Kalika Purana Sanskrit Devanagari

Aus Yogawiki

Kalika Purana Sanskrit Devanagari erschließt das Kalika Purana im Sanskritoriginal in der Devanagari-Schrift. Die vollständige Devanagari-Ausgabe ist auf zwei Seiten verteilt. Dieser erste Teil enthält Kapitel 1–51; Teil 2 enthält Kapitel 52–90. Die 90 Kapitel des Gesamtwerkes führen von den Erzählungen über Shiva und Sati zu den Lobpreisungen der Devi, zur Verehrung von Kamakhya sowie zu Mantra, Puja und heiligen Orten. Besonders die Hymnen laden dazu ein, philosophisches Nachdenken mit dem Klang der heiligen Sprache zu verbinden.

Einführung und deutsche Übersetzung stehen unter Kalika Purana. Die andere Schriftfassung findest du unter Kalika Purana Sanskrit IAST. Eine thematische Auswahl bietet Kalika Purana 108 Verse und Mantras.

Für ein vertieftes Studium empfiehlt es sich, einzelne Verse langsam zu lesen, ihre Begriffe zu erschließen und anschließend in stiller Meditation nachklingen zu lassen. So kann die Beschäftigung mit der Schrift Teil eines umfassenden Yoga-Weges werden.

Kali und Shiva – die Göttin und der große Yogi.

Die Artikel dieser Ausgabe: Einführung und deutsche Übersetzung, Kapitel 1–90 · Sanskrit in IAST · Devanagari, Kapitel 1–51 · Devanagari, Kapitel 52–90 · 108 Praxisverse und ausgewählte Mantras

Hinweise zum Lesen

Lies zunächst einen kurzen, zusammenhängenden Abschnitt und ziehe die deutsche Übersetzung unter Kalika Purana hinzu. Kapitel- und Versnummern ermöglichen den direkten Vergleich. Ein Satz kann über mehrere Verse reichen; auch die Sprecherwechsel gehören zum Verständnis. Für den Einstieg bieten sich hier die Hymnen in Kapitel 5 und 8 an. Die Verbindung von Guru, Mantra und innerer Sammlung wird besonders in Kapitel 55 im zweiten Teil behandelt.

Die Zeilenumbrüche trennen die überlieferten Versglieder; sie sind keine zusätzliche Atem- oder Rezitationsanweisung. Auffällige Schreibungen und Nummerierungsstörungen sind bewahrt. Wo eine Stelle unklar bleibt, hilft der Abgleich mit den Hinweisen im Hauptartikel. So verbinden sich die Aufmerksamkeit für den Wortlaut und die Offenheit für seinen spirituellen Sinn.

Sanskrittext

श्रीगणेशाय नमः

Kapitel 1

प्रथमोऽध्यायः

यद् योगिभिर्भवभयार्तिविनाशयोग्यमासाद्य वन्दितमतीवविविक्तचित्तैः |
तद् वः पुनातु हरिपादस रोजयुग्ममाविर्भवत् क्रमविलङ्घितभूर्भुवः स्वः || १ ||

सा पातु वः सकलयोगिजनस्य चित्तेऽविद्यातमिस्रतरणिर्यतिमुक्तिहेतुः |
या चास्य जन्तुनिवहस्य विमोहिनीति माया विभोर्जनुषि शुद्धकुबुद्धिहन्त्री || २ ||

ईश्वरं जगतामाद्यं प्रणम्य पुरुषोत्तमम् |
नित्यज्ञानमयं वक्ष्ये पुराणं कालिकाह्वयम् || ३ ||

मार्कण्डेयं मुनिश्रेष्ठं स्थितं हिमधरान्तिके |
मुनयः परिपप्रच्छुः प्रणम्य कमठादयः || ४ ||

भगवन् सम्यगाख्यात सर्वशास्त्रा.इ तत्त्वतः |
वेदान् सर्वांस्तथा साङ्गान् सारभूतं प्रमथ्य च || ५ ||

सर्ववेदेषु शास्त्रेषु यो यो नः संशयोऽभवत् |
स स च्छिन्नस्त्वया ब्रह्मन् सवित्रेव तमश्चयः || ६ ||

जैवातृकाग्र्य भवतः प्रसादाद्द्विजसत्तम |
निःसंशया वयं जाता वेदे शास्त्रे च सर्वशः || ७ ||

कृतकृत्या वयं ब्रह्मंस्त्वत्तोऽधीत्य समन्ततः |
सरहस्यं धर्मशास्त्रं यदवादि स्वयम्भुवा || ८ ||

भूयस्तच्छ्रोतुमिच्छामो हरं काली पुरा कथम् |
मोहयामास यतिनं सतीरूपेण चेश्वरम् || ९ ||

सर्वदा ध्याननिलयं यमिनं यतिनां वरम् |
संक्षोभयामास कथं संसारविमुखं हरम् || १० ||

सती वा कथमुत्पन्ना दक्षदारासु शोभना |
कथं हरो मनश्चक्रे दारग्रहणकर्मणि || ११ ||

कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा |
हिमवत्तनया जाता भूयो वा कथमागता || १२ ||

कथमर्धशरीरं साऽहरत स्मररिपोः पुनः |
एतत् सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम || १३ ||

नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति |
यथा जानीम विप्रेन्द्र तत् कुरुष्वैतदात्मवित् || १४ ||

मार्कण्डेय उवाच

शृणुध्वं मुनयः सर्वे गुह्याद् गुह्यतरं मम |
पुण्यं शुभकरं सम्यग् ज्ञानदं कामदं परम् || १५ ||

एतद् ब्रह्मा पुरोवाच नारदाय महात्मने |
पृष्टस्तेन ततः सोऽपि बालखिल्येभ्य उक्तवान् || १६ ||

बालखिल्या महात्मानस्तत आचक्षिरे पुनः |
यवक्रीताय मुनये स प्रोवाचासिताय च || १७ ||

असितो मे समाचष्ट एतद्विस्तरतो द्विजाः |
अहं वः कथयिष्यामि कथामेतां पुरातनीम् |
प्रणम्य परमात्मानं चक्रपाणिं जगत्पतिम् || १८ ||

व्यक्ताव्यक्तस्वरूपाय सदसद्व्यक्तिरूपिणे |
स्थूलाय सूक्ष्मरूपाय विश्वरूपाय वेधसे || १९ ||

नित्याय नित्यज्ञानाय निर्विकाराय तेजसे |
विद्याविद्यास्वरूपाय कालरूपाय वैनमः || २० ||

निर्मलायोर्मिषट्कादिरहिताय विरागिणे |
व्यापिने विश्वरूपाय सृष्टिस्थित्यन्तकारिणे || २१ ||

योगिभिश्चिन्त्यते योऽसौ वेदान्तान्तगचिन्तकैः |
अन्तरन्तः परंज्योतिःस्वरूपं प्रणमामि तम् || २२ ||

तमेवाराध्य भगवान् ब्रह्मा लोकपितामहः |
प्रजाः ससजं सकलाः सुरासुन्नरादिकाः || २३ ||

सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् स यथाविधि |
मरीचिमत्रिं पुलहं तथैवाङ्गिरस क्रतुम् || २४ ||

पुलस्त्यञ्च वशिष्ठञ्च नारदञ्च प्रचेतसम् |
भृगुञ्च मानसान् पुत्रान् यदा दश ससर्ज सः || तदा तन्मनसी जाता चारुरूपा वराङ्गना || २५ ||

नाम्ना सन्ध्येतिविख्याता साम्यनसन्ध्या गायत्रिका |
न तादृशी देवलोके न मर्त्त्ये न रसातले |
कालत्रयेऽपि भविता सम्पूर्णगुणशालिनी ||२६ ||

निसर्गचारुनीलेन कचभारेण राजते |
मयूरीव विचित्रेण वर्षासु द्विजसत्तमाः || २७ ||

आरक्तगौरमलिनमाकर्णान्तं तथालकैः |
रेजे सुराधिपधनुश्चारुबालेन्दुसन्निभम् || २८ ||

प्रफुल्लनीलनलिनश्यामलं नयनद्वयम् |
चकाशे चकितायास्तु कुरङ्ग्याः सदृशं चलम् || २९ ||

निसर्गचञ्चलं चारु भ्रू युग्मं श्रवणायतम् |
मीनाङ्ककोदण्डसमं नीलं तस्या द्विजोत्तमाः || ३० ||

भ्रूमध्याधोनिम्नभागादायतप्रांशुनासिका |
लवण्यानि द्रवन्तीव ललाटात्तिलपुष्पवत् || ३१ ||

तद्वक्त्रं शोणपद्माभपूर्णचन्द्रसमप्रभम् |
बिम्बाधरारुणिम्नाभीरेजे रागिमनोहरम् || ३२ ||

सौन्दर्यलावण्यगुणैरापूर्णं वदनं पुनः |
अभितश्चिवुकं यातुमुद्यताविव तत्कुचौ || ३३ ||

राजीवकुट्मलाकारौ पीनोत्तुंगौ निरन्तरौ |
श्मामास्यौ तत्कुचौ विप्रा मुनीनामपि मोहनौ || ३४ ||

वलिभाजि क्षीणमध्यं मुष्टिग्राह्यमिवांशुकम् |
तन्मध्यं ददृशुः सर्वे शक्तितुल्यं मनोभुवः || ३५ ||

तस्याश्चोरुयुगं रेजे स्थूलोर्ध्वं करभायतम् |
आनमद्वारणकरप्रतिमं मृदुमन्थरम् || ३६ ||

स्थलाम्बुजारुणं पादयुग्मं सत्पार्ष्णिराजितम् |
अङ्गुलीदलसंकीर्णं कुसुमायुधबाणवत् || ३७ ||

तां चारुदर्शनां तन्वीं तनुरोमावलीवृताम् |
सस्वेदवदनां दीर्घनयनां चारुहासिनीम् || ३८ ||

चारुकर्णयुग्मां कान्तां त्रिगम्भीरां षडुन्नताम् |
दृष्ट्वा धाता समुत्थाय चिन्तयामास हृद्गतम् || ३९ ||

दक्षादयस्ते स्रष्टारो मरीच्याद्यास्तु मानसाः |
दध्युः समुत्सुकाः सर्वे तां दृष्ट्वा वरवर्णिनीम् || ४० ||

किं कर्मास्या भवेत् सृष्टौ कस्य वा वरवर्.इनी |
भविष्यतीति ते सर्वे चिन्तयामासुरुत्त्सुकाः || ४१ ||

एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः |
मनसः पुरुषो बल्गुराविर्भूतो विनिसृताः || ४२ ||

काञ्चनीचूर्णपीताभः पीनोरस्कः सुनासिकः |
सुवृत्तोरुकटीजंघो नीलवेष्टितकेशरः |
लग्न भ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः || ४३ ||

कपाटविस्तीर्णहृदि रोमराजिविराजितः |
शुभ्रमातङ्गकरवत् पीननिस्तलबाहुकः |
आरक्तपाणिनयनमुखपादकरोद्भवः || ४४ ||

क्षीणमध्यश्चारुदन्तः प्रमत्तगजकन्धरः |
प्रफुल्लपद्मपत्राक्षः केशरघ्राणतर्पणः |
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः || ४५ ||

पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः |
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् || ४६ ||

सुगन्धिमरुता भ्रान्त शृंगाररससेवितम् |
तं वीक्ष्य तादृशं दक्षप्रमुखा मानसाश्च ते || ४७ ||

मरीच्याद्या दश ततो विस्मयाविष्टचेतसः |
औत्सुक्यं परमं जग्मुरापुर्वैकारिकं मनः || ४८ ||

चास पि वेधस वीक्ष्य स्रष्टार जगतां पतिम् |
प्रणम्य पुरुषः प्राह विनयानतकन्धरः || ४९ ||

पुरुष उवाच

किं करिष्याम्यहं कर्म ब्रह्मस्तत्र नियोजय |
मां न्यायये पुरुषो यस्मादुचिते शोभते विधे || ५० ||

अभिधानं च यद्योग्यं स्थानं पत्नी च या मम |
तन्मे कुरुष्व लोकेशत्वं स्रष्टा जगतां यतः || ५१ ||

मार्कण्डेय उवाच

एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः |
क्षणं न किंचित् प्रोवाच स्वसृष्टावपि विस्मितः || ५२ ||

ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् |
उवाच पुरुषं ब्रह्मा तत्कर्मोद्देशमावहन् || ५३ ||

ब्रह्मोवाच

अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः |
मोहयन् पुरुषान् स्त्रींश्च कुरु सृष्टि सनातनीम् || ५४ ||

न देवो न च गन्धर्वो न किन्नरमहोरगाः |
नासुरो न च दैत्यो वा न विद्याधरराक्षसाः || ५५ ||

न यक्षा न पिशाचाश्च न भूता न विनायकाः |
न गुह्यका न वा सिद्धा न मनुष्या न पक्षिणः || ५६ ||

पशवो न मृगाः कीटपतङ्गाजलजाश्च ये |
न ते सर्वे भविष्यन्ति न लक्ष्या ये शरस्य ते || ५७ ||

अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः |
भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः || ५८ ||

प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदयं सदा |
सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् || ५९ ||

त्वत्पुष्पवाणस्य सदा मुक्यं लक्ष्यं मनोऽस्तु तत् |
सर्वेषां प्राणिनां नित्यं मदमोदकरो भवान् || ६० ||

इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः |
नामापि च गदिष्यामि यत्ते योग्यं भविष्यति || ६१ ||

मार्कण्डेय उवाच

इत्युक्त्वाथ सुरश्रेष्ठो मानसानां मुखानि च |
आलोक्य स्वासने पद्मे सूपविष्टोऽभवन् क्षणात् || ६२ ||

इति श्रीश्रीकालिकापुराणे कामप्रादुर्भावो नाथ प्रथमोऽध्यायः || १ ||


Kapitel 2

द्वितीयोऽध्यायः

मार्कण्डेय उवाच

ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः |
चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा || १ ||

मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः |
दक्षादयस्तु स्रष्टारः स्थानं पत्नीञ्च ते ददुः || २ ||

ततो निश्चित्य नामानि मरीचि प्रमुखाद्विजाः |
ऊचुः संगतमेतस्मै पुरुषाय द्विजोत्तमाः || ३ ||

ऋषय ऊचुः

यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः |
तस्मान्मन्मथनाम्ना त्वं लोके ख्यातो भविष्यसि || ४ ||

जगत्सु कामरूपस्त्वं त्वत्समो नहि विद्यते |
अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव || ५ ||

मदनान्मदनाख्यस्त्वं शम्भोर्दर्पाच्च दर्पकः |
तदा कन्दर्पनाम्नापि लोके ख्यातो भविष्यति || ६ ||

त्वदाशुगानां यद्वीर्य तद्वीर्य न भविष्यति |
वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् || ७ ||

स्वर्गे मर्त्त्ये च पाताले ब्रह्मलोके सनातने |
तव स्थानानि सर्वाणि सर्वव्यापि भवान् यतः |
किं वाचातिविशेषेण सामान्ये नास्ति ते समः || ८ ||

यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा |
तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् || ९ ||

दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभनाम् |
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तम || १० ||

एषा च कन्यका चारुरूपा ब्रह्ममनोभवा |
सन्ध्यानामेति विख्याता सर्वे लोके भविष्यति || ११ ||

ब्रह्मणो ध्यायतो यस्मात् सम्यग्जाता वराङ्गना |
अतः सन्ध्येति लोकेऽस्मिन्नस्याः ख्यातिर्भविष्यति || १२ ||

मार्कण्डेय उवाच

इत्युक्त्वा मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः |
अवेक्ष्य ब्रह्मवदनं निनयावनताः पुरः || १३ ||

ततः कामोऽपि कोदण्डमादाय कुसुमोद्भवम् |
उन्मादनेति विख्यातं कान्ताभ्रूतुल्यवेल्लितम् || १४ ||

कौसुमानि तथास्त्राणि पञ्चादाय द्विजोत्तमाः |
हर्षणं रोचनाख्यञ्च मोहनं शोषणं तथा || १५ ||

मारणञ्चेति संज्ञाभिर्मुनिमोहकराण्यपि |
प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् || १६ ||

ब्रह्मणा मम यत्कार्यं समुद्दिष्टं सदातनम् |
तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः || १७ ||

तिष्ठन्ति मुनयश्चात्र स्वयञ्चापि प्रजापतिः |
एषा सन्ध्यापि ब्रह्मणा प्रोक्त्तमिदानोमेव यद्वचः || १९ ||

अहं विष्णुर्हरश्चापि तवास्त्रवशवर्तिनः |
किमन्यैर्जन्तुभिरिति तत्सार्थं करवाण्यहम् || २० ||

मार्कण्डेय उवाच

इति सञ्चित्यमनसा निश्चित्य च मनोभवः |
पुष्पज्यां पुष्पचापस्य याजयामास मार्गणैः || २१ ||

आलीढस्थानमासाद्य धनुराकृष्य यत्नतः |
चकार वलयाकारं कामो धन्विवरस्तदा || २२ ||

सहिते तेन कोदण्डे मारुताश्च सुगन्धयः |
ववुस्तत्र मुनिश्रेष्ठाः सम्यगाह्लदकारिणः || २३ ||

ततस्तानथ धात्रादीन् सर्वानेव च मानसान् |
पृथक् पृथक् पुष्पशरैर्मोहयामास मोहनः || २४ ||

ततस्ते मुनयः सर्वे मोहिताश्चतुराननः |
मोहितो मनसा किंचिद्विकारं प्रापुरादितः || २५ || सन्ध्यां सर्वे निरीक्षन्तः सविकाराः मुहुर्मुहुः |
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदवर्धिनी || २६ ||

ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः |
यथेन्द्रियविकारांस्ते प्रापुस्तानकरोत्तथा || २७ ||

उदीरितेन्द्रियो धाता वीक्षाञ्चक्रे यदाथ ताम् |
तदैव ह्यूनपञ्चाशद्भावा जाताः शरीरतः || २८ ||

विव्वोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा |
कन्दर्पशरविद्धायाः सन्ध्याया अभवन् द्विजाः || २९ ||

सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातजान् |
चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् || ३० ||

निसर्गसुन्दरो सन्ध्या तान् भावान् मदनोद्भवान् |
कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः || ३१ ||

अथ भावयुवां सन्ध्यां वीक्षमाणः प्रजापतिः |
धमम्भिःपूरिततनुरभिलाषमथाकरोत् || ३२ ||

ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि |
दक्षाद्याश्च द्विजश्रेष्ठाः प्रापुर्वैकारिकेन्द्रियम् || ३३ ||

दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखान् विधिम् |
सन्ध्याञ्च कर्मणि निजे श्रदृधे मदनस्तदा || ३४ ||

यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् |
कर्तुं शक्यमिति श्रद्धाभावितात्माभवत्तदा || ३५ ||

ततो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् |
सदक्षान्मानसांश्चापि जहासोपजहास च || ३६ ||

ससाधुवादं तान् सर्वान् विहस्य च पुनः पुनः |
उवाचेदं द्विजश्रेष्ठा लज्जयंस्तान् वृषध्वजः || ३७ ||

ईश्वर उवाच

अहो ब्रह्मंस्तव कहं कामभावः समुद्गतः |
दृष्ट्वा स्वतनयां नैतद् योग्यं वेदानुसारिणाम् || ३८ ||

यथा माता तथा जामिर्यया जामिस्तथा सुता |
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखोत्थितः |
कथन्तु काममात्रेण तत्ते विस्मारितं विधे || ३९ ||

धैर्ये जगदिदं ब्रह्मन् समस्तं चतुरानन |
कथं क्षुद्रेण कामेन तत्ते विघटितं विधे || ४० ||

एकान्तयोगिनः कस्मात् सर्वदा दिव्यदर्शनाः |
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः || ४१ ||

कथं कामोऽपि मन्दात्मा प्राप्तकर्माधुनैव तु |
युष्मान् शरव्यान् कृतवानकालज्ञोऽल्पचेतनः || ४२ ||

धिगस्तु तं मुनिश्रेष्ठ यस्य कान्ताजनो हठाद् |
धैर्यमाकृष्य लौल्येषु मज्जयत्यपि तन्मनः || ४३ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा लोकेशो गिरिशस्य च |
व्रीडया द्विगुणोभूतस्वेदार्द्रो ह्यभवत् क्षणात् || ४४ ||

ततो निगृह्यैन्द्रियकं विकारं चतुराननः |
जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् || ४५ ||

तच्छरीरात्तु धर्माम्भो यत् पपात द्विजोत्तमाः |
अग्निष्वात्ता वर्हिषदो जाताः पितृगणास्ततः || ४६ ||

भिन्नाञ्जननिभाः सर्वे फूल्लरा जीवलोचनाः |
नितान्तयतयः पुण्याः संसारविमुखाः पराः || ४७ ||

सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः |
षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः || ४८ ||

धर्माम्भः पतितं भूमौ यद्दक्षस्य शरीरतः |
समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गनाः || ४९ ||

तन्वङ्गी तनुमध्या च तनुरोमावली शुभा |
मृद्वङ्गी चारुदशना तप्तकाञ्चनसुप्रभा || ५० ||

मरीचिप्रमुखैः षड्भिर्निगृहीतेन्द्रियक्रिया |
ऋते ऋतुं वशिष्ठञ्च पुलस्त्याङ्गिरसौ तदा || ५१ ||

ऋत्वादीना. चतुर्णाञ्च यो भूमौ निपपात ह |
ततः पितृगणा जाता अपरे द्विजसत्तमाः || ५२ ||

सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः |
हविर्भुजस्तु ते सर्वे कव्यवाहा प्रकीर्तिताः || ५३ ||

ऋतोस्तु सोमपाः पुत्रा वशिष्ठस्य सुकालिनः |
आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः || ५४ ||

जातेषु तेषु विप्रेन्द्रा अग्निष्वात्तादिकेष्वथ |
लोकानां पितृवर्गेषु कव्यवाहाः समन्ततः || ५५ ||

सर्वेषामेव भूतानां ब्रह्मा भूतपितामहः |
सन्ध्या पितृप्रसूर्भुता तदुद्देशाद्यतोऽभवत् || ५६ ||

अथ शङ्करवाक्येन लज्जितः स पितामहः |
कन्दर्पाय चुकोपाशु भ्रूकुटीकुटिलाननः || ५७ ||

पुरैव तदभिप्रायं विदित्वा सोऽपि मन्मथः |
स्वबाणान् सञ्जहाराशु भीतः पशुपतेर्विधेः || ५८ ||

ततः क्रोधसमाविष्टो ब्रह्मा लोकापितामहः |
यच्चकार द्विजेन्द्रास्तच्छृणुध्वं सुखमाहिताः || ५९ ||

इति श्रीकालिकापुराणे ब्रह्ममोहनो नाथ द्वितीयोऽध्यायः || २ ||

Kapitel 3

तृतीयोऽध्यायः

मार्कण्डेय उवाच

ततः कोपसमाविष्टः पद्मयोनिर्जगत्पतिः |
प्रजज्वालातिबलवद्दिधक्षुरिव पावकः || १ ||

उवाच चेश्वरं कामो भवतः पुरतो यतः |
पुष्पेषुभिर्मामभजत् तत्फलस्याप्नुयाद्वर || २ ||

तव नेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः |
भविष्यति महादेव कृत्वा कर्मातिदुष्करम् || ३ ||

इति वेधाः स्वयं कामं शशाप द्विजसत्तमाः |
समक्षं व्योमकेशस्य मुनीनाञ्च यतात्मनाम् || ४ ||

अथ भीतो रतिपतिस्तत्क्षणात् त्यक्तमार्गणः |
प्रादुर्वभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् || ५ ||

उवाच चेदं ब्रह्माणं सदक्षं समरीचिकम् |
तथ्यञ्च गद्गतं भीत्या भीतिर्हि गुणहानिकृत् || ६ ||

मन्मथ उवाच

ब्रह्मन् किमर्थ भवता शप्तोऽहमतिदारुणम् |
अनागस्तव लोकेश न्यायमार्गानुसारिणः || ७ ||

त्वयैवोक्तन्तु तत् कर्म यत्तु कुर्यामहं विभो |
तत्र याग्यो न शापो मे यतो नान्यन्मया कृतम् || ८ ||

अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः |
इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् || ९ ||

नापराधो ममास्त्यत्र ब्रह्मन् मयि निरागसि |
दारुणं शमयस्वैनं शाप मम जगत्पते || १० ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा विधाता जगतां पतिः |
प्रत्युवाच यतात्मानं मदनं सदयं मुहुः || ११ ||

ब्रह्मोवाच

आत्मजा मम सन्ध्येयं यस्मादेतत्सकाशतः |
लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः || १२ ||

अधुना शान्तरोषोऽहं त्वां वदामि मनोभव |
भवतः शापशमनं भविष्यति यथा तथा || १३ ||

त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना |
तस्यैवानुग्रहात् पश्चाच्छरीरं समवाप्स्यसि || १४ ||

यदा हरो महादेवः कुर्याद्दारपरिग्रहम् |
तदा स एव भवतः शरीरं प्रापयिष्यति || १५ ||

मार्कण्डेय उवाच

एवमुक्तवाथ मदनं ब्रह्मा लोकपितामहः |
अन्तर्दधे मुनीन्द्राणां मानसानाञ्च पश्यताम् || १६ ||

तस्मिन्नन्तर्हिते शम्भूः सर्वेषाञ्च विधातरि |
यथेष्टदेशं गतवान् ब्रह्मा (तदा (?)) मारुतरंहसा || १७ || वेधस्यन्तर्हिते तस्मिन् गते शम्भौ निजास्पदम् |
दक्षः प्राहाथ कन्दर्प पत्नीं तस्य निदर्शयन् || १८ ||

दक्ष उवाच

मद्देहजेयं कन्दर्प मद्रूपगुणसंयुता |
एनां गृह्णीष्व भार्यार्थ भवतः सद्दशीं गुणैः || १९ ||

एषा तव महातेजाः सर्वदा सहचारिणी |
भविष्यति यथाकामं धर्मतो दशवर्तिनी || २० ||

मार्कण्डेय उवाच

इत्युक्ता प्रददौ दक्षौ देहस्वेदाम्बुसम्भवाम् |
कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् || २१ ||

तां वीक्ष्य मदनो रामां रत्याख्यां सुमनोहराम् |
आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः || २२ ||

क्षणप्रभावदेकान्तगौरी मृगदृशी सदा |
लोलापाङ्गवय तस्यैव मृगीव सदृशी वधौ || ३३ ||

तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् |
उन्मादकृन्मे कोदण्डं किं धात्रा स्यान्निवेशितम् || २४ ||

कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तमाः |
आशुगत्वं निजास्त्राणां श्रद्दधे न च चारुताम् || २५ ||

तस्याः स्वभावसुरभिं धीरं श्वासानिलं तथा |
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले || २६ ||

पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा भ्रूलक्ष्मलक्षितम् |
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः || २७ ||

सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् |
रेजे चुचूकयुग्मेन भ्रमरेणेव सेवितम् || २८ ||

दृढपीनोन्नतघनस्तनम्ध्याद्विलम्बिनीम् |
आनाभितो रोमराजिं तन्वी चार्वायतां शुभाम् || २९ ||

ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भृताम् |
विसस्मार च यस्मार्त्ता विगृह्यैनां निरीक्षते || ३० ||

गम्भीरनाभिरन्ध्रान्तश्चतुष्पार्श्वत्वमावृताम् |
आननाब्जेक्षणद्वन्द्वमारक्तकमलं यथा || ३१ ||

क्षीणमध्येन वपुषा निसर्गाष्टपदप्रभा |
रत्नवेदीव ददृशे कामेन द्विजसत्तमाः || ३२ ||

रम्भास्तम्भयातस्निग्धं तदुरुयुगलं मृदु |
निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् || ३३ ||

आरक्तपार्ष्णिपादाग्रप्रान्तभागं पदद्वयम् |
अनुरागमयं चित्रं स्थतं तिस्यां मनोभवः || ३४ ||

तस्याः करयुगं रक्तनखरैः किंशुकोपमैः |
वृत्ताभिरङ्गुलिभिश्च सूक्ष्माग्राभिर्मनोहरम् || ३५ ||

इति दृष्ट्वा स्मरो मेने ममास्त्रैर्द्विगुणीकृतैः |
मां मोहयितुमुद्युक्ता किमेषा द्विजसत्तमाः || ३६ ||

तद्वाहुयुगलं कान्तं मृणालयुगलायतम् |
मृदुस्निग्धं रराजातिकान्तितोयप्रवाहवत् || ३७ ||

नीलनीरदसङ्काशः केशपाशो मनोहरः |
चमरीबालभारवद्विभाति स्म स्मरप्रियः || ३८ ||

तां वीक्ष्य मदनो देवीं रतिमतिमनोहराम् |
कान्तितोयौघसम्पूर्णा कुचवक्त्राब्जकुड्मलाम् || ३९ ||

वक्त्रपद्मां चारुबाहुमृणालशकलान्विताम् |
भ्रूयुग्मविभ्रमद्व्राततनूर्मिपरिराजिताम् || ४० ||

कटाक्षपातभृङ्गीघां नेत्रनीलोत्पलान्विताम् |
तनुलोमालिशैवालां मनोद्रुमविशातिनीम् || ४१ ||

निम्ननाभिह्रदां दक्षप्रालेयाद्रिसमुद्भवाम् |
गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः || ४२ ||

उवाच च तदा सक्षं कामो मोदभरान्वितः |
विस्मृत्य शापञ्च तदा विधिदत्तं सुदारुणम् || ४३ ||

मदन उवाच

अनया सहचारिण्या सम्यक् सुन्दररूपया |
समर्थो मोहितुं शम्भुं किमन्यैर्जन्तुभिर्विधो || ४४ ||

यत्र यत्र मया लक्ष्यं क्रियते धनुषोऽनघ |
तत्रानयापि चेष्टव्यं मायया रमणाह्वया || ४५ ||

यदा देवालयं यामि पृथिवीं वा रसातलम् |
तदैषाप्यस्तु सध्रीची सर्वदा चारुहासिनी || ४६ ||

यथा पद्मालया विष्णोर्जलदानां यथा तडित् |
यथा ममैषा भविता प्रजाध्यक्ष सहायिनी || ४७ ||

मार्कण्डेय उवाच

इत्युक्त्वा मदनो देवीं रतिं जग्राह सोत्सुकः |
स्रागरादुत्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् || ४८ ||

रराज स तया सार्धं भिन्नपीतप्रभः स्मरः |
जोमूत इव सन्ध्यायां सौदामिन्या मनोज्ञया || ४९ ||

इति रतिपतिरुच्चैर्मोदयुक्तो रतिं तां हृदि परिजगृहे यां योगदर्शीव विद्याम् |
रतिरपि पतिमग्र्यं प्राप्य तोषञ्च लेभे हरिमिव कमलोत्था पूर्णचन्द्रोपमास्या || ५० ||

इति श्रीकालिकापुराणे रत्युत्पत्तौ तृतीयोऽध्यायः

Kapitel 4

चतुर्थोऽध्यायः

मार्कण्डेय उवाच

ततः प्रभृति धातापि यदेवान्तर्हितः पुरा |
चिन्तयामास सततं शम्भुवाक्यविषार्द्दितः || १ ||

कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् |
मुनीनां पुरतः कस्मात् स दारान् संग्रहीष्यति || २ ||

का वा भवित्री तज्जायाका च तन्मनसि स्थिता |
योगमार्गमवष्टव्य तस्य मोहं करिष्यति || ३ ||

मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने |
नितान्तयोगी रामाणां नामापि सहते न सः || ४ ||

अगृहीतेषु दारेषु हरेण कथमादितः |
मध्येऽन्ते च भवेत् सृष्टिस्तद्वधो नान्यकारितः || ५ ||

केचिद्भविष्यन्ति भुवि मया बाध्या महाबलाः |
केचिद्विष्णोर्वारणीयाः केचिच्छम्भोरुपायतः || ६ ||

संसारविमुखे शम्भौ तथैकान्तविरागिणि |
अस्मदृते न कर्मान्यत् करिष्यति न संशयः || ७ ||

चिन्तयन्निति लोकेशो ब्रह्मा लोकपितामहः |
पुनर्द्ददर्श भूमिष्ठान् दक्षादीन् वियति स्थितः || ८ ||

रतिद्वितीयं मदनं मोदयुक्तं निरीक्ष्य च |
पुनस्तत्र गतः प्राह सान्त्वयन् पुष्पसायकम् || ९ ||

ब्रह्मोवाच

अनया सहचारिण्या राजसे त्वं मनोभव |
एषा च भवता पत्या युक्ता संशोधते धृशम् || १० ||

यथा श्रिया हृषीकेशो यथा तेन हरिप्रिया |
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः || ११ ||

तथैव युवयोः शोभा दाम्पत्यञ्च पुरस्कृतम् |
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि || १२ ||

जगद्धिताय वत्स त्वं मोहयस्व पिणाकिनम् |
यथा सुखमनाः शम्भुः कुर्याद्दारपरिग्रहम् || १३ ||

विजने स्निग्धदेशे च पर्वतेषु सरित्सु च |
यत्र यत्र प्रयातीशस्तत्र तत्रानया सह || १४ ||

मोहयस्व यतात्मानं वनिताविमुखं हरम् |
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः || १५ ||

भूते हरे सानुरागे भवतोऽपि मनोभव |
शापोपशान्तिर्भविता तस्मादात्महितं कुरु || १६ ||

सानुरागो वरारोहां यदीच्छति मनोभव |
तदा तवोपभोगाय स त्वां सम्भावयिष्यति || १७ ||

तस्माज्जगद्धिताय त्वं यतस्व हरमोहने |
शिवस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् || १८ ||

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः |
उवाच मन्मथस्तथ्यं ब्रह्माणं जगतो हितम् || १९ ||

मन्मथ उवाच

करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम |
किन्तु योषिन्महास्त्रं मे तत्र कान्तां प्रभो सृज || २० ||

मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् |
कार्यं मनोरमां रामां तां निदेशय लोकभृत् || २१ ||

तामहं नहि पश्यामि यया तस्यानुमोहनम् |
कर्तव्यमधुना धातस्तत्रोपायं तथा कुरु || २२ ||

मार्कण्डेय उवाच

एवंवादिनि कन्दर्पे धाता लोकपितामहः |
कुर्या सम्मोहनीं योषामिति चिन्तां जगामह || २३ ||

चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिःसृतः |
तस्माद्वसन्तः संजातः पुष्पव्रातविभूषितः || २४ ||

चूताङ्कुरान् मुकुलितान् विभ्रद् भ्रमरसंहतिम् |
किंशुकान् सारसान् रेजे प्रफुल्ल इव पादपः || २५ ||

शोणराजीवसंकाशः फुल्लतामरसेक्षणः |
सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः || २६ ||

शङ्खवच्छ्रवणावर्तः श्यामकुञ्चितमूर्द्धजः |
सन्ध्यांशुमालिसदृशकुण्डलद्वयमण्डितः || २७ ||

प्रमत्तमातङ्गगतिर्विस्तीर्णहृदयस्तलः |
पीनस्थूलायतभुजः कठोरकरयुग्मकः || २८ ||

सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः |
गूढजत्रुः पीनवक्षाः सम्पूर्णः सर्वलक्षणैः || २९ ||

तादृशेऽथ समुत्पन्ने सम्पूर्णः कुसुमाकरे |
ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः || ३० ||

पिकाश्च नेदुः शतशः पञ्चमं मधुरस्वराः |
प्रफुल्लपद्मा अभवन् सरस्यः पुष्टपुष्कराः || ३१ ||

तमुत्पन्नमवेक्ष्याथ तथा तादृसमुत्तमम् |
हिरण्यगर्भो मदनं जगाद मधुरं वचः || ३२ ||

ब्रह्मोवाच

एष मन्मथ ते मित्रं सदा सहचरो भवेत् |
आनुकूल्यं तव कृते सवदैव करिष्यति || ३३ ||

यथाग्नेः श्वसनो मित्रं सर्वत्रोपकरोति च |
तथायं भवतो मित्रं सदा त्वामनुयास्यति || ३४ ||

वसतेरन्तहेतुत्वाद् वसन्ताख्यो भवत्वयम् |
तवानुगमनं कर्म तथा लोकानुरञ्जनम् || ३५ ||

असौ वसन्तः शृङ्गारो वसन्ते मलयानिलः |
भवन्तु सुहृदो भावाः सदा त्वद्वशवर्तिनः || ३६ ||

बिब्बोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा |
कुर्वन्तु रत्याः सौहृद्यं सुहृदस्ते यथा तव || ३७ ||

एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् |
अनया सहचारिण्या त्वद्युक्तपरिवारया || ३८ ||

मोहयस्व महादेवं कुरु सृष्टिं सनातनीम् |
यथेष्टदेशं गच्छ त्वं सर्वः सहचरैर्वृतः |
अहं तां भावयिष्यामि यो हरं मोहयिष्यति || ३९ ||

एवमुक्तोऽथ मदनः सुरज्येष्ठेन हर्षितः |
जगाम सगणस्तत्र सपत्न्यनुचरस्तदा || ४० ||

दक्षं प्रणम्य तान् सर्वान् मानसानभिवाद्य च |
यत्रास्ति शम्भुर्गतवांस्तत्स्थानं मन्मथस्तदा || ४१ ||

तस्मिन् गते सानुचरेऽथ मन्मथे शृङ्गारभावादियुते द्विजोत्तमाः |
प्रोवाच दक्षं मधुरं पितामहः सार्धं मरीच्यत्रिमुखैर्मुनीश्वरैः || ४२ ||

इति श्रीकालिकापुराणे वसन्तोत्पत्तौ चतुर्थोऽध्यायः || ४ ||

Kapitel 5

पञ्चमोऽध्यायः

मार्कण्डेय उवाच

अथ ब्रह्मा तदोवाच दक्षाय सुमहात्मने |
मरीचिप्रमुखेभ्यश्च वचनञ्चेदमञ्जसा || १ ||

ब्रह्मोवाच

भवित्री शम्भुपत्नी का का तं सन्मोहयिष्यति |
इति सञ्चिन्तयन् कान्तां न स्थिरीकर्तुमुत्सहे || २ ||

विष्णु मायामृते दक्ष महामायां जगन्मयीम् |
नान्या तन्मोहकर्त्री स्यात् सन्ध्यासावित्र्युमा ऋते || ३ ||

तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् |
स्तौमि सा चारुरूपेण शंकरं मोहयिष्यति || ४ ||

भवांस्तु दक्ष तामेव यजतां विश्वरूपिणीम् |
यथा तव सुता भूत्वा हरजाया भविष्यति || ५ ||

मार्कण्डेय उवाअ

एवं वचनमाकर्ण्य ब्रह्मणः परमात्मनः |
उवाच दक्षह् स्रष्टारं मरीच्यादिभिरीरितः || ६ ||

दक्ष उवाच

यथात्थ भगवंस्तथ्यं त्वं लोकेश जगद्धितम् |
तत् करिष्यामहे सम्यग् यथा स्यात्तन्मनोहरा || ७ ||

तथा तथा भविष्यामि यथा मम सुता स्वयम् |
विष्णुमाया भवेत् पत्नी भूत्वा शम्भोर्महात्मनः || ८ ||

मार्कण्डेय उवाच

एवमेवेति तैरुक्तं मरीचिप्रमुखैस्तदा |
यष्टुं दक्षः समारेभे महामायां जगन्मयीम् || ९ ||

क्षीरोदोत्तरतीरस्वस्तां कृत्वा हृदयस्थिताम् |
तपस्तप्तुं समारेभे द्रष्टुं प्रत्यक्षतोऽम्बिकाम् || १० ||

दिव्यवर्षेण दक्षोऽपि सहस्राणां त्रयः समाः |
तपश्चचार नियतः संयतात्मा दृढव्रतः || ११ ||

मारुताशी निराहारो जलाहारो च पर्णभुक् |
एवं निनाय तत्कालं चिन्तयंस्तां जगन्मयीम् || १२ ||

गते दक्षे तपः कर्तुं ब्रह्मा सर्वजगत्पतिः |
जगाम मन्दराभ्यासं पुण्यात्पुण्यतरं वरम् || १३ ||

तत्र गत्वा जगद्धात्रीं विष्णुमायां जगन्मयीम् |
तुष्टाव वाग्भिरर्थ्याभिरेकतानं शतं समाः || १४ ||

ब्रह्मोवाच

विद्याविद्यात्मिकां शुद्धां निरालम्बां निराकुलाम् |
स्तौमि देवीं जगद्धात्रीं स्थूलाणीयः स्वरूपिणीम् || १५ ||

यस्या उदेति च जगत्प्रधानाख्यं जगत्परम् |
यस्यास्तदंशभूतां त्वां स्तौमि निद्रां सनातनीम् || १६ ||

त्वं चितिः परमानन्दा परमात्मस्वरूपिणी |
शक्तिस्त्वं सर्वभूताना त्व सर्वेषां च पावनी || १७ ||

त्वं सावित्री जगद्धात्री त्व सन्ध्या त्व रतिर्धृतिः |
त्वं हि ज्योति स्वरूपेण ससारस्य प्रकाशिनी || १८ ||

तथा तमःस्वरूपेण च्छादयन्ती सदा जगत् |
त्वमेव सृष्टिरूपेण ससारपरिपूरणी || १९ ||

स्थितिरूपेण च हरेर्जगतां च हितेषिणी |
तथैवान्तस्वरूपेण जगतामन्तकारिणी || २० ||

त्वं मेधा त्वं महामाया त्वं स्वधा पितृमोदिनी |
त्वं स्वाहा त्वं नमस्कारवषट्कारौ तथा स्मृतिः || २१ ||

त्वं पुष्टिस्त्वं धृतिर्मैत्री करुणा मुदिता तथा |
त्वमेव लज्जा त्वं शान्तिस्त्वं कान्तिर्जगदीश्वरी || २२ ||

महामाया त्वं च स्वाहा स्वधा च पितृदेवता |
या सृष्टिशक्तिरस्माकं स्थितिशक्तिश्च या हरेः || २३ ||

अन्तशक्तिस्तथेशानी सा त्वं शक्तिः सनातनि || २४ ||

एका त्वं द्विविधा भूत्वा मोक्षसंसारकारिणी |
विद्याविद्यास्वरूपेण स्वप्रकाशाप्रकाशतः || २५ ||

त्वं लक्ष्मीः सर्वभूतानां त्वं छाया त्वं सरस्वती |
त्रयीमयी त्रिमात्रा त्वं सर्वभूतस्वरूपिणी || २६ ||

उद्गीतिः सामवेदस्य या पितृगणरञ्जनी |
त्वं वेदिः सर्वयज्ञानां सामिधेनी तथा हविः || २७ ||

यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः |
रूपं तथैव तन्मात्रं सकलं च जगन्मयम् || २८ ||

या मूर्त्तिर्वि रता सर्वधरित्रो बिभ्रती क्षितिम् |
सा त्वं विश्वम्भरे लोके शक्तिभूतिप्रदा सदा || २९ ||

त्वं तक्ष्मीश्चेतना कान्तिस्त्वं पुष्टिस्त्वं सनातनी |
त्वं कालरात्रिस्त्वं मुक्तिः शान्तिः प्रज्ञा तथा स्मृतिः || ३० ||

संसारसागरोत्तारतरणि सुखमोक्षदे |
प्रसीद सर्वजगतां त्वं गतिस्त्वं मतिः सदा || ३१ ||

त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी |
त्वं सन्धिनी सर्वयोगसाङ्गोपाङ्गविभाविनी || ३२ ||

चिन्ता कीर्तिर्यतीनां त्वं त्वं तदष्टाङ्गसंयुता |
त्वं खड्गिनी शूलिनी च चक्रिणी घोररूपिणी || ३३ ||

त्वमीश्वरी जनानां त्वं सर्वानुग्रहकारिणी |
विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा |
अनन्ता सर्वजगतस्त्वमेवैकान्तकारिणी || ३४ ||

नितान्तनिर्मला त्वं हि तामसीति च गीयसे |
तं हिंसा त्वमहिंसा च त्वं काली चतुरानना || ३५ ||

त्वं परा सर्वजननी दमनी दामिनी तथा |
त्वययेव लीयते विश्वं भाति तत्त्वं तद्बिभर्त्ति च || ३६ ||

त्वं सृष्टिहीना त्वं सृष्टिस्त्वमकर्णापि सश्रुतिः |
तपस्विनी पाणिपादहीना त्वं नितरां ग्रहा || ३७ ||

त्वं द्वौस्त्वमापस्त्वं ज्योतिर्वायुस्त्वं च नभो मनः |
अहंकारोऽपि जगतामष्टधा प्रकृतिः कृतिः || ३८ ||

जगन्नाभिर्मेरुरूपधारिणी नालिकापरा |
परापरात्मिका शुद्धा माया मोहातिकारिणी || ३९ ||

कारणं कार्यभूतञ्च सत्यं शान्तं शिवाशिवे |
रूपाणि तव विश्वार्थे रागवृक्षफलानि च || ४० ||

नितान्तह्रस्वा दीर्घा च नितान्ताणुबृहत्तनुः |
सूक्ष्माप्यखिललोकस्य व्यापिनी त्वं जगन्मयी || ४१ ||

मानहीना विमानातिविमानोन्मानसम्भवा |
यदष्टिव्यष्टिसम्भोगरागादिगलिताशया |
तत्ते महिम्नि तद्रूपं तव भ्रान्त्यादिकं च यत् || ४२ ||

इष्टानिष्टविपाकज्ञा यथेष्टानिष्टकारणम् |
सर्गादिमध्यान्तमयं निम्नं रूपं तथैव च || ४३ ||

विचाराष्टाङ्गयोगेन सम्पाद्यैवं मुहुर्मुहुः |
यत् स्थिरीक्रियते तत्त्वं तत्ते रूपं सनातनम् || ४४ ||

बाह्याबाह्ये सुखं दुःखं ज्ञानाज्ञाने लयालयौ |
उपतापस्तथा शान्तिर्भूतिस्त्वं जगतः पतेः || ४५ ||

यस्याः प्रभावं नो वक्तुं शक्नोति भुवनत्रये |
तयैव सन्मोहकरी सा त्वं किं स्तूयसे मया || ४६ ||

योगनिद्रा महानिद्रा मोहनिद्रा जगन्मयी |
विष्णुमाया च प्रकृतिः कस्त्वां स्तुत्या विभावयेत् || ४७ ||

मम विष्णोः शंकरस्य या वपुर्वहनात्मिका |
तस्याः प्रभावं को वक्तुं गुणान् वेत्तुं च कः क्षमः || ४८ ||

प्रकाशकरणज्योतिःस्वरूपान्तरगोचरा |
त्वमेव जङ्गमस्थेयरूपैका बाह्यगोचरा || ४९ ||

प्रसीद सर्वजगतां जननी स्त्रीस्वरूपिणी |
विश्वरूपिणी विश्वेशे प्रसीद त्वं सनातनि || ५० ||

मार्कण्डेय उवाच

एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना |
आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः || ५१ ||

स्निग्धाञ्जनद्युतिश्चारुरूपात्तुङ्गा चतुर्भुजा |
सिंहस्था खड्गनीलाब्जहस्ता मुक्तकचोत्करा || ५२ ||

समक्षमथ तां वीक्ष्य स्रष्टा सर्वजगद्गुरुः |
भक्त्या विनम्रतुङ्गांसस्तुष्टाव च ननाम च || ५३ ||

ब्रह्मोवाच

नमो नमस्ते जगतः प्रवृत्तिनिवृत्तिरूपे स्थितिसर्गरूपे |
चराचराणां भवती च शक्तिः सनातनी सर्वविमोहनीति || ५४ ||

यः श्रीः सदा केशवमूर्तिमाया विश्वम्भरा या सकलं बिभर्ति |
ह्रीर्योगिनी या महिता मनोज्ञा सा त्वं नमस्ते परमात्मसारे || ५५ ||

यामादिपूर्वे हृदि योगिनो यां विभावयन्ति प्रमितिप्रतीताम् |
प्रकाशशुद्धादियुतां विराणां सा त्वं हि विद्या विविधावलम्बा || ५६ ||

कूटस्थमव्यक्तमचिन्त्यरूपं त्वं बिभ्रती कालमयं जगन्ति |
विकारबीजं प्रकरोषि नित्यं प्रत्नानि न्यूतान्यथ मध्यमानि || ५७ ||

सत्त्वं रजोऽथो तम इत्यमीषां विकारहीना समवस्थितिर्या |
सा त्वं गुणानां जगदेकहेतुर्बाह्यान्तरालं भवतीव याति || ५८ ||

अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि |
जगद्धिताय जगतां विष्णुमाये नमोऽस्तुते || ५९ ||

इत्याकर्ण्य वचस्तस्य काली लोकविमोहिनी |
ब्रह्माणमूचे जगतां स्रष्टारं घनशब्दवत् || ६० ||

देव्युवाच

ब्रह्मन् किमर्थं भवता स्तुताहमवधारय |
उच्यतां यदधृष्त्योऽस्ति तच्छ्रीघ्रं पुरतो मम || ६१ ||

प्रत्यक्षं मयि जातायां सिद्धिः कार्यस्य निश्चिता |
तस्मात्ते वाञ्छितं ब्रूहि यत् करिष्यामि भाविता || ६२ ||

ब्रह्मोवाच

एकश्चरति भूतेशो न द्वितीयां समीहते |
तं मोहय यथा दारान् स्वयं स च जिघृक्षति || ६३ ||

त्वदृते तस्य नो काचिद् भविष्यति मनोहरा |
तस्मात्त्वमेकरूपेण भवस्य भव मोहनी || ६४ ||

यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् |
आमोदयसि विश्वस्य हितायैतं तथा कुरु || ६५ ||

कान्ताभिलाषमात्रं मे निनिन्द वृषभध्वजः |
कथं पुनः स वनितां स्वेच्छया संग्रहीष्यति || ६६ ||

हरेऽगृहीतकान्ते तु कथं सृष्टिः प्रवर्तते |
आद्यन्तमध्यहेतौ च तस्मिञ्छम्भौ विरागिणि || ६७ ||

इति चिन्तापरो नाहं त्वदन्यं शरणन्त्विह |
लब्धवांस्तेन विश्वस्य हितायैतत् कुरुष्व मे || ६८ ||

न विष्णुरस्य मोहाय न लक्ष्मीर्न मनोभवः |
न चाप्यहं जगन्मातस्तस्मात् त्वं मोहयेश्वरम् || ६९ ||

कीर्तिस्त्वं सर्वभूतानां यथा त्वं ह्रीर्यतात्मनाम् |
यथा विष्णोः प्रियैका त्वं तथा सम्मोहयेश्वरम् || ७० ||

मार्कण्डेय उवाच

अथ ब्रह्माणमाभाष्य काली योगमयी पुनः |
यदुवाच महाभागास्तच्छृण्वन्तु द्विजोत्तमाः || ७१ ||

इति श्रीकालिकापुराणे कालीस्तुतौ पञ्चमोऽयायः |

Kapitel 6

षष्ठोऽध्यायः

देव्युवाच

यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् |
मदृते मोहयित्रीह शंकरस्य न विद्यते || १ ||

हरेऽगृहीतदारे तु सृष्टिर्नैषा सनातनी |
भविष्यतीति तत् सत्यं भवता प्रतिपादितम् || २ ||

मयापि च महान् यत्नो विद्यतेऽस्य जगत्पतेः |
त्वद्वाक्याद् द्विगुणो मेऽद्य प्रयत्नोऽभूत् सुनिर्भरः || ३ ||

अहं तथा यतिष्यामि यथा दारपरिग्रहम् |
हरः करिष्यत्यवशः स्वयमेव विमोहितः || ४ ||

चार्वी मूर्तिमहं धृत्वा तस्यैव वशवर्तिनी |
भविष्यामि महाभाग यथा विष्णोर्हरिप्रिया || ५ ||

यथा सोऽपि ममैवेह वशवर्ती सदा भवेत् |
तथा चाहं करिष्यामि यथेतरजनं हरम् || ६ ||

प्रतिसर्गादि मध्यं तमहं शम्भुं निराकुलम् |
स्त्रीरूपेणानुयास्यामि विशेषेणान्यतो विधे || ७ ||

उत्पन्ना दक्षजायायां चारुरूपेण शंकरम् |
अहं सभाजयिष्यामि प्रतिसर्गं पितामह || १२ ||

मार्कण्डेय उवाच

इति तस्मै समाभाष्य ब्रह्मणे द्विजसत्तमाः |
वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तर्दधे ततः || १३ ||

तस्यामन्तर्हितायान्नु धाता लोकपितामहः |
जगाम तत्र भगवान् स्थितो यत्र मनोभवः || १४ ||

मुदितोऽत्यर्थमभवन्महामायावचः स्मरन् |
कृतकृत्यं तदात्मानं मेने च मुनिपुङ्गवाः || १५ ||

अथ दृष्ट्वा महात्मानं विरञ्चि मदनस्तथा |
गच्छन्तं हंसयानेन चाभ्युत्तस्थौ त्वरान्वितः || १६ ||

आसन्नं तमथासाद्य हर्षोत्फुल्लविलोचनः |
ववन्दे सर्वलोकेशं मोदयुक्तं मनोभवः || १७ ||

अथाह भगवान् धाता प्रीत्या मधुरगद्गदम् |
मदनं मोदयन् सूक्तं यद् देव्या विष्णुमायया || १८ ||

ब्रह्मोवाच

यदाह वत्स शर्वस्य मोहने त्वं पुरा वचः |
अनुमोहनकर्त्री या तां सृजेति मनोभव || १९ ||

तदर्थं संस्तुता देवी योगनिद्रा जगन्मयी |
एकतानेन मनसा मया मन्दरकन्दरे || २० ||

स्वयमेव तया वत्स प्रत्यक्षीभूतया मम |
तुष्टयाङ्गीकृतं शम्भुर्मोहनीयो मयेति वै || २१ ||

तया च दक्षभवने स समुत्पन्नया हरः |
मोहनीयस्तु न चिरादिति सत्यं मनोभव || २२ ||

मदन उवाच

ब्रह्मन् का योगनिद्रेति विख्याता या जगन्मयी |
कथं तस्या हरो वश्यः कार्यस्तपसि सम्स्थितः || २३ ||

किम्प्रभावाथ सा देवी का वा सा कुत्र संस्थिता |
तदहं श्रोतुमिच्छामि त्वत्तो लोकपितामह || २४ ||

यस्य त्यक्तसमाधेस्तु न क्षणं दृष्टिगोचरे |
शक्नुमोऽपि वयं स्थातुं तं कस्मात् सा विमोहयेत् || २५ ||

ज्वलदग्निप्रकाशाक्षं जटाराजिकरालितम् |
शूलिनं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः || २६ ||

तस्य तादृक्स्वरूपस्य सम्यङ्मोहनवाञ्छया |
मयाभ्युपेतं तां श्रुतु महमिच्छामि तत्त्वतः || २७ ||

मार्कण्डेय उवाच

मनोभवस्य वचनं श्रुत्वाथ चतुराननः |
विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारणम् || २८ ||

शर्वस्य मोहने ब्रह्मा चिन्ताविष्टो भवन्नहि |
समर्थो मोहयितुमिति निःश्वास मुहुर्मुहुः || २९ ||

निःश्वासमारुतात्तस्य नानारूपा महाबलाः |
जाता गणा लोलजिह्वा लोलाश्चाति भयंकराः || ३० ||

तुरंगवदनाः केचित् केचिद् गजमुखास्तथा |
सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः || ३१ ||

ऋक्षमार्जारदवदनाः शरभास्याः शुकाननाः |
प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे || ३२ ||

गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे |
महादीर्घा महाह्रस्वा महास्थूला महाकृशाः || ३३ ||

पिङ्गाक्षा विरालाक्षाश्च त्र्यक्षैकाक्षा महोदराः |
एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथा परे || ३४ ||

स्थूलकर्णा महाकर्णा बहुकर्णा विकर्णकाः |
दीर्घाक्षाः स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः || ३५ ||

चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा |
ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः || ३६ ||

एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा |
विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे || ३७ ||

मनुष्याकृतयः केचिच्छुशुमारमुखास्तथा |
क्रौञ्चाकारा वकाकारा हंससारसरूपिणः |
तथैव मद्गुकुररकङ्ककाकमुखास्तथा || ३८ ||

अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा |
नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः || ६९ ||

अवादयन्त ते शङ्खान् पटहान् परिवादिनः |
मृदङ्गान् डिडिमांश्चैव गोमुखान् पणवांस्तथा || ४० ||

शर्वस्य मोहने ब्रह्मा चिन्ताविष्टो भवन्नहि |
समर्थो मोहयितुमिति निःश्वास मुहुर्मुहुः || २९ ||

निःश्वासमारुतात्तस्य नानारूपा महाबलाः |
जाता गणा लोलजिह्वा लोलाश्चाति भयंकराः || ३० ||

तुरंगवदनाः केचित् केचिद् गजमुखास्तथा |
सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः || ३१ ||

ऋक्षमार्जारदवदनाः शरभास्याः शुकाननाः |
प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे || ३२ ||

गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे |
महादीर्घा महाह्रस्वा महास्थूला महाकृशाः || ३३ ||

पिङ्गाक्षा विरालाक्षाश्च त्र्यक्षैकाक्षा महोदराः |
एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथा परे || ३४ ||

स्थूलकर्णा महाकर्णा बहुकर्णा विकर्णकाः |
दीर्घाक्षाः स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः || ३५ ||

चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा |
ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः || ३६ ||

एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा |
विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे || ३७ ||

मनुष्याकृतयः केचिच्छुशुमारमुखास्तथा |
क्रौञ्चाकारा बकाकारा हंससारसरूपिणः |
तथैव मद्गुकुररकङ्ककाकमुखास्तथा || ३८ ||

अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा |
नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः || ६९ ||

अवादयन्त ते शङ्खान् पटहान् परिवादिनः |
मृदङ्गान् डिडिमांश्चैव गोमुखान् पणवांस्तथा || ४० ||

सर्वे जटाभिः पिङ्गाभिस्तुङ्गाभिश्च करालिताः |
निरन्तराभिर्विप्रेन्द्रा गणाः स्यन्दनगामिनः || ४१ ||

शूलहस्ताः पाशहस्ताः खड्गहस्ता धनुर्धराः |
शक्त्यङ्कु शगदावाण-पट्टिशप्रासपाणयः || ४२ ||

नानायुधा महानादं कुर्वन्तस्ते महाबलाः |
मारय च्छेदयेत्यूचुर्ब्रह्मणः पुरतो गताः || ४३ ||

तेषान्तु वदतां यत्र मारय छेदयेत्युत |
योगनिन्द्रा प्रभावात् स विधिर्वक्तुं प्रचक्रमे || ४४ ||

अथ ब्रह्माणमाभाष्य तान् दृष्ट्वा मदनो गणान् |
उवाच वारयन् वक्तुं गणानामग्रतः स्मरः || ४५ ||

मदन उवाच

किं कर्म ते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे |
किन्नामधेया एते वा तत्रैतान् विनियोजय || ४६ ||

नियोज्यैतान्निजे कृत्ये स्थानं दत्त्वा नाम च |
कृत्वा पश्चात्महामायाप्रभावं कथयस्व मे || ४७ ||

मार्कण्डेय उवाच

अथ तद्वाक्यमाकर्ण्य सर्वलोकपितामहः |
गणान् समदनानाह तेषां कर्मादिकं दिशन् || ४८ ||

ब्रह्मोवाच

एत उत्पन्नमात्रा हि मारयेत्यवदंस्तराम् |
मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् || ४९ ||

मारात्मकत्वादप्येते माराः सन्तु च नामतः |
सदा विघ्नं करिष्यन्ति जन्तूनाञ्च विनार्चनम् || ५० ||

तवानुगमनं कर्म मुख्यमेषां मनोभव |
यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा |
गन्तारस्तत्र तत्रैते साहाययाय तदा तदा || ५१ ||

चित्तोद्भ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् |
ज्ञानिनां ज्ञानमार्गञ विघ्नयिष्यन्ति सर्वदा || ५२ ||

यथा सांसारिकं कर्म सर्वे कुर्वन्ति जन्तवः |
तथा चैते करिष्यन्ति सविघ्नमपि सर्वतः || ५३ ||

इमे स्थास्यन्ति सर्वत्र वेगिनः कामरूपिणः |
त्वमेवैषां गणाध्यक्षः पञ्चयज्ञांशभोगिनः |
नित्यक्रियावतां तोयभोगिनो वै भवन्त्विति || ५४ ||

मार्कण्डेय उवाच

इति श्रुत्वा तु ते सर्वे मदनं सविधिं ततः |
परिवार्य यथाकामं तस्थुः श्रुत्वा निजां गतिम् || ५५ ||

तेषां वर्णयितुं शक्यो भुवि किं मुनिसत्तमाः |
माहात्म्यञ्च प्रभावञ्च ते तपःशालिनो यतः || ५६ ||

नैषां जाया न तनया निःसमीहाः सदैव हि |
न्यासिनोऽपि महात्मानः सर्वे त ऊर्ध्वरेतसः || ५७ ||

ततो ब्रह्मा प्रसन्नः स माहात्म्यं मदनाय च |
गदितुं योगनिन्द्रायाः सम्यक् समुपचक्रमे || ५८ ||

ब्रह्मोवाच

अव्यक्तव्यक्तरूपेण रजःसत्त्वतमोगुणैः |
संविभज्यार्थं कुरुते विष्णुमायेति सोच्यते || ५९ ||

या निम्नान्तस्थलाम्भस्था जगदण्डकपालतः |
विभज्य पुरुषं याति योगनिद्रेति सोच्यते || ६० ||

मन्त्रान्तर्भावनपरा परमानन्दरूपिणी |
योगिनां सत्त्वविद्यान्तः सा निगद्या जगन्मयी || ६१ ||

गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः |
उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् || ६२ ||

पूर्वातिपूर्वं सन्धातुं संस्कारेण नियोज्य च |
आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् || ६३ ||

क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः पुनः |
पश्चात् कामे नियोज्याशु चिन्तायुक्तमहर्निशम् || ६४ ||

आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या |
महामायेति सा प्रोक्ता तेन सा जगदीश्वरी || ६५ ||

अहंकारादिसंसक्तसृष्टिप्रभवभाविनी |
उत्पत्तिरितिलोकैः सा कथ्यतेऽनन्तरूपिणी || ६६ ||

उत्पन्नमङ्करं बीजाद् यथापो मेघसम्भवाः |
प्ररोहयति सा जन्तूंस्तथोत्पन्नान् प्ररोहयेत् || ६७ ||

सा शक्तिः सृष्टिरूपा च सर्वेषां ख्यातिरीश्वरी |
क्षमा क्षमावतां नित्यं करुणा सा दयावताम् || ६८ ||

नित्या सा नित्यरूपेण जगद्गर्भे प्रकाशते |
ज्योतिःस्वरूपेण परा व्यक्ताव्यक्तप्रकाशिनी || ६९ ||

सा योगिनां मुक्तिहेतुर्विद्यारूपेण वैष्णवी |
सांसारिकाणां संसारबन्धहेतुविपर्यया || ७० ||

लक्ष्मीरूपेण कृष्णस्य द्वितीया सुमनोहरा |
त्रयीरूपेण कण्ठस्था सदा मम मनोभव || ७१ ||

सर्वत्रस्था सर्वगा दिव्यमूर्तिर्नित्या देवी सर्वरूपा पराख्या |
कृष्णादीनां सर्वदा मोहयित्री सा स्त्रीरूपेः सर्वजन्तोः समन्तात् || ७२ ||

इति श्रीकालिकापुराणे योगनिद्रास्तुतौ षष्ठोऽध्यायः ||


Kapitel 7

सप्तमोऽध्यायः

मार्कण्डेय उवाच

अथ ब्रह्मा महामायास्वरूपं प्रतिपाद्य च |
मदनाय पुनः प्राह युक्तासौ हरमोहने || १ ||

ब्रह्मोवाच

विष्णुमाया महादेवो यथा दारपरिग्रहम् |
करिष्यति तथा कर्तुमङ्गीकारं पुराकरोत् || २ ||

साऽवश्यं दक्षतनया भूत्वा शम्भोर्महात्मनः |
भविष्यति द्वितीयेति स्वयमेवावदत् स्मर || ३ ||

त्वमेभिः स्वगणैः सार्धं रत्या च मधुना सह |
यथेच्छति तथा दारान् ग्रहीतुं कुरु शंकरः || ४ ||

शम्भौ गृहीतदारे तु कृतकृत्या वयं स्मर |
अविच्छिन्ना सृष्टिरियं भविष्यति न संशयः || ५ ||

मार्कण्डेय उवाच

तथाब्रवीद् द्विजश्रेष्ठा लोकेशाय मनोभवः |
मधुरं यत् कृतं तेन महादेवस्य मोहने || ६ ||

मदन उवाच

शृणु ब्रह्मन् यथास्माभिः क्रियते हरमोहने |
प्रत्यक्षे वा परोक्षे वा तस्य तद्गदतो मम || ७ ||

यदा समाधिमाश्रित्य स्थितः शम्भुर्जितेन्द्रियः |
तदा सुगन्धिवातेन शीतलेन विवेगिना |
तं वीजयामि लोकेश नित्यं मोहनकारिणा || ८ ||

स्वसायकांस्तथा पञ्च समादाय शरासनम् |
भ्रमामि तस्य सविधे मोहयंस्तद्गणानहम् || ९ ||

सिद्धद्वन्द्वानहं तत्र रमयामि दिवानिशम् |
भावा हावाश्च ते सर्वे प्रविशन्ति च तेषु वै || १० ||

यदि प्रविष्टे सविधे शम्भोः प्राणी पितामह |
को वा न कुरुते द्वन्द्वभावं तत्र मुहुर्मुहुः || ११ ||

मम प्रवेशमात्रेण तथा स्युः सर्वजन्तवः |
न शम्भुर्न वृषस्तस्य मानसीं विक्रियां गतौ || १२ ||

यदाहि भवतः प्रस्थं स याति प्रमथाधिपः |
तत्र गन्ता तदैवाहं सरितः समधुर्विधे || १३ ||

यदा मेरुं प्रयात्येष यदा वा नाटकेश्वरम् |
कैलासं वा यदा याति तत्र गच्छाम्यहं तदा || १४ ||

यदा त्यक्त समाधिस्तु हरस्तिष्ठति वै क्षणम् |
ततस्तस्य पुरश्चक्रमिथुनं योजयाम्यहम् || १५ ||

तच्चक्रयुगलं ब्रह्मन् हावभावयुतं मुहुः |
नानाभावेन कुरुते दाम्पत्यक्रममुत्तमम् || १६ ||

नीलकण्ठानपि मुहुः सजायानपि तत्पुरः |
सम्मोहयामि सविधे मृगानन्यांश्च पक्षिणः || १७ ||

विचित्रभावमासाद्य यदा प्रकुरुते रतिम् |
मयूरमिथुनं वीक्ष्य तत्तदा को न चोत्सुकः || १८ ||

मृगाश्च तत्पुरस्थाश्च स्वजायाभिस्तु सोत्सुकाः |
अकुर्वन् रुचिरं भावं तस्य पार्श्वे पुरस्तदा || १९ ||

अपश्यन् विवरं नास्य कदाचिदपि मच्छरः |
निपात्यः स यदा देहे यन्मया सर्वलोकधृत् || २० ||

बहुधा निश्चितं ज्ञातं रामासंगादृते हरम् |
अलं च सम्मोहयितुं ससहायोऽपि निष्कलम् || २१ ||

मधुश्च कुरुते कर्म यद्यत्तस्य विमोहने |
तच्छृणुष्व महाभाग नित्यं तस्योचितं पुनः || २२ ||

चम्पकान् केशरानाम्रान् करुणान् पाटलांस्तथा |
नागकेशरपुन्नागान् किंशुकान् केतकान् धवान् || २३ ||

माधवीर्मल्लिकाः पर्णधारान् कुरुवकांस्तथा |
उत्फुल्लयति तत्तस्य यत्र तिष्ठति वै हरः || २४ ||

सरांस्युत्फुल्लपद्मानि बीजयन् मलयानिलैः |
सुगन्धीकृतवान् यत्नादतीव शंकराश्रमम् || २५ ||

लताः सर्वाः सुमनसः फुल्लपादपसंचयान् |
वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र वै || २६ ||

तान् वृक्षांश्चारुपुष्पौघांस्तैः सुगन्धिसमीरणैः |
दृष्ट्वा कामवशं यातो न तत्र मुनिरप्युत || २७ ||

तद्गणा अपि लोकेश नानाभावैः सुशोभनैः |
वसन्ति स्म सुराः सिद्धा ये ये चातितपोधनाः || २८ ||

न तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् |
भावमात्रं न कुरुते कामोत्थमपि शंकरः || २९ ||

इति सर्वमहं दृष्ट्वा ज्ञात्वा च हरभावनाम् |
विमुखोऽहं शम्भुमोहान्नियतं मायया बिना || ३० ||

इदानीं त्वद्वचः श्रुत्वा योगनिद्रोदितं पुनः |
तस्याः प्रभावं श्रुत्वाथ गणान् दृष्ट्वा सहायकान् || ३१ ||

मया शम्भोर्विमोहाय क्रियते मुहुरुद्यमः |
भवानपि त्रिलोकेश योगनिद्रा द्रुतं पुनः |
भवेद् यथा शम्भुजाया तथैव विदधात्वियम् || ३२ ||

यमानां नियमानाञ्च प्राणायामस्य नित्यशः |
आसनस्य महेशस्य प्रत्याहारस्य गोचरे || ३३ ||

ध्यानस्य धारणायाश्च समाधेर्विघ्नसम्भवम् |
मन्ये कर्तुं न शक्यं स्यादपि मारशतैरपि || ३४ ||

तथाप्ययं मारगणः करोतु हरस्य योगाङ्गविकारविघ्नम् |
यदेव शक्यं किमु वा समर्थः समक्षमन्यस्य न कर्तु भोजः || ३५ ||

इति श्रीकालिकापुराणे वदनवाक्ये सप्ततोऽध्यायः || ७ ||

Kapitel 8

अष्टमोऽध्यायः

मार्कण्ण्देय उवाच

ततो ब्रह्मापि मदनमुवाचेदं वचः पुनः |
निश्चित्य योगनिद्रायाः स्मृत्वा वाक्यं तपोधनाः || १ ||

ब्रह्मोवाच

अवश्यं शम्भुपत्नी सा योगनिद्रा भविष्यति |
यथाशक्ति भवांस्तत्र करोत्वस्याः सहायताम् || २ ||

गच्छ त्वं स्वगणैः सार्द्धं यत्र तिष्ठति शंकरः |
द्रुतं मनोभव त्वं च तत् स्थानं मधुना सह || ६ ||

रात्रिन्दिवस्य तुर्यांशं जगन्मोहय नित्यशः |
भागत्रयं शम्भुपार्श्वे तिष्ठ सार्द्धं गणैः सदा || ४ ||

मार्कण्डेय उवाच

इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत |
शम्भोः सकाशं मदनो गतवान् सगणस्तदा || ५ ||

एतस्मिन्नन्तरे दक्षश्चिरं कालं तपोरतः |
नियमैर्बहुभिर्देवीमाराधयत सुव्रतः || ६ ||

ततो नियमयुक्तस्य दक्षस्य मुनिसत्तमः |
योगनिद्रां पूजयतः प्रत्यक्षमभवच्छिवा || ७ ||

ततः प्रत्यक्षतो दृष्ट्वा विष्णुमायां जगन्मयीम् |
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः || ८ ||

सिंहस्थां कालिकां कृष्णां पीनोत्तुङ्गपयोधराम् |
चतुर्भुजां चारुवक्त्रां नीलोत्पलधरां शुभाम् || ९ ||

वरदाभयदां खड्गहस्तां सर्वगुणान्विताम् |
आरक्तनयनां चारुमुक्तकेशी मनोहराम् || १० ||

दृष्ट्वा दक्षोऽथ तुष्टाव महामायां प्रजापतिः |
प्रीत्या परमया युक्तो विनयानतकन्धरः || ११ ||

दक्ष उवाच

आनन्दरूपिणीं देवीं जगदानन्दकारिणीम् |
सृष्टिस्थित्यन्तरूपां तां स्तौमि लक्ष्मीं हरेः शुभाम् || १२ ||

सत्त्वोद्रेकप्रकाशेन यज्ज्योतिस्तत्त्वमुत्तमम् |
स्वप्रकाशं जगद्धाम तत्तवांशं महेश्वरि || १३ ||

रजोगुणातिरेकेण यत् कामस्य प्रकाशनम् |
रागस्वरूपं मध्यस्थं तत्तेंऽशांशं जगन्मयि || १४ ||

तमोगुणातिरेकेण यद्यन्मोहप्रकाशनम् |
आच्छादनं चेतनानां तत्ते चांशांशगोचरम् || १५ ||

परा परात्मिका शुद्धा निर्मला लोकमोहिनी |
त्वं त्रिरूपा त्रयी कीर्तिर्वार्त्तास्य जगतो गतिः || १६ ||

बिभर्ति माधवो धात्रीं यथा मूर्त्त्या निजोत्थया |
सा मूर्त्तिस्तव सर्वेषां जगतामुपकारिणी || १७ ||

महानुभावा त्वं विश्वशक्तिः सूक्ष्मापराजिता |
यदूर्ध्वाधोनिरोधेन व्यज्यते पवनैः परम् || १८ ||

तज्ज्योतिस्तव मात्रार्थे सात्त्विकं भावसम्मतम् |
यद्योगिनो निरालम्बं निष्फलं निर्मलं परम् || १९ ||

आलम्बयन्ति तत्तत्त्वं त्वदन्तर्गोचरन्तु तत् |
या प्रसिद्धा च कूटस्था सुप्रसिद्धातिनिर्मला || २० ||

सा ज्ञप्तिस्त्वन्निष्प्रपञ्चा प्रपञ्चापि प्रकाशिका |
त्वं विद्या त्वमविद्या च त्वमालम्बा निराश्रया |
प्रपञ्चरूपा जगतामादिशक्तिस्त्वमीश्वरी || २१ ||

ब्रह्मकण्ठालया शुद्धा वाग्वाणी या प्रगीयते |
वेदप्रकाशनपरा सा त्वं विश्वप्रकाशिनी || २२ ||

त्वमग्निस्त्वं तथा स्वाहा त्वं स्वधा पितृभिः सह |
त्वं नभस्त्वं कालरूपा त्वं काष्ठा त्वं बहिःस्थिता || २६ ||

त्वमचिन्त्या त्वमव्यक्ता तथानिर्देश्यरूपिणी |
त्वं कालरात्रिस्त्वं शान्ता त्वमेव प्रकृतिः परा || २४ ||

यस्याः संसारलोकानां परित्राणाय यद्बहिः |
रूपं जानन्ति धात्राद्यास्तत्त्वां ज्ञास्यन्ति के पराम् || २५ ||

प्रसीद भगवत्यम्ब प्रसीद योगरूपिणि |
प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते || २६ ||

मार्कण्डेय उवाच

इति स्तुता महामाया दक्षेण प्रयतात्मना |
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं द्विजाः || २७ ||

भगवत्युवाच

तुष्टाहं दक्ष भवतो मद्भक्त्या ह्यनया भृशम् |
वरं वृणीष्व चाभीष्टं तत्ते दास्यामि तत स्वयम् || २८ ||

नियमेन तपोभिश्च स्तुतिभिस्ते प्रजापते |
अतीव तुष्टा दास्येऽहं वरं वरय वाञ्छितम् || २९||

दक्ष उवाच

जगन्मयि महामाये यदि त्वं वरदा मम |
तदा मम सुता भूत्वा हरजाया भवाधुना || ३० ||

ममैष न वरो देवि केवलं जगतामपि |
लोकेशस्य तथा विष्णोः शिवस्यापि प्रजेश्वरि || ३१ ||

देव्युवाच

अहं तव सुता भूत्वा त्वज्जायायां समुद्भवा |
हरजाया भविष्यामि न चिरात्तु प्रजापते || ३२ ||

यदा भवान्मयि पुनर्भवेन्मन्दादरस्तदा |
देहं त्यक्ष्यामि सपदि सुखिन्यप्यथ वेतरा || ३३ ||

एष दत्तस्तव वरः प्रतिसर्ग प्रजापते |
अहं तव सुता भूत्वा भविष्यामि हरप्रिया || ३४ ||

तथा सम्मोहयिष्यामि महादेवं प्रजापते |
प्रतिसर्गं यथा मोहं सम्प्राप्स्यति निराकुलम् || ३५ ||

मार्कण्डेय उवाच

एवमुक्त्वा महामाया दक्षं मुख्यं प्रजापतिम् |
अन्तर्दधे ततो देवी सम्यग् दक्षस्य पश्यतः || ३६ ||

अन्तर्हितायां मायायां दक्षोऽपि निजमाश्रमम् |
जगाम लेभे च मुदं भविष्यति सुतेति सा || ३७ ||

अथ चक्रे प्रजोत्पादं विना स्त्रीसंगमेन च |
संकल्पाविर्भवाभ्यान्तु मनसा चिन्तनेन च || ३८ ||

तत्र ये तनया जाता बहुशो द्विजसत्तमाः |
ते नारदोपदेशेन भ्रमन्ति पृथिवीमिमाम् || ३९ ||

पुनः पुनः सुता ये ये तस्य जाता सहस्रशः |
ते सर्वे भ्रातृपदवीं ययुर्नारदवाक्यतः || ४० ||

पृथिव्यां सृष्टिकर्तारः सर्वे यूयं द्विजोत्तमाः |
पश्यध्वं पृथिवीं कृत्स्नामुपान्तप्रान्तमायताम् || ४१ ||

इति नारदवाक्येन नोदिता दक्षपुत्रकाः |
अद्यापि न निवर्तन्ते भ्रमन्तः पृथिवीमिमाम् || ४२ ||

ततः समुत्पादयितुं प्रजाः मैथुनसम्भवाः |
उपयेमे वीरणस्य तनयां दक्ष ईप्सिताम् || ४३ ||

वीरिणी नाम तस्यास्तु असक्नीत्यपि सत्तमाः |
तस्यां प्रथमसंकल्पो यदा भूतः प्रजापते || ४४ ||

सद्योजाता महामाया तदा तस्यां द्विजोत्तमाः |
तस्यां तु जातमात्रायां सुप्रीतोऽभूत् प्रजापतिः |
सैवैषेति तदा मेने तां दृष्ट्वा तेजसोज्ज्वलाम् || ४५ ||

बभूव पुष्पवृष्टिश्च मेघाश्च ववृषुर्जलम् |
दिशः शान्तास्तदा तस्यां जातायाञ्च समुद्गताः || ४६ ||

अवादयन्तस्त्रिदशाः शुभवाद्यं वियद्गताः |
जज्वलुश्चाग्नयः शान्तास्तस्यां सत्यां नरोत्तमाः || ४७ ||

वीरिण्या लक्षितो दक्षस्तां दृष्ट्वा जगदीश्वरीम् |
विष्णुमायां महामायां तोषयामास भक्तितः || ४८ ||

दक्ष उवाच

शिवा शान्ता महामाया योगनिद्रा जगन्मयी |
या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् || ४९ ||

यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् |
स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पतिः || ५० ||

शम्भुरन्तं ततो देवीं त्वां नमाभि महीयसीम् |
विकाररहितां शुद्धामप्रमेयां प्रभावतीम् |
प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् || ५१ ||

यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् |
तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता || ५२ ||

यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् |
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् || ५३ ||

योगनिद्रे महामाये विष्णुमाये जगन्मयि |
या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका || ५४ ||

ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च |
जगन्मयीति मायेति सर्वं तेषां भविष्यति || ५५ ||

मार्कण्डेय उवाच

इति स्तुता जगन्माता दक्षेण सुमहात्मना |
तथोवाच तदा दक्षं यथा माता शृणोति न || ५६ ||

सम्मोह्य सर्वं तत्रस्थं यथा दक्षः शृणोति तत् |
नान्यः शृणोति च तथा माययाह तदाम्बिका || ५७ ||

देव्युवाच

अहमाराधिता पूर्वं यदर्थं मुनिसत्तम |
ईप्सितं तव सिद्धं तदवधारय साम्प्रतम् || ५८ ||

मार्कण्डेय उवाच

एवमुक्त्वा तदा देवी दक्षञ्च निजमयया |
आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा || ५९ ||

ततस्तां वीरिणी यत्नात् सुसंस्कृत्य यथोचितम् |
शिशुपालेन विधिना तस्यै स्तन्यादिकं ददौ || ६० ||

पालिता साथ वीरिण्या दक्षेण सुमहात्मना |
ववृधे शुक्लपक्षस्य निशानाथो यथान्वहम् || ६१ ||

तस्यान्तु सद्गुणाः सर्वे विविशुर्द्विजसत्तमाः |
शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः || ६२ ||

रेमे सा निजभावेन सखीमध्यगता यदा |
तदा लिखति भर्गस्य प्रतिमामन्वहं मुहुः || ६३ ||

यदा गायति गीतानि तदा बाल्योचितानि सा |
उग्रं स्थाणुं हरं रुद्रं सस्मार स्मरमानसा || ६४ ||

तस्याश्चक्रे नाम दक्षः सतीति द्विजसत्तमाः |
प्रशस्तायाः सर्वगुणैः सत्त्वादपि नयादपि || ६५ ||

ववृधे दक्षवीरिण्योः प्रत्यहं करुणातुला |
तस्यां बाल्येऽपि भक्तायां तयोर्नित्यं मुहुर्मुहुः || ६६ ||

सर्वकान्तगुणा क्रान्ता सदा सा नयशालिनी |
तोषयामास पितरौ नित्यं नित्यं नरोत्तमाः || ६७ ||

अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीं विधिः |
नारदश्च ददर्शाथ रत्नभूतां क्षितौ शुभाम् || ६८ ||

सापि तौ वीक्ष्य मुदिता विनयावनता तदा |
प्रणनाम सती देवं ब्रह्माणमथ नारदम् || ६९ ||

प्रणामान्ते सतीं वीक्ष्य विनयावनतां विधिः |
नारदश्च तथैवाशीर्वादमेतमुवाच ह || ७० ||

त्वामेव यः कामयते यं त्वं कामयसे पतिम् |
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् || ७१ ||

यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति |
जायां स ते पतिर्भूयादनन्यसदृशः शुभे || ७२ ||

इत्युक्त्वा सुचिरं तौ तु स्थित्वा दक्षाश्रमे पुनः |
विसृष्टौ तेन संयातौ स्वस्थानं द्विजसत्तमाः || ७३ ||

इति श्रीकालिकापुराणे सत्युत्पत्तौ अष्टमोऽध्यायः

Kapitel 9

नवमोऽध्यायः

मार्कण्डेय उवाच

बाल्यं व्यतीत्य सा प्राप यौवनं शोभनं ततः |
अतीव रूपेणाङ्गेन सर्वाङ्गसुमनोहरा || १ ||

तां वीक्ष्यदक्षो लोकेशः प्रोद्भिन्नान्तर्वयः स्थिताम् |
चिन्तयामास भर्गाय कथं दास्य इमां सुताम् || २ ||

अथ सापि स्वयं भर्ग प्राप्तुमैच्छत्तदान्वहम् |
आराधयामास च तं गृहे मातुरनुज्ञया || ३ ||

आश्विने नन्दकाख्यायां लवणैः सगुडोदनैः |
पूजयित्वा हरं पश्चाद्ववन्दे सा निनाय तत् || ४ ||

कार्त्तिकस्य चतुर्दश्यां सापूपैः पायसैर्हरम् |
समाकीर्णैः समाराध्य सस्मार परमेश्वरम् || ५ ||

कृष्णाष्टम्यां मार्गशीर्षे सतिलैः सयवोदनैः |
पूजयित्वा हरं नीलैर्निनाय दिवसं पुनः || ६ ||

पौषे तु कृष्णसप्तम्यां कृत्वा जागरणं निशि |
अपूजयच्छिवं प्रातः कृसरान्नेन सा सती || ७ ||

माघस्य पौर्णमास्यान्तु कृत्वा जागरणं निशि |
आर्द्रवस्त्रा नदीतीरे ह्यकरोद्धरपूजनम् || ८ ||

नानाविधैः फलैः पुष्पैः सम्यक् तत्कालसम्भवैः |
चकार नियताहारं तं मासं हरमानसा || ९ ||

चतुर्दश्यां कृष्णपक्षे तपस्यस्य विशेषतः |
कृत्वा जागरणं देवं बिल्वपत्रैरपूजयत् || १० ||

चैत्रे शुक्लचतुर्दश्यां पालाशैः कुसुमैः शिवम् |
आपूजयद्दिवारात्रौ तं स्मरन्ती निनाय तम् || ११ ||

वैशाखस्य तृतीयायां शुक्लायां सयवोदनैः |
पूजयित्वा हरं देवं हव्यैर्मासं चरन्त्यनु |
निनाय सा निराहारा स्मरन्ती वृषवाहनम् || १२ ||

ज्येष्ठस्य पूर्णिमारात्रौ सम्पूज्य वृषवाहनम् |
वसनैर्वृहतीपुष्पैर्निराहारा निनाय ताम् || १३ ||

आषाढस्य चतुर्दश्यां शुक्लायां कृत्तिवाससः |
वृहतीकुसुमैः पूजा देवस्याकारि वै तया || १४ ||

श्रावणस्य सिताष्टम्यां चतुर्दश्याञ्च सा शिवम् |
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् || १५ ||

भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः |
संपूज्याथ चतुर्दश्यां चकार जलभोजनम् || १६ ||

इति व्रतं यदारब्धं पुरा सत्या तदैव तु |
सावित्रीसहितो ब्रह्मा जगामाथ हरान्तिकम् || १७ ||

वासुदेवोऽपि भगवान् सह लक्ष्म्या तदन्तिकम् |
प्रस्थं हिमवतः शम्भुः स्थितो यत्र गणैः सह || १८ ||

तौ तु दृष्ट्वा ब्रह्मकृष्णौ सस्त्रीकौ संगतौ हरः |
यथोचितं समाभाष्य पप्रच्छागमनं तयोः || १९ ||

तथाविधांस्तु तान् दृष्ट्वा दाम्पत्यभावसंयुतान् |
काञ्चिदीहाञ्च मनसा चक्रे दारपरिग्रहे || २० ||

अथागमनहेतुं न कथयध्वञ्च तत्त्वतः |
किमर्थमागता यूयं किं कार्यं वोऽत्र विद्यते || २१ ||

इति पृष्टौ त्र्यम्बकेन ब्रह्मा लोकपितामहः |
उवाच च महादेवं विष्णुना परिचोदितः || २२ ||

ब्रह्मोवाच

अयदर्थमागतवावां तच्छृणुस्व त्रिलोचन |
विशेषतश्च देवार्थं विश्वार्थञ्च वृषध्वज || २३ ||

अहं सृष्टिरतः शम्भो स्थितिहेतुस्तथा हरिः |
अन्तहेतुर्भवानस्य जगतः प्रतिसर्गकम् || २४ ||

तत्कर्मणि स दैवाहं भवद्भ्यां सहितो ह्यलम् |
हरिः स्थितावपि तथा मयालं भवता सह |
त्वमन्तकरणे शक्तो विना नावां भविष्यसि || २५ ||

तस्मादन्योन्यकृत्येषु सर्वेषां वृषभध्वज |
साहाययं नः सदा योग्यमन्यथा न जगद्भवेत् || २६ ||

केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर |
अपरे तु हरेर्वध्या भवतोऽपि तथापरे || २७ ||

केचित्तद्वीर्यजातस्य केचिन्मेऽशंभवस्य वै |
मायायाः केचिदपरे वध्याः स्युर्देववैरिणः || २८ ||

योगयुक्ते त्वयि सदा रागद्वेषादिवर्जिते |
दयामात्रैकैरते न वध्या असुरास्तव || २९ ||

अबाधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः |
अन्तश्च भविता युक्तं नित्यं नित्यं वृषध्वज || ३० ||

सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा हर |
शरीरभेदमस्माकं मायायाश्च न युज्यते || ३१ ||

एकस्वरूपा हि वयं भिन्ना कार्यस्य भेदतः |
कार्यभेदो न सिद्धश्चेद्रूपभेदोऽप्रयोजनः || ६२ ||

एक एव त्रिधा भूत्वा वयं भिन्नस्वरूपिणः |
भूता महेश्वर इति तत्त्वं विद्धि सनातनम् || ३३ ||

मायापि भिन्नरूपेण कमलाख्या सरस्वती |
सावित्री चाथ सन्ध्या च भूता कार्यस्य भेदतः || ३४ ||

प्रवृत्तेरनुरागस्य नारी मूलं महेश्वर |
रामापरिग्रहात् पश्चात् कामक्रोधादिकोद्भवः || ३५ ||

अनुरागे तु सञ्जाते कामक्रोधादिकारणे |
विरागहेतुं यत्नेन सान्त्वयन्तीह जन्तवः || ३६ ||

संगः प्रथम एव स्याद्रागवृक्षात् फलं महत् |
तस्मात् संजायते कामः कामात् क्रोधस्ततो भवेत् || ३७ ||

वैराग्यञ्च निवृत्तिश्च शोकात् स्वाभाविकादपि |
संसारविमुखे हेतुरसंगश्च सदातनः || ३८ ||

दया तत्र भवेन्नित्यं शान्तिश्चापि महेश्वर |
अहिंसा च तपःशान्तिर्ज्ञानमार्गानुसाधनम् || ३९ ||

त्वयि तावत्तपोनिष्ठे विसङ्गिनि दयायुते |
अहिंसा च तथा शान्तिः सदा तव भविष्यति || ४० ||

ततो सुखविधौ यत्नस्तव कस्माद्भविष्यति |
अकृते दूषणं यद्यत्तत् सर्वं कथितं तव || ४१ ||

तस्माद्विश्वहिताय त्वं देवानाञ्च जगत्पते |
परिगृह्णीष्व भार्यार्थे वामामेकां सुशोभनाम् || ४२ ||

यथा पद्मालया विष्णोः सावित्री च यथा मम |
तथा सहचरी शम्भोर्या स्यात्त्वं गृह्ण सम्प्रति || ४३ ||

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य ब्रह्मणः पुरतो हरेः |
तदा जगाद लोकेशं स्मितार्द्दितमुखो हरः || ४४ ||

ईश्वर उवाच

एवमेव यथात्थ त्वं ब्रह्मन् विश्वनिमित्ततः |
न स्वार्थतः प्रवृत्तिर्मे सम्यग् ब्रह्मविचिन्तनात् || ४५ ||

तथापि यत्करिष्यामि तत्ते वक्ष्ये जगद्धितम् |
तच्छृणुष्व महाभाग युक्तमेव वचो मम || ४६ ||

या मे तेज समर्था स्याद्ग्रहीतुमिह भागशः |
तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् || ४७ ||

योगयुक्ते मयि तथा योगिन्येव भविष्यति |
कामासक्ते मयि पुनर्मोहिन्येव भविष्यति |
तां मे निदेशय ब्रह्मन् भार्यार्थे वरवर्णिनीम् || ४८ ||

यदक्षरं वेदविदो निगदन्ति मनीषिणः |
ज्योतिःस्वरूपं परमं चिन्तयिष्ये सनातनम् || ४९ ||

तच्चिन्तायां सदा शक्तो ब्रह्मन् गच्छामि भावनाम् |
तत्र या विघ्नजननी न भवित्रीह सास्तु मे || ५० ||

त्वं वा विष्णुरहं वापि परब्रह्मस्वरूपिणः |
अङ्गभूता महाभाग योग्यं तदनुचिन्तनम् || ५१ ||

तच्चिन्तया विना नाहं स्थास्यामि कमलासन |
तस्माज्जायां प्रादिशस्व मत्कर्मानुगतां सदा || ५२ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा ब्रह्मा सर्वजगत्पतिः |
सस्मितं मोदित मना इदं वचनमब्रवीत् || ५३ ||

ब्रह्मोवाच

अस्तीदृशी महादेव मार्गिता यादृशी त्वया || ५४ ||

दक्षस्य तनया याभूत् सतीनाम्नी सुशोभना |
सैवेदृशी भवद्भार्या भविष्यति सुधीमती || ५५ ||

तां त्वदर्थे तपस्यन्ती तत्प्राप्तिं प्रतिकामिनीम् |
विद्धि त्वं देवदेवेश सर्वेष्वात्मसु वर्तसे || ५६ ||

मार्कण्डेय उवाच

अथ ब्रह्मवचः शेषे भगवान् मधुसूदनः |
यदुक्तं ब्रह्मणा सर्वं तत् कुरुष्वेत्युवाच सः || ५७ ||

करिष्य इति तेनोक्ते स्वेष्टं देशं प्रजग्मतुः |
हरिर्ब्रह्मा च मुदितौ सावित्रीकमलायुतौ || ५८ ||

कामोऽपि वाक्यानि हरस्य श्रुत्वा चामोदयुक्तो रतिना समित्रः |
शम्भुं समासाद्य विविक्तरूपी तस्थौ वसन्तं विनियोज्य शश्वत् || ५९ ||

इति श्रीकालिकापुराणे हरानुनयने नवमोऽध्यायः

Kapitel 10

दशमोऽध्यायः

मार्कण्डेय उवाच

अथ सत्या पुनः शुक्लपक्षेऽष्टम्यामुपोषितम् |
आश्विने मासि देवेशं पूजयामास भक्तितः || १ ||

इति नन्दाव्रते पूर्णे नवम्यां दिनभागतः |
तस्यास्तु भक्तिनम्रायाः प्रत्यक्षमभवद्धरः || २ ||

प्रत्यक्षतो हरं वीक्ष्य सामोदहृदया सती |
ववन्दे चरणौ तस्य लज्जयावनता नता || ३ ||

अथ प्राह महादेवः सतीं तद् व्रतधारिणीम् |
तामिच्छन्नपि भार्यार्थे
तस्याश्चर्यफलप्रदः || ४ ||

ईश्वर उवाच

अनेन त्वद्व्रतेनाहं प्रीतोऽस्मि दक्षनन्दिनि |
वरं वरय दास्यामि यस्तवाभिमतो भवेत् || ५ ||

मार्कण्डेय उवाच

जानन्नपीह तद्भावं महादेवो जगत्पतिः |
ऊचेऽथ वरयस्वेति तद्वाक्यश्रवणेच्छया || ६ ||

सापि त्रपासमाविष्टा नो वक्तुं हृदये स्थितम् |
शशाक बालाभीष्टं यल्लज्जयाच्छादितं यतः || ७ ||

एतस्मिन्नन्तरे कामः साभिप्रायं हरं तदा |
वामापरिग्रहे नेत्रवक्त्रव्यापारलिङ्गितम् || ८ ||

सम्प्राप्य विवरञ्चापं सन्दधे पुष्पहेतिना |
हर्षणेनाथ बाणेन विव्याध हृदये हरम् || ९ ||

ततोऽसौ हर्षितः शम्भुर्वीक्षाञ्चक्रे सतीं मुहुः |
विस्मृत्य च परं ब्रह्मचिन्तनं परमेश्वरः || १० ||

ततः पुनर्मोहनेन बाणेनैनं मनोभवः |
विव्याध हर्षितः शम्भुर्मोहितश्च तदा भृशम् || ११ ||

ततो यदासौ मोहस्य हर्षस्य च द्विजोत्तमाः |
भावं व्यक्तीचकारैष माययापि विमोहितः || १२ ||

अथ त्रपां स्वां संस्तभ्य यदा प्राह हरं सती |
ममेष्टं देहि वरद वरमित्यर्थकारकम् || १३ ||

तदा वाक्यस्यावसानमनपेक्ष्य वृषध्वजः |
भवस्व मम भार्येति प्राह दाक्षायणीं मुहुः || १४ ||

एतच्छ्रुत्वा वचस्तस्य साभीष्टफलभावनम् |
तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् || १५ ||

सकामस्य हरस्याग्रे तत्र सा चारुहासिनी |
अकरोन्निजभावांश्च हावानपि द्विजोत्तमाः || १६ ||

स्वस्य भावान् समादाय शृंगाराख्यो रसस्तदा |
तयोर्विवेश विप्रेन्द्राः कलहो वा यथोचितम् || १७ ||

हरस्य पुरतो रेजे स्निग्धभिन्नाञ्जनप्रभा |
चन्द्राभ्यासेऽङ्कलेखेव स्फटिकोज्ज्वलवर्ष्मणः || १८ ||

अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः |
पितुर्मे गोचरीकृत्य मां गृह्णीष्व जगत्पते || १९ ||

एवं स्मितं वचो देवी यदोवाच सती तदा |
मम भार्या भवेत्यूचे पुनः कामेन मोहितः || २० ||

अथैतद्वीक्ष्य मदनः सरतिः ससखो मुदा |
युक्तो बभूव शश्वच्च आत्मानञ्चाभ्यनन्दयन् || २१ ||

अथ दाक्षायणी शम्भु समाश्वास्य द्विजोत्तमाः |
जगाम मातुरभ्यासं हर्षमोहसमन्विता || २२ ||

हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् |
दाक्षायणी विप्रलम्भदुःखाद् ध्यानपरोऽभवत् || २३ ||

विप्रलब्धोऽपि भूतेशो ब्रह्मवाक्यमथास्मरत् |
जायापरिग्रहस्यार्थे यदुक्तं पद्मयोनिना || २४ ||

स्मृत्यैव ब्रह्मवाक्यस्य पुरा विश्वासतः परम् |
चिन्तयामास मनसा ब्रह्माणं वृषभध्वजः || २५ ||

अथ संचिन्त्यमानोऽसौ परमेष्ठी त्रिशूलिनः |
पुरस्तात् प्राविशत्तूर्णमिष्टसिद्धिप्रचोदितः || २६ ||

यत्रायं हिमवत्प्रस्थे विप्रलब्धो हरः स्थितः |
सावित्री सहितो ब्रह्मा तत्रैव समुपस्थितः || २७ ||

अथ तं वीक्ष्य धातारं सावित्रीसहितं हरः |
सोत्सुको विप्रलब्धश्च सत्यर्थे तमुवाच ह || २८ ||

ईश्वर उवाच

ब्रह्मन् विश्वार्थतो दारपरिग्रहकृतौ च यत् |
त्वमात्थ तत्सार्थमिव प्रतिभाति ममाधुना || २९ ||

अहमाराधितो भक्त्या दाक्षायण्यातिभक्तितः |
तस्या वरमहं दातुं यदायातः प्रपुजितः || ३० ||

तत्सकाशे तदा कामो मां विव्याध महेषुभिः |
मायया मोहितश्चाहं तत्प्रतीकारमञ्जसा |
न शक्तः कर्तुमभितः पुराहं कमलासन || ३१ ||

तस्याश्च वाञ्छितं ब्रह्मन्नेतदेव मयेक्षितम् |
यदहं स्यां विभो भर्ता व्रतभक्तिमुदायुतः || ३२ ||

तस्मात्त्वं कुरु विश्वार्थे मदर्थे च प्रजापते |
दक्षो यथा मामामन्त्र्य सुतां दाता तथा द्रुतम् || ३३ ||

गच्छ त्वं दक्षभवनं कथयस्व वचो मम |
यथा सतीवियोगस्य भंगः स्यात् त्वं तथा कुरु || ३४ ||

मार्कण्डेय उवाच

इत्युदीर्य महादेवः सकाशेऽस्य प्रजापतेः |
सावित्रीं वीक्ष्य सत्यास्तु विप्रयोगो व्यवर्द्धत || ३५ ||

तं समाभाष्य लोकेशः कृतकृत्यो मुदान्वितः |
इदं जगाद जगतां हितं पथ्यं च धूर्ज्जटेः || ३६ ||

ब्रह्मोवाच

यदात्थ भगवञ्छम्भो तद्विश्वार्थं सुनिश्चितम् |
नास्त्येव भवतः स्वार्थो ममापि वृषभध्वज || ३७ ||

सुताञ्च तुभ्यं दक्षस्तु स्वयमेव प्रदास्यति |
अहञ्चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः || ३८ ||

मार्कण्डेय उवाच

इत्युदीर्य महादेवं ब्रह्मा लोकपितामहः |
जगाम दक्षनिलयं स्यन्दनेनातिवेगिना || ३९ ||

अथ दक्षोऽपि वृत्तान्तं सर्वं श्रुत्वा सतीमुखात् |
चिन्तयामास देवेयं मत्सुता शम्भवे कथम् || ४० ||

आगतोऽपि महादेवः प्रसन्नः सञ्जगाम ह |
पुनरेव कथं सोऽपि सुतार्थेऽत्यर्थमीप्सितः || ४१ ||

प्रस्थाप्यो वा मया तस्य दूतो निकटमञ्जसा |
नैतद्योग्यं न गृह्णीयाद् यद्येनां विभुरात्मने || ४२ ||

अथवा पूजयिष्यामि तमेव वृषभध्वजम् |
मदीयतनयाभर्ता स्वयमेव यथा भवेत् || ४३ ||

तथैव पूजितः सोऽपि वाञ्छन्त्यातिप्रयत्नतः |
शम्भुर्भवतु मद्भर्तेत्येवं दत्तञ्च तेन तत् || ४४ ||

इति चिन्तयतस्तस्य दक्षस्य पुरतो विधिः |
उपस्थितो हंसरथः सावित्रीसहितस्तदा || ४५ ||

तं दृष्ट्वा वेधसं दक्षः प्रणम्यावनतः स्थितः |
आसनञ्च ददौ तस्मै समाभाष्य यथोचितम् || ४६ ||

ततस्तं सर्वलोकेशं तत्रागमनकारणम् |
दक्षः पप्रच्छ विप्रेन्द्राश्चिन्ताविष्टोऽपि हर्षितः || ४७ ||

दक्ष उवाच

तवात्रागमने हेतुं कथयस्व जगद्गुरो |
पुत्रस्नेहात् कार्यवशादथवाश्रममागतः || ४८ ||

मार्कण्डेय उवाच

इति पृष्टः सुरश्रेष्ठो दक्षेण सुमहात्मना |
प्रहसन्नव्रवीद्वाक्यं मोदयंस्तं प्रजापतिम् || ४९ ||

ब्रह्मोवाच

शृणु दक्ष यदर्थं ते समीपमहमागतः |
तल्लोकस्य हितं पथ्यं भवतोऽपि तदीप्सितम् || ५० ||

तव पुत्र्या समाराध्य महादेवं जगत्पतिम् |
यो वरः प्रार्थितः सोऽद्य स्वयमेवागतो गृहम् || ५१ ||

शम्भुना तव पुत्र्यर्थे त्वत्सकाशमहं पुनः |
प्रस्थापितोऽस्मि यत् कृत्यं श्रेयस्तदवधारय || ५२ ||

वरं दातुं यदायातस्तावत्प्रभृति शंकरः |
तत्सुताविप्रयोगेण न शर्म लभतेऽञ्जसा || ५३ ||

लब्धच्छिद्रोऽपि मदनो निचखान तदा भृशम् |
सर्वैः पुष्पकरैर्बाणैरेकदैव जगत्प्रभुम् || ५४ ||

स बाणविद्धः कामेन परित्यज्यात्मचिन्तनम् |
सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा || ५५ ||

विस्मृत्य प्रस्तुतां वाणीं गणाग्रे विप्रयोगतः |
क्व सतीत्येव गिरिशो भाषतेऽन्यकृतावपि || ५६ ||

मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च |
मरीच्याद्यैर्मुनिवरैस्तत् सिद्धमधुना सुत || ५७ ||

त्वत्पुत्र्याराधितः शम्भुः सोऽपि तस्या विचिन्तनाम् |
अनुमोदयितुं प्रेप्सुर्वर्तते हिमवद्गिरौ || ५८ ||

यथा नानाविधैर्भावैः सत्या नन्दाव्रतेन च |
शम्भुराराधितस्तेन तथैवाराध्यते सती || ५९ ||

तस्मात्त्वं दक्ष तनयां शम्भ्वर्थे परिकल्पिताम् |
तस्मै देह्यविलम्बेन तेन ते कृतकृत्यता || ६० ||

अहं तमानयिष्यामि नारदेन त्वदालयम् |
तस्मै त्वमेनां संयच्छ यदर्थे परिकल्पिताम् || ६१ ||

मार्कण्डेय उवाच

एवमेवेति दक्षस्तमुवाच परमेष्ठिनम् |
विधिश्च गतवांस्तत्र गिरिशो यत्र संस्थितः || ६२ ||

गते ब्रह्मणि दक्षोऽपि सदारतनयो मुदा |
अभवत् पूर्णदेहस्तु पीयूषैरिव पूरितः || ६३ ||

अथ ब्रह्मापि मोदेन प्रसन्नः कमलासनः |
आससाद महादेवं हिमवद्गिरिसंस्थितम् || ६४ ||

तं वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः |
मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः || ६५ ||

अथ दूरान्महादेवो लोकेशं सामसंयुतम् |
उवाच मदनोन्माथः विधिं स स्मरमानसः || ६६ ||

ईश्वर उवाच

किमवोचत् सुरश्रेष्ठ सत्यर्थे त्वत्सुतः स्वयम् |
कथयस्व यथा स्वान्तं मन्मथेन न दीर्यते || ६७ ||

बाधमानो विप्रयोगो मामेव च सतीमृते |
अभिहन्ति सुरश्रेष्ठ त्यक्त्वान्यान् प्राणधारिणः || ६८ ||

सतीति सततं वेद्मि ब्रह्मन् कार्यान्तरेऽप्यहम् |
सा यथा हि मया प्राप्या तद्विधत्स्व तथा द्रुतम् || ६९ ||

ब्रह्मोवाच

सत्यर्थे यन्ममसुतो वदति स्म वृषध्वज |
तच्छृणुष्व निजं साध्यं सिद्धमित्यवधारय || ७० ||

देया तस्मै मया पुत्री तदर्थे परिकल्पिता |
ममापीष्टमिदं कर्म त्वद्वाक्यादधिकं पुनः || ७१ ||

मत्पुत्त्र्याराधितः शम्भुरेतदर्थे स्वयं पुनः |
सोऽप्यन्विच्छति तां यस्मात्तस्माद्देया मया हरे || ७२ ||

शुभे लग्ने मुहूर्ते च समागच्छतुमेऽन्तिकम् |
तदा दास्यामि तनयां भिक्षार्थे शम्भवे विधे || ७३ ||

इत्यवोचन्मुदा दक्षस्तस्मात्त्वं वृषभध्वज |
शुभे मुहूर्ते तद्वेश्म गच्छ तामनुयाचितुम् || ७४ ||

ईश्वर उवाच

गमिष्ये भवता सार्धं नारदेन महात्मना |
द्रुतमेव जगत्पूज्य तस्मात्त्वन्नारदं स्मर || ७५ ||

मरीच्यादीन् दश तथा मानसानपि संस्मर |
तैः सार्द्धं दक्षनिलयं गमिष्येऽहं गणैः सह || ७६ ||

ततः स्मृतास्ते कमलासनेन सनारदा ब्रह्मसुता मनोजवाः |
समागता यत्र हरो विधिश्च तत्रागताः काममवेत्य चिन्ताम् || ७७ ||

इति श्रीकालिकापुराणे सतीवाचने दशमोऽध्यायः || १० ||

Kapitel 11

एकादशोऽध्यायः

मार्कण्डेय उवाच

ततः समागताः सर्वे मानसाश्च सनारदाः |
विधेः स्मरणमात्रेण वातेनेव विनोदिताः || १ ||

तैः सार्धं ब्रह्मणा शम्भुः सगणो दक्षमन्दिरम् |
जगाम मोदयुक्तोऽथ काले तत्कर्मयोगिनि || २ ||

गणाः शङ्खांश्च पटहान् डिण्डिमांस्तूर्यवंशकान् |
वादयन्तो मुदायुक्ता अनुगच्छन्ति शंकरम् || ३ ||

केचित्तालं करतलैः कुर्वन्तोऽङ्घ्रितलस्वनम् |
विमानैरतिवेगैः स्वैरनुयान्ति वृषध्वजम् || ४ ||

कोलाहलं प्रकुर्वन्तस्तथा नानाविधान् रवान् |
गणा अनेकाकृतयः शब्दयोगेन निर्ययुः || ५ ||

ततो देवा मुदा युक्ता गन्धर्वाप्सरसो गणाः |
वाद्यैर्मोदैस्तथा नृत्यैरन्वीयुर्वृषभध्वजम् || ६ ||

तेषां शब्देन विप्रेन्द्रा गन्धर्वाणां गरीयसाम् |
गणानाञ्च दिशः सर्वाः पूरिता च वसुन्धरा || ७ ||

कामोऽपि सगणः शम्भुं सशृङ्गाररसादिभिः |
मोदयन् मोहयन् काममन्वियात् स समक्षतः || ८ ||

हरे गच्छति भार्यार्थे तदानी सकलाः सुराः |
ब्रह्माद्याः स्वयमेवाशु वाद्यं चक्रुर्मनोहरम् || ९ ||

दिशः सर्वाः सुप्रसन्ना बभूबुर्द्विजसत्तमाः |
जज्वलुश्चाग्नयः शान्ताः पुष्पवृष्टिरजायत || १० ||

ववुर्वाताः सुरभयो वृक्षाश्चापि सुपुष्पिताः |
बभूवुः प्राणिनः स्वस्था अस्वस्था येऽपि केचन || ११ ||

हंससारसकादम्बा नीलकम्बुश्च चातकाः |
चुक्रुशुर्मधुरान् शब्दान् प्रेरयन्त इवेश्वरम् || १२ ||

भुजगो व्याघ्रकृत्तिश्च जटा चन्द्रकला तथा |
जगाम भूषणत्वञ्च तेनापि परिदीपितः || १३ ||

ततः क्षणेन बलिना बलीवर्देन वेगिना |
सब्रह्मानारदाद्यैश्च प्राप दक्षालयं हरः || १४ ||

ततो दक्षो महातेजा अभ्युत्थाय स्वयं हरम् |
ब्रह्मादींश्चाददौ तेषामासनानि यथोचितम् || १५ ||

कृत्वा यथोचितां तेषां पूजां पाद्यादिभिस्तथा |
चकार संविदं दक्षो मुनिभिर्मानसैः पुनः || १६ ||

ततः शुभे मुहूर्ते तु लग्ने च द्विजसत्तमाः |
सतीं निजसुतां दक्षो ददौ हर्षेण शम्भवे || १७ ||

उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः |
दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः || १८ ||

ब्रह्माय नारदाद्याश्च मुनयः सामगीतिभिः |
ऋचा यजुर्भिः सुश्राव्यैस्तोषयामासुरीश्वरम् || १९ ||

वाद्यं चक्रुर्गणाः सर्वे ननृतुश्चाप्सरोगणाः |
पुष्पवृष्टिञ्च ससृजुर्मेघा गगनसंगताः || २० ||

अथ शम्भुमुपागत्य गरुडेनातिवेगिना |
सार्धं कमलया चेदमुवाच गरुडध्वजः || २१ ||

श्री भगवानुवाच

स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर |
दाक्षायण्या यथा चाहं प्रातिलोम्येन पद्मया || २२ ||

कुरु त्वमनया सार्धं रक्षा देवस्य वा नृणाम् || २३ ||

अनया सह संसारसारिणां मङ्गलं सदा |
कुरु दस्यून् यथायोग्यं हनिष्यसि च शंकर || २४ ||

य एवैनां साभिलाषो दृष्ट्वा श्रुत्वाथवा भवेत् |
तं हनिष्यसि भूतेश नात्र कार्या विचारणा || २५ ||

मार्कण्डेय उवाच

एवमस्त्विति सर्वज्ञः प्रोवाच परमेश्वरम् |
प्रहृष्टमानसं प्रीत्या प्रसन्नवदनो द्विजाः || २६ ||

अथ ब्रह्मा तदा दृष्ट्वा दक्षजां चारुहासिनीम् |
स्मराविष्टमना वक्त्रं वीक्षांचक्रे तदीयकम् || २७ ||

मुहुर्मुहुस्तदा ब्रह्मा पश्यति स्म सतीमुखम् |
तदेन्द्रियविकारञ्च प्राप्तवानवशः पुनः || २८ ||

अथ तस्य पपाताशु तेजो भूमौ द्विजोत्तमाः |
तज्वलद्दहनाभासं मुनीनां पुरतस्तदा || २९ ||

ततस्तस्मात् समभवंस्तोयदाः शब्दसंयुताः |
सम्वर्तश्च तथावर्तः पुष्करो द्रोण एव च |
गर्जन्तश्चाथ मुञ्चन्तस्तोयानि द्विजसत्तमाः || ३० ||

तैस्तु सञ्छादिते व्योम्नि तेषु गर्ज्जत्सु शंकरः |
पश्यन् दाक्षायणीं देवीं भृशं कामेन मोहितः || ३१ ||

मोहितोऽप्यथ कामेन तदा विष्णुवचः स्मरन् |
इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य संकरः || ३२ ||

शम्भुनोद्यमिते शूले विधिं हन्तुं द्विजोत्तमाः |
मरीचिनारदाद्यास्ते चक्रुर्हाहाकृतिं तदा || ३३ ||

दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः |
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः || ३४ ||

अथाग्रे मीलितं वीक्ष्य तदा दक्षं महेश्वरः |
प्रत्युवाचाप्रियमिदं स्मारयन् वैष्णवीं गिरम् || ३५ ||

ईश्वर उवाच

नारायणेन विप्रेन्द्र यदिदानीमुदीरितम् |
मयाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते || ३६ ||

एनां यः साभिलाषः सन् वीक्षते तं हनिष्यसि |
इति वाचन्तु सफलमेनं हत्वा करोम्यहम् || ३७ ||

साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् |
अभवत्त्यक्ततेजास्तु ततो हन्मि कृतागसम् || ३८ ||

मार्कण्डेय उवाच

तमेवं वादिनं विष्णुः क्षिप्रं भूत्वा पुरःसरः |
इदमूचे वारयंस्तं हन्तुं सर्वजगत्प्रभुः || ३९ ||

श्रीभगवानुवाच

न हनिष्यसि भूतेश स्रष्ट्रारं जगतां वरम् |
अनेनैव सती भार्या भवदर्थे प्रकल्पिता || ४० ||

प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः |
अस्मिन् हते जगत्स्रष्टा नास्त्यन्यः प्राकृतोऽधुना || ४१ ||

सृष्टिस्थित्यन्तकर्माणि करिष्यामः कथं पुनः |
अनेनापि मया चैव भवता च समञ्जसम् || ४२ ||

एकस्मिन्निहतेऽमीषु कस्तत्कर्म करिष्यति |
तस्मान्न वध्यो भवता विधाता वृषभध्वज || ४३ ||

ईश्वर उवाच

प्रतिज्ञां पूरयिष्यामि हत्वैनं चतुराननम् |
अहमेव प्रजाः स्रक्ष्ये स्थावराणि चराणि च || ४४ ||

अन्यं स्रक्ष्ये विधातारमथवाहं स्वतेजसा |
स एव सृष्टिकर्ता स्यात् सर्वदा मदनुज्ञया || ४५ ||

हत्वैनं विधिमेवाहं प्रतिज्ञां पालयन् विधो |
स्रष्टारमेकं स्रक्ष्यामि न वारय चतुर्भुज || ४६ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा गिरिशस्य चतुर्भुजः |
स्मितप्रसन्नवदनः पुनर्मैवमितीरयन् || ४७ ||

प्रतिज्ञापूरणं कर्तुं योग्यमात्मनि नो भवेत् |
इत्युवाचाभिवदनमीश्वरस्य द्विजोत्तमाः || ४८ ||

ततः पुनः शम्भुरूपे कथमात्मा विधिर्मम |
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः || ४९ ||

अथ प्रहस्य भगवान् मुनीनां पुरतस्तदा |
इदमूचे महादेवं तोषयन् गरुडध्वजः || ५० ||

श्रीभगवानुवाच

ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा |
न चाहं युवयोर्भिन्नोऽभिन्नत्वं सदातनम् || ५१ ||

प्रधानस्याप्रधानस्य भागाभागस्वरूपिणः |
ज्योतिर्मयस्य भागो मे युवामेकोऽहमंशकः || ५२ ||

कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः |
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् || ५३ ||

चिन्तयस्वात्मनात्मानं संस्तवं कुरु चात्मनि |
एकत्रं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु || ५४ ||

शिरोग्रीवाभेदेन यथैकस्यैव धर्मिणः |
अङ्गानि मे तथैकस्य भागत्रयमिदं हर || ५५ ||

यज्ज्योतिरग्र्यं स्वपरप्रकाशं कूटस्थमव्यक्तमनन्तरूपम् |
नित्यञ्च दीर्घादिविशेषणाद्यैर्हीनं परं तच्च वयं न भिन्नाः || ५६ ||

मार्कण्डेय उवाच

एतच्छ्रुत्वा वचतस्य महादेवो विमोहितः |
जानन् स चाप्यभिन्नत्वं सद्विस्मृत्यान्यचिन्तनात् || ५७ ||

पुनः प्रपच्छ गोविन्दमनन्यत्वं त्रिभेदिनाम् |
ब्रह्मविष्णुत्र्यम्बकानामेकस्य च विशेषकम् || ५८ ||

ततो नारायणः पृष्टः कथयामास शम्भवे |
अनन्यत्वं त्रिदेवानामेकत्वञ्च व्यदर्शयत् || ५९ ||

श्रुत्वा ततो विष्णुमुखाब्जकोशादनन्यतां विष्णुविधीशतत्त्वे |
दृष्ट्वा स्वरूपं च जघान नैनं विधिं मृडः पुष्पमधुप्रकाशकम् || ६० ||

इति श्रीकालिकापुराणे त्रिदेवानामेकत्वप्रतिपादकः एकादशोऽध्यायः || ११ ||

Kapitel 12

द्वादशोऽध्याय

ऋषय ऊचुः

अनन्यत्वं त्रिदेवानां यज्जगाद जनार्दनः |
शम्भवे तद्वयं श्रोतुमिच्छामो द्विजसत्तम || १ ||

एकत्वं दर्शयामास कथं वा गरुडध्वजः |
तत् समाचक्ष्व विप्रेन्द्र परं कौतूहलं हि नः || २ ||

मार्कण्डेय उवाच

शृणुष्वं मुनयो गुह्यं परमं प्रयतं परम् |
त्रिदेवानामनन्यत्वं तथैवैकत्वदर्शनम् || ३ ||

हरेण पृष्टो गोविन्दस्तं समाभाष्य सादरम् |
इदमाह मुनिश्रेष्ठा अभिन्नप्रतिपादकम् || ४ ||

श्रीभगवानुवाच

इदं तमोमयं सर्वमासीद्भुवनवर्जितम् |
अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः || ५ ||

न दिवारात्रिभागोऽत्र नाकाशं न च काश्यपी |
न ज्योतिर्न जलं वायुर्नान्यत् किंचन संस्थितम् || ६ ||

एकमासीत् परं ब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् |
अव्यक्तं ज्ञानरूपेण द्वैतहीनविशेषणम् || ७ ||

प्रकृतिः पुरुषश्चैव नित्यौ द्वौ सर्वसंहितौ |
स्थितः कालोऽपि भूतेश जगत्कारणमेककम् || ८ ||

यदेकं परमं ब्रह्म तत्स्वरूपात् परं हर |
रूपत्रयमिदं नित्यं तस्यैव जगतः पतेः || ९ ||

कालो नामापरं रूपमनाद्यं तत्तुकारणम् |
सर्वेषामेव भूतानामवच्छेदेन संगतः || १० ||

ततस्तत् स्वप्रकाशेन भास्वद्रूपं प्रकाशते |
पुरा सृष्ट्यर्थमतुलं क्षोभयन् प्रकृतिं स्वयम् || ११ ||

संक्षुब्धायान्नु प्रकृतौ महत्तत्त्वमजायत |
महत्तत्त्वात्ततः पश्चादहंकारस्त्रिधाभवत् || १२ ||

अहंकारे तु संजाते शब्दतन्मात्रतस्ततः |
आकाशमसृजद्विष्णुरनन्तं मूर्तिवर्जितम् || १३ ||

ततस्तु रसतन्मात्रादपः सृष्ट्वा महेश्वरः |
निराधारः स्वयं दध्रे तास्तदा निजमायया || १४ ||

ततस्त्रिगुणसाम्येन संस्थितां प्रकृतिं प्रभुः |
पुनः संक्षोभयामास सृष्ट्यर्थं परमेश्वरः || १५ ||

ततः सा प्रकृतिस्तासु बीजं त्रिगुणधाभवत् |
अप्सु संसर्जयामास जगद्बीजं निराकुलम् || १६ ||

तद्विवृद्धं क्रमेणैव हैममण्डमभून्महत् |
जग्राहापः समस्तास्ता गर्भ एव तदण्डकम् || १७ ||

अप्सु स्थितासु हैमाण्डगर्भे विष्णुस्तदण्डकम् |
त्वयैव मायया दध्रे ब्रह्माण्डमतुलं पुनः || १८ ||

वारिणा वह्निभिश्चैव वायुभिर्नभसा तथा |
बहिस्तदण्डकं छन्नं सर्वपार्श्वे समन्ततः || १९ ||

सप्तसागरमानेन तथा नद्यादि मानतः |
ब्रह्माण्डाभ्यन्तरे तोयं तदन्यत्तु बहिर्गतम् || २० ||

तदन्तः स्वयमेवासौ विष्णुर्ब्रह्मस्वरूपधृक् |
दैवं वर्षमुषित्वैव प्रबिभेद तदण्डकम् || २१ ||

तस्मात् समभवन्मेरुरुत्पन्नोऽस्मिन् महेश्वर |
जरायुः पर्वता जाताः समुद्राः सप्त तज्जलात् || २२ ||

तन्मध्ये गन्धतन्मात्रात् पृथिवी समजायत |
ईश्वरेण प्रकृत्या च योजिता त्रिगुणात्मिका || २३ ||

प्रागेव पर्वतादिभ्यः समुत्पन्ना वसुन्धरा |
ब्रह्माण्डखण्डसंयोगाद्दृढा भूता तु सा भृशम् || २४ ||

तस्यामेव स्थितो ब्रह्मा सर्वलोकगुरुः स्वयम् |
यदा ब्रह्माण्डमध्यस्थो ब्रह्मा व्यक्तो न चाभवत् |
तदैव रूपतन्मत्रात्तेजः सम्यगजायत || २५ ||

वायुस्तु स्पर्शतन्मात्रात् प्रकृत्या विनियोजितात् |
बभूव सर्वभूतानां प्राणभूतः समन्ततः || २६ ||

अद्भिस्तेजोभिरतुलैर्वायुभिर्नभसा तथा |
अन्तर्बहिस्तदण्डस्य व्याप्तमन्यत्तु गर्धगम् || २७ ||

ततो ब्रह्मशरीरन्तु त्रिधा चक्रे महेश्वरः |
प्रधानेच्छावशाच्छम्भौ त्रिगुणत्रिगुणीकृतम् || २८ ||

तदूर्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः |
पद्मकेशरगौराङ्गकायो ब्राह्मो महेश्वरः || २९ ||

तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः |
शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः || ३० ||

अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः |
स्फटिकाभ्रसमः शुक्लः सकायश्चन्द्रशेखर || ३१ ||

इतस्ततो ब्राह्मकाये सृष्टिशक्तिं न्ययोजयत् |
स्वयमेवाभवत् सष्टा ब्रह्मरूपेण लोकभृत् || ३२ ||

स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययोजयत् |
महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा || ३३ ||

स्थितिकर्ताभवद्विष्णुरहमेव महेश्वरः |
सर्वशक्तिनियोगेन सदा तद्रूपता मम || ३४ ||

अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् |
अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् || ३५ ||

अन्तकर्ताभवच्छम्भुः स एव परमेश्वरः |
ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते || ३६ ||

ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः |
सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः || ३७ ||

ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् पृथक् |
अतस्त्वञ्च विधाता च तथाहमपि न पृथक् |
एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् || ३८ ||

मार्कण्डेय उवाच

एतच्छ्रुत्वा वचस्तस्य विष्णोरमिततेजसः |
हर्षोतफुल्लमुखः प्रोचे पुनरेव जनार्दनम् || ३९ ||

ईश्वर उवाच

एक एव महेशशेत् ज्योतीरूपो निरंजनः |
का वा मायाथ कः कालः का वा प्रकृतिरुच्यते || ४० ||

के पुमांसस्ततोऽभिन्ना भिन्नाश्चेत् कथमेकता |
तन्मे वदस्व गोविन्द तत्प्रभावं यथागतम् || ४१ ||

श्रीभगवानुवाच

त्वमेव पश्यसि सदा ध्यानस्थः परमेश्वरम् |
आत्मन्यात्मस्वरूपं मज्ज्योतीरूपं सदक्षरम् || ४२ ||

मायाञ्च प्रकृतिं कालं पुरुषञ्च स्वयं विभो |
ज्ञाता त्वं ध्यानयोगेन यस्माद्ध्यानपरो भव || ४३ ||

मायया मोहितो यस्मादधुना त्वम्मदीयया |
ततो विस्मृत्य परमं ज्योतिर्हि वनितारतः || ४४ ||

अधुना कोपयुक्तस्त्वं विस्मृत्यात्मानमात्मनि |
यां पच्छसि प्रकृत्यादिरूपाणि प्रथमाधिप || ४५ ||

मार्कण्डेय उवाच

ततस्तत्र महादेवः श्रुत्वा वाक्यं सुनिश्चितम् |
मुनीनां पश्यतां योगयुक्तो ध्यानपरोऽभवत् || ४६ ||

आसाद्य बद्धपर्यङ्कं निर्निमीलितलोचनः |
आत्मानञ्चिन्तयामास तदात्मनि महेश्वरः || ४७ ||

परं चिन्तयतस्तस्य शरीरं विबभौ शुभम् |
तेजोभिरुज्ज्वलं द्रष्टुं नशेकुर्मुनयस्तदा || ४८ ||

तत्क्षणात् ध्यानयुक्तश्च शम्भुः स विष्णुमायया |
परित्यक्तोऽति विबभौ तपस्तेजोभिरुज्ज्वलः || ४९ ||

ये ये गणास्तदा तस्थुः सेवया शंकरान्तिके |
न तेऽपि वीक्षितुं शेकुः शंकरं वा दिवाकरम् || ५० ||

स्वयमेव तदा विष्णुः समाधिमनासो भृशम् |
प्रविवेश शरीरान्तर्ज्योतीरूपेण धूर्जटेः || ५१ ||

प्रविश्य तस्य जठरे यथा सृष्टिक्रमः पुरा |
तथैव दर्शयामास स्वयं नारायणोऽव्ययः || ५२ ||

न स्थूलं न च सूक्ष्मञ्च न विशेषणगोचरम् |
नित्यानन्दं निरानन्दमेकं शुद्धमतीन्द्रियम् || ५३ ||

अदृश्यं सर्वद्रष्टारं निर्गुणं परमं पदम् |
परमात्मानमानन्दं जगत्कारणकारणम् || ५४ ||

प्रथमं ददृशे शम्भुरात्मानं तत्स्वरूपिणम् |
तत्र प्रविष्टमनसा बहिर्ज्ञानविवर्जितः || ५५ ||

तस्यैव रूपं प्रकृतिं सृष्ट्यर्थे भिन्नतां गताम् |
ददर्श तस्यैवाभ्यासे पृथग्भूतामिवैकिकाम् || ५६ ||

पुरुषांश्च ददर्शासौ यथैव वसतस्ततः |
अग्नेरिव कणात् स्थूलादजस्रं द्विजसत्तमाः || ५७ ||

तदेव कालरूपेण भासते च मुहुर्मुहुः |
सृष्टिस्थित्यन्तयोगानामवच्छेदेन कारणम् || ५८ ||

प्रकृतिः पुरुषश्चैव कालोऽपि च मुहुर्मुहुः |
अभिन्नान् भासमानांश्च सर्गार्थे भिन्नतां गताम् || ५९ ||

पृथग्भूतानभिन्नांश्च ददृशे चन्द्रशेखरः |
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || ६० ||

सप्रधानस्वरूपेण कालरूपेण भासते |
तथापुरुषरूपेण संसारार्थं प्रवर्तते || ६१ ||

भोगार्थं प्राणिनां शश्वच्छरीरे च प्रवर्तते |
सैव माया या प्रकृति सा मोहयति शंकरम् || ६२ ||

हरिं तथा विरिञ्चिञ्च तथैवान्यजनुर्भवान् |
मायाख्या प्रकृतिर्जाता जन्तुं सन्मोहयत्यपि || ६३ ||

सा स्त्रीरूपेण च सदा लक्ष्मीभूता हरेः प्रिया |
सा सावित्री रतिः सन्ध्या सा सती सैव वीरिणी || ६४ ||

बुद्धिरूपा स्वयं देवी चण्डिकेति च गीयते |
इति स्वयं ददर्शाशु ध्यानमार्गगतो हरः || ६५ ||

महदादि प्रभेदेन तथा सृष्टिक्रमं स्वयम् || ६६ ||

दर्शयित्वा हरिः कालं प्रकृतिं पुरुषांस्तथा |
तथान्यद्दर्शयामास तच्छरीरं द्विजोत्तमाः || ६७ ||

इति श्रीकालिकापुराणे त्रिदेवानामनन्यत्वप्रतिपादेन द्वादशोऽध्यायः || १२ ||

Kapitel 13

त्रयोदशोऽध्यायः

मार्कण्डेय उवाच

ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे |
ववृधे तोयराशिस्थं ब्रह्माण्डञ्च यथापुरा || १ ||

तन्मध्ये पद्मगर्भाभं ब्रह्माणञ्च जगत्पतिम् |
ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थं च पृथग्गतम् || २ ||

शरीरिणञ्च ददृशे ब्रह्माण्डान्तर्गतं मुहुः |
चतुर्भुजं प्रकाशान्तं ज्योतिर्भिः कमलासनम् || ३ ||

तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श सः |
ऊर्द्धमध्यान्तभागैश्च ब्रह्मविष्णुशिवात्मकम् || ४ ||

यथोर्ध्वभागो वपुषो ब्रह्मत्वमगमत्तदा |
मध्यं यथा विष्णुभूतं ददर्शान्तस्य शम्भुताम् || ५ ||

एकमेव शरीरन्तु त्रिधाभूतं मुहुर्मुहुः |
हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत् || ६ ||

कदाचिद्वैष्णवं कायं ब्राह्मे काये लयं व्रजेत् |
ब्राह्मं तथा वैष्णवे च शाम्भवे वैष्णवं तथा || ७ ||

शाम्भवं वैष्णवे काये ब्राह्मं वाप्यथ शाम्भवे |
गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्मुहुः || ८ ||

ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् |
परमात्मनि गच्छन्तं लीनतां तद्वपुः स्वयम् || ९ ||

तन्मध्ये पृथिवीं शम्भुर्ददर्श विततां जले |
महापर्वतसंघातैर्विरलं स्थगितन्ततः || १० ||

पुनर्ददर्श ब्रह्माणं कुर्वन्तं स्वर्गमादितः |
आत्मानञ्च पृथग्भूतं विष्णुञ्च गरुडासनम् || ११ ||

दक्षं प्रजापतिं तत्र तथैव च निजान् गणान् |
मरीच्यादीन् दश तथा वीरिणीञ्च तथा सतीम् || १२ ||

सन्ध्यां रतिं च कन्दर्प शृङ्गारं सवसन्तकम् |
हावान् भावांस्तथा मारानृषीन् देवान् मरुद्गणान् || १३ ||

मेघांश्च चन्द्रं सूर्यञ्च वृक्षान् वल्लीस्तृणानि च |
सिद्धान् विद्याधरान् यक्षान् राक्षसान् किन्नरांस्तथा || १४ ||

मानुषांश्च भुजङ्गांश्च ग्राहान्मत्स्यांश्च कच्छपान् |
उल्कानिर्घातकेतूंश्च कृमिकीटपतङ्गकान् || १५ ||

काञ्चिद्ददर्श वनितां द्वन्द्वभावं प्रकुर्वतीम् |
उत्पन्नमुत्पद्यन्तञ्च विपद्यन्तञ्च कञ्चन || १६ ||

हसतो रमतः कांश्चित् कांश्चिद्विलपतस्तथा |
धावतश्चापराञ्छम्भोर्ददर्श परमेश्वरः || १७ ||

दिव्यालंकारसंछन्ना मालाचन्दनचर्चिताः |
वीक्षाञ्च चक्रिरे केचिच्छम्भुना क्रीडिता मुहुः || १८ ||

स्तुवन्तः प्रस्तुवन्तश्च शम्भुं विष्णुं तथा विधिम् |
केचिद्ददृशिरे तेन मुनयश्च तपोधनाः || १९ ||

तपांसि चरतः केचिन्नदीतीरे तपोवने |
स्वाध्यायवेदनिरताः पाठ्यन्तश्चैव केचन ||

तथैव सागराः सप्त नद्यो देवसरांसि च |
तथैव पर्वतस्थोऽसौ ददृशे शम्भुना स्वयम् || २१ ||

मायालक्ष्मीस्वरूपेण हरिं सन्मोहयत्यलम् |
सतीरूपा तथात्मानं मोहयन्तीति शंकरः || २२ ||

सत्या सार्धं स्वयं रेमे कैलासे मेरुपर्वते |
मन्दरे देवविपिने शृङ्गाररससेविते || २३ ||

सतीदेहं तथा त्यक्त्वा जाता हिमवतः सुता |
कार्तिकेयः समुत्पन्नो यथाहंस्तारकाह्वयम् |
तत्सर्वं विस्तरात् सम्यग् वृषभध्वजः || २५ ||

हिरण्यकशिपुर्जघ्ने नरसिंहस्वरूपिणा |
यथा हतः कालनेमिर्हिरण्याक्षो यथा हतः || २६ ||

विष्णुना यादृशं युद्धं दानवौघैः पुराकृतम् |
यथा ये ये च निहतास्तत्सर्वं दृष्टवान् हरः || २७ ||

जगत्प्रपञ्चान् ब्रह्मादीन् नक्षत्रग्रहमानुषान् |
सिद्धविद्याधरादींश्च दृष्ट्वा दृष्ट्वा पृथक् पृथक् || २८ ||

आत्मानं तान् संहरन्तं ददृशे शम्भुरीश्वरः |
संहारान्ते ददर्शासौ ब्रह्मविष्णुमहेश्वरान् || २९ ||

शून्यं समभवत्सर्वं जगदेतच्चराचरम् || ३० ||

शून्ये जगति सर्वस्मिन् ब्रह्मा विष्णुशरीरगगः |
लीनः शम्भुश्च तस्यैव शरीरं प्रविवेश ह || ३१ ||

एकमेव ददर्शासौ विष्णुमव्यक्तरूपिणम् |
नान्यत्किंचिद् ददर्शासौ तदा विष्णुमृते हरः || ३२ ||

अथ विष्णुश्च ददृशे लयं तं परमात्मनि |
भासमानं परं तत्त्वे ज्योतीरूपे सनातने || ३३ ||

ततो ज्ञानमयं नित्यमानन्दं ब्रह्मणः परम् |
केवलं ज्ञानगम्यञ्च ददर्शान्यन्न किञ्चन || ३४ ||

एकत्वञ्च पृथक्त्वञ्च जगतः परमात्मनि |
ददर्श स्वशरीरान्तः सर्गस्थित्यन्तसंयमान् || ३५ ||

प्रकाशं परमात्मानं शान्तं नित्यमतीन्द्रियम् |
एकमेवाद्वयं ब्रह्म ददर्शान्यन्न किञ्चन || ३६ ||

को वा विष्णुर्हरः को वा को ब्रह्मा किमिदं जगत् |
इति भेदो न जगृहे शम्भुना परमात्मनः || ३७ ||

एवं सम्पश्यतस्तस्य शरीराभ्यन्तराद्बहिः |
निःससाराथ मायाहि प्रविवेश वृषध्वजम् || ३८ ||

अनन्यत्वं पृथक्त्वञ्च दर्शयित्वा जनार्दनः |
शम्भवे तच्छरीरात्तु बहिर्भूतस्ततोद्रुतम् || ३९ ||

अथ त्यक्तसमाधेस्तु हरस्य चलितात्मनः |
सतीं मनो जगामाशु मोहितस्य च मायया || ४० ||

ततो मुहुर्हरो वक्त्रं दाक्षायण्या मनोहरम् |
प्रबुद्धकमलाकारं वीक्षांचक्रे द्विजोत्तमाः || ४१ ||

ततो दक्षमरीच्यादीन् स्वगणान् कमलासनम् |
विष्णुञ्च तत्र संवीक्ष्य शंकरो विस्मितोऽभवत् || ४२ ||

अथ तं विस्मयाविष्टं महादेवं वृषध्वजम् |
स्मितप्रफुल्लवदनं हरमाह जनार्दनः || ४३ ||

श्रीभगवानुवाच

यद् यत् पृष्टं त्वयैकत्वे भिन्नतायाञ्च शंकरः |
त्रयाणामथ देवानां तज् ज्ञातमधुना त्वया || ४४ ||

प्रकृतिः पुरुषश्चैव कालो माया निजान्तरे |
त्वया ज्ञाता महादेव कीदृशास्ते च के पुनः || ४५ ||

एकं ब्रह्म सदा शान्तं नित्यञ्च परमं महत् |
तत् कथं भिन्नतां जातं दृष्टं तत् कीदृशं त्वया || ४६ ||

मार्कण्डेय उवाच

इति पृष्टो भगवता भगवान् वृषभध्वजः |
जगाद हरये तथ्यमेतद्वाक्यं द्विजोत्तमाः || ४७ ||

ईश्वर उवाच

एकं शिवं शान्तमनन्तमच्युतं ब्रह्मास्ति तस्मान्नहि किंचिदीदृशम् |
तस्मादभिन्नं सकलं जगद्धरेः कालादिरूपाणि च सृष्टिहेतुः || ४८ ||

समस्तभूतप्रभवं निरञ्जनं वयञ्च तस्यैव सदांशरूपिण |
सृष्टिस्थितिं संयमनं तदीरितं रूपत्रयं तस्य विभाति भेदतः || ४९ ||

नाहं न च त्वं न हिरण्यगर्भो न कालरूपं प्रकृतिं न चान्यत् |
तत्प्रेरणां कर्तुमलं च किञ्चिद्विनापि रूपं सदपीह तस्य || ५० ||

श्रीभगवानुवाच

इति तत्त्वं त्वया प्रोक्तं ज्ञातञ्च वृषभध्वज |
तदंशभूतास्तु वयं ब्रह्मविष्णुपिनाकिनः || ५१ ||

तस्मात् त्वया न वध्योऽयं विरिञ्चिस्तव चेद्भवेत् |
एकता विदिता शम्भो ब्रह्मविष्णुपिनाकिनाम् || ५२ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः |
न जघान महादेवो विधिं दृष्ट्वाथ चैकताम् || ५३ ||

इति वः कथितं विष्णुर्यथानन्यत्वमादिशत् |
शम्भवे प्रस्तुतं तद्वः कथयामि पुनर्द्विजाः || ५४ ||

इति श्रीकालिकापुराणे हरकोपोपञ्चमने त्रयोदशोऽध्यायः || १३ ||

Kapitel 14

चतुर्दशोऽध्यायः

मार्कण्डेय उवाच

जलदेष्वथ गर्जत्सु महादेवः सतीपतिः |
विसृज्य विष्णुप्रभृतीन् जगाम हिमवद्गिरिम् || १ ||

आरोप्य वृषभे तुङ्गे सतीमामोदशालिनीम् |
जगाम हिमवत्प्रस्थं रम्यं कुञ्जसमन्वितम् || २ ||

अथ सा शंकराभ्यासे सुदती चारुहासिनी |
विरेजे वृषभस्थाति चन्द्रान्ते कालिकोपमा || ३ ||

ब्रह्मादयश्च ते सर्वे मरीच्याद्याश्च मानसाः |
दक्षोऽपि सर्वे मुदिता अभवन् ससुरासुराः || ४ ||

केचिच्छंखान् वादयन्तः केचित्तालान् सुमङ्गलाः |
केचिद्धास्यं प्रकुर्वन्तो अनुजग्मुर्वृषध्वजम् || ५ ||

विसृष्टा अपि ब्रह्माद्याः शम्भुना पुनरेव ते |
अनुजग्मुः कियद्दूरं मुदा परमया युताः || ६ ||

ततः शम्भुं समाभाष्य ब्रह्माद्या मानसाश्च ते |
स्वं स्वं स्थानं तदा जग्मुः स्यन्दनैराशुगामिभिः || ७ ||

देवाश्च सर्वे सिद्धाश्च तथैवाप्सरसां गणाः |
यक्षविद्याधराद्याश्च ये ये तत्र समागताः || ८ ||

ते हरेण विसृष्टास्तु गतवन्तो निजास्पदम् |
बभुवुरामोदयुताः कृतदारे वृषध्वजे || ९ ||

ततो हरः सस्वगणः संस्थानं प्राप्य मोदनम् |
कैलासं तत्र वृषभादवतारयति प्रियाम् || १० ||

ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् |
स्वीयान् विसर्जयामास नन्द्यादीन् गिरिकन्दरात् || ११ ||

उवाच शम्भुस्तान् सर्वान् नन्द्यादीनतिसुनृतम् |
यदाहं वः स्मराम्यत्र स्मरणाच्चलमानसाः |
समागमिष्यथ तदा मत्पार्श्व भोस्तदा तदा || १२ ||

इत्युक्ते वामदेवेन ते नन्दिभैरवादयः |
महाकौषीप्रपाताय जग्मुस्ते हिमवद्गिरौ || १३ ||

ईश्वरोऽपि तया सार्धं तेषु यातेषु मोहितः |
दाक्षायण्या चिरं रेमे रहस्यनुदिनं भृशम् || १४ ||

कदाचिद् वन्यपुष्पाणि समाहृत्य मनोहराम् |
मालां विधाय सत्यास्तु हारस्थाने न्ययोजयत् || १५ ||

कदाचिद् दर्पणे वक्त्रं वीक्षन्तीमात्मनः सतीम् |
अनुगम्य हरो वक्त्रं स्वीयमप्यवलोकयत् || १६ ||

कदाचित् कुन्तलांस्तस्या उल्लास्योल्लासमागतः |
बध्नाति मोचयत्येवं शश्वत् सम्मार्जयत्यपि || १७ ||

सरागौ चरणावस्या आयावकेनोज्ज्वलेन च |
निसर्गरक्तौ कुरुते सरागो वृषभध्वजः || १८ ||

उच्चैरपि यदाख्येयमन्येषां पुरतो मुहुः |
तत् कर्णे कथयत्यस्या हरोः स्प्रष्टुं तदाननम् || १९ ||

न दूरमपि गत्वासौ समागम्य प्रयत्नतः |
अनुबध्नाति तामक्ष्णि पृष्ठदेशेऽन्यमानसाम् || २० ||

अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः |
तामालिलिङ्ग भीत्या सा चकिता व्याकुलाभवत् || २१ ||

सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये |
चकार भ्रमराकारं मृगनाभिविशेषकम् || २२ ||

हारमस्याः कुचयुगाद्वियोज्य सहसा हरः |
नियोजयति तत्रैव सकरस्पर्शनं मुहुः || २३ ||

अङ्गदान् वलयान् वमीं विश्लेष्य च पुनः पुनः |
तत्स्थानात् पुनरेवासौ तत्स्थाने प्रयुयोज च || २४ ||

कालिकेयं समायाति सवर्णा ते सखीति ताम् |
पश्येत् यस्यास्तथेच्छन्त्याः प्रोक्त्वा जग्राह तत्कुचौ || २५ ||

कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः |
चकार नर्मकर्माणि तथा हृत्प्रियया मुदा || २६ ||

आहृत्य पद्मपुष्पाणि वन्यपुष्पाणि शंकरः |
पुष्पाभरणसर्वाङ्गीं कुरुते स्म कदाचन || २७ ||

गिरिकुञ्जेषु रम्येषु तया सह सतीपतिः |
विजहार समस्तेषु वनेषु मुदितो हरः || २८ ||

न याने नोपवेशे च न स्थितौ नापि चेष्टिते |
तया विना क्षणमपि शर्म लेभे वृषध्वजः || २९ ||

विहृत्य सुचिरं कालं कैलासगिरिकन्दरे |
महाकौषीप्रपाताय जगाम हिमवद्गिरौ || ३० ||

तस्मिन् प्रविष्टे हिमवत्पर्वते वृषभध्वजे |
कामोऽपि सह मित्रेण रत्या च प्रजगाम ह || ३१ ||

तस्मिन् प्रविष्टे कामे तु वसन्तः शंकरान्तिके |
विततान निजाः श्रीश्च वृक्षे तोये तथा भुवि || ३२ ||

सर्वे सुपुष्पिता वृक्षा लताश्चान्याः सुपुष्पिताः |
अम्भांसि फुल्लपद्मानि पद्मेषु भ्रमरास्तथा || ३३ ||

प्रविष्टे तत्र सुरतौ प्रववुर्मलयानिलाः |
सुगन्धिपुष्पगन्धेन मोहितश्च पुरन्ध्रयः || ३४ ||

मुनीनामपि चेतांसि प्रमथ्य सुरभिस्तदा |
स्मरः सारं समुद्दध्रे तक्रौघादाज्यवत्कृती || ३५ ||

सन्ध्यार्द्ध चन्द्रसंकाशाः पलशाश्च विरेजिरे |
कामास्त्रवत्सुमनसः प्रमोदायाभवत् सदा || ३६ ||

वभुः पङ्कजपुष्पाणि सरःसु सकलं जनान् |
सम्मोहयितुमुद्युक्ता सुमुखीबाम्बुदेवता || ३७ ||

नागकेशरवृक्षाश्च स्वर्णवर्णप्रसूनकैः |
बभुर्मदनकेत्वाभा मनोज्ञाः शंकरान्तिके || ३८ ||

चम्पकास्तरवो हैमपुष्पत्वं प्रकटं मुहुः |
कुर्वन्तः प्रचुरैः पुष्पैः सम्यग्रेजुस्तथास्फुटैः || ३९ ||

प्रफुल्लपाटलापुष्पैर्दिशः स्युः पाटलांशवः |
यथा तथा पुष्पितास्ते पाटलाख्या महीरुहाः || ४० ||

लवङ्गवल्लीसुरभिर्गन्धेनोद्वास्य मारुतम् |
सम्मोहयति चेतांसि भृशं कामिजने पुरा || ४१ ||

वासन्तीवासितास्तत्र बल्वजाः किल रेजिरे |
तद्गन्धलुब्धभ्रमरा रतिमिश्रा मनोहराः || ४२ ||

चारु पावकवर्चस्वि शिखराश्चूतशाखिनः |
बभुर्मदनबाणौघ-पर्यकवदनावृताः || ४३ ||

अम्भांसि मलहीनानि रेजुः फुल्लकुशेशयैः |
मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमात् || ४४ ||

तुषाराः सूर्यरश्मीनां संगमादगमन् क्षयम् |
ममत्वानीव विज्ञानशालिनां हृदयात्तदा || ४५ ||

निःशङ्काः कोकिलाः शब्दं तन्वते स्म तदान्वहम् |
प्राणिव्यधनपुष्पेषु पुष्पज्याशब्दवत् भृशम् || ४६ ||

चुकूजुर्भ्रमरास्तत्र वनान्तर्गतपुष्पगाः |
कान्तालीलाबुभुक्षोस्तु स्मरव्याघ्रस्य शब्दवत् || ४७ ||

चन्द्रस्तुषारवद्भानुर्नचैताः सकलाः कलाः |
क्रमाद्वभार मोहाय जनानां कुशलं भुवि || ४८ ||

प्रसन्नाः सह चन्द्रेण निस्तुषारास्तदाभवन् |
विभावर्यः प्रियेणेव कामिन्यः सुमनोहराः || ४९ ||

तस्मिन् काले महादेवः सह सत्या धरोत्तमे |
रेमे च सुचिरं छन्नो निकुञ्जेषु दरीषु च || ५० ||

सापि तेन समं रेमे तथा दाक्षायणी शुभा |
यथा हरः क्षणमपि शान्तिं नाप तया विना || ५१ ||

संभोगविषये देवी सती तस्य मनःप्रिया |
विशतीव हरस्याङ्गे पाययन्तीव तद्रसम् || ५२ ||

तस्याः कुसुममालाभिर्भूषयन् सकलां तनुम् |
स्वहस्तरचिताभिश्च वरं नर्म चकार सः || ५३ ||

आलापैर्वीक्षणैर्हासैस्तथा सम्भाषणैर्हरः |
तस्यां विवेश गिरिशः संयमीवात्मसंविदम् || ५४ ||

तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हरः |
नावाप शैषिकीं तन्वीमवस्थां स कदाचन || ५५ ||

तद्वक्त्राम्बुजवासेन तत्सौन्दर्यस्य नर्मभिः |
गुणैरिव महादन्ती बद्धो नान्यद्विचेष्टते || ५६ ||

इति हिमगिरिकुञ्जे प्रस्थभागे दरीषु प्रतिदिनमधिरेमे दक्षपुत्र्या महेशः |
ऋतुभुजपरिमाणैः क्रीडतस्तस्य जाता नव दश च मुनीन्द्रा वत्सरा पञ्च चान्ये || ५७ ||

इति श्रीकालिकापुराणे शिव-सती-विहार-वर्णने चतुर्दशोऽध्यायः || १४ ||

Kapitel 15

पञ्चदशोऽध्यायः

मार्कण्डेय उवाच

कदाचिदथ दक्षस्य तनया जलदागमे |
जगदाद्रेः शिखरिणः प्रस्थस्थं वृषभध्वजम् || १ ||

सत्युवाच

घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः |
अनेकवर्णमेघौघस्थगिताम्बरदिक्चयः || २ ||

विवान्ति वाता हृदयं दारयन्तोऽतिवेगिनः |
कदम्बरजसाधौतपाथोलेशादिवर्षिणः || ३ ||

मेघानां गर्जितैरुच्चैर्धारासारं विमुञ्चताम् |
विद्युत्पताकिनान्तीव्रैः क्षुब्धं कस्य न मानसम् || ४ ||

न सूर्यो दृश्यते नापि मेघाच्छन्नो निशापतिः |
दिवापि रात्रिवद्भाति विरहिव्यत्ययाकरम् || ५ ||

मेघा नैकत्र तिष्ठन्तो ध्वनन्तः पवनेरिताः |
पतन्त इव लोकानां दृश्यन्ते मूर्ध्नि शंकर || ६ ||

वाताहता महावृक्षा नृत्यन्त इव चाम्बरे |
दृश्यन्ते हर भीरुणां त्रासकाः कामुकेप्सिताः || ७ ||

स्निग्धनीलाञ्जनश्याममुदिरौघस्य पृष्ठतः |
वलाकाराजिर्भात्युच्चैर्यमुनाघूष्टफेनवत् || ८ ||

क्षणं क्षणं चञ्चलेयं दृश्यते कालिका गता |
अम्बुधाविव सन्दीप्तः पावको बडवामुखः || ९ ||

प्ररोहन्ति हि शस्पानि मन्दिरप्राङ्गणेष्वपि |
किमन्यत्र विरूपाक्ष शस्पोद्भूतिं वदाम्यहम् || १० ||

श्यामलै राजतैः कक्षैर्विशदोऽयं हिमाचलः |
मन्दराश्रमवृक्षौघपत्रैर्दुग्धाम्बुधिर्यथा || ११ ||

कुसुमश्रीश्च कूटजं भेजे सास्याथ किंशुकान् |
उच्चावचां कलौ लक्ष्मीर्यथा सन्त्यज्य सज्जनान् || १२ ||

मयूराः स्तनयित्नूनां शब्देन हर्षिता मुहुः |
केकायन्ते प्रतिवनं सततं वृष्टिसूचकाः || १३ ||

मेघोन्मुखानां मधुरश्चातकानां स्वनो हरः |
श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः || १४ ||

गगने शक्रचापेन कृतं साम्प्रतमास्पदम् |
धारासार-शरैस्तापं भेत्तुं प्रति यथोद्गतः || १५ ||

मेघानां पश्य भर्गेह दुर्नयं करकोत्करः |
यत्तारयन्त्यनुगतं मयूरं चातकं तथा || १६ ||

शिखिसारङ्गयोर्दृष्ट्वा मित्रादपि पराभवम् |
हंसा गच्छन्ति गिरिश विदूरमपि मानसम् || १७ ||

एतस्मिन् विषमे काले नीडं काकाश्च कोरकाः |
कुर्वन्ति त्वं विना गेहात् कथं शान्तिमवाप्स्यसि || १८ ||

महती बाधते भीतिर्मां मेघोत्था पिनाकधृक् |
यतस्व तस्माद्वासाय मा चिरं वचनान्मम || १९ ||

कैलासे वा हिमाद्रौ वा महाकौष्यामथ क्षितौ |
तवोपयोग्यं त्वं वासं कुरुष्व वृषभध्वज || २० ||

एवमुक्तस्तदा शम्भुर्दाक्षायण्या तय सकृत् |
इषज्जहास शीर्षस्थचन्द्ररश्मिसिताननः || २१ ||

अथोवाच सतीं देवीं स्मितभिन्नोष्ठसम्पूटः |
महात्मा सर्वतत्त्वज्ञस्तोषयन् परमेश्वरीम् || २२ ||

ईश्वर उवाच

यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे |
मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये || २३ ||

मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः |
सदा प्रालेयधाम्नस्तु वर्षास्वपि मनोहरे || २४ ||

कैलासस्य तथा देवी यावदामेखलं घनाः |
सञ्चरन्ति न गच्छन्ति तस्मादूर्ध्वं कदाचन || २५ ||

सुमेरोर्वारिधेरूर्ध्वं न गच्छन्ति बलाहकाः |
जानुमूलं समासाद्य पुष्करावर्तकादयः || २६ ||

एतेषु च गिरीन्द्रेषु यस्योपरि तवेहते |
मनः प्रिये निवासाय तमाचक्ष्व द्रुतं मयि || २७ ||

स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः |
शकुन्तवर्गैर्मधुरस्वनैस्ते सदोपदेयानि गिरौ हिमोत्थे || २८ ||

सिद्धाङ्गनास्ते सखितां सनातनीमिच्छन्त्य एवोपकृतिं सकौतुकाम् |
स्वेच्छाविहारैर्मणिकुट्टिमे गिरौ कुर्वन्त्य एष्यन्ति फलादिदानकैः || २९ ||

या देवकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरङ्गमुख्यः |
सर्वास्तु तास्ते सततं सहायतां समाचरिष्यन्त्यनुमोदविभ्रमैः || ३० ||

रूपं तवेदमतुलं वदनं सुचारु दृष्ट्वाङ्गना निजवपुर्निजकान्तिसंघम् |
हेलां निजे वपुषि रूपगुणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः || ३१ ||

या मेनका पर्वतराजजाया रूपैर्गुणैः ख्यातवती त्रिलोके |
सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यथ सूचनाद्यैः || ३२ ||

पुरन्ध्रिवर्गैर्गिरिराजवन्द्यैः प्रीतिं वितन्वद्भिरुदाररूपाम् |
शिक्षा सदा ते स्वकुलोचितापि कार्यान्वहं प्रीतियुता गुणौघैः || ३३ ||

विचित्रकोकिलालालापमोदकुञ्जगणावृतम् |
सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये || ३४ ||

नाना स्वच्छजलापूर्णं सरःशतसमावृतम् |
पद्मिनीशतसंयुक्तमचलेन्द्रं हिमालयम् || ३४ अ ||

सर्वकामप्रदैर्वृक्षै शाद्वलः कल्पसंज्ञकैः |
सञ्छन्नं यस्य कुसुमान्युपयोक्ष्यसि तत्र वै || ३५ ||

प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् |
देवालयं महाभागे नानामृगगणैर्वृतम् || ३६ ||

स्फटिकस्वर्णवप्राद्यै राजतैश्च विराजितम् |
मानसादिसरोवर्गैरभितः परिशोभितम् || ३७ ||

हिरन्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् |
शिशुमारैस्तथा शंखैः कच्छपैर्मकरैर्झषैः |
निषेवितैर्मञ्जुलैश्च तथानीलोत्पलादिभिः || ३८ ||

देवीशतस्नानसक्तसर्वगन्धैश्च कुङ्कुमः |
विचित्रस्रग्गन्धजलैरापूर्णैः स्वच्छकान्तिभिः || ३९ ||

शाद्वलैस्तरुभिस्तुङ्गैस्तीरस्थैरूपशोभितैः |
नृत्यद्भिरिव शाखौर्षैर्व्यजयन्तं स्वसम्भवम् || ४० ||

कादम्बैः सारसैर्मत्तचक्राङ्गग्रामशोभितैः |
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः || ४१ ||

वासवस्य कुबेरस्य यमस्य वरुणस्य च |
अग्नेः कौणपराजस्य मारुतस्य हरस्य च || ४२ ||

पुरीभिः शोभिशिखरं मेरुमुच्चैः सुरालयम् |
रम्भाशचीमेनकादिरम्भोरुगणसेवितम् || किं त्वमिच्छसि सर्वेषां सारभूतं महागिरिम् || ४३ ||

तत्र देवीशतयुता साप्सरोगणसेविता |
नित्यं चरिष्यति शची तव योग्यां सहायताम् || ४४ ||

अथवा मम कैलासमचलेन्द्रं सदाश्रयम् |
स्थानमिच्छसि वित्तेशपुरीपरिविराजितम् || ४५ ||

गङ्गाजलौघप्रयतं पूर्णचन्द्रसमप्रभम् |
दरीषु सानुषु सदा यक्षकन्याभिरीहितम् || ४६ ||

नानामृगगणैर्जुष्टं पद्माकरशतावृतम् |
सर्वैर्गुणैश्च सदृशं सुमेरोरिव सुन्दरि || ४७ ||

स्थानेष्वेतेषु यत्रास्ति तवान्तःकरणस्पृहा |
तद्द्रुतं मे समाचक्ष्व वासं कर्तास्मि तत्र ते || ४८ ||

मार्कण्डेय उवाच

इतीरिते शंकरेण तदा दाक्षायणी शनैः |
इदमाह महादेवं श्लक्ष्णं स्वेच्छाप्रकाशकम् || ४९ ||

सत्युवाच

हिमाद्रावेव वसतिमहमिच्छे त्वया सह |
न चिरात् कुरु वासं त्वं तस्मिन्नेव महागिरौ || ५० ||

मार्कण्डेय उवाच

अथ तद्वाक्यमाकर्ण्य हरः परममोदितः |
हिमाद्रिशिखरं तुङ्गं दाक्षायण्या समं ययौ || ५१ ||

सिद्धाङ्गनागणयुक्तमगम्यं मेघपक्षिभिः |
जगाम शिखरं तुङ्गं मरीचवनराजितम् || ५२ ||

इति श्रीकालिकापुराणे हिमाद्रिनिवालयवनं पञ्चदशोऽध्यायः

Kapitel 16

षोडशोऽध्यायः

मार्कण्डेय उवाच

विचित्रं कनकै रूप्यैः शिखरं रत्नकर्बुरम् |
वालार्कसदृशं तुङ्गमाससाद सतीसखः || १ ||

स्फटिकाश्मलये तस्मिन् शाद्वलद्रुमराजिते |
विचित्रपुष्पबल्लीभिः सरसीभिश्च संयुते |
प्रफुल्लतरुशाखाग्रगुञ्जद्भ्रमरभूषिते || २ ||

पङ्केरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा |
शोभिते चक्रवाकौघैः कादम्बैर्हंसमद्गुभिः || ३ ||

प्रमत्तसारसैः क्रौञ्चैर्नीलकण्ठैश्च शब्दिते |
पुंस्कोकिलकलस्वानैर्मधुरैर्मूगसेविते || ४ ||

तुरङ्गवदनैः सिद्धैरप्सरोभिः सगुह्यकैः |
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारिते |
पुरन्ध्रीभिः पार्वतीभिः कन्याभिश्च समन्विते || ५ ||

विपञ्चीतन्त्रिकामन्द्रमृदङ्गपटहस्वनैः |
नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैः सुशोभिते || ६ ||

दैवीलताभिर्दिव्याभिर्गन्धिनीभिः समावृते |
ऊर्ध्वप्रफुल्लकुसुमैर्निकुञ्जैरूपशोभिते || ७ ||

शैलराजपुराभ्यासे शिखरे वृषभध्वजः |
सह सत्या चिरं रेमे एवम्भूते सुशोभने || ८ ||

तस्मिन् स्वर्गसमे स्थाने दिव्यमानेन शंकरः |
दश वर्षसहस्राणि रेमे सत्या समं मुदा || ९ ||

स कदाचित्तु तत्स्थानात् कैलासं याति शंकरः |
कदाचिन्मेरुशिखरं देवदेवीवृतं पुरा || १० ||

दिक्पालानां तथोद्यानं वनानि वसुधातलम् |
गत्वा गत्वा पुनस्तत्र रेमे तेभ्यः सतीसखः || ११ ||

न जज्ञे स दिवारात्रं न ब्रह्म न तपः शमम् |
सत्याहितमना शम्भुः प्रीतिमेव चकार ह || १२ ||

एकं महादेवमुखं सती पश्यति सर्वशः |
महादेवोऽपि सर्वत्र सदाद्राक्षीत सतीमुखम् || १३ ||

एवमन्योन्यसंसर्गादनुरागमहीरुहम् |
वर्धयामासतुः शम्भुसत्यौ भावाम्बुसेचनैः || १४ ||

एतस्मिन्नन्तरे सक्षो जगतां हितकारकः |
महायज्ञं समारेभे यष्टुं वै सर्वजीवनम् || १५ ||

अष्टाशीति-सहस्राणि यत्र जुह्वति ऋत्विजः |
उद्गातारश्चतुः षष्टिसहस्राणि सुरर्षयः |
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः || १६ ||

अधिस्थाता स्वयं विष्णुः सह सर्वमरुद्गणैः |
स्वयं तत्राभवद् ब्रह्मा त्रयीविधिनिदर्शकः || १७ ||

तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः |
उपतस्थे स्वयं यज्ञः स्वयं वेदी धराभवत् || १८ ||

तनूनपादपि निजं चक्रे रूपं सहस्रशः |
हविषां ग्रहणायाशु तस्मिन् यज्ञमहोत्सवे || १९ ||

आमन्त्र्याशु मरीच्याद्याः पवित्रैकैकधारिणः |
सर्वत्र सामिधेन्या ते ज्वालयामासुरर्च्चिषम् || २० ||

सप्तर्षयः सामघाथाः कुर्वन्ति स्म पृथक् पृथक् |
गान्दिशो विदिशः खञ्च पूरयन्तः श्रुतिस्वरैः || २१ ||

न वृतास्तत्र यागेषु दक्षेण सुमहात्मना |
न केचिदृषयो देवा न मनुष्या न पक्षिणः |
नोद्भिदो न तृणं वापि पशवो न मृगास्तथा || २२ ||

गन्धर्वविद्याधरसिद्धसंघानादित्यसाध्यर्षिगणान् सयक्षान् |
सस्थावरान्नागवरान् समस्तान् वव्रे स दक्षः सुमहाध्वरेषु || २३ ||

कल्प-मन्वन्तरयुग-वर्ष-मास-दिवा-निशाः |
कला-काष्ठा-निमेषाद्या वृताः सर्वे समागताः || २४ ||

महर्षिराजर्षिसुरर्षिसङ्घा नृपाः सपुत्राः सचिवैः ससैन्यैः |
वसुप्रमुख्या गणदेवता याः सर्वा वृतास्तेन गता मखं तम् || २५ ||

कीटाः पतङ्गा जलजाश्च सर्वे सवानराः श्वापदविघ्नघोराः |
मेघाः सशैलाः सनदीसमुद्राः सरांसि वाप्यश्च गता वृतास्ते || २६ ||

सर्वे स्वभागं हविषां जिवृक्षवः ऋतुं प्रजग्मुर्दृढयज्विनस्ते |
पातालवासा असुराः समागता नागस्त्रियो देवसभाः समस्ताः || २७ ||

जगद्वर्त्यस्ति यत्किञ्चच्चेतनाचेतनं पुनः |
सर्वं वृत्वा समारेभे यज्ञं सर्वस्व दक्षिणम् || २८ ||

तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण महात्मना |
कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि || २९ ||

कपालिभायेर्ति सती दयितापि सुता निजा |
नाहूता यज्ञविषये दक्षेण दोषदर्शिना || ३० ||

श्रुत्वा सती तथा यज्ञं तातेनारब्धमुत्तमम् |
कपालिभायेर्ति वृता नाहमित्यपि तत्त्वतः || ३१ ||

उच्चैश्चुकोप दक्षाय रक्तनेत्रानना तदा |
शापेन दक्षं दघुं च मनश्चक्रे तदा सती || ३२ ||

कोपाविष्टापि सा पूर्वसमयं स्मृतवत्यमुम् |
मनसेति विनिश्चित्य न शशाप तदा सती || ३३ ||

अलं शापेन मे पूर्वं सुदृढः समयः कृतः |
अस्तीति मययवज्ञायां प्राणान् मोक्ष्ये ध्रुवं पुनः || ३४ ||

यदा स्तुताहं दक्षेण सुचिरं तनयार्थिना |
तदैव समयो मेऽयं शापेनालंकरोमि तम् || ३५ ||

इति सञ्चिन्त्य सा देवी नित्यरूपमथात्मनः |
सस्मारातुलमत्युग्रं निष्कलं तु जगन्मयम् || ३६ ||

पूर्वरूपं स्मरन्ती सा योगनिद्राह्वयं हरेः |
एवं सञ्चिन्तयामास मनसा दक्षजा तदा || ३७ ||

ब्रह्मणोदितदक्षेण यदर्थमहमीडिता |
तत् किञ्चिदपि नोज्ञातं शंकरोऽपि न पुत्रवान् || ३८ ||

इदानीमेकमेवाभूत् कार्यं देवगणस्य च |
यच्छंकरः सानुरागो मत्कृतेऽभूच्च योपिति || ३९ ||

मत्तो नान्या पुनः शम्भो रागं वर्धयितुं पुनः |
शक्ता न कापि भविता स नान्यां संग्रहीष्यति || ४० ||

तथाप्यहं तनुं त्यक्षे समयात् पूर्वयोजितात् |
हिताय जगतां कुर्यां प्रादुर्भावं पुनर्गिरौ || ४१ ||

पुरा हिमवतः प्रस्थे रम्ये देवगृहोपमे |
शम्भुः सार्धं मया रन्तुं सुचिरं प्रीतिसंयुतः || ४२ ||

तत्र या मेनका देवी चार्वङ्गी चरितव्रता |
सुशीला सा पुरस्त्रीणामुत्तमा पावतीगणे || ४३ ||

सा मां मातृवदाचष्ट सर्वकर्मसु नर्मकम् |
तस्यां मेऽत्यनुरागोऽभूत् सा मे माता भविष्यति || ४४ ||

कन्याभिश्च पार्वतीभिश्च पार्वतीभिश्च बाल्यक्रीडामहं चिरम् |
कृत्वा कृत्वा मेनकायाः करिष्ये मोदमुत्तमम् || ४५ ||

पुनश्चाहं भविष्यामि शम्भोजायातिवल्लभा |
करिष्ये देवकार्याणि तदुपायादसंशयम् || ४६ ||

इति सञ्चिन्तयन्ती सा पुनः कोपसमावृता |
जज्वाल दक्षतनया दक्षदारुणकर्मणा || ४७ ||

क्रोधरक्तेक्षणा तत्र तनुयष्टिस्तदा सती |
स्फोटञ्चकार द्वाराणि सर्वाण्यावृत्य योगतः || ४८ ||

तेन स्फोटेन महता तस्यास्तु प्राणवायवः |
निर्भिद्य दशमद्वारमात्मनस्ते बहिर्ययुः || ४९ ||

त्यक्तप्राणान्तु तां दृष्ट्वा देवाः सर्वेऽन्तरिक्षगाः |
हाहाकारं तदा चक्रुः शोकव्याकुलितेक्षणाः || ५० ||

ततस्तु सत्या भगिनीसुता तां द्रष्टुमागता |
चुक्रोश शोकाद्विजया मृतां दृष्ट्वा सतीं महुः || ५१ ||

हा सती क्व गतासीति हा सती तव किन्विदम् |
हा मातृष्वसरित्युच्चैस्तदा शब्दो महानभूत् || ५२ ||

विप्रियश्रवणादेव प्राणांस्त्यक्तास्त्वया सति |
अहं कथन्तु जीवामि दृष्ट्वेदृग्विप्रियं दृढम् || ५३ ||

पाणिना वदनं सत्या मार्जयन्ती मुहुर्मुहुः |
करुणं विलपन्ती स्म मुखं जिघ्रति सा तदा || ५४ ||

सिञ्चन्ती नेत्रजैस्तोयैः सत्याः सा हृदयं मुखम् |
केशानुल्लास्य पाणिभ्यां वीक्षन्ती वदनं मुहुः || ५५ ||

ऊर्ध्वाधःकम्पितशिराः शोकव्याकुलितेन्द्रिया |
हृदयं पञ्चशाखाभ्यां विनिहन्ती तथा शिरः || ५६ ||

इदं च वचनं साश्रुकण्ठा सा विजयाऽब्रवीत् |
श्रुत्वा ते मरणं माता वीरिणी शोककर्षिता || ५७ ||

धारयन्ती कथं प्राणान् सद्यस्त्यक्ष्यति जीवितम् |
स तथा निरनुक्रोशः क्रूरकर्मा पिता तव || ५८ ||

प्रमीतां भवतीं श्रुत्वा कथं धास्यति जीवितम् |
विचिन्त्य नूनं कर्माणि स्वीयानि भवतीं प्रति |
कृतानि स नृशंसानि दक्षः शोकाकुलस्तदा || ५९ ||

यज्वा स च ज्ञानहीनः कथं यज्ञे प्रवर्तते |
निःश्रद्धस्त्यक्तबुद्धिश्च कथं वा स भवेत् क्रतौ || ६० ||

हा मातर्देहि वचनं रुदन्त्या बालवन्मम |
भवत्या निर्दया शोकाद् ध्रिये शल्यसमानसून् || ६१ ||

त्वं किं स्मरसि मे शम्भोर्विहितस्य कदाचन |
तेनामर्षवशं प्राप्ता मातर्मां किन्न भाषसे || ६२ ||

तदेव वचनं चक्षुर्मुखं सा नासिका तव |
एतेषां क्व गता सर्वे विभ्रमा हसितं क्व च || ६३ ||

ननु ते विभ्रमैर्हीनं नेत्रयुग्मं सुनासिकम् |
स्मितहीनं च वदनं दृष्ट्वा सोढा कथं हरः || ६४ ||

का सुधासम्मितं वाक्यं हराश्रमसमागतान् |
सुनृतं त्वामृते मातर्वदिष्यति मुहुर्मुहुः || ६५ ||

श्रद्धावती बान्धवेषु पत्युर्भाववशानुगा |
सर्वलक्षणसम्पूर्णा तत्समा का भविष्यति || ६६ ||

त्वदृते देवि देवेशः शोकोपहतचेतनः |
दुःखितात्मा निरुत्साहो निश्चेष्टश्च भविष्यति || ६७ ||

एवं लपन्ती भृशदुःखिता सतीं मृतां समीक्ष्यातिशयं शुचाहता |
पपात भूमौ विजया विरावं वितन्वती चोर्ध्वभुजा प्रवेपती || ६८ ||

इति श्रीकालिकापुराणे सतीदेह-त्यागो नाम षोडषोऽध्यायः || १६ ||

Kapitel 17

सप्तदशोऽध्यायः

मार्कण्डेय उवाच

एतस्मिन्नन्तरे शंभुः शोभने मानसे ह्रदे |
समाप्य सन्ध्यामायातः स्वमाश्रमपदं प्रति || १ ||

आगच्छन्नेव संरावं विजयाया वृषध्वजः |
शुश्राव दारुणं तीव्रं चकितश्च ततोऽभवत् || २ ||

तत उक्ष्णा बलवता मनोमारुतरंहसा |
स्वमाश्रमपदं शर्व आससाद त्वरान्वितः || ३ ||

आसाद्य देवीं दयितां तदा दाक्षायणीं हरः |
मृतां दृष्ट्वापि न जहौ मृतेऽतिप्रियभावतः || ४ ||

ततो निरीक्ष्य वदनमामृज्य च पुनः पुनः |
पप्रच्छ कस्मात् सुप्तासीत्येवं द्राक्षायणीं मुहुः || ५ ||

ततो भर्गवचः श्रुत्वा तदा तद्भगिनीसुता |
विजया प्राह निधनं दाक्षायण्या यथा तथा || ६ ||

विजयोवाच

दक्षः कर्तुं क्रतुं शम्भो देवान् सर्वान् सवासवान् |
आजुहाव तथा दैत्यान् राक्षसान् सिद्धगुह्यकान् || ७ ||

ब्राह्मणानथ गोविन्दमिन्द्रादीनपि दिक्पतीन् |
देवयोनींस्तथा सर्वान् साध्यविद्याधरादिकान् || ८ ||

नाहूतानि क्रतौ तेन यानि सत्त्वानि शंकर |
तानि दक्षेण नो सन्ति समस्तभुवनेष्वपि || ९ ||

एवं प्रविततं यज्ञं श्रुत्वैषा वचनान्मम |
विमृष्यवत्यनाह्वाने हेतुं शम्भोरथात्मनः || १० ||

चिन्तयानां तथाहं तां सतीं ज्ञात्वा यथाश्रुतम् |
उक्तवत्यस्मि भूतेश यज्ञानाह्वानकारणम् || ११ ||

शम्भुः कपाली तज्जाया तत्संसर्गाद्विगर्हिता |
अतः शम्भुः सती चापि नाध्वरे मे मिलिष्यतः || १२ ||

इत्यनाह्वानहेतुर्मे श्रुतपूर्वः पुरा मुखात् |
दक्षस्य वीरिणीं श्लक्ष्णां गदतस्तस्य मन्दिरे || १३ ||

एतच्छ्रुत्वा मम वचः सा विवर्णमुखी क्षितौ |
उपविष्टा न मां किंचिदुक्ता कोपपरायणा || १४ ||

बभूव वदनं तस्यास्तत्क्षणात् सरूपं हर |
भ्रुकुटीकुटिलं श्यामं यथा खं धूमकेतुना || १५ ||

सा मुहूर्तमिव ध्यात्वा स्फोटेन महता ततः |
प्राणानुदसृजच्चैषा भित्त्वा मूर्द्धानमात्मनः || १६ ||

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्या विजयाया वृषध्वजः |
अतीव कोपादुत्तस्थौ दिधक्षुरिव पावकः || १७ ||

तस्य कोपपरीतस्य कर्णनासाक्षिवक्त्रतः |
घोरा जलन्त्यः कणिकाः सृजन्त्योऽग्नेर्महारवम् |
उल्का विनिःसृता वह्वयः कल्पान्तादित्यवर्चसः || १८ ||

अथ तत्र जगामाशु दक्षो यत्र महातपाः |
यज्ञञ्चक्रे हरो गत्वा यज्ञवाटाद् बहिःस्थितः || १९ ||

तं यज्ञं ददृशे भर्गः कोपेन महतावृतः |
महाधनसमापन्नं पात्रीयूपादिभिर्वृतम् || २० ||

हुताज्याहुतिसंवृद्धं दीप्तवह्निविराजितम् |
यथास्थानस्थितान् सर्वान् दिक्पालान् सायुधध्वजान् || २१ ||

विधातारं तथा विष्णुं यज्ञमध्ये व्यवस्थितम् |
ददर्श कुपितः शम्भुस्तान् दृष्ट्वातीव कोपतः || २२ ||

भगं सूर्यं तथा सोमं भार्याभिः सह संवृतम् |
सहस्राक्षं गौतमं च पूर्वे भागे व्यवस्थितम् || २३ ||

सनत्कुमारमात्रेयं भार्गवं विनतासुतम् |
मरुद्गणांस्तथा साध्यानाग्नेयं जातवेदसम् || २४ ||

कालं च चित्रगुप्तञ्च कुम्भयोनिं सगालवम् |
विश्वेदेवांस्तथा सर्वान् कव्यवाहादिकान् पितृन् || २५ ||

अग्निष्वात्तादिकान् सर्वान् भूतग्रामं चतुर्विधम् |
भौमं प्रेतगणान् सिद्धान् दक्षिणाशां व्यवस्थितान् || २६ ||

रक्षांसि च पिशाचांश्च भूतानि मृगपक्षिणः |
क्रव्यादान् क्षुद्रजन्तूंश्च तथा पुण्यजनेश्वरम् || २७ ||

महर्षि मौद्गलं राहुं नैरृत्यां किन्नरांस्तथा |
महोरगांस्तथा नक्रान् मत्स्यान् ग्राहांश्च कच्छपान् |
समुद्रान् सप्तसिन्धूंश्च नदीस्तीर्थानि गुह्यकान् || २८ ||

मानसादि ह्रदान् सर्वान् गंगांजम्बूनदीं तथा |
कामं मधुं वसन्तं च वरुणञ्च सहानुगम् || २९ ||

शनैश्चरं गिरीन् सर्वान् पश्चिमाशाव्यवस्थितान् |
प्राणादिपंचवायूंश्च सगणञ्च समीरणम् |
कल्पद्रुमान् हिमाद्रिञ्च कश्यपञ्च महामुनिम् || ३० ||

वायव्यां कमलाव्रातं फलानि च कलानिधिम् |
नानारत्नानि हैमानि मनुष्यान् पर्वतांस्तथा || ३१ ||

हिमाद्रिमुख्या यक्षाश्च स्थूणकर्णादयो बुधाः |
नलकूबेरेण सहितो यक्षरान्नरवाहनः || ३२ ||

ध्रुवो धरश्च सोमश्च विष्णुश्चैवानिलोऽनलः |
प्रत्यूषश्च प्रभासश्च कौवेरीं संस्थितानिमान् || ३३ ||

वृषध्वजं विना सर्वान् रुद्रान् जीवं मनूंस्तथा |
विविधान् बाहुजान् वैश्यान्शूद्रानपि समन्ततः || ३४ ||

ऐशान्यां विविधान्नानि व्रीहीनपि तिलानपि |
ऐशानीपूर्वयोर्मध्ये ब्रह्मर्षीन् संशितव्रतान् || ३५ ||

महर्षींश्चतुरो वेदान् वेदाङ्गानि तथैव षट् |
नेरृत्यपश्चिमान्तस्थमनन्तं श्वेतपर्वतम् || ३६ ||

काद्रवेयसहस्रेण सहितान् सप्तभोगिनः |
केतुं तत्रैव कुष्माण्डं डाकिनीगणसंयुक्तम् || ३७ ||

तथा जलधरानन्यान्नानावर्णान् सविद्युतान् |
दिग्गजानपि तत्रस्थानैरावतमुखान् हरः || ३८ ||

यथास्थानस्थितान् सर्वान्दिक्करिण्या च संयुतान् |
तमेवं दूरतो दृष्ट्वा यज्ञवाटं महाधनम् |
वीरभद्राह्वयं तूर्ण प्रेषयामास तं प्रति || ३९ ||

वीरभद्रोऽपि बहुभिः संवृतो विविधैर्गणैः |
व्यध्वंसयत्ततो यज्ञं दक्षस्य सुमहात्मनः || ४० ||

विकुर्वन्तं महायज्ञं वीरभद्रं समीक्ष्य वै |
वारयामास वैकुण्ठः सर्वदेवगणावृतः || ४१ ||

तं वार्यमाणं दृष्टैव क्रोधसंरक्तलोचनः |
स्वयं विवेश तं यज्ञं ध्वंसयामास चेश्वरः || ४२ ||

विशन्तमेव तं यज्ञे प्रथमं पुरतो भगः |
बाहू वितत्य भूतेशमाससाद त्वरान्वितः || ४३ ||

तमागतमभिप्रेक्ष्य भर्गोऽपि भृशरोषितः |
अंगुल्यग्रप्रहारेण तस्य नेत्रे जघान ह || ४४ ||

हीननेत्रं भगं दृष्ट्वा विरूपाक्षं दिवाकरः |
स्पर्द्धमानस्ततः सर्वमाससाद त्वरान्वितः || ४५ ||

ततः सूर्यं महादेवः पाणौ धृत्वा करेण च |
दूरकृत्यातिकुपितो यज्ञमेवाभ्यधावत || ४६ ||

मार्तण्डश्च हसन् वेगाद्वितत्य विपुलौ भुजौ |
एहि योत्स्ये त्वयेत्युक्त्वा तमग्रे प्रत्यवारयत् || ४७ ||

हसतस्तस्य सूर्यस्य क्रोधेन वृषभध्वजः |
दन्तान् करप्रहारेण शातयामास वक्तृतः || ४८ ||

विदन्तं मिहिरं दृष्ट्वा हीननेत्रं भगं तथा |
सर्वे देवाश्च ऋषयो ये चान्ये तत्र दुद्रुवुः || ४९ ||

विद्राव्य सर्वान् देवादीन् हरः परमकोपनः |
मृगरूपेनापयान्तं यज्ञमेवान्वपद्यत || ५० ||

यज्ञोऽप्याकाशमार्गेण ब्रह्मस्थानं विवेश ह |
वृषध्वजोऽपि कुपितो ब्रह्मस्थानं जगाम ह || ५१ ||

ब्रह्मणः सदनाद् यज्ञो भीतो भर्गादवातरत् |
अवतीर्य सतीदेहं प्रविवेश स्वमायया || ५२ ||

भर्गोऽपि दक्षदुहितुर्मृताया निकटं यतः |
अन्वगच्छतदा यज्ञं ददर्श च सतीशवम् || ५३ ||

मृतां दृष्ट्वा तदा देवीं हरो दाक्षायणीं सतीम् |
विस्मृत्य यज्ञं तत्प्रान्ते स्थितो वाडं शुशोच तान् || ५४ ||

बहुविधगुणवृन्दं चिन्तयञ्छूलपाणिर्ललितदशनपंक्तिं वक्तृमब्जप्रकाशम् |
अरुणदशनवस्त्रं भ्रूयुगं वीक्ष्य तस्याः खरतरपृथुशोकव्याकुलोऽसौ रुरोद
|| ५५ ||

इति श्रीकालिकापुराणे दक्षयज्ञभङ्गे सप्तदशोऽध्यायः || १७ ||

Kapitel 18

अष्टादशोऽध्यायः

मार्कण्डेय उवाच

दाक्षायणीगुणगणान् गणयन् गोरङ्गस्तदा |
विललापातिदुःखार्तो मनुजः प्राकृतो यथा || १ ||

विलपन्तं तदा भर्गं विज्ञाय मकरध्वजः |
रतीवसन्तसहित आससाद महेश्वरम् || २ ||

तं शुचातिपरिभ्रष्टं युगपत् स रतिपतिः |
जघान पंचभिर्वाणै रुदन्तं भ्रष्ठचेतनम् || ३ ||

शोकाभिहतचित्तोऽपि स्मरबाण-समाकुलः |
संकीर्णभावमापन्नः शुशोच च मुमोह च || ४ ||

क्षणं भूमौ निपतति क्षणमुत्वाय धावति |
क्षणं भ्रमति तत्रैव निमीलति विभुः पुनः || ५ ||

ध्यायन् दाक्षायणीं देवीं हसमानः कदाचन |
परिष्वजति भूमिष्ठां रसभावैरिव स्थिताम् || ६ ||

सतीसतीति सततं नाम व्याहृत्य शंकरः |
मानं त्यज वृथेत्येवमुक्त्वा स्पृशति पाणिना || ७ ||

पाणिनापरिमार्ज्यैनामलंकारान् यथास्थितान् |
तस्या विश्लिष्य च पुनस्तत्रैवानुयुयोज च || ८ ||

एवं कुर्वति भूतेशे मृता नोवाच किञ्चन |
यदा सती तदा भर्गः शोकाद्गाढं रुरोद ह || ९ ||

रुदतस्तस्य पततो वाष्पान् वीक्ष्य तदा सुराः |
ब्रह्मादयः परां चिन्तां जग्मुश्चिन्तापरायणाः || १० ||

वाष्पाः पतन्तो भूमौ चेद्दहेयुः पृथिवीमिमाम् |
उपायस्तत्र कः कार्य इति हाहेति चुक्रुशुः || ११ ||

ततो विमृष्यते देवा ब्रह्माद्यास्तु शनैश्चरम् |
तुष्टुवुर्मूढभर्गस्य वाष्पधारणकारणात् || १२ ||

देवा ऊचुः

शनैश्चर महाभाग लोकानुग्रहकारक |
मूलशक्तिसमुद्भूत नमस्ते सूर्यसम्भव || १३ ||

नमस्ते शूलहस्ताय पाशहस्ताय धन्विने |
तथा वरदहस्ताय तमश्छायात्मजाय ते || ४ ||

नीलमेघ-प्रतीकाश भिन्नाञ्जनचयोपम |
नमस्ते सर्वलोकानां प्राणधारणहेतवे || १५ ||

गृध्रध्वज नमस्तेऽस्तु प्रसीद भगवन् दृढम् |
वाष्पेभ्यः शोकजेभ्यश्च पाहि भर्गस्य नः क्षितिम् || १६ ||

यथा पुरा शतं वर्षानवजग्राह वर्षणम् |
भवानेव तु मेघेभ्यस्तथा कुरु हराम्बुनि || १७ ||

तवचापां ग्रहं दृष्ट्वा मेघास्ते पुष्करादयः |
मुमुचुः सततं वर्षं महेन्द्रस्य किलाज्ञया || १८ ||

आकाश एव वर्षाम्भस्तत्सर्वं भवता पुरा |
विनाशितं यथा वाष्पं तथा नाशय शूलिनः || १९ ||

न त्वामृतेऽन्यः शक्तोऽस्ति हरवाष्पनिवारणे |
दहेत् सदेवगन्धर्वब्रह्मलोकान् सपर्वतान् |
पृथिवीं पतितो वाष्पस्तस्माद्धारय मायया || २० ||

मार्कण्डेय उवाच

इत्येवम्भाषणमाणेषु देवेषु मिहिरात्मजः |
प्रत्युवाच स तान् देवान्नातिहृष्टमना इव || २१ ||

शनैश्चर उवाच

करिष्ये भवतां कर्म यथाशक्ति सुरोत्तमाः |
तथा किन्तु विदधं हि न मां वेत्ति यथा हरः || २२ ||

दुःखशोकाकुलस्यास्य समीपे वाष्पधारिणः |
कोपान्नश्येच्छरीरं मे नियतं नात्र संशयः || २३ ||

तस्माद् यथा मां भूतेशो न जानाति सतीपतिः |
तथा कुरुध्वं नेत्रेभ्यो हरलोतकधारिणम् || २४ ||

मार्कण्डेय उवाच

ततो ब्रह्मादयो देवास्ते सर्वे शंकरान्तिकम् |
गत्वा हर सन्मुमुहुः सासार्या योगमायया || २५ ||

शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा |
वाष्पवृष्टिं दुराधर्षामवजग्राह मायया || २६ ||

यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः |
तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके || २७ ||

लोकालोकस्य निकटे जलधाराह्वयो गिरिः |
पुष्करद्वीपपृष्ठस्थस्तोयसागर पश्चिमे || २८ ||

स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः |
तस्मिन् विन्यस्तवान् वाष्पांस्तदाशक्तः शनैश्चरः || २९ ||

स पर्वतोऽपि तान् वाष्पान्न धर्तुं क्षम ईशितुः |
विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवदद्रुतम् || ३० ||

ते वाष्पाः पर्वतं भित्वा विविशुस्तोयसागरम् |
सागरोऽपि ग्रहीतुं तन्न शशाक खरानति || ३१ ||

ततस्तु सागरं मध्ये भित्वा वाष्पाः समागताः |
तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्विभेद ताम् || ३२ ||

विभिद्य वेलां ते वाष्पाः पुष्करद्वीपमध्यगाः |
नदी भूत्वा वैतरणी पूर्वसागरगाभवत् || ३३ ||

जलधारस्य भेदेन संसर्गात् सागरस्य च |
अवाप्य सौम्यतां किंचिद्वाष्पास्ते नाभिन्दन् क्षितिम् || ३४ ||

वैवस्वतपुरद्वारे योजनद्वयविस्तृता |
अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा || ३५ ||

अथ शोकविमूढात्मा विलपन् वृषभध्वजः |
जगाम प्राच्यदेशांस्तु स्कन्धे कृत्वा सतीशवम् || ३६ ||

उन्मत्तवद्गच्छतोऽस्य दृष्ट्वा भावं दिवौकसः |
ब्रह्माद्याश्चिन्तयामासुः शवभ्रंशनकर्मणि || ३७ ||

हरगात्रस्य संस्पर्शाच्छवो नायं विशीर्णताम् |
गमिष्यति कथं तस्मादस्य भ्रंशो भविष्यति || ३८ ||

इति सञ्चिन्तयन्तस्ते ब्रह्मविष्णुशनैश्चराः |
सतीशवान्तर्विविशुरदृश्या योगमायया || ३९ ||

प्रविश्याथ शवं देवा खण्डशस्ते सतीशवम् |
भूतले पातयामासुः स्थाने स्थाने विशेषतः || ४० ||

देवीकूटे पादयुग्मं प्रथमं न्यपतत् क्षितौ |
उड्डीयाने चोरुयुग्मं हिताय जगतां ततः || ४१ ||

कामरूपे कामगिरौ न्यपतद्योनिमण्डलम् |
तत्रैव न्यपतद्भूमौ पर्वते नाभिमण्डलम् || ४२ ||

जालन्धरे स्तनयुगं स्वर्णहारविभूषितम् |
अंशग्रीवं पूर्णगिरौ कामरूपा ततः शिरः || ४३ ||

यावद्भुवं गतो भर्गः समादाय सतीशवम् |
पाच्येषु याज्ञिको देशस्तावदेव प्रकीर्तितः || ४४ ||

अन्ये शरीरावयवा लवशः खण्डिताः सुरैः |
आकाशगंगामगमन् पवनेन समीरिताः || ४५ ||

यत्र यत्रापतन् सत्यास्तदापादादयो द्विजाः |
तत्र तत्र महादेवः स्वयं लिंगस्वरूपधृक् |
तस्थौ मोहसमायुक्तः सतीस्नेहवशानुगः || ४६ ||

ब्रह्मविष्णुशनिश्चापि सर्वे देवंगणास्तथा |
पूजयाञ्चक्रुरीशस्य प्रीत्या सत्याः पदादिकम् || ४७ ||

देवीकूटे महादेवी महाभागेति गीयते |
सतीपादयुगे लीना योगनिद्रा जगत्प्रसूः || ४८ ||

कात्यायनी चोड्डीयाने कामाख्या कामरूपिणी |
पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे गिरौ || ४९ ||

पूर्वान्ते कामरूपस्य देवी दिक्करवासिनी |
तथा ललितकान्तेति योगनिद्रा प्रगीयते || ५० ||

यत्रैव पतितं सत्याः शिरस्तत्र वृषध्वजः |
उपविष्टः शिरो वीक्ष्य श्वसञ्छोकपरायणः || ५१ ||

उपविष्टे हरे तत्र ब्रह्माद्यास्ते दिवौकसः |
समीपमगमंस्तस्य दूरतः सान्त्वयन् हरम् || ५२ ||

देवानागच्छतो दृष्ट्वा शोक-लज्जासमन्वितः |
गत्वा शिलात्वं तत्रैव लिंगत्वं गतवान् हरः || ५३ ||

हरे लिंगत्वमापन्ने ब्रह्मादयास्तु दिवौकसः |
तुष्टुवुस्त्र्यम्बकं तत्र लिंगरूपं जगद्गुरुम् || ५४ ||

देवा ऊचुः

महादेवं शिवं स्थाणुमुग्रं रुद्रं वृषध्वजम् |
श्मशानवासिनं भर्गं सर्वान्तकरणं परम् || ५५ ||

त्वां नमामो वयं भक्त्या शंकरं नीललोहितम् |
गिरीशं वरदं देवं भूतभावनमव्ययम् || ५६ ||

अनादिमध्यसंसारयोगविद्याय शम्भवे |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ५७ ||

जटिलाय गिरिशाय विद्याशक्तिधराय ते |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ५८ ||

ज्ञानामृतान्तसम्पूर्णशुद्धदेहान्तराय च |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ५९ ||

आदिमध्यान्तभूताय स्वभावानलदीप्तये |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६० ||

प्रलयाणवसंस्थाय प्रलयस्थितिहेतवे |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६१ ||

यः परेभ्यः परस्तस्मात् पराय परमात्मने |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६२ ||

ज्वालामालावृतांगाय नमस्ते विश्वरूपिणे |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६३ ||

ओं नमः परमार्थाय ज्ञानदीपाय वेधसे |
नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६४ ||

नमो दाक्षायणीकान्त मृड शर्व महेश्वर |
नमस्ते सर्वभूतेश प्रसाद भगवञ्छिव || ६५ ||

सशोके त्वयि लोकेशे चेष्टमाने महेश्वर |
सुराः समाकुलाः सर्वे तस्माच्छोकं परित्यज || ६६ ||

नमो नमस्ते भूतेश सर्वकारणकारण |
प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते || ६७ ||

मार्कण्डेय उवाच

इति संस्तूयमानस्तु महादेवो जगत्पतिः |
निजं रूपं समास्थाय प्रादुर्भूतः शुचाहतः || ६८ ||

तं शुचा विह्वलं दृष्ट्वा प्रादुर्भूतं विचेतसम् |
शोकापहं विधिःसाम्ना तुष्टाव वृषभध्वजम् || ६९ ||

ब्रह्मोवाच

हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः |
सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर || ७० ||

त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् |
उत्पादकः स्थापकश्च नाशकश्चापि विश्वकृत् || ७१ ||

त्वा माराध्य महादेव मुक्ति याता मुमुक्षणः |
रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः || ७२ ||

तृतीयं यद् भवेन्नेत्रं ललाटस्थं महेश्वर |
सततं भ्राजमानं तत् चित्र्यं तेजी मुमुक्षुभिः || ७२ क ||

विभिन्नवायवग्नि जलौघवर्जितं न दूरसंस्थं रविचन्द्रसंयुतम् |
त्रिमार्गमध्यस्थमनुप्रकाशकं तत्त्वं परं शुद्धमयं महेश्वर || ७३ ||

यदष्ट शाखस्य तरोः प्रसूनं चिदम्बुवृद्धस्य समीपजस्य |
तपश्छदःसंस्थगिशस्य पीनं सूक्ष्मोपगं ते वशगं सदैव || ७४ ||

अधः समाधाय समीरण स्वनं निरुद्ध्य चोर्द्धंनिशि हंसमध्यतः |
हृत्पद्ममध्ये सुमुखीकृतं रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् || ७५ ||

प्राणायामैः पूरकैः स्तम्भकैर्वा रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् |
दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् || ७६ ||

सूक्ष्मं जगद्व्यापि गुणौघपीनं मृग्यम्बुधेः साधनसाध्यरूपम् |
चौरैरक्षैनोज्झितं नैव नीतं वित्तं तवास्त्यर्थहीनं महेश || ७७ ||

न कोपेन न शोकेन न मानेन द दम्भतः |
उपयोज्य तु तद्वित्तमन्ययेव विवर्धते || ७८ ||

मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् |
मायां भिन्नं परिज्ञाय धारयात्मानमात्मना || ७९ ||

मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर |
तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् || ८० ||

शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता |
ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता || ८१ ||

द्वादशैते बुद्धिनाशहेतवो मनसो मलाः |
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर || ८२ ||

मार्कण्डेय उवाच

इति शाम्ना स्तुतः शम्भुः संस्मृत्यापि स्ववाञ्छितिम् |
नावदध्रे तदात्मानं शोकात् सत्या विनाकृतः || ८३ ||

अधोमुखः स्थितं वीक्ष्य ब्रह्माणं स शनैरिदम् |
प्राह ब्रह्मन्नायतिगं वद किं करवाण्यहम् || ८४ ||

इत्युक्तो वामेदेवेन विधाता सर्वदैवतैः |
इदमाह तदेशस्य शोकविध्वंसकं वचः || ८५ ||

ब्रह्मोवाच

त्यज शोकं महादेव संस्मृत्यात्मानमात्मना |
न त्वं शोकस्य सदनं परं शोकात्तवान्तरम् || ८६ ||

सशोके त्वयि भूतेश देवा भूताः ससाध्वसा |
भ्रंशयेज्जगती कोपः शोकः सर्वाश्च शोषयेत् || ८७ ||

त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्नचेच्छनिः |
अवजग्राह ते वाष्पं सोऽपि कृष्णोऽधवद् हठात् || ८८ ||

यत्र देवाः सगन्धर्वाः सदा क्रीडन्ति सोत्सुकाः |
सुमेरुसदृशो योऽसौ मानतः पर्वतोत्तमः || ८९ ||

यस्मिन् प्रविश्य शिशिरे पद्मनालनिधे घनाः |
उत्पिवन्ति स्म तोयानि पुष्करावर्तकादयः || ९० ||

मन्दरात् सततं यत्र कुम्भयोनिर्महामुनिः |
गत्वा गत्वा तपस्तेपे हिताय जगतो हर || ९१ ||

यस्मिन् स्थित्वा गिरौ पूर्वमगस्त्यस्तोयसागरम् |
पपौ तपोबलात् कृत्वा करमध्यगतं किल || ९२ ||

शनैश्चरेण ते वोढुमसमर्थेन लोतकैः |
क्षिप्तैर्विदारितस्तेऽसौ जलधाराह्वयो गिरिः || ९३ ||

विभिद्य पर्वतं शम्भो वाष्पास्ते सागरं ययुः |
भित्त्वा तु सागरं शीघ्रं प्रभीताण्डजसंकुलम् || ९४ ||

जग्मुस्ते पूर्वपुलिनं तस्य तद्विभिदुश्च ते |
भित्त्वा वेलां ततः पृथ्वीं यिभिद्याशु तरंगिणीम् || ९५ ||

चक्रुर्वैतरणीं नाम्ना पूर्वसागर गामिनीम् |
न नावा न विमानेन न द्रोण्या स्पन्दनेन च || ९६ ||

तर्तुं शक्या सा तु नदी तप्ततोयातिभीषणा |
दुःखेन तान्तु पृथिवी विभर्ति महताधुना || ९७ ||

सदा चोर्द्धगतैर्वाष्पैर्विक्षिपन्ती नभश्चरान् |
तस्यास्तूपरि नो यान्ति देवा अपि भयातुराः || ९८ ||

यमद्वारं परावृत्य योजनद्वयविस्तृता |
निम्ना वहति सम्पूर्णा भीषयन्ती जगत्त्रयम् || ९९ ||

त्वन्निःश्वासमरुज्जातैर्व्यस्ता पर्वतकाननाः |
समाकुलद्वीपिनागा नाद्यापि प्रतिशेरते || १०० ||

तव निःश्वासजो वायुः पीडयन् जगतः सुखम् |
नाद्यापि प्रशमं याति बाधाहीनः सनातनः || १०१ ||

सतीशवं ते वहतः शीर्यमाणा पदे पदे |
नाद्यापि व्याकुला पृथ्वी व्याकुलत्वं वियुञ्चति || १०२ ||

न स्वर्गे न च पाताले तत्सत्त्वं विद्यतेऽधुना |
यत्ते क्रोधेन शोकेन नाकुलं वृषभध्वज || १०३ ||

तस्माच्छोकममर्षं च त्यक्त्वा शान्तिं प्रयच्छ नः |
आत्मानञ्चात्मना वेत्थ धारयात्मानमात्मना || १०४ ||

सती च दिव्यमानेन व्यतीते शरदां शते |
सा च त्रेतायुगस्यादौ भार्या तव भविष्यति || १०५ ||

मार्कण्डेय उवाच

इत्युक्तो वेधसा शम्भुस्तूष्णीं ध्यानपरायणः |
अधोमुखस्तदा प्राह ब्रह्माणममितौजसम् || १०६ ||

ईश्वर उवाच

यावद् ब्रह्मन्नहं शोकादुत्तरामि सतीकृतात् |
तावन्मम सखा भूत्वा कुरु शोकापनोदनम् || १०७ ||

तस्मिन्नवसरे यत्र यत्र गच्छाम्यहं विधे |
तत्र तत्र भवान् गत्वा शोकहानिं करोतु मे || १०८ ||

मार्कण्डेय उवाच

एवमस्त्विति लोकेश प्रोक्त्वा वृषभवाहनम् |
हरेण सार्धं कैलासं गन्तुं चक्रे मनस्ततः || १०९ ||

ब्रह्मणा सहितं शम्भुं कैलासगमनोत्सुकम् |
समासेदुर्गणा दृष्ट्वा नन्दिभृङ्गिमुखाश्च ये || ११० ||

ततः पर्वतसंकाशो वृषभः पुरतो विधेः |
उपतस्थे सिताभ्रस्य सदृशो गैरिको यथा || १११ ||

वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् |
भूषयांचक्रुरुद्गम्य शिरोवाह्वादिषु द्रुतम् || ११२ ||

ततो ब्रह्मा च विष्णुश्च महादेवः सतीपतिः |
सर्वैः सुरगणैः सार्धं जग्भुः प्रालेयपर्वतम् || ११३ ||

ततस्तानौषधिप्रस्थान् निःसृत्य नगराद्गिरिः |
सर्वैरमात्यै सहित उपतस्ये सुरोत्तमान् || ११४ ||

ततः सम्पूजितास्तेन सुरौघा गिरिणा सह |
सचिवैः पौरवर्गैश्च मुमुदुस्ते सुरर्षभाः || ११५ ||

ततो ददर्श तत्रैव गिरीन्द्रस्य पुरे हरः |
विजयामौषधिप्रस्थे सखौभिर्गौतमात्मजाम् || ११६ ||

सापि सर्वान् सुरवरान् प्रणम्य हरमुक्तवान् |
चुक्रोश मातृभगिनीं पृच्छन्ती गिरीशं सतीम् || ११७ ||

क्व सती ते महादेव शोभसे न तया विना |
विस्मृतापि त्वया तात मद्धृदो नापसर्पति || ११८ ||

ममाग्रे सा पुरा प्राणान् यदा त्यजति कोपतः |
तदैवाहं शोकशल्यविद्धा नाप्नोमि वै सुखम् || ११९ ||

इत्युक्त्वा वदनं वस्त्रप्रान्तेनाच्छाद्य सा भृशम् |
रुदन्ती प्रापतद्भूमौ कश्मलञ्चाविशत्तदा || १२० ||

इति श्रीकालिकापुराणे विजयाशोके अष्टादशोऽध्यायः

Shiva und Parvati: göttliche Verbundenheit als zentrales Thema der Erzählungen.

Kapitel 19

एकोनविंशोऽध्यायः

मार्कण्डेय उवाच

ततस्तां पतितां दृष्ट्वा तदा दाक्षायणीं स्मरन् |
न शशाक ह सोढुं शोकमुद्वेगसम्भवम् || १ ||

भ्रष्टधैर्यस्ततः शम्भुर्वाष्पव्याकुललोचनः |
पश्यतां सर्वदेवानां चिन्ताध्यानपरोऽभवत् || २ ||

अथाश्वास्य तदा धाता विजयां शोककर्षिताम् |
हरमाश्वासयन् सान्त्वपूर्वमेतदुवाच ह || ३ ||

ब्रह्मोवाच

पुराणयोगिन् भगवन्न शोकस्तव युज्यते |
परधाम्नि तव ध्यानमासीत् कस्मात् स्त्रियामिह || ४ ||

प्रभविष्णुः परः शान्तः सूक्ष्मः स्थूलतरः सदा |
तव स्वभावश्च कथं शोकेन बहुधाकृतः || ५ ||

निरञ्जनं ध्यानगम्यं यतीनां परात्परं निर्मलं सर्वगामि |
मलेर्हीनं रागलोभादिमिर्यत् तत् ते रूपं त्वद्भूतं तं गृह्ण बुद्ध्या || ६ ||

शोको लोभः क्रोधमोहौ च हिंसा मानो दम्भो मदनोहप्रमोदाः |
ईर्ष्यासूयाक्षान्तिरसत्यता च चतुर्दश ज्ञाननाशा हि दोषाः || ७ ||

ध्यानेन त्वां योगिनश्चिन्तयन्ति त्वं विष्णुरूपी जगतां विधाता |
या ते महामोहकरी सतीति तथैव सा लोकमोहाय माया || ८ ||

या सर्वलोकाञ्जननेऽथ गर्भे विमोहयन्ती पूर्वदेहस्य बुद्धिम् |
विनाश्य बाल्यं कुरुते हि जन्तोर्विमोहयत्यद्य सा त्वं सशोकम् || ९ ||

सतीसहस्राणि पुरोज्झितानि त्वया मृतानि प्रतिकल्पमेवम् |
हिताय लोकस्य चराचरस्य पुनर्गृहीता च तथा त्वयेयम् || १० ||

भवान्तरे ध्यानयोगेन पश्य सतीसहस्राणि मृतानि यानि |
यथा तथा त्वं परिवर्जितश्च यथास्ति सा वा वृषराजकेतो || ११ ||

यतः समुत्पद्य मुहुर्भवन्तं सा प्राप्स्यतीश त्रिदर्शदुरापम् |
पुनञ्च जाया यादृशो ते धवित्री तत्तत् सर्वं ध्यानयोगेन पश्य || १२ ||

मार्कण्डेय उवाच

एवं बहुविधं ब्रह्मा व्याहरत् साम शंकरम् |
गिरिराजपुरात्तस्माद्गयामास निर्जनम् || १३ ||

ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च |
शिप्रं नाम सरः पूर्णं ददृशर्द्रुहिणादयः || १४ ||

तद्रहस्थानमासाद्य ब्रह्मशक्रादयः सुराः |
उपविष्टा यथान्यायं पुरस्कृत्य महेश्वरम् || १५ ||

तं शिप्रसंज्ञं कासारं मनोज्ञं सर्वदेहिनाम् |
शीतामलजलं सर्वैर्गुणैर्मानससम्मितम् || १६ ||

दृष्ट्वा क्षणं हस्तस्मिन् सोत्सुकोऽभूदवेक्षणे |
शिप्रां नाम नदीं तस्मान्निःसृतां दक्षिणोदधिम् |
गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान् || १७ ||

तत्सरः पूर्णमासाद्य चरतः शकुनान् बहून् |
नानादेशागताञ्छम्भुर्वीक्षाञ्चक्रे मनोरमान् || १८ ||

गम्भीरपवनोद्धुतिसम्पन्नेषु विराजितः |
कोकद्वन्द्वांस्तरंगेषु ददर्श नृत्यतो यथा || १९ ||

मद्गुचञ्चूषू सम्पृक्तांस्तरंगान् स पृथक् पृथक् |
वीक्षाञ्चक्रे यथा तोयादुत्पतत्पतगान् मुहुः || २० ||

कादम्बैः सारसेर्हसैः श्रेणीभूतैस्तटेतटे |
भंगीकृतैर्यथा शंखैः सागरस्तादृशं सरः || २१ ||

महामीनाहतिक्षुब्धैस्तोयशब्दोत्थसाध्वसैः |
पक्षिमिर्विहितैः शब्दस्तत्र तत्र मनोहरम् || २२ ||

प्रफुल्लैः पङ्कजैश्चैव क्वचिर्ज्जालैर्मनोहरैः |
सरोरेजे यथा स्वर्गो नक्षत्रैः स्थूलसूक्ष्मकैः || २३ ||

महोत्पलानां मध्येषु विरलं नीलमुत्पलम् |
रेजे नक्षत्रमध्येषु नीलनीरदखण्डवत् || २४ ||

पद्मसंधात-मध्यस्था हंसाः कैश्चिन्न संस्तुताः |
प्रफुल्लपंकजभ्रान्त्या निश्चलाः स्वर्गवासिभिः || २५ ||

द्विधा दृष्ट्वा शोणशुक्ले पद्मे फुल्ले विधिः स्वके |
कायेऽरुणत्वं फुल्लत्वं स्वासनाब्जे निनिन्द च || २६ ||

फुल्लं महोत्पलं वीक्ष्य सरसस्तस्य शंकरः |
मौलीन्दुकान्तिमलिनं हस्तस्थं नोत्पलं ममे || २७ ||

हरेः स्वचक्रसूर्यांशफुल्लं हस्तगताम्बुजम् |
सरः पद्मञ्च सदृशं मेने वीक्ष्य समन्ततः || २८ ||

तत्सरो वीक्ष्य सम्पूर्णं नानापक्षिसमाकुलम् |
पद्मिनीशतसञ्छन्नं नीलोत्पलचयैर्वृतम् || २९ ||

देवदारुतरूणाञ्च तटस्थानां प्रसूनजैः |
परागैर्वासितजलं हृदयानन्दकारकम् || ३० ||

तीरे तीरे महावृक्षैः शाद्वलैः परिवारितम् |
दृष्ट्वा शम्भुः क्षणं तत्र सोत्सुकः शोकवर्जितः || ३१ ||

शिप्रामालोकयामास निःसृतां सरसस्ततः |
यथेन्दुमण्डलाद् गंगा मेरोर्जाम्बुनदी यथा |
तथा दृष्ट्वा महेशेन शिप्रा शिप्राद्विनिःसृता || ३२ ||

ऋषय ऊचुः

शिप्राह्वयः क कासारः कथं शिप्रा ततः सृता |
कीदृशोऽस्य प्रभावश्च तत् समाचक्ष्य विस्तरात् || ३३ ||

मार्कण्डेय उवाच

शृण्वन्तु मुनयः सर्वे यथा शिप्रा नदी सृता |
शिप्रऽस्य च महाभागाः प्रभावं गदतौ मम || ३४ ||

वसिष्ठेन यदा देवी परिणीता त्वरुन्धती |
तदा वैवाहिकैस्तोयैः शिप्रासिन्धुरभूद्विजाः || ३५ ||

सा समागत्य पतिता शिप्रे सरसि शासनात् |
यदा मन्दाकिनी विष्णुपादादब्धौ शिवोदका || ३६ ||

ब्रह्मविष्णुमहादेवैस्तोयं सिक्तं तयोः पुरा |
विवाहे शान्तिविहितं गायत्रीद्रुपदादिभिः || ३७ ||

एकीभूतन्तु तत्तोयं मानसाचलकन्दरात् |
तत् सर्वं पतितं शिप्रे कासारे सागरोपमे || ३८ ||

देवानामुपभोगार्थं पुरा धात्रा विनिर्मितम् |
सरः शिप्राह्वयं सानौ प्रालेयस्य गिरेर्महत् || ३९ ||

तत्राद्यापि सुनासीरः सहितश्चाप्सरोगणैः |
शचीसहायो रमते प्रसन्ने सालिले शुभे || ४० ||

तद्देवैः सर्वदा यत्नाद्रक्ष्यतेऽद्यापि रत्नवत् |
न तत्र मानुषः कश्चिद् यातुं शक्नोति योऽमुनिः || ४१ ||

तपः प्रभावान्मुनयः प्रयान्ति सरसीं शुभाम् |
शिप्राख्यान्तु महायत्नात् स्नातुं पातुञ्च तज्जलम् || ४२ ||

तत्र स्नात्वा च पीत्वा च मनुष्याः दैवयोगतः |
अवश्यममरत्वाय गच्छन्त्यविकलेन्द्रियाः || ४३ ||

वृद्धिं गच्छति वर्षासु सरो नैतद्द्विजोत्तमाः |
न ग्रीष्मे शोषतां याति सर्वदा तद्यथा तथा || ४४ ||

तत्र तत् पतितं तोयं वसिष्ठोद्वाहसम्भवम् |
ब्रह्मविष्णुमहादेवकरपद्मैरुदीरितम् || ४५ ||

ववृधे शिप्रगर्भस्थमन्वहं द्विजसत्तमाः |
तत्र वृद्धन्तु तत्तोयञ्चक्रेण च हरिः पुरा || ४६ ||

गिरेः शृङ्गं विनिर्मिद्य लोकानां हितकाम्यया |
पृथिवीं प्रेरयामास कृतो पुण्यतमां नदीम् || ४७ ||

परिवृत्य महेन्द्रं सा पुनाना स्नानकारिणः |
दक्षिणं सागरं याता फलदा जाह्नवी समा || ४८ ||

शिप्राख्यात् सरसो यस्मान्निःसृता सा महानदी |
अतः शिप्रेति तन्नाम पुरैव ब्रह्मणा कृतम् || ४९ ||

कार्तिक्यां पौर्णमास्यां तु तस्यां यः स्नाति मानवः |
स याति विष्णुसदनं विमानेनातिदीप्यता || ५० ||

कार्तिक सकलं मासं स्नात्वा शिप्राजले नरः |
प्रयाति ब्रह्मसदनं पश्चान्मोक्षमवाप्नुयात् || ५१ ||

ऋषय ऊचुः

वसिष्ठेन कथं देवी परिणीता त्वरुन्धती |
कस्य सा तनया ब्रह्मन्नुत्पन्ना वा वदस्व नः || ५२ ||

पतिव्रतासु पर्थिता त्रिषुलोकेषु या वरा |
भर्तृपादौ विनान्यत्र या न चक्षुः प्रदास्यति || ५३ ||

यस्याः स्मृत्वा कथामात्रं माहात्म्यसहितं स्त्रियः |
प्रेत्येह च सतीत्वं वै प्राप्नुवन्त्यन्यजन्मनि || ५४ ||

यासन्नकालधर्मो यां न पश्यति तथा शुचिः |
पुरुषः पापकारी च तस्या जन्म वदस्व नः || ५५ ||

मार्कण्डेय उवाच

शृणुध्वं सा यथा जाता यस्य वा तनया शुभा |
यथावाप वसिष्ठं सा यथा भूता पतिव्रता || ५६ ||

या सा सन्ध्या ब्रह्मसुता मनोजातः पुराभवत् |
तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता त्वरुन्धती || ५७ ||

मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य सा सती |
ब्रह्मविष्णुमहेशानां वचनाच्चरितव्रता |
वव्रे पतिं महात्मानं वसिष्ठं संशितव्रतम् || ५८ ||

ऋषय ऊचुः

कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया |
कथं शरीरं सा त्यक्त्वा भूता मेधातिथेः सुता || ५९ ||

कथं वा गदितं देवैर्ब्रह्मविष्णुशिवैः पतिम् |
वसिष्ठं सुमहात्मानं सा वव्रे संशितव्रतम् || ६० ||

तन्नः सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम |
एतन्नः श्रोष्यमाणानां चरितं द्विजसत्तम |
अरुन्धत्या महासत्याः परंकौतूहलं महत् || ६१ ||

मार्कण्डेय उवाच

ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः |
कामाय मानसञ्चक्रे त्यक्ता सा च सुतेति वै || ६२ ||

तस्यांच चलितं चित्तं कामवाणविलोडितम् |
ऋषीणां प्रेक्षतां तेषां मानसानां महात्मनाम् || ६३ ||

भर्गस्य वचनं श्रुत्वा सोपहासविधिं प्रति |
आत्मनश्चलचित्तत्वममर्यादमृषीन् प्रति || ६४ ||

कामस्य तादृशं भावं मुनिमोहकरं मुहुः |
दृष्ट्वा सन्ध्या स्वयं तत्र त्रपामायाति दुःखिता || ६५ ||

ततस्तु ब्रह्मणा शप्ते मदने तदनन्तरम् |
अन्तर्भूते विधौ शम्भौ गते चापि निजास्पदम् || ६६ ||

अमर्षवशमापन्ना सन्ध्या ध्यानपराभवत् |
ध्यायन्ती क्षणमेवाशु पूर्ववृत्तं मनस्विनी || ६७ ||

इदं विममृशे सन्ध्या तस्मिन् काले यथोचितम् |
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः || ६८ ||

अकार्षीत् सानुरागोऽयमभिलाषं पितामहः |
सर्वेषां मानसानाञ्च मुनीनां भावितात्मनाम् || ६९ ||

दृष्टैव माममर्यादं सकाममभवन् मनः |
ममापि मथितं चित्तं मदनेन दुरात्मना || ७० ||

येन दृष्ट्वा मुनीन् सर्वान् चलितं मे मनोभृशम् |
फलमेतस्य पापस्य मदनः स्वयमाप्तवान् || ७१ ||

स्वयं शशाप कुपितः शम्भोरग्रे पितामहः |
ममोचितं फलं सर्वं प्राप्तुमिच्छामि साम्प्रतम् || ७२ ||

यन्मां पिता भ्रातरश्च सकामामपरोक्षतः |
दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः काऽपि पापकृत् || ७३ ||

ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् |
पत्याविव स्वके ताते सर्वेषु सहजेष्वपि || ७४ ||

करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् |
आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः || ७५ ||

किन्त्वेकां स्थापयिष्यामि मर्यादामिह भूतले |
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः || ७६ ||

एतदर्थमहं कृत्वा तपः परमदारुणम् |
मर्यादां स्थापयित्वैव पश्चात्त्यक्ष्यामि जीवितम् || ७७ ||

यस्मिञ्छरीरे पित्रा मे ह्यभिलाषः स्वयं कृतः |
भ्रातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम् || ७८ ||

येन स्वेन शरीरेण ताते च सहजे स्वके |
उद्भावितः कामभावो न तत्सुकृतसाधकम् || ७९ ||

इति सञ्चिन्त्य मनसा सन्ध्या शैलवरं ततः |
जगाम चन्द्रभागाख्यं चन्द्रभागा यतः सृता || ८० ||

तया स शैलः समधिष्ठितः सदा
सुवर्णगौर्या सुसमप्रभाभृता |
सोमेन सन्ध्यासमयोदितेन
यथोदयाद्रिर्विरराज शश्वत् || ८१ ||

इति श्रीकालिकापुराणे सन्ध्यातपश्चरणे एकोनविंशोध्यायः || १९ ||

Kapitel 20

विंशोऽध्यायः

मार्कण्डेय उवाच

अथ तत्र गतां दृष्ट्वा सन्ध्यां गिरिवरं प्रति |
तपसे नियतात्मानं ब्रह्मा प्रह्मा प्राह स्वकं सुतम् || १ ||

वसिष्ठं संशितात्मानं सर्वज्ञं ज्ञानियोगिनम् |
समीपे सुसमासीनं वेदवेदांगपारगम् || २ ||

ब्रह्मोवाच

वसिष्ठ गच्छ यत्रैषा सन्ध्या याता मनस्विनी |
तपसे धृतकामा सा दीक्षस्वैनां यथाविधि || ३ ||

मन्दाक्षमभवत् तस्याः पुरा दृष्ट्वेह कामुकान् |
युष्मान् माञ्च तथात्मानं सकामान् मुनिसत्तम || ४ ||

अयुक्तरूपं तत्कर्म पूर्ववृत्तं विमृश्य सा |
अस्माकमात्मनश्चापि प्राणान्-सन्त्यक्तुमिच्छति || ५ ||

अमर्यादेषु मर्यादां तपसा स्थापयिष्यति |
तपः कर्तुं गता साध्वी चन्द्रभागाय साम्प्रतम् || ६ ||

न भावं तपसस्तात सा तु जानाति कञ्चन |
तस्माद् यथोपदेशं सा प्राप्नोति त्वं तथा कुतु || ७ ||

इदं रूपं परित्यज्य रूपान्तरं परं भवान् |
परिगृह्यान्तिके तस्यास्तपश्चर्यान्निदेशतु || ८ ||

इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथा त्रपाम् |
तथा प्राप्य न किंचित् सा त्वदग्रे व्याहरिष्यति || ९ ||

परित्यज्य स्वकं रूपं रूपान्तरधरो भवान् |
तस्मात् सन्यां महाभागामुपदेष्टुं प्रगच्छतु || १० ||

मार्कण्डेय उवाच

तथेत्युक्त्वा वसिष्ठोऽपि वर्णो भूत्वा जटाधरः |
तरुणश्चन्द्रभागाय ययौ सन्ध्यान्तिकं मुनिः || ११ ||

तत्र देवसरः पूर्णं गुणैर्मानससम्मितम् |
ददर्श स विसिष्ठोऽथ सन्ध्यां तत्तीरगामिनीम् || १२ ||

तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् |
उद्यदिन्दुसनक्षत्रं प्रदोषे गगनं यथा || १३ ||

तां तत्र दृष्ट्वाथ मुनिः समाभाष्य सकौतुकः |
वीक्षाञ्चक्रे सरस्तत्र वृहल्लोहितसंज्ञकम् || १४ ||

चन्द्रभागा नदीं तस्मात् कासाराद्दक्षिणाम्बुधिम् |
यान्ती निर्भिद्य ददृशे तेन सानुगिरेर्महत् || १५ ||

निर्भिद्य पश्चिमं सानुं चन्द्रभागस्य सा नदी |
यथा हिमवतो गंगा तथा गच्छति सागरम् || १६ ||

ऋषय ऊचुः

चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ |
कीदृक् सरस्तद्विप्रेन्द्र वृहल्लोहितसंज्ञकम् || १७ ||

कथं सा पर्वतश्रेष्ठश्चन्द्रभागाह्वयोऽभवत् |
चन्द्रभागाह्वया कस्मान्नदी जाता वृषोदका || १८ ||

एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् |
माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तथा || १९ ||

मार्कण्डेय उवाच

श्रूयताञ्चन्द्रभागाया उत्पत्तिर्मुनिसत्तमाः |
युष्माभिश्चन्द्रभागस्य माहात्म्यं नामकारणम् || २० ||

हिमवद्गिरिसंसक्तः शतयोजनविस्तृतः |
योजनत्रिंशदायामः कुन्देन्दुधवलो गिरिः || २१ ||

तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् |
विभज्य कल्पयामास देवान्नं स पितामहः || २२ ||

पित्रर्थञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् |
कल्पयामास जगतां हिताय कमलासनः || २३ ||

विभक्तश्चन्द्रमास्तस्मिन् जीमूते द्विजसत्तमाः |
अतो देवाश्चन्द्रभागं नाम्ना चक्रुः पुरा गिरिम् || २४ ||

ऋषय ऊचुः

यज्ञभागेषु तिष्ठत्सु तथा क्षीरोदजेऽमृते |
किमर्थमकरोच्चन्द्रं देवान्नं कमलासनः || २५ ||

तथा कव्ये स्थिते कस्मात् पित्रर्थ समकल्पयत् |
तिथिक्षये तथा वृद्धौ कथमिन्दुरभूद्गुरो || २६ ||

एतन्नः संशयः ब्रह्मञ्चिन्धि सूर्यो यथा तमः |
नान्योऽस्ति संशयस्यास्य छेत्ता त्वत्तो द्विजात्तमः || २७ ||

मार्कण्डेय उवाच

पुरा दक्षः स्वतनया अश्विन्याद्या मनोरमाः |
षड्विंशति तथैकाञ्च सोमायादात् प्रजापतिः || २८ ||

स्मस्तास्तास्ततः सोम उपयेमे यथाविधि |
निनाय च स्वकं स्थान दक्षस्यानुमते तदा || २९ ||

अथ चन्द्रः समस्तासु तासु कन्यासु रागतः |
रोहिण्या सार्धमवसद्रतोत्सवकलादिभिः || ३० ||

रोहिणीमेव भजते रोहिण्या सह मोदते |
विनेन्दू रोहिणी शान्तिं न काञ्चिल्लभते पुरा || ३१ ||

रोहिणीतत्परं चन्द्रं वीक्ष्य ताः सर्वकन्यकाः |
उपचारैर्बहुविधैर्भेजुश्चन्द्रमसं प्रति || ३२ ||

निषेव्यमाणोऽनुदिनं यदा नैवाकरोद्विधुः |
तासु भावं तदा सर्वा अमर्षवशमागताः || ३३ ||

अथोत्तराफाल्गुनीति नाम्ना या भरणी तथा |
कृत्तिकार्द्रा मघा चैव विशाखोत्तरभाद्रपत् || ३४ ||

तथा ज्येष्ठोत्तराषाढे नवैताः कुपिताः भृशम् |
हिमांशुमुपसंगम्य परिवव्रुः समन्ततः || ३५ ||

परिवार्य निशानाथं ददृशू रोहिणीं ततः |
वामांकस्था तस्य तेन रममाणां स्वमण्डले || ३६ ||

तां वीक्ष्य तादृशीं सर्वा रोहिणीं वरवर्णिनीम् |
जज्वलुश्चातिकोपेन हविषेव हुताशनः || ३७ ||

ततो मघात्रिपूर्वाश्च भरणी कृत्तिका तथा |
चन्द्रांकस्थां महाभागां रोहिणी जगृहुहंठात् || ३८ ||

ऊचुश्चातीव कुपिताः पुरुषं रोहिणी प्रति |
जीवन्न्या त्वयि दुष्प्राज्ञे नास्मानिन्दुस्तु भावभाक् || ३९ ||

समुपैष्यति कस्मिश्चित्समये सुरतोत्सुकः |
वह्वीनां क्षेमवृद्ध्यर्थं तां हनिष्यामं दुर्मतिम् || ४० ||

न त्वां हत्वा भवेत् पापमस्माकमपि किंचन |
प्रजनघ्नी बहुस्त्रीणामनृतौ पापकारिणीम् || ४१ ||

यस्मिन्नर्थे पुरा ब्रह्मा व्याजहार सुत प्रति |
तीतिशास्त्रोपदेशाय तन्न संश्रुतमस्ति वै || ४२ ||

एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः |
बहुना भवति क्षेम तस्य पुण्यप्रदो वधः || ४३ ||

रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः |
आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः || ४४ ||

मार्कण्डेय उवाच

तासां तादृगभिप्रायं बुद्धा दृष्ट्वा च कर्म च |
भीतां च रोहिणीं दृष्ट्वा प्रियामतिमनोरमाम् || ४५ ||

आत्मानं चापराधं च तदसम्भोगजं मुहुः |
विचिन्त्य रोहिणीं भीतां तासां हस्तादमोचयत् || ४६ ||

मोचयित्वा च बाहुभ्यां सम्परिष्वज्य रोहिणीम् |
वारयामास ताः सर्वाः कृत्तिकाद्याः स भामिनीः || ४७ ||

तदेन्दुं वारयन्त्यस्ताः कृत्तिकाद्या मघान्तकाः |
साम्यमूचुर्मनस्विन्यस्तां वीक्ष्यन्त्योऽथ रोहिणीम् || ४८ ||

न ते त्रपा वा भीतिर्वा पापतोऽस्मान्निरस्यतः |
संजायते निशानाथ प्राकृतस्येव वर्ततः || ४९ ||

कथमस्मान्निराकृत्य चारित्रव्रतधारिणीः |
सदा भक्तिमतीरेकां मूढवत्त्वं निषेवसे || ५० ||

कि ते नावगतो धर्मो वेदमूलः श्रुतः पुरा |
यद्धर्महीन कुरुष कर्म सद्भिविगहितम् || ५१ ||

धर्मशास्त्रार्थगं कर्म चरन्तीना यथोचितम् |
कथमुद्वाहिताना त्वं मुखमात्र न वीक्षसे || ५२ ||

गदतो यच्छ्रुत पूर्व नारदाय पितुर्मुखात् |
दक्षस्य धर्मशास्त्रार्थ तच्छृणुष्व निशापते || ५३ ||

बहुदारः पुमान् यस्तु रागादेकां भजेत् स्त्रियम् |
स पापभाक्स्त्रीजितश्च तस्याशौचं सनातनम् ||५४ ||

यद्दुःखं जायते स्त्रीणां स्वाम्यसम्भोगजं विधो |
न तस्य सदृशं दुखं किञ्चिदन्यत्र विद्यते || ५५ ||

सतीमृतुमईं जायां यो नेयात्पुरुषाधमः |
ऋतुघस्रेषु शुद्धेषु भ्रूणहा स च जायते || ५६ ||

भार्या स्यादयावदात्रेयी तावत्कालं विबोधनम् |
तस्यास्तु संगमे किंचिद्विहितञ्चापि नाचरेत् || ५७ ||

बहुभार्यस्य भार्याणामृतुमैथुननाशनम् |
न किंचिद्विद्यते कर्म शास्त्रेणापि यदीरितम् || ५८ ||

तोषयेत् सततं भार्याविधिवत्पाणिपीडिताः |
तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा || ५९ ||

सन्तुष्टो भार्यया भर्ता भत्रा भार्या तथैव च |
यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् || ६० ||

यया विरुध्यते स्वामी सौभाग्यमददृप्तया |
सपत्नीसंगमं कर्तुं सा स्याद्वेश्या भवान्तरे || ६१ ||

इहापि लोके वाच्यत्वमधर्मञ्चापि विन्दति |
न पितुश्च कुल स्वामिकुल तस्या प्रमोदते || ६२ ||

विरुध्यमाने पत्यो यत्सपत्न्या वा प्रवर्तते |
अतीव दुःख भवति तदकल्याणकृत्तयो || ६३ ||

मार्कण्डेय उवाच

इत्येव भाषभाणास् तासु चातीव निष्ठुरम् |
चुकोप चन्द्रमा दृष्ट्वा मलिनं रोहिणीमुखम् || ६४ ||

रोहिणी च तदा तासामवलोक्योग्रतां मुहुः |
न किंचित् सापि प्रोवाच भयशोकत्रपाकुला || ६५ ||

अथापि कुपितश्चन्द्रस्ताः शशाप तदा स्त्रियः |
यस्मान्मम पुरश्चोग्रास्तीक्ष्णा वाचः समीरिताः || ६६ ||

भवतीभिश्च तिसृभिलोकेऽस्मिन् कृत्तिकादिभिः |
ऊग्रास्तीक्ष्णा इति ख्यातिः प्राप्तव्या त्रिदशेष्वपि || ६७ ||

तस्मादेवंविधानेन नवैताः कृत्तिकादयः |
यात्रायां नोपयुक्ता हि भविष्यध्वं दिने दिने || ६८ ||

युष्मान् पश्यन्ति देवाद्या मनुष्याद्या च ये क्षितौ |
यात्रायां तेन दोषेण तेषां यात्रा न चेष्टदा || ६९ ||

अथ सर्वास्तदा शापं तस्य श्रुत्वातिदारुणम् |
चन्द्रस्य हृदयं ज्ञात्वा शापाच्चातीव निष्ठुरम् || ७० ||

जग्मुः सर्वास्तदा दक्षभवनं प्रत्यमर्षिताः |
ऊचुश्च दक्षं पितरमश्विन्याद्याः सगद्गदम् || ७१ ||

सोमो वसति नास्मासु रोहिणीं भजते सदा |
सेवमाना न भजते सोऽस्मान् परवधूरिव || ७२ ||

नावस्थाने नावसाने भोजने श्रवणे तथा |
विनेन्दू रोहिणीं शान्तिं लभते नहि कांचन || ७३ ||

रोहिण्या वसतस्तस्य समीपं वीक्ष्य ते सुताः |
यान्तीः सोऽन्यत्र नयनमाधाय नहि वीक्षते || ७४ ||

मास्त्वन्यः स्वामिसद्भावो मुखमात्रं न वीक्षते |
अस्मिन् वस्तुनि यत्कार्यं तदस्माभिर्निगद्यताम् || ७५ ||

अस्माभिरेत्समयेऽनुरुद्धश्च चन्द्रमाः |
स तत्कृते ततश्चास्मच्छापं तीव्र तदाकरोत् || ७६ ||

दारुणाश्चातितीक्ष्णाश्च लोके वाच्यत्वमाप्य च |
अयात्रिका भविष्यध्वं यूयमित्युक्तवान् विधुः || ७७ ||

मार्कण्डेय उवाच

श्रुत्वा वाक्यं स पुत्रीणां ताभिः सार्धं प्रजापतिः |
जगाम यत्र सोमोऽभूद्रोहिण्या सहितस्तदा || ७८ ||

दूरादेव विधुर्दृष्ट्वा दक्षमायान्तमासनात् |
उत्तस्थावन्तिके प्राप्य ववन्दे च महामुनिम् || ७९ ||

अथ दक्षस्तदोवाच कृतासनपरिग्रहः |
सामपूर्वं चन्द्रमसं कृत-संवन्दनं तथा || ८० ||

दक्ष उवाच

समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज |
वैषम्ये बहवो दोषा ब्रह्मणा परिकीर्तिताः || ८१ ||

रतिपुत्रफला दारास्तासु कामानुबन्धनात् |
कामानुबन्धः संसर्गात् संसर्गः संगमाद्भवेत् || ८२ ||

संगमश्चाप्यभिध्यानाद्वीक्षणादभिजायते |
तस्माद् भार्यास्वभिध्यानं कुरु त्वं वीक्षणादिकम् || ८३ ||

यद्येवं नैव कुरुषे मद्वचो धर्मयन्त्रितम् |
तदा लोकवचोदुष्टः पापवांस्त्वं भविष्यसि || ८४ ||

मार्कण्डेय उवाच

एतच्छ्रुत्वा वचस्तस्य दक्षस्य सुमहात्मनः |
एवमस्त्विति चन्द्रोऽपि न्यगदद्दक्षशंकया || ८५ ||

अथानुमन्त्र्य तनयाश्चन्द्रं जामातारं तथा |
ययो दक्षो निजं स्थानं कृतकृत्यस्तदा मुनिः || ८६ ||

गते दक्षे ततश्चन्द्रस्तां समासाद्य रोहिणीम् |
जग्राह पूर्ववद्भावं तासु तस्यां च रागतः || ८७ ||

तत्रैव रोहिणीं प्राप्य न काश्चिदपि वीक्षते |
रोहिण्यामेव वसते ततस्ताः कुपिताः पुनः || ८८ ||

गत्वा ताः पितरं प्राहुर्दौर्भाग्योद्विग्नमानसाः |
सोमो वसति नास्मासु रोहिणीं भजते सदा || ८९ ||

तवापि नाकरोद्वाक्यं तस्मान्नः शरणं भव || ९० ||

उद्वेग कोपसंयुक्त उत्तस्थौ तत्क्षणान्मुनिः |
जगाम मनसा ध्यायन् कर्तव्यं निकटं विधोः || ९१ ||

उपगम्य तदा प्राह वचश्चन्द्रं प्रजापतिः |
समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज || ९२ ||

न चेदिदं वचोऽस्माकं मौर्ख्यात् त्वंमावबुध्यसे |
धर्मशास्त्रातिगायाहं शप्स्ये तुभ्यं निशापते || ९३ ||

मार्कण्डेय उवाच

ततो दक्षभयाच्चन्द्रस्तत्कर्तुंप्रति तत्पुरः |
अंगीचकारातिभयात् कार्यमेवं मुहुस्त्विति || ९४ ||

समं प्रवर्तनं कर्तुं भार्यास्वंगीकृते ततः |
विधुना प्रययौ दक्षः स्वस्थानं चन्द्रसम्मतः || ९५ ||

गते दक्षे निशानाथो रोहिण्यासहितो भृशम् |
रममाणो विसस्मार दक्षस्य वचनन्तु सः || ९६ ||

सेवमानाश्च ताः सर्वा अश्विनाद्या मनोरमाः |
नाभजच्चन्द्रमास्तासु अवज्ञामेव चाकरोत् || ९७ ||

अवज्ञातास्तु ताः सर्वाश्चन्द्रेण पितुरस्तिकम् |
गत्वैवार्तस्वराश्चार्ता रुदन्त्यश्चेदमब्रुवन् || ९८ ||

नाकरोद्वचनं सोमस्तवापि मुनिसत्तम |
अवज्ञां कुरुतेऽमासु पूर्वतोऽप्यधिकं स च || ९९ ||

तस्मात् सोमेन नः कार्य न किंचिदपि विद्यते |
तपस्विन्यो भविष्यामस्तपश्चर्या निदेशय || १०० ||

तपसा शोधितात्मानः परित्यक्ष्याम जीवितम् |
किमस्माकं जीवितेन दुर्भगानां द्विजोत्तम || १०१ ||

मार्कण्डेय उवाच

इत्युक्त्वा तास्ततः सर्वा दक्षजाः कृत्तिकादयः |
कपोलमालम्ब्य करैरूरुदुर्विविशुः क्षितौ || १०२ ||

तास्तु दृष्ट्वा तथाभूता दुःखव्याकुलितेन्द्रियाः |
अतिदीनमुखो दक्षः कोपाज्जज्वाल वह्निवत् || १०३ ||

अथ कोपपरीतस्य दक्षस्य सुमहात्मनः |
निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः || १०४ ||

दंष्ट्राकरालवदनः कृष्णांगारसमप्रभः |
अतिदीर्घः स्वल्पकेशः कृशो घमनिसन्ततः || १०५ ||

अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् |
कुर्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः || १०६ ||

स चोवाच तदा दक्षं कस्मिंस्थास्याम्यहं मुने |
किंवा चाहं करिष्यामि तन्मेवद महामते || १०७ ||

ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् |
सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया || १०८ ||

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य दक्षस्याथ महामुनेः |
शनैः शनैस्ततः सोममाससाद गदः स च || १०९ ||

आसाद्य स तदा सोमं वाल्मीकं पन्नगो यथा |
प्रविवेशेन्दुहृदयं छिद्रं प्राप्य महागदः || ११० ||

तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि |
मुमोह चन्द्रस्तन्द्रां च विषमां प्राप्तवांश्च सः || १११ ||

उत्पद्य प्रथमं यस्माल्लीनो राजन्यसौ गदः |
राजयक्ष्मेति लोकेऽस्मिन्नस्य ख्यातिरभूद्द्विजाः || ११२ ||

ततस्तेनाभिभूतः स यक्ष्मणा रोहिणीपतिः |
क्षयं जगामानुदिनं ग्रीष्मे क्षुद्रा नदी यथा || ११३ ||

अथ चन्द्रे क्षीयमाणे सर्वौषध्यो गता क्षयम् |
क्षयं यातास्वौषधिषु न यज्ञः समवर्तत || ११४ ||

यज्ञाभावात्तु देवानामन्नं सर्वं क्षयं गतम् |
पर्जन्याश्च ततो नष्टास्ततो वृष्टिर्नचाभवत् || ११५ ||

वृष्ट्यभावे तु लोकानामाहाराः क्षीणतां गताः
दुर्भिक्षव्यसनोपेते सर्वलोके द्विजोत्तमाः || ११६ ||

दानधर्मादिकं किंचिन्न लोकस्य प्रवर्तते |
सत्त्वहीनाः प्रजाः सर्वा लोभेनोपहतेन्द्रियाः |
पापमेव तदा चक्रुः कुकर्मरतयश्च ताः || ११७ ||

एतान् दृष्ट्वा तदा भावान् दिक्पालाः सपुरन्दराः |
जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा || ११८ ||

ततो दृष्ट्वा जगत्सर्वं व्याकुलं दस्युपीडितम् |
ब्रह्माणमगमन् देवाः सर्वे शक्रपुरोगमाः || ११९ ||

उपसंगम्य देवेशं स्रष्टारं जगतां पतिम् |
प्रणम्याथ यथायोग्यमुपविष्टास्तदा सुराः || १२० ||

तान् म्लानवदनान् सर्वान् वीक्ष्य लोकपितामहः |
अभिभूतान् परेणेव हृतस्वविषयानिव |
पप्रच्छ सम्मुखीकृत्य गुरुमिन्द्रं हुताशनम् || १२१ ||

ब्रह्मोवाच

स्वागत भो सुरगणाः किमर्थं यूयमागताः |
दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये || १२२ ||

निराबाधान्निरातंकान् युष्मान् सर्वांश्चं कामगान् |
कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुःखितान् || १२३ ||

यद्वोऽभवद्दुःखबीजं युष्मान् वा यस्तु बाधते |
तत्कथ्यतामशेषेण सिद्धञ्चाप्यवधार्यताम् || १२४ ||

मार्कण्डेय उवाच

ततो वृद्धश्रवा जीवः कृष्णवर्त्मा च लोकभृत् |
उवाचात्मभुवे तस्मै सुराणां दुःखकारणम् || १२५ ||

देवाः ऊचुः
शृणु सर्वं जगत्कर्तस्त्वां येन वयमागताः |
यद्वास्माकं दुःखबीजं यतो म्लानश्रियो वयम् || १२६ ||

न क्वचित् सम्प्रवर्तन्ते यज्ञा लोके पितामह |
निराधारा निरातंकाः प्रजाः सर्वा क्षयं गता || १२७ ||

न च दानादिधर्मश्च न तपांसि क्षितो क्वचित् |
नैव वर्षति पर्जन्यः क्षीणतोयाभवत् क्षितिः || १२८ ||

क्षीणाः सर्वास्तथौषध्यः शस्या लोकाः समाकुलाः |
दस्युभिः पीडिता विप्रा वेदवादं न कुर्वते || १२९ ||

अन्नवैकल्यमासाद्य म्रियन्ते बहवः प्रजाः |
क्षीणेषु यज्ञभागेषु भोग्यहीनास्तथा वयम् || १३० ||

दुर्बलास्तु श्रिया हीना नैव शान्ति लभामहे || १३१ ||

रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः |
वृषराशौ स च क्षीणो ज्योत्स्नाहीनश्च वर्तते || १३२ ||

यदैवान्विष्यते देवैश्चन्द्रो नैषा पुरःसरः |
कदाचिदपि देवाना समाजे वा भवद्विधे || १३३ ||

कदाचिद्रोहिणी त्यक्त्वा नैव क्वचन गच्छति |
यद्यन्य कोऽपि न भवेत्तदा चन्द्रो बहिर्भवेत् || १३४ ||

दृश्यते स कलाहीनः कलामात्रावशेषकः |
इति सर्वत्र लोकेश वृत्तः कर्मविपर्ययः || १३५ ||

तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः |
पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः || १३६ ||

नास्मान् लोकेश बाधन्ते तावन्नस्त्राहि साध्वसात् |
अयं प्रवर्तते कस्माज्जगतां वा व्यतिक्रमः |
न जानीमस्तु तत्सर्वं विप्लवे वापि कारणम् || १३७ ||

मार्कण्डेय उवाच

एतत् सुराणां वचनं दिव्यदर्शी पितामहः |
श्रुत्वा क्षणमभिध्यायन् निजगाद सुरोत्तमान् || १३८ ||

ब्रह्मोवाच

शृण्वन्तु देवताः सर्वा यदर्थं लोकविप्लवः |
प्रवर्ततेऽधुना येन ज्ञान्तिस्तस्य भविष्यति || १३९ ||

सोमो दाक्षायणीः कन्याः सप्तविंशतिसंख्यकाः |
अश्विन्याद्या वरवधूभार्यार्थे परिणीतवान् || १४० ||

परिणीय स ताः सर्वा रोहिण्यां सततं विधुः |
प्रावर्ततानुरागेण न समस्तासु वर्तते || १४१ ||

अश्विन्याद्यास्तु ताः सर्वा दौर्भाग्यज्वरपीडिताः |
षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम् || १४२ ||

प्रवर्तते निशानाथो रोहिण्या रागतो यथा |
तथा न तासु भजते तद्दक्षाय न्यवेदयत् || १४३ ||

ततो दक्षो महाबुद्धिः साम्ना संस्तूय विट्पतिम् |
बहुसुनृतमाभाष्य पुत्र्यर्थे चान्वरोधत || १४४ ||

अनुरुद्धो यथाकामं दक्षेण सुमहात्मना |
समं प्रवर्तितुं तासु समयं कृतवान् विधुः || १४५ ||

सममंगीकृते भाव तासु कर्तुं हिमांशुना |
स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः || १४६ ||

गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः |
जहौ न भावं ताः शश्वत् कुपिताः पितरं गताः || १४७ ||

ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे |
समां वृत्तिं प्रतिश्राव्य वचनं चेदमब्रवीत् || १४८ ||

न समं वर्तते चन्द्र सर्वास्वासु भवान् यदि |
तदा शप्स्ये त्वहं तुभ्यं तस्मात् कुरु समंजसम् || १४९ ||

ततो गते पुनर्द्दक्षे न समं वर्तते यदा |
तासु चन्द्रस्तदा दक्षं पुनर्गत्वाणुवन् रुषा || १५० ||

न ते वचः सत्कुरुते नैवास्मासु प्रवर्तते |
वयं तपश्चरिष्यामः स्थास्यामश्च तवान्तिके || १५१ ||

तासामिति वचः श्रुत्वा कुपितः स महामुनिः |
क्षयाय चन्द्रस्य पुनः शापायत्सुकतां गतः || १५२ ||

शापायोद्युक्तममनसः कुपितस्य महामुने |
क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः || १५३ ||

प्रेषितः स च चन्द्राय दक्षेण मुनिना ततः |
प्रविष्टश्च ततो देहे क्षयितस्तेन चन्द्रमाः || १५४ ||

क्षीणे चन्द्रे क्षयं याता ज्योत्स्नास्तस्य महात्मनः |
क्षीणासु सर्वज्योत्स्नासु सर्वौषध्यः क्षयं गताः || १५५ ||

औषध्यभावाल्लोकेऽस्मिन् न यज्ञः सम्प्रवर्तते |
यज्ञाभावादनावृष्टिस्ततः सर्वप्रजाक्षयः || १५६ ||

यज्ञभागोपभोगेन हीनानां भवतां तथा |
दुर्बलत्वं समुत्पन्नं विकारश्च स्वगोचरे || १५७ ||

इति वः कथितं सर्वं यथाभूल्लोकविप्लवः |
येनोपायेन तच्छान्तिस्तच्छृण्वन्तु सुरोत्तमाः || १५८ ||

इति श्रीकालिकापुराणे चन्द्रस्यशाप मोक्षे विंशोऽध्यायः

Kapitel 21

एकविंशोऽध्यायः

ब्रह्मोवाच

गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति |
प्रसादयतचन्द्रार्थे स च पूर्णो भवेद्यथा || १ ||

पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति |
युष्माकञ्च भवेच्छान्तिरोषधींनाञ्चसम्भवः || २ ||

मार्कण्डेय उवाच

इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः |
प्रययुर्हृष्ठ मनसस्तदा दक्षनिवेशनम् || ३ ||

यथान्यायमुपस्थाय सर्वे मुनिवरं सुराः |
प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा || ४ ||

देवा ऊचुः

प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् |
उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् || ५ ||

यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत् परमात्मनः |
तदंशस्त्वं परं ज्योतिर्विप्ररूप नमोऽस्तुते || ६ ||

रक्षणात् सर्वजगतां प्रजापालनकारणात् |
दक्षः प्रजापतिश्चेति योगेशस्तं नुमो वयम् || ७ ||

दक्षाय सर्वजगतां दक्षाय कुशलात्मनाम् |
दक्षायात्महितायाशु नमस्तुभ्यं महात्मने || ८ ||

सततं चिन्त्यमानस्य योगिभिर्नियतेन्द्रियैः |
सारस्य सारभूतस्त्वं दक्षाय परमात्मने || ९ ||

योगिवृत्तिरनाधृष्य पारगाणां परायणः |
आद्यन्तमुक्तः साहसा तस्मै नित्यं नमो नमः || १० ||

इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तथा |
प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः || ११ ||

दक्ष उवाच

कुतः शक्र महाबाहो भवतां दुःखमागतम् |
दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम् || १२ ||

ममास्ति वा किं कर्तव्यं भवतां दुःखहानये |
तदहं यदि शक्नोमि करिष्यामि हितं समम् || १३ ||

मार्कण्डेय उवाच

तच्छ्रुत्वा वचनं तस्य ब्रह्मसूनोर्महात्मनः |
जगाद वाक्पतिः शक्रो वीतिहोत्रोऽथ तं मुनिम् || १४ ||

त ऊचु

क्षयी जातो निशानाथस्तस्मिन् क्षीणे क्षयं गताः |
सर्वौषध्यो द्विजश्रेष्ठ तद्धानिर्यज्ञहानिकृत् || १५ ||

यज्ञे विनष्टे सकलाः प्रजाः क्षुद्भयकातराः |
वृष्ट्यभवान्महद्दुःखं प्राप्य नष्टाश्च काश्चन || १६ ||

क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्तते |
स सर्वजगतो ब्रह्मन्नभावार्थमुपस्थितः || १७ ||

नाधुना तत् त्रिभुवन यन्न क्षुब्धं नु किंचन |
विप्लुतं वास्ति विप्रेन्द्र स्थावरा पतगाश्च वा || १८ ||

न यज्ञाः संप्रवर्तन्ते न तपस्यन्ति तापसाः |
आहारदुःखान्निश्रीकाः प्रजाः क्षीणा भयातुराः || १९ ||

एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मात् रसातलाम् |
दैत्या न यावदुत्थाय बाधन्ते तावदुद्धर || २० ||

प्रसीद दक्ष चन्द्रसय तं पूरय तपोबलात् |
पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति || २१ ||

मार्कण्डेय उवाच

इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा |
उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् || २२ ||

दक्ष उवाच

यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् |
न केनापि निदानेन मिथ्या कर्तुं तदुत्सहे || २३ ||

किन्तु मद्वचनं यस्मान्नैकान्तेन मृषा भवेत् |
चन्द्रोऽपि वर्धते यस्मात्तदुपायमुदैक्षत || २४ ||

तत्राप्ययमुपायोऽस्ति मासार्धं यातु चन्द्रमा |
क्षयं वृद्धिञ्च मासार्धं समं भार्यासु वर्तताम् || २५ ||

मार्कण्डेय उवाच

तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् |
सर्वे सुरगणास्तत्र गता यतास्ति चन्द्रमाः || २६ ||

एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः |
अथ चन्द्रं समादाय भार्याभिः सहितं तदा |
जग्मुस्ते ब्रह्मभवनं मुदिताः सुरसत्तमाः || २७ ||

तत्र गत्वा महाभागा यथा दक्षेण भाषितम् |
तत्सर्वं कथयामासुर्ब्रह्मणे परमात्मने || २८ ||

ब्रह्म दक्षवचः श्रुत्वा देवानां वचनात्तदा |
चन्द्रभागं महाशैलं जगाम सहितः सुरैः || २९ ||

तत्र गत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया |
स्नापयामास शुभ्रांशुं वृहल्लोहितपुष्करे || ३० ||

भूतभव्यभवज्ज्ञानः पूर्वमेव पितामहः |
एतदर्थञ्चकारात्र सरःपूर्णं जगद्गुरुः || ३१ ||

तत्र स्नातस्य जन्तोस्तु नीरोगत्वं प्रजायते |
चिरायुष्ट्वञ्च सततं वृहल्लोहितसंज्ञके || ३२ ||

तत्र स्नातस्य चन्द्रस्य शरीरात्तत्क्षणं गदः |
राजयक्ष्मा निःससार पूर्वरूपौ यथोदितः || ३३ ||

राजयक्ष्मा उवाच

निःसृत्य राजयक्ष्मापि ब्रह्माणञ्च जगत्पतिम् |
प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच तम् || ३४ ||

स्थानं पत्नीञ्च लोकेश कृत्यं मम सनातनम् |
निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः || ३५ ||

मार्कण्डेय उवाच

ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुं शरीरगैः |
अमृतैस्तेनातियुक्तैः क्षीणञ्चापि निशापतिम् || ३६ ||

दोर्भिः स्वयं त्वं गृहीत्वा गिरौ निष्पीड्य वै मुहुः |
अमृतं गालयामास शरीराद्राजयक्ष्मणः || ३७ ||

अमृतानि च यान्याशु गलितानि तदा जले |
क्षीरोदस्य स चिक्षेप मध्ये रहसि लोकभृत् || ३८ ||

तस्मादस्यामृतादिन्दि कलाः क्षीणास्तु याः पुरा |
तासां जग्राह लवशश्चूर्णान् क्षीरोदसागरात् || ३९ ||

कलामात्रावशेषष्य संसर्गाद्राजयक्ष्मणः |
क्षीणाः कलाः पंचदश याः पूर्वममृतात्मिकाः || ४० ||

ता राजयक्ष्मगर्भस्थाश्चूर्णीभूतास्तु पीडया |
तेजोज्योत्स्ना सुधाभिस्तु निबद्धं यत् कलापतेः || ४१ ||

शरीरं तत् त्रिधा भूतं गर्भस्थं राजयक्ष्मणः || ४२ ||

ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादियक्ष्मणि |
द्रवीभूताः सुधाः सर्वाः गर्भे रोगस्य च स्थिताः || ४३ ||

यदा निर्गालयामास सुधां ब्रह्मा यक्ष्मान्तरात् |
तदा ज्योत्स्नासुधाज्योतिः सर्वं तस्माद्वहिर्गतम् || ४४ ||

क्षीरोदसागरे क्षिप्तं तत् सर्वं विधिना तदा |
देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः || ४५ ||

ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिभिः |
ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयं गिरिम् || ४६ ||

क्षीरोदाद्गिरिमासाद्य चन्द्रभागं तदा विधिः |
देवमध्ये कलाचूर्ण सुधाज्योत्स्ना न्यवीविशत् || ४७ ||

संस्थाप्य तत्त्रय ब्रह्मा देवाना मध्यतः स्थितः |
जगाद राजयक्ष्माण तत् स्थानादि निदेशयन् || ४८ ||

ब्रह्मोवाच

सर्वदा यो दिवारात्र सन्ध्यायां वनितारतः |
सेवते सुरत तस्मिन् राजयक्ष्मन् वसिष्यसि || ४९ ||

प्रतिश्याय-श्वासकास-सयुक्तो मैथुन चरेत् |
स ते प्रवेश्य सतत श्लेष्मणश्च तथाविधः || ५० ||

कृष्णाख्या मृत्युपुत्री या भवतः सदृशी गुणैः |
सा तेऽस्तु भार्या सततं भवन्तमनुयास्यति || ५१ ||

क्षीणत्वं भवतः कृत्यं ततस्त्वं विषयं कुरु |
द्रुतं गच्छ यथाकामं चन्द्रात् त्वं विमुखो भव || ५२ ||

मार्कण्डेय उवाच

एवं विसृष्टो विधिना राजयक्ष्मा महागदः |
पश्यतां अर्वदेवानामन्तर्धानं जगाम ह || ५३ ||

अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः |
चन्द्रं समग्रयामास कलापञ्चदशैधितम् || ५४ ||

तेन क्षीरोदधौतेन सुधापूतेन चात्मभूः |
सज्योत्स्नैस्तु कलाचूर्णैः पूर्ववच्चाकरोद्विधुम् || ५५ ||

स षोडशकलापूर्णः पूर्ववद्विबभौ यदा |
चन्द्रस्तदा सर्वदेवा मुमुदुस्तस्य दर्शनात् || ५६ ||

अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम् |
उवाचेदं सुरसदोमध्यगो नाति हर्षितः || ५७ ||

सोम उवाच

न सुखं पूर्ववद् ब्रह्मञ्छशरीरे मम वर्तते |
न वीर्यं वा तथोत्साहो निषीदन्त्यगसन्धयः || ५८ ||

नोत्सहे पूर्ववच्चेष्टां विधातुं सुतरामहम् |
चेष्टाहीनस्त्वनुदिन वर्तेयं केन लोककृत् || ५९ ||

ब्रह्मोवाच

ग्रस्तस्य यक्ष्मणा सोम यदभूदगसन्धयः |
पूर्व विशीर्णा भवतस्तत्पूर्णमभवन्नहि || ६० ||

अधुना भवतो देहचूर्ण निःसारित मया |
शरीरात् सामृतज्योत्स्नामञ्जसा राजयक्ष्मणः || ६१ ||

तेषां प्रक्षालनविधौ लवशो यत्स्थितं जले |
ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान् यतः || ६२ ||

ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम् |
तस्योपायं विधास्यामि यथा नाति लभेद्भवान् || ६३ ||

प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे |
एन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्वतः क्रतौ || ६४ ||

ततो नु भवतो भागः पुरोडाशो मया कृतः |
तेन भागेन बुक्तेन नित्यं यज्ञकृतेन हि |
पूर्ववत् तै समुत्साहः श्यामवीर्यं भविष्यति || ६५ ||

ये चामृतकणस्तोये क्षीरोदस्य स्थितास्तव |
शरीरचूर्णं वा यत्ते ज्योत्स्नाश्चापि ये लवाः || ६६ ||

तत् सर्वं भवतो ज्योत्स्नायोगादनुदिनं विधो |
वृद्धिं यास्यति सततं क्षीरसागरगर्भगम् || ६७ ||

स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शंकरांशजः |
दुर्वासा भविता विप्रः प्रचण्डश्चण्ड भानुवत् || ६८ ||

स देवेन्द्रस्याविनयाच्छापं दत्वा सुदारुणम् |
करिष्यति त्रिभुवन् निःश्रीकं ससुरासुरम् || ६९ ||

श्रिया हीने ततो लोके भविता लोकविप्लवः |
यथा तव क्षयात् सोमं प्रवृत्त सर्वविप्लवः || ७० ||

तन्मानुषप्रमाणेन तृतीये तु कृते युगं |
भविष्यति स्थास्यति च यावद् युगचतुष्टयम् || ७१ ||

ततश्चतुर्थे सम्प्राप्ते सह देवै कृते युगे |
क्षीरोदं निर्मथिष्याम शम्भुविष्णुरहं तथा || ७२ ||

मन्थानं मन्दर कृत्वा नेत्र कृत्वा तु वासुकीम् |
यज्ञभागेषु लीनेषु देवान्नार्थं वयं ततः |
मथिष्याम समं देवै क्षीरोदं सह दानवैः || ७३ ||

त्वच्छरीरामृतमिदं यत्स्थितं क्षीरसागरे |
तत् प्रमथ्य ग्रहीष्यामो राशीभूतं तथा क्षयम् || ७४ ||

सर्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् |
क्षेप्स्यामः सागरजले शरीरार्थं विधो तव || ७५ ||

निर्मथ्य सागरं पश्चात् समुद्धार्य यदामृतम् |
तदा तव वपुस्तस्मिन् पूर्ववत् सम्भविष्यति || ७६ ||

ओजोवीर्याद्भुतं कान्तमक्षयं च सुधात्मकम् |
दृढांगसन्धिकं चारु भविष्यति वपुस्तव || ७७ ||

मार्कण्डेय उवाच

सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः |
विधोः क्षयाय मासार्धं वृद्धये यत्नवानभूत् || ७८ ||

यथा दक्षेण गदितं मासार्धं यातु चन्द्रमाः |
क्षयं वृद्धिं च मासार्धं यत्नं तत्राकरोद्विधिः || ७९ ||

ततह् षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् |
विभज्य च सुरान् सर्वान् समुवाचेदमुत्तमम् || ८० || ब्रह्मोवाच

कलाः षोडश चन्द्रस्य तत्रेका शम्भुमूर्धनि |
तिष्ठत्वद्यावधि परा क्षय यान्तु क्षय विना || ८१ ||

क्षयेण यदि रोगेण मासार्धं दक्षवाक्यत |
क्षयाय पीड्यते चन्द्रो नोपशान्तिस्तदा भवेत् || ८२ ||

किंत्वस्य या कला शम्भौ ज्योत्स्ना गच्छतु ता प्रति |
चतुर्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः || ८३ ||

चतुर्दशकलासंस्थान्यभूतानि पिवन्तु वै |
प्रतिपत्तिथिमारभ्य भवन्तस्तां चतुर्दशीम् || ८४ ||

तेजोभागाः सूर्यबिम्बं चतुर्दशतिथौ क्रमात् |
प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत् || ८५ ||

यातु शेषा कला दर्शे हरित्पत्रे पलायिता |
तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः || ८६ ||

द्वितीये दर्शभागे तु रोहिण्या यातु मन्दिरम् |
तृतीये तु सरस्वत्यां स्नात्वा समुत्थितो विधुः || ८७ ||

चतुर्थे बलसम्पूर्णस्तिथिभागे विभावसोः |
मण्डलं यातु चन्द्रोऽयं सबिम्बरथघोटकः || ८८ ||

यावत् कालेन हि कला प्रथमा क्षयमाप्नुयात् |
एवमेवं कृष्णपक्षे तावत् सा प्रतिपद् भवेत् || ८९ ||

द्वितीयादौ कृष्णपक्षे वृद्धि-ह्रासस्तथाविधः |
तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत् || ९० ||

ततः पुनः शुक्लपक्षे यावत् पूर्वकलोदिता |
वृद्धिं नैति भवेत्तावत् प्रतिपत्तितिथिरादितः || ९१ ||

ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्धनि |
स्थिता या वै कला यातु गता सापुनरेष्यति |
युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने || ९२ ||

तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि |
स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरोत्तमाः || ९३ ||

यथा दिने दिने भागाः क्षय यान्ति तथा विधोः |
वृद्धि गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः || ९४ ||

तेजोभाग सूर्यबिम्बात् पुनरेव समेष्यति |
प्रयास्यति कृष्णपक्षे यथा भागक्रमं तथा || ९५ ||

ज्योत्स्ना हरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति |
तेजोभागः सूर्यबिम्बादमृतं वर्षति स्वयम् || ९६ ||

एवं वृद्धिः शुक्लपक्षे सुधांशौः सम्भविष्यति |
पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् || ९७ ||

यावत् कालेन यो भागः क्षयं वृद्धिं च यास्यति |
तावत् कालमभिव्याप्य तिथिः स्थास्यति सा पुनः || ९८ ||

चिरेण विद्धिर्यदि वा क्षयो वा द्रुतेन वृद्धिर्यदिवा क्षयो वा |
द्रुतात्तिथीनान्तु सदा क्षयः स्याच्चिरातु वृद्धिस्तिथिषु प्रवेशे || ९९ ||

हव्यं कव्यञ्च चन्द्रेण विना ना सम्भविष्यति |
तस्मात्तयोः प्रवृद्धयर्थं चन्द्रं रक्षन्तु देवताः || १०० ||

आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः |
आमावास्यापराह्ने तु पितृभी रोहि.ईगृहे || १०१ ||

तस्यैवास्वादनात् कव्यं वृद्धि यास्यति चान्वहम् |
तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् || १०२ ||

मार्कण्डेय उवाच

ततः सुरगणाः सर्वे यथोक्तं विधिना तथा |
चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयं वृद्धये || १०३ ||

महादेवोऽपि चन्द्रार्थं स्वरूपं परमात्मनः |
जग्राह देवैर्विधिना शिरसा क्षुधितो भृशम् || १०४ ||

यत्तेजः परमं नित्यमजमव्ययमक्षयम् |
तत्स्वरूपा चन्द्रकला शापतस्तु क्षयं गता || १०५ ||

प्रविशति यदा ज्योतिरानन्दमजरं परम् |
योगिनस्तु तदा तेषां चिन्तनं लोनमेष्यति || १०६ ||

महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ |
चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः || १०७ ||

एतज् ज्ञात्वा महादेवः क्षयवृद्ध्यविनाकृतम् |
हिताय सर्वलोकानां जग्राह शिरसा विधुम् || १०८ ||

चन्द्रज्योत्स्नासमायोगादौषध्यो यान्ति वृद्धये |
सर्वौषधिषु वृद्धासु प्रवर्तन्ते ततोऽध्वराः || १०९ ||

अध्वरेषु प्रवृत्तेषु स्वान् स्वान् भागांस्तु देवताः |
परिगृह्णन्ति पितरस्तथा कव्यानि भूरिशः || ११० ||

अमृतं ब्रह्मणा सृष्टं यद् देवेभ्यः पुरातनम् |
तेन तृप्यन्ति हीना ये हव्यभागेन देवताः || १११ ||

यज्ञेनाप्यायितं तच्च ज्योत्स्नाभिर्वृद्धिमेति वै |
यज्ञज्योत्स्ना विनाभूतं तच्च स्यात् क्षीणमन्यथा || ११२ ||

अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् |
अतो दक्षस्य शापात्तु रक्षायै तच्चिकीर्षितम् || ११३ ||

अद्यापि कृष्णपक्षे तु सुधांशुः पीयते सुरैः |
तेजः सूर्यं याति शम्भुं चन्द्रार्धंज्योत्स्निका तथा || ११४ ||

पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः |
ज्योत्स्नाद्वितीयो भागस्तु तेचोभागो द्वितीयकः || ११५ ||

अन्येऽत्युग्रशिरश्चन्द्रात् सूर्यबिम्बाद् यथाक्रमम् |
कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे || ११६ ||

सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ |
इति वः सर्वमाख्यात विभक्तश्चन्द्रमा यथा |
ब्रह्मणा पर्वतश्रेष्ठे यथा तच्चन्द्रभागतः || ११७ ||

यज्ञभागे स्थिते यस्माद्देवान्नमकरोद्विधुम् |
कव्ये स्थितेऽपि पित्रन्नं तिथिवृद्धि-क्षयो यथा || ११८ ||

इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः |
राजयक्ष्मा तस्य कुले न कदाचिद् भविष्यति || ११९ ||

यक्ष्मणा परिभूतो यः शृणोति वचनं विधे |
न चिराद् यक्ष्मणा युक्तः स भवेत् पुरुषोत्तमः || १२० ||

इदं स्वस्त्ययनं पुण्यं गुह्याद्गुह्यतमं शुभम् |
यः शृणोत्येकचित्तः सन् स महापुण्यभाग्भवेत् || १२१ ||

इति श्रीकालिकापुराणे चन्द्रशाप मोक्षणे एकविंशोऽध्यायः |


Kapitel 22

द्वाविंशोऽध्यायः

मार्कण्डेय उवाच

यत्र देवसभा भूता सानौ तस्य महागिरेः |
तत्र जाता देवनदो सीताख्या वचनाद्विधेः || १ ||

स्नापयित्वा यदा चन्द्रं सीततोयैर्मनोहरैः |
चन्द्रं पपुर्ब्रह्मवाक्यात् सर्वे ते त्रिदिवौकसः || २ ||

तदा सीताजलं चन्द्रस्नानयोगाच्च सामृतम् |
भूत्वा निपतित तस्मिन् बृहल्लोहितसंज्ञके || ३ ||

तद्विवृद्धं तदा तोयं तस्मिन् सरसि नो ममौ |
तद्ददर्श स्वयं ब्रह्मा विवृद्धं सामृतं जलम् || ४ ||

तद्दर्शनाज्जलात् तस्मादुत्थिता कन्यकोत्तमा |
चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः || ५ ||

भार्यार्थे सागरस्तां तु जग्राह ब्रह्मसन्मते || ६ ||

तयैवाधिष्ठितं तोयं गदाग्रेण निशापतिः |
निर्भिद्य पश्चिमे पार्श्वे गिरि तं समवाहयत् || ७ ||

तस्यामृतजलं भित्त्वा वृहल्लोहितनामकम् |
कासारं सागरं याता चन्द्रभागा नदी तु सा || ८ ||

सागरोऽपि तदा भार्यां चन्द्रभागां महानदीम् |
तेन तोयप्रवाहेण निनाय भवनं स्वकम् || ९ ||

एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी |
चन्द्रभागे महाशैले गुणैर्गंगासमा सदा || १० ||

नद्यश्च पर्वताः सर्वे द्विरूपाश्च स्वभावतः |
तोयं नदीनां रूपन्तु शरीरमपरं तथा || ११ ||

स्थावरः पर्वतानांतु रूपं कायः तथापरः |
शुक्तीनामथ कम्बूनां यथैवान्तर्गता तनुः || १२ ||

बहिरस्ति स्वरूपन्तु सर्वदैव प्रवर्तते |
एवं जलं स्थावरस्तु नदीपर्वतयोस्तदा || १३ ||

अन्तर्वसति कायस्तु सततं नोपपद्यते || १४ ||

आप्याययते स्थावरेण शरीरं पर्वतस्य तु |
तथा नदीनां कायस्तु तोयेनाप्याययते सदा || १५ ||

नदीनां कामरूपित्वं पर्वतानां तथैव च |
जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः || १६ ||

तोयहानौ नदी दुःखं जायते सततं सुराः |
विशीर्णे स्थावरे दुःखं जायते गिरिकायजम् || १७ ||

तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् |
सन्ध्यां दृष्ट्वाथ पप्रच्छं वसिष्ठः सादरं तदा || १८ ||

वसिष्ठ उवाच

किमर्थमागतां भद्रे निर्जनं तु महीधरम् |
कस्य वा तनया गौरि किं वा तव चिकीर्षितम् || १९ ||

एतदिच्छाभ्यहं श्रोतुं यदि गुह्यं न ते भवेत् |
वदनं पूर्णचन्द्राभं निःश्रीकं वा कथं तव || २० ||

मार्कण्डेय उवाच

एतच्छ्रुत्वा वचस्तस्य वसिष्ठस्य महात्मनः |
दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् || २१ ||

शरीरधृग्ब्रह्मचर्य-सदृशं तं जटाधरम् |
सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् || २२ ||

सन्ध्योवाच

यदर्थमागता शैलं सिद्धं तन्मे द्विजोत्तम |
तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो || २३ ||

तपः कर्तुमहं ब्रह्मन्निर्जनं शैलमागता |
ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना च विश्रुता || २४ ||

नोपदेशमहं जाने तपसो मुनिसत्तम |
यदि ते युज्यते गुह्यं मां त्वं समुपदेशय || एतच्चिकीर्षितं गुह्यं नान्यत्किञ्चन् विद्यते || २५ ||

अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता |
चिन्तया परिशुष्येऽहं वेपते च मनः सदा || २६ ||

मार्कण्डेय उवाच

आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मणः सुतः |
स्वयं स सर्वतत्त्वज्ञो नान्यत्किंचन पृष्टवान् || २७ ||

अथ ता नियतात्मानं तपसेऽतिधृतोद्यमाम् |
वसिष्ठो मन्त्रयाञ्चक्रे गुरुवच्छिष्यवत्तदा || २८ ||

वसिष्ठ उवाच

परम यो महात्तेज परमं यो महत्तपः |
परमो य समाराध्यो विष्णुर्मनसि धीयताम् || २९ ||

धर्मार्थकाममोक्षाणाय एकस्त्वादिकारणम् |
तमेक जगतामाद्य भजस्व पुरुषोत्तमम् || ३० ||

शंखचक्रगदापद्मधरं कमललोचनम् |
शुद्धस्फटिकसंकाशं क्वचिन्नीलाम्बुदच्छविम् || ३१ ||

गरुडोपरि शुक्लाब्जे पद्मासनगतं हरिम् |
श्रीवत्सवक्षमं शान्त वनमालाधरं परम् || ३२ ||

केयूरकुण्डलधरं किरीटमुकुटोज्वलम् |
निराकारं ज्ञानगम्यं साकारं देहधारिणम् || ३३ ||

नित्यानन्दं निरालम्बं सूर्यमण्डलमध्यगम् |
मन्त्रेणानेन देवेशं विष्णुं भज शुभानने || ३४ ||

ओं नमो वासुदेवाय ओमित्यन्तेन सन्ततम् |
तपस्यामारभेन्मौनीं तत्रैतान्वियमान् शृणु || ३५ ||

स्नानं मौनेन कर्तव्यं मौनेनैव तु पूजनम् |
द्वयोः पर्णजलाहारं प्रथमं षष्ठकालयोः |
तृतीये षष्ठकाले तु उपवास परो भवे || ३६ ||

एवं तपः समाप्तौ तु षष्ठे काले क्रिया भवेत् |
वृक्षवल्कलवासाश्च काले भूमिशयस्तथा |
एवं मौनी तपस्याख्या व्रतचर्या फलप्रदा || ३७ ||

एवं तपः समुद्दिश्य कामं चिन्तय माधवम् |
स ते प्रसन्न इष्टार्थं न चिरादेव दास्याति || ३८ ||

मार्कण्डेय उवाच

उपदिश्य वसिष्ठोऽथ सन्ध्ययायै तपसः क्रियाम् |
तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः || ३९ ||

सन्ध्यापि तपसो भाव ज्ञात्वा मोदमवाप्य च |
तपः कर्तुं समारेभे बृहल्लोहिततीरगाः || ४० ||

यथोक्तन्तु वसिष्ठेन मन्त्रं तपसि साधनम् |
व्रतेन तेन गोविन्द पूजयामास भक्तितः || ४१ ||

एकान्तमनसस्तस्या कुर्वन्त्याः सुमहत्तपः |
विष्णौ विन्यस्तमनसो गतमेकं चतुर्युगम् || ४२ ||

न कोऽपि विस्मयं नापं तस्या दृष्ट्वा तपोऽद्भुतम् |
न तादृशी तपश्चर्या भविष्यति च कस्यचित् || ४३ ||

मानुषेणाथ मानेन गते त्वेकचतुर्युगे |
अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः || ४४ ||

प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया |
पुरः प्रत्यक्षां यातस्तस्या विष्णुर्जगत्पतिः || ४५ ||

अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं हरिम् |
शंखचक्रगदापद्मधारिणं पद्मलोचनम् || ४६ ||

केयूरकुण्डलधरं किरीटमुकुटोज्ज्वलम् |
तार्क्ष्यस्थं पुण्डरीकाक्षं नीलोत्पलदलच्छविम् || ४७ ||

ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरिम् |
इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी || ४८ ||

निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः |
दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी || ४९ ||

दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा |
प्रत्यक्षं वीक्ष्य गोविन्दं तुष्टाव जगतां पतिम् || ५० ||

सन्ध्योवाच

निराकारं ज्ञानगम्यं नरं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः |
अन्तश्चिन्त्यं योगिभिर्यस्य रूपं तस्मै तुभ्यं हरये मे नमोऽस्तु || ५१ ||

शिव शान्तं निर्मलं निर्विकार ज्ञानात्पर सुप्रकाश विसारि |
रविप्रख्य ध्वान्तभागात् परस्ताद् रूपं यस्य त्वा नमामि प्रसन्नम् || ५२ ||

एकं शुद्धं दीप्यमानं विनोदं चित्तानन्द सत्वज पापहारि |
नित्यानन्द सत्यं भूरिप्रसन्नं यस्य श्रीदं रूपमस्मै नमोऽस्तु || ५३ ||

विद्याकारोद्भावनीयं प्रभिन्नं सत्वच्छन्नं ध्येयमात्मस्वरूपम् |
सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चेयं नमस्ते || ५४ ||

नित्यार्जवं व्ययहीनं गुणौर्धरष्टांगैर्यश्चिन्त्यते योगयुक्तैः |
तत्त्व व्यापि प्राप्य यज्ज्ञानयोगेपरं यातां योगिनस्तं नमस्ते || ५५ ||

यत्साकारं शुद्धरूपं मनोज्ञं गरुत्मस्थं नीलमेघप्रकाशम् |
शंखं चक्रं पद्मगदे दधानं तस्मै नमो योगयुक्ताय तुभ्यम् || ५६ ||

गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च |
वायुः कालश्च रूपाणि तस्य तस्मै नमोऽस्तु ते || ५७ ||

प्रधानपुरुषौ यस्य कार्याङ्गत्त्वे निवत्स्यतः |
तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते || ५८ ||

यः स्वयं पञ्च भूतानि यः स्वयं तद्गुणः परः |
यः स्वयं जगदाधारस्तस्मै तुभ्यं नमोनमः || ५९ ||

परः पुराणः पुरुषः परमात्मा जगन्मयः |
अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः || ६० ||

यो ब्रह्मा कुरुते सृष्टि यो विष्णुः कुरुते स्थितिम् |
संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः || ६१ ||

नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय |
समस्त लोकान्तर-मोहदाय प्रकाशरूपाय परात्पराय || ६२ ||

यस्य प्रपञ्चो जगदुच्यते महान् क्षितिदिशः सूर्य इन्दुर्मनोजवः |
वह्निर्मुखान्नाभितश्चान्तरीक्षं तस्मै तुभ्यं हरये ते नमोऽस्तु || ६३ ||

त्वं परः परमात्मा च त्वं विद्या विविधा हरे |
शब्दब्रह्म परंब्रह्म विचारणपरात्परः || ६४ ||

यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः |
कथं स्तोष्यामि तं देवं वामनोगोचराद्बहिः || ६५ ||

यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः |
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे || ६६ ||

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः |
नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः || ६७ ||

नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय |
प्रसीद भगवंस्तुभ्यं भूयोभूयो नमोनमः || ६८ ||

मार्कण्डेय उवाच

अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् |
परीक्षीणं जटाव्रातैः पवित्रैर्मूर्ध्नि राजितम् || ६९ ||

हिमाणी तर्जिताम्भोजसदृशवदनं तथा |
निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम् || ७० ||

श्रीभगवानुवाच

प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै |
स्तवेन च शुभप्रज्ञे वरं वरय साम्प्रतम् || ७१ ||

येन ते विद्यते कार्यं वरेणास्ति मनोगतम् |
तत् करिष्यामि भद्रन्ते प्रसन्नोऽहं तव व्रतैः || ७२ ||

सन्ध्योवाच

यदि देव प्रसन्नोऽसि तपसा तम साम्प्रतम् |
वृतस्तदाय प्रथमो वरो मम विधीयताम् || ७३ ||

उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन्नभस्तले |
न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै || ७४ ||

पतिव्रताह लोकेषु त्रिष्वपि प्रथिता यथा |
भविष्यामि तथा नान्या वर एको वृतो मम || ७५ ||

सकामा मम दृष्टिस्तु कुत्रचिन्नपतिष्यति |
ऋते पतिं जगन्नाथ सोऽपि मेऽति सुकृत्तरः || ७६ ||

यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् |
नाशं गमिष्यति तदा स तु क्लीवी भविष्यति || ७७ ||

श्रीभगवानुवाच

प्रथमः शैशवो भावः कौमाराख्यो द्वितीयकः |
तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा || ७८ ||

तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः |
सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित् || ७९ ||

पतिस्तव महाभागास्तपोरूपसमन्वितः |
सप्तकल्पान्तजीवी च भविष्यति सह त्वया || ८३ ||

इति ये ते वरा मत्त प्रार्थितास्ते कृता मया |
अन्यच्च ते वदिष्यामि पूर्वं यन्मनसि स्थितम् || ८४ ||

अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः |
स च मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके || ८५ ||

हुतं प्रज्वलिते वह्वौ न चिरात् क्रियता त्वया |
एतच्छैलोपत्यकायां चन्द्रभागानदीतटे || ८६ ||

मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे || ८७ ||

तत्र गत्वा स्वयं छन्ना मुनिभिर्नोपलक्षिता |
मत्प्रसादाद्वह्निजातां तस्य पुत्री भविष्यसि || ८८ ||

यस्त्वया वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन |
तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् || ८९ ||

यदा त्वं दारुणे सन्ध्ये तपश्चरसि पर्वते |
यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे || ९० ||

त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः |
स ददौ कन्यका सप्तविंशतिञ्च सुधांशवे || ९१ ||

तासां हेतोर्यदा शप्तश्चन्द्रो दक्षेण कोपिना |
तदा भवत्या निकटे सर्वे देवाः समागताः || ९२ ||

न दृष्टाश्च तया सन्ध्ये देवाश्च ब्रह्मणा सह |
मयि विन्यस्तमनसा त्वञ्च दृष्टा न तैः पुनः || ९३ ||

चन्द्रस्य शापमोक्षार्थं चन्द्रभागा नदी यथा |
सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः || ९४ ||

तपसा तत्समो नास्ति न भूतो न भविष्यति |
तेन यज्ञः समारब्धो ज्योतिष्टोमो महाविधिः || ९५ ||

तत्र प्रज्वलितो वह्निस्तस्मिंस्त्यज वपुः स्वकम् || ९६ ||

एतन्मया स्थापितं ते कार्यार्थं भोस्तपस्विनि |
तत् कुरुष्व महाभागे याहि यज्ञं महामुनेः || ९७ ||

मार्कण्डेय उवाच

नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना |
ततः पुरोडाशमयं तच्छरीरमभूत क्षणात् || ९८ ||

महामुनेर्महायज्ञ तस्मिन् विश्वोपकारिणि |
नाग्निः कव्यादतां यातु त्वेतदर्थं तथा कृतम् || ९९ ||

एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत |
सन्ध्याप्यगच्छत्तत्सत्रे यत्र मेधातिथिर्मुनिः || १०० ||

अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता |
प्रविवेश तदा यज्ञं सन्ध्या मेधातिथेर्मुनेः || १०१ ||

वसिष्ठेन पुरा सा तु वर्णीभूत्वा तपस्विनी |
उपदिष्टा तपश्चर्तुं वचनात् परमेष्ठिनः || १०२ ||

तमेव कृत्वा मनसि तपश्चर्योपदेशकम् |
पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् || १०३ ||

समिद्धेऽग्नो महायज्ञे मुनिभिर्नोपलक्षिता |
तदा विष्णोः प्रसादेन साविवेश विधेः सुता || १०४ ||

तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः |
दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम् || १०५ ||

वह्निस्तस्याः शरीरन्तु दग्ध्वा सूर्यस्य मण्डले |
शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः || १०६ ||

सूर्यो संस्थापयामास प्रीतये पितृदेवयोः || १०७ ||

यदूर्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः |
प्रातःसन्ध्याभवत् सा तु अहोरात्रादिमध्यगा || १०८ ||

यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा |
सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा || १०९ ||

सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः |
प्रातःसन्ध्या तदोदेति देवाना प्रीतिकारिणी || ११० ||

अस्तं गते ततः सूर्ये शोणपद्मनिभा सदा |
उदेति सायंसन्ध्यापि पितृणा मोदकारिणी || १११ ||

तस्या प्राणास्तु मनसा विष्णुणा प्रभविष्णुणा |
दिव्येन तु शरीरेण चक्रिरेऽथ शरीरिणः || ११२ ||

मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा |
प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चन सन्निभा || ११३ ||

तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः |
यज्ञार्थतोयैः संस्नाप्य निजक्रोडे कृपायुतः || ११४ ||

अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः |
शिष्यः परिवृतस्तत्र महामोदमवाप च || ११५ ||

न रुणद्धि यतो धर्मं सा केनापि च कारणात् |
अतस्त्रिलोकविदितं नाम सा प्राप सान्वयम् || ११६ ||

यज्ञं समाप्य स सुनिः कृतकृत्यभावमासाद्य सम्मदयुतस्तनयाप्रलम्भात् |
तस्मिन् निजाश्रमपदे सहशिष्यवर्गैस्तामेव सन्ततमसौ दयते महर्षिः || ११७ ||

इति श्रीकालिकापुराणे अरुन्धती-जन्मकथनं द्वाविंशोऽध्यायः

Kapitel 23

त्रयोविंशोऽध्यायः

मार्कण्डेय उवाच

अथ सा ववृधे देवी तस्मिन् मुनिवराश्रमे |
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके || १ ||

यथा चन्द्रकला शुक्लपक्षे नित्यं विवर्धते |
यथा ज्योत्स्ना तथा सापि प्राप वृद्धिमरुन्धती || २ ||

संप्राप्ते पञ्चमे वर्षे चन्द्रभागा तदा गुणैः |
तापसारण्यमपि सा पवित्रमकरोत् सती || ३ ||

तत्र तीर्थं महापुण्यं मेधातिथिनिषेवितम् |
क्रीडास्थानमरुन्धत्याः पूतं बाल्योचितं कृतम् || ४ ||

अद्यापि तापसारण्ये चन्द्रभागानदीजले |
अरुन्धतीतीर्थतोये स्नात्वा याति हरिं नरः || ५ ||

कार्तिकं सकलं मासं चन्द्रभागानदीजले |
स्नात्वा विष्णुगृहं गत्वा ह्यन्ते मोक्षमवाप्नुयात् || ६ ||

माघे मासि पौर्णमास्याममायां वा तथैव च |
चन्द्रभागाजले स्नानं यस्तु कुर्यात् सकृत् सकृत् || ७ ||

तस्य वंशे राजयक्ष्मा न कदाचिद् भविष्यति |
देहान्ते चन्द्रभवनं गत्वा याति हरेर्गृहम् || ८ ||

पुण्यक्षयादिहागत्य वेदज्ञो ब्राह्मणो भवेत् |
चन्द्रभागाजलं पीत्वा चन्द्रलोकमवाप्नुयात् || ९ ||

सकृत् स्नात्वा तु विधिवद्वाजिमेधायुतं लभेत् || १० ||

चन्द्रभागाजले स्नात्वा क्रीडन्तीं बाल्यलीलया |
पितुः समीपे तत्तीरे कदाचित्तामरुन्धतीम् |
गच्छन्नाकाशमार्गेण ददर्श कमलासनः || ११ ||

अथावतीर्य भगवान् ब्रह्मा लोकपितामहः |
अरुन्धत्यास्तदा कालमुपदेशे ददर्श ह || १२ ||

अथोवाच तदा ब्रह्मा मुनिभिः परिपूजितः |
मेधातिथिप्रभृतिभिरुचितं तं महामुनिम् || १३ ||

ब्रह्मोवाच

उपदेशस्य कालोऽयमरुन्धत्या महामुने |
तस्मादेनां सतीनान्तु स्त्रीणां त्वं कुरु सन्निधिम् || १४ ||

स्त्रिभिस्त्रियश्चोपदेश्याः काचिदन्यत्र विद्यते |
बहुलायाश्च सावित्र्याः पुत्री त्वं स्थापयान्तिके || १५ ||

तयोः संसर्गमासाद्य पुत्री तव महामुने |
महागुणैश्वर्ययुता न चिरात् तु भविष्यति || १६ ||

मेधातिथिर्वचः श्रुत्वा ब्रह्मणः परमात्मनः |
एवमेवेति प्रोवाच तं तदा मुनिसत्तमः || १७ ||

ततो गते सुरश्रेष्ठे पुत्रीं मेधातिथिर्मुनिः |
समादाय ययौ सूर्यभवनं प्रति तत्क्षणात् || १८ ||

ददर्श तत्र सावित्रीं सूर्यमण्डलमध्यगाम् |
पद्मासनगतां देवीमक्षमालाधरां सिताम् || १९ ||

दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् |
बहुला सा गता तूर्णं मानसभूभृतः || २० ||

प्रत्यहं तत्र सावित्री गायत्री बहुला तथा |
सरस्वती च द्रुपदा पञ्चैता मानसाचले || २१ ||

धर्माख्यानैस्तथा साध्वीः कथाः कृत्वा परस्परम् |
स्व खं स्थानं पुनर्याति लोकानां हितकाम्यया || २२ ||

मेधातिथिस्तु ताः सर्वा दृष्ट्वैकत्र तपोधनः |
मातृः सर्वस्य लोकस्य प्रणनाम पृथक् पृथक् || २३ ||

उवाच च स ताः सर्वा ऋषिः श्लक्ष्णं तपोधनः |
ससाध्वसो विस्मितश्च तासामेकत्र दर्शनात् || २४ ||

मेधातिथिरुवाच

मातः सावित्रि बहुले मत्पुत्रीयं शुभाशया |
कालोऽयमुपदेशेऽस्यास्तदर्थमहमागतः || २५ ||

जगत्स्रष्ट्रा समादिष्टा प्रयातु तव शिष्यताम् |
एषा तेन भवत्पार्श्वमानीता पुत्रिका मम || २६ ||

सौचारित्र्यं यथाऽस्याः स्यात्तथैनां बालिकां मम |
युवा विनयतं देव्यौ मातर्मातर्नमोऽस्तु वाम् || २७ ||

अथोवाच तदा देवी सावित्री मुनिसत्तमम् |
स्मितपूर्व बहुलया सहिता ताञ्च बालिकाम् || २८ ||

ते ऊचतुः

ब्रह्मन् विष्णोः प्रसादेन सुचरित्रा भवत्सुता |
पूर्वमेव मुने भूता तद्दुद्देशेन किं पुनः || २९ ||

किं त्वहं ब्रह्मवाक्येण बहुला च महासती |
विनेष्यावस्तव सुतां धीरा स्यान्नचिराद् यथा || ३० ||

ब्रह्मणः पूर्वदुहिता भवतस्तु तपोबलात् |
तथा विष्णोः प्रसादेन सुता तेऽभूदरुन्धती || ३१ ||

कुलं पुनाति भवतः सत्यसौ वर्धयिष्यति |
लोकानामथ देवानां शिवमेषा करिष्यति || ३२ ||

मार्कण्डेय उवाच

अथ ताभिर्विसृष्टः स मुनिर्मेधातिथिः सुताम् |
आश्वास्यारुन्धती नत्वा ताः स्वस्थानं जगाम ह || ३३ ||

गते तस्मिन् मुनिवरे सह ताभ्यामरुन्धती |
मातृभ्यामिव निर्भीता पालिता मोदमाप सा || ३४ ||

कदाचित् सह सावित्र्या रात्रौ याति रवेर्गृहम् |
तथा बहुलया याति शक्रगेहं कदाचन || ३५ ||

एवं ताभ्यां समं देवी विहरन्ती सुरालये |
निनाय दिव्यमानेन सा सप्त परिवत्सरान् || ३६ ||

ताभ्यां तथोपविष्टा सा स्त्रीधर्ममचिरात् सती |
सर्व ज्ञातवती भूता सावित्री-बहुलाधिका || ३७ ||

अथ तस्यास्तदा काले सम्प्राप्ते उचितेऽभवत् |
शोभनो यौवनोद्भेदः पद्मिनीनां रुचिर्यथा || ३८ ||

उद्भूतयौवना सा तु वसिष्ठं मानसाचले |
विहरन्ती ददर्शिका चारुतेजस्विनं मुनिम् || ३९ ||

दृष्ट्वा तमिच्छयाञ्चक्रे कामभावेन सा सती |
बालसूर्यप्रभं चारुरूपं ब्रह्मश्रिया युतम् || ४० ||

अथ सोऽपि महातेजा वसिष्ठो वरवर्णिनीम् |
दृष्टैवोद्भूतमदनो वीक्षाञ्चक्रे त्वरुन्धतीम् || ४१ ||

तयो परस्परं दृष्ट्वा ववृधे हृच्छयो महान् |
अमर्यादं द्विजश्रेष्ठाः प्राकृते मदनो यथा || ४२ ||

अथ धैर्यं समालम्ब्य तथा मेधातिथेः सुता |
आत्मानं धारयामास मनश्च मदनेरितम् || ४३ ||

वसिष्ठोऽपि महातेजा धैर्यमालम्ब्य चात्मनः |
मनः संस्तम्भयामास मदनोन्मथितं ततः || ४४ ||

अरुन्धती ततो देवी विहाय मुनिसन्निधिम् |
जगाम यत्र सावित्री निन्दन्ती स्वं मनोरथम् || ४५ ||

बाध्यमानातिदुःखेन मानसेन महासती |
सतीभावः परित्यक्तश्चिन्तयन्ती मयेति वै || ४६ ||

तस्या मनोजदुःखेन विवर्णमभवन्मुखम् |
शरीरं सकलं म्लानं गतिश्च वलिताभवत् || ४७ ||

इदं विममृषे सा च गर्हयन्ती स्वकं मनः |
मृणालतन्तुवत् सूक्ष्मा क्षिन्ना च तत्क्षणादपि || ४८ ||

स्थितिः सतीनामल्पेन चापल्येनैव नश्यति |
इति स्त्रीधर्ममध्याप्य मामाह चरितव्रता || ४९ ||

सावित्री सारमेतधि सतीधर्मस्य चोद्धृतम् |
तदद्य नाशितं पुंसि परकीये मनोरथम् || ५० ||

वर्द्धयन्त्या तदा किं मे परत्रेह भविष्यति |
इति सञ्चिन्तयन्ती सा पुत्री मेधातिथेस्तदा || ५१ ||

दुःखार्ता बहुलां देवीं सावित्रीं चाससाद ह |
तथाविधान्तु तां दृष्ट्वा विवर्णवदनां सतीम् || ५२ ||

ध्यानचिन्तापरा भूतां सावित्री विममर्ष ह |
विमृष्य दिव्यज्ञानेन सर्वं ज्ञातवती सती || ५३ ||

वसिष्ठेन त्वरुन्धत्या यथाभूद्दर्शन तथा |
यथा तयोः सम्प्रवृद्धो मनोजश्चातिदुःसहः || ५४ ||

मुखवैवर्ण्यहेतुश्च सावित्री दिव्यदर्शिनी |
अथ मेधातिथेः पुत्र्या मूर्ध्नि हस्तं निवेश्य सा || ५५ ||

इदमाह महादेवी सावित्री चरितव्रता |

सावित्युवाच

वत्स तव मुखं कस्माद्भिन्नवर्णमभूदिदम् || ५६ ||

छिन्ननालं यथापद्मं सूर्यांशुपरितापितम् |
कथं शरीरमभवत् म्लानं ते गुणवत्तमे || ५७ ||

यथा निशापतेर्विम्बं तनुकृष्णाभ्रसंवृतम् |
अन्तर्मनश्च ते भद्रे सचिन्तमिव लक्ष्यते |
तन्मे कथय ते गुह्यं नैतच्चेद्दुःस्वकारणम् || ५८ ||

मार्कण्डेय उवाच

अथ साधोमुखी भूत्वा किंचिन्नोवाच लज्जया |
सावित्रीं मातरं गुर्वीं तथा पृष्टाप्यरुन्धती || ५९ ||

यदा दोक्तवती किंचित्तदा नेधातिथेः सुता |
स्वयं प्रकाश्य सावित्री तामुवाच तपस्विदी || ६० ||

सावित्युवाच

वत्से योऽसौ त्वया दृष्टो मुनिर्भास्करसन्निभः |
स वसिष्ठो ब्रह्मसुतस्तव स्वामी भविष्यति |
तव तस्य च दाम्पत्यं पुरा धात्रैव निर्तिम् || ६१ ||

अतस्तव सतीभावो न हीनस्तस्य दर्शनात् |
यद्वा तवाभूद्ध्रदयं सकामं तस्य दर्शनात् || ६२ ||

न तद्दोषकरं पुत्रि मनोदुःखं ततस्त्यज |
त्वया परं तपः कृत्वा पूर्वजन्मनि शोभने || ६३ ||

वृतः स एव दयितः सकामस्तेन स त्वयि |
शृणु पूर्वं त्वया वत्से वसिष्ठोऽयं वृतः पतिः |
यथा तपः कृतं तत्र येन भावेन सन्ततम् || ६४ ||

मार्कण्डेय उवाच

इत्युक्त्वा सा च सावित्री यथा सन्ध्याभवत् पुरा || ६५ ||

कृतं तपो यदर्थन्तु चन्द्रभागाह्वये गिरौ |
वसिष्ठेन यथा पूर्वं वर्णिरूपेण वेधसः || ६६ ||

वचनादुपदिष्टा सा तपश्चर्यां दुरत्ययाम् |
यथा प्रसन्नो बह्गवान् विष्णुः प्रत्यक्षतां गतः || ६७ ||

वरं यथा ददौ तस्ये मर्यादा स्थापिता यथा |
यथा वा वाञ्छितः स्वामी वसिष्ठः स तया मुनिः || ६८ ||

मेधातिथेर्यथा यज्ञे वह्नौ त्यक्तं तवया वपुः |
यथा तत्तनया जाता तस्यैतद्विस्तरात् तदा || ६९ ||

सावित्री कथयामास क्रमाद् बहुलया सह || ७० ||

अथ तस्या वचः श्रुत्वा यदभूत् पूर्वजन्मनि |
तच्छ्रुत्वा वै तदा ज्ञातं मम सर्वं मनोगतम् || ७१ ||

इत्यतीवत्रपां प्राप्य सातीवाभुदधोमुखी |
सावित्रीवचनाद्भूता पूर्वजन्मस्मरा च सा || ७२ ||

तथैवाधोमुखी भूत्वा यद्वृत्तं पूर्वजन्मनि |
तस्य सर्वस्य सस्मार दिव्यज्ञारुन्धती तदा || ७३ ||

पूर्वं विष्णुप्रसादेन सा भूत्वा दिव्यदर्शिनी |
अधुना बाल्यभावेन प्रच्छन्ना दिव्यदर्शना || ७४ ||

सावित्रीवचनाच्छ्रुत्वा वृत्तान्तं पूर्वजन्मनः |
प्रत्यक्षमिव तत् सर्वं पूर्वज्ञानमवाप सा || ७५ ||

अवाप्य पूर्वं ज्ञानं तद् यद् दत्तं विष्णुणा पुरा |
वसिष्ठोऽयं वृतं स्वमी मया वै पूर्वजन्मनि || ७६ ||

इति ज्ञानवती देवी सामोदारुन्धती स्वयम् |
वसिष्ठदर्शनाद्भूते पूर्वं तस्यास्तु हृच्छये || ७७ ||

यथातङ्कः समुत्पन्नः सतीत्वस्य निवारणे |
तञ्च स्वयं सा तत्याज तदा मेधातिथेः सुता || ७८ ||

त्यक्तचिन्तां ततस्तान्तु विज्ञायारुन्धतीं सतीम् |
सावित्री सूर्यभवनं तया सार्धं जगाम ह || ७९ ||

अरुन्धती निवेश्याथ सावित्री सूर्यमन्दिरे |
जगाम ब्रह्मभवनं सर्वज्ञा सा सतीवरा || ८० ||

अथ प्रणम्य ब्रह्माणं पृष्टा तेनैव तत्क्षणात् |
इदं जगाद सावित्री ब्रह्माणममितौजसम् || ८१ ||

भगवन् जगता नाथ वसिष्ठं भवतः सुतम् |
मानसस्य गिरेः सानौ ददर्शारुन्धती सती || ८२ ||

तयोर्दर्शनमात्रेण ववृधे हृच्छयो महान् |
परस्परं तौ स्पृहयाञ्चक्रतुश्च प्रजापते || ८३ ||

ततो धैर्यात्तु संस्तभ्य मनोजं तौ सुदुःखितौ |
विमनस्कौ गतौ स्थानं लज्जितौ तौ स्वकं स्वकम् || ८४ ||

एवम्प्रवृत्ते यद्योग्यं तदा त्वेतद्विधीयताम् |
आयत्याञ्च सुरश्रेष्ठे लोकानां हितकाम्यया || ८५ ||

इति श्रुत्वा वचस्तस्या ब्रह्मा सर्वजगद्गुरुः |
ददर्श दिव्यज्ञानेन प्रवृत्तिं भाविकर्मणः || ८६ ||

इदञ्च स्वागतं प्रोचे तदा लोकपितामहः |
तयोर्दाम्पत्यभावस्य कालोऽयं समुपस्थितः || ८७ ||

अतो लोकहितार्थाय यास्येऽहं तत्प्रवृत्तये |
इति निश्चित्य मनसा सावित्रीसहितो विधिः |
जगाम मानसप्रस्थं यत्राभूद् दर्शनं तयोः || ८८ ||

पितामहे तत्र याते शर्वः सुरगणैर्युतः |
नन्दिभृङ्गिप्रभृतिभिः समायातो वृषध्वजः || ८९ ||

भगवान् वासुदेवोऽपि ब्रह्मणा परिचिन्तितः |
भक्त्या सोऽपि जगन्नाथः शङ्खचक्रगदाधरः |
स्थितौ ब्रह्महरौ यत्र तत्रैव स्वयमागतः || ९० ||

अथ ते जगता नाथा ब्रह्मविष्णुमहेश्वराः |
नारदं प्रेषयामासुर्दूत मेधातिथि प्रति || ९१ ||

याहि द्रुतं नारद त्व चन्द्रभागाह्वय गिरिम् |
मुनिस्तस्योपत्यकायामास्ते मेधातिथिः परः || ९२ ||

तमानय यथाकालमस्माकं वचनात् स्वयम् |
मेधातिथि समादाय भवानागच्छतु द्रुतम् || ९३ ||

ब्रह्मादीनां वचं श्रुत्वा नारदोऽपि द्रुतं ययौ |
मेधातिथि समानेतु महाकार्यस्य सिद्धये || ९४ ||

मेधातिथि समाभाष्य देवानां वचनैस्ततः |
मेधातिथि समादाय ययौ मानसपर्वतम् || ९५ ||

सेन्द्रा देवगणाः सर्वे मुनयश्च तपोधनाः |
साध्या विद्याधरा यक्षा गन्धर्वाश्च समागताः || ९६ ||

देवाश्च सर्वे देव्यश्च ये देवानुचरास्तथा |
ते सर्वे मानसप्रस्थं याताश्चान्ये च जन्तवः || ९७ ||

अथ भूते समाजे तु देवानां कमलासनः |
मेधातिथिं मुनिं वाक्यमिदमाहातिदेशयन् || ९८ ||

ब्रह्मोवाच

मेधातिथे वसिष्ठाय पुत्रीं ते चरितव्रताम् |
देहि ब्राह्मणे विधिना समाजे त्रिदिवौकसाम् || ९९ ||

वधूवरत्वमनयोः पूर्वं सृष्टं मयैव हि |
हरिणां चाप्यनुज्ञातं कर्म चैतत् समञ्जसम् || १०० ||

एवं कृते तव कुले भविष्यति महद्यशः |
हितं च सर्वभूतानां देहि त्वां मां चिरं कृथाः || १०१ ||

ततो ब्रह्मवचं श्रुत्वा ह्यतिप्रमोदितो मुनिः |
एवमस्त्विति चोवाच नत्वा तान् सुरपुङ्गवान् || १०२ ||

एषा तु वचनात् पुत्रीमादायारुन्धती मुनिः |
ध्यानस्थस्य वसिष्ठस्य देवैः सह जगाम ह || १०३ ||

गत्वा वसिष्ठनिकटं देवैः परिवृतो मुनिः |
ब्राह्मश्रिया दीप्यमान ज्वलन्तमिव पावकम् || १०४ ||

धर्मार्थकाममोक्षेषु धृतबुद्धि पृथक् पृथक् |
ददर्श मुनिमासीनं मानसाचलकन्दरे || १०५ ||

वसिष्ठमोजस्विवर बालसूर्यमिवोदितम् |
अथ पुत्रीमग्रगता कृत्वा मेधातिथिर्मुनिः |
वसिष्ठ नियतात्मानमुवाचारुन्धतीपिता || १०६ ||

ऋषिरुवाच

भगवन् ब्रह्मणः पुत्र पुत्रीं मे चरितव्रताम् |
दत्तां प्रतिगृहाणैनां मया ब्राह्मेण धर्मतः || १०७ ||

यत्र यत्राश्रमे ब्रह्मन् स्वेच्छया निवसिष्यसि |
त्वद्भक्त्यैषा भवित्री चच्छायेवानुगता तव || १०८ ||

तत्र तत्रैव मे पुत्री समानव्रतचारिणी |
पतिव्रता वरारोहा शुश्रूषां ते करिष्यति || १०९ ||

मार्कण्डेय उवाच

इति श्रुत्वा वसिष्ठस्तु मुनेर्मेधातिथेर्वचः |
दृष्ट्वा समागतान् देवान् ब्रह्मविष्णुशिवादिकान् || ११० ||

अवश्यमेतद्भावीति निश्चित्य दिव्यचक्षुषा |
ब्रह्मणः सम्मते पुत्रीं तदा मेधातिथेर्मुनेः |
वसिष्ठः प्रतिजग्राह वाढमित्युक्तवांश्च ह || १११ ||

गृहीतपाणिः सा देवी वसिष्ठेन महात्मना |
पत्युः पादयुगे चक्षुर्युगं न्यस्तवती सती || ११२ ||

ततो ब्रह्मा च विष्णुश्च रुद्रश्चान्ये तथामराः |
विवाहविधिना तौ तु मोदयाञ्चक्रुरुत्सवैः || ११३ ||

सावित्रीप्रमुखा देव्यो देवाश्चेन्द्रादयस्तथा |
दक्षाद्याः कश्यपाद्यास्तु मुनयोऽतितपोधनाः || ११४ ||

उन्मुच्य ब्रह्मवचनाद्वल्कलञ्चाजिनं जटाः |
मन्दाकिनीजलेनाशु स्नापयित्वा सुतं विधेः || ११५ ||

जाम्बुनदैस्तथा दिव्यैर्भूषणैश्च मनोहरैः |
वसिष्ठं भूषयांचक्रुस्तथैवारुन्धतीं सतीम् || ११६ ||

भूषयित्वाथ तौ तत्र समाप्य मुनिभिर्विधिम् |
विवाहावभृथं चक्रुस्तयोर्विधिहरीश्वराः || ११७ ||

निधाय सर्वतीर्थानां तोयं जाम्बुनदे घटे |
आशीर्वादकरैर्मन्त्रैर्गायत्र्या द्रुपदादिभिः || ११८ ||

स्वयं तौ स्नापयाञ्चक्रुर्ब्रह्माविष्णुमहेश्वराः |
ततो महर्षयश्चान्ये तथा देवर्षयश्च ये || ११९ ||

ते सर्वे ऋग्यजुःसामवेदभागैर्महास्वरैः |
गङ्गादि सरितां तोयैश्चक्रुः शान्तिं तयोर्मुहुः || १२० ||

भुवनत्रयसञ्चारि विमानं सूर्यवर्चसम् |
अव्याहतगतिं ब्रह्मा सतोयञ्च कमण्डलुम् || १२१ ||

ताभ्यां दायं ददौ विष्णुर्दुष्प्रापं स्थानमुत्तमम् |
यदूर्ध्वं सर्वदेवानां मरीच्यादेः समीपतः || १२२ ||

सप्तकल्पान्तजीवित्वं रुद्रः प्रादात्तयोर्वरम् |
अदितिः कुण्डलयुगं ब्रह्मणा निर्मितं स्वकम् |
ददौ स्वकर्णादाकृष्य पुत्र्यै मेधातिथेस्तदा || १२३ ||

पतिव्रतात्वं सावित्री बहुला बहुपुत्रताम् |
देवेन्द्रो बहुरत्नानि धनेशेन समं ददौ || १२४ ||

एवं देवाश्च मुनयो देव्यश्चान्ये च ये स्थिताः |
ददुस्तत्र यथायोग्यं दायं ताभ्यां पृथक् पृथक् || १२५ ||

एवं विवाह्य विधिवत् सौवर्णे मानसाचले |
अरुन्धती वसिष्ठस्तु मोदमाप तया सह || १२६ ||

तत्र यत् पतितं गोयं मानसाचलकन्दरे |
विवाहावभृथार्थाय शान्त्यर्थे च सुराहृतम् || १२७ ||

ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् |
तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् || १२८ ||

हिमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् |
तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे || १२९ ||

तेन शिप्रानदीजाता विष्णुना प्रेरिता क्षितौ |
महाकौषी प्रपाते तु यद्वारि पतितं तु वै || १३० ||

कौषिकी नाम सा जाता विश्वामित्रावतारिता |
उमा क्षेत्रे यत् पतितं तोयं तेन महानदी || १३१ ||

कावेरी नाम सा जाता कावेरसरसः सृता |
महाकाले सरःश्रेष्ठे पतितं तज्जलं गिरेः || १३२ ||

हिमाद्रेः पार्श्वभागे तु दक्षिणे शंभुसन्निधौ |
गोमती नाम तैर्जाता नदी गोमदुदीरिता || १३३ ||

मैनाको नाम यः पुत्रः शैलराजस्य तत्समः |
तस्मिन् सानौ समुत्पन्नो मेनकोदातः पुरा || १३४ ||

यत्तत्र पतितं तोयं तेन जाता महानदी |
देविकाख्या महादेवप्रेरिता सागरं प्रति || १३५ ||

यत्तोयं संगतं दर्यां हंसावतारसन्निधौ |
तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा स्मृता || १३६ ||

यान्यम्भांसि महाखाण्डवारण्यसन्निधौ |
हिमवत्कन्दरे याम्ये इराया ह्रदमध्यतः || १३७ ||

इरावतीनाम नदी तैर्जाता च सरिद्वरा |
एताः सर्वाः स्नानपानसेवनैर्जाह्नवी यथा || १३८ ||

फलं ददति मर्त्यानां दक्षिणोदधिगाः सदा |
धर्मार्थकाममोक्षाणां बीजभूताः सनातनाः || १३९ ||

महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः |
एवं नद्यः सप्तजाताः सदापुण्यतमोदकाः || १४० ||

अरुन्धत्या वसिष्ठस्य विवाहे देवसन्निधौ || १४१ ||

एवं विवाह्य स तदा वसिष्ठस्तामरुन्धतीम् |
देवैर्दत्तं तदा स्थानं विमानेन जगाम ह || १४२ ||

ब्रह्मविष्णुमहेशानां वचनान्मुनिसत्तमः || १४३ ||

हिताय सर्वजगतां त्रिषु लोकुषु सर्वदा |
यस्मिन् यस्मिन् युगे यादृक् स्त्रीणां भवति तादृशम् || १४४ ||

वेशं भावं शरीरं च कृत्वा धर्मे नियोजनम् |
विचरत्येष लोकांस्त्रीनप्रमत्तः प्रसन्नधीः || १४५ ||

एवं पुरा वसिष्ठेन परिणीता त्वरुन्धती |
सा हितार्थाय जगतां देवानां वचनात् पुरा || १४६ ||

य इदं शृणुयान्नित्यमाख्यानं धर्मसाधनम् |
सर्वकल्याणसंयुक्तं चिरायुर्वित्तवान् भवेत् || १४७ ||

या स्त्री शृणोति सततमरुन्धत्याः कथा मिमाम् |
पतिव्रता सा भूत्वेह परत्र स्वर्गमाप्नुयात् || १४८ ||

इदं परं स्वस्त्ययनमिदं धर्मप्रदं परम् |
आख्यानं सर्वदा कीर्तिर्यशः पुण्यविवर्धनम् || १४९ ||

विवाहे पुंसि यात्रायां यः श्राद्धे श्रावयेत्तथा |
स्थैर्यं पुंसवनं सिद्धिः पितृप्रीतिश्चजायते || १५० ||

इति वः कथितं सर्वं वसिष्ठस्य महात्मनः |
अरुन्धती यथाभूता भार्या वापि पतिव्रता || १५१ ||

यस्य वा तनया जाता यथोत्पन्ना च यत्र च |
यथा ब्रह्महरीशानां वचनात् स वृतः पतिः || १५२ ||

एतत् वः सर्वमाख्यातं गुह्याद्गुह्यतरं परम् |
पुण्यदं पापहरणमायुरारोग्यवर्धनम् || १५३ ||

इति विपुलवृषौधक्षेमकारीतिहासं सदसि सकृदपीह श्रावयेद्यो द्विजानाम् |
स भवति कलुषौर्घैर्हीनदेहः समेतो मुनिवरसहचर्यां प्रेत्य गीर्वाण एव || १५४ ||

इति श्रीकालिकापुराणे वसिष्ठारुन्धतीविवाहे त्रयोविंशोऽध्यायः || २३ ||

Kapitel 24

चतुर्विंशोऽध्यायः

मार्कण्डेय उवाच

ततो हिमवतः प्रस्थे गिरेः शिप्रसरस्तीरे |
उपविष्टो महादेवस्तन्सरोऽपश्यदन्तिके || १ ||

पुनः पुनः प्रेष्यमाणो ब्रह्मणा हरिणा च सः |
ध्यानं कर्तुं तत्र मनः स्थिरं कृत्वा दृढात्मवान् || २||

आत्मानमात्मना द्रष्टुमात्मन्येव विशेषतः |
परमं यत्नमकरोद् यानेन स्मरणशासनः || ३ ||

ध्याने प्रविष्टचित्तन्तु तं दृष्ट्वा द्रुहिणादयः |
हरे प्रविष्टां मायाख्यां तुष्टुवुर्यतमानसाः || ४ ||

मायया मोहितो भर्गः सतीशोकाकुलो भृशम् |
विलपत्येव तां तस्मिन् मोहयतुं जगत्प्रसूम् || ५ ||

स्तुत्वा शम्भुशरीरात्तु निःसार्येनां निराकुलाम् |
शम्भुचित्तं करिष्यामो ध्यानासक्तं निरञ्जनम् || ६ ||

यावत् सती पुनर्देहं गृहीत्वा हरभामिनी |
भवित्री तावदेवैष विशोको ध्यातु निष्कलम् || ७ ||

इति सञ्चिन्त्य मनसा ब्रह्माद्यास्त्रिदिवौकसः |
योगनिद्रां महामाया स्तोतुमेवं समारभन || ८ ||

देवा ऊचुः

श्रीशक्ति पावनी तान्तु पुष्टिं परमनिष्कलाम् |
वयं स्तुमो महाभक्त्या महदव्यक्तरूपिणीम् || ९ ||

शिवां शिवकरी शुद्धां स्थूलां सूक्ष्मां परावराम् |
अन्तर्विद्यामविद्याख्यां प्रीतिमेकाग्रयोगनिम् || १० ||

त्वं मेधा त्वं धृतिस्त्वं ह्रीस्त्वएका सर्वगोचरा |
त्वं दीधितिः सूर्यगता सुप्रपञ्चप्रकाशिनी || ११ ||

या तु ब्रह्माण्डसंस्थानं जगद्बीजेषु या जगत् |
आप्याययति ब्रह्मादींस्तम्बान्तान् या त्वमापगा || १२ ||

य एकः सर्वजगतां प्राणभूतः सदागतिः |
देवानाञ्च य आधारः स नभस्वांस्तवांशकः || १३ ||

एवं विसारि यत्तेजः सर्वत्रैव समिध्यते |
तत्ते रूपं जगद्बीजं बहुधा यच्च दृश्यते || १४ ||

या ब्रह्मलोकपातालसान्तरालगता सदा |
सा त्वं वियन्मध्यबहिर्ब्रह्माण्डस्य च सर्वतः || १५ ||

अचलाचलचक्रेण यन्त्रिता या प्रपञ्चसूः |
जगद्धात्री लोकमाता सा च त्वं माधवी क्षितिः || १६ ||

त्वं बुद्धिस्त्वं तद्विषया त्वं माता छन्दसां गतिः |
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती || १७ ||

त्वं माता सर्वजगतां त्वं त्रयी कामरूपिणी |
त्वं हि निद्रास्वरूपेण प्राणिनो निर्जरादयः |
ये स्वर्गाद्योकसः सर्वान् सुखयन्ती प्रमोहसि || १८ ||

त्वं लक्ष्मीः पुण्यकर्त्रीणां पापिनां त्वं हि यातना |
तथा नीतिभृतां श्रीश्च सुखदानैशिकी धृति || १९ ||

त्वं शान्तिः सर्वजगतां त्वं कान्तिश्चन्द्रगोचरा |
त्वं धात्री सर्वभूतानां लक्ष्मीस्त्वं विष्णुमोहिनी || २० ||

त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् |
त्वं त्रिलोकी महामायां त्वं नीतिर्मोहकारिणी || २१ ||

संसारचक्रेष्वारोप्य सर्वभूतं महेश्वरः |
भ्रामयन्नस्ति च यथा सा त्वं माया महेश्वरि || २२ ||

जयन्ती जययुक्तानां ह्रीर्विद्यां नीतिरुत्तमा |
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः || २३ ||

समस्तगीर्वाणगणस्य शक्तिस्तमोमयी सत्त्वगुणैकदृश्या |
रजःप्रपञ्चानुभवैककारिणी या न स्तुता भव्यकरीह सास्तु || २४ ||

संसारसागरकरालतरङ्गदुःखनिस्तारकारितरणिश्चिरीतिहीना |
याष्टाङ्गरूपपरपावनकेलिगीतविक्षेपकारिणी गिरौ प्रणनाम तां वै || २५ ||

नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्वा सुखानि विदधाति सदैव जन्तोः |
निद्रेति याति सुभगा जगतीभवानां सा नः प्रसीदतु धृतिस्मृतिवृत्तिरूपा || २६ ||

सृष्टिस्थित्यन्तरूपा या सृष्टिस्थित्यन्तकारिणी |
सृष्टिस्थित्यन्तशक्तिर्या सा माया नः प्रसीदतु || २७ ||

मार्कण्डेय उवाच

योगनिन्द्रा महामाया संस्तुतेयं तदा सुरः |
हरस्य हृदयात् क्षिप्रं निःससार तदाञ्जसा || २८ ||

विनिःसृतायां तस्यां तु विवेश मधुसूदनः |
शम्भोरन्त स्वयं तस्य शान्त्यर्थं विश्वरूपधृक् || २९ ||

प्रविश्य हृदयं तस्य कल्पे कल्पे यथाभवत् |
सृष्टि स्थितिस्तथैवान्तस्तथादर्शयदच्युतः || ३० ||

यथा सती तस्य जायां भूता सा या च यत्सुता |
तत् सर्वं दर्शयामास मुक्तदेहा च सा यथा || ३१ ||

बहिर्व्यक्त तु निःसारं प्रपञ्च रजसं बहु |
दर्शयित्वा परं ज्योतिर्गतचितं तदाकरोत् || ३२ ||

ततो हरोऽपि तान् सर्वान् प्रपञ्चान् वीक्ष्य चासकृत् |
निःसारांश्च तदा मत्वा सारे चित्तं न्यवेशयत् || ३३ ||

ब्रह्मादीनां तदा माया देवानां तैः परिष्टुता |
प्रतिश्रुत्य च कर्तव्यं तत्रैवान्तर्दधे द्रुतम् || ३४ ||

भगवानपि वैकुण्ठः शम्भोश्चित्तं पदे पदे |
संयम्य निःसृतः कायाद्राजेव रविमण्डलात् || ३५ ||

कृतकृत्यास्तदा देवा ब्रह्मनारायणादयः |
स्वं स्वं स्थानं ययुः प्रीतियुतास्त्यक्त्वा हरं गिरौ || ३६ ||

ध्यानासक्तं महादेवं प्रणम्येन्द्रादयः सुराः |
विज्ञाप्य मौनिनं देवं जग्मुः स्थानं स्वकं स्वकम् || ३७ ||

यातेषु तेषु देवेषु कपर्दी वृषवाहनः |
सहस्रं दिव्यमानेन दध्यौ ज्योतिः परं समाः || ३८ ||

ऋषय ऊचुः

कथं मधुरिपुः शम्भोः प्रविश्य हृदयेऽञ्जसा |
कल्पे कल्पे स्थितिं सृष्टिं संयमञ्चाप्यदर्शयत् || ३६ ||

यथा जगत्प्रपञ्चाय रजसा जगतीं गताः |
निःसारता कथं तेषां दर्शिता कैटभारिणा || ४० || किन्नु सारतरं गुह्यं परं ज्योतिः सनातनम् |
दर्शितं तेन तत् सत्यमाचक्ष्व द्विजसत्तम || ४१ ||

श्रोतुमिच्छाम इति ते मुनीन्द्राद्भूतमुत्तमम् |
विस्तरादिदमाख्याहि धर्म निःश्रेयसं परम् || ४२ ||

मार्कण्डेय उवाच

आदिसर्गमहं वक्ष्ये वाराहं द्विजसत्तमाः |
कल्पे कल्पे यथा सृष्टिर्वाराहे यादृशी भवेत् || ४३ ||

आदिसृष्टि दर्शयित्वा प्रतिसर्गं तथा हरिः |
शम्भवं दर्शयामास प्रलयादीन् निबोधतः || ४४ ||

प्रलय प्रथमं वक्ष्ये सर्गमादि ततः परम् |
प्रतिसर्ग ततो विप्रा वाराहं विनिबोधतः || ४५ ||

निमेषो नाम कालांशो नेत्रोन्मेषविलक्षितः |
तैरष्टादशभिः काष्ठा काष्ठानां त्रिंशता कला || ४६ ||

कलाभिस्तावतीभिस्तु क्षणाख्यः परिकीर्तितः |
क्षणैर्द्वादशभिः प्रोक्तो मुहूर्तस्तैस्तु त्रिंशता || ४७ ||

मानुषः स्यादहोरात्रः पक्षस्ते दश पञ्च च |
पक्षाभ्यां मानुषो मासः पितॄणां तदहर्निशम् || ४८ ||

मासैर्द्वादशभिर्वर्षो देवानां तदहर्निशम् |
कृष्णपक्षः पितॄणां तु कर्मार्थं दिवसो मतः || ४९ ||

स्वप्नार्थं शुक्लपक्षस्तु रजनी परिकीर्तिता |
देवानां तु दिनं प्रोक्तं षण्मासा उत्तरायणम् || ५० ||

रात्रिः स्वप्नाय देवानां षण्मासा दक्षिणायणम् |
द्वाभ्यां द्वाभ्यान्तु मासाभ्यामर्कजाभ्यामृतुः स्मृतः || ५१ ||

ऋतुभिश्चायनं प्रोक्तं त्रिभिस्तन्मानुषं मतम् |
ऋतुभिर्वत्सरः षड्भिस्तांश्च शृणु पृथक् पृथक् || ५२ ||

चैत्रादि-मासयुगलैः संज्ञाभेदाद् द्विजोत्तमाः |
वसन्तश्चैत्रवैशाखो ग्रीष्मो ज्येष्ठः शुचिस्तथा || ५३ ||

प्रावृट् नभोनभस्यौ तु शरत् स्यादिष-कार्तिकौ |
सहः पौषौ च हेमन्तः शिशिरो माघफाल्गुनौ || ५४ ||

षडिमे ऋतवः प्रोक्ता यज्ञादौ विहिताः पृथक् |
नृणां मानेन दशभिर्लक्षैः सप्तभिरुत्तरैः |
अष्टाविंशतिसाहस्रैमनिं कृतयुगस्य तु || ५५ ||

सन्ध्या चतुःशतानीह वर्षाणामन्तरालतः |
सन्ध्यांशस्तावता प्रोक्तस्तदन्तर्गत ईप्सितः || ५६ ||

त्रेता द्वादशभिर्लक्षैर्मानुषैर्वत्सरैर्भवेत् |
षण्णवत्या सहस्रैश्च सन्ध्या चास्य शतत्रयम् || ५७ ||

शतत्रयं तु सन्ध्यांशस्तदन्तः परिकीर्तितः |
चतुःषष्टिसहस्राणि लक्ष्याण्यष्टौ प्रमाणतः || ५८ ||

भवेद्युगं द्वापराख्यं तेषु सन्ध्या शतद्वयम् |
शतद्वयं तु सन्ध्यांशस्तदन्तर्गत इष्यते || ५९ ||

द्वात्रिंशत्तु सहस्राणि चतुर्लक्षाणि वै कलेः || ६० ||

संवत्सरैर्भवेन्मानं सन्ध्यैकं प्रोच्यते शतम् |
वत्सराणामेकशतं संध्यांशश्च तदन्तरे || ६१ ||

एवं कृतश्च त्रेता च द्वापरश्च तथा कलिः |
मानुषेण प्रमाणेन भवेद् युगचतुष्टयम् || ६२ ||

त्रिचत्वारिंशता लक्षैर्मानञ्चातुर्युगं भवेत् |
सहस्रैरपि विंशत्या संध्या संध्यांशसंयुतम् || ६३ ||

दैवं दिनं वत्सरेण मानुषेण सरात्रकम् |
एवं क्रमं गणित्वा तु मानुषीयैश्चतुर्युगैः |
दैवं द्वादशसाहस्रं वत्सराणां प्रकीर्त्तितम् || ६४ ||

देवैर्द्वादशसाहस्रैर्वत्सरैदैविकं युगम् |
तद्वै चतुर्युगं नृणां संध्या संध्यांशसंयुतम् || ६५ ||

देवानां तु कृते त्रेताद्वापरादिव्यवस्थया |
न युगव्यवहारोऽस्ति न च धर्मादिभिन्नता || ६६ ||

किन्तु चातुर्युगं नारं भवेद्दैवयुगं सदा |
दैविकैरेकसप्तत्या युगैर्मन्वन्तरं भवेत् || ६७ ||

दैवयुगसहस्रे द्वे ब्रह्मणः स्यादहर्निशम् |
चतुर्युगसहस्रे द्वे नृणां मानेन तद्भवेत् || ६८ ||

एकस्मिन् ब्राह्मदिवसे मनव स्युश्चतुर्दश |
एवं ब्राह्मणे मानेन दिवसैस्तु त्रिभिः शतैः |
स-षष्टिभिर्वत्सरः स्याद् ब्राह्मो वर्षो नृणां यथा || ६९ ||

ब्राह्मै पञ्चशता वर्षैः परार्धः परिकीर्तितः |
तदीश्वरस्य दिवसस्तावती रात्रीरीड्यते || ७० ||

शतेन ब्रह्मणो वर्षो कालः स्याद् द्विपरार्धकः |
परार्धद्वितयेऽतीते ब्रह्मणः प्रलयो भवेत् || ७१ ||

प्रलीने ब्रह्मणि परे जगतां प्राकृतो लयः |
समस्तजगदाधारमव्ययं यत् परात्परम् || ७२ ||

तस्य ब्रह्मस्वरूपस्य दिवारात्रस्य यद् भवेत् |
तत्परं नाम तस्यार्धं परार्धंमभिधीयते || ७३ ||

जगत्स्वरूपी भगवान् परमात्माक्षयोऽव्ययः |
स्थूलात् स्थूलतमः सूक्ष्माद् यस्तु सूक्ष्मतमो मतः |
न तस्यास्ति दिवारात्रिव्यवहारो न वत्सरः || ७४ ||

किन्तु पौराणिकैः पूर्वैरस्माभिरपि तादृशैः |
सृष्टिप्रलयबोधार्थं कल्प्यते तदहर्निशम् || ७५ ||

स एव रात्रिः स दिवा स वर्षः स वै क्षितिः सृष्टिकरो हरश्च |
स विष्णुरूपी पुरुषः पुराणस्तस्मिन् समस्तञ्च विभाति तद्वत् || ७६ ||

ततो ब्रह्मणि लीने तु परमात्मनि शाश्वते |
जगत् सर्वं क्रमेणैव तद्रूपत्वाय गच्छति || ७७ ||

ब्रह्मणः शतवर्षान्ते रुद्ररूपी जनार्दनः |
जगदन्तं स्वयं कृत्वा परमे लीनमेति वै || ७८ ||

प्रथमं सविता सर्वं स्थावरं जङ्गमं तथा |
तीव्रैः करैः शोषयित्वा जलं सर्वं ग्रहीष्यति || ७९ ||

शुष्का वृक्षास्तृणगणाः प्राणिनः पर्वतास्तथा |
चूर्णीकृत्वा विशीर्णा स्युर्दिव्यवर्षशतेन तु || ८० ||

ततो द्वादशसूर्यस्य रश्मयः प्रबला भृशम् |
अभवन् द्वादशादित्या जगद्भोग्योपबृंहिताः || ८१ ||

रश्मिद्वारेण सकलास्सूर्यास्ते भुवनानि च |
अदहन् पृथिवी द्यौश्च मेदिनी चोष्णतां गता || ८२ ||

ततो विनष्टे सकले स्थावरे जङ्गमे तथा |
आदित्यरश्मितौ देवो रुद्ररूपी जनार्दनः || ८३ ||

निःसृत्य प्रथमं यातः पातालतलमुन्नतः || ८४ ||

सप्तपातालसंस्थांस्तु नागगन्धर्वराक्षसान् |
देवानृषींश्च शेषञ्च जघान वरशूलधृक् || ८५ ||

एवं स्वर्गे च पाताले पृथिव्यां सागरेषु च |
ये प्राणिनस्तान् समस्तान् जघान स जनार्दनः || ८६ ||

ततो मुखान्महावायुं रुद्रश्च सृष्टवान् स्वयम् |
सोऽव्याहतगतिर्गाढं ससार भुवनत्रये || ८७ ||

यावद्वर्षशतं वायुर्भ्रमन् भुवनगर्भगः |
सर्वमुत्सारयामास यत् किञ्चत्तुलाराशिवत् || ८८ ||

समस्तं तत् समुत्सार्य जगद्वर्ति समन्ततः |
विवेश द्वादशादित्यान् स वायुर्जवनाधिकः || ८९ ||

प्रविश्य मण्डलं तेषां तेजोभिः सह मारुतः |
महामेघान् समारेभे रुद्रेण प्रतियोजितः || ९० ||

ततस्ते प्रेरिता मेघास्तेन वातेन वेगिना |
रुद्रेणाप्यतिरौद्रेण पर्याववुर्नभस्तलम् || ९९ ||

संवर्ताख्या महामेघा भिन्नाञ्जनचयोपमाः |
केचिद्धूम्रा शोणवर्णाः शुक्लाश्चित्राश्च भीषणाः || ९२ ||

केचिच्च पर्वताकाराः केचिन्नागसमप्रभाः |
प्रासादसदृशाः केचित् क्रौञ्चवर्णाविभीषणाः || ९३ ||

गर्जन्त्स्ते महामेघा वर्षाणामधिकं शतम् |
ववृषुस्त्रीनथो लोकान् प्लावयन्तो महास्वनाः || ९४ ||

अथ स्तम्भप्रमाणेन धारापातेन वै दृढम् |
धारासारेण महता पूरितं भुवनत्रयम् || ९५ ||

आध्रु वस्थानमासाद्य तोयराशौ स्थिते ततः |
स मुखादसृजद्वायुं रुद्ररूपी जनार्दनः || ९६ ||

तेनौघवायुनाक्षिप्ता मेघाः संवत्सराञ्छतम् |
अव्याहतगतेनाशु विध्वस्ता अभवंस्ततः || ९७ ||

नष्टेषु तेषु मेघेषु जनलोकादिकं पुनः |
रुद्रस्त्वाब्रह्मभुवनं ध्वंसयामास निर्दयः || ९८ ||

विध्वस्तेषु समस्तेषु भुवनेषु विशेषतः |
विनष्टे ब्रह्मलोके च रुद्रोऽगाद् द्वादशारुणान् || ९९ ||

स गत्वा द्वादशादित्यान् वेगेन महता हरिः |
अग्रसच्चातिजज्वाल तैर्गर्भस्थैर्दिवाकरैः || १०० ||

ततो ब्रह्माण्डमासाद्य रुद्रः कालान्तकोपमः |
चूर्णीचकार सकलं मुष्टिपेषं महाबलः || १०१ ||

चूर्णीकुर्वन्तु ब्रह्माण्डं पृथिव्यपि विचूर्णिता |
तोयानि च समस्तानि स दध्रे योगतो हरिः || १०२ ||

यद् ब्रह्माण्डाद्बहिस्तोयं स्थितं पूर्वं समन्ततः |
यद्वाभ्यन्तर्गतं तोयं तत् सर्वञ्चैकतां गतम् || १०३ ||

एकीभूतेषु तोयेषु सर्वव्यापिषु सर्वतः |
ब्रह्माण्डखण्डपूर्णौधः प्लवन्नासीत् स नौरिव || १०४ ||

ततः पृथिव्याः सारन्तु गन्धं तन्मात्रकं क्रमात् |
अम्भो जग्राह सकलं विनष्टा पृथिवी ततः || १०५ ||

पुनः स रुद्रस्तेजांसि गर्भस्थानि स्वकायतः |
निःसारयामास पुनः पुञ्जोभूतानि भीषणः || १०६ ||

तानि तेजांसि सकलं जगृहुः सर्वतः स्थितम् |
अन्तर्बहिश्च ब्रह्माण्डात्तेजो यच्चान्यतो गतम् || १०७ ||

जगद्गतं सर्वतेजो गृहीत्वा चैकतो ज्वलन् |
रौद्रब्रह्माण्डखण्डानि तेजोऽथ न्यदहज्जले || १०८ ||

दग्ध्वा ब्रह्माण्डचूर्णानि तेजांस्युज्ज्वलितानि च |
जलेभ्यो रसतन्मात्रं सारभूतं ततोऽग्रहीत् |
गृहीतसारास्ता आपः प्रनष्टास्तेजसा ततः || १०९ ||

अप्सु नष्टासु तत्तेजः प्रविश्याथ सदागतिः |
एकीभूतो महाभागो रूपं तन्मात्रमग्रहीत् || ११० ||

गृहीते रूपतन्मात्रे तेजांसि सकलान्यथ |
विनष्टानि ततो वायुः प्रबलोऽभूदवारितः || १११ ||

महास्वनं ततो वायुमासाद्याग्निरिव ज्वलन् |
रुद्रः संक्षोभयामास तदाकाशं स्वयं ततः || ११२ ||

तेन संक्षुब्धमाकाशमग्रहीन्मरुतस्ततः |
तद्गतं स्पर्शतन्मात्रं ततो नष्टः प्रभञ्जनः || ११३ ||

नष्टे वायौ ततो रुद्र आकाशात् सारमग्रहीत् |
शब्दतन्मात्रकं तस्मिन् गृहीते विगतं वियत् || ११४ ||

नष्टे नभसि रुद्रोऽसौ काये ब्राह्मे तदाविशत् |
ब्राह्मं तदाकुलं कायं निराधारं निराकुलम् |
विवेश वैष्णवे काये शङ्खचक्रगदाधरे || ११५ ||

ततः शौरिर्महातेजाः कायं तत् पाञ्चभौतिकम् |
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् |
स्वशक्त्या संजाहाराशु सारमादाय सर्वतः || ११६ ||

निराधारं निराकारं निःसत्त्वं निरवग्रहम् |
आनन्दमयमद्वैतं द्वैतहीनाविशेषणम् || ११७ ||

न स्थूलं न च सूक्ष्मं यज्ज्ञानं नित्यं निरञ्जनम् |
एकमासीत् परं ब्रह्म स्वप्रकाश समन्ततः || ११८ ||

नाहो न रात्रिर्न वियन्न पृथ्वी नासीत्तमो ज्योतिरभून्नचान्यत् |
श्रोत्रादिबुद्ध्याद्युपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् || ११९ ||

एवं यावत्स्थितां सृष्टिस्तावत् कालमसृष्टिकम् |
आसीदेकं परं तत्त्वं ततः सृष्टिः प्रवर्तते || १२० ||

प्रकृतौ संस्थितो यस्मात् सर्वतन्मात्रसञ्चयः |
अहङ्कारं महत्तत्त्वं गतो यत् प्राकृतो लयः || १२१ ||

प्रकृतौ संस्थितं व्यक्तमतीत प्रलयन्तु तत् |
तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रतिसञ्चरः || १२२ ||

अयं वः कथितो विप्राः प्राकृताख्यो महालयः |
आदिसृष्टिं शृणुष्वेमां कथ्यमानां मया पुनः || १२३ ||

इति श्रीकालिकापुराणे संहारकथनं नाम चतुर्विंशोऽध्यायः || २४ ||

Kapitel 25

पञ्चविंशोऽध्यायः

मार्कण्डेय उवाच

कालो नाम स्वयं देवः सृष्टिस्थित्यन्तकारकः |
अविच्छिन्नः स प्रलयं स्तेन भागेन केनचित् || १ ||

लयभागे व्यतीते तु सिसृक्षा समजायत |
ज्ञानरूपस्य च तदा परमब्रह्मणो विभोः || २ ||

ततोऽस्य प्रकृतिस्तेन सम्यक्संक्षोभिता धिया |
स क्षुब्धा सर्वकार्यार्थमभूत् सा त्रिगुणात्मिका || ३ ||

यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते |
मनसो लोककर्तृत्वात्तथासौ परमेश्वरः || ४ ||

स एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः |
स संकोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः || ५ ||

इच्छामात्रेण पुरुषः शृष्ट्यर्थं परमेश्वरः |
ततः संक्षोभयामास पुनरेव जगत्पतिः || ६ ||

गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितात् ततः |
गुणव्यञ्जनसंभूतिः सर्गकाले बभूव ह || ७ ||

प्रधानतत्त्वादुद्भुतमीश्वरेच्छासमीरितात् |
महत्तत्वं प्रथमतस्तत् प्रधानं समावृणोत् || ८ ||

प्रधानेनावृतात्तस्मादहङ्कारो व्यजायत |
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः || ९ ||

त्रिविधोऽयमहङ्कारो यो जातो महतोऽग्रतः |
भूतानामिन्द्रियाणाञ्च स वै हेतुः सनातनः || १० ||

स महांस्तमहङ्कारं जातमात्रं समावृणोत् |
तन्मात्राणि ततः पञ्चजज्ञिरेऽस्मात् समावृतात् || ११ ||

प्रथमं शब्दतन्मात्रं स्पर्शतन्मात्रमन्तरम् |
तृतीयं रूपतन्मात्रं रसतन्मात्रमेव च || १२ ||

पञ्चमं गन्धतन्मात्रमेतानि क्रमशोऽभवन् |
प्रत्येकं सर्वतन्मात्रमहङ्कारः समावृणोत् || १३ ||

ससर्ज शब्दतन्मात्रादाकाश शब्दलक्षणम् |
शब्दमात्रं तथाकाश भूतादि स समावृणोत् || १४ ||

शब्दतन्मात्रसहितात् स्पर्शतन्मात्रतस्ततः |
वायुं समभवत् स्पर्शगुणः शब्दसमन्वितः || १५ ||

आकाशवायुसंयुक्ताद्रूपतन्मात्रतस्ततः |
तेजः समभवद्दीप्त सर्वतस्तदवर्धतः || १६ ||

तच्छब्दवत् स्पर्शवच्च रूपवच्च व्यजायत |
ततो वियद्वायुतेजोयुक्तात्तोयं ससर्ज ह |
रसतन्मात्रतः सम्यक् तेन व्याप्त समन्तः || १७ ||

तोयान्याधारशक्तिर्या विष्णोरमिततेजसः |
सा दध्रेऽथ निराधाराण्यनिलान्दोलितानि वै || १८ ||

तेषु बीजं प्रथमतः ससर्ज परमेश्वरः |
तदण्डमभवद् हैमं सहस्रांशुसमप्रभम् || १९ ||

महदादिविशेषान्तैरारब्धं सर्वतो वृतम् |
वारिवह्न्यनिलाकाशैस्तमोभूतादिना बहिः |
वृतं दशगुणैरण्डं भूतादिर्महता तथा || २० ||

बीजं यथा बाह्यदलैर्व्याप्तमण्डं तथा पुनह् |
तोयादिभिस्तथा व्याप्तं ब्रह्माण्डमतुलं द्विजाः || २१ ||

तदण्डमध्ये स्वयमेव विष्णुर्ब्रह्मस्वरूपं विनिधाय कायम् |
दिव्येन मानेन स वर्षमेकं स्थितोऽग्रहीद्बीजगणं स्वबुद्ध्या || २२ ||

ध्यानेन चाण्डं स्वयमेव कृत्वा द्विधा स तस्थौ क्षणमात्रमस्मिन् |
तदैव तन्मात्रगणैः समस्तैर्गन्धोत्तरैर्भूरमुनैव सृष्टा || २३ ||

स्पर्शस्य शब्दस्य समस्तरूपगुणस्य गन्धस्य रसस्य चैषा |
आधारभूता सकलैः कृता यत्तन्मात्रवर्गैरखिला धरित्री || २४ ||

जातस्तदुत्थैः कनकचलोऽसौ जरायुभिः पर्वतसञ्चयोऽभूत् |
गर्भादिकैः सप्तपयोधयस्तु स्कन्धद्वयेन त्रिदशालयोऽभूत् || २५ ||

स्कन्धद्वयेनापरदेशजेन सप्ताभवन्नागगृहाणि तानि |
पातालसंज्ञानि महासुखानि यत्र स्वयं स्यात् परतो महेशः || २६ ||

तेजोगणात्तस्य बभूव लोको योऽसौ महर्लोक इति श्रुतोऽभूत् |
जनाह्वयोऽभून्मरुतोऽथ गर्भाद् ध्यानात्तपोलोकवरो बभूव || २७ ||

अण्डोर्धगत्यामभवत्तु सत्यं ब्रह्माण्डखण्डोपरि विष्णुरच्युतः |
परं पदं यन्निगदन्ति धीरा यज्ज्ञानगम्यं परिनिष्ठरूपम् || २८ ||

एवं विधाय प्रथमं बभूव विष्णुस्वरूपी स्थितये स एव |
स्वयं समुद्भूततनुर्यतोऽयं स्वभूरिति ख्यातिरवाप विष्णुः || २९ ||

ततोऽभवत् यज्ञवराहरूपी विष्णुर्भुवः प्रोद्धरणाय पीनः |
निमज्जमानां पृथिवी स मध्ये भित्त्वा गतो धर्तुमधोऽतिवेगा || ३० ||

दंष्ट्राग्रदेशे विनिधाय पृथ्वी स उद्गतः सर्वमतीत्य तोयम् |
ततोऽभवत् सप्तकणान्वितोऽयमनन्तमूर्तिः पृथिवीं विधर्तुम् || ३१ ||

प्रसार्य शेषोऽपि फलाः स वैष मध्ये निधायैकफणां धरित्रीम् |
दधार तोयोपरि तोयसंस्थितस्ततोऽत्यजद् यज्ञवराह उर्वीम् || ३२ ||

प्रसारिताः फणाः सर्वास्तासामेका तु पूर्वतः |
अपरा पश्चिमायां तु दक्षिणोत्तरयोः परे || ३३ ||

एका गता फणैशान्यामाग्नेययामपरा दिशि |
पृथ्वीमध्ये स्थिता चैका नेरृत्यां तस्य वै तनुः |
शून्या दिग्वायवी तत्र ततो नम्रा स्थिता क्षितिः || ३४ ||

स तु दीर्घतनुस्तोये यदानन्तो न चाशकत् |
कूर्मरूपी तदा भूत्वानन्तं कायमधाद्धरिः || ३५ ||

अधो ब्रह्माण्डखण्डं स पद्भिराक्रम्य कच्छपः |
ग्रीवां वितत्य वायव्यां पृष्ठेऽनन्तमधारयत् || ३६ ||

अनन्तः कूर्मपृष्ठे तु नवभिर्वेष्टनैस्तनुम् |
निधाय पृथ्वीं दध्रे सुखेनैव महातनुः || ३७ ||

ततः फणास्वनन्तस्य चलन्ती पृथिवी स्थिता |
वराहः कर्तुमचलामचलामकरोद्दृढाम् || ३८ ||

मेरुं खुरप्रहारेण प्रहृत्य पृथिवीतलम् |
न्यखनत् स विवेशाथ पृथ्वीं भित्त्वान्तरं ततः || ३९ ||

योजनानां सहस्राणि षोडशैव रसातलम् |
प्रविवेश महाशैलो वराहाङ्घ्रिप्रहारतः || ४० ||

द्वात्रिंशत्तु सहस्राणि योजनानां तु विस्तृतम् |
मेरोः शिरोऽभवत्तेन प्रहारेण द्विजोत्तमाः || ४१ ||

मर्यादा पर्वतनाथस्य पार्श्वे पोत्री तदाकरोत् |
यदा चलति नैवैष पर्वतः पृथिवीधरः || ४२ ||

हिमवत्प्रभृतीनाञ्च भागं भागं सपञ्चकम् |
पदा क्षित्यन्तरं चक्रे तदुच्छ्रायप्रमाणतः || ४३ ||

ततो ब्रह्मा वराहाय नमस्कृत्य महीजसे |
अर्धनारीश्वरं कक्षाद् देवदेवं व्यजायतः || ४४ ||

प्रथमं जातमात्रः स प्ररुरोद महास्वनः |
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह || ४५ ||

नम देहीति तं सोऽथ प्रत्युवाच महेश्वरः |
रुद्रनामा रोदनाच्च मा रोदीस्त्वं महाशय || ४६ ||

एवमुक्तः पुनः सोऽथ सप्तवारान् रुरोद सः |
ततोऽपराणि नामानि सप्त ब्रह्माकरोत् पुनः || ४७ ||

शर्वं भवं च भीमञ्च महादेवं चतुर्थकम् |
पञ्चमं चोग्रमीशानं षष्ठं पशुपतिं परम् || ४८ ||

मया यथा विभक्तस्त्वं तथात्मा स्वो विभज्यताम् |
त्वयापि भूरिसृष्ट्यर्थं भवांश्चापि प्रजापतिः || ४९ ||

ततो ब्रह्मा द्विधा भूत्वा पुरुषोऽर्धेन सोऽभवत् |
अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः || ५० ||

तमाह भगवान् ब्रह्मा कुरु सृष्टिं प्रजापते |
तपस्तप्त्वा विराट् सोऽपि मनुं स्वायम्भुवं ततः || ५१ ||

ससर्ज सोऽपि तपसा ब्रह्माणं पर्यतोषयत् |
तोषितस्तेन मनसा दक्षं सृष्ट्यै ससर्ज सः || ५२ ||

सृष्टे दक्षेऽथ दशधा प्रणतो मनुना विधिः |
पुनरेव सुतानन्यान् ससर्ज दश मानसान् || ५३ ||

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् |
प्रचेतसं वसिष्ठञ्च भृगुं नारदमेव च || ५४ ||

एतानुत्पाद्य मनसा मनुं स्वायम्भुवं पुनः |
यूयं सृजध्वमित्युक्त्वा लोकेशोऽन्तर्दधे पुनः || ५५ ||

वराहोऽप्यथ पोत्रेण खनित्वा सप्तसागरान् |
पृथिव्यां बलयाकारान् ससर्ज परमेश्वरः || ५६ ||

सप्तधा भमणेनासौ सृष्ट्वा सप्ताथ सागरान् |
सप्तद्वीपानवच्छिद्य पृथिव्यन्तं ततो गतः || ५७ ||

लोकालोकाह्वयं शैलः कृत्वा पृथ्व्यास्तु वेष्टनम् |
लक्षद्वयोच्छ्रितं मानाद् योजनानां समन्ततः |
सुदृढं स्थापयामास भित्तिप्रान्ते यथा गृहम् || ५८ ||

आदिसृष्टिरियं विप्राः कथिता भवतां मया |
प्रतिसर्गमहं वक्ष्ये तच्छृण्वन्तु महर्षयः || ५९ ||

इति श्रीकालिकापुराणे वराहसर्गो नाम पञ्चविंशोऽध्यायः |

Kapitel 26

षड्विंशोऽध्यायः

मार्कण्डेय उवाच

वाराहोऽयं श्रुतः सर्गो वराहाधिष्ठितो यतः |
प्रतिसर्गः श्रुतः सर्वैर्दक्षाद्यैर्यः कृतः पृथक् || १ ||

रुद्रो विराण्मनुर्दक्षो मरीच्याद्यास्तु मानसाः |
यं यं सर्गं पृथक् चक्रुः प्रतिसर्गश्च स स्मृतः || २ ||

विराट्-सुतोऽसृजद्वंश्यान्मनून् यैर्विततं जगत् |
मनुः सप्त मनून् सृष्ट्वा चकार बहुशः प्रजाः || ३ ||

प्रजाः सिसृक्षुः स मनुर्योऽसौ स्वायम्भुवाह्वयः
असृजत् प्रथमं षड् वै मनून् सोऽथ परान् सुतान् || ४ ||

स्वारोचिषश्चौत्तमिश्च तामसो रैवतस्तथा |
चाक्षुषश्च महातेजा विवस्वानपरस्तथा || ५ ||

यक्षरक्षःपिशाचांश्च नागगन्धर्वकिन्नरान् |
विद्याधरानप्सरसः सिद्धान् भूतगणान् बहून् || ६ ||

मेघान् सविद्युतो वृक्षान् लतागुल्मतृणादिकान् |
मत्स्यान् पशूंश्च कीटांश्च जलजान् स्थलजांस्तथा || ७ ||

एतादृशानि सर्वाणि मनुः स्वायम्भुवः सुतैः |
सहितः ससृजे सोऽन्यः प्रतिसर्गः प्रकीर्तितः || ८ ||

अन्ये षण्मनवो ये वै तेऽपि स्वे स्वेऽन्तरेऽन्तरे |
प्रतिसर्गं स्वयं कृत्वा प्राप्नुवन्ति चराचरम् || ९ ||

यज्ञस्य सम्भूतं यज्ञं यूपं प्राग्वंशमेव च |
धर्माधर्मौ गुणान् सर्वान् वराह इव सृष्टवान् || १० ||

सुतान् बहून् समुत्पाद्य दक्षो देवर्षिसत्तमान् |
महर्षीन् सोमपायींश्च बहून् पितृगणांस्तथा || ११ ||

सृष्टिं प्रवर्त्तयामास प्रतिसर्गोऽस्य स स्मृतः |
अजायन्त मुखाद्विप्राः क्षत्रिया बाहुयुग्मतः || १२ ||

ऊर्वोर्वैश्याः पदोः शूद्राश्चतुर्वेदाश्चतुर्मुखात् |
ब्रह्मणः प्रतिसर्गोऽयं ब्राह्मः सर्गः स्मृतस्ततः || १३ ||

मरीचेः कश्यपो जातः कश्यपात् सकलं जगत् |
देवा दैत्या दानवाश्च तस्य सर्गः प्रकीर्तितः || १४ ||

अत्रेर्नेत्रादभूच्चन्द्रश्चन्द्रवंशस्ततोऽभवत् |
तेन व्याप्तं जगत् सर्वं सोऽस्य सर्गः प्रकीर्तितः || १५ ||

अथर्वागिरस पुत्राः पौत्राश्च बहुशोऽपरे |
मन्त्रयन्त्रादयो ये वै ते सर्वेऽङ्गिरसः स्मृताः || १६ ||

आज्यपाख्याः पुलस्त्यस्य पुत्राश्चान्ये च राक्षसाः |
प्रतिसर्गः पुलस्त्यस्य बलवेगसमन्विताः || १७ ||

काद्रवेया गजा अश्वाः प्रजा बहुतरास्तथा |
ससृजे पुलहेनैष सर्गस्तस्य प्रकीर्तितः || १८ ||

क्रतोः पुत्राः बालखिल्याः सर्वज्ञा भूरितेजसः |
अष्टाशीतिसहस्राणि ज्वलद्भास्करसन्निभाः || १९ ||

प्रचेतसः सुताः सर्वे ते वै प्राचेतसाः स्मृताः |
षडशीतिसहस्राणि पावकोपमतेजसः || २० ||

सुकालिनो वसिष्ठस्य पुत्राश्चान्ये च योगिनः |
आरुन्धतेयाः पञ्चाशद्वाशिष्ठः सर्ग उच्यते || २१ ||

भृगोश्च भार्गवा जाता ये वै दैत्यपुरोधसः |
कवयस्ते महाप्राज्ञास्तैर्व्याप्तमखिलं जगत् || २२ ||

नारदात्तारका जाता विमानानि तथैव च |
प्रश्नोत्तरास्तथैवान्ये नृत्यगीतं च कौतुकम् || २३ ||

एते दक्षमरीच्याद्याः कृतदारान् बहून् सुतान् |
उत्पाद्योत्पाद्य पृथिवीं दिवं च समपूरयन् || २४ ||

तेषां सुतेभ्यश्च सुतास्तत्पुत्रेभ्यः परे सुताः |
समुत्पन्नाः प्रवर्तन्ते ह्यद्यापि भुवनेषु वै || २५ ||

विष्णोस्तु चक्षुषोः सूर्यो मनसश्चन्द्रमाः स्मृतः |
श्रोत्राद्वायु समुद्भतोमुखादग्निरजायत || २६ ||

प्रतिसर्गो ह्ययं विष्णुस्तथा चापि दिशो दश |
सृष्ट्यर्थं चन्द्रमा पश्चादत्रिनेत्रादवातरत् |
भास्करं कश्यपाज्जातो भार्यया च समन्वितः || २७ ||

रुद्राश्च बहवो जाता भूतग्रामाश्चतुर्विधाः |
श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखा || २८ ||

ऋक्षमार्जारवदना सिंहस्याघ्रमुखाः परे |
नाना शस्त्रधरा सर्वे नानारूपा महाबलाः || २९ ||

एष व प्रतिसर्गोऽपि कथितो द्विजसत्तमाः |
दैनन्दिन च प्रलय शृणुध्वं कल्पशेषतः || ३० ||

इति श्रीकालिकापुराणे सृष्टिकथने षड्विशोऽध्यायः || २६ ||

Kapitel 27

सप्तविंशोऽध्यायः

मार्कण्डेय उवाच

मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः |
एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् || १ ||

तदेकसप्ततियुगैर्देवानामिह जायते |
तैश्चतुर्दशभिः कल्पो दिनमेकं तु वेधसः || २ ||

दिनान्ते ब्रह्मणो जाते सुषुप्सा तस्य जायते |
योगनिद्रा महामाया समायाति पितामहम् || ३ ||

नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः |
सुखं शेते स भगवान् ब्रह्मा लोकपितामहः || ४ ||

ततो विष्णुः स्वयं भुत्वा रुद्ररूपी जनार्दनः |
पूर्ववन्नाशयामास स सर्वं भुवनत्रयम् || ५ ||

वायुना वह्निना सार्धं दाहयामास वै यथा |
महाप्रलयकालेषु तथा सर्वं जगत् त्रयम् || ६ ||

जनं यान्ति प्रतापार्ता महर्लोकनिवासिनः |
त्रैलोक्यदाहसमये पीडिता दारुणाग्निना || ७ ||

ततः कालान्तकैर्मेघैर्नानावर्णैर्महास्वनैः |
समुत्पाद्य महावृष्टिमापूर्य भुवनत्रयम् || ८ ||

चलत्तरङ्गैस्तोयौघैराध्रुवस्थानसंगतैः |
निधाय जठरे लोकानिमांस्त्रीन् स जनार्दनः |
नागपर्यङ्कशयने शेते स परमेश्वरः || ९ ||

शयान नाभिकमले ब्रह्माणं स जगद्गुरुः |
संस्थाप्य त्रीनिमाल्लोकान् दग्ध्वा जग्ध्वा श्रिया सह || १० ||

शेते स भोयिशययायां ब्रह्मा नारायणात्मकः |
योगनिद्रावशं जातस्त्रेलोक्यग्रासवृंहितः || ११ ||

त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा |
अनन्तः पृथिवी त्यक्त्वा विष्णोरन्तिकमागगः || १२ ||

तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता |
पतिता कूर्मपृष्ठे च विशीर्णेव तदाभवत् || १३ ||

कूर्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले |
ब्रह्माण्डं पद्भिराक्रम्य पृष्ठे दध्रे धरां तदा || १४ ||

ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवो भवेत् |
इति तां परिजग्राह कूर्मरूपी जनार्दनः || १५ ||

चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा |
कूर्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम् || १६ ||

अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः |
तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्दनम् || १७ ||

फणया मध्यया दध्रे त्रैलोक्यग्रासबृंहितम् |
पूर्वं फणाः वितत्योर्ध्वं पद्मं कृत्वा महाबलः |
विष्णुमाच्छादयामास शेषाख्यः परमेश्वरम् || १८ ||

तस्योपधानमकरोदनन्तो दक्षिणां फणाम् |
उत्तरां पादयोश्चक्रे उपधानं महाबलः || १९ ||

तालवृन्तं तदा चक्रे सशेषः पश्चिमा फणाम् |
स्वपन्नं बीजयामास शेषरूपी जनार्दनम् || ३० ||

शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः |
ऐशान्ययाथ फणया स दध्रे गरुडं तथा || २१ ||

गदा पद्मं च शार्ङ्गश्च तथैव विविधायुधम् |
यानि चान्यानि तस्यासन्नाग्नेयया फणया दधौ || २२ ||

एवं कृत्वा स्वकं कायं शयनीय तदा हरेः |
पृथ्वीमधरकायेन मग्नामात्रम्य चाम्भसि || २३ ||

त्रैलोक्य ब्रह्मसहितं सलक्ष्मीकं जनार्दनम् |
सोपासङ्ग जगद्बीज जगत्कारणकारणम् || २४ ||

नित्यानन्दं वेदमयं ब्रह्मण्य परमेश्वरम् |
जगत्कारणकर्तार जगत्कारणकारणम् || २५ ||

भूतभव्यभवन्नाथ परावरगतिं हरिम् |
दधारं शिरसा तान्तु स्वयमेव स्वकां तनुम् || २६ ||

एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः |
सन्ध्यां च समभिव्याप्य शेते नारायणोऽव्ययः || २७ ||

यस्मादयन्तु प्रलयो ब्रह्मणः स्याद् दिने दिने |
तस्माद् दैनन्दिनमिति ख्यापयन्ति पुराविदः || २८ ||

व्यतीतायां निशायां तु ब्रह्मा लोकपितामहः |
त्यक्त्वा निद्रां समुत्तस्थौ स पुनः सृष्टये हितः || २९ ||

त्रैलोक्यं तोयसम्पूर्णं शयानं पुरुषोत्तमम् |
निरीक्ष्य वैष्णवीं मायां महामायां जगन्मयीम् |
योगनिद्रां स तुष्टाव हरेरङ्गे च संस्थिताम् || ३० ||

ब्रह्मोवाच

चितिशक्तिं निर्विकारां परब्रह्मस्वरूपिणीम् |
प्रणमामि महामायां योगनिद्रां सनातनीम् || ३१ ||

त्वं विद्या योगिनां देवि त्वं गतिस्त्वं मतिः स्तुतिः |
त्वं सृष्टिस्त्वं स्थितिः स्वाहा स्वधा त्वमिह गीतिका || ३२ ||

त्वं सामगीतिस्त्वं नीतिस्त्वं ह्रीः श्रीस्त्वं सरस्वती |
योगनिद्रा महामाया मोहनिद्रा त्वमीश्वरी || ३३ ||

त्वं कान्तिः सर्वशक्तिस्त्वं त्वं तनुर्वैष्णवी शिवा |
त्वं धात्री सर्वलोकानामविद्यां त्वं शरीरिणाम् || ३४ ||

आधारशक्तिस्त्वं देवी त्वं हि ब्रह्माण्डधारिणी |
त्वमेव सर्वजगतां प्रकृतिस्त्रिगुणात्मिकां || ३५ ||

त्वं सावित्री च गायत्री सौम्यासौम्यातिशोभना |
त्वं सिसृश्चा हरेर्नित्या सुषुप्सा त्वं सुषुप्तिका || ३६ ||

पुष्टिर्लज्जा क्षमा शान्तिस्त्वं धृतिः परमेश्वरी |
त्वमेव क्षितिरूपेण ध्रियसे सचराचरम् || ३७ ||

त्वमापस्त्वमपां माता सर्वान्तर्गतचारिणी |
स्तुतिः स्तुत्या च स्तोत्री च स्तुतिशक्तिस्त्वमेव च || ३८ ||

त्वामहं किन्नु स्तोष्यामि प्रसीद परमेश्वरि |
नमस्तुन्यं जगन्मातः प्रबोधय जनार्दनम् || ३९ ||

एवं स्तुता महामाया ब्रह्मणा लोककारिणा |
नेत्रास्यनासिका-बाहु-हृदयान्निर्गता हरेः |
राजसी मूर्तिमाश्रित्य सा तस्थौ ब्रह्मद्र्शने || ४० ||

ततो जनार्दनो भोगिशयनान्निद्रया क्षणात् |
परित्यक्तः समुत्तस्थौ सृष्टये चाकरोन्मतिम् || ४१ ||

ततो वराहरूपेण निमग्नां पृथिवीं जले |
मग्नां समुद्दधाराशु न्यधाच्च सलिलोपरि || ४२ ||

तस्योपरि जलौघस्य महती नौरिव स्थिता |
विततत्वाच्च देहस्य न मही याति संप्लवम् || ४३ ||

ततो हरिः क्षितिं गत्वा तोयराशिं स्वमायया |
संहृत्य जन्तुस्थितये प्रवृत्तः स्वयमेव हि || ४४ ||

अनन्तोऽपि यथापूर्वं तथा गत्वा क्षितेस्तलम् |
पृथिवीं धारयामास कूर्मस्योपरि संस्थितः || ४५ ||

ततो ब्रह्मा समुत्पाद्य सर्वानेव प्रजापतीन् |
जगदुत्पादयामास सर्वलोकपितामहः || ४६ ||

ब्रह्मा वा कुरुते सृष्टि यदान्ये वापि कुर्वते |
दक्षाद्यास्तु प्रजापालाः स्वयमेव तदिच्छया || ४७ ||

परब्रह्मस्वरूपीय सोऽनुगृह्णाति सन्ततम् |
प्रकृतिश्चानुगृह्णाति महाभूतानि पञ्च वै || ४८ ||

पुरुषश्चानुगृह्णति तथैव महदादयः |
ईश्वरेच्छान्वधिष्ठानात् पुरुषादष्टसंचयात् || ४९ ||

पुरुषाणामधिष्टानान्महाभूतगणस्य च |
तथैव महदादीनां कालस्य च महात्मनः |
अधीष्ठानात् प्रधानस्य यच्च किञ्चन जायते || ५० ||

स्थावरं जङ्गमं वापि स्थिरं वाप्यथवाद्भूतम् |
सर्वमेतदधिष्ठानाज्जायते द्विजसत्तमाः || ५१ ||

इति वः कथितं सर्वं यथैवादर्शयत् पुरा |
हराय सृष्टिसंहार-कल्पास्तान् भगवान् हरिः || ५२ ||

यथा जगत् प्रपञ्चस्यासारता दर्शिता परा |
यच्च सारं दर्शितं तन्मत्तः शृण्वन्तु वै द्विजाः || ५३ ||

इति श्रीकालिकापुराणे सृष्टिकथेन सप्तविंशोऽध्यायः || २७ ||

Kapitel 28

अष्टाविंशोऽध्यायः

मार्कण्डेय उवाच

जगत् सर्वं तु निःसारमनित्यं दुःखभाजनम् |
उत्पद्यते क्षणादेतत् क्षणादेतद्विपद्यते || १ ||

तथैवोत्पद्यते सारान्नि सारं जगदञ्जसा |
पुनस्तस्मिन् विलीयन्ते महाप्रलयसङ्गमे || २ ||

उत्पत्तिप्रलयाभ्यां तु जगन्निःसारतां हरिः |
शम्भवे दर्शयामास भावेन जगतां पतिः || ३ ||

एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् |
अद्वैतमव्यक्तमचिन्त्यरूपं सारं त्वेकं नास्ति सारं तदन्यत् || ४ ||

यस्मादेतज्जायते विश्वमग्र्यं यस्माल्लीनं स्यात्तु पश्चात् स्थितञ्च |
आकाशवन्मेघजालस्य वृत्त्या यद्विश्वं वै ध्रियते तत्त्वसारम् || ५ ||

अष्टाङ्गयोर्गैर्यदवाप्तुमिच्छन् योगी पुनात्यात्मरूपं सदैव |
निवर्तते प्राप्य यं नेह लोके तद्वैसारं सारमन्यन्न चास्ति || ६ ||

सारो द्वितीयो धर्मस्तु यो नित्यप्राप्तये भवेत् |
यो वै निवर्तको नाम तत्रासारः प्रवर्तकः || ७ ||

धर्म शनैः सञ्चिनुयाद्वल्मीको मृत्तिकां यथा |
सहायार्थं परे लोके पूर्वपापविमुक्तये || ८ ||

एको धर्मः परं श्रेयः सर्वसंसारकर्मसु |
इतरे तु त्रयो धर्माज्जायन्तेऽर्थादयोऽपरे || ९ ||

वरं प्राणपरित्यागः शिरसो वाथ कर्तनम् |
न तु धर्मपरित्यागो लोके वेदे च गर्हितः || १० ||

धर्मेण ध्रियते लोको धर्मेण ध्रियते जगत् |
धर्मेणैव सुराः सर्वे सुरत्वमगमन् पुरा || ११ ||

धर्मश्चतुस्पाद् भगवान् जगत् पालयतेऽनिशम् |
स एव मूलं पुरुषो धर्म इत्यभिधीयते || १२ ||

सर्वं क्षरति लोकेऽस्मिन् धर्मो नैव च्युतो भवेत् |
धर्माद् यो न विचलति स एवाक्षर उच्यते || १३ ||

एतद्वः कथितं सारं निःसारं सकलं जगत् |
यथा स्वयं ददर्शासौ शम्भुर्ज्ञानेन स्वेऽन्तरे || १४ ||

एतद्वै दर्शयामास स विष्णुर्जगतां पतिः |
स्वयं जग्राह अम्नसां ध्यानेनात्मनि शंकरः || १५ ||

सारं तत्त्वं परमं निष्कलं यन्मूर्त्या हीनं मूर्तिमान् धर्म एषः |
सारोऽन्योऽसौ सारहीनं तदन्यज्ज्ञात्वैवेत्थं याति नित्यं महाधीः || १६ ||

इति श्रीकालिकापुराणे सारासारनिरूपणं नाम अष्टाविंशोऽध्यायः || २८ ||

Begleitende heutige Meditationspraxis von Yoga Vidya; keine Rezitation des Sanskrittextes:

Kapitel 29

ऊनत्रिंशोऽध्यायः

ऋषयः ऊचुः

ये सृष्टाः शम्भुना पूर्वं भूतग्रामाश्चतुर्विधाः |
किमर्थं ते समुत्पन्नाः कथं वानेकरूपतां || १ ||

शरीरमर्द्धं वाराहमर्द्धं दन्ताबलं तथा |
सिंहव्याघ्रशरीराच्च केचित् केचिद्गणाधिपाः || २ ||

कथं ते वा गणाः क्रूराः किं भोगास्ते महौजसः |
एतत् सर्व वयं श्रोतुमिच्छामो द्विजसत्तम || ३ ||

मार्कण्डेय उवाच

शृण्वन्तु मुनयः सर्वे यथा शम्भुगणाभवन् |
यदर्थं ते समुत्पन्ना यस्मात्ते नैकरूपिणः || ४ ||

एतद्वः परमं गुह्यमिदं धर्मार्थकामदम् |
एतद् हि परमं तेजः सततं परमं तपः || ५ ||

इदं श्रुत्वा महाख्यानं परत्रेह न सीदति |
यशस्यं धर्म्यमायुष्यं तुष्टिपुष्टिप्रदं परम् || ६ ||

आदिसर्गेऽथ वाराहे सम्पूर्णे मुनिसत्तमाः |
शंकरः प्राह सर्वेशं वराहं जगतां पतिम् || ७ ||

ईश्वर उवाच

यदर्थं भवता रूपं वाराहं कल्पितं विभो |
तत्ते पूर्णं कृतं पृथ्वी यथावत् स्थापिता त्वया || ८ ||

सागराणां च संस्थानं नदीनां च तथा क्षितेः |
सृष्टिर्ब्रह्मकृता चापि संजाता त्वत्प्रसादतः || ९ ||

त्वं हि सर्वमयो यज्ञमयस्तेजोमयस्तथा |
गुरूणामथ सर्वेषां त्वं गुरुस्त्वं परात्परः || १० ||

त्वां वोढुं न क्षमा पृथ्वी विशीर्णेव जगत्पते |
यन्त्रिता शैलसंघातैर्भवता स्थापितेः पुरा || ११ ||

तत्मात्त्व त्यज वाराहं शरीर जगता पते |
जगन्मयं जगद्रूपं जगत्कारणकारणम् || १२ ||

कस्त्वां चान्यः क्षमो वोढुं वाराहं ते वपुर्विभो |
विशेषतस्त्वया पृथ्वी सकामा धषिताः जले |
स्त्रीधर्मिणी त्वत्तेजोभिः साधाद् गर्भं च दारुणम् || १३ ||

रजस्वला क्षमा गर्भं यमाधत्त जगत्पते |
तस्माद्यस्तनयो भावी सोऽप्यादास्यति दुर्यशः || १४ ||

एष प्राप्यासुर भाव देवगन्धर्वहिंसकः |
भविष्यतीति लोकेशः प्राह मां दक्षसन्निधौ || १५ ||

मलिनीरतिसंजातं दुष्टन्तेऽनिष्टकारकम् |
कामुकं त्यज लोकेश वाराहं कायमीदृशम् || १६ ||

त्वमेव सृष्टिस्थित्यन्तकारको लोकभावनः |
काले प्राप्ते स्थितिं सृष्टिं संहारं च करिष्यसि || १७ ||

तस्माल्लोकहितार्थाय त्यक्त्वा कायं महाबल |
काले प्राप्ते पुनस्त्वन्यं कायं पोत्रं करिष्यसि || १८ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा शंकरस्य महात्मनः |
वाराहमूर्तिर्भगवान् महादेवमुवाच ह || १९ ||

श्रीभगवानुवाच

करिष्येऽहं तव वचस्त्वं यथात्थ महेश्वर |
इमं तु यज्ञवाराहं कायं त्यक्ष्ये न संशयः || २० ||

काले प्राप्ते पुनस्त्वन्यं कायं वाराहमद्भुतम् |
करिष्येऽहं दुराधर्षं लोकानां भावनाय वै || २१ ||

इत्युक्त्वा स महाकायस्तत्रैवान्तरधीयत |
जगद्गुरुर्जगत्स्रष्टा जगद्धाता जगत्पतिः || २२ ||

तस्मिन्नन्तर्हिते देवे देवदेवो महेश्वरः |
निजं स्थानं देवगणैः स्वगणैश्च जगाम ह || २३ ||

वाराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् |
वाराह्या सह रेमे स पृथिव्या चारुरूपया || २४ ||

स तया रममाणस्तु सुचिरं पर्वतोत्तमे |
नावाप तोषं लोकेशः पोत्रीपरमकामुकः || २५ ||

पृथिव्याः पोत्रीरूपाया रमयन्त्यास्ततः सुताः |
त्रयो जाता द्विजश्रेष्ठास्तेषां नामानि मे शृणु || २६ ||

सुवृत्तः कनको घोरः सर्व एव महाबलाः || २७ ||

शिशवस्ते मेरुपृष्ठे काञ्चने वप्रसस्तरे |
रेमिरेऽन्योन्यसंसक्ता गह्वरेषु सरःसु च || २८ ||

स तैः पुत्रैः परिवृतो वाराहो भर्यया स्वया |
रममाणस्तदा कायत्यागं नैवागणद्धिजाः || २९ ||

कदाचिच्छिशुभिस्तैस्तु संश्लिष्टः कर्दमान्तरे |
चकार कर्दमक्रीडां भार्यया च महाबलः || ३० ||

सपङ्कलेपः शुशुभे वराहो मधुपिङ्गलः |
सन्ध्याघनो यथातोयं क्षरंस्तोयं तथाविधः || ३१ ||

स पुत्रैः परमप्रीतो भार्यया च पृथिव्यया |
विरुजं धरणीं रेमे मध्यनिम्नाथ साभवत् || ३२ ||

अनन्तोऽपि समाक्रम्य कूर्मं स पृथिवीतले |
हरिं वहन् भग्नशिराः सातङ्कोऽभूत्प्रपीडया || ३३ ||

सुवृत्तेन स्वर्णवप्रं घोरेण कनकेन च |
विदारितं पोत्रघातैः स्वर्ण-भग्नात्कृतं समम् || ३४ ||

मेरुपृष्ठे यानि यानि सौवर्णानि द्विजोत्तमाः |
रचितानि सुरैर्यत्नात्तानि भग्नानि तत्सुतैः || ३५ ||

मानसादीनि देवानां सरांसि शिशवोऽथ ते |
आविलानि तदा चक्रु पोत्रधातैः समन्ततः || ३६ ||

पृथिवी वनितारूपा रमयामास पोत्रिणम् |
स्थावरेण तु रूपेण दुःखमाप्नोति वै दृढम् || ३७ ||

सागराश्च सुवृत्ताद्यैरवगाह्यं समन्ततः |
विकीर्णरत्नं पोत्रौघैः सर्वं एवाकुलीकृताः || ३८ ||

इतस्ततश्च शिशुभिः क्रीडद्भिः पोत्रिभिस्तदा |
जगन्ति तत्र भग्नानि नद्यः कल्पद्रुमास्तथा || ३९ ||

जानन्नपि जगद्भर्ता वराहः स्वयमेव हि |
जगत्पीडां सुतस्नेहाद्वारयामास नैव तान् || ४० ||

सुवृत्तः कनको घोरो यदागच्छति वै दिवम् |
तदा देवगणा भीताः प्रद्रवन्ति दिशो दश || ४१ ||

एवं सुतैर्भार्यया यज्ञपोत्री क्रीडंस्तुष्टिं नाप काञ्चित् कदाचित् |
नित्यं नित्यं वर्धते तस्य कामः कायं त्यक्तुं नैच्छदेष प्रदिष्टः || ४२ ||

इति श्रीकालिकापुराणे वाराहशंकरसंवादे ऊनत्रिंशोऽध्यायः || २९ ||

Kapitel 30

त्रिंशोऽध्यायः

मार्कण्डेय उवाच

ततो देवगणाः सर्वे सहिता देवयोनिभिः |
शक्रेण सहिता मन्त्रं चक्रुः सम्यग् जगद्धितम् || १ ||

ततो निश्चित्य ते सर्वे शक्राद्या मुनिभिः सह |
शरण्यं शरणं जग्मुर्नारायणमजं विभुम् || २ ||

तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् |
प्रणम्य सर्वे त्रिदशास्तुस्टुवुर्गरुडध्वजम् || ३ ||

देवा ऊचुः

नमस्ते देव देवेश जगत्कारण कारक |
कालस्वरूपिन् भगवन् प्रधानपुरुषात्मकं || ४ ||

स्थूल सूक्ष्म जगद्व्यापिन् परेश पुरुषोत्तम |
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् || ५ ||

त्वं हि मायास्वरूपेण सन्मोहयसि वै जगत् |
यद्भूतं यच्च वै भाव्यं यदिदानीं प्रवर्तते || ६ ||

तत् सर्वं परमेश त्वं स्थावरं जङ्गमं तथा |
अर्थार्थिनां त्वमर्थस्तु कामः कामार्थिनां तथा || ७ ||

त्वं हि धर्मार्थिनां धर्मो मोक्षो निर्वाणमिच्छताम् |
त्व कामुकस्त्वं मेवार्थी धार्मिकस्त्वं सदागतिः || ८ ||

त्वद्वक्त्राद् ब्राह्मणा जाता बाहुजाः क्षत्रियास्तव |
ऊर्वोर्वैश्यास्तथा शूद्राः पादाभ्यां तव निर्गताः || ९ ||

सूर्यो नेत्रात्तव विभो मनोजश्चन्द्रमास्तव |
श्रवणात् पवनो जातो दश प्राणास्तथापरे || १० ||

ऊर्ध्वं स्वर्गादिभुवनं तव शीर्षादजायत |
तव नाभेस्तथाकाशं क्षितिः पादतलादभूत् || ११ ||

कर्णाभ्यां ते दिशो जाता जठरात् सकलं जगत् |
त्वं हि मायास्वरूपेण सम्मोहयसि वै जगत् || १२ ||

निर्गुणो गुणवांस्त्वं हि शुद्धं एकः परात्परः |
उत्पत्तिस्थितिहीनस्त्वं त्वमच्युतगुणाधिकः || १३ ||

आदित्यैर्वसुभिर्देवैः साध्यैर्यक्षैर्मरुद्गणैः |
त्वं चिन्त्यसे जगन्नाथ मुनिभिश्च मुमुक्षुभिः || १४ ||

त्वां वै चिदानन्दमयं विदन्ति विशेषविज्ञा मुनयो विभोगाः |
त्वमेव संसारं महीरुहस्य बीजं जलं स्थानमथो फलं च || १५ ||

त्वं पद्मया पद्माकरो विभासि वरासिचक्राब्जधनुर्धरस्त्वम् |

त्वमेव तार्क्षे प्रतिभासि नित्यं स्वर्णाचले तोययुतो यथाभ्रः || १६ ||

त्वमेव पीताम्बरशंकराब्जजास्त्वं सर्वमेतन्न च किंचिदन्यत् |
न ते गुणा नः परिचिन्तनीया विधेर्हरस्यापि दिशां पतीनाम् |
भीतेन भक्त्या शरणं प्रपन्ना गता वयं नः परिरक्ष विष्णोः || १७ ||

मार्कण्डेय उवाच

इति स्तुतो देवदेवो भूतभावनभावनः |
सेन्द्रैर्देवगणैरूचे तान् सर्वान्मेघनिस्वनः || १८ ||

श्रीभगवानुवाच

यदर्थमागता यूयं यद्वा भयमुपस्थितम् |
तत्र यद्वा मया कार्यं तद् देवास्तूर्णमुच्यताम् || १९ ||

देवा ऊचुः

शीर्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः |
लोकाश्च सर्वे संक्षुब्धा नाप्नुवन्त्युपसान्त्वनम् || २० ||

शुष्क तुम्बीफल घातैर्यथा जर्जरता गतम् |
वराहक्षुरघातेन तथा जर्जरिता क्षितिः || २१ ||

तस्य ये वा त्रयं पुत्रा कालाग्निसमतेजसः |
सुवृत्तः कनको घोरस्तैश्चाप्याघातितं जगत् || २२ ||

तेषा कर्दमलीलाभिः सरांसि जगतां पते |
मानसादीनि भग्नानि प्रकृति यान्ति नाधुना || २३ ||

भग्नास्तैर्देवतरवो मन्दाराद्या महाबलैः |
देव नाद्यापि रोहन्ति फलं पुष्पं दलं च वा || २४ ||

यदा त्रिकूटमारुह्य ते सुवृत्तादयस्त्रयः |
प्लुतं कृत्वा महाबाहो पतन्ति लवणार्णवे |
तदा तत् क्षुब्धतोयौघैः प्लाव्यते सकला मही || २५ ||

उत्प्लवन्ति जनाः सर्वे प्रयान्ति च दिशो दश |
जीवितं रक्षमाणास्ते प्रयान्ति च दिशो दश || २६ ||

यदा त्रिविष्टपं यान्ति यज्ञवाराहपुत्रकाः |
इतस्ततस्तदा भग्ना देवाः शान्तिं न लेभिरे || २७ ||

सर्वे तैः पर्वताः पुत्रैर्वराहस्य जगत्पते |
क्रीडद्भिः शिखरे नीतार्भूरिभागमधोगतिम् || २८ ||

एवं विक्रीडतां तेषां क्रीडाभिः सकलं जगत् |
नाशमायाति वैकुण्ठ तस्माद्रक्ष जगत्प्रभो || २९ ||

मार्कण्डेय उवाच

इति तेषां निगदतां श्रुत्वा वाक्यं जनार्दनः |
उवाच शंकरं देवं ब्रह्माणं च विशेषतः || ३० ||

श्रीभगवानुवाच

यत्कृते देवताः सर्वाः प्रजाश्च सकला इमाः |
प्राप्नुवन्ति महद्दुःखं शीर्यते सकलं जगत् || ३१ ||

वाराहं तदहं कायं त्यक्तुमिच्छामि शंकर |
निर्वेशशक्तं तं त्यक्तुं स्वेच्छया न हि शक्यते |
त्वं त्याजयस्व तं कायं यत्नाद्वा शंकराधुना || ३२ ||

त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः |
आप्यायन्तु तथा देवाः शंकरो हन्तु पोत्रिणम् || ३३ ||

रजस्वलायाः संसर्गाद्विप्राणां मारणात्तथा |
काय पापकरो भूतस्तं त्यक्तुं युज्यतेऽधुना || ३४ ||

प्रायश्चित्तैरपैत्येनः प्रायश्चित्तमहं ततः |
चरिष्यामि तदर्थं मे तनुर्यत्नेन शाम्यताम् || ३५ ||

प्रजा पाल्या मम सदा सा हि सीदति नित्यशः |
मत्कृते प्रत्यह तस्मात् त्यक्ष्ये कार्यं प्रजाकृतेः || ३६ ||

मार्कण्डेय उवाच

इत्युक्तौ वासुदेवेन तदा तौ ब्रह्मशंकरौ |
त्वया यथोक्तं तत्कार्यमिति गोविन्दमूचतुः || ३७ ||

वासुदेवोऽपि तान् सर्वान् विसृज्य त्रिदशांस्तथाः |
वाराहं तेज आहर्तुं स्वयं ध्यानपरोऽभवत् || ३८ ||

शनैः शनैर्यदा तेज आहरत्येष माधवः |
तदा देहं तु वाराहं सत्त्वहीनमजायत || ३९ ||

तेजोहीनं यदा देहं ज्ञातं सर्वै स्तदामरैः |
आससाद तदा देवो यज्ञवाराहमद्भुतम् || ४० ||

ब्रह्माद्यास्त्रिदशाः सर्वे महादेवमुमापतिम् |
अनुजग्मुस्तदा तेज आधातुं स्मरशासने || ४१ ||

ततः सर्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे |
आदधे तेन बलवान् सोऽतीव समजायत || ४२ ||

ततः शरभरूपी स तत्क्षणात् गिरिशोऽभवत् |
ऊर्ध्वांधोभागतश्चाष्टपादयुक्तः सुभैरवः || ४३ ||

द्विलक्षयोजनोच्छ्रायः सार्धलक्षैकविस्तृतः |
ऊर्ध्वं वाराहकायस्तु लक्षयोजनविस्तृतः || ४४ ||

लक्षार्धविस्तृतः पार्श्वे वर्धमानस्तदाभवत् |
ततः शरभरूपं तं महादेवमुमापतिम् || ४५ ||

ददर्श यज्ञपोत्री स स्पृशन्तं शिरसा विधुम् |
सुदीर्घनासानखरं कृष्णाङ्गारसमप्रभम् || ४६ ||

दीर्घवक्त्रं महाकायमष्टदंष्ट्रासमन्वितम् |
विभ्रतं ससटं पुच्छं दीर्घकर्णं भयानकम् || ४७ ||

चतुरः पृष्ठतः पादानधरे चतुरस्तथा |
कुर्वन्तं घोरमारावमुत्पतन्तं पुनः पुनः || ४८ ||

तमायान्तं ततो दृष्ट्वा क्रोधाद् धावन्तमञ्जसा |
सुवृत्तः कनको घोरं आसेदुः क्रोधमूर्च्छिताः || ४९ ||

तमासाद्य महाकायं शरभं भ्रातरस्त्रयः |
उच्चिक्षिपुस्ते युगपत् पौत्रघातैर्महाबलाः || ५० ||

यावत्प्रमाण शरभस्तत्प्रमाणास्तदाभवन् |
शरभोत्क्षेपसमये मायया पोत्रिणस्त्रयः || ५१ ||

तेषां पोत्रप्रहारेण प्रोत्क्षिप्तः शरभस्तदा |
पपात पृथिवीप्रान्ते गम्भीरे तोयसागरे || ५२ ||

तस्मिन् निपतिते तत्र सागरे मकरालये |
उत्पत्य ते त्रयः पेतुः क्रोधात्तस्मिन् महोदधौ || ५३ ||

सुवृत्ते कनके घोरे पतिते सागराम्भसि |
वराहोऽपि सुतस्नेहात् क्रोधाच्च द्विजसत्तमाः |
उत्पत्य सहसा तस्मिंस्तोयराशौ पपात ह || ५४ ||

उत्पतन्तस्तदा ते वै वाराहाः शरभस्तथा |
बभञ्जुर्दिवि देवांस्तु नक्षत्राणि ग्रहांस्तथा || ५५ ||

केचित्तु निहता देवा भूमौ पेतुश्च केचन |
केचिच्च ज्ञानिनो देवा महर्लोकमुपाश्रिताः || ५६ ||

नक्षत्राणि विमानात्तु पतितानि महीतले |
अदृश्यन्त द्विजश्रेष्ठा ज्वालामाला कुलानि वै || ५७ ||

तेषामुत्पतने वेगो योऽभूत् परमदारुणः|
तेनातिवेगो जनितो वायुः परमदारुणः || ५८ ||

वायुना तेन नुन्नास्तु पर्वता पृथिवीतले |
केचिच्छैलाः पर्वतेषु पतिताः पुनरेव ते || ५९ ||

विमृद्य वृक्षान् जन्तूंश्च निपेतुश्च पुनः पुनः |
केचित्तु पर्वताघातैर्नृत्यमाना
महीतले || ६० ||

बभञ्जुरचलाश्चापि व्रजन्तो बहुशः प्रजाः |
पर्वता समदृश्यन्तं वातवेगेन भूतले || ६१ ||

संघट्टमानास्तेभ्योऽन्ये व्रजन्त इव तेऽचलाः |
अम्भोनिधो पतद्भिस्तैर्वाराहैः शरभेण च || ६२ ||

पर्वतैश्च महातुङ्गै रुत्क्षिप्तास्तोयराशयः |
तेषा प्रपातवेगेन क्षिप्तेषु जलराशिषु || ६३ ||

निस्तोया इव सजाता क्षण वै सर्वसागराः |
तै सवैरुदकैः क्षिप्तैः पृथिवीतलमागतैः || ६४ ||

उत्प्लाविता प्रजाः सर्वाः क्षणाज्जग्मुः क्षयं ततः |
प्लवमानाः प्रजास्तोये म्रियमाणाः समन्ततः || ६५ ||

हा पितस्त्वथ हा तात हा मातर्हा सुतेति च |
विलपन्ति स्म करुणं भीताश्चार्ता मुमूर्षवः || ६६ ||

यस्मिन् देशे निपतितो वाराहैः शरभः सह |
तत्रैवाधोगता भूमिः पादवेगेन दारिता || ६७ ||

अपरः पृथिवीप्रान्त उत्थितः पर्वतैः सह |
ससर्ज जनलोकेषु चलां तेषां प्रभञ्जनैः || ६८ ||

जनलोकेषु संयुक्तां पृथिवीं शरभस्तदा |
निष्प्राणाभिव सम्बद्धामचलामपि पोत्रिभिः |
ददर्श विस्मयाविष्टः स भीतः श्रान्तपीडितः || ६९ ||

ततस्ते युयुधुः सर्वे पोत्राघातेन पोत्रिणः |
खुरप्रहारैर्दंष्ट्राभिर्गात्रक्षेपैश्च दारुणैः || ७० ||

शरभोऽप्यथ दंष्ट्राग्रैर्नखैस्तीक्ष्णैः खुरैस्तथा |
लाङ्गुलस्य प्रहारैस्तु तुण्डघातैर्महास्वनैः || ७१ ||

चतुर्भिः पोत्रिभिस्तैस्तु स एकः शरभो महान् |
एकान्तं यो धयामास सहस्रं परिवत्सरान् || ७२ ||

तेषां प्रहारैर्वेगैश्च भ्रमणैश्च गतागतैः |
आस्फोटितैस्तथारावैर्देहपातैः पृथक् पृथक् |
पाताले पन्नगाः सर्वे विनेशुः कद्रुजैः सह || ७३ ||

ततस्ते सागर त्यक्त्वा पृथिवीमध्यमागताः |
परस्परं युध्यमानां ततोऽभूत् पृथिवी समा || ७४ ||

शेषोऽपि महतां यत्नाद् बलेनाष्टभ्य कच्छपम् |
दधारं पृथिवी दुःखभग्नशीर्षः प्रतापितः || ७५ ||

अनन्ते वामनीभूते समत्वं पृथिवीतले |
गतेऽम्भोभिश्चलद्भिश्च पर्वतैः सर्वजन्तुषु || ७६ ||

नष्टेषु युध्यमानेषु त्रिपोत्रिशरभेषु च |
सागरैराप्लुते सर्वजगत्यापोमये हरिम् || ७७ ||

चिन्ताविष्टः सुरज्येष्ठः उवाचाथ पितामहः |
भगवन् भुवनं सर्वं ससुरासुरमानुषम् || ७८ ||

विध्वस्तं पृथिवी शीर्णा नष्टा स्थावरजङ्गमाः |
देवदानवगन्धर्वा दैत्याश्चापि सरीसृपाः |
विध्वस्ता जगतां नाथ मुनयश्च तपोधनाः || ७९ ||

त्वं पालकोऽसि सर्वेषां त्वमेव जगतः प्रभुः |
तस्मात् पालय नः सर्वान् पृथिवीं च जगत्पते || ८० ||

त्वमेव कायं वाराहं स्वयमेवोपसंहर |
संस्थापय महाबाहो पृथिवीं च चराचरैः || ८१ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा ब्रह्मणोऽथ जनार्दनः |
यत्नं चक्रे तदा सर्वं संस्थापयितुमच्युतः || ८२ ||

ततो हरी रोहितमत्स्यरूपी भूत्वा मुनीन् सप्त तदा सवेदान् |
अधाच्छ्रुते रक्षणतत्परो जगधिताय सर्वश्रुतिकोविदां वरान् || ८३ ||

वसिष्ठमत्रि त्वथ कश्यपं च विश्वादिमित्रं च सगौतमं मुनिम् |
महातपस्थं जमदग्निमुख्यं तथा भरद्वाजमुनि तपोनिधिम् || ८४ ||

निधाय पृष्ठे स हि तोयमध्ये स्थितो महानौप्रवरे मुनीन्द्रान् |
ततः शिवं सान्त्वयितुं सनार्दनो जगाम यस्मिन् युयुधे स पोत्रिभिः || ८५ ||

श्रान्तं वराहैरतिपौत्रघट्टनैनिपीडितं व्यात्तमुखं श्वसन्तम् |
अथागत वीक्ष्य हरं वराहः सस्मार पूर्वां नरसिंहमूर्तिम् || ८६ ||

स्मृतस्तदा तेन समाजगाम सखा वराहस्य हिते नृसिंहः |
तदीयकायान् निजतेज आदात् || ८७ || दृष्टं वराहैः शरभेण तेजो यत् सूर्यतुल्यं प्रविवेश विष्णौ |
विज्ञाय तेजोरहितं नृसिंहं ससर्ज निश्वासचयं वराहः || ८८ ||

ततस्तु जाता बहवो वराहा बहु प्रमाणाद्भुततीक्ष्णदंष्ट्रा |
ते वै वराहाः शरभं गिरिशं मायाविनो वीतभयास्तुदन्तः || ८९ ||

समं नृसिंहेन तदापि युद्धं चक्रुर्ममर्दुश्च भृशं गिरीशम् |
क्षणं महापक्षिसमानरूपाः क्षणं तु गावस्तुरगा नराश्च || ९० ||

क्षणं नृसिंहाश्च वराहरूपा गोमायवो वैकृतिकाः क्षणं ते |
अनेकरूपाणि भयङ्कराणि वितन्यमानानि रणे वराहैः || ९१ ||

निरीक्ष्य भर्गं च निपीडितं तैरथासदन्माधवस्तं गिरीशम् |
पस्पर्श विष्णुर्गिरिशं करेण तेजो न्यधात्तत्र निजं पुनः स || ९२ ||

अथ संस्पृष्टमात्रः स विष्णुणा प्रभुविष्णुणा |
अतीव मुदितो हृष्टो बलवान् समजायत || ९३ ||

अथोच्चैः शरभो नादं ननाद बलवद्दृढम् |
आपूरितानि येनैतद्भुवनानि चतुर्दश || ९४ ||

नदतस्तस्य वदनाच्छीकरा ये विनिःसृताः |
ततो गणाः समभवन् महाकाया महौजसः || ९५ ||

यथा वराहनिश्वासान्नानारूपधरा गणाः |
वराहास्तादृशा एते ततोऽप्यतिबलाः पुनः || ९६ ||

श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखाः |
ऋक्षमार्जारमातङ्गशिशुमारस्वरूपिणः || ९७ ||

सिंहव्याघ्रमुखा केचित् केचित् सर्पाखुमूर्तयः |
हयग्रीवा हयमुखा महिषाकृतयः परे || ९८ ||

अन्ये तु मनुजाकारा मृगमेषमुखाः पुनः |
कबन्धा हीनपादाश्च विहस्ता बहुपाणयः || ९९ ||

केचित्तु शरभाकाराः कृकलासमुखाः परे |
मत्स्यवक्त्रा ग्राहवक्त्रा ह्रस्वा दीर्घाबलाः कृशाः || १०० ||

चतुष्पादाष्टपादाश्च त्रिपादा द्विपदाः परे |
एकपादा भूरिहस्ता यक्षकिपुरुषोपमाः || १०१ ||

पश्वाकाराः पक्षयुक्ताः लम्बोदरमहोदरा |
दीर्घोदरा स्थूलकेशा बहुकर्णा विकर्णकाः || १०२ ||

स्थूलाधरा दीर्घदन्ता दीर्घश्मश्रुधराः परे |
ये सन्ति प्राणिनो विप्रा भुवनेषु समन्ततः || १०३ ||

चतुर्दशसु ते तेषां रूपेण समतां गताः |
नेहास्ति भुवने जन्तुः स्थावरो वा जगत् पुनः || १०४ ||

यत्तुल्यरूपेण गणो न जातः शङ्करस्य च |
ते भिन्दिपालैः खड्गैश्च परिघैस्तोमरैस्तथा || १०५ ||

शङ्कुलासिगदाभिश्च पाशैः शङ्कुभिरेव च |
खट्वाङ्गैश्च त्रिशूलैश्च कपालैः शक्तिभिस्तथा || १०६ ||

दात्रैः सृणिभिरीषाग्रैर्यष्टिभिश्चत्रिकण्टकैः |
प्रासैः परशुभिर्बाणैः कोदण्डैरतिभीषणाः || १०७ ||

जटाचन्द्रकलायुक्ताः सर्व एव महाबलाः |
केचिद्भर्गस्य रूपेण वाहनेनाथ भूषणैः || १०८ ||

तुल्या जटार्धशुभ्रांशुशुभ्रशीर्षा महाबलाः |
अर्धनारीश्वरा केचिद् यथारुद्रस्तथैव ते || १०९ ||

केचित्तु चारुरूपेण मोहनेन मनोभुवः |
तुल्येन वनितासंधै समं जाता रतोत्सुकाः || ११० ||

आकाशचारिणः सर्वे सर्वे स्वच्छन्दगामिनः |
नीलोत्पलदलश्यामाः शुक्ला केचन लोहिताः || १११ ||

रक्ता पातास्तया चित्रा हरिताः कपिलाः परे |
अर्धपीता ह्यर्धरक्ता नीलार्धा धवलाः परे || ११२ ||

सकृष्णपीताः शुक्लेन कृष्णेनार्धेन रञ्जिताः |
एकवर्णा द्विवर्णाश्च त्रिवर्णाश्च तथापरे || ११३ ||

चतुःषट्पञ्चववर्णाश्च केचिद् दशगुणाः द्विजाः |
डिण्डिमान् पटहान् शङ्खान् भेर्यानकसकाहलान् || ११४ ||

मण्डूकान् झर्झरांश्चैव झर्झरीश्च समर्दलाः |
वीणास्तन्त्री पञ्चतन्त्रीः शकटान् दर्दरांस्तथा || ११५ ||

गोमुखानानकान् कुण्डान् सतालकरतालिकान् |
वादयन्तो गणाः सर्वे हसन्तश्च मुहुर्मुहुः || ११६ ||

वराहाभिमुखा भूत्वा तस्थुस्ते हृष्टमानसाः |
तान् सर्वानाह शरभो भगवान् वृषभध्वजः || ११७ ||

निघ्नतैतान् वराहस्य गणान् वै क्रूरकर्मभिः |
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरा भूत्वा महाबलाः || ११८ ||

ततस्ते वै गणाः सर्वे नानाकारवरायुधाः |
सार्धं वराहस्य गणैर्युयुधुः क्रूरदर्शनाः || ११९ ||

आकाशचारिणः सर्वे जलपूर्णं जगत्त्रयम् |
ते परित्यज्य युयुधुर्वियत्येवोभये गणाः || १२० ||

ततः क्षणाद् वराहास्य गणान् सर्वान् महाबलान् |
हरस्य प्रमथा जघ्नुर्महावाता इवास्बुदान् || १२१ ||

हतेषु तेषु वीरेषु वाराहेषु गणेष्वथ |
दध्यौ वराहः किमिति प्राक् पश्चाद्वृत्तमास्थितम् || १२२ ||

अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्दनः |
तत सर्वं ज्ञापयामास वराहवपुषो हितम् || १२३ ||

ततो देह-परित्यागं कर्तुं समयतस्तदा |
ततो दंष्ट्राग्रघातेन नरसिंहं महाबलः || १२४ ||

शरभो भगवान् भर्गो द्विधा मध्ये चकार ह |
नरसिंहे द्विधाभूते नरभागेण तस्य च || १२५ ||

नर एव समुत्पन्नो दिव्यरूपी महानृषिः |
तस्य पञ्चास्यभागेन नारायण इति श्रुतः || १२६ ||

अभवत् सुमहातेजा मुनिरूप्पी जनार्दनः |
नरो नारायणश्चोभौ सृष्टिहेतूं महामती || १२७ ||

द्वयोः प्रभावो दुर्धर्षः शास्त्रे वेदे तपःसु च |
तौ नावि विनिधायाथ मत्स्यमूर्त्यवितात्मनि || १२८ ||

आससादं पुनर्देवो वराहः शरभ हरिः |
वपुस्त्यागो मयावश्यं कर्तव्यो जगतां हिते || १२९ ||

इति पूर्वं प्रतिज्ञातं तदर्थोऽयं समुद्यमः |
क्रियते हरिणा सार्धं शम्भुना ब्रह्मणापि च || १३० ||

इति सञ्चिन्त्य स तदा शूकरः परमेश्वरः |
जगाद शरभं देवं महादेवं महाबलम् || १३१ ||

जहि मां त्वं महादेव त्यक्ष्ये कायमसंशयम् |
हिताय सर्वजगतां देवानामपि ऋत्विजाम् || १३२ ||

मम देहप्रतीकौधैर्यज्ञं यूपं प्रकल्प्य च |
पृथक् पृथक् महाभागा सशामित्रं श्रुवादिकम् || १३३ ||

ततस्ते तान् त्रिभिः पुत्रैर्विधध्वं जगतां हिते |
कनकेन सुवृत्तेन घोरेण च जगन्मयीम् || १३४ ||

यज्ञाद् देवाः प्रजाश्चैव यज्ञादन्नान् नियोगिनः |
सर्वं यज्ञात् सदा भावि सर्वं यज्ञमयं जगत् || १३५ ||

यमिमं पृथिवीगर्भमाधत्त मलिनी पुनः |
तमुत्पन्नं स्वयं देवीं चिरं संगोपयिष्यति || १३६ ||

प्राप्ते काले यदा देवी तदायुष्मान् सुभाषते |
वधस्तस्यातिमारार्ता तदैवैनं हनिष्यथ || १३७ ||

भारतीं पृथिवीं मग्नां यदाधः शतयोजनम् |
शृङ्गिवराहरूपेण प्रोद्धरिष्ये तदा त्विमाम् || १३८ ||

कृतकृत्यं तु तं कायं त्याजयिष्यति ते सुतः |
यो भावी देवसेनानी रुद्रात् षाण्मातुराह्वयः || १३९ ||

एवं यज्ञवराहे तु भाषमाणे महाबले |
निःसृत्य सुमहतेजो ज्वालामालातिदीपितम् || १४० ||

सूर्यकोटिप्रतीकाशं वराहवपुषस्तदा |
हरेर्भगवतो देहे विवेश महदद्भुतम् || १४१ ||

तस्मिन् विष्णौ प्रविष्टे तु वाराहे तेजसि द्विजाः |
सुवृत्तात् कनकाद् घोरात्तेज आदात् स्वयं हरिः || १४२ ||

तेषामपि शरीरेभ्यस्तेजोभागः पृथक् पृथक् |
विनिःसृत्य विनिःसृत्य ज्वालामालातिदीपितः || १४३ ||

प्रविवेश हरेः काये यथा तेषां पितुस्तथा |
ततो हरिश्च ब्रह्मा च महादेवश्च तद्वचः || १४४ ||

वराहस्य प्रतिश्रुत्य ओमित्युक्त्वा पुनः पुनः |
तेषां कायपरित्यागे अकार्षुर्यत्नमुत्तमम् || १४५ ||

ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः |
भित्त्वा वपुर्वराहस्य पातयामास तज्जले || १४६ ||

तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा |
घोरं च कण्ठदेशेषु भित्त्वा भित्त्वा जघान ह || १४७ ||

त्यक्तप्राणास्तु ते सर्वे पेतुस्तोये महर्णवे |
जले शब्दं वितन्वानाः कालानलसमन्वितः || १४८ ||

पतितेषु वराहेषु ब्रह्मा विष्णुर्हरस्तथा |
सृष्ट्यर्थ चिन्तयामासुः पुनरेव समागताः || १४९ ||

हरस्य तु गणाः सर्वे तदा भर्गं समागताः |
उपतस्थुर्महाभागाश्चतुर्भागेन भाजिताः || १५० ||

षट्त्रिंशत्तु सहस्राणि प्रमथा द्विजसत्तमाः |
तत्रैकत्र सहस्राणि भागे षोडश संस्थिताः || १५१ ||

नानारूपधरा ये वै जटाचन्द्रार्धमण्डिताः |
ते सर्वे सकलैश्वर्ययुक्ता ध्यानपरायणाः || १५२ ||

योगिनो मदमात्सर्यदम्भाहंकारवर्जिताः |
क्षीणपापा महाभागाः शम्भोः प्रीतिकाराः पराः || १५३ ||

न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन |
संसार-विमुखा सर्वे यतयो योगतत्पराः || १५४ ||

ध्यानावस्थं महादेवं परिवार्य धृतव्रताः |
कृत्वा परिषदं रुच्या तिष्ठन्ति विगतक्लमाः || १५५ ||

यदैव परमं ज्योतिश्चिन्तयत्यम्बिकापतिः |
तदैव ते पारिषदाः सर्वे संवेष्टयन्ति तम् || १५६ ||

ते षोडश समाख्याता कोटयो ये यतव्रताः |
सिंहव्याघ्रादि-सारूप्या अणिमादिसमायुताः || १५७ ||

अपरे कामिनः शम्भोः सुनर्मसचिवाः स्मृताः |
विचित्ररूपाभरणा जटाचन्द्रार्धमण्डिताः || १५८ ||

हरस्य तुल्यरूपेण विशदा वृषभध्वजाः|
उमासदृशरूपाभिः प्रमदाभिः समागताः || १५९ ||

विचित्रमाल्याभरणा दिव्यस्रग्गन्धभूषिताः |
उमासहायं क्रीडन्तमनुगच्छन्ति भूषिताः || १६० ||

शृङ्गारवेषाभरणा अष्टौ ते कोटयो गणाः |
अर्धनारीश्वराश्चान्ये अर्धनारीश्वरं हरम् || १६१ ||

ध्यानस्थं प्रविविशुस्ते तुल्यरूपा हरस्य ये |
उमासहायो हि यदा रमते ससुखं हरः || १६२ ||

अर्धनारीशरीरास्तु द्वारपाला भवन्ति ते |
आकाशमार्गे गच्छन्तमनुगच्छन्ति नित्यशः || १६३ ||

ध्यानस्थं परिचर्यन्ति सलिलादिभिरीश्वरम् |
नानाशस्त्रधराः शम्भोर्गणास्ते प्रमथाः स्मृताः || १६४ ||

प्रमथ्नन्ति च युद्धेषु युध्यमानान् महाबलान् |
ते वै महाबलाः शूराः संख्यया नव कोटयः || १६५ ||

अपरे गायनास्तालमृदङ्गपणवादिभिः |
नृत्यन्ति वाद्यं कुर्वन्ति गायन्ति मधुरस्वरम् || १६६ ||

नानारूपधरास्तं वै संख्यया कोटयस्त्रयः |
सततं चानुगच्छन्ति विचरन्त महेश्वरम् || १६७ ||

सर्वे मायाविनः सूराः सर्वे शास्त्रार्थपारगाः |
सर्वे सर्वत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा || १६८ ||

मुहूर्तात् सर्वभुवनं गत्वा यान्ति पुनर्भवम् |
अणिमाद्यष्टकेश्वर्ययुक्तास्ते वै महाबलाः || १६९ ||

अपरे रुद्रनामानो जटाचन्द्रार्घमण्डिताः |
देवेन्द्रस्य नियोगेन वर्तन्ते त्रिदिवे सदा || १७० ||

तेषां संख्या चैककोटिस्ते सर्वे बलवत्तराः |
कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः || १७१ ||

विस्मयन्ति च पापिष्ठान् धर्मिष्ठान् पालयन्ति च |
अनुगृह्णन्ति सततं धृतपाशुपतव्रतान् || १७२ ||

विघ्नोश्च सततं घ्नन्ति योगिनां प्रयतात्मनाम् |
षट्त्रिंशत् कोटयश्चैते हरस्य सकला गणाः || १०३ ||

वराहगणनाशार्थं हिताय जगतां तथा |
शङ्करस्याथ सेवाये समुत्पन्ना इमे गणाः || १७४ ||

वराहस्य गणान् दृष्ट्वा नरसिंहं तथा हरिम् |
स्वयं शरभरूपः सन् ध्यायन्नादं तदाकरोत् || १७५ ||

तच्चीत्कराद्यतो जातास्तत्तषां बहुरूपता |
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरकृत्यैरिमान् गणा |
वराहस्य घ्नतेत्येवं यतः प्रोक्तं कपर्दिनां || १७६ ||

अतस्ते क्रूरकर्माणः प्रजाताश्च भयङ्कराः |
न सदा क्रूरकर्माणि ते कुर्वन्ति महौजसः || १७७ ||

दृष्टिमात्रस्य ते क्रूराः क्रूरास्ते न तु कार्यतः |
फलं जलं तथा पुष्पं पत्रं मूलं तथैव च || १७८ ||

निवेदितानि भुञ्जन्ति वनपर्वतसानुषु |
आहृत्यापि च भुञ्जन्ति पत्र पुष्पादिकं च यत् || १७९ ||

भवेद्भर्गस्य यद्भोग्यं तद्भोगास्ते महौजसः |
आमिषाणि च नाश्नन्ति हित्वा चैत्रचतुर्दशीम् || १८० ||

तत्रामिषं हरो भुङ्क्ते चतुर्दश्यां मधौ सदा |
ततः सर्वे गणास्तत्र भुञ्जते पललान्यपि || १८१ ||

हते वराहस्य गणे भर्गमासाद्य ते गणाः |
चतुर्भागाः स्वयं भूत्वा भूतकर्मेति वै जगुः |
भूतत्वमभवत्तेषां चतुर्भागवतां तदा || १८२ ||

वचनात् पद्मयोनेस्तु भूतग्रामस्ततो मतः |
यो लोको विदितः पूर्वं भूतग्रामश्चतुर्विधः |
यतस्तेभ्योऽधिको यत्तद्भूतग्रामः स उच्यते || १८३ ||

इति वः कथितं सर्वं भूताः शम्भुगणाः यथा |
यदाहारा यदाकारा यत्कृत्यास्ते महौजसः || १८४ ||

य इदं शृणुयान्नित्यमाख्यानं महदद्भुतम् |
स दीर्घायुः सदोत्साही योगयुक्तश्च जायते || १८५ ||

इति श्रीकालिकापुराणे शरभवराह युद्धो नाम त्रिंशोऽध्यायः || ३० ||

Kapitel 31

एकत्रिंशोऽध्यायः

ऋषय ऊचुः

कथं यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् |
त्रेतात्वमगमन् पुत्रा वराहस्य कथं त्रयः || १ ||

आकालिकोऽयं प्रलयः कस्माद् भगवता कृतः |
जनक्षयो महाघोरो वराहेण महात्मना || २ ||

कथं वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा |
कथं पुनरभूत् सृष्टिः केन चोर्वी समुद्धृता || ३ ||

ईश्वरः शारभं कायं त्यक्तवान् वा कथं गुरो |
कीदृक् प्रवृत्तं तद्देहं तन्नो वद महामते || ४ ||

एतेषां द्विजशार्दूलं भवान् प्रत्यक्षदर्शिवान् |
तन्नोऽद्य श्रोष्यमाणानां कथयस्व महामते || ५ ||

मार्कण्डेय उवाच

शृणुध्वं द्विजशार्दूला यत्पृष्टोऽहमिहाद्भुतम् |
शृण्वन्त्ववहिताः सर्वे सर्ववेदफलप्रदम् || ६ ||

यज्ञेषु देवास्तुष्यन्ति यज्ञे सर्वं प्रतिष्ठितम् |
यज्ञेन ध्रियते पृथ्वी यज्ञस्तारयति प्रजाः || ७ ||

अन्नेन भूता जीवन्ति पर्यन्यादन्नसम्भवः |
पर्जन्यो जायते यज्ञात् सर्वं यज्ञमयं ततः || ८ ||

स यज्ञोऽभूद् वराहस्य कायाच्छम्भुविदारितात् |
यथार्हं कथये तद्वः शृण्वन्त्ववहिता द्विजाः || ९ ||

विदारिते वराहस्य काये भर्गेण तत्क्षणात् |
ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह || १० ||

निन्युर्जलात् समुद्धृत्य तच्छरीरं नभः प्रति |
तद्बिभिदुः शरीरं तद् विष्णोश्चक्रेण खण्डशः || ११ ||

तस्याङ्गसन्धयो यज्ञा जाताश्च वै पृथक् पृथक् |
यस्मादङ्गाच्च ये जातास्तच्छृण्वन्तु महर्षयः || १२ ||

भ्रूनासासन्धितो जातो ज्योतिष्टोमो महाध्वरः |
हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत || १३ ||

चक्षुर्भ्रुवोः सन्धिनां तु व्रात्यष्टोमो व्यजायत |
जातः पौनर्भवस्टोमस्तस्य पोत्रौष्ठसन्धितः || १४ ||

वृद्धष्टोमबृहत्ष्टोमौ जिह्वामूलादजायताम् |
अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् || १५ ||

अध्यापन ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् |
होमो दैवो बलिर्भौ तो नृयज्ञोऽतिथिपूजनम् || १६ ||

स्नानं तर्पणपर्यंत नित्ययज्ञाश्च सर्वशः |
कण्ठसन्धेः समुत्पन्नाः जिह्वातो विधयस्तथा || १७ ||

वाजिमेधमहामेधौ नरमेधस्तथैव च |
प्राणिहिसाकरा येऽन्ये ते जाताः पादसन्धितः || १८ ||

राजसूयोऽर्थकारी च वाजपेयस्तथैव च |
पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च || १९ ||

प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा |
हृत्सन्धितः समुत्पन्नाः सावित्रीयज्ञ एव च || २० ||

सर्वे सांस्कारिका यज्ञाः प्रायश्चित्तकराश्च ये |
ते मेढ्रसन्धितो जाता यज्ञास्तस्य महात्मनः || २१ ||

रक्षःसत्रं सर्पसत्रं सर्वं चैवाभिचारिकम् |
गोमेधो वृक्षयागश्च खुरेभ्यो ह्यभवन्निमे || २२ ||

मायेष्टिः परमेष्टिश्च गीष्पतिर्भोगसम्भवः |
लाङ्गुलसन्धौ संजाता अग्निष्टोमस्तथैव च च || २३ ||

नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकीर्तिताः |
लाङ्गुलसन्धौ ते जातास्तथा द्वादशवार्षिकम् || २४ ||

तीर्थप्रयोगसामौजः यज्ञः सङ्कर्षणस्तथा |
आर्कमाथर्वणश्चैव नाडीसन्धेः समुद्गताः || २५ ||

ऋचोत्कर्षः क्षेत्रयज्ञाः पञ्चसर्गातियोजनः |
लिङ्गसंस्थानहेडम्बयज्ञा जाताश्च जानूनि || २६ ||

एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः |
यज्ञानां सततं लोका यैर्भाव्यन्तेऽधुनापि च || २७ ||

स्रुगस्य पोत्रात् सञ्जाता नासिकायाः स्रुषोऽभवत् |
अन्येस्रुक्स्रुवभेदा ये ते जाता पोत्रनासयोः || २८ ||

ग्रीवाभागेण तस्याभूत् प्राग्वंशो मुनिसत्तमाः |
इष्टापूर्तिर्यजुर्धर्मो जाताः श्रवणरन्ध्रतः || २९ ||

दंष्ट्राभ्यो ह्यभवन् यूपाः कुशा रोमाणि चाभवन् |
उद्गाता च तथाध्वर्युर्होता शामित्रमेव च || ३० ||

अग्रदक्षिणवामाङ्ग-पश्चात् पादेषु सङ्गताः |
पुरोडाशाः सचरवो जाता मस्तिष्कसञ्चयात् || ३१ ||

कर्सूर्नेत्रद्वयाज्जाता यज्ञकेतुस्तथा खुरात् |
मध्यभागोऽभवद्वेदी मेद्रात् कुण्डमजायत || ३२ ||

रेतोभागात्तथैवाज्यं स्वधामन्त्रा समुद्गताः |
यज्ञालयः पृष्ठभागाधृत्पद्माद्यज्ञ एव च |
तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात्समुद्गताः || ३३ ||

एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च |
तानि यज्ञवराहस्य शरीरादेव चाभवन् || ३४ ||

एवं यज्ञवराहस्य शरीरं यज्ञतामगात् |
यज्ञरूपेण सकलमाप्यायितुमिदं जगत् || ३५ ||

एवं विधाय यज्ञं तु ब्रह्मविष्णुमहेश्वराः |
सुवृत्तं कनकं घोरमासेदुर्यत्नतत्पराः || ३६ ||

ततस्तेषां शरीराणि पिण्डीकृत्य पृथक् पृथक् |
त्रिदेवास्त्रिशरीराणि व्यधमन्मुखवायुभिः || ३७ ||

सुवृत्तस्य शरीरं तु व्यधमन्मुखवायुना |
स्वयमेव जगत् स्रष्टा दक्षिणाग्निस्ततोऽभवत् || ३८ ||

कनकस्य शरीरं तु ध्मापयामास केशवः |
ततोऽभूद्गार्हपत्याग्निः पञ्चवेतानभोजनः || ३९ ||

घोरस्य तु वपुः शम्भुर्ध्मापयामास वै स्वयम् |
तत आहवनीयोऽग्निस्तत्क्षणात् समजायत || ४० || एतैस्त्रिभिर्जगद्व्याप्तं त्रिमूलं सकलं जगत् |
एतद् यत्र त्रयं नित्यं तिष्ठति द्विजसत्तमाः || ४१ ||

समस्ता देवतास्तत्र वसन्त्यनुचरैः सह |
एतद्भद्रपदं नित्यमेतदेव त्रयात्मकम् || ४२ ||

एतत्त्रयीविधिस्थानमेतत् पुण्यकरं परम् |
यस्मिन् जनपदे चैते हूयन्ते वह्नयस्त्रयः || ४३ ||

तस्मिन् जनपदे नित्यं चतुर्वर्गो विवर्धते |
एतद्वः कथितं सर्वं यत् पृष्टोऽहं द्विजोत्तमाः || ४४ ||

यथा यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् |
यथा च तस्य पुत्राणां देहतो वह्नयोऽभवन् || ४५ ||

इति श्रीकालिकापुराणे वराहतनौ यज्ञोत्पत्तिर्नाम एकत्रिंशोऽयायः |

Kapitel 32

द्वात्रिंशोऽध्यायः

मार्कण्डेय उवाच

आकालिकोऽयं प्रलयो यतो भगवता कृतः |
तच्छृण्वन्तु महाभागा वाराहं लोकसंक्षयम् || १ ||

यथा वा मत्स्यरूपेण वेदास्त्राताश्च शर्ङ्गिणा |
तदहं संप्रवक्ष्यामि सर्वपापप्रणाशनम् || २ ||

पुरा महामुनिः सिद्धः कपिलो विष्णुरीश्वरः |
साक्षात् स्वयं हरिर्योऽसौ सिद्धानामुत्तमो मुनिः || ३ ||

ध्यायतः सिद्धमित्येवं सर्वं जगदिदं स्वतः |
यतो जातो हरेः कायात् कपिलस्तेन स स्मृतः || ४ ||

स एकदा पुरा भूत्वा मनोः स्वायम्भुवेऽन्तरे |
स्वायम्भुवं मनुं वाक्यं मुनिवर्योऽब्रवीदिदम् || ५ ||

कपिल उवाच

स्वायम्भुव मुनिश्रेष्ठ ब्रह्मरूप महामते |
ममैवमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना || ६ ||

जगत्सर्वं त्वैवेदं त्वया च परिपालितम् |
त्वया सर्वं जगत् सृष्टं त्वमेव जगतां पतिः || ७ ||

स्वर्गे पृथिव्यां पाताले देवमानुषजन्तुषु |
त्वं प्रभुर्वरदो गोप्ता त्वमेवैकः सनातनः || ८ ||

त्वं वै धाता विधाता च त्वं हि सर्वेश्वरेश्वरः |
त्वयि प्रतिष्ठितं सर्वं सततं भुवनत्रयम् || ९ ||

तपस्यतो तव समं प्रतिभास्यति सोऽनुगम् |
कार्यकारणतत्त्वौघसहितानि जगन्ति वै || १० ||

तन्मे देहि रहः स्थानं त्रिषु लोकेषु दुर्लभम् |
पुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमम् || ११ ||

अहं हि सर्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् |
उद्धरिष्ये जगज्जातं निर्माय ज्ञानदीपिकाम् || १२ ||

अज्ञानसागरे मग्नमधुना सकलं जगत् |
ज्ञानप्लवं प्रदायाहं तारयिष्ये जगत्त्रयम् || १३ ||

एतस्मिन्मां भवान् सम्यगुपपन्नमिहेच्छति |
त्वन्नो नाथश्च पूज्यश्च
पालकश्च जगत्प्रभो || १४ ||

इत्येवमुक्तः स मनुः कपिलेन महात्मना |
प्रत्युवाच अहात्मानं कपिलं संशितव्रतम् || १५ ||

मनुरुवाच

यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकाम् |
चिकीर्षूणा यतः कार्यं किं स्थानार्थनया तव || १६ ||

हिरण्यगर्भः सुमहत् तपस्तेपे पुराद्भुतम् |
स मे ययाचे तपसे स्थानं कस्मै न च द्विज || १७ ||

शम्भुः सम्भोगरहितो देवमानेन वत्सरान् |
आयुतानि तपस्तेपे सोऽपि स्थानं न चैक्षत || १८ ||

देवेन्द्रो वीतिहोत्रश्च शमनो रक्षसां पतिः |
यादःपतिर्मातरिश्वा धनाध्यक्षतथैव च || १९ ||

एते तेपुस्तपस्तीव्रं दिक्पालत्वमभीप्सवः |
स्थानं न मार्गयामासुः किञ्चनापि महामुने || २० ||

देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा |
बहूनि पुण्यभाञ्ज्यत्र तिष्ठन्ति कपिल क्षितौ || २१ ||

तेषामेकतमं त्वं चेदासाद्य कुरुषे तपः |
स्थानं ब्रह्मंस्तपःसिद्ध्र्न भविष्यति तत्र किम् || २२ ||

मत्तः स्थानार्थना तावत् केवलं ते विकत्थनम् |
अयं विकत्थनो धर्मो युज्यते न तपस्विनाम् || २३ ||

मार्कण्डेय उवाच

एतच्च्रुत्वा वचस्तस्य मनोः स्वायम्भुवस्य तु |
चुकोप कपिलः सिद्धः प्रोवाच च तदा मनुम् || २४ ||

कपिल उवाच

त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् |
स्थानं मया प्रार्थितं ते तन्मां क्षिपसि हेतुभिः || २५ ||

अनेनात्युग्रवचसा तवैवाहं न चक्षमे |
स्वयं त्रिभुवनाध्यक्ष इति ते गर्व ईदृशः || २६ ||

अक्षम्यं ते वचो मेऽद्य प्रार्थनायां विकत्थनम् |
यत् त्वं वदसि तस्य त्वं फलमेतदवाप्नुहि || २७ ||

इदं त्रिभुवनं सर्वं सदेवासुरमानुषम् |
हतप्रहतविध्वस्तमचिरेण भविष्यति || २८ ||

येनेयमुद्धृता पृथ्वी येन वा स्थापिता पुनः |
यो वास्या अन्नकर्ता स्वाद् यो वास्याः परिरक्षकः || २९ ||

त एव सर्वे हिंसन्तु सकलं सचराचरम् |
नचिराद्द्रक्ष्यसि मनो जलपूर्णं जगत्त्र्यम् |
हतप्रहतविध्वस्तं तव गर्वविशातनम् || ३० ||

एवमुक्त्वा मुनीन्द्रऽसौ कपिलस्तपसां निधिः |
अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः || ३१ ||

कपिलस्य वचः श्रुत्वा विषण्णवदनो मनुः |
भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन || ३२ ||

ततः स्वायम्भुवो धीमांस्तपसे धृतमानसः |
हिताय सर्वजगतां दिदृक्षुर्गरुडध्वजम् || ३३ || विशालां बदरीं यातो गङ्गाद्वारान्तिकं खलु |
तत्र गत्वा जगद्धर्ता मनुः स्वायम्भुवः स्वयम् |
ददर्श बदरीं तत्र पुण्यां पापप्रणाशिनीम् || ३४ ||

सदा फलवतीं नित्यं मृदुशाद्बलमञ्जरीम् |
सुच्छायां मसृणां शीर्णशुष्कपत्रविवर्जिताम् || ३५ ||

गङ्गातोयौधसंसिक्त-शिखामूलान्तराखिलाम् |
उपास्यमानां सततं नानामुनितपोधनैः || ३६ ||

तत्स्थानं सर्वतो भद्रं नानाभृङ्गगणान्वितम् |
फुल्लारविन्दसलिलं रमणीयं वृषप्रदम् || ३७ ||

प्रविश्य तपसे यत्नमकरोल्लोकभावनः |
स भूत्वा नियताहारः परमेण समाधिना || ३८ ||

आराधयामास हरिं जगत्कारणकारणम् |
सर्वेषां जगतां नाथं नीलमेघाञ्जनप्रभम् || ३९ ||

शङ्खचक्रगदापद्मधरं कमललोचनम् |
पीताम्बरधरं देवं गरुडोपरिसंस्थितम् || ४० ||

जगन्मयं लोकनाथं व्यक्ताव्यक्तस्वरूपिणम् |
जगद्बीजं सहस्राक्षं सहस्रशिरसं प्रभुम् || ४१ ||

सर्वव्यापिनमाधारं नारायणमजं विभुम् |
जपन्नेतत्परं मन्त्रं सर्ववेदमयं मनुः || ४२ ||

हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे |
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे || ४३ ||

इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु |
प्रससाद जगन्नाथः केशवो नाचिरादथ || ४४ ||

ततः क्षुद्रझषो भूत्वा दूर्वादलसमप्रभः |
कर्पूरकलिकायुग्म-तुल्यनेत्रयुगोज्ज्वलः || ४५ ||

तपस्यन्तं महात्मानं मनुं स्वायम्भुवं मुनिम् |
आससाद तदा क्षुद्रमत्स्यरूपी जनार्दनः || ४६ ||

उवाच तं महात्मानं मनुं स्वायम्भुवं तदा |
सुसन्त्रस्तं स कारुण्ययुक्तं भीतिसगद्गदम् || ४७ ||

तपोनिधे महाभाग भीतं मां त्रातुमर्हसि |
नित्यमुद्वेजितं मत्स्यैर्विशालैर्भक्षितुं प्रति || ४८ ||

प्रत्यहं मां महाभाग मीना धावन्ति भक्षितुम् |
समन्ततोऽधिकाहन्तु त्वं नाथ गोपितुं क्षमः || ४९ ||

अद्य प्रभूतैर्विपुलैर्दारितः पृथुरोमभिः |
विश्रान्तोऽहं क्षुद्रतरो न च शक्तः पलायने || ५० ||

प्राणाकाङ्क्षी महात्मानं भवन्तं शरणं मुनिम् |
प्राप्तोऽहञ्चेदनुक्रोशस्तेऽस्ति मां प्रतिपालय || ५१ ||

हयोद्भ्रान्तमनाश्चाहं वृक्षच्छायां च चञ्चलाम् |
दृष्ट्वा चलतरङ्गांश्च मत्स्यादिव विभेम्यहम् || ५२ ||

मार्कण्ड्ये उवाच

इति तस्य वचः श्रुत्वा मनुः स्वायम्भुवस्ततः |
कृपया परया युक्तः प्रोचेऽहं रक्षिता तव || ५३ ||

ततः करोदरे तोयमादायाधाय तत्र तम् |
समक्षं क्षुद्रमत्स्यस्य विहारं समलोकयत् || ५४ ||

ततो दयालुं स मनुस्तं मत्स्यं चारुरूपिणम् |
अलिञ्जरे तोयपूर्णे न्यधाद्विपुलभोगिनि || ५५ ||

स तस्मिन् मणिके मत्स्यो वर्धमानो दिने दिने |
सामान्यरोहितप्राय-देहोऽभून्नचिरादथ || ५६ ||

दशघटजलपूर्णं प्रत्यहं स महात्मा
मणिकमतिकुर्वन् वर्धयामास मत्स्यम् |
स च सुविशदनेत्रो मत्स्यबालोऽचिरेण
मणिकसलिलमध्ये लोमशः पीनदेहः || ५७ ||

इति श्रीकालिकापुणाणे मत्स्यरूप-कथने द्वात्रिंशोऽध्यायः ||

Kapitel 33

त्रयस्त्रिंशोऽध्यायः

मार्कण्डेय उवाच

तं यथा पीवरतनुं दृष्ट्वा मत्स्यं मनुः स्वयम् |
गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ || १ ||

तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे |
एकयोजनविस्तीर्णं सार्धयोजनमायतम् || २ ||

नानामीनगणोपेतं शीतामलजलोत्करम् |
तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा || ३ ||

पालयामास सुतवत् कृपया परया युतः |
सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् || ४ ||

न ममौ तत्र सरसि वृहत्त्वात् द्विजसत्तमाः |
स एकदा महामत्स्यः पूर्वापरतरद्वये || ५ ||

शिरः पुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः |
स्वायभुवं महात्मानं चुक्रोश त्राहि मामिति || ६ ||

तं तथा च मनुर्ज्ञात्वा क्रोशन्तं स्थूलपुच्छकम् |
आससाद तदा मत्स्यं जग्राह च करेण तम् || ७ ||

न शक्नोम्यहमुद्धर्तुं पृथरोमाणमद्भुतम् |
इति सञ्चिन्तयन्नेव प्रोद्दधार करेण तम् || ८ ||

भगवानपि विश्वात्मा मत्स्यरूपी जनार्दनः |
स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत् || ९ ||

ततः कराम्यामुद्धृत्य स्कन्धे कृत्वा द्रुतं मनुः |
निनाय सागरं तत्र तोये च निदधे ततः || १० ||

यथेच्छमत्र वर्धस्व न कोऽपि त्वां वधिष्यति |
अचिरेणैव सम्पूर्णदेहं त्वं समवाप्नुहि || ११ ||

इत्युक्त्वा स महाभागः सर्वप्राणमृतां वरः |
लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः || १२ ||

मत्स्योऽपि नचिरादेव पूर्णकायस्तदा महान् |
सर्वतः पूरयामास देहाभोगेन सागरम् || १३ ||

तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितम् |
शिलाभिर्निचितं स्फीतं मानसाचलसंनिभम् || १४ ||

रुन्धन्तं सागरं सर्वं देहाभोगाचलीकृतम् |
स्वायम्भुवो मनुर्धीमान् मेने मत्स्यं न तं तदा || १५ ||

ततः पप्रच्छ तं साम्ना मत्स्यं स्वायम्भुवो मनुः |
विचिन्त्य लघिमानं च पश्यन् मूर्ति तदाद्भुतम् || १६ ||

मनुरुवाच

न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम |
महत्त्वं लघिमानं ते चिन्तयन् सुमहत्तर || १७ ||

त्वं ब्रह्माह्यथवा विष्णुः शम्भुर्वा मीनरूपधृक् |
न चेद्गुह्यं महाभाग तन्मे वद महामते || १८ ||

मत्स्य उवाच

आराध्योऽहं त्वया नित्यं यो हरिः स सनातनः |
तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः || १९ ||

यत् त्वमिच्छसि भूतेश मत्तस्त्वं मीनमूर्तितः |
तत् करिष्येऽद्य तां मूर्तिमिमां विद्धि मनो मम || २० ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः |
ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवम् || २१ ||

मनुरुवाच

नमस्ते जगदव्यक्तपरापरपते हरे |
पावकादित्यशीतांशु नेत्रत्रयधराव्यय || २२ ||

जगत्कारणसर्वज्ञ जगद्धाम हरे पर |
परापरात्मरूपात्मन् पारिणां पारकारण || २३ ||

आत्मानमात्मना धृत्वा धरारूपधरो हरे |
विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम || २४ ||

सर्ववेदमयश्रेष्ठ धामधारणकारण |
सुरौघपरमेशान नारायण सुरेश्वर || २५ ||

अयोनिस्तं जगद्योनिरपादस्त्वं सदागतिः |
त्वं तेजः स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर || २६ ||

त्वमनादिः समस्तादिस्तं नित्यानन्तरोऽन्तरः |
यद्धैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम् || २७ ||

तद्बीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च |
सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् || २८ ||

नमि नमस्ते विश्वेश लोकानां प्रभव प्रभो |
सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् || २९ ||

यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता |
ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः || ३० ||

कस्ते भावं वक्तुमीशः परेश
स्थूलात्स्थूलो योऽनुरूपोर्थवर्गात् |
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू-
दादित्यवर्णं तमसः परस्तात् || ३१ ||

सहस्रशीर्षा पुरुषः सहस्रपात्
सहस्रचक्षुः पृथिवीं समन्ततः |
दशाङ्गुलं यो हि समत्यतिष्ठत्
स मे प्रसीदत्विह विष्णुरुग्रः || ३२ ||

नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे |
नमस्ते जगदानन्द नमस्ते भक्तवत्सल || ३३ ||

मार्कण्डेय उवाच

स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् |
वासुदेवस्तदा प्राह मेघगम्भीरनिःस्वनः || ३४ ||

श्रीभगवानुवाच

तुष्टोऽस्मि तपसा तेऽद्य भक्त्यः चापि स्तुतो मुहुः |
सपर्यया च दानेन वरं वरय सुव्रत || ३५ ||

इष्टार्थं सम्प्रदास्यामि तुभ्यं नात्र विचारणा |
वरयस्वेप्सितान् कामान् लोकानां वा हितं च यत् || ३६ ||

मनुरुवाच

यदि देयो वरोमेऽद्य लोकानां यो हितो भवेत् |
तन्मे देहि वरं विष्णो तं वक्ष्यामि शृणुष्व मे || ३७ ||

शशाप कपिलः पूर्वं मदर्थे भुवनत्रयम् |
हतप्रहतविध्वंस्तं सकलं ते भवेदिति || ३८ ||

येनेयमुद्धृता पृथ्वी येनेयं प्रतिपालिता |
संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमाम् || ३९ ||

ततोऽहं दीनहृदय स्त्वामेव शरणं गतः |
न यथेदं त्रिभुवनं भविष्यति जलप्लुतम् |
हतप्रहतविध्वस्ते तथा त्वं देहि मे वरम् || ४० ||

श्री भगवानुवाच

न मत्तः कपिलो भिन्नस्तथा न कपिलादहम् |
यदुक्तं तेन मुनिना मयोक्तं विद्धि तन्मनो || ४१ ||

तस्माद् यदुदितं तेन तत्सत्यं नान्यथा भवेत् |
करिष्ये तत्र साहाययं स्वायम्भुव निबोध तत् || ४२ ||

हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये |
अ चिरादेव तत्रोयं भीषार्ययामि वै मनो |
स्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा || ४३ ||

यावज्जलप्लवस्तावद्यथा कार्यं त्वया मनो |
तन्मे निगदतः पथ्यं शृणुष्वावहितोऽधुना || ४४ ||

सर्वयज्ञियकाष्ठौघैरेका नौका विधीयताम् |
तामहं दृढयिष्यामि यथा नो भिद्यते जलैः || ४५ ||

दशयोजनविस्तीर्णां त्रिंशद्योजनमायताम् |
धारिणीं सर्वबीजानां भुवनत्रयवर्धिनीम् || ४६ ||

सर्वयज्ञियवृक्षाणां भूरिवल्वलतन्तुभिः |
नवयोजनदीर्घां तु व्यामत्रयसुविस्तृताम् || ४७ ||

कुरुष्व त्वं मनो तूर्णं बृहतीमीरिका वटीम् |
जगद्धात्री जगन्माया लोकमाता जगन्मयी |
दृढयिष्यति तां रज्जुं न त्रुत्यति यथातथा || ४८ ||

सर्वाणि वीजान्यादाय सवेदान् सप्त वै ऋषीन् |
तस्यां नावि निषण्णस्त्वं वर्तमाने जलप्लवे || ४९ ||

दक्षेण सह सङ्गम्य स्मरिष्यसि मनो मम |
स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति |
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा || ५० ||

यावत् प्रहतविध्वस्त-हतं स्याद्भुवनत्रयम् |
तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः || ५१ ||

जहप्लुते तु सम्पूर्णे शृङ्गे मम च तां तरीम् |
त्वं तदा वटीरिकया सन्धानिष्यसि वै दृढम् || ५२ ||

वद्धायां नावि मे शृङ्गे देवमानेन वत्सरान् |
सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलम् || ५३ ||

ततः शुष्केषु तोयेषु प्रोतुङ्गे शिखरे गिरेः |
हिमाचलस्य बद्ध्वाहं तस्मिन्नावमहं मनो || ५४ ||

अहमाराधितो येन जप्येन भवता मनो |
सर्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन माम् || ५५ ||

मार्कण्डेय उवाच

इति दत्त्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः |
अन्तर्दधे जगन्नाथो लोकानुग्रहकारकः || ५६ ||

स्वायम्भुवोऽपि भगवानन्तर्धानं गते हरौ |
यथोक्तं हरिणा पूर्वं नावं रज्जुं तथाकरोत् || ५७ ||

सर्वयज्ञियवृक्षौघाञ्छित्वा स्वायम्भुवस्तदा |
उद्धृत्य कारयामास वास्यादिभिरसौ तरिम् || ५८ ||

तेषां अल्कसमुद्भूतसूत्रसङ्घर्वटीरिकाम् |
पूर्वोक्तेन प्रमाणेन कारयामास वै मनुः || ५९ ||

ततः कालेन महता वृत्तं युद्धं महाद्भुतम् |
विष्णोर्यज्ञवराहस्य शरभस्य हरस्य च || ६० ||

ततो जलप्लवे जाते विध्वस्ते भुवनत्रये |
तथा रज्ज्वा तरिं बध्वा वीजान्यादाय सर्वशः || ६१ ||

वेदानृषींस्तदा सप्तदशन्चादाय वै मनुः |
तस्यां नावि समाधाय तोयमग्रे चराचरे || ६२ ||

स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार नौगतः |
ततो जलानामुपरि सशृङ्ग इव पर्वतः || ६३ ||

दितश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् |
आगतस्तत्र नचिराद्यत्रास्ते तरिणा मनुः || ६४ ||

तरिमारुह्य विपुले तोयराशौ भयङ्करे |
यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात् || ६५ ||

जले प्रकृतिमापन्ने शृङ्गे बध्वा वटीरिकाम् |
तां नावं नोदयामस सहस्रं दैववत्सरान् || ६६ ||

स्वं नावमवष्टभ्य दधार परमेश्वरः |
योगनिद्रा जगधात्री समासीदद्वटीरिकाम् || ६७ ||

ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् |
पश्चिमं हिमवच्छृङ्गं सुमग्नं तोयमध्यतः || ६८ ||

द्वे सहस्रे योजनानामुच्छ्रितस्तय हिमप्रभो |
पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितम् || ६९ ||

तस्मिन् शृङ्गे ततो नावं बध्वा मत्स्यात्मधृग् हरिः |
जगाम शोषणायाशु जलानां जगतां पतिः |
एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा || ७० ||

मार्कण्डेय उवाच

कपिलस्य तु शापेन कृत आकालिको लयः |
अकालिकोऽयं प्रलयो यतो भगवता कृतः |
इति वः कथितं सर्वं यथावद्द्विजसत्तमाः || ७३ ||

इति श्रीकालिकापुराणे अकालप्रलयकथने त्रयस्त्रिंशोऽध्यायः |

Kapitel 34

चतुस्त्रिंशोऽध्यायः

मार्कण्डेय उवाच

यथा पुनरभूत् सृष्टिरकालप्रलये गते |
येन चैवोद्धृता पृथ्वी तच्छृणन्तु द्विजोत्तमाः || १ ||

व्यतीते प्रलये विष्णुः कूर्मरूपी महाबलः |
पृष्ठे निधाय पृथिवीमुद्धृत्याथ सपर्वताम् |
समाञ्चकार सकलां पूर्ववत्परमेश्वरः || २ ||

शरभस्य वराहस्य तत्पुत्राणां पदक्रमैः |
यत्र भूमिर्विशीर्णाभूत्तां तां समां कमठोऽकरोत् || ३ ||

कृत्वा समां ततो भूमिं पूर्ववत् परमेश्वरः |
अनन्तं धारयामास पृथिवीतलसंश्रितम् || ४ ||

ततो ब्रह्मा च विष्णुश्च हरश्च परमेश्वरः |
नावोदरस्थान् सप्तमुनीन्मनुं स्वायम्भुवं तदा |
नरनारायणौ चोभौ दक्षञ्चोचुः समागताः || ५ ||

शृण्वन्तु मुनयः सर्वे नरनारायणौ तथा |
दक्षस्वायम्भुवमनौ वयं ब्रूमोऽधुना च यत् || ६ ||

सृष्टिर्नष्टा वराहस्य शरभस्य च सङ्गरात् |
अतोऽस्माकं यथाकार्या सृष्टिराकर्णयन्तु तत् || ७ ||

नरनारायणवेतौ सृष्ट्यर्थं समुपस्थितौ |
संस्थापनाय देवानां परमं तप्यतां तपः || ८ ||

अप्यायय तपसा चोभौ जनलोकगतान् सुरान् |
आनयन्त्वपराञ्छश्वत् संसृजन्तु गणान् बहून् || ९ ||

नक्षत्राणि ग्रहांश्चैव तेषां स्थानानि वै मुने |
एतयोस्तपसा यान्तु स्थिरतां पूर्वजन्मनो || १० ||

सूर्यस्य रथसंस्थानं तथा चन्द्ररथस्थितिम् |
करोत्वयं महाभागः स्वयमेव जनार्दनः || ११ ||

पृथिव्यां सर्ववीजानि स्वायम्भुवमनो त्वया |
उप्यन्तां सर्वतः शस्यपूर्णा भवतु मेदिनी || १२ ||

प्ररोहयोषधीर्वृक्षान् लतावल्लीश्च सर्वतः |
स्वायम्भुव महान्त्येतत् प्राप्तान्यृतुफलानि च || १३ ||

दक्षः सप्तमुनीन्द्रैस्तु यज्ञेन यजतां हरिम् |
वराहपुत्रदेहोत्थमग्नित्रयमिदं यजन् || १४ ||

असौ यज्ञो वराहस्य देहाज्जातस्तु सृष्ट्ये |
अनेनैव तु यज्ञेन दक्षः सृष्टिं तनोत्विमाम् || १५ ||

नरनारायणाभ्यान्तु मुनिभिः सप्तभिस्तथा |
दक्षेण भवता चापि यज्ञेनैभिस्तथाग्निभिः || सम्पूर्यतामियं सृष्टिः स्वर्गे भुवि रसातले || १६ ||

वयं च सृष्टिमाप्यायय यथा सम्पद्यते त्वियम् |
यतिष्यामस्तथा नित्यं यूयं कुरुत सर्जनम् || १७ ||

ततः सम्पद्यतां सृष्टिर्यथा पूर्वं तथैव च |
प्रथमं त्वन्तु वीजानि प्ररोहय मनोऽधुना || १८ ||

मार्कण्डेय उवाच

इत्यादित्य महाभागा विधिविष्णुवृषध्वजाः |
यथास्थानं स्थापयितुं पर्वतान् प्रययुस्ततः || १९ ||

मेरुमन्दरकैलासहिमवत्प्रभृतिष्वथ |
पुराणि सर्वदेवानां ते वै चक्रुः पृथक् पृथक् || २० ||

परित्यज ततो नावमवधृत्य वसुन्धराम् |
स्वायम्भुवः क्षितौ वीजान्यवपत् सर्वसम्पदे || २१ ||

ततो वृक्षलतावल्लीगुल्मानि च वनानि च |
बालशस्यानि धान्यानि तथैवौषधयः समाः || २२ ||

बीजकाण्डप्ररोहाश्च प्रताना जलजानि च |
प्रफुल्लानि विकोशानि फलकन्ददलानि च || २३ ||

वभूवुः शाद्बलान्येव सर्वेषां प्राणवृद्धये |
पृथिवी शस्यसम्पना वृक्षास्ते शाद्वलाः शुभाः |
दृष्टाः पूर्वं यथा तस्मान्मनुनाचित्तहर्षिणा || २४ ||

ततो नरो महायोगी तपस्तेपे महत्तमम् |
नारायणश्च देवानां भावनाय महामतिः || २५ ||

नारायणो नरश्चोभौ परमावृषिसत्तमौ |
तपसाराध्य परमं तेजोमयमनामयम् || २६ ||

आनिन्याते जनगणान् देवान् देवर्षिसत्तमान् |
ये मृता अमराः पूर्वं गणशस्तान् पृथक् पृथक् |
तपोबलेन महत सर्जयामासतुर्मुनि || २७ ||

सूर्याचन्द्रमसौ देवौ दिक्पालांश्च तथा दश |
जनार्दनः स्वयं चक्रे पातालतलवासिनः || २८ ||

सूर्याचन्द्रमसोश्चक्रे यथासंस्थानमच्युतः |
पुर्ववद् योजयामस दिवारात्रस्थितौ च तौ || २९ ||

ओषधिषु च जातासु यज्ञवृक्षेषु सत्तमाः |
शस्यबीजेषु जातेषु देवेषु च पृथक् पृथक् || ३० ||

दक्षः कर्तुं समारेभे ज्योतिष्टोमं महाध्वरम् |
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः || जमदग्निर्भरद्वाज एते सप्तर्षयोऽमलाः || ३१ ||

एतैः सप्तमुनीन्द्रैस्तु दक्षो ब्रह्मसुतः स्वयम् |
महायज्ञं ततश्चक्रे यावद्द्वादशवत्सरान् || ३२ ||

हूयमानेषु तत्रैव त्रिष्वग्निषु पुनः पुनः |
इज्यमाने वराहे तु यज्ञरूपे तदा द्विजैः |
चतुर्विधाः प्रजा जाता यज्ञादेव द्विजोत्तमाः || ३३ ||

ततो दक्षस्य सञ्जाताः पुत्र्यः पुण्यास्त्रयोदश |
स्वरूपगुणसम्पन्नाः सृष्ट्यर्थममितप्रजाः || ३४ ||

ताः पुत्रीः प्रददौ दक्षः कश्यपाय महात्मने |
ताभ्यो जाताश्च बहवस्तैर्व्याप्तं सकलं जगत् || ३५ ||

स सर्वासां प्रजानां तु कश्यपो जनको ह्यभूत् |
निश्चितं द्विजशार्दूलाः कश्यपात् सकलं जगत् || ३६ ||

तासां नामानि तज्जाताःप्रजाः सर्वाः पृथक् पृथक् |
शृणवन्तु मुनयः सर्वे सम्यक् कथयतो मम || ३७ ||

अदितिर्दितिर्दनुः काला दनायूः सिंहिका मुनिः |
क्रोधा प्रधा वरिष्ठा च विनता कपिला तथा || कद्रूस्त्रयोदशसुता एता दक्षस्य कीर्तिताः || ३८ ||

सञ्जातो दक्षिणाङ्गुष्ठान्मनसा ध्यायतो विधेः |
तेन देवमनुष्येषु दक्ष इत्येव कथ्यते || ३९ ||

ब्रह्मणो मानसाःपुत्रा दश पूर्वं प्रकीर्तिताः |
तेषां षट्सृष्टिकर्तारो व्यतीतेऽस्मिन् जनक्षये || ४० ||

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः |
मरीचेस्तनयो जातः कश्यपो लोकभावनः || ४१ ||

अस्यैव दक्षकन्याभ्यः प्रजा जज्ञेऽथ भूरिशः |
अस्य जायाप्रजातानां नामतो विनिबोधत || ४२ ||

धाता मित्रोऽर्यमा शक्रो वरुणः सोम एव च |
भर्गो विवस्वान् पूषा च सवितृत्वष्टुविष्णवः || ४३ ||

अदितेर्द्वादशसुता आदित्यास्ते प्रकीर्तिताः |
एषां कनीयान् गुणवान् सदा यस्तपतिः प्रजाः || ४४ ||

स वै वंशकरो मुख्यो गद्यते वो दिवाकरः |
एक एव दितेः पुत्रो हिरण्यकशिपुर्बली || ४५ ||

चत्वारस्तस्य तनया हृष्टा मदबलान्विताः |
प्रह्लादो ह्यथ संह्लादो वाष्कलः शिबिरेव च || ४६ ||

प्रह्लादस्य त्रयः पुत्रास्तेषामाद्यो विरोचनः |
कुम्भो निकुम्भो बलवांस्त्रयः प्राह्लादजाः स्मृताः || ४७ ||

विरोचनसुतो जातो दानशौण्डो बलिर्महान् |
बलेश्च पुत्रो विदितो वाणो नाम महाबली || ४८ ||

शम्भोरनुचरः श्रीमान् महाकालाह्वयश्च सः |
बाणस्य च शतं पुत्राः कुसुम्भमकरादयः || ४९ ||

चत्वारिंशद्दनोः पुत्रा विप्रचित्तिपुरःसराः |
शम्बरो नमुचिश्चैव पुलोमा च तथैव च || ५० ||

असिलोमा तथा केशी दुर्जयोऽयःशिरास्तथा |
अश्वशीर्षो क्षयः शङ्कुर्वियन्मूर्धा महाबलाः || ५१ ||

वेगवान् केतुमांश्चैव स्वयं स्वर्भानुरेव |
अश्वो ह्यश्वपतिः कुण्डो वृषपर्वाजकस्तथा || ५२ ||

अश्वग्रीवश्च सूक्ष्मश्च तुरुण्डुर्माण्डलस्तथा |
ऊर्धबाहुश्चैकचक्रो विरूपाक्षो हराहरौ || ५३ ||

नियन्त्रश्च निकुम्भश्च कूपटश्चपटुस्तथा |
सरभः सुलभश्चैव सूर्याचन्द्रमसौतथा || ५४ ||

अन्यावेतौ दनोः पुत्रौ सूर्याचन्द्रमसौ तथा |
दिवाकर-निशानाथौ तावन्यौ देवपुङ्गवौ || ५५ ||

एषां पुत्रैश्च पौत्रैश्च तत्पुत्रैश्चैव भूरिभिः |
जगद्व्याप्तमिदं सर्वं बलवीर्यसमन्वितैः || ५६ ||

दनायुषोऽभवन् पुत्राश्चत्वारो बलवत्तराः |
वीरभद्रो विक्षरश्च वत्सो वृत्तस्तथैव च || ५७ ||

एषां चतुर्णां वहवः पुत्रा जाता द्विजोत्तमाः |
रूपसत्वबलोपेता एकैकस्य शतंशतम् || ५८ ||

कालायास्तनया जाताः कालेया इति विश्रुताः |
विख्यातास्ते महावीर्याश्चत्वारो दानवाधिपाः || ५९ ||

विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च |
क्रोधशक्रस्तथा चैते कालापुत्राः प्रकीर्तिताः || ६० ||

सिंहिकायाः सुतो जातो राहुश्चन्द्रार्कमर्दनः |
सुचन्द्रश्चन्द्रहन्ता च तथा चन्द्रविमर्दनः || ६१ ||

एगवान् केतुमान् चैव अयः सुर्भानुरेव च |
अश्वोद्यपतिः कृष्टुरष्टपर्वाजुस्रुस्तथा || ६२ ||

क्रोधायास्तनया जाताः क्रूरकर्मकरास्तथा |
सिंहिकाचैव क्रोधा च द्वे सुते क्रूरिके सदा || ताभ्यां च प्रभवो वंशो ह्यतः क्रूरतरः स्मृतः || ६३ ||

एक एव मुनेः पुत्रो जातः शुक्रः कविर्महान् |
दैत्यदानवकालेयप्रभृतीनां सदा गुरुः || ६४ ||

चत्वारस्तस्य तनया जाता असुरयाजकाः |
त्वष्टावरस्तथात्रिश्च सौकलश्चेति वाग्मिनः || ६५ ||

तेजसा सूर्यसदृशा ब्रह्मलोकःप्रभावनाः |
असुराणां सदैत्यानां कालेयानां तथैव च || ६६ ||

क्रोधात्मजानाञ्च तथा सिंहिकातनयस्य च |
सूतिप्रसूतिभिः सर्वं जगद्व्याप्तं चराचरम् || ६७ ||

तेषां तु यान्यपत्यानि वर्धितानि क्रमद्द्विजाः |
तेषां बहुत्वात् सङ्ख्यातं चिरेणापि न शक्यते || ६८ ||

तार्क्ष्यश्चारिष्टनेमिश्च अनूरुर्गरुडस्तथा |
आरुणिर्वारुणिश्चैव विनतातनयाः स्मृताः || ६९ ||

शेषो वासुकिराजश्च तक्षकः कुलिकस्तथा |
कूर्मश्च सुमनाश्चेति काद्रवेयाः प्रकीर्तिताः || ७० ||

भीमसेनोग्रसेनश्च सुपर्णो गरुडस्तथा |
गोपतिर्धृतराष्ट्र सूर्यवर्चाश्च वीर्यवान् || ७१ ||

अर्कदृष्टः प्रयुक्तश्च विश्रुतः सुश्रुतस्तथा |
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्बली || ७२ ||

शालिशीर्षश्च पर्जन्यः कलिर्नारद एव च |
इत्येते देव गन्धर्वा मुनिपुत्राः प्रकीर्तिताः || ७३ ||

अनवद्यां सानुरागां संवरां मार्गणां प्रियाम् |
असूयां सुभगां भीमामिति कन्यामसूयत || ७४ ||

प्राधा सर्वगुणोत्थानात् कश्यपात्तु तपोधनात् |
विश्वावसुः सुचन्द्रश्च सुपरणः सिद्ध एव च || ७५ ||

बर्हिः पूर्णश्च पूर्णाङ्गो ब्रह्मचारी रतिप्रियः |
भानुश्च दशमश्चैते प्राधापुत्राः प्रकीर्तिताः || ७६ ||

इत्येते देवगन्धर्वाः सन्ततं पुण्यलक्षणाः |
प्राधासूत महाभागा देवी देवर्षिसत्तमात् || ७७ ||

अलम्बुषा मिश्रकेशी गामिनी च मनोरमा |
विद्युत्पन्नानधारम्भा ह्यरुणा रक्षितातुला || ७८ ||

सुवाहुः सुरता चैव मुरजा सुप्रिया तथा |
वपुस्तिलोत्तमा चेति मुख्या अप्सरसः स्मृताः || ७९ ||

अतिबाहुस्तुम्बुरुश्च हाहा हूहूस्तथैव च |
गन्धर्वाणामिमे मुख्या देवतुल्याः प्रकीर्तिताः || ८० ||

अमृतं ब्राह्मणा गावो मुनयोऽप्सरसस्तथा |
कपिलातनयाः प्रोक्ता महाभागा महोत्सवाः || ८१ ||

इति दक्षसुतानां ये कश्यपात्तनयाः स्मृताः |
तैरिदं सकलं व्याप्तं जगत्स्थावरजङ्गमम् || ८२ ||

एवं यज्ञवराहस्य यज्ञरूपस्य पातनात् |
त्रिभ्योऽग्निभ्यो मनोस्तस्मात् स्वायम्भुवमहात्मनः || ८३ ||

मुनिभ्यश्चैव सप्तम्यः कश्यपादिभ्य एव च |
नरनारायणाभ्यान्तु व्यतीतेऽकालिके लये |
पुनः प्रजाः पुरा सृष्टा हरिणानेकरूपिणा || ८४ ||

एवं पुनरभूत् सृष्टिः सृष्टिस्थित्यन्तकारिणः |
हरेस्तस्य प्रसादेन नरनारायणात्मनः || ८५ ||

इति श्रीकालिकापुराणे सृष्टिकथने चतुस्त्रिंशोऽध्यायः || ३४ ||

Kapitel 35

पञ्चत्रिंशोऽध्यायः

मार्कण्डेय उवाच

ईश्वरः शारभं कायं यथा तत्याज यत्नतः |
तन्मे निगदतो भूयः शृणुध्वं द्विजसत्तमाः || १ ||

हते यज्ञवराहे तु ब्रह्मा लोकपितामहः |
उवाच शरभं गत्वा सामयुक्तं जगद्धितम् || २ ||

देहाभोगेन भवतः पूरितं भूरियोजनम् |
उपसंहर तस्मात् त्वं कायं लोकभयङ्करम् || ३ ||

तव युद्धेन सकलं प्रणष्टं भुवनत्रयम् |
आकाशं गन्तुं त्वां दृष्ट्वा विभेत्यद्य जनार्दनः |
तस्मात् त्वमूर्धलोकानां हिताय त्यज वै तनुम् || ४ ||

मार्कण्डेय उवाच

ततस्तस्य वचः श्रुत्वा सुरज्येष्ठस्य शङ्करः |
तत्याज शारभं कायं तोयोपर्येव तत्क्षणात् || ५ ||

त्यक्तस्य तस्य देहस्य शङ्करेण महात्मना |
अष्टौ पादा अष्टमूर्तेस्तेषु चाष्टसु भेजिरे || ६ ||

आद्यन्तु दक्षिणं पादमाकाशमगमद्द्रुतम् |
तद्वामं मिहिरं भेजे पश्चाद् दक्षिणजं विधौ || ७ ||

वामन्तु ज्वलनं भेजे पृष्ठाग्रं पद्गतं क्षितिम् |
पृष्ठाग्रवामं सलिलं तत्पश्चाद् दक्षिणं तथा || ८ ||

वायौ वामपदं भेजे होतारं सर्वतोमुखम् |
एवं तस्याष्टमूर्तेस्तु अष्टमूर्तिषु तत्क्षणात् |
अष्टौ पादास्तथा भेजुः स्वं त्वं तेजो ययुः पदम् || ९ ||

मध्यं तु शारभं कायं शङ्करस्य महात्मनः |
कपाली भैरवो भूतश्चण्डरूपी दुरासदः || १० ||

मस्तिष्कमेदसा युक्तं मांसं जुह्वति ते शुचौ |
ब्रह्मकपालपात्रस्थं सुराभिर्देवपूजनम् || ११ ||

बलिर्मनुष्यमांसेन पानं तु रुधिरं सदा |
सुरया पारनं यज्ञे कपालोद्भटधारणम् || १२ ||

व्याघ्रचर्मपरिधानं समलं त्रिवलीवृतम् |
एवं कुर्वन्ति सततं कपालव्रतधारिणः || १३ ||

कपाली भैरवस्तेषां देवः पूज्यस्तु नित्यशः |
श्मशानभैरवो योऽसौ यो महाभैरवाह्वयः || १४ ||

बालसूर्यसमोद्योतः सदाष्टादशबाहुभिः |
विभ्राजमानो रक्ताक्षः सर्वदा नायिकाव्रजैः || १५ ||

कालीप्रचण्डाप्रमुखैः क्रीडमानस्तु नित्यशः |
सद्योदग्धनृमांसाशी गलल्लोललसद्भुजः || १६ ||

लोहिताहारविघसः प्रेताशनगतः सदा |
स्थूलवक्त्त्रोऽथ लम्बोऽष्ठो ह्रस्वस्थूलपदालयः |
विनोदी वादनो लोके साट्टहासात्तु भैरवः || १७ ||

एवं स च महादेवो महाभैरवरूपधृक् |
मध्यशारभकायेन कार्यं दध्रे महाभुजः || १८ ||

स जगाम ततो देवा हरस्य प्रमथान् प्रति |
गणैः सार्धं तथाकाशे विक्रीडति स भैरवः || १९ ||

स महाभैरवो देवः पूज्यमानो जगज्जनैः |
अद्यापि कुरुते नित्यमिष्टकामस्य साधनम् || २० ||

चैत्र-शुक्लचतुर्दश्यां मध्वासवपयःफलैः |
मांसैर्मत्स्यैः सरुधिरैः सकृद्यो भैरवं यजेत् || २१ ||

स सर्वकामान् संसाध्य भोगान् भुक्त्वा यथेष्टतः |
प्रयाति शम्भुभवनमारुह्य वृषभं परम् || २२ ||

एतद्वः कथितं सर्वं यत्पृष्टोऽहं द्विजोत्तमैः |
भवद्भिर्यच्च वोऽन्यद् वा रोचते पृच्छ मां तु तत् || २३ ||

इति श्रीकालिकापुराणे शरभकायत्यागे पञ्चत्रिंशोऽध्यायः |


Varaha und die Erde – ein Motiv des mythologischen Erzählteils.

Kapitel 36

षट्त्रिंशोऽध्यायः

ऋषयः ऊचुः

कथं वराहपुत्रोऽसौ नरको नाम वीर्यवान् |
सञ्जातो असुरसत्त्वः स देवदेवीसुतोऽपि सन् || १ ||

चिरजीवी कथं सोऽभूत् किमर्थमुदरे चिरम् |
पृथिव्यां न्यवसञ्जातः कुत्र वा स महाबलः || २ ||

सोऽसुराणां कथं राजा पुरं तस्य किमाह्वयम् |
मलिनीरतिसञ्जातः स क्षितौ पोत्रिणस्तथा || ३ ||

श्रूयते मुनिशार्दूल कथं भूतस्तथाविधः |
एतत्सर्वमशेषेण पृच्छतां त्वं वदस्व नः || ४ ||

त्वं नो गुरुश्च शास्त्रा च सर्वं प्रत्यक्ष दर्शिवान् |
कथं लब्धवरो भूतो ब्रह्मणा प्रभविष्णुणा || ५ ||

मार्कण्डेय उवाच

शृण्वन्तु मुनयः सर्वे यत् पृष्टोऽहं द्विजोत्तमाः |
यथा स नरको जातो धरासुतो महासुरः || ६ ||

रजस्वलाया गोत्राया गर्भे वीर्येण पोत्रिणः |
यतो यातस्ततोभूतो देवपुत्रोऽपि सोऽसुरः || ७ ||

गर्भसंस्थं महावीरं ज्ञात्वा ब्रह्मादयः सुराः |
वराहपुत्रं दुर्धर्षं महाबलपराक्रमम् || ८ ||

गर्भ एव तदा देवाः शक्त्या दध्रुश्चिरं दृढम् |
यथा कालेऽपि सम्प्राप्ते नो गर्भाज्जायते स च || ९ ||

ततस्त्यक्तशरीरस्तु वराहस्तनयैः सह |
अतीव शोकसन्तप्ता जगद्धात्र्यभवत् क्षितिः || १० ||

शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः |
प्रकृतिस्था क्षितिर्भूता माधवेन प्रबोधिता || ११ ||

ततः कालेऽपि सम्प्राप्ते दैवशक्त्या यदा धृतः |
न गर्भः प्रसवं याति तदाभूत् पीडिता क्षितिः || १२ ||

कठोरगर्भा सा देवी गर्भभारं न चाशकत् |
यदा वोढुं तदा देवं माधवं शरणं गता || १३ ||

शरण्यं शरणं गत्वा माधवं जगतां पतिम् |
प्रणम्य सिरसा देवी वाक्यमेतदुवाच ह || १४ ||

पृथिव्युवाच

नमस्ते जगदव्यक्तरूप कारणकारण |
प्रधान पुरुषातीत स्थित्युत्पत्तिलयात्मक || १५ ||

जगन्नियोजनपर स्वाहाभोगधरोत्तम |
जगदानन्दनन्दात्मन् भगवन् जगदीश्वर || १६ ||

नियोजको नियोज्यश्च विभ्राजन विष्णुरव्यय |
नमस्तुभ्यं जगद्धातस्त्रिलोकालय विश्वकृत् || १७ ||

यः पालयति नित्यानि स्थापयत्येव तत्परः |
त्वं त्वां नियमरूपेण नमामि जगदीश्वर || १८ ||

त्वं माधवः प्रवेकश्च कामः कामालयो लयः |
प्रसूतिच्युतिहेत्वर्थ-त्राणकारणमीश्वरः || १९ ||

न यस्य ते क्लेदाय स्युरापो नोष्मा तथोष्मणे |
नशीताय भवेच्छीतं तस्मै तुभ्यं नमोनमः || २० ||

न समुद्रः प्लवकरो न शोषाय दहात्मकः |
न मृत्यवे यस्य यमस्तस्मै तुभ्यं नमोनमः || २१ ||

यच्चिद्धार्यं योगिभिः तान्तहेहै
रुन्मार्गाणां यात्यरिध्येयकृत्यम् |
नित्यं यद्रूपमार्गावसक्तं
स त्वं त्राहि त्राणमिच्छन् धरित्रीम् || २२ ||

मार्कण्डेय उवाच

इति स्तुतो हृषीकेशो जगद्धात्र्या तदा हरिः |
प्रादुर्भुतस्तदा प्राह धरित्रीं दीनमानसाम् || २३ ||

श्रीभगवानुवाच

कथं दीनमना देवि धरित्रि परिदेवसे |
तव वा किं कृता पीडा वेत्तुमिच्छामि तामहम् || २४ ||

मुखं ते परिशुष्कं तु शरीरं कान्तिवर्जितम् |
आकुलं नयनद्वन्द्वं भ्रूविभ्रमविवर्जितम् || २५ ||

ईदृशं तव रूपं तु दृष्टपूर्वं कदापि न |
रूपस्य तु विपर्यासे दुःखबीजं च भाषय || २६ ||

एतच्छ्रुत्वा वचस्तस्य माधवस्य जगत्पतेः |
विनयावनता देवी पृथ्वी प्राह सगद्गदम् || २७ ||

पृथिव्युवाच

न गर्भभारं संवोढुं माधवाहं क्षमाधुना |
भृशं नित्यं विषीदामि तस्मात् त्वं त्रातुमर्हसि || २८ ||

त्वया वराहरूपेण मलिनी कामिता पुरा |
तेन कामेन कुक्षौ मे यो गर्भोऽयं त्वयाहितः || २९ ||

काले प्राप्तेऽपि गर्भोऽयं न प्रच्यवति माधव |
कठोरगर्भा तेनाहं पीडितास्मि दिने दिने || ३० ||

यदि न त्राहि मां देव गर्भदुःखाज्जगत्पते |
न चिरादेव यास्यामि मृत्योर्वशमसंशयम् || ३१ ||

कयापि नेदृशो गर्भः पूर्वं माधव वै धृतः |
योऽचलां चालयति मां सरसीमिव कुञ्जरः || ३२ ||

एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः |
आह्लादयन् प्रत्युवाच हरिस्तप्तां लतामिव || ३३ ||

श्रीभगवानुवाच

न धरे ते महद्दुःखं चिरस्थायि भविष्यति |
शृणु येन प्रकारेण चानुभूतमिदं त्वया || ३४ ||

मलिन्या सहसङ्गेन यो गर्भः सन्धृतस्त्वया |
सोऽभूदसुरसत्वस्तु घृष्टेः पुत्रोऽपि दारुणः || ३५ ||

ज्ञात्वा तस्य न वृत्तान्तं गर्भस्य द्रुहिणादयः |
दैवीभिः शक्तिभिर्वद्धस्तव कुक्षौ तु तत्पुरः || ३६ ||

सर्गादौ यदि जायेत भवत्यास्तादृशः सुतः |
भ्रंशयेत् सकलान् लोकांस्त्रीनिमान् ससुरासुरान् || ३७ ||

अतस्तस्य बलं वीर्यं ज्ञात्वा ब्रह्मादयः सुराः |
प्राक्सृष्टिकाले ते गर्भं तथा धूर्जगतां कृते || ३८ ||

अष्टाविंशतितमे प्राप्ते आदिसर्गाच्चतुर्युगे |
त्रेतायुगस्य मध्ये तु सुतं त्वं जनयिष्यति || ३९ ||

यावत् सत्ययुगं याति त्रेतार्धं च वरानने |
तावद् वह महागर्भं दत्तः कालो मया तव || ४० ||

न यावज्जायते धात्रि गर्भस्ते ह्यतिदारुणः |
तावद् गर्भवती दुःखं न त्वं प्रप्स्यसि भामिनी || ४१ ||

मार्कण्डेय उवाच

इत्युक्त्वा भगवान् विष्णुः पृथिवीं गर्भिणीं तदा |
नाभौ पस्पर्श दयितां शङ्खाग्रेणातिपीडिताम् || ४२ ||

सा स्पृष्टा विष्णुणा पृथ्वी शरीरं लघु चासदत् |
गर्भेऽपि लघिमानं सा प्रापातीव सुखप्रदम् || ४३ ||

अगर्भा यादृशी नारी तादृशी साप्यजायत |
धृतगर्भापि मुदिता सा बभूव जगत्प्रसूः || ४४ ||

ततः पुनरिदं वाक्यमुक्त्वा स भगवान् क्षितिम् |
पुनः प्रसादयामास सामभिर्बहुभिश्च ताम् || ४५ ||

श्रीभगवानुवाच

जगधात्रि महासत्वे त्वं धृतिर्धारणात्मिका |
सर्वेषां धारणाद्देवि त्वं धात्रीति प्रगीयसे || ४६ ||

क्षमा यस्माज्जगद्धर्तुं शक्ता क्षान्तियुतात्र यत् |
सर्वं वसु त्वयि न्यस्तं यस्माद्वसुमती ततः || ४७ ||

तद्दुःखं त्यज पुत्रस्ते यदा सञ्जायते तदा |
मां स्मरिष्यसि देवि त्वं पुत्रं ते पालयाम्यहम् || ४८ ||

इदं रहस्यं कुत्रापि न प्रकाश्यं त्वया धरे |
यन्मया कथितं देवि रहस्यं परमं परम् || ४९ ||

गर्भस्तव महाभागे त्रेतायामध्यभागतः |
उत्पत्स्यते हते वीरे रावणे रामसंज्ञिना || ५० ||

मार्कण्डेय उवाच

इत्युक्त्वा भगवान् विष्णुस्तत्रैवान्तरधीयत |
आज्ञाप्य पृथिवीं देवीं गर्भभारप्रपीडिताम् || ५१ ||

धरापि कुशला क्षामा लघुकाया बलैर्युता |
अगर्भेव ययौ देवी मुदा परमया युता || ५२ ||

इति श्रीकालिकापुराणे धरादुःखविमोचने षट्त्रिंशोऽध्यायः || ३६ ||

Kapitel 37

सप्तत्रिंशोऽध्यायः

मार्कण्डेय उवाच

अथ काले बहुतिथे व्यतीते द्विजसत्तमाः |
विदेहविषये राजा जनको नाम वीर्यवान् || १ ||

सर्वराजगुणैर्युक्तो राजनीतिविवर्धितः |
सत्यवाक् शीलवान् दक्षो ब्रह्मण्यः प्रयतः शुचिः || २ ||

देवद्विजगुरूणां च पूजासु निरतः सदा |
बभूव सर्वलोकानां पितेव परिपालकः || ३ ||

तस्य राज्ञः सुतो नाभूत् प्राप्ते कालेऽपि वै यदा |
तदा स विमना भूत्वा चिन्ताध्यानपरोऽभवत् || ४ ||

एकदा सोऽथ सुश्राव नारदस्य मुखान्नृपः |
अपुत्रो नृपतिर्वृद्धो नाम्ना दशरतो महान् || ५ ||

पुत्रान् लेभे महासत्वानध्वरेण महामतिः |
अयोध्यायां नगर्यां तु ऋष्यशृङ्गपुरोगमैः || ६ ||

मुनिभिर्विहितैर्यज्ञैर्लब्धवान् सभूपः सुतान् |
रामं च भरतं चैव शत्रुघ्नं लक्ष्मणं तथा || ७ ||

महासत्वान् महावीरान् देवगर्भोपमाञ्छुभान् |
तच्छ्रुत्वा जनको राजा प्रविश्यान्तःपुरं स्वकम् |
भार्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने || ८ ||

मन्त्रयित्वा तदा राजा महिषीप्रमुखैःस्वयम् |
चतसृभिस्तु भार्याभिर्यज्ञार्थं दीक्षितोऽभवत् || ९ ||

ततः पुरोधसं राजा गौतमं मुनिसत्तमम् |
तत्पुत्रं च शतानन्दं पुरोधायाकरोन्मस्वम् || १० ||

द्वौ पुत्रौ तस्य सञ्जातौ यज्ञभूमौ मनोहरौ |
एका च दुहिता साध्वी भूम्यन्तरगता शुभा || ११ ||

नारदस्योपदेशेन यज्ञभूमिं ततो नृपः |
हलेन दारयामास यज्ञबाटावधिस्वयम् || १२ ||

तद्भूमिजातसीतायां शुभां कन्यां समुत्थिताम् |
लेभे राजा मुदा युक्तः सर्वलक्षणसंयुताम् || १३ ||

तस्यां तु जातमात्रायां पृथिव्यन्तर्हिता स्वयम् |
जगाद वचनं चेदं गौतमं नारदं नृपम् || १४ ||

पृथिव्युवाच

एषा सुता मया दत्ता तव राजन् मनोहरा |
एनां गृहाण सुभगां कुलद्वयशुभावहाम् || १५ ||

अनया मे महाभारस्तत्त्वतो हेतुभूतया |
क्षयं यास्यति भारार्ति मोचयिष्यामि दारुणाम् || १६ ||

रावणाद्या महावीराः कुम्भकर्णादयोऽपरे |
नाशं यास्यति दुर्घर्षां कृतेऽस्या राक्षसाः परे || १७ ||

त्वं च मोदं दुराघर्षं दुहितकृतिजं नृपः |
अवाप्स्यसि सुराणां च पितृणामृणशोधनम् || १८ ||

किन्त्वेकः समयः कार्यस्त्वया मम नरोत्तम |
तमहं ते प्रवक्ष्यामि पुरो नारदगौतमौ || १९ ||

निहते रावणे वीरे भारार्ति-रहिता सुखम् |
सुपुत्रं जनयिष्यामि यज्ञभूमावहं तव || २० ||

तं पुत्रवत् पालयिता भवान् नृपतिसत्तम |
यावद्व्यतीतबाल्यः सन् भविता तनयो मम || २१ ||

व्यतीतबाल्यं तमहं पालयिष्ये स्वयं नृप |
तस्य स्यान्मानुषो भावो यथा त्वं तत्करिष्यसि || २२ ||

मार्कण्डेय उवाच

इति पृथिव्या वचनं श्रुत्वा राजा तदा मुदा |
प्रणम्य पृथिवीं प्राह साम्ना स जनकाह्वयः || २३ ||

राजोवाच

यत् त्वं ब्रूषे जगद्धात्रि करिष्ये तद्वचस्तव |
ममापीष्टं प्रयच्छस्व प्रसीद परमेश्वरि || २४ ||

देवि प्रत्यक्षतो रूपं द्रष्टुमिच्छाभ्यहं तव |
शक्तिस्त्वं लोकजननी त्वां नमामि प्रसीद मे || २५ ||

इति तस्य वचः श्रुत्वा जनकस्य तदा क्षितिः |
मुनीनां सन्निधौ रूपं दर्शयामास भूभृते || २६ ||

नीलोत्पलदलश्यामामक्षमालाब्जधारिणीम् |
बाहुयुग्मेन शुभ्रेण मृणालायतशोभिना |
सुन्दरीं लोकधात्रीं तां दृष्ट्वा शश्वत् नृपोऽनमत् || २७ ||

ततः सा पृथिवी देवी सीतां जातां नृपात्मजाम् |
करेण शश्वत् संस्पृश्य वचनं चेदमब्रवीत् || २८ ||

इयं ते मानुषं भावमवाप्स्यति जगत्प्रसूः |
तव पुत्री नृपश्रेष्ठ समयं प्रतिपालय || २९ ||

मार्कण्डेय उवाच

इत्युक्त्वा पृथिवी देवी राजानं जनकाह्वयम् |
सम्भाष्य नारदादींस्तांस्तत्रैवान्तरधीयत || ३० ||

जनकोऽपि सुतां लब्ध्वा सर्वलक्षणशालिनीम् |
सुतद्वयं तथा प्राप्य मुदितः स्वगृहं ययौ || ३१ ||

ततः काले तु सम्प्राप्ते रावणे राक्षसे हते |
मानुषेण स्वरूपेण विष्णुना प्रभविष्णुना || ३२ ||

गत्वा विदेहराजस्य यज्ञभूमिं तदा क्षितिः |
सुषुवे तनयं वीरं यत्र सीता पुराभवत् || ३३ ||

जाते पुत्रे तदा देवी जगद्धात्री जगत्प्रभुम् |
सस्मार समये विष्णुं स्मरन्ती समयं पुरा || ३४ ||

स्मृतमात्रस्तदा देवः समयं प्रत्यपालयत् |
क्षितेर्यत्र सुतो जायस्तत्र प्रादुर्बभूव ह || ३५ ||

प्रादुर्भूतं तदा देवी प्रणम्य परमेश्वरम् |
संस्तूय सुनृतं शश्वदिदमाह जगत्प्रभुम् || ३६ ||

पृथिव्युवाच

एष ते तनयोजातः सुकुमारो महाप्रभः |
संस्मरन् समयं पूर्वं त्वमेनं प्रतिपालय || ३७ ||

श्रीभगवानुवाच

अयं ते तनयो देवी महाबलपराक्रमः |
भविता मानुषं भावं तन्वानः सुचिरं बुधः || ३८ ||

यावन्मानुषभावं ते तनयो भावयिष्यति |
तावत् कल्याणभाग्भूत्वा चिरं राज्यं करिष्यति || ३९ ||

त्यक्तमानुषभावस्तु यदा चायं विचेष्टते |
तदा तु नास्य सुचिरं जीवितं सम्भविष्यति || ४० ||

सम्प्राप्ते षोडशे वर्षे राज्यमासादयिष्यति |
धनरत्नगजैश्वर्ययुक्तोऽयं रथसञ्चयैः |
आसाद्य महतीं नित्यं श्रियं भोक्ष्यति वीर्यवान् || ४१ ||

यस्मिन् यस्मिन् युगे भावो यो वा भवति व नृणाम् |
तं भावं तथैवायं करिष्यति तथा कुरु || ४२ ||

एतस्य निभृतं राज्यं यत् प्राग्ज्योतिषसंज्ञकम् |
पुरं तत्र चिरं शास्ता राज्यमेष सुतस्तव || ४३ ||

मार्कण्डेय उवाच

इत्युक्त्वा पृथिवीं विष्णुः समाभाष्य जगत्पतिः |
दृश्यमानस्तया क्षिप्रं तत्रैवान्तर्दधे प्रभुः || ४४ ||

प्रसूय पृथिवी पुत्रं मध्यरात्रे महाद्युतिम् |
जनकं ज्ञापयामास रहस्यं पूर्वमीरितम् || ४५ ||

विदेहराजो ज्ञात्वैव पृथिवीजनितं सुतम् |
तत्रैव यज्ञवाटं स रात्रावागात् कृतक्रियः || ४६ ||

गच्छन्तं यज्ञवाटं तं दृष्ट्वा सर्वंसहा तदा |
नोक्त्वा किञ्चन तं शश्वदन्तर्धानं गता नृपम् || ४७ ||

अथ गत्वा तदा तत्र विदेहाधिपतिः सुतम् |
धरायां ददृशे कान्त्या चन्द्रार्कज्वलनोपमम् || ४८ ||

रुदन्तं बहुशः स्निग्धं चलधस्तपदद्वयम् |
वपुष्मन्तं श्रियादीप्तं कार्तिकेयमिवापरम् || ४९ ||

उद्गच्छन् स रुदन् बालो यज्ञभूमिं व्यतीत्य च |
कियद्दूरं जगामाशूत्तानशायी महाद्युतिः || ५० ||

मनुष्यस्य शिरस्तत्र मृतस्य प्राप्य बालकः |
स्वशिरस्तत्र विन्यस्य रुदंस्तस्थौ क्षणं तदा || ५१ ||

ततो विदेहराजोऽपि मार्गमाणः क्षितेःसुतम् |
व्यतीत्य यज्ञभूमिं तमाससादाञ्जसा बहिः || ५२ ||

आसाद्य बालकं दीप्तं प्रदीप्तमिव पावकम् |
कान्त्या चन्द्रमसस्तुल्यं तेजोभिर्भास्करोपमम् || ५३ ||

शरमध्यगतं पूर्वं पावकिं पावको यथा |
स्वयं जग्राह तं राजा पृथिव्याः समयं स्मरन् || ५४ ||

उद्गृह्णन् तच्छिरोदेशे ददृशे मानुषं शिरः |
शशंसचाचिरं शीर्षं मानुषं गौतमाय सः || ५५ ||

अथ बालं समादाय प्रविश्यान्तःपुरं स्वकम् |
महिष्यै कथयामास प्राप्तं पुत्रं गुहोपमम् || ५६ ||

सा तं दृष्ट्वा विशालाक्षं सिंहस्कन्धं महाभुजम् |
विस्तीर्णहृदयं कान्तं नीलोत्पलदलच्छविम् |
मुमोद पालनीयोऽयं मयेति न्यवदत् नृपम् || ५७ ||

तां राजापि ततः प्राह पुत्रोऽयं मम सुन्दरि |
यज्ञभूमौ समुत्पन्नः स्वच्छन्दं पाल्यतामयम् || ५८ ||

यत् पृथिव्या रहः प्रोक्तं न तद्देव्यै न्यवेदयत् |
सत्यसन्धो नृपश्रेष्ठः प्रियाया अपि भाषितम् || ५९ ||

मम सुतसुतवंशान् पालयित्री धरेय-
मिति नरपतिवर्यो मोदवांस्तद्दिने च |
सुरतनयसमानं तुत्रमासाद्य देवी
जितरिपुरतिधीमान् स्वादयञ्चेत्यमोदत् || ६० ||

इति श्रीकालिकापुराणे नरकजन्म-कथने सप्तत्रिंशोऽध्यायः || ३७ ||

Kapitel 38

अष्टत्रिंशोऽध्यायः

मार्कण्डेय उवाच

अथ तस्य नृपश्रेष्ठो गौतमेन महर्षिणा |
संस्कारं कारयामास विधिना मानुषेण तु || १ ||

नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः |
तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात् || २ ||

अपरान् बालसंस्कारान् क्षात्रेण विधिना मुनिः |
केशान्तावधि सञ्चक्रे ऋग्यजुः साममन्त्रकैः || ३ ||

ववृधे तस्य सदने नरको नाम भूसुतः |
दिनं दिनं धृतान्यश्रीः शरदीव निशाकरः || ४ ||

स राजा तं सदा भावैर्मानुषैयोजयन् स्वयम् |
गौतमस्य सुतेनाथ शतानन्देन धीमता |
ग्राहयामास तन्नित्यं क्षात्रं भावं च मानुषम् || ५ ||

तथैव पृथिवी देवी धात्रीवेषेण तं सुतम् |
नियतं ग्राहयामास मानुषं चरितं शुभम् || ६ ||

यदैव पुत्र उत्पन्नस्तदैव पृथिवीस्वयम् |
मायामानुषरूपेण नृपान्तःपुरमाविशत् || ७ ||

प्रविश्य तत्र सा देवी नृपस्यानुमतेऽभवत् |
धात्री तस्य द्विजश्रेष्ठाः कात्यायन्या ह्यवस्थया ||

यावत् षोडशवर्षाणि तस्य बालस्य भावीनि |
तावत् स्वयं पालयन्ती ग्राहयामास संनयम् || ९ ||

स वर्धमानोऽनुदिनं नरकः पृथिवीसुतः |
अत्यक्रामत् सुतान् सर्वान् जनकस्य महात्मनः || १० ||

शरीरेणाथ वीर्येण रूपेण बलवत्तया |
धनुषा गदया वीरो ह्यत्यक्रामन् नृपात्मजान् || ११ ||

स शास्त्रवादकुशलो धनुर्वेदे च कोविदः |
वर्षैः षोडशमिर्भूतो वीरैरन्यैर्दुरासदः || १२ ||

विदेहाधिपतिर्दृष्ट्वा महाबलपराक्रमम् |
ततो न्यून्यान् स्वपुत्रांश्च नातिहृष्टमनाभवत् || १३ ||

निरस्यासौ च मत्पुत्रान् मम राज्यं ग्रहीष्यति |
काले प्राप्ते महावीरो मतिस्तस्याभवत् पुरा || १४ ||

अन्तःपुरे यदा पुत्रान् सर्वान् रमयते नृपः |
तदा तु नरकं वीक्ष्य हर्षं प्राप्नोति नाधिकम् || १५ ||

तस्य तद्वुबुधे देवी नृपस्याथ वसुन्धरा |
महिषी विस्मयं चक्रे तस्मिन् भावे तु भूभृतः || १६ ||

अथैकदा महादेवी जनकस्य महात्मनः |
पप्रच्छ नृपतिश्रेष्ठं विदेहाधिपतिं पतिम् || १७७ ||

महिषी उवाच

नाथ पृच्छामि ते किंचिद्रहस्यं यदि नो तव |
तदा मां तद्वदस्व त्वं कृपा चेद्विद्यते मयि || १८ ||

यदैव तनयाः सर्वे विहरन्ति पुरस्तव |
तदैव नरकं दृष्ट्वा विमना इव लक्ष्यसे || १९ ||

तन्मे रात्रिन्दिवं वाढं विस्मयः प्रतिवर्धते |
संशयश्च भयं चैव न जहाति च मां सदा || २० ||

रूपवान् वीर्यवानेष नये च विनये तथा |
कुशलः प्रतिबुद्धश्च पुत्रस्तव महाबलः || २१ ||

न सभाजयसे कस्मात् पुत्रमन्यैर्दुरासदम् |
तदहं ज्ञातुमिच्छामि यदि तथ्यं वदस्व मे || २२ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा प्रियायाः पृथिवीपतिः |
तूष्णीं भूत्वा क्षणं देवीमिदं वचनमब्रवीत् || २३ ||

राजोवाच

कथयिष्ये प्रिये तत्त्वं यत् पृष्ठोऽहं त्वयाधुना |
मासत्रये व्यतीते तु समयं प्रतिपालय || २४ ||

निगूढः कश्चिदत्रास्ति देवस्य समयो मम |
तेनाधुना न किञ्चित्ते कथयिष्यामि तद्रहः || २५ ||

मार्कण्डेय उवाच

राज्ञो ह्ययं सभार्यस्य संवादोऽभवदन्तिके |
मानुषी पृथिवी धात्री तं शुश्राव यदा तदा || २६ ||

श्रुत्वा तयोस्तु संवादं महिषीभूपयोः क्षितिः |
मासत्रयेण समयं दत्तं देव्यै धराभृता || २७ ||

तत्काले विमनस्कं च भूपं नरकसंज्ञया |
त्रिभिर्मासैर्व्यतीतैः स्यादस्य षोडशवत्सरः || २८ ||

ततो नृपो महिष्यास्तु कथयिष्यति तद्रहः |
ततो मम रहस्यं तु विदितं सम्भविष्यति || २९ ||

चिन्तयित्वेति सा देवी जगद्धात्री सुतं प्रति |
निश्चित्येदं तदा कृत्यं प्राप्तकालमचेष्टत || ३० ||

ततो रहसि भूपं तं समासाद्य सगौतमम् |
इदमाह जगद्धात्री स्वपुत्रार्थे यशस्विनी || ३१ ||

पृथिव्युवाच

यो मया समयो दत्तः पालितः स त्वयानघ |
पुत्रश्च पालितो मेऽयं नरको विनयैर्युतः || ३२ ||

सम्प्राप्तयौवनः पुत्रो योजितश्च त्वया नयैः |
तव प्रसादात् पुत्रो मे सुखी वृद्धो गृहे तव || ३३ ||

तमहं पूर्वसमयान्नयिष्यामि स्वमात्मजम् |
अनुजानीहि भद्रं ते नरकस्य गतिं प्रति || ३४ ||

रक्षितव्यश्च भवता समयः सपुरोधसा |
छन्नमेव नयिष्यामि भूपते मा कृथा व्यथाय || ३५ ||

मार्कण्डेय उवाच

इत्युक्त्वा जगतां धात्री विदेहाधिपतिं नृपम् |
तत्रैव पश्यतां तेषामन्तर्धानमुपागमत् || ३६ ||

नृपोऽपि तस्यास्तद्वाक्यमगींकृत्य क्षिति प्रति |
तस्याः प्रत्यक्षतः स्थानं जगाम सपुरोहितः || ३७ ||

अथैकदा धरा देवी मायामानुषरूपिणी |
उपांशु नरकं प्राह धात्री तस्य महात्मनः || ३८ ||

त्वया समं महाबाहो गङ्गां यातुं मनो मम |
यदि त्वं यासि यास्यामि रथेनाद्यैव पुत्रक || ३९ ||

नरक उवाच

न पितुर्वचनं यास्ये विना मातस्त्वया समम् |
अनुज्ञाप्य रथेनाहं यास्ये गङ्गां त्वया समम् || ४० ||

नुज्ञाप्य महाराजं करिष्यामि तवेप्सितम् |
गुरुञ्च तनयं तस्य शतानन्दं द्विजोत्तमम् || ४१ ||

धात्र्युवाच

न ते पितायं जनको यः सर्वजगतां प्रभुः |
स ते पिता तं गङ्गायां पश्य गत्वा मया सह || ४२ ||

अयं पिता पालकस्ते न राज्यं सम्प्रदास्यति |
यस्ते वर्धयिता तात तमासादय पुत्रक || ४३ ||

अत्रं यद्मद्रहस्यं तद् गङ्गायामेव पुत्रक |
कथयिष्याम्यहं सर्वं रहोभङ्गस्ततोऽन्यथा || ४४ ||

मार्कण्डेय उवाच

जातसम्प्रत्ययो धात्र्या वचसा नरकस्तथा |
विहाय यानं छन्देन पद्भ्यां गङ्गा ययौ तदा || ४५ ||

अथ गङ्गा समासाद्य संस्नाप्य विधिवत् सुतम् |
आत्मानं दर्शयामास पृथिवी स्वसुताय व || ४६ ||

मायामानुषमूर्तिं तां विहाय जगतां प्रसूः |
नीलोत्पलदलश्यामं सर्वलक्षणसंयुतम् || ४७ ||

सर्वाङ्गसुन्दरं चारु नानालङ्कारभूषितम् |
पुत्राय दर्शयामास नरकाय वसुन्धरा || ४८ ||

कथामेताञ्च पूर्वस्मिन्नुद्भूतां पृथिवी तदा |
कथयामास पुत्राय प्रतीतिर्जायते यथा || ४९ ||

पृथिव्युवाच

मम गर्भे यथा पुत्र वर्धसे त्वं दिने दिने |
ब्रह्मादयस्तदा देवा आलोक्य स्वयमेव ते || ५० ||

मलिनीक्षितिसञ्जातः पुत्रो विष्णोर्महात्मनः |
आसुरं भावमास्थाय सवांनस्मान् हनिष्यति || ५१ ||

इति चिन्तापरा देवाः कुमन्त्रं चक्रिरे तदा |
अवं नोत्पद्यतां गर्भाद्गर्भे तिष्ठत्वयं सदा || ५२ ||

ततो मम भवान् गर्भे सुबहूनि युगान्यथ |
अवसद्दुःखवान् पुत्र देवानां च कुमन्त्रतः || ५३ ||

मृतकल्पाभवमहं भवतो धारणात् सुत |
ततोऽहं शरणं याता भगवन्तं सनातनम् || ५४ ||

नारायणस्य वाक्यत् तु भवानुत्पन्नवांस्ततः |
इति सत्यं मम वचः पुत्र जानीहि निश्चितम् || ५५ ||

मार्कण्डेय उवाच

अथ यावन्नपुत्रस्य विस्मयः समपद्यत |
तावदेव स्वयं देवी प्रोचे पुत्रमिदं वचः || ५६ ||

अथा विदेहराजस्य यज्ञभूमावसूयत |
विदेहराजेन समं यादृशः समयोऽभवत् || ५७ ||

यथा मानुषरूपेण धात्री सा समपद्यत |
तत् सर्वं कथयामास नरकाय महात्मने || ५८ ||

अथ तां पृथिवीं प्राह नरकः पुनरेव हि |
पृथिव्याः वचनं श्रुत्वा स्वल्पसंशयसंयुतः || ५९ ||

नरक उवाच

अद्येवं मे पिता विष्णुर्माता त्वं पृथिवी शुभे |
आगच्छतु जगन्नाथो ममैवाभ्युपपत्तये || ६० ||

स एव सर्व लोकेशो यदि मां भाषतेऽच्युतः |
पिताहं ते त्वियं माता श्रद्धधे तदहं शुभे || ६१ ||

त्वया मानुषरूपेण धात्र्याहं प्रतिपालितः |
तद्रूपं द्रष्टुमिच्छामि यदि ते रूपमीदृशम् || ६२ ||

पृथिव्युवाच

अहं ते जननी तात मया ज्ञातोऽसि पुत्रक |
पृथिव्यहं जगद्धात्री मद्रूपं मृन्मययन्त्विदम् || ६३ ||

पिता तव महाबाहो प्रभुर्नारायणोऽव्ययः |
अच्युतो जगतां धाता महात्मा शूकरात्मधृक् || ६४ ||

तेनाहितस्त्वं मद्गर्भे सुचिरं त्वं पुरावसः |
सम्प्राप्ते समये जातः पालितश्चेह भूभृता || ६५ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा हर्षशोकाकुलस्तदा |
नरकः पृथिवीं देवीमिदमाह धनुर्धरः || ६६ ||

नरक उवाच

न माता विदिता पूर्वं माहाहकिति भाससे |
विष्णुः पितेति च वचो न पिता विदितो मम || ६७ ||

जानामि पितरं चाह विदेहाधिपतिं नृपम् |
तस्य भार्यां सुमत्याख्यामहं जानाति मातरम् || ६८ ||

भ्रातरस्तत्सुता सर्वे सीता मे भगिनी शुभा |
सुमतिर्मम मातेति लोको जानाति सन्तमम् || ६९ ||

कात्यायनी च धात्री मे याधुनैव कृता त्वया |
एतत् सर्वं त्वया मिथ्या शंशितं मम साम्प्रतम् |
यथा तत्वाहं तनयः सत्यमाख्याहि तन्मम || ७० ||

मार्कण्डेय उवाच

पुत्रस्य वचनं चेति श्रुत्वा सर्वंसहा तदा |
सर्वं तत् पूर्ववृत्तान्तं तनयाय न्यवेदयत् || ७१ ||

यथा मलिन्या सम्भोगो वराहस्याभवत् पुरा |
यथा गर्भ धृतो देवर्येन या कारणेन सः || ७२ ||

यथा च गर्भदुःखार्ता माधवं शरणं गता |
यथा तेन प्रदतश्च समयो जनकं प्रति || ७३ ||

ऋषयः ऊचुः

किमर्थं समयो दत्तो विष्णुणा प्रभविष्णुना |
निहते रावणे वीरे रामेण सुमहात्मना || ७४ ||

भविष्यति सुतस्ते वै तत्र न संशयो महान् |
एतान् त्वं संशयान् छिन्धि गुरो शास्तासि नः सदा || ७५ ||

मार्कण्डेय उवाच

भारार्ता रावणादीनां पृथिवी मांसभोगिनाम् |
अधोगता योजनानि पञ्च वै द्विजसत्तमाः || ७६ ||

अयं वराहवीर्येण जातो गर्भे क्षितेः पुनः |
असावपि महाराजो दशग्रीवो यथाभवत् || ७७ ||

अधो यास्यति भारार्ता सातीव पृथिवी त्विति |
समयो दत्तवात् विष्णू रावणे निहते सति |
धरायै भारविहतिव्याजेन द्विजसत्तमाः || ७८ ||

त्वत्पूर्वरूपं दृष्ट्वा वै वचनाच्च जगद्गुरोः |
जातश्रद्धो महाभागे स्थास्यामि समये तव || ७९ ||

पुत्रस्य वचनं श्रुत्वा पृथिवी प्रथमं तदा |
मायामानुषरूपं तत् प्रतिजग्राह तत्पुरः || ८० ||

यथा कात्यायनीरूपं येन रूपेण पालितः |
नरकः सा तु तद्गृह्य तत्याज पृथिवी तनुम् || ८१ ||

अथ दृष्टैव नरको धात्रीं कात्यायनीं तदा |
पप्रच्छ पूर्व वृत्तान्तं यद्वृत्तं नृपमन्दिरे || ८२ ||

सा तथा कथयामास यथा सम्प्रति पालितः |
यद्वृत्तं पूर्वतो गेहे नृपस्य जनकस्य तु || ८३ ||

जातसम्प्रत्ययस्तत्र नरकः समपद्यत |
पृथिवी च पुनर्देवीरूपं स्वं जगृहे तदा || ८४ ||

अथ सस्मार पृथिवी जगन्नाथं हरिं प्रभुम् |
समये पूर्वविहिते प्रणम्य शिरसा मुहूः || ८५ ||

स्मृतमात्रस्तदा क्षित्या माधवो गरुडध्वजः |
प्रसन्नो जगतां नाथः प्रत्यक्षत्वं गतस्तदा || ८६ ||

तं दृष्ट्वा पृथिवी देवी देवं गरुडवाहनम् |
नीलोत्पलदलश्यामं शंखचक्रगदाधरम् || ८७ ||

पीताम्बरं जगन्नाथं श्रीवत्सोरस्कमव्ययम् |
प्रणनाम महाभक्त्या पस्पर्श शिरसा महीम् || ८८ ||

परमेश जगन्नाथ जगत्कारणकारण |
प्रसीदेति वचश्चापि तदा प्रोचे जगतप्रसूः || ८९ ||

नरकस्तु हरिं दृष्ट्वा निमील्य नयनद्वयम् |
तत्तेजसा चाभिभूतेस्तदा भूमावुपाविशत् || ९० ||

उपविष्टे तदा देवी तनये नरकाह्ववे |
प्रसादयामास तदा पुत्रार्थे वरवर्णिनी || ९१ ||

प्रसाद्यमानो धरया हरिर्णारायणोऽव्ययः |
शङ्खाग्रेण तदा पुत्रं पस्पर्श नरकाह्वयम् || ९२ ||

स्पृष्टमात्रोऽथ हरिणा नरकोऽभूत् सुदर्शनः |
दृष्टश्चोत्साहवांश्चैव बलवान् समपद्यत || ९३ ||

तत उत्थाय नरको हरिं नारायणं प्रभुम् |
भक्त्या प्रणम्य गोविन्दं साष्टाङ्ग च मुहुर्मुहुः || ९४ ||

ननाम पृथिवीं वीरो जातसम्प्रत्ययास्तदा |
प्रणम्य च महाभागां भक्त्या परमया युतः || ९५ ||

प्राञ्जलिः पुरतस्तस्थौ नोक्त्वा किञ्चन वै भिया |
ततस्तदर्थे पृथिवी माधवं समयाचत || ९६ ||

प्रसीद देवदेवेश समयं प्रतिपालय |
त्वयाहं तनयो दत्तो मम सर्वं जगत्पते |
एतदर्थे प्रतिज्ञातं यद्दत्तं प्रतिपालय || ९७ ||

भगवानुवाच

भवती यत् सुपुत्रार्थे मामयाचत पुरा मया |
तत् सर्वंत् अव दत्तं वै राज्यं दत्तं च वत्सुते || ९८ ||

इत्युक्त्वा भगवान् विष्णुरादाय नरकाह्वयम् |
सार्द्धं पृथिव्या गङ्गायां ममज्ज जगतां प्रभुः || ९९ ||

निमज्य क्षणमात्रेण प्राग्ज्योतिषपुरं गतः |
मध्यगं कामारूपस्य कामाख्या यत्र नायिकाः || १०० ||

स च देशः स्वराज्यार्थे पूर्वं सुप्तश्च शम्भुना |
किरातैर्बलिभिः क्रूरैरज्ञेरपि च वासितः || १०१ ||

रुक्मस्तम्भनिभांस्तत्र किरातान् ज्ञानवर्जितान् |
अनर्थमुण्डितान् मद्यमांसाशनैकतत्परान् || १०२ ||

ददर्श विष्णुः कुपितान् विष्णुं दृष्ट्वा द्विजर्षभाः |
तेषामधिपतिस्तत्र घटको नाम वीर्यवान् |
रुक्मस्तम्भनिभस्तत्रः प्रदीप्त इव पावकः || १०३ ||

स क्रोद्धाच्चतुरङ्गेन बलेन महता युतः |
आससाद जगन्नाथं नरकं च महावलम् || १०४ ||

आसाद्य शरवर्षेण ववर्ष प्रभुमव्ययम् |
किरातैः सहितो राजा घटकाख्यः किरातराट् || १०५ ||

माधवोपि तदा पुत्रं नरकं वीर्यवत्तरम् |
प्रेस्यामास युद्धाय किरातनृपतेस्तदा || १०६ ||

नरको धनुरादाय सह तैर्बलवत्तरैः |
युयुधे सुचिरं तत्र शस्त्रास्त्रैर्बहुधेरितैः || १०७ ||

ततोऽसौ भल्लमादाय योजयिता धनुर्गुणैः |
शिरः किरातराजस्य चिच्छेद नरको बली || १०८ ||

मुख्यान् मुख्यान् किरातांश्च बहून् सेनाधिपांस्तथा |
जघान कुपितो वीरः केशरीव मतङ्गजान् || १०९ ||

हतेऽथ नृपतौ केचित् पलायनपरायणाः |
किराताः केचन पुनर्नरकं शरणं गताः || ११० ||

निहत्य युध्यमानांस्तु संरक्ष्य शरणं गतान् |
नरकः पितरं गत्वा प्रणम्याथ न्यवेदयत् || १११ ||

नरक उवाच

हतस्तात किरातानामधिपो घटको मया |
सेनाधिपाश्च तस्यान्ये किमन्यत् कुरवाण्यहम् || ११२ ||

श्रीभगवानुवाच

किरातान् जहि यावत्त्वं देवीं दिक्करवासिनीम् |
पलायमानान् विद्राव्य पालय शरणं गतान् || ११३ ||

मार्कण्डेय उवाच

ततः स नरको वीरः समारुह्य सितं गजम् |
चतुर्दन्तं महाकायं किराताधिपवाहनम् || ११४ ||

ऐरावतसमं वीर्ये वेगेन गरुडोपमम् |
किरातान् द्रावयामास यावद्दिक्करवासिनीम् || ११५ ||

पितरं पुनरागत्य वचनं चेदमब्रवीत् |

नरक उवाच

विद्राविताः किरातास्ते सागरान्तं समाश्रिताः || ११६ ||

हतश्च घऽकाख्यो हि किराताधिपतिर्महान् |
वेगिनं गजमारुह्य ऐरावतसमं गुणैः |
यदन्यत् करणीयं मे तदाज्ञापय सम्प्रति || ११७ ||

भगवानुवाच

करतोया सदा गङ्गा पूर्वभागावधिश्रया |
यावल्ललितकान्तास्ति तावदेव पुरं तव || ११८ ||

अत्र देवी महाभागा योगनिद्रा जगत्प्रसूः |
कामाख्यारूपमास्थाय सदा तिष्ठति शोभना || ११९ ||

अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः |
अत्रैव दशदिकपालाः स्वे स्वे पीठे व्यवस्थिताः || १२० ||

अत्र स्वयं महादेवो ब्रह्मा चाहं व्यवस्थितः |
चन्द्रः सूर्यश्च सततं वसतोऽत्र च पुत्रक || १२१ ||

सर्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् |
अत्र श्रीर्वसते भद्रा भोग्यमत्र तथा बहु || १२२ ||

अस्य मध्ये स्थितो ब्रह्मा प्रङ्नक्षत्रं ससर्ज ह |
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा || १२३ ||

अत्र त्वं वस भद्रं ते ह्यभिषिक्तो मया स्वयम् |
कृतदारः सहामात्यै राजा भूत्वा महाबलः || १२४ ||

मार्कण्डेय उवाच

एवमुक्त्वा स्वयं विष्णुः शम्भोरनुमते तदा |
सर्वान् किरातान् पूर्वस्यां सागरान्ते न्यवेशयत् || १२५ ||

पूर्वं ललितकान्तायाः समादायावधिं पुनः |
यावत् सागरपर्यन्तं किरातास्तावदावसन् || १२६ ||

पश्चाल्ललितकान्तायाः देर्श कृत्वावधिं पुनः |
करतोया नदीं यावत् कामाख्यानिलयं तु तत् || १२७ ||

तस्मात् किरातानुत्सार्य वेदशास्त्रातिगान् बहून् |
द्विजातीन् वासयामास तत्र वर्णान् सनातनान् || १२८ ||

वेदाध्ययनदानादि सततं वर्तते यथा |
तथा चकार भगवान् मुनिभिर्वासयन् विभुः || १२९ ||

वेदवादरताः सर्वे दानधर्मपरायणाः |
नचिरादभवद्देशः कामरूपाह्वयस्तदा || १३० ||

ततो विदर्भराजस्य पुत्रीं मायाह्वयां हरिः |
पुत्रार्थे वरयामास नरकस्य समां गुणैः || १३१ ||

तामुद्वाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् |
तया समं स्वतनयं राजत्वेनाभ्यषेचयत् || १३२ ||

सूगुप्तां च पुरीं चक्रे गिरिदुर्गेण माधव |
जलदुर्गं सर्वतो भद्रं देवैरपि दुरासदम् || १३३ ||

ततः किरातराजस्य चतुर्दन्ताः सुदन्तिनः |
पञ्चविंशतिसाहस्रा महामात्रकुथैर्युताः || १३४ ||

यानि रत्नान्यनेकानि सैन्यानि विविधानि च |
अश्वाश्चाभरणाश्चैव तत्सर्वं नरकोऽग्रहीत् || १३५ ||

यद्यत् सुभूषणं राज्ञो ध्वजाश्चाभरणानि च |
तानि तानि स्वयं विष्णुस्तनयस्य ददौ तदा || १३६ ||

रथं च प्रददौ तस्मै त्रिषु लोकेषु दुर्लभम् |
लोहाष्टचक्रसञ्छन्नमर्धयोजनविस्तृतम् || १३७ ||

युक्तमश्वसहस्रैश्च तथाष्टाभिर्मनोजवैः |
रत्नकाञ्चनचित्राढ्यं वेदिकाभागविस्तरम् || १३८ ||

वज्रध्वजेन महता काञ्चनेन विराजितम् |
हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् || १३९ ||

सिंहव्याघ्रसमुद्भूतैश्चर्मभिश्छादितं सदा |
लोहजालैश्च सञ्छन्नं किंङ्कणीजालमालिनम् |
सर्वप्रहरणैर्युक्तं बहुमायासमन्वितम् || १४० ||

शक्तिं च प्रददौ तस्मै सर्वशत्रुविशातनीम् |
ज्वालामालाभिदीप्ताङ्गीं रिपुकक्षाग्निरूपिणीम् || १४१ ||

इमं च समयं प्रोचे नरकान महात्मने |
नरकस्य हितायेशो वसुधायाः समक्षतः || १४२ ||

श्रीभगवानुवाच

इमां शक्तिं न हि भवान् प्राणानां संशयं विना |
प्रयोक्ष्यति कदाचित्तु मानुषेषु विशेषतः || १४३ ||

एषा भार्या च वैदर्भी भवतः सदृशी गुणैः |
भवतो जीवनं यावत्तावत् स्थास्यति शोभना || १४४ ||

त्वं तु प्रजायै त्रेतायां यत्नवान् वै भविष्यसि |
द्वापरान्ते तु सम्प्राप्ते प्रजा तत्र भविष्यति || १४५ ||

विरोधो मुनिभिः सार्धं ब्राह्मणैरपि पुत्रक |
न कदाचित्त्वया कार्यश्चिरञ्जीवितुमिच्छता || १४६ ||

न राजभिर्न देवैश्च विरोधो युज्यते तव |
महादुर्गस्य वे मध्ये वसतो ह्यपराजिते || १४७ ||

दिव्ययोषिद्गणैः सार्धं वसमानोऽतिभोगवान् |
स्वपर्वते कामरूपे चिरं त्वं तिष्ठ तुत्रक || १४८ ||

महादेवीं महामायां जगन्मातरमम्बिकाम् |
कामाख्यां त्वं विना पुत्र नान्यदेवं यजिष्यसि || १४९ ||

इतोऽन्यथा त्वं विहरन् गतप्राणो भविष्यसि |
तस्मान्नाक यत्रेन समयं प्रनिपालय || १५० ||

मार्कण्डेय उवाच

इत्युक्त्वा भगवान् विष्णुर्नरकं तनयं स्वकम् |
तमपास्य रहस्येनां पृथिवीं वाक्यमब्रवीत् || १५१ ||

यद् यत् पूर्वं मया प्रोक्तं कर्तव्यं तव सुन्दरि |
तत् सर्वं नरकायाशु भूत्यै समुपदेशय || १५२ ||

यदैनं त्वं स्वयं हन्तुं मां जगद्धात्रि भाषसे |
तदा तु मानुषः कश्चिन्नरकं निहनिष्यति || १५३ ||

पृथिव्युवाच

प्रजार्थमेष यत्नो मे निन्द्यः स्यात् सन्ततिं विना |
तस्मान्नाथ प्रयन्तान्मे सन्ततिं पालयिष्यसि || १५४ ||

मार्कण्डेय उवाच

एवमस्त्विति तां विष्णुः पृथिवीं प्रति पावनः |
नरकं च समाभाष्य तत्रान्तर्धिमगात् क्षणात् || १५५ ||

गते हरौ निजस्थानं पृथिवी तनरं स्वकम् |
यत् पूर्वं हरिणा प्रोक्तं तत्र तं व्यनयत् स्वयम् || १५६ ||

नरकोऽपि तदा धीमान् वेदशास्त्रार्थपारगः |
ब्रह्मण्यनीतिकुशलो वदान्यो दानतत्परः || १५७ ||

कामाख्यापूजनरतो नीलकूटे महागिरौ |
महाभोगी महाश्रीमान् हीनबाधश्च शत्रुभिः |
सुचिरं राज्यमकरोच्छक्रवत्त्रिदशालये || १५८ ||

ततो विदेहराजोऽपि श्रुत्वैव नरकश्रियम् |
सपुत्रभार्यः सगुणो नरकं द्रष्टुमभ्यगात् || १५९ ||

प्राग्ज्योतिषं पुरं गत्वा कामरूपान्तरस्थितम् |
ददर्श नरकं राजा शरच्चन्द्रसमं श्रिया || १६० ||

प्राग्ज्योतिषं पुरं मेने स राजा त्वमरावतीम् |
देवेन्द्रं नरकं मेने सत्परिच्छदभूषणम् || १६१ ||

जनक उवाच

ततो महिष्यै तत् सर्वं जनको वाक्यमब्रवीत् |
एष ते पालितसुतः श्रीमान् नरकसंज्ञकः || १६२ ||

पृथिव्या दयितः पुत्रः सञ्जातो घृष्टिरूपिणा |
विष्णुना जगदीशेन त्वमेनं पश्य सङ्गतम् || १६३ ||

मार्कण्डेय उवाच

इत्युक्त्वा जनको राजा यथा वृत्तं तथा पुरा |
वृत्तान्तं कथयामास नरको जातवान् यथा || १६४ ||

ततस्तत्र चिरं स्थित्वा प्राग्ज्योतिषपुरे मुदा |
विदेहाधिपती राजा नरकेण प्रपूजितः || १६५ ||

स्वस्थानं गतवांस्तस्मात् स्वगणैः परिवारितः || १६६ ||

एवं स नरको जातः पृथिव्यास्तनयस्तदा |
हीनासुरस्वभावः संविजहार चिरं क्षितौ || १६७ ||

इति श्रीकालिकापुराणे नरकाभिषेचनेऽष्तत्रिंशोऽध्यायः || ३८ ||

Kapitel 39

एकोनचत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

स राजा नरकः श्रीमांश्चिरञ्जीवी महाभुजः |
मानुषेणैव भावेन चिरं राज्यमथाकरोत् || १ ||

त्रेतायां च व्यतीतायां द्वापरस्य तु शेषतः |
अभवच्छोणितपुरे बाणो नाम महासुरः || २ ||

तस्याग्निदुर्गं नगरं स च शम्भुसखो बली |
सहस्रबाहुर्दुर्धर्षः प्रियः पुत्रः स वै बलेः || ३ ||

नरकेण समं तस्य महामैत्री व्यजायत |
अमनागमनान्नित्यमन्योन्यानुग्रहैस्तथा |
तयोरभूद् महाप्रीतिः पवनानलयोर्यथा || ४ ||

स च बाणः समाराध्य महादेवं जगत्प्रभुम् |
आसुरेणाथ भावेन व्यचरच्चाकुतोभयः || ५ ||

तत्संसर्गात् स नरको दृष्ट्वा तस्याद्भुतां कृतिम् |
तेनैव सह भावेन विहर्तुमुपचक्रमे || ६ ||

न ब्राह्मणान् पूजयति यथा पूर्वं तथा द्विजाः |
न च यज्ञेषु दानेषु पूर्ववन्मुदितः स च || ७ ||

न तथा विष्णुमभ्येति पृथिवीं वापि नार्चति |
कामाख्यायां तथा भक्तिस्तदा तस्याथ नाभवत् || ८ ||

एतस्मिन्नन्तरे धातुस्तनयो मुनिसत्तमः |
वसिष्ठो नाम कामाख्यां द्रष्टुं प्राग्ज्योतिषं गतः || ९ ||

तां दुर्गाभ्यन्तरे नीलकूटदेवीं व्यवस्थिताम् |
द्रष्टुं गन्तुं वसिष्ठस्य न द्वारं नरको ह्यदात् || १० ||

ततो वसिष्ठः कुपितो वचनं परुषं मुनिः |
जगाद नरकं वीरं गर्हयन्मुनिसत्तमः || ११ ||

वसिष्ठ उवाच

कथं पृथिव्यास्तनयो वराहस्य सुतोऽञ्जसा |
देवीं द्रष्टुं ब्राह्मणस्य न ददासि तथागतः || १२ ||

किं ते कुलोचितं कर्म त्वं करोषि धरात्मज |
देवीं प्राग्ज्योतिषं गत्वा पूजयिष्ये जगन्मयीम् || १३ ||

मार्कण्डेय उवाच

ततः स नरको राजा प्राप्तकालः क्षिते सुतः |
परुषेणाथ वाक्येन तमाक्षिप्य निरस्तवान् || १४ ||

ततो मुनिः स कुपितः शशाप नरकं नृपम् |

वशिष्ठ उवाच

नचिराद् येन जातोऽसि तेन मानुषरूपिणा |
मरणं भविता पाप वराहकुलपांसन || १५ ||

मृते त्वयि महादेवीं कामाख्यां जगतां प्रसूम् |
पूजयिष्याम्यहं पाप तिष्ठ यास्ये स्वमालयम् || १६ ||

त्वं यावज्जिविता पाप कामाख्यापि जगत्प्रसूः |
सर्वैः परिकरैः सार्धमन्तर्धानाय गच्छतु || १७ ||

मार्कण्डेय उवाच

इत्युक्त्वा ब्रह्मपुत्रः स स्वस्थानं गतवान् मुनिः |
वसिष्ठस्तेन भौमेन निरस्तः कुपितो भृशम् || १८ ||

गते वसिष्ठे नरकः शीघ्रं विस्मयसंयुतः |
जगाम देवीभवनं नीलकूटं महागिरिम् || १९ ||

तत्र गत्वा न चापश्यत् कामाख्या कामरूपिणीम् |
न योनिमण्डलं तस्याः सर्वान् परिकरांस्तथा || २० ||

ततः स विमना भूत्वा क्षितिं सस्मार मातरम् |
पितरं च जगन्नाथं नरकः प्रभुमव्ययम् || २१ ||

न तावपि तदा यातौ तस्य प्रत्यक्षतां द्विजाः |
व्युत्क्रान्तसमयस्येति नीतिहीनस्य शम्भवे || २२ ||

चिरं प्रतीक्ष्य तौ तत्र भौमो वज्रध्वजस्तदा |
अप्राप्तक्ष्तिविष्णुः स सशोकः स्वं निवेशनम् || २३ ||

स गच्छन् स्वगृहं भौमः पुरीं स्वां दृष्टवांस्तु सः |
पूर्वश्रिया परित्यक्तां मलिनां वनितामिव || २४ ||

देव्यामन्तर्हितायां तु वेदवादविवर्जितम् |
पुण्यस्वल्पादरजनं तत् पुरं समपद्यत || २५ ||

न देवास्तत्र गच्छन्ति न विप्रा न महर्षयः |
बभूव नगरं तस्य स्वल्पयज्ञक्रियोत्सवम् || २६ ||

ईतयो बहवो जाता मृताश्च बहवो जनाः |
लौहित्यनदराजोऽपि हीनतोयस्तदाऽभवत् || २७ ||

बहूनि विपरीतानि दृष्ट्वा स नरकस्तदा |
मेने मरणमासन्नमत्मनो ब्रह्मशापतः || २८ ||

ततः प्राग्ज्योतिषाध्यक्षः शोकविह्वलचेतनः |
चिन्तयन् मनसा मित्रं बाणं बलिसुतं ययौ || २९ ||

सखा प्राणसमः सोऽस्य सततान्योन्यरक्षणे |
तत्परौ बाणनरकौ स्वर्वैद्यावश्विनाविव || ३० ||

एतस्मिन्नन्तरे बाणो मित्रं शम्भुसखो बली |
अनुकूलयिता मन्त्रप्रदानेन महाबुधः || ३१ ||

इति चासीन्मतिस्तस्य वज्रकेतोस्तदाचला |
दूतं च प्राहिणोद् दीप्तं बाणस्य नगरं प्रति || ३२ ||

स शोणितपुरं गत्वा स्यन्दनेनाशुगामिना |
ततो भौमस्य वृत्तान्तं वाणायाशु न्यवेदयत् || ३३ ||

यथा शप्तो वसिष्ठेन यथा चान्तर्हिताम्बिका |
यथा विघ्नः पुरवरे जातः प्राग्ज्योतिषाह्वये || ३४ ||

समयस्य व्यतिक्रान्तिर्भूमिमाधवयोर्यथा |
तथा स दूतो भौमस्य शशंस बलिसूनवे || ३५ ||

स समाकारमित्रस्य सम्यग् दैवपराभवम् |
स्वयं जगाम नरकं सभाजयितुमीश्वरः || ३६ ||

स काञ्चनविचित्राङ्गं युक्तमश्वशतैस्त्रिभिः |
लोहचक्रं च वैयाघ्रं मयूरधजभूषितम् || ३७ ||

हेमदण्डसितच्छत्रच्छदितं किङ्किणीगणैः |
नानारतनौघरचितमारुरोह महारथम् || ३८ ||

स सहस्रभुजः श्रीमांश्चतुरंगबलैर्युतः |
प्राग्ज्योतिषं भौमपुरमचिरादाजगाम ह || ३९ ||

तमासाद्य महाबाहुर्बाणः प्राग्ज्योतिषेश्वरम् |
हीनं पूर्वश्रिया मित्रमपश्यन्नगरं च तत् || ४० ||

स तेन तूजितो बाणो यथायोग्यं सुतेन कोः |
पप्रच्छ किं निमित्तं ते हीनश्रीकमभूत् पुरम् || ४१ ||

बाण उवाच

शरीरं च यथापूर्वं तथा न तव राजते |
मनश्च ते नाति हृष्टं तत्र हेतुं वदस्व मे || ४२ ||

मार्कण्डेय उवाच

एवमादीनि पृष्टः स नरकः क्षितिनन्दनः |
यथा वसिष्ठशापोऽभूत् तत् सर्वं तस्य चाब्रवीत् || ४३ ||

यच्छ्रुतं भौमवदनात्तद्दूतावेदितं पुरा |
ज्ञात्वां तथा तं प्रोवाच बाणो वज्रध्वजं पुनः || ४४ ||

बाण उवाच

नहि मन्युस्त्वया कार्यः सुखे दुःखे शरीरिणाम् |
चक्रवत् परिवर्तेते नैताभ्यां कौऽपि हीयते || ४५ ||

परं तत्र प्रतीकारः कार्यो धीरैर्विभूतये |
भवानपि प्रतीकारं कर्तुमर्हति सम्प्रति || ४६ ||

य एष मानुषः पृथ्व्यामसाधारणभूतिभिः |
वर्धते दानवो वापि दैत्यो वाप्यथवासुरः || ४७ ||

राक्षसः किन्नरो वापि शक्रस्तान् सहते नहि |
स कौटिल्यं देवगणैः सार्धं कुर्वन्नितस्ततः |
यथा तथा प्रकारेण भ्रंशयत्येव तं श्रियः || ४८ ||

तस्य चेष्टतमो देवो विष्णुर्नित्यं सनातनः |
स न शक्तस्य कुरुते मनोऽनिष्टं मनागपि || ४९ ||

यः समाराधयेद् विष्णुं शक्रस्यानिष्टकारकः |
तस्मै वरं तु सच्छिद्रं दत्त्वा तं शातयत्वितः || ५० ||

चिरमाराधितो विष्णुरिष्टान् कामान् प्रयच्छति |
महता कायदुःखेन पूजितः सम्प्रसीदति || ५१ ||

विनेष्टदेवतापूजां विभूतिमतुलां पुमान् |
कः प्राप्नोति श्रुतः पूर्वं न वा पूर्वतरैः क्वचित् || ५२ ||

त्वया नाराधितः पूर्वं ब्रह्मा वा विष्णुरीश्वरः |
तेन तेऽद्य महाविघ्ना उत्पन्ना विषये तव || ५३ ||

यो वा विष्णुः पालकस्ते न निसर्गानुकम्पकः |
किन्तु ते स क्षितेर्वाक्यात्तया चाराधितो मुहुः || ५४ ||

दत्तं छिद्रं च ते विष्णुर्नापराध्यास्त्वया द्विजाः |
इतोऽन्यथा त्वं भविता हतश्रीरिति नः श्रुतम् || ५५ ||

अपराध्यस्त्वया भूप वसिष्ठः परमो मुनिः |
तेन स्मरणमात्रेण नायातौ क्षितिमाधवौ || ५६ ||

तस्मात्त्वं मित्र बुध्यस्व कौटिल्यं हरिमेधसः |
नाधुना युज्यते भौम तवोदासीनताकृतिः || ५७ ||

यत्ते मनसि तातोऽयमिति सम्प्रत्ययः स ते |
वराह एव ते तातः स लोकान्तरं गतः || ५८ ||

वाराहोऽपि हरेरंश इति यच्छ्रूयते त्वया |
तस्यांश इत्यतुक्रोशः केन वो क्रियते वद || ५९ ||

तस्मात्त्वं कुरु शम्भोर्वा ब्रह्मणो वाधुनार्चनम् |
स ते प्रसन्नः परममिष्टकामं प्रदास्यति || ६० ||

विघ्नो वा मुनिशापो वा महेतिर्वातिपीडकः |
विधौ प्रसन्ने शम्भौ वा नचिरात्क्षयमेष्यति || ६१ ||

मार्कण्डेय उवाच

जातसम्प्रत्ययो भौमो बाणस्य वचनात् तदा |
सुप्रीतः समुवाचेदं धीरघर्घरनिःस्वनः || ६२ ||

भौम उवाच

यत् त्वया गदितं बाण हितं मे मित्रवत्सल |
तत् कार्यमचिरादेव तपश्चरणमुत्तमम् || ६३ ||

विष्णुर्नाराधनीयो मे तत्र हेतुस्त्वयोदितः |
नवाराध्यस्तथा शम्भुरन्तर्गुप्तः स मे पुरे || ६४ ||

तस्माद् ब्रह्मा समाराध्यो वचनात् तव मित्रक |
तत्पुत्रस्य महाबाहो लौहित्यस्याम्बुसन्निधौ || ६५ ||

भवताध्यापितश्चाहं शिष्योऽथ गुरुणा यथा |
मित्रं मित्रं यथा धीर साम्ना परमवल्गुना || ६६ ||

मार्कण्डेय उवाच

इत्युक्त्वा स महाबाहुर्बाणं वज्रध्वजस्तदा |
यथावत् पूजयामास तन्मित्रं मित्रवत्सलः || ६७ ||

अर्चयित्वा यथायोग्यं प्रस्थाप्य च बलेः सुतम् |
ब्रह्माराधनमत्युग्रं कर्तुमिच्छन् क्षितेः सुतः || ६८ ||

स तीरे नदराजस्य लौहित्यस्य महात्मनः |
ब्रह्माचलं समारुह्य तपस्तप्तुमुपस्थितः || ६९ ||

स मानुषेण मानेन क्षितिपुत्रः शतं समाः |
जलाहारव्रतेनैव समानर्च पितामहम् || ७० ||

सन्तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः |
प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः || ७१ ||

प्रीतोऽस्मि ते वरं दास्ये वरं वरय सुव्रत |
इति चोवाच नरकं स तदा कमलासनः || ७२ ||

स दृष्ट्वा सर्वलोकेशं प्रत्यक्षं कमलासनम् |
प्रणम्य प्राञ्जलिः प्रोचे विनयानतकन्धरः || ७३ ||

हौम उवाच

देवासुरेभ्यो रक्षोभ्यः सर्वेभ्यो देवयोनितः |
अवध्यत्वं सुरश्रेष्ठ वरमेकं प्रयच्छ मे || ७४ ||

अविच्छिन्ना सन्ततिर्मे यावच्चन्द्रो रविस्तपेत् |
तावद्भवतु लोकेश द्वितीयोऽयं वरो मम || ७५ ||

तिलोत्तमाद्या या देव्यः सद्रूपगुणसंयुताः |
तास्ता मे दयिताः सन्तु सहस्राणि तु षोडश || ७६ ||

अजेयत्वं सदा श्रीर्मा न जहातु कदाचन |
इति पञ्च वरा मेऽद्य वृतास्त्वत्तः पितामह || ७७ ||

मार्कण्डेय उवाच

मायया मोहितो भौमो मुनिशापं विस्मृत्य च |
अन्यद्वरान्तरं वव्रे मुनिशापस्तथा स्थितः || ७८ ||

एवमस्त्विति तान् सर्वान् वरान् दत्त्वा पितामहः |
उवाचेदं द्वापरान्ते सन्ध्यायां सुरकन्यकाः || ७९ ||

तिलोत्तमाद्यास्ते जाया सम्भविष्यन्ति भूतले |
न यावन्नारदो याति वज्रध्वज पुरं तव |
तावन्न मैथुने योज्या भवता ताक्षितेः सुत || ८० ||

इत्युक्त्वा सर्वलोकेशः क्षणादन्तर्हितोऽभवत् |
मुदमासाद्य परमां स्वस्थानं नरकोऽभ्यगात् || ८१ ||

ततो मुदितलोकं तं नगरं श्रीनिषेवितम् |
सदा सोत्साहसम्पूर्णमीतिविघ्नविवर्जितम् || ८२ ||

अभवत् पशुसंघैश्च वाजिवारणकुम्भकैः |
सम्पूर्णं देवराजस्य दयितेवामरावती || ८३ ||

उत्तीर्णतपसं श्रुत्वा बाणो दत्तवरं तथा |
स्वयं पुनरुपातिष्ठद् भौमं वज्रध्वजं तदा || ८४ ||

स गत्वा भौमनगरं बाणः प्राग्ज्योतिषाह्वयम् |
पप्रच्छ नरकं मित्रं तपसः सन्निवेशनम् || ८५ ||

कुत्र त्वया तपस्तप्तं किं वा चीर्णं त्वया व्रतम् |
कीदृशो वा वरो लब्धस्त्वं ममाख्यातुमर्हसि || ८६ ||

दृष्टं तव पुरं सर्वं प्रहृष्टजनसङ्कुलम् |
वाजिवारणरत्नौघैः पूरितं मङ्गलस्वनैः || ८७ ||

दृश्यतेऽद्य त्वया पाल्यं शस्यपूर्णमनामयम् |
कथ्यतां वा कथं ब्रह्मा वरं तुभ्यं प्रदत्तवान् || ८८ ||

भौम उवाच

ब्रह्मा स्वयं पर्वतरूपधारी
कामेश्वरीं धर्तुमिहावतीर्णः |
तत्र स्वयं सम्प्रति घस्रमेति
पुरा न यावच्छपते वसिष्ठः || ८९ ||

सोऽयं पुरे मे बलिपुत्र राजते
देवौघसेव्योऽप्यमरोत्तमांशः |
तत्राहमेको वरतोयभोजनो
वर्षाण्यकार्षं च तपः शतानि वै || ९० ||

लौहित्यतीरे घनवायुसेविते
मनोहरे प्राणभृतां सुखप्रदे |
तपःप्रवृत्तस्य मुखं समागम-
च्छरद् यथैका शरदां शतानि मे || ९१ ||

ततः स तुष्टश्चतुराननोऽभवत्
प्रत्यक्षतो मां न्यगदच्च मद्धितम् |
तव प्रसन्नोऽस्मि वरं यथेप्सितं
दास्ये गृहाणेति पुरोऽथ भूत्वा || ९२ ||

अवध्यता मे सुरयोनितः सुरा-
दच्छिन्नसन्तानमजेयता तथा |
सदा विभूतिर्न जहातु मामिति
वराश्च नार्यो नवयौवनान्विताः || ९३ ||

एते वराः पञ्च मया ततो वृताः
सोऽपि प्रतिश्रुत्य गतो निजास्पदम् |
ततोऽहमभ्येत्य पुरं निजं मुदा
मन्त्रिप्रवीरैः सहितः पुनस्तान् || ९४ ||

पौरान् सबन्धून् सगणानमोदयम्
दानेन मानेन च भोजनेन || ९५ ||

मार्कण्डेय उवाच

इतीरितं तस्य बलेः सुतस्तदा
भौमस्य श्रुत्वा मुमुदे न तत्क्षणात् |
इदं तदोचे वचनं क्षितेः सुतं
तत्कालयुक्तं न च्च सूनृतोद्भवम् || ९६ ||

बाण उवाच

न ते मुनेः शापमतीत्य गन्तुं
भूता मतिर्मित्र तदा विधेः पुरः |
कथं तु भद्रं भविता तवेह
भावीत्यवश्यं क्षितिपुत्र नित्यम् || ९७ ||

कृतस्य करणं नास्ति दैवाधिष्ठितकर्मणः |
भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यबाधकः || ९८ ||

तस्मात् त्वं सुमहावीरानसुरान् पावकोपमान् |
सन्धयाय च पुरस्कृत्य साचिव्ये विनियोजय || ९९ ||

द्वारि संस्थाप्य वै वीरान् देवैरप् दुरासदान् |
अतिक्रमस्व देवेशं यदि लब्धवरो भवान् || १०० ||

विधिना यो वरो दत्तो भवते तत्-परीक्षणम् |
कर्तुमर्हसि जायायामपुत्रो जनयात्मजम् || १०१ ||

इत्युक्त्वा प्रययौ बाणो यथावत् तेन पूजितः |
नरको मित्रवचनं कर्तुं समुपचक्रमे || १०२ ||

इति श्रीकालिकापुराणे भौमतपस्यायां एकोनचत्वारिंशोऽध्यायः || ३९ ||

Kapitel 40

चत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

ऋतुमत्यां तु जायायां काले स नरकः क्रमात् |
भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् || १ ||

चतुरो जनयामास पुत्रानेतान् क्षितेः सुतः |
महासत्त्वान् महावीर्यान् वीरैरन्यैर्दुरासदान् || २ ||

ततो बाणस्य वचनाद् हयग्रीवं तथा मुरुम् |
सन्धायाथ समानीय सैनापत्येऽभ्यस्.एचयत् || ३ ||

मुरुं सन्निहितं श्रुत्वा हयग्रीवं च भौमिना |
ये ये क्षितौ तदा ह्यासन्नसुरास्तेऽपि सङ्गताः || ४ ||

हयग्रीवं मुरुं श्रुत्वा नरकेण समागतम् |
निसुन्दसुन्दनामानावसुरौ सैनिकैः सह || ५ ||

विरूपाक्षस्तदा दैत्यः सर्वे तेन समागमन् |
ततः स पश्चिमद्वारि नरकः सेनया सह || ६ ||

मुरुं द्वाराधिपं चक्रे हयग्रीवं तथोत्तरे |
पूर्वद्वारि निसुन्दन्तु विरूपाक्षं तु दक्षिणे || ७ ||

मध्ये पञ्चजनं सुन्दं सैनापत्येऽभ्यषेचयत् |
मुरुं क्षुरान्तान् पाशांश्च षट्सहस्राण्ययोजयत् || ८ ||

द्वारि तत् पुररक्षार्थं सत्कृतः क्षितिसूनुना |
एवं पूर्वान् पूर्वतरानवमत्य सुमन्त्रिणः || ९ ||

असुरैरेव सततं सोऽसुरो मुदितोऽभवत् |
पूर्वं गृहीतं भावं स परित्यज्य क्षितेः सुतः || १० ||

आसुरं भावमासाद्य बाधते त्रिदिवौकसः |
न देवान् न मुनीन् सर्वान् न च जानाति कांश्चन || ११ ||

सुरेश्वरं जिगायाशु हयग्रीवसहायवान् |
एवं स चासुरं भावं तन्वानो विचरन् क्षितौ || १२ ||

बाणस्य वचनाच्छक्रं बाधयत्येव वै मुनीन् |
देवेश्वरं त्रिधा जित्वा हयग्रीव सहायवान् || १३ ||

अदित्याः कुण्डलयुगं त्रिषु लोकेषु विश्रुतम् |
सर्वरत्नामृतस्रावि दुःखविघ्नहरं परम् || १४ ||

जहार नरको भौमो निर्भीतो मुनिशापतः |

एवं देवान् बाधमानो मुनीन् विप्रान् क्षितेः सुतः |
पञ्चवर्षसहस्राणि राज्यं प्राग्ज्योतिषेऽकरोत् || १५ ||

एतस्मिन्नन्तरे देवी महाभारार्दिता क्षितिः |
ब्रह्मविष्णुमुखान् देवान् रक्षार्थं शरणं गता |
इदं चोवाच धातारं प्रणम्योर्वी समाधवम् || १६ ||

पृथिव्युवाच

दानवा राक्षा दत्या हरिणा ये च सूदिताः |
ते राज्ञां मन्दिरे जाता अधुना बलगर्विताः || १७ ||

तेषां भारमहं सोढुं न शक्नोमि महत्तरम् |
असंख्याताश्च ते सर्वेतान् संख्यातुं न चोत्सहे || १८ ||

अष्टौ शतसहस्राणि तेषां मुख्या महाबलाः |
तेष्वप्यतिबलान् वोढुं न ताञ्छक्नोमि चाधुना || १९ ||

बाणं बलेः सुतं वीरं कंस धेनुकमेव च |
अरिष्टं च प्रलम्बं च सुनामानं मुरुं शलम् || २० ||

चारुणमुष्टिकौ मल्लौ जरासन्धं महाबलम् |
नरकं च हयग्रीवं निसुन्दं सुन्दमेव च || २१ ||

विरूपाक्षं पञ्चजनं हिडिम्बं च बकं बलम् |
जटासुरं च किर्मीरमनायुधमलम्बुषम् || २२ ||

सौभाख्यं च जरासन्धं द्विविदं चापि वानरम् |
श्रुतायुधं महादैत्यं शतायुधमथापरम् || २३ ||

ऋष्यशृङ्गसुतं चैव सुबाहुमतिबाहुकम् |
कालकञ्जांस्तथा दैत्यान् हिरण्यपुरवासिनः || २४ ||

एतेषां तु पदक्षोभर्विशीर्णाहं दिने दिने |
लोकान् वोढुं न शक्नोमि तान्निघ्नन्तु सुरोत्तमाः || २५ ||

नचेद्रक्षां प्रकुर्वन्ति भवन्तः सुरसत्तमाः |
तदा विशीर्णा यास्यामि पातालमवशाऽधुना || २६ ||

मार्कण्डेय उवाच

ततस्तस्या वचः श्रुत्वा ब्रह्मविष्णुमहेश्वराः |
इत्यूचुस्ते करिष्यामः क्षिते भारविमोक्षणम् || २७ ||

विसृज्य पृथिवीं देवीं सर्वे देवाः सनातनम् |
माधवं तोषयामासुर्भारावतरणं प्रति || २८ ||

स तु तुष्टः सुरान् सर्वान् स्वांशैरवतरन्तु वै |
क्षितौ भारावतारायेत्युक्त्वा स्वयमिह प्रभुः || २९ ||

अवतीर्णोऽथ देवक्या गर्भे भारावतारणे |
विष्णुं चावतरिष्यन्तं ज्ञात्वा देवाः सनातनम् || ३० ||

रम्भातिलोत्तमाद्याश्च देव्यो रूपगुणान्विताः |
क्षितावुत्पादयामासुः सहस्राणि तु षोडश || ३१ ||

ताः सर्वा हिमवत्पृष्ठे क्रीडमाना वरस्त्रियः |
अपश्यन्नरको भौमस्ता जहार तदा हठात् || ३२ ||

तेन ता धर्षिता देव्यो नीताः प्राग्ज्योतिषं प्रति |
नरकं प्रार्थयामासुः समयं मैथुनं प्रति || ३३ ||

नारदो यावदायाति नगरं प्रति भौम ते |
अस्माकं कुरु रक्षां च तावन्नो मुञ्च मैथुने || ३४ ||

स समेष्यति वीर त्वां न चिरान्नो ह्यनुग्रहात् |
तेन दृष्टा वयं सार्धमेष्यामः सङ्गमं त्वया || ३५ ||

इति सम्प्रार्थितस्ताभिर्नरको भूमिनन्दनः |
ब्रह्मवाक्यं तदा स्मृत्वा एवमस्तूचिवान् मुहुः || ३६ ||

एतस्मिन्नन्तरे देवो भगवान् लोकभावनः |
देवक्या जठराज्जातो वृद्धो नन्दगृहेऽभवत् || ३७ ||

कंसकेशिप्रलम्बादीन् हत्वा दैत्याननेकशः |
अकरोद् द्वारकावासं सागरे सलिलान्तरे || ३८ ||

तत्राष्टौ कन्यकास्तेन स्वधर्मेण च स्वीकृताः |
कालिन्दी मानुषीरूपा रुक्मिणी रमणी ततः || ३९ ||

नग्नजित्तनया सत्या लक्ष्मणा चारुहासिनी |
सुशीला शीलसम्पन्ना तथ जाम्बवती सती || ४० ||

एतासु स्त्रीषु च ततो ह्यनुरक्तस्य तस्य वै |
षट्त्रिंशद्वत्सरा जाता बलदेवसहायिनः || ४१ ||

प्रद्युम्नसाम्बप्रमुखाः पुत्रास्तस्य महाबलाः |
जातास्तत्र द्विजश्रेष्ठाः शास्त्रे शस्त्रे च कोविदाः || ४२ ||

अनेके निहता दैत्या भारभूतास्तदा क्षितेः |
प्रहृष्टः क्रीडमानश्च द्वारकायामुवास सः || ४३ ||

अथ शक्रस्तदायातो नरकेणार्दितो भृशम् |
द्वारकां प्रति कृष्णस्य दर्शनाय गणैः सह || ४४ ||

तत्र गत्वा परिष्वज्य कृष्णं लोकनमस्कृतम् |
पूजितस्तेन बहुश आसने काञ्चने स्थितः || ४५ ||

कथयामास हरये नरकस्य विचेष्टितम् |
शक्रो यथा पूर्ववृत्तं यथा वा वर्ततेऽधुना || ४६ ||

शक्र उवाच

शृणु कृष्ण महाबाहो यदर्थमहमागतः |
कथयिष्यामि तत् सर्वं तत्र शङ्कां न सङ्कुरु || ४७ ||

भूमिपुत्रोऽसुरो नाम्ना नरकः सुरमर्दनः |
चिरञ्जीवी पुरा विष्णुक्षितिभ्यां परिपालितः || ४८ ||

अधुना स क्षितिं विष्णुमवज्ञाय दुरासदः |
वाणस्य वचनाद् भौमो ब्रह्माऽं पर्यतोषयत् || ४९ ||

ब्रह्मतः स वरान् लब्ध्वा ह्यतीवाभूत् प्रदर्पितः |
माधवं पृथिवीं वापि सस्मार न कदाचन || ५० ||

पूर्वमासीत् स धर्मात्मा ह्याराधितसुरो व्रती |
अधुना बाधते सर्वानासुरं भावमाश्रितः || ५१ ||

अदितेः कुण्डले मोहाज्जहारामृतसम्भवे |
देवानृषीन् बाधमानो विप्राणामप्रिये रतः || ५२ ||

मां चापि बाधते नित्यं कामगामी दुरासदः |
जेता तु सुरदैत्यानामवध्यः सर्वदेहिनाम् || ५३ ||

तव चाप्यन्तरप्रेक्षी तं पापं जहि भूतये |
त्वदर्थं सर्वदेवैर्या देवगन्धर्वकन्यकाः || ५४ ||

पुरा पर्वतमुख्ये तु हिमवत्यवतारिताः |
चतुर्दश सहस्राणि सहस्रे द्वै शताधिके || ५५ ||

ताः सर्वाः कन्यकाः पापः प्रसह्य वरदर्पितः |
जहार स दुराधर्षो हयग्रीवसहायवान् || ५६ ||

सागरे यानि रत्नानि पृथिभ्यां च त्रिविष्टपे |
तानि सर्वाणि संहृत्य प्रमथ्य सुरमानुषान् || ५७ ||

तीरे लौहित्यतीर्थस्य सोऽकरोन्मणिपर्वतम् |
तस्मिन् गिरौ पुरीं रम्यां कारयित्वाऽलकाह्वयाम् || ५८ ||

ताः सर्वा वासयामास देवगन्धर्वयोषितः |
एकवेणीधराः सर्वाः सम्भोगपरिवर्जिताः || ५९ ||

त्वामेव ताः प्रतीक्षन्ते सनाथाः कुरु कृष्ण ताः |
यावदागच्छति पुरं भवतो नारदो मुनिः || ६० ||

तावन्न मैथुने यत्नं भौम त्वं संकरिष्यसि |
इति ताः समयं चक्रुर्नरकस्य दुरात्मनः || ६१ ||

नारदश्च तदायातः प्राग्ज्योतिषपुरं प्रति |
यदा त्वं नरकं हन्तुं गन्ता तत्पुरमुत्तमम् || ६२ ||

तस्मात् त्वं पापकर्माणं नरकं नरकोपमम् |
जहि देवमनुष्याणां कण्टकं तं दुरासदम् || ६३ ||

बधात् तस्य क्षितिर्देवी पुत्रशोकं न चाप्स्यति |
स्वयमेव वधं तस्य देवेभ्यो यदयाचत || ६४ ||

तस्मात् तं जहि पापिष्ठं नरकं पापपुरुषम् |
स्त्रीरत्नान्यपि रत्नानि तं निहत्य समुद्धर || ६५ ||

इत्युक्तो जगतां नाथः शक्रेण सुमहात्मना |
प्रतिजज्ञे क्षितिसुतं हन्तुं प्रति तदैव हि || ६६ ||

प्रतिज्ञाय वधं तस्य शक्रेण सह केशवः |
तदैव यात्रामकरोत् प्राग्ज्योतिषपुरं प्रति || ६७ ||

आरुह्य गरुडं कृष्णः सत्यभामाद्वितीयकः |
प्राग्ज्योतिषमुखोअ.गच्छद्वासवस्त्रिदिवं ययौ || ६८ ||

दिवमाक्रम्य गच्छन्तौ कृष्णशक्रौ महाद्युती |
यादवा ददृशुस्तत्र सूर्याचन्द्रमसौ यथा || ६९ ||

संस्तूयमानौ गन्धर्वैर्देवैरप्सरसां गणैः |
कृष्णः शक्रः क्षणादेव गतौ खे तावदृश्यताम् || ७० ||

ततः क्षणेन गरुडेनाससाद जगत्पतिः |
पुरं प्राग्ज्योतिषं रम्यं नरकेण वशीकृतम् || ७१ ||

स दुर्गं मौरवैः पाशैः षट्सहस्रैर्भयङ्करैः |
क्षुरान्तैर्वेष्टितं पार्श्वे मृत्युपाशैरिवोच्छ्रितम् || ७२ ||

निर्गच्छन्तं पुरात् तस्मात् नारदं च ददर्श सः |
स तु देवमुनिः श्रीमान् यदागान्नरकं प्रति || ७३ ||

तदा प्राग्ज्योतिषं गत्वा सत्कृतस्तेन नारदः |
सङ्गमे समयं प्रोचे नरकाय स योषिताम् || ७४ ||

प्रवर्ततेऽद्य चैत्रस्य शुक्लपक्षस्य पञ्चमी |
नवम्यां तु धरापुत्र प्राप्नोसिमहदापदम् || ७५ ||

तदा यदि चतुर्दश्यां सुस्नाता योषितस्त्विमाः |
सुरतेषु त्वया तत्र प्रोयोक्तव्या यथासुखम् || ७६ ||

नारदस्य वचः श्रुत्वा नरको भयमोहितः |
आसारं च प्रसारं च नगरे सन्यवेशयत् || ७७ ||

रक्षिभी रक्षितं राज्यं रक्षितं च समन्ततः |
भयहर्षयुतो भौमः समयं समवैक्षत || ७८ ||

तस्मिन्नवसरे प्राप कृष्णः प्राग्ज्योतिषं पुरम् |
प्रथमं पश्चिमं द्वारमासाद्य गरुडध्वजः || ७९ ||

पाशानां षट्सहस्राणि क्षुरान् सञ्छिद्य नैकधा |
जघान स मुरुं दैत्यं सानुगं च सबान्धवम् || ८० ||

षट्सहस्रा महावीरा दानवा द्वारि संस्थिताः |
हताश्चक्रेण हरिणा तदैव मुरुणा सह || ८१ ||

मुरुं हत्वा सहस्राणि पुत्रांस्तस्यापरांश्च षट् |
जघान चक्रेण तदा खण्डशोऽन्यांश्च दानवान् || ८२ ||

ततोऽनेकशिलासंघानतिक्रम्य जनार्दनः |
सगणं सानुगं चैव निसुन्दं समपोथयत् || ८३ ||

एको यो योधयेद्देवान् सहस्रं वत्सरान् पुरा |
शक्रं च समतिक्रम्य महावीरपराक्रमः || ८४ ||

तं जघान हयग्रीवं समतिक्रम्य केशवः |
मध्ये लौहित्यसंज्ञस्य भगवान् देवकीसुतः || ८५ ||

औदकायां विरूपाक्षं सुन्दं हत्वा महाबलः |
ततः पञ्चजन वीर जघान परमेश्वरः || ८६ ||

एतान् हत्वा महाकायान् महावीर्यान् दुरासदान् |
आससाद जगन्नाथः पुर प्राग्ज्योतिषाह्वयम् || ८७ ||

वियत्स्थैर्दैवतैः सर्वैर्नारदेन महात्मना |
जयशब्दैः स्तूयामानः प्रविवेश यथेश्वरः || ८८ ||

श्रिया युक्तां दीप्यमानां प्राकाशाट्टालभूषिताम् |
स मेने नगरीं विष्णुः किमिन्द्रस्यामरावती || ८९ ||

तत्र युद्धं महद्भूत नानाप्रहरणोद्यतम् |
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् |
यथा देवासुरं युद्धं तथैव समपद्यत || ९० ||

ततः शार्ङ्ग विनिर्मुक्तैर्बाणैस्तान् दानवान् बहून् |
निजघान महाबाहुर्गरुडस्थो जनार्दनः || ९१ ||

अष्टौ शतसहस्राणि अष्टौ शतशतानि च |
हत्वासुरान् महाबाहुर्नरकं तं समासदत् || ९२ ||

ततः श्रुत्वा स नरकः पतितानसुरान् बहून् |
दृष्ट्वा कृष्णं महाबाहुं गरुडस्थं महाबलम् || ९३ ||

वसिष्ठशापं सस्मार समयं माधवस्य च |
नारदस्य वचश्चापि वरच्छिद्रं तथा विधेः || ९४ ||

स प्राप्तकालश्च तथा केशवेन समागतः |
युद्धमेव परं मेने स्मरन् बाणवचस्तदा || ९५ ||

स काञ्चनं समारुह्य रथं वज्रध्वजं वरम् |
लौहश्चक्राष्टसंयुक्तं त्रिनल्वप्रमितं रथम् || ९६ ||

युक्तमश्वसहस्रैस्तु वज्रध्वजविराजितम् |
नानाप्रहरणोपेतं बहुतूणीरसंयुतम् |
अगच्छत् समारायाशु नरकः पृथिवीसुतः || ९७ ||

स गच्छन् समरायाशु मानुषं भावमर्चितम् |
निन्द्यं तथासुरं मेने स्मरन् पूर्ववचो हरेः || ९८ ||

क्षणात् कृष्णं स ददर्श गरुडोपरि संस्थितम् |
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् || ९९ ||

किरीटकुण्डलयुतं श्रीवत्सवक्षसं हरिम् |
कौस्तुभोद्भासितोरस्कं पीताम्बरधरं परम् || १०० ||

स तेन युयुधे वीरो विष्णुना प्रभविष्णुना |
प्राग्ज्योतिषाधिपो वीरो नरकः पृथिवीसुतः || १०१ ||

स युध्यत् कृष्णनिकटे कालिकां कालिकोपमाम् |
रक्तास्यनयनां दीर्घां खड्गशक्तिधरा तदा || १०२ ||

अपश्यज्जगतां धात्रीं कामाख्यामपि मोहिनीम् || १०३ ||

स विस्मितस्तदा भीतस्तां दृष्ट्वा जगतां प्रसूम् |
योद्धव्यमित्येव तदा युयुधे नरकोऽसुरः || १०४ ||

तेन सार्धं तदा कृष्णः कृत्वा सुमहदद्भुतम् |
युद्धं यादृक् पुरा भूतं न देवे न च मानुषे || १०५ ||

ततस्तेनाथ भौमेन युद्धकेलिं स माधवः |
चिरं कृत्वा जघानाथ देवेन्द्रं प्रतिहर्षयन् || १०६ ||

सुदर्शनेन चक्रेण मध्यदेशे तदा हरिः |
द्विधा चिच्छेद नरकंखण्डितोऽभ्यपतद् भुवि || १०७ ||

विभक्ततच्छरीरं तु भूमौ निपतितं तदा |
विराजन्ते वज्रभिन्नौ यथा गौरिकपर्वतः || १०८ ||

पतिते तनये देवी पृथ्वी दृष्ट्वा शरीरकम् |
शोकवेगं तदा सेहे ज्ञात्वा कालं तदागतम् || १०९ ||

अदितेः कुण्डलयुगं स्वयमादाय काश्यपी |
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् || ११० ||

पृथिव्युवाच

त्वया वराहरूपेण यदाहं चोद्धृता पुरा |
तदा त्वद्गात्रसंस्पर्शात् पुत्रो मे नरकः स्थितः |
सोऽयं त्वया पालितश्च पातितश्चाधुना सुतः || १११ ||

गृहाण कुण्डले चेमे अदितेः सर्वकामदे |
सन्ततिं चास्य गोविन्द प्रतिपालय नित्यदा || ११२ ||

श्रीभगवानुवाच

भारावतरणे देवि नरकस्य वधः पुराः |
त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया || ११३ ||

पालयिष्येऽस्य सन्तानं देवि त्वद्वचनादहम् |
प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् || ११४ ||

एवमुक्त्वा महाबाहुर्भगवान् मधुसूदनः |
अन्तःपुरं विवेशास्थ नरकस्य धनालयम् || ११५ ||

स तत्र ददृशे वीरो रत्नानि विविधानि च |
राशीभूतानि शुद्धानि पर्वतानिव राजतः || ११६ ||

मुक्तामणिप्रवालानां वैदूर्यस्य च पर्वतम् |
तथा रजतकूटानि वज्रकूटानि माधवः || ११७ ||

सुवर्णसञ्चयान् रुक्मदण्डान् रत्नमयध्वजान् |
वाहनानि विचित्राणि यानानि शयनानि च || ११८ ||

खचितानि स्वर्णरत्नैर्महार्हाणि महान्ति च |
यद् यद् दृष्टं च यावच्च धनं रत्नं मणिस्तथा || ११९ ||

भुवि तादृक् च नो दृष्टमन्यत्र नरकालयात् |
न कुबेरस्य नरेन्द्रस्य न यमस्याप्यपां पतेः || १२० ||

तावन्ति धनरत्नानि यावन्ति नरकालये |
केशवोऽप्यथ तत्रैव नारदेन च संगतः || १२१ ||

अवेक्ष्यान्तःपुरधनं सारं सारतरं ततः |
तेषां समाददे ग्राह्यं प्रभूतं परवीरहा || १२२ ||

या दत्ता वैष्णवीशक्तिर्विष्णुना प्रभविष्णुना |
हत्वा भौमं तु तां शक्तिं जगृहे देवकीसुतः || १२३ ||

पृथिव्या नारदेनैव सहितः केशवस्तदा |
भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे || १२४ ||

अभिषिच्य तदा भूपं पुरमध्ये न्यवेशयत् |
अभिषिक्तं तु तां दृष्ट्वा भगदत्तं तदा क्षितिः || १२५ ||

नप्तुरर्थेऽथ तां शक्तिं केशवं समयाचत |
केशवोऽपि क्षितेर्वाक्यान्नारदानुमतेन च |
तां शक्तिं भगदत्ताय सुप्रीतमनसा ददौ || १२६ ||

यच्छत्रं वरुणं जित्वा काञ्चनस्राविसंज्ञकम् |
समानयत् पुरा भौमस्तच्छस्त्रं हरिराददे || १२७ ||

अष्टभारसुवर्णानि यत्संस्रवति चान्वहम् |
यत् क्रोशमात्रविस्तीर्णमर्धयोजनमुच्छ्रितम् || १२८ ||

रत्नोत्तमानि सर्वाणि चतुर्दन्तांस्तथा गजान् |
चतुर्दशसहस्राणि पूजिताः प्रमदास्तथा || १२९ ||

द्वारकां प्रति दैत्यौघैर्वाहयामास केशवः || १३० ||

ता देवकन्यकाः पूर्वं नरकेण हृता बलात् |
तासां कृत्वा हृषीकेशो वेणीबन्धविमोक्षणम् || १३१ ||

वासोभिर्भूषणेर्दिव्यैस्ताः सत्कृत्य मुहुर्मुहुः |
आरोप्य च विमाने तु रक्षिभिर्बलिभिर्दृढैः || १३२ ||

नारदाधिष्ठिताः सर्वा द्वारकां प्रत्यवाहयत् |
यः कृतः सुरकन्यार्थे भौमेन मणिपर्वतः || १३३ ||

मणिरत्नौघसम्पूर्णो दिवाक्रसमप्रभः |
उत्पाट्य तं जगन्नाथस्तार्क्षपृष्ठे न्यधाप्यत् || १३४ ||

तथैव वारुणं छत्रं गरुडोपरि माधवः |
आरोप्य सत्यया सार्धमासीनः सुमना हरिः || १३५ ||

भगदत्तं समाभाष्य पृथिवीं च जगत्पतिः |
प्रतस्थे द्वारकां वीरो वियन्मार्गेण वै द्रुतम् || १३६ ||

सुवर्णं काञ्चनस्राविच्छत्रं समणिपर्वतम् |
केशवं सत्यया सार्ध हेलया खे वहन् ययौ || १३७ ||

क्षणेन द्वारकां प्राप्य केशवः परवीरहा |
मुदं च लेभे सकलैर्वान्धवैश्च तथा गणैः || १३८ ||

एवं काली महामाया कालिकाख्या जगन्मयी |
विष्णुं च जगतां नाथं परापरपतिं हरिम् || १३९ ||

जगत्कारणकर्तारं ज्ञानगमयं जगन्मयम् |
सन्मोहयत्येव तथा ह्यनुरागविरागवान् || १४० ||

अनुगृह्णाति मित्राणि ह्यमित्राणि निहन्ति च |
नारीषु मूढो रमते द्वन्द्वेनापि च मुह्यते || १४१ ||

इति वः कथितं विप्रा यथाभून्नरकोऽसुरः |
यथा च वरलाभोऽभूद् यथा चास्य विचेष्टितम् || १४२ ||

आराधितो यथा ब्रह्म बाणबुद्ध्याथ भौमिना |
किमन्यदुचितं वास्ति तद्ब्रुवन्तु द्विजोत्तमाः || १४३ ||

इति श्रीकालिकापुराणे नरकोपाख्याने चत्वारिंशोऽध्यायः || ४० ||


Kapitel 41

एकचत्वारिंशोऽध्यायः

ऋषय ऊचुः

कथं गिरिसुता काली बभूव जगतां प्रसूः |
दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् || १ ||

कथमर्धशरीरं सा जहार च पिणाकिनः |
एतन्नः पृच्छतां सम्यक् कथयस्व महामते || २ ||

मार्कण्डेय उवाच

शृणुध्वं मुनिशार्दूला यथा दाक्षायणी सती |
भूता गिरिसुता पूर्वं यथार्धमहरत्तनुम् || ३ ||

यदाऽत्यजत्तनुं देवी पूर्वं दाक्षायणी सती |
तदैव मनसागच्छन् मेनकां हिमवद्गिरिम् || ४ ||

यदा हरेण सहिता दक्षकन्या हिमाचले |
चिक्रीड च तदा तस्या मेनकाऽभूद् हितैषिणी || ५ ||

अस्याः सुता स्यामिति च आधाय मनसि द्विजाः |
त्यक्तप्राणा तदा देवी भूता हिमवतः सुता || ६ ||

यदा दाक्षायणी प्राणान् दक्षकोपाज्जहौ पुरा |
तदैव मेनका देवी आरिराधयिषुः शिवम् || ७ ||

महामायां जगद्धात्रीं योगनिद्रां सनातनीम् |
मोहिनीं सर्वभूतानां शरणं सर्वनाकिनाम् || ८ ||

अष्टम्यामुपवासं तु कृत्वा सा नवमीतिथौ |
मोदकैर्वलिभिः पिष्टैः पायसैर्गन्धपुष्पकैः || ९ ||

चैत्रे मासि समारभ्य सप्तविंशतिवासरान् |
यावत् सम्पूजयामास पुत्रार्थिन्यन्वहं शुचिः || १० ||

गङ्गायामोषधिप्रशे कृत्वा मूर्तिं महीमयीम् |
कदाचित् सा निराहारा कदाचित् सा धृतव्रता || ११ ||

शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् |
निनाय मेनका देवी परमां भूतिमिच्छती || १२ ||

सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी |
सुप्रीताऽभवदत्यर्थं प्राह प्रत्यक्षतां गता || १३ ||

देव्युवाच

यत् प्रार्थितं त्वया देवि मत्तस्तत्प्रार्थयाधुना |
दास्ये तवाहं तत्सर्वं वाञ्छितं यद् हृदा भवेत् || १४ ||

मार्कण्डेय उवाच

ततः सा मेनका देवी प्रत्यक्षं कालिकां गताम् |
दृष्ट्वैव प्रणनामाथ वचनं चेदमब्रवीत् || १५ ||

देवी प्रत्यक्षतो रूपं तव दृष्टं मयाऽधुना |
त्वामहं स्तोतुमिच्छामि प्रसन्ना यदि मे शिवे || १६ ||

ततः सा मातरित्युक्त्वा कालिका सर्वमोहिनी |
बाहुभ्यां चारुवृत्ताभ्यां मेनकां परिषस्वजे || १७ ||

ततः सा मेनका देवी कालिकां परमेश्वरीम् |
तुष्टाव वाग्भिरिष्टाभिः शिवां प्रत्यक्षतः स्थिताम् || १८ ||

मेनकोवाच

प्रेरयन्तीं जगद्धाम चण्डिकां लोकधारिणीम् |
प्रणमामि जगद्धात्रीं सर्वकामार्थसाधिनीम् || १९ ||

इत्यानन्दां ज्ञानमयीं योगनिद्रां जगत्प्रसूम् |
प्रणमामि शिवां शुद्धां विधिशौरिशिवात्मिकाम् || २० ||

मायामयीं महामायां भक्तशोकविनाशिनीम् |
कामस्य वनितं भद्रां नमामि त्वां चित्ति शिवाम् || २१ ||

सत्त्वोद्रेकाद् या भवित्रीह नित्या
नित्या चापि प्राणिनां बुद्धिरूपा |
सा त्वं बन्धच्छेदहेतुर्यतीनां
कस्ते गद्यो मादृशीभिः प्रभावः || २२ ||

या त्वं साम्नां सिद्धिरुक्थिस्तथार्चा
या वृत्तिर्या यजुषां दीर्घरूपा |
हिंसा या वाऽथर्ववेदस्य सा त्वं
नित्यं कामं त्वं ममेष्त विधेहि || २३ ||

नित्यानित्यर्भागहीनैः पुरस्थै स्तन्मात्रैर्यैर्यत्यते भूतवर्गः |
तेषां शक्तिस्त्वं सदा नित्यरूपा
का ते योषा योग्यं वक्तुं समर्था || २४ ||

क्षितिर्धरित्री जगतां त्वमेव
त्वमेव नित्या प्रकृतिस्वरूपा |
यया वशः क्रियते ब्रह्मरूपः
सा त्वं नित्या मे प्रसीदास्तु मातः || २५ ||

त्वं जातवेदोगतशक्तिरूपा त्वं दाहिका सूर्यकरस्य शक्तिः |
आह्लादिका त्वं बहु चन्द्रिकाया-
स्तां तामहं स्तौमि नमामि चाम्बिकाम् || २६ ||

योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्व रेतसाम् |
वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः || २७ ||

याऽनेकरूपाणि विधाय नित्यं
सृष्टिं स्थितिं हानिमपीह कर्त्री |
ब्रह्माच्युतस्थाणुशरीरहेतुः
सा त्वं प्रसीदाद्य पुनर्नमस्ते || २८ ||

मार्कण्डेय उवाच

ततः सा जगतां माता कालिका पुनरेव हि |
उवाच मेनकां देवीं वाञ्छितं वरयेत्युत || २९ ||

ततः सा प्रथमं पुत्रशतं वब्रे यशस्विनी |
वीर्यवच्चायुषा युक्तमृद्धिसिद्धिसमन्वितम् || ३० ||

पश्चात् तथैकां तनयां सुरूपां गुणशालिनीम् |
कुलद्वयानन्दकरीं भुवनत्रदुर्लभाम् || ३१ ||

ततो भगवती प्राह मेनकां मुनिसन्निभाम् |
स्मितपूर्वं तदा तस्याः पूरयन्ती मनोरथम् || ३२ ||

देव्युवाच

शतं पुत्राः सम्भवन्तु भवत्या वीर्यसंयुताः |
तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति || ३३ ||

सुता च तव देवानां मानुषाणां च रक्षसाम् |
हिताय सर्वजगतां भविष्याम्यहमेव ते || ३४ ||

वं सुखप्रसवा नित्यं तथा नित्यं पतिव्रता |
अम्लाना रूपसम्ना सुभगा च भविष्यसि || ३५ ||

मार्कण्डेय उवाच

एवमुक्ता जगद्धात्री तत्रैवान्तरधीयत |
मेनका च मुदं लब्धा स्वस्थानं प्रविवेश ह || ३६ ||

ततः काले तु सम्प्राप्ते मैनाकमचलोत्तमम् |
पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्तते || ३७ ||

मेनका सुषुवे देवी देवेन्द्रं स्पर्धयागतम् |
अन्यानूनशतं पुत्रान् क्रमात् सा सुषुवे सती || ३८ ||

महावीर्यान् महासत्त्वान् सर्वतो गुणैः |
ततः सा कालिका देवी योगनिद्रा जगन्मयी || ३९ ||

पूर्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ |
समयस्यानुरूपेण मेनका जठरे शिवा || ४० ||

समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् |
वसन्तसमये देवी नवम्यामृक्षयोगतः || ४१ ||

अर्धरात्रे समुत्पन्ना गङ्गेव शशिमण्डलात् |
ततस्तस्यां तु जातायां प्रसन्ना अभवन् दिशः || ४२ ||

अनुकूलो ववौ वायुर्गम्भीरो गन्धवाञ् शुभः |
वभूव पुष्पवृष्टिश्च तोयवृष्टिस्तथापरा || ४३ ||

जज्वलुश्चाग्न्यः शान्ता जगर्जुश्च घनाघनम् |
तस्यां तु जातमात्रायां सर्वं स्वास्थ्यमपद्यत || ४४ ||

तां तु दृष्ट्वा तथा जातां नीलोत्पलदलानुगाम् |
श्यामां सा मेनका देवी मुदमापातिहर्षिता || ४५ ||

देवाश्च हर्षमतुलं प्रापुस्तत्र मुहुर्मुहुः |
तुष्टुवुश्चान्तरिक्षस्था गन्धर्वाप्सरसां गणाः || ४६ ||

तां तु नीलोत्पलदलश्यामां हिमवतः सुताम् |
कालीति नाम्ना हिमवानाजुहाव कृतोदने || ४७ ||

आन्धवैस्तु समस्तैस्तन्नाम्ना सा पार्वतीति च |
कालीति च तथा नाम्ना कीर्तिता गिरिनन्दिनी || ४८ ||

ततः सा ववृधे देवी गिरिराजगृहे शुभा |
गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका || ४९ ||

धमानानुदिवसं चार्वङ्गी चारुतां मुहुः |
अघ्रे सानुदिनं काली चन्द्रबिम्बं कलामिव || ५० ||

सा बालभावमापन्ना क्रीडन्ती कालिका मुदम् |
सखीभिः प्राप विपुलां कालिन्दीव सरिद्व्रजैः || ५१ ||

षड्गुणास्तां स्वयं देवीं पूर्वजन्मवशीकृताः |
स्वयमीयुर्द्विजश्रेष्ठाः प्रावृषं कालिका यथा || ५२ ||

अतिचक्राम स्वगुणैः सा देवी देवकन्यकाः |
रूपैरप्सरसः सर्वा गीतैर्गन्धर्वकन्यकाः || ५३ ||

सा बाल्य एव सततं बन्धुवर्गप्रिया शुभा |
गुणैः स्वबन्धून् पितरं मातरं चाप्यतोषयत् || ५४ ||

मातुः स्तुतिकरी नित्यं पितृपूजनतत्परा |
सर्वदा भ्रातृसहिता जगन्माताऽभवत्तदा || ५५ ||

सर्वदा सा जगन्माता कन्या सा समुपस्थिता |
पितुः समीपे वसति कालिन्दीव विभावसोः || ५६ ||

अथैकदा तां निकटे निधाय हिमवद्गिरिः |
तनयैः सह सङ्गम्य स्थितः परमकौतुकात् || ५७ ||

अथागतस्तत्र मुनिर्नारदो देवलोकतः |
हिमवन्तं सुखासीनं सुतैः सार्धं ददर्श सः || ५८ ||

अपश्यन्निकटे कालीं आलिकामिव सूर्यतः |
ज्योत्स्नामिव सुधांशोस्तु सम्यग्वृद्धां शरन्निशि || ५९ ||

पूजितस्तेन गिरिणा कृतासन-परिग्रहः |
नारदः प्रथमं शैलं वृत्तान्त पर्यपृच्छत || ६० ||

ततो विदितवृत्तान्तो नारदो मेनकां प्रति |
उवाच हर्षयन् वाक्यं मुनिर्वाक्यविशारदः || ६१ ||

नारद उवाच

एषा ते तनया रुच्या शुद्धांशोरिव वर्धिता |
आद्या कला शैलराज सर्वलक्षणशालिनी || ६२ ||

शम्भोर्भवित्री दयिता सानुकूला सदा हरेः |
तस्य चित्तं वशे चैषा करिष्यति तपस्विनी || ६३ ||

स चाप्येनामृते जायां नान्यामुद्वाहयिष्यति |
एतयोर्यादृशः प्रेमा कयोश्चिन्नैव तादृशः || ६४ ||

भूतो वा भविता वापि नाधुना च प्रवर्तते |
अनया सुरकार्याणि कर्तव्यानि बहूनि च || ६५ ||

अनयैव गिरिश्रेष्ठ अर्धनारीश्वरो हरः |
भविष्यति च सौहार्दाज्योत्स्नयैवामृतात्मनः || ६६ ||

शरीरार्धं हरस्यैषा करिष्यति निजास्पदे |
स्वर्णगौरी सुवर्णाभा तपसा तोषिते हरे || ६७ ||

विद्युद्गौरी त्वियं काली तव पुत्री भविष्यति |
गौरीति नाम्ना पश्चात्तु ख्यातिमेषा गमिष्यति || ६८ ||

नान्यस्मै त्वमिमां दातुं मनः कर्तुमिहार्हसि |
इदं चोपांशु देवानां न प्रकाशं करिष्यसि || ६९ ||

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा देवर्षेर्नारदस्य च |
उवाच हिमवान् वाक्यं मुनिं प्रति विशारदः || ७० ||

हिमवानुवाच

श्रूयते त्यक्तसंगः स महादेवो यतात्मवान् |
तपशोपांशु तपति देवानामप्यगोचरः || ७१ ||

स कथं ध्यानमार्गस्थः परब्रहार्पितं मनः |
भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् || ७२ ||

अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् |
सोऽन्तः पश्यति सर्वत्र न तु बाह्यं निरीक्षते || ७३ ||

इति स्म श्रूयते नित्यं किन्नराणां मुखाद् द्विज |
स कथं तादृशं स्वान्तं शक्तो भ्रंशयितुं हरः || ७४ ||

विशेषतः श्रूयते स्म दाक्षायण्या समं हरः |
समयं ज्ञातवान् पूर्वं तन्मे निगदतः शृणु || ७५ ||

त्वामृतेऽन्यां न वनितां दाक्षायणि सति प्रिये |
भार्यार्थे सङ्ग्रहीष्यामि सत्यमेतद् ब्रवीमि ते || ७६ ||

इति सत्या समं तेन पुरैव समयः कृतः |
तस्यां मृतायां स कथं स्त्रियमन्यां ग्रहीष्यति || ७७ ||

नारद उवाच

नात्रा कार्या त्वया चिन्ता गिरिराज भवत्सुता |
एषा सती समुत्पन्ना हरायैव न संशयः || ७८ ||

मार्कण्डेय उवाच

इत्युक्त्वा स तु देवर्षिर्नारदस्तु यथा सती |
मेनकायां समुत्पन्ना सर्वं तत् प्रोक्तवान् गिरौ || ७९ ||

तत्सर्वं पूर्ववृत्तान्तं नारदस्य मुखाद् गिरिः |
श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् || ८० ||

ततः काली कथां श्रुत्वा नारदस्य मुखात् तदा |
लज्जयाऽधोमुखी भूत्वा स्मितविस्तारितानना || ८१ ||

करेण तां तु संगृह्य प्रोन्नमयय मुखं गिरिः |
मूर्ध्नि सम्यगुपाघ्राय स्वासने संन्यवेशयत् || ८२ ||

ततस्तां पुनरेवाह नारदः शैलपुत्रिकाम् |
हर्षयन् गिरिराजं तु मेनकां तनयैः सह || ८३ ||

नारद उवाच

सिंहासनेन किं स्वस्याः शैलराज भवेत् तव |
शम्भोरूरुः सदैवास्या आसनं तु भविष्यति || ८४ ||

हरोरुमासनं प्राप्य तनया तव संततम् |
नान्यत्र कुत्रचित्तुष्टिमासने प्राप्यते गिरे || ८५ ||

मार्कण्डेय उवाच

इति वचनमुदारं नारदः शैलराजं
त्रिदिवमगमदुक्त्वा तत्क्षणाद् देवयानैः |
गिरिपतिरपि चिन्ताहर्षसन्मोहयुक्तः
प्रविशदचलयासौ स्वान्तरं पद्मगर्भम् || ८६ ||

इति श्रीकालिकापुराणे नारदागमने एकचत्वारिंशोऽध्यायः || ४१ ||

Kapitel 42

द्विचत्रारिंशोऽध्यायः

मार्कण्डेय उवाच

एतस्मिन्नन्तरे शम्भुः क्षिप्रं त्यक्त्वा तदा सरः |
गङ्गावतारमगमद् हिमवत्प्रस्थमुत्तम || १ ||

यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता |
ओषधीप्रस्थनगरस्यादूरे सानुरुत्तमः || २ ||

तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् |
चेतो ज्ञानमयं नित्यं ज्योतीरूपं निराकुलम् || ३ ||

जगन्मयं प्रदीपाभं द्वैतहीनाविशेषकम् |
एकाग्रं चिन्तयामास भगवान् वृषभध्वजः || ४ ||

हरे ध्यानपरे तस्मिन् प्रमथा ध्यानतत्पराः |
अभवन् केचिदपरे नन्दिभृङ्ग्यादयो गणाः || ५ ||

द्वाःस्था भूता महाभागा ये पूर्वद्वारि योजिताः |
तावन्तोऽपि गणास्तत्र नैव किंचनं कूजितम् || ६ ||

तेषां संश्रूयते सर्वे निःशब्दाः संस्थितास्ततः |
अन्ये तु तत्र क्रीडन्ति गणा दूरान्तरस्थिताः || ७ ||

कुसुमैश्च दलैर्भक्तैर्गिरिप्रस्रवणोदकैः |
रत्नानि च विचिन्वन्तो भूषिता गैर्कैस्तथा || ८ ||

सगणं तु तथा दृष्ट्वा गिरिराजो गतं हरम् |
स्वस्थानमोषधिप्रस्थान्निःसृत्य सहितो गणैः || ९ ||

पूजार्थमुपतस्थे स यथायोग्यं तथार्चयत् |
स चापि शम्भुस्तस्यार्च्चां परया श्रद्धया युतः |
प्रतिजग्राह कूटस्थो गङ्गाशीर्षे यथा पुरा || १० ||

पूजितस्तेन सहसा गिरिराजं वृषध्वजः |
उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः || ११ ||

ईश्वर उवाच

तव प्रस्थे तपस्तप्तुं रहस्यमहमागतः |
न यथा कोऽपि निकटं समायाति तथा कुरु || १२ ||

त्वं महात्मा जगद्धाम् मुनीनां च सदाश्रयः |
देवानां राक्षसानां च यक्षाणां किन्नरस्य च || १३ ||

सदावासो द्विजातीनां गङ्गापूतश्च नित्यदा |
त्वत्पुरस्यास्य निकटे प्रस्थं गङ्गावतारणम् || १४ ||

आश्रितोऽहं गिरिश्रेष्ठ तद्योग्यं कुरु साम्प्रतम् || १५ ||

इत्युक्त्वा जगतां नाथस्तूष्णीमास वृषध्वजः |
गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् || १६ ||

हिमवानुवाच

पूतोऽस्मि जगतां नाथ त्वयाऽहं परमेश्वर |
आगतेनाद्य विषयमितः कृत्यं किमस्ति मे || १७ ||

तपसा महता त्वं हि देवैर्यत्नपरस्थितै |
न प्राप्यसे जगन्नाथ स त्वं स्वयमुपस्थितः || १८ ||

मत्तो धन्यतरो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् |
यद्भवान् हिमवत्प्रस्थे तपसे समुपस्थितः || १९ ||

देवेन्द्रादधिकं मन्ये आत्मानं परमेश्वर |
सगणेन त्वया प्राप्तो यदाऽहं कामचारतः || २० ||

इत्युक्त्वा गिरिराजोऽथ स्ववेश्म पुनरागमत् |
नियमाय परिवारान् गणानप्यवदत् स्वकान् || २१ ||

अद्य प्रभृति नो गन्ता कोऽपि गङ्गावतारणम् |
मच्छासनं न हि विना यो गन्ता दण्डये ह्यहम् || २२ ||

इति स्वान् स नियम्याशु तिलपुष्पकुशान् फलम् |
समादायाशु तनयासहितोऽगाद् हरान्तिकम् || २३ ||

अथ गत्वा जगन्नाथं हरं ध्यानपरं तदा |
नमयामास तनयां कालीं सर्वगुणान्विताम् || २४ ||

तिलपुष्पादिकं यद् यत्तत्तदग्रे निधाय सः |
अग्रे कृत्वा सुतां शम्भुमिदमाह स शैलराट || २५ ||

हिमवानुवाच

भगवंस्तनयेयं मे त्वमाराधयितुं प्रति |
समादिष्टा समानीता त्वदाराधनकांक्षिणी || २६ ||

सखिभ्यां सह नित्यं त्वां सेवतामीश शंकर |
अनुजानीहि सेवायै मयि ते यद्यनुग्रहः || २७ ||

मार्कण्डेय उवाच

अथ तां शंकरोऽपश्यत् प्रथमारूढयौवनाम् |
फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् || २८ ||

समग्रनीचकेशौघप्राप्तवेशविजृम्भिकाम् |
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् || २९ ||

ऋणालायतपर्यन्तबाहुयुग्ममनोरमाम् |
राजीवकुण्डलप्रख्यघनपीनोन्नतस्तनौ || ३० ||

बिभ्रती क्षीणसन्मध्यां रक्तपाणितलद्वयाम् |
स्थलपद्मप्रतीकाश-पादयुग्ममनोरमाम् || ३१ ||

मध्यक्षीणां महासत्त्वां वृत्तस्थूलघनोज्ज्वलाम् |
सुजङ्घां नागनासोरुंइम्ननाभिविभूषिताम् || ३२ ||

सुवृत्तचारुजङ्घाग्रां त्रिगम्भीरां षडुन्नताम् |
सर्वलक्षणसम्पूर्णां त्रिषु लोकेषु दुर्लभाम् || ३३ ||

ध्यानपञ्जरनिर्बन्धमुनिमानसमप्यरम् |
दर्शनाद् भ्रंशितुं शक्तां योषिद्गणशिरोमणिम् || ३४ ||

तां दृष्ट्वा तपसे नित्यं ध्यानिनां च मनोहराम् |
विघ्नहेतुं चानुरागवर्धिनीं कामरूपिणीम् || ३५ ||

गिरिराजस्य वचनात्तनयां तस्य शंकरः |
पर्येषणायै जगृहे गौरवादपि गोरथः || ३६ ||

ईश्वर उवाच

उवाचेदं तव सुता सखिभ्यां स शैलराट् |
नित्यं मे सेवतां यत्नाद् निर्भीता ह्यत्र तिष्ठतु || ३७ ||

मार्कण्डेय उवाच

एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः |
इदमेव महद् धैर्यं यद् विघ्नो न हि विघ्नयेत् |
निर्विघ्नं स्थानमासाद्य यत्तपः क्रियते द्विजैः || ३८ ||

सविघ्नो विघ्नहेतुं यः परिभूय प्रवर्तते |
त्वन्महत्त्वं च तपसां धीरता च तपस्विनाम् || ३९ ||

ततः स्वपुरमायातो गिरिराट् परिचारकैः |
हरश्च ध्यानयोगेन परं चिन्तयितुं स्थितः || ४० ||

काली सखिभ्यां सहिता प्रत्यहं चन्द्रशेखरम् |
सेवमाना महादेवं गमनागमनैः स्थिता || ४१ ||

कदाचित् सहिता काली सखिभ्यां शंकराग्रतः |
वितन्वती शुभं गीतं पञ्चमञ्चातनोत्तदा || ४२ ||

कदाचित् कुशपुष्पादिसमिद्वारि हराय सा |
सखिभ्यां स्नानसत्कारं कुर्वन्ती न्यवसत्तदा || ४३ ||

कदाचिदग्रे नियता स्थिता चन्द्रभृतो मुखम् |
वीक्षन्ती चिन्तयामास सकामा चन्द्रशेखरम् || ४४ ||

(अदा कार्येषु सा व्यग्रा तदा तत्कर्म चेष्टते |
ऋत्यहीना यदा सा तु तदैवाचिन्तयद्धरम् || ४५ ||

अदा मामेष भूतेशः कर्ता पाणिगृहीतिकाम् |
अदा मया समं रन्ता नानासद्भावभावनैः || ४६ ||

ति चिन्तापरा काली स्वप्नेऽपि परमेश्वरम् |
र्चयत्येव परमं सदा चिन्तनतत्परा || ४७ ||

ग्रं गता यदा काली प्रध्यायति महेश्वरम् |
अदा तद् वेदभूतेशस्तां निसर्गपरिस्थिताम्) || ४८ ||

किन्तु गर्भगतैर्बीजैर्धूतदेहेति तां तदा |
नाग्रहीद्गिरिशः कालीं भार्यार्थे ह्यधृतव्रताम् || ४९ ||

महादेवोऽपि तां दृष्ट्वा तदैवेदमचिन्तयत् |
कथमेषा तपश्चर्याव्रतं कुर्याद् गिरेः सुता || ५० ||

कृतव्रतां ग्रहीष्यामि गर्भबीजविवर्जिताम् |
कालीं भार्या स्वदयितां योनिजामतिदूषिताम् || ५१ ||

व्रतेन चाथ संस्कारैर्गर्भबीजं विमुच्यते |
तस्माद् व्रतं यथा काली कुर्यात् तद् युज्यते कथम् || ५२ ||

इति संचिन्त्य भूतेशस्तदा ध्यानमनाः स्थितः |
ध्यानासक्तस्य तस्याथ नान्यचिन्ता व्यजायत || ५३ ||

काली त्वनुदिनं शम्भुं भक्त्या भृशमसेवत |
विचिन्तयन्ती सततं तस्य रूपं महात्मनः || ५४ ||

हरो ध्यानपरः कालीं नित्यं प्रत्यक्षतः स्थिताम् |
विस्मृत्य पूर्ववृत्तान्तं पश्यन्नपि न पश्यति || ५५ ||

एतस्मिन्नन्तरे देवांस्तारको नाम दैत्यराट् |
ववाधे सर्वलोकांश्च ब्रह्मणो वरदर्पितः || ५६ ||

वशीकृत्य स लोकांस्त्रीन् स्वयमिन्द्रो बभूव ह |
विद्राव्य सकलान् देवान् दैत्यान् स्वांस्तत्पदेषु च |
स्वयं नियोजयामस देवयोनिष् चाप्यसौ || ५७ ||

न यमः स्वेच्छया लोकांस्तस्मिन् राज्ञि नियच्छति |
न स्वेच्छया तथा सुर्यो लोकांस्तपति तद्भयात् || ५८ ||

चन्द्रस्तु नर्मसाचिव्यं तस्य कुर्वन् स रश्मिभिः |
वायुना सह संगम्य तत्सेवां विदधेऽनिशम् || ५९ ||

सदा सौगन्ध्यगाम्भीर्यशैत्यस्निग्धत्वसंयुतः |
तं बीजयन् ववौ वायुः शासनात्तस्य भूभृतः || ६० ||

धनदोऽपि यथासारं धनमादाय यत्नतः |
सावधानस्तस्य सेवामकरोत्तारकेच्छया || ६१ ||

अग्निस्तस्याभवत् सूदः शासनात्तारकस्य तु |
व्यञ्जनान्यथ भोज्यानि चक्रे तस्येच्छया तदा || ६२ ||

निर्-ऋतिस्तस्य सततं सहितः सर्वराक्षसैः |
अश्वान् गजान् वाहनानि कारयामास साध्वसात् || ६३ ||

नृत्यद्भिरप्सरोभिश्च स्तुवद्भिः सूतमागधैः |
गायमानैश्च गन्धर्वैः संचिक्रीड सुरान् द्विषन् || ६४ ||

एवं स सर्वलोकांस्तु त्रिष्वप्यथ विलोडयन् |
लोकेषु सारान् सारांश्च देवानामप्यथाग्रहीत् || ६५ ||

तेनाभिबाधिताः सर्वे देवाः शक्रपुरोगमाः |
ब्रह्माणं शरणं जग्मुरनाथा नाथमुत्तमम् || ६६ ||

ते प्रणम्य सुराः सर्वे पुरुहूतपुरोगमाः |
इदमूचुर्महात्मानं सर्वलोकपितामहम् || ६७ ||

देवा ऊचुः

लोकेश तारको दैत्यो वरेण तव दर्पितः |
निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् || ६८ ||

रात्रिंदिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् |
पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् || ६९ ||

अग्निर्यमोऽथ वरुणो निर्-ऋतिर्वायुरेव च |
तथा मनुष्यधर्मा च सर्वैः अरिकरैर्युतः || ७० ||

एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् |
अनिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः || ७१ ||

या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः |
तान् सर्वानग्रहीद् दैत्यः सारं लोकेषु यच्च यत् || ७१ ||

न यज्ञाः संप्रवर्तन्ते न तपस्यन्ति तापसाः |
दानधर्मादिकं किंचिद् न लोकेषु प्रवर्तते || ७३ ||

तस्य सेनापतिः पापः क्रौञ्चो नामास्ति दानवः |
स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः || ७४ ||

तस्मात् तु तारकेणेडं सकलं भुवनत्रयम् |
हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह || ७५ ||

वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय |
स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरो || ७६ ||

त्वं नो गतिश्च शास्त्रा च त्वं नस्त्राता पिता प्रसूः |
त्वमेव भुवनानां च स्थापकः पालकः कृती || ७७ ||

तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते |
न भवाअस्तथा कर्तुं भवता युज्यतेऽधुना || ७८ ||

मार्कण्डेय उवाच

सुराणां वचनं श्रुत्वा ब्रह्मलोकपितामहः |
प्रत्युवाच सुरान् सर्वांस्तत्कालसदृशं वचः || ७९ ||

ब्रह्मोवाच

ममैव वरदानेन तारकाख्यः समेधितः |
न मत्तस्तस्य मरणं युज्यते त्रिदिवौकसः || ८० ||

युष्माकञ्च प्रतीकारः कर्तव्यः प्रतिकर्मणि |
किन्तु सम्यक् न शक्नोमि प्रतिकर्तुं प्रचोदितः || ८१ ||

तस्माद् यथा तारकाख्यः स्वयमेष्यति संक्षयम् |
तथा यूयं संविदध्वमुपदेशकरस्त्वहम् || ८२ ||

न मया तारको वध्यो न तथा वनमालिना |
न हरेण तथा वध्यो नान्यैरपि सुरैर्नरैः || ८३ ||

एष एव वरो दत्तो मया तस्मै तपस्यते |
उपायश्चिन्तितश्चास्ति तत्कुर्वन्तु सुरोत्तमाः || ८४ ||

सती दाक्षायणी पूर्वं त्यक्तदेहा स्वजन्मने |
अगच्छन्मेनकां देवीं शैलराजस्य योषितम् || ८५ ||

तां समुत्पादयामास मेनकाजठरे गिरिः |
लक्ष्मीमिव् पुरा ख्यातां भृगुः स्वतनयो मम || ८६ ||

तामवश्यं महादेवः कुर्यात् पाणिगृहीत्रिकाम् |
यथा स नचिरात्तस्यामनुरक्तो भवेत् सुराः || ८७ ||

तथा विदध्वं सुतरां तत्तेजः प्रतिकर्तु वः |
तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् || ८८ ||

कर्तुं समर्था नान्यास्ति काचिदप्यबलाऽपरा |
तस्य तेजश्च्युतं यच्च तस्माद् यो जायते सुतः || ८९ ||

स एव तारकाख्यस्य हन्ता नान्यस्तु विद्यते |
सा सुता गिरिराजस्य साम्प्रतं रूढयौवना || ९० ||

तपस्यन्तं गिरिप्रस्थे नित्यं पर्येषते हरम् |
वाक्याद् हिमवतः सा तु काली नाम्ना निषेवते |
सखिभ्यां सह सर्वज्ञं ध्यानस्थं परमेश्वरम् || ९१ ||

तामग्रतो वर्तमानां त्रिलोकवरवर्णिनीम् |
ध्यानासक्तो महादेवो मनसापि न चेच्छति || ९२ ||

यथा समीहते भार्यां कालीं च चन्दशेखरः |
तथा कुरुध्वं त्रिदशा नचिरादेव यत्नतः || ९३ ||

स्वस्थानं भवतां स्वर्गस्तस्मात् तारकमप्यहम् |
निवर्तयिष्ये संगम्य गच्छध्वं विगतज्वराः || ९४ ||

मार्कण्डेय उवाच

इत्युक्त्वा सर्वलोकेशस्तारकाख्यमुपस्थितः |
उपसंगम्य वचनं समाभाष्येदमब्रवीत् || ९५ ||

ब्रह्मोवाच

भो भो तारक मा स्वर्गराज्यं त्वं परिशाधि भोः |
तदर्थं न तपस्तप्तं समये भवता पुरा || ९६ ||

वरो नापि मया दत्तो न मया स्वर्गराजता |
तस्मात् स्वर्गं परित्यज्य क्षितौ राज्यं समाचर || ९७ ||

देवभोग्यानि तत्रैव सम्भविष्यन्ति तेऽसुर |

मार्कण्डेय उवाच

इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत || ९८ ||

स तारकः परित्यज्य स्वर्गं क्षितिमथाभ्ययात् |
तत्रैव संस्थितो देवान् बाधते स्म स नित्यशः |
इन्द्रं करप्रदं चक्रे निदेशस्थं महाबलम् || ९९ ||

तमिन्द्रः सततं देवभोग्यानि वितरन् मुहुः |
सेवमानः क्षमो नाभूत् सन्तोषयितुमीश्वरम् || १०० ||

एवं तेनार्दिता देवा मन्युना परिपीडिताः |
विधातुरुपदेशेन यत्नं चक्रुर्हरान्वये || १०१ ||

तत इन्द्रोऽथ गुरुणा संगम्य कृतनिश्चयः |
कुसुमेषुं समाहूय वचनं चेदमब्रवीत् || १०२ ||

इन्द्र उवाच

त्वयेदं पाल्यते विश्वं त्वया विश्वं प्रसूयते |
त्वं ब्रह्मविष्णुरुद्राणां प्रीतिहेतुः पुरा भवः || १०३ ||

ब्रह्मा प्रीत्या यथा पूर्वमगृह्णाच्चरितव्रताम् |
सावित्रीं माधवो लक्षमीं सतीं दाक्षायणीं हरः || १०४ ||

ताः प्रीतये पुरा तेषां देवेशानां यथा कृता |
तथैव कुरु मे प्रीतिं काम प्राणभृतां सदा || १०५ ||

न त्वं न कस्यचित् स्वर्गे पाताले वाथ भूतले |
प्रियः प्राणभृतां काम सततं जगतां मतः || १०६ ||

देवदानवयक्षाणां रक्षसां मानुषस्य च |
त्वं पालकश्च कर्ता च हृदये च प्रवर्तसे || १०७ ||

तस्मात् त्वं सर्वजगतां हिताय कुरु चेष्टितम् |
देवदानवयक्षाणां मानुषाणां महात्मनाम् || १०८ ||

मार्कण्डेय उवाच

एतच्छ्रुत्वा वचस्तस्य शक्रस्य मकरध्वजः |
देवराजमुवाचेदं सुप्रीतस्तद्वचोऽमृतैः || १०९ ||

मदन उवाच

यत्राहमीशिता शक्र तत्कर्म विदितं त्वया |
तस्मान्ममोचितं शक्यं करिष्ये तन्निदेशय || १०० ||

पञ्चैव बाणा मृदवस्ते च पुष्पमया मम |
चापस्तथा पुष्पमयः शिञ्जिनी भ्रमरात्मिका || १११ ||

रतिर्मे दयिता जाया वसन्तः सचिवो मम |
यन्ता मलयजो वायुर्मित्रं मम सुधानिधिः || ११२ ||

सेनाधिपो मे शृङ्गारो हावा भावाश्च सैनिकाः |
सर्वे मे मृदवोऽक्रूरा अहं चापि तथाविधः || ११३ ||

यद् येन युज्यते कार्यं धीमांस्तत्तेन योजयेत् |
मम योग्यं तु यत् कर्म तस्मात्तस्मिन् नियोजय || ११४ ||

इन्द्र उवाच

यत् कारयितुमिच्छामि भवता तन्मनोभव |
तत्ते समुचितं कर्म तस्मिन् परिवृतो भवान् || ११५ ||

कृतकर्मापि तत्र त्वं कृती चापि मनोभव |
त्वदन्यैः किन्तु दुःसाध्यं तत्त्वां तत्र नियोजये || ११६ ||

श्रूयते हि तपस्यन्तं ध्यानस्थं वृषभध्वजम् |
गिरेर्हिमवतः प्रस्थे निराकांक्षं वधूकृतौ || ११६ ||

तं पितुर्वचनात् काली तपस्यन्तं निषेवते |
सखिभ्यां सहिता नित्यं हरस्यानुमतेऽधुना || ११७ ||

आरूढयौवनां तां तु स्त्रीरत्नमपि सुन्दरीम् |
ध्यानासक्तो महादेवो नेहते मनसापि च || ११८ ||

सानुरागो यथा तस्यां जायते वृषभध्वज |
तथा विधत्स्व देवानां हिताय जगतामपि || ११९ ||

सह सत्या यथा रेमे सानुरागो वृषध्वजः |
अथैतया गिरिजया रमतां तत्कृतेन वै) || १२० ||

तस्याः कृते तु यत्तेजः प्रच्युतं यद् हरस्य वै |
ततो यो जायते सोऽस्मांस्तारकादुद्धरिष्यति || १२१ ||

मार्कण्डेय उवाच

ततः स देवराजस्य वचः श्रुत्वा मनोभवः |
प्राप्तकालं च सस्मार शाप ब्रह्मकृतं पुरा || १२२ ||

सन्ध्यां प्रतिविधातारं यदा शस्त्रं परीक्षितम् |
कामोऽहनत्
पुष्पबाणैस्तदा तमशपद्विधिः || १२३ ||

शम्भुनेत्राग्निदग्धस्त्वं भविष्यसि द्विजोत्तमाः |
यदा कुर्याद् गिरिसुतां हरः पाणिगृहीतिकाम् || १२४ ||

तदा भवान् शरीरेणागमिष्यति समग्रताम् |
इति स्मृत्वा विधेः शापं भीतोऽपि मकरध्वजः || १२५ ||

अङ्गीचक्रे शक्रवाक्यात् काल्या योजयितुं हरम् |
इदं च वचनं प्रोचे तत्कालसदृशं पुनः || १२६ ||

मदन उवाच

करिष्ये तद्वचः शक्र हरं संगमयाम्यहम् |
काल्या गिरिजया सार्धं दाक्षायण्या यथा पुरा || १२७ ||

किन्त्वेकं मम साहाययं कर्ता त्वं हरमोहने |
यदा सन्मोहनेनाहं हरं सन्मोहयामि च || १२८ ||

तदा कुरु सहायं त्वं स्वःस्थमाप्याययस्व माम् |
प्रविश्याहं सुरभिणा न चिराच्छंकराश्रमम् || १२९ ||

विधाय पूर्वं मनसो विकारं हर्षणेन तु |
संमोहनेन सुदृढं मोहयिष्ये वृषध्वजम् || १३० ||

स्मरिष्यसि त्वं सम्प्राप्ते काले मां मम पालने |
अहं गच्छामि सहितं तत्कर्तुं बलसूदन || १३१ ||

मार्कण्डेय उवाच

इत्युक्त्वा स जगामाथ मदनः शंकराश्रमम् |
शक्रोऽपि त्रिदशान् सर्वानिदमाह वचस्तदा || १३२ ||

यूयं कुरुध्वं साहाययं यत्र याति मनोभवः |
तत्र तत्रानुगयैव समये मां च बोधत || १३३ ||

यदा संमोहनेनायं संमोहयति शंकरम् |
तदाहमपि यास्यामि तत्र बोधत मां सुराः || १३४ ||

इत्युक्तास्तेन शक्रेण देवा जग्मुर्मनोभवम् |
सोऽपि गत्वा यत्र हरो गङ्गावतरणे गिरेः |
हिमभारभृतः सानौ सुरभिं च न्ययोजयत् || १३५ ||

ततस्तत्र गते सम्यक्सुरभौ तस्य लक्षणम् |
अभवन्नचिरादेव तरुगुल्मलतासु च || १३६ ||

पुष्पिताः किंशुकास्तत्र मञ्जुलाः केतकास्तथा |
सरांसि च सप्द्मानि सविकाराश्च जन्तवः || १३७ ||

ववौ वायुश्च गम्भीरो गन्धिलः पुष्परेणुभिः |
शनैः शनैः सुखकरः कर्षयन् स हि काननम् || १३८ ||

पक्षिणश्च मृगाश्चैव ये चान्ये प्राणधारिणः |
सिद्धाश्च किन्नराश्चैव द्वन्द्वभावं वितेनिरे || १३९ ||

चूताः कुसुमितास्तत्र नवस्तबकभूषिताः |
अशोकाः पाटलाश्चैव नागकेशरकारुणाः || १४० ||

सविकारा गणाश्चासन् शंकरस्य तदा द्विजाः |
प्रत्यक्षतों ययुस्तेऽपि विकारं शम्भुसाध्वसात् || १४१ ||

भ्रमन्ति स्म तदा तत्र भ्रमराः कुसुमोद्भवम् |
पिबन्तो बहुशश्च्युतं गुञ्जन्तः सह जायया || १४२ ||

एवं प्रवृत्ते सुरभौ शृङ्गारोऽपि गणैः सह |
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् || १४३ ||

मदनः सगणस्तत्र निवसंश्चिरमेव हि |
न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रवेक्ष्यति || १४४ ||

यदा च प्राप्तविवरस्तदा भयविमोहितः |
नाग्रेसरोऽभवत् तस्य मदनो रतिवारितः || १४५ ||

एवं यातस्तस्य कालः प्रभूतो द्विजसत्तमाः |
निरूपयन् न वा चाप छिद्रं तस्य यतेस्तदा || १४६ ||

ज्वलत्कालाग्निसंकाशं भानुलक्षसमप्रभम् |
ध्यानस्थं शंकरं को वा समासादयितुं क्षमः || १४७ ||

अथैकदा गिरिसुता काली तस्याभवत्पुरः |
कृत्वा परीष्टिं कर्तव्या सखिभ्यां प्रणता स्थिता || ३४८ ||

शंकरोऽपि तदा ध्यानं त्यक्त्वा तत् क्षणमास्थितः |
योजयन् स्वगणान् कृत्ये ज्योतिश्चिन्ताविवर्जितः || १४९ ||

तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु |
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् || १५० ||

शृङ्गारश्च तदा भावैर्हावैश्च सहितो हरम् |
जगाम कामसाहाययं कुर्वन् सुरभिणा सह || १५१ ||

हर्षणेनातिहृषितः शृङ्गाराद्यैर्निषेवितः |
शंकरो वदनं काल्याः साकूतं संव्यलोकयत् || १५२ ||

तत् प्राप्य विवरं कामः पुष्पं चापे न्ययोजयत् |
संमोहनं पुष्पवृतं पुष्पमालाविवर्धितम् || १५३ ||

तदाभूद् दक्षिणे पार्श्वे रतिः प्रीतिस्तु वामतः |
पृष्ठे वसन्तस्तूणीरं पौष्पमादाय सुन्दरः || १५४ ||

आकर्णपूरितं पुष्पं चापमाकृष्य संयतः |
यदा मनोभवो वायुस्तदा तं समुपेयिवान् || १५५ ||

एवं प्रवृत्ते सुरभौ शृङ्गारोऽपि गणैः सह |
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् || १४३ ||

मदनः सगणस्तत्र निवसंश्चिरमेव हि |
न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रवेक्ष्यति || १४४ ||

यदा च प्राप्तविवरस्तदा भयविमोहितः |
नाग्रेसरोऽभवत् तस्य मदनो रतिवारितः || १४५ ||

एवं यातस्तस्य कालः प्रभूतो द्विजसत्तमाः |
निरूपयन् न वा चाप छिद्रं तस्य यतेस्तदा || १४६ ||

ज्वलत्कालाग्निसंकाशं भानुलक्षसमप्रभम् |
ध्यानस्थं शंकरं को वा समासादयितुं क्षमः || १४७ ||

अथैकदा गिरिसुता काली तस्याभवत्पुरः |
कृत्वा परीष्टिं कर्तव्या सखिभ्यां प्रणता स्थिता || ३४८ ||

शंकरोऽपि तदा ध्यानं त्यक्त्वा तत् क्षणमास्थितः |
योजयन् स्वगणान् कृत्ये ज्योतिश्चिन्ताविवर्जितः || १४९ ||

तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु |
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् || १५० ||

शृङ्गारश्च तदा भावैर्हावैश्च सहितो हरम् |
जगाम कामसाहाययं कुर्वन् सुरभिणा सह || १५१ ||

हर्षणेनातिहृषितः शृङ्गाराद्यैर्निषेवितः |
शंकरो वदनं काल्याः साकूतं संव्यलोकयत् || १५२ ||

तत् प्राप्य विवरं कामः पुष्पं चापे न्ययोजयत् |
संमोहनं पुष्पवृतं पुष्पमालाविवर्धितम् || १५३ ||

तदाभूद् दक्षिणे पार्श्वे रतिः प्रीतिस्तु वामतः |
पृष्ठे वसन्तस्तूणीरं पौष्पमादाय सुन्दरः || १५४ ||

आकर्णपूरितं पुष्पं चापमाकृष्य संयतः |
यदा मनोभवो वायुस्तदा तं समुपेयिवान् || १५५ ||

संहिते पुष्पबाणे तु गिरिजां चन्द्रशेखरः |
जातेन्द्रियविकारः सन् जिघृक्षुः संगमेऽभवत् || १५६ ||

अमराः शक्रसहितास्तदा सर्वे वियद्गताः |
सभ्यं मनोभवं मेने सुरकृत्ये निवेशितभ् || १५७ ||

अथ संस्मृत्य संयम्य निगृह्य विकृतिं तदा |
इन्द्रियस्य महादेवः सहसेदं व्यचिन्तयत् || १५८ ||

योनिजां गिरिजां कालीं तपोव्रतविवर्जिताम् |
कथं संगमकामोऽहं धर्तुमिच्छामि वै हठात् || १५९ ||

तपोव्रतपवित्राङ्गों तपश्चरणसत्कृताम् |
स्वयमेव ग्रहीष्यामि सतीं दाक्षायणीमिव || १६० ||

कथं विकृतकामोऽहमनिच्छन्निव साम्प्रतम् |
केनापि चाकृष्ट इव चिकीर्षुः संगमोद्भवम् || १६१ ||

एवं विकारहेतुं स निश्चिन्वन्निन्द्रियस्य तु |
पुरोऽवलोकयामास संहितेषुं मनोभवम् || १६२ ||

एतस्मिन्नन्तरे ब्रह्मा विज्ञातसमयः सुरान् |
दृष्ट्वा स्थानादाजगाम तत्समाजमनुग्रहात् || १६३ ||

ततः स कुपितो दृष्ट्वा सन्धितेषुं मनोभवम् |
जज्वाल ज्वलनप्रख्यस्तं दिधक्षुः प्रसह्य तु || १६४ ||

कामोऽयं समयं ज्ञात्वा मां मोहयितुमिच्छति |
मनो मे स्ववशं कर्तुं तन्नयामि यमक्षयम् || १६५ ||

एवं विचिन्त्यमानस्य नेत्रोद्भाविततेजसा |
वर्धतो ज्वलनो भूत्वा क्रोधं नेत्रात् ससर्ज ह || १६६ ||

तं क्रोधान्निःसरिष्यन्तं जातवेदःस्वरूपिणम् |
ज्ञात्वा कामस्य तान् बाणान् पौष्पचापनिषण्णकान् || १६७ ||

शक्तिं प्राणांस्तथात्मानमाकृष्यापालयद्विधिः |
उत्सारयामास तदा वसन्तं स पितामहः || १६८ ||

निजशक्त्या तदा शम्भुक्रोधाद्रक्षन्मनोभवम् |
अथाकाशगता देवाः क्रुद्धं दृष्ट्वा महेश्वरम् || १६९ ||

प्रसीद जगतां नाथ कामे क्रोधं परित्यज |
त्वया यथा पुरा सृष्टः शम्भुरूपेण कर्मणा || १७० ||

येन चायोजितं कर्म तत्करोति मनोभवः |
तस्मात् त्वं मदने शम्भो क्रोधाग्निमुपसंहर || १७१ ||

प्रसीद सर्वभूतेश भक्तया त्वां प्रणता वयम् |
इति स्म वदतां तेषाममराणां तदानलः || १७२ ||

ललाटचक्स्.उःसम्भूतो भस्माकार्षीन्मनोभवम् |
दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः || १७३ ||

संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न |
महादेवोऽपि तद्भस्म मनोभवशरीरजम् || १७४ ||

आदाय सर्वगात्रेषु भूतिलेपं तदाकरोत् |
लेपशेषाणि भस्मानि समादाय तदा हरः || १७५ ||

सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते |
ब्रह्मा क्रोधानलं शम्भोर्दहन्तं सकलान् सुरान् || १७६ ||

वडवारूपिणं चक्रे देवानां पुरतस्तदा |

वडवां तां तदा देवाः सौम्यां ज्वालामुखीं शुभाम् || १७७ ||

दृष्ट्वा निर्विघ्नमनसो बभुवुः पूर्वपीडिताः |
वडवां तां समादाय तदा ज्वालामुखीं विधिः || १७८ ||

सागरं प्रययौ लोकहिताय जगतांपतिः |
गत्वाथ सागरं ब्रह्मा प्रोवाच परिपूजितः || १७९ ||

यथावत्तेन विप्रेन्द्राः समयं च निवेदयन् |
अयं क्रोधो महेशस्य वडवारूपधृक् त्वया || १८० ||

ज्वालामुखः सदा धार्यो यावन्न विनयाम्यहम् |
यदा त्वामहमागम्य वदामि सरितां पते || १८१ ||

तदा त्वया परित्याज्यः क्रोधोऽयं वडवामुखः |
भोजनं भवतस्तोयमेतस्य तु भविष्यति || १८२ ||

यत्नादेवं विधार्योऽयं यथा नो याति चान्तरम् |
इत्युक्तो ब्रह्मणा सिन्धुरङ्गीचक्रे तदा क्रुधम् || १८३ ||

ग्रहीतुं वडवावक्त्रे शम्भोश्चाशक्यमप्यरम् |
ततः प्रविष्टो जलधौ पावको वडवामुखः || १८४ ||

वार्योधान्निदहन् सम्यग् ज्वालामालातिदीपितः |
अदाभवच्छम्भुनेत्राद् ददाह मदनं तदा || १८५ ||

अभवत् सुमहाशब्दो येनाकाशः प्रपूरितः |
तेन शब्देन महता कामदाहे क्षणेन च || १८६ ||

सखीभ्यां सह भीताभूत् काली शोकयुता तदा |
तेन शब्देन हिमवांश्चकितो विस्मितस्तदा || १८७ ||

सुतामेव जगामाशु गतां कालीं हराश्रमम् |
तां तत्र कालीं तनयां भयशोकाकुलां शुभाम् |
रुदन्तीं शम्भुविरहादाससादाचलेश्वरः || १८८ ||

आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् |
मा भैषीः कालि मा रोदीरित्युक्त्वा तां तदाग्रहीत् || १८९ ||

क्रोडीकृत्य सुतां तां तु हिमवान्नचलेश्वरः |
स्वमालयमथानिन्ये सान्त्वयामास चार्दिताम् || १९० ||

अन्तर्हिते हरे काली विरहात् तस्य संततम् |
निवसन्ती पितुर्गेहे शुशोच च मुमोह च || १९१ ||

शैलाधिराजोऽप्यथ मेनकाऽपि
मैनाकमुख्योऽपि सखीद्वयं च |
तां सान्त्वयांचक्रुरदीनसत्त्वां
हरं विसस्मार तथापि नोमा || १९२ ||

इति श्रीकालिकापुराणे द्विचत्वारिंशोऽध्यायः || ४२ ||

Kapitel 43

त्रिचत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

अथ देवमुनिर्यातो हिमवन्मन्दिरं तदा |
नियोजितो बलभिदा नारदः कामगः परम् || १ ||

सः गतः पूजितस्तेन धरेशेन महात्मना |
तं समुत्सुज्य रहसि कालीं तामससाद ह || २ ||

आसाद्य काली स मुनिः सम्बोध्य ज्ञानशालिनीम् |
उवाचेदं वचस्तथ्यं सर्वेषां जगतां हितम् || ३ ||

नारद उवाच

शृणु कालि वचो मह्यं सत्यं तदवधारय |
सेवितः स महादेवस्त्वयेह तपसा विना || ४ ||

अनुरक्तोऽपि तेन त्वां महादेवो विसृष्टवान् |
त्वामृते शंकरो नान्यां द्वितीयां संग्रहीष्यति || ५ ||

त्वं चापि नान्यं दयितं ग्रहीष्यसि विनेश्वरम् |
तस्मात् त्वं तपसा युक्ता चिरमाराधयेश्वरम् || ६ ||

तपसा संस्कृतां त्वां तु स द्वितीयां करिष्यति |
मन्त्रोऽयं तस्य सुभगे शृणु त्वं येन सोऽचिरात् || ७ ||

आराधितस्ते प्रत्यक्षो भविष्यति महेश्वरः |
ओं नमः शिवायेति च सर्वदा शंकरप्रियः || ८ ||

चिन्तयन्ती तु तद्रूपं नियमस्था षडक्षरम् |
मन्त्रं जप त्वं गिरिजे तेन तुष्टो भवेद्धरः || ९ ||

एवमुक्ता तदा काली नारदेन महात्मना |
कर्तव्यमनुमेने सा हितं तथ्यञ्च तद्वचः || १० ||

अनुमान्य तपस्तप्तुं तदा कालीञ्च नारदः |
स्वर्गं जगाम तस्याश्च निश्चिताऽभून्मतिर्व्रते || ११ ||

अथ याते देवमुनौ काली सासाद्य मेनकाम् |
तपःश्रद्धां समाचख्ये चात्मनो हरसंगमे || १२ ||

काल्युवाच

तपस्तप्तुं गमिष्यामि मातः प्राप्तुं महेश्वरम् |
अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् || १३ ||

तपःकरणयत्नं मे पितुरावेदय द्रुतम् |
यावन्न दह्ये जननि भूतेशविरहाग्निना || १४ ||

मार्कण्डेय उवाच

इति तस्या वचः श्रुत्वा मेनका शोककर्शिता |
आलिङ्ग्य स्वसुतामूचे मा तपः कुरु वल्लभे || १५ ||

मृदुदेहासि पुत्रि त्वं मा तपो याहि कर्कशम् |
तपः सोढुं मुनेर्गात्रं शक्तं ते न कलेवेअरम् || १६ ||

वनवासश्च ते पुत्रि नेष्टः शत्रुगणैरपि |
तस्मात् त्वं सम्परित्यज्य वनवासोद्भवं तपः |
आत्मनो ह्यनुरूपेण तपस्तत् करु यद्धितम् || १७ ||

मातुः सा वचनं श्रुत्वा गिरिजा दीनमानसा |
इत्यूचे च तदा वाक्यं तपोयत्नपरा प्रसूम् || १८ ||

काल्युवाच

मा निषेधय मां यास्ये तपसेऽद्य तपोवनम् |
प्रच्छन्नमपि यास्यामि नानुज्ञाताप्यहं त्वया || १९ ||

मेनकोवाच

गृहेषु देवाः सततं ब्रह्मविष्णुशिवादयः |
तस्माद् गृहे पुत्रि देवानर्चय त्वं यथेप्सितान् || २० ||

स्त्रीणां तपोवनगतिर्न श्रुता स्वामिना विना |
तस्मान्न युज्यते पुत्रि तपोयात्रा वनं प्रति || २१ ||

मार्कण्डेय उवाच

यतो निरस्ता तपसे वनं गन्तुं च मेनया |
उमेति तेन सोमेति नाम प्राप तदा सती || २२ ||

अवज्ञाय तदा मातुर्वचनं हिमवत्सुता |
सखीभ्यां ज्ञापयामास पितरं तपसोद्यमम् || २३ ||

स तु ज्ञात्वा गिरिपतिस्तपसे चरितोद्यमम् |
दुहितुश्चानुमेने च नातिहृष्टमना इव || २४ ||

सानुज्ञाप्य तदा तातं यत्र दग्धो मनोभवः |
शम्भुना प्रययौ तत्र गङ्गावतरणं प्रति || २५ ||

गङ्गावतरणं नाप प्रस्थो हिमवतः स च |
हरशून्योऽथ ददृशे काल्या तच्चिन्तया तदा || २६ ||

यत्र स्थित्वा पुरा शम्भुर्ध्यानवानभवद् भृशम् |
तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता || २७ ||

हा हरेति क्षणं तत्र रोदमाना गिरेः सुता |
विललापातिदुःखार्ता चिन्ताशोकसमन्विता || २८ ||

क्षणं विलप्य सा काली स्मृत्वा पूर्वोद्भवं तदा |
हार्दं हरस्य सा मोहमवाप कमलेक्षणा || २९ ||

ततश्चिरेण सा मोहं धैर्यात् संस्तभ्य भामिनी |
नियमायाभवत्तत्र दीक्षिता हिमवत्सुता || ३० ||

प्रथमं नियमस्तस्या बभूव फलभोजनम् |
चर्या पञ्चातपा चिन्ता शाम्भवी शाम्भवो जपः || ३१ ||

यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम् |
वह्निसंस्थापनं ग्रीष्मे तीव्रांशुस्तत्र पञ्चमः || ३२ ||

हस्तान्तरे चतुर्वह्नीन् कृत्वा वैश्वानरेष्टिना |
तन्मध्यस्था सूर्यबिम्बं वीक्षन्ती वल्कलांशुका || ३३ ||

ग्रीष्मं निन्ये वह्निमध्ये शिशिरे तोयवासिनी |
प्रथमं फलभोगेन द्वितीयं तोयभोजनम् || ३४ ||

तृतीयं तु स्वयम्पाति-वृक्षपल्लव-भोजनम् |
क्रमेण तु तदा पर्णं निरस्य हिमवत्सुता || ३५ ||

निराहारव्रता भूत्वा तपश्चरणखिन्निका |
आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता || ३६ ||

तेन देवैरपर्णेति कथिता पृथिवीतले |
पञ्चातपव्रतेनैव तोयानाञ्च प्रवेशनैः || ३७ ||

एकपादस्थिता स तु वसन्ते हिमवत्सुता |
षडक्षरं जपन्ती सा चिरं तेपे तपो महत् || ३८ ||

चीरबल्कलसंवीता जटासंघातधारिणी |
कृशाङ्गी चिन्तने शक्ता जिगाय तपसा मुनीन् || ३९ ||

तां तपश्चरणे शक्तां ररक्ष शंकरः स्वयम् |
आप्यायति स्म स तदा भयाद्रक्षति हर्षितः || ४० ||

एवं तस्यास्तपस्यन्त्याश्चिन्तयन्त्या महेश्वरम् |
त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने || ४१ ||

षट्त्रिवर्षसहस्राणि संस्कृता वीक्षणात् स्वयम् |
दैवेन विधिना देवी हरयोग्या तथाभवत् || ४२ ||

षट्त्रिवर्षसहस्रान्त्रे यत्र तेपे तपो हरः |
तत्र क्षणमथोषित्वा चिन्तयामास भामिनी || ४३ ||

काल्युवाच

नियमस्थां महादेवः किं मां जानाति नाधुना |
येनाहं सुचिरं तेन नानुज्ञाता तपोरता || ४४ ||

लोके नास्त्यत्र गिरिशः किं तत्र मुनिभिः स्तुतः |
सर्वज्ञः सर्वगो देवो हरो देवैर्निगद्यते || ४५ ||

स सर्वगस्तु सर्वज्ञः सर्वात्मा सर्वहृद्गतः |

सर्वभूतिप्रदो देवः सर्वभावनभावनः || ४६ ||

सती च मेनका माता यदि चाहं वृषध्वजे |
सानुरक्ता न चान्यस्मिन् स प्रसीदतु शंकरः || ४७ ||

यदि नारदवक्त्रोत्थो मन्त्रोऽयं स्यात्षडक्षरः |
यदि भक्त्या मया जप्तं हरस्तेन प्रसीदतु || ४८ ||

सत्यं यदि तपस्तप्तं सत्यं चाराधितो हरः |
सत्यं भवेद् यदि तपो हरस्तेन प्रसीदतु || ४९ ||

मार्कण्डेय उवाच

एवं विचिन्तयन्ती सा यदातिष्ठद्धराश्रमे |
अधोमुखी दीनवेशा जटाबल्कलमण्डिता || ५० ||

तदैव ब्राह्मणः कश्चिद् ब्रह्मचारी धृतव्रतः |
कृष्णाजिनोत्तरीयेण धृतदण्डकमण्डलुः || ५१ ||

ब्राह्म्या श्रिया दीप्यमानः स्वर्णगौरः सुशोभनः |
जटाभिः परिवीताभिरुद्रिक्तस्तनुदेहभृत् || ५२ ||

उपस्थितस्तदा कालीं शम्भुर्ब्राह्मणरूपधृक् |
आसाद्य प्रथमं कालीं समाभाष्य तदा द्विजः || ५३ ||

ज्ञातुं प्रत्यक्षतो रागं श्रीतुमिच्छंश्च तद्वचः |
वाग्मी विचित्रवाक्येन पप्रच्छ गिरिजां तदा || ५४ ||

ब्राह्मण उवाच

का त्वं कस्यासि कल्याणि किमर्थं विजने वने |
तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः || ५५ ||

न बाला त्वं नापि वृद्धा तरुणी चातिशोभना |
कथं पतिं विनाभीक्ष्णं तपश्चरसि साम्प्रतम् || ५६ ||

किंवा तपस्विनी भद्रे कस्यचित् सहचारिणी |
तपस्विनः स पुष्पादि समाहर्तुं गतोऽन्यतः || ५७ ||

एतन्मम समाचक्ष्व यदि गुह्यं भवेन्न ते |
यदि ते हृदये मन्युः कच्चिद्वसति सम्प्रति |
तदाचक्ष्व समर्थोऽस्मि तमहं चापि वारितुम् || ५८ ||

इत्युक्ता तेन विप्रेण गिरिजाऽथ निजां सखीम् |
तस्योत्तरप्रदानाय कटाक्षेण न्ययोजयत् || ५९ ||

सा सखी विजया तस्या वचनाद् ब्राह्मणं तदा |

प्रोवाचेदं यथातथ्यं वीक्षन्ती गिरिजामुखम् || ६० ||

एतस्य गिरिराजस्य तनयेयं द्विजोत्तम |
ख्याता च पार्वतीनाम्ना कालीति च सुशोभना || ६१ ||

ऊचे यन्न च केनापि शंकरं वृषभध्वजम् |
वाञ्छन्ती दयितं तीव्रं तपश्चरति वै पतिम् || ६२ ||

त्रीणि वर्षसहस्राणि तपस्तपति भामिनी |
न शंकरो गिरिसुतामद्याप्यभ्युपपद्यते || ६३ ||

शंकरों गिरिशो देवः सर्वगः परमेश्वरः |
इति स्म गद्यते देवैर्मुनिभिश्च तपोधनैः || ६४ ||

किमेनां स न जानाति किं सानौ नास्ति वा गिरेः |
इति चिन्ताविषण्णेयमद्य नो लभते सुखम् || ६५ ||

अप्रार्थितस्त्वमनया दयसे यदि वा सुखम् |
तदैनां शंकरेणाद्य त्वं संगमय सुव्रत || ६६ ||

इति तस्या वचः श्रुत्वा ब्रह्मचारी तदा द्विजः |
स्मयमान इदं वाक्यं हेलयोवाच पार्वतीम् || ६७ ||

ब्राह्मण उवाच

अमोघदर्शनश्चास्मि हरं चानयितुं क्षमः |
किन्त्वेकं निगदाम्यद्य निश्चितं मन्मतं शृणु || ६८ ||

जानाम्यहं महादेवं तं वदामि शृणुष्व मे |
वृषध्वजो महादेवो भूतिलेपी जटाधरः || ६९ ||

व्याघ्रचर्मांशुकश्चैकः संवीतो गजकृत्तिना |
कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः || ७० ||

विषदग्धगलस्त्र्यक्षो विरूपाक्षो विभीषणः |
अव्यक्तजन्मा सततं गृहभोग्यविवर्जितः || ७१ ||

ज्ञातिभिर्बान्धवैर्हीनो भक्ष्यभोज्यविवर्जितः |
श्मशानवासी सततं तत्संगपरिवर्जितः || ७२ ||

गर्जद्भिर्विकटैस्तीक्ष्णैर्भूतौघैः परिवारितः |
शृंगाररसहीनश्च भार्यापुत्रविवर्जितः || ७३ ||

केन वा कारणेन त्वं भर्तारं तं समीहसे |
पूर्वं श्रुतं मया चैव तस्यापरमिदं कृतम् || ७४ ||

शृणु ते निगदाम्यद्य यदि ते गृह्ण रोचते |
दक्षस्य दुहिता साध्वी सती वृषभवाहनम् || ७५ ||

वव्रे पतिं पुरा दैवात् सम्भोगपरिवर्जितम् |
कपालिजायेति सती दक्षेण परिवर्जिता || ७६ ||

यज्ञभागप्रदानाय शम्भुश्चापि विवर्जितः |
साथ तेनापमानेन भृशं शोकाकुला सती || ७७ ||

तत्याज स्वान् प्रियान् प्राणांस्तया त्यक्तश्च शंकरः |
त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् || ७८ ||

तथाविधं पतिं कस्मादुग्रेण तपसेहसे |
देवेन्द्रो वा धनेशो वा पवनो वाप्यपांपतिः || ७९ ||

अग्निर्वाऽन्यः सुरो वापि स्वर्वैद्यावश्विनावपि |
विद्याधरो वा गन्धर्वो नागो वा मानुषोऽथ वा || ८० ||

रूपयौवनसम्पन्नः समस्तगुणसंयुतः |
स ते योग्यः पतिः श्रीमानुदारकुलसम्भवः || ८१ ||

येन त्वं बहुरत्नौघ-पूरितेऽनर्घविस्तृते |
माल्यप्रवरसंयुक्ते धूपचूर्णैः सुवासिते || ८२ ||

मृद्वास्तरणसंयुक्ते विस्तृते सुमनोहरे |
चारुप्रासादगर्भस्थे जाम्बूनदविचित्रिते || ८३ ||

शययातले समासाद्य स योग्यस्ते भवेत् पतिः |
एवं ज्ञात्वाऽद्य सुभगे यदि वाञ्छसि शंकरम् |
किं ते तपोभिः सुतरामहं तं योजये त्वया || ८४ ||

मार्कण्डेय उवाच

इति श्रुत्वा तदा काली ब्राह्मणस्योत्तरं तदा |
मितं तथ्यं जगादैनं ब्राह्मणं कोपसंयुक्ता || ८५ ||

काल्युवाच

न जानासि हरं देवं त्वं जानामीति भाषसे |
वहिर्यद् दृश्यते तत्ते कथितं द्विजनन्दन || ८६ ||

यस्य भावं न जानन्ति सेन्द्रा ब्रह्मादयः सुराः |
तस्य त्वं विप्रतनय शिशुर्ज्ञास्यसि किं भवम् || ८७ ||

यच्छ्रुतं भवता नीचवदनाद् भाषितं लघु |
इतस्ततस्तु श्रुत्वैव भाषसे त्वं न दृष्टवान् || ८८ ||

तस्मात् त्वत्तो वरं नाहं वाञ्छये नापि वा पतिम् |
अन्यद् वद न च त्वत्तो वाञ्छये हरसंगमम् || ८९ ||

इत्युक्त्वा गिरिजा विप्रमवलोक्य सखीमुखम् |
इदमाह तदा काली संशयारूढचेतना || ९० ||

महता चिन्तनेनेह तपसाराधितो हरः |
तन्ममाग्रे विप्रसुतो निन्दितुं वाक्यमुक्तवान् || ९१ ||

तदहं चापनेष्यामि स्तुतिवाक्येन साम्प्रतम् |
महात्मनां च यो निन्दां शृणोति कुरुतेऽथवा || ९२ ||

तयोरागः समं पूर्वं मया तातमुखाच्छ्रुतम् |
तस्मात्तदपनेष्येऽहं तन्निषेधय विप्रकम् || ९३ ||

मार्कण्डेय उवाच

इत्युक्त्वा सा सखीं काली शम्भुसंगतमानसा |
आगःसंमार्जनायाशु हरं स्तोतुमुपाक्रमत् || ९४ ||

नमः शिवाय शान्ताय कारणत्रयहेतवे |
निवेदयामि चात्मानं त्वं गतिः परमेश्वरः || ९५ ||

विज्ञानसौभाग्यसुहृद्गताय ते
प्रपञ्चहीनाय हिरण्यबाहवे |
नमोऽस्तु नारायण पद्मसम्भव
प्रधानबीजाय जगद्धिताय ते || ९६ ||

इति स्तुवन्तीं पुनरेव स द्विज-
स्तदा वचः किंचिदुदीरितुं पुनः |
समीक्ष्य कालीमकरोत् सयत्नकं
बुद्ध्वा समाचष्ट सखीं गिरेः सुता || ९७ ||

अयं द्विजः किंचन वक्तुमिच्छ-
त्युग्रं हरं चापि न संविदानः |
निन्दन्नहि प्राणहरीं हरस्य
निन्दामहं श्रोतुमिह क्षमामि || ९८ ||

यावद् भूरिवचोऽस्याहं न शृणोम्यधुना सखि |
गच्छामि तावद् दूराय समुत्तिष्ठामि मत्प्रिये || ९९ ||

इत्युक्त्वा सा तया सख्या सहिता हिमवत्सुता |
प्रतस्थेऽथ समुत्थाय तमुत्सृज्य द्विजं हठात् || १०० ||

अथ शम्भुर्निजं रूपमास्थाय हिमवत्सुताम् |
तं समुत्सृज्य गच्छन्तीं हरः स्मेरमुखोऽन्वयात् || १०१ ||

अहं हरो महादेवो मां संस्तौषि न चाधुना |
सम्मुखीभव हे कालि समाश्वासय शांकरि || १०२ ||

इत्युक्त्वा स महादेवो गच्छन्त्याः पुरतो गतः |
प्रसार्य हस्तौ काल्यास्तु गतिं तस्य विरोधयन् || १०३ ||

सा वीक्ष्य शम्भुवदनं तत्क्षणादभवद्धठात् |
अधोमुखी तडिद्वातचकितेव गिरेः सुता || १०४ ||

मन्दाक्षं प्रीतिलज्जाभिः सा जडेव तदाभवत् |
वक्तुं च नाशकत् किंचिद्विवक्षुरपि भामिनी || १०५ ||

मनोरथानां सिद्ध्या तु सुधाभिरिव पूरितम् |
शरीरमभवत्तस्या मुदा पूर्णं द्विजोत्तमाः || १०६ ||

षट्त्रिवर्षसहस्रैस्तु तपःक्लेशमविन्दत |
यत्तं क्षणात् समुत्सृज्य सम्मोदमुदिताभवत् || १०७ ||

तां च वीक्ष्य तथाभूतां प्रणयाद् वृषभध्वजः |
कामेन भस्मरूपेण गात्रस्थेन च मोहितः || १०८ ||

अथ तां विरहोद्रिक्तः समेत्य वृषभध्वजः |
सम्बोधयन्निदं चाटुवचनं प्रोक्तवान् मुदा || १०९ ||

न तु सुन्दरि मां वक्तुं किंचनापि त्वमीहसे |
तपःक्लेशं स्मरयन्ती किं मह्यं कुप्यसि साम्प्रतम् || ११० ||

अहं च परितप्यामि त्वामृते सुभगे मम |
समयाद् यत् समारब्धं तपस्तप्तुं त्वया समम् || १११ ||

सानुरक्तोऽथ संस्कृत्य भविष्यामि त्वया प्रिये |
अधुना समतीतो मे यः कृतः समयो मया || ११२ ||

तपसे भवती चापि तपसैव सुसंस्कृता |
संचिन्तनेन जप्येन तीव्रेण तपसा तदा |
मूल्येन महता क्रीतो दासोऽहं मां नियोजय || ११३ ||

त्वदङ्गानां संस्करणे जटानां च प्रसाधने |
प्रमुच्य बल्कलं गात्राच्चार्वंशुकनिवेशने || ११४ ||

हारनूपुरकेयूरकाञ्च्यादिपरिधापने |
द्रुतं नियोजय शुभे यदि स्नेहोऽस्ति मादृशि || ११५ ||

निर्दग्धो यो मया कामो भस्मरूपेण मत्तनौ |
स्थितो मां प्रतिकृत्येव त्वदग्रे दग्धुमिच्छति || ११६ ||

तस्मादुद्धर मां कामादग्नेरिव मनोहरे |
त्वदङ्गामृतदानेन प्रसीद दयिते मम || ११७ ||

इति कालिकापुराणे त्रिचत्वारिंशोऽध्यायः || ४३ ||

Kapitel 44

चतुश्चत्वारिंशोऽध्यायः

मार्कण्डेय उवाच

अथ श्रुत्वा वचः शम्भोर्गिरिजातीव हर्षिता |
मेने प्राप्तं तदा शम्भुं सुन्दरं दयितं पतिम् || १ ||

अथ प्राह तदा काली सखीवक्त्रेण शंकरम् |
यथा स शृणुते वाक्यं श्रोतुमिच्छंश्च शंकरः || २ ||

न सन्धावतिभेदेन प्रवर्तन्तेऽत्र सज्जनाः |
मर्यादया हरस्तं मे पाणिं गृह्णातु शंकरः || ३ ||

पितृदत्ता भवेत् कन्या तपोदत्ता भवेन्नहि |
तपसा चेत् प्रदत्ताहं मां तातश्च प्रदास्यति || ४ ||

तस्मात् सम्प्रार्थ्य पितरं हिमवन्तं नगेश्वरम् |
वैवाहिकेन विधिना पाणिं गृह्णातु मे हरः || ५ ||

मार्कण्डेय उवाच

इत्युक्त्वा विररामाथ काली लज्जासमन्विता |
हराऽपि तद्वचः सत्यं तथ्यं योग्यं तदाग्रहीत् || ६ ||

ततः स सगणः शम्भुस्तत्र वासं तदाकरोत् |
गङ्गावतरणे सानौ यथापूर्वं तथाधुना || ७ ||

काली पितुर्गृहं याता सखीभिः परिवारिता |
नालोकयन्ती सा दीना गुरूणां वदनं सती || ८ ||

एतस्मिन्नन्तरे सप्त मरीचिप्रमुखान् मुनीन् |
चिन्तयामास शशिभृत् कालीं प्रार्थयितुं तदा || ९ ||

चिन्तिताः सप्त मुनयस्तत्क्षणान्मदनारिणा |
आकृष्टा इव केनापि तत्सकाशमुपागताः || १० ||

तान् मुनीन् ददृशे शम्भुः सप्ताग्नीनिव दीपितान् |
अरुन्धतीं वसिष्ठस्य सकाशे ददृशे सतीम् || ११ ||

अरुन्धतीं ततो दृष्ट्वा वसिष्ठस्य समीपतः |
मेने योषिद्ग्रहं धर्मं मुनिभिश्चाप्यवर्जितम् || १२ ||

ततस्ते मुनयः सर्वे सम्पूज्य वृषभध्वजम् |
इदमूचुः प्रहर्षेण स्मरणाकर्षिताः प्रियम् || १३ ||

ऋषयः ऊचुः

यत् प्रत्यक्षं दृश्यते शुद्धरूपं
चन्द्रप्रख्य चन्द्रखण्डोपशोभि |
अन्तःप्रज्ञं भावितं तन्मुनीनां
भाग्यं दृष्टं भागधेयेन मुक्तैः || १४ ||

प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्ता-
न्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् |
पुञ्जीभूतं बाह्यतत्त्वेन शश्वद्
योग्यप्राप्यं धाम शम्भोरुदारम् || १५ ||

दृष्ट्वा यस्यैवाग्रभागं स नेत्रं
त्राणाय स्याद् दर्शनं सूर्यतुल्यम् |
तद्धामेदं स्थानसर्वस्य नित्यं
भक्त्या स्तुत्यं तं नमः शम्भुदेहम् || १६ ||

प्रकाशते यः प्रथमादिभागतः
स्थितः स वामे य इहैव नेता |
सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै
हरस्य शक्त्या विधृतो ललाटे || १७ ||

यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः |
पुरुषः सर्वजगतां स हरो नः प्रसीदतु || १८ ||

मार्कण्डेय उवाच

इति संस्तुत्य देवेशं मुनयो विनयानताः |
ऊचुः किमर्थं भवता स्मृतास्तन्नो निगद्यताम् || १९ ||

तेषां तद्वचनं श्रुत्वा शंकरः प्रहसन्निव |
जगाद तान्मुनीन् सर्वानाभाष्य पृथक् पृथक् || २० ||

ईश्वर उवाच

हिताय सर्वजगतां सम्भोगायात्मनस्तथा |
दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये || २१ ||

सहायं तत्र कुर्वन्तु भवन्तो मम साम्प्रतम् |
मदर्थे च ततः कालीं याचन्तां तुहिनाचलम् || २२ ||

महता तपसा काली मां पतिं लघु विन्दताम् |
किन्तु ग्रहीष्ये विधिना तस्माद् याचन्तु तं गिरिम् || २३ ||

यथा यथा स्वयं कालीं शैलो दातुं समुत्सहेत् |
तथा तथा विदध्वं हि यूयं वाग्विभवान्विताः || २४ ||

मार्कण्डेय उवाच

हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् |
तेन प्रपूजितास्ते तु प्रोचुस्तं मुनयो गिरिम् || २५ ||

यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः |
शापानुग्रहणे शक्तो य एको जगतां पतिः || २६ ||

यः संहरति सर्वाणि जगन्ति प्रयलोद्भवे |
यो विभूतिप्रदो भक्ते नानारूपो मनोहरः || २७ ||

स ते दुहितरं कालीं भार्यामादातुमिच्छति |
यदि पश्यसि त्वं योग्यं वरं तं दुहितुः समम् || २८ ||

तदा प्रयच्छ तनयां कालीं शशिभृते गिरे |

इत्युक्तस्तैर्गिरिपतिश्चिरं स्वहृदयस्थितम् || २९ ||

दुहितुश्च प्रियं ज्ञात्वा प्राप्य सद्वचनान्मुदम् |
आह चेदं प्रकाशेन युष्माभिस्त्वहमागतैः || ३० ||

पावितो मुनिशार्दूलैः पूरितश्च मनोरथः |
दास्यामि शम्भवे पुत्रीं युष्माभिः प्रार्थितस्त्वहम् || ३१ ||

पूर्वमेव तपस्तप्त्वा तयेशः पतिरीहितः |
धातुर्नियोजनमिदं कोऽन्यथा कर्तुमुत्सहेत् || ३२ ||

कोऽन्यः प्रार्थयितुं शक्त्ऽह् सुतां मम विना हरात् |
हरेणावगृहीता या तामन्यः कः समुत्सहेत् || ३३ ||

हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति |
इत्युक्त्वा मेनया सार्धं सुतां दातुं च शम्भवे || ३४ ||

अङ्गीकृत्य विसृष्टास्ते ह्यनुप्रापुर्महेश्वरम् |
ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः || ३५ ||

शैलराजो यदाचष्ट तदूचुर्मदनारये |
हिमवांस्तनयां दातुं तुभ्यमुत्सहते हरः || ३६ ||

यदिदानीं त्वया कर्तुं युज्यते क्रियतां तु तत् |
अस्मांश्चाप्यनुजानीहि हर गन्तुं निजास्पदम् || ३७ ||

सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्टवान् |
यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन् || ३८ ||

कालीविवाहावसरे यूयमायात मां प्रति |
इति ते वै हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः || ३९ ||

अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् |
समयं कारयामास विवाहाय हरो गिरिम् || ४० ||

माधवे मासि पञ्चम्यां सिते पक्षे गुरोर्दिने |
चन्द्रे चोत्तरफाल्गुन्यां भरण्यादौ स्थिते रवौ || ४१ ||

आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः |
हरेण चिन्तिताः सर्वे तथा ब्रह्मादयः सुराः || ४२ ||

तथा च सर्वे दिक्पाला मुनयश्च तपोधना |
शच्या सह तथा शक्रो ब्रह्माण्याद्यास्तु मातरः || ४३ ||

नारदश्च गतस्तत्र देवर्षिर्ब्रह्मणः सुतः |

एतैः परिचरैः सार्धं गणैराप्यायितः स्वकैः || ४४ ||

वैवाहिकेन विधिना गिरिपुत्रीं हरोऽग्रहीन् |
विवाहे गिरिजा शम्भोः सर्पा येऽष्टौ तनौ स्थिताः || ४५ ||

ते जाम्बुनदसंनद्धा अलंकारास्तदाभवन् |
द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः || ४६ ||

शिरस्थितश्चन्द्रखण्डः सोऽर्चिषां ज्वलितोऽभवत् || ४७ ||

विचित्रवसनं व्याघ्रकृत्तिरासीत्तदा द्विजाः |
विभूतिलेपो ह्यस्याभूत् सुगन्धिमलयोद्भवः || ४८ ||

गौररूपो हरस्तत्र बभूवाद्भुतदर्शनः |
ततो देवाः सगन्धर्वाः सिद्धविद्याधरोरगाः || ४९ ||

विस्मयं परमं जग्मुर्हरं दृष्ट्वा तथाविधम् |
हिमवान् मुदितश्चासीत् सहपुत्रैश्च मेनया || ५० ||

ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम् |
इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम् || ५१ ||

सर्व शिवकरं यस्मात् सुवेशमभवत्सुराः |
तस्माच्छिवोऽयं लोकेषु नाम्नाख्यातोऽधिकः शिवः || ५२ ||

महेश्वरमुमायुक्तमीदृशं यः स्मरेद्धृदा |
सततं तस्य कल्याणं वाञ्छितं च भविष्यति || ५३ ||

एवं काली महामाया योगनिद्रा जगत्प्रसूः |
पूर्वं दाक्षायणी भूत्वा पश्चाद् गिरिसुताऽभवत् || ५४ ||

स्वयं समर्थापि सती काली सम्मोहितुं हरम् |
तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा |
एवं सम्मोहयामास कालिका चन्द्रशेखरम् || ५५ ||

इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा |
हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम् || ५६ ||

इदं यः कीर्तयेत् पुण्यं कालिकाचरितं द्विजाः |
नाधयो व्याधयस्तस्य दीर्घायुः स च जायते || ५७ ||

इदं पवित्रं परममिदं कल्याणवर्धनम् |
श्रुत्वापि सकृदेवेदं शिवलोकाय गच्छति || ५८ ||

यः श्राद्धे श्रावयेद्विप्रान् कालिकाचरितं महत् |
पितरस्तस्य कैवल्यमाप्नुवन्ति न संशयः || ५९ ||

यः श्रावयेद् ब्राह्मणानां सन्निधौ वा समायतः |
तत्र स्वयं हरो गत्वा शृणोति सह मायया || ६० ||

इति वः कथितं पुण्यं सर्वपापप्रणाशनम् |
युष्मभ्यं रोचते चान्यद्यत्तत् पृच्छन्तु सत्तमाः || ६१ ||

इति श्रीकालिकापुराणे कालीहरसमागमो नाम चतुश्चत्वारिंशोऽध्यायः || ४४ ||

Kapitel 45

पञ्चचत्वारिंशोऽध्यायः

ऋषयः ऊचुः

विचित्रमिदमाख्यातं ब्रह्मन् कालीहरागमम् |
पुण्यं पापहरं नित्यं श्रुतिसौख्यप्रदं वरम् || १ ||

भूयः कथय शर्वस्य कालीतन्वर्धमुत्तमम् |
कथं जहार गौरी वा कथम्भूताथ कालिका || २ ||

केन वा कारणेनाशु कृष्णा गौरीत्वमागता |
तन्नः कथय तत्त्वेन मुनिश्रेष्ठ द्विजोत्तम || ३ ||

मार्कण्डेय उवाच

इदं तु महदाख्यानं कथयिष्यामि वोऽधुना |
महर्षयस्तच्छृण्वन्तु तत्त्वेन शुभदं परम् || ४ ||

एतदौर्व पुरा राजा सगरः पृष्टवान्मुनिम् |
स तं यथा समाचष्ट तद्वोऽथ निगदाम्यहम् || ५ ||

पुराभूत् सोमवंशे च सगरो नाम पार्थिवः |
स श्रीमान् बलवान् दक्षः सर्वशास्त्रार्थपारगः || ६ ||

सोऽभूदेकरथेनैव जित्वा सर्वान् महीभुजः |
सार्वभौमो नरपतिः सर्वराजगुणैर्युतः || ७ ||

तं प्राप्तराज्यं राजानं सगरं पार्थिवोत्तमम् |
सभाजयितुमत्यर्थं मुनयः समुपागताः || ८ ||

प्राच्योदीच्या महात्मानो दाक्षिणात्यास्तथोत्तराः |
मुनयो ब्राह्मणाश्चैव नृपं द्रष्टुं समागमन् || ९ ||

आगतेष्वथ सर्वेषु महात्मा ज्वलनोपमः |
और्वो नाम मुनिः श्रीमानागतो नन्दितुं नृपम् || १० ||

तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् |
सपर्यया महत्या तु सगरस्तमपूजयत् || ११ ||

पाद्यमाचमनीयं च दत्त्वैवार्धपुरोगमम् |
निवेशयामास च तं मुनिश्रेष्ठं वरासने || १२ ||

उवाच च महात्मानमौर्वं स सगरो नृपः |
प्रणम्य च यथायोग्यं कुशलं त इति द्विजम् || १३ ||

स च प्राह मुनिश्रेष्ठो नरराज सदा मम |
सर्वत्र कुशलं त्वां तु द्रष्टुं कुशलमुत्सहे || १४ ||

त्वत्तः कोऽन्योऽस्ति कुशली पृथिव्यां सर्वराजसु |
य एकः सञ्जिगायाशु भवान् सकलपार्थिवान् || १५ ||

कुशलं वर्धतां नित्यं तव राजवरोत्तम |
यथा नीत्या सदाचारैः पृथिवीं शाधि भूपते || १६ ||

तव वृद्धौ जगद्वृद्धिर्वृद्धौ चेष्टां तत्ऽह् कुरु |
शुभ्रांशुवृद्धौ सततं सागरस्येव वर्धनम् || १७ ||

प्रथमं सद्गुणैरात्मा क्रियतां नृप योजनम् |
ततः स्वभार्या महिषी क्रियतां तद्गुणैर्युता || १८ ||

नित्या संयोजिता चेत् स्याद्वनिता स्वयमेव हि |
स्वगुणेषु प्रवेक्ष्यन्ती महत्यपि धृतव्रता || १९ ||

श्रूयते हिमवत्पुत्री शम्भुसंगतमानसा |
क्रियाभ्युपायैर्बहुभिः शम्भुना सा प्रयोजिता || २० ||

ततोऽतिमहता प्रेम्णा शंकरस्याथ पार्वती |
शरीरमर्धमहरत्तस्यैवानुमते सती || २१ ||

अर्धनारीश्वरस्तेन तदा प्रभृति शङ्करः |
अभवन् नृपशार्दूल नान्यां भार्यां गृहीतवान् || २२ ||

तस्मात् त्वमपि राजेन्द्र स्वजायामात्मनोत्तरे |
गुणैः संयोजय लघुं संयोजय ततः सुतम् || २३ ||

मार्कण्डेय उवाच

इत्यौर्वभाषित श्रुत्वा सगरोऽपि मुदान्वितः |
इद मुनिमपृच्छत् स नृपतिः स्मितसन्ततः || २४ ||

सगर उवाच

कथं सा गिरिजा देवी कायार्धमहरत् सती |
शङ्करस्य द्विजश्रेष्ठ तदहं श्रोतुमुत्सहे || २५ ||

नीत्या यया वा योक्तव्या स्वात्मा भार्या सुतोऽथवा |
तां नीतिं च सदाचारसंहितां श्रोतुमुत्सहे || २६ ||

राजनीतिं सतां नीतिमन्येषां च कृतात्मनाम् |
पृथक् पृथक् श्रोतुमिच्छुरहं त्वां नाथये द्विज || २७ ||

यदि गुह्यमिदं ब्रह्मन्न तदा श्रोतुमुत्सहे |
तथा नाज्ञापयामि त्वां श्रोतुमिच्छुश्च तत्समम् || कृपया कथनीयं चेत्तदा कथय तन्मुने || २८ ||

मार्कण्डेय उवाच

इत्येवं सगरेणोक्तमौर्वोऽपि द्विजसत्तम |
प्रत्युवाच महात्मानं कृपालुस्तत्र भूपतौ || २९ ||

और्व उवाच

शृणु राजन् प्रवक्ष्यामि यद् यत् पृष्टमिह त्वया |
यथा हरस्य तन्वर्थं भूभृत्पुत्री पुराहरत् || ३० ||

यथा नीतिस्त्वया कार्या यत्र यत्र नृपोत्तम |
सर्वेषां च सदाचारं क्रमाद् वक्ष्यामि तच्छृणु || ३१ ||

यदोढा हिमवत्पुत्री शङ्करेण महात्मना |
कियन्तं स तदा कालं तत्र निन्ये सहोमया || ३२ ||

रममाणस्तया सार्धं सानौ कुञ्जे दरीषु च |
विजहार चिरं तत्र पार्वतीं मोदयन् हरः || ३३ ||

अथ काले तु सम्प्राप्ते शम्भुः कैलासपर्वतम् |
सगणो भार्यया सार्धमगच्छत्त्रिदिवोपमम् || ३४ ||

स त्वया क्रीडमानश्च त्यक्तध्यानात्मचिन्तनः |
तद्वक्त्रचन्द्रे नेत्राणि चकोरानिव चाकरोत् || ३५ ||

पुष्पाणि क्वचिदाहृत्य गिरिजां प्रति शङ्करः |
सर्वाङ्गसङ्गिनीं मालां विदधेऽतिमनोहराम् || ३६ ||

कदाचिदादर्शतले युगपच्चात्मनो मुखम् |
मुखं तथैवापर्णाया वीक्षाञ्चक्रे वृषधवजः || ३७ ||

कदाचिन्मृगनाभीनां विलेपैर्गन्धपत्रकम् |
तस्या घनस्तनयुगे विलिलेख स्मरान्तकः || ३८ ||

गन्धसारविलेपेन तिलकान्यम्बिकातनौ |
ललाटे चाकरोच्चारु चन्द्रवद्घनसन्धिषु || ३९ ||

उमानिर्याससंसक्तकेशपाशेषु चित्रकम् |
चन्दनागुरुकस्तूरीकुङ्कुमस्य विलेपनैः || ४० ||

चकार येन तस्यास्तु केशपाशो व्यराजत |
नर्तनायावतीर्णस्य शिखिपुच्छस्य साम्यधृक् || ४१ ||

जाम्बूनदमयाञ् शुद्धान् कुण्डलाद्यान् मनोहरान् |
अलङ्कारानुमा देहे समाकार्षीद् वृषध्वजः || ४२ ||

तैर्जाम्बूनदसम्भूतैर्योजितैर्गिरिजातनुः |
विभाति जलदापूर्णे कालिकेव तडिद्गणैः || ४३ ||

सर्वैर्दिव्यैरलङ्कारैर्नानारत्नैः सदंशुकैः |
सम्पूर्णमण्डिता काली सादृश्यं प्रकृतेर्दधौ || ४४ ||

एवं सदा सानुरागस्तस्यां शम्भुर्जगत्पतिः |
जगद्धिताय चिक्रीड काल्या दयितया सह || ४५ |

काली च जगतां माता महामाया जगन्मयी |
योगनिद्रा जगद्बुद्धिर्विद्याविद्यात्मिकाखिला || ४६ ||

प्रकृतिः परमा मूर्तिः सर्गान्तस्थितिकारिणी |
सम्मोह्य शङ्करं यत्राज्जगतां च हितेषिणी |
रेमे तेन समं देवी चन्द्रिकेव सुधांशुना || ४७ ||

अथैकदा स्मरहरः कैलासाग्रे सहोमया |
रममाणो मुदा युक्तो ददृशेऽप्सरसः शुभाः || ४८ ||

रूपयौवनसम्पन्नाः सर्वलक्षणसंयुताः |
तासां मध्यगता वेश्या उर्वशी च मनोहरा || ४९ ||

ताः सर्वा रक्तगौरांग्यः सर्वालङ्कारभूषिताः |
मुनीनां च मनोऽत्यर्थं शक्ता मोहयितुं हठात् || ५० ||

ताः प्रणम्य हरं दृष्ट्वा गिरिजां च मनोरमाम् |
अग्रे प्राञ्जलयस्तस्थुस्तद्भीतिनतमस्तकाः || ५१ ||

अथ प्राह तदा भर्गः पार्वतीमिदमद्भुतम् |
तासां समक्षं तस्यां तु भाषितुं स्याद् यदप्रियम् || ५२ ||

कालि भिन्नाञ्जनश्यामे उर्वश्याद्यप्सरोगणैः |
त्वयेह स्त्रीस्वभावेन संलापः क्रियतामिति || ५३ ||

तच्छ्रुत्वा वचनं तस्य यथायोग्यं च सोर्वशी |
अप्सरसः समाभाष्य विसृष्टा गिरिजा तया || ५४ ||

अथ सा क्रोधवशगा पार्वती भर्गभावितात् |
काली भिन्नाञ्जनश्यामेत्युदिता ह्यभवत् क्षणात् || ५५ ||

सा चाप्सरसां पुरतो वर्णोद्देशविकत्थनम् |
न सेहे मन्युना युक्ता गिरिजेन्दुकलाभृतः || ५६ ||

अथ सा रोषसंयुक्ता त्यक्त्वा वृषवाहनम् |
अपह्नुते शैलसानौ रोषापह्नुतिमागता || ५७ ||

मार्गमाणोऽथ विरहव्याकुलो वृषवाहनः |
नाससाद कियत्कालं पार्वतीं पर्वतोत्तमे || ५८ ||

विरहव्याकुलं ज्ञात्वा स्वय सा पार्वती हरम् |
आत्मानं दर्शयामास गिरिसानावपह्नुते || ५९ ||

तामासाद्य ततः शम्भुः किमर्थमभजः प्रिये |
मानं मनोनुदं देवि विशीर्ण इव चाब्रवीत् || ६० ||

भर्तुरागः पुरन्ध्रीणां मानग्रहणकारणम् |
तद्विना ग्रहणात्तस्य भीरु प्राप्नोति वाच्यताम् || ६१ ||

तस्मात् किमर्थमकरो रोषं त्वं जलजानने |
तदाचक्ष्व द्रुतं कान्ते मनो मे न प्रसीदति || ६२ ||

इत्युक्त्वा शङ्करो देवीं तामालिङ्गितुमुद्यतः |
काली तं वारयामास वचनं चाब्रवीदिदम् || ६३ ||

न दृष्टपूर्वा किमहं येन भिन्नाञ्जनोपमा |
क्रियते मयि भूतेश भवताप्सरसां पुरः || ६४ ||

जातिहीनं वृत्तिहीनं रूपहीनमदक्षिणम् |
हीनाङ्गमतिरिक्ताङ्गं तेन दोषेण नाक्षिपेत् || ६५ ||

इति ब्रह्मा पुरा प्राह वेदौघार्थावनिश्चयम् |
तं चावमन्य भवता परिहासोऽभ्यभाष्यते || ६६ ||

यावन्न मे शरीरस्य भवित्री स्वर्णगौरता |
न समेष्ये त्वया तावदिति सत्यं ब्रवीमि ते || ६७ ||

शरीरगौरतां शम्भो न समेष्ये त्वया विना |
तत्र मे शृणु सन्धाय आत्मनः शिरसा शपे || ६८ ||

इत्युक्त्वा सा तदा देवी तस्यैव पुरतो ययौ |
महाकोषीप्रपाताख्यं हिमवत्साउमुत्तमम् || ६९ ||

महादेवोऽपि तं भाव्यं ज्ञानेन कृतनिश्चयम् |
अर्थं ज्ञात्वा तदापर्णां सर्वज्ञो नाप्यवारयत् || ७० ||

सा गत्वा पूर्ववत्तत्र शम्भुसङ्गतमानसा |
शतमाराधयामास वर्षाणि वृषभध्वजम् || ७१ ||

एकं पादं समुत्क्षिप्य वामेनाक्रम्य सा क्षितिम् |
उत्तराभिमुखी भूत्वा निराहारा निरन्तरम् || ७२ ||

वैयाघ्रचर्मवसना सोर्ध्वमूर्द्धानना सती |
ज्योतिर्मयं परं शान्तं शिवं शिवकरं वरम् || ७३ ||

आत्मस्वरूपतत्त्वज्ञा तत्त्वेनाराधयद्धरम् |
तां चिन्तयन्तीं परमनिश्चलां तत्त्वमानसाम् || ७४ ||

मेने मुनिगणः स्थाणुर्यो न जानाति तत्त्वतः |
एवं तस्यास्तपस्यन्त्या जग्मुर्वर्षाणि वै शतम् || ७५ ||

अन्येषां च यथा शश्वदेकं नृपतिसत्तम |
ततस्तां शतवर्षान्ते शङ्करो योगतत्परः || ७६ ||

आत्मानं दर्शयामास क्रमादेकं स सत्रपम् |
प्रथमं दर्शयामास ब्रह्माणं च हरिं ततः || ७७ ||

ततस्तु शाम्भवं देहं ततस्तेषामथैकताम् |
ज्योतिर्मयत्वं शुद्धत्वं सर्वेषां हेतुतां तथा || ७८ ||

ततस्तु शम्भुरूपं स दर्शयामास शङ्करः |
योगनिद्रां महामायां योगिनीं कालिकाम्बिकाम् || ७९ ||

प्रथमं दर्शयित्वा तु तस्याः प्रकृतिरूपताम् |
पश्चात् सा पार्वतीत्येव क्रमात्तस्या अदर्शयत् || ८० ||

तपसा सम्भृतेनाशु ज्ञानमासाद्य पार्वती |
अन्तर्दृष्ट्या बहिर्दृष्ट्या तत्त्वं ज्ञात्वा यथातथम् || ८१ ||

शम्भुं जगन्मयं मेने तथात्मान जगन्मयीम् |
ब्रह्मा विष्णुर्हरश्चापि ततः सर्वमिदं जगत् || ८२ ||

अहं समस्तप्रकृतिर्योगनिद्रा तथा सती |
इति ध्यानेन सा देवी प्राप्य ध्यानं तदात्यजत् |
उन्मील्य नयनद्वन्द्व बहिः शम्भुं ददर्श च || ८३ ||

सा दृष्ट्वा शङ्करं देवं देवदेवमुमापतिम् |
तुष्टाव वाग्भिरिष्टाभिर्यमिनं योगतत्परम् || ८४ ||

पार्वत्युवाच

नमस्ते जगतां नाथ नमस्ते केशवाव्यय |
प्रधानपुरुषातीत कारणत्रयकारण || ८५ ||

योगमोहमनोराग-धर्माधर्ममयस्तथा |
विद्याविद्यास्वरूपश्च शाम्भवः काय एष ते || ८६ ||

त्वं निःश्रेयः श्रेयसा युज्यमानो
दृश्योऽदृश्यो योगमूर्तिर्मनीषी |
सम्यक् श्रद्धा पौरुषे तत्त्वरूपं
त्वं वै ज्योति शान्तिरूपं पुरस्तात् || ८७ ||

ब्रह्मा विष्णुस्त्वं हरस्त्वं महेन्द्रः
सूर्यः सोमो वायुरग्निर्धनेशः |
त्वं तोयेशः शमनो राक्षसश्च
शेषस्त्वत्तो भिद्यते कोऽपि नास्मिन् || ८८ ||

त्वं भूमिद्यौर्द्युर्सदां चापि पन्था-
स्त्व स्थावरो जङ्गमो भूर्वलस्थः |
ज्ञानं ज्ञेयं ध्यानगम्यं च तत्त्वं
परात्परं व्यक्तरूपं परेषाम् || ८९ ||

त्वं पुरुषः परमात्मा प्रधानं
त्वं हि ज्यायानागमो ज्ञानगम्यः |
भावः कृत्यं पञ्चरूपी समस्तै-
रासाद्यस्ते गोचरास्तद्भवाय || ९० ||

कीर्तिः कीव्यः स्तुत्यरूपी स्तुतिश्च
द्रष्टा दृश्यः स्थैर्यधृक् स्थावरश्च |
नित्योऽनित्यो मुक्तयोगो वियोगो
दानादाने भेदसामप्रयोगः || ९१ ||

नीतिर्नेयो दीक्षितो दक्षिणाश्च
सारात् सारः सविधाता विधेयः |

आर्योऽनार्यो रूपधृग्रूपहीनो
दिव्यो देवो मानुषोऽमानुषाश्च || ९२ ||

सृज्यः स्रष्टा पालकः पाल्यरूप-
श्चेता चेयो नोर्मियुक्तस्तथोर्मिः |
विद्याविद्यावेदवादैकरूपो
रूपारूपस्तीक्ष्णसौम्यैकरूपः || ९३ ||

भावाभावः शोभनः शुद्धरूपी
शश्वद्दान्तः शान्तिरुग्रा मुनीनाम् |
द्वन्द्वोऽद्वन्द्वः सर्वगोऽसर्वगश्च
भ्रान्तोऽभ्रान्तः सिद्धसिद्धिप्रदश्च || ९४ ||

एकस्थस्त्वं सर्वगोप्ता सुदेहो
निर्देहस्त्वं देह एकः सुराणाम् |
स्थूलः सूक्ष्मो निर्विकारः शरीरी
विश्वात्मा त्व नास्ति भिन्नो भवत्तः || ९५ ||

कार्याकार्ये यस्य रूपे समस्ते
व्याप्याव्याप्ये भागहीनोऽतिपूर्णः |

योगज्ञानस्थात्मकं यस्य नित्यं
रूपं यस्य श्रीद तस्मै नमस्ते || ९६ ||

प्रधानपुंसोरपि यो विधाता
यः कालरूपी पुरुषः परेशः |
तमीशमुग्रं वरदं वरेण्यं
नमामि चिन्नीतिवितानकत्वाम् || ९७ ||

अक्षयो योऽव्ययः साक्षी क्षेत्रज्ञःक्षेत्रधृग्वरः |
तस्मै नमस्ते विश्वात्मन् वृषध्वज महेश्वरः || ९८ ||

ज्ञानामृतविनिस्यन्दि यस्य चिच्चन्द्रमाः सदा |
तद्रूपमेकं यं ज्ञेयं भाक्तिमात्रं नमोऽस्तु ते || ९९ ||

और्व उवाच

इति स्तुतो महादेवः सर्वभूतानुकम्पकः |
प्रसन्नवदनः प्राह पार्वतीं प्रतिहर्षयन् || १०० ||

ईश्वर उवाच

प्रीतोऽस्मि देवि भद्रं ते वरं वरय वाञ्छितम् |
तपसाप्यायितश्चाहं त्वया ब्रह्मा तथा हरिः || १०१ ||

तपसा त्वत्समो नास्ति शीलेन च गुणेन च |
त्वां विना न हि तृप्यामि प्रिये कुरु यथेप्सितम् || १०२ ||

ततः सा मोहिता प्राह मायया हिमवत्सुता |

और्व उवाच

जाम्बुनदाभगौरो मे देहो भवतु साम्प्रतम् |
अनन्यकान्तस्त्वं चापि भूया मत्तो विना हर || १०३ ||

एवमुक्तो महादेवः पार्वत्या पार्वतीं ततः |
आकाशगङ्गातोयोघे मज्जयामास भामिनीम् || १०४ ||

सा निमज्ज्य समुत्तीर्णा विद्युद्गौरी व्यजायत |
सिताम्भोमध्यगा देवी शारदाभ्रे तडिद्यथा || १०५ ||

ईश्वर उवाच

शम्भुश्चाङ्गीचकाराशु नाहं त्वत्तो विना प्रिये |
मनसापि ग्रहीष्यामि नान्यां सत्यं ब्रवीमि ते || १०६ ||

और्व उवाच

अथ तोयात् समुत्तीर्णा पार्वती मोदसंयुता |
तपःक्लेशपरित्यक्ता चन्द्रिकेव विधोर्यथा || १०७ ||

अथ तां पार्वतीं देवीमादाय वृषध्वजः |
जगाम शैलं कैलासं स्वमाश्तमपदं लघु || १०८ ||

तदा गत्वा हरो देवीमधिवास्य विभूष्य च |
पूर्ववन्मोदयामास नर्महासकथादिभिः || १०९ ||

सापि सौवर्णगौराङ्गी वीक्ष्य रूपं मनोहरम् |
गृहीतसमयं शम्भुं प्राप्यातीव मुमोद ह || ११० ||

एवं तयोस्तु शिवयोरन्योन्यरममाणयोः |
जगाम सुचिरं कालं कैलासे पर्वतोत्तमे || १११ ||

अथैकदा महादेवसमीपे हिमवत्सुता |
आसीना ददृशे तस्य स्वां छायामुरसि स्थिताम् || ११२ ||

स्फटिकाभ्रसमे स्वच्छे हृदि शम्भोर्मनोहरे |
योगिज्ञानादर्शतले चार्वङ्गी प्रतिबिम्बिताम् || ११३ ||

आत्मच्छायां गिरिसुता वामभागे मनोहरे |
ददर्श वनितारूपां स्मितवक्त्रां मनोहराम् || ११४ ||

भ्रान्त्या दृष्ट्याथ पार्वत्यास्तदा ज्ञानमजायत |
कृतसत्योऽपि गिरिशः किमन्यां वनितां दधौ || ११५ ||

मायया स्थापितां गात्रे वीक्षन्तीं कुटिलं च माम् |
इति तस्यास्तदा वक्त्रं मलिनं भृकुटीयुतम् |
बभूव वृषकेतुश्च श्याम उत्पातको यथा || ११६ ||

सा दृष्ट्वाथ तदा छायां विष्णुमाया-विमोहिता |
अपह्नुतं गिरेः शृङ्गं मानाद्रोषाद्विवेष ह || ११७ ||

अथ तां मार्गमाणस्तु शङ्करो विरहाकुलः |
चिरादपह्नुतां देवीमाससाद ततो हरः || ११८ ||

तामासाद्य महादेवी विवर्णवदनां प्रियाम् |
उवाच रोपणे हेतुं ज्ञातुमिच्छुर्यथातथम् || ११९ ||

ईश्वर उवाच

किमर्थस्त्वं वरारोहे मह्यं कुप्यसि कोपने |
रोषहेतुमहं वक्तुं तवेच्छामीह वल्लभे || १२० ||

न तुभ्यमपराध्यामि वाचा वा मनसाथवा |
कायेन वा कथं कोपं कर्तुमर्हसि भामिनी || १२१ ||

देव्युवाच

समयेन मया पूर्वं तथा सम्प्रार्थितो भवान् |
कथं तं परिहाय त्वमन्यां भार्यां समीहसे || १२२ ||

प्रत्यक्षेण मया दृष्टा तव हृद्यन्तरे हर |
चार्वङ्गी वनिता काचित्तोयनिर्यातभस्मनि || १२३ ||

भवान् सर्वज्ञानमयः सर्वगः परमेश्वरः |
तोषितो मे तपोव्रातैर्न तुष्टस्त्वं महेश्वर || १२४ ||

तस्मादहं तपस्तप्तुं शाश्वद्गन्तु समुत्सहे |
अनुजानीहि मा शम्भो मा विलम्बं वृथा कृथाः || १२५ ||

और्व उवाच

इति श्रुत्वा वचस्तस्याः स्मितविस्तारिताननः |
शङ्करः पार्वतीं प्राह सन्दिग्धामिव भामिनीम् || १२६ ||

ईश्वर उवाच

नाहमन्यां स्त्रियं वोढा नाहं समयभेदकः |
तव मिथ्यामतिर्जाता मुग्धे मूढतयाधुना || १२७ ||

त्वमिच्छसि यदि श्रोतुं तत्र हेतुं च पार्वति |
तदहं कथये तत्त्वं मानं मानिनि मा कृथाः || १२८ ||

मम वक्षसि विस्तीर्णे दर्पणस्वच्छभासिनि |
तवैव वपुषश्छायाबिम्बिता लोकिता त्वया || १२९ ||

इदानीमेव बुध्यस्व त्वामृते नास्ति सा मयि |
नात्र मानस्त्वया कार्यो हृदयान्तरसंस्थिते || १३० ||

देव्युवाच

मयि स्थितायां छायास्ति मामृते नास्ति सा पुनः |
कथमेतन्मया ज्ञेयं तन्मे वद वृषध्वज || १३१ ||

ईश्वर उवाच

गवाक्षाभ्यन्तरे स्थित्वा तज्जालेन मनोहरे |
पश्य तोयौघनिर्यातभूतिलेपमुरो मम || १३२ ||

तथा त्वं मण्डितं देहं वीक्ष्यादर्शतले पुनः |
मद्धृदासन्नमासाद्य तादृक्छायां विलोकय || १३३ ||

यथा द्रक्ष्यसि देहे स्वं तत् कुरु त्वं तथा मम |
आलोकय निजां छायां त्वां विना नास्ति तत् पुनः || १३४ ||

त्वमेव ज्ञास्यसि च्छायां मद्वक्षसि मनोहरे |
ज्ञात्वा विसृज्यमानं मां त्वं चाप्युपपत्स्यसि || १३५ ||

और्व्य उवाच

एवमुक्ता हरेणाथ पार्वतीन्दुकलाभृतः |
तयौर्निर्धाव्य हृदयं स्वां छायां पुनरैक्षत || १३६ ||

दृष्ट्वादर्शतले वक्त्रं निजं देहं च पार्वती |
आलोकयामास तदा शश्वच्छङ्करवक्षै || १३७ ||

यथा सा कुरुते देवी कापट्यं नेत्रविभ्रमम् |
तथा सा कुरुते च्छाया करकम्पादिकं तथा || १३८ ||

ततः पुनर्गवाक्षस्य जाले स्थित्वा हिमाद्रिजा |
तथा व्यलोकयच्छम्भोर्हृदयं वीतभूतिकम् || १३९ ||

तया तत्र तु पार्वत्या वृषभध्वजवक्षसि |
न कापि दृष्टा वनिता दृष्टं जालस्य मण्डलम् || १४० ||

एवं बहुविधैर्देवी तदोपायैस्तथेतरैः |
निर्यातसंशया भूत्वा लज्जां प्राप वराङ्गना || १४१ ||

तां लज्जितां गिरिसुतामीषद्भीतामधोमुखीम् |
शम्भुरालिंग्य पाणिभ्यां मुखं चास्याश्चुचुम्ब च || १४२ ||

स तामाह महादेवो देवीमाश्वासयन् मुहुः |
मा ब्रीडस्व महाभागे भ्रांतिः कस्य न जायते || १४३ ||

मानस्त्वयि वरस्त्रीभिः कार्यः प्रेमकरो यतः |
त्वयापि विरलः कार्यो मानो देवि न सर्वदा || १४४ ||

इत्युक्ता देवदेवेन मैनाकसहजाम्बिका |
शङ्करं प्रणयात् प्राह सूनृतं मधुरं वचः || १४५ ||

देव्युवाच

यथा तवाहं सततं छायेवानुगता हर |
भवेयं साहचर्येण तथा मां कर्तुमर्हसि || १४६ ||

सर्वगात्रेण संस्पर्शं नित्यालिङ्गनविभ्रमम् |
अहमिच्छामि भवतस्तत्त्वं चेत् कर्तुमर्हसि || १४७ ||

भगवानुवाच

रोचते तन्मह्यमपि यस्त्वमिच्छसि भामिनि |
तत्रोपायमहं वक्ष्ये यदि शक्नोषि तं कुरु || १४८ ||

अर्द्धं मम गृहाण त्वं शरीरस्य मनोहरे |
अर्द्धं भवतु मे नारी अथैवार्द्धं पुमानिति || १४९ ||

यदि त्वमपि शक्नोषि कर्तुं तदर्धमी दृशम् |
तदाहं ते हरिष्यामि शरीरार्द्धं वरानने || १५० ||

तवैवार्द्धं तथा नारी ह्यर्धं भवतु पूरुषः |
विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि || १५१ ||

देव्युवाच

तवैवाहं हरिष्यामि शरीरार्द्धं वृषध्वज |
किं त्वहं त्वेवमिच्छामि तच्चेत्त्वं कर्तुमिच्छसि || १५२ ||

यदाहमर्द्धं भवतो भूत्वा तिष्ठामि तावता |
त्यजाम्यहं यदा तेऽर्द्धं सम्पूर्ण स्यात्तदा द्वयम् || १५३ ||

इत्यर्द्ध भागहरणं भवेद्यदि यथेप्सितम् |
तवैवाहं तदा शम्भो शरीरार्द्धं हराम्यहम् || १५४ ||

ईश्वर उवाच

एवमस्तु भवेन्नित्यं यथार्द्धं हर्तुमर्हसि |
शरीरस्यार्द्ध हरणं भूयस्तव यथेप्सितम् || १५५ ||

और्व्य उवाच

अथ गौरी तदा पूर्वमनुभूतं तपःस्थितौ |
योगनिद्रास्वरूपं तदात्मनोऽचिन्तयाद्धिया || १५६ ||

हरं प्रणम्य प्रथमं ब्रह्माणं च ततः परम् |
ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम् || १५७ ||

चिन्तयित्वा यदा तेषामेकता सा जगन्मयी |
आत्मानं योगनिद्रां च चिन्तयित्वा तपस्विनी || १५८ ||

दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः |
शरीरस्य तदा वाममतिप्रेम्णा निजं हरे || १५९ ||

हरोऽपि स्वशरीरार्द्धं गौरिकाये तदा स्वयम् |
प्रेम्णा न्यवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम् || १६० ||

अथ स्थित्वा तदा भर्गः काल्या सह चिरं तदा |
परित्यज्य शरीरार्द्धं पृथगेव बभौ रुचा || १६१ ||

काली भूत्वा स्वर्णगौरी शरीरार्द्धं च शङ्करम् |
प्राप्तमोदा तदात्मानं सन्तुष्टा च जगन्मयी || १६२ ||

एवं यदा शरीरार्द्धमादाय परमेश्वरी |
रहस्ये तिष्ठति तदा राजतेऽतीव शोभना || १६३ ||

अर्द्धं धम्मिल्लसंयुक्तं जटाजूटार्द्धयोजितम् |
एकस्मिन् श्रवणे भोगी भागे जाम्बूनदार्चितम् || १६४ ||

कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत |
अर्द्धं मृगाक्षि चान्यार्द्धं वृषभाक्षि व्यजायत || १६५ ||

अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम् |
दीर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्जितम् || १६६ ||

आरक्तचारुदशनं रक्तौष्ठमेकतस्तथा |
अपरं शुक्लविपुलं दीर्घाकृतिरदं परम् || १६७ ||

अर्द्धनीलगलं चार्द्धमपरं हारसंयुतम् |
अर्द्धं कङ्कणकेयूरयुक्तबाहु तथापरम् || १६८ ||

नागकेयूरसंयुक्तं स्थूलबाहुनिरूर्मिकम् |
अर्द्धं विलोलसुभुजं करिहस्तभुजं परम् || १६९ ||

एकत्र सोमिकाशाखा करस्यान्यत्र तां विना |
एकस्तनं तु हृदयं रोमावल्यर्धसंयुतम् || १७० ||

रम्भास्तम्भसमानोरु सुपार्ष्णि मृदुपादकम् |
एक तथापरं स्थूलं संहतोरुपदाम्बुजम् || १७१ ||

एकं चारुमृदुस्थूलजघनं सुमनोहरम् |
तथापरं दृढकटि संहतोर्द्धपदान्वयम् || १७२ ||

एक वैयाघ्रमर्मौघयुक्तं भूतिविलेपनम् |
अपरं मृदु कौशेयवसनं चन्दनोक्षितम् || १७३ ||

एवमर्द्धं तथा जातं योषिल्लक्षणसंयुतम् |
अपरं बलवद् भूरि सुगूढ पुरुषाकृति || १७४ ||

एवमर्द्धं स्मररिपोर्जहार गिरिजा सती |
हिताय सर्वजगतां कालिका कालिकोपमा || १७५ ||

तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् |
येनोपमेयं तत्रास्ति मार्गितं भुवनत्रये || १७६ ||

सन्तानः पारिजातो वा एकान्तविशदस्तरुः |
अमोघया यथा वल्ल्या तौ चापि ययतुर्नहि || १७७ ||

बहुधा च पृथक् तेन तौ रेमाते नरेश्वर |
अर्द्धनारीश्वरो भूत्वा स तु रेमे कदाचन || १७८ ||

इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् |
गौरीं कर्तुं तदा सर्वभूतकारणकारणः || १७९ ||

तथापि तां गिरिसुतां संयोज्य विविधैः पुरा |
तपश्ययोजयद् देवः क्रियोपायेरनेकशः || १८० ||

तपोनिर्धूतसर्वाङ्गीं पश्चाद् गौरीमथाकरोत् |
अर्द्धं च प्रददौ तस्यै शरीरस्य महेश्वरः || १८१ ||

नवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः सुराः |
शरीरार्द्ध प्रदानस्य तपसे योजनस्य च || १८२ ||

एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः |
नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा || १८३ ||

अङ्गभूता महेशस्य वीतभीतास्तपोधनाः |
ये मानुषशरीरेण प्रापिरे तपसो बलात् || १८४ ||

गणानामाधिपत्यं तु ते जानन्ति हरं परम् |
एवं सदा त्वया योज्याः सानुगा नृपसत्तम् || १८५ ||

वनिता सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि |
य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् || १८६ ||

शिवयोः प्रीतिकरणं शरीरार्द्ध ग्रहं तथा |
गौरीत्वसाधानञ्चैव कालिकायाः शुभावहम् || १८७ ||

न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः |
दीर्घायुः स सुखी भूयात् पुत्रपौत्रसमन्वितः || १८८ ||

सततं परिश्र्ण्वानः शिवयोश्चरितं महत् |
शिवलोकमवाप्नोति सुचिरं शिववल्लभः || १८९ ||

इति श्रीकालिकापुराणेऽर्द्धनारीश्वरचरिते पञ्चचत्वारिंशोऽध्यायः || ४५ ||

Kapitel 46

षट्चत्वारिंशोऽध्यायः

सगर उवाच

कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः |
कथं वा तौ शरीरेण मानुषेण गणाधिपौ || १ ||

अभूतां द्विजशार्दूल तन्मे वद महामुने |
जानामि नन्दिनं विप्र सहायं शशभृद्भृतः || २ ||

यथाभवद् गणाध्यक्षस्तन्नारदमुखाछ्रुतम् |
यथा भृङ्गिमहाकालौ विश्रुतौ हि हरात्मजौ || ३ ||

कथं वा तौ समुत्पन्नौ त्वत्तः श्रोतुं समुत्सहे |
योऽसौ शरभरूपस्य महादेवस्य वै पुरा || ४ ||

कायभागः श्रुतः पूर्व्ऽम् स महाभैरवाह्वयः |
स एव किं भैरवाख्यः किं वान्यो द्विजसत्तम || ५ ||

वेत्तुं तत्त्वेन तत् सर्वमिच्छामि द्विजसत्तम |
कस्य वा तनयौ भूत्वा गणाध्यक्षत्वमागतौ |
तच्चापि कथयस्वाद्य यथा तौ वानराननौ || ६ ||

और्व्य उवाच

शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः |
भैरवस्यापि चरितं वेतालस्य महात्मनः || ७ ||

योऽसौ भृङ्गी हरसुतो महाकालोऽपि भर्गजः |
तावेव गौरीशापेन सम्भूय नरयोनिजौ || ८ ||

वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि |
यथा भृङ्गिमहाकालव्युत्पन्नौ प्राक् तथा शृणु || ९ ||

योऽसौ महाभैरवाख्यः सकायः शरभो हरः |
भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः || १० ||

ऊढायां हिमवत्पुत्र्यां भर्गेण सुमहात्मना |
तारकस्य वधार्थाय देवैः शक्रपुरोगमैः |
स्तुतिभिर्नतिभिः शम्भुं सन्ततिर्याचिता पुरा || ११ ||

स याचितो देवगणैर्भगवान् वृषभध्वजः |
महामैथुनमारेभे सन्तानायोमया सह || १२ ||

आरब्धे मैथुने तेन नरवर्येण वै ययुः |
द्वात्रिंशद् वत्सरा राजन् क्षणवच्चन्द्रधारिणः || १३ ||

स महामैथुनं कुर्वंस्तृप्तिं नाप महेश्वरः |
माप्यस्य प्रच्युतं तेजो न तृप्तिं प्राप पार्वती || १४ ||

तन्महासङ्गसमये चकम्पे वसुधा स्फुटम् |
आकुलाः सकला देवाः स्युः स्वर्गस्थाश्च येऽपरे || १५ ||

सर्वं जगत्तदा भूतमाकुलं शिवयोस्तयोः |
ततो निवृत्तिजातेन महामैथुनकर्मणा || १६ ||

अथ सेन्द्राः सुराः सर्वं ब्रह्माणं जगतां पतिम् |
शरण्य शरणं जग्मुर्भीताः शङ्करकेलिभिः || १७ ||

ते सम्भूयाथ धातारं प्रणम्य च सुरोत्तमाः |
आकुलं सर्वमाचक्षुर्हरमैथुनकर्मणा || १८ ||

ततः सर्वान् देवगणान् पश्चात् कृत्वैव वृत्रहा |
स्वयमाह विधातारं तत्कालभयभाषितम् || १९ ||

इन्द्र उवाच

आकुलाः सकला लोका हरमैथुनकर्मणा |
अहं महद् भयं प्राप्य शरणं त्वामिहागतः || २० ||

एवम्भूते सङ्गमे च शङ्करस्योमया सह |
यः पुत्रो जायते ब्रह्मन् स मामभिभविष्यति || २१ ||

तत्क्रियादर्शनादेव सूत्पन्नादपि तत्सुतात् |
ब्रह्मन् जातं भयं मेऽद्य तारकादपि चाधिकम् || २२ ||

तस्मादेवं त्वं विधेहि तत्सुतो मां सुरान् यथा |
न बाधेत तथा यत्नात्तारयास्मान्महाभयात् || २३ ||

ब्रह्मोवाच

उमायां जायते पुत्रो यदि शङ्करतेजसा |
अशक्यः सर्वलोकेशैः सेन्द्रैरपि सुरासुरैः || २४ ||

अस्माद्धरो यथोमायां न प्रसूतो भविष्यति |
तथाहं संविधास्यामि गत्वा देवैर्हरान्तिकम् || २५ ||

तारकस्य विघातश्च यथा स्याद्धरतेजसा |
तच्चाप्यहं करिष्यामि व्येतु ते मानसो ज्वरः || २६ ||

और्व्य उवाच

इत्युक्त्वा सह देवौघैः कैलासाद्रिं प्रजापतिः |
जगाम रेमे गिरिशो गिरिपुत्र्या समं भृशम् || २७ ||

तत्र गत्वा महादेवं ब्रह्मा लोकपितामहः |
सर्वैः सुरगणैः सार्धं तुष्टाव वृषभध्वजम् || २८ ||

देवा ऊचुः

प्रीतये यस्य न रतिर्न कामो यन्मनोभवः |
न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः || २९ ||

यस्य लोकहितायैव जातो जायापरिग्रहः |
त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु || ३९ ||

यन्मन्मथं विना देवं शृङ्गाराद्या विशन्ति च |
स्वबलेनैव तं देवं त्वां वयं प्रणता हरम् || ३१ ||

हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः |
स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु || ३२ ||

जगन्मयी योगनिद्रा विष्णुमाया बलीयसी |
तस्याभवत् स्वयं जाया तस्मै तुभ्यं नमो नमः || ३३ ||

पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते |
तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे || ३४ ||

सद्योजातमघोरं च वामदेवमुमापतिम् |
ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै || ३५ ||

योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः |
शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते || ३६ ||

रूपैस्त्रिभिर्यः थितिसृष्टिनाशं
इष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः |
करोति शश्वज्जगतां नुमस्तं
सिवं विरूपाक्षममुं शिवेशम् || ३७ ||

अः शूलखट्वाङ्गमृगाङ्कधारी
यो गोध्वजः शक्तिमान् पञ्चरूपी |
तस्मै तुभ्यं जातवेदः प्रभाय
भूयो भूयो न नमः शङ्कराय || ३८ ||

ब्रह्मार्चिष्मान् भोगभृद्दैत्यहन्ता
अन्ता योद्धा वीतगर्भो जगत्याः |
स त्वं स्तुतो नः प्रसीदत्वनन्तो
नित्योद्रेकी उक्तरूपः प्रधानः || ३९ ||

अरब्रह्मरूपी नियतैकमुक्तः
परज्योतिरूपी नियतस्त्वनन्तः |
अरः पाररूपी नियतात्मभागी
अ नो भर्गरूपी गिरिशोऽस्तु भूत्यैः || ४० ||

उमापतिं महामायं महादेवं जगत्पतिम् |
शिवं शिवकरं शान्तं नमानः स प्रसीदतु || ४१ ||

और्व्य उवाच

इति स्तुतो महादेवः शक्राद्यैस्त्रिदशैः स्वयम् |
उमासङ्गं परित्यज्य भर्गोऽगात्त्रिदिवौकसः || ४२ ||

येन भावेन स तदा महामैथुनतत्परः |
आसीन् तेनैव भावेन ब्रह्मादीनां ससाद ह || ४३ ||

ईश्वर उवाच

अथ तान् स सुरान् प्राह महादेवस्त्वरन्निव |
किमर्थमागता यूयं तन्मे वदत निर्जराः || ४४ ||

देवा ऊचुः

तमूचुस्त्रिदशाः सर्वे ब्रह्मशक्रपुरोगमाः |
त्वन्महामैथुनाद्भर्ग व्याकुलं सकलं जगत् || ४५ ||

पृथिवी कम्पतेऽतीव सशैलवनकानना |
सागराः क्षुभिताः सर्वे नदा नद्यश्च शङ्कर || ४६ ||

देवाश्च सर्वे दिक्पाला न शान्ति प्राप्नुवन्ति वै |
तस्मात् त्वं सर्वलोकेश सकलाननुकम्पय || ४७ ||

त्यक्त्वा महामैथुनं तु रतिमात्रं नियोजय |

और्व्य उवाच

एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः |
उवाच शङ्करो देवो नातिहृष्टमना इव || ४८ ||

ईश्वर उवाच

इयं प्रवृत्तिर्भवतां शिवायामरसत्तमाः |
त्यक्ते महामैथुने तु रतिमात्रं प्रयोजिते |
नोमायां भविता पुत्रस्तदर्थमयमुद्यमः || ४९ ||

उमाशरीरजः पुत्रो यो भवेन्मम तेजसा |
स एव तु रिपून् हत्वा त्रिदशान् वर्धयिष्यति || ५० ||

तस्मान्महामैथुने मेऽतीव भीताः सुरोत्तमाः |
स्वं स्वं स्थानं प्रगच्छन्तु अहं तदनुचिन्तये || ५१ ||

देवा ऊचुः

उमाशरीरजः पुत्रो यथा न भविता हर |
तथा कुरु जगन्नाथ तन्महामैथुनं त्यज || ५२ ||

ईश्वर उवाच

रतिमात्रेण नोमायां मत्पुत्रः सम्भविष्यति |
महामैथुनसन्त्यागात् स्यादपुत्री तु पार्वती || ५३ ||

तस्मादहं तु देवानां वचनाद् ब्रह्मणस्तथा |
त्यक्ष्ये महामैथुनं तु किं त्वेकं कुरुतामराः || ५४ ||

येन मे प्रसृतं तेजो महामैथुनकारणात् |
धायं तेजस्विनं देवमानयन्त्वमरास्तु तम् || ५५ ||

यो निष्कम्पो निर्विकारो भूत्वा तेजो ग्रहीष्यति |
तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् || ५६ ||

और्व्य उवाच

वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः |
हरतेजोग्रहायाथ वीतिहोत्रं ययुर्धिया || ५७ ||

अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् |
सेन्द्रा देवगणाः सर्वे हरमूचुरिदं वचः || ५८ ||

देवा ऊचुः

एष वैश्वानरः श्रीमान् भूरितेजोमयो वली |
महामैथुनबीजं तु त्वत्तेजः सङ्ग्रहीष्यति || ५९ ||

और्व्य उवाच

इत्युक्त्वा त्रिदशा सर्वे वीतिहोत्रं पुरः स्थितम् |
तस्मै निदेशयामासुः शम्भवे सर्वहेतवे || ६० ||

अतः षडङ्गं स्वं रेतो व्यादिते दहनानने |
उत्ससर्ज महाबाहुर्महामैथुनकारणम् || ६१ ||

अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः |
अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह || ६२ ||

तयोस्तु कणयोः सद्य सम्भूतौ शङ्करात्मजौ |
एको भृङ्गसमः कृष्णो भिन्नाञ्जानिभोऽपरः || ६३ ||

भृङ्गाभस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् |
महाकृष्णैकरूपस्य महाकालेति लोकभृत् || ६४ ||

ततस्तौ पालयामास शङ्करः प्रमथोत्करैः |
अपर्णया चापि तथा क्रमात् तावतिवर्द्धितौ || ६५ ||

प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ |
क्रमाद् गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् || ६६ ||

सगर उवाच

उत्सृष्टमग्नौ यत्तेजस्तत् किं वृत्तं द्विजोत्तम |
तद्प्यहं श्रोतुमिच्छुः संक्षेपात् तद्वदस्व मे || ६७ ||

और्व्य उवाच

अग्नावुत्सृज्य तेजांसि तावत्कालं वृषध्वजः |
आकाशगङ्गामुद्दिश्य देवानिदमुवाच ह || ३८ ||

ईश्वर उवाच

एतत् तेजो दुराधर्षं स्त्रीभिरन्यैः सुरोत्तमाः |
योगनिन्द्रामृते देवीं शैलपुत्रीमृतेऽथ वा || ६९ ||

तस्मादहं प्रवक्ष्यामि यथेदं तेजसा सुतः |
यत्र वा भविता देवो या च वा तद् ग्रहीष्यति || ७० ||

इयं त्वाकाशगा गङ्गा शैलराजसुतापरा |
उमाया भगिनी ज्येष्ठा ततोऽपत्यं हुताशनात् || ७१ ||

जनिष्यत्यात्मवीर्येण तेजसानुपमद्युतिः |
भविष्यति स वः श्रीमान् सेनापतिररिन्दमः || ७२ ||

स तारकं वः पुरतो विजेष्यति शिखिध्वजः |
अमोघया महाशक्त्या मयैव प्रतिविर्धितः || ७३ ||

और्व्य उवाच

इत्युक्त्वा स महादेवो विसृज्य सकलान् सुरान् |
पार्वतीमभिसंमन्त्र्य शौचार्थं गतवांस्तदा || ७४ ||

पार्वती वचनं श्रुत्वा देवानामप्रियं सती |
चुकोप त्रिदशौघाय पुत्राशापपरिवर्जिता || ७५ ||

मन्युना दह्यमानेव स्फुरदोष्ठाधरा तदा |
इदमाह सुरान् दृष्ट्वा हरं च त्यक्तमैथुनम् || ७६ ||

देव्यु वाच

यस्माद्वियोजितः शम्भुर्युष्माभिर्मम मैथुने |
अजातपुत्रा च कृता वारस्त्रीवाहमर्दिता || ७७ ||

तस्मात् सर्वे सुरगणा अद्यावधि निरन्तरम् |
महामैथुनविभ्रष्टा भवन्तु निजयोषिति || ७८ ||

तेषामपि तथा पुत्रा न जनिष्यन्ति मे यथा |
भर्याश्च सन्त्वपत्येन हीना दैव्यो वराङ्गनाः || ७९ ||

यथाहं परितप्यामि पुत्राशापरिवर्जिता |
तथा सन्तु समस्तास्ता देव्यः पुत्राशय च्युताः || ८० ||

और्व्य उवाच

एवं सुरान् गिरिसुता शशाप कुपिता भृशम् |
तत्कालावधि न स्वर्गे जायन्ते देवपुत्रकाः || ८१ ||

नाद्यापि सम्प्रजायन्ते पुत्रास्तासु सुधाशिनाम् |
दहनोऽपि तथा काले प्राप्ते गङ्गोदरे स्वयम् |
रेतः संक्रामयामास शाम्भवं स्वर्णसन्निभम् || ८२ ||

सा तेन रेतसा देवी सर्वलक्षणसंयुतम् |
पूर्णकालेऽथ सुषुवे पुत्त्र्ययुग्मं मनोहरम् || ८३ ||

एकः स्कन्दो विशाखाख्यो द्वितीयश्चारुरूपधृक् |
शक्तिद्वयधरौ द्वौ तौ तेजः कान्तिविर्धितौ || ८४ ||

तावेकत्वं जगामाशु विशाखः स्कन्द एव च |
शिशुश्चाप्यभवद् यातो यथान्यस्य सुतस्तथा || ८५ ||

ततस्तं तनयं जातं तथा दृष्ट्वातिविस्मिता |
मध्ये शरवणस्याशु गङ्गा तं व्यसृजद्घटात् || ८६ ||

विसृज्य गर्भं तं गङ्गा बहुलायै स्वयं तदा |
गर्भवृत्तान्तमाचख्यौ जातं च व्यसृजद् यथा || ८७ ||

तच्छ्रुत्वा बहुला ज्ञात्वा महादेवतनूद्भवम् |
परिगृह्य सुतं तं तु पालयामास कृत्तिका || ८८ ||

उमायाः शङ्करस्यापि विज्ञाप्यानुमते तयोः |
ततो नीत्वा ददौ देव्यै तं पुत्रमरिमर्दनम् || ८९ ||

सोऽतिवृद्धः शक्तिधरो महाबलपराक्रमः |
वर्धितः शङ्करेणाशु देवसेनाधिपोऽभवत् || ९० ||

ततः सुरारिं सगणं तारकं लोकतारकम् |
शक्तिहस्तो हरसुतः प्रममाथ महाबलम् || ९१ ||

एवमग्नौ समुत्सृष्टं तेजो भर्गेण सङ्गतम् |
यथा वृत्तं तथा तेऽद्य कथितं नृपसत्तम || ९२ ||

साम्प्रतं प्रस्तुतुअं श्राव्यं महाकालस्य भृङ्गिणः |
वृत्तान्तं शृणु राजेन्द्र तौ भूतौ मनुजौ यथा || ९३ ||

इति श्रीकालिकापुराणेसट्चत्वारिंशोऽध्यायः || ४६ ||

Kapitel 47

सप्तचत्वारिंशोऽध्यायः

और्व्य उवाच

हरो यावद् जगत्यर्थे देववर्गैः प्रसादितः |
तावन्महामैथुनेन हीनोऽभूदुमया सह || १ ||

वर्तते रतिमात्रेण स्वेच्छां सम्पूरयन् सदा |
यथा मनोरथं देव्याः सततं पूरयन्मृडः || २ ||

अथैकदोमया सार्धं निगूढे रतिमन्दिरे |
नर्माकरोन्महादेवो मोदयुक्तो रतिप्रियः || ३ ||

यदा सा नर्मणे याता गौरी स्मरहरान्तिकम् |
तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ || ४ ||

नर्मावसाने सा देवी मुक्तधम्मिल्लबन्धना |
बन्धहीनं गलद्गात्राद्वस्त्रमालम्ब्य पाणिना || ५ ||

व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना |
विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा || ६ ||

निःषृता रतिसङ्केलिनिलयाज्जलजानना |
ईषदाघूर्णनयना निचिता स्वेदबिन्दुभिः || ७ ||

तां निःसरन्तीं सदनात् तथाभूतामनिन्दिताम् |
अयोग्यां वीक्षितुञ्चन्यैर्वृषध्वजमृते पतिम् || ८ ||

ददशृतुर्महात्मानौ नातिहृष्टात्ममानसौ |
भृङ्गी चापि महाकालः प्राप्तकालं चुकोपतुः || ९ ||

दृष्ट्वा तां मातरं दीनौ तथाभूतावधोमुखौ |
चिन्तां च जग्मतुस्तीव्रां निशश्वसतुरुत्तमौ || १० ||

तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता |
चुकोप च तदापर्णा वाक्यं चैतदुवाच ह || ११ ||

एवंभूतां च मां कस्मादसम्बद्धावपश्यताम् |
भवन्तौ तनयौ शुद्धौ ह्नीमर्यादाविवर्जितौ || १२ ||

यष्मादिमाममर्यादं भवन्तौ निरपत्रपौ |
अकुर्वतां ततो भूयाद् सवतोर्जन्म मानुषे || १३ ||

मानुषीं योनिमासाद्य मदवेक्षणदोषतः |
भविष्यन्तौ भवन्तौ तु शाखामृगमुखौ भुवि || १४ ||

इति तावुमया शप्तौ हरपुत्रौ महामती |
भृङ्गी चैव महाकालः स्वमातुरन्तिकं तदा || १५ ||

तौ प्राप्तदुःखौ तु तदा दुर्मनस्कौ हरात्मजौ |
शापं तस्या न सेहाते प्रोचतुश्चेदमद्विजाम् || १६ ||

अनागसौ सदैवावां भवत्या हिमवत्सुते |
कथं शप्तौ त्वया मातर्हठादेवं प्रकोपया || १७ ||

नियोजितौ यथा द्वारि महेशेन त्वया सह |
तथा नियोगं कुर्वन्तो तिष्ठावो द्वारि संयतौ || १८ ||

हठान्निःसरणं गेहात् तवैव न हि युज्यते |
आगच्छन्त्या भवत्या तु दृष्टावावां सुसंयतौ || १९ ||

तस्मान्निरर्थकः कोपः को दोषस्तत्र चावयोः |
तस्मात् तत्र प्रतीकारं शृणु मातरनिन्दिते || २० ||

त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः |
मानुषस्य हरस्याथ जायायां हरतेजसा || २१ ||

भवत्याश्चापि मानुष्यां भविष्यावस्तथोदरे |
यदि सत्यं हरसुतावावां यदि निरागसौ || २२ ||

तदावयोरिदं वाक्यं सत्यमस्तु गिरेः सुते |
इत्यन्योन्यमथो शापं दत्ता दत्त्वा सुदारुणम् || २३ ||

इविशुर्नृपशार्दूल गौरी हरसुतौ च तौ |
अथ काले व्यतीते तु सर्वज्ञो वृषभध्वजः || २४ ||

तद्भावि कर्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम् |
ब्रह्मणो दक्षिणाङ्गुष्ठाद् दक्षो ब्रह्मसुतोऽभवत् || २५ ||

अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत् |
ऊष्णःपुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः || २६ ||

यस्य तुल्यो नृपो न भूमौ न भूतो न भविष्यति |
स पुत्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः || २७ ||

शेषे वयसि संप्राप्ते भार्याभिस्तिसृभिः सह |
पौष्यः परमया भक्त्या ब्रह्माणं पर्यतोषयत् || २८ ||

ब्रह्मोवाच

तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः |
तमुवाच च राजानं किमिच्छसि वदस्व मे || २९ ||

प्रसन्नोऽस्मि नृपश्रेष्ठ प्रदास्यामि यथेप्सितम् |
यदिष्टं तव जायानां तद्वदिष्यसि साम्प्रतम् || ३० ||

पौष्य उवाच

इरण्यगर्भपुत्रोऽहं पुत्रार्थी त्वामुपास्महे |
त्वयि प्रसन्ने पुत्रो मे मूयाल्लक्षणसंयुतः || ३१ ||

एतदर्थे सभार्योऽहं भक्त्या त्वां समुपस्थितः |
यथा मे जायते पुत्रस्तथा कुरु जगत्पते || ३२ ||

पुन्नाम्नो नरकात् पुत्रस्त्रायते पितरं प्रसूम् |
अतस्तस्माद् भयं ब्र्हमंस्त्वं नाशयितेमर्हसि || ३३ ||

ब्रह्मोवाच

शृणु पौष्य यथा भावी पुत्रस्तव कुलोद्वहः |
तदहं ते वदाम्यह भार्याभिस्तत् समाचार || ३४ ||

इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम |
अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा || ३५ ||

फलमेतत् समादाय तावत् संवत्सरत्रयम् |
आराधय महादेवं स प्रसन्नो भविष्यति || ३६ ||

यथा सम्भाषते भर्गः फलमेतत् तथा भवान् |
करिष्यति फल राजन् भार्याभिस्तिसृभिः सह || ३७ ||

ततस्ते लक्षणोपेतस्तनयः कुलवर्धनः |
भविष्यति स्वयं शास्ता चक्रवर्ती वसुन्धराम् || ३८ ||

और्व्य उवाच

इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः |
हरं यष्टुं समारेभे भक्त्या परमया युतः || ३९ ||

निराशीः संयताहारः कदाचित् फलभोजनः |
दृषद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः || ४० ||

पुष्पार्घदीपधूपैश्च वृषभध्वजमतर्पयत् |
स तु वर्षत्रयेऽतीते महादेवो जगत्पतिः || ४१ ||

पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये |
प्रसन्नः प्राह नृपतिं महादेवो हसन्निव |
उपाससे किमर्थं मां तन्मे वद ददामि ते || ४२ ||

पौष्य उवाच

अपुत्रोऽहं पुत्रकामस्तच्छृणुस्व वृषध्वज |
यथाहं पुत्रवान् वै स्यां वृषध्वज तथा कुरु || ४३ ||

और्व उवाच

इति स न्यगदद्राजा भार्याभिः सह हर्षितः |
प्रणम्य स्तुतिपूर्वेण
भक्तिनम्रात्ममानसः || ४४ ||

ततः पुत्रार्थिनं भूपं प्रसन्नो वृषभध्वजः |
ब्रह्मदत्तं फलं
हस्ते कृत्वेदं तमुवाच ह || ४५ ||

ईश्वर उवाच

इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा |
भोजयेथा स्वजायास्त्वं प्रहृष्टः सुस्थमानसः || ४६ ||

ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे |
आधास्यन्ति तु गर्भास्तु भार्यास्ते युगपन्नृप || ४७ ||

कालं प्राप्ते च युगप्त् प्रसवो योषितां तव |
भविष्यति नृपश्रेष्ठ तत्रेत्थं त्वं करिष्यसि || ४८ ||

एकस्या जठरे शीर्षभागस्ते सम्भविष्यति |
अपरस्यास्तदा कुक्षेर्मध्यभागो भविष्यति || ४९ ||

अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविषति |
तच्च खण्डत्रयं भूप यथास्थानं पृथक् पृथक् || ५० ||

योजयिष्यसि पश्चात् ते पुत्र एको भविष्यति |
तस्य शीर्षे चन्द्ररेखा सहजा सम्भविष्यति || ५१ ||

तेनैव नाम्ना स ख्यातिं गमिष्यति च भूतले |

और्व उवाच

इत्युक्त्वा स महादेवस्तासां गर्भान् स्वयं तदा || ५२ ||

संस्कर्तुं आह्नवीतोयमात्मवासाय वै ज्यधात् |
ततः फले स्वयं देवः प्रविवेश वृषध्वजः || ५३ ||

तत्क्षणात् तत्फलं भूतं त्रिभागं स्वयमेव हि |
पौष्यस्तत्फलमादाय मुदितः सह भार्यया || ५४ ||

प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम् |
ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् || ५५ ||

तत्फलं नृपशार्दूल गर्भाश्चाप्यायिताः शुभाः |
सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत || ५६ ||

खण्डत्रयं पृथग्राजंस्तथा भर्गेण भाषितम् |
तच्च खण्डत्रयं पौष्यौ यथास्थानं नियोज्य च || ५७ ||

एकपिण्डं चकाराशु तत्र पुत्रो व्यजायत |
तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा || ५९ ||

विरराज यथा स्वस्था शरत्काले कला विधोः |
तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम् || ५९ ||

सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा |
दृष्ट्वा पौष्योऽथ भार्याभिस्तिसृभिः सह सम्मुदम् || ६० ||

लेभे दरिद्रः सत्कोषं प्राप्येअ विपुलं ततः |
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः || ६१ ||

चन्द्रशेखर इत्येव कान्त्या चन्द्रमसः समः |

ववृधे स महाभागः प्रत्यहं चन्द्रवत् सुतः || ६२ ||

कलाभिरिव तेजस्वी शरदीव निशाकरः |
एवं तिसृणामम्बानां गर्भे जातो यतो हरः || ६३ ||

अतस्त्र्यम्बक नामाभूत् प्रथितो लोकवेदयोः |
स राजपुत्रः कौमारीमवस्थां प्रापयत् तदा || ६४ ||

सर्वशास्त्रार्थ तत्त्वज्ञो विष्णोस्तुल्यो बभूव ह |
बले वीर्ये प्रहरणे शास्त्रे शीले च तत्समः || ६५ ||

नान्योऽभूद् नृपशार्दूल नो वा भूमौ भविष्यति |
अभिषिच्याथ तं राख्ये कुमारं बलवत्तरम् || ६६ ||

दशपञ्चैकवर्षीयं सर्वराजगुणैर्युतम् |
तिसृभिः सहभार्याभिर्वनं पौष्यो विवेश ह |
वृद्धोचितक्रियां कर्तुं राजा परमधार्मिकः || ६७ ||

गते पितरि राजा स वनवासं महाबलः || ६८ ||

सर्वां क्षितिं वशे चक्रे आमात्यश्चन्द्रशेखरः |
सार्वभौमो नृपो भूत्वा राजभिः परिसेवितः || ६९ ||

अमरैरिव देवेन्द्रो विजहार श्रिया युतः |
एवं पौष्यसुतो भूत्वा त्र्यम्बकः पुण्यनिर्वृतः || ७० ||

ब्रह्मावर्ताह्वये रम्ये करवीराह्वये पुरे |
दृषद्वतीनदीतीरे राजा भूत्वा मुमोद ह || ७१ ||

अथैकदा स पितर वनवासगतं स्वयम् |
मातृश्चापि नृपश्रेष्ठ द्रष्टुकामोऽभवन्नृपः || ७२ ||

स एकस्यन्दनेनैव एकाकी चन्द्रशेखरः |
विपुलं धनुरादाय समार्गणगणं तदा || ७३ ||

तपोवनं पुण्यमयं विषयान्ते व्यवस्थितम् |
आससाद दिदृक्षुः स तातं वृद्धं समातृकम् || ७४ ||

स गच्छन् पितुरभ्याशं नृपतिं चन्द्रशेखरः |
ददर्श नमुचं नाम तपस्यन्तं महामुनिम् || ७५ ||

कृष्णाजिनोत्तरीयेण संवीतं सूर्यसन्निभम् |
ऊर्ध्वगाभिर्जटाभिश्च संयुत ध्यानिनं कृशम् || ७६ ||

तपसा द्योतिततनुं निश्चलं कुशजासनम् |
तं दृष्ट्वा दूरतो वीरो रथोपस्थादवातरत् || ७७ ||

उपतस्थे च विप्रेन्द्रं विनयानतकन्धरः |
प्रणनाम मुनिं तं च वाक्यमेतदुदीरयन् || ७८ ||

पौष्यस्य तनयो ब्रह्मन् नाम्नाहं चन्द्रशेखरः |
प्रणमामि महाभक्त्या भवन्तं मुनिसत्तमम् || ७९ ||

इत्युक्त्वा प्राञ्जलिस्तस्थौ मुनेस्तस्याग्रतो नृपः |
नमुचस्य मुखं वीक्ष्य भक्तिनम्रात्ममानसः || ८० ||

पूर्वमेव यदा राजा प्राविशत् तपसे वनम् |
तदैव सह भार्याभिस्तं मुनिं प्रत्यपूजयत् || ८१ ||

चिरमाराध्य नमुचं पौष्यः परमपण्डितः |
प्रसादयामास मुनिं पुत्रार्थे सूनृताक्षरः || ८२ ||

विषयान्ते तपः कुर्वन् मुनिश्रेष्ठेह तिष्ठसि |
एकन्तु प्रार्थये त्वत्तो यदि मां दयसे मुने || ८३ ||

शिशुर्मे तनयो राजा चन्द्रशेखरसंज्ञकः |
सहजेन्दुकलायुक्तो बालभावाच्च चञ्चलः || ८४ ||

स चेद् भवन्तमासाद्य कराचिदपराध्यति |
तदा क्षमिष्यसि मुने मयैतत् प्रार्थितं त्वयि || ८५ ||

पौष्यस्य वचनं श्रुत्वा मुनिश्चाङ्गीचकार ह |
दृष्ट्वा तत्तनयं विप्रः पौष्यवाक्यमथास्मरत् || ८६ ||

स्मृत्वाग्रतः स्थितं नम्रं सुचिरं चन्द्रशेखरम् |
इदं प्रोवाच स मुनिर्दयावान्नमुचाह्वयः || ८७ ||

विनयेनाद्य तुष्टोऽस्मि भवतः चन्द्रशेखर |
वरं वरय दास्यामि वाञ्छितं मे महत्तरम् || ८८ ||

तस्य श्रुत्वा ततो वाक्यं नृपतिश्चन्द्रशेखरः |
पुनः प्रणम्य नमुचमिदमाहातिसूनृतम् || ८९ ||

कायेन मनसा वाचा यदत्यर्थं द्विजोत्तम |
तत्सर्वं विषये मेऽस्ति त्वादृशा यस्य दक्षिणाः || ९० ||

मनोगतं मे दुष्प्रापं वाञ्छनीयं न विद्यते |
तदेव वरणीयं मे यद् ददाति स्वयं भवान् || ९१ ||

नमुच उवाच

त्वं सप्तदशवर्षाणां प्राप्ते संवत्सरे परे |
भविष्यसि नृपश्रेष्ठ वररामापतिः वयम् || ९२ ||

यथा गिरिसुता शम्भोर्यथा लक्ष्मीर्गदाभृतः |
यथा सुरेशस्य शची तथा तेऽपि भविष्यति || ९३ ||

इत्युक्त्वा स मुनिर्भूपं नमुचस्तपसां निधिः |
विसर्जयामास तदा स चापि मुदितो ययौ || ९४ ||

स गत्वा पितरं प्राप्य मातृश्च चन्द्रशेखरः |
अपूजयद् यथार्हन्तु तैरप्याश्वासितः सुतः || ९५ ||

अथागतो नृपः स्वीयां करवीरपुरीं प्रति |
मुदितः सचिवै सार्धं रेमे देवेन्द्रसन्निभः || ९६ ||

इति श्रीकालिकापुराणे सप्तचत्वारिंशोऽध्यायः || ४७ ||

Kapitel 48

अष्टचत्वारिंशोऽध्यायः

और्व उवाच

अवतीर्णे महादेवे पौष्यजायासुखेच्छया |
मानुषेण प्रमाणेन गते संवत्सरत्रये || १ ||

गिरिजापि ककुत्स्थस्य राज्ञो भार्यास्वजायत |
मेनकायां यथापूर्वं स्वेच्छया परमेश्वरी || २ ||

अथार्यावर्तविषये ब्रह्मण्यः शूरसत्तमः |
इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्मिकः || ३ ||

भोगवत्याह्वयायां तु पुर्यां रिपुनिषूदनः |
सर्वलक्षणसम्पन्नो भूपालगुणसंयुतः || ४ ||

तस्य भार्या महाभागा भर्गदेवस्य पुत्रिका |
सा मनोन्मथिनी नाम्ना पूजिता पतिवल्लभा || ५ ||

तस्याः पुत्रशतं यज्ञे देवगर्भाभमच्युतम् |
बलवीर्यसमायुक्तं ककुत्स्थनृपसत्तमात् || ६ ||

पुत्री न विद्यते तस्यास्तदर्थं सा गृहान्तरे |
निभृतं स्थण्डिलं कृत्वा चण्डिकां समपूजयत् || ७ ||

पूज्यमाना महादेवी चण्डिका राजभार्यया |
प्रसन्ना सा त्रिभिर्वर्षैस्तां स्वप्ने चाब्रवीदिदम् || ८ ||

योषिल्लक्षणसम्पन्ना सार्वभौमस्य भामिनी |
नक्षत्रमालया युक्ता पुत्री तव भविष्यति || ९ ||

सापि स्वप्ने वरं प्राप्य मुदिताभून्नृपाङ्गना |
सापि स्वप्ने वरं प्राप्य मुदिताभून्नपाङ्गना || १० ||

पार्वत्यपि स्वयं तस्या गर्भे काले विवेश ह |
सा मनोन्मथिनी देवी प्रवृत्ते ऋतुसंगमे |
गर्भं दधौ महासत्त्वं चन्द्रिकेवामृतोत्करम् || ११ ||

सम्पूर्णे तु ततः काले प्राप्ते नक्षत्रमालिनीम् |
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् || १२ ||

तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां शुभाम् |
ककुत्स्थो भार्यया सार्धमत्यर्थमुदितोऽभवत् || १३ ||

सहजेनाथ हारेण भूषिता तु ककुत्स्थजा |
ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा || १४ ||

तेनैव हारचिह्नेन तस्यास्तारावतीति वै |
नामाकरोत पिता काले यथोक्ते नृपसत्तम || १५ ||

कालक्रमेण सा बाल्यं व्यतीता वरवर्णिनी |
मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे || १६ ||

सा श्रिया श्रियमन्वेति शौचेनाथ सती शुभा |
सुशीलां शीलचरितैः स्वरूपेण च पार्वतीम् || १७ ||

तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह |
ककुत्स्थः कारयामास समयेऽथ स्वयंवरम् || १८ ||

माधवे मासि सम्प्राप्ते चन्द्रवृद्धौ शुभे दिने |
स्वयंवरसभां चक्रे तारावत्याः पिता सुतैः || १९ ||

वार्तिकांस्तु बहून् राजा वडवाभिः क्रमेलकैः |
तूर्णं प्रश्तापयामास नानादेशनृपान् प्रति || २० ||

ते राजानस्तदा श्रुत्वा वार्ता वै वार्तिकाननात् |
तूर्णमेव समाजग्मुस्तारावत्याः स्वयंवरम् || २१ ||

तं श्रुत्वा पौष्यतनयश्चतुरङ्गबलैर्युतः |
स्वयंवरं जगामाशु दिव्यालङ्कारसंयुतः || २२ ||

तत्र गत्वा नृपश्रेष्ठाः ककुत्स्थेन विनिर्मिते |
स्वयंवरसभामध्ये यथायोग्यमुपस्थिताः || २३ ||

आसीनेष्वथ भूपेषु ककुत्स्थस्तनयां स्वकाम् |
शुभे मुहूर्ते सम्प्राप्ते सभां नेतुं मनोऽकरोत् || २४ ||

एतस्मिन्नन्तरे राज्ञः कुमारी वरवर्णिनी |
वृद्धां धात्रीं निजां सम्यक्सम्पूर्णज्ञानशालिनीम् || २५ ||

स्वयंवरसभां द्रष्टुं प्राहिणोत् सदसं प्रति |
उवाच च तदा धात्रीं राजपुत्री सुमङ्गलाम् || २६ ||

स्वयंवरसभां गत्वा चारुरूपं सुलक्षणम् |
नृपं निरूप्य भो धात्रि समक्षं मे निवेदय || २७ ||

त्वं मातर्मम कल्याणं सौभाग्यमपि वाच्छसि |
यथा सौभाग्यदः स्वामी मम स्यात् त्वं तथा कुरु || २८ ||

एवं तां प्रेषयित्वाथ धात्रीं तां नृपपुत्रिका |
सा मनोन्मथिनी यत्र प्राराधयत चण्डिकाम् || २९ ||

तत्र प्रायान् महाभागा शुभा तारावती तदा |
तत्र गत्वा महादेवीं प्रणम्य कालिकाह्वयाम् || ३० ||

मानुषेणाथ भावेन तां ज्ञात्वात्मानमात्मना |
प्रणनाम महाशक्त्या वाक्यं चैतदुवाच ह || ३१ ||

प्रणमामि महामायां योगनिद्रां जगन्मयीम् |
सा मे प्रसीदतां गौरी चण्डिका भक्तवत्सला || ३२ ||

यदि सत्यं जनन्या मे मदर्थे त्वं प्रपूजिता |
तेन सत्येन सुभगः पतिर्मम नृपोत्तमः || ३३ ||

स्वयंवरेऽद्य भवतु प्रसीद हरवल्लभे |
इति तस्या वचः श्रुत्वा चण्डिका हरमोहिनी || ३४ ||

मोहयन्ति नृपसुतां यथात्मानं न वेत्ति च |
तथा प्राहादृश्यमूर्तिरिदं सा सूनृतं वचः || ३५ ||

देव्युवाच

पौष्यस्य तनयो योऽसौ नाम्नाभूच्चन्द्रशेखरः |
स मनोहररूपस्ते प्रियः स्वामी भविष्यति || ३६ ||

तमिन्दुकलया शीर्षे चिह्नितं नृपसत्तमम् |
वरयस्व वरारोहे पार्वतीव वृषध्वजम् || ३७ ||

इत्युक्त्वा विवरामाशु पार्वती नृपपुत्रिकाम् |
सापि नत्वा तथादृश्यां हर्षोत्फुल्लविलोचना || ३८ ||

जगाम मङ्गलगृहं जनन्या यत्र वासिता |
अथाजगाम सा धात्री निरूप्य सदृशं पतिम् || ३९ ||

तारावत्यास्तदाचष्ट रहस्यं नृपसत्तम |

दृष्ट्वा तामग्रतो धात्रीं प्रहृष्टां नृपते सुता || ४० ||

पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः |
दृष्ट्वा तामग्रतो धात्रीं प्रहृष्टां नृपते सुता || ४० ||

पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः |
सा प्राह धात्री वचनात् तव भूपा विलोकिताः || ४१ ||

चारुरूपाः कुलीनाश्च शास्त्रै शस्त्रे च पारगाः |
तेषामहं न शक्नोमि प्रवक्तुं सुबहून् गुणान् || ४२ ||

येषु मे रोचते तांस्तु कथयामि शुभप्रभे |
चारुरूपा मया तेषु चत्वारः पुरुषाः शुभे || ४३ ||

दृष्टास्तत्रापि नासत्यौ देवौ द्वावपरौ नरौ |
देवयोः कथने कृत्यं किंचिन्नापि न विद्यते || ४४ ||

यौ पुनः पृथिवीपालौ तयोरेकः सदारकः |
नाम्ना सर्वांगकल्याणोऽथापरश्चन्द्रशेखरः || ४५ ||

नासत्ययोरेतयोस्तु विशेषो नास्ति कश्चन |
रूपे शरीरसौभाग्ये सर्वे चातिमनोहराः || ४६ ||

नृपौ पुनर्महासत्त्वौ सिंहस्कन्धौ महाभुजौ |
आरक्तपाणिनयनमुखपादकरोद्भवौ || ४७ ||

पीनोरस्कौ विशालाक्षौ लग्नभ्रूयुगलावुभौ |
सर्वलक्षणसम्पूर्णौ देवालङ्कारमण्डितौ || ४८ ||

तयोरपि वयःस्थत्वात् प्रशस्तश्चन्द्रशेखरः |
सुशीलः सूनृतवचाः शास्त्रे शस्त्रे च सम्मतः || ४९ ||

ईषदुद्भिन्नरोम्णा तु नीलेन चारु निर्मलम् |
राजते वदनं तस्य लक्ष्मणेव निशाकरः || ५० ||

दीप्तिमत्यापि कलया राजते स निशापतेः |
सहजेन शिरस्थेन साक्षात् स चन्द्रशेखरः || ५१ ||

स एव ते पतिर्योग्यश्चिह्नेनानेन सुन्दरि |
तं त्वं वरय राजानं तव यीग्यं शुभोदयम् || ५२ ||

धात्र्याश्चैवं वचः श्रुत्वा राजपुत्री जगाद ताम् |
मत्पार्श्वचारिणी भूत्वा निद्शय नृपोत्तमम् || ५३ ||

धात्रि सयंवरसभाप्रव्शसमये मम |
तयोरायात्तदा राजा त्वन्योन्यं भाषमाणयोः || ५४ ||

सुतां स्वयंवरसभां नेतुं काले शुभोदये |
स्वयं तदा ककुत्स्थस्तु सुताया मङ्गलालये || ५५ ||

आसाद्य पुत्रीं दयितां योषिद्भिः कृतमङ्गलाम् |
माल्यं सुगन्धिपुष्पाणां करेणादाय तत्करे || ५६ ||

दत्त्वा चेदमुवाचाशु प्रापयन् मङ्गलालयात् |
प्रविश्य समितौ मातर्माल्येनान्येन सत्तमम् || ५७ ||

यं त्वमिच्छसि राजानं द्विजं वा त्वं वरिष्यसि |
एवमुक्त्वा शिविकया स्वाप्तैर्वृद्धैश्च पूरुषैः || ५८ ||

तामागतां सभां दृष्ट्वा शक्राद्यास्त्रिदशास्तदा || ५९ ||

अन्ये दिक्पतयश्चापि सभां तत्क्षणमागताः |
सावतीर्य तदावाप्य यानात् तारावती मुदा || ६० ||

धात्र्या चानुगया युक्ता व्यचरत् सदसोऽन्तरे |
सभामध्ये चिरं सा तु विहृत्य वरवर्णिनी || ६१ ||

भावित्वान्नियतेर्योगाच्चण्डिकायाः प्रसादतः |
तयोः समत्वादेकत्वात्तया धात्र्या विबोधिता || ६२ ||

गतिस्वेदजहर्माम्भः कणिकानिचितानना |
पतिं पूर्वतरं पुत्री राज्ञस्तारावती सती || ६३ ||

स्वयं सा पार्वती देवी वव्रे च चन्द्रशेखरम् |
वृतं दृष्ट्वा तदा तन्तु ब्राह्मणाः सामगीतिभिः || ६४ ||

तयोर्वैवाहिकं चक्रुर्मङ्गलं यतमानसाः |
वैतालिका गायकाश्च तथा तौर्यत्रिका नृप || ६५ ||

प्रशंसन्ति स्म गायन्ति वादयन्ति च कौतुकात् |
सर्वे च त्रिदशा मोदमवापुश्चन्द्रशेखरे || ६६ ||

तारावत्या वृते चाथ ककुत्स्थोऽप्यतिहर्षितः |
वृत्तान्तं वीक्ष्य ये भूपाः सुबाहुप्रमुखाः परे || ६७ ||

रुष्टास्तान् वारयामास समितौ चन्द्रशेखरः |
ततो यातेषु देवेषु त्रिदिवं प्रति स्वेच्छया || ६८ ||

भूपेषु च प्रयातेषु ककुत्स्थेनार्चितेषु च |
वैवाहिकेन विधिना स राजा चन्द्रशेखरः || ६९ ||

तारावतीं तदा भार्यां ककुत्स्थानुमते पुनः |
संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखैः || ७० ||

पाणिग्रहणसंस्कारान् कृत्वा तां सहचारिणीम् |
करवीरपुरायाशु प्रययौ चन्द्रशेखरः || ७१ ||

द्वाविंशत् तु सहस्राणि दासीनां प्रददौ पुनः |
ककुत्स्थाख्यो विट्पतये तस्मिन्नुद्वाहकर्मणि || ७२ ||

गवां षष्टिसहस्राणि सौरभीणां तथैव च |
दुहित्रे प्रददौ दायं दासान् दासीः प्रमाणतः || ७३ ||

अपरा या निजा पुत्री ककुत्स्थाख्यस्य भूपतेः |
नाम्ना चित्राङ्गदा ख्याता रूपैस्तारावती समा || ७४ ||

दासीनामधिपा भूत्वा स्वयं चानुययौ तदा |
तारावतीं भूपसुतां ज्येष्ठां स्वां भगिनीं शुभाम् || ७५ ||

तान् दासान् सुसमादाय ककुत्स्थतनयो महान् |
ज्येष्ठो विश्वावसुर्नाम गच्छन्तं चन्द्रशेखरम् || ७६ ||

तारावत्या च सहितं स्यन्दनेनाशुगामिना |
धीमाननुययौ पश्चात् करवीरपुरं प्रति || ७७ ||

तारावत्या सम राजा पौष्यजश्चन्द्रशेखरः |
करवीरपुरे रम्ये रेमे नृपतिशेखरः || ७८ ||

इति स्वयं महादेवो मानुषीं योनिमाश्रितः |
पार्वती च स्वयं जाता नरयोनिमनिन्दिता || ७९ ||

तथा भृङ्गी महाकाल एतयोरभवत् सुतः |
तथा त्वं शृणु राजेन्द्र कथयामि समुद्भवम् || ८० ||

इति श्रीकालिकापुराणेऽष्टचत्वारिंशोध्यायः || ४८ ||

Kapitel 49

एकोनपञ्चाशोऽध्यायः

मार्कण्डेय उवाच

अथ काले व्यतीते तु ककुत्स्थतनया सती |
विधातुमार्तवं स्नानं योषिद्भिः परिवारिता || १ ||

शीतामलजलां हृद्यां कलुषध्वंसकोविदाम् |
प्रभिन्नाञ्जनसङ्काशां कलुषध्वंसकोविदाम् || २ ||

कृतस्नानामनुत्तिर्णामर्धमग्नां महासतीम् |
ददृशे स्वर्णगौराङ्गीं कपोतो मुनिसत्तमः || ३ ||

कापोतं वपुरास्थाय प्राणिनां वधशङ्कया |
विचचार यतः पूर्वं कपोतस्तेन स स्मृतः || ४ ||

तां दृष्ट्वा हेमगर्भाभां चन्द्रिकां शारदीमिव |
कपोतः कामयामास कामबाणादितो भृशम् || ५ ||

कामाग्निपरितप्तः स ककुत्स्थतनयां मुनिः |
अभिगम्याथ कल्याणीमिदं वचनमब्रवीत् || ६ ||

कपोत उवाच

का त्वं कस्यासि वनिता पुत्री वा कस्य सुन्दरि |
कस्मात् समागता वा त्वमुपांशु तटिनीजलम् || ७ ||

रूपं ते सौम्यमाह्लादि पूर्णचन्द्रनिभं मुखम् |
तिलपुष्पप्रतीकाशं नासिकायुगलं तव || ८ ||

वातकम्पितनीलाब्जसदृशे लोचने तव |
बाहू मनोहरौ वृत्तौ मृणालमृदुलायतौ |
ऊरू गजकरप्रख्यौ मध्यं वेदिविलग्नकम् || ९ ||

ईदृशेन तु रूपेण न त्वं मानुषभामिनी |
देवी वा दानवी वा त्वमप्सरोगुणशालिनी || १० ||

अथवा भोग्यभोगाय श्रीस्त्वं नारीत्वमागता |
अपर्णा वा शची वा त्वं तन्मे वद मनोहरे || ११ ||

और्व उवाच

इति वाक्यं मुनेः श्रुत्वा जलादुत्तीर्य भामिनी |
प्रणम्य तं मुनिं नम्रा वचनं चेदमब्रवीत् || १२ ||

अहं तारावती नाम्ना ककुत्स्थस्य सुता सती |
चन्द्रशेखरभूपस्य भार्यां जानीहि मां मुने || १३ ||

नाहं देवी न गन्धर्वी न यक्षी न च राक्षसी |
मानुष्यहं नृपसुता चारित्रव्रतधारिणी || १४ ||

कपोत उवाच

त्वां दृष्ट्वा मां स्वयं कामः सङ्गतः सङ्गमाय ते |
पीडितश्चापि तेनाहं त्वया शक्त्या समक्षया || १५ ||

स्मरसागरकल्लोलपतितं मां निराकुलम् |
त्वदूरुतरिणा त्राहि तूर्णं त्वं मृदुभाषिणी || १६ ||

मत्तः पुत्रद्वयं चारु रूपलक्षणसंयुतम् |
भविष्यति महाभागे बलवीर्ययुतं महत् || १७ ||

मार्कण्डेय उवाच

कपोतस्य वचः श्रुत्वा भयदुःखसमाकुला |
जगाद गद्गदं वाक्यं वाग्मिन्यथ ककुत्स्थजा || १८ ||

तारावत्युवाच

वाक्यमन्यन्मया कार्यं न कार्यमतिनिन्दितम् |
तस्मान्मा वद मामित्थं प्रणम्य त्वां प्रसादये || १९ ||

तवापि नैतद् योग्यं स्यान्मुनेरिह तपोधन |
तपःक्षयकरं गर्ह्यं सतीत्वभ्रंशकं मम || २० ||

कपोत उवाच

तपोव्ययो वा चान्यद्वा दूषण तन्ममास्त्विह |
तथापि त्वामहं त्यक्तुं नेच्छामि सुरतौ शुभे || २१ ||

अवश्यं मम कामेभ्यस्त्राणं कर्तुमिहार्हसि |
अन्यथा कामदग्धोऽहं त्वया त्यक्तो मनोहरे || २२ ||

भवतीं च करिष्यामि शापदग्धां सबान्धवाम् |
ततस्तद्वचनं श्रुत्वा देवी तारावती तदा |
ऋषिशापभयात् साध्वी न किञ्चिच्चोत्तरं ददौ || २३ ||

सम्भाषयेऽहं स्वसखीरिह तिष्ठ महामुने || २४ ||

एवमुक्त्वा तदा देवी दासीनां मध्यमागता |

चित्राङ्गदां समाहूय वचनं चेदमब्रवीत || २५ ||

चित्राङ्गदे मिनिरसौ मां वै कामयते भृशम् |
किं करिष्ये सतीभावान्न भ्रष्टा स्यामहं कथम् || २६ ||

पतिं बन्धूंश्च कपोतः सद्यः शापाग्निना दहेत् |
नाहं मुनिं कामये चेत् संशये पतिता त्वहम् || २७ ||

ततश्चित्राङ्गदा प्राह मा भैस्त्वं सत्यभाषिणि |
तत्रोपायमहं वक्ष्ये यत्कृत्वा त्वं प्रमोक्ष्यसे || २८ ||

न जहाति मुनिश्चेत्त्वां दासीमेकां मनोहराम् |
सुभूषणैर्भूषयित्वा मुनये त्वं नियोजय || २९ ||

कामातुरो मुनिर्मोहात् कृपणो ज्ञास्यते न हि |
दासीं त्वद्भूषणाच्छन्नां ज्योत्स्नाच्छन्नां मृगीमिव || ३० ||

एवं कुरु महाभागे मा त्वं चिन्तां गमः शुभे |
त्वं चेत् सतीति नियतं न ज्ञास्यति तदा मुनिः || ३१ ||

ततस्तारावती प्राह तां रूपगुणशालिनीम् |
चित्राङ्गदां भूपपुत्रीं शश्वद्विनयसूनृताम् || ३२ ||

त्वमेव गच्छ भगिनी अपोताख्यमनिन्दिते |
मद्भूषणैर्भूषयित्वा स्वशरीरं मनस्विनि || ३३ ||

अन्यां प्रस्थापितां विप्रः सम्बुध्य क्रोधवह्निना |
धक्ष्यत्यवश्यं सकुलां मां तस्माद् गच्छ सुन्दरि || ३४ ||

त्वं मत्समा सर्वगुणैः सर्वभूषणभूषिता |
मुनिं सङ्गमयस्वाद्य रक्ष मां सकुलां शुभे || ३५ ||

ततस्तस्या वचः श्रुत्वा विनयं च सकातरम् |
तूष्णीं भूत्वा क्षणं तस्थौ नातिहृष्टमना इव || ३६ ||

जगाद च महाभागां चित्राङ्गदा ककुत्स्थजाम् |
करिष्ये वचनं तेऽद्य समये मां स्मरिष्यसि || ३७ ||

यदर्थे पितरं चेमं भूपं च चन्द्रशेखरम् |
आश्वासयिष्यति तथा समस्तां च सखीगणान् || ३८ ||

एवमुक्त्वा भूषणानि तारावत्याः पिधाय सा |
चित्राङ्गदा जगामाशु मुनेः कामोत्सवाय च || ३९ ||

तारावती तदा दीन वस्त्रालङ्कारवर्जिता |
दासीमध्यगता भूत्वा तामेवानुययौ प्रियाम् || ४० ||

तामायान्तीं ततो दृष्ट्वा अपोतः काममोहितः |
मुनीनां परजायासु सस्मार सङ्गमं तदा || ४१ ||

प्रम्लोचा कामिता पूर्वं वतण्डस्य सुतेन वै |
यथा वा कामिता पद्मा भरद्वाजेन धीमता || ४२ ||

तथाहं कामयिष्यामि साम्प्रतं वरवर्णिनीम् |
पश्चात् तपोबलात् तद्वज्जायापापाद् विमोक्षये || ४३ ||

इति चिन्तयतस्तस्य तदा चित्राङ्गदा शुभा |
समेत्य तं मुनिं लज्जायुक्ता चैषाह किञ्चन || ४४ ||

तामासाद्य महाभागः कपोतो मुनिसत्तमः |
शृङ्गारवेषभावाय मदनं मनसास्मरत् || ४५ ||

स्मृतमात्रोऽथ मदनः स्वयमेत्य महामुनिम् |
गन्धमाल्यैः सुवासोभिरध्युवासातिहर्षितः || ४६ ||

तेनाधिवासितो विप्रः अपोतश्चारुरूपधृक् |
जज्वाल तेजसा चापि द्वितीय इव भास्करः || ४७ ||

मनोहरं तथा दृष्ट्वा अपोतं मदनोपमम् |
तारावतीमृते सर्वाः सकामाश्चाभवन् स्त्रियः || ४८ ||

तारावती मुनि दृष्ट्वा सुन्दरं मदनोपमम् |
विस्मयं परमं प्राप्ता मुनिं कामममन्यत || ४९ ||

अथ चित्राङ्गदा विप्रः कामुकः कामसङ्गमे |
तदा नियोजयामास सुप्रीतश्चाभवत् क्षणात् || ५० ||

ततस्तस्यां समुत्पन्नं सद्योजातं सुतद्वयम् |
देवगर्भोपमं दीप्तज्वलनार्कसमप्रभम् || ५१ ||

जाते सुतद्वये तां तु मुनिः संसृज्य पाणिना |
निनाय पूर्ववद्भावं वचनं चेदमब्रवीत् || ५२ ||

मत्सङ्गमे कियत्कालं प्रिये तिष्ठ शुभानने |
ममेच्छया यास्यसि त्वं भयं ते नास्ति राजतः || ५३ ||

एवमस्त्विति सा प्राह ऋषिं शापभयात् सती |
ततो विसर्जयामास मुनिरन्याश्च योषितः || ५४ ||

ततस्तारावती देवी दासीभिः परिवारिता |
भगिनीमनुशोचन्ती जगाम भवनं निजम् || ५५ ||

गत्वा तं सर्ववृत्तान्तं अपोतकृतमद्भुतम् |
ब्रह्मावर्ताधिपायाशु सशंसाथ ककुत्स्थजा || ५६ ||

स श्रुत्वा नृपशार्दूलः क्षणमात्रं विचिन्त्य च |
चित्राङ्गदायाः साहाययं अपोतानुमतेऽकरोत् || ५७ ||

अपोतोऽपि तदा तस्यां जातयोसुतयोस्तयोः |
यथोक्तेनाथ विधिना संस्कारमकमोत्तदा || ५८ ||

सगर उवाच

चित्राङ्गदा कथं पुत्री ककुत्स्थस्याभवत् तदा |
तदहं श्रोतुमिच्छामि कथयस्व द्विजोत्तम || ५९ ||

और्व उवाच

एकदा तु ककुत्स्थोऽसौ हिमवन्तं महागिरिम् |
मृगयायै जगामाथ मृगाश्चापि निपातिताः || ६० ||

लम्बन्तीं सुरलोकात् तु भूमिं प्रति तदोर्वशीम् |
विश्रामायोपविष्टस्तु सानौ वेश्यां ददर्श ह || ६१ ||

तामासाद्य महाराजः कामबाणप्रपीडितः |
अवतीर्णा गिरौ शश्वदङ्गसङ्गमयाचत || ६२ ||

सा ज्ञात्वा नृपशार्दूलं ककुत्स्थं शक्रसन्निभम् |
उर्वशी रमयामास गिरिकुञ्जे यथेप्सितम् || ६३ ||

ततो राज्ञः ककुत्स्थस्य स्वर्वेश्यायां तदा सुता |
अभवन् नृपशार्दूलात् सद्योजाता मनोहरा || ६४ ||

अथ कामेन सन्तुष्टं ककुत्स्थं सा तदोर्वशी |
थेष्टदेशं विज्ञाप्य गन्तुमैच्छदनिन्दिता || ६५ ||

तामाह राजा तनयां परित्यज्य कथं शुभे |
गन्तुमिच्छसि चार्वङ्गि सुतामेनां तु पालय || ६६ ||

सा प्राहाहं स्वर्गगणिका मयि कस्य न चाभवत् |
तनयस्तनया वापि सद्योजाता नृपात्मजा || ६७ ||

स्वतेजसा शरीरस्य विकारो मे न विद्यते |
सुताश्चापि न पाल्यन्ते वेश्याभावात् स्वभावतः || ६८ ||

दयास्ति यदि ते पुत्र्यां नीत्वैनां वर्धय स्वयम् |
गन्तुं मामनुजानीहि सत्यमेतद् ब्रवीमि ते || ६९ ||

इत्युक्त्वा सा जगामाशु यथेष्टं सोर्वशी नृपः |
पुत्रीं तां समुपादाय नगरं स्वं विवेश ह || ७० ||

तस्याश्चित्राङ्गदा नाम स चकार नृपः स्वयम् |
मनोन्मथिन्यै चादात् तां भार्यायै पुत्रिकां शुभाम् || ७१ ||

इदं च वचनं देवीं तदा प्राह नृपोत्तमः |
देवि पुत्री ममेयं त्वमेनां पालय सद्गुणाम् || ७२ ||

मयानीतां शैलजातां मा हेलां कर्तुमर्हसि |
इत्युक्ता राजपुत्री सा पालेन चाकरोन्मतिम् || ७३ ||

भर्तुराज्ञां पुरस्कृत्य नान्यत् किञ्चिदुवाच ह |
सा चैकदा बाल्यभावादष्टावक्रं महामुनिम् || ७४ ||

व्रजन्तं जिह्ममेवाशु जहासोपजहास च |
स चुकोप मुनिस्तस्यै शापं परमदारुणम् || ७५ ||

ददौ दासी स्ववंशस्य भवितेति ककुत्स्थजे |
दासी भूत्वा स्ववंशस्य ह्यनूढैव सुतद्वयम् || ७६ ||

जनयिष्यसि पापिष्ठे ततो भद्रमवाप्स्यसि |
एवं ककुत्स्थतनया जाता चित्राङ्गदा नृप || ७७ ||

दासी च भूता सा ते तारावत्या निवासिता |
अनूढाप्यलभत् पुत्रयुग्मं मुनिवराच्छुभात् || ७८ ||

तौ च पुत्रौ महाभागौ महाकार्यं करिष्यतः |
इति ते कथितं राजन् यथाचित्राङ्गदाऽभवत् |
ककुत्स्थस्य सुता साध्वी प्रस्तुतं शृणु साम्प्रतम् || ७९ ||

इति शीकालिकापुराणे एकोनपञ्चशोऽध्यायः || ४९ ||

Kapitel 50

पञ्चाशोऽध्यायः

और्व उवाच

अथ काले व्यतीते तु पुनस्तारावती शुभा |
आर्तवं विहितं स्नानं नदीं प्राप्ता दृषद्वतीम् || १ ||

दासीसहस्रैः संयुक्ता नानालङ्कारमण्डिता |
रम्भादिभिर्यथेन्द्राणी तथा सा प्रत्यदृश्यत || २ ||

सावतीर्णा जले देवी गौराङ्गी तडिदुज्ज्वला |
नदीमुज्ज्वलयामास भिन्नाञ्जनसमाम्भसम् || ३ ||

स्थलीं काचमयीं स्वच्छां काञ्चनीप्रतिमा यथा |
स्वभासा ज्वलयामास प्रतिबिम्बेन सा तथा || ४ ||

अथ तां पुनरेवाथ कपोतो मुनिसत्तमः |
आनाभिमग्नां तोयौघैर्ददर्श सुमनोहराम् || ५ ||

दृष्ट्वा तामथ पप्रच्छ तदा चित्राङ्गदां मुनिः |
केयं जले दृषद्वत्यामवतीर्णा सखीशतैः || ६ ||

श्रिया ज्वलन्ती श्रीतुल्या किमपर्णा गिरेः सुता |
अतीव भ्राजते रूपैर्न संस्तौषि च तां किमु || ७ ||

अथ तस्य वचः श्रुत्वा मुनेश्चित्राङ्गदा तदा |
ऋषिशापभयात् साध्वी संस्तौमीति तदाऽब्रवीत् || ८ ||

इयं तारावती नाम ककुत्स्थस्य सुता सती |
चन्द्रशेखरभूपालभार्याऽतिदयिता शुभा || ९ ||

एषा त्वया कामिता तु कामार्थं पूर्वतो मुने |
स्वालङ्कारैरङ्कृत्य मां दत्त्वा ते गृहं गता || १० ||

सेयं पुनर्नदीं स्नातुं भगिनी मे समागता |
ज्येष्ठां तां तु मुने वक्तुं न ते किञ्चिच्च युज्यते || ११ ||

त्वमत्र तिष्ठ विप्रेन्द्र ज्येष्ठा तां भगिनीं प्रियाम् |
समाभाष्य समेष्ये त्वामनुजानासि चेद् गतौ || १२ ||

इति श्रुत्वा वचस्तस्या मुनिः स्नेहेन वञ्चनाम् |
तारावत्या कृतां पूर्वं मुनिस्तस्यै चुकोप ह || १३ ||

इयं पापीयसी रामा वञ्चनामकरोन्मयि |
तस्याः सङ्कालनञ्चाहं करिष्याम्यद्यनिश्चितम् || १४ ||

इत्युक्त्वा स तया सार्धं मुनिश्चिताङ्गदाख्यया |
जगाम यत्र सा देवी स्थिता तारावती शुभा || १५ ||

गत्वा तां तु समासाद्य कपोतो मुनिसत्तमः |
इदं तारावतीं प्राह कुपितः प्रहसन्निव || १६ ||

कामार्थं प्रार्थिता पूर्वं त्वं मया च्छद्मना त्वया |
वञ्चितोऽस्मि दुराधर्षे धलं तस्य समापुहि || १७ ||

ममापि पुरतः पापे त्वं सतीति विकत्थसे |
सतीत्वभ्रंशकं मां त्वं नैव कामितवत्यसि || १८ ||

तस्माद् बीभत्सवेषास्त्वां कपाली पलितो रहः |
विरूपो धनहीनश्च कामयिष्यति वै हठात् || १९ ||

सद्योजातं पुत्रयुगं सश्रीकं वानराननम् |
भविष्यति च ते पापे त्वेकाब्दाभ्यन्तरेऽधुना || २० ||

एतच्छ्रुत्वा मुनेर्वाक्यं प्राह तारावती मुनिम् |
कोपाद् भयाच्च सा देवी स्फुरदोष्ठपुटा तदा || २१ ||

यदि सा पूजयित्वा तु चण्डिकां प्राप मां प्रसूः |
यद्यहं व्रतिनी नित्यं भूपतौ चन्द्रशेखरे || २२ ||

ककुत्स्थस्य सुता सत्यं यद्यहं द्विजसत्तम |
तेन सत्येन मे देवान्नान्यो मां कामयिष्यति || २३ ||

यदि सत्यं महादेवो नित्यमाराध्यते मया |
तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् || २४ ||

स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति |
इत्युक्त्वा सा मुनिं नत्वा स्वामिविन्यस्तमानसा || २५ ||

ययौ तारावती देवी स्वस्थानमिति भामिनी |
तस्यां गतायां देव्यां तु चिन्तयामास तां मुनिः || २६ ||

ममैव पुरतश्चैषा निर्भीताति प्रवल्गते |
अत्रान्तर्विनिगूढं तु बीजं शुद्धं भविष्यति || २७ ||

एवं विचिन्त्य स मुनिर्ध्यानसंयुक्तमानसः |
दिव्यज्ञानपरो भूत्वा सर्ववृत्तान्तमाददे || २८ ||

यथा भृङ्गिमहाकालौ देव्या शप्तौ सुतावुभौ |
प्रतिशापं यथा तौ तु ददतुः पार्वतीं हरम् || २९ ||

यथावतीर्णौ मानुष्ययोनौ तौ तु यदर्थतः |
चित्राङ्गदा यथा जाता यदर्थं देवकन्यका || ३० ||

दिव्यज्ञानेन तज्ज्ञात्वा मुनिः किञ्चन नाकरोत् |
चित्राङ्गदामादरेण समादाय मुनिस्ततः || ३१ ||

स्वस्थानं गतवान् विप्रः पूजयामास तां मुनिः |
तारावती च तत्सर्वं चन्द्रशेखरभूपतेः || ३२ ||

वृत्तान्त मुनिशापस्य कथयामास भामिनी |
तत्सर्वं पौष्यजो राजा स्वगतं चिन्तया युतः || ३३ ||

आश्वास्य दयितां भार्यां माभैर्देवीति सोऽचिरात् |
सततं सेवया पत्युर्धर्मार्थपरिसेवनैः || ३४ ||

वर्जनादप्रशस्तानां मुनिशापोऽपनीयते |
तस्मात् त्वं देवि सुभगे चारित्रव्रतधारिणी || ३५ ||

कल्याणभागिनी नित्यं नापदं समवाप्स्यसि |
एवमुक्त्वा स राजा तु करवीरपुराधिपः || ३६ ||

प्रासादं कारयामास उच्चैरभ्रंकषं बहु |
उच्चैश्चतुःशतं व्यामं त्रिंशद्योजनविस्तृतम् || ३७ ||

रत्नस्फटिकभूम्यन्तःखचितं रत्नकर्बुरैः |
वैदूर्यपटलैः शुभ्रैश्छादितं सुमनोहरम् || ३८ ||

स्वर्णं रत्नतुलास्तम्भं विश्वकर्मविनिर्मितम् |
रक्षार्थं कारयामास तारावत्याः प्रियङ्करम् || ३९ ||

रत्नसोपानसंयुक्तं वैदूर्यवलभीयुतम् |
सौवर्णनीपसम्बद्धसुधर्मा अदृशं गुणैः || ४० ||

तस्यां समस्तभोग्यानि स्वादूनि च मृदूनि च |
आप्तैरासादयामास पुरुषैश्चन्द्रशेखरः || ४१ ||

ततस्तारावतीं देवीमादाय चन्द्रशेखरः |
नित्यं प्रासादपृष्ठं तमारुह्य रमते नृपः || ४२ ||

एवं संवत्सरं यावदन्यैरप्राप्यवेश्मनि |
आप्तैरधिष्ठितद्वारि तां देवीं समरक्षत || ४३ ||

एकदा तु विना तेन करवीराधिपेन तु |
उच्चैः प्रासादमारुह्य स्थिता तारावती सदा || ४४ ||

चिन्तयन्ती नृपं तं तु दयितं चन्द्रशेखरम् |
तत्पदे न्यस्तमनसा सावित्रीव पतिव्रता || ४५ ||

आराध्य च महादेवं पार्वत्या सहितं तदा |
इष्टां देवीं च सा देवी चिन्तयन्ती स्म च स्थिता || ४६ ||

तत्र सा चिन्तयन्ती तु त्र्यम्बकं चन्द्रशेखरम् |
विवेद भेदं न तयोश्चन्द्रशेखरयोर्द्वयोः || ४७ ||

एवं प्रासादपृष्ठे तु स्थिता तारावती सती |
सुधर्मामध्यगा देवि शक्रश्रीरिव भूषिता || ४८ ||

अथोमया समं देवो वियता चन्द्रशेखरः |
आजगाम तदा गच्छन् प्रासादं प्रति तं नृप || ४९ ||

अदृशे सूत्तरन्ती सा उमायाः सदृशी गुणैः |
सर्वलक्षण-सम्पूर्णा माधवस्येव माधवी || ५० ||

तां दृष्ट्वा न्यगदद् देवीं गौरीं वृषभकेतनः |
स्मितप्रसन्नवदनः प्रहसन्निव भामिनीम् || ५१ ||

ईश्वर उवाच

इयं ते मानुषी मूर्तिः प्रिये तारावतीति या |
भृङ्गिमहाकालयोस्ते जन्मनो विहिता स्वयम् || ५२ ||

त्वत्तो ह्यनन्यकान्तोऽहं नान्यं गन्तुमिहोत्सहे |
त्वमिदानीं स्वयं चास्यां मूर्त्यां प्रविश भामिनि |
तत उत्पादयिष्यामि महाकालं च भृङ्गिणम् || ५३ ||

देव्युवाच

ममैव मानुषी मूर्तिरस्यां वृषभकेतन |
विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् || ५३ ||

मम भृङ्गिमहाकाल कपोतानां च शापतः |
एवं मोक्षो भवेद् भर्ग तस्मात् त्वं कुरुमत्प्रियम् || ५५ ||

और्व उवाच

प्रविवेश ततो देवी स्वयं तारावतीतनौ |
महादेवोऽपि तस्यां तु कामार्थं समुपस्थितः || ५६ ||

ततः सापर्णयाविष्टा देवी तारावती सती |
कामयानं महादेवं स्वयमेवाभजन्मुदा || ५७ ||

तस्मिन्कालेऽभवद्गर्गः कपाली चास्थिमाल्यधृक् |
वीभत्सवेशो दुर्गन्धः पलितोऽतिविरूपधृक् || ५८ ||

कामावसाने तस्यां तु सद्योजातं सुतद्वयम् |
अभवन्नृपशार्दूल तथाशाखामृगाननम् || ५९ ||

तद्देहान्निःसृतापर्णा जातयोः सुतयोस्तयोः |
मोहयित्वा यथात्मानं न जानाति ककुत्स्थजा || अहं औरी तथा भर्गभावेन मानुषेण तु || ६० ||

अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ |
आतिव्रत्यात् परिभ्रष्टा आत्मानं वीक्ष्य भामिनी || ६१ ||

तथा बीभत्सवेशं तु हरं दृष्ट्वाग्रतः स्थितम् |
मुनिशापं तदा मेने प्राप्तं कालान्तकोपमम् || ६२ ||

इति शोकविमुढा च निनिन्द च सतीव्रतम् |
इदं चोवाच तं वीक्ष्य महादेवं त्रिशूलिनम् || ६२ ||

मुनिव्रतादपि वरं नारीणां च सतीव्रतम् |
इति स्म सततं धीरा व्याहरन्ति पुराविदः || ६४ ||

न तत्सत्यमहं मन्ये यत्प्रवृत्तं ममेदृशम् |
इत्युक्त्वा सा तदा देवी शुशोच च मुमोह च || ६५ ||

तामाहाथ महादेवो मा कार्षीस्त्वं वरानने |
शोकं सतीव्रतं चापि मा निन्द त्वं सुचेतने || ६६ ||

अपोतेन यदा शप्ता त्वं तदैव तदग्रतः |
उक्तवत्यसि दीर्घाक्षि यत् तद्भूतं तवाधुना || ६७ ||

यदि सत्यं महादेवी नित्यमाराध्यते मया |
तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् || ६८ ||

स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति |
सोऽहमेव महादेव आराध्यश्चन्द्रशेखरः || ६९ ||

त्वं मया कामिता चापि मा कार्षीः शोकमङ्गने |
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत || ७० ||

मायया मोहिता देवी तत्र तारावती सती |
भूमौ मलिनवेशेन मन्युना समुपाविशत् || ७१ ||

सुतौ च पतितौ भूमौ सा देवी नासभाजयत् |
भर्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् || ७२ ||

न रराज गृहे चापि मुक्तकेशी तथास्थिता |
अथ क्षणान्महाभागः स राजा चन्द्रशेखर || ७३ ||

प्रासादपृष्ठमागच्छद् द्रष्टुं तारावतीं तदा |
स तं प्रासादमारुह्य जायां तारावतीं तदा || ७४ ||

ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् |
श्यामाननां श्वसन्तीं च अत्यगर्हण तत्पराम् || ७५ ||

सुतौ च पतितौ भूमौ सूर्याचन्द्रमसौ तदा |
वानरास्यौ स ददृशे पदक्षोभं वृषस्य च || ७६ ||

इति सर्वमवेक्ष्याथ सा राजा चन्द्रशेखरः |
भीतश्च विस्मितश्चैव भार्यां पप्रच्छ सम्भ्रमात् || ७७ ||

किं किं तारावति तव प्रवृत्तं निर्जने गृहे |
को वा धषितवांस्त्वां हि शिवः सिंहवधूमिव || ७८ ||

कस्य वा पृथुकावैतौ प्रोद्दीप्तौ वानराननौ |
तन्मे द्रुतं समाचक्ष्व को वा त्वां कामितोऽपरः || ७९ ||

और्व उवाच

एवमुक्ता तु भूपेन तदा तारावती सती |
वृत्तान्तं कथयामास सकलं चन्द्रशेखरे || ८० ||

यथा समागतो भर्ग उत्तरं च यथोक्तवान् |
तत्सर्वं कथयामास बाष्पकण्ठा सगद्गदा || ८१ ||

तस्यास्तद्वचनं श्रुत्वा चिन्तयंश्चन्द्रशेखरः |
किं वृत्तमिति विज्ञातुं भूतले समुपाविशत् || ८२ ||

स्वगतं चिन्तयन् राजा चकारेमां विचारणाम् |
अनन्यकान्तो गिरिशः स नान्यां पार्वतीमृते || ८३ ||

कामयिष्यति तस्मात् स न भर्गः परमेश्वरः |
ऋषिशापो हि बलवांस्तच्छापादेव राक्षसः || ८४ ||

कोऽपि मायाबलोपेतः शङ्करच्छद्मनागतः |
एषा सती प्रिया भार्या राक्षसेनापि दूषिता || ८५ ||

कथं चेयं मया ग्राह्या पूर्ववत् सर्वकर्मसु |
एतौ च तनयौ तस्य सद्योजातौ च राक्षसौ || ८६ ||

अन्यथा वा कथंभूतौ शाखामृगमुखौ सुतौ |
एवं चिन्तयतस्तस्य देवौघविनियोजिता || ८७ ||

सरस्वती वियत्स्था तु राजानमिति चाब्रवीत् |
न त्वया संशयः कार्यस्तारावत्यां नृपोत्तम || ८८ ||

सत्यमेव महादेवो भार्यां वव समेयिवान् |
एमौ च तनयौ तस्य राजंस्त्वं परिपालय || ८९ ||

योऽन्यस्ते संशयोऽत्रास्ति नारदस्तं विनेष्यति |
इत्युक्त्वा विररामाशु वाग्देवी प्रियवादिनी || ९० ||

जातसम्प्रत्ययो राजा भार्यामाश्वासयत्तदा |
सुतौ तु देवदेवस्य संस्कृत्य विधिना तदा || ९१ ||

पालयामास नृपतिराकाङ्क्षान्नारदागमम् |
अथाजगाम देवर्षिर्नारदस्तस्य मन्दिरम् || ९२ ||

पूजाभिर्बहुभिस्तं तु प्रत्यगृह्णात् स भूपतिः |
पूजयित्वा यथान्यायं तारावत्या समं नृपः || ९३ ||

उच्चैः प्रासादमतुलं सुरेशभवनोपमम् |
आरोहयामास तदा तं मुनिं चन्द्रशेखरः || ९४ ||

तत्रोपांशु तदा राजा सभार्यश्चन्द्रशेखरः |
पूर्वप्रवृत्तवृत्तान्तमपृच्छच्चन्द्रशेखरः || ९५ ||

पूतोस्स्म्यनुगृहीतोऽस्मि भवता ब्रह्मसूनुना |
अन्तर्बहिश्च विप्रेन्द्र तुङ्गप्रासादगामिना || ९६ ||

एकं मे संशयं ब्रह्मंश्छेतूमर्हसि हृद्गतम् |
त्वदन्यः संशयस्यास्य च्छेत्ता नैवास्ति कुत्रचित् || ९७ ||

ऋषिशापेन भार्येयं मम तारावती सती |
बीभत्सवेशाकृतिना धर्षिता कृत्तिवाससा || ९८ ||

तस्यात्मजौ समुत्पन्नौ सद्योजाताविमौ पुनः |
अत्र मे संशयं शाश्वन्नित्यं चित्ते प्रवर्तते || ९९ ||

अनन्यकान्तो गिरिशो गिरिजां पार्वतीमृते |
कथं सङ्गमयामास मानुषीं हीनजन्मजाम् || १०० ||

कथमुत्पादयामास अनुष्यौ तनयौ स्वकौ |
एदत्सर्वं समाचक्ष्व यदि गुह्यं न ते भवेत् || १०१ ||

और्व उवाच

इति पृष्टः स तु मुनिश्चन्द्रशेखरभूभृता |
कथयामास तत्सर्वं नारदो मुनिसत्तमः || १०२ ||

यथा भृङ्गिमहाकालौ समुत्पन्नौ पुरातनौ |
यथा शप्तौ च पार्वत्या तौ ओदाहरतां यथा || १०३ ||

यथा पौष्यसुतो जातो भर्गः स चन्द्रशेखरः |
तारावती ककुत्स्थस्य गृहे गौरी यथाभवत् || १०४ ||

तत्सर्वं कथयामास नारदश्चन्द्रशेखरे |
इदं च परमाख्यानं कथयामास नारदः || १०५ ||

नारद उवाच

ब्याजहार यदापर्णां कालीति वृषभध्वजः |
तदोमा तपसे याता वपुर्गौरत्वकाङ्क्षया || १०६ ||

अमर्षयुक्ता वचनाच्छङ्करस्य गिरेः सुता |
विनीयमाना भर्गेण सानुं हिमवतो गिरेः || १०७ ||

तस्यां गतायां पार्वत्यां शङ्करो विरहार्दितः |
कैलासाद्रिं परित्यज्य मेरुपृष्ठं तदा ययौ || १०८ ||

तत्रापि शर्म नो लेभे पार्वत्या च विनाकृतः |
मोहितः कामदेवेन तथा वै योगनिद्रया || १०९ ||

अथैकदा मेरुपृष्ठे चरन्तीं सुमनोहराम् |
सावित्रीं ददृशे शम्भुः पार्वत्याः सदृशीं गुणैः || ११० ||

तां दृष्ट्वा मदनाविष्टः पार्वत्या विरहादितः |
अविद्यया समाविष्टो बभूव प्राकृतो यथा || १११ ||

अथ तां पार्वतीभ्रान्त्या चरन्तीमन्वधावत |
एहि मां पार्वति शुभे भवद्विरहपीडितम् || ११२ ||

प्रहरत्येष मां कामः पर्ववैरमनुस्मरन् |
मम तत्र प्रतीकारं उरु सम्प्रति वल्लभे || ११३ ||

इत्युक्त्वा विमुखीं यान्तीं सावित्रीं वृषभध्वजः |
स्कन्धे हस्तेन पस्पर्श सा चुकोप ततो भृशम् || ११४ ||

अथ सा सम्मुखी भूत्वा सावित्र्यतिपतिव्रता |
इदमाह महादेवं गर्हयन्ती वृषध्वजम् || ११५ ||

किं त्वं पशुपते मूर्ख मानुषः प्राकृतो यथा |
निरस्य कलहैर्भार्यामनुनेतुमिहार्हसि || ११६ ||

विमूढचेतनः कामैस्त्वं संस्तौषि परस्त्रियम् |
असंस्तुत्वापि सम्प्रष्टुं मादृशीं युज्यते तव || ११७ ||

किमहं पार्वती मूढ येन मत्स्कन्धदेशतः |
हस्तं ददास्यविज्ञाय सावित्रीं विद्धि मां सतीम् || ११८ ||

अस्मान्मानुषवन्मां त्वमनुजानासि बर्बर |
तस्मात् त्वं मानुषीयोन्यां सुरतं संविधास्यसि || ११९ ||

औरीमृते नान्यकान्तस्त्वमन्यां तु समीहसे |
तस्यैतत्फलितं भर्ग गच्छ मां त्वं परित्यज || १२० ||

इत्युक्त्वा सा गता देवी स्वमाश्रमपदं सती |
लज्जाविस्मयसंयुक्तो हरोऽप्यायात् निजास्पदम् || १२१ ||

अतोऽयं मानुषीयोनौ सुरत शङ्करोऽकरोत् |
तस्मान्निः संशयं राजन्निमां तारावतीं सतीम् |
दयस्व तनयावेतौ भर्गस्य प्रतिपालय || १२२ ||

और्व उवाच

ततः स राजा श्रुत्वैव नारदस्य मुखात् तदा |
आत्मनः शम्भुरूपत्वं गौरी तारावतीति च |
मनुष्ययोनावुत्पन्नावुमावृषभकेतनौ || १२३ ||

श्रुत्वातिहर्षितो राजा विस्मितो नारदं पुनः |
पप्रच्छ मुनिशार्दूल विज्ञातुमिति चात्मनः || १२४ ||

शङ्करत्वं च गौरीत्व तारावत्याः समक्षतः |
यथाहं तत्तु पश्यामि तं मां ज्ञापय निश्चितम् || १२५ ||

नारद उवाच

अङ्के तारावतीं कृत्वा अक्षिणी त्वं निमीलय |
क्षणं तारावती चापि निमीलयतु चक्षुषी || १२६ ||

निमील्य पश्चाद्राजेन्द्र न्मीलय ततो द्रुतम् |
ततस्ते शाम्भवं ज्ञानं रूपं चापि भविष्यति || १२७ ||

इत्युक्तो नारदेनाथ स राजा चन्द्रशेखरः |
वामेन पाणिना धृत्वा देवीं तारावतीं सतीम् || १२८ ||

चक्षुषी च तया सार्धं निमील्योन्मील्य तत्क्षणात् |
तन्निमीलनकाले तु तस्याभूच्छम्भुरूपता || १२९ ||

गौरीरूपाऽभवद् देवी ततस्तारावती सती |
अहं शम्भुरहं गौरीति विज्ञानं तयोरभूत् || १३० ||

ततः प्रोवाच तं शम्भुं नारदः प्रहसन्निव |
शम्भुः साक्षाद् भवान् गौरी देवी तारावती स्वयम् || १३१ ||

प्रत्यक्षं ते महाभाग सम्पश्यात्मानमात्मना |
ततो राजा भवत्वेवमित्युक्त्वाथ स्वकां तनुम् || १३२ ||

व्याघ्रचर्मपरीधानां दशभिर्बाहुभिर्युताम् |
त्रिशूलखट्वाङ्गधरां शक्त्यादिधृतहस्तकाम् || १३३ ||

वृषभोपरि संस्था तु जटाजूटविभूषिताम् |
तारां च विद्युद्गौराङ्गी पद्महस्तां शुभाननाम् || १३४ ||

वीक्ष्य सम्प्रत्ययं प्राप ज्ञानेनापि तदात्मनि |
ततस्तु नारदः प्राह शृणु राजन् वचो मम || १३५ ||

नृयोनौ वैष्णवी माया युवां पूर्वममोहयत् |
तेन तेन शरीरेण शम्भुत्वं नेक्षितं त्वया || १३६ ||

अधुना दर्शिता तेऽद्य शम्भुना शम्भुरूपता |
निमील्य नयनद्वन्द्वं पुनस्त्वं याहि मर्त्यताम् || १३७ ||

आसाद्य मानुषं भावमादेहान्तं स्थिरो भव |
तथा तारावती देवी तूर्णं भवतु मानुषी || १२८ ||

और्व उवाच

आत्मनो देवरूपत्वं ज्ञात्वा दृष्ट्वाऽथ चक्षुसा |
जात सम्प्रत्ययो राजा न्यमीलयत लोचने || १४९ ||

ततस्तारावती देवी न्यमीलयत चक्षुषी |
पुनस्तौ मानवौ जातौ महिषी नृपतिस्तथा || १४० ||

उन्मील्य तौ तु नेत्राणि मानुषत्वं तदात्मनोः |
दृष्ट्वा आवां तथा मर्त्याविति ज्ञानमभूत् तयोः || १४१ ||

ततो विमोहितौ तौ तु दम्पती विष्णुमायया |
अहं राजा च महिषी अहमित्यभवन्मतिः || १४२ ||

तस्यां सुतौ तु जायायां देवांशाविति तन्मती |
आवां स्थिता कला मूर्ध्नि अभूतां जातचिह्नितौ || १४३ ||

ततः स राजा न्यगदत् तं मुनिं नारदं मुदा |
सत्यमेतत् त्वया प्रोक्तं करिष्ये वचनं तव || १४४ ||

पालयिष्ये शम्भुपुत्रौ सत्यलभ्ये सदैव हि |
किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि || १४५ ||

और्व उवाच

ततस्तयोर्नाम चक्रे नारदो वचनान्नृप |
ज्येष्ठो भैरवनामाऽभूद् औरीपुत्रो भयङ्करः || १४६ ||

वेतालसदृशः कृष्णो वेतालोऽभूत् तथापरः |
इति चक्रे तयोर्नाम देवर्षिब्रह्मणः सुतः || १४८ ||

अन्यांश्च सर्वान् संस्कारान्नारदो मुनिसत्तमः |
चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः || १४८ ||

एवं सर्वान् संशयांस्तु सञ्छिद्य मुनिसत्तमः |
संस्कृत्य भर्गतनयौ विसृष्टस्तेन भूभृता || १४९ ||

ययाआकाशमार्गेण नाकपृष्ठं स नारदः |
नारदे तु गते राजा मुदितश्चन्द्रशेखरः || १५० ||

तारावत्या समं रेमे करवीराह्वये पुरे |
शम्भोरंशोऽहमित्येवं गौर्यास्तारावतीति च || १५१ ||

जातश्रद्धस्तदा राजा शशास सुचिरं क्षितिम् |
तनयौ च हरस्याथ तदा वेतालभैरवौ || १५२ ||

ववृधाते महात्मानौ शरच्चन्द्राविवोद्यतौ |
चन्द्रशेखरभूपस्य तारावत्यां नृपोत्तमः || १५३ ||

त्रयः पुत्रा महावीर्या रूपसम्पत्-समन्विताः |
ज्येष्ठस्तत्रोपरिचरो दमनोऽलर्क एव च || १५४ ||

वेतालभैरवाम्यां तु ज्यायांसस्तेऽभवंस्त्रयः |
एवमेते त्रयः पुत्राश्चन्द्रशेखरभूभृतः || १५५ ||

वेतालभैरवौ चापि सद्योजातौ हरात्मजौ |
समानभोगा ववृधुश्चन्द्रशेखरभूभृतः |
पालितास्तु सभार्येण समानासनवाहनाः || १५६ ||

इति पञ्चसुता महाबलाः
पञ्चभूतसदृशाः कृता विधेः |
ववृधिरे प्रथमं सकलं जगत्
समतीत्य मुदा बलदर्पिताः || १५७ ||

इति श्रीकालिकापुराणे पञ्चाशोध्यायः || ५० ||

Kapitel 51

एकपञ्चाशोऽध्यायः

और्व उवाच

अथ कालक्रमेणैव प्रवृद्धास्ते महाबलाः |
शस्त्रास्त्रज्ञानकुशलाः शास्त्रार्थपरिनिष्ठिताः || १ ||

सम्प्राप्तयौवना दीप्ता दुर्धर्षाः परिपन्थिभिः |
धमार्थज्ञानकुशला ब्रह्मण्याः सत्यवादिअनः || २ ||

सदा सहचरौ तत्र प्रीत्या वेतालभैरवौ |
अलर्कौ दमनश्चैव तथोपरिचरस्त्रयः |
सदा सहचरा नित्यं भ्रातरश्चान्द्रशेखराः || ३ ||

त्रिष्वात्मजेषु नृपतेः सदोपरिचरादिषु |
ममत्वमधिकं नित्यं प्रीतिस्नेहौ तथाधिकौ || ४ ||

वेताले भैरवे चापि चन्द्रशेखरभूभृतः |
नास्त्येव तादृशी प्रीतिर्यादृशी तेषु जायते || ५ ||

न तौ दृष्ट्वा स नृपतिः कदाचिच्चन्द्रशेखरः |
अत्याह्लादयतेऽजस्रं पुत्रबुद्धयेष्यतेऽथवा || ६ ||

तौ वीरौ धर्मकुशलौ महाबलपराक्रमौ |
त्रैलोक्यविजये दक्षौ शस्त्रास्त्रग्रामपारगौ || ७ ||

ताभ्यां बिभेति च नृपः कदा किंवा करिष्यतः |
वेतालभैरवावेतौ मां सुतान् राज्यमेव वा || ८ ||

इति चिन्तापरो राजा नित्यमेव निरीक्षते |
प्रणतावपि तत्पुत्रौ सम्यग् वेतालभैरवौ || ९ ||

अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत् |
ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् || १० ||

यः पश्चात् सर्वभूपालान् योजयिष्यति नीतिभिः |
राजोपरिचरो नाम सर्वशास्त्रार्थपारगः || ११ ||

दमनाय ददौ दायं तथालर्काय भूमिभृत् |
प्रभूतधनरत्नानि तथासनरथान् बहून् || १२ ||

तावन्ति नददौ ताभ्यां दायवित्तानि भागशः |
वेतालभैरवाभ्यां तु ततस्तौ मन्युराविशत् || १३ ||

मन्युनाभिपरीतौ तौ विचरन्तावितस्ततः |
न भोगमीप्सतां वीरौ तपसे च कृतोद्यमौ |
अनूढभार्यौ सततं निर्जने वसतः सदा || १४ ||

तथाभूतौ तदा पुत्रौ देवौ वेतालभैरवौ |
बुबुधे चिन्तयाक्रान्ता देवी तारावती तदा || १५ ||

राजोपरिचराद् भीता पत्युश्च चन्द्रशेखरात् |
नोवाच किञ्चित सुदतीच्छन्नं तौ बौधयत्यपि || १६ ||

एतस्मिन्नन्तरे विद्वान् कपोतो मुनिसत्तमः |
चित्राङ्गदासङ्गभोगी सन्तुष्टः सुरतोत्सवैः || १७ ||

चित्राङ्गदां परित्यज्य सपुत्रां सहचारिणीम् |
येष गन्तुं स प्रोचे तदा चित्राङ्गदां वचः || १८ ||

मुनिरुवाच

चित्राङ्गदे तपस्तप्तुं गमिष्यामि तपोवनम् |
किं ते प्रियं करोमीह तं मे वद मनोहरे || १९ ||

चित्राङ्गदोवाच

तम्बुरुश्च सुवर्चाश्च तनयौ तव सुव्रत |
एतयोस्त्वं मुनिश्रेष्ठ प्रियं कुरु यथोचितम् || २० ||

मां चापि भगिनीगेहे संस्थाप्य द्विजसत्तम |
तदा तपोवनं गच्छ यदि ते रोचतेऽनघ || २१ ||

इति श्रुत्वा वचस्तस्याः कपोतो मुनिसत्तमः |
हिरण्यार्थं अमालोच्य कुबेरसदनं ययौ || २२ ||

प्रार्थयित्वा कुबेरं तु सुवर्णानां शतानि षट् |
निष्काणां तु सहस्राणि स लेभे मुनिसत्तमः || २३ ||

शतं भारांश्च रत्नानामानीय व सवीवधैः |
पुत्राभ्यां प्रददौ विप्रो भार्यायै च विशेषतः || २४ ||

ततस्तां सहपुत्राभ्यां तैर्धनैरपि भूरिभिः |
चित्राङ्गदामतेनाथ पुत्रयोरपि सम्मते || २५ ||

सुवर्चसं तुम्बुरुं च तथा चित्राङ्गदामपि |
आमन्त्र्य मुनिशार्दूलः करवीरपुरं ययौ || २६ ||

तत्र गत्वा स अपोतो राजानं चन्द्रशेखरम् |
राजोपरिचरं चैव वाक्यमेतदुवाच ह || २७ ||

इयं ककुत्स्थजा भूप तवैव विदिता पुरा |
सद्योजातौ तथैवास्यामेतौ मे तनयौ शुची || २८ ||

एभिर्वित्तैः समं पुत्रौ मम त्वं प्रतिपालय |
राजोपरिचरश्चापि पालयत्विह मे सुतौ || २९ ||

अपुत्रस्य नृपः पुत्रो निर्धनस्य धनं नृपः |
अमातुर्जननी राजा ह्यतातस्य पिता नृपः || ३० ||

अनाथस्य नृपो नाथो ह्यभर्तुः पार्थिवः पतिः |
अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा |
सर्वदेवमयो राजा तस्मात् त्वामर्थये नृप || ३१ ||

और्व उवाच

ततः स राजा तं प्राह मुनिमेवं द्विजोत्तमम् |
करिष्ये त्वद्वचश्चाहं राजोपरिचरश्च सः || ३२ ||

अथ चित्राङ्गदा राजा जग्राह मुनिसम्मते |
सुतौ च तस्य सधनौ ज्यायसे सूनवे ददौ || ३३ ||

स चोपरिचरः प्रादाद्राज्यमर्धं सुवर्चसे |
तथैव सचिवाध्यक्षमकरोत्तुम्बुरुं तदा || ३४ ||

कपोतस्चापि सुप्रीतः पुत्रार्धं समवेक्ष्य च |
जगामामन्त्र्य नृपतिं तपसे च तपोवनम् || ३५ ||

पथि गच्छन् स कपोतः शम्भुपुत्रौ मनोहरौ |
एकाकिनौ चरन्तौ तु सूर्याचन्द्रमसाविब || ३६ ||

तयोर्ददृदर्श च तदा वदने वानराकृती |
स्मृत्वा पूर्वकथां दृष्ट्वा तावपृच्छत् तपोधनः || ३७ ||

कौ युवां देवगर्भाभौ चरन्तौ विजने पथि |
एकाकिनौ नरश्रेष्ठौ तन्मे वदतमीरितम् || ३८ ||

अथ तौ प्रणिपत्यैनं सम्भाष्य च समञ्जसम् |
कपोताख्यं मुनिश्रेष्ठमूचतुः शङ्करात्मजौ || ३९ ||

चन्द्रशेखरपुत्रौ नौ तारावत्यां समुद्गतौ |
विद्धि त्वं मुनिशार्दूल प्रणमावः पदं तव || ४० ||

अवज्ञां वीक्ष्य नृपतेरावयोः सततं मुने |
एकाकिनौ निर्जनेषु भ्रभावो मन्युना सदा || ४१ ||

किमर्थमात्मजौ पुत्रौ प्रणतौ सततं नृपः |
अवज्ञाय महाभाग दायमात्रं न दित्सति || ४२ ||

तस्मादावां तपस्तप्तुमिच्छावो द्विजसत्तम |
उपदेशप्रदानेन चानुगृह्णाति चेद्भवान् || ४३ ||

ततस्तयोर्वचः श्रुत्वा प्रहस्य मुनिसत्तमः |
भूतभव्यभवज्ज्ञानस्ताविदं मुनिरब्रवीत् || ४४ ||

मुनिरुवाच

न युवां तनयौ तस्य चन्द्रशेखरभूपतेः |
तारावत्यां समुत्पन्नौ भवन्तौ शङ्करात्मजौ || ४५ ||

सद्यौ जातौ महावीर्यौ वेतालत्वे च सम्मतौ |
भृङ्गिमहाकालसंज्ञौ शापाद् धरणिमागतौ || ४६ ||

युवयोरत्र तेनैव न दायं दित्सति प्रियम् |
गच्छतं शरणं तातं शङ्करं वृषभध्वजम् || ४७ ||

स एव युवयोः सर्वं करिष्यति महेश्वरः |
किं वात्युग्रेण तपसा चिरकालफलेन वै || ४८ ||

इत्युक्त्वा मुनिशार्दूलः अपोतः परमात्मधृक् |
भूतभव्यभवजज्ञानन्ताभ्यां सर्वमथोचिवान् || ४९ ||

यथा भृङ्गिमहाकालौ शप्ताववनिमागतौ |
यथा हरश्च गौरी च पृथिवीमागतौ नृप || ५० ||

तारावती यथा शप्ता तेनैव मुनिना पुरा |
यथा तौ च समुत्पन्नौ तारावत्युदरे पुरा || ५१ ||

यथा वा नारदेनैव संशयच्छेदनं नृपे |
तत्सर्वं कथयामास पुत्राभ्यां गिरिशस्य तु || ५२ ||

तच्छ्रुत्वा तौ महात्मानौ तदा वेतालभैरवौ |
मुदा परमया युक्तौ बभूवतुरनिन्दितौ || ५३ ||

मोदपूर्णौ तदा भूत्वा सिक्त्वाविव सुधारसैः |
पुनः पप्रच्छ कपोतं वेतालो भैरवोऽपि च || ५४ ||

पितावयोर्महादेवस्त्वया सत्यमितीरितम् |
सोऽर्चनीयो यथावाभ्यां सिद्धये मुनिसत्तम || ५५ ||

आवाभ्यां च यथाराध्यो यत्र वाराधितो हरः |
प्रसादमेष्यत्यचिरात् तन्नो वद महामते || ५६ ||

धन्यावनुगृहितौ नौ यत् त्वया मुनिसत्तम |
विज्ञापितमिदं सर्वं हृच्छल्यं चोद्धृतं च नौ || ५७ ||

पुनरावां दयस्व त्वं कृपामय मुनीश्वर |
प्राप्स्यावो न चिराद् भर्गं यथा वद तथैव नौ || ५८ ||

मुनिरुवाच

शृणु त्वं कथयाम्यद्य यत्र चाराधितो हरः |
नचिरादेव भवतोरायास्यति समक्षताम् || ५९ ||

नित्यं यत्र महादेवो वसन् भवति तुष्टये |
युवां तत् सम्प्रवक्ष्यामि स्थानं गुह्यं प्रकाशितम् || ६० ||

वाराणसी नाम पुरी गङ्गातीरे मनोहरे |
अरणायास्तथा चासेर्मध्ये चापाकृतिः सदा || ६१ ||

स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् |
सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः || ६२ ||

वियत्स्था सा पुरी नित्यं भर्गयोगबलाद् धृता |
दिव्यज्ञानं ददात्येषा तत्र यो म्रियते नरः || ६३ ||

तस्मै स्वयं महादेवः संसार-ग्रन्थिमुक्तये |
स भूत्वा परमो योगी मृतस्तत्र भवान्तरे || ६४ ||

सुलभेनैव निर्वाणमाप्नोति हरसम्मतः |
योगयुक्तो महादेवः पार्वत्या सहितः सदा || ६५ ||

देवगन्धर्वयक्षाणां मानुषाणां च नित्यशः |
ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् || ६६ ||

न तत्र कामदो देवो नचिराच्च प्रसीदति |
आराधितश्चिरं प्रीत्या निर्वाणाय प्रसीदति || ६७ ||

गौर्या विवजिता सा तु पुरी तत्र न गच्छति |
योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी || ६८ ||

आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् |
कथितं नातिदूरे च वर्तते नरसत्तमौ || ६९ ||

अपरं तु प्रवक्ष्यामि गुह्यं पीठं सदार्चितम् |
हरगौरीसमायुक्तं परं धर्मार्थकामदम् || ७० ||

तपसा चाति तीव्रेण चिराद् भवति मोक्षदम् |
नचिरात् कामदं पुण्यं क्षेत्रं पीठं निगद्यते || ७१ ||

चिरात् तु कामदो देवो न चिराद् यत्र ज्ञानदः |
तत्क्षेत्रमिति लोकेषु गद्यते पूर्ववन्दिभिः || ७२ ||

कामरूपं महापीठं गुह्याद् गुह्यतमं परम् |
सदा सन्निहितस्तत्र पार्वत्या सह शङ्करः || ७३ ||

न चिरात् पूजितो देवस्तस्मिन् पीठे प्रसीदति |
पार्वती चानुगृह्णाति भर्गभक्तं तु तत्र वै || ७४ ||

ददाति नचिरात् कामं भक्ताय परमेश्वरः |
तत् तु पीठं प्रवक्ष्यामि शृणुत साम्प्रतं युवाम् || ७५ ||

करतोया नदीपूर्वं यावद् दिक्करवासिनीम् |
त्रिंशद्योजनविस्तीर्णं योजनैकशतायतम् || ७६ ||

त्रिकोणं कृष्णवर्णं च प्रभूताचलपूरितम् |
नदीशतसमायुक्तं कामरूपं प्रकीर्तितम् || ७७ ||

शम्भुनेत्राग्निनिर्दग्धः कामः शम्भोरनुग्रहात् |
तत्र रूपं यतः प्राप कामरूपं ततोऽभवत् || ७८ ||

तस्य पीठस्य वायव्यां नैर्-ऋत्यां मध्यभागतः |
ऐशान्यां च तथाग्नेययां मध्ये पार्श्वे च शङ्करः || ७९ ||

स्वमाश्रमपदं कृत्वा षट्सु स्थानेषु शोभनम् |
नित्यं वसति तत्रापि पार्वत्या सह नर्मभिः || ८० ||

मध्ये देवीगृहं तत्र तदधीनं तु शङ्करः |
नीलाख्ये पर्वतश्रेष्ठे पार्वती तत्र तिष्ठति || ८१ ||

ऐशान्यां नाटके शैले शङ्करस्य महाश्रमः |
नित्यं वसति तत्रेशस्तदधीना च पार्वती || ८२ ||

अपरे चाश्रमाः सन्ति हरगौर्योः सदातनाः |
नैतयोः सदृशः कोऽपि विद्यते शङ्कराश्रमः || ८३ ||

अत्राराध्यो महादेवो भवद्भयां नरसत्तमौ |
तत्स्थानं मनसादाय प्रसादय वृषध्वजम् || ८४ ||

एतालभैरवावूचतुः

कामरूपं गमिष्यावौ रहस्यं नाटकाचलम् |
गौरीहरौ स्थितौ यत्र नित्यं सन्निहितौ मुने || ८५ ||

आराधनीयो भूतेशो ह्यवश्यमिह चावयोः |
यथैवाराधयिष्यावस्तथाचक्ष्व द्विजोत्तम || ८६ ||

येन मन्त्रेण वा देवो नचिरात् तु प्रसीदति |
तत् त्वं वद महाभागानुग्रहोऽस्त्यावयोर्यदि || ८७ ||

ऋषिरुवाच

नाटकं पर्वतश्रेष्ठं गच्छतं नरसत्तमौ |
तत्र नित्यं महादेवी अमतेऽपर्णया सह || ८८ ||

सन्ध्याचले तत्र मुनिराराधयति शङ्करम् |
वशिष्ठो ब्रह्मणः पुत्रस्तं युवामनुगच्छतम् || ८९ ||

स च मन्त्रं सतन्त्रं च हराराधनकर्मणि |
ज्ञापयिष्यति वां पृष्टः किल वेतालभैरवौ || ९० ||

तपसे गन्तुमिच्छामि नेदानीं कालयापना |
युज्यते मम तस्मान्मां त्यजतं वीरसत्तमौ || ९१ ||

एवमुक्त्वा मुनिश्रेष्ठः अपोतः प्रययौ वनम् |
तौ तं मुनिं नमस्कृत्य जग्मतुर्भवनं निजम् || ९२ ||

अथ तौ समयं कृत्वा दीक्षितौ तपसे तदा |
पितरावप्यनुज्ञाप्य भ्रातृनन्यांश्च बान्धवान् |
प्रस्थानं कामरूपाय चक्रतुस्तौ महामती || ९३ ||

तौ गच्छन्तौ परिज्ञाय शङ्करोऽपि सहोमया |
देवान् सर्वानुवाचेदं सान्त्वयन्निव सेन्द्रकान् || ९४ ||

ईश्वर उवाच

पुत्रौ मे तपसे यातः साम्प्रतं सुरसत्तमाः |
ममाराधनचित्तौ तु तौ दयध्वं सुरेश्वराः || ९५ ||

संस्कृत्य तपसा चतौ पुत्रौ वेतालभैरवौ |
गाणपत्ये नियोक्ष्यामि तौ संस्कुर्वन्तु निर्जराः || ९६ ||

अनेनैव शरीरेण तौ गणेशत्वमाप्स्यतः |
तपसा तु तयोः कायौ भावं त्यक्त्वा तु मानुषम् || ९७ ||

यथाप्नुतः सौरभावं विधास्यामि ह्यहं तथा |
इत्युक्त्वा वामदेवोऽपि पार्वत्या सह पुत्रकौ |
गच्छन्तौ वियता स्नेहात् पश्चादनुययौ शिवः || ९८ ||

शक्राद्यास्त्रिदशाः सर्वे दिक्पालाश्च तथापरे || ९९ ||

सर्वे हरं चानुजग्मुरनुगच्छन्तमात्मजौ |
अथ तौ तु नदीं प्राप्य कृष्णाजिनधरौ तदा || १०० ||

अदाय तापसं भावं गङ्गातुल्यां दृषद्वतीम् |
तपस्विनौ तु देवेन त्र्यम्बकेणाथ पालितौ || १०१ ||

देवैः सह तदायातौ कामरूपाह्वयाश्रमम् |
आसाद्य कामरूपं तु करतोयानदीजले || १०२ ||

उपस्पृश्य ततस्तौ तु नन्दिकुण्डं नृपोत्तम |
तत्र स्नात्वाप्युपस्पृश्य नदीं गत्वा जटोद्भवाम् || १०३ ||

पस्पृश्य च तौ तत्र नन्दिनं तपसा धृतम् |
प्रणम्य जल्पिशं देवं जग्मतुर्नाटकाचलम् || १०४ ||

नाटकाचलमासाद्य प्रणम्य वृषभध्वजम् |
आराधनोपदेशाय कपोतकवचःस्मरौ || १०५ ||

जग्मतुर्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः |
कान्ता नाम नदी तत्र वशिष्ठेनावतारिता || १०६ ||

तस्यास्तीरे महाशैलः स्निग्धच्छायलतातरुः |
सन्ध्यां वशिष्ठः कृतवांस्तत्र यस्माद् विधेः सुतः || १०७ ||

अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः |
तत्रासाद्य वशिष्ठं तु साक्षादिव हुताशनम् || १०८ ||

आराधयन्तं गिरिशं ध्यानसंयुक्तमानसम् |
तपःश्रिया दीप्यमानं द्वितीयमिव भास्करम् || १०९ ||

प्रणम्य पुरतस्तस्य तदा वेतालभैरवौ |
प्राञ्जली तस्थतुर्भूप विनयानतकन्धरौ || ११० ||

इदं चाप्यूचतुस्तौ तु प्रणमन्तौ विधेः सुतम् |
तारावत्यां समुत्पन्नौ चन्द्रशेखरभूभृतः || १११ ||

क्षेत्रे भर्गस्य तनयावावां जानीहि मानुषौ |
आराधयितुमिच्छावो हरं कार्यस्य सिद्धये || ११२ ||

वाञ्छितस्य यदि त्वं नावनुगृह्णासि सुव्रत |
तयोस्तद् वचनं श्रुत्वा वशिष्ठो मुनिसत्तमः || ११३ ||

उवाचेति युवां ज्ञातौ मया सत्यं हरात्मजौ |
हरस्याराधनं आर्यं युवयोर्नरसत्तमौ || ११४ ||

तत्रास्ति मम कृत्यं किं तद्भाषतमनिन्दितौ |
वृषध्वजाराधनाय युवयोस्तु प्रयोजनम् |
विद्यते तन्निमित्तं यत् तत् सिद्धमिति चिन्त्यताम् || ११५ ||

वेतालभैरवावूचतुः

येन मन्त्रेण नचिरात् सम्यगाराधितो हरः |
प्रसादमेष्यत्यवनौ तन्नो वद महामुने || ११६ ||

यथा चाराधयिष्यावस्तन्त्रं यद् यादृशः क्रमः |
तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् || ११७ ||

यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम् |
अथा आचां मुनिश्रेष्ठ ह्यनुशाधि नतौ त्वयि || ११८ ||

वसिष्ठ उवाच

प्रसन्न एव भवतोर्वृषकेतुः सहोमया |
नचिरात् स्वयमेवात्र प्रसादं च समेष्यति || ११९ ||

सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः |
आकाशमार्गेणायातः आलयन् स्वसुतौ गृहात् || १२० ||

किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः |
स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् || १२१ ||

अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम् |
प्राप्स्यथः पार्वतीपुत्रवेकाग्रं शृणुतं तु तत् || १२२ ||

चिरात् प्रसीदति ध्यानान्नचिराद् ध्यानपूजनात् |
तस्माद् ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः || १२३ ||

तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः |
जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् || १२४ ||

महादेवो महामूर्तिर्महायोगयुतः सदा |
जगन्ति तस्य रूपाणि तानि को गदितुं क्षमः || १२५ ||

किन्तु यैरिह रूपैस्तु इहरत्येष शङ्करः |
तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् || १२६ ||

प्रथमं शृणुतं मन्त्रं ततोऽनुध्यानगोचरम् |
ततः क्रमं तु पूजायाः क्रमाद् वृत्तं नरर्षभौ || १२७ ||

समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः |
ऋऌशून्याः सार्धचन्द्रा उपान्तेनाभिसंहिताः || १२८ ||

एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् |
क्रमात् सम्मदसन्दोह-नादगौरव-संज्ञकाः || १२९ ||

प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः |
एकैकेन तथैकैकं वक्त्रं देवं प्रपूजयेत् || १३० ||

एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् |
प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् || १३१ ||

सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते |
शम्भोः प्रसादनेनैष यस्माद् वृत्तस्तु मन्त्रकः || १३२ ||

तेन प्रासादसंज्ञोऽयं कथ्यते मुनिसत्तमैः |
तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः || १३३ ||

आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते |
मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः || १३४ ||

आकर्षको भवेन्नादो गुरुत्वाद् गौरवाह्वयः |
एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् || १३५ ||

पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् |
युवां तेनैव मन्त्रेण आराधयतमीश्वरम् || १३६ ||

ध्यानं वक्ष्यामि सृणुतं सम्यग् वेतालभैरवौ |
पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् || १३७ ||

चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् |
बाहुभिर्दशभिर्युक्तं व्याघ्रचर्मामराम्बरम् || १३८ ||

कालकूटधरं कण्ठे नागहारोपशोभितम् |
किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् || १३९ ||

बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम् |
भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः || १४० ||

नेत्रैस्तु पञ्चदशभिर्ज्योर्तिष्मद्भिर्विराजितम् |
वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् || १४१ ||

सद्योजातं वामदेवमघोरं च ततः परम् |
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् || १४२ ||

सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसंनिभम् |
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् || १४३ ||

नीलवर्णमघोरं तु दंष्ट्वा भीतिविवर्धनम् |
रक्तं तत्पुरुषं देवं दिव्यमूर्ति मनोहरम् || १४४ ||

श्यामलं च तथेशानं सर्वदैव शिवात्मकम् |
चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे || १४५ ||

अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा |
ईशानं मध्यतो ज्ञेयं चिन्तयेद् भक्तितत्परः || १४६ ||

शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् |
दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः सुभम् || १४७ ||

अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् |
अष्टैश्वर्यसमायुक्तं ध्यायेत् तु हृद्गतं शिवम् || १४८ ||

एवं विचिन्तयेद् ध्याने महादेवं जगत्पतिम् |
चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् || १४९ ||

विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः |
अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः || १५० ||

आसनानि च तस्याथ पूजयेत् सकलानि तु |
भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् || १५१ ||

नाराचमुद्रया तस्य ताडनं परिकीर्तितम् |
विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः || १५२ ||

निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया |

प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् || १५३ ||

सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ |
बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् || १५४ ||

कलविकरिणीं देवीं बलप्रमथिनीं तथा |
दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च || १५५ ||

अष्टौ ताः पूजयेद् देवीः क्रमाच्छम्भोश्च प्रीतये |
एवं शिवं पूजयित्वा ध्यानतत्परमानसः || १५६ ||

जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम् |
एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा || १५७ ||

तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः |
इति वां कथितं मन्त्रं ध्यानपूजाक्रमं तथा |
गच्छतं नाटकं शैलं तत्राराधयतं हरम् || १५८ ||

वेतालभैरवावूचतुः

पञ्चाक्षरस्तु मन्त्रोऽयं धृतस्त्वत्सम्मते मुने |
अनेनैव हरं देवं पूजयिष्यावहे मुदा || १५९ ||

इत्युक्त्वा तन्नमस्कृत्य तदा वेतालभैरवौ |
जग्मुतुर्नाटकं शैलं वशिष्ठानुमते नृप || १६० ||

तत्रास्ति सरसी रम्या सुसम्पूर्णमनीहरा |
सर्वदा स्वच्छसलिला प्रफुल्लकमलोत्पला || १६१ ||

तस्यास्तीरे तु विपुलः सुमनोज्ञो हराश्रमः |
सर्वदा दानवैर्देवैः किन्नरैः प्रमथैस्तथा || १६२ ||

रक्ष्यते नृपशार्दूल नृत्यवादनतत्परैः |
यस्मान्नटति तत्रेशो नित्यं कौतुकतत्परः || १६३ ||

तस्मान्नाटकनान्नसौ शैलराजः प्रगीयते |
छत्राकारं तु तं शैलं मनोज्ञं शङ्करप्रियम् || १६४ ||

आसाद्य यत्र सरसी तत्र गत्वा तु तौ तदा |
न चैवापश्यतां तत्र हराश्रममनुत्तमम् || १६५ ||

गन्तुं चैवाश्रमस्थानं तौ नैवाशकतां नृप |
ततो हरं प्रणम्याशु तस्यैव सरसस्तटे || १६६ ||

निर्माय स्थण्डिलं चारु वशिष्ठोक्तक्रमेण तु |
हरमाराद्धुमारेभे वेतालो भैरवोऽपि च || १६७ ||

आराधयन्तौ भूतेशं तौ तदा शङ्करात्मजौ |
दृष्ट्वा हरो देवगणैः सार्धं तस्मिंस्तु पर्वते |
अधित्यकायां न्यवसत् स्वाश्रमेऽपर्णया सह || १६८ ||

अधोभागे सरस्तीरे तपस्यन्तौ हरात्मजौ |
स्थितौ दृष्ट्वा देवगणैः सहितः शङ्करः स्थितः || १६९ ||

नृत्यमर्दलशब्दो यो हरस्य सततं भवेत् |
शृणुतस्तौ तदा शब्दं गन्तुं द्रष्टुं न लभ्यते || १७० ||

हरेणाधिष्ठितः शैलः सर्वदेवगणैः सह |
राजते स्म तदा भूप सुधर्मा वासवी यथा || १७१ ||

ध्यायतोस्तु तदा तत्र भगवान् वृषभध्वजः |
नचिरादेव तस्याभूद् ध्यानमार्गेषु निश्चलः || १७२ ||

तौ पुजयन्तौ गच्छन्तौ स्थितौ वा चन्द्रशेखरम् |
नैव अत्यजतुश्चित्तैः कदाचिदपि भूमिप || १७३ ||

पञ्चाक्षरेण मन्त्रेण पूजयन्तौ वृषध्वजम् |
व्यतिचक्रमतुस्तौ तु सहस्रं परिवत्सरान् || १७४ ||

निराहारौ यताहारौ हरसंसक्तमानसौ |
तपसा निन्यतुर्वर्षान् सहस्रं चैकवर्षवत् || १७५ ||

गते वर्षसहस्रे तु स्वयमेव वृषध्वजः |
प्रसङ्गस्तु तयोर्भूत्वा प्रत्यक्षत्वमुपागतः || १७६ ||

तं तु प्रत्यक्षतो दृष्ट्वा तदा वेतालभैरवौ |
वृषध्वजं तुष्टुवतुर्ध्यानगम्यं पुरःस्थितम् || १७७ ||

हररूपं यथाध्यातं हृद्गतं तेजसोज्ज्वलम् |
तथा दृष्ट्वा ततस्ताभ्यां अशिष्ठस्यानुमानतः || १७८ ||

वेतालभैरवावूचतुः

पञ्चवक्त्रं महाकाव्यं सर्वज्ञानमयं परम् |
संसारसागरत्राणं प्रणमावो वृषध्वजम् || १७९ ||

त्वं परः परमात्मा च परेशः पुरुषोत्तमः |
त्वं कूटस्थो जगद्व्यापी प्रधानः परमेश्वरः || १८० ||

रूपात्मा त्वं महातत्त्वं तत्त्वज्ञानालयः प्रभुः |
सांख्ययोगालयः शुद्धो गुणत्रयविभागवित् || १८१ ||

त्वं नित्यस्त्वमनित्यश्च जगत्कर्ता लयः स्मृतः |
एकोऽनेकस्वरूपश्च शान्तचेष्टो जगन्मयः || १८२ ||

निर्विकारो निराधारो नित्यानन्दः सनातनः |
त्वं विष्णुस्त्वं महेन्द्रस्त्वं ब्रह्मा त्वं जगतां पतिः || १८३ ||

यो रूपरूपेश्वररत्नमालः
सम्भूतिभूतो निरवग्रहश्च |
काक्ष्यावतीर्णावगतप्रमाथी
योगेश्वरो ज्ञानगतिस्त्वगम्यः || १८४ ||

प्रमेयरूपात्मधराधराभो
भोगीन्द्रबद्धामृतभोगतन्त्रः |
सूक्ष्माक्षरस्तत्त्वविदप्रमाथी
त्वं देवदेवः शरणं सुराणाम् || १८५ ||

विकल्पमानापरिहीनदेहः
शुद्धान्तधामानुगतैकविद्यः |
वर्धिष्णुरुग्रः पुरुषः परात्मा
त्वमिन्द्रियौघस्य विचारबुद्धि || १८६ ||

त्वं नाथनाथ प्रभवः परेषां
गतिर्मुनीनां परयोगिगम्यः |
त्वंभूधरो भागधरो ह्यनन्तो
विश्वात्मनस्ते बहवः प्रपञ्चाः || १८७ ||

ज्ञानामृतस्यन्दकपूर्णचन्द्रो
मोहान्धकारस्य परः प्रदीपः |
भक्तात्मजानां परमः पिता त्व
कामे च पञ्चाननरूपधारी || १८८ ||

शास्त्राखिलानां प्रथमो विवस्वां-
स्तनूनपात् त्वं तनुषे गुणौधान् |
त्वं ब्रह्मरूपेण करोषि सृष्टिं
विष्णुस्वरूपैः सततं स्थितिं च || १८९ ||

त्वं रुद्ररूपी कुरुषे तथान्तं
त्वत्तो न चान्यज्जगतीह वस्तु |
त्वं रात्रिनाथो दिवसेश्वरश्च
त्वमग्निरापः पवनो धरित्री || १९० ||

नभस्तथा त्वं क्रतुतन्त्रहोता
त्वमष्टमूर्तिर्भवतो न चान्यत् |
अनन्तमूर्तिस्त्विह मुख्यभावा-
न्निगद्यते चाष्टमयी त्रिमूर्तिः || १९१ ||

अनन्तमूर्ते कथमन्यथा ते
संख्यास्ति रूपस्य यदष्टमूर्तिः |
त्वं त्र्यम्बकस्त्वं त्रिपुरान्तकश्च
त्व शम्भुरीशः शमनो विधाता || १९२ ||

सहस्रबाहुश्च हिरण्यबाहुः
सहस्रमूर्तिस्त्विह पञ्चवक्त्रः |
प्रभूतनेत्रस्तु षडर्द्धनेत्रः
प्रभूतबाहुर्दशबाहुरीशः || १९३ ||

प्रभूतभोगी मितभोगयुक्तो
भोग्यानुसारो निरवग्रहश्च || १९४ ||

नित्यानित्यस्वरूपाय नित्यधामस्वरूपिणे |
परतत्त्वस्वरूपाय नमस्तुभ्यं शिवात्मने || १९५ ||

नान्तं लिङ्गस्य यस्याप्तं विष्णुना ब्रह्मणा तव |
तस्यावां कि विधास्यावः स्तुतिवाक्यं वृषध्वजः || १९६ ||

स्वरूपं यस्य जानन्ति न देवा नापि दानवाः |
आलावावां कथन्तु त्वां स्तोष्यावः परमेश्वरः || १९७ ||

भक्तिमात्रेण देवेश अवावां वृषभध्वज |
कुर्वः प्रणामं गौरीश भूयस्तुभ्यं नमो नमः || १९८ ||

और्व उवाच

इति स्तुतो महादेवो वेतालेन महात्मना |
भैरवेणापि राजेन्द्र प्रसन्नः प्राह तौ तदा || १९९ ||

श्री भगवानुवाच

तुष्टोऽस्मि युवयोः पुत्रौ वृणुतं वाञ्छितं वरम् |
दास्यामि युवयोरिष्टं प्रसन्नोऽहं तपोव्रतैः || २०० ||

स्तुतिभिस्तु दमैश्चापि तथैकान्ताउचिन्तनैः |
मुहुर्मुहुः सुप्रसन्न इष्टं दास्यामि वां सुतौ || २०१ ||

वेतालभैरवावूचतुः

तुष्टोऽसि यदि सत्यं नौ सत्यमावां सुतौ यदि |
वृषध्वज तवैवेह तदेष्टं देहि नौ वरम् || २०२ ||

सुतभावेन पितरं भवन्तं जगतां पतिम् |
नित्यं यथावगच्छावस्तथा देहि वरं तु नौ || २०३ ||

न राज्यमभिकांक्षावो न धनं नान्यदेव वा |
त्वद्भक्त्या सेवनं कर्तुं तवेच्छावो वृषध्वज || २०४ ||

त्वत्पादपङ्कजद्वन्द्वे नित्यं मधुकरात्मताम् |
त्वयि प्रसन्ने नेत्राणां युगले प्राप्नुतां सदा || २०५ ||

इतोऽन्यथा त्वच्चिन्ताभिस्त्वद्द्यानैस्त्वत्प्रपूजनैः |
कल्पकोटिसहस्राणि यान्तु सम्यक्तथावयोः || २०६ ||

और्व उवाच

ततस्तद् वचनं श्रुत्वा महादेवो हसन्निव |
सर्वैर्देवगणैः सार्धं देवत्वमकरोत्तयोः || २०७ ||

देवेन्द्रसम्मतेनैव सुधामानीय नाकतः |
वेतालभैरवौ तान्तु पाययामास शङ्करः || २०८ ||

पीतेऽमृते ततस्तौ तु मर्त्यतां नरसत्तमौ |
अमर्त्यतां परित्यज्य प्रापतुः शिवशक्तितः || २०९ ||

तस्मिन्काले स्वपन्तौ तु दिव्यज्ञानबलान्वितौ |
दिव्यरूपोपसम्पन्नौ बभूवतुररिन्दमौ || २१० ||

अभिन्नेनैव देहेन देवत्वं गतयोस्तयोः |
प्राह शम्भुस्तदा तौ तु सुतौ परमहर्षितौ || २११ ||

भगवानुवाच

अहं तुष्टस्तु युवयोः पार्वतीं दयितां मम |
मद्दत्तं काममिच्छन्तावाराधयतमीश्वरीम् || २१२ ||

तामृते तु न शक्नोमि दातुमिष्टं सनातनम् |

सेवितुं च सुतौ नित्यं शरणं व्रजतं शिवाम् || २१३ ||

अचिराद् येन भावेन प्रीतिं देवी गमिष्यति |
त्र वा तत्र वा गत्वा तेन भावेन चार्यताम् || २१४ ||

इति श्रीकालिकापुराणे वेताल-भैरवोत्पत्तिकथने कपञ्चाशोऽध्यायः || ५१ ||

Weiterlesen

Mit Kapitel 51 endet der erste Teil dieser Devanagari-Ausgabe. Der Sanskrittext wird ohne Auslassung in Teil 2, Kapitel 52–90 fortgeführt. Für die Betrachtung des Gelesenen bietet Kalika Purana 108 Verse und Mantras ausgewählte Verse mit IAST, Übersetzung und Erläuterungen.

Textgrundlage und Hinweise zur Überlieferung

Grundlage: Kālikāpurāṇam, herausgegeben von Pañcānana Tarkavāgīśa, Kalkutta 1909; elektronischer Text des Muktabodha Indological Research Institute, Katalognummer M04002, Revision vom 27. April 2017. Die Erfassung erfolgte unter Leitung von Mark S. G. Dyczkowski. Muktabodha kennzeichnet den E-Text mit der Lizenz CC BY-NC 4.0. Die vorliegende Darstellung ergänzt Kapitelüberschriften, Verlinkungen und Leseformatierung.

Die Textfassung umfasst 90 Kapitel; die Devanagari-Ausgabe verteilt sie auf Teil 1 (Kapitel 1–51) und Teil 2 (Kapitel 52–90). Die zugrunde liegenden IAST- und Devanagari-Fassungen stimmen in der Zeilenstruktur und in den Zahlenfolgen überein; diese Übereinstimmung ist kein Beleg für zwei voneinander unabhängige Textzeugen. Auch auffällige Schreibungen, Wiederholungen und Nummerierungsfehler sind in beiden Fassungen vorhanden. Der Sanskritwortlaut und die Originalnummern werden hier bewahrt; eine stillschweigende Rekonstruktion fehlender Verse erfolgt nicht. Ein Sprung in der Nummerierung beweist für sich allein noch keinen Textverlust.

Besonders zu beachten sind der Sprung von 6.7 auf 6.12 und die Wiederholung des Blocks 6.29–6.40, wobei die Nummer 39 als 69 erscheint. Auch Kapitel 42 und 62 haben umfangreichere Nummerierungsstörungen. In Kapitel 12.35 ist derselbe Halbvers zweimal überliefert. In den Schlusskapiteln erscheinen 86.118, 88.20, 89.50 und 90.34 jeweils zweimal; 90.44 steht an der Stelle der erwarteten Nummer 4. Doppelte Nummern bezeichnen daher nicht immer identische Textstellen. Beschädigte Wörter sollten vor Verwendung in verbindlichen Ritualanweisungen anhand einer Druckausgabe überprüft werden.

Siehe auch

Seminare

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Sanskrit und Devanagari

06.01.2027 - 15.12.2027 Jahresgruppe Sanskrit - Lektüre der AMRITA SIDDHI 2 - online

Termine: 16x mittwochs: 06.01., 27.01., 17.02., 10.03., 31.03., 21.04., 12.05., 02.06., 23.06., 14.07., 08.09., 29.09., 20.10., 10.11., 01.12., 15.12.20…
Dr phil Oliver Hahn
09.04.2027 - 11.04.2027 Sanskrit Intensivwochenende

Du bist fasziniert vom Klang des Sanskrit und der tiefgehenden Wirkung der Wörter dieser uralten Sprache? Hast bereits Übersetzungen von Mantras oder …
Dr phil Oliver Hahn