Raurava Agama Sanskrit Devanagari

Aus Yogawiki

Raurava Agama Sanskrit Devanagari enthält den in dieser Yoga-Vidya-Ausgabe erschlossenen zehn Kapitel umfassenden Vidyāpāda beziehungsweise Rauravasūtrasaṃgraha des Raurava Agama in fortlaufender Devanagari-Lesefassung.

Die Verse sind nach Kapiteln geordnet; die Verszahlen stehen in Devanagari-Ziffern. Zwischen den Versen werden keine Quellen- oder Übersetzungsangaben eingeschoben, damit der Sanskrittext als zusammenhängender Rezitations- und Studientext gelesen werden kann.

Textkritischer Hinweis: Die Unicode-Devanagari-Fassung wurde aus der zugänglichen IAST/Romanisierung des von S. P. Sabharathnam Sivacharyar publizierten Vidyāpāda umgesetzt. Sie ist eine praktische Lesefassung, keine neue kritische Edition. Für philologische Detailfragen ist die kritische Ausgabe von N. R. Bhatt maßgeblich.

Shiva – die höchste Wirklichkeit, auf die der Raurava Agama immer wieder verweist.


१. उपोद्घात प्रकरणम्

शिवविद्यात्म विज्ञान तत्त्वादि शिखरान्वितम् । भानुमन्तम् इवाभान्तम् भाभिरप्रतिमौजसम् ॥

तेजोराशिम् महाप्राज्ञम् रुरुम् मुनिवरोत्तमम् । प्रसन्न मनसम् शान्तम् शिवज्ञानैक कारणम् ॥

भर्गवाङ्गिरसात्रेय पौलस्त्याः समरिचयः । पप्रच्छुर् विनयानम्रा ऋषयो हृषितननः ॥

भगवच्छिव विद्यात्म तत्त्व विज्ञान वारिधे । यागसंस्कार योगांश्च विधिवत् प्रब्रवीहि नः ॥

स मन्त्रपूतान् संस्पृश्य पुश्प पूर्णोज्ज्वलाञ्जलीन् । हर्षादुद्गत रोमाञ्चः प्राह वाख्यम् इदम् रुरुः ॥

सुरधिपम् नमस्कृत्य शशाङ्क कृत शेखरम् । कपाल मालिनम् देवम् प्रणतोस्मि सदाशिवम् ॥

कालेश्वरम् महाकालम् कालञ्जर निवासिनम् । कालकृत् कालवेत्तारम् प्रणतोस्मि सदाशिवम् ॥

सर्वकृत् सर्ववेत्तारम् सर्वज्ञम् अपराजितम् । सर्व भूतात्म भूतस्थम् प्रणतोस्मि सदाशिवम् ॥

यो असृजत् सर्व भूतानि ब्रह्माद्यांश्च सुरासुरान् । तमहम् लोक कर्तारम् प्रणतोस्मि सदाशिवम् ॥

वरम् वरेण्यम् वरदम् वरिष्ठम् वर वाहनम् । वनमालाधरम् देवम् प्रणतोस्मि सदाशिवम् ॥ १०

प्रीतिमत्प्रीतिदातारम् सुप्रियम् प्रियदर्शनम् । उमापतिम् सदाकान्तम् प्रणतोस्मि सदाशिवम् ॥ ११

धर्माधर्म मयम् देवम् सुखदुह्ख फलोदयम् । बन्ध मोक्ष प्रणेतारम् प्रणतोस्मि सदाशिवम् ॥ १२

मनोबुद्धिरहङ्कार तन्मत्रेन्द्रिय गोचरम् । प्रधान पुरुषेशानम् प्रणतोस्मि सदाशिवम् ॥ १३

यम् ध्यायन्ति महात्मानो मुनयः संशित व्रताः । तमोङ्कार परम् सूक्ष्मम् प्रणतोस्मि सदाशिवम् ॥ १४

सूक्ष्मम् सर्वगतम् नित्यम् सर्व विद्येश्वरेश्वरम् । सर्वतत्त्वाश्रयम् देवम् प्रणतोस्मि सदाशिवम् ॥ १५

भूमिरापो अग्निरनिलः खमात्मा चन्द्र भास्करौ । १६

मनोबुद्धिरहङ्कारः परप्रकृतिरेव च ॥ यस्येच्छामनुवर्तन्ते भावाभाव विकारिणीम् । तस्मै परम देवाय पराय परमात्मने ॥ १७

नमस्ते कालबोधाय कालान्तक नमो अस्तु ते । कालाधिप नमस्ते अस्तु सर्वकाल प्रवर्तक ॥ १८

कलासकल रूपेण कलाभिर् विश्वरूप धृत् । विश्वेश्वर नमस्ते अस्तु ह्यादिकाल प्रवर्तक ॥ १९

महद्भ्यश्चापि महते महामायाति मायिने । सूक्ष्मेभ्योप्यति सुक्ष्माय नमस्कृत्यामितात्मने ॥ २०

देवदेवाय शर्वाय विद्याविद्येश्वरैस्सह । शैवम् ज्ञानम् प्र्वक्ष्यामि तच्छृणुध्वम् समाहिताः ॥ २१


२. शिवतत्त्वानि

अथापनीत कुपथाश् छिन मायादि बन्धनाः । सुरासुर गुरोः पादौ प्रणम्य विधिवस्थिताः ॥

तेषम् तथोपपन्नानाम् शिवतत्त्वम् च पृच्छताम् । पद्मयोनिः प्रसन्नात्मा समुत्थाप्येदम् अब्रवीत् ॥

यथा शृतम् मयापूर्वम् अनतेश मुखोद्गतम् । नन्दीशात् परमेशान नियोगामृतम् उत्तमम् ॥

शिव तत्त्वम् परम् ह्येतत् अचलम् सर्वतोमुखम् । कथम् विभिन्नम् बहुध मायाञ्जन विवर्जितम् ॥

एवम् पृष्टो महातेजा हसन् नन्दीश्वरो महान् । प्रत्युवाच मनोदिव्यम् मनो मे नन्दयन्निव ॥

शृणुष्वैक मनाः ब्रह्मन् यत्परम् परमेष्ठिनः । अचित्यस्याप्रमेयस्य तदेकम् बहुध स्थितम् ॥

परमेशात् पुरावाप्तम् इदम् ज्ञामृतम् मया । तत्समासेन ते वक्ष्ये तत्त्वानाम् प्रति सञ्चरम् ॥

प्रसन्नम् परमम् शान्तम् अजम् ईशानम् अव्ययम् । शिवतत्त्वम् सुनिर्वाणम् अच्युतम् च सनातनम् ॥

तसमात्तेजाः सुसम्पूर्णम् शक्त्यष्टक समन्वितम् । विभिन्नम् त्वष्टधा भूयः शिवेच्छा विधिचोदितम् ॥

अनन्तेशस्ततः पूर्वम् ततः सूक्ष्मः शिवोत्तमः । एकन्त्रैकरुद्रो च त्रिमूर्तिश्चानल द्युतिः ॥ १०

श्रीकण्ठश्च शिखण्डी च सूर्यकोटि समप्रभौ । अष्टावेते महात्मानस् तस्मत्तेजो विनिह्सृताः ॥ ११

ते अदिकारम् प्रकुर्वन्ति शिवेच्छा विधिचोदिताः । तेषाम् अनन्त शक्तीनाम् अनन्तः परमेश्वरः ॥ १२

अनन्तः परमस्तेषाम् महतो चक्रवर्तिनाम् । विहितम् सर्व कर्तृत्व कारणम् परमम् पदम् ॥ १३

ततो अदिष्ठाय विद्येशो मायाम् स परमेश्वरः । क्षोभयित्व स्वकिरणैः सृजते तैजसीम् कलाम् ॥ १४

कलातत्त्वद्राग विद्ये द्वे तत्त्वे संबभूवतुः । अव्यक्तम् च ततस्तस्माद् गुणांश्चैवासृजत् प्रभुः ॥ १५

गुणेभ्यो धिषणा जज्ञे याष्टरूप गुणान्विता । बुद्धेश्चाप्यत्र संक्षोभाद् अहङ्कारो व्यजायत ॥ १६

अहङ्कारात्तु सूक्ष्माणि तन्मात्राणीन्द्रियाणि च । भूतादि करणानीकम् समस्तम् चाप्यजायत ॥ १७

एवम् सुसूक्ष्माम् संक्षोभ्य मयाम् स परमेश्वरः । तत्त्वानुत्पादयामास यैरोतम् जगतातुरम् ॥ १८

भुवनानि विचित्राणि नानारूपाकृतीन्यथ । सो असृजद् भगवान् ईशो विषायानन्द भूमयः ॥ १९

पतयश्चाञ्जनातीताः साञ्जनाश्च पृथग्विधः । भुवने भुवने वापि तन्नियोगाद्व्यवस्थितः ॥ २०

ऐश्वर्य संपद्विभव विलयानुग्रहैषिणः । यजन्ति विविधैर्यज्ञैर् मन्त्र तन्त्र विशारदः ॥ २१

गुरुतन्त्राभ्यनुज्ञात दीक्षा विच्चिह्न्न बन्ध्नाः । पशूंश्च दीनबन्धंस्तु मुन्जन्तो अपि महेश्वराः ॥ २२

देव दानव गन्धर्व रक्ष यक्षोरगादिषु । अण्डान्यनेक रुपाणि दर्शयन्तः पृथग्विधाः ॥ २३


३. तन्त्रावतारः

शृत्वा महेश्वरम् तत्त्वम् अजम् ईशानम् अव्ययम् । प्रभवम् सर्वतत्त्वानाम् स्थितिसम्हार कारकम् ॥

अथ सद्भावम् ईप्सन्तो मुनयो भृगुनन्दनम् । रुरुम् प्रणम्य विधिवद् ऊचस्ते वचनम् पुनः ॥

केनावतारितम् ह्येतत् तन्त्रम् तन्त्रविदाम् वर । गुरवः कथितास्तन्त्रे तत्सम्ख्या च कति स्मृता ॥

मन्त्राणाम् कियती संख्या मण्डलानाम् तथैव च । तत्त्वानाम् भुवनानाम् च यथावद्वक्तुमर्हसि ॥

परमेशमुखोद्कीर्णम् उत्तमम् परमम् मतम् । गुरुवंशम् रुरुर्धीमान् प्रवक्तुम् उप्चक्रमे ॥

शिवानल विनिष्क्रान्तम् अधूमज्योति रूपिणम् । जगतः कारणम् देवम् अनन्तेशम् परम् गुरुम् ॥

तेनोक्तम् परमेशान श्रीकण्ठाय महात्मने । सुरासुराणाम् गुरुणा देव्यै सर्वम् उदाहृतम् ॥

देवी च प्राह नन्दीशस्कन्दयोर् गुह्यम् उत्तमम् । नन्दीशाद् ब्रह्मणावाप्तम् शक्रेण च महात्मना ॥

तस्माद्वाप्तमूर्वेण ऋचिहेन ततः पुनः । तस्मादवाप्तम् रामेण रामाच्चाहम् अधीतवान् ॥

इति वंशः क्रमः प्रोक्तः संक्षेपेण मया द्विजाः । शतानि पञ्चशिष्याणाम् शक्रस्यापि महात्मनः ॥ १०

इतरे शास्त्र वक्तारम् तन्त्रे अस्मिन् पारमेश्वरे । दशैते गुरवः प्रोक्तास् तन्त्रे दन्ता महौजसः ॥ ११

अन्येपि वीरभद्राद्या ब्रह्मान्ताः गुरवः स्मृताः । संहितापारगः प्रोका अष्टादश महौजसः ॥ १२

मन्त्रतन्त्र विदाः सर्वे वास्तवज्ञा विशारदाः । पाशविच्छेत्तये नृणाम् नित्यमाहित बुद्धयः ॥ १३

ये च ते गुरवः प्रोक्तास् तन्त्रे स्वायम्भुवे पुरा । एतेषामपि शिष्याणाम् सहस्रम् परिसम्ख्यया ॥ १४

तन्त्रसम्ख्या सहस्राणाम् शतमुक्तम् समासतः । ब्रह्मणा मण्डलेशान विधियज्ञ प्रसिद्धये ॥ १५

भार्गवेणाप्यथैशान तन्त्रानुज्ञात कर्मणा । प्रोक्तम् पुराद्वादशभिः सहस्रैर् मन्त्रलक्षणम् ॥ १६

मुद्रासमय तत्त्वार्थ मण्ड्लेज्यापरिग्रहः । उत्तरे अभिहितः सर्वो मन्त्राणम् चैव संगरहः ॥ १७

सप्तकोट्यस्तु मन्त्राणाम् शिववक्त्राद्विनिह्सृताः । याः साधक महामाया पाशविच्छित्तिहेतवः ॥ १८

ता जन्ममृत्युकह्चिताम् पितामहकृताम् इमाम् । सृष्टिम् दृष्ट्वैश्वरीम् मूर्तिम् प्रविष्टाः पुनरेव हि ॥ १९

अन्तर्हितांस्तान् अनघान् मन्त्रराजेश्वरः प्रभुः । दधार भगवान् ईशो लोकानाम् हितकाम्यया ॥ २०

तेषामकल्पयद् देवो मन्त्राध्वर विभूतयः । मण्डलेज्या विधानेन मन्त्र सद्भाव स्त्तमः ॥ २१

गुह्यानि मण्ड्लान्यष्टौ नवनाभादि संज्ञया । अनन्तविजयादीशम् शतमन्यत् प्रकीर्तितम् ॥ २२

तेष्विज्यो भगवानेभिर् मण्डली सततम् शिवः । ऋषिदेवासुरनरैर् विनिर्मोक्षार्थ काङ्क्षिभिः ॥ २३

विद्यामण्डल् रजानाम् मण्डलांश विभूतयः । न सक्याः परिसम्ख्यातुम् मन्त्राणम् च तदात्मनाम् ॥ २४

यावन्तो रुद्रदेवाश्च रक्षोयक्ष महेश्वराः । तावन् मन्त्राः समख्यातस् तेषाम् संख्या न विद्यते ॥ २५

देशभाषा निबद्धश्च दिव्याक्षरपदैर्युताः । सर्वज्ञाः सर्वगाः शुद्धाः सर्वे सर्वज्ञ भाविताः ॥ २६

न मीमांशा विचार्या वा मन्त्रा स्वल्पधिया नरैः । प्रमाणम् आगमम् कृत्वा श्रद्धतव्यम् हितैषिभिः ॥ २७

सर्वे मन्त्रात्मकाः देवाः सर्वे मन्त्रा शिवात्मकाः । शिवात्मकम् इदम् ज्ञात्वा शिवमेवानुचिन्तयेत् ॥ २८


४. अध्वविधिः

अथाध्वानाम् प्रसम्ख्यानम् मन्त्रतन्त्रानुवर्तिनाम् । वर्णयिष्ये समासेन लोकालोकानुसम्चयम् ॥

अथ कालाग्निरुद्रो वै नरकश्चानुपूर्वशः । रौरवः कुम्भीपाकश्च अवीचीत्येवमादयः ॥

पातालानि ततः सप्त पातालपतया तथा । हाटकश्च महावीर्यो विद्याविद्येश्वरैः स्मृताः ॥

सप्तद्वीपा महीकृत्स्ना समुद्रैः सप्तभिर्वृताः । नानाजन पदाकीर्णा विचित्र रचनोज्ज्वला ॥

तस्यामध्ये महामेरुः स्थितो ह्यमरपूजितः । प्रविष्टः षोडशधस्ताच् चतुरशीतिरुच्छ्रितः ॥

ब्रह्मणोण्डम् महाशैले राजते चावभासितः । अमर ऋषिगन्धर्व विमान नगराकुलम् ॥

अनेकाकार विन्यास प्रमाण रचनादिभिः । भुवनानि निविष्टानि तस्मिन्नण्डे चतुर्दश ॥

भूलोको अथ भुवर्लोकः स्वर्लोको अथ महस्तथा । जनस्तपस्तथा सत्यम् एतावान् लोकसम्ग्रहः ॥

तेषामुत्पत्ति संहारस्थित्यनुग्रह कारणम् । उमापतिर्महातेजाः परमेश समो गुरुः ॥

पद्मजन्माण्डम् अध्वानम् अतीत्यानल् वर्चसः । शतरुद्रा इतिख्याता वीरभद्र पुरः सराः ॥ १०

श्रीकण्ठाधिष्ठिताः सन्तो देवानाम् मनसेप्सितम् । ऐश्वर्यम् संप्रयच्छन्ति हरन्ति च महौजसः ॥ ११

पञ्च पञष्टकम् चैव प्रत्यत्मकमथादितः । गुह्यम् तथातिगुह्यम् च पवित्रम् स्थाणु संज्ञितम् ॥ १२

पैशाचम् राक्षसम् याक्षम् गान्धर्वम् चैन्द्रमेव च । सौम्यम् त्वत प्रजेशम् च ब्राह्मम् चैवाष्टमम् ततः ॥ १३

अकृतम् च कृतम् चैव भैरवम् ब्राह्मम् एव च । वैष्णवम् त्वथ कौमारम् औमम् श्रीकण्ठम् एव च ॥ १४

वामदेवो अथ भीमश्च उग्रश्चैव भवस्तथा । सर्वेशानेश्वरौ चैव एकवीरः प्रचण्ड दृक् ॥ १५

ईश्वरो अथ उमाभर्ता अजेशो अनन्त एव च । ततस्त्वेकशिवश्चैव सर्वेषाम् मूर्ध्नि संस्थिताः ॥ १६

क्रोधेशश्चण्ड संवर्तो ज्योतिः पिङ्गल शूरकाः । पञ्चान्तकैकवीरौ च शिकेदश्च तदीश्वराः ॥ १७

अष्टावेते महात्मानो वीरभद्रात् परे स्थिताः । श्रीकण्ठानुमताः सर्वे देवानाम् अधिदेवताः ॥ १८

ऊर्ध्वतेजा महातेजा वामदेवो भवोद्भवौ । एकपिङ्गेक्षणेशान भुवनेश पुरः सराः ॥ १९

अङ्गुष्ट्मात्र सहिता महादेवाष्टकाः शिवाः । मायाञ्जन विनिर्मुक्ताः परमेशान संमिताः ॥ २०

मण्डलाधिपतिभ्यो अथ तत्त्वमार्गः प्रतिष्ठितः । ऊर्ध्वम् भोगक्रियायोगे परमेशान भाषिते ॥ २१

मज्जास्थि शुक्ल संघात स्नायु च पितृजम् स्मृतम् । रोमाणि लोहितम् मांसम् मातृकम् त्रिकम् उच्यते ॥ २२

एतदन्नेन सततम् पानेन विवर्धितम् । सर्वम् योनि शरीरम् तु षड्भिः श्रितमहाह्रदम् ॥ २३

पृथिव्यापस्तथा तेजो वायुराकाशम् एव च । शब्दः स्पर्शश्च रूपम् च रसो गन्धश्च पञ्चमः ॥ २४

पादौ पायुरुपस्थम् च करौ वागिन्द्रियम् तथा । श्रोत्रम् त्वक् चक्षुषी जिह्वा नासिका पुनरेव च ॥ २५

अहङ्कारस्त्रिधा ज्ञेया बुद्धिरष्ट्विधा स्मृता । गुणत्रयम् च विज्ञेयम् प्रधान पुरुषेश्वराः ॥ २६

परतश्च महामाया विद्येशाना व्यवस्थिताः । सर्वविद्या परिवृतः सर्वैश्वर्य वारिधिः ॥ २७

जगतः प्रलयोत्पत्ति विभूति निधिरव्ययः । मायोपरि महामाया सर्व कारण कारणम् ॥ २८

अष्ट्विद्येश्वरैर्युक्तो वीतमायो निरञ्जनः । सूक्ष्मः सर्वगतो नित्यो देवदेवो महेश्वरः ॥ २९

अनन्तेशश्च सूक्ष्मश्च तृतीयश्च शिवोत्तमः । एकनेत्रैकरुद्रौ च त्रिमूर्तिश्चानल द्युतिः ॥ ३०

श्रीकण्ठश्च शिखङ्डी च सूर्यकोटि समप्रभौ । विद्येशास्तु महात्मानः शिवशक्ति समन्विताः ॥ ३१

तिस्रस्तु शक्तयो ज्ञेयाः कारणस्याव्ययात्मनः । वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः ॥ ३२

ज्ञानशक्तिः क्रियाशक्तिः शक्तिद्वयम् अनन्तरम् । ज्ञनशक्तिः शिवा नित्यसृष्ट्सम्हारकृत् क्रिया ॥ ३३

सद्यो वामो अप्यघोरश्च पुरुषेशान एव च । सकलस्तु शिवो ह्येष निष्कलस्तु सदाशिवः ॥ ३४

सकलम् निष्कलम् चैव यो हि वेत्ति सदाशिवम् । संसाराद्धि विनिर्मुक्तः शिवमेवाधि गच्छति ॥ ३५

सर्वज्ञः सर्वकर्ता च शिवः शक्ति समन्वितः । विद्याराजाधिराजेशो जगद्भ्रमयतीच्छया ॥ ३६

अपावृत्तः सुसम्पूर्णः शुद्धस्त्वात्मा व्यवस्थितः । परः परम निर्वाणो ह्यव्ययः परमः शिवः ॥ ३७

एनम् यजन्ति मुनयो गुह्यमन्त्रैर् महमखैः । मन्त्रपुष्पोपहारेण शिवम् परम मानसम् ॥ ३८

इष्ट्वा परमसद्भावम् शिवतन्त्र विदुत्तमम् । कारणेशान कमलम् शिवमभ्येति साधकः ॥ ३९

मन्त्रदीक्षाध्वर स्नातो मन्त्रालङ्कार विग्रहः । ध्ययेत् पञ्च महामन्त्र तनुमीशानम् अव्ययम् ॥ ४०

प्रधान पुरुषेशानम् हृद्व्योम संस्थितम् । शुद्धस्फटिक संकाशम् अधूमज्योति रूपिणम् ॥ ४१

सर्वजीव कलाव्यापि सर्वज्ञम् सर्वतोमुखम् । तत्स्थो लीनस्वतत्त्वेन ताम् कलाम् चिन्तयेत् सदा ॥ ४२

सर्वाञ्जन विनिर्मुक्तम् शिवशक्ति कलैधितम् । आत्मतत्त्वम् इदम् शुद्धम् साधकानाम् प्रकीर्तितम् ॥ ४३

अणिमादि गुणैर्युक्ता योगैश्वर्यावलम्बिताः । यावत्यः कथिता विद्या सर्वाः शिवकलान्विताः ॥ ४४

शिवशक्ति कलाः सर्वाः एताः सर्वज्ञ भाषिताः । यो मोक्षसुखैश्वर्य धनवीर्यप्रदाः शुभाः ॥ ४५

विद्यातत्त्वम् इदम् पुंसाम् तृतीयम् सर्वकामिकम् । शिवतत्त्व विधानज्ञो ज्ञत्वा सिद्ध्यति नेतरः ॥ ४६

शिवात्मविद्या तत्त्वानि त्रीण्येतान् यनुपूर्वशः । विदित्वा साधकः क्षिप्रम् मन्त्रसिद्धिम् अवाप्नुयात् ॥ ४७

परार्धाः पञ्च विख्याता विद्येश वदनोद्गताः । विधिक्रिये कालयोगौ शिवश्चेति समासतः ॥ ४८

शिवः कला राग विद्ये पुरुषो अव्यक्तम् एव च । गुणबुद्धिरहङ्कारस् तन्मात्राणीन्द्रियाणि च ॥ ४९

महाभूतानि चाप्यत्र पृथिव्यन्तानि पञ्च च । एषाम् संख्या समाख्याता शिवतत्त्वर्थकोविदैः ॥ ५०

शिवतन्त्र महाविद्या सुसंस्कृत महाधियः । शिवानल महाज्वाला दग्ध बीजाः सुकेवलाः ॥ ५१

पारमेशानकिरण प्रकाशीकृत चक्षुषः । साधकाः परमम् शान्तम् प्रविशन्ति तनुक्ष्ये ॥ ५२


५. मुद्रालक्षणम्

अथातः संप्रवक्ष्यामि गुह्य मुद्राः शिवोद्भवाः । प्रयुज्यन्ते अर्चन विधौ बलिकर्म जपेषु च ॥

नमस्कारो ध्वजश्चैव तथा च शशकर्णिका । मुकुला पद्म मुद्रा च तथा चावाहिनी भवेत् ॥

निष्ठुरा कालकण्ठी च लिङ्गमुद्रा तथैव च । अथ वक्ष्ये लक्षणानि मुद्रणाम् अनुपूर्वशः ॥

नमस्कारेण वन्देत ध्वजेन ध्यानम् आचरेत् । शशकर्ण्या नियुज्येत मुकुल्या चासनाकृतिः ॥

आसनम् कल्पयेदत्र क्रमशः पद्म मुद्रया । आवाहन्यावाहनम् च देवेशस्य प्रयोजयेत् ॥

निष्ठुरया निरुद्ध्येत विघ्नोत्सारणम् एव च । कालकण्ठ्या प्रयुञ्जीत शिवपूजा प्रबोधका ॥

योजना लिङ्गमुद्रायाः शिवरूपे ह्युदाहृताः । हृद्देशे तु निपीड्येत हस्तयोरुभयोस्तलम् ॥

नमस्कारा तु विज्ञेया मन्त्रिणा मन्त्र वन्दने । वामहस्तस्य ग्रीवायाम् तर्जनीं दक्षिणेन तु ॥

अङ्गुष्ठम् उन्नतम् कृत्वा ध्वजेन ध्यानम् आरभेत् । मणिबन्धम् निपीड्यैव हस्तयोरुभयोरपि ॥

अङ्गुष्ठाम् तर्जनीम् चैव त्वेकाम् एकत्र योजयेत् । उत्तानौ तु करौ कृत्वा दर्शयेच् छश कर्णिकाम् ॥ १०

अञ्जलिम् नियताम् कृत्वा हृद्देशे तु समाहिताम् । अङ्गुष्ठौ तु निपीड्येते मध्यतो निबिडाङ्गुलिम् ॥ ११

आवाहनी प्रयोक्तव्या देवदेवस्य चासने । निपीडयेत्तथाङ्गुष्ठौ हस्तयोरुभयोरपि ॥ १२

तयोश्चाभिमुखम् कृत्वा निष्ठुराम् च प्रयोजयेत् । अङ्गुष्ठौ तु नतौ कृत्व हस्तयोरुभयोरपि ॥ १३

उभौ चाभिमुखौ कृत्वा कालकण्ठीम् प्रयोजयेत् । अङ्गुष्ठौ उन्नतम् कृत्वा मुष्टिम् पाणौ तु दक्षिणे ॥ १४

प्रक्षिपेद्धस्तमध्ये तु वामहस्तस्य मन्त्रवित् । दक्षिणे तु तथा पाणौ शेषाः कुर्यात् तथोपरि ॥ १५

लिङ्गमुद्रा महावीर्या विज्ञेया शिवपूजने । एताएव महामुद्राः शिवस्य परमात्मनः ॥ १६

आनुपूर्व्या प्रयोक्तव्या मन्त्रणाम् च विशेषतः । इत्येताः साधक विधौ गुह्यमन्त्राः प्रकीर्तिताः ॥ १७


= मुद्रामन्त्राः = <poem> ॐ नमो नमः ॐ उपकल्पाय ध्यानाधिपतये ॐ शशकर्णी शशकर्णी ॐ मुकुली मुकुला ॐ पद्मोद्भवे ॐ अनन्तरूपाय जटिलाय ॐ प्रपीडनाय ॐ कालकल्पाशनि हुं फट् ॐ नमः शिवाय शिवतराय नमो नमः </poem>


६. पञ्चब्रह्मकलाविधिः

अथब्रह्ममयम् गुह्यम् शिवकायात्म संस्थितम् । कलाभेदम् प्रवक्ष्यामि तच्छृणुध्वम् यथाक्रमम् ॥

अष्टौ त्रयोदशाष्टौ च चतस्रः पञ्च एव च । पञ्चानामानुपूर्व्येण कलाभिन्ना यथाक्रमम् ॥

ताः प्रवक्ष्याम्यशेषेण कलाः शैवागमस्थिताः । सद्यः कलाभिरष्टभिर्वामदेवे त्रयोदश ॥

अघोरमपि चाष्टाभिश्चतस्रः पुरुषे तथा । ईशानम् पञ्चधा भित्त्वा सकलम् विन्यसेच्छिवम् ॥

आचार्येच शिवे अग्नौ च कलाः ह्येताः प्रयोजयेत् । सद्योजातश्च सद्यश्च भवश्चाभव एव च ॥

तथानादिभवश्चैव भजस्वेति भवोद्भवौ । वामो ज्यष्ठश्च रुद्रश्च कालश्चैव कलस्तथा ॥

विकरणश्च बलश्चैव विकरणो अथ बलस्तथा । प्रमथो दमनश्चैव मनश्चोन्मन एव च ॥

अघोरश्चाथ घोरश्च घोरो घोरतरस् तथा । सर्वतः सर्वरुद्रश्च रूपश्च हृदयम् विदुः ॥

तत्पुरुषो महादेवो रुद्रश्चेति प्रचोदयात् । चत्वार्येतानि वक्त्राणि कल्पयेन्नियतः शुचिः ॥

ईशान ईश्वरो ब्रह्मा शिवश्चेति सदाशिवः । मूर्धानम् पञ्चधा भित्त्वा शिवस्य परिकल्पयेत् ॥ १०

सद्यद्वयेन पादौ तु हस्तौ चापि भवाभवौ । नाशनादिभवश्चैव भजस्वेति च् वै शिरः ॥ ११

भवोद्भवौ तु बाहू तु ह्युभावेतौ प्रकीर्तितौ । सद्योमूर्ति कलाह्येताः शिवस्य परमात्मनः ॥ १२

वामदेवम् न्यसेद्गुह्ये ज्येष्ठम् लिङ्गे प्रकल्पयेत् । तस्योरू रुद्रकालौ तु नित्यमेव विनिर्दिशेत् ॥ १३

कलविकरणौ देवौ जानुनी तस्य कीर्तिताः । शिवस्य जन्घे द्वावेतौ बलो विकरणस् तथा ॥ १४

बलः प्रमथनश्चैव स्फिचावेतौ प्रकीर्तितौ । दमनश्च कटिः पार्श्वे मनश्चोन्मन एव च ॥ १५

वामदेव कलाह्येताः गुह्याङ्गेषु प्रकीर्तिताः । अघोरो हृदयम् अथाघोरो ग्रिवा प्रकीर्तिताः ॥ १६

घोरो घोरतरश्चैव तस्यांसौ तु प्रकीर्तितौ । सर्वो नाभिश्च विज्ञेयः सर्वो अस्य जठरम् भवेत् ॥ १७

रूपान्युरसि सर्वाणि पृष्ठे रुद्रम् विनिर्दिशेत् । अघोरस्य कलान्यासः सकलस्य प्रकीर्तितः ॥ १८

वक्त्रम् तत्पुरुषः पूर्वम् महादेवश्च पशिमम् । रुद्रो दक्षिणतश्चैव प्रचोदश्च तथोत्तरम् ॥ १९

चत्वार्येतानि वक्त्राणि कल्पयेन्नियतः शुचिः । ईशानः पूर्वमूर्धानम् ईश्वरश्चैव दक्षिणम् ॥ २०

ब्रह्म पश्चिमतश्चैव शिवश्चेति तथोत्तरम् । सदाशिवस्तथोर्ध्वम् तु पञ्चधा परिकल्पयेत् ॥ २१

एष इत्थम् क्रियाकाले ध्यायिनाम् सकलः शिवः । यो वेत्त्येवम् शिवम् देवम् क्रियाकाले महेश्वरम् ॥ २२

शिवध्यान समायुक्तः स गच्छति सदाशिवम् ॥ २३


७. धारणाविधिः

अथातः संप्रवक्ष्यामि ध्यानमार्ग विधिक्रमम् । सकलो निष्कल्श्चैव द्विविधस्तु शिवः स्मृतः ॥

सद्यो वामश्च घोरश्च पुरुषेशान एव च । कलाः ह्येताः समाख्यात निधनेशस्य सूरिभिः ॥

निष्कलस्तु परो देवो व्योम व्यापी महेश्वरः । प्रधान पुरुषेशानः परात्परतरः स्थितः ॥

सर्वज्ञः सर्वकर्ता च सर्वगः सर्वतोमुखः । सर्वभूतात्म भूतस्थः शिवोध्येयो शाश्वतः ॥

प्रत्याहरस् तथा ध्यानम् प्राणायामो अथ धारणा । तर्कश्च समाधिश्च षडङ्गो योग उच्यते ॥

प्रथमा धारङाग्नेयी नाभिमध्ये तु धारयेत् । तस्याम् वै धार्यमाणायाम् पापम् निर्दहति क्षणात् ॥

हृदये धारयेद्विद्वान् सौम्याम् सोमसृताम् कलाम् । तस्याम् वै धार्यमाणायाम् सर्वत्राप्यायनम् भवेत् ॥

ऐशानीम् धारयेन्मूर्ध्नि सर्वसिद्धिकरीम् नृणाम् । यया प्रयान्ति वै क्षिप्रम् शिवस्य परमम् पदम् ॥

अमृता धारणा या तु व्यापिनी तु शिवम् करी । आप्यायति सर्वत्र सर्वम् ज्ञानामृतेन च ॥

ओम्कार पूर्विकाह्येता नाभी हृदय संस्थिताः । मूर्धन्या च तथा चान्या चामृता सर्वगा शुभा ॥ १०


= धारणामन्त्राः = <poem> ॐ ज्वलद् दीप्त सहस्रे ज्वालामालिनि वस स्वैरं दीप्य दीप्य पशुपतिः

ॐ श्रीं ॐ नमः शिवाय प्लावय अमृतायामृत योनये सत्ये सत्ये शान्तब्रह्मणे वरिष्ठयोगं धर धर प्लावयामृतेन

ॐ ॐ श्रीयोगरूपायानाश्रिताय सर्वप्रभवे ज्योतीरूपाय नमः ठः ठः

ॐ नमः शिवाय अमृताय पशुतत्त्वानुग्रहायामृतरूपिणे अमृतीकुरु स्वाहा </poem>


८. दीक्षावर्गः

वचः शृत्वा ततस्तस्य रुरोस्तु महात्मनः । ऊचुः प्राञ्जलयो भूत्वा रुरुम् मुनिवरोत्तमम् ॥

भगवन् सर्वधर्मज्ञ दीक्षया मुच्यते कथम् । कथम् च शिवताम् यान्ति छिन्नमाया निबन्धनः ॥

यथा सूर्योदयम् प्राप्य तमः क्षिप्रम् विनश्यति । एवम् दीक्शाम् समासाद्य धर्माधर्मैर् विमुच्यते ॥

यथा सूर्य इमाल्लोकान् प्रकाशयति रश्मिभिः । तथा मन्त्राध्वरे देवः शक्तिभिस्तु प्रकाशते ॥

विस्फुलिङ्गा यथ क्षुद्रा हुच्चरन्ति हुताशनात् । एवम् शिवस्य देवस्य शक्तयः समुदाहृदाः ॥

व्याप्नुवन्ति शरीराणि साधकानाम् प्रयोजिताः । यथादित्यस्तु भूमिष्ठम् रश्मिभिर् हरते मलम् ॥

एवम् शक्ति समायोगाद् दीक्षितान् हरते विभुः । जलम् जले यथा क्षिप्तम् क्षीरे क्षीरम् इवार्पितम् ॥

तथैव ह्येकताम् याति दीक्षामन्त्रेण मन्त्रवित् । यथा प्रदीप्ते ज्वलने तूलराशिः समर्पितः ॥

दग्धौ निर्याति सर्वत्र न भूयस्तूलताम् व्रजेत् । एवम् वै मण्डलम् प्राप्य दीक्षामन्त्र समुद्भवः ॥

न पुनर्जन्मताम् याति दीक्षितो मनुजोत्तमः । भिन्ने देहे शिवो भूत्वा शिवधर्मैः समन्वितः ॥ १०

शिवधर्मम् अनुप्राप्य ह्यविभागाय कल्पते । यथा समुद्रम् आसाद्य नदी मिष्टाम्बु वाहिनी ॥ ११

क्षारतोयत्वम् आयाति प्रभावाद्भि महोदधैः । एवम् वै भिन्न देहस्तु शिवतत्त्वम् उपागतः ॥ १२

सकृत्समुद्र संयोगाद् विभागो नैव कल्पते ॥ १३


९. आत्मसंक्रान्तिः

अथ विद्यास्त्रविद्धीरः शिवाग्नि गुरुपूजकः । निमित्तम् अशुभो दृष्ट्वा गजवाजि रथादिषु ॥

अस्त्राणाम् अप्रसादम् वा भृशम् वा शस्त्र वीक्षितः । दीर्घान् आरोग्यसम्तप्तो गृहीतो वाथ भूभृता ॥

तथा पञ्चात्मकम् देहम् विद्यामन्त्रात्म संस्कृतम् । महाभूतानि ज्ञाग्नौ जुहुयद् अस्त्र संभवे ॥

महीतले शुचिर्भूत्वा मन्त्रयुक्तेन चेतसा । शरदर्भान् परिस्तीर्य रुद्रम् ध्यात्वास्त्र विग्रहम् ॥

जगत्सम्हार कर्तारम् ब्रह्मास्त्रम् अपराजितम् । ध्यानी विज्ञान योगेन चास्त्रम् ध्यात्वा विचक्षणः ॥

आसनम् रिचिरम् बध्वा स्वस्तिकम् पद्मम् एव वा । ऊर्ध्वकय ऋजुग्रीवो बध्वाधः करकच्छपम् ॥

दन्तान् नपीडयेद् दन्तैर् नेत्रे चार्ध निमीलिते । विषयोर्ग संरुद्धाम् विगृह्येन्द्रिय वाहिनीम् ॥

निरुद्ध प्राण संचारो नाभेरूर्ध्वम् वितस्तितः । बालसूर्य प्रतीकाशम् हृदयम् संप्रकाशते ॥

मण्डलम् तत्र सूर्यस्य तन्मध्ये सोम मण्डलम् । सोम मण्डल मध्ये तु विमलम् वह्नि मण्डलम् ॥

वह्निमण्डल मध्यस्थम् शुद्धस्फटिक सन्निभम् ॥ १०

तस्मिन् साधक चैतन्यम् विद्यास्त्रपद गोचरम् । तनोत्यस्त्रमयम् वह्निदग्धाम् वेगेन हृद्गुहाम् ॥ ११

अस्त्रम् शिरः कपालम् च भित्वा सूर्यम् प्रप्द्यते । निश्चलम् मूर्ध्नि देहस्य ज्योतिः परम मन्त्रवित् ॥ १२

अस्त्रमाया समाकृष्टो रौद्रीशक्त्येक वीरयोः । मूर्ध्नि संधानयेद् योग धारणाभिश्च निष्क्रमेत् ॥ १३

निष्क्रम्य पादयोराभिः पुनर्मूर्धानम् आश्रयेत् । मूर्धाने तु ततो लोकालोकम् बध्वा प्रभिद्य च ॥ १४

प्रकृतिम् पुरुषम् चैव सूक्ष्मतेजोमयम् महान् । सर्वभूतात्मको भूत्वा विशेत् सूक्ष्मम् महेश्वरम् ॥ १५

देहस्य देहि दर्भास्त्रम् वस्त्रेणाप्यथ वासनम् । संहारयेति भूतानि हिरण्येति शिरः स्पृशेत् ॥ १६

विद्याधिपेन होमे च ध्यायीत विधिरात्मकः । एवम् अस्त्रसमायोगान् मुच्यते नात्र संशयः ॥ १७


१०. मन्त्रार्थवर्णनम्

अथ सङ्ख्या शिवस्योक्ता चाक्षराणाम् शतत्रयम् । अष्टषष्ट्यधिकम् शम्भोर् गुह्य मन्त्रम् विनिर्गतम् ॥

मन्त्रार्थश्च पुरा प्रोक्ता विद्येशानेन शम्भवे । स एव बहुधा व्यस्तः समासादुच्यते मया ॥

पदविग्रह धात्वर्थ हेतु सधन वर्जितः । व्यपेत पक्ष दृष्टान्तः सिद्ध वाख्यावभासितः ॥

स्वभाव पुरुषाव्यक्त कर्मजालात्म वादिभिः । यो न दृष्टो महामोह तिमिराक्रान्त दृष्ट्भिः ॥

तस्य देवादिदेवस्य वक्त्रामल विनिर्गतम् । प्रवक्ष्ये शिवसद्भाव परसत्ता प्रकाशकम् ॥

ओम् इत्येकक्षरम् ब्रह्म मन्त्र तन्त्रादि लक्षणम् । महतादि विशेषान्त व्यापकम् पदम् अव्ययम् ॥

ओतम् प्रोतम् जगत्तेन मात्राभिः सर्वतो भृशम् । त्रिभिः पादैस्तु विभुना सदेवासुर मानुषम् ॥

देवयज्ञ तपो ध्यान दानाध्ययन कर्मसु । ओम्काराद्यन्तेन संबद्धो मन्त्रविद्भिः प्रकीर्तितः ॥

तस्मादिहापि प्रणवम् अग्रे मन्त्रपदम् विभोः । न्यस्त पश्चात्कलानीक वर्जितम् व्योम उच्यते ॥

व्योमेत्याकाश संज्ञेयम् निमित्तात् परिभाष्यते । व्यापकत्वात् अमेयत्वाद् व्योम इत्यभिधीयते ॥ १०

तद्वाचयति यस्मात्स भगवान् परमेश्वरः । शक्तिरश्मि समूहेन तस्माद् व्यापी सदाशिवः ॥ ११

तदेव रूपम् भगवान् बिभर्ति प्रभुरव्ययः । तेन धर्मेण युक्तत्वाद् व्योमरूपेति चोच्यते ॥ १२

तस्मै शिवाय महते सर्वगाय महात्मने । व्यापिने व्योमरूपाय पराय प्रभवे नमः ॥ १३

सर्वम् निरवशेषम् यद् व्योम उक्तम् परापरम् । ततो यस्माद् बह्गवता सर्वव्यापी ततो बहवः ॥ १४

शान्तत्वात् सर्वकृत्तत्व भावोपरति कारणात् । शिव उक्तो महातन्त्रविद्भिः सदाशिवः ॥ १५

तस्मै शिवाय गुरवे वीतराग कलाय वै । अमेयत्वात् अनन्तो अयम् अजत्वाच्च प्रकीर्तितः ॥ १६

अनादि शिवसद्भाव युक्तत्वात् परमेश्वरः । सर्वेषाम् स्वामिभावाच्च अनाथ इति शश्यते ॥ १७

अनाश्रितस्वश्रितत्वात् अन्याश्रय विवर्जितः । आश्रयो न समत्वाच्च अनाश्रित इति स्मृतः ॥ १८

वैनाशिकत्वात् सर्वेषाम् भुवनानाम् सदाशिवे । धृवेति संज्ञितम् नाम सदाशिव लक्षणम् ॥ १९

प्रशस्ति कारणत्वेन शास्यो यस्मान् न कस्यचित् । अतीतः शाश्वतत्वाच्च शाश्वतो भगवान् शिवः ॥ २०

योगो अस्य शिवसद्भावः सदाशिवम् अनामयम् । तस्मिन् व्यवस्थितो यस्मद् योगपीठः स उच्यते ॥ २१

अनादिशिवसद्भव योगयुक्तः सदाशिवः । मन्त्रयोगमये पीठे तत्रस्थस्तेन उच्यते ॥ २२

अभ्युत्थितेन योगेन शाश्वतेनानु रञ्जितः । नित्यम् योगीति तेनोक्तः शिवस्तत्त्वर्थकोविदैः ॥ २३

ध्यानम् चिन्ताभावनार्थम् कल्पना मनसः क्रिया । मनसः परिपूर्ण्त्वात् परितृप्तो भवोद्भवः ॥ २४

स्वस्थत्वात् सुप्रशान्तत्वात् परिनिर्वाणम् उत्तमम् । ध्यानाहारम् भगवती भवतीत्युपलक्ष्णा ॥ २५

प्रणवपूर्वम् उद्दिश्य संशयच्छेद कारणम् । ओम् नमः शिवाय शान्ताय सर्वस्य प्रभवे तथा ॥ २६

इति संभाव्य देवेशगणः पूर्वम् उदाहृतः । तनुम् पञ्च महामन्त्र लक्षणम् संप्रचक्षते ॥ २७

ईष्ट अग्रे स भगवान् ईशानः प्रभुरव्ययः । जगत्कृत्स्नम् महामन्त्र शक्तियोग मरीचिभिः ॥ २८

ईशान मूर्धा तेनायम् उक्तो मन्त्रे सकारणम् । महामायोत्थ जालेन व्यपेत तनुरीश्वरः ॥ २९

परमम् वदति ज्ञानम् यत्तत्पूरकम् उत्तमम् । सर्वज्ञम् शिवसद्भव प्रकाशकरणम् परम् ॥ ३०

तेन मन्त्रेण मन्त्रेशो भगवान् परमेश्वरः । प्रयुक्तम् पूरयेत्कृत्स्नम् तेन तत्पुरुषः स्मृतः ॥ ३१

अघोर रणशीलत्वात् अघोरः प्रोच्यते बुधैः । अघोरम् शान्तम् इत्युक्तम् सद्भावो हृदयम् प्रभोः ॥ ३२

तेन चार्द्रेण युक्तत्वात् अगोरहृदयः शिवः । वामो अथ विपरीतत्वात् संसारोद्गिरणादपि ॥ ३३

सर्वभवेषु गूढत्वाद् गुह्यम् इत्यभिधीयते । देवो दिवि स्थितत्वाद्दीव्यति यस्माच्च तेन वा देवः ॥ ३४

परम् अतिगुह्यो मन्त्रेणैतेन गुह्यो अयम् । सद्यः प्रसाद दानात् क्षिप्रतम आशुरिति च पर्यायाः ॥ ३५

गहनेन जायते अस्मिन् प्रधानपुरुषेश्वरान्तिके घोरे । यस्मात्तस्माद् भगवान् अजात इति चोच्यते देवः ॥ ३६

सद्योजातेन मन्त्रेण युक्तत्वात् परमेश्वरः । शिवमूर्तिविधानज्ञैः सा मूर्तिरिति पठ्यते ॥ ३७

एतैर्मन्त्रैर् महागुह्यैर् मूर्तिम् भगव्तो अव्ययाम् । निर्गुढाम् सर्वतत्त्वेषु ध्यायेन्नित्यम् समाहितः ॥ ३८

दुर्ज्ञेयत्वात् पदार्थानम् तत्त्वानम् गहनस्य च । स्थित्युत्पत्ति विनाशानाम् गुह्याद्गुह्येति वर्णितः ॥ ३९

गुह्यातिशय युक्तत्वात् अतिगुह्यो महेश्वरः । प्रकृतेर् गोपनत्वाद् गोप्ता संसारस्य सदाशिवः ॥ ४०

निधनन् नाशो जगतस्तस्य कर्ता महेश्वरः । तेनोक्तम् निधनेत्येवम् जगतः परमेश्वरः ॥ ४१

सर्वासाम् एव विद्यानाम् विद्याराजाम् तथैव च । विधाता परेमेशानो यस्मात्तमाच्छिवाधिपः ॥ ४२

ज्योतिः प्रकाश रुपाणाम् दर्शनाकृति लक्षणम् । अशेषोद्भासकरणाज् ज्योतीरूपः शिवो अव्ययः ॥ ४३

परमेश्वर रुद्राणाम् स्थितिसम्हार कर्मिणाम् । कारणेच्छा प्रवृत्तत्वात् परस्तस्मान् महेश्वरः ॥ ४४

तस्मै देवादिदेवाय पराय परमाय च । याथातथ्य गुणौघेन युक्ताय परमात्मने ॥ ४५

चेतनासर्वभूतानाम् सुखदुह्खादि लक्षणा । सा चेन्न विद्यते यस्मात् तेन देवो ह्यचेतनः ॥ ४६

चेतनानाम् असम्पर्काद् अचेतन इतीरितः । अचेतनो ह्यचिन्त्यत्वात् सूक्ष्मत्वाच्चाप्यचेतनः ॥ ४७

चेतनानाम् अगम्यत्वात् अचेतन इति स्मृतः । द्विरभ्यासपदम् चास्य संशयच्छेद कारणम् ॥ ४८

व्योमादिष्वपि बोद्धव्यम् द्विरभ्यास पदेषु वै । व्योमेति पूरवमेवोक्तम् गगनाख्या समासतः ॥ ४९

तेन धर्मेण युक्तत्वाद् भगवान् व्योम उच्यते । परम् व्योमापरम् चैव तन्त्रेस्मिन् समुदाहृतम् ॥ ५०

मायातीतम् परम् व्योम साञ्जनम् त्वपरम् स्मृतम् । निरञ्जने परे व्योम्नि नित्यस्थः कारणो अव्ययः ॥ ५१

साञ्जनम् शक्तिकिरणैर् अधितिष्ठति शम्करः । व्योमव्योमेति तेनोक्तः कारणेन सदाशिवः ॥ ५२

व्यापकत्वाच्च सर्वस्य व्यापी संप्रकीर्तितः । रूपिणाम् परमेशानाम् ब्रह्मादीनाम् सदाशिवः ॥ ५३

ज्ञानगम्यो महामन्त्र योगयोगी महेश्वरः । स्रष्तृत्वात्सर्वभूतानाम् सर्वज्ञत्वाच्च कारणात् ॥ ५४

अनादिसत्त्वाद् भगवान् प्रथमस्तु निगत्यते । प्रकाश करणत्वाच्च तेजस्तेज इति स्मृतः ॥ ५५

सर्वेषाम् ज्योतिषाम् आदिनिधिश्च भगवान् शिवः । यदिन्धनाग्नि संयोगात् सोमार्कमणिजम् च यत् ॥ ५६

तेजस्तस्मात् सुसम्पूर्णम् कारणम् ज्योतिरुत्तमम् । तद् धूमभस्म रहितम् तेजसाम् अनुरञ्जकम् ॥ ५७

शैवम् परमनिर्वाणम् आद्यन्तम् ज्योतिषाम् निधिः । अनादि निधनाभावान् नित्यत्वात् तेजसाम् निधिः ॥ ५८

अनादिरिति विज्ञेयम् नाम देवस्य शाश्वतम् । नानानेति च यत्प्रोक्तम् गुह्यमन्त्रपदम् विभोः ॥ ५९

परमेश्वर क्षेत्रज्ञ पितामह इति त्रिकम् । ना इति पुरुषस्याख्या प्रथिता परमेश्वरस्य पुरुषस्य ॥ ६०

पूरयति पोष्यति च यस्मत्तस्माच्छिवः पुरुषः । नानानासम्हारः प्रोक्तः पुरुषत्रय कारणस्य देवस्य ॥ ६१

गुह्ये मन्त्रपदे अस्मिन् संहारकर पदम् प्रोक्तम् । ओम् भूः सत्यवाचित्वान् नित्य पदार्थस्य वाचकः शब्दः । शिवमन्त्र पदार्थानाम् संशयनिवृत्ति हेत्वर्थः ॥ ६२

ओम् भुव इति च प्रोक्तम् भुवनानि यथाक्रमम् । शुद्धाशुद्धान्यशेषाणि निधनेशवशानि तु ॥ ६३

ओम् सुवः प्रभोः पदम् इदम् अपरम् यत्प्रकीर्तितम् । तद्ध्येयम् योगिभिर्नित्यम् शिवतत्त्वार्थकोवोदैः ॥ ६४

अनिधन इति यत्प्रोक्तम् नित्यम् वदन्ति देवस्य । न विनश्यतीति भगवान् अनिधन इति विशेषतः कथितः ॥ ६५

संहरति देवदेवः सृजति यस्माच्च सर्वभूतानि । शिवतत्त्व विधानज्ञैः रुद्रो निधनोद्भवो रुद्रः ॥ ६६

शिव सर्वेति यदुक्तम् त्वशिवाभावाच्छिवस्य देवस्य । परमात्मनि स्थितत्वात् सर्वेषाम् तेन परमात्मा ॥ ६७

महताम् परमेशानाम् सर्वेषाम् प्रलयसर्ग कर्तृणाम् । पूज्येश्वर भावत्वात् तेनेह महेश्वरः शम्भुः ॥ ६८

महान् भवति सर्वेषाम् पूज्यत्वाद् योगिनाम् शिवः । देवो दिवि स्थितत्वाच्च महादेवस् ततो भवः ॥ ६९

सर्वेश्वर प्रसङ्गाद् अनीश्वरे अपीश्वराभिधानाच्च । सद्भावेश्वर शब्दः सदाशिवे सूरिभिः प्रोक्तः ॥ ७०

महतामपि सर्वेषाम् परमशिवस्तेजसाम् महातेजः । योगी च योगिनामपि योगाधिपतिर् भवस्तस्मात् ॥ ७१

मुञ्चति गहन निबन्धान् मायाविषयित्व योक्तृ बन्धेन । मायाभिज्ञो भगवान् दीक्षानिपुणेन हस्तेन ॥ ७२

मुञ्चति तेन हि गुह्यम् मन्त्रपदम् मुदा विप्रः । प्रथयति पाशान् बहुशः प्रथमेत्यभिधीयते तेन ॥ ७३

शरणार्थिनाम् अणूनाम् त्राता महतो भयात्यतः शर्वः । शरणाद् वरणाच्च देवः शर्व इति विभाव्यते तज् ज्ञैः ॥ ७४

भावेन भवतीति च भावयितव्यो भवोद्भव्ह् प्रकृतिकर्ता । आमन्त्राणादि युक्तैर् गुह्यपदैः स्तूयते शम्भुः ॥ ७५

सर्वेषाम् भूतानाम् संसारवियोजकम् परम् सूक्ष्मम् । सुखम् आत्यन्तिकम् अकृतकम् अनुपमम् उपयच्छते देवः ॥ ७६

सान्निध्यम् मन्त्रोयम् स्मृतमात्रः साधकस्य शिवलिङ्गे । कुरुते यस्मात् तस्मात् सान्निध्यकरः शिवः प्रोक्तः ॥ ७७

ब्रह्मा विष्णुश्च रुद्रस्यो अपि सर्वस्य कारणम् जगतः । तेभ्यः परः प्रज्ञैः परमश्वः प्रोच्यते कर्ता ॥ ७८

सूक्ष्माणान् सूक्ष्मत्वद् विकरण धर्मेषु विकरणो भगवान् । ग्य्ह्येष्वपि गुह्यत्वात् अचिन्त्यभावो ह्यचिन्त्यत्वात् ॥ ७९

ज्ञानाम् सर्वेषाम् प्रगमत्वाद् अनर्चितो देवः । तस्मद् अनर्चित इति भगवान् उक्तश्च तन्त्रे अस्मिन् ॥ ८०

न स्तूयते स्तुतो वा ब्रह्मादिभिरप्यदृष्ट पूर्वत्वात् । तस्मद् असंस्तुत इति भगवान् उक्तश्च तन्त्रे अस्मिन् ॥ ८१

संस्थाप्यते स्वतो वा नित्यस्थत्वाच्छिवः परे व्योम्नि । पूर्वस्थितोप्यभिहितः परमेशो मन्त्र तन्त्रज्ञैः ॥ ८२

साक्षात्सर्व पशूनाम् धर्माधर्मादिकम् कृतम् कर्म । साक्षी च सर्वतो अक्षः पश्यति भगवान् अतः साक्षी ॥ ८३

त्वरितम् शिवसायुज्यम् प्रयच्छते साधकस्य देवेशः । तुरुतुर्वेति तन्त्रर्थो अयम् क्षिप्रत्वाच्चैव दीक्षायाः ॥ ८४

तेजोमूर्त्यभिधानम् पतङ्ग इति मन्त्र लक्षणम् प्रोक्तम् । पिङ्ग पिङ्गेति तेजस्थम् प्रवदन्ति मन्त्रतन्त्रज्ञः ॥ ८५

ज्ञानम् शिवपदबोधः संयक्चेदम् परापरम् रूपम् । यच्चान्यस्मिन् तन्त्रे न विद्यते सर्व दर्शित्वात् ॥ ८६

यावन् वर्ण विवेकः संयोग विभाग लक्षणः सूक्ष्मः । श्रोत्रेन्द्रियार्थ परमः शब्दो असौ कारणेशानः ॥ ८७

सूक्ष्मो ह्यचिन्त्य रूपो व्याख्यातः पूर्वमेव तन्त्रे अस्मिन् । द्विरभिहितः परमशिवः संशयनिवृत्ति दर्शिभिः सर्वैः ॥ ८८

सर्वज्ञः सर्वपरः सर्वेशः सर्वकृत् स्वतन्त्रश्च । सर्वात्मा सर्वेषाम् प्रभवस्थितिलयकृच्छिवः परमः ॥ ८९

सर्वमिति निरवशेषम् परापरज्ञानम् उत्तमम् गुह्यम् । मायाबन्ध विमोक्षम् ददाति सर्वप्रदस् तस्मात् ॥ ९०

शिव इति समात्मकत्वाच्छान्तत्वाद् ईश्वरः प्रोक्तः । तस्मै शिवाय कुरुते नम इति शान्ताय देवाय ॥ ९१

नम इति प्रभुत्वे अयम् धात्वर्थः प्रोच्यते विकरज्ञैः कारणकार्य विभागम् कुरुते परमेश योगम् च ॥ ९२

युग्मम् प्रोक्तम् तत्रैकम् कारणस्य देवस्य । कार्यत्वस्य वियोगम् कुरुते विनिवृत्ति हेत्वर्थम् ॥ ९३

एवम् ब्रह्मादीनाम् युग्मायुग्मम् पुनर्नमस्कारः । कारणकार्य विभागम् छिनत्ति मायाञ्जनम् सर्वम् ॥ ९४

अन्यत् संयोगकरम् नम इति युग्मम् परस्य देवस्य । अष्टावेते शुद्धाः कार्यमन्त्रे परा नमस्काराः ॥ ९५

प्रणवाश्च नव प्रोक्ता मन्त्रशरीरे शिवस्य सर्वस्मिन् । दश चोक्ता मन्त्रपराः शुद्धाः परमा नमस्काराः ॥ ९६

विंशति त्रीणि युतानि सप्तविंशति संप्रदानानि । शेषपदानि तु षड्विंशतिः पदानि बद्धानि सर्वतश्चान्तः ॥ ९७

त्रिंशत् तत्त्वानि प्रोक्तानि शम्करेण विभागशः । अस्मिन् माहेश्वरे तन्त्रे परिसम्ख्याय तत्त्वतः ॥ ९८

विकाराः षोडश प्रोक्ता दश प्रकृतयस्तथा । पुरुषो विद्य राग तत्त्वम् शिवतत्त्वम् च त्रिंशकम् ॥ ९९

कलाव्यक्तम् गुणा बुद्धिरहङ्कारस् तथैव च । तन्मात्राणि तथा पञ्च एताः प्रकृतयो दश ॥ १००

इन्द्रियाणि दशैकम् च महाभूतानि पञ्च च । विकाराः षोडश त्वेते यैस्तु सर्वम् इदम् ततम् ॥ १०१

उक्तः समासतो अर्थः परमार्थविदा शिवेन तन्त्रे अस्मिन् । आत्रेयविशुद्धकुलान्वयाय गुरुणा प्र्बोधाय ॥ १०२

इदम् पुरा कारणवक्त्रपद्माद्विनिह्सृतम् तद्बहुधा विभिन्नम् । विद्येशव्रैः कारणतुल्य रूपैर् मन्त्रक्रियामण्डल संप्रयोगैः ॥ १०३

कोट्या निबद्धम् परमेश्वरेण शैवम् पदम् मतृगणैरुपेतम् । तदेव सर्वम् कृतवान्महात्मा भृगूत्तमो द्वादशभिस् सहस्रैः ॥ १०४

तदेव बुद्ध्व निखिलम् हि भार्गवात् परापरज्ञानम् अनुक्रमेण । सहस्रमेकम् द्विशतम् च सो अवदद् रुरुर्महात्मा जगतो हिताय ॥ १०५

इदम् परमशिवार्णवान् मुनिर्विमथ्य तन्त्रामृतम् उत्तमम् शिवम् । शिवेरितो विदित परापरो रुरुश् चकार तन्त्रार्णव संग्रहम् पुनः ॥ १०६

इमम् हि यो रौरवसूत्रसम्ग्रहम् पठेदणुर्व्यपगत पाशबन्धनः । विभिद्य लोकान् कनकाण्ड्जन्मनः स याति वै परमशिवान्तिकम् बुधा ॥ १०७

ये चात्रासनमन्त्रजात निरताः संसेवनात्प्राङ्मुखाः शम्भोः पादनिपात हृष्ट शिरसः प्रत्यग्र तापद्विषः । तेषाम् आशु निगूढनूपुर रवा चञ्चचलन् मेखला संभ्रान्तानन पङ्कजोद्यतकरा पर्येति लक्ष्मीः पदम् ॥ १०८

शिवभक्तस्य शान्तास्य महोत्साह रताय च । त्रिवर्षाभ्यन्तरात्सिद्धिर् हस्तमेति न संशयः ॥ १०९

व्यक्ताव्यक्त कलापमालम् अतुलम् त्यक्त्वास्पदम् जन्मनो मोहायास जरादियोगकलिलम् मायामयम् बन्धनम् । शैवज्ञान पदार्थवारिभिरमलम् प्रक्षालितात्मा शिवम् सूक्ष्मम् शान्तम् अजम् प्रयाति परमम् शम्भोः पदम् निष्कलम् ॥ ११०


Matrika und heilige Lautordnung: Im Tantra gilt Schrift nicht nur als Zeichen, sondern als Träger von Mantra-Shakti.
Mandala und Yantra veranschaulichen die gestufte Entfaltung des Einen in viele Ebenen – ein Grundmotiv des Raurava Agama.

Alle Wiki Artikel zum Raurava Agama:

Videos

Textgrundlage

  • S. P. Sabharathnam Sivacharyar, Rauravāgama – Vidyāpāda, Sanskrit/Transliteration mit englischer Übersetzung.
  • N. R. Bhatt (Hg.), Rauravāgama, 3 Bände, Institut Français de Pondichéry, Publications de l’Institut Français d’Indologie 18.