिन्दुसमन्वितः |
शक्रबीजमिति प्रोक्तं शक्रं तेन प्रपूजयेत् || ४८ ||
नदी सुमङ्गला नाम हिमपर्वतनिर्गता |
पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना || ४९ ||
मणिकूटं समारुह्य यस्तां पश्यति वै नदीम् |
स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् || ५० ||
मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलः |
निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः || ५१ ||
शरीरं प्राप तपसा समाराध्य वृषध्वजम् |
तत्र मत्स्यस्वरूपस्तु कामदेव समंस्थित || ५२ ||
अधित्यकायां पृथिवीं बीक्षमाणः समन्ततः |
नदी तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा || ५३ ||
सरः कामसरो नाम तत्र शैले व्यवस्थितम् |
शाश्वत्यां विधिवत्स्नात्वा पीत्वा आमसरोऽम्भसि || ५४ ||
बिमुक्तपापः शुद्धात्मा शिवलोके महीयते |
गन्धमादनपूर्वस्यां सुक्रान्तो नाम पर्वतः || ५५ ||
तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम् |
यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः || ५६ ||
अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ |
स्नात्वा तु वासवे कुण्डे समारुह्य सुकान्तकम् || ५७ ||
वासवस्य प्रियो भूत्वा शक्रलोकमवाप्नुयात् |
पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्वयो गिरिः || ५८ ||
यत्रास्ते सततं देवो निर्-ऋती राक्षसेश्वरः |
खड्गहस्तो महाकायो वामे चर्मधरस्तथा || ५९ ||
जटाजूटसमायुक्तः प्रांशुः कृष्णाचलोपमः |
द्विभुजः कृष्णवासास्तु गर्दभोपरिसंस्थितः || ६० ||
प्रान्तोपान्तौ बिन्दुचन्द्रसहितावादिरेव च |
नैर्-ऋत्यं कथितं बीजं तेन तं परिपूजयेत् || ६१ ||
रक्षःकूटं समारुह्य नि-ऋतिं राक्षसेश्वरम् |
यः पूजयेद् विधानेन चण्डिकां राक्षसेश्वरीम् || ६२ ||
न तस्य राक्षसेभ्योऽस्ति भयं नृप कदाचन |
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः || ६३ ||
तं दृष्ट्वा पुरुषं राजन् सर्वदैव प्रबिभ्यति |
रक्षःकूटात् पूर्वदिशि भैरव नाम माधवः || ६४ ||
पाण्डुनाथ इति ख्यातो ग्रावरूपेण संस्थितः |
तं पाण्डुनाथं सततमष्टाक्षरभवोत्तरम् || ६५ ||
तेनैव पूजयेद् देवं पाण्डुनाथाह्वयं हरिम् |
वर्णेन रक्तगौराङ्गं गदापद्मधरं करे || ६६ ||
दक्षिणे चक्रशक्ती च बाहुभ्यामपि बिभ्रतम् |
चतुर्भुजं रक्तपद्मसंस्थितं मुकुटोज्ज्वलम् || ६७ ||
कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम् |
नमो नारायणायेति मूलबीजेन वा हरेः || ६८ ||
एवं सम्पूजयेद् भूप चतुर्वर्गस्य सिद्धये |
पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयं सरः || ६९ ||
ब्रह्मणा निर्मितं पूर्वं स्नानार्थं स्वर्गवासिनाम् |
आयामेन शतव्यामं विस्तीर्णं त्वतदर्धकम् || ७० ||
सर्वपापहरं पुण्यं देवलोकात् समागतम् |
कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतस्रव || ७१ ||
हर मे सर्वपापानि पुण्यं स्वर्गं च साधय |
इत्यनेन तु मन्त्रेण स्नात्वा तस्मिन् सरोजले || ७२ ||
पाण्डुनाथं च सम्पूज्य विष्णुसायुज्यमाप्नुयात् |
ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् || ७३ ||
वायुकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः |
पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रहरो हरिः || ७४ ||
सततं यत्र रमते विष्णुर्वाराहरूपधृक् |
ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् || ७५ ||
तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः |
ब्रह्मशैलस्य पूर्वस्यां भूमिपीठे व्यवस्थितम् || ७६ ||
चारुनिम्नशुभावर्तं कामाख्यानाभिमण्डलम् |
अत्रोग्रतारारूपेण रमते परमेश्वरी || ७७ ||
तत्र तेनैव रूपेण पूजितव्या शुभात्मिका |
तस्यास्तु बीजं पूर्वस्मिन्नुत्तरे प्रतिपादितम् || ७८ ||
रूपं शृणु नरश्रेष्ठ येन ध्येया सदा शिवा |
कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका || ७९ ||
चतुर्भुजा कृशाङ्गी तु दक्षिणे कर्तृखर्परौ |
खड्गं चेन्दीवरं वामे शीर्षे चैकजटा पुनः || ८० ||
वामपादं शवस्योर्वोर्निधायाङ्घ्रिं तु दक्षिणाम् |
शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती || ८१ ||
नागहारशिरोमालाभूषिता कामदा परा |
त्रिकोणं मण्डलं चास्या हुङ्कारं मध्यबीजकाम् || ८२ ||
द्वारेशानां योगिनीनां नामान्यस्यास्तु तन्त्रके |
ज्ञेयानि नरशार्दूल यत् प्रोक्तं वाम्यगोचरे || ८३ ||
उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलां तथा |
नीलकूटं समारुह्य पुनर्योनौ न जायते || ८४ ||
पुरन्दरपुरायाते वाराणस्याः हलाधिके |
सुधासंकीर्णतोयौघैः पाप हर ममोर्वशि || ८५ ||
अमृतस्राविणी देवी सुधौघपरिपूरणी |
अमृतेनामृतं मेऽद्य देहि देवि ममोर्वशि || ८६ ||
पुरन्दरप्रिये देवि वाराणस्याः सदाम्धिके |
लोहित्यह्रदसंकीर्णे पापं हर मनोर्वशि || ८७ ||
इत्येभिः स्तुतिभिर्मन्त्रैः स्नात्वा पुण्योर्वशीजले |
सर्वपापविनिर्मुक्तो विष्णुलोके विचेष्टते || ८८ ||
उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी |
सौवर्णपात्रममृतस्रावणाय बिभर्ति च || ८९ ||
शुक्लवस्त्रा गौरवर्णा पीनोन्नतपयोधरा |
सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता || ९० ||
एतन्नामाद्यक्षरं तु मन्त्रमस्याः प्रकीर्तितम् |
उमातन्त्रे तु गदितं मन्त्रमस्याः प्रकीर्तितम् || ९१ ||
गणेशः पूर्वद्वारस्थः कामाख्यापर्वतस्य तु |
तत्रैव चाग्निवेतालः स्थितो द्वारि मनोहरः || ९२ ||
तयो रूपं च मन्त्रं च यथोक्तं शम्भुना पुरा |
तदहं प्रतिवक्ष्यामि महाराज शृणुष्व मे || ९३ ||
ओं नम उल्कामुखायेति मूलबीजादिसङ्गतम् |
मन्त्रं सिद्धगणेशस्य द्वारस्थस्य प्रकीर्तितम् || ९४ ||
रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् |
लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् || ९५ ||
शूर्पकर्ण बृहद्गण्डमेकदन्तं पृथूदरम् |
दक्षिणे तु करे दण्डमुत्पलं च तथापरे || ९६ ||
लड्डुकं परशुं चैव वामतः परिकीर्तितम् |
बृहत्त्वाक्षिप्तगगनं पीनस्कन्धाङ्घ्रिपाणिनम् || ९७ ||
युक्तं बुद्धिकुबुद्धिभ्यामधस्तान्मूषकान्वितम् |
अन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पूजने || ९८ ||
स एव तन्त्रो ग्राह्यस्तु तादृग्विधिनिषेधनम् |
द्विभुजः पीनवदनो रक्तनेत्रो भयङ्करः || ९९ ||
छुरिकां दक्षिणे पाणौ वामे रुधिरपात्रकम् |
दंष्ट्राकरालवदनं कृशो धमनिसन्ततः || १०० ||
जटां दीर्घां मूर्ध्नि बिभ्रद्घोररावयुतस्तथा |
पचतुर्थोऽग्निबीजेन षष्ठस्वरविभूषितः || १०१ ||
अग्निवेतालबीजोऽयं सर्वत्र भयनाशकः |
पूजयेदग्निवेतालं सर्वत्र भयवारणम् || १०२ ||
यः पूजयेत् तस्य पुनर्भूतादिभ्यो भयं नहि |
अष्टानामथ मन्त्राणां योगिनीनां क्रमन्नृप || १०३ ||
शैलपुत्रीप्रमुख्याणां मन्त्राण्यष्टाक्षराणि तु |
वैष्णवीतन्त्रसंस्थानि पूर्वप्रोक्तानि तानि तु || १०४ ||
शैलपुत्र्यास्तथा चाङ्गमन्त्रं प्राक् प्रतिपादितम् |
रूपं तु नरशार्दूल योगिनीनां विशेषतः || १०५ ||
प्रत्यक्षरेण बीजेन दुर्गातन्त्रेण वा त्विमाः |
नेत्रबीजेनैव पूज्या योगिन्यो नृपसत्तम || १०६ ||
कात्यायनीं पाददुर्गां दुर्गातन्त्रेण पूजयेत् |
तदेव पूजनं रूपं तत्पूर्वं प्रतिपादितम् || १०७ ||
कालरात्र्यास्तु मन्त्रेण कालरात्रिं प्रपूजयेत् |
कालरात्र्या रूपमन्त्रौ पुरैव प्रतिपादितौ || १०८ ||
महामायातन्त्रमन्त्रैः पूजयेद् भुवनेश्वरीम् |
एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः || १०९ ||
विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने |
दुर्गातन्त्रेण मन्त्रेण तत्र पूजां समाचरेत् || ११० ||
प्रत्येकं योगिनीं यस्तु पूजयेन्नरसत्तमः |
स सर्वयज्ञस्य फलं प्राप्नोति नरसत्तम || १११ ||
नीलशैलस्य पूर्वस्मिन् स्वरूपं प्रतिपादितम् |
नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणे || ११२ ||
पूर्वस्यां कर्पटो नाम पर्वतो यमरूपधृक् |
तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा || ११३ ||
अधित्यकायां राजेन्द्र व्यामपञ्चसुविस्तृता |
पूजयेत् तत्र शमनं पाणौ दण्डं सदैव यः || ११४ ||
धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम् |
कृष्णवर्ण तु द्विभुजं किरीटमुकुटोज्ज्वलम् || ११५ ||
दधतं चासिपुत्रीं च वामपाणौ सदैव हि |
कृष्णवस्त्रं स्थूलपादं बहिर्निःसृतदन्तकम् || ११६ ||
हयाभयप्रदं नित्यं नृणां महिषवाहनम् |
पूजयेत् परया भक्त्या याम्यबीजेन साधकः || ११७ ||
उपान्तवर्गस्यादिर्यो वर्णो बिन्द्विन्दुसंयुतः |
यमबीजमिति ख्यातं यमस्य प्रीतिदायकम् || ११८ ||
अनेनैव तु मन्त्रेण शमनं पूजयेत् तु यः |
कर्पटाख्येऽचलवरे नापमृत्युमवाप्नुयात् || ११९ ||
पूर्वस्यां कर्पटाख्यात् तु शैलाच्चित्र इति स्मृतः |
यः पूर्वभागप्रान्तेऽभूद्दिश्याग्नेययामवस्थितः || १२० ||
पीठस्तु ब्रह्मग्रावस्तु स प्राक् पर्वत उच्यते |
तस्मिन् वसन्ति सततं ग्रहा नव यथेच्छया || १२१ ||
तत्र तान् पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित् |
रूपं मन्त्रं च सूर्यस्य चन्द्रस्य प्रतिपादितम् || १२२ ||
सप्तानामितरेषां तु मन्त्रं रूपं शृणुष्व मे |
रक्ताम्बरधरः शूली शक्तिमांश्च गदाधरः || १२३ ||
चतुर्भुजो मेषरथो वरदो मङ्गलो मतः |
पीताम्बरधरः शूली पीतमाल्यानुलेपनः || १२४ ||
हड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः |
स्वर्णगौरः पीतवासाः स्वर्णपर्यंकसंस्थितः || १२५ ||
मालां कमण्डलुं दण्डं वामेन वरदायकम् |
चतुर्भुजं च सर्वज्ञं चिन्तयेद् देवतीर्थकम् || १२६ ||
सर्वैर्देवगणैर्नित्यं अम्यमानं मनोहरम् |
शुक्लवस्त्रं शुक्लवर्णं शङ्खनागोपरिस्थितम् || १२७ ||
चतुर्भुजं पाशमालां पुस्तकं च वराभये |
क्रमाद् दक्षिणवामायां धत्ते दैत्यगुरुः सदा || १२८ ||
इन्द्रनीलनिभः शूली वरदो गृध्रवाहनः |
आशबाणासनधरो ध्यातव्योऽर्कसुतः सदा || १२९ ||
कामदेवस्यबीजं तु मन्त्रं भौमस्य कीर्तितम् |
दुर्गाया नेत्रबीजस्य यत्तु मध्यावरं शुभम् || १३० ||
तन्मन्त्रं शशिपुत्रस्य सर्वकामफलप्रदम् |
अंकारपञ्चमादिस्तु चतुःषट्स्वरसंयुतम् || १३१ ||
गणेशबीजान्तमिदं गुरोर्मन्त्र प्रकीर्तितम् |
बिन्द्विन्दुसंयुतं चापि पूर्ववर्णद्वयं पुनः || १३२ ||
सप्तमस्वरसंयुक्तो मकारस्त्वादिरन्तरम् |
प्रान्तवर्गाद्यक्षरं तु बिन्द्विन्दुभ्यां समन्वितम् || १३३ ||
भवेच्छुक्रस्य बीजं तु सर्वकामसमृद्धिदम् |
प्रान्तवर्गाद्यक्षरं तु चन्द्रबिन्दुसमन्वितम् || १३४ ||
आद्यमन्त्रस्वरोपेतं तदेवेत्यादिसंयुतम् |
शनैश्चरस्य मन्त्रोऽयं सर्वदोषविनाशनः || १३५ ||
बिन्दुचन्द्रसमायुक्तं नामाद्यक्षरमेव वा |
तेषां सर्वग्रहाणां वै मन्त्रमङ्ग प्रकीर्तितम् || १३६ ||
शान्तिके पौष्टिके कृत्ये एभिर्मन्त्रैर्ग्रहानिमान् |
पूजयेत् सर्वदा धीरो भूतिकामो महामतिः || १३७ ||
वरदाभयहस्तश्च खड्गचर्मधरस्तथा |
सिंहासनगतः कृष्णा राहुर्धीरः प्रचक्ष्यते || १३८ ||
धूम्रवर्णो विशालाक्षः पुच्छरूपी चतुर्भुजः |
खड्गचर्मगदाबाणपाणिः केतुः शवासनः || १३९ ||
उपान्तादिर्द्वादशेन स्वरेण सहितः पुनः |
उपान्तः पञ्चमेनेन्दुबिन्दुभ्यां सहितावुभौ || १४० ||
मन्त्रोऽयमनुलोमेन राहोः केतोर्विलोमतः |
आद्यक्षरं पूर्ववद् वा मन्त्रयुक्तमथैतयोः || १४१ ||
एवं चित्रे शैलवरे पूजयित्वा नवग्रहान् |
अभीष्टाल्लंभते कामान्तरः शान्तिं तथोत्तमाम् || १४२ ||
चित्रकूटात् तु पूर्वस्यां कज्जलाचल उत्तमः |
सर्वविद्याधराद्यास्तु सन्त्यस्मिन् देवयोनयः || १४३ ||
तं पर्वतं समारुह्य प्रणम्य सकलान् सुरान् |
स्वर्गं यान्ति नरश्रेष्ठ इह चाप्यतुलां श्रियम् || १४४ ||
कज्जलाचलशैलात् तु पूर्वस्मिञ्छुभपर्वतः |
शच्या सार्धं पुरा रेमे यत्र सक्रः सुरेश्वरः || १४५ ||
तत्पूर्वस्यां महादेवी नदी कपिलगङ्गिका |
तस्यां स्नात्वा नरो गङ्गास्नानजं फलमाप्नुयात् || १४६ ||
कामाख्यानिलयात् पूर्वं दक्षिणस्यां तथा दिशि |
विद्यते महदावर्तं भुवि ब्रह्मबिलं महत् || १४७ ||
पंचविंशतिमानेन योजनानां नरेश्वर |
तस्मादायाति सुनदी सिताम्भोऽपम ओयभाक् || १४८ ||
को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य बिलात् सृता |
गंगेव फलदा यस्मात् तस्मात् कपिलगंगिका || १४९ ||
स्नात्वा कपिलगङ्गायां सर्वमन्वन्तरेषु च |
नरः स्वर्गमवाप्यादौ ब्रह्मलोक ततो व्रजेत् || १५० ||
अतीत्य तां नदीं पूर्वभागे दमनिकाह्वया |
नदी महाकृष्णतोया पापस्य दमनी तथा || १५१ ||
ततो वृद्धाह्वया चाभूदपरा सरिदुत्तमा |
तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी || १५२ ||
माघं तु सकलं मासं स्नात्वा मुक्तिमवाप्नुयात् |
तथा दमनिकायां च परं निर्वाणमाप्नुयात् || १५३ ||
ततः पूर्वे परा देवी नाम्ना सा सरिदुत्तमा |
महती दिव्ययमुना यमुनावत् फलप्रदा || १५४ ||
दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी |
तस्यां तु कार्तिकं मासं स्नात्वा मुक्तिमवाप्नुयात् || १५५ ||
इह चैवोत्तमान् भोगान् भागधेयान् प्रतिष्ठितान् |
तन्मध्ये भैरवो देवो भर्ग सम्भोगसम्भवः || १५६ ||
उर्जयाख्ये वरगिरावस्त्युपत्यकभूतिगः |
योऽसौ शरभरूपस्य मध्यखण्डोऽतिभैरवः || १५७ ||
स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः |
सम्पूज्य तत्र मतिमान् स याति शिवलोकताम् || १५८ ||
कामेश्वरस्य या पूजा कथिता नीलनिर्णये |
सम्पूज्य पर्वतश्रेष्ठे दुर्जये चाचलोत्तमे || १५९ ||
तत्र भैरवगङ्गास्ति सरो वै भैरवाह्वयम् |
तयोः स्नात्वा नरो याति शिवलोकं सनातनम् || १६० ||
दुर्जयाख्यस्य पूर्वस्यां पुर नाम वरासनम् |
तद्दक्षिणे महाशैलः क्षोभको नाम नामतः || १६१ ||
तस्मिन् गिरौ शिलापृष्ठे रक्तदेवी व्यवस्थिता |
पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी || १६२ ||
अञ्चभिर्दुर्गायोनिभिः पूजयेत् पंचवक्त्रकम् |
स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा || १६३ ||
तच्छैलपूर्वभागे तु कान्ता नाम महानदी |
दक्षिणं सागरं याति प्रथमं चोत्तरस्रवा || १६४ ||
दिव्यं कुण्डं महाकुण्डं अच्छैलोपत्यकाक्षितौ |
संस्थितं तत्र स्नात्वा तु तां देवीं परिपूजयेत् || १६५ ||
दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करणीं शिवाम् |
यः पूजयेन्महाभागः स योनौ न हि जायते || १६६ ||
पञ्चयोन्यः पुष्करिणीः पंचैव परिसंस्थिताः |
यतस्ततः पञ्चरूपा पञ्चपुष्करिणी मता || १६७ ||
अथाबकुल-पुष्पाणि तथैताः पञ्चयोनयः |
पञ्चपुष्करिणीदेव्यः प्रचण्डाः सर्वकामदाः || १६८ ||
त्रिपुरायास्तु तन्त्रेण ताः पूज्याः साधकोत्तमैः |
कामेश्वरीतन्त्रमन्त्रैरथवा पूजयेच्छिवाम् || १६९ ||
बालायास्त्रिपुरायास्तु मन्त्रमस्याः प्रकीर्तितम् |
कामेश्वर्यास्तु वा मन्त्रं पूजनेऽस्याः प्रकीर्तितम् || १७० ||
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका |
चण्डा चेति च योगिन्यः पञ्चास्याः परिकीर्तिताः || १७१ ||
शिवलिङ्गं च तत्रास्ति शिलायां हेरुकाह्वयम् |
देवीदक्षिणपूर्वस्यां नायकं तं तु पूजयेत् || १७२ ||
भैरवस्य तु मन्त्रेण पूजयित्वा दिवं व्रजेत् |
निर्माल्यधारिणी देवी चण्डगौरीति कीर्तिता || १७३ ||
एतस्यां नरशार्दूल पुरा भर्गेण भाषिता |
कान्तायां सलिले स्नात्वा वसन्ते मानवोत्तमः || १७४ ||
रूपवान् गुणवान् भूत्वा शिवलोकाय गच्छति |
क्षोभकाख्याद् महाशैलादैशान्यां पर्वतोत्तमः || १७५ ||
तुंगसन्ध्याचलो नाम वसिष्ठो यत्र शप्तवान् |
निमिनाम्नस्तु राजर्षेः शापाद् ब्रह्मसुतः पुरा || १७६ ||
वसिष्ठो ह्यशरीरोऽभूत् तच्छापाच्च निमिस्तथा |
ततो ब्रह्मोपदेशेन निर्जने कामरूपके || १७७ ||
सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत् तदा |
प्रत्यक्षस्तस्य देवस्य बरदानान्महामुनिः || १७८ ||
अमृतान्यवतार्याशु कुण्डं कृत्वा गिरेस्तटे |
तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् || १७९ ||
तस्मादमृतकृण्डाच्च सन्ध्या नाम नदीवरा |
निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् || १८० ||
तस्मात् पूर्वं तु ललिता ललिताख्या सरिद्वरा |
सागराद् दक्षिणात् पूर्वं महादेवावतारिता || १८१ ||
वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः |
कुर्याद् वै ललितास्नानं स शम्भुसदनं व्रजेत् || १८२ ||
ललितायाः पूर्वतीरे भगवान्नाम पर्वतः |
स्वयं विष्णुर्लिङ्गरूपी तत्रास्ते भगवान् हरिः || १८३ ||
ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके |
भगवन्तं समारुह्य यो यजेत् परमेश्वरम् || १८४ ||
स याति विष्णुसदनं शरीरेण विराजता |
एताः पूर्वोदिता नद्यः सर्वाश्चैवोत्तरस्रवाः || १८५ ||
क्रमात् तु दक्षिणं यान्ति सागरं जाह्नवीसमाः |
कामाख्यां प्रथमं दृष्ट्वा स्नात्वा चैवोर्वशीजले |
य एतासु चरेत् स्नानं स तु मुक्तिमवाप्नुयात् || १८६ ||
इति श्रीकालिकापुराणे एकोनाशीतितमोऽध्यायः || ७९ ||
Kapitel 80
अशीतितमोऽध्यायः
और्व उवाच
शाश्वती कथिता या तु नदी मत्स्यध्वजासिता |
तस्याः पूर्वे समाख्याता नदी दीपवती मता || १ ||
एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः |
तेन देवमनुष्येषु नदी दीपवती स्मृताः || २ ||
दीपवत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः |
तत्र देवस्य भर्गस्य लिङ्गमेकं प्रतिष्ठितम् || ३ ||
सरित् तु सिद्धा त्रिःस्रोता दक्षिणोदधिगामिनी |
शृङ्गाटकस्य सततं स्रवन्ती सा तु पादतः || ४ ||
दक्षिणं सागरं याति भर्गस्य प्रियकारिणी |
सलिले यो नरः स्नात्वा त्रिःस्रोताया नरोत्तमः || ५ ||
शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम् |
स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् || ६ ||
अन्ते भर्गगृहं याति ततो मोक्षमवाप्नुयात् |
हरस्तु द्विभुजस्तस्मिन् सदा वृषभवाहनः || ७ ||
उमया रमते सार्धं वामदेवस्य मन्त्रकैः |
तन्त्रैश्च पूजयेद् देवमुमामन्त्रेण चण्डिकाम् || ८ ||
तत्-पूर्वतो निम्नगा तु नाम्ना तु वृद्धवेदिका |
तस्यां स्नात्वा फलं मर्त्यो देदिकास्नानजं लभेत् || ९ ||
ततो भट्टारिका नाम हिमशैलसमुद्भवा |
महानदी देवगणैर्या सदोपास्यते सुखम् || १० ||
तस्यां यः कुरुते स्नानं युगादिषु चतुर्ष्वपि |
स याति परमं स्थानं तद्विष्णोः परमं पदम् || ११ ||
अस्ति नाटकशैले तु सरो मानससन्निभम् |
यत्र सार्धं शैलपुत्र्या जलक्रीडां सदा हरः || १२ ||
कुरुते नरशार्दूल स्वर्णपङ्कजशोभिते |
तस्य पश्चान्मध्यपूर्वभागेभ्यस्तु सरित्-त्रयम् || १३ ||
अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति |
तस्य पश्चिमभागे तु नदी दिक्करिकाह्रया || १४ ||
दिग्गजक्षतसंजाता तेन दिक्करिकाह्वया |
मध्यभागात् सृता या तु शङ्करेणावतारिता || १५ ||
वृद्धगंगाह्वया सा तु गंगेव फलदायिनी |
या निःसृता पूर्वभागात् तस्माद् गिरिवरान्नदी || १६ ||
सुवर्णश्रीरिति विख्याता सा गङ्गासदृशीफले |
कुर्वत्याः सरसि स्नानं पार्वत्याश्च शरीरतः || १७ ||
निःसृताः स्वर्णकणिकास्ता वहन्ति अलैरिमाः |
क्रीडार्थं शम्भुना गात्रे कणिकाभिः समाचिताः || १८ ||
स्वस्थानात् तत्र संलग्नास्ततश्चन्दनबिन्दवः |
ता उमायाः शरीरात् तु संस्रवन्ति जलैः सह || १९ ||
ततः स्वर्णवहा नाम स्वर्णश्रीः सर्वतोऽधिका |
एतासु चैत्रमासं तु स्नात्वा मर्त्यो नरर्षभः || २० ||
कृष्णपक्षे चतुर्दश्यां त्रिकालं यत्र मानवः |
इरं देवीगृहे स्थित्वा शेषे ब्रह्मगृहं व्रजेत् || २१ ||
भूमाववगतः पश्चात् सार्वभौमो नृपो भवेत् |
वृद्धगङ्गाजलस्यान्तस्तीरे ब्रह्मसुतस्य वै || २२ ||
विश्वनाथाह्वयो देवः शिवलिङ्गसमन्वितः |
विश्वदेवी महादेवी योनिमण्डलरूपिणी || २३ ||
हयग्रीवेण युयुधे तत्र देवो जगत्पतिः |
हयग्रीवं यत्र हत्वा मणिकूटं पुरागतम् || २४ ||
तत्र यः पूजयेद् दुर्गां शारदां तन्त्रमन्त्रकैः |
हयग्रीवस्य मन्त्रेण तन्त्रेण गरुडध्वजम् || २५ ||
कामेश्वरस्य तन्त्रेण मन्त्रेणापि च शङ्करम् |
यो यजेत् परया भक्त्या द्वादश्यां समुपोषितः || २६ ||
अष्टम्यां च चतुर्दश्यां तस्य पुण्यफलं शृणु |
कल्पकोटित्रयं स्थित्वा सिवगेहे गृहे हरेः || २७ ||
तावन्तं संस्थितः कालं तावन्तं च शिवागृहे |
शेषे भुवं समासाद्य वेदविद् ब्राह्मणो भवेत् || २८ ||
अद्याः स्वर्णश्रियः पूर्वं नदी कामाह्वया शुभा |
कामायाः पूर्वभागे तु नदी ओमाशनाह्वया || २९ ||
ओमाशनायाः पूर्वस्यां नदी नाम्ना वृषोदका |
ततः पूर्वे कामरूपं पीठं ते जगतां प्रसूः || ३० ||
जगन्मयी महामाया देवी दिक्करवासिनी |
एता याः कथिता नद्यः सकला दक्षिणस्रवाः || ३१ ||
तासु स्नात्वा च पीत्वा च स्वर्गलोकमवाप्नुयात् |
प्रान्ते दिक्करवासिन्याः सदा वहति स्वर्णदी || ३२ ||
सितगङ्गाह्वया लोके साक्षाद् गङ्गाफलप्रदा |
सा भूमिपीठसंस्था च देवी दिक्करवासिनी || ३३ ||
अन्तर्जले प्लावयन्ती याति प्रत्यक्षतां सुरैः |
सितगङ्गाजले स्नात्वा दृष्ट्वा शम्भुं हरिं विधिम् || ३४ ||
इष्ट्वा ललितकान्ताख्यां पुनर्योनौ न जायते |
लिङ्गस्वरूपी भगवाञ्छम्भुस्तत्र स्वयं स्थितः || ३५ ||
विष्णुः शिलास्वरूपेण ब्रह्मलिङ्गस्वरूपधृक् |
पीठे दिक्करवासिन्या द्विरूपा रमते शिवा || ३६ ||
तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता |
परा ललितकान्ताख्या या श्रीमङ्गलचण्डिका || ३७ ||
तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप |
कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा || ३८ ||
तेन रूपेण तां देवीं सततं परिपूजयेत् |
अङ्गमन्त्रं च रूपं च तस्याः प्राक्प्रतिपादितम् || ३९ ||
त्रिकोणं मण्डलं चास्यः कर्तव्यं मन्त्रपूर्वकम् |
आदौ रेखे ततः पश्चात् सुरेखेति पदं ततः || ४० ||
तथा पदं चाधिगम्य तिष्ठन्तिवति पदं ततः |
मण्डलस्यास्य मन्त्रोऽयं तीक्ष्णायाः परिकीर्तितः || ४१ ||
नरत्रिपुरदेवादियमवेतालदुर्धराः |
अणश्रमेत्यन्तकान्ता द्वारपालाः प्रकीर्तिताः || ४२ ||
एतांस्तु पूजयेत् सम्यङ्मण्डलस्याष्टदिक्षु वै |
आदौ सम्बोधनं कृत्वा वज्रपुष्पं ततः परम् || ४३ ||
अह्निजायं ततः पश्चान्मन्त्रमेषां प्रकीर्तितम् |
पात्रोपकरणादीनां थानस्यान्यस्य सर्वतः || ४४ ||
सर्वमुत्तरतन्त्रोक्तं उह्यं रूपद्वयेऽपि च |
चामुण्डा च कराला च सुभगा भीषणा भगा || ४५ ||
विकटेति च योगिन्यः प्रोक्ता यस्यास्तवैव षट् |
ए भगवत्येकजटे विद्महे पदमन्ततः || ४६ ||
विकटदंष्ट्रे धीमहि तन्नस्तारे प्रचोदयात् |
एषा तु तीक्ष्णगायत्री पीठदेव्याः प्रकीर्तिता || ४७ ||
निर्माल्यधारिणी चास्या देवी विकटचण्डिका |
माला तु मृन्मयी प्रोक्ता रुद्राक्षसम्भवापि वा || ४८ ||
विशेष एष देव्यास्तु पूजने परिकीर्तितः |
उपचारादिकं कृत्यं बलिदानं जपादिकम् || ४९ ||
अर्वं तु पूर्ववद् ग्राह्यं कामाख्यापूजने यथा |
आनेषु मदिरा शस्ता नरो वलिषु पार्थिव || ५० ||
ओदको नारिकेलं च मांसव्यञ्जनमैक्षवम् |
ऐवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्तिताः || ५१ ||
यषा ललितकान्ताख्या देवी मङ्गलचण्डिका |
वरदाभयहस्ता सा द्विभुजा गौरदेहिका || ५२ ||
रक्तपद्मासनस्था च मुकुटोज्ज्वलमण्डिता |
अक्तकौशेयवसाना स्मितवक्त्रा शुभानना || ५३ ||
नवयौवनसम्पन्ना चार्वङ्गी ललितप्रभा |
उमाया भाषितं मन्त्रं यत् पूर्वं त्वेकमक्षरम् || ५४ ||
मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत् |
नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि || ५५ ||
तन्नो ललितकांन्तेति ततः पश्चात् प्रचोदयात् |
एषा ललितगायत्री देव्या इष्ट्यै प्रकीर्तिता || ५६ ||
लोहितांगस्य दिवसः प्रियोऽस्याः परिकीर्तितः |
कालो वसन्तकालश्च स्वरश्चापि तु पञ्चमः || ५७ ||
अष्टम्यां च नवम्यां त्र पूजा कार्या विभूतये |
निर्माल्यधारिणी चास्या देवी ललितचण्डिका || ५८ ||
दूर्वाङ्कुरैः समायुक्तमक्षतं प्रीतिदं परम् |
अयमस्या विशेषस्तु पूजने परिकीर्तितः || ५९ ||
वैष्णवीतन्त्रमन्त्रस्य अन्त्रं ग्राह्यं तु पूजने |
उपचारो बलिश्चास्या विहितो यः क्रमः पुरा || ६० ||
महामायामहादेव्यास्तद्ग्राह्यं परिपूजने |
स्वगात्ररुधिरं दद्यादात्मनश्च हिताय वै || ६१ ||
पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम् |
यः पूजयेद् भौमादिने शुभर्दूर्वाङ्कुरैः शिवाम्ः || ६२ ||
सततं साधकः सोऽपि काममिष्टमवाप्नुयात् |
एवं दिक्करवासिन्याः कथितः पूजनक्रमः || ६३ ||
यच्छ्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः |
दिक्करस्त्वरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः || ६४ ||
तस्मिन्नध्युषिता देवी तस्माद् दिक्करवासिनी |
जगत्त्रयेऽपि यस्यास्तु सदृशी क्वापि सुन्दरी || ६५ ||
नान्यास्ति ललिता तेन देवी ललितकान्तिका |
शङ्करस्य पुरा प्रोक्तो ग्राह्यो वै पूजनक्रमः || ६६ ||
शृणु राजन्नवहितो ब्रह्मणः पूजनक्रमम् |
ब्रह्मबीजं पुरा प्रोक्तं तन्मन्त्रं सर्वतश्चरेत् || ६७ ||
तेनैव तं तु सम्पूज्य परं निर्वाणमाप्नुयात् |
एतस्य चाङ्गमन्त्रं तु यथा भर्गेण भाषितम् || ६८ ||
वेतालभैरवाभ्यां तु रूपं च शृणु भूमिप |
अस्तृतीयश्च वह्निश्च शेषस्वरसमन्वितः || ६९ ||
चन्द्रबिन्दुसमायुक्तो ब्रह्ममन्त्रं प्रकीर्तितम् |
अनेनैव तु मन्त्रेण ब्राह्मणं यः प्रपूजयेत् || ७० ||
स काममिष्टं संप्राप्य ब्रह्मलोकेषु मोदते |
ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः || ७१ ||
कदाचिद्रक्तकमले हंसारूढः कदाचन |
वर्णेन रक्तगौराङ्गः प्रांशुस्तुङ्गाङ्ग उन्नतः || ७२ ||
कमण्डलुं वामकरे सुर्च हस्ते च दक्षिणे |
दक्षिणाधस्तथा मालां वामाधश्च तथा स्रुवम् || ७३ ||
वाज्यस्थाली वामपार्श्वे देवाः सर्वेऽग्रतः स्थिताः |
सावित्री वामपार्श्वस्था दक्षिणस्था सरस्वती || ७४ ||
सर्वे च ऋषयो ह्यग्रे कुर्यादेवं विचिन्तनम् |
चतुष्कोणं अतुर्द्वारमष्टपत्रसमन्वितम् || ५ ||
चतुष्कोणेष्वङ्कितं तु रक्कमण्डलुस्रुक्स्रुवैः |
सम्मार्जनादिकं सर्वं याश्चान्याः प्रतिपत्तयः || ७६ ||
दृष्ट्वाश्चोत्तरतन्त्रोक्ता योगपीठेऽङ्गिकादिकाः |
आधारशक्तिप्रमुखांस्तथा सर्वांस्तु पूजयेत् || ७७ ||
अष्टपत्रेषु अद्मस्य दिक्पालांश्च प्रपूजयेत् |
पद्मासनाय विद्महे हंसरूढाय धीमहि || ७८ ||
तन्नो ब्रह्मन्निति पदं ततः पश्चात् प्रचोदयात् |
एषा तु ब्रह्मगायत्री पूजयेदनया विधिम् || ७९ ||
निर्माल्यधारी चैतस्य सनत्कुमार उच्यते |
उपचाराः पूर्ववत् तु एत्राञ्जनविवर्जिताः || ८० ||
रक्तकौशेयवस्त्रं तु ब्रह्मप्रीतिकरं परम् |
अन्नं सपायसं सर्पिस्तिलयुक्तं च भोजनम् || ८१ ||
सितरक्तसमायुक्तं चन्दनं परिकीर्तितम् |
पार्श्वयोः शंकरं विष्णुं ऊजने पूजयेत् पुरः || ८२ ||
स्रुवादीन् करसंस्थांस्तु मण्डले परिपूजयेत् |
सरस्वतीं च सावित्री हंस पद्मं तथैव च || ८३ ||
अयं विशेषः कथितः प्रणामश्चास्य दण्डवत् |
पद्मबीजभवा माला जपकर्मणि कीर्तिता || ८४ ||
पूर्णादर्शौ तिथी ग्राह्यौ पूजाकर्मणि सर्वदा |
क्षीरेणार्घ्यं प्रदद्यात् तु सर्वदा ब्रह्मणे नृप || ८५ ||
अयं ते कथितो भूप यथा भर्गेण भाषितः |
दर्शयता स्वपुत्राभ्यां कामरूपाह्वयं शुभम् || ८६ ||
यत्र तत्र विधिञ्चैव साधकः परिपूजयेत् |
पीठे सम्यक् पूजयित्वा परं निर्वाणमाप्नुयात् || ८७ ||
कथिता ब्रह्मणः पूजा पूजनं शृणु वैष्णवम् |
बीजं तु वासुदेवस्य पुरैव प्रतिपादितम् || ८८ ||
तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते |
अमो भगवते पूर्वं वासुदेवाय वै परम् || ८९ ||
अङ्गमन्त्रमिदं चैव वासुदेवस्य कीर्तितम् |
अस्य रत्यङ्गरूपं तु दधिवामनसंज्ञकम् || ९० ||
तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु |
ओं नमो विष्णवे पूर्वं पदं तस्य प्रकीर्तितम् || ९१ ||
पदं च सुरपतये चतुर्थ्यन्तं महाबलम् |
स्वाहान्तं हृदयासन्नं प्रत्यङ्गवैष्णवं मतम् || ९२ ||
अन्त्रत्रयं तु यो वेद बीजं प्रत्यङ्गसंज्ञकम् |
स पुमान् देवकायस्तु न स भूयोऽभिजायते || ९३ ||
सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने |
त्रिषु मन्त्रेषु च सदा विशेषं शृणु भूपते || ९४ ||
रूपं तु बीजमन्त्रस्य प्रथमं शृणु भूपते |
पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः || ९५ ||
चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत् |
दक्षिणोर्ध्वे गदां धत्ते तदधो विकचाम्बुजम् || ९६ ||
वामोर्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च |
श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चांशुमत् || ९७ ||
धत्ते कक्षे ह्यधोवामे तूणीरं बाणपूरितम् |
दक्षिणे कोषगं खड्गं नन्दकं अशरासनम् || ९८ ||
शीर्षे किरीटं सूद्योतं कर्णयोः कुण्डलद्वयम् |
आजानुलम्बिनीं चित्रां वनमालां गले स्थिताम् || ९९ ||
दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम् |
सरस्वतीं वामपार्श्वे चिन्तयेद् वरदं हरिम् || १०० ||
बीजमन्त्रस्य रूपं च कथितं तव पार्थिव |
द्वादशाक्षरमन्त्रस्य रूपमेतच्छृणुष्व मे || १०१ ||
नीलोत्पलदलश्यामं तथैव च चतुर्भुजम् |
दक्षिणोर्ध्वस्थितं पद्मं गदां चाथ प्रयोजयेत् || १०२ ||
वामेऽधश्चक्रमतुलमूर्ध्वे शंखं च बिभ्रतम् |
चिन्तयेद् वरदं देवं सर्वमन्यच्च पूर्ववत् || १०३ ||
अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य च चिन्तनम् |
शृणु राजन्नवहितो दारिद्र्यभयनाशनम् || १०४ ||
पूर्णेन्दुसदृशं कान्त्या शुक्लवर्णं विचिन्तयेत् |
करे विचिन्तयेद् वामे पीयूषापूरितं घटम् || १०५ ||
दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् |
पद्मासनगतं देवं चन्द्रमण्डलमधगम् || १०६ ||
शुक्लवस्त्रधरं देवं प्रमाणाद् वामनं सदा |
ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् || १०७ ||
चिन्तयेद् वरदं देवं सर्वकामफलप्रदम् |
दहनप्लवनादौ च पूर्वतन्त्रोदिता यथा || १०८ ||
तथा मन्त्राः परिग्राह्यास्तथा चोत्तरतन्त्रगाः |
मण्डलस्य क्रमं तस्य शृणु भर्गेण भाषितम् || १०९ ||
रेखया नित्यपूजासु रजोभिः पंचभिस्तथा |
नैमित्तिके यथा कार्यं भेदाभेदेन साम्प्रतम् || ११० ||
अस्तमात्रं चतुर्द्वारं वत्लाम्बुजसन्निभम् |
चतुष्कोणे चतुर्भिस्तु शङ्खैर्युक्तं मनोहरम् || १११ ||
अद्धद्वारं दिक्पतीनामायुधैः करणैस्तथा |
अष्टासु दिक्षु निहितं सबहिर्वेष्टपद्मकम् || ११२ ||
एवं यथा रजोभिस्तु कार्यं तच्छृणु पार्थिव |
सितैः पीतैस्तथा रक्तैः श्यामैश्च हरितैः क्रमात् || ११३ ||
रजोभिर्मण्डलं कुर्यादन्यथा न समाचरेत् |
चतुर्हस्तं त्रिहस्तं च द्विहस्तं हस्तमात्रकम् || ११४ ||
सर्वत्र मण्डलं कुर्याद् यथोक्तं वाधिकं पुनः |
राजसूयाश्वमेधादौ चतुर्हस्ताधिकं मतम् || ११५ ||
कल्पानतिक्रमाद् भूप यथोक्तं यत्र यत्र च |
दिक्पालायुधपद्मानां पूर्ववल्लिखनक्रमः || ११६ ||
सितै रजोभिः कर्तव्यं मध्ये पद्मं सुवर्तुलम् |
कर्णिका पीतवर्णास्य केशराग्रं तथारुणम् || ११७ ||
रक्तैः पीतैः पूरयेत् तु बहिः पद्मस्य सर्वतः |
वज्रं शक्तिं लोहदण्डं खड्गं पाशाङ्कुशं गदाम् || ११८ ||
शूलमष्टदिगीशानामायुधानि क्रमात् पुनः |
शम्भुर्गौरी तथा ब्रह्मा रामः कृष्णस्तथैव च || ११९ ||
एतास्तु सततं पूज्याः संस्थिताः पञ्चदेवताः |
न कदाचिदबुधः कुर्याच्छम्भुगौर्यो वियोजनम् || १२० ||
वियोगे तु कृता पूजा निष्फला तस्य जायते |
विच्छिन्नं मूर्ध्नि भूतं तु पूजितं शक्तमेव च || १२१ ||
न्यासे तु मण्डलस्यास्य रजोदोषं विवर्जयेत् |
सर्वत्र मण्डलं कार्यं वासुदेवस्य पूजने || १२२ ||
एवमेव नृपश्रेष्ठ निष्फलं चान्यथेतरत् |
बलभद्रश्च कामश्च ह्यनिरुद्धस्तदुद्भवः || १२३ ||
नारायणस्तथा ब्रह्मा विष्णुः षष्ठः प्रकीर्तितः |
नरसिंहो वराहश्च ओगिन्नोऽष्टौ प्रकीर्तिताः || १२४ ||
पूर्वाद्यष्टदले श्वेतान् रूपतो मन्त्रतः पृथक् |
पूजयेत् कर्णिकामध्ये वासुदेवं तु नायकम् || १२५ ||
विमला नायिका तस्य वासुदेवस्य कीर्तिता |
बलभद्रमुखानां तु योगिनीः शृणु पार्थव || १२६ ||
आदावुत्कर्षिणी ज्ञेया ज्ञाना पश्चात् क्रियापरा |
योगा प्रह्वी तथैशानी अनुग्राही तथाष्टमी || १२७ ||
सर्व चतुर्भुजाः प्रोक्ताः शङ्खचक्रगदाधराः |
योगिनो बलभद्र तु कामं विधिमृते तथा || १२८ ||
इधे रूपं तु पूर्वोक्तं हलं च मुषलं बलः |
हड्गं चक्रं च धत्ते यो गदां पार्श्वे स्थितां सदा || १२९ ||
कामस्तु पुष्पकोदण्डं धत्ते वामेन पाणिना |
अदां चक्रं च पुष्पं च धत्तेऽन्यैः पाणिभिः पुनः || १३० ||
पार्श्वे पद्मं तथा धत्ते सर्वमन्यच्च पूर्ववत् |
चक्रं शङ्खो वराहस्य दक्षिणे परिकीर्तितौ || १३१ ||
नृसिंहस्य पुनश्चक्रशङ्खौ दक्षिणवामयोः |
शङ्खं पद्मं तथा विष्णोः पाण्योर्दक्षिणयोः स्थितम् || १३२ ||
शंखो गदा वामतस्तु नारायणकरस्थितौ |
दक्षिणाधो गदां धत्ते ह्यनिरुद्धो अरोत्तम || १३३ ||
इतरक्तस्तथा पीतो भिन्नाञ्जननिभस्तथा |
नीलोत्पलदलश्यामस्तथा रक्तघनप्रभः || १३४ ||
भ्रमरश्यामलः पिङ्गः स्वर्णगौरः क्रमादिमे |
वर्णतो योगिनः प्रोक्ता वासुदेवस्य पार्थिव || १३५ ||
यादृग्वर्णश्च ध्यानं च यस्य यस्य च योगिनः |
आदृशींयोगिनीं तस्य चिन्तयेत् तत्समीपगाम् || १३६ ||
आधारशक्तिप्रमुखाः सर्वा आसनदेवताः |
ग्रहाश्च सर्वे दिक्पाला ध्यानतो मन्त्रतस्तथा || १३७ ||
पूजनीया यथोद्देशे मण्डलस्य क्रमान्नृप |
देवस्य चिन्तितं यद्यच्छरीरे कमलादिकम् || १३८ ||
धृतास्त्रं वज्रशक्त्यादिगरुडादींश्च पूजयेत् |
वर्णमालां शम्भुमतामासाद्य क्रमयोगतः || १३९ ||
आद्यद्वितीयक्रमतो गदादीनां तु मन्त्रकम् |
पञ्चरात्रोदिते भागे नारदेन यथोदिताः || १४० ||
मन्त्राश्चक्रगदादीनां ग्राह्याः सर्वत्र पूजने |
गरुत्मान् सूर्यसङ्काशो गदा कृष्णायसी पुनः || १४१ ||
सरस्वती शुक्लवर्णा लक्ष्मीर्हेमप्रभा सदा |
मध्याह्नसूर्यप्रतिमं चक्रं तु परिकीर्तितम् || १४२ ||
सम्पूर्णचन्द्रप्रतिमः शङ्खस्तु परिकीर्तितः |
कौस्तुभो ह्यरुणः प्रोक्तः श्रीवत्सो ह्यरुणद्युतिः || १४३ ||
आरक्तकौस्तुभो ज्ञेयो माला चित्रा प्रकीर्तिता |
विद्युत्प्रभा सर्वबाणाः शक्रचापप्रभं धनुः || १४४ ||
स्वर्णचूर्णप्रकाशं तु वस्त्रमस्य प्रकीर्तितम् |
बालसूर्यप्रतीकाशे कुण्डले द्वे श्रवोगते || १४५ ||
सूर्यस्य सदृशं शीर्षे किरीटं परिकीर्तितम् |
शृणु न्यासं ततो भूप यैर्न्यासैर्विष्णुरूपधृक् || १४६ ||
साधको हि भवेन्नित्यं स्वर्गमोक्षप्रदायकम् |
न्यासं तु प्रथमं कुर्यान्मन्त्रविद् द्वादशाक्षरैः || १४७ ||
वासुदेवस्य बीजेन बीजं चैवाथ योगिनाम् |
ततों न्यसेन्महामन्त्रै स्ततश्चाष्टादशाक्षरैः || १४८ ||
ततस्तु हृदयादीनां षड्भिर्मन्त्रंद्विधा पुनः |
एवं चतुर्भिर्न्यासैस्तु पूजामेकां समाचरेत् || १४९ ||
प्रथमं दक्षिणाङ्गुष्ठे न्यसेदाद्यक्षरं बुधः |
वादशाक्षरमन्त्रस्य शेषबीजानि तु क्रमात् || १५० ||
अर्जन्यादौ दक्षिणस्य वामाङ्गुष्ठान्तमेव च |
शेषाक्षरद्वयं पश्चाद् न्यसेत् पाणितलद्वये || १५१ ||
हृदि शीर्षे शिखायां च स्कन्धयोर्दृक्पिचण्डयोः |
ऋष्ठे तु भुजयोः पाष्योर्जंघयोः पादयोः क्रमात् || १५२ ||
द्वादशाक्षरमन्त्रस्य बीजानि च ततो न्यसेत् |
अङ्गुष्ठयोस्तु प्रथमं वासुदेवस्य तत्त्वकम् || १५३ ||
तर्जन्यादौ योगिनां तु बीजान्यष्टौ द्वयोर्न्यसेत् |
सिरोदृगा स्यकण्ठोरोनाभिगुह्येषु जानुनोः || १५४ ||
पादयोर्वासुदेवस्य योगिबीजानि विन्यसेत् |
मन्त्राणि हृदयादीनां यान्युक्तानि पुरा नृप || १५५ ||
तानि न्यस्याङ्गुष्ठमूलेऽङ्गुलीजाते द्वये द्वये |
वामदक्षिणपाण्योस्तु शेषं तु तलयोन्यसेत् || १५६ ||
हृदयाद्यस्त्रपर्यन्तं पुनस्तानि क्रमान्न्यसेत् |
अष्टादशाक्षरस्यादिनववर्णान् न्यसेद् बुधः || १५७ ||
शिरोनेत्रादिपूर्वोक्ते नवबीजस्य गोचरे |
शेषान् वर्णान् सङ्कीर्णंपार्श्ववस्तिषु शेफसि || १५८ ||
कट्यामूर्वोर्जङ्घयोश्च न्यसेत् पादाङ्गुलीषु च |
यस्य मन्त्रस्य या पूजा तन्त्रैस्तु यत्र चोदिता || १५९ ||
तस्य तन्त्रस्य तत्रैव न्यासं मन्त्री समाचरेत् |
अथ चैकत्र सर्वेषां न्यासं कुर्याद् विचक्षणः || १६० ||
चतुर्विधैः कृतैर्न्यासैः पूतात्मा धूतकल्मषः |
साक्षाद् विष्णुर्भवेन्मन्त्री सम्यक् पूजाफलं लभेत् || १६१ ||
विनापि पूजनं यस्तु न्यासं कुर्याच्चतुर्विधम् |
स धीरो विष्णुसायुज्यमाप्नोति परमं पदम् || १६२ ||
योगपीठं ततो ध्यात्वा गरुडं चक्रंशङ्खं च |
गदां लक्ष्मीं तथा पद्मं क्रमादेतेषु विन्यसेत् || १६३ ||
पूर्वदक्षिणकौबेरपश्चात् कोणेषु वै क्रमात् |
दक्षिणे चोत्तरे वापि विन्यसेन्मन्त्रविद् बुधः || १६४ ||
वनमालां पद्ममध्ये श्रीवत्सं कौस्तुभं मणिम् |
विन्यस्य दक्षिणे तस्य न्यसेच्छार्ङ्गं शरासनम् || १६५ ||
तणीरयुगलं वामे खड्गं दक्षिणतो न्यसेत् |
वामे चर्म निधायाश तत्र कुर्यात् सरस्वतीम् || १६६ ||
पूजयित्वा च सर्वाणि ततो मुद्रां प्रदर्शयेत् |
मुद्राः पुटाद्या याः प्रोक्ता विष्णुर्याश्चापि योगिनाम् || १६७ ||
ग्रहाणां दिक्पतीनां च मुद्रास्ता दर्शयेत् पृथक् |
शेषमन्त्राः पुरा प्रोक्ता अच्छिद्रस्यावधारणे || १६८ ||
तन्मन्त्रान् संपठित्वैव सूर्यायार्घ्यं निवेदयेत् |
निर्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः || १६९ ||
शङ्खचक्रगदापाणिर्दीर्घश्मश्रुजटाधरः |
रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः || १७० ||
यत् तृतीयस्वरान्तेन संयुक्तो बिन्दुनेन्दुना |
कीर्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् || १७१ ||
विसर्जनं तथा विष्णोरैशान्यां परिकीर्तितम् |
अन्येषां मनसा कुर्याद् बलादीनां विसर्जनम् || १७२ ||
एवं यः कुरुते पूजां विष्णोः शम्भोर्विधेः क्वचित् |
पीठे दिक्करवासिन्याः स याति परमं पदम् || १७३ ||
यत्र यत्र भवेद् विष्णोः पूजनं नृपसत्तम् |
तत्र तत्रैव तन्त्रोऽयं ग्राह्यो वै वैष्णवैर्बुधैः || १७४ ||
सङ्क्षेपेणैव तत्रैव पूजयेद् दधिवामनम् |
हृदयाद्यङ्गपूजा तु न कर्तव्याऽस्य पूजने || १७५ ||
संक्षेपैर्विस्तरैर्वापि वासुदेवं प्रपूजयेत् |
रक्तं कोशेयवस्तं च पीतं शुक्लं तथैव च || १७६ ||
प्रीतिदं वासुदेवस्य वस्त्रमेतत् प्रकीर्तितम् |
घृतप्रदीपो दीपेषु गन्धेषु मलयोद्भवः || १७७ ||
पानार्घ्यभोज्यपात्रेषु ताम्रं प्रीतिकरं मतम् |
किरीटं कुण्डल हारो भूषणं विष्णुतुष्टिदम् || १७८ ||
शङ्खः स्नानीयपात्रेषु धूपेष्वगुरुरेव च |
प्रीतिदो वासुदेवस्य सतत परिकीर्तितः || १७९ ||
कदम्बं कुब्जकं जाती मल्लिका मालती तथा |
पङ्कजं चेति पुष्पाणि तद् विष्णोः प्रीतिदान्युत || १८० ||
इर्जनं स्थण्डिलं स्थानं तीर्थं तोयमथापि वा |
तद् विष्णोरिति मन्त्रस्तु स्तुतिः पुरुषसूक्तकम् || १८१ ||
पुत्रञ्जीवोद्भवा माला प्रशस्ता विष्नुपूजने |
तिथिश्च द्वादशी प्रोक्ता वसन्तः काल उत्तमः || १८२ ||
शाल्योदनं हविष्यान्नं यावकं पायसं घृतम् |
कृशरान्नं तथान्नेषु पानेषु क्षीरमिष्यते || १८३ ||
दलेषु तुलसीपत्रं बैल्वमामलमेव च |
हरेः प्रीतिकराणि स्युरेतानि नृपसत्तम || १८४ ||
सर्वाणि परकीयाणि यानि तानि च वर्जयेत् |
एवं यः पूजयेद् विष्णुं सततं नरसत्तमः || १८५ ||
कुलकोटिं समुद्धृत्य स स्वयं स्याज्जनार्दनः |
इदं ते कथितं भूप वासुदेवस्य मन्त्रकम् || १८६ ||
पीठस्य कामरूपस्य सङ्क्षेपान्निर्णयं तथा |
इति सर्वं कामरूपपीठं शम्भुरदशयत् || १८७ ||
पुत्राभ्यां स पुनस्ताभ्यां कैलासं प्रययौ गिरिम् |
तत्र गत्वा यथायोगं निधाय तनयौ स्वकौ || १८८ ||
विमुक्तशापास्ते जाताः शम्भुर्गिरिसुता तथा |
वेतालो भैरवश्चेति नृपसत्तम निर्जराः || १८९ ||
इदं यो महदाख्यानं शृणोत्येकाग्रमानसः |
शापभीतिर्न तस्यास्ति व्याधयस्तस्य नाधयः || १९० ||
पुत्रपौत्रधनैश्वर्ययुक्तः सर्वत्र वल्लभः |
सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति || १९१ ||
कामरूपं महापीठं यो जानाति नरोत्तमः |
स दिव्यज्ञानसम्पन्नः परं निर्वाणमाप्नुयात् || १९२ ||
यः कामरूपे सकले पीठयात्रां समाचरेत् |
आसाद्य सकलान् पीठान् पूजयेत् सर्वदेवताः || १९३ ||
दशपूर्वान् दश परानात्मानं चैकविंशतिम् |
दिव्ये ज्ञाने विधायाशु सर्वं मुक्तिमियात् सह || १९४ ||
इति श्रीकालिकापुराणेऽशीतितमोऽध्यायः || ८० ||
Kapitel 81
एकाशीतितमोऽध्यायः
और्व उवाच -
कामरूपे महापीठे स्नात्वा पीत्वा च देवताः |
पूजयित्वा च इपुला लोकाः स्वर्गं पुरा ययुः || १ ||
केचिद् भेजुश्च निर्वाणं केचिद् यान्ति स्म शम्भुताम् |
न यमस्तान् वारयितुं नेतुं च निजमन्दिरम् || २ ||
क्षमोऽभून्नरशार्दूल शिवाया जातसाध्वसः |
यमदूतं तत्र यान्तं बाधन्ते शंकरा गणाः || ३ ||
न तद्भिया तत्र यान्ति यमदूताः प्रचोदिताः |
तथा दृष्ट्वाथ शमनः स्वक्रियापरिवर्जितः || ४ ||
विधातारं समासाद्य वचनं चेदमब्रवीत् |
इधातः कामरूपेऽस्मिन् स्नात्वा पीत्वा च मानवः || ५ ||
कामाख्यागणतां याति तथा शम्भुगणेशताम् |
तत्र मे नाधिकारोऽस्ति न तान् वारयितुं क्षमः || ६ ||
विधत्स्वात्रोचितां नीतिं युज्यते यदि गोचरे |
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः || ७ ||
जगाम विष्णुभवनं सहैव समवर्तिना |
तमासाद्य तथा प्राह इष्णुंवै यमभाषितम् || ८ ||
यथावत् सर्वलोकेशः स च तद्वाक्यमग्रहीत् |
सह ब्रह्मयमाभ्यां तु इष्णुः शम्भुं अयौ ततः |
सत्कृतस्ततेन पृष्टश्च प्राहेदं यमभाषितम् || ९ ||
श्रीभगवानुवाच -
सर्वदेवैः सर्वतीर्थैः सर्वक्षेत्रैस्तथैव च |
एतद् व्याप्तं कामरूपं नातोऽन्यद् विद्यते परम् || १० ||
इदं पीठं समासाद्य देवत्वं यान्ति मानवाः |
अमृतत्वं गणत्वं च तत्र शक्तो यमो नहि || ११ ||
अथा कुरु महादेव यथा तत्र क्षमो यमः |
यमो निरस्तो यत्रास्ति मर्यादा न रदृश्यते || १२ ||
और्व उवाच -
एतद् विष्णुवचः श्रुत्वाः विधिना सहितस्य तु |
अङ्गीचकार हृदये तद्वचः साध्यसाधने || १३ ||
विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः |
आदाय स्वगणान् सर्वान् कामरूपान्तरं यमौ || १४ ||
उग्रतारां ततो देवीं गणं च प्राह शङ्करः |
उत्सारयन्तु सकलान्निमांल्लोकान् गणा द्रुतम् || १५ ||
उग्रतारे महादेवि त्वं चाप्युत्सारय द्रुतम् |
ततो गणाः कामरूपाद् देवी चाप्यपराजिता || १६ ||
लोकानुत्सारयामासुः पीठं कर्तुं हरस्यकम् |
उत्सार्यमाणे लोके तु चतुर्वर्णद्विजातिषु || १७ ||
सन्ध्याचलगतो विप्रो वसिष्ठः कुपितो मुनिः |
सोऽप्युग्रतारया देव्या उत्सारयितुमीशया || १८ ||
गणैः सह धृतः प्राह शापं कुर्वन् सुदारुणम् |
यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः || १९ ||
तस्मात् त्वं वाम्यभावेन पूज्या भव समन्त्रिका |
ह्रमन्ति म्लेच्छवद् यस्माद् गणानां मन्दबुद्धयः || २० ||
भवन्तु म्लेच्छास्तस्माद् वै भवन्तः कामरूपके |
महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः || २१ ||
तपोधनं मुनिं दान्तं म्लेच्छवद् वेदपारगम् |
तस्माद् म्लेच्छप्रियो भूयाच्छङ्करश्चास्थिभस्मधृक् || २२ ||
एतत् तु कामरूपाख्यं म्लेच्छैर्गुप्तं मदत्वरम् |
स्वयं विष्णुर्न चायाति यावत् स्थानमिदं पुनः || २३ ||
विरलाश्चागमाः सन्तु य एतत्प्रतिपादकाः |
विरलं यस्तु जानाति कामरूपागमं बुधः || २४ ||
स एव प्राप्ते कालेऽपि सम्पूर्णं फलभाप्स्यति |
एवमुक्त्वा वसिष्ठस्तु तत्रैवान्तरधीयत || २५ ||
ते गणा म्लेच्छतां याताः कामरूपे सुरालये |
वामाऽभूद्रुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत् || २६ ||
आगमा विरलाश्चासन् ये च मत्प्रतिपादकाः |
वेदमन्त्रविहीनं तु चतुर्वर्णविवर्जितम् || २७ ||
कामरूपं क्षणाज्जातं यद् यमेनानुसाश्तिम् |
आगतेऽपि हरौ मुक्ते शापात् पीठे फलप्रदे || २८ ||
यथा न सम्यक् स्थास्यन्ति तत्पीठे देवमानुषाः |
गुप्तये सर्वकुण्डानां ब्रह्मोपायं तथाऽकरोत् || २९ ||
अपुनर्भवकुण्डस्य सोमकुण्डस्य चोभयोः |
ब्रह्मोर्वशीकुण्डयोस्तु नदीनामपि भूरिशः || ३० ||
नदीनां पूर्वमुक्तानामनुक्तानां च गुप्तये |
सर्वस्यैकफलज्ञाने ब्रह्मोपायं तथाऽकरोत् || ३१ ||
अमोघायां शान्तनोस्तु भार्यायां तनयं स्वकम् |
जलरूपं समुत्पाद्य जामदग्न्येन धीमता || ३२ ||
अवतारयदव्यग्रं प्लावयन् कामरूपकम् |
स तु ब्रह्मसुतो धीरः प्लावयन् कुण्डसञ्चयान् || ३३ ||
आच्छाद्य सर्वतीर्थानि भुवि गुप्तानि चाकरोत् |
लौहित्यमात्रं ये केचिज्जानन्ति तत्र वै नराः || ३४ ||
ते लौहित्यस्नानफलं प्राप्नुवन्ति सुनिश्चितम् |
न जानन्ति च कुण्डानि नापि तीर्थानि चान्यतः || ३५ ||
वसिष्ठशापादेतत् तु प्रवृत्तं तीर्थगोपनम् |
यः कश्चित् तत्र जानाति तीर्थानां च विशेषताम् || ३६ ||
समवाप्नोति तत् स्नानफलं सम्यग् नरोत्तम |
सर्वा नदीः समाप्लाव्य सर्वतीर्थानि सर्वतः |
लौहित्यो ब्रह्मणः पुत्रो याति दक्षिणसागरम् || ३७ ||
एवं ते कथितं राजन् कामरूपस्य कीर्तनम् |
यदन्यद्रोचते तुभ्यं तत् पृच्छ निगदामि ते || ३८ ||
इति श्रीकालिकापुराणे एकाशीतितमोऽध्यायः || ८१ ||
Kapitel 82
द्व्यशीतितमोऽध्यायः
मार्कण्डेय उवाच
और्वस्य वचनं श्रुत्वा सगरस्तं मुनिं पुनः |
पप्रच्छेदं द्विजश्रेष्ठां हर्षसंप्लुतमानसः || १ ||
सगर उवाच
अमोघायां कथं यज्ञे लौहित्यो ब्रह्मणः सुतः |
कथं शान्तनुजायायां रतः स कमलासनः || २ ||
पारस्त्रैणेयपुत्रो वा कथं जज्ञे पितामहात् |
तत् सर्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम || ३ ||
और्व उवाच
शृणु त्वं राजशार्दूल कथयामि महत्तरम् |
आख्यानं ब्रह्मपुत्रस्य लौहित्यत्य महात्मनः || ४ ||
हरिवर्षे महावर्षे शान्तनुर्नाम नामतः |
मुनिरासीन्महाभागो ज्ञानवान् स तपोरतः || ५ ||
तस्य भार्या महाभागा अमोघाख्या महासती |
हिरण्यगर्भस्य मुनेस्तृणबिन्द्वाश्रमोद्भवा || ६ ||
तया सार्धं स कैलासं मर्यादापर्वते वसन् |
लोहिताख्यस्य सरसस्तीरे वै गन्धमादने || ७ ||
एकदा स तपोनिष्ठो निजपुष्पादिगोचरम् |
जगाम वनम्ध्यं तु चिन्वन् बहुफलानि च || ८ ||
तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः |
तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया || ९ ||
तां दृष्ट्वा देवगर्भायां युवतीमतिसुन्दरीम् |
मोहितो मदनेनाशु तदाऽभूद् दूषितेन्द्रियः || १० ||
उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् |
अथाधावत् ततो ब्रह्मा सम्मुखो मदनार्दितः || ११ ||
धावमानं विधातारं दृष्ट्वाऽमोघा महासती |
नैवं नैवमिति प्रोक्त्वा पर्णशालां व्यलीयत || १२ ||
इदं चोवाच धातारममोघा कुपिता तदा |
पर्णशालान्तरं गत्वा द्वारमावृत्य तत्क्षणात् || १३ ||
अकार्यं न मया कार्यं मुनिपत्न्या विगर्हितम् |
बलात् प्रमथ्या चहां चेत् त्वया त्वां च शपाम्यहम् || १४ ||
अमोघया चैवमुक्ते विधातुश्च तदा नृप |
रेतश्चस्कन्द तत्रैव आश्रमे शान्तनोर्मुनेः || १५ ||
च्युते रतसि धातापि हंसयानं समुत्थितः |
लज्जयाऽतिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ || १६ ||
गते वेधसि शान्तनुश्च निजमाश्रममागतः |
आगत्य दृष्ट्वा हंसानां पदक्षोभं तदा भुवि || १७ ||
तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् |
अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् || १८ ||
किमेतदत्र सुभगे प्रवृत्तं दृश्यते तु यत् |
पक्षिणां च पदक्षोभं तेजश्चेदं च कीदृशम् || १९ ||
सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् |
अमर्षितैव न्यगददाकुला विकलाननां || २० ||
हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः |
कमण्डलु करोऽतीव रतिं मां समयाचतं || २१ ||
अतो मया तर्जितः स उटजान्तरलीनया |
प्रच्याव्य तेजः संयातो मम शापभयार्दितः || २२ ||
कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो |
न हीमां धर्षणां सोढुं कश्चिच्छक्नोति जीवभृत् || २३ ||
स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः |
इति निश्चित्य अनसा अदा ध्यानपरोऽभवत् || २४ ||
दिव्यज्ञानेन स ज्ञात्वा देवकार्यमुपस्थितम् |
तीर्थावतरणं चापि हिताय जगतां मुनिः || २५ ||
ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्यामिदमब्रवीत् |
इदं तेजो ब्रह्मणस्त्वं पिबामोघं ममाज्ञया || २६ ||
हिताय सर्वजगतां देवकार्यार्थसिद्धये |
भवत्या निकटं ब्रह्मा स्वयमेव समागतः || २७ ||
त्वामप्राप्य महत् कृत्यमावयोः स समर्प्य च |
गतो निजास्पदं तत् त्वं कर्तुमर्हसि तद् वचः || २८ ||
तच्छ्रुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता |
सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती || २९ ||
नान्यस्य तेजो धास्यामि न च ते विमनस्कता |
अवश्यं यदि कर्तव्यं पीत्वा त्वं मयि चोत्सृज || ३० ||
ततस्तस्या वचः श्रुत्वा युक्तं तथ्यं च शान्तनुः |
स्वयं पीत्वा तु तत् तेजः वभार्यायां न्यसे.चयत् || ३१ ||
संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती |
गर्भं दधारामोघाख्या हिताय जगतां ततः || ३२ ||
तस्याः काले तु सम्प्राप्ते नासातो जलसञ्चयः |
तन्मध्ये तनयश्चापि नीलवासाः कीरीटधृक् || ३३ ||
रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् |
चतुर्भुजः पद्मविद्याध्वजशक्तिधरस्तथा || ३४ ||
शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः |
तज्जातं च तथाभूतं शान्तनुर्लोकशान्तनुः || ३५ ||
चतुर्णां पर्वतानां च मध्यदेशे न्यवीविशत् |
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः || ३६ ||
रारुधिः पश्चिमे शैलः पूर्वे संवर्तकाद्वयः |
तेषां मध्ये स्वयं कुण्डं पर्वतानां विधेः सुतः || ३७ ||
कृत्वाऽतिववृधे नित्य शरदीव निशाकरः |
तं तोयमध्यगं पुत्रमासाद्य द्रुहिणः सुतम् || ३८ ||
क्रमतस्तस्य संस्कारानकरोद् देहशुद्धये |
अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः || ३९ ||
तोयराशिस्वरूपेण ववृधे पञ्चयोजनान् |
तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे || ४० ||
सितामलजले हृद्ये दिव्यैश्चाप्सरसां गणैः |
तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् || ४१ ||
चक्रे मातृवधं घोरमयुक्तं पितुराज्ञया |
तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः || ४२ ||
स जगाम महाकुण्डं ब्रह्माख्य स्नातुमिच्छया |
तत्र स्नात्वा च पीत्वा च मातृहत्यामपानयन् |
वीथीं परशुना कृत्वा तं मह्यामवतारयवत् || ४३ ||
सगर उवाच
जमदग्नेः सुतो रामः किमर्थं निजमातरम् |
जघान तस्य माता च किन्नाम्नो कस्य चात्मजा || ४४ ||
मुनेः पुत्रः कथं जातस्तथा क्रूरो महाबलः |
यो युद्धकुशलो वीरो राजन्यान् समपोथयत् || ४५ ||
तदहं श्रोतुमिच्छामि तत्त्वतो मुनिसत्तम |
कथयस्व महाभाग यदि गुह्यं तथापि मे || ४६ ||
और्व उवाच
शृणु राजन्नवहितो जमदग्नेः सुतस्य वै |
चरितं स यथा जघ्ने प्रसूं क्रूरतरश्च सः || ४७ ||
ब्रह्मपुत्रो भृगुर्नाम ऋचीकस्तत्सुतोऽभवत् |
स भार्यार्थी चरन् भूमौ कान्यकुब्जं गतः पुरा || ४८ ||
ददर्श चारण्यगतं जह्नोर्वंशसमुद्भवम् |
कुशिकस्य सुतं गाधिं तपःस्थं नृपसत्तम || ४९ ||
अरण्यस्थस्य तस्याथ पुत्रकामस्य भूभृतः |
सभार्यस्य सुता जज्ञे देवकन्यासमा गुणैः || ५० ||
ऋचीको भृगुपुत्रस्तां भार्यार्थं समयाचत |
दातूं योग्या सुता मेऽद्य तद्विधाय महामुने || ५१ ||
किं त्वेकः कुलधर्मो मे विद्यते शुल्कसंग्रहे |
एकत्र ऋष्णवर्णानामश्वानां चन्द्रवर्चसाम् |
सहस्रमेकं यो दद्यात् तस्मै पुत्री प्रदीयते || ५२ ||
ऋचीक उवाच
दास्याम्यश्वसहस्रं वै तव राजंस्तथाविधम् |
किंचित् कालं प्रतीक्षस्व यावत् तदहमानये || ५३ ||
एवमस्त्विति त गाधिरुवाच भृगुसूनवे |
गङ्गातीरं कान्यकुब्जं सोऽगच्छद्धयसाधने || ५४ ||
तत्राराध्य भृगोः पुत्रो वरुणं यादसां पतिम् |
तेन दत्तं तदा लेभे सहस्रं वाजिनां मुनिः || ५५ ||
तेन यत्र तदा लब्धा अश्वान् नृपतिसत्तम |
तदश्वतीर्थं विख्यातं महाफलकरं परम् || ५६ ||
गङ्गाजलादुत्थितं तु दत्तं सम्यक् प्रचेतसा |
आदायाश्वसहस्रं तु मुनिर्गाधिमथाम्ययात् || ५७ ||
तानश्वान् गाधिरादाय पुत्रीं सत्यवतीं सुताम् |
ऋचीकाय ददौ लक्ष्मीं केशवायेव सागरः || ५८ ||
ऋचीको गाधितनयां लब्ध्वा भार्यामनिन्दिताम् |
मुदितः स तया रेमे यथाकामं स्वकाश्रमे || ५९ ||
कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्रं स्नुषां भृगुः |
अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च || ६० ||
दम्पती तं समासीनं भृगुं देवगणार्चितम् |
पूजयित्वा यथान्यायं तस्थतुस्तौ कृताञ्जली || ६१ ||
ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् |
वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि || ६२ ||
अदेयं दुष्करं वापि यत्र ते विद्यते स्पृहा |
ततः सत्यवतीं पुत्रं तप आम्नाय-पारगम् || ६३ ||
मातुश्च वीरमतुलं पुत्रं वरमयाचत |
स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा || ६४ ||
विश्वमाधृत्य मनसा यत्नाच्छ्वासं ससर्ज सः |
तस्य निःश्वासवातात् तु निःसृतं वै चरुद्वयम् || ६५ ||
तस्यै तद्द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् |
चरुद्वयं गृहाणेदं स्नुषे सत्यवति स्वयम् || ६६ ||
स्नात्वा ऋतौ ऋतौ माता स्नुषे त्वं च करिष्यथः |
आलिंग्याश्वत्थवृक्षं ते माता पुंसवनाय वै || ६७ ||
चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः |
त्वं चोदुम्बरवृक्षं तु समालिंग्यासितं चरुम् || ६८ ||
भोक्ष्यसे तव पुत्रस्तु भविष्यति सनातनः |
एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् || ६९ ||
अवाप मात्रा सहिता भर्त्रा पित्रा च भामिनी |
अथ स्नानदिनेऽश्वत्थमालिंग्यारक्तकं चरुम् || ७० ||
आदात् सत्यवती तस्या माता फल्गुं सितं चरुम् |
परिवर्तं तु तज् ज्ञात्वा दिव्यज्ञानो भृगुर्मुनिः || ७१ ||
अथागत्य स्नुषां तां तु वचनं चेदमब्रवीत् |
विपर्ययस्त्वया भद्रे वृक्षालिङ्गनकर्मणि || ७२ ||
तथा अरुप्राशने तु अत्रेदं ते भविष्यति |
ब्राह्मणः क्षत्रियाचारस्तव पुत्रो भविष्यति || ७३ ||
क्षत्रियो ब्राह्मणाचारो मातुस्ते भविता सुतः |
इत्युक्त्वा भृगुणा साध्वी तदा सत्यवती भृगुम् || ७४ ||
पुनः प्रसादयामास पौत्रो मेऽस्त्विति तादृशः |
एवमस्त्विति स प्रोच्य तत्रैवान्तर्दधे भृगुः || ७५ ||
अथ काले सुतं दीप्तं जमदग्निं च गाधिजा |
सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम् || ७६ ||
जमदग्निस्ततो वेदांश्चतुरः प्राप मा चिरम् |
प्रादुरासीद् धनुर्वेदः स्वयं तस्मिन् महात्मनि || ७७ ||
विश्वामित्रोऽपि सकलान् वेदानाप् तथाऽचिरात् |
धनुर्वेदं तथा कृत्स्नं विप्रश्चाभूत् तपोबलात् || ७८ ||
जाज्वल्यमानस्तेजस्वी जमदग्न्र्महातपाः |
वेदैस्तपोभिः स मुनिनत्यक्रामच्च सूर्यवत् || ७९ ||
इति श्रीकालिकापुराणे व्यशीतितमोऽध्यायः || ८२ ||
Kapitel 83
त्र्यशीतितमोऽध्यायः |
और्व उवाच
अथ काले व्यतीते तु जमदग्निर्महातपाः |
विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् || १ ||
भार्यार्थं प्रतिजग्राह रेणुकां लक्षणान्विताम् |
सा तस्मात् सुषुवे षत्रांश्चतुरो वेदसम्मितान् || २ ||
रुषण्वन्तं सुषेणं च वसुं विश्वावसुं तथा |
पश्चात् तस्यां स्वयं जज्ञे भगवान् मधुसूदनः || ३ ||
कार्तवीर्यवधायाशु शक्राद्यैः सकलैः सुरैः |
याचितः पंचमः सोऽभूत् तेषां रामाह्वयस्तु सः || ४ ||
भारावतरणार्थाय जातः परशुना सह |
सहजं परशुं तस्य न जहाति कदाचन || ५ ||
अयं निजपितामह्याश्चरुभुक्तिविपर्ययात् |
ब्राह्मणः क्षत्रियाचारो रामोऽभूत क्रूरकर्मकृत् || ६ ||
स वेदानखिलान् ज्ञात्वा धनुर्वेदं च सर्वशः |
सततं कृतकृत्योऽभूद् वेदविद्याविशारदः || ७ ||
एकदा तस्य जननी स्नानार्थं रेणुका गता |
गङ्गातोये ह्यथापश्यन्नाम्ना चित्ररथं नृपम् || ८ ||
भार्याभिः सदृशीभिश्च तलक्रीडारतं शुभम् |
सुमालिनं सुवस्त्रं तं तरुणं अन्द्रमालिनम् || ९ ||
तथाविधं नृपं दृष्ट्वा सञ्जातमदना भृशम् |
रेणुका स्पृहयामास तस्मै राज्ञे सुवर्चसे || १० ||
स्पृहायुतायास्तस्यास्तु संक्लेदः समजायत |
विचेतनाम्भसा क्लिन्ना त्रस्ता सा स्वाश्रमं ययौ || ११ ||
अबोधि जमदग्निस्तां रेणुकां विकृतां तथा |
धिग् धिक्काररतेत्येवं निनिन्द च समन्ततः || १२ ||
ततः स तनयान् प्राह चतुरः प्रथमं मुनिः |
उषण्वत्प्रमुखान् सर्वानेकैकं क्रमतो द्रुतम् || १३ ||
छिन्धीमां पापनिरतां रेणुकां व्यभिचारिणीम् |
ते तद्वचो नैव चक्रुर्मूकाश्चासन् जडा इव || १४ ||
कुपितो जमदग्निस्ताञ्छशापेति विचेतसः |
(गाधिं नृपतिशार्दूलं स चोवाच नृपो मुनिम्) || १५ ||
भवध्वं ऊयमाचिराज्जडा गोबुद्धिगर्धिताः |
अथाजगाम चरमो जामदग्न्येऽतिवीर्यवान् || १६ ||
तं च रामं पिता प्राह पापिष्ठां छिन्धि मातरम् |
स भ्रातृंश्च तथाभूतान् दृष्ट्वा ज्ञानविवर्जितान् || १७ ||
पित्रा शप्तान् महातेजाः प्रसूं परशुनाच्छिनत् |
रामेण रेणुकां छिन्नां दृष्ट्वा विक्रोधनोऽभवत् || १८ ||
जमदग्निः प्रसन्नः सन्निति वाचमुवाच ह |
प्रीतोऽस्मि पुत्र भद्र ते यत् त्वया मद्वचः कृतम् || १९ ||
तस्मादिष्टान् वरान् कामांस्त्वं वै वरय साम्प्रतम् |
स तु रामो वरान् वव्रे मातुरुत्थानमादितः || २० ||
वधस्यास्मरणं तस्या भ्रातृणां शापमोचनम् |
मातृहत्याव्यपनयं युद्धे सर्वत्र वै जयम् || २१ ||
आयुः कल्पान्तपर्यन्तं क्रमाद् वै नृपसत्तम |
सर्वान् वरान् स प्रददौ जमदग्निर्महातपाः || २२ ||
सुप्तोत्यितेब जननी रेणुका च तदाभवत् |
वधं न चापि सस्मार सहजा प्रकृतिस्थिता || २३ ||
युद्धे जयं चिरायुष्यं लेभे रामस्तदैव हि |
मातृहत्याव्यपोहाय पिता तं वाक्यमव्रवीत् || २४ ||
न पुत्र वरदानेन मातृहत्यापगच्छति |
तस्मात् त्वं ब्रह्मकुण्डाय गच्छ स्नातुं च तज्जले || २५ ||
तत्र स्नात्वा मुक्तपापो नचिरात् पुनरेष्यसि |
जगद्धिताय पुत्र त्वं ब्रह्मकुण्डं व्रज द्रुतम् || २६ ||
स तस्य वचन श्रुत्वा रामः परशुधृक् तदा |
उपदेशात् पितुर्घातो ब्रह्मकुण्डं वृषोदकम् || २७ ||
तत्र स्नानं च विधिवत् कृत्वा धौतपरश्वधः |
शरीरान्निःसृतां मातृहत्यां सम्यग् व्यलोकयत् || २८ ||
जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तद्वरम् |
वीथीं परशुना कृत्वा ब्रह्मपुत्रमवाहयत् || २९ ||
ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिताह्वये |
कैलासोपत्यकायां तु न्यपतद् ब्रह्मणः सुतः || ३० ||
तस्यापि सरसस्तीरे समुत्थाय महाबलः |
कुठारेण दिशं पूर्वामनयद् ब्रह्मणः सुतम् || ३१ ||
ततः परत्रापि गिरिं हेमशृङ्गं विभिद्य च |
कामरूपान्तरं पीठमावहद्यदमुं हरिः || ३२ ||
तस्य नाम स्वयं चक्रे विधिर्लोहितगङ्गकम् |
लोहितात् सरसो जातो लोहिताख्यस्ततोऽभवत् || ३३ ||
स कामरूपमखिलं पीठमाप्लाव्य वारिणा |
गोपयन् सर्वतीर्थानि दक्षिणं याति सागरम् || ३४ ||
प्रागेव दिव्ययमुनां स त्यक्त्वा ब्रह्मणः सुतः |
पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् || ३५ ||
चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः |
चैत्रं तु सकलं मासं शुचिः प्रयतमानसः || ३६ ||
स्नाति लौहित्यतोये तु स याति ब्रह्मणः पदम् |
लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् || ३७ ||
इति ते कथितं राजन् यदर्थं मातरं पुरा |
अहन् वीरो जामदग्न्यो यस्माद् वा क्रूरकर्मकृत् || ३८ ||
इदं तु महदाख्यानं यः शृणोति दिने दिने |
स दीर्घायुः प्रमुदितो बलवानभिजायते || ३९ ||
इति ते कथितं राजञ्छरीरार्धं यथाद्रिजा |
शम्भोर्जहार वेतालभैरवौ च यथाह्वयौ || ४० ||
यस्य वा तनयौ जातौ यथा यातौ गणेशताम् |
किमन्यत् कथये तुभ्यं तद्वदस्व नृपोत्तम || ४१ ||
मार्कण्डेय उवाच
इत्यौर्वस्य च संवादः सगरेण महात्मना |
योऽसौ कायार्धहरणं शम्भोर्गिरिजया कृतः || ४२ ||
सर्वोऽद्य कथितो विप्राः पृष्टं यच्चान्यदुत्तमम् |
सिद्धस्य भैरवाख्यस्य पीठानां च विनिर्णयम् || ४३ ||
भृङ्गिणश्च यथोत्पत्तिर्महाकालस्य चैव हि |
उक्तं हि वः किमन्यत् तु पृच्छन्तु द्विजसत्तमाः || ४४ ||
इति सकलसुतन्त्रं तन्त्रमन्त्रावदातं
बहुतरफलकारि प्राज्ञविश्रामकल्पम् |
उपनिषदमवेत्य ज्ञानमार्गैकतानं
स्रवति स इह नित्यं यः पठेत् तन्त्रमेतत् || ४५ ||
इति श्रीकालिकापुराणे त्र्यशीतितमोऽध्यायः || ८३ ||
Kapitel 84
चतुरशीतितमोऽध्यायः
ऋषय ऊचुः -
कथितो भवता सर्गः संशयश्चापि शातिताः |
त्वत्प्रसादान्महाभाग कृतकृत्या वयं गुरो || १ ||
भूयश्च श्रोतुमिच्छामो वयमेतद् द्विजोत्तम |
कोऽन्यो भृङ्गी महाकाओ जातौ वेतालभैरवौ || २ ||
वेतालं च महाकालं भैरवं भृङ्गिणं तथा |
शृणुमो द्विजशार्दूल कथमेषां चतुष्टयम् || ३ ||
मार्कण्डेय उवाच -
भुवं गते महाकाले मानुष्यस्थे च भृङ्गिणि |
वेतालभैरवाख्ये च तयोर्भूते द्विजोत्तमाः || ४ ||
वरलब्धे च वेताले भैरवे तेन सङ्गते |
अन्धकं तपसा युक्तं भृङ्गिणं चाकरोद्धरः || ५ ||
अन्धकस्तु हरं पूर्वं विरुध्यापदमागतः |
पश्चाद्धरं समाराध्य पुत्रोऽभूत् तस्य सोऽसुरः || ६ ||
भृङ्गिस्नेहाद् भृङ्गिणं तं संज्ञया चाकरोद्धरः |
स्नेहेन तु महाकाले बाणं बलिसुतं हरः |
विष्णुना छिन्नबाहुं तु महाकालमथाकरोत् || ७ ||
एवं मुनिवरस्तेषां संयतं च चतुष्टयम् |
वेतालभैरवौ भृङ्गिमहाकालौ ह्यनुक्रमात् || ८ ||
ऋषय उवाच
यत् पृष्टं सगरेणैव मुनिमौर्व महाधियम् |
नीत्या योज्या यया भार्या सुत आत्माऽथवा गुरो || ९ ||
राजनीतौ सतां नीतौ सदाचारे च ये स्थिताः |
विशेषास्तेन ये प्रोक्ता और्वेण सुमहात्मना || १० ||
विशेषेण द्विजश्रेष्ठ श्रोतुं सम्यक् तपोधन |
इच्छामस्तान् महाभाग कथयस्व जगद्गुरो || ११ ||
मार्कण्डेय उवाच
ये ये विशेषाः कथिता और्वेण सुमहात्मना |
तद् वः सर्वं प्रवक्ष्यामि शृण्वन्तु मुनिसत्तमाः || १२ ||
श्रुत्वैवं सगरो राजा मन्त्रकल्पादिकं पुनः |
विशेषं परिपप्रच्छ नीत्यादीनां महामुनिम् || १३ ||
सगर उवाच -
यया नीत्या प्रयोक्तव्यः सुत आत्मा प्रिया तथा |
तेषां विशेषैः सहितं सदाचारं वदस्व मे || १४ ||
और्व उवाच -
क्रमेण शृणु राजेन्द्र यया नीत्या नियोजिताः |
आत्मा सुतो वा भार्या वा तद्विशेषं शृणुष्व मे || १५ ||
ज्ञानविद्यातपोवृद्धान् वयोवृद्धान् सुदक्षिणान् |
सेवेत प्रथमं विप्रानसूयापरिवर्जितान् || १६ ||
तेभ्यश्च शृणुयांन्नित्यं वेदशास्त्रविनिश्चयम् |
यदूचुस्ते च तत् कार्यं प्राज्ञं चैव नृपश्चरेत् || १७ ||
पञ्चेन्द्रियाणि पञ्चाश्वाः शरीरं रथ उच्यते |
आत्मा रथी कशा ज्ञानं सारथिर्मन उच्यते || १८ ||
अश्वान् सुदान्तान् कुर्वीत सारथिं चात्मनो वशम् |
कशा दृढा सदा कार्या शरीरस्थिरता तथा || १९ ||
अदान्तांस्तु समारुह्य सैन्धवान् स्यन्दनी यथा |
अश्वानामिच्छया गच्छन्नुत्पथं प्रतिपद्यते || २० ||
तत्रावशः सारथिस्तु स्वेच्छया प्रेरयन् हयान् |
नयेत् परवशं सम्यग् रथितं वीरमप्युत || २१ ||
तथेन्द्रियाणि नृपतिर्विषयाणां परिग्रहे |
स्ववश्यानि प्रकुर्वीत मनो ज्ञानं दृढं तथा || २२ ||
ज्ञाने दृढे कशायां च दृढायां नृपसत्तम |
सारथिः स्ववशो दान्तानीशः प्रेरयितुं हयान् || २३ ||
अतो नृपः स्वेन्द्रियाणि वशे कृत्वा मनस्तथा |
ज्ञानमार्गमधिष्ठाय प्रकुर्वीतात्मनो हितम् || २४ ||
भोक्तव्यं स्वेच्छया भूयो न कुर्याल्लोभमासवे |
द्रष्टव्यमिति द्रष्टव्यं न द्रष्टव्यं च स्वेच्छया || २५ ||
श्रोतव्यमिति श्रोतव्यं नाधिकं श्रवणे चरेत् |
शास्त्रतत्त्व मृते धीरः श्रुतिवश्यो भवेन्न हि || २६ ||
एवं घ्राणं त्वचं चापि वशीकृत्येच्छया नृपः |
स्वेच्छया नोपभुञ्जीत नोद्दामं विषयं व्रजेत् || २७ ||
एवं यदि भवेद्राजा तदा स स्याज्जितेन्द्रियः |
जितेन्द्रियत्वे हेतुश्च शास्त्रवृद्धोपसेवनम् || २८ ||
अवृद्धसेव्यशास्त्रज्ञो नृपः शत्रुवशो भवेत् |
तस्माच्छास्त्रमधिष्ठाय भवेद्राजा जितेन्द्रियः || २९ ||
धृतिः प्रागल्भ्यमुत्साहो वाक्पटुत्वं विवेचनम् |
दक्षत्वं धारयिष्णुत्वं दानमैत्रीकृतज्ञता || ३० ||
दृढशासनता सत्यं शौचं मतिविनिश्चयम्ः |
पराभिप्रायवेदित्वं चरित्रं धैर्यमापदि || ३१ ||
क्लेशधारणशक्तिश्च गुरुदेवद्विजार्चनम् |
अनसूया ह्यकोपित्वं गुणानेतान्नृपोऽभ्यसेत् || ३२ ||
कार्याकार्यविभागश्च धर्मार्थो काम एव च |
सततं प्रतिबुध्येत कुर्यादवसरेऽपि तत् || ३३ ||
सामदानं च भेदश्च दण्डश्चेति चतुष्टयम् |
ज्ञात्वोपायांस्तु तत्काले तदुपायान् प्रयोजयेत् || ३४ ||
साम्नस्तु विषये भेदो मध्यमः परिकीर्तितः |
दानस्य विषये साम योग्यमेवोपलक्ष्यते || ३५ ||
दानस्य विषये दण्डो ह्यधनः परिकीर्तितः |
दण्डस्य विषये दानं तदप्यधममुच्यते || ३६ ||
साम्नस्तु गोचरे दण्डो ह्यधमादधमः स्मृतः |
सौजन्यं सततं ज्ञेयं भूभृतो भेददण्डयोः || ३७ ||
साम्नो दानस्य च तथा सौजन्यं याति गोचरे |
कामः क्रोधश्च लोभश्च हर्षो मानो मदस्तथा || ३८ ||
एतानतिशयान् राजा शत्रूनिव विशातयेत् |
सेव्याः काले संयुक्तौ ते लोभगर्वौ विवर्जयेत् || ३९ ||
तेज एव नृपाणां तु तीव्रं सूर्यस्य वै यथा |
तत्र गर्वं रोगयुक्तं कायवांस्तं तु संत्यजेत् || ४० ||
आखेटकाक्षौ स्त्रीसेवा पानं चैवार्थदूषणम् |
वाग्दण्डयोश्च पारुष्यं सप्तैतानि विवर्जयेत् || ४१ ||
परस्त्रीषु विरक्तासु सेवामेकान्ततस्त्यजेत् |
सतीषु निजनारीषु युक्तं कुर्यान्निवेशनम् || ४२ ||
रतिपुत्रफला दारास्तांस्तु नैकान्ततस्त्यजेत् |
तयोः सिद्धयै स्त्रियः सेव्या वर्जयित्वातिसक्तताम् || ४३ ||
मृगयां तु प्रमादानां स्थानं नित्यं विवर्जयेत् |
अक्षांस्तथा न कुर्वीत सत्कार्यासक्तिनाशनम् || ४४ ||
अन्यैः कृतं कदाचित् तु सेवेत नात्मनाचरेत् |
अकार्यकरणे बीजं कृत्यानां च विवर्जने || ४५ ||
अकालभेन्त्रभेदे च कलहे सत्कृतिक्षये |
वर्जयेत् सततं पानं शौचमाङ्गल्यनाशनम् || ४६ ||
अर्थक्षयकरं नित्यं त्यजेच्चैवात्मदूषणम् |
अभिशस्तेषु चोरेषु घातकेष्वाततायिषु || ४७ ||
सततं पृथिवीपालो दण्डपारुष्यमाचरेत् |
नान्यत्र दण्डपारुष्यं कुर्यान्नृपतिसत्तमः || ४८ ||
वाक्पारुष्यं च सर्वत्र नैव कुर्यात् कदाचन |
रक्षणीयं सदा सत्यं सत्यमेकं परायणम् || ४९ ||
क्षमां तेजस्वितां चैव प्रस्तावान्नृप आचरेत् |
यानासनाश्रयद्वैधसन्धयो विग्रहस्तथा || ५० ||
अभ्यसेत् षड्गुणानेतांस्तेषां स्थानं च शाश्वतम् |
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये || ५१ ||
कोषे जनपदे दण्डे न स राज्येऽवतिष्ठते |
कोषे जनपदे दण्डे चैकैकत्र त्रयं त्रयम् || ५२ ||
प्रस्तावाद्विनियुञ्जीत रक्षेन्नैकांस्ततस्त्विमान् |
मित्रे शत्रावुदासीने प्रभावं त्रिष्वपीरयेत् || ५३ ||
उत्साहो विजिगीषायां धर्मकृत्येऽष्टवर्गके |
शरीरयात्रानिर्वाहे क्रियेत सततं नृपैः || ५४ ||
मन्त्रनिश्चयसम्भूतां बुद्धिं सर्वत्र योजयेत् |
अमात्ये शात्रवे राज्ये पुत्रेष्वन्तःपुरेषु च || ५५ ||
कृषिं दुर्गं च वाणिज्यं खड्गानां करसाधनम् |
आदानं सैन्यकरयोर्बन्धनं गजवाजिनोः || ५६ ||
शून्ये सद्ममुखानां च योजनं सततं जनैः |
रयाणां सारसेतूनां बन्धनं चेति चाष्टमम् || ५७ ||
एतदष्टसु वर्गेषु चारान् सम्यक् प्रयोजयेत् |
कार्याकार्यविभागाय चाष्टवर्गाधिकारिणाम् || ५८ ||
अष्टौ चारान्नियुञ्जीयादष्टवर्गेषु पार्थिवः |
दश शून्येषु युञ्जीत क्रमतः शृणु तानि मे || ५९ ||
स्वामी सचिव-राष्ट्राणि मित्रं कोशो बलं तथा |
दुर्गं तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् || ६० ||
उर्गमुक्तं चाष्टवर्गे चारान्नात्मनि योजयेत् |
तस्मादिमानि शेषाणि पंच चारपदानि च || ६१ ||
शुद्धान्तेषु च पुत्रेषु सऊययादौ महानसे |
शत्रदासीनयोश्चापि बलाबलविनिश्चये || ६२ ||
अष्टादशसु चैतेषु चारान् राजा प्रयोजयेत् |
न यत्प्रकाशं जानीयात् तत् तच्चारैर्निरूपयेत् || ६३ ||
निरूप्य तत्-प्रतीकारमवश्यं छिद्रतश्चरेत् |
यथानियोगमेतेषां यो यो यत्रन्यथाचरेत् || ६४ ||
ज्ञात्वा तत्र नृपश्चारैदण्डयेद् वा वियोजयेत् |
चारांस्तु मन्त्रिणा सार्धं रहस्ये संस्थितो नृपः || ६५ ||
प्रदोषसमये पृच्छेत् तदानीमेव साधयेत् |
स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महानसे || ६६ ||
नियुक्तास्तान्मध्यरात्रे पृच्छेत् स्वोऽपिच मन्त्रिणि |
एतांश्चारान् स्वयं पश्येन्नृपतिर्मन्त्रिणा विना || ६७ ||
अन्यांस्तु मन्त्रिणा सार्धं निरूप्य प्रदिशेत् फलम् |
नैकवेशधरश्चारो नैको नोत्साहवर्जितः || ६८ ||
संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः |
सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् || ६९ ||
न वित्तविभवैर्हीनो न भार्यापुत्रवर्जितः |
कार्यश्चारो नृपतिना तत्त्वगुह्यविनिर्णये || ७० ||
अनेकवेशग्रहणक्षम भार्यासुतैर्युतम् |
अहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् || ७१ ||
दृढभक्तं प्रकुर्वीत चारं शक्तमसाध्वसम् |
अभितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा || ७२ ||
वणिक्पथे तु दुर्गादौ तेषु शक्तान्नियोजयेत् |
अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान्नियोजयेत् || ७३ ||
षण्ढान् पण्डांस्तथा वृद्धां स्त्रियौ वा बुद्धितत्पराः |
शुद्धान्ते द्वारि युञ्जीयात् स्त्रियो वृद्धा मनीषिणीः || ७४ ||
नैकः स्वपेत् कदाचित् तु नैको भुञ्जीत पार्थिवः |
नैकाकिनीं तु महिषीं ब्रजेन्मैत्राय नैककः || ७५ ||
अमात्यानुपधाशुद्धान् भार्याः पुत्रांस्तथैव च |
प्रकुर्यात् सततं भूपः सप्रसादं समाचरन् || ७६ ||
धर्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः |
उपेत्य धीयते यस्मादुपधा सा प्रकीर्तिता || ७७ ||
अर्थकामोपधाभ्यां तु भार्यापुत्रांश्च शोधयेत् |
धर्मोपधाभिर्विप्रांस्तु सर्वांभिः सचिवान् पुनः || ७८ ||
एभिर्यज्ञैतस्था दानैरिहैव नृपतिर्भवेत् |
तस्माद् भवांस्तु राज्यार्थी धर्ममेवं समाचरेत् || ७९ ||
अनेनैवाभिचारेण यज्ञैर्वां पार्थिवो ह्ययम् |
प्राणांस्त्यजति राजा त्वं भविष्यसि न संशयः || ८० ||
इति धर्मो नृपस्यैव अश्वमेधादिकश्च यः |
स्वयं न कुरुते भूपस्तस्मात् त्वं कुरु सत्तम || ८१ ||
एवं मन्त्रैर्मन्त्रयित्वा नृपः कार्यान्तिकाद् द्विजात् |
ऐरज्ञातान् स्वयं ज्ञात्वा गृह्णीयात् तस्य तैर्मनः || ८२ ||
यदि राज्याभिलाषेण सचिवोऽधर्ममाचरेत् |
नृपतौ भाधकं कुर्याद् धर्मं तं हीनतां नयेत् || ८३ ||
आभिचारिकमत्यर्थं कुर्वाणं तु विघातयेत् |
प्रवासयेद् ब्राह्मणं तु पार्थिवश्चाभिचारिकम् || ८४ ||
एषा घर्मोपधा ज्ञेया तैरमात्यान् सताञ्जयेत् |
एतादृशीं तथैवान्यामुपधां धर्मतश्चरेत् || ८५ ||
कोशाध्यक्षान् समामन्त्र्य राजामात्यान् प्रतारयेत् |
पुत्रानन्यान् प्रति तथा मन्त्रसंवरणाक्षमान् || ८६ ||
अयं हि प्रचुरः कोषो मदायत्तो नरोत्तम |
आनये तव संमत्या तद् यदि त्वं प्रतीक्षसि || ८७ ||
तवार्थलग्नादस्माकं जीवनं च भविष्यति |
त्वं चापि प्रचुरैः कोषैः किं किं वा न करिष्यसि || ८८ ||
एवमन्यैः कोषगतैरुपायैर्नृपसत्तमः |
पुत्रामात्यादिकान् सर्वान् सततं परिशोधयेत् || ८९ ||
कोषदोषकरान् हन्यात् कर्तुमिच्छन् विवासयेत् |
द्वैधचित्तान् विमन्येत कुर्याद् वै कोशरक्षणम् || ९० ||
दासीश्च शिल्पिनीर्वृद्धा मेधाधृतिमतीः स्त्रियः |
अन्तर्बहिश्च या यान्ति विदिताः सचिवादिभिः || ९१ ||
ता राजा रहसि स्थित्वा भार्यादिभिरलक्षितः |
अभिमन्त्र्याथ संमन्त्र्य प्रेषयेत् सचिवान् प्रति || ९२ ||
ता गत्वा हृदयं बुद्धा स्त्रियो विज्ञानतत्पराः |
महिषीप्रमुखा राज्ञस्त्वां वै कामयते शुभा || ९३ ||
तत्राहं योजयिष्यामि यदि ते विद्यते स्पृहा |
सचिवस्त्वां कामयते त्वद्योग्यो वरवर्णिनि || ९४ ||
तं संगमयितुं शक्ता यदि श्रद्धा तवास्त्यहम् |
इत्यनेन प्रकारेण नानोपायैस्तथोत्तरैः || ९५ ||
भार्याः पुत्रदुहित्रीश्च स्नुषाश्च प्रस्नुषास्तथा |
शोधयेत् सचिवान् पुत्रान् पौत्रादीन् सेवकांस्तथा || ९६ ||
कामोपधाऽविशुद्धांस्तु हातयेदविचारयन् |
स्त्रियस्तु योज्या दण्डेन ब्राह्मणांस्तु प्रवासयेत् || ९७ ||
मोक्षमार्गावसक्तं तु हिंसापैशुन्यवर्जितम् |
क्षमैकसारं नृपतिः सचिवं परिवर्जयेत् || ९८ ||
मोक्षमार्गविरक्तांस्तु दण्डयानपि न दण्डयेत् |
समबुद्धिस्तु सर्वत्र तस्मात् तं परिवर्जयेत् || ९९ ||
इति सूत्रं चोपधानामुपधा बहुधा पुनः |
विवेचिता चोशनसा तच्छास्त्रे तत्र बोधयेत् || १०० ||
विग्रहं सततं राजा परैर्न सम्यगाचरेत् |
भूवित्तमित्रलाभेषु निश्चितेष्वेव विग्रहाः || १०१ ||
सप्ताङ्गेषु प्रसादश्च सदा कार्यो नृपोत्तमैः |
कोषस्य सञ्चयं रक्षां सततं सम्यगाचरेत् || १०२ ||
मन्त्रिणस्तु नृपः कुर्याद् विप्रान् विद्याविशारदान् |
विनयाज्ञान् कुलीनांश्च धर्मार्थकुशलानृजून् || १०३ ||
मन्त्रयेत् तैः समं ज्ञानं नात्यर्थं बहुभिश्चरेत् |
एकैकेनैव कर्तव्यं मन्त्रस्य च विनिश्चयम् || १०४ ||
यस्तैः समस्तैश्चान्यस्य व्यपदेशैः समन्ततः |
सुसंवृतं मन्त्रगृहं स्थलं वारुह्य मन्त्रयेत् || १०५ ||
अरण्ये निःशलाके वा न आमिन्यां कदाचन |
शिशूञ्छाखामृगान् पण्डाञ्छुकान् वै सारिकास्तथा || १०६ ||
वर्जयेन्मन्त्रगेहे तु मनुष्यान् विकृतांस्तथा |
दूषणं मन्त्रभेदेषं नृपाणां यत् तु जायते || १०७ ||
न तच्छक्यं समाधातुं दक्षैर्नृपशतैरपि |
दण्ड्यांस्तु दण्डयेद् दण्डैरदण्यान् दण्डयेन्नहि || १०८ ||
अदण्डयन् नृपो दण्ड्यान्नदण्ड्यांश्चापि दण्डयन् |
नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात् || १०९ ||
दुर्गे तु समतां कुर्यात् प्राकाराट्टालतोरणैः |
भूषितान्नगराद्राजा दूरे दुर्गाश्रयं चरेत् || ११० ||
दुर्गं बलं नृपाणां तु नित्यं दुर्गं प्रशस्यते |
शतमेको योधयति दुर्गस्थो यो धनुर्द्धरः || १११ ||
शतं दशसहस्राणि तस्माद् दुर्गं रशस्यते |
जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च || ११२ ||
आरण्यंमौदुर्गं च शैलजं अरिखोद्भवम् |
दुर्गं कार्यं नृपतिना यथा दुर्गंस्वदेशतः || ११३ ||
दुर्गं कुर्वन् पुरं कुर्यात् त्रिकोणं धनुराकृति |
वर्तुलं च चतुष्कोणं नान्यथा नगरं चरेत् || ११४ ||
ऋदङ्गाकृतिदुर्गं तु सततं कुलनाशनम् |
यथा राक्षसराज्यस्य लङ्का दुर्गान्विता पुरा || ११५ ||
वलेः पुरं शोणिताख्यं तेजो दुर्गैः प्रतिष्ठितम् |
तद् यस्माद् व्यजनाकारं मनोभ्रष्टः शिवावलिः || ११६ ||
सौभाग्यं साल्वराजस्य नगरं पंचकोणकम् |
दिवि यद् वर्तते राज्यं तच्च भ्रष्टं भविष्यति || ११७ ||
यच्चायोध्याह्वयं भूप पुरमिक्ष्वाकुभूभृताम् |
धनुराकृति तचापि ततोऽभूद् विजयप्रदम् || ११८ ||
दुर्गभूभौ यजेद् दुर्गां दिक्पालांश्चैव द्वारतः |
पूजयित्वा विधानेन जयं भूपः समाप्नुयात् || ११९ ||
अतो दुर्गं नृपः कुर्यात् सततं जयवृद्धये |
न ब्राह्मणान् सदा राजा केनाप्यवमनीकृतान् || १२० ||
अवमन्य नृपो विप्रान् प्रेत्येह दुःखभाग् भवेत् |
न विरोधस्तु तै कार्यः स्वानि तेषां न चाददेत् || १२१ ||
कृत्यकालेषु सततं तानेव परिपूजयेत् |
नैषां निन्दां प्रकुर्वीत नाभ्यसूयां तथाचरेत् || १२२ ||
एवं नृपो महाबुद्धिस्तत्त्वमण्डलसंयुतः |
अप्रभादी चारचक्षुर्गुणवान् सुप्रियंवदः || १२३ ||
प्रेत्येह महतीं सिद्धिं प्राप्नोति सुखभोगवान् |
यैर्गुणैर्योजितश्चात्मा तैः पुत्रानपि योजयेत् || १२४ ||
ऋपस्य च स्वतन्त्रत्वं सततं स्वं विनाशयेत् |
स्वतन्त्रो भूपतनयो विकारं याति निश्चितम् || १२५ ||
निर्विकाराय सततं वृद्धांश्च परियोजयेत् |
भोजने शयने याने पुरुषाणां च वीक्षणे || १२६ ||
वियोजयेत् सदा दारान् भूपः कामविचेष्टने |
अस्वतन्त्राः स्त्रियः कार्याः सततं पार्थिवेन तु || १२७ ||
ताः स्वतन्त्राः स्त्रियो नित्यं हानये सम्भवन्ति हि |
तस्मात् कुमारं महिषीमुपधाभिर्मनोहरैः || १२८ ||
शोधयित्वा नियुञ्जीत यौवराज्यावरोधयोः |
अन्तःपुरप्रवेशे तु स्वतन्त्रत्वं निषेधयेत् || १२९ ||
भूपपुत्रस्य भार्याया बहिःसारे तथैव च |
अयं विशेषः संक्षेपान्नृपधर्मो मयोदितः || १३० ||
पुत्राणां गुणविन्यासे भार्याणामपि भूपते |
उशना राजनीतीनां तन्त्राणि तु बृहस्पतिः || १३१ ||
चकारान्यान् विशेषांस्तु तयोस्तन्त्रेषु बोधयेत् |
एवं राजा महाभागे राजनीतौ विशेषताम् |
कुर्वन्न सीदति सदा भूयसीं श्रियमश्नुते || १३२ ||
इति श्रीकालिकापुराणे नृपधर्मकथने अतुरशीतितमोऽध्यायः || ८४ ||

Kapitel 85
पञ्चाशीतितमोऽध्यायः
और्व उवाच
सदाचारेषु राजेन्द्र विशेषाञ् शृणु सम्प्रति |
यानबश्यं नृपः कुर्यात् तान्मत्तः सकलाञ् शृणु || १ ||
साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः |
तेषामाचरणं यत् तत् सदाचारः स उच्यते || २ ||
आगमेषु पुराणेषु संहितासु यथोदितान् |
समुद्दिष्टसदाचारान् गृह्णीयात् तान् गृहस्थवत् || ३ ||
ऋषीन् यजेद् वेदपाठैर्देवान् होमैः प्रपूजयेत् |
श्राद्धैः पितृंस्तर्पयेत् तु भूतानि वलिभिस्तथा || ४ ||
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् |
सर्वं गृहस्थवत् कुर्यान्निषेकाद्यं विधिं तथा || ५ ||
षट्कर्मसु नियुञ्जीत राजा विप्रान् समन्ततः |
तथैव क्षतिर्यादींश्च स्वे स्वे हर्मे नियोजयेत् || ६ ||
यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् |
तं शतेन नृपो दण्डं पुनस्तस्मिन् नियोजयेत् || ७ ||
सांवत्सरेषु कृत्येषु विशिष्यैतान् समाचरेत् |
वश्यं पार्थिवो राजन् तान्
विशेषाञ् शृणुष्व मे || ८ ||
शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् |
नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये || ९ ||
पौषे मासि तृतीयायां कुर्यात् पुष्याभिषेचनम् |
पूजयित्वा श्रियं देवीं अञ्चम्यां ऋपतिश्चरेत् || १० ||
श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तम |
ज्यैष्ठे दशहरायां तु विष्णोरिष्टिं तथाचरेत् || ११ ||
रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत् |
विशिष्यैतांस्तु नृपतिः कुर्याद् यज्ञान् बहुव्ययैः || १२ ||
एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्धते |
अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरणं तथा || १३ ||
जायन्ते चेतयः सर्वा विशिष्यैतांस्ततश्चरेत् |
शरत्काले महाष्टम्यां दुर्गायाः पूजने विधिः || १४ ||
पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम् |
विधिं नीराजनस्य त्वं शृणु पार्थिवसत्तम || १५ ||
कृतेन येन चाश्वानां गजानामपि अर्धनम् |
आश्विने शुक्लपक्षै तु तृतीया स्वातीयोगिनी || १६ ||
ऐशान्यां स्वपुरस्यैव गृह्णीयात् स्थानमुत्तमम् |
नीराजनं ततः कुर्यात् संप्राप्ते दिवसेऽष्तमे || १७ ||
नीराजनस्य कालस्तु पूर्वमुक्तो मया तव |
विधानमात्रं शृणु मे कृतकृत्यो भविष्यसि || १८ ||
एकं हयं महासत्त्वं सुमनोहरमेव च |
पूजयेत् सप्तदिवसान् गन्धपुष्पांशुकादिभिः || १९ ||
तृतीयादौ पूजयित्वा नयेत यज्ञमण्डलम् |
चेष्टां निरूपयंस्तस्य जानीयात् तु शुभाशुभम् || २० ||
परराष्ट्रावमर्दः स्यादश्वो यदि पलायते |
रियते राजपुत्रस्तु यदि चाश्रूणि मुञ्चति || २१ ||
नीयमानो न गच्छेत् तु महिषीमरणं ततः |
तथैव मुखनासाक्षि शब्दं कुर्याद्धयो यदि || २२ ||
यः काष्ठाभिमुखः कुर्यात् तत् काष्ठायां जयेद्रिपून् |
उत्क्षिप्य दक्षिणाग्रं तु पदमश्वो भवेत् पुरः || २३ ||
तदा यदि समस्तांश्च नृपतिर्विजयेद्रिपून् |
प्रातर्नीराजनं कुर्याद् दशम्यां नृपसत्तम || २४ ||
तदप्राप्तौ च द्वादश्यां तस्यामेव समाचरेत् |
कार्तिके पंचदश्यां वा तत्राभावे तु पार्थिव || २५ ||
ऐशान्यां स्वपुरस्योच्चैर्हस्तमानेन षोडश |
दशहस्तं तु विपुलां कुर्याद् वै तत्र तोरणम् || २६ ||
द्वात्रिंशद्धस्तमात्रं तु हस्तषोडशविस्तृतम् |
यज्ञार्थं मण्डलं कुर्यान्मध्ये वेदिं विनिर्दिशेत् || २७ ||
वेद्याश्चोत्तरतश्चाश्व वेदिं कुर्यादनुत्तमाम् |
यत्र संस्थाप्य चाश्वश्च पूजितव्यः पुरोहितैः || २८ ||
सर्जोदुम्बरशाखानामर्जुनस्याथवा नृप |
मत्स्यशङ्खाङ्कितैश्चक्रैर्ध्वजैश्चाप्यभिभूषयेत् || २९ ||
तोरणं कनकरत्नेस्तथा नानाविधैः फलैः |
भल्लातकं शालिकुष्ठं सिद्ध्यर्थं सैन्धवस्य तु || ३० ||
कण्ठदेशे निबध्नीयात् पुष्टिशान्त्यर्थमेव च |
वैष्णवं मण्डलं कृत्वा दिक्पालांश्च नवग्रहान् || ३१ ||
विश्वेदेवांस्तु मन्त्रेण विष्णुमुख्यान् प्रपूजयेत् |
आज्यैस्तिलैश्च पुष्पैश्च मिश्रीकृत्य पुरोहितः || ३२ ||
रवेस्तु वरुणस्यैव प्रजेशस्य तथैव च |
पुरुहूतस्य विष्णोश्च होमं सप्ताहमाचरेत् || ३३ ||
एकैकस्य सहस्रं वा अष्टोत्तरशतं च वा |
कुर्यात् तु प्रत्यहं होमं चतुर्वर्गस्य सिद्धये || ३४ ||
समिधश्चापि होतव्याः पालाशाः खादिरास्तथा |
औदुम्बर्यश्च काश्मर्या आश्वत्थाश्च पुरोधसा || ३५ ||
सौवर्णान् राजतान् वापि मार्तिकान् वा यथेच्छया |
कुर्यात् तु कलशानष्टौ फलाम्राम्वरयोजितान् || ३६ ||
क्षिपेत् तेषु घटेष्वेव समङ्गहरितालकम् |
चन्दनं च तथा कुष्ठं प्रियङ्गुं च मनःशिलाम् || ३७ ||
ञ्जनं च हरिद्रां च श्वेतां दन्तीं तथैव च |
भल्लातकं पूर्णकोशं सहदेवीं शतावरीम् || ३८ ||
वचां सनागकुसुमां सोमराजीं सुगुप्तिकाम् |
उत्थं च करवीरं च तुलसीदलमेव च || ३९ ||
एतानि निक्षिपेन्मध्ये कलशानां पुरोहितः |
कनकरम्बुजैर्यज्ञदारुभिः स्रुक्स्रुवौ तथा || ४० ||
कर्तव्ये शान्तिकामेन नीराजनविधौ नृप |
एवं सप्ताहपर्यन्तं पूजाभिर्हवनैस्तथा || ४१ ||
पूर्वोक्तान् पूजयित्वा तु नृपः सप्ताहमाचरेत् |
यावन्नीराजनं कुर्यात् तावद्राजा वसेद् गृहे || ४२ ||
रात्रौ न यज्ञभूमौ तु निवसेच्छान्तिमिच्छुकः |
नारोहयेत् तुरङ्गं तं गजं वा तत्र पार्थिवः || ४३ ||
यावत् सप्ताहपर्यन्तं यानेनान्येन वै व्रजेत् |
भक्ष्यैर्नानाविधैश्चैव मधुपायसयावकैः || ४४ ||
मोदकैर्वा बलिं कुर्यादन्नव्यञ्जनसम्भवैः |
पूर्वोक्तानां तु देवानां सप्ताहं यावदुत्तमम् || ४५ ||
सप्तमेऽह्नि तु रेभन्तं पूजयेत् तोरणान्तरे |
सूर्यपुत्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् || ४६ ||
ज्वलन्तं शुक्लवस्त्रेण केशानुद्ग्रथ्य वासवा |
कशां वामकरे बिभ्रद् दक्षिणं तु करं पुनः || ४७ ||
स खड्गं न्यस्य आमायां सितसैन्धवसंस्थितम् |
एवंविधं तु रेभन्तं प्रतिमायां घटेऽपि वा || ४८ ||
सूर्यपूजाविधानेन पूजयेत तोरणान्तरे |
पूजयित्वा तु रेभन्त द्विरदं तुरगं तथा || ४९ ||
अहताम्बरसंवीतं स्रक्चन्दनसमन्वितम् |
सुवर्णविद्धनिस्त्रिंशं विचित्रं कवचादिभिः || ५० ||
युक्तं तु होमकुण्डस्य ऐशान्यामश्ववेदिकाम् |
पूर्वं कृतां नयेदश्वगजपालौ पृथक् पृथक् || ५१ ||
नीयमाने गजे चाश्वे पूर्वोक्तं तु निमित्तकम् |
यत्नाद् वीक्षेत नृपतिः फलं चैवावधारयेत् || ५२ ||
होमकुण्डस्योत्तरस्यां वैयाघ्रे चर्मणि स्थितः |
एदविदा चाश्वविदा सहितो वीक्ष्य सैन्धवम् || ५३ ||
नीताय तुरगायाशु भक्तपिण्डीं सुगन्धिनीम् |
दद्यात् पुरोहितस्तत्र संमन्त्र्य शान्तिमन्त्रकैः || ५४ ||
भक्षणाद् यदि जिघ्रेत् तदश्नीयाद् वा हयः सच |
तदा स्यात् सर्वकल्याणं विपरीतमतोऽन्यथा || ५५ ||
शाखामौदुम्बरीमाम्रीं सकुशां च घटोदके |
आप्लाव्याप्लाव्य तुरगान् गजान् भूपं च सैनिकान् || ५६ ||
रथांश्च संस्पृशेन्मन्त्रैः शान्तिकैः पौष्टिकैस्तथा |
सेचयेत् सहितैर्विप्रैश्चतुरङ्गं पुरोहितः || ५७ ||
दिक्पालानां ग्रहाणां च मन्त्रैश्च वैष्णवैस्तथा |
बहुधा चाभिषिच्याथ ततः सौवर्ण अर्पणम् || ५८ ||
वीक्षयित्वा नृपं चर्त्विक् ततो मन्त्रिणमेव च |
राजपुत्रं तथामात्यानन्यानपि च सैनिकान् || ५९ ||
कम्पयन् द्विजशार्दूलः सर्वानेव तु दर्शयेत् |
चतुरंगस्य स्वस्यापि कृत्वैवं शान्तिपौष्टिके || ६० ||
मृन्मयं शात्रवं कृत्वा चाभिचारिकमन्त्रकैः |
हृदि शूलेन विध्वा तं शिरं खड्गेन छेदयेत् || ६१ ||
आचार्यः कविकां पश्चादभिमन्त्र्य हयाय वै |
ऐन्द्रैः प्राभाकरैर्मन्त्रैर्दद्याद् वक्त्रे स्वयं पुनः || ६२ ||
तमनेन तु मन्त्रेण समारुह्य नृपस्तदा |
गच्छेदुत्तरपूर्वां तु दिशं सर्वैर्बलैर्युतः || ६३ ||
ऋत्विक् पुरोहिताचार्याः सर्व एव नृपं तदा |
अनुगच्छेयुरन्यानि निमित्तानि विलोकितुम् || ६४ ||
वादित्रघोषैस्तुमुलैरातपत्रैर्वृतस्तथा |
गच्छेन्निराजने राजा दारयन्निव मेदिनीम् || ६५ ||
मणिविद्रुममुक्तादि-स्वर्ण-रत्नैरलङ्कृतः |
क्रोशमात्रं ततो गत्वा पूर्वद्वारेण पार्थिवः || ६६ ||
स्वपुरं प्रविशेद् विप्रैर्यज्ञं यायात् पुरोहितः |
तत्र गत्वा दक्षिणां तु हिरण्यं गां तथा तिलम् || ६७ ||
दत्त्वा पश्चाद् द्विजेभ्यस्तु दद्याद् दानानि शक्तितः |
एवं नीराजनं कृत्वा बलानांच् अ महीक्षितः || ६८ ||
प्रेत्येह सुस्थिरां लक्ष्मीं नृपतिः प्राप्नुयात् तथा |
त्वमश्वामृतसञ्जात सागरोद्भव सैन्धव || ६९ ||
येन सत्येन बहसे शक्रं तेनेह मां वह |
येन सत्येन रेभन्तं येन सत्येन भास्करम् || ७० ||
वहसे तेन सत्येन विजयाय वहस्व माम् |
आभ्यां तु भूप मन्त्राभ्यामश्वारोहणमाचरेत् || ७१ ||
आरुह्याग्रे महिष्यास्तु शुद्धान्ते लम्बयेत् ततः |
महिषी च ततो भूपं पर्यङ्कोपरि संस्थितम् || ७२ ||
दूर्वाक्षतैः ससिद्धार्थैः स्त्रीभिः सह तमर्चयेत् |
कृते तु भूमिग्रहणे तृतीयायां निराजने || ७३ ||
सूतकं यदि जायेत तत्र दुष्यति केवलम् |
सूतकी मृतकी वापि पार्थिवस्तु यथा तथा || ७४ ||
बलनीराजनं कुर्यात् तन्मात्रं च विशेषतः |
सद्यः शौचं भवेद्राज्ञो व्यवहारविलोकने || ७५ ||
तथाधिवासने यज्ञे परराष्ट्रविमर्दने |
अयं ते कथितो राजन्नीराजनक्रमो मया |
पुष्यस्नानविधानं तु पार्थिव शृणु साम्प्रतम् || ७६ ||
इति श्रीकालिकापुराणे पञ्चाशीतितमोऽध्यायः || ८५ ||
Kapitel 86
षडशीतितमोऽध्यायः
और्व उवाच -
शृणु राजन् प्रवक्ष्यामि पुष्यस्नानविधिक्रमम् |
येन विज्ञानमात्रेण विघ्ना नश्यन्ति सन्ततम् || १ ||
पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत् |
सौभाग्यकल्याणकरं दुर्भिक्षमरणापहम् || २ ||
विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ |
वज्रे शूले हर्षणादौ योगे तु यदि लभ्यते || ३ ||
तृतीयायुक्तपुष्यर्क्सं रविशौरिकुजेऽहनि |
तदा समस्तदोषाणां तत् स्नानं हानिकारकम् || ४ ||
ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः |
तदा पुष्ये तु नक्षत्रे कुर्यान्मासान्तरेऽपि च || ५ ||
इयं तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा |
शक्रादिसर्वदेवानां शान्त्यर्थंच् अ जगत्पतिः || ६ ||
तुषकेशास्थिवल्मीक-कीटदेशादिवर्जिते |
शर्कराकृमिकुष्माण्ड-बहुकृष्टविवर्जिते || ७ ||
काकोलूकैश्च कङ्कैश्च काकालैर्गृध्रशौनकैः |
बर्जिते कण्टकिवने विभीतकविवर्जिते || ८ ||
शिग्रुश्लेष्मातकाभ्यां तु जलौकाद्यैर्विवर्जिते |
स्वस्थाने अम्पकाशोक-वकुलादिविराजिते || ९ ||
हंसकारण्डवाकीर्णे सरस्तीरेथवा शुचौ |
पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानमुत्तमम् || १० ||
ततः पुरोहितो राजा नाना वादित्रनिःस्वनैः |
प्रदोषसमये गच्छेत् तत् स्थानं पूर्ववासरे || ११ ||
तस्य स्थानस्य कौवेर्यां दिशि स्थित्वा पुरोहितः |
सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः || १२ ||
गोरोचनाभिः सिद्धार्थैरक्षतैः सफलादिभिः |
गन्धद्वारेत्यादिभिर्मन्त्रैः सर्वाधिसिक्तकैः || १३ ||
अधिवास्य तु तत्स्थानं पूजयेत् तत्र देवताः |
गणेशं केशवं शक्रं ब्रह्माणं चापि शङ्करम् || १४ ||
उमया सहितं देवं सर्वाश्च गणदेवताः |
मातृश्च पूजयेत् तत्र नृपतिः सपुरोहितः || १५ ||
मङ्गलान् कलशान् कृत्वा नानानैवेद्यसञ्चयान् |
प्रदद्यात् पायसं स्वादुफलं मोदकयावकौ || १६ ||
अधिवास्य च तत् स्थानं दूर्वासिद्धार्थकाक्षतैः |
तत्स्थानाच्चापि भूतानि सारयेन्मन्त्रमीरयन् || १७ ||
अपसर्पन्तु ते भूता ये भूता भूमिपालकाः |
हूतानामविरोधेन स्नानकर्म करोम्यहम् || १८ ||
ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः |
आवाहयेदिमान् देवान् पूज्यान् पुष्याभिषेकतः || १९ ||
आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः |
दिशो हि पालकाः सर्वे ये चान्येऽप्यंशभागिनः || २० ||
ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम् |
अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम् || २१ ||
स्वपूजां प्राप्य पातारो दत्त्वा शान्तिं महीभुजे |
ततस्तां नृपती रात्रिं नयेत् तु सपुरोहितः || २२ ||
स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः |
कृत्वा पूजां तु देवानां रात्रौ स्थाने नृपः स्वपेत् || २३ ||
शुभाशुभफलं स्वप्ने ज्ञेयं ओषज्ञसम्मते |
दुःस्वप्नदर्शनं चेत् स्यात् तदा पुष्याभिषेचने || २४ ||
होमं चतुर्गुणं कुर्याद् दत्त्वा चापि गवां शतम् |
गोवाजिकुंजराणां तु प्रासादस्य गिरेस्तत्रोः || २५ ||
आरोहणं शुभकर्ऽम् राज्यश्रीवृद्धिकारकम् |
दधिदेवसुवर्णानां राह्मणस्य प्रदर्शनम् || २६ ||
वीणादूर्वाक्षतफलं पुष्पच्छत्रविलेपनम् |
शीतांशु अक्रशंखानां पद्मस्य सुहृदस्तथा || २७ ||
लाभाः क्षयकराः शत्रौ रत्नाकरस्य भूभृतः |
दर्शनं चोपरागस्य निगडेन च बन्धनम् || २८ ||
मांसस्य भोजनं चैव पर्वतस्य विवर्तनम् |
आभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम् || २९ ||
अगम्यागमनं कूप पङ्कगर्भावतीर्णता |
पर्वतस्य तथा नद्याः रोतसां लङ्घनं तथा || ३० ||
स्वपुत्रमरणं चैव पानं रुधिरमद्ययोः |
भोजनं पायसस्यापि मनुष्यारोहणं तथा || ३१ ||
कल्याणसुखसौभाग्य-राज्य-शत्रुक्षयं तथा |
एते स्वप्नाः प्रकुर्वन्ति नृपस्य नृपसत्तम || ३२ ||
खरोष्ट्रमहिषाणां च आरोहो राज्यनाशनः |
नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः || ३३ ||
रक्तवस्त्रपरिधानं रक्तमालानुलेपनम् |
रक्तां कृष्णां स्त्रियं चैव कामयन् मृत्युमाप्नुयात् || ३४ ||
कूपान्तरे प्रवेशः स्याद् दक्षिणाशागतिस्तथा |
पङ्के निमज्जनं स्नानं भार्यापुत्रविनाशनम् || ३५ ||
लाभस्तस्य भवेत् स्वप्नेअप्यरुत्पत्तिर्नृपभ्य च |
आदाय गर्भनाडीं तु सकुनो यातिहञ्जनः || ३६ ||
स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात् |
दीर्घं विंशतिहस्तं तु हस्तषोडशविस्तृतम् || ३७ ||
कुर्यात् तु लक्षणोपेतं यज्ञमण्डलमुत्तमम् |
ततोऽपरेऽह्नि पूर्वाह्णे मातृणां पूजनं चरेत् || ३८ ||
कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव च |
चन्दनागुरुकस्तूरीधूमकर्पूरचूर्णकैः || ३९ ||
सम्पूज्य मण्डलस्थानं तस्मिन् ह्रौं शम्भवे नमः |
अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः || ४० ||
मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः |
कौशेयैर्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत् || ४१ ||
चतुर्हस्तप्रमाणं तु मण्डलं विलिखेत् ततः |
हस्तप्रमाणं पद्मं तु मण्डलस्य प्रकीर्तितम् || ४२ ||
द्वाराणि सार्धहस्तानि कर्णिकाकेशरोज्ज्वलम् |
सितं रक्तं च पीतं च कृष्णं हरितमेव च || ४३ ||
शालिचूर्णैश्च कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः |
कुर्यात् तथाञ्जनैश्चूर्णै राजा मण्डलवृद्धये || ४४ ||
पद्मान्ततः समाअभ्य तालं पश्चिमगामिनम् |
पश्चिमद्वारमध्ये च सतपत्रं विनिर्दिशेत् || ४५ ||
प्रत्येकं द्वारमध्ये तु पद्मं चैवाष्टपत्रकम् |
कुर्यान्मण्डलभागज्ञश्चूर्णैरेव पृथक् पृथक् || ४६ ||
चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत् ततः |
उत्सार्य सूत्रं प्रथमं मण्डलं पूजयेत् ततः || ४७ ||
हवनाय नम इति ततो हस्तं वियोजयेत् |
सव्यावलम्बहस्तं तु रजःपात्रं समाचरेत् || ४८ ||
मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेच्छया |
अधोमुखाङ्गुलीः कृत्वा पातयेच्च विचक्षणः || ४९ ||
समारेखा तु कर्तव्या विच्छित्रा पुष्परञ्जिता |
अङ्गुष्ठपर्वनैपुण्यात् समा कार्या विजानता || ५० ||
संसक्तविषमं स्थूलं विच्छिन्नं कृसरकृतिम् |
पर्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन || ५१ ||
संसक्ते कलहं विद्यादूर्ध्व रेखे तु विग्रहम् |
अतिस्थूले भवेद् व्याधिर्नित्यं पीडाविमिश्रिते || ५२ ||
बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः |
कृशायां चार्थहानि स्याच्छिन्नायां मरणं ध्रुवम् || ५३ ||
वियोगो वा भवेत् तस्य इष्टद्रव्यसुतस्य वा |
अविदित्वा लिखेद् यस्तु मण्डलं तु यथेच्छया || ५४ ||
सर्वदोषानवाप्नोति ये दोषाः ऊर्वमीरिताः |
सितसर्षपदूर्वाया रेखाः कार्या विजानता || ५५ ||
विमलं विजयं भद्रं विमानं शुभदं शिवम् |
वर्धमानं च देवं च शताक्षं कामदायकम् || ५६ ||
रुचिकं स्वस्तिकं चैव द्वादशैते तु मण्डलाः |
यथास्थानं यथायज्ञं योजनीया विचक्षणैः || ५७ ||
सागरे मध्यमाने तु पीयूषार्थं सुरोत्करैः |
पीयूषधारणार्थाय निर्मिता विश्वकर्मणा || ५८ ||
कलां कलां तु देवानामसित्वा ते पृथक् पृथक् |
यतः कृतास्तु कलसास्ततस्ते परिकीर्तिताः || ५९ ||
नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत |
गोह्योपगोह्यो मरुतो मयूखश्च तथापरः || ६० ||
मनोहाचार्यभद्रश्च विजयस्तनु दूषकः |
इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्तितः || ६१ ||
तेषामेव क्रमाद् भूप नव नामानि यानि तु |
शृणु तान्यपराण्येव शान्तिदानि सदैव हि || ६२ ||
क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलसम्भवः |
पवनाग्नी ततो द्वे तु यजमनस्ततः परः || ६३ ||
कोषसम्भवाम्ना तु षष्ठः स परिकीर्तितः |
सोमस्तु सप्तमः प्रोक्त आदित्यस्तु तथाष्टमः || ६४ ||
विजयो नाम कलसो योऽसौ नवम उच्यते |
स तु पंचमुखः प्रोक्तो महादेवस्वरूपधृक् || ६५ ||
घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा |
यथाकाष्ठां स्थितः सम्यग् वामदेवादिनामतः || ६६ ||
मण्डलस्य तु पद्मान्ते पञ्चवक्त्रं घटं न्यसेत् |
क्षितीन्द्रं पूर्वतो न्यस्य पश्चिमे जलसम्भवम् || ६७ ||
वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम् |
नैर्-ऋत्ये यजमानं तु ऐशान्यां कोषसम्भवम् || ६८ ||
सोममुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् |
न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् || ६९ ||
कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः |
मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः || ७० ||
दिक्पाला देवताः सर्वा वेष्टयन्ति दिशो दश |
कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः || ७१ ||
नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः |
गङ्गाद्याः सरितः सर्वा वेदाश्चत्वार एव च || ७२ ||
कलसे संस्थिताः सर्वे तेषु तानि विचिन्तयेत् |
अत्नानि सर्वबीजानि पुष्पाणि च फलानि च || ७३ ||
वज्रमौक्तिकवैदूर्यमहापद्मेन्द्रस्फाटिकैः |
सर्वधाममयं बिल्वं नागरोदुम्बर तथा || ७४ ||
बीजपूरकजम्बीरकाश्मीराम्रातदाडिमम् |
यवं शालिं च नीवारं गोधूमं सितसर्षपम् || ७५ ||
कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा |
चन्दनं च तथा मांसीमेलां कुष्ठं तथैव च || ७६ ||
अस्तूरीपत्रचूर्णं च जलनिर्यासकाम्बुदम् |
शैलेयं बदरं जातीपत्रपुष्पे तथैव च || ७७ ||
कालशाकं तथा पृक्का देवीपर्णकमेव च |
वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् || ७८ ||
दूर्वां मोहनिकां भद्रां शतमूलीं शतावरीम् |
अर्णानां सरलां क्षुद्रां सहदेवीं गजाह्वयाम् || ७९ ||
पूर्णकोषां सितां पीठां गुञ्जां शिरसिकानलौ |
व्यामकं गजदन्तं च शतपुष्पं पुनर्नबाम् || ८० ||
ब्राह्मीं देवीं शिवां रुद्रां सर्वसन्धानिकां तथा |
समाहृत्य शुभानेतान् कलसेषु निधार्पयेत् || ८१ ||
कलसस्य यथादेशं विधिं शम्भुं गदाधरम् |
यथाक्रमं पूजयित्वा शम्भु मुख्यतया यजेत् || ८२ ||
प्रासादेन तु मन्त्रेण शम्भुं तन्त्रेण शङ्करम् |
प्रथमं पूजयेन्मध्ये नाना नैवेद्यवेदनैः || ८३ ||
दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत् |
पूर्वं बहिः स्थापितेषु ग्रहाणां कलसेषु च || ८४ ||
नवग्रहान् पूजयेत् तु मातृर्मातृघटेषु च |
सर्वे देवा घटे पूज्या घटास्तेषां पृथक् पृथक् || ८५ ||
नवैव तत्र पूर्वोक्ताः स्मृता मुख्यतया नृप |
भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः || ८६ ||
यावकैः पायसैश्चैव यथासम्भवयोजितैः |
पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान् || ८७ ||
दक्षिणे मण्डलस्याथ कुण्डं निर्माय पायसैः |
समिद्भिः शालिसिद्धार्थैर्घृतैर्दूर्वाक्षतैस्तथा || ८८ ||
केवलैश्च तथैवाज्यैः पूजितान् सकलान् सुरान् |
होमेन तोषयेद् वृद्ध्यै नृपः सत्विक्पुरोहितः || ८९ ||
होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम् |
रोचनाख्यमलंकारांस्तथा सर्वान् नियोजयेत् || ९० ||
वृद्धावङ्गुलमङ्गुल्या षड्विंशाङ्गुलिकावधि |
वृत्तं वा चतुरस्रं वा पद्मं त्रिकोणसंज्ञकम् || ९१ ||
रत्नेशान् पद्ममध्ये तु गोमुष्टिकविनायकैः |
श्रीश्रीवृक्षवरारोहामुमादेवीं शुभान्विताम् || ९२ ||
रत्नैः सर्वैरलङ्कारैः पट्टं कार्यं द्विहस्तकम् |
हस्तविस्तारमुच्छ्रायं नवहस्तं दशाङ्गुलम् || ९३ ||
स्नानार्थं सार्धहस्तं च पट्टं वृत्तं गुणान्वितम् |
शयया चतुर्गुणा दीर्घा धनुर्मानं तु पीठकम् || ९४ ||
गजसिंहकृताटोपं हेमरत्नविभूषितम् |
सिंहाख्यं सार्धविस्ताराद् दण्डासनमथापि वा || ९५ ||
व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत् |
अन्यैर्वा निर्मितां चर्ममृदुतूलकपूरिता || ९६ ||
शयया दीर्घार्घविस्तीर्णा चतुर्हस्ता सुलक्षणा |
वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया || ९७ ||
अर्धचन्द्रसमं कुर्यादासनं चतुरस्रकम् |
उपधानानि शययायाः कर्णादिमूलभेदतः || ९८ ||
षोडशैवात्र कार्याणि वर्णचित्रयुतानि च |
यानं सिंहासन पट्टं शययोपकरणादिकम् || ९९ ||
राज्ञो नूतनयोग्यं तद् वेद्या उत्तरतो न्यसेत् |
तेषां तु पश्चिमे स्वर्णरत्नौघखचिते वरे || १०० ||
पर्यङ्के यज्ञदार्वौघनिर्मिते महदास्तरे |
र्धाच्छादनसंयुक्ते चर्मावृतचतुष्टये || १०१ ||
वृषभस्य तथोर्णायाः सिंहशार्दुलयोरपि |
पादपीठे रत्नयुते पादावारोप्य पार्थिवः || १०२ ||
अस्मिन् पर्यङ्कपीठस्थे चर्मावृतचतुष्टय |
नानालङ्कारभूषाढ्यं नृपतिं रत्नशालिनम् || १०३ ||
स्नापयेद् ब्राह्मणैः सार्धं राजानं सुखसङ्गतम् |
संवितकम्बलं कृष्णं अहुवस्त्रैश्च शौभितम् || १०४ ||
कलसेवलिपुष्पाद्यैः सालिचूर्णैश्च स्नापयेत् |
ष्टौ षौडश विंशाष्टशतमधिकं च वा || १०५ ||
कलसानां समाख्याता अधिकस्योत्तरोत्तरम् |
जयकल्याणदैर्मन्त्रैर्मङ्गलोत्थैश्च शाम्भवैः || १०६ ||
वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः |
आज्यं तेजः समुद्दृष्टमाज्यं पापहरं परम् || १०७ ||
आज्यं सुराणामाहारप्राज्ये लोकाः प्रतिष्ठिताः |
हौमान्तरिक्षं दिव्यं वा यत् ते कल्पमषमागतम् || १०८ ||
सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु |
ततोऽपनीयगात्रात् तु कम्बलं वस्त्रमेव च || १०९ ||
कलसैः स्नापयेद् भूपं पुष्पस्नानीयपूरितैः |
एभैर्मन्त्रैर्नरश्रेष्ठ तनुतत्त्वार्थसाधकैः || ११० ||
उरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः |
ब्रह्मा विष्णुश्च रुद्राश्च साध्याश्च समरुद्गणाः || १११ ||
आदित्या वसवो रुद्रा अश्विनौ यो भिषग्वरौ |
अदितिर्देवमाता च स्वाहा लक्ष्मीः सरस्वती || ११२ ||
कीर्तिर्लक्ष्मीर्घृतिः श्रीश्च सिनीवाली कुहूस्तथा |
दितिश्च सुरसा चैव विनता कद्रुरेव च || ११३ ||
देवपत्नयश्च याः प्रोक्ता देवमातर एव च |
सर्वास्त्वामषिञ्चन्तु सिद्धाश्चाप्स्रसां गणाः || ११४ ||
नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः |
संवत्सरा निमेषाश्च कलाः काष्ठाः क्षणा लवाः || ११५ ||
सर्वे त्वामभिषिञ्चन्तु कालस्यावयवस्तथा |
वैमानिकाः सुरगणा मनवः सागरैः सह || ११६ ||
सरितश्च महानागा नागाः किंपुरुषास्तथा |
वैखानसा महाभागा द्विजा वैहायसाश्च ये || ११७ ||
सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु |
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः || ११८ ||
भृगुः सनत्कुमारश्च सनकश्च सनन्दनः |
सनातनश्च दक्षश्च जैगीषव्योऽभिनन्दनः || ११९ ||
एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ |
दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा || १२० ||
मार्कण्डेयो दीर्घतमाः शुनःशेफो विदूरथः |
और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः || १२१ ||
द्वैपायनो यवक्रीतो देवरातः सहात्मजः |
एते चान्ये च बहवो वेदव्रतपरायणाः || १२२ ||
सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः |
पर्वतास्तरवो नद्यः पुण्यान्यायततनानि च || १२३ ||
प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः |
वाहनानि च दिव्यानि सर्वे लोकाश्चराचराः || १२४ ||
अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् |
एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभाः || १२५ ||
तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः |
इत्येवं शुभदैरेतैर्दिव्यर्मन्त्रैस्तथापरैः || १२६ ||
सोरैर्नारायणै रौद्रैर्बह्मशक्रसमुद्भवैः |
आपोहिष्ठा हिरण्येति सम्भवेति सुरेति च || १२७ ||
मानस्तोकेति मन्त्रेण गन्धद्वारेत्यनेन च |
सर्वमंगलमांगल्ये श्रीश्च ते ग्रहयोगिभिः || ११८ ||
इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः |
सर्वमंगलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् || १२९ ||
आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत् |
ध्वजच्छत्रं चामरं च घण्टां चाश्वान् गजांस्तथा || १३० ||
मन्त्रं जप्त्वा धारयेत् तु ततो गच्छेद्धुताशनम् |
तत्र गत्वा वह्निमध्ये वह्नेः श्रीर्वीक्ष्य पार्थिवः || १३१ ||
इमित्तान्यनिमित्तानि लक्षयेत् तत्र बिन्दुभिः |
दैवज्ञकञ्चुक्यमात्यवन्दिपौरजनैर्वृतः || १३२ ||
वादित्रघोषैस्तुमलैस्तथा तौर्यत्रिकैः शुभैः |
कृत्वा शेषे पुनः शान्तिमाशीर्वाच्य च वै द्विजान् || १३३ ||
पूर्णां विधाय विधिवद् दक्षिणां कनकान्विताम् |
धान्यानि चाथ वासांसि दत्त्वा कुर्याद् विसर्जनम् || १३४ ||
ततः शेषजलैः सर्वानमात्यादीन् पुरोहितः |
सेचयेच्चतुरङ्गं च बलं चापि सराष्ट्रकम् || १३५ ||
एवं कृत्वा नृपः पश्चात् त्रिरात्रं संयतो भवेत् |
मांसमैथुनहीनश्च कुर्यान्माङ्गल्यसेवनम् || १३६ ||
पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते |
तस्यां पूज्या सदा देवी चण्डिका शंकरेण ह || १३७ ||
पाञ्चालिकाविहाराद्यैः शिशूनां कौतुकैस्तथा |
वैवाहिकेन विधिना मोहयेच्चण्डिकां शिवाम् || १३८ ||
चतुष्पथेषु सर्वेषु देवदेवीगहेषु च |
पताकाभिरलं कुर्यादेवं कुर्वन्न सीदति || १३९ ||
एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम् |
चतुरङ्गैः समं राजा भार्यभिस्तु नरैः सह || १४० ||
राज्यमण्डलसंयुक्तः परत्रेह न सीदति |
नातः परतरो यज्ञो नातः परतरोत्सवः || १४१ ||
नातः परतरा शान्तिर्नातः परतरं शिवम् |
अनेनैव विधानेन नृपतेरभिषेचनम् || १४२ ||
युवराज्याभिषेकं च कुर्याद्राजपुरोहितः |
नृपाभिषेककरणमादौ यदि समाचरेत् || १४३ ||
अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा |
अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा |
एवं यज्ञं नृपः कृत्वा परत्रेह न सीदति || १४४ ||
इति श्रीकालिकापुराणे षडशीतितमोऽध्यायः || ८६ ||
Kapitel 87
सप्ताशीतितमोऽध्यायः
और्व उवाच -
अथातः शृणु राजेन्द्र शकोत्थानं ध्वजोत्सवम् |
यत् कृत्वा नृपतिर्याति न कदाचित् पराभवम् || १ ||
रवौ हरिस्थे द्वादश्यां श्रवणेन विडौजसम् |
अराधयेन्नपः सम्यक् सर्वविघ्नोपशान्तये || २ ||
राजोपरिर्चरो नाम वसुनामापरस्तु यः |
नृपस्तेनायमतुलो यज्ञः प्रावर्तितः पुरा || ३ ||
प्रावृट्काले च नभसि द्वादश्यामसितेतरे |
पुराहितो वहुविधैर्वाद्यस्तूर्यैः समन्वितः || ४ ||
प्रथमं शककेत्वर्थ वृक्षमामन्त्र्य वर्धयेत् |
आंवत्सरो वार्धंकिश्च कृतमङ्गलकौतुकः || ५ ||
उद्याने देवतागारे श्मशाने मार्गमध्यतः |
ये जातास्तरवस्तांस्तु वर्जयेद् वासवध्वजे || ६ ||
बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् |
कुब्जं वृक्षादनीयुक्तं लताच्छन्नतरुअं त्यजेत् || ७ ||
पक्षिवाससमाकीर्णं कोटरैर्बहुभिर्युतम् |
पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत् || ८ ||
नारीसंज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः |
तान् सदा वर्जयेद् धीरः सर्वदा शक्रपूजने || ९ ||
अर्जुनोऽप्यश्वकर्णश्च वटः प्रियकोषक श्च |
औदुम्बरश्च पंचैते केत्वर्थे ह्युत्तमाः स्मृताः || १० ||
अन्ये च देवदार्वाद्याः शालाद्यास्तरवस्तथा |
प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन || ११ ||
धृत्वा वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत् |
यानि वृक्षेषु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः || १२ ||
उपहारं गृहीत्वेमं क्रियतां वासवध्वजम् |
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम || १३ ||
ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम् |
ततोऽपरेऽह्नि तं छित्त्वा मूलमष्टांगुलं पुनः || १४ ||
जले क्षिपेत् तथाग्रस्य छित्वैव चतुरङ्गुलम् |
ततो नीत्वा पुरद्वारं केतुं निर्माय तत्र वै || १५ ||
शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत् |
द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते || १६ ||
द्वात्रिंशत् तु ततो ज्यायान् द्वाचत्वारिंशदेव च |
ततोऽधिकः समाख्यातो द्वापञ्चाशत् तथोत्तमः || १७ ||
कुमार्यः पञ्च कर्तव्याः शक्रस्य नृपसत्तम |
शलमययस्तु ताः सर्वा अपराः शक्रमातृकाः || १८ ||
केतोः पादप्रमाणेन कार्याः शक्रकुमारिकाः |
मातृकार्धप्रमाणास्तु यन्त्रं हस्तद्वयं तथा || १९ ||
एवं कृत्वा कुमारीश्च मातृकाः केतुमेव च |
एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत् || २० ||
अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः |
द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् || २१ ||
अच्युतं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत् |
शक्रस्य प्रतिमां कुर्यात् काञ्चनीं दाखीं च वा || २२ ||
अन्यतैजससम्भूतां सर्वाभावे तु मृन्मयीम् |
तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः || २३ ||
ततः शुभे मुहूर्ते तु केतुमुत्थापयेन्नृपः |
वज्रहस्त सुरारुघ्न बहुनेत्र पुरन्दर |
क्षेमार्थं सर्वलोकानां पूजेयं प्रतिगृह्यताम् || २४ ||
एह्येहि सर्वामरसिद्धसङ्घैरभिष्टुतो वज्रधरामरेश |
समुत्थितस्त्वं श्रवणाद्यपादे गृहाण पूजां भगवन्नमस्ते || २५ ||
एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः |
इति मन्त्रेण तन्त्रेण नानामैवेद्यवेदनैः || २६ ||
अपपैः पायसैः पानैर्गुडैर्धानाभिरेव च |
भक्ष्यैर्भोज्यैश्च विविधैः पूजयेच्छ्रीविवृद्धये || २७ ||
घटे तु दशदिक्पालान् ग्रहांश्च परिपूजयेत् |
साध्यादीन् सकलान् देवान् मातृः सर्वा अनुक्रमात् || २८ ||
ततः शुभे मुहूर्ते तु ज्ञानिवर्धकिसंयुतः |
केतूत्थापनभूमिं तु यज्ञवेद्यास्तु पश्चिमे || २९ ||
विप्रैः पुरोहितैः सार्धं गच्छेद्राजा सुमंगलैः |
रज्जुभिः पंचभिर्बद्धं यन्त्रश्लिष्टं समातृकम् || ३० ||
कुमारीभिस्तु संयुक्तं दिक्पालानां च पट्टकैः |
बृहद्भिरतिकान्तैश्च नानाद्रव्यैः सुपूरितैः || ३१ ||
यथावर्णैर्यथादेशे योजितैर्वस्त्रवेष्टितैः |
युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरै || ३२ ||
भूषितं मुकुरैरुच्चिअर्माल्यैर्बहुविधैस्तथा |
बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया || ३३ ||
चितमाल्याम्बरैश्चैव चतुर्भिरपि तोरणैः |
उत्थापयेन्महाकेतुं राजकीयै शनैः शनैः || ३४ ||
तमुत्थाय महाकेतुं पूजितं मण्डलान्तरे |
प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन् || ३५ ||
यजेत् तं पूर्ववत् तत्र शचीं मातलिमेव च |
जयन्तं तनयं तस्य वज्रमैरावतं तथा || ३६ ||
ग्रहांश्चाप्यथ दिक्पालान् सर्वाश्च गणदेवताः |
अपूपाद्यैः पूतयेत् तु वलिभिः पायसादिभिः || ३७ ||
पूजितानां च देवानां शश्वद्धोमं समाचरेत् |
होमान्ते तु बलिं दद्याद् वासवाय महात्मने || ३८ ||
तिलं घृतं चाक्षतं च पूष्पं दूर्वां तथैव च |
एतैस्तु जुहुयाद् देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तम || ३९ ||
ततो होमावसाने तु भोजयेद् ब्राह्मणानपि |
एवं सम्पूजयेन्नित्यं सप्तरात्रं दिने दिने || ४० ||
ब्राह्मणैः सहिता राजा वेदवेदांगपारगैः |
सर्वत्र शक्रपूजासु यज्ञेसु परिकीर्तितः || ४१ ||
त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः परः |
एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः || ४२ ||
श्रवणर्क्षयुतायां तु द्वादश्यां पार्थिवः स्वयम् |
अन्त्यपादे भरण्यां तु निशि शक्रं विसर्जयेत् || ४३ ||
सुप्तेषु सर्वलोकेषु यथा राजा न पश्यति |
षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम् || ४४ ||
शक्रस्य नृपशार्दूल तस्मान्नेक्षेत तन्नपः |
विसर्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः || ४५ ||
सार्धं सुरासुरगणैः पुरन्दर शतक्रतो |
उपहारं गृहीत्वेम महेन्द्रध्वज गम्यताम् || ४६ ||
सूतके तु समुत्पन्ने वारे भौमस्य वा शनैः |
भूमिकम्पादिकोत्पाते वासवं न विसर्जयेत् || ४७ ||
उत्पाते सप्तरात्रं तु तथोपप्लवदर्शने |
व्यतीत्य शनिभौमौ च ह्यन्यर्क्षेऽपि विसर्जयेत् || ४८ ||
सूतके त्वथ संप्राप्ते व्यतीते सूतके पुनः |
यस्मिन् तस्मिन् द्ने चैव सूतकान्ते विसर्जयेत् || ४९ ||
तथा केतुं नृपो रक्षेत् पतन्ति शकुना यथा |
न केतौ नृपशार्दूल यावन्नहि विसर्जनम् || ५० ||
शनैः शनैः पातयेत् तु यथोत्थापनमादितः |
कृतं तथा यथा भग्ने केतौ मृत्युमवाप्नुयात् || ५१ ||
विसृष्टं शक्रकेतुं तु सालङ्कारं तथा निशि |
क्षिपेदनेन मन्त्रेण त्वगाधे सलिले नृप || ५२ ||
तिष्ठ केतो महाभाग यावत् संवत्सरं जले |
भवाय सर्वलोकानामन्तराय विनाशक || ५३ ||
उत्थपयेत् तूर्यरवैः सर्वलोकस्य वै पुरः |
रहो विसर्जयेत् केतुं विशेषो यः प्रपूजने || ५४ ||
एवं यः कुरुते पूजां वासवस्य महात्मनः |
स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात् || ५५ ||
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयः क्वचित् |
स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते || ५६ ||
तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य पार्थिव |
तस्य पूजा सर्वपूजा केशवाद्याश्च तत्रगाः || ५७ ||
सकलकलुषहारि व्याधिदुर्भिक्षनाशं
सकलभवनिवेशं सर्वसौभाग्यकारि |
सुरपतिगृहगाभिर्वार्चनं शक्रकेतोः
प्रतिशरदमनेकैः पूजयेच्छ्रीविवृद्धयै || ५८ ||
इति श्रीकालिकापुराणे सप्ताशीतितमोऽध्यायः || ८७ ||
Kapitel 88
अष्टाशीतितमोऽध्यायः
और्व उवाच -
ज्येष्ठ दशहरायां तु विष्णोरिष्टिं नृप शृणु |
येन वा विधिना
कुर्यादिष्टिं विष्नोर्नृपः सदा || १ ||
प्रत्यब्दं पार्थिवः कुर्यात् प्रतिमां काञ्चनीं हरेः |
अन्यतेजीमयीं वापि दारवीं वा शिलामयीम् || २ ||
तां प्रतिष्ठाप्य विधिना मानोन्मानैस्तु शिल्पिभिः |
प्रतिष्ठां विधिवत् तस्याः कुर्याद् विप्रैः पुरोहितैः || ३ ||
तां संस्थाप्य सुरागारे स्वयं वा यत्नतः कृते |
वासुदेवस्य बीजेन पूर्वोक्तविधिना तथा || ४ ||
सर्वोपचारैर्भक्त्या नु वासुदेवं प्रपूजयेत् |
पूजान्ते संस्कृते वह्नौ कुण्डमध्ये स्थितो द्विजः || ५ ||
आज्यैः सहस्रं जुहुयादाहुतीनां हरेः प्रियम् |
संपूज्य वासुदेवं तु होमं कृत्वा ततो द्विजः || ६ ||
नृपस्यानुमते तां तु प्रतिमां मण्डलं नयेत् |
प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना || ७ ||
प्राणप्रतिष्ठां कुर्वीत तस्यां देवस्य वै हरेः |
कृतायां तु प्रतिष्ठायां प्राणानां नृपसत्तम || ८ ||
विष्णुप्राणास्तां प्रतिमामायान्ति नियतं स्वयम् |
प्राणेष्वथागतेष्वस्यां देवत्वं नियतं भवेत् || ९ ||
अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च |
यथापूर्वं तथाभावः स्वर्णादीनां न विष्णुता || १० ||
अन्येषामपि देवानां प्रतिमास्वपि पार्थिव |
प्राणप्रतिष्ठा कर्तव्या तस्या देवत्वसिद्धये || ११ ||
सुवर्णं तु सुवर्णं स्याच्छिला दारु तथा शिला |
अन्यच्च स्वस्वरूपं स्यात् प्राणस्थानमृते सदा || १२ ||
वासुदेवस्य बीजेन तद् विष्णोरित्यनेन च |
तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेद्धरेः || १३ ||
तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित् |
एभिर्मन्त्रैः प्रतिष्ठाप्य हृदयेऽपि समाचरेत् || १४ ||
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु यत् |
असौ देवत्वसंख्यायै स्वाहेति यजुरुच्चरन् || १५ ||
अङ्गमन्त्रैरङ्गिमन्त्रैर्वैदिकैरित्यनेन च |
प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत् || १६ ||
प्रतिमापूजने कुर्यादात्मन्यपि च मन्त्रवित् |
प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये || १७ ||
अस्मिन् प्राणप्रतिष्ठां तु प्रतिमापूजनादृते |
न कश्चित् तु बुधः कुर्यात् कृत्वा मृत्युमवाप्नुयात् || १८ ||
विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः |
तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत् ततः || १९ ||
एवं दशहरायां तु कृत्वेष्टिं पार्थिवो हरेः |
सर्वान् कामानवाप्नोति निर्विघ्नोऽपि स जायते || २० ||
श्रीपंचम्यां श्रियं देवीं कुन्दैः संपूजयेत्सदा |
वासवं गजराजस्थमुपहारैस्तथोत्तमैः || २१ ||
लक्ष्म्यास्तन्त्रं महामन्त्रं वासवस्य पुरोदितम् |
अत्रापि पूजने ग्राह्यं मण्डलादि यथाक्रमम् || २२ ||
एवं कृते पूजने तु श्रीपंचम्यां विशेषतः |
श्रीयुतो नृपतिर्भूयान्न श्रीहानिमवाप्नुयात् || २३ ||
सदाचारविशेषोऽयं कथितस्तव पार्थिव |
निषेधे तु विशेषांश्च शृणु येन श्रियेष्यते || २४ ||
असंपूज्य तथा विष्णुं शिवमग्निं पुरन्दरम् |
अदत्त्वा च तथा दानं न भुञ्जीत नृपः क्वचित् || २५ ||
हावयेदग्निहोत्रं तु नित्यमेव पुरोहितैः |
अकृत्वा चाग्निहोत्रं तु भुञ्जन्नरकमाप्नुयात् || २६ ||
नारक्षिते गृहे राजा रत्नदीपविवर्जिते |
स्वपेत् तथा स्त्रिया सार्धं न कदाचन संविशेत् || २० ||
भुक्त्वान्नं श्रीफलं नाद्यात् तथा धात्रीफलं नृपः |
बुद्धिक्षयकरा ह्येता माष आसवमृत्तिकाः || २८ ||
निम्बाटरूषच्युताश्च बुद्धिवृद्धिकरा मताः |
बुद्धिक्षयकरान् नित्यं त्वजेद्राजा च भोजने || २९ ||
भक्षयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः |
न पर्यायविहीनं तु प्रारोहेदासनं नृपः || ३० ||
न यानं न गजं नाश्वमारोहेद्धीनमासनैः |
नैकस्तु विचरेद्राजा कदाचिदपि निर्जने || ३१ ||
मदहेतुं न भुंजीयात् कदाचिदपि भोजने |
कदाचिन्नापि सेवेत ह्यष्टम्यां मांसमैथुने || ३२ ||
दर्शश्राद्धं गयाश्राद्धं तिलैस्तर्पणमेव च |
न जीवत्पितृको भूप कुर्यात् कृत्वाघमाप्नुयात् || ३३ ||
न क्षेत्रजादींस्तनयान् राज्ये राजाभिषेचयेत् |
पितृणां शूद्धये नित्यमौरसे तनये सति || ३४ ||
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च |
गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे || ३५ ||
कात्तीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा |
स्वयंदत्तश्च दासश्च षडते पुत्रपांसुलाः || ३६ ||
अभावे पूर्वपुर्वेषां परान्त् समभिषेचये |
पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् || ३७ ||
दत्ताद्याश्चापि तनया निजगोत्रेण संस्कृताः |
आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः || ३८ ||
पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपतेः |
आचूडान्तं प पुत्रः न पुत्रतां याति चान्यतः || ३९ ||
चूडाद्या यदि संस्कारा निजगोत्रेण संस्थिताः |
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते || ४० ||
ऊर्ध्वं तु पंचमाद् वर्षाद् दत्ताद्यांश्च सुतान्नृप |
गृहीत्वा पंचवर्षीयं पुत्रेष्टिं प्रथमं चरेत् || ४१ ||
पौनर्भवं तु तनयं जातमात्रं समानयेत् |
कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै || ४२ ||
सर्वांस्तु कुर्यात् संस्कारान् जातकर्मादिकान्नरः |
कृते पौनर्भवष्टोमे सुतः पौनर्भवः स्मृतः || ४३ ||
एकोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम् |
क्रीता या वनिता मूल्यैः सा दासीति निगद्यते || ४४ ||
तस्यां यो जायते पुत्रो दासः पुत्रस्तु स स्मृतः |
न राज्ञो राज्यभाक् स स्याद् विप्राणां नापि श्राद्धकृत् || ४५ ||
अधमः सर्वपुत्रेभ्यस्तं तस्मात् परिवर्जयेत् |
पुराणं धर्मशास्त्राणि संहिताश्च मुनीरिताः || ४६ ||
नाध्यापयेन्नृपः शूद्रैर्विहितानि यदृच्छया |
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा || ४७ ||
पठन्ति स्यात् स हीनायुः राजा राष्ट्रेण सान्वयः |
मोहाद् वा कामतः शूद्रः पुराणं संहितां स्मृतिम् || ४८ ||
पठन्नरकमाप्नोति पितृभिः सह पापकृत् |
शूद्रेभ्यो विहितं यत् तु यश्च मन्त्र उराहृतः || ४९ ||
तद्विप्रवचनाद् ग्राह्यं द्वयं शूद्रैः सदैव हि |
य योजयेन्नृपः शूद्रं व्यवहारस्य दर्शने || ५० ||
नियोज्य तत्र तं भूपस्तामिस्रे तेन पच्यते |
हीनायुश्च भवेल्लोको राजा वापि सहायजः || ५१ ||
का.ङ्म् व्यङ्गमपुत्रं या नाभिज्ञमजितेन्द्रियम् |
न ह्रस्व व्याधितं वापि नृपः कुर्यात् पुरोहितम् || ५२ ||
कृपणस्य घनं राजा न गृह्णीयात् कदाचन |
न द्विजानां तथा दद्याद् धनानि विपुलान्यपि || ५३ ||
नारोहेत् कामुकोन्मत्तगजं राजा कदाचन |
आरुह्य कामुकस्तं तु परत्रेह विषीदति || ५४ ||
अनायुष्यं न कुर्यात् कर्म भूपः कदाचन |
सततं चायुषो वृद्ध्यै यतेत सकलैर्धनैः || ५५ ||
न क्रूरवारे नाष्टम्यां न षष्ठ्यां च नृपोत्तमः |
अञ्जनाभ्यञ्जने कुर्यात् ताम्बूलस्यापि भोजनम् || ५६ ||
अतिसूक्ष्मं तथा पूर्णं ग्रहणं चन्द्रसूर्ययोः |
नालोकयेत् स्वयं राजा रक्तं सूर्यं तथैव च || ५७ ||
उत्पातं जायते यत्तु दिव्यं भौमं च नाभसम् |
नेक्षेत यत्नान्नृपतिर्दृष्ट्वा नाद्यात् त्र्यहं पुनः || ५८ ||
सर्वदा मङ्गलं रत्नं धारयेत् सह दूर्वया |
अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् || ५९ ||
न तोयेषु मखं पश्येन्नाद्यान्मांसानि पर्वसु |
नारोहयेत् खरं चोष्ट्रं न वामामपि गुर्विणीम् || ६० ||
एवं नययुतो राजा चतुरङ्गं विवर्धयन् |
आत्मानं सततं रक्षन् सदा वीर्यं विवर्धयेत् || ६१ ||
बीजक्षयकरन्नित्यं भक्ष्यं भोज्यं च पानकम् |
वर्जयेत् क्षारशाकाद्यान् बह्वम्लं बहुतिक्तकम् || ६२ ||
कांस्य-राजतपात्रस्थं तोयं नद्याश्च वर्धनम् |
मूत्रवृद्धिकरं वीर्यक्ष्यकारि विवर्जयेत् || ६३ ||
ताम्रायःस्वर्णशीसानां पात्रस्थं फलचर्मणोः |
शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः || ६४ ||
सर्वमूलेषु कृत्येषु सदाचारेषु तिष्ठतः |
भुक्त्वेह विविधान् भोगानैन्द्रं स्थानं व्रजेत् परम् || ६५ ||
मार्कण्डेय उवाच -
एवमौर्वस्तु सगरं शशास मुनिपुङ्गवः |
शास्त्राणि चैव सर्वाणि सदाचारांश्च गृह्यकान् || ६६ ||
बहुशः कथयामास सगराय महात्मने |
तन्नास्ति यत् पुरौर्वेण कथितं सगराय न || ६७ ||
राजनीतिः सतां नीतिर्यच्चान्यच्छास्त्रसम्भवम् |
संहितासु पुराणेषु यच्चागमचये स्थितम् || ६८ ||
सर्वं शुश्राव सगरो मुखादौर्वस्य धीमतः |
तेषां तु कथितं किंचिदुद्धृत्य द्विजसत्तमाः || ६९ ||
विष्णुधर्मोत्तरे पूर्वं मया रहसि भाषितम् |
राजनीतिं सदाचारं वेदवेदाङ्गसङ्गतम् || ७० ||
रहस्यं सततं विष्णोर्वीक्षध्वं द्विजसत्तमाः |
यच्चान्नदितमन्यत्र गदितं वा ससंशयम् || ७१ ||
संशयच्छेदनं तेषु युष्मभ्यं कथितं द्विजाः |
अनुक्तसंशयच्छेदि पुराणं कालिकाह्वयम् |
योऽभ्यसेत् सततं विप्रः स वेदानां फलं लभेत् || ७२ ||
इति श्रीकालिकापुराणे अष्टाशीतितमोऽध्यायः || ८८ ||
Kapitel 89
एकोननवतितमोऽध्यायः
ऋषय ऊचुः
संक्षेपतः सदाचारो विशेषो राजनीतिषु |
श्रुतस्त्वद्वचनादौर्वः सगराय यथोक्तवान् || १ ||
विष्णुधर्मोत्तरे तन्त्रे बाहुल्यं सर्वतः पुनः |
द्रष्टव्यस्तु सराचारो द्रष्टव्यास्ते प्रसादतः || २ ||
भूयो न संशयो योऽस्ति तदनुक्तं त्वया पुरा |
छिन्धि विप्रेन्द्र पृच्छामः परं कौतूहलं हि नः || ३ ||
अपुत्रस्य गतिर्नास्ति श्रूयते वेदलोकयोः |
वेतालभैरवो यातौ पुरा वै तपसे गिरिम् || ४ ||
पूर्वस्त्वकृतदारौ तौ तयोः पुत्रा न च श्रुताः |
न जाता अथवा जाता यदि नाना द्विजोत्तम |
तेषां तु सम्यगिच्छामि श्रोतुं स स्थानमुत्तमम् || ५ ||
मार्कण्डेय उवाच =
अपुत्रस्य गतिर्नास्ति निश्चितं चेति सत्तमाः |
स्वपुत्रैर्भ्रातृपुत्रैर्वा पुत्रवन्तो हि स्वर्गताः || ६ ||
जातापत्यौ च तौ विप्रा धीरौ वेतालभैरवौ |
तयोर्वशान् प्रवक्ष्यामि शृण्वन्तु च महर्षयः || ७ ||
सम्यक् सिद्धिमवाप्यैव यदा वेतालभैरवो |
हरस्य मन्दिरं प्राप्तौ कैलासं प्रतिहर्षितौ || ८ ||
तदा हरस्य वचनान्नन्दी तौ रहसि द्विजाः |
प्राहेदं वचनं तथ्यं सान्त्वयन्निवं बोधकृत् || ९ ||
नन्द्युवाच
अपुत्रौ पुत्रजनने भवन्तौ शङ्करात्मजौ |
यततां जातपुत्रस्य सर्वत्र सुलभा गतिः || १० ||
पुन्नाम नरकं पुत्रविहीनः परिपश्यति |
न तपोभिर्न धर्मेण तन्मोचयितुमीश्वरः || ११ ||
केवलात् पुत्रजननात् तस्मान्मोक्षः प्रजायते |
तदुत्पादयतां पुत्रं भवन्तौ देवयोनिषु || १२ ||
अमर्त्यता तु युवयोः क्षीरपानादजायत |
कात्यायन्यास्ततः पुत्रानमर्त्याः स्वसमा यतः || १३ ||
तस्माद् यथा तथा पुत्रानुत्पाद्य सुरयोनिषु |
प्रियौ भवन्तौ शिवयोर्भवनं न चिरादिति || १४ ||
मार्कण्डेय उवाच -
तस्येति वचनं श्रुत्वा नन्दिनः प्रीतमानसौ |
एवमेव करिष्यावो नन्दिनं चेत्यभाषताम् || १५ ||
ततस्तौ सततं कृत्वा नन्दिनौ वचनं हृदि |
अचेष्टतां स्वपुत्रार्थे व्रजन्तौ तावितस्ततः || १६ ||
अथैकदा भैरवोऽसौ उर्वशीमप्सरोवराम् |
हिमवत्-पर्वतप्रस्थे ददर्श सुमनोहराम् || १७ ||
अथ तां कामुको भूत्वा ययाचे सुरतोत्सवम् |
वेश्याभावाच्च सुप्रीता सा यथेच्छमुवाच तम् || १८ ||
ततस्तस्यां भैरवस्तु चकार सुरतोत्सवम् |
प्रीतायामुर्वशीदेव्यां सुप्रीतोऽभूच्च केलिभिः || १९ ||
सुप्रीतायामथोर्वश्यां तेजोभिर्भैरवस्य तु |
सद्योजातोऽभवत् पुत्रो बालसूर्यसमप्रभः || २० ||
तं तु पुत्र परित्यज्य ययौ स्वस्थानमुर्वशी |
आदाय तनयं पश्चाद् भैरवः स्वपदं ययौ || २१ ||
संस्कृत्य तनयं तं तु भैरवो मोदसंयुतः |
उवेशमिति तन्नाम चकार सगणाधिपः || २२ ||
अथ तं जातवयसं शक्रसूर्यसमप्रभम् |
विद्याधराधिपत्ये तु उवेशमभ्यषेचयत् || २३ ||
स तु विद्याधराध्यक्षस्तनयामतिसुन्दरीम् |
येमे गन्धर्वराजस्य धृतराष्ट्राह्वयस्य च || २४ ||
तस्यां तस्य सुतो जज्ञे रुरुर्नाम मनोहरः |
रुरोस्तु तनयो बाहुर्मैनाक्यामभ्यजायत || २५ ||
बाहोस्तु पुत्राश्चत्वारस्तपनोऽङ्गद ईश्वरः |
कुमुदोऽभूत् कनीयांस्तु चार्वत्यां तु मनोहरः || २६ ||
कुमदस्य सुतो जज्ञे देवसेनो महाबलः |
स देवसेनः पृथिवीमवतीर्य मनोहरः || २७ ||
मान्धातुर्यौवनाश्वस्य तनयां केशिनीं मुहुः |
वरयामास भार्यार्थे मृद्वङ्गीमप्सरःसमाम् || २८ ||
यौवनाश्वोऽपि मान्धाता शक्रस्य वचनाद् ददौ |
केशिनीं तनयां स्वीयां देवसेनाय वाञ्छया || २९ ||
केशिनीमुपयम्याथ देवसेनस्तया सह |
वाराणस्यां शम्भुपुर्यां हरमाराधयच्छिवम् || ३० ||
आराधितो हरः प्रीतस्तस्येष्टं प्रददौ वरम् |
सोऽप्याददे हरात् तस्मादिष्टमेव वरत्रयम् || ३१ ||
यावच्च सूर्यो भविता तावत् स्थास्यति संततिः |
अस्यामेव नगर्यां ये मद्वंशस्यापि राजता || ३२ ||
प्रसन्नो मम वंशे त्वं नित्यमेव भविष्यसि |
इत्यादाय वरं सोऽपि देवसेनो महाकृती || ३३ ||
शङ्करस्य प्रसादेन चिरं तां बुभुजे पुरीम् |
देवसेनोऽथ केशिन्यां जनयामास पुत्रकान् || ३४ ||
यूयं शृणुत सप्तैतान्नामतः कीर्तितांस्तथा |
सुमना वसुदानश्च ऋतुधृग् यवनः कृती || ३५ ||
नीलो विवेकी ह्येते वै सर्वशास्त्रविशारदाः |
सर्वे वंशकराः पुत्रा देवसेनस्य सत्तमाः || ३६ ||
अथ काले तु संप्राप्ते देवसेनोऽपि भार्यया |
पुत्रेष राज्यं निःक्षिप्य यातो विद्याधरक्षयम् || ३७ ||
ततस्ते तस्य तनयाः कृत्वा सुतनसं नृपम् |
वसुदानादयः सर्वे बुभुजुश्चोत्तमां श्रियम् || ३८ ||
जाताः सुमनसः पुत्रास्त्रयः शूरा महाबलाः |
सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः || ३९ ||
सुमतेरभवत् कन्या सुतः सत्यस्य डिण्डिमः |
विरूपस्याभवद् गाधिर्गाधेर्मित्रोऽभवत् सुतः || ४० ||
तेषां कल्पोऽभवद्राजा कल्पात् तु विजयोऽभवत् |
यो विजित्य क्षितिं सर्वां पार्थिवान् भूरितेजसः || ४१ ||
शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् |
यत् सव्यसाची ह्यदहत् पाण्डुपुत्रः प्रतापवान् |
आवहत् परमां प्रीतिं ज्वलनस्य महात्मनः || ४२ ||
ऋषय ऊचुः -
कथं स खाण्डवं चक्रे विजयः शतयोजनम् |
तद् वयं श्रोतुमिच्छामः कथयस्य तपोधन || ४३ ||
मार्कण्डेय उवाच -
सोमवंशेऽभवद्राजा महाबलपराक्रमः |
धीरः सुदर्शनो नाम चारुरूपः प्रतापवान् || ४४ ||
स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम् |
सिंहान् व्याघ्रान् समुत्सार्य क्वचिच्चापि तपोधनान् || ४५ ||
खण्डवीं नाम नगरीमकरीत् तत्र शोभनाम् |
त्रिंशद्योजनविस्तीर्णामायतां शतयोजनाम् || ४६ ||
उच्चप्राकारसंयुक्तां साट्टालम्बुदतोरणाम् |
निम्नाभिरतिदीर्घाभिः परिखाभिः समावृताम् || ४७ ||
अघृष्यामपरैर्वीरैर्नानाजनसमावृताम् |
दीर्घिकाभिश्चोपवनैर्बहुभिश्चाप्सरोगणैः || ४८ ||
आकीर्णां च तथारामैरुत्तैरपि मानवैः |
सोत्सवाः सततं यत्र जना देवान् दिवि स्थितान् || ४९ ||
स्पर्धन्ते स्म मुदा युक्ता आद्या-भोगसमन्विताः |
स वै सुदर्शनो राजा खात्वा भूमिं विदार्य च || ५० ||
गङ्गां कनखलां देवीं वाहयामास खाण्डवीम् |
संप्लाव्याखाण्डवीमध्यं तेन खातैश्च वर्त्मभिः || ५१ ||
वक्रानुवक्रगा भूत्वा याति सीतां नदीं प्रति |
स जित्वा सकलान् भूपान् वित्तान्याहृत्य भूरिशः || ५२ ||
वशीचकार खाण्डव्यां मध्ये रत्नैरनेकशः |
अन्येषां नगरेभ्यस्तु जनानानीय भूपतिः || ५३ ||
खाण्डव्यां वासयामास हठादपि सुदर्शनः |
देवदानवगन्धर्वाञ् जित्वा जित्वा युधा कृती || ५४ ||
देववृक्षं देवरत्नं देवीं चापि तथौषधिम् |
खाण्डव्यां रोपयामास स भूपालः सुदर्शनः || ५० ||
विष्णुस्तोऽपि वै विष्णुर्नृपतिं तं सुदर्शनम् |
कृतापकारं च बहुधा देवानां च तथा नृणाम् || ५६ ||
वाराणसीपतिं वीरं विजयं जयशालिनम् |
युद्धाय कृतसाचिव्यं तद्वैरे समयोजयत् || ५७ ||
विजयो विवरं प्राप्य महाबलपराक्रमः |
सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् || ५८ ||
नासहत् स ह्यवस्कन्दं विजयस्य सुदर्शनः |
चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् || ५९ ||
विजयो रथमारुह्य नियोज्य चतुरङ्गिणीम् |
ततः सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा || ६० ||
तदा महायुद्धमासीद्विजयेन महात्मना |
सुदर्शनस्य नृपतेर्वृत्रवासवयोर्यथा || ६१ ||
सुदर्शनस्य सेनानां रुमण्वान्नाम वीर्यवान् |
कांचनं रथमारुह्य विजयसंमुखोऽभ्ययात् || ६२ ||
अक्षौहिण्यस्तु सप्तास्य परिवायं समन्ततः |
व्यधमत्तां शत्रुसेनां यावतीमुद्यतायुधः || ६३ ||
विजयस्य च सेनानीः सञ्जयः स रिपुञ्जयः |
नागानीकेन जग्राह रुमण्वन्तं ससैनिकम् || ६४ ||
तयोर्महदभूद् युद्धं सेनान्योर्वीरयोर्महत् |
ववर्ष शरवर्षेण रुमण्वानथ संजयम् || ६५ ||
कुर्वंश्चापि महानादं गजं दृष्ट्वैव केशरी |
रुमण्वानथ विशत्या बाणैर्विध्वाथ सञ्जयम् || ६६ ||
क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत |
सोऽपि कार्मुकमादाय तदाऽन्यत् संजयस्त्रिभिः || ६७ ||
बाणैर्विव्याध भल्लेन धनुश्चिच्छेद तत्क्षणात् |
शतान्यष्टौ च नागानां सहस्राणि च पंचषट् || ६८ ||
पत्तीनां वाजिनां त्रीणि सहस्राणि समन्ततः |
संजयो निर्जघानाशु बाणवर्षैः सुदारुणैः || ६९ ||
अथान्यद् धनुरादाय रुमण्वान् कुपितो भृशम् |
भल्लेन सारथेरस्य शिरः कायादपाहरत् || ७० ||
हयांश्चास्य चतुर्भिस्तु बाणैर्निन्ये यमक्षयम् |
चतुरः पंचभिर्बाणैरविध्यच्चापि शञ्जयम् || ७१ ||
संजयोऽप्यतिवेगेन गमामादाय तत् क्षणात् |
अवतीर्य रथोपस्थाद्रुमण्वन्तमधावत || ७२ ||
स धावन्तं सञ्जयं तं रुमण्वान् द्रुतहस्तवत् |
शरवर्षेण सञ्छाद्य वारयामास संजयम् || ७३ ||
गदाया भ्रामणेनासौ निवार्य शरवर्षणम् |
आससाद रुमण्वन्तं केसरीव महागजम् || ७४ ||
आसाद्य तां गदां गुर्वीमाविध्यातीव सञ्जयः |
एकेनैव प्रहारेण सरथं तं व्यपोथयत् || ७५ ||
स पपात महावीरः पृथिव्यां गदया हतः |
वज्रहतो यथा शालः प्रफुल्लो वनमध्यगः || ७६ ||
रुमण्वन्तं निपतितं दृष्ट्वा राजा सुदर्शनः |
शोक-कोपसमाविष्टः सधूम इव पावकः || ७७ ||
जज्वालाकुलदेहोऽपि क्रोधेनातीव संयुतः |
आरुह्य जवनैरश्वैर्युक्तं वैयाघ्रकृत्तिना || ७८ ||
रथं कांचन-चित्रांगं सिंहध्वज-विभूषितम् |
आमुक्तो धनुरादाय विस्फार्य च पुनः पुनः || ७९ ||
ससैन्यः सञ्जयं राजा समाद्रवत वेगवान् |
अथास्य निशितैः शस्त्रैः सेनामग्रगतां भृशम् || ८० ||
न्यहनत् सकलां राजा मृगानिव मृगाधिपः |
एकामक्षौहिणीमग्रगामिनीं विपुलौजसाम् || ८१ ||
क्रोशद्वयेन न्यहनत् तमांसीव दिवाकरः |
हत्वा चाक्षौहिणीमेकामासाद्य संजयं नृपः || ८२ ||
बाणैः षष्ट्या तु विव्याध ध्वजमेकेन चिच्छिदे |
संजयोऽप्यथ विंशत्या हृदि विद्ध्वा सुदर्शनम् || ८३ ||
ललाटे त्वेकबाणेन प्राविध्यत् कृतहस्तवत् |
क्षुरप्रेणास्य कोदण्डं छित्त्वा राज्ञः प्रतापवान् || ८४ ||
सारथिं दशभिर्बाणैः पुनर्विव्याध सञ्जयः |
कोदण्डमन्यमादाय तदा राजा सुदर्शनः || ८५ ||
शरवर्षेण तीव्रेण ववर्षातीव सञ्जयम् |
तयोर्महद्भूद् युद्धं मुनिविस्मयकारकम् || ८६ ||
शस्त्रैरस्त्रैर्भृशं तीक्ष्णैर्बलिवासवयोरिव |
ततः सुदर्शनो राजा भल्लेनास्य दृढं धनुः || ८७ ||
चिच्छेद सारथिं चास्य जघान निशितैः शरैः |
स्वयं संयम्य वाहान् स सञ्जयः परवीरहा || ८८ ||
धनुरन्यत् समादाय परिवार्य सुदर्शनम् |
विव्याध दशभिर्बाणैर्धनुरप्यच्छिनद् दृढम् || ८९ ||
शरासनान्तरं राजा समादाय सुदर्शनः |
सञ्जयस्य चतुर्वाहाञ्छरैर्निन्ये यमक्षयम् || ९० ||
मुष्टौ धनुश्च चिच्छेद तं च विव्याध पंचभिः |
विरथश्छिन्नवाहश्च सञ्जयः खड्गचर्मणी || ९१ ||
आदाय सम्मुखं राज्ञोऽभ्यद्रवत् कुपितो भृशम् |
तस्य चापं ततः खड्गं क्षुरप्रेण सुदर्शनः || ९२ ||
द्विधा चिच्छेद भल्लेन चर्म चाप्यच्छिनत्तदा |
अथ द्रुतं तदोपेत्य सञ्जयः स्यन्दनोत्तमम् || ९३ ||
सुदर्शनस्य सूतं तु कराभ्यां पातयत् क्षितौ |
रथाभ्याशे गतस्यास्य सञ्जयस्य सुदर्शनः || ९४ ||
शिरश्चिच्छेद खड्गेन ततोऽसौ न्यपतद् भुवि |
स पपात तदा तस्य रथाभ्याशे महाबलः || ९५ ||
कृत्तः परशुनाऽरण्ये पुष्पितः शालवृक्षवत् |
सञ्जयं पतितं दृष्ट्वा विजयः क्रोधमूर्च्छितः || ९६ ||
महता शङ्खनादेन नादयंस्तु नभःस्थलम् |
रथेन स्वर्णचित्रेण व्याघ्रचर्मविराजिना || ९७ ||
केतुना वृषभेणाथ योजनार्धोच्छ्रितेन च |
नादयन् ककुभः सर्वा रथौघपरिवेष्टितः || ९८ ||
विमुञ्चञ्छरवर्षाणि ससाद च सुदर्शनम् |
आसाद्यं तं नृपं भूपो विजयः परवीरहा || ९९ ||
हृदि विद्ध्वा त्रिभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् |
सुदर्शनोऽपि विजयं नदन्तं कुंजरोपमम् || १०० ||
दशभिर्निशितैर्बाणैर्विदध्वा चिच्छेद तद् धनुः |
अथैनं छिन्नधन्वानं जत्रुदेशे त्रिभिः शरैः || १०१ ||
निर्भिद्याथ महानादं ननाद स सुदर्शनः |
सोऽन्यद्धनुः समादाय कंकपत्रैस्त्रिभिः शरैः || १०२ ||
विव्याध हृदये वीरो विजयोऽपि सुदर्शनम् |
ततस्तन्नृपमुद्दिश्य महाशक्तिं सुदीपिताम् || १०३ ||
नागकन्यां कोपयुक्तां लेलिहानामिवातुलाम् |
स्वर्णदण्डां सुतीक्ष्णाग्रां तैलधौतां सुनिर्मलाम् || १०४ ||
समुद्यम्याथाचिक्षेप विजयः शात्रवं प्रति |
सुदर्शनस्य हृदयं सा शक्तिः प्रविवेश ह || १०५ ||
स विह्वलो रथोपस्थे ह्यधोवक्त्र उपाविशत् |
तस्मिन् मोह-समापन्ने नृपतौ च सुदशने || १०६ ||
तस्याग्रतस्तथा पार्श्वे ये स्थितास्तत्र सैनिकाः |
तान् सर्वानहनद्राजा क्षणमात्राद् द्विजोत्तमाः || १०७ ||
रथान् दशसहस्राणि तावन्त्येव च दन्तिनाम् |
पंचविंशसहस्राणि वाजिनां च तरस्विनाम् || १०८ ||
लक्षद्वयं तु पत्तीनां क्षणमात्रादपोथयत् |
स तु लब्ध्वा ततः संज्ञां धनुरादाय वै दृढम् || १०९ ||
शरवर्षेण विजयं ववर्ष स सुदर्शनः |
निवार्य शरवर्षेण विजयं तु सुदर्शनः || ११० ||
भल्लेन कार्मुकं सज्यं तस्य चिच्छेद तत्क्षणात् |
सारथेस्तु शिरः कायाद् भल्लेनापाहरत् ततः || १११ ||
हयांश्च चतुरश्चास्य प्रेषयामास मृत्यवे |
अथैवं विरथं भूपं दशभिः कङ्कपत्रिभिः || ११२ ||
विव्याध हृदये भूयो ननाद च सुदर्शनः |
स च्छिन्नधन्वा विरथो गदामादाय वेगवान् || ११३ ||
विजयो विजयाकाङ्क्षी सुदर्शनमधावत |
आपतन्तं महावीरं बाणवर्षिः सुदर्शनः || ११४ ||
ववर्ष वर्षासु यथा वारिदः पृथिवीधरम् |
विजयः शरवृष्टिं तां प्राच्छाद्य स्वशरेण वै || ११५ ||
गदया तं रथारूढमाससाद तु तत्क्षणात् |
आसाद्य तं महावीर्यं विजयोऽथ सुदर्शनम् || ११६ ||
शीर्ष प्रहृत्य गदया पातयामास भूतले |
गिरेः शृङ्गं यथा तुङ्गं वज्राशनिविदारितम् || ११७ ||
तथा सुदर्शनो राजा दारितो गदयाऽपतत् |
तस्मिन्निपतिते वीरे सेनाभिस्तस्य सैनिकाः || ११८ ||
भयात् संप्राद्रवंस्तस्माद् दिशश्च प्रदिशस्तथा |
नष्टेषु तस्य सैन्येषु विजयः खाण्डवीं पुरीम् || ११९ ||
प्रविश्य ददृशे तत्र राशीभूतान् गिरीनिव |
सुवर्णानां च रत्नानां संचयान् बहुशः पुनः || १२० ||
दृष्ट्वा सरांसि तत्रैष प्रफुल्लकमलानि च |
हंसकारण्डवानादैर्नादितानि समन्ततः || १२१ ||
राशीन् सुवर्णरत्नानां पर्वतानिव विस्तृतान् |
पुष्पितान् देववृक्षांश्च भ्रमद्भ्रमरभूषितान् || १२२ ||
प्रासादान् विपुलाञ्छुभ्रान् कैलाससदृशान् गजान् |
प्रस्फुटांश्च सुगन्धाढ्यान् प्रतिगेहे व्यवस्थितान् || १२३ ||
उत्फुल्लनयनो राजा विजयः परवीरहा |
मेनेऽमरावतीं तां तु पुरीम् क्षितिगतामिव || १२४ ||
तं वाक्षन्तं नरपतिं नगरीं तां सुरेश्वरः |
समेत्य विजयं प्राह सान्त्वयन् श्लक्ष्णया गिरा || १२५ ||
इन्द्र उवाच -
राजन् महावनमिदमासीद् देवगणावृतम् |
अ च्च गन्धर्वयक्षाणां मुनीनां च मनोहरम् || १२६ ||
सर्वानुत्सार्य देवादीन् मम चाप्यप्रिये रतः |
भङ्क्त्वा वनमिदं गुह्यमुत्साद्य च तपोधनम् || १२७ ||
खाण्डवीं नगरीं चक्रे हठाद्राजा सुदर्शनः |
तदिदं पुनरेव त्वं वनं कुरु नरोत्तम || १२८ ||
तत्राहं विहरिष्यामि तक्षकेण समं रहः |
मुनीनां च तपः स्थानमतुलं ते प्रसादतः |
भविष्यति च यक्षाणां किन्नराणां च पार्थिव || १२९ ||
मार्कण्डेय उवाच -
एतच्छ्रत्वा वचस्तस्य शक्रस्य विजयस्तदा |
वनमेवाकरोत् तान्तं खाण्डवीं शक्रगौरवात् || १३० ||
गच्छन्तु भो यथास्थानं प्रजाः सर्वा यथेच्छया |
येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः || १३१ ||
वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम् |
ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजास्पदम् || १३२ ||
जग्मुर्वाराणसीं केचिद् विजयेनाभिपालिताम् |
ततो धनानां तान् राशीन् रत्नानां च पृथक् पृथक् || १३३ ||
मणीनां कनकानां च कुप्यानां विजयस्तथा |
विविधैर्वारयामास पुरीं वाराणसीं प्रति || १३४ ||
गन्धर्वाणां च देवानां यदानीतं हठात् पुरा |
रत्नदार्वादिकं यत् तु विजयं तत् प्रसाद्य च || १३५ ||
तैस्तैर्नीतं च खाण्डव्याः स्वस्थानं प्रतिहर्षितैः |
त्रिंशद्योजनविस्तीर्णां शतयोजनमायताम् || १३६ ||
तां पुरीं विजयश्चक्रे नचिरादेव वै वनम् |
तस्मिञ्छक्रस्य सम्मत्या तक्षकः सहितो गणैः || १३७ ||
उवास सुचिरं तत्र ततोऽभून्निर्जनं वनम् |
तत्र देवाः सगन्धर्वाः क्रीडन्तेऽप्सरसां गणाः || १३८ ||
आशंसन्तश्च विजयं रणेषु विजयावहम् |
प्राप्तेऽष्टाविंशतितमे युगे द्वापरशेषतः || १३९ ||
वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुममाचत |
दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै || १४० ||
वह्निः स्वरूपमास्थाय जिष्णुं वचनमब्रवीत् |
अहमग्निः पाण्डुपुत्र अज्ञभागातिभोजनात् || १४१ ||
व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना |
खाण्डवं नाम विपिनं सपत्रिमृगराक्षसम् || १४२ ||
यदि त्वं मां भोजयितुं शक्रोषि श्वेतवाहन |
तदा मम ह्यसौ व्याधिरपयास्यति नो चिरात् || १४३ ||
पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् |
भङ्क्त्वा वन यतश्चक्रे तेन तत् खाण्डवं वनम् || १४४ ||
मदर्थं देवविहितं वनं तु श्वेतवाहन |
विरोधात् तत् तु शक्रस्य न स्वयं भोक्तुमुत्सहे || १४५ ||
तस्मात् त्राहि महाभाग वने तस्मिन्नियोजय |
यथाहं सकलं भोक्त्तुं शक्नोमि तत्प्रसादतः || १४६ ||
तस्य तद्वचनं श्रुत्वा सव्यसाची महाबलः |
दाहयामास विपिनं तत्सर्वं प्राणिसंयुतम् || १४७ ||
देवकीतनयेनासौ वासुदेवेन पालितः |
खाण्डवं दाहयामास ज्वलनस्य हिते रतः || १४८ ||
सुप्रीतः प्रददौ तस्मादर्जुनाय महात्मने |
वह्निर्धनुश्च गाण्डीवं वारुणं देवनिर्मितम् || १४९ ||
अक्षयये चेषुधी दिव्यें रूपाढ्यांश्चतुरो हयान् |
हनूमताधिष्ठितं तु महान्तं वानरध्वजम् || १५० ||
खड्गं च त्रिशिखं तीक्ष्णं दहनः सव्यसाचिने |
नीरोगश्चाभवद् वह्निस्तथा जिष्णुप्रसादतः || १५१ ||
तैर्बाणैस्तेन धनुषा तेन खड्गेन केतुना |
तदश्वस्यन्दनेनापि विजिग्ये फाल्गुनो रिपून् || १५२ ||
एवं भैरववंशेषु सञ्जातो विजयो नृपः |
खाण्डवं नाम विपिनं चकार सुमहाकृती || १५३ ||
विजयस्य सुता जातास्त्रयोदश महाबलाः |
द्युतिमान् सौम्यदर्शी च भूरिः प्रद्युम्न एव च || १५४ ||
क्रतुस्तुण्डो विरूपाक्षो विक्रान्तोऽथ धनंजयः |
प्रहर्षः प्रबलः केतुस्तथोपरिचरोऽपरः || १५५ ||
एषां राजाऽभवद् वीरः शेषोपरिचरस्तु यः |
वाराणस्यां नगर्यां यो यज्ञलक्षं पुराऽकरोत् || १५६ ||
लक्षयज्ञकरः कोऽपि नासीन्नापि भविष्यति |
राजा क्षितौ महाभागो यथोपरिचरस्तथा || १५७ ||
एषां सूतिप्रसूतैश्च व्याप्तं सर्वमिदं जगत् |
चिरेण तान् कः संख्यातुं शक्नोति भुवि मानुषः || १५८ ||
क्रमाद् भैरववंशेन व्याप्तं लोकत्रयं त्विदम् |
एतद् वः कथितं विप्राः सन्तानं भैरवस्य तु || १५९ ||
येषां श्रुत्वा कथामात्रं नापुत्रो जायते नरः |
इदं यः कीर्तयेत् पुण्यं चरितं विजयस्य तु || १६० ||
सततं विजयस्तस्य जायते न पराभवः |
एकाग्रमनसा यस्तु शृणुयादिदमुत्तमम् |
तस्य वंशस्य विच्छेदो न कदाचिद् भविष्यति || १६१ ||
इति श्रीकालिकापुराणे एकोननवतितमोऽध्यायः || ८९ ||
Kapitel 90
नवतितमोऽध्यायः
मार्कण्डेय उवाच -
वेतालस्य च सन्तानं शृण्वन्तुं मुनिसत्तमाः |
यच्छ्रुत्वा सर्वपापेभ्यस्तत्क्षणादेव हीयते || १ ||
दक्षस्य तनया चाभूत् सुरभिर्नाम नामतः |
गवां माता महाभागा सर्वलोकोपकारिणी || २ ||
तस्यां तु तनया जज्ञे कश्यपात् तु प्रजापतेः |
नाम्ना सा रोहिणी शुभ्रा सर्वकामदुघा नृणाम् || ३ ||
तस्यां जज्ञे शुनःशेफान्मुनेरतितपोधनात् |
कामधेनुरिति ख्याता सर्वलक्षणसंयुता || ४४ ||
सा सिताभ्रप्रतीकाशा चतुर्वेदचतुष्पदा |
स्तनैश्चतुर्भिर्धर्मार्थकामप्रसवकारिणी || ५ ||
सा सुवर्णशरीरा तु कालेन महाता सती |
निर्मलं यौवनं प्राप कामधेनुर्मनोहरम् || ६ ||
तां चरन्तीं मेरुपृष्ठे चारुरूपां सुलक्षणाम् |
ददर्श स तु वेतालः
कामुकश्चाभ्यपद्यत || ७ ||
तं कामुकं च वेतालं विदित्वा कामधेनुका |
पशुधर्मात् स्वयं भेजे तं पुत्रं शशभृद्भृतः || ८ ||
सोऽवाप तस्यां परममामोदं शङ्करात्मजः |
सा चापि परमां तस्मिन् मुदमापातिहर्षिता || ९ ||
तयोः प्रवृत्ते सुरते तस्यां गर्भोऽभवत् तदा |
काले प्राप्ते तु सुषुवे कामधेनुर्महावृषम् || १० ||
सोऽचिरेणैव कालेन सुमहान् वृषभोऽभवत् |
महाककुदसंयुक्तश्चारुशृङ्गसमन्वितः || ११ ||
उत्क्षिप्य विचलत्-कर्णयुगलो दीर्घबालधिः |
ककुदेन च शृङ्गाभ्यां कर्णाभ्यां स सिताभ्रवत् || १२ ||
विचलन् ददृशे देवैः शृङ्गैरिव सिताचलः |
वेतालस्त्वकरोत् तस्य नाम शृङ्ग इति द्विजाः || १३ ||
स तु शृङ्गो ज्ञानशाली समाराधयदीश्वरम् |
सोऽपि तुष्टो वरं तस्मै ददाविष्टं हरः प्रभुः || १४ ||
तमेव वाहनं चक्रे कृत्वा देवतनुं वृषम् |
सुचिरायुऽस्च बलवान् पृथिवीधारणे क्षमः || १५ ||
शृङ्गो नाम महातेजाः केतुः सोऽप्यभवत् प्रभोः |
शृङ्गो भूत्वा मतो यस्माच्छङ्करस्य महात्मनः || १६ ||
अतः शृङ्ग इति ख्यातिमथ प्राह महेश्वरः |
स तु शृङ्गी महादेवे ध्यानासक्ते क्वचित् क्वचित् || १७ ||
वरुणस्य गृहं गत्वा सुरभेस्तनयास्तु याः |
रूपयौवनसम्पन्ना भेजेऽलं सुरतेन ताः || १८ ||
वरुणस्य गृहे गावः सर्वलक्षणसंयुताः |
तिष्ठन्ति सततं विप्रास्तासु तास सुताः पुनः || १९ ||
वह्व्यस्तु च समुत्पन्नास्तेषां सूतिप्रसूतिभिः |
सर्वं जगदिदं व्याप्तं तेभ्यो यज्ञं प्रवर्तते || २० ||
आज्येन देवास्तुष्यन्ति यज्ञा आज्ये प्रतिष्ठिताः |
यज्ञाधीनमिदं सर्वं जगत् स्थावरजङ्गमम् || २१ ||
तदाज्यं तु गवाधीनं ततः सर्वं गवि स्थितम् |
तदिदं सकलं विश्वं गवाधीनं द्विजोत्तमाः || २२ ||
वेतालस्य च ता गावो वंश्याः सर्वप्रियाः सदा |
य इदं शृणुयान्नित्यं वेतालस्य महात्मनः || २३ ||
वंशानां जन्म विप्रेन्द्राः स सुखी बलवान् भवेत् |
न गावो नापि विभवास्तस्य नश्यन्ति वै क्वचित् || २४ ||
न च भूतपिशाचाद्यास्तं पश्यन्ति कदाचन |
वेतालः सततः तस्य रक्षामाचरति स्वयम् || २५ ||
इति वः कथितं विप्रा यथा वेतालभैरवौ |
जनयामासतुः पुत्रान् विच्छिन्नाः संशयाश्च वः || २६ ||
यथा च कालिका देवी मोहयामास शंकरम् |
यथोत्पन्ना शरीरार्धं कृतं शम्भोर्यथा तथा || २७ ||
कालिकायै नमस्तुभ्यमिति यो भाषते स्वयम् |
तस्य हस्ते स्थिता मुक्तिस्त्रिवर्गस्तु वशानुगः || २८ ||
इति वः कथितं पुण्यं पुराणं कालिकाह्वयम् |
मन्त्रयन्त्रमयं शुद्धं ज्ञानदं कामदं परम् || २९ ||
इति गुह्यतमं लोके वेदेषु च तथा द्विजाः |
देवगन्धर्वसिद्धाद्यैः स्पृहणीयमिदं सदा || ३० ||
अधीतं च श्रुतं मत्तो वसिष्ठेन महात्मना |
इदं पुराणममृतं कालिकाह्वयमुत्तमम् || ३१ ||
तेन गुप्तमिदं सर्वं कामरूपे सुरालये |
तमिदानीं समाख्यातं व्यक्तीकृत्य महर्षयः || ३२ ||
युस्माभिरपि नो देय गोप्यं लोकेषु सर्वदा |
शठाय चलचिंत्ताय नास्तिकायाजितात्मने || ३३ ||
भक्तिश्रद्धाविहीनाय न दातव्यं कदाचन |
इदं सकृत् पठेद् यस्तु पुराणं कालिकाह्वयम् || ३४ ||
स कामानखिलान् प्राप्य शेषेऽमृतमवाप्नुयात् |
मन्दिरे लिखितं यस्य पुराणमिदमुत्तमम् || ३४ ||
सदा तिष्ठति नो तस्य विघ्नः संजायते द्विजाः |
योऽधीतेऽहन्यहन्येतद् गुह्यं तन्त्रमिदं परम् || ३६ ||
अधीताः सकला वेदास्तेनेह द्विजसत्तमाः |
तस्मान्नैवाधिकोऽन्योअस्ति कृतकृत्यो विचक्षणः || ३७ ||
स सुखी बल्लवांल्लोके दीर्घायुरपि जायते || ३८ ||
यो लोकमीशःसततं बिभर्ति
यः पालयत्यन्तकर स्तथान्ते |
इदं समस्तं भ्रममभ्रमं वा
अदीयरूपं च नमोऽस्तु तस्मै || ३९ ||
प्रधानपुरुषो यस्य प्रपञ्चो योगिनां हृदि |
यः पुराणाधिपो विष्णुः प्रसीदतु स वः शिवः || ४० ||
यो हेतुरुग्रः पुरुषः पुराणः
सनातनः शाश्वत ईश्वरः परः |
पुराणकृद् वेदपुराणवेद्यः
प्रस्तौमि तन्नौमि पुराणशेषे || ४१ ||
इति सकलजगद् बिभर्ति यासां
मधुरिपुमोहकरी रमास्वरूपा |
रमयति च हरं शिवास्वरूपा
वितरतु वो विभवं शुभानि माया || ४२ ||
इति श्रीकालिकापुराणे नवतितमोऽध्यायः || ९० ||
इति श्रीकालिकापुराणं समाप्तम् |
Abschluss und vertiefendes Studium
Mit Kapitel 90 und dem Schlusskolophon ist der Sanskrittext des Kalika Purana vollständig abgeschlossen. Zusammen mit Teil 1, Kapitel 1–51 umfasst diese Ausgabe alle 90 Kapitel der zugrunde gelegten Fassung. Die abschließenden Segensverse können Anlass sein, nach der Lektüre einige Augenblicke still zu werden und die Hinwendung zur Devi im eigenen Alltag lebendig werden zu lassen.
Zurück zu Teil 1 · Einführung und vollständige deutsche Übersetzung · Praxisverse und ausgewählte Mantras
Textgrundlage und Hinweise zur Überlieferung
Grundlage: Kālikāpurāṇam, herausgegeben von Pañcānana Tarkavāgīśa, Kalkutta 1909; elektronischer Text des Muktabodha Indological Research Institute, Katalognummer M04002, Revision vom 27. April 2017. Die Erfassung erfolgte unter Leitung von Mark S. G. Dyczkowski. Muktabodha kennzeichnet den E-Text mit der Lizenz CC BY-NC 4.0. Die vorliegende Darstellung ergänzt Kapitelüberschriften, Verlinkungen und Leseformatierung.
Die Textfassung umfasst 90 Kapitel; die Devanagari-Ausgabe verteilt sie auf Teil 1 (Kapitel 1–51) und Teil 2 (Kapitel 52–90). Die zugrunde liegenden IAST- und Devanagari-Fassungen stimmen in der Zeilenstruktur und in den Zahlenfolgen überein; diese Übereinstimmung ist kein Beleg für zwei voneinander unabhängige Textzeugen. Auch auffällige Schreibungen, Wiederholungen und Nummerierungsfehler sind in beiden Fassungen vorhanden. Der Sanskritwortlaut und die Originalnummern werden hier bewahrt; eine stillschweigende Rekonstruktion fehlender Verse erfolgt nicht. Ein Sprung in der Nummerierung beweist für sich allein noch keinen Textverlust.
Besonders zu beachten sind der Sprung von 6.7 auf 6.12 und die Wiederholung des Blocks 6.29–6.40, wobei die Nummer 39 als 69 erscheint. Auch Kapitel 42 und 62 haben umfangreichere Nummerierungsstörungen. In Kapitel 12.35 ist derselbe Halbvers zweimal überliefert. In den Schlusskapiteln erscheinen 86.118, 88.20, 89.50 und 90.34 jeweils zweimal; 90.44 steht an der Stelle der erwarteten Nummer 4. Doppelte Nummern bezeichnen daher nicht immer identische Textstellen. Beschädigte Wörter sollten vor Verwendung in verbindlichen Ritualanweisungen anhand einer Druckausgabe überprüft werden.
Siehe auch
- Devanagari, Kapitel 1–51
- Kalika Purana
- Kalika Purana Sanskrit IAST
- Kalika Purana 108 Verse und Mantras
- Sanskrit
- Devanagari
- Shaktismus
Seminare
Indische Schriften
- 26.12.2026 - 02.01.2027 Indische Rituale Ausbildung
Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…- Sukadev Bretz, Shankari Winkelbauer
- 01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta
Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…- Vedamurti Dr Olaf Schönert
Sanskrit und Devanagari
- 06.01.2027 - 15.12.2027 Jahresgruppe Sanskrit - Lektüre der AMRITA SIDDHI 2 - online
Termine: 16x mittwochs: 06.01., 27.01., 17.02., 10.03., 31.03., 21.04., 12.05., 02.06., 23.06., 14.07., 08.09., 29.09., 20.10., 10.11., 01.12., 15.12.20…- Dr phil Oliver Hahn
- 09.04.2027 - 11.04.2027 Sanskrit Intensivwochenende
Du bist fasziniert vom Klang des Sanskrit und der tiefgehenden Wirkung der Wörter dieser uralten Sprache? Hast bereits Übersetzungen von Mantras oder …- Dr phil Oliver Hahn