Mahanirvana Tantra Sanskrit Devanagari

Aus Yogawiki

Mahanirvana Tantra Sanskrit Devanagari führt in die Sprache einer tantrischen Lehre, die Mantra, Hingabe und die Erkenntnis des einen Brahman miteinander verbindet. Im Gespräch zwischen Shiva und Parvati wird das Leben selbst zum Ort der spirituellen Suche: im Herzen des Meditierenden, in der Verehrung der Göttin und im Dienst am Wohl anderer. Die vierzehn Kapitel reichen von der Brahman-Meditation über die Praxis Adya Kalis bis zur Erkenntnis des freien Selbst.

In Devanagari tritt die Lautgestalt des Sanskrit in ihrer vertrauten indischen Schrift vor Augen. Wer die Schrift liest oder lernt, kann einen kurzen Abschnitt zunächst aufmerksam betrachten und ihn anschließend mit der IAST-Umschrift vergleichen. Mit der deutschen Übersetzung unter Mahanirvana Tantra erschließt sich dabei auch die Bedeutung: Klang und Erkenntnis gehören in der Mantralehre dieses Werkes zusammen.

Für einen Einstieg bieten sich die Brahman-Meditation in 3.50, der Lobpreis in 3.59–63, die inneren Gaben in 5.143–149 und die Lehre vom Selbst in 14.129–139 an. Ein kleiner, mit Aufmerksamkeit gelesener Abschnitt kann die eigene Meditation begleiten. Für die Rezitation ausgewählter Formeln stehen Mantras mit Bedeutung und Erläuterung bereit; die verschlüsselten Ritualangaben des Gesamttextes gehören dagegen in den Zusammenhang traditioneller Unterweisung.

So kann das Studium eine Form von Svadhyaya werden: ein Lesen, das die eigene Erfahrung befragt und die Praxis des Yoga vertieft. Einführung und vollständige deutsche Übersetzung stehen unter Mahanirvana Tantra, die andere Sanskritdarstellung unter Mahanirvana Tantra Sanskrit IAST.

Sanskrittext

Kapitel १

Die Göttin fragt nach dem Wohl der Welt.

१.१
गिरीन्द्रशिखरे रम्ये नानारत्नोपशोभिते ।
नानावृक्षलताकीर्णे नानापक्षिरवैर्युते ॥ १ ॥

१.२
सर्वर्तुकुसुमामोदमोदिते सुमनोहरे ।
शैत्यसौगन्ध्यमान्द्याढ्यमरुद्भिरुपवीजिते ॥ २ ॥

१.३
अप्सरोगणसङ्गीतकलध्वनिनिनादिते ।
स्थिरच्छायद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥ ३ ॥

१.४
मत्तकोकिलसन्दोहसङ्घुष्टविपिनान्तरे ।
सर्वदा स्वगणैः सार्द्धमृतुराजनिषेविते ॥ ४ ॥

१.५
सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते ।
तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ५ ॥

१.६
सदाशिवं सदानन्दं करुणामृतसागरम् ।
कर्पूरकुन्दधवलं शुद्धसत्त्वमयं विभुम् ॥ ६ ॥

१.७
दिगम्बरं दीननाथं योगीन्द्रं योगिवल्लभम् ।
गङ्गाशीकरसंसिक्तजटामण्डलमण्डितम् ॥ ७ ॥

१.८
विभूतिभूषितं शान्तं व्यालमालं कपालिनम् ।
त्रिलोचनं त्रिलोकेशं त्रिशूलवरधारिणम् ॥ ८ ॥

१.९
आशुतोषं ज्ञानमयं कैवल्यफलदायकम् ।
निर्विकल्पं निरातङ्कं निर्विशेषं निरञ्जनम् ॥ ९ ॥

१.१०
सर्वेषां हितकर्तारं देवदेवं निरामयम् ।
प्रसन्नवदनं वीक्ष्य लोकानां हितकाम्यया ।
विनयावनता देवी पार्वती शिवमब्रवीत् ॥ १० ॥

१.११
श्रीपार्वत्युवाच ।
देवदेव जगन्नाथ मन्नाथ करुणानिधे ।
त्वदधीनाऽस्मि देवेश तवाऽज्ञाकारिणी सदा ॥ ११ ॥

१.१२
विनाऽज्ञया मया किञ्चिद्भाषितुं नैव शक्यते ।
कृपावलेशो मयि चेत् स्नेहोऽस्ति यदि मां प्रति ।
तदा निवेद्यते किञ्चिन्मनसा यद्विचारितम् ॥ १२ ॥

१.१३
त्वदन्यः संशयस्याऽस्य कस्त्रिलोक्यां महेश्वर ।
छेत्ता भवितुमर्हो वा सर्वज्ञः सर्वशास्त्रवित् ॥ १३ ॥

१.१४
श्रीसदाशिव उवाच ।
किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे ।
यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥ १४ ॥

१.१५
तवाग्रे कथयिष्यामि सुगोप्यमपि यद्भवेत् ।
किमस्ति त्रिषु लोकेषु गोपनीयं तवाग्रतः ॥ १५ ॥

१.१६
मम रूपाऽसि देवि त्वं न भेदोऽस्ति त्वया मम ।
सर्वज्ञा किं न जानासि त्वनभिज्ञेव पृच्छसि ॥ १६ ॥

१.१७
इति देववचः शृत्वा पार्वती हृष्टमानसा ।
विनयावनता साध्वी परिपप्रच्छ शङ्करम् ॥ १७ ॥

१.१८
श्री आद्योवाच ।
भगवन् सर्वभूतेश सर्वधर्मविदां वर ।
कृपावता भगवता ब्रह्मान्तर्यामिना पुरा ॥ १८ ॥

१.१९
प्रकाशिताश्चतुर्वेदाः सर्वधर्मोपवृंहिताः ।
वर्णाश्रमादिनियमा यत्र चैव प्रतिष्ठिताः ॥ १९ ॥

१.२०
तदुक्तयोगयज्ञाद्यैः कर्मभिर्भुवि मानवाः ।
देवान् पितॄन् प्रीणयन्तः पुण्यशीलाः कृते युगे ॥ २० ॥

१.२१
स्वाध्यायध्यानतपसा दयादानैर्जितेन्द्रियाः ।
महाबला महावीर्यया महासत्त्वपराक्रमाः ॥ २१ ॥

१.२२
देवायतनगा मर्त्या देवकल्पा दृढव्रताः ।
सत्यधर्मपराः सर्वे साधवः सत्यवादिनः ॥ २२ ॥

१.२३
राजानः सत्यसङ्कल्पाः प्रजापालनतत्पराः ।
मातृवत् परयोषित्सु पुत्रवत् परसूनुषु ॥ २३ ॥

१.२४
लोष्टवत् परवित्तेषु पश्यन्तो मानवास्तदा ।
आसन् स्वधर्मनिरताः सदा सन्मार्गवर्त्तिनः ॥ २४ ॥

१.२५
न मिथ्याभाषिणः केचित् न प्रमादरताः क्वचित् ।
न चौरा न परद्रोहकारका न दुराशयाः ॥ २५ ॥

१.२६
न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः ।
सदन्तःकरणाः सर्वे सर्वदाऽनन्दमानसाः ॥ २६ ॥

१.२७
भूमयः सर्वशस्याढ्याः पर्ज्जन्याः कालवर्षिणः ।
गावोऽपि दुग्धसम्पन्नाः पादपाः फलशालिनः ॥ २७ ॥

१.२८
नाऽकालमृत्युस्तत्रासीत् न दुर्भिक्षं न वा रुजः ।
हृष्टाः पुष्टाः सदारोग्यास्तेजोरूपगुणान्विताः ।
स्त्रियो न व्यभिचारिण्यः पतिभक्तिपरायणः ॥ २८ ॥

१.२९
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारवर्तिनः ।
स्वैः स्वैर्धर्मैर्यजन्तस्ते निस्तारपदवीं गताः ॥ २९ ॥

१.३०
कृते व्यतीते त्रेतायां दृष्ट्वा धर्मव्यतिक्रमम् ।
वेदोक्तकर्मभिर्मर्त्या न शक्ताः स्वेष्टसाधने ॥ ३० ॥

१.३१
बहुक्लेशकरं कर्म वैदिकं भूरिसाधनम् ।
कर्तुं न योग्या मनुजाश्चिन्ताव्याकुलमानसाः ॥ ३१ ॥

१.३२
त्यक्तुं कर्तुं न चार्हन्ति सदा कातरचेतसः ।
वेदार्थयुक्तशास्त्राणि स्मृतिरूपाणि भूतले ॥ ३२ ॥

१.३३
तदा त्वं प्रकटीकृत्य तपः स्वाध्यायदुर्बलान् ।
लोकानतारयः पापात् दुःखशोकामयप्रदात् ॥ ३३ ॥

१.३४
त्वां विना कोऽस्ति जीवानां घोरसंसारसागरे ।
भर्त्ता पाता समुद्धर्त्ता पितृवत् प्रियकृत् प्रभुः ॥ ३४ ॥

१.३५
ततोऽपि द्वापरे प्राप्ते स्मृत्युक्तसुकृतोज्झिते ।
धमार्द्धलोपे मनुजे आधिव्याधिसमाकुले ।
संहिताद्युपदेशेन त्वयैवोद्धारिता नराः ॥ ३५ ॥

१.३६
आयाते पापिनि कलौ सर्वधर्मविलोपिनि ।
दुराचारे दुष्प्रपञ्चे दुष्टकर्मप्रवर्तके ॥ ३६ ॥

१.३७
न वेदाः प्रभवस्तत्र स्मृतीनां स्मरणं कुतः ।
नानेतिहासयुक्तानां नानामार्गप्रदर्शिनाम् ॥ ३७ ॥

१.३८
बहुलानां पुराणानां विनाशो भविता विभो ।
तदा लोका भविष्यन्ति धर्मकर्मवहिर्मुखाः ॥ ३८ ॥

१.३९
उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा ।
कामुका लोलुपाः क्रूरा निष्ठुरा दुर्मुखाः शठाः ॥ ३९ ॥

१.४०
स्वल्पायुर्मन्दमतयो रोगशोकसमाकुलाः ।
निःश्रीका निर्बला नीचा नीचाचारपरायणाः ॥ ४० ॥

१.४१
नीचसंसर्गनिरताः परवित्तापहारकाः ।
परनिन्दापरद्रोहपरिवादपराः खलाः ॥ ४१ ॥

१.४२
परस्त्रीहरणे पापशङ्काभयविवर्जिताः ।
निर्धना मलिना दीना दरिद्राश्चिररोगिणः ॥ ४२ ॥

१.४३
विप्राः शूद्रसमाचाराः सन्ध्यावन्दनवर्जिताः ।
अयाज्ययाजका लुब्धा दुर्वृत्ताः पापकारिणः ॥ ४३ ॥

१.४४
असत्यभाषिणो मूर्खा दाम्भिका दुष्प्रपञ्चकाः ।
कन्याविक्रयिणो व्रात्यास्तपोव्रतपराङ्मुखाः ॥ ४४ ॥

१.४५
लोकप्रतारणार्थाय जपपूजापरायणाः ।
पाषण्डाः पण्डितम्मन्याः श्रद्धाभक्तिविवर्जिताः ॥ ४५ ॥

१.४६
कदाहाराः कदाचारा भृतकाः शूद्रसेवकाः ।
शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः ॥ ४६ ॥

१.४७
दास्यन्ति धनलोभेन स्वदारान्नीचजातिषु ।
ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् ॥ ४७ ॥

१.४८
नैव पानादिनियमो भक्ष्याभक्ष्यविवेचनम् ।
धर्मशास्त्रे सदा निन्दा साधुद्रोही निरन्तरम् ॥ ४८ ॥

१.४९
सत्कथालापमात्रञ्च न तेषां मनसि क्वचित् ।
त्वया कृतानि तन्त्राणि जीवोद्धारणहेतवे ॥ ४९ ॥

१.५०
निगमागमजातानि भुक्तिमुक्तिकराणि च ।
देवीनां यत्र देवानां मन्त्रयन्त्रादिसाधनम् ।
कथिता बहवो न्यासाः सृष्टिस्थित्यादिलक्षणाः ॥ ५० ॥

१.५१
बद्धपद्मासनादीनि गदितान्यपि भूरिशः ।
पशुवीरदिव्यभावा देवता मन्त्रसिद्धिदाः ॥ ५१ ॥

१.५२
शवासनं चितारोहो मुण्डसाधनमेव च ।
लतासाधनकर्माणि त्वयोक्तानि सहस्रशः ॥ ५२ ॥

१.५३
पशुभावदिव्यभावौ स्वयमेव निवारितौ ।
कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् ॥ ५३ ॥

१.५४
पत्रं पुष्पं फलं तोयं स्वयमेवाहरेत् पशुः ।
न शूद्रदर्शनं कुर्ययात् मनसा न स्त्रियं स्मरेत् ॥ ५४ ॥

१.५५
दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा ।
द्वन्द्वातीतो वीतरागः सर्वभूतसमः क्षमी ॥ ५५ ॥

१.५६
कलिकल्मषयुक्तानां सर्वदाऽस्थिरचेतसाम् ।
निद्रालस्यप्रसक्तानां भावशुद्धिः कथं भवेत् ॥ ५६ ॥

१.५७
वीरसाधनकर्माणि पञ्चतत्त्वोदितानि च ।
मद्यं मांसं तथा मत्स्यमुद्रामैथुनमेव च ।
एतानि पञ्चतत्त्वानि त्वया प्रोक्तानि शङ्कर ॥ ५७ ॥

१.५८
कलिजा मानवा लुब्धाः शिश्नोदरपरायणाः ।
लोभात्तत्र पतिष्यन्ति न करिष्यन्ति साधनम् ॥ ५८ ॥

१.५९
इन्द्रियाणां सुखार्थाय पीत्वा च बहुलं मधु ।
भविष्यन्ति मदोन्मत्ता हिताहितविवर्जिताः ॥ ५९ ॥

१.६०
परस्त्रीधर्षकाः केचिद्दस्यवो - बहवो भुवि ।
न करिष्यन्ति ते मत्ताः पापायोनिविचारणम् ॥ ६० ॥

१.६१
अतिपानादिदोषेण रोगिणो बहवः क्षितौ ।
शक्तिहीना बुद्धिहीना भूत्वा च विकलेन्द्रियाः ॥ ६१ ॥

१.६२
ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्वतादपि ।
पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः ॥ ६२ ॥

१.६३
केचिद्विवादयिष्यन्ति गुरुभिः स्वजनैरपि ।
केचिन्मौना मृतप्राया अपरे बहुजल्पकाः ॥ ६३ ॥

१.६४
अकार्यकारिणः क्रूरा धर्ममार्गविलोपकाः ।
हिताय यानि कर्माणि कथितानि त्वया प्रभो ॥ ६४ ॥

१.६५
मन्ये तानि महादेव विपरीतानि मानवे ।
के वा योगं करिष्यन्ति न्यासजातानि केऽपि वा ॥ ६५ ॥

१.६६
स्तोत्रपाठं यन्त्रलिपिं पुरश्चर्यां जगत्पते ।
युगधर्मप्रभावेण स्वभावेन कलौ नराः ।
भविष्यन्त्यतिदुर्वृत्ताः सर्वथा पापकारिणः ॥ ६६ ॥

१.६७
तेषामुपायं दीनेश कृपया कथय प्रभो ।
आयुरारोग्यवर्चस्यं बलवीर्यविबर्द्धनम् ॥ ६७ ॥

१.६८
विद्याबुद्धिप्रदं नॄणामप्रयत्नशुभङ्करम् ।
येन लोका भविष्यन्ति महाबलपराक्रमाः ॥ ६८ ॥

१.६९
शुद्धचित्ताः परहिता मातापित्रोः प्रियङ्कराः ।
स्वदारनिष्ठाः पुरुषाः परस्त्रीषु पराङ्मुखाः ॥ ६९ ॥

१.७०
देवतागुरुभक्ताश्च पुत्रस्वजनपोषकाः ॥ ७० ॥

१.७१
ब्रह्मज्ञा ब्रह्मविद्याश्च ब्रह्मचिन्तनमानसाः ।
सिद्ध्यर्थं लोकयात्रायाः कथयस्व हिताय यत् ॥ ७१ ॥

१.७२
कर्तव्यं यदकर्तव्यं वर्णाश्रमविभेदतः ।
विना त्वां सर्वलोकानां कस्त्राता भुवनत्रये ॥ ७२ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्नो नाम प्रथमोल्लासः ।। १ ।।

Kapitel २

२.१
इति देव्या वचः शृत्वा शङ्करो लोकशङ्करः ।
कथयामास तत्त्वेन महाकारुण्यवारिधिः ॥ १ ॥

२.२
श्रीसदाशिव उवाच ।
साधु पृष्टं महाभागे जगतां हितकारिणि ।
एतादृशः शुभः प्रश्नो न केनापि कृतः पुरा ॥ २ ॥

२.३
धन्याऽसि सुकृतज्ञाऽसि हिताऽसि कलिजन्मनाम् ।
यद्यदुक्तं त्वया भद्रे सत्यं सत्यं यथार्थतः ॥ ३ ॥

२.४
सर्वज्ञा त्वं त्रिकालज्ञा धर्मज्ञा परमेश्वरि ।
भूतं भवद्भविष्यञ्च धर्मयुक्तं त्वया प्रिये ॥ ४ ॥

२.५
यथातत्त्वं यथान्यायं यथायोग्यं न संशयः ।
कलिकल्मषदीनानां द्विजादीनां सुरेश्वरि ॥ ५ ॥

२.६
मेध्यामेध्याविचाराणां न शुद्धिः श्रौतकर्मणा ।
न संहिताद्यैः स्मृतिभिरिष्टसिद्धिर्नृणां भवेत् ॥ ६ ॥

२.७
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं मयोच्यते ।
विना ह्यागममार्गेण कलौ नास्ति गतिः प्रिये ॥ ७ ॥

२.८
श्रुतिस्मृतिपुराणादौ मयैवोक्तं पुरा शिवे ।
आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः ॥ ८ ॥

२.९
कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्तते ।
न तस्य गतिरस्तीति सत्यं सत्यं न संशयः ॥ ९ ॥

२.१०
सर्वैर्वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः ।
प्रतिपाद्योऽस्मि नान्योऽस्ति प्रभुर्जगति मां विना ॥ १० ॥

२.११
आमनन्ति च ते सर्वे मत्पदं लोकपावनम् ।
मन्मार्गविमुखा लोकाः पाषण्डा ब्रह्मघातिनः ॥ ११ ॥

२.१२
अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत् ।
निष्फलं तद्भवेद्देवि कर्ताऽपि नारकी भवेत् ॥ १२ ॥

२.१३
मूढो मन्मतमुत्सृज्य योऽन्यन्मतमुपाश्रयेत् ।
ब्रह्महा पितृहा स्त्रीघ्नः स भवेन्नात्र संशयः ॥ १३ ॥

२.१४
कलौ तन्त्रोदिता मन्त्राः सिद्धास्तूर्णफलप्रदाः ।
शस्ताः कर्मसु सर्वेषु जपयज्ञक्रियादिषु ॥ १४ ॥

२.१५
निर्वीर्याः श्रौतजातीया विषहीनोरगा इव ।
सत्यादौ सफला आसन् कलौ ते मृतका इव ॥ १५ ॥

२.१६
पाञ्चालिका यथा भित्तौ सर्वेन्द्रियसमन्विताः ।
अमूरशक्ताः कार्येषु तथान्ये मन्त्रराशयः ॥ १६ ॥

२.१७
अन्यमन्त्रैः कृतं कर्म बन्ध्यास्त्रीसङ्गमो यथा ।
न तत्र फलसिद्धिः स्यात् श्रम एव हि केवलम् ॥ १७ ॥

२.१८
कलावन्योदितैर्मार्गैः सिद्धिमिच्छति यो नरः ।
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ १८ ॥

२.१९
मद्वक्त्रादुदितं धर्मं हित्वाऽन्यद्धर्ममीहते ।
अमृतं स्वगृहे त्यक्त्वा क्षीरमार्कं स वाञ्छति ॥ १९ ॥

२.२०
नान्यः पन्था मुक्तिहेतुरिहामुत्र सुखाप्तये ।
यथा तन्त्रोदितो मार्गो मोक्षाय च सुखाय च ॥ २० ॥

२.२१
तन्त्राणि बहुधोक्तानि नानाख्यानान्वितानि च ।
सिद्धानां साधकानाञ्च विधानानि च भूरिशः ॥ २१ ॥

२.२२
अधिकारिविभेदेन पशुबाहुल्यतः प्रिये ।
कुलाचारोदितं धर्मं गुप्त्यर्थं कथितं क्वचित् ॥ २२ ॥

२.२३
जीवप्रवृत्तिकारीणि कानिचित् कथितान्यपि ।
देवा नानाविधाः प्रोक्ता देव्योऽपि बहुधाः प्रिये ॥ २३ ॥

२.२४
भैरवाश्चैव वेताला वटुका नायिका गणाः ।
शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतादयः ॥ २४ ॥

२.२५
नानामन्त्राश्च यन्त्राणि सिद्धोपायान्यनेकशः ।
भूरिप्रयाससाध्यानि यथोक्तफलदानि च ॥ २५ ॥

२.२६
यथा यथा कृताः प्रश्ना येन येन यदा यदा ।
तदा तस्योपकाराय तथैवोक्तं मया प्रिये ॥ २६ ॥

२.२७
सर्वलोकोपकाराय सर्वप्राणिहिताय च ।
युगधर्मानुसारेण याथातथ्येन पार्वति ॥ २७ ॥

२.२८
त्वया यादृक्कृताः प्रश्ना न केनापि पुरा कृताः ।
तव स्नेहेन वक्ष्यामि सारात्सारं परात्परं ॥ २८ ॥

२.२९
वेदानामागमानाञ्च तन्त्राणाञ्च विशेषतः ।
सारमुद्धृत्य देवेशि तवाग्रे कथ्यते मया ॥ २९ ॥

२.३०
यथा नरेषु तन्त्रज्ञाः सरितां जान्हवी यथा ।
यथाऽहं त्रिदिवेशानामागमानामिदं तथा ॥ ३० ॥

२.३१
किं वेदैः किं पुराणैश्च किं शास्त्रैर्बहुभिः शिवे ।
विज्ञातेऽस्मिन् महातन्त्रे सर्वसिद्धीश्वरो भवेत् ॥ ३१ ॥

२.३२
यतो जगन्मङ्गलाय त्वयाऽहं विनियोजितः ।
अतस्ते कथयिष्यामि यद्विश्वहितकृद्भवेत् ॥ ३२ ॥

२.३३
कृते विश्वहिते देवि विश्वेशः परमेश्वरि ।
प्रीतो भवति विश्वात्मा यतो विश्वं तदाश्रितम् ॥ ३३ ॥

२.३४
स एक एव सद्रूपः सत्योऽद्वैतः परात्परः ।
स्वप्रकाशः सदापूर्णः सच्चिदानन्दलक्षणः ॥ ३४ ॥

२.३५
निर्विकारो निराधारो निर्विशेषो निराकुलः ।
गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग्विभुः ॥ ३५ ॥

२.३६
गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः ।
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ ३६ ॥

२.३७
लोकातीतो लोकहेतुरवाङ्मनसगोचरः ।
स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ ३७ ॥

२.३८
तदधीनं जगत् सर्वं त्रैलोक्यं सचराचरम् ।
तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ ३८ ॥

२.३९
तत्सत्यतामुपाश्रित्य सद्वद्भाति पृथक् पृथक् ।
तेनैव हेतुभूतेन वयं जाता महेश्वरि ॥ ३९ ॥

२.४०
कारणं सर्वभूतानां स एकः परमेश्वरः ।
लोकेषु सृष्टिकरणात् स्रष्टा ब्रह्मेति गीयते ॥ ४० ॥

२.४१
विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया ।
इन्द्रादयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ ४१ ॥

२.४२
स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया ।
त्वं परा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ ४२ ॥

२.४३
तेनान्तर्यामिरूपेण तत्तद्विषययोजिताः ।
स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ ४३ ॥

२.४४
यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् ।
वर्षन्ति तोयदाः काले पुष्पन्ति तरवो वने ॥ ४४ ॥

२.४५
कालं कालयते काले मृत्योर्मृत्युर्भियो भयम् ।
वेदान्तवेद्यो भगवान् यत्तच्छब्दोपलक्षितः ॥ ४५ ॥

२.४६
सर्वे देवाश्च देव्यश्च तन्मयाः सुरवन्दिते ।
आब्रह्मस्तम्बपर्यन्तं तन्मयं सकलं जगत् ॥ ४६ ॥

२.४७
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ।
तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ ४७ ॥

२.४८
तरोर्मूलाभिषेकेण यथा तद्भुजपल्लवाः ।
तृप्यन्ति तदनुष्ठानात् तथा सर्वेऽमरादयः ॥ ४८ ॥

२.४९
यथा तवार्चनाद्ध्यानात् पूजनाज्जपनात् प्रिये ।
भवन्ति तुष्टाः सुन्दर्यस्तथा जानीहि सुव्रते ॥ ४९ ॥

२.५०
यथा गच्छन्ति सरितोऽवशेनापि सरित्पतिम् ।
तथार्चादीनि कर्माणि तदुद्देश्यानि पार्वति ॥ ५० ॥

२.५१
यो यो यान् यान् यजेद्देवान् श्रद्धया यद्यदाप्तये ।
तत्तद्ददाति सोऽध्यक्षस्तैस्तैर्देवगणैः शिवे ॥ ५१ ॥

२.५२
बहुनाऽत्र किमुक्तेन तवाऽग्रे कथ्यते प्रिये ।
ध्येयः पूज्यः सुखाराध्यस्तं विना नास्ति मुक्तये ॥ ५२ ॥

२.५३
नाऽयासो नोपवासश्च कायक्लेशो न विद्यते ।
नैवाऽचारादिनियमो नोपचाराश्च भूरिशः ॥ ५३ ॥

२.५४
न दिक्कालविचारोऽस्ति न मुद्रान्याससंहतिः ।
यत्साधने कुलेशानि तं विना कोऽन्यमाश्रयेत् ॥ ५४ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्नो नाम द्वितीयोल्लासः ।। २ ।।

Kapitel ३

३.१
श्रीदेव्युवाच ।
देवदेव महादेव देवतानां गुरोर्गुरो ।
वक्ता त्वं सर्वशास्त्राणां मन्त्राणां साधनस्य च ॥ १ ॥

३.२
कथितं यत् परं ब्रह्म परमेशं परात्परम् ।
यस्योपासनतो मर्त्यो भुक्तिं मुक्तिञ्च विन्दति ॥ २ ॥

३.३
केनोपायेन भगवन् परमात्मा प्रसीदति ।
किं तस्य साधनं देव मन्त्रः को वा प्रकीर्तितः ॥ ३ ॥

३.४
किं ध्यानं किं विधानञ्च परेशस्य परात्मनः ।
तत्त्वेन श्रोतुमिच्छामि कृपया कथय प्रभो ॥ ४ ॥

३.५
श्रीसदाशिव उवाच ।
अतिगुह्यं परं तत्त्वं शृणु मत्प्राणवल्लभे ।
रहस्यमेतत् कल्याणि न कुत्रापि प्रकाशितम् ।
तव स्नेहेन वक्ष्यामि मम प्राणाधिकं परम् ॥ ५ ॥

३.६
ज्ञेयं भवति तद्ब्रह्म सच्चिद्विश्वमयं परम् ।
तथा तत्त्वस्वरूपेण लक्षणैर्वा महेश्वरि ॥ ६ ॥

३.७
सत्तामात्रं निर्विशेषमवाङ्मनसगोचरम् ।
असत्त्रिलोकीसद्भानं स्वरूपं ब्रह्मणः स्मृतम् ॥ ७ ॥

३.८
समाधियोगैस्तद्वेद्यं सर्वत्र समदृष्टिभिः ।
द्वन्द्वातीतैर्निर्विकल्पैर्देहात्माध्यासवर्जितैः ॥ ८ ॥

३.९
यतो विश्वं समुद्भूतं येन जातञ्च तिष्ठति ।
यस्मिन् सर्वाणि लीयन्ते ज्ञेयं तद्ब्रह्म लक्षणैः ॥ ९ ॥

३.१०
स्वरूपबुद्ध्या यद्वेद्यं तदेव लक्षणैः शिवे ।
लक्षणैराप्तुमिच्छूनां विहितं तत्र साधनम् ॥ १० ॥

३.११
तत्साधनं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
तत्रादौ कथयाम्याद्ये मन्त्रोद्धारं महेशितुः ॥ ११ ॥

३.१२
प्रणवं पूर्वमुद्धृत्य सच्चित्पदमुदाहरेत् ।
एकं पदान्ते ब्रह्मेति मन्त्रोद्धारः प्रकीर्तितः ॥ १२ ॥

३.१३
सन्धिक्रमेण मिलितः सप्तार्णोऽयं मनुर्मतः ।
तारहीनेन देवेशि षड्वर्णोऽयं मनुर्भवेत् ॥ १३ ॥

३.१४
सर्वमन्त्रोत्तमः साक्षाद्धर्मार्थकाममोक्षदः ।
नात्र सिद्धाद्यपेक्षाऽस्ति नारिमित्रादिदूषणम् ॥ १४ ॥

३.१५
न तिथिर्न च नक्षत्रं न राशिगणनं तथा ।
कुलाकुलादिनियमो न संस्कारोऽत्र विद्यते ।
सर्वथा सिद्धमन्त्रोऽयं नात्र कार्या विचारणा ॥ १५ ॥

३.१६
बहुजन्मार्जितैः पुण्यैः सद्गुरुर्यदि लभ्यते ।
तदा तद्वक्त्रतो ज्ञात्वा जन्मसाफल्यमाप्नुयात् ॥ १६ ॥

३.१७
चतुर्वर्गं करे कृत्वा परत्रेह च मोदते ॥ १७ ॥

३.१८
स धन्यः स कृतार्थश्च स कृती स च धार्मिकः ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ १८ ॥

३.१९
सर्वशास्त्रेषु निष्णातः सर्वलोकप्रतिष्ठितः ।
यस्य कर्णपथोपान्तप्राप्तो मन्त्रमहामणिः ॥ १९ ॥

३.२०
धन्या माता पिता तस्य पवित्रं तत्कुलं शिवे ।
पितरस्तस्य सन्तुष्टा मोदन्ते त्रिदशैः सह ।
गायन्ति गायनीं गाथां पुलकाञ्चितविग्रहाः ॥ २० ॥

३.२१
अस्मत्कुले कुलश्रेष्ठो जातो ब्रह्मोपदेशिकः ।
किमस्माकं गयापिण्डैः किं तीर्थैः श्राद्धतर्पणैः ॥ २१ ॥

३.२२
किं दानैः किं जपैर्होमैः किमन्यैर्बहुसाधनैः ।
वयमक्षयतृप्ताः स्म सत्पुत्रस्यास्य साधनात् ॥ २२ ॥

३.२३
शृणु देवि जगद्वन्द्ये सत्यं सत्यं मयोच्यते ।
परब्रह्मोपासकानां किमन्यैः साधनान्तरैः ॥ २३ ॥

३.२४
मन्त्रग्रहणमात्रेण देही ब्रह्ममयो भवेत् ।
ब्रह्मभूतस्य देवेशि किमवाप्यं जगत्त्रये ॥ २४ ॥

३.२५
किं कुर्वन्ति ग्रहा रुष्टा वेतालाश्चेटकादयः ।
पिशाचा गुह्यका भूता डाकिन्यो मातृकादयः ।
तस्य दर्शनमात्रेण पलायन्ते पराङ्मुखाः ॥ २५ ॥

३.२६
रक्षितो ब्रह्ममन्त्रेण प्रावृतो ब्रह्मतेजसा ।
किं विभेति ग्रहादिभ्यो मार्तण्ड इव चापरः ॥ २६ ॥

३.२७
तं दृष्ट्वा ते भयापन्नाः सिंहं दृष्ट्वा यथा गजाः ।
विद्रवन्ति च नश्यन्ति पतङ्गा इव पावके ॥ २७ ॥

३.२८
न तस्य दुरितं किञ्चिद्ब्रह्मनिष्ठस्य देहिनः ।
सत्यपूतस्य शुद्धस्य सर्वप्राणिहितस्य च ।
को वोपद्रवमन्विच्छेदात्मापघातकं विना ॥ २८ ॥

३.२९
ये द्रुह्यन्ति खलाः पापाः परब्रह्मोपदेशिने ।
स्वद्रोहं ते प्रकुर्वन्ति नातिरिक्ता यतः सतः ॥ २९ ॥

३.३०
स तु सर्वहितः साधुः सर्वेषां प्रियकारकः ।
तस्यानिष्टे कृते देवि को वा स्यान्निरुपद्रवः ॥ ३० ॥

३.३१
मन्त्रार्थं मन्त्रचैतन्यं यो न जानाति साधकः ।
शतलक्षप्रजप्तोऽपि तस्य मन्त्रो न सिद्ध्यति ॥ ३१ ॥

३.३२
अतोऽस्यार्थञ्च चैतन्यं कथयामि शृणु प्रिये ।
अकारेण जगत्पाता संहर्ता स्यादुकारतः ॥ ३२ ॥

३.३३
मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः ।
सच्छब्देन सदा स्थायि चिच्चैतन्यं प्रकीर्तितम् ॥ ३३ ॥

३.३४
एकमद्वैतमीशानि वृहत्त्वाद्ब्रह्म गीयते ।
मन्त्रार्थः कथितो देवि साधकाभीष्टसिद्धिदः ॥ ३४ ॥

३.३५
मन्त्रचैतन्यमेतत्तु तदधिष्ठातृदेवता ।
तज्ज्ञानं परमेशानि भक्तानां सिद्धिदायकम् ॥ ३५ ॥

३.३६
अस्याधिष्ठातृ देवेशि सर्वव्यापि सनातनम् ।
अवितर्क्यं निरातङ्कं वाचातीतं निरञ्जनम् ॥ ३६ ॥

३.३७
वाङ्मायाकमलाद्येन तारहीनेन पार्वति ।
दीयते विविधा विद्या माया श्रीः सर्वतोमुखी ॥ ३७ ॥

३.३८
तारेण तारहीनेन प्रत्येकं सकलं पदम् ।
युग्मयुग्मक्रमेणाऽपि मन्त्रोऽयं विविधो भवेत् ॥ ३८ ॥

३.३९
ऋषिः सदाशिवो ह्यस्य छन्दोऽनुष्टुवुदाहृतम् ।
देवता परमं ब्रह्म सर्वान्तर्यामि निर्गुणम् ॥ ३९ ॥

३.४०
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।
अङ्गन्यासकरन्यासौ कथयामि शृणु प्रिये ॥ ४० ॥

३.४१
तारं सच्चिदेकमिति ब्रह्मेति सकलं ततः ।
अङ्गुष्ठतर्जनीमध्यानामिकासु महेश्वरि ॥ ४१ ॥

३.४२
कनिष्ठयोः करतलपृष्ठयोः सुरवन्दिते ।
नमः स्वाहा वषट् हूं वौषट् फडन्तैर्यथाक्रमम् ॥ ४२ ॥

३.४३
न्यसेन्न्यासोक्तविधिना साधकः सुसमाहितः ।
हृदादिकरपर्यन्तमेवमेव विधीयते ॥ ४३ ॥

३.४४
प्राणायामं ततः कुर्यान् मूलेन प्रणवेन वा ।
मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्वति ॥ ४४ ॥

३.४५
वामनासापुटं धृत्वा दक्षनासापुटेन च ।
पूअयेत् पवनं मन्त्री मूलमष्टमितं जपन् ॥ ४५ ॥

३.४६
अङ्गुष्ठेन दक्षनासां धृत्वा कुम्भकयोगतः ।
जपेद्द्वात्रिंशताऽवृत्त्या ततो दक्षिणनासया ॥ ४६ ॥

३.४७
शनैःशनैस्त्यजेद्वायुं जपन् षोडशधा मनुम् ।
वामनासापुटेऽप्येवं पूरकुम्भकरेचकम् ॥ ४७ ॥

३.४८
पुनर्दक्षिणतः कुर्यात् पूर्ववत् सुरपूजिते ।
प्राणायामविधिः प्रोक्तो ब्रह्ममन्त्रस्य साधने ॥ ४८ ॥

३.४९
ततो ध्यानं प्रकुर्वीत साधकाभीष्टसाधनम् ॥ ४९ ॥

३.५०
हृदयकमलमध्ये निर्विशेषं निरीहम् हरिहरविधिवेद्यं योगिभिर्ध्यानगम्यम् ।
जननमरणभीतिभ्रंसि सच्चित्स्वरूपम् सकलभुवनबीजं ब्रह्म चैतन्यमीडे ॥ ५० ॥

३.५१
ध्यात्वैवं परमं ब्रह्म मानसैरुपचारकैः ।
पूजयेत् परया भक्त्या ब्रह्मसायुज्यहेतवे ॥ ५१ ॥

३.५२
गन्धं दद्यान्महीतत्त्वं पुष्पमाकाशमेव च ।
धूपं दद्याद्वायुतत्त्वं दीपं तेजः समर्पयेत् ।
नैवेद्यं तोयतत्त्वेन प्रदद्यात् परमात्मने ॥ ५२ ॥

३.५३
ततो जप्त्वा महामन्त्रं मनसा साधकोत्तमः ।
समर्प्य ब्रह्मणे पश्चाद्वहिःपूजां समारभेत् ॥ ५३ ॥

३.५४
उपस्थितानि द्रव्याणि गन्धपुष्पादिकानि च ।
वस्त्रालङ्करणादीनि भक्ष्यपेयानि यानि च ॥ ५४ ॥

३.५५
मन्त्रेणानेन संशोध्य ध्यात्वा ब्रह्म सनातनम् ।
निमील्य नेत्रे मतिमानर्पयेत् परमात्मने ॥ ५५ ॥

३.५६
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ५६ ॥

३.५७
ततो नेत्रे समुन्मील्य जप्त्वा मूलं स्वशक्तितः ।
तज्जपं ब्रह्मसात् कृत्वा स्तोत्रञ्च कवचं पठेत् ॥ ५७ ॥

३.५८
स्तोत्रं शृणु महेशानि ब्रह्मणः परमात्मनः ।
यत् श्रुत्वा साधको देवि ब्रह्मसायुज्यमश्नुते ॥ ५८ ॥

३.५९
नमस्ते सते सर्वलोकाश्रयाय नमस्ते चिते विश्वरूपात्मकाय ।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने निर्गुणाय ॥ ५९ ॥

३.६०
त्वमेकं शरण्यं त्वमेकं वरेण्यं त्वमेकं जगत्कारणं विश्वरूपम् ।
त्वमेकं जगत्कर्तृपातृप्रहर्तृ त्वमेकं परं निश्चलं निर्विकल्पम् ॥ ६० ॥

३.६१
भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् ।
महोच्चैःपदानां नियन्तृ त्वमेकं परेषां परं रक्षकं रक्षकाणाम् ॥ ६१ ॥

३.६२
परेश प्रभो सर्वरूपाप्रकाशिन् अनिर्द्देश्य सर्वेन्द्रियागम्य सत्य ।
अचिन्त्याक्षर व्यापकाव्यक्त तत्त्व जगद्भासकाधीश पायादपायात् ॥ ६२ ॥

३.६३
तदेकं स्मरामस्तदेकं जपामः तदेकं जगत्साक्षिरूपं नमामः ।
सदेकं निधानं निरालम्बमीशं भवाम्भोधिपोतं शरण्यं व्रजामः ॥ ६३ ॥

३.६४
पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः परमात्मनः ।
यः पठेत् प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ ६४ ॥

३.६५
प्रदोषेऽदः पठेन्नित्यं सोमवारे विशेषतः ।
श्रावयेद्बोधयेत् प्राज्ञो ब्रह्मनिष्ठान् स्वबान्धवान् ॥ ६५ ॥

३.६६
इति ते कथितं देवि पञ्चरत्नं महेशितुः ।
कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् ।
पठनाद्धारणाद् यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ ६६ ॥

३.६७
परमात्मा शिरः पातु हृदयं परमेश्वरः ।
कण्ठं पातु जगत्पाता वदनं सर्वदृग्विभुः ॥ ६७ ॥

३.६८
करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।
सर्वाङ्गं सर्वदा पातु परं ब्रह्म सनातनम् ॥ ६८ ॥

३.६९
श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽनुष्टुविति परमब्रह्म देवता ।
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ॥ ६९ ॥

३.७०
यः पठेद् ब्रह्मकवचं ऋषिन्यासपुरःसरम् ।
स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ॥ ७० ॥

३.७१
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेत् यदि ।
कण्ठे वा दक्षिणे बाहो सर्वसिद्धीश्वरो भवेत् ॥ ७१ ॥

३.७२
इत्येतत् परमब्रह्मकवचं ते प्रकाशितम् ।
दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ॥ ७२ ॥

३.७३
पठित्वा स्तोत्रकवचं प्रणमेत् साधकाग्रणीः ॥ ७३ ॥

३.७४
नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।
निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ७४ ॥

३.७५
वाचिकं कायिकं वाऽपि मानसं वा यथामति ।
आराधने परेशस्य भावशुद्धिर्विधीयते ॥ ७५ ॥

३.७६
एवं संपूज्य मतिमान् स्वजनैर्बान्धवैः सह ।
महाप्रसादं स्वीकुर्याद् ब्रह्मणः परमात्मनः ॥ ७६ ॥

३.७७
पूजने परमेशस्य नावाहनविसर्जने ।
सर्वत्र सर्वकालेषु साधयेद् ब्रह्मसाधनम् ॥ ७७ ॥

३.७८
अस्नातो वा कृतस्नानो भुक्तो वाऽपि बुभुक्षितः ।
पूजयेत् परमात्मानं सदा निर्मलमानसः ॥ ७८ ॥

३.७९
अनेन ब्रह्ममन्त्रेण भक्ष्यपेयादिकञ्च यत् ।
दीयते परमेशाय तदेव पावनं महत् ॥ ७९ ॥

३.८०
गङ्गातोये शिलादौ च स्पृष्टदोषोऽपि वर्तते ।
परब्रह्मार्पिते द्रव्ये स्पृष्टास्पृष्टं न विद्यते ॥ ८० ॥

३.८१
पक्वं वाऽपि न पक्वं वा मन्त्रेणानेन मन्त्रितम् ।
साधको ब्रह्मसात् कृत्वा भुञ्जीयात् स्वजनैः सह ॥ ८१ ॥

३.८२
नात्र वर्णविचारोऽस्ति नोच्छिष्टादिविवेचनम् ।
न कालनियमोऽप्यत्र शौचाशौचं तथैव च ॥ ८२ ॥

३.८३
यथाकाले यथादेशे यथायोगेन लभ्यते ।
ब्रह्मसात् कृतनैवेद्यमश्नीयादविचारयन् ॥ ८३ ॥

३.८४
आनीतं श्वपचेनापि श्वमुखादपि निःसृतम् ।
तदन्नं पावनं देवि देवानामपि दुर्लभम् ॥ ८४ ॥

३.८५
किं पुनर्मनुजादीनां वक्तव्यं देववन्दिते ।
परमेशस्य नैवेद्यसेवनाद् यत् फलं भवेत् ॥ ८५ ॥

३.८६
महापातकयुक्तो वा युक्तो वाप्यन्यपातकैः ।
सकृत् प्रसादग्रहणात् मुच्यते नात्र संशयः ॥ ८६ ॥

३.८७
सार्द्धत्रिकोटितीर्थेषु स्नानदानेन यत्फलम् ।
तत् फलं लभते मर्त्यो ब्रह्मार्पितनिषेवणात् ॥ ८७ ॥

३.८८
अश्वमेधादिभिर्यज्ञैरिष्ट्वा यत् फलमश्नुते ।
भक्षिते ब्रह्म नैवेद्ये तस्मात् कोटिगुणं लभेत् ॥ ८८ ॥

३.८९
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ।
महाप्रसादमाहात्म्यं वर्णितुं नैव शक्यते ॥ ८९ ॥

३.९०
यत्र कुत्र स्थितो वापि प्राप्य ब्रह्मार्पितामृतम् ।
गृहीत्वा कीकशो वाऽपि ब्रह्मसायुज्यमाप्नुयात् ॥ ९० ॥

३.९१
यदि स्यान्नीचजातीयमन्नं ब्रह्मणि भावितम् ।
तदन्नं ब्राह्मणैर्ग्राह्यमपि वेदान्तपारगैः ॥ ९१ ॥

३.९२
जातिभेदो न कर्तव्यः प्रसादे परमात्मनः ।
योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥ ९२ ॥

३.९३
वरं पापशतं कुर्याद्वरं विप्रबधं प्रिये ।
परब्रह्मार्पिते ह्यन्ने न कुर्यादवहेलनम् ॥ ९३ ॥

३.९४
ये त्यजन्ति नरा मूढा महामन्त्रेण संस्कृतम् ।
अन्नतोयादिकं भद्रे पितॄंस्ते पातयन्त्यधः ॥ ९४ ॥

३.९५
स्वयमप्यन्धतामिस्रे पतन्त्याहूतसंप्लवम् ।
ब्रह्मसात्कृतनैवेद्यद्वेष्टॄणां नास्ति निष्कृतिः ॥ ९५ ॥

३.९६
पुण्यायन्ते क्रियाः सर्वाः सुषुप्तिः सुकृतायते ।
स्वेच्छाचारोऽत्र विहितो महामन्त्रस्य साधने ॥ ९६ ॥

३.९७
किं तस्य वैदिकाचारैस्तान्त्रिकैर्वाऽपि तस्य किम् ।
ब्रह्मनिष्ठस्य विदुषः स्वेच्छाचारो विधिः स्मृतः ॥ ९७ ॥

३.९८
कृतेनास्य फलं नास्ति नाकृतेनापि किल्विषम् ।
न विघ्नः प्रत्यवायो,अस्य ब्रह्ममन्त्रस्य साधनात् ॥ ९८ ॥

३.९९
अस्मिन् धर्मे महेशि स्यात् सत्यवादी जितेन्द्रियः ।
परोपकारनिरतो निर्विकारः सदाशयः ॥ ९९ ॥

३.१००
मात्सर्यहीनोऽदम्भी च दयावान् शुद्धमानसः ।
मातापित्रोः प्रीतिकारी तयोः सेवनतत्परः ॥ १०० ॥

३.१०१
ब्रह्मश्रोता ब्रह्ममन्ता ब्रह्मान्वेषणमानसः ।
यतात्मा दृढबुद्धिः स्यात् साक्षाद्ब्रह्मेति भावयन् ॥ १०१ ॥

३.१०२
न मिथ्याभाषणं कुर्यान्न परानिष्टचिन्तनम् ।
परस्त्रीगमनञ्चैव ब्रह्ममन्त्री विवर्जयेत् ॥ १०२ ॥

३.१०३
तत्सदिति वदेद्देवि प्रारम्भे सर्वकर्मणाम् ।
ब्रह्मार्पणमस्तु वाक्यं पानभोजनकर्मणोः ॥ १०३ ॥

३.१०४
येनोपायेन मर्त्यानां लोकयात्रा प्रसिद्ध्यति ।
तदेव कार्यं ब्रह्मज्ञैरिदं धर्मं सनातनम् ॥ १०४ ॥

३.१०५
अथ सन्ध्याविधिं वक्ष्ये ब्रह्ममन्त्रस्य शाम्भवि ।
यां कृत्वा ब्रह्मसम्पत्तिं लभन्ते भुवि मानवाः ॥ १०५ ॥

३.१०६
प्रातर्मध्याह्नसायाह्ने यथादेशे यथाऽसने ।
पूर्ववत् परमब्रह्म ध्यात्वा साधकसत्तमः ॥ १०६ ॥

३.१०७
अष्टोत्तरशतं देवि गायत्रीजपमाचरेत् ।
जपं समर्प्य विधिवत् पूर्ववत् प्रणमेत् सुधीः ॥ १०७ ॥

३.१०८
एषा सन्ध्या मया प्रोक्ता सर्वथा ब्रह्मसाधने ।
यदनुष्ठानतो मन्त्री शुद्धान्तःकरणो भवेत् ॥ १०८ ॥

३.१०९
गायत्रीं शृणु चार्वङ्गि सर्वपापप्रणाशिनीम् ।
परमेश्वरं ङेऽन्तमुक्त्वा विद्महे तदनन्तरम् ॥ १०९ ॥

३.११०
परतत्त्वाय पदतो धीमहीति वदेत् प्रिये ।
तदनन्तरमीशानि तन्नो ब्रह्म प्रचोदयात् ।
इयं श्रीब्रह्मगायत्री चतुर्वर्गप्रदायिनी ॥ ११० ॥

३.१११
पूजनं यजनञ्चैव स्नानं पानञ्च भोजनम् ।
यद्यत्कर्म प्रकुर्वीत ब्रह्ममन्त्रेण साधयेत् ॥ १११ ॥

३.११२
ब्राह्मे मुहूर्ते चोत्थाय प्रणम्य ब्रह्मदं गुरुम् ।
ध्यात्वा च परमं ब्रह्म यथाशक्ति मनुं स्मरेत् ।
पूर्ववत् प्रणमेद् ब्रह्म प्रातःकृत्यमिदं स्मृतम् ॥ ११२ ॥

३.११३
द्वात्रिंशता सहस्रेण जपेनास्य पुरस्क्रिया ।
तद्दशांशेन हवनं तर्पणं तद्दशांशतः ॥ ११३ ॥

३.११४
सेचनं तद्दशांशेन तद्दशांशेन सुन्दरि ।
ब्राह्मणान् भोजयेन्मन्त्री पुरश्चरणकर्मणि ॥ ११४ ॥

३.११५
भक्ष्याभक्ष्यविचारोऽत्र त्याज्यं ग्राह्यं न विद्यते ।
न कालशुद्धिनियमो न वा स्थाननिरूपणम् ॥ ११५ ॥

३.११६
अभुक्तो वाऽपि भुक्तो वा स्नातो वाऽस्नात एव वा ।
साधयेत् परमं मन्त्रं स्वेच्छाचारेण साधकः ॥ ११६ ॥

३.११७
विनाऽयासं विना क्लेशं स्तोत्रञ्च कवचं विना ।
विना न्यासं विना मुद्रां विना सेतुं वरानने ॥ ११७ ॥

३.११८
विना चौरगणेशादिजपञ्च कुल्लुकां विना ।
अकस्मात् परमब्रह्मसाक्षात्कारो भवेद् ध्रुवम् ॥ ११८ ॥

३.११९
संकल्पोऽस्मिन् महाहन्त्रे मानसः परिकीर्तितः ।
साधने ब्रह्ममन्त्रस्य भावशुद्धिर्विधीयते ॥ ११९ ॥

३.१२०
सर्वं ब्रह्ममयं देवि भावयेत् ब्रह्मसाधकः ।
न चाऽस्य प्रत्यवायोऽस्ति नाङ्गवैगुण्यमेव च ।
महामनोः साधने तु व्यङ्गं साङ्गायते ध्रुवम् ॥ १२० ॥

३.१२१
कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे ।
निस्तारबीजमेतावत् ब्रह्ममन्त्रस्य साधनम् ॥ १२१ ॥

३.१२२
साधनानि बहूक्तानि नानातन्त्रागमादिषु ।
कलौ दुर्बलजीवानामसाध्यानि महेश्वरि ॥ १२२ ॥

३.१२३
अल्पायुषः स्वल्पवृत्ता अन्नाधीनासवः प्रिये ।
लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥ १२३ ॥

३.१२४
समाधावस्थिरधियो योगक्लेशासहिष्णवः ।
तेषां हिताय मोक्षाय ब्रह्ममार्गोऽयमीरितः ॥ १२४ ॥

३.१२५
कलौ नास्त्येव नास्त्येव सत्यं सत्यं मयोच्यते ।
ब्रह्मदीक्षां विना देवि कैवल्याय सुखाय च ॥ १२५ ॥

३.१२६
प्रातःकृत्यं प्रातरेव सन्ध्यां कुर्यात् त्रिकालतः ।
मध्याह्ने पूजनं कुर्यात् सर्वतन्त्रेष्वयं विधिः ।
परब्रह्मोपासने तु साधकेच्छाविधिः शिवे ॥ १२६ ॥

३.१२७
विधयः किङ्करा यत्र निषेधाः प्रभवोऽपि न ।
स्वेच्छाचारेणेष्टसिद्धिस्तद्विना कोऽन्यमाश्रयेत् ॥ १२७ ॥

३.१२८
ब्रह्मज्ञानिगुरुं प्राप्य शान्तं निश्चलमानसम् ।
धृत्वा तच्चरणाम्भोजं प्रार्थयेद् भक्तिभावतः ॥ १२८ ॥

३.१२९
करुणामय दीनेश तवाऽहं शरणागतः ।
त्वत्पदाम्भोरुहच्छायां देहि मूर्ध्नि यशोधन ॥ १२९ ॥

३.१३०
इति प्रार्थ्य गुरुं पश्चात् पूजयित्वा स्वशक्तितः ।
कृताञ्चलिपुटो भूत्वा तूष्णीं तिष्ठेत् गुरोः पुरः ॥ १३० ॥

३.१३१
गुरुर्विचार्य विधिवत् यथोक्तं शिष्यलक्षणम् ।
आहूय कृपया दद्यात् सच्छिष्याय महामनुम् ॥ १३१ ॥

३.१३२
उपविश्याऽसने ज्ञानी प्राङ्मुखो वाप्युदङ्मुखः ।
स्ववामे शिष्यमानीय कारुण्येनाऽवलोकयेत् ॥ १३२ ॥

३.१३३
ततः शिष्यस्य शिरसि ऋषिन्यासपुरःसरम् ।
जपेदष्टशतं मन्त्रं साधकस्येष्टसिद्धये ॥ १३३ ॥

३.१३४
दक्षकर्णे ब्राह्मणानामितरेषाञ्च वामतः ।
सप्तधा श्रावयेत् मन्त्रं सद्गुरुः करुणानिधिः ॥ १३४ ॥

३.१३५
उपदेशविधिः प्रोक्तो ब्रह्ममन्त्रस्य कालिके ।
नात्र पूजाद्यपेक्षाऽस्ति संकल्पं मानसञ्चरेत् ॥ १३५ ॥

३.१३६
ततः श्रीगुरुपादाब्जे दण्डवत् पतितं शिशुम् ।
उत्थापयेद् गुरुः स्नेहादिमं मन्त्रमुदीरयन् ॥ १३६ ॥

३.१३७
उत्तिष्ठ वत्स मुक्तोऽसि ब्रह्मज्ञानपरो भव ।
जितेन्द्रियः सत्यवादी वलारोग्यं सदाऽस्तु ते ॥ १३७ ॥

३.१३८
तत उत्थाय गुरवे यथाशक्त्यनुसारतः ।
दक्षिणां स्वं फलं वाऽपि दद्यात् साधकसत्तमः ।
गुरोराज्ञावशीभूत्वा विहरेद्देववद् भुवि ॥ १३८ ॥

३.१३९
मन्त्रग्रहणमात्रेण तदात्मा तन्मयो भवेत् ।
ब्रह्मभूतस्य देवेशि किमन्यैर्बहुसाधनैः ॥ १३९ ॥

३.१४०
इति संक्षेपतो ब्रह्मदीक्षा ते कथिता प्रिये ।
गुरुकारुण्यमात्रेण ब्रह्मदीक्षां समाश्रयेत् ॥ १४० ॥

३.१४१
शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतास्तथा ।
विप्रा विप्रेतराश्चैव सर्वेऽप्यत्राधिकारिणः ॥ १४१ ॥

३.१४२
अहं मृत्युञ्जयो देवि देवदेवो जगद्गुरुः ।
स्वेच्छाचारी निर्विकल्पो मन्त्रस्याऽस्य प्रसादतः ॥ १४२ ॥

३.१४३
अमुमेव ब्रह्ममन्त्रं मत्तः पूर्वमुपासिताः ।
ब्रह्मा ब्रह्मर्षयश्चापि देवा देवर्षयस्तथा ॥ १४३ ॥

३.१४४
देवर्षिवक्त्रान्मुनयस्तेभ्यो राजर्षयः प्रिये ।
उपासिता ब्रह्मभूताः परमात्मप्रसादतः ॥ १४४ ॥

३.१४५
ब्राह्मे मनौ महेशानि विचारो नास्ति कुत्रचित् ।
स्वीयमन्त्रं गुरुर्दद्यात् शिष्येभ्यो ह्यविचारयन् ॥ १४५ ॥

३.१४६
पिताऽपि दीक्षयेत् पुत्रान् भ्राता भ्रातॄन् पतिः स्त्रियम् ।
मातुलो भागिनेयांश्च नप्तॄन् मातामहोऽपि च ॥ १४६ ॥

३.१४७
स्वमन्त्रदाने यो दोषस्तथा पित्रादिदीक्षया ।
सिद्धे ब्रह्ममहामन्त्रे तद्दोषो नैव विद्यते ॥ १४७ ॥

३.१४८
ब्रह्मज्ञानिमुखात् श्रुत्वा येन केन विधानतः ।
ब्रह्मभूतो नरः पूतः पुण्यपापैर्न लिप्यते ॥ १४८ ॥

३.१४९
ब्रह्ममन्त्रोपासिता ये गृहस्था ब्राह्मणादयः ।
स्वस्ववर्णोत्तमारते तु पूज्या मान्या विशेषतः ॥ १४९ ॥

३.१५०
ब्राह्मणा यतयः साक्षादितरे ब्राह्मणैः समाः ।
तस्मात् सर्वे पूजयेयुर्ब्रह्मज्ञान् ब्रह्मदीक्षितान् ॥ १५० ॥

३.१५१
ये च तानवमन्यन्ते ते नरा ब्रह्मघातिनः ।
पतन्ति घोरनरके यावद्भास्करतारकम् ॥ १५१ ॥

३.१५२
यत् पापं स्त्रीवधे प्रोक्तं यत्पापं भ्रूणघातने ।
तस्मात् कोटिगुणं पापं ब्रह्मोपासकनिन्दनात् ॥ १५२ ॥

३.१५३
यथा ब्रह्मोपदेशेन विमुक्तः सर्वपातकैः ।
गच्छन्ति ब्रह्मसायुज्यं तथैव तव साधनात् ॥ १५३ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्ने परब्रह्मोपदेशकथनं नाम तृतीयोल्लासः ।। ३ ।।

Kapitel ४

४.१
श्रुत्वा सम्यक् परब्रह्मोपासनं परमेश्वरी ।
परमानन्दसम्पन्ना शङ्करं परिपृच्छति ॥ १ ॥

४.२
श्रीदेव्युवाच कथितं यत्त्वया नाथ ब्रह्मोपासनमुत्तमम् ।
सर्वलोकप्रियकरं साक्षाद्ब्रह्मपदप्रदम् ॥ २ ॥

४.३
तेजोबुद्धिवलैश्वर्यदायकं सुखसाधनम् ।
तृप्ताऽस्मि जगदीशान तव वाक्यामृतप्लुता ॥ ३ ॥

४.४
यदुक्तं करुणासिन्धो यथा ब्रह्मनिषेवणात् ।
गच्छन्ति ब्रह्मसायुज्यं तथैव मम साधनात् ॥ ४ ॥

४.५
एतद्वेदितुमिच्छामि मदीयसाधनं परम् ।
ब्रह्मसायुज्यजननं यत्त्वया कथितं प्रभो ॥ ५ ॥

४.६
विधानं कीदृशं तस्य साधनं केन वर्त्मना ।
मन्त्रः को वाऽत्र विहितो ध्यानपूजादिकञ्च किम् ॥ ६ ॥

४.७
सविशेषं सावशेषमामूलाद्वक्तुमर्हसि ।
मम प्रीतिकरं देव लोकानां हितकारकम् ।
को ह्यन्यस्त्वामृते शम्भो भवव्याधिभिषग्गुरुः ॥ ७ ॥

४.८
इति देव्या वचः श्रुत्वा देवदेवो महेश्वरः ।
उवाच परया प्रीत्या पार्वतीं पार्वतीपतिः ॥ ८ ॥

४.९
श्रीसदाशिव उवाच ।
शृणु देवि महाभागे तवाराधनकारणम् ।
तव साधनतो येन ब्रह्मसायुज्यमश्नुते ॥ ९ ॥

४.१०
त्वं परा प्रकृतिः साक्षाद् ब्रह्मणः परमात्मनः ।
त्वत्तो जातं जगत् सर्वं त्वं जगज्जननी शिवे ॥ १० ॥

४.११
महदाद्यणुपर्यन्तं यदेतत् सचराचरम् ।
त्वयैवोत्पादितं भद्रे त्वदधीनमिदं जगत् ॥ ११ ॥

४.१२
त्वमाद्या सर्वविद्यानामस्माकमपि जन्मभूः ।
त्वं जानासि जगत् सर्वं न त्वां जानाति कश्चन ॥ १२ ॥

४.१३
त्वं काली तारिणी दुर्गा षोडशी भुवनेश्वरी ।
धूमावती त्वं बगला भैरवी छिन्नमस्तका ॥ १३ ॥

४.१४
त्वमन्नपूर्णा वाग्देवी त्वं देवी कमलालया ।
सर्वशक्तिस्वरूपा त्वं सर्वदेवमयी तनुः ॥ १४ ॥

४.१५
त्वमेव सूक्ष्मा स्थूला त्वं व्यक्ताव्यक्तस्वरूपिणी ।
निराकाराऽपि साकारा कस्त्वां वेदितुमर्हति ॥ १५ ॥

४.१६
उपासकानां कार्यार्थं श्रेयसे जगतामपि ।
दानवानां विनाशाय धत्से नानाविधास्तनूः ॥ १६ ॥

४.१७
चतुर्भुजा त्वं द्विभुजा षड्भुजाऽष्टभुजा तथा ।
त्वमेव विश्वरक्षार्थं नानाशस्त्रास्त्रधारिणी ॥ १७ ॥

४.१८
तत्तद्रूपविभेदेन मन्त्रयन्त्रादिसाधनम् ।
कथितं सर्वतन्त्रेषु भावाश्च कथितास्त्रयः ॥ १८ ॥

४.१९
पशुभावः कलौ नास्ति दिव्यभावोऽपि दुर्लभः ।
वीरसाधनकर्माणि प्रत्यक्षाणि कलौ युगे ॥ १९ ॥

४.२०
कुलाचारं विना देवि कलौ सिद्धिर्न जायते ।
तस्मात् सर्वप्रयत्नेन साधयेत् कुलसाधनम् ॥ २० ॥

४.२१
कुलाचारेण देवेशि ब्रह्मज्ञानं प्रजायते ।
ब्रह्मज्ञानयुतो मर्त्यो जीवन्मुक्तो न संशयः ॥ २१ ॥

४.२२
ज्ञानेन मेध्यमखिलममेध्यं ज्ञानतो भवेत् ।
ब्रह्मज्ञाने समुत्पन्ने मेध्यामेध्यं न विद्यते ॥ २२ ॥

४.२३
यो जानाति परं ब्रह्म सर्वव्यापि सनातनम् ।
किमस्त्यमेध्यं तस्याग्रे सर्वं ब्रह्मेति जानतः ॥ २३ ॥

४.२४
त्वं सर्वरूपिणी देवी सर्वेषां जननी परा ।
तुष्टायां त्वयि देवेशि सर्वेषां तोषणं भवेत् ॥ २४ ॥

४.२५
सृष्टेरादौ त्वमेकाऽसीत् तमोरूपमगोचरम् ।
त्वत्तो जातं जगत् सर्वं परब्रह्मसिसृक्षया ॥ २५ ॥

४.२६
महत्तत्त्वादिभूतान्तं त्वया सृष्टमिदं जगत् ।
निमित्तमात्रं तद्ब्रह्म सर्वकारणकारणम् ॥ २६ ॥

४.२७
सद्रूपं सर्वतोव्यापि सर्वमावृत्य तिष्ठति ।
सदैकरूपं चिन्मात्रं निर्लिप्तं सर्ववस्तुषु ॥ २७ ॥

४.२८
न करोति न चाऽश्नाति न गच्छति न तिष्ठति ।
सत्यं ज्ञानमनाद्यन्तमवाङ्मनसगोचरम् ॥ २८ ॥

४.२९
तदिच्छामात्रमालम्ब्य त्वं महायोगिनी परा ।
करोषि पासि हंस्यन्ते जगदेतच्चराचरम् ॥ २९ ॥

४.३०
तव रूपं महाकालो जगत्संहारकारकः ।
महासंहारसमये कालः सर्वं ग्रसिष्यति ॥ ३० ॥

४.३१
कलनात् सर्वभूतानां महाकालः प्रकीर्तितः ।
महाकालस्य कलनात् त्वमाद्या कालिका परा ॥ ३१ ॥

४.३२
कालसंग्रसनात् काली सर्वेषामादिरूपिणी ।
कालत्वादादिभूतत्वादाद्या कालीति गीयते ॥ ३२ ॥

४.३३
पुनः स्वरूपमासाद्य तमोरूपं निराकृतिः ।
वाचातीतं मनोगम्यं त्वमेकैवाऽवशिष्यसे ॥ ३३ ॥

४.३४
साकाराऽपि निराकारा मायया बहुरूपिणी ।
त्वं सर्वादिरनादिस्त्वं कर्त्री हर्त्री च पालिका ॥ ३४ ॥

४.३५
अतस्ते कथितं भद्रे ब्रह्ममन्त्रेण दीक्षितः ।
यत्फलं समवाप्नोति तत्फलं तव साधनात् ॥ ३५ ॥

४.३६
नानाऽचारेण भावेन देशकालाधिकारिणाम् ।
विभेदात् कथितं देवि कुत्रचिद्गुप्तसाधनम् ॥ ३६ ॥

४.३७
ये यत्राधिकृता मर्त्यास्ते तत्र फलभागिनः ।
भविष्यन्ति तरिष्यन्ति मानुषा गतकिल्विषाः ॥ ३७ ॥

४.३८
बहुजन्मार्जितैः पुण्यैः कुलाचारे मतिर्लभेत् ।
कुलाचारेण पूतात्मा साक्षाच्छिवमयो भवेत् ॥ ३८ ॥

४.३९
यत्रास्ति भोगबाहुल्यं तत्र योगस्य का कथा ।
योगेऽपि भोगविरहः कौलस्तूभयमश्नुते ॥ ३९ ॥

४.४०
एकश्चेत् कुलतत्त्वज्ञः पूजितो येन सुव्रते ।
सर्वे देवाश्च देव्यश्च पूजिता नात्र संशयः ॥ ४० ॥

४.४१
पृथिवीं हेमसम्पूर्णां दत्त्वा यत् फलमाप्नुयात् ।
तस्मात् कोटिगुणं पुण्यं लभते कौलिकार्चनात् ॥ ४१ ॥

४.४२
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते ।
कुलाचारविहीनस्तु ब्राह्मणः श्वपचाधमः ॥ ४२ ॥

४.४३
कौलधर्मात् परो धर्मो नास्ति ज्ञाने तु मामके ।
यस्यानुष्ठानमात्रेण ब्रह्मज्ञानी नरो भवेत् ॥ ४३ ॥

४.४४
सत्यं व्रबीमि ते देवि हृदि कृत्वाऽवधारय ।
सर्वधर्मोत्तमात् कौलात् परो धर्मो न विद्यते ॥ ४४ ॥

४.४५
अयन्तु परमो मार्गो गुप्तोऽस्ति पशुसङ्कटे ।
व्यक्तीभविष्यत्यचिरात् संवृत्ते प्रबले कलौ ॥ ४५ ॥

४.४६
कलिकाले प्रबृद्धे तु सत्यं सत्यं मयोच्यते ।
न स्थास्यति विना कौलान् पशवो मानवा भुवि ॥ ४६ ॥

४.४७
यदा तु वैदिकी दीक्षा दीक्षा पौराणिकी तथा ।
न स्थास्यति वरारोहे तदैव प्रवलः कलिः ॥ ४७ ॥

४.४८
यदा तु पुण्यपापानां परीक्षा वेदसम्भवा ।
न स्थास्यति शिवे शान्ते तदैव प्रवलः कलिः ॥ ४८ ॥

४.४९
क्वचिच्छिन्ना क्वचिद्भिन्ना यदा सुरतरङ्गिणी ।
भविष्यति कुलेशानि तदैव प्रवलः कलिः ॥ ४९ ॥

४.५०
यदा तु म्लेच्छजातीया राजानो धनलोलुपाः ।
भविष्यन्ति महाप्राज्ञे तदैव प्रवलः कलिः ॥ ५० ॥

४.५१
यदा स्त्रियोऽतिदुर्दान्ताः कर्कशाः कलहे रताः ।
गर्हिष्यन्ति च भर्तारं तदैव प्रवलः कलिः ॥ ५१ ॥

४.५२
यदा तु मानवा भूमौ स्त्रीजिताः कामकिङ्कराः ।
द्रुह्यन्ति गुरुमित्रादीन् तदैव प्रवलः कलिः ॥ ५२ ॥

४.५३
यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः ।
असम्यक्फलिनो वृक्षास्तदैव प्रवलः कलिः ॥ ५३ ॥

४.५४
भ्रातरः स्वजनामात्या यदा धनकणेहया ।
मिथः सम्प्रहरिष्यन्ति तदैव प्रवलः कलिः ॥ ५४ ॥

४.५५
प्रकटे मद्यमांसादौ निन्दादण्डविवर्जिते ।
गूढपानं चरिष्यन्ति तदैव प्रवलः कलिः ॥ ५५ ॥

४.५६
सत्यत्रेताद्वापरेषु यथा मद्यादिसेवनम् ।
कलावपि तथा कुर्यात् कुलवर्त्मानुसारतः ॥ ५६ ॥

४.५७
ये कुर्वन्ति कुलाचारं सत्यपूता जितेन्द्रियाः ।
व्यक्ताचारा दयाशीला न हि तान् बाधते कलिः ॥ ५७ ॥

४.५८
गुरुशुश्रूषणे युक्ता भक्ता मातृपदाम्बुजे ।
अनुरक्ताः स्वदारेषु न हि तान् बाधते कलिः ॥ ५८ ॥

४.५९
सत्यव्रताः सत्यनिष्ठाः सत्यधर्मपरायणाः ।
कुलसाधनसत्या ये न हि तान् बाधते कलिः ॥ ५९ ॥

४.६०
कुलमार्गेण तत्त्वानि शोधितानि च योगिने ।
ये दद्युः सत्यवचसे न हि तान् बाधते कलिः ॥ ६० ॥

४.६१
हिंसामात्सर्यरहिता दम्भद्वेषविवर्जिताः ।
कुलधर्मेषु निष्ठा ये न हि तान् बाधते कलिः ॥ ६१ ॥

४.६२
कौलिकैः सह संसर्गं वसतिं कुलसाधुषु ।
कुर्वन्ति कौलसेवां ये न हि तान् वाधते कलिः ॥ ६२ ॥

४.६३
नानावेशधराः कौलाः कुलाचारेषु निश्चलाः ।
सेवन्ते त्वां कुलाचारैर्न हि तान् बाधते कलिः ॥ ६३ ॥

४.६४
स्नानं दानं तपस्तीर्थं व्रतं तर्पणमेव च ।
ये कुर्वन्ति कुलाचारैर्न हि तान् बाधते कलिः ॥ ६४ ॥

४.६५
जीवसेकादिसंस्काराः पितृश्राद्धादिकाः क्रियाः ।
ये कुर्वन्ति कुलाचारैर्न हि तान् बाधते कलिः ॥ ६५ ॥

४.६६
कुलतत्त्वं कुलद्रव्यं कुलयोगिनमेव च ।
नमस्कुर्वन्ति ये भक्त्या न हि तान् बाधते कलिः ॥ ६६ ॥

४.६७
कौटिल्यानृतहीनानां स्वच्छानां कुलमार्गिणाम् ।
परोपकारव्रतिनां साधूनां किङ्करः कलिः ॥ ६७ ॥

४.६८
कलेर्दोषसमूहस्य महानेको गुणः प्रिये ।
सत्यप्रतिज्ञकौलानां श्रेयः सङ्कल्पमात्रतः ॥ ६८ ॥

४.६९
अपरे तु युगे देवि पुण्यं पापञ्च मानसम् ।
नृणामासीत् कलौ पुण्यं केवलं न तु दुष्कृतम् ॥ ६९ ॥

४.७०
कुलाचारविहीना ये सततासत्यभाषिणः ।
परद्रोहपरा ये च ते नराः कलिकिङ्कराः ॥ ७० ॥

४.७१
कुलवर्त्मस्वभक्ता ये परयोषित्सु कामुकाः ।
द्वेष्टारः कुलनिष्ठानां ते ज्ञेयाः कलिकिङ्कराः ॥ ७१ ॥

४.७२
युगाचारप्रसङ्गेन कलेः प्रावल्यलक्षणम् ।
संक्षेपात् कथितं भद्रे प्रीतये तव पार्वति ॥ ७२ ॥

४.७३
प्रकटेऽत्र कलौ देवि सर्वे धर्माश्च दुर्बलाः ।
स्थास्यत्येकं सत्यमात्रं तस्मात् सत्यमयो भवेत् ॥ ७३ ॥

४.७४
सत्यधर्मं समाश्रित्य यत् कर्म कुरुते नरः ।
तदेव सफलं कर्म सत्यं जानीहि सुव्रते ॥ ७४ ॥

४.७५
न हि सत्यात् परो धर्मो न पापमनृतात् परम् ।
तस्मात् सर्वात्मना मर्त्यः सत्यमेकं समाश्रयेत् ॥ ७५ ॥

४.७६
सत्यहीना वृथा पूजा सत्यहीनो वृथा जपः ।
सयथीनं तपो व्यर्थमूषरे वपनं यथा ॥ ७६ ॥

४.७७
सत्यरूपं परं ब्रह्म सत्यं हि परमं तपः ।
सत्यमूलाः क्रियाः सर्वाः सत्यात् परतरो न हि ॥ ७७ ॥

४.७८
अत एव मया प्रोक्तं दुष्कृते प्रवले कलौ ।
कुलाचारोऽपि सत्येन कर्तव्यो व्यक्तभावतः ॥ ७८ ॥

४.७९
गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना ।
तस्मात् प्रकाशतः कुर्यात् कौलिकः कुलसाधनम् ॥ ७९ ॥

४.८०
कुलधर्मस्य गुप्त्यर्थं नानृतं स्याज्जुगुप्सितम् ।
यदुक्तं कुलतन्त्रेषु न शस्तं प्रवले कलौ ॥ ८० ॥

४.८१
कृते धर्मश्चतुष्पादः त्रेतायां पादहीनकः ।
द्विपादो द्वापरे देवि पादमात्रं कलौ युगे ॥ ८१ ॥

४.८२
तत्रापि सत्यं वलवत् तपः खञ्जं दयाऽपि च ।
सत्यपादे कृते लोपे धर्मलोपः प्रजायते ।
तस्मात् सत्यं समाश्रित्य सर्वकर्माणि साधयेत् ॥ ८२ ॥

४.८३
कुलाचारं विना यत्र नास्त्युपायः कुलेश्वरि ।
तत्रानृतप्रवेशश्चेत् कुतो निःश्रेयसं भवेत् ॥ ८३ ॥

४.८४
सर्वथा सत्यपूतात्मा मन्मुखेरितवर्त्मना ।
सर्वं कर्म नरः कुर्यात् स्वस्ववर्णाश्रमोदितम् ॥ ८४ ॥

४.८५
दीक्षां पूजां जपं होमं पुरश्चरणतर्पणम् ।
व्रतोद्बाहौ पुंसवनं सीमन्तोन्नयनन्तथा ॥ ८५ ॥

४.८६
जातकर्म तथा नामचूडाकरणमेव च ।
मृतक्रियां पितृश्राद्धं कुर्यादागमसम्मतम् ॥ ८६ ॥

४.८७
तीर्थश्राद्धं वृषोत्सर्गं शारदोत्सवमेव च ।
यात्रां गृहप्रवेशञ्च नववस्त्रादिधारणम् ॥ ८७ ॥

४.८८
वापीकूपतटागानां संस्कारं तिथिकर्म च ।
गृहारम्भप्रतिष्ठाञ्च देवानां स्थापनन्तथा ॥ ८८ ॥

४.८९
दिवाकृत्यं निशाकृत्यं पर्वकृत्यं तथैव च ।
ऋतुमासवर्षकृत्यं नित्यं नैमित्तिकञ्च यत् ॥ ८९ ॥

४.९०
कर्तव्यं यदकर्तव्यं त्याज्यं ग्राह्यञ्च यद्भवेत् ।
मयोक्तेन विधानेन तत् सर्वं साधयेन्नरः ॥ ९० ॥

४.९१
न कुर्याद् यदि मोहेन दुर्मत्याऽश्रद्धयाऽपि वा ।
विनष्टः सर्वकर्मभ्यो विष्ठायां स भवेत् कृमिः ॥ ९१ ॥

४.९२
यदि मन्मतमुत्सृज्य महेशि प्रबले कलौ ।
यदा यत् क्रियते कर्म विपरीताय तद्भवेत् ॥ ९२ ॥

४.९३
मन्मतासम्मता दीक्षा साधकप्राणघातिनी ।
पूजाऽपि विफला देवि हुतं भस्मार्पणं यथा ।
देवता कुपिता तस्य विघ्नस्तस्य पदे पदे ॥ ९३ ॥

४.९४
कलिकाले प्रवृद्धे तु ज्ञात्वा मच्छास्त्रमम्बिके ।
योऽन्यमार्गैः क्रियां कुर्यात् स महापातकी भवेत् ॥ ९४ ॥

४.९५
व्रतोद्वाहौ प्रकुर्वाणो योऽन्यमार्गेण मानवः ।
स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ ९५ ॥

४.९६
व्रते ब्रह्मवधः प्रोक्तः व्रात्यो मानवको भवेत् ।
केवलं सूत्रवाहोऽसौ चण्डालादधमोऽपि सः ॥ ९६ ॥

४.९७
उद्वाहिताऽपि या नारी जानीयात् सा तु गर्हिता ।
उद्वोढाऽपि भवेत् पापी संसर्गात् कुलनायिके ।
वेश्यागमनजं पापं तस्य पुंसो दिने दिने ॥ ९७ ॥

४.९८
तद्धस्तादत्रतोयादि नैव गृह्णन्ति देवताः ।
पितरोऽपि न चाश्नन्ति यतस्तन्मलपूयवत् ॥ ९८ ॥

४.९९
तयोरपत्यं कानीनः सर्वधर्मवहिष्कृतः ।
दैवे पैत्रे कुलाचारे नाधिकारोऽस्य जायते ॥ ९९ ॥

४.१००
अशाम्भवेन मार्गेण देवतास्थापनञ्चरेत् ।
न सान्निध्यं भवेत्तत्र देवतायाः कथञ्चन ।
इहामुत्र फलं नास्ति कायक्लेशो धनक्षयः ॥ १०० ॥

४.१०१
आगमोक्तविधि हित्वा यः श्राद्धं कुरुते नरः ।
श्राद्धं तद्विफलं सोऽपि पितृभिर्नरकं व्रजेत् ॥ १०१ ॥

४.१०२
तत्तोयं शोणितसमं पिण्डो मलमयो भवेत् ।
तस्मान्मर्त्यः प्रयत्नेन शाङ्करं मतमाश्रयेत् ॥ १०२ ॥

४.१०३
बहुनाऽत्र किमुक्तेन सत्यं सत्यं मयोच्यते ।
अशाम्भवं कृतं कर्म सर्वं देवि निरर्थकम् ॥ १०३ ॥

४.१०४
अस्तु तावत् परो धर्मः पूर्वधर्मोऽपि नश्यति ।
शाम्भवाचारहीनस्य नरकान्नैव निष्कृतिः ॥ १०४ ॥

४.१०५
मदुदीरितमार्गेण नित्यनैमित्तकर्मणाम् ।
साधनं यन्महेशानि तदेव तव साधनम् ॥ १०५ ॥

४.१०६
विशेषाराधनं तत्र मन्त्रयन्त्रादिसंयुतम् ।
भेषजं कलिरोगाणां श्रूयताङ्गदतो मम ॥ १०६ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे जीवनिस्तारोपायप्रश्नो पराप्रकृतिसाधनोपक्रमो नाम चतुर्थोल्लासः ।। २ ।।

Kapitel ५

Der innere Körper bildet einen Bezugspunkt tantrischer Meditation.

५.१
श्रीसदाशिव उवाच ।
त्वमाद्या परमा शक्तिः सर्वशक्तिस्वरूपिणी ।
तव शक्त्या वयं शक्ताः सृष्टिस्थितिलयादिषु ॥ १ ॥

५.२
तव रूपाण्यनन्तानि नानावर्णाकृतीनि च ।
नानाप्रयाससाध्यानि वर्णितुं केन शक्यते ॥ २ ॥

५.३
तव कारुण्यलेशेन कुलतन्त्रागमादिषु ।
तेषामर्चासाधनानि कथितानि यथामति ॥ ३ ॥

५.४
गुप्तसाधनमेतत्तु न कुत्रापि प्रकाशितम् ।
अस्य प्रसादात् कल्याणि मयि ते करुणेदृशी ॥ ४ ॥

५.५
त्वया पृष्टमिदानीं तन्नाहं गोपयितुं क्षमः ।
कथयामि तव प्रीत्यै मम प्राणाधिक प्रिये ॥ ५ ॥

५.६
सर्वदुःखप्रशमनं सर्वापद्विनिवारकम् ।
त्वत्प्राप्तिमूलमचिरात्तव सन्तोषकारणम् ॥ ६ ॥

५.७
कलिकल्मषदीनानां नृणां स्वल्पायुषां प्रिये ।
बहुप्रयासासक्तानामेतदेव परं धनम् ॥ ७ ॥

५.८
न चात्र न्यासबाहुल्यं नोपवासादिसंयमः ।
सुखसाध्यमबाहुल्यं भक्तानां फलदं महत् ॥ ८ ॥

५.९
तत्राऽदौ शृणु देवेशि मन्त्रोद्धारक्रमं शिवे ।
यस्य श्रवणमात्रेण जीवन्मुक्तोऽपि जायते ॥ ९ ॥

५.१०
प्राणेशस्तैजसारूढो भेरुण्डाव्योमबिन्दुमान् ।
बीजमेतत् समुद्धृत्य द्वितीयमुद्धरेत् प्रिये ॥ १० ॥

५.११
सन्ध्या रक्तसमारूढा वामनेत्रेन्दुसंयुता ।
तृतीयं शृणु कल्याणि दीपसंस्थः प्रजापतिः ॥ ११ ॥

५.१२
गोविन्दबिन्दुसंयुक्तः साधकानां सुखावहः ।
बीजत्रयान्ते परमेश्वरि सम्बोधनं पदम् ॥ १२ ॥

५.१३
वह्निकान्तावधि प्रोक्तो दशार्णोऽयं मनुः शिवे ।
सर्वविद्यामयी देवी विद्येयं परमेश्वरी ॥ १३ ॥

५.१४
आद्यत्रयाणां बीजानां प्रत्येकं त्रयमेव वा ।
प्रजपेत् साधकाधीशः धर्मकामार्थसिद्धये ॥ १४ ॥

५.१५
बीजमाद्यत्रयं हित्वा सप्तार्णाऽपि दशाक्षरी ।
कामवाग्भवताराद्या सप्तार्णाऽष्टाक्षरी त्रिधा ॥ १५ ॥

५.१६
दशार्णामन्त्रणपदात् कालिके पदमुच्चरेत् ।
पुनराद्यत्रयं बीजं वह्निजायां ततो वदेत् ॥ १६ ॥

५.१७
षोडशीयं समाख्याता सर्वतन्त्रेषु गोपिता ।
वध्वाद्या प्रणवाद्या चेदेषा सप्तदशी द्विधा ॥ १७ ॥

५.१८
तव मन्त्रा ह्यसंख्याताः कोटिकोट्यर्बृदास्तथा ।
संक्षेपादत्र कथिता मन्त्राणां द्वादश प्रिये ॥ १८ ॥

५.१९
येषु येषु च तन्त्रेषु ये ये मन्त्राः प्रकीर्तिताः ।
ते सर्वे तव मन्त्राः स्युस्त्वमाद्या प्रकृतिर्यतः ॥ १९ ॥

५.२०
एतेषां सर्वमन्त्राणां एकमेव हि साधनम् ।
कथयामि तव प्रीत्यै तथा लोकहिताय च ॥ २० ॥

५.२१
कुलाचारं विना देवि शक्तिमन्त्रो न सिद्धिदः ।
तस्मात् कुलाचाररतः साधयेच्छक्तिसाधनम् ॥ २१ ॥

५.२२
मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च ।
शक्तिपूजाविधावाद्ये पञ्चतत्त्वं प्रकीर्तितम् ॥ २२ ॥

५.२३
पञ्चतत्त्वं विना पूजा अभिचाराय कल्पते ।
नेष्टसिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ॥ २३ ॥

५.२४
शिलायां शस्यवापे च यथा नैवाङ्कुरो भवेत् ।
पञ्चतत्त्वविहीनायां पूजायां न फलोद्भवः ॥ २४ ॥

५.२५
प्रातःकृत्यं विना देवि नाधिकारी तु कर्मसु ।
तस्मादादौ प्रवक्ष्यामि प्रातःकृत्यं यथोचितम् ॥ २५ ॥

५.२६
रजनीशेषयामस्य शेषार्द्धमरुणोदयः ।
तदा साधक उत्थाय मुक्तस्वापः कृतासनः ।
ध्यायेच्छिरसि शुल्काब्जे द्विनेत्रं द्विभुजं गुरुम् ॥ २६ ॥

५.२७
श्वेताम्बरपरीधानं श्वेतमाल्यानुलेपनम् ।
वराभयकरं शान्तं करुणामयविग्रहम् ॥ २७ ॥

५.२८
वामेनोत्पलधारिण्या शक्त्याऽलिङ्गितविग्रहम् ।
स्मेराननं सुप्रसन्नं साधकाभीष्टदायकम् ॥ २८ ॥

५.२९
एवं ध्यात्वा कुलेशानि मानसैरुपचारकैः ।
पूजयित्वा जपेन्मन्त्री वाग्भवं बीजमुत्तमम् ॥ २९ ॥

५.३०
यथाशक्ति जपं कृत्वा समर्प्य दक्षिणे करे ।
ततस्तु प्रणमेद्धीमान् मन्त्रेणाऽनेन सद्गुरुम् ॥ ३० ॥

५.३१
भवपाशविनाशाय ज्ञानदृष्टिप्रदर्शिने ।
नमः सद्गुरवे तुभ्यं भुक्तिमुक्तिप्रदायिने ॥ ३१ ॥

५.३२
नराकृतिपरब्रह्मरूपायाऽज्ञानहारिणे ।
कुलधर्मप्रकाशाय तस्मै श्रीगुरवे नमः ॥ ३२ ॥

५.३३
प्रणम्यैवं गुरुं तत्र चिन्तयेन्निजदेवताम् ।
पूर्ववत् पूजयित्वा तां मूलमन्त्रजपञ्चरेत् ॥ ३३ ॥

५.३४
यथाशक्ति जपित्वा तद् देवीवामकरेऽर्पयेत् ।
मन्त्रेणानेन मतिमान् प्रणमेदिष्टदेवताम् ॥ ३४ ॥

५.३५
नमः सर्वस्वरूपिण्यै जगद्धात्र्यै नमोनमः ।
आद्यायै कालिकायै ते कर्त्र्यै हर्त्र्यै नमोनमः ॥ ३५ ॥

५.३६
नमस्कृत्य वहिर्गच्छेद्वामपादपुरःसरम् ।
त्यक्त्वा मूत्रपुरीषञ्च दन्तधावनमाचरेत् ॥ ३६ ॥

५.३७
ततो गत्वा जलाभ्यासे स्नानं कृत्वा यथाविधि ।
आदावप उपस्पृश्य प्रविशेत् सलिले ततः ॥ ३७ ॥

५.३८
नाभिमात्रजले स्थित्वा मलानामपनुत्तये ।
सकृत् स्नात्वा तथोन्मज्य मान्त्रमाचमनञ्चरेत् ॥ ३८ ॥

५.३९
आत्मविद्याशिवैस्तत्त्वैः स्वाहान्तैः साधकाग्रणीः ।
त्रिरप्राश्याऽपो द्विरुन्मृज्य त्वाचमेत् कुलसाधकः ॥ ३९ ॥

५.४०
कुलयन्त्रं मन्त्रगर्भं विलिख्य सलिले सुधीः ।
मूलमन्त्रं द्वादशधा तस्योपरि जपेत् प्रिये ॥ ४० ॥

५.४१
तेजोरूपं जलं ध्यात्वा सूर्यमुद्दिश्य देशिकः ।
तत्तोयैरत्र्यञ्जलीन् दत्त्वा तेनैव पाथसा त्रिधा ।
अभिषिच्य स्वमूर्द्धानं सप्तच्छिद्राणि रोधयेत् ॥ ४१ ॥

५.४२
ततस्तु देवताप्रीत्यै त्रिर्निमज्य जलान्तरे ।
उत्थाय गात्रं सम्मार्ज्य पिदध्याच्छुद्धवाससी ॥ ४२ ॥

५.४३
मृत्स्नया भस्मना वाऽपि त्रिपुण्ड्रं बिन्दुसंयुतम् ।
ललाटे तिलकं कुर्याद्गायत्र्या बद्धकुन्तलः ॥ ४३ ॥

५.४४
वैदिकीं तान्त्रिकीञ्चैव यथानुक्रमयोगतः ।
सन्ध्यां समाचरेन्मन्त्री तान्त्रिकीं शृणु कथ्यते ॥ ४४ ॥

५.४५
आचम्य पूर्ववत्तोयैस्तीर्थान्यावाहयेच्छिवे ॥ ४५ ॥

५.४६
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ४६ ॥

५.४७
मन्त्रेणानेन मतिमान् मुद्रयाऽङ्कुशसंज्ञया ।
आवाह्य तीर्थं सलिले मूलं द्वादशधा जपेत् ॥ ४७ ॥

५.४८
ततस्तत्तोयतो बिन्दूंस्त्रिधा भूमौ विनिक्षिपेत् ।
मध्यमानामिकायोगान्मूलोच्चारणपूर्वकम् ॥ ४८ ॥

५.४९
सप्तवारं स्वमूर्द्धानमभिषिच्य ततो जलम् ।
वामहस्ते समादाय छादयेद्दक्षपाणिना ॥ ४९ ॥

५.५०
ईशानवायुवरुणवह्नीन्द्रबीजपञ्चकम् ।
प्रजप्य वेदधा तोयं दक्षहस्ते समानयेत् ॥ ५० ॥

५.५१
वीक्ष्य तेजोमयं ध्यात्वा चेडयाऽकृष्य साधकः ।
देहान्तःकलुषं तेन रेचयेत् पिङ्गलाख्यया ॥ ५१ ॥

५.५२
निष्कृष्य पुरतो वज्रशिलायामस्त्रमुच्चरन् ।
त्रिवारं ताडयन् मन्त्री हस्तौ प्रक्षालयेत्ततः ॥ ५२ ॥

५.५३
आचम्योक्तेन मन्त्रेण सूर्यायार्घ्यं निवेदयेत् ॥ ५३ ॥

५.५४
तारमायाहंस इति घृणिसूर्य ततःपरम् ।
इदमर्घ्यं तुभ्यमुक्त्वा दद्यात् स्वाहेत्युदीरयन् ॥ ५४ ॥

५.५५
ततो ध्यायेन्महादेवीं गायत्रीं परदेवताम् ।
प्रातर्मध्याह्नसायाह्ने त्रिरूपां गुणभेदतः ॥ ५५ ॥

५.५६
प्रातर्ब्राह्मीं रक्तवर्णां द्विभुजाञ्च कुमारिकाम् ।
कमण्डलुं तीर्थपूर्णमच्छमालाञ्च विभ्रतीम् ।
कृष्णाजिनाम्बरधरां हंसारूढां शुचिस्मिताम् ॥ ५६ ॥

५.५७
मध्याह्ने तां श्यामवर्णां वैष्णवीञ्च चतुर्भुजाम् ।
शङ्खचक्रगदापद्मधारिणीं गरुडासनाम् ॥ ५७ ॥

५.५८
पीनोत्तुङ्गकुचद्वन्द्वां वनमालाविभूषिताम् ।
युवतीं सततं ध्यायेन्मध्ये मार्तण्डमण्डले ॥ ५८ ॥

५.५९
सायाह्ने वरदां देवीं गायत्रीं संस्मरेद् यतिः ।
शुक्लां शुक्लाम्बरधरां वृषासनकृताश्रयाम् ॥ ५९ ॥

५.६०
त्रिनेत्रां वरदां पाशं शूलञ्च नृकरोटिकाम् ।
विभ्रतीं करपद्मैश्च वृद्धां गलितयौवनाम् ॥ ६० ॥

५.६१
एवं ध्यात्वा महादेव्यै जलानामञ्जलित्रयम् ।
दत्वा जपेत्तु गायत्रीं दशधा शतधाऽपि वा ॥ ६१ ॥

५.६२
गायत्रीं शृणु देवेशि वदामि तव भावतः ।
आद्यायै पदमुच्चार्य विद्महे तदनन्तरम् ॥ ६२ ॥

५.६३
परमेश्वर्यै धीमहि तन्नः काली प्रचोदयात् ।
एषा तु तव गायत्री महापापप्रणाशिनी ॥ ६३ ॥

५.६४
त्रिसन्ध्यमेतां प्रजपन् सन्ध्यायाः फलमाप्नुयात् ।
ततस्तु तर्पयेद्भद्रे देवर्षिपितृदेवताः ॥ ६४ ॥

५.६५
प्रणवं सद्वितीयाख्यां तर्पयामि नमः पदम् ।
शक्तौ तु प्रणवे मायां नमःस्थाने द्विठं वदेत् ॥ ६५ ॥

५.६६
मूलान्ते सर्वभूतान्ते निवासिन्यै पदं वदेत् ।
सर्वस्वरूपां ङेयुक्तां सायुधाऽपि तथा पठेत् ॥ ६६ ॥

५.६७
सावरणां सचतुर्थीं तद्वदेव परात्पराम् ।
आद्यायै कालिकायै त इदमर्घ्यं ततो द्विठः ॥ ६७ ॥

५.६८
अनेनार्घ्यं महादेव्यै दत्त्वा मूलं जपेत् सुधीः ।
यथाशक्ति जपं कृत्वा देव्या वामकरेऽर्पयेत् ॥ ६८ ॥

५.६९
प्रणम्य देवीं पूजार्थं जलमादाय साधकः ।
नत्वा तीर्थं पठन् स्तोत्रं देवताध्यानतत्परः ॥ ६९ ॥

५.७०
यागमण्डपमागत्य पाणिपादौ विशोधयेत् ।
ततो द्वारस्य पुरतः सामान्यार्घ्यं प्रकल्पयेत् ॥ ७० ॥

५.७१
त्रिकोणवृत्तभूबिम्बं मण्डलं रचयेत् सुधीः ।
आधारशक्तिं संपूज्य तत्राऽधारं नियोजयेत् ॥ ७१ ॥

५.७२
अस्त्रेण पात्रं प्रक्षाल्य हृन्मन्त्रेण प्रपूर्य च ।
निक्षिप्य गन्धं पुष्पञ्च तीर्थान्यावाहयेत्ततः ॥ ७२ ॥

५.७३
आधारपात्रतोयेषु वह्न्यर्कशशिमण्डलम् ।
पूजयित्वा तद्दशधा मायाबीजेन मन्त्रयेत् ॥ ७३ ॥

५.७४
प्रदर्शयेद्धेनुयोनिं सामान्यार्घ्यमिदं स्मृतम् ।
ततस्तज्जलपुष्पैश्च पूजयेद् द्वारदेवताः ॥ ७४ ॥

५.७५
गणेशं क्षेत्रपालञ्च वटुकं योगिनीं तथा ।
गङ्गाञ्च यमुनाञ्चैव लक्ष्मीं वाणीं ततो यजेत् ॥ ७५ ॥

५.७६
किञ्चित् स्पृशन् वामशाखां वामपादपुरःसरम् ।
स्मरन् देव्याः पदाम्भोजं मण्डपं प्रविशेत् सुधीः ॥ ७६ ॥

५.७७
नैरृत्यां दिशि वास्त्वीशं ब्रह्माणञ्च समर्चयन् ।
सामान्यार्घ्यस्य तोयेन प्रोक्षयेद्यागमन्दिरम् ॥ ७७ ॥

५.७८
अनन्तरं साधकेन्द्रो दिव्यदृष्ट्यवलोकनैः ।
दिव्यानुत्सारयेद्विघ्नानस्त्राद्भिश्चान्तरीक्षगान् ॥ ७८ ॥

५.७९
पार्ष्णिघातत्रिभिर्भौमानिति विघ्नान्निवारयेत् ।
चन्दनागुरुकस्तूरीकर्पूरैर्यागमण्डपम् ॥ ७९ ॥

५.८०
धूपयेत् स्वोपवेशार्थं चतुरस्रं त्रिकोणकम् ।
विलिख्य पूजयेत्तत्र कामरूपाय हृन्मनुः ॥ ८० ॥

५.८१
तत्राऽसनं समास्तीर्य काममाधारशक्तितः ।
कमलासनाय नमो मन्त्रेणैवासनं यजेत् ॥ ८१ ॥

५.८२
उपविश्यासने विद्वान् प्राङ्मुखो वाप्युदङ्मुखः ।
बद्धवीरासनो मन्त्री विजयां परिशोधयेत् ॥ ८२ ॥

५.८३
तारं मायां समुच्चार्य अमृते अमृतोद्भवे ।
अमृतवर्षिणि ततोऽमृतमाकर्षय द्विधा ॥ ८३ ॥

५.८४
सिद्धिं देहि ततो ब्रूयात् कालिकां मे ततः परम् ।
वशमानय ठद्वन्द्वं संविदाशोधने मनुः ॥ ८४ ॥

५.८५
मूलमन्त्रं सप्तवारं प्रजप्य विजयोपरि ।
आवाहन्यादिमुद्राञ्च धेनुयोनी प्रदर्शयेत् ॥ ८५ ॥

५.८६
गुरुं पद्मे सहस्रारे यथा सङ्केतमुद्रया ।
त्रिधैव तर्पयेद्देवीं हृदि मूलं समुच्चरन् ॥ ८६ ॥

५.८७
वाग्भवं वदयुग्मञ्च वाग्वादिनि पदं ततः ।
मम जिह्वाग्रे स्थिरीभव सर्वसत्ववशङ्करि ।
स्वाहान्तेनैव मनुना जुहुयात् कुण्डलीमुखे ॥ ८७ ॥

५.८८
स्वीकृत्य संविदां वामकर्णोर्द्ध्वे श्रीगुरुं नमेत् ।
दक्षिणे च गणेशानमाद्यां मध्ये सनातनीम् ।
कृताञ्जलिपुटो भूत्वा देवीध्यानपरायणः ॥ ८८ ॥

५.८९
पूजाद्रव्याणि सर्वाणि दक्षिणे स्थापयेत् सुधीः ।
वामे सुवासितं तोयं कुलद्रव्याणि यानि च ॥ ८९ ॥

५.९०
अस्त्रान्तमूलमन्त्रेण सामान्यार्घ्योदकेन च ।
संप्रोक्ष्य सर्ववस्तूनि वेष्टयेज्जलधारया ।
वह्निबीजेन देवेशि वह्नेः प्राकारमाचरेत् ॥ ९० ॥

५.९१
पुष्पं चन्दनसंयुक्तमादाय करयोर्द्वयोः ।
अस्त्रेण घर्षयित्वा तत् प्रक्षिपेत् करशुद्धये ॥ ९१ ॥

५.९२
तर्जनीमध्यमाभ्याञ्च वामपाणितले शिवे ।
ऊर्ध्वोर्द्ध्वतालत्रितयं दत्वा दिग्बन्धनं ततः ।
अस्त्रेण छोटिकाभिश्च भूतशुद्धिमथाऽचरेत् ॥ ९२ ॥

५.९३
स्वाङ्के निधाय च करावुत्तानौ साधकोत्तमः ।
मनो निवेश्य मूले च हुङ्कारेणैव कुण्डलीम् ॥ ९३ ॥

५.९४
उत्थाप्य हंसमन्त्रेण पृथिव्या सहितां तु ताम् ।
स्वाधिष्ठानं समानीय तत्वं तत्वे नियोजयेत् ॥ ९४ ॥

५.९५
गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् ।
रसादिजिह्वया सार्द्धं जलमग्नौ विलापयेत् ॥ ९५ ॥

५.९६
रूपादिचक्षुषा सार्द्धमग्निं वायौ विलाप्य च ।
स्पर्शादित्वग्युतं वायुमाकाशे प्रविलापयेत् ॥ ९६ ॥

५.९७
अहङ्कारे हरेद् व्योम सशब्दं तन्महत्यपि ।
महत्तत्वञ्च प्रकृतौ तां ब्रह्मणि विलापयेत् ॥ ९७ ॥

५.९८
इत्थं विलाप्य मतिमान् वामकुक्षौ विचिन्तयेत् ।
पुरुषं कृष्णवर्णञ्च रक्तश्मश्रुविलोचनम् ॥ ९८ ॥

५.९९
रक्तचर्मधरं क्रुद्धमङ्गुष्ठपरिमाणकम् ।
सर्वपापस्वरूपञ्च सर्वदाऽधोमुखस्थितम् ॥ ९९ ॥

५.१००
ततस्तु वामनासायां यं बीजं धूम्रवर्णकम् ।
सञ्जिन्त्य पूरयेत्तेन वायुं षोडशमात्रया ।
तेन पापात्मकं देहं शोषयेत् साधकाग्रणीः ॥ १०० ॥

५.१०१
नाभौ रं रक्तवर्णञ्च ध्यात्वा तज्जातवह्निना ।
चतुःषष्ट्या कुम्भकेन दहेत् पापरतान्तनूम् ॥ १०१ ॥

५.१०२
ललाटे वारुणं बीजं शुक्लवर्णं विचिन्त्य च ।
द्वात्रिंशता रेचकेन प्लावयेदम्टाम्भसा ॥ १०२ ॥

५.१०३
आपादशीर्षपर्यन्तमाप्लाव्य तदनन्तरम् ।
उत्पन्नं भावयेद्देहं नवीनं देवतामयम् ॥ १०३ ॥

५.१०४
पृथ्वीबीजं पीतवर्णं मूलाधारे विचिन्तयन् ।
तेन दिव्यावलोकेन दृढीकुर्यान्निजां तनूम् ॥ १०४ ॥

५.१०५
हृदये हस्तमादाय आं ह्रीं क्रों हंस उच्चरन् ।
सोऽहं मन्त्रेण तद्देहे देव्याः प्राणान् निधापयेत् ॥ १०५ ॥

५.१०६
भूतशुद्धिं विधायेत्थं देवीभावपरायणः ।
समाहितमनाः कुर्यात् मातृकान्यासमम्बिके ॥ १०६ ॥

५.१०७
मातृकाया ऋषिर्ब्रह्मा गायत्रीछन्द ईरितम् ।
देवता मातृका देवी बीजं व्यञ्जनसंज्ञकम् ॥ १०७ ॥

५.१०८
स्वराश्च शक्तयः सर्गः कीलकं परिकीर्तितम् ।
लिपिन्यासे महादेवि विनियोगप्रयोगिता ।
ऋषिन्यासं विधायैवं कराङ्गन्यासमाचरेत् ॥ १०८ ॥

५.१०९
अं आं मध्ये कवर्गञ्च इं ईं मध्ये चवर्गकम् ।
उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम् ॥ १०९ ॥

५.११०
ओं औं मध्ये पवर्गन्तु यादिक्षान्तं वरानने ।
बिन्दु सर्गान्तराले च षडङ्गे मन्त्र ईरितः ॥ ११० ॥

५.१११
विन्यस्य न्यासविधिना ध्यायेन्मातृसरस्वतीम् ॥ १११ ॥

५.११२
पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलां भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजैर्विभ्राणां विषदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥ ११२ ॥

५.११३
ध्यात्वैवं मातृकां देवीं षट्सु चक्रेषु विन्यसेत् ।
हक्षौ भ्रूमध्यगे पद्मे कण्ठे च षोडश स्वरान् ॥ ११३ ॥

५.११४
हृदम्बुजे कादिठान्तान् विन्यस्य कुलसाधकः ।
डादिफान्तान् नाभिदेशे बादिलान्तांश्च लिङ्गके ॥ ११४ ॥

५.११५
मूलाधारे चतुष्पत्रे वादिसान्तान् प्रविन्यसेत् ।
इत्यन्तर्मनसा न्यस्य मातृकार्णान् वहिर्न्यसेत् ॥ ११५ ॥

५.११६
ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्य दोःपत् सन्ध्यग्रगेषु च ॥ ११६ ॥

५.११७
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयांसयोः ।
ककुद्यंशे च हृत्पूर्वं पाणिपादयुगे ततः ॥ ११७ ॥

५.११८
जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमम् ।
इत्थं लिपिं प्रविन्यस्य प्राणायामं समाचरेत् ॥ ११८ ॥

५.११९
मायाबीजं षोडशधा जप्त्वा वामेन वायुना ।
पूरयेदात्मनो देहं चतुःषष्ट्या तु कुम्भयेत् ॥ ११९ ॥

५.१२०
कनिष्ठानामिकाङ्गुष्ठैर्धृत्वा नासाद्वयं सुधीः ।
द्वात्रिंशता जपन् बीजं वायुं दक्षेण रेचयेत् ॥ १२० ॥

५.१२१
पुनः पुनस्त्रिरावृत्या प्राणायाम इति स्मृतः ।
प्राणायामं विधायेत्थमृषिन्यासं समाचरेत् ॥ १२१ ॥

५.१२२
अस्य मन्त्रस्य ऋषयो ब्रह्मा ब्रह्मर्षयस्तथा ।
गायत्र्यादीनि छन्दांसि आद्या काली तु देवता ॥ १२२ ॥

५.१२३
आद्याबीजं बीजमिति शक्तिर्माया प्रकीर्तिता ।
कमला कीलकं प्रोक्तं स्थानेष्वेतेषु विन्यसेत् ।
शिरो वदनहृद्गुह्यपादसर्वाङ्गकेषु च ॥ १२३ ॥

५.१२४
मूलमन्त्रेण हस्ताभ्यामापादमस्तकावधि ।
मस्तकात् पादपर्यन्तं सप्तधा वा त्रिधा न्यसेत् ।
अयन्तु व्यापकन्यासो यथोक्तफलसिद्धिदः ॥ १२४ ॥

५.१२५
यद्बीजाद्या भवेद्विद्या तद्बीजेनाऽङ्गकल्पना ।
अथवा मूलमन्त्रेण षड्दीर्घेण विना प्रिये ॥ १२५ ॥

५.१२६
अङ्गुष्ठाभ्यां तर्जनीभ्यां मध्यमाभ्यां तथैव च ।
अनामाभ्यां कनिष्ठाभ्यां करयोस्तलपृष्ठयोः ।
नमःस्वाहावषट् हूञ्च वौषट् फट् क्रमशः सुधीः ॥ १२६ ॥

५.१२७
हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा ।
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ॥ १२७ ॥

५.१२८
नेत्रत्रयाय वौषट् च अस्त्राय फडिति क्रमात् ।
षडङ्गानि विधायेत्थं पीठन्यासं समाचरेत् ॥ १२८ ॥

५.१२९
आधारशक्तिं कूर्मञ्च शेषं पृथ्वीं तथैव च ।
सुधाम्बुधिं मणिद्वीपं पारिजाततरुं ततः ॥ १२९ ॥

५.१३०
चिन्तामणिगृहञ्चैव मणिमाणिक्यवेदिकाम् ।
तत्र पद्मासनं वीरो विन्यसेत् हृदयाम्बुजे ॥ १३० ॥

५.१३१
दक्षवामांसयोर्वामकटौ दक्षकटौ तथा ।
धर्मं ज्ञानं तथैश्वर्यं वैराग्यं क्रमतो न्यसेत् ॥ १३१ ॥

५.१३२
मुखपार्श्वे नाभिदक्षपार्श्वे साधकसत्तमः ।
नङ्पूर्वाणि च तान्येव धर्मादीनि यथाक्रमम् ॥ १३२ ॥

५.१३३
आनन्दकन्दं हृदये सूर्यं सोमं हुताशनम् ।
सत्त्वं रजस्तमश्चैव बिन्दुयुक्तादिमाक्षरैः ।
केशरान् कर्णिकाञ्चैव पत्रेषु पीठनायिकाः ॥ १३३ ॥

५.१३४
मङ्गला विजया भद्रा जयन्ती चाऽपराजिता ।
नन्दिनी नारसिंही च वैष्णवीत्यष्टनायिकाः ॥ १३४ ॥

५.१३५
असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्चैव संहारीत्यष्ट भैरवाः ।
दलाग्रेषु न्यसेदेतान् प्राणायामं ततश्चरेत् ॥ १३५ ॥

५.१३६
गन्धपुष्पे समादाय करकच्छपमुद्रया ।
हृदि हस्तौ समाधाय ध्यायेद्देवीं सनातनीम् ॥ १३६ ॥

५.१३७
ध्यानं तु द्विविधं प्रोक्तं सरूपारूपभेदतः ।
अरूपं तव यद्ध्यानमवाङ्मनसगोचरम् ॥ १३७ ॥

५.१३८
अव्यक्तं सर्वतो व्याप्तमिदमित्थंविवर्जितम् ।
अगम्यं योगिभिर्गम्यं कृच्छ्रैर्बहुशमादिभिः ॥ १३८ ॥

५.१३९
मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये ।
सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते ॥ १३९ ॥

५.१४०
अरूपायाः कालिकायाः कालमातुर्महाद्युतेः ।
गुणक्रियानुसारेण क्रियते रूपकल्पना ॥ १४० ॥

५.१४१
मेघाङ्गीं शशिशेखरां त्रिनयनां रक्ताम्बरां बिभ्रतीं पाणिभ्यामभयं वरञ्च विलसद्रक्तारविन्दस्थिताम् ।
नृत्यन्तं पुरतो निपीय मधुरं माध्वीकमद्यं महाकालं वीक्ष्य विकासिताननवरामाद्यां भजे कालिकाम् ॥ [१४१] ॥

५.१४२
एवं ध्यात्वा स्वशिरसि पुष्पं दत्त्वा तु साधकः ।
पूजयेत् परया भक्त्या मानसैरुपचारकैः ॥ १४२ ॥

५.१४३
हृत्पद्ममासनं दद्यात् सहस्त्रारच्युतामृतैः ।
पाद्यं चरणयोर्दद्यात् मनस्त्वर्घ्यं निवेदयेत् ॥ १४३ ॥

५.१४४
तेनाऽमृतेनाऽचमनं स्नानीयमपि कल्पयेत् ।
आकाशतत्त्वं वसनं गन्धन्तु गन्धतत्त्वकम् ॥ १४४ ॥

५.१४५
चित्तं प्रकल्पयेत् पुष्पं धूपं प्राणान् प्रकल्पयेत् ।
तेजस्तत्त्वन्तु दीपार्थे नैवेद्यञ्च सुधाम्बुधिम् ॥ १४५ ॥

५.१४६
अनाहतध्वनिं घण्टां वायुतत्त्वञ्च चामरम् ।
नृत्यमिन्द्रियकर्माणि चाञ्चल्यं मनसस्तथा ॥ १४६ ॥

५.१४७
पुष्पं नानाविधं दद्यादात्मनो भावसिद्धये ।
अमायमनहङ्कारमरागममदं तथा ॥ १४७ ॥

५.१४८
अमोहकमदम्भञ्च अद्वेषाक्षोभके तथा ।
अमात्सर्यमलोभञ्च दश पुष्पं प्रकीर्तितम् ॥ १४८ ॥

५.१४९
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
दया क्षमा ज्ञानपुष्पं पञ्च पुष्पं ततः परम् ।
इति पञ्चदशैः पुष्पैर्भावरूपैः प्रपूजयेत् ॥ १४९ ॥

५.१५०
सुधाम्बुधिं मांसशैलं भर्जितं मीनपर्वतम् ।
मुद्राराशिं सुभक्तञ्च घृताक्तं पायसं तथा ॥ १५० ॥

५.१५१
कुलामृतञ्च तत्पुष्पं पीठक्षालनवारि च ।
कामक्रोधौ विघ्नकृतौ वलिं दत्त्वा जपं चरेत् ॥ १५१ ॥

५.१५२
माला वर्णमयी प्रोक्ता कुण्डलीसूत्रयन्त्रिता ॥ १५२ ॥

५.१५३
सबिन्दुं मन्त्रमुच्चार्य मूलमन्त्रं समुच्चरेत् ।
अकारादिलकारान्तमनुलोम इति स्मृतः ॥ १५३ ॥

५.१५४
पुनर्लकारमारभ्य श्रीकण्ठान्तं मनुं जपेत् ।
विलोम इति विख्यातः क्षकारो मेरुरुच्यते ॥ १५४ ॥

५.१५५
अष्टवर्गान्तिमैर्वर्णैः सहमूलमथाष्टकम् ।
एवमष्टोत्तरशतं जप्त्वाऽनेन समर्पयेत् ॥ १५५ ॥

५.१५६
सर्वान्तरात्मनिलये स्वान्तर्ज्योतिःस्वरूपिणि ।
गृहाणान्तर्जपं मातराद्ये कालि नमोऽस्तु ते ॥ १५६ ॥

५.१५७
समर्प्य जपमेतेन साष्टाङ्गं प्रणमेद्धिया ।
इत्यन्तर्यजनं कृत्वा बहिःपूजां समारभेत् ॥ १५७ ॥

५.१५८
विशेषार्घ्यस्य संस्कारस्तत्रादौ कथ्यते शृणु ।
यस्य स्थापनमात्रेण देवता सुप्रसीदति ॥ १५८ ॥

५.१५९
दृष्ट्वाऽर्घ्यपात्रं योगिन्यो ब्रह्माद्या देवतागणाः ।
भैरवा अपि नृत्यन्ति प्रीत्या सिद्धिं ददत्यपि ॥ १५९ ॥

५.१६०
स्ववामे पुरतो भूमौ सामान्यार्घ्यस्य वारिणा ।
मायागर्भं त्रिकोणञ्च वृत्तञ्च चतुरस्रकम् ॥ १६० ॥

५.१६१
विलिख्य पूजयेत्तत्र मायाबीजपुरःसरम् ।
ङेन्तामाधारशक्तिञ्च नमःशब्दावसानिकाम् ॥ १६१ ॥

५.१६२
ततः प्रक्षालिताधारं विन्यस्य मण्डलोपरि ।
मं वह्निमण्डलं ङेन्तं दशकलात्मने ततः ॥ १६२ ॥

५.१६३
नमोऽन्तेन च सम्पूज्य क्षालयेदर्घ्यपात्रकम् ।
अस्त्रेण स्थापयेत्तत्र आधारोपरि साधकः ॥ १६३ ॥

५.१६४
अमर्कमण्डलायोक्त्वा द्वादशान्तकलात्मने ।
नमोऽन्तेन यजेत् पात्रं मूलेनैव प्रपूरयेत् ॥ १६४ ॥

५.१६५
त्रिभागमलिनाऽपूर्य शेषं तोयेन साधकः ।
गन्धपुष्पे तत्र दत्त्वा पूजयेदमुनाऽम्बिके ॥ १६५ ॥

५.१६६
षष्ठस्वरं बिन्दुयुक्तं ङेन्तं वै चन्द्रमण्डलम् ।
षोडशान्ते कलाशब्दादात्मने नम इत्यपि ॥ १६६ ॥

५.१६७
ततस्तु श्रैफले पत्रे रक्तचन्दनचर्चितम् ।
दूर्वापुष्पं साक्षतञ्च कृत्वा तत्र निधापयेत् ॥ १६७ ॥

५.१६८
मूलेन तीर्थमावाह्य तत्र देवीं विभाव्य च ।
पूजयेत् गन्धपुष्पाभ्यां मूलं द्वादशधा जपेत् ॥ १६८ ॥

५.१६९
धेनुयोनी दर्शयित्वा धूपदीपौ प्रदर्शयेत् ।
तदम्बु प्रोक्षणीपात्रे किञ्चिन्निक्षिप्य साधकः ॥ १६९ ॥

५.१७०
आत्मानं देयवस्तूनि प्रोक्षयेत्तेन मन्त्रवित् ।
पूजासमाप्तिपर्यन्तमर्घ्यपात्रं न चालयेत् ॥ १७० ॥

५.१७१
विशेषार्घ्यस्य संस्कारः कथितोऽयं शुचिस्मिते ।
यन्त्रराजं प्रवक्ष्यामि समस्तपुरुषार्थदम् ॥ १७१ ॥

५.१७२
मायागर्भं त्रिकोणञ्च तद्बाह्ये वृत्तयुग्मकम् ।
तयोर्मध्ये युग्मयुग्मक्रमात् षोडश केसरान् ॥ १७२ ॥

५.१७३
तद्बाह्येऽष्टदलं पद्मं तद्बहिर्भूपुरं लिखेत् ।
चतुर्द्वारसमायुक्तं सुरेखं सुमनोहरम् ॥ १७३ ॥

५.१७४
स्वार्णे वा राजते ताम्रे कुण्डगोलविलेपिते ।
स्वयम्भुकुसुमैर्युक्ते चन्दनागुरुकुङ्कुमैः ॥ १७४ ॥

५.१७५
कुशीदेनाथवा लिप्ते स्वर्णमयया शलाकया ।
मालूरकण्टकेनापि मूलमन्त्रं समुच्चरन् ।
विलिखेत् यन्त्रराजन्तु देवताभावसिद्धये ॥ १७५ ॥

५.१७६
अथवोत्कीलरेखाभिः स्फाटिके विद्रुमेऽपि वा ।
वैदुर्ये कारयेत् यन्त्रं कारुकेण सुशिल्पिना ॥ १७६ ॥

५.१७७
शुभप्रतिष्ठितं कृत्वा स्थापयेद् भवनान्तरे ।
नश्यन्ति दुष्टभूतानि ग्रहरोगभयानि च ॥ १७७ ॥

५.१७८
पुत्रपौत्रसुखैश्वर्यैर्मोदते तस्य मन्दिरम् ।
दाता भर्ता यशस्वी च भवेत् यन्त्रप्रसादतः ॥ १७८ ॥

५.१७९
एवं यन्त्रं समालिख्य रत्नसिंहासने पुरः ।
संस्थाप्य पीठन्यासोक्तविधिना पीठदेवताः ।
सम्पूज्य कर्णिकाम्ध्ये पूजयेन्मूलदेवताम् ॥ १७९ ॥

५.१८०
कलशस्थापनं वक्ष्ये चक्रानुष्ठानमेव च ।
येनानुष्ठानमात्रेण देवता सुप्रसीदति ।
मन्त्रसिद्धिर्भवेन्नूनमिच्छासिद्धिः प्रजायते ॥ १८० ॥

५.१८१
कलां कलां गृहीत्वा तु देवानां विश्वकर्मणा ।
निर्मितोऽयं स वै यस्मात् कलशस्तेन कथ्यते ॥ १८१ ॥

५.१८२
षट्त्रिंशदङ्गुलायामं षोडशाङ्गुलमुच्चकैः ।
चतुरङ्गुलकं कण्ठं मुखं तस्य षडङ्गुलम् ।
पञ्चाङ्गुलिमितं मूलं विधानं घटनिर्मितौ ॥ १८२ ॥

५.१८३
सौवर्णं राजतं ताम्रं कांस्यजं मृत्तिकोद्भवम् ।
पाषाणं काचजं वाऽपि घटमक्षतमव्रणम् ।
कारयेद्देवताप्रीत्यै वित्तशाठ्यं विवर्जयेत् ॥ १८३ ॥

५.१८४
सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदायकम् ।
ताम्रं प्रीतिकरं ज्ञेयं कांस्यजं पुष्टिबर्द्धनम् ॥ १८४ ॥

५.१८५
काचं वश्यकरं प्रोक्तं पाषाणं स्तम्भकर्मणि ।
मृण्मयं सर्वकार्येषु सुदृश्यं सुपरिष्कृतम् ॥ १८५ ॥

५.१८६
स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् ।
तद्बहिर्वृत्तमालिख्य चतुरस्रं ततो वहिः ॥ १८६ ॥

५.१८७
सिन्दूररजसा वाऽपि रक्तचन्दनकेन वा ।
निर्माय मण्डलं तत्र यजेदाधारदेवताम् ।
मायामाधारशक्तिञ्च ङेनमोऽन्तां समुद्धरेत् ॥ १८७ ॥

५.१८८
नमसा क्षालिताधारं स्थापयेन्मण्डलोपरि ।
अस्त्रेण क्षालितं कुम्भं तत्राऽधारे निवेशयेत् ॥ १८८ ॥

५.१८९
क्षकाराद्यैरकारान्तैर्वर्णैर्बिन्दुसमायुतैः ।
मूलं समुच्चरन् मन्त्री कारणेन प्रपूरयेत् ॥ १८९ ॥

५.१९०
आधारकुम्भतीर्थेषु वह्न्यर्कशशिमण्डलम् ।
पूर्ववत् पूजयेत् विद्वान् देवीभावपरायणः ॥ १९० ॥

५.१९१
रक्तचन्दनसिन्दूररक्तमाल्यानुलेपनैः ।
भूषयित्वा तु कलशं पञ्चीकरणमाचरेत् ॥ १९१ ॥

५.१९२
फटा दर्भेण सन्ताड्य हूं बीजेनावगुण्ठयेत् ।
ह्रीं दिव्यदृष्ट्या संवीक्ष्य नमसाऽभ्युक्षणं चरेत् ॥ १९२ ॥

५.१९३
मूलेन गन्धं त्रिर्दद्यात् पञ्चीकरणमीरितम् ।
प्रणम्य कलशं रक्तपुष्पं दत्त्वा विशोधयेत् ॥ १९३ ॥

५.१९४
ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ १९४ ॥

५.१९५
सूर्यमण्डलमध्यस्थे वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ १९५ ॥

५.१९६
वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्या व्यपोहतु ॥ १९६ ॥

५.१९७
ह्रीं हंसः शुचिसद् वसुरन्तरिक्षसद्धोता वेदिसदतिथिर्दुरोणसत् ।
नृसद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ १९७ ॥

५.१९८
वारुणेन च बीजेन षड्दीर्घस्वरभाजिना ।
ब्रह्मशापविशब्दान्ते मोचितायै पदं वदेत् ।
सुधादेव्यै नमः पश्चात् सप्तधा ब्रह्मशापनुत् ॥ १९८ ॥

५.१९९
अङ्कुशं दीर्घषट्केन युतं श्रीमायया युतम् ।
सुधा पश्चाद् ब्रह्मशापं मोचयेति पदं ततः ।
अमृतं स्रावयद्वन्द्वं द्विठान्तो मनुरीरितः ॥ १९९ ॥

५.२००
एवं शापान्मोचयित्वा यजेत्तत्र समाहितः ।
आनन्दभैरवं देवमानन्दभैरवीं तथा ॥ २०० ॥

५.२०१
हसक्षमलशब्दान्ते वरयूं मिलितं वदेत् ।
आनन्दभैरवं ङेऽन्तं वषडन्तो मनुर्मतः ॥ २०१ ॥

५.२०२
अस्याऽस्यं विपरीतञ्च श्रवणे वामलोचना ।
सुधादेव्यै वौषडन्तो मनुरस्याः प्रपूजने ॥ २०२ ॥

५.२०३
सामरस्यं तयोस्तत्र ध्यात्वा तदमृतप्लुतम् ।
द्रव्यं विभाव्य तस्योर्द्ध्वे मूलं द्वादशधा जपेत् ॥ २०३ ॥

५.२०४
मूलेन देवताबुद्ध्या दत्त्वा पुष्पाञ्जलिं ततः ।
दर्शयेद्धूपदीपौ च घण्टावादनपूर्वकम् ॥ २०४ ॥

५.२०५
इत्थं तीर्थस्य संस्कारः सर्वदा देवपूजने ।
व्रते होमे विवाहे च तथैवोत्सवकर्मणि ॥ २०५ ॥

५.२०६
मांसमानीय पुरतस्त्रिकोणमण्डलोपरि ।
फटाऽभुक्ष्य वायुवह्निबीजाभ्यां मन्त्रयेत्त्रिधा ॥ २०६ ॥

५.२०७
कवचेनावगुण्ठ्याथ संरक्षेच्चास्त्रमन्त्रतः ।
धेन्वा वममृतीकृत्य मन्त्रमेतमुदीरयेत् ॥ २०७ ॥

५.२०८
विष्णोर्वक्षसि या देवी या देवी शङ्करस्य च ।
मांसं मे पवित्रीकुरु कुरु तद्विष्णोः परमं पदम् ॥ २०८ ॥

५.२०९
इत्थं मीनं समानीय प्रोक्तमन्त्रेण संस्कृतम् ।
मन्त्रेणाऽनेन मतिमांस्तं मीनमभिमन्त्रयेत् ॥ २०९ ॥

५.२१०
ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ २१० ॥

५.२११
तथैव मुद्रामादाय शोधयेदमुना प्रिये ।
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥ २११ ॥

५.२१२
ओं तद्विप्रासो विपण्यवो जागृवांसः समिन्धते ।
विष्णोर्यत् परमं पदम् ॥ २१२ ॥

५.२१३
अथवा सर्वतत्त्वानि मूलेनैव विशोधयेत् ।
मूले तु श्रद्दधानो यः किं तस्य दलशाखया ॥ २१३ ॥

५.२१४
केवलं मूलमन्त्रेण यद्द्रव्यं शोधितं भवेत् ।
तदेव देवताप्रीत्यै सुप्रशस्तं मयोच्यते ॥ २१४ ॥

५.२१५
यथा कालस्य संक्षेपात् साधकानवकाशतः ।
सर्वं मूलेन संशोध्य महादेव्यै निवेदयेत् ॥ २१५ ॥

५.२१६
न चात्र प्रत्यवायोऽस्ति नाङ्गवैगुण्यदूषणम् ।
सत्यं सत्यं पुनः सत्यमिति शङ्गरशासनम् ॥ २१६ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे मन्त्रोद्धारकलशस्थापनतत्त्वसंस्कारो नाम पञ्चमोल्लासः ।

Kapitel ६

६.१
श्रीदेव्युवाच ।
यत्त्वया कथितं पञ्चतत्त्वं पूजादिकर्मणि ।
विशिष्य कथ्यतां नाथ यदि तेऽस्ति कृपा मयि ॥ १ ॥

६.२
स्रीसदाशिव उवाच ।
गौडी पैष्टी तथा माध्वी त्रिविधा चोत्तमा सुरा ।
सैव नानाविधा प्रोक्ता तालखर्जूरसम्भवा ॥ २ ॥

६.३
तथा देशविभेदेन नानाद्रव्यविभेदतः ।
बहुधेयं समाख्याता प्रशस्ता देवतार्चने ॥ ३ ॥

६.४
येन केन समुत्पन्ना येन केनाऽहृताऽपि वा ।
नात्र जातिविभेदोऽस्ति शोधिता सर्वसिद्धिदा ॥ ४ ॥

६.५
मांसन्तु त्रिविधं प्रोक्तं जलभूचरखेचरम् ।
यस्मात् तस्मात् समानीतं येन तेन विघातितम् ।
तत् सर्वं देवताप्रीत्यै भवेदेव न संशयः ॥ ५ ॥

६.६
साधकेच्छा बलवती देये वस्तुनि दैवते ।
यद्यदात्मप्रियं द्रव्यं तत्तदिष्टाय कल्पयेत् ॥ ६ ॥

६.७
बलिदानविधौ देवि विहितः पुरुषः पशुः ।
स्त्रीपशुर्न च हन्तव्यस्तत्र शाम्भवशासनात् ॥ ७ ॥

६.८
उत्तमास्त्रिविधा मत्स्याः शालपाठीनरोहिताः ।
मध्यमाः कण्टकैर्हीना अधमा बहुकण्टकाः ।
तेऽपि देव्यै प्रदातव्या यदि सुष्ठु विभर्जिताः ॥ ८ ॥

६.९
मुद्राऽपि त्रिविधा प्रोक्ता उत्तमादिविभेदतः ।
चन्द्रबिम्बनिभं शुभ्रं शालितण्डुलसम्भवम् ।
यवगोधूमजं वाऽपि घृतपक्वं मनोरमम् ॥ ९ ॥

६.१०
मुद्रेयमुत्तमा मध्या भ्रष्टधान्यादिसम्भवा ।
भर्जितान्यन्यबीजानि अधमा परिकीर्तिता ॥ १० ॥

६.११
मांसं मीनश्च मुद्रा च पहलमूलानि यानि च ।
सुधादाने देवतायै संज्ञैषां शुद्धिरीरिता ॥ ११ ॥

६.१२
विना शुद्द्ध्या हेतुदानं पूजनं तर्पणं तथा ।
निष्फलं जायते देवि देवता न प्रसीदति ॥ १२ ॥

६.१३
शुद्धिं विना मद्यपानं केवलं विषभक्षणम् ।
चिररोगी भवेन्मन्त्री स्वल्पायुर्म्रियतेऽचिरात् ॥ १३ ॥

६.१४
शेषतत्त्वं महेशानि निर्वीये प्रबले कलौ ।
स्वकीया केवला ज्ञेया सर्वदोषविवर्जिता ॥ १४ ॥

६.१५
अथवाऽत्र स्वयम्भ्वादि कुसुमं प्राणवल्लभे ।
कथितं तत्प्रतिनिधौ कुसीदं परिकीर्तितम् ॥ १५ ॥

६.१६
अशोधितानि तत्त्वानि पत्रपुष्पफलानि च ।
नैव दद्यान्महादेव्यै दत्त्वा वै नारकी भवेत् ॥ १६ ॥

६.१७
श्रीपात्रस्थापनं कुर्यात् स्वीयया गुणशीलया ।
अभिषिञ्चेत् कारणेन सामान्यार्घ्योदकेन वा ॥ १७ ॥

६.१८
आदौ बालां समुच्चार्यं त्रिपुरायै ततो वदेत् ।
नमःशब्दावसाने च इमां शक्तिमुदीरयेत् ॥ १८ ॥

६.१९
पवित्रीकुरुशब्दान्ते मम शक्तिं कुरु द्विठः ॥ १९ ॥

६.२०
अदीक्षिता यदा नारी कर्णे मायां समुच्चरेत् ।
शक्तयोऽन्याः पूजनीयाः नाऽर्ह्यास्ताडनकर्मणि ॥ २० ॥

६.२१
अथात्मयन्त्रयोर्मध्ये मायागर्भं त्रिकोणकम् ।
वृत्तं षट्कोणमालिख्य चतुरस्रं लिखेद्वहिः ॥ २१ ॥

६.२२
अस्रकोणे पूर्णशैलमुड्डीयानन्तथैव च ।
जालन्धरं कामरूपं सचतुर्थीनमोऽन्तकम् ।
निजनामादिबीजाढ्यं पूजयेत् साधकोत्तमः ॥ २२ ॥

६.२३
षट्कोणेषु षडङ्गानि मूलेनैव त्रिकोणकम् ।
मायामाधारशक्तिञ्च नमोऽन्तेन प्रपूजयेत् ॥ २३ ॥

६.२४
नमसा क्षालिताधारं संस्थाप्य तत्र पूर्ववत् ।
वृत्तोपरि यजेद्वह्नेः कलाः स्वस्वादिमाक्षरैः ॥ २४ ॥

६.२५
धूम्राऽर्चिर्ज्वलिनी सूक्ष्मा ज्वालिनी विष्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा ॥ २५ ॥

६.२६
सचतुर्थीनमोऽन्तेन पूज्या वह्नेः कला दश ॥ २६ ॥

६.२७
म वह्निमण्डलायेति दशान्ते च कलात्मने ।
अवसाने नमो दत्त्वा पूजयेद्वह्निमण्डलम् ॥ २७ ॥

६.२८
ततोऽर्घ्यपात्रमानीय फट्कारेण विशोधितम् ।
आधारे स्थापयित्वा तु कलाः सूर्यस्य द्वादश ।
कभादिवर्णबीजेन ठडान्तेन प्रपूजयेत् ॥ २८ ॥

६.२९
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुधूम्रा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ २९ ॥

६.३०
अं सूर्यमण्डलायेति द्वादशान्ते कलात्मने ।
नमोऽन्तेनाऽर्घ्यपात्रे तु पूजयेत् सूर्यमण्डलम् ॥ ३० ॥

६.३१
विलोममातृकां तद्वन्मूलमन्त्रं समुच्चरन् ।
त्रिभागं पूरयेन्मन्त्री कलशस्थेन हेतुना ॥ ३१ ॥

६.३२
विशेषार्घ्यजलैः शेषं पूरयित्वा समाहितः ।
षोडशस्वरबीजेन नाममन्त्रेण पूजयेत् ।
सचतुर्थीनमोऽन्तेन कलाः सोमस्य षोडश ॥ ३२ ॥

६.३३
अमृता मानदा पूषा तुष्टिः पुष्टीरतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूऋणा पूर्णामृता कामदायिन्यः शशिनः कलाः ॥ ३३ ॥

६.३४
ऊं सोममण्डलायेति षोडशान्ते कलात्मने ।
नमोऽन्तेन यजेन्मन्त्री पूर्ववत् सोममण्डलम् ॥ ३४ ॥

६.३५
दूर्वाक्षतं रक्तपुष्पं बर्वरामपराजिताम् ।
मायया प्रक्षिपेत् पात्रे तीर्थमावाहयेदपि ॥ ३५ ॥

६.३६
कवचेनाऽवगुण्ठ्याऽस्त्रमुद्रया रक्षणञ्चरेत् ।
धेन्वा चैवामृतीकृत्य छादयेन्मत्स्यमुद्रया ॥ ३६ ॥

६.३७
मूलं सञ्जप्य दशधा देवतावाहनञ्चरेत् ।
आवाह्य पुष्पाञ्जलिना पूजयेदिष्टदेवताम् ।
अखण्डाद्यैः पञ्चमन्त्रैर्मन्त्रयेत्तदनन्तरम् ॥ ३७ ॥

६.३८
अखण्डैकरसानन्दाकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणामत्र निधेहि कुलरूपिणि ॥ ३८ ॥

६.३९
अनङ्गस्थामृताकारे शुद्धज्ञानकलेवरे ।
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ ३९ ॥

६.४०
तद्रूपेणैकरस्यञ्च कृत्वाऽर्घ्यं तत्स्वरूपिणि ।
भूत्वा कुलामृताकारं मयि विस्फुरणं कुरु ॥ ४० ॥

६.४१
ब्रह्माण्डरससम्भूतमशेषरससम्भवम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥ ४१ ॥

६.४२
अहन्तापात्रभरितमिदन्तापरमामृतम् ।
पराहन्तामये वह्नौ होमस्वीकारलक्षणम् ॥ ४२ ॥

६.४३
इत्यामन्त्र्य ततस्तस्मिन् शिवयोः सामरस्यकम् ।
विभाव्य पूजयेद्धूपदीपावपि च दर्शयेत् ॥ ४३ ॥

६.४४
इति श्रीपात्रसंस्कारः कथितः कुलपूजने ।
अकृत्वा पापभाङ्मन्त्री पूजा च विफला भवेत् ॥ ४४ ॥

६.४५
घटश्रीपात्रयोर्मध्ये पात्राणि स्थापयेद्बुधः ।
गुरुपात्रं भोगपात्रं शक्तिपात्रमतः परम् ॥ ४५ ॥

६.४६
योगिनीवीरपात्रे च बलिपात्रं ततः परम् ।
पाद्याचमनयोः पात्रं श्रीपात्रेण नव क्रमात् ।
सामान्यार्घ्यस्य विधिना पात्राणां स्थापनञ्चरेत् ॥ ४६ ॥

६.४७
कलशस्थामृतेनैव त्रिभागं परिपूर्य च ।
माषप्रमाणं पात्रेषु शुद्धिखण्डं नियोजयेत् ॥ ४७ ॥

६.४८
वामाङ्गुष्ठानामिकाभ्याममृतं पात्रसंस्थितम् ।
गृहीत्वा शुद्धिखण्डेन दक्षया तत्त्वमुद्रया ।
सर्वत्र तर्पणं कुर्यात् विधिरेषः प्रकीर्तितः ॥ ४८ ॥

६.४९
श्रीपात्रात् परमं बिन्दुं गृहीत्वा शुद्धिसंयुतम् ।
आनन्दभैरवं देवं भैरवीञ्च प्रतर्पयेत् ॥ ४९ ॥

६.५०
गुरुपात्रामृतेनैव तर्पयेद् गुरुसन्ततिम् ।
सहस्रारे निजगुरुं सपत्नीकं प्रतर्प्य च ।
वाग्भवाद्यस्वस्वनाम्ना तद्वद्गुरुचतुष्टयम् ॥ ५० ॥

६.५१
ततः स्वहृदयाम्भोजे भोगपात्रामृतेन च ।
आद्यां कालीं तर्पयामि निजबीजपुरःसरम् ॥ ५१ ॥

६.५२
स्वाहान्तेन त्रिधा मन्त्री तर्पयेदिष्टदेवताम् ।
शक्तिपात्रामृतैस्तद्वदङ्गावरणतर्पणम् ॥ ५२ ॥

६.५३
योगिनीपात्रसंस्थेन सायुधां सपरीकराम् ।
सन्तर्प्य कालिकामाद्यां वटुकेभ्यो बलिं हरेत् ॥ ५३ ॥

६.५४
स्ववामभागे सामान्यं मण्डलं रचयेत् सुधीः ।
सम्पूज्य स्थापयेत्तत्र सामिषान्नं सुधान्वितम् ॥ ५४ ॥

६.५५
वाङ्मायाकमलावञ्च वटुकाय नमः पदम् ।
सम्पूज्य पूर्वभागे च वटुकस्य बलिं हरेत् ॥ ५५ ॥

६.५६
ततस्तु यां योगिनीभ्यः स्वाहा याम्यां हरेद्वलिम् ॥ ५६ ॥

६.५७
षड्दीर्घयुक्तं सम्वर्तं क्षेत्रपालाय हृन्मनुः ।
अनेन क्षेत्रपालाय बलिं दद्यात्तु पश्चिमे ॥ ५७ ॥

६.५८
खान्तबीजं समुद्धृत्य षड्दीर्घ स्वरसंयुतम् ।
ङेऽन्तं गणपतिं चोक्त्वा वह्निजायांततो वदेत् ॥ ५८ ॥

६.५९
उत्तरस्यां गणेशाय बलिमेतेन कल्पयेत् ।
मध्ये तथा सर्वभूतबलिं दद्याद् यथाविधि ॥ ५९ ॥

६.६०
ह्रीं श्रीं सर्वपदञ्चोक्त्वा विघ्नकृद्भ्यस्ततो वदेत् ।
सर्वभूतेभ्य इत्युक्त्वा हूं फट् स्वाहा मनुर्मतः ॥ ६० ॥

६.६१
ततः शिवायै विधिवद्वलिमेकं प्रकल्पयेत् ।
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ॥ ६१ ॥

६.६२
शुभाशुभं फलं व्यक्तं ब्रूहि गृह्ण बलिं तव ।
मूलमेष बलिः पश्चात् शिवायै नम इत्यपि ।
चक्रानुष्ठानमेतत्तु तवाग्रे कथितं शिवे ॥ ६२ ॥

६.६३
चन्दनागुरुकस्तूरिवासितं सुमनोहरम् ।
पुष्पं गृहीत्वा पाणिभ्यां करकच्छपमुद्रया ॥ ६३ ॥

६.६४
नीत्वा स्वहृदयाम्भोजे ध्यायेदाद्यां परात्पराम् ॥ ६४ ॥

६.६५
सहस्रारे महापद्मे सुषुम्नाब्रह्मवर्त्मना ।
नीत्वा सानन्दितां कृत्वा बृहन्निश्वासवर्त्मना ।
दीपाद्दीपान्तरमिव तत्र पुष्पे नियोज्य च ॥ ६५ ॥

६.६६
यन्त्रे निधापयेन्मन्त्री दृढभक्तिसमन्वितः ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेदिष्टदेवताम् ॥ ६६ ॥

६.६७
देवेशि भक्तिसुलभे परिवारसमन्विते ।
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ ६७ ॥

६.६८
क्रीमाद्ये कालिके देवि परिवारादिभिः सह ।
इहागच्छ द्विधा प्रोक्त्वा इह तिष्ठ द्विधा पुनः ॥ ६८ ॥

६.६९
इह शब्दात् सन्निधेहि इह सन्निपदात्ततः ।
रुध्यस्व पदमाभाष्य मम पूजां गृहाण च ॥ ६९ ॥

६.७०
इत्थमावाहनं कृत्वा देव्याः प्राणान् प्रतिष्ठयेत् ॥ ७० ॥

६.७१
आं ह्रीं क्रों श्रीं वह्निजायाप्रतिष्ठामत्र ईरितः ।
अमुष्या देवतायाश्च प्राणा इह ततः परम् ।
प्राणा इति ततः पञ्चबीजानि तदनन्तरम् ॥ ७१ ॥

६.७२
अमुष्या जीव इह च स्थित इत्युच्चरेत् पुनः ।
पञ्चबीजान्यमुष्याश्च सर्वेन्द्रियाणि कीर्तयेत् ॥ ७२ ॥

६.७३
पुनस्तत्पञ्चबीजानि अमुष्यावचनात्ततः ।
वाङ्मनोनयनघ्राणश्रोत्रत्वक्पदतो वदेत् ॥ ७३ ॥

६.७४
प्राणा इहागत्य सुखं चिरंतिष्ठन्तु ठद्वयम् ॥ ७४ ॥

६.७५
इति त्रिधा यन्त्रमध्ये लेलिहानाख्यमुद्रया ।
संस्थाप्य विधिवत् प्राणान् कृताञ्जलिपुटो वदेत् ॥ ७५ ॥

६.७६
आद्ये कालि स्वागतंते सुस्वागतमिदंतव ।
आसनञ्चेदमत्र त्वयाऽस्यतां परमेश्वरि ॥ ७६ ॥

६.७७
ततो विशेषार्घ्य जलैस्त्रिधा मूलं समुच्चरन् ।
प्रोक्षयेद्देवशुद्ध्यर्थं षडङ्गैः सकलीकृतिः ।
ततः सम्पूजयेद्देवीं षोडशैरुपचारकैः ॥ ७७ ॥

६.७८
पाद्यार्घ्याचमनीयञ्च स्नानं वसनभूषणे ।
गन्धपुष्पे धूपदीपौ नैवेद्याचमने तथा ॥ ७८ ॥

६.७९
अमृतञ्चैव ताम्बूलं तर्पणञ्च नतिक्रिया ।
प्रयोजयेदर्चनायामुपचारांश्च षोडश ॥ ७९ ॥

६.८०
आद्याबीजमिदं पाद्यं देवतायै नमः पदम् ।
पाद्यञ्चरणयोर्दद्यात् शिरस्यर्घ्यं निवेदयेत् ॥ ८० ॥

६.८१
स्वाहापदेन मतिमान् स्वधेत्याचमनीयकम् ।
मुखे नियोजयेन्मन्त्री मधुपर्कं मुखाम्बुजे ।
वंस्वधेति समुच्चार्य पुनराचमनीयकम् ॥ ८१ ॥

६.८२
स्नानीयं सर्वगात्रेषु वसनं भूषणानि च ।
निवेदयामि मनुना दद्यादेतानि देशिकः ॥ ८२ ॥

६.८३
मध्यमानामिकाभ्याञ्च गन्धन्दद्याद्धृदम्बुजे ।
नमोऽन्तेन च मन्त्रेण वौषडन्तेन पुष्पकम् ॥ ८३ ॥

६.८४
धूपदीपौ च पुरतः संस्थाप्य प्रोक्षणादिभिः ।
निवेदयामि मन्त्रेण उत्सृज्य तदनन्तरम् ॥ ८४ ॥

६.८५
जयध्वनिमन्त्रमातः स्वाहेति मन्त्रपूर्वकम् ।
सम्पूज्य घण्टां वामेन वादयन् दक्षिणेन तु ॥ ८५ ॥

६.८६
धूपं गृहीत्वा मतिमान् नासिकाधो नियोजयेत् ।
दीपन्तु दृष्टिपर्यन्तं दशधा भ्रामयेत् पुरः ॥ ८६ ॥

६.८७
ततः पात्रञ्च शुद्धिञ्च समादाय करद्वये ।
मूलं समुच्चरन् मन्त्री यन्त्रमध्ये निवेदयेत् ॥ ८७ ॥

६.८८
परमं वारुणीकल्पं कोटिकल्पान्तकारिणि ।
गृहाण शुद्धिसहितं देहि मे मोक्षमव्ययम् ॥ ८८ ॥

६.८९
ततः सामान्यविधिना पुरतो मण्डलं लिखेत् ।
तस्योपरि न्यसेत् पात्रं नैवेद्यपरिपूरितम् ॥ ८९ ॥

६.९०
प्रोक्षणञ्चावगुण्ठञ्च रक्षणञ्चामृतीकृतम् ।
मूलेन सप्तधाऽमन्त्र्य अर्घ्याद्भिर्विनिवेदयेत् ॥ ९० ॥

६.९१
मूलमेतत्तु सिद्धान्नं सर्वोपकरणान्वितम् ।
निवेदयामीष्टदेव्यै जुषाणेदं हविः शिवे ॥ ९१ ॥

६.९२
ततः प्राणादिमुद्राभिः पञ्चभिः प्राशयेद्धविः ॥ ९२ ॥

६.९३
वामे नैवेद्यमुद्राञ्च विकचोत्पलसन्निभाम् ।
दर्शयेन्मूलमन्त्रेण पानार्थं तीर्थपूरितम् ॥ ९३ ॥

६.९४
कलशं विनिवेद्याथ पुनराचमनीयकम् ।
ततः श्रीपात्रसंस्थेनामृतेन तर्पयेत् त्रिधा ॥ ९४ ॥

६.९५
उत्तमाङ्गं हृदाधारपादसर्वाङ्गकेषु च ।
पञ्च पुष्पाञ्जलीन्दत्त्वा मूलमन्त्रेण देशिकः ॥ ९५ ॥

६.९६
कृताञ्जलिपुटो भूत्वा प्रार्थयेदिष्टदेवताम् ।
तवावरणदेवांश्च पूजयामि नमो वदेत् ॥ ९६ ॥

६.९७
अग्निर्निरृतिवायवीशपुरतः पृष्ठतः क्रमात् ।
षडङ्गानि च सम्पूज्य गुरुपङ्क्तीः समर्चयेत् ॥ ९७ ॥

६.९८
गुरुञ्च परमादिञ्च परापरगुरुन्तथा ।
परमेष्ठिगुरुञ्चैव यजेत् कुलगुरूनिमान् ॥ ९८ ॥

६.९९
गुरुपात्रामृतेनैव त्रिस्त्रिस्तर्पणमाचरेत् ।
ततोऽष्टदलमध्ये तु पूजयेदष्टनायिकाः ॥ ९९ ॥

६.१००
मङ्गला विजया भद्रा जयन्ती चाऽपराजिता ।
नन्दिनी नारसिंही च कौमारीत्यष्टमातरः ॥ १०० ॥

६.१०१
दलाग्रेषु यजेदष्टभैरवान् साधकोत्तमः ॥ १०१ ॥

६.१०२
असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्चैव संहारोऽष्टौ च भैरवाः ॥ १०२ ॥

६.१०३
इन्द्रादिदशदिक्पालान् भूपुरान्तः प्रपूजयेत् ।
तेषामस्त्राणि तद्बाह्ये पूजयेत् तर्पयेत्ततः ॥ १०३ ॥

६.१०४
सर्वोपचारैः सम्पूज्य बलिं दद्यात् समाहितः ॥ १०४ ॥

६.१०५
मृगश्छागश्च मेषश्च लुलापः शूकरस्तथा ।
शल्लकी शशको गोधा कूर्मः खड्गी दश स्मृताः ॥ १०५ ॥

६.१०६
अन्यानपि पशून् दद्यात् साधकेच्छानुसारतः ॥ १०६ ॥

६.१०७
सुलक्षणं पशुं देव्या अग्रे संस्थाप्य मन्त्रवित् ।
अर्घ्योदकेन सम्प्रोक्ष्य धेनुमुद्रामृतीकृतम् ॥ १०७ ॥

६.१०८
कृत्वा छागाय पशवे नम इत्यमुना सुधीः ।
सम्पूज्य गन्धसिन्दूरपुष्पनैवेद्यपाथसा ।
गायत्रीं दक्षिणे कर्णे जपेत् पाशविमोचनीम् ॥ १०८ ॥

६.१०९
पशुपाशाय शब्दान्ते विद्महे पदमुच्चरेत् ।
विश्वकर्मणि च पदात् धीमहीति पदं वदेत् ॥ १०९ ॥

६.११०
ततश्चोदीरयेन् मन्त्री तन्नो जीवः प्रचोदयात् ।
एषा तु पशुगायत्री पशुपाशविमोचनी ॥ ११० ॥

६.१११
ततः खड्गं समादाय कूर्चबीजेन पूजयेत् ।
तदग्रमध्यमूलेषु क्रमतः पूजयेदिमान् ॥ १११ ॥

६.११२
वागीश्वरीञ्च ब्रह्माणं लक्ष्मीनारायणौ ततः ।
उमामहेश्वरौ मूले पूजयेत् साधकोत्तमः ॥ ११२ ॥

६.११३
अनन्तरं ब्रह्मविष्णुशिवशक्तियुताय च ।
खड्गाय नम इत्यन्तमनुना खड्गपूजनम् ॥ ११३ ॥

६.११४
महावाक्येन चोत्सृज्य कृताञ्जलिपुटो वदेत् ।
यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ॥ ११४ ॥

६.११५
इत्थं निवेद्य च पशुं भूमिसंस्थन्तु कारयेत् ।
देवीभावपरो भूत्वा हन्यात्तीव्रप्रहारतः ॥ ११५ ॥

६.११६
स्वयं वा भ्रातृपुत्रैर्वा भ्रात्रा वा सुहृदैव वा ।
सपिण्डेनाथ वा छेद्यो नारिपक्षं नियोजयेत् ॥ ११६ ॥

६.११७
ततः कवोष्णं रुधिरं वटुकेभ्यो बलिं हरेत् ।
सप्रदीपशीर्षबलिर्नमो देव्यै निवेदयेत् ॥ ११७ ॥

६.११८
एवं बलिविधिः प्रोक्तः कौलिकानां कुलार्चने ।
अन्यथा देवताप्रीतिर्जायते न कदाचन ॥ ११८ ॥

६.११९
ततो होमं प्रकुर्वीत तद्विधानं शृणु प्रिये ।
स्वदक्षिणे वालुकाभिर्मण्डलं चतुरस्रकम् ॥ ११९ ॥

६.१२०
चतुर्हस्तपरिमितं कृत्वा मूलेन वीक्षणम् ।
अस्त्रेण ताडयित्वा च तेनैव प्रोक्षणं चरेत् ॥ १२० ॥

६.१२१
कूर्चबीजेनावगुण्ठ्य देवतानामपूर्वकम् ।
स्थण्डिलाय नम इति यजेत् साधकसत्तमः ॥ १२१ ॥

६.१२२
प्रागग्रा उदगग्राश्च रेखाः प्रादेशसम्मिताः ।
तिस्रस्तिस्रो विधातव्यास्तत्र सम्पूजयेदिमान् ॥ १२२ ॥

६.१२३
प्रागग्रासु च रेखासु मुकुन्देशपुरन्दरान् ।
ब्रह्मवैवस्वतेन्दूंश्च उत्तराग्रासु पूजयेत् ॥ १२३ ॥

६.१२४
ततः स्थण्डिलमध्ये तु हसौःगर्भं त्रिकोणकम् ।
षट्कोणं तद्बहिर्वृत्तं ततोऽष्टदलपङ्कजम् ।
भूपुरं तद्बहिर्विद्वान् विलिखेद्यन्त्रमुत्तमम् ॥ १२४ ॥

६.१२५
मूलेन पुष्पाञ्जलिना संपूज्य प्रणवेन तु ।
होमद्रव्याणि संप्रोक्ष्य कर्णिकायां यजेत् सुधीः ।
मायामाधारशक्त्यादीन् प्रत्येकं वा प्रपूजयेत् ॥ १२५ ॥

६.१२६
अग्न्यादिकोणे धर्मञ्च ज्ञानं वैराग्यमेव च ।
ऐश्वर्यं पूजयित्वा तु पूर्वादिषु दिशां क्रमात् ॥ १२६ ॥

६.१२७
अधर्ममज्ञानमिति अवैराग्यमनन्तरम् ।
अनैश्वर्यं यजेन्मन्त्री मध्येऽनन्तञ्च पद्मकम् ॥ १२७ ॥

६.१२८
कलासहितसूर्यस्य तथा सोमस्य मण्डलम् ।
प्रागादिकेशरेष्वेषु मध्ये चैताः प्रपूजयेत् ॥ १२८ ॥

६.१२९
पीता श्वेताऽरुणा कृष्णा धूम्रा तीव्रा तथैव च ।
स्फुलिङ्गिनी च रुचिरा ज्वलिनीति तथा क्रमात् ॥ १२९ ॥

६.१३०
प्रणवादिनमोऽन्तेन सर्वत्र पूजनं चरेत् ।
रं वह्नेरासनायेति नमोऽन्तेन प्रपूजयेत् ॥ १३० ॥

६.१३१
वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् ।
वागीश्वरेण संयुक्तां ध्यात्वा मन्त्री तदासने ॥ १३१ ॥

६.१३२
मायया तौ प्रपूज्याथ विधिवद्वह्निमानयेत् ।
मूलेन वीक्षणं कृत्वा फटाऽवाहनमाचरेत् ॥ १३२ ॥

६.१३३
प्रणवं च ततो वह्नेर्योगपीठाय हृन्मनुः ।
यन्त्रे पीठं पूजयित्वा दिक्षु चैताः प्रपूजयेत् ।
वामा ज्येष्ठा तथा रौद्री अम्बिकेति यथाक्रमात् ॥ १३३ ॥

६.१३४
ततोऽमुक्या देवतायाः स्थण्डिलाय नमः पदम् ।
इति स्थण्डिलमापूज्य तन्मध्ये मूलरूपिणीम् ॥ १३४ ॥

६.१३५
ध्यात्वा वागीश्वरीं देवीं वह्निबीजपुरःसरम् ।
वह्निमुद्धृत्य मूलान्ते कूर्चमस्त्रं समुच्चरन् ॥ १३५ ॥

६.१३६
क्रव्यादेभ्यो वह्निजायां क्रव्यादांशं परित्यजेत् ।
अस्त्रेण वह्निं संवीक्ष्य कूर्चेनैवावगुण्ठयेत् ॥ १३६ ॥

६.१३७
धेन्वा चैवामृतीकृत्य हस्ताभ्यामग्निमुद्धरेत् ।
प्रादक्षिण्यक्रमेणाग्निं भ्रामयन् स्थण्डिलोपरि ॥ १३७ ॥

६.१३८
त्रिधा जानुस्पृष्टभूमिः शिवबीजं विचिन्तयन् ।
आत्मनोऽभिमुखीकृत्य योनियन्त्रे नियोजयेत् ॥ १३८ ॥

६.१३९
ततो मायां समुच्चार्य वह्निमूर्तिञ्च ङेयुताम् ।
नमोऽन्तेन प्रपूज्याथ रं वह्निपरतः सुधीः ।
चैतन्याय नमो वह्नेश्चैतन्यं परिपूजयेत् ॥ १३९ ॥

६.१४०
नमसा वह्निमूर्तिञ्च चैतन्यं परिकल्प्य च ।
प्रज्वालयेत्ततो वह्निं मन्त्रेणानेन मन्त्रवित् ॥ १४० ॥

६.१४१
प्रणवं पूर्वमुद्धृत्य चित्पिङ्गलपदं तथा ।
हनद्वयं दह दह पच पचेति ततो वदेत् ॥ १४१ ॥

६.१४२
सर्वज्ञाज्ञापय स्वाहा वह्निप्रज्वालने मनुः ।
ततः कृताञ्जलिर्भूत्वा प्रकुर्यादग्निवन्दनम् ॥ १४२ ॥

६.१४३
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ॥ १४३ ॥

६.१४४
इत्युपस्थाप्य दहनं छादयेत् स्थण्डिलं कुशैः ।
स्वेष्टनाम्ना वह्निनाम कृत्वाऽभ्यर्चनमाचरेत् ॥ १४४ ॥

६.१४५
तारो वैश्वानरपदात् जातवेदपदं वदेत् ।
इहावहावहेत्युक्त्वा लोहिताक्षपदान्तरम् ॥ १४५ ॥

६.१४६
सर्वकर्माणि पदतः साधयान्तेऽग्निवल्लभा ।
इत्यभ्यर्च्य हिरण्यादिसप्तजिह्वाः प्रपूजयेत् ॥ १४६ ॥

६.१४७
सहस्रार्चिःपदं ङेऽन्तं हृदयाय नमो वदन् ।
षडङ्गं पूजयेद्वह्नेस्ततो मूर्तीर्यजेत् सुधीः ॥ १४७ ॥

६.१४८
जातवेदप्रभृतयो मूर्तयोऽष्टौ प्रकीर्तिताः ॥ १४८ ॥

६.१४९
ततो यजेदष्टशक्तीर्ब्राह्म्याद्यास्तदनन्तरम् ।
पद्माद्यष्टनिधीनिष्ट्वा यजेदिन्द्रादिदिक्पतीन् ॥ १४९ ॥

६.१५०
वज्राद्यस्त्राणि सम्पूज्य प्रादेशपरिमाणकम् ।
कुशपत्रद्वयं नीत्वा घृतमध्ये निधापयेत् ॥ १५० ॥

६.१५१
वामे ध्यायेदिडां नाडीं दक्षिणे पिङ्गलां तथा ।
मध्ये सुषुम्नां सञ्चिन्त्य दक्षभागात् समाहितः ॥ १५१ ॥

६.१५२
आज्यं गृहीत्वा मतिमान् दक्षनेत्रे हुताशितुः ।
मन्त्रेणानेन जुहुयात् प्रणवान्तेऽग्नये पदम् ॥ १५२ ॥

६.१५३
स्वाहान्तो मनुराख्यातो वामभागाद्धविर्हरेत् ।
वामनेत्रे हुनेद्वह्नेः ओं सोमाय द्विठो मनुः ॥ १५३ ॥

६.१५४
मध्यादाज्यं समानीय ललाटे हवनं चरेत् ।
अग्नीषोमौ सप्रणवौ तूर्यद्विवचनान्वितौ ॥ १५४ ॥

६.१५५
स्वाहान्तोऽयं मनुः प्रोक्तः पुनर्दक्षिणतो हविः ।
गृहीत्वा नमसा मन्त्री प्रणवं पूर्वमुद्धरेत् ॥ १५५ ॥

६.१५६
अग्नये च स्विष्टिकृते वह्निकान्तां ततो वदेत् ।
अनेन वह्निवदने जुहुयात् साधकोत्तमः ।
भूर्भुवः स्वर्द्विठान्तेन व्याहृत्या होममाचरेत् ॥ १५६ ॥

६.१५७
तारो वैश्वानरपदात् जातवेद इहावहा ।
वहलोहिपदान्ते च ताक्षसर्वपदं वदेत् ।
कर्माणि साधय स्वाहा त्रिधाऽनेनाहुतीर्हरेत् ॥ १५७ ॥

६.१५८
ततोऽग्नौ स्वेष्टमावाह्य पीठाद्यैः सह पूजनम् ।
कृत्वा स्वाहान्तमनुना मूलेन पञ्चविंशतीः ॥ १५८ ॥

६.१५९
हुत्वा वह्न्यात्मनोर्देव्या ऐक्यं सम्भावयन् धिया ।
एकादशाहुतीर्हुत्वा मूलेनैवाङ्गदेवताः ॥ १५९ ॥

६.१६०
हुत्वा स्वकाममुद्दिश्य तिलाज्यमधुमिश्रितैः ॥ १६० ॥

६.१६१
पुष्पैर्विल्वदलैर्वापि यथाविहितवस्तुभिः ।
यथाशक्त्याहुतिं दद्यान्नाष्टन्यूनां प्रकल्पयेत् ॥ १६१ ॥

६.१६२
ततः पूर्णाहुतिंदद्यात् फलपत्रसमन्विताम् ।
स्वाहान्तमूलमन्त्रेण ततः संहारमुद्रया ।
तस्माद्देवीं समानीय स्थापयेत् हृदयाम्बुजे ॥ १६२ ॥

६.१६३
क्षमस्वेति च मन्त्रेण विसृजेत्तं हुताशनम् ।
कृतदक्षिणको मन्त्री अच्छिद्रमवधारयेत् ॥ १६३ ॥

६.१६४
हुतशेषं भ्रुवोर्मध्ये धारयेत् साधकोत्तमः ॥ १६४ ॥

६.१६५
एष होमविधिः प्रोक्तः सर्वत्रागमकर्मणि ।
होमकर्म समाप्यैवं साधको जपमाचरेत् ॥ १६५ ॥

६.१६६
विधानं शृणु देवेशि येन विद्या प्रसीदति ।
देवतागुरुमन्त्राणामैक्यं सम्भावयेद्धिया ॥ १६६ ॥

६.१६७
मन्त्रार्णा देवता प्रोक्ता देवता गुरुरूपिणी ।
अभेदेन यजेद्यस्तु तस्य सिद्धिरनुत्तमा ॥ १६७ ॥

६.१६८
गुरुं शिरसि सञ्चिन्त्य देवतां हृदयाम्बुजे ।
रसनायां मूलविद्यां तेजोरूपां विचिन्त्य च ।
त्रयाणान्तेजसाऽत्मानमेकीभूतं विचिन्तयेत् ॥१६८ ॥

६.१६९
तारेण सम्पुटीकृत्य मूलमन्त्रञ्च सप्तधा ।
जप्त्वा तु साधकः पश्चान्मातृकापुटितं स्मरेत् ॥ १६९ ॥

६.१७०
मायाबीजं स्वशिरसि दशधा प्रजपेत् सुधीः ।
वदने प्रणवं तद्वत् पुनर्मायां हृदम्बुजे ।
प्रजप्य सप्तधा मन्त्री प्राणायामं समाचरेत् ॥ १७० ॥

६.१७१
ततो मालां समादाय प्रवालादिसमुद्भवाम् ।
माले माले महाभागे सर्वशक्तिस्वरूपिणि ॥ १७१ ॥

६.१७२
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।
इति सम्पूज्य मालां तां श्रीपात्रस्थामृतेन च ॥ १७२ ॥

६.१७३
त्रिधा मूलेन सन्तर्प्य स्थिरचित्तो जपञ्चरेत् ।
अष्टोत्तरसहस्रं वाऽप्यथवाऽष्टोत्तरं शतम् ॥ १७३ ॥

६.१७४
प्राणायामंततः कृत्वा श्रीपात्रजलपुष्पकैः ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ १७४ ॥

६.१७५
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ।
इति मन्त्रेण मतिमान् देव्या वामकराम्बुजे ॥ १७५ ॥

६.१७६
तेजोरूपं जपफलं समर्प्य प्रणमेद्भुवि ।
ततः कृताञ्जलिर्भूत्वा स्तोत्रञ्च कवचं पठेत् ॥ १७६ ॥

६.१७७
ततः प्रदक्षिणीकृत्य विशेषार्घ्येण साधकः ।
विलोमार्घ्यप्रदानेन कुर्यादात्मसमर्पणम् ॥ १७७ ॥

६.१७८
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः ।
जाग्रत्स्वप्नसुषुप्त्यन्ते अवस्थासु प्रकीर्तयेत् ॥ १७८ ॥

६.१७९
मनसाऽन्ते वदेद्वाचा कर्मणा तदनन्तरम् ।
हस्ताभ्यां पदतः पद्भ्यामुदरेण ततः परम् ॥ १७९ ॥

६.१८०
शिश्नया यत् कृतञ्चोक्त्वा यत् स्मृतं पदतो वदेत् ।
यदुक्तं तत् सर्वमिति ब्रह्मार्पणमुदीरयेत् ।
भवत्वन्ते मां मदीयं सकलं तदनन्तरम् ॥ १८० ॥

६.१८१
आद्याकालीपदाम्भोजे अर्पयामि पदं वदेत् ।
प्रणवं तत्सदित्युक्त्वा कुर्यादात्मसमर्पणम् ॥ १८१ ॥

६.१८२
ततः कृताञ्जलिर्भूत्वा प्रार्थयेदिष्टदेवताम् ।
मायाबीजं समुच्चार्य श्री आद्ये कालिके वदेत् ॥ १८२ ॥

६.१८३
पूजिताऽसि यथाशक्त्या क्षमस्वेति विसृज्य च ।
संहारमुद्रया पुष्पमाघ्राय स्थापयेत् हृदि ॥ १८३ ॥

६.१८४
ऐशान्यां मण्डलं कृत्वा त्रिकोणं सुपरिष्कृतम् ।
तत्र संपूजयेद्देवीं निर्माल्यपुष्पवारिणा ।
ह्रीं निर्माल्यपदञ्चोक्त्वा वासिन्यै नम इत्यपि ॥ १८४ ॥

६.१८५
ब्रह्मविष्णुशिवादिभ्यः सर्वदेवेभ्य एव च ।
नैवेद्यं वितरेत् पश्चात् गृह्णीयात् शक्तिसाधकः ॥ १८५ ॥

६.१८६
स्वीयशक्तिं वामभागे संस्थाप्य पृथगासने ।
एकासनोपविष्टो वा पात्रं कुर्यात् मनोरमम् ॥ १८६ ॥

६.१८७
पानपात्रं प्रकुर्वीत न पञ्चतोलकाधिकम् ।
तोलकत्रितयान्न्यूनं स्वार्णं राजतमेव च ॥ १८७ ॥

६.१८८
अथवा काचजनितं नारिकेलोद्भवञ्च वा ।
आधारोपरि संस्थाप्य शुद्धिपात्रस्य दक्षिणे ॥ १८८ ॥

६.१८९
महाप्रसादमानीय पात्रेषु परिवेशयेत् ।
स्वयं वा भ्रातृपुत्रैर्वा ज्येष्ठानुक्रमतः सुधीः ॥ १८९ ॥

६.१९०
पानपात्रे सुधा देया शौद्ध्ये शुद्ध्यादिकानि च ।
ततः सामयिकैः सार्द्धं पानभोजनमाचरेत् ॥ १९० ॥

६.१९१
आदावास्तरणार्थाय गृह्णीयात् शुद्धिमुत्तमाम् ।
ततोऽतिहृष्टमनसा समस्तः कुलसाधकः ॥ १९१ ॥

६.१९२
स्वस्वपात्रं समादाय परमामृतपूरितम् ।
मूलाधारादिजिह्वान्तां चिद्रूपां कुलकुण्डलीम् ॥ १९२ ॥

६.१९३
विभाव्य तन्मुखाम्भोजे मूलमन्त्रं समुच्चरन् ।
परस्पराज्ञामादाय जुहुयात् कुण्डलीमुखे ॥ १९३ ॥

६.१९४
अलिपानं कुलस्त्रीणां गन्धस्वीकारलक्षणम् ।
साधकानां गृहस्थानां पञ्चपात्रं प्रकीर्तितम् ॥ १९४ ॥

६.१९५
अतिपानात् कुलीनानां सिद्धिहानिः प्रजायते ॥ १९५ ॥

६.१९६
यावन्न चालयेद् दृष्टिं यावन्न चालयेन्मनः ।
तावत् पानं प्रकुर्वीत पशुपानमतः परम् ॥ १९६ ॥

६.१९७
पाने भ्रान्तिर्भवेद्यस्य घृणी च शक्तिसाधके ।
स पापिष्ठः कथं ब्रूयादाद्यां कालीं भजाम्यहम् ॥ १९७ ॥

६.१९८
यथा ब्रह्मार्पितेऽन्नादौ स्पृष्टदोषो न विद्यते ।
तथा तव प्रसादेऽपि जातिभेदं विवर्जयेत् ॥ १९८ ॥

६.१९९
एवमेव विधानेन कुर्यात् पानञ्च भोजनम् ।
हस्तप्रक्षालनं नास्ति तव नैवेद्यसेवने ।
लेपावनोदनं कुर्याद्वस्त्रेण पाथसाऽपि वा ॥ १९९ ॥

६.२००
ततो निर्माल्यकुसुमं विधृत्य शिरसा सुधीः ।
यन्त्रलेपं कूर्चदेशे विहरेद्देववद्भुवि ॥ २०० ॥

इति श्रीमहानिर्वाणतन्त्र सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे श्रीपात्रस्थापनहोमचक्रानुष्ठानकथनं नाम षष्ठोल्लासः ।

Kapitel ७

७.१
श्रुत्वाऽद्याकालिकादेव्या मन्त्रोद्धारं महाफलम् ।
सौभाग्यमोक्षजननं ब्रह्मज्ञानैकसाधनम् ॥ १ ॥

७.२
प्रातःकृत्यं तथा स्नानं सन्ध्यां सम्विद्विशोधनम् ।
न्यासपूजाविधानञ्च बाह्याभ्यन्तरभेदतः ॥ २ ॥

७.३
बलिप्रदानं होमञ्च चक्रानुष्ठानमेव च ।
महाप्रसादस्वीकारं पार्वती हृष्टमानसा ।
विनयावनता देवी प्रोवाच शङ्करं प्रति ॥ ३ ॥

७.४
श्रीदेव्युवाच ।
सदाशिव जगन्नाथ जगतां हितकारक ।
कृपया कथितं देव पराप्रकृतिसाधनम् ॥ ४ ॥

७.५
सर्वप्राणिहितकरं भोगमोक्षैककारणम् ।
विशेषतः कलियुगे जीवानामाशु सिद्धिदम् ॥ ५ ॥

७.६
तव वागमृताम्भोधौ निमज्जन्मम मानसम् ।
नोत्थातुमीहते स्वैरं भूयः प्रार्थयतेऽचिरात् ॥ ६ ॥

७.७
पूजाविधौ महादेव्याः सूचितं न प्रकाशितम् ।
स्तोत्रञ्च कवचं देव तदिदानीं प्रकाशय ॥ ७ ॥

७.८
श्रीसदाशिव उवाच ।
शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् ।
पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ ८ ॥

७.९
असौभाग्यप्रशमनं सुखसम्पद्विवर्द्धनम् ।
अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ ९ ॥

७.१०
श्रीमदाद्याकालिकायाः सुखसन्निध्यकारणम् ।
स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ १० ॥

७.११
स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।
छन्दोऽनुष्टुब्देवताऽद्या कालिका परिकीर्तिता ।
धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥

७.१२
ह्रीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।
कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ १२ ॥

७.१३
कालिका कालमाता च कालानलसमद्युतिः ।
कपर्दिनी करालास्या करुणामृतसागरा ॥ १३ ॥

७.१४
कृपामयी कृपाधारा कृपापारा कृपागमा ।
कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ १४ ॥

७.१५
कालरात्रिः कामरूपा कामपाशविमोचनी ।
कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ १५ ॥

७.१६
कुमारीपूजनप्रीता कुमारीपूजकालया ।
कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ १६ ॥

७.१७
कदम्बवनसञ्चारा कदम्बवनवासिनी ।
कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १७ ॥

७.१८
किशोरी कलकण्ठा च कलनादनिनादिनी ।
कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ १८ ॥

७.१९
कपालपात्रनिरता कङ्कालमाल्यधारिणी ।
कमलासनसन्तुष्टा कमलासनवासिनी ॥ १९ ॥

७.२०
कमलालयमध्यस्था कमलामोदमोदिनी ।
कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥ २० ॥

७.२१
कामरूपकृतावासा कामपीठविलासिनी ।
कमनीया कल्पलता कमनीयविभूषणा ॥ २१ ॥

७.२२
कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।
कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ २२ ॥

७.२३
कारणानन्दजापेष्टा कारणार्चनहर्षिता ।
कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ २३ ॥

७.२४
कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला ।
कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ २४ ॥

७.२५
कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।
कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ।
कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ॥ २५ ॥

७.२६
कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ।
कर्पूरसागरस्नाता कर्पूरसागरालया ॥ २६ ॥

७.२७
कूर्चबीजजपप्रीता कूर्चजापपरायणा ।
कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ॥ २७ ॥

७.२८
कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ।
काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ॥ २८ ॥

७.२९
काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ २९ ॥

७.३०
कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।
काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ ३० ॥

७.३१
कामबीजजपानन्दा कामबीजस्वरूपिणी ।
कुमतिघ्नी कुलीनार्तिनाशिनी कुलकामिनी ॥ ३१ ॥

७.३२
क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी ।
इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ ३२ ॥

७.३३
ककारकूटघटितं कालीरूपस्वरूपकम् ॥ ३३ ॥

७.३४
पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ।
मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ॥ ३४ ॥

७.३५
बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ।
धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ॥ ३५ ॥

७.३६
पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ ३६ ॥

७.३७
भौमावास्यानिशाभागे मपञ्चकसमन्वितः ।
पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ ३७ ॥

७.३८
पठित्वा शतनामानि साक्षात् कालीमयो भवेत् ।
नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ ३८ ॥

७.३९
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।
समुद्र इव गाम्भीर्ये वले च पवनोपमः ॥ ३९ ॥

७.४०
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ।
रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः ॥ ४० ॥

७.४१
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।
यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ ४१ ॥

७.४२
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।
रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ ४२ ॥

७.४३
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ॥ ४३ ॥

७.४४
अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ।
ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ॥ ४४ ॥

७.४५
बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ।
दुस्तरे सलिले वापि पोते वातविपद्गते ॥ ४५ ॥

७.४६
विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ।
यः पठेच्छतनामानि दृढभक्तिसमन्वितः ॥ ४६ ॥

७.४७
सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ।
न पापेभ्यो भयंतस्य न रोगेभ्यो भयं क्वचित् ॥ ४७ ॥

७.४८
सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ।
तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ॥ ४८ ॥

७.४९
स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ।
स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ॥ ४९ ॥

७.५०
वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ।
तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ॥ ५० ॥

७.५१
दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ।
आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ॥ ५१ ॥

७.५२
अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ।
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ ५२ ॥

७.५३
शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ।
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ॥ ५३ ॥

७.५४
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ ५४ ॥

७.५५
श्रीसदाशिव उवाच ।
कथितं परमं ब्रह्मप्रकृतेः स्तवनं महत् ।
आद्यायाः श्रीकालिकायाः कवचं शृणु साम्प्रतम् ॥ ५५ ॥

७.५६
त्रैलोक्यविजयस्यास्य कवचस्य ऋषिः शिवः ।
छन्दोऽनुष्टुब्देवता च आद्या काली प्रकीर्तिता ॥ ५६ ॥

७.५७
मायाबीजं बीजमिति रमा शक्तिरुदाहृता ।
क्रीं कीलकं काम्यसिद्धौ विनियोगः प्रकीर्तितः ॥ ५७ ॥

७.५८
ह्रीमाद्या मे शिरः पातु श्रीं काली वदनं मम ।
हृदयं क्रीं परा शक्तिः पायात् कण्ठं परात्परा ॥ ५८ ॥

७.५९
नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी ।
घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ५९ ॥

७.६०
दन्तान् रक्षतु कौमारी कपोलौ कमलालया ।
ओष्ठाधरौ क्षमा रक्षेत् चिबुकं चारुहासिनी ॥ ६० ॥

७.६१
ग्रीवां पायात् कुलेशानी ककुत् पातु कृपामयी ।
द्वौ बाहू बाहुदा रक्षेत् करौ कैवल्यदायिनी ॥ ६१ ॥

७.६२
स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी ।
पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ६२ ॥

७.६३
नाभौ पातु विशालाक्षी प्रजास्थानं प्रभावती ।
ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ६३ ॥

७.६४
जयदुर्गाऽवतु प्राणान् सर्वाङ्गं सर्वसिद्धिदा ।
रक्षाहीनंतु यत् स्थानं वर्जितं कवचेन च ॥ ६४ ॥

७.६५
तत् सर्वं मे सदा रक्षेदाद्या काली सनातनी ।
इति ते कथितं दिव्यं त्रैलोक्यविजयाभिधम् ॥ ६५ ॥

७.६६
कवचं कालिकादेव्या आद्यायाः परमाद्भुतम् ॥ ६६ ॥

७.६७
पूजाकाले पठेद्यस्तु आद्याधिकृतमानसः ।
सर्वान् कामानवाप्नोति तस्याद्या सुप्रसीदति ।
मन्त्रसिद्धिर्भवेदाशु किङ्कराः क्षुद्रसिद्धयः ॥ ६७ ॥

७.६८
अपुत्रो लभते पुत्रं धनार्थी प्राप्नुयाद्धनम् ।
विद्यार्थी लभते विद्यां कामी कामानवाप्नुयात् ॥ ६८ ॥

७.६९
सहस्रावृत्तपाठेन वर्मणोऽस्य पुरस्क्रिया ।
पुरश्चरणसम्पन्नं यथोक्तफलदं भवेत् ॥ ६९ ॥

७.७०
चन्दनागरुकस्तूरीकुङ्कुमै रक्तचन्दनैः ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद् यदि ॥ ७० ॥

७.७१
शिखायां दक्षिणे बाहौ कण्ठे वा साधकः कटौ ।
तस्याऽद्या कालिका वश्या वाञ्छितार्थं प्रयच्छति ॥ ७१ ॥

७.७२
न कुत्रापि भयं तस्य सर्वत्र विजयी कविः ।
अरोगी चिरजीवी स्यात् बलवान् धारणक्षमः ॥ ७२ ॥

७.७३
सर्वविद्यासु निपुणः सर्वशास्त्रार्थतत्त्ववित् ।
वशे तस्य महीपाला भोगमोक्षौ करस्थितौ ॥ ७३ ॥

७.७४
कलिकल्मषयुक्तानां निःश्रेयसकरं परम् ॥ ७४ ॥

७.७५
श्रीदेव्युवाच ।
कथितं कृपया नाथ स्तोत्रं कवचमेव च ।
अधुना श्रोतुमिच्छामि पुरश्चर्याविधिं विभो ॥ ७५ ॥

७.७६
श्रीसदाशिव उवाच ।
यो विधिर्ब्रह्ममन्त्राणां पुरश्चरणकर्मणि ।
स एवाऽद्याकालिकाया मन्त्राणां विधिरिष्यते ॥ ७६ ॥

७.७७
अशक्ते साधके देवि जपपूजाहुतादिषु ।
पूजा संक्षेपतः कार्या पुरश्चरणमेव च ॥ ७७ ॥

७.७८
यतो हि निरनुष्ठानात् स्वल्पानुष्ठानमुत्तमम् ।
संक्षेपपूजनं भद्रे तत्रादौ शृणु कथ्यते ॥ ७८ ॥

७.७९
आचम्य मूलमन्त्रेण ऋषिन्यासं समाचरेत् ।
करशुद्धिं ततः कुर्यात् न्यासञ्च करदेहयोः ॥ ७९ ॥

७.८०
सर्वाङ्गव्यापकं कृत्वा प्राणायामं चरेत् सुधीः ।
ध्यानं पूजां जपञ्चेति संक्षेपपूजने विधिः ॥ ८० ॥

७.८१
पुरस्क्रियायां मन्त्राणां यत्र यो विहितो जपः ।
तस्माच्चतुर्गुणजपात् पुरश्चर्या विधीयते ॥ ८१ ॥

७.८२
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।
कृष्णां चतुर्दशीं प्राप्य कौजे वा शनिवासरे ।
पञ्चतत्त्वं समानीय पूजयित्वा जगन्मयीम् ॥ ८२ ॥

७.८३
महानिशायामयुतं जपेन्मन्त्रमनन्यधीः ।
भोजयित्वा ब्रह्मनिष्ठान् पुरश्चरणकृद्भवेत् ॥ ८३ ॥

७.८४
कुजवासरमारभ्य यावन्मङ्गलवासरम् ।
प्रत्यहं प्रजपेन्मन्त्रं सहस्रपरिसंख्यया ॥ ८४ ॥

७.८५
वसुसंख्याजपेनैव भवेन्मन्त्रपुरस्क्रिया ॥ ८५ ॥

७.८६
श्री आद्याकालिकामन्त्राः सिद्धमन्त्राः सुसिद्धिदाः ।
सदा सर्वयुगे देवि कलिकाले विशेषतः ॥ ८६ ॥

७.८७
कालीरूपाणि बहुधा कलौ जाग्रति पार्वति ।
प्रबले कलिकाले तु रूपमेतज्जगद्धितम् ॥ ८७ ॥

७.८८
नात्र सिद्ध्याद्यपेक्षास्ति नारि मित्रादिदूषणम् ।
नियमानियमेनापि जपन्नाद्यां प्रसादयेत् ॥ ८८ ॥

७.८९
ब्रह्मज्ञानमवाप्नोति श्रीमदाद्याप्रसादतः ।
ब्रह्मज्ञानयुतो मर्त्यो जीवन्मुक्तो न संशयः ॥ ८९ ॥

७.९०
न च प्रयासबाहुल्यं कायक्लेशोऽपि न प्रिये ।
आद्याकालीसाधकानां साधनं सुखसाधनम् ॥ ९० ॥

७.९१
चित्तसंशुद्धिरेवात्र मन्त्रिणां फलदायिनी ॥ ९१ ॥

७.९२
यावन्न चित्तकलिलं हातुमुत्सहते व्रती ।
तावत् कर्म प्रकुर्वीत कुलभक्तिसमन्वितः ॥ ९२ ॥

७.९३
यथावद्विहितं कर्म चित्तशुद्धेर्हि कारणम् ।
आदौ मन्त्रं गुरोर्वक्त्राद् गृह्णीयाद् ब्रह्ममन्त्रवत् ॥ ९३ ॥

७.९४
प्रातःकृत्यादिनियमान् कृत्वा कुर्यात् पुरस्क्रियाम् ।
चित्ते शुद्धे महेशानि ब्रह्मज्ञानं प्रजायते ।
ब्रह्मज्ञाने समुत्पन्ने कृत्याकृत्यं न विद्यते ॥ ९४ ॥

७.९५
श्रीपार्वत्युवाच ।
कुलं किं परमेशान कुलाचारश्च किं विभो ।
लक्षणं पञ्चतत्त्वस्य श्रोतुमिच्छामि तत्त्वतः ॥ ९५ ॥

७.९६
श्रीसदाशिव उवाच ।
सम्यक् पृष्टं कुलेशानि साधकानां हितैषिणि ।
कथयामि तव प्रीत्यै यथावदवधारय ॥ ९६ ॥

७.९७
जीवः प्रकृतितत्त्वञ्च दिक्कालाकाशमेव च ।
क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते ॥ ९७ ॥

७.९८
ब्रह्मबुद्ध्या निर्विकल्पमेतेष्वाचरणञ्च यत् ।
कुलाचारः स एवाद्ये धर्मकामार्थमोक्षदः ॥ ९८ ॥

७.९९
बहुजन्मार्जितैः पुण्यैस्तपोदानदृढव्रतैः ।
क्षीणाघानां साधकानां कुलाचारे मतिर्भवेत् ॥ ९९ ॥

७.१००
कुलाचारगता बुद्धिर्भवेदाशु सुनिर्मला ।
तदाद्याचरणाम्भोजे मतिस्तेषां प्रजायते ॥ १०० ॥

७.१०१
सद्गुरोः सेवया प्राप्य विद्यामेनां परात्पराम् ।
कुलाचाररता भूत्वा पञ्चतत्त्वैः कुलेश्वरीम् ॥ १०१ ॥

७.१०२
यजन्तः कालिकामाद्यां कुलज्ञाः साधकोत्तमाः ।
इह भुक्त्वाऽखिलान् भोगान् ब्रजन्त्यन्ते निरामयम् ॥ १०२ ॥

७.१०३
महौषधं यज्जीवानां दुःखविस्मारकं महत् ।
आनन्दजनकं यच्च तदाद्यतत्त्वलक्षणम् ॥ १०३ ॥

७.१०४
असंस्कृतञ्च यत्तत्त्वं मोहदं भ्रमकारणम् ।
विवादरोगजननन्त्याज्यं कौलैः सदा प्रिये ॥ १०४ ॥

७.१०५
ग्राम्यवायव्यवन्यानामुद्भूतं पुष्टिवर्द्धनम् ।
बुद्धितेजोबलकरं द्वितीयतत्त्वलक्षणम् ॥ १०५ ॥

७.१०६
जलोद्भवं यत् कल्याणि कमनीयं सुखप्रदम् ।
प्रजावृद्धिकरञ्चाऽपि तृतीयतत्त्वलक्षणम् ॥ १०६ ॥

७.१०७
सुलभं भूमिजातञ्च जीवानां जीवनञ्च यत् ।
आयुर्मूलं त्रिजगतां चतुर्थतत्त्वलक्षणम् ॥ १०७ ॥

७.१०८
महानन्दकरं देवि प्राणिनां सृष्टिकारणम् ।
अनाद्यन्तजगन्मूलं शेषतत्त्वस्य लक्षणम् ॥ १०८ ॥

७.१०९
आद्यतत्त्वं विद्धि तेजो द्वितीयं पवनं प्रिये ।
अपस्तृतीयं जानीहि चतुर्थं पृथिवीं शिवे ॥ १०९ ॥

७.११०
पञ्चमं जगदाधारा वियद्विद्धि वरानने ॥ ११० ॥

७.१११
इत्थं ज्ञात्वा कुलेशानि कुलन्तत्त्वानि पञ्च च ।
आचारं कुलधर्मस्य जीवन्मुक्तो भवेन्नरः ॥ १११ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे स्तोत्रकवच कुलतत्त्व लक्षण कथनं नाम सप्तमोल्लासः ।

Kapitel ८

८.१
श्रुत्वा धर्मान् बहुविधान् भवानी भवमोचनी ।
हिताय जगतां माता भूयः शङ्करमब्रवीत् ॥ १ ॥

८.२
श्रीदेव्युवाच ।
श्रुतं बहुविधं धर्ममिहामूत्र सुखप्रदम् ।
धर्मार्थकामदं विघ्नहरं निर्वाणकारणम् ॥ २ ॥

८.३
साम्प्रतं श्रोतुमिच्छामि ब्रूहि वर्णाश्रमान् विभो ।
तत्र ये विहिताचाराः कृपया वद तानपि ॥ ३ ॥

८.४
श्रीसदाशिव उवाच ।
चत्वारः कथिता वर्णा आश्रमा अपि सुव्रते ।
आचाराश्चापि वर्णानामाश्रमाणां पृथक् पृथक् ॥ ४ ॥

८.५
कृतादौ कलिकाले तु वर्णाः पञ्च प्रकीर्तिताः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च ॥ ५ ॥

८.६
एतेषां सर्ववर्णानामाश्रमौ द्वौ महेश्वरि ।
तेषामाचारधर्मांश्च शृणुष्वाद्ये वदामि ते ॥ ६ ॥

८.७
पुरैव कथितं तावत् कलिसम्भवचेष्टितम् ।
तपःस्वाध्यायहीनानां नृणामल्पायुषामपि ।
क्लेशप्रयासाशक्तानां कुतो देहपरिश्रमः ॥ ७ ॥

८.८
ब्रह्मचर्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये ।
गार्हस्थ्यो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे ॥ ८ ॥

८.९
गृहस्थस्य क्रियाः सर्वा आगमोक्ताः कलौ शिवे ।
नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम् ॥ ९ ॥

८.१०
भैक्षुकेऽप्याश्रमे देवि वेदोक्तं दण्डधारणम् ।
कलौ नास्त्येव तत्त्वज्ञे यतस्तत् श्रौतसंस्कृतिः ॥ १० ॥

८.११
शैवसंस्कारविधिनाऽवधूताश्रमधारणम् ।
तदेव कथितं भद्रे सन्न्यासग्रहणं कलौ ॥ ११ ॥

८.१२
विप्राणामितरेषाञ्च वर्णानां प्रबले कलौ ।
उभयत्राश्रमे देवि सर्वेषामधिकारिता ॥ १२ ॥

८.१३
सर्वेषामेव संस्काराः कर्माणि शैववर्त्मना ।
विप्राणामितरेषाञ्च कर्मलिङ्गं पृथक् पृथक् ॥ १३ ॥

८.१४
जातमात्रो गृहस्थः स्यात् संस्कारादाश्रमी भवेत् ।
गार्हस्थ्यं प्रथमं कुर्यात् यथाविधि महेश्वरि ॥ १४ ॥

८.१५
तत्त्वज्ञाने समुत्पन्ने वैराग्यं जायते यदा ।
तदा सर्वं परित्यज्य सन्न्यासाश्रममाचरेत् ॥ १५ ॥

८.१६
विद्यामुपार्जयेत् बाल्ये धनं दारांश्च यौवने ।
प्रौढे धर्म्याणि कर्माणि चतुर्थे प्रव्रजेत् सुधीः ॥ १६ ॥

८.१७
मातरं पितरं बृद्धं भार्याञ्चैव पतिव्रताम् ।
शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् ॥ १७ ॥

८.१८
मातॄः पितॄन् शिशून् दारान् स्वजनान् बान्धवानपि ।
यः प्रव्रजति हित्वैतान् स महापातकी भवेत् ॥ १८ ॥

८.१९
मातृहा पितृहा स स्यात् स्त्रीवधी ब्रह्मघातकः ।
असन्तर्प्य स्वपित्रादीन् यो गच्छेद्भिक्षुकाश्रमे ॥ १९ ॥

८.२०
ब्राह्मणो विप्रभिन्नश्च स्वस्ववर्णोक्तसंस्क्रियाम् ।
शैवेन वर्त्मना कुर्यादेष धर्मः कलौ युगे ॥ २० ॥

८.२१
श्रीदेव्युवाच ।
को वा धर्मो गृहस्थस्य भिक्षुकस्य च किं विभो ।
विप्रस्य विप्रभिन्नानां संस्कारादीनि मे वद ॥ २१ ॥

८.२२
श्रीसदाशिव उवाच ।
गार्हस्थ्यं प्रथमं धर्मं सर्वेषां मनुजन्मनाम् ।
तदेव कथयाम्यादौ शृणु कौलिनि तत्त्वतः ॥ २२ ॥

८.२३
ब्रह्मनिष्ठो गृहस्थः स्यात् ब्रह्मज्ञानपरायणः ।
यद्यत् कर्म प्रकुर्वीत तद्ब्रह्मणि समर्पयेत् ॥ २३ ॥

८.२४
न मिथ्याभाषणं कुर्यात् न च शाठ्यं समाचरेत् ।
देवतातिथिपूजासु गृहस्थो निरतो भवेत् ॥ २४ ॥

८.२५
मातरं पितरञ्चैव साक्षात् प्रत्यक्षदेवताम् ।
मत्वा गृही निषेवेत सदा सर्वप्रयत्नतः ॥ २५ ॥

८.२६
तुष्टायां मातरि शिवे तुष्टे पितरि पार्वति ।
तव प्रीतिर्भवेद्देवि परब्रह्म प्रसीदति ॥ २६ ॥

८.२७
त्वमाद्ये जगतां माता पिता ब्रह्म परात्परम् ।
युवयोः प्रीणनं यस्मात् तस्मात् किं गृहिणांतपः ॥ २७ ॥

८.२८
आसनं शयनं वस्त्रं पानं भोजनमेव च ।
तत्तत्समयमाज्ञाय मात्रे पित्रे नियोजयेत् ॥ २८ ॥

८.२९
श्रावयेन्मृदुलां वाणीं सर्वदा प्रियमाचरेत् ।
पित्रोराज्ञानुसारी स्यात् सत्पुत्रः कुलपावनः ॥ २९ ॥

८.३०
औद्धत्यं परिहासञ्च तर्जनं परिभाषणम् ।
पित्रोरग्रे न कुर्वीत यदीच्छेदात्मनो हितम् ॥ ३० ॥

८.३१
मातरं पितरं वीक्ष्य नत्वोत्तिष्ठेत् ससम्भ्रमः ।
विनाऽज्ञया नोपविशेत् संस्थितः पितृशासने ॥ ३१ ॥

८.३२
विद्याधनमदोन्मत्तो यः कुर्यात् पितृहेलनम् ।
स याति नरकं घोरं सर्वधर्मवहिष्कृतः ॥ ३२ ॥

८.३३
मातरं पितरं पुत्रं दारानतिथिसोदरान् ।
हित्वा गृही न भुञ्जीयात् प्राणैः कण्ठगतैरपि ॥ ३३ ॥

८.३४
वञ्चयित्वा गुरून् बन्धून् यो भुङ्क्ते स्वोदरम्भरः ।
इहैव लोकगर्ह्योऽसौ परत्र नारकी भवेत् ॥ ३४ ॥

८.३५
गृहस्थो गोपयेद्दारान् विद्यामभ्यासयेत् सुतान् ।
पोषयेत् स्वजनान् बन्धूनेष धर्मः सनातनः ॥ ३५ ॥

८.३६
जनन्या वर्द्धितो देहो जनकेन प्रपोषितः ।
स्वजनैः शिक्षितः प्रीत्या सोऽधमस्तान् परित्यजेत् ॥ ३६ ॥

८.३७
एषामर्थे महेशानि कृत्वा कष्टशतान्यपि ।
प्रीणयेत् सततं शक्त्या धर्मो ह्येष सनातनः ॥ ३७ ॥

८.३८
स धन्यः पुरुषो लोके स कृती परमार्थवित् ।
ब्रह्मनिष्ठः सत्यसन्धो यो भवेद्भुवि मानवः ॥ ३८ ॥

८.३९
न भार्यां ताडयेत् क्वापि मातृवत् पालयेत् सदा ।
न त्यजेत् घोरकष्टेऽपि यदि साध्वी पतिव्रता ॥ ३९ ॥

८.४०
स्थितेषु स्वीयदारेषु स्त्रियमन्यां न संस्पृशेत् ।
दुष्टेन चेतसा विद्वानन्यथा नारकी भवेत् ॥ ४० ॥

८.४१
विरले शयनं वासं त्यजेत् प्राज्ञः परस्त्रिया ।
अयुक्तभाषणञ्चैव स्त्रियं शौर्यन्न दर्शयेत् ॥ ४१ ॥

८.४२
धनेन वाससा प्रेम्णा श्रद्धया मृदुभाषणैः ।
सततं तोषयेद्दारान् नाप्रियं क्वचिदाचरेत् ॥ ४२ ॥

८.४३
उत्सवे लोकयात्रायां तीर्थेष्वन्यनिकेतने ।
न पत्नीं प्रेषयेत् प्राज्ञः पुन्नामात्यविवर्जिताम् ॥ ४३ ॥

८.४४
यस्मिन्नरे महेशानि तुष्टा भार्या पतिव्रता ।
सर्वो धर्मः कृतस्तेन भवतीप्रिय एव सः ॥ ४४ ॥

८.४५
चतुर्वर्षावधि सुतान् लालयेत् पालयेत् पिता ।
ततः षोडशपर्यन्तं गुणान् विद्याञ्च शिक्षयेत् ॥ ४५ ॥

८.४६
विंशत्यब्दाधिकान् पुत्रान् प्रेरयेद् गृहकर्मसु ।
ततस्तांस्तुल्यभावेन मत्वा स्नेहं प्रदर्शयेत् ॥ ४६ ॥

८.४७
कन्याऽप्येवं पालनीया शिक्षणीयाऽतियत्नतः ।
देया वराय विदुषे धनरत्नसमन्विता ॥ ४७ ॥

८.४८
एवं क्रमेण भ्रातॄंश्च स्वसृभ्रातृसुतानपि ।
ज्ञातीन् मित्राणि भृत्यांश्च पालयेत्तोषयेद् गृही ॥ ४८ ॥

८.४९
ततः स्वधर्मनिरतानेकग्रामनिवासिनः ।
अभ्यागतानुदासीनान् गृहस्थः परिपालयेत् ॥ ४९ ॥

८.५०
यद्येवं नाचरेद्देवि गृहस्थो विभवे सति ।
पशुरेव स विज्ञेयः स पापी लोकगर्हितः ॥ ५० ॥

८.५१
निद्रालस्यं देहयत्नं केशविन्यासमेव च ।
आसक्तिमशने वस्त्रे नातिरिक्तं ससाचरेत् ॥ ५१ ॥

८.५२
युक्ताहारो युक्तनिद्रो मितवाङ्मितमैथुनः ।
स्वच्छो नम्रः शुचिर्दक्षो युक्तः स्यात् सर्वकर्मसु ॥ ५२ ॥

८.५३
शूरः शत्रौ विनीतः स्यात् बान्धवे गुरुसन्निधौ ।
जुगुप्सितान् न मन्येत नावमन्येत मानिनः ॥ ५३ ॥

८.५४
सौहार्दं व्यवहारांश्च प्रवृत्तिं प्रकृतिं नृणाम् ।
सहवासेन तर्कैश्च विदित्वा विश्वसेत्ततः ॥ ५४ ॥

८.५५
त्रसेद्द्वेष्टुरपि क्षुद्रात् समयं वीक्ष्य बुद्धिमान् ।
प्रदर्शयेदात्मभावान्नैव धर्मं विलङ्घयेत् ॥ ५५ ॥

८.५६
स्वीयं यशः पौरुषञ्च गुप्तये कथितञ्च यत् ।
कृतं यदुपकाराय धर्मज्ञो न प्रकाशयेत् ॥ ५६ ॥

८.५७
जुगुप्सितप्रवृत्तौ च निश्चितेऽपि पराजये ।
गुरुणा लघुना चापि यशस्वी न विवादयेत् ॥ ५७ ॥

८.५८
विद्याधनयशोधर्मान् यतमान उपार्जयेत् ।
व्यसनञ्चासतां सङ्गं मिथ्याद्रोहं परित्यजेत् ॥ ५८ ॥

८.५९
अवस्थानुगताश्चेष्टाः समयानुगताः क्रियाः ।
तस्मादवस्थां समयं वीक्ष्य कर्म समाचरेत् ॥ ५९ ॥

८.६०
योगक्षेमरतो दक्षो धार्मिकः प्रियबान्धवः ।
मितवाङ्मितहासः स्यान्मान्याग्रे तु विशेषतः ॥ ६० ॥

८.६१
जितेन्द्रियः प्रसन्नात्मा सुचिन्त्यः स्याद्दृढव्रतः ।
अप्रमत्तो दीर्घदर्शी मात्रास्पर्शान् विचारयेत् ॥ ६१ ॥

८.६२
सत्यं मृदु प्रियं धीरो वाक्यं हितकरं वदेत् ।
आत्मौत्कर्ष्यं तथा निन्दां परेषां परिवर्जयेत् ॥ ६२ ॥

८.६३
जलाशयाश्च वृक्षाश्च विश्रामगृहमध्वनि ।
सेतुः प्रतिष्ठितो येन तेन लोकत्रयं जितम् ॥ ६३ ॥

८.६४
सन्तुष्टौ पितरौ यस्मिन्ननुरक्ताः सुहृद्गणाः ।
गायन्ति यद्यशो लोकास्तेन लोकत्रयं जितम् ॥ ६४ ॥

८.६५
सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ६५ ॥

८.६६
विरक्तः परदारेषु निष्पृहः परवस्तुषु ।
दम्भमात्सर्यहीनो यस्तेन लोकत्रयं जितम् ॥ ६६ ॥

८.६७
न बिभेति रणाद्यो वै संग्रामेऽप्यपराङ्मुखः ।
धर्मयुद्धे मृतो वाऽपि तेन लोकत्रयं जितम् ॥ ६७ ॥

८.६८
असंशयात्मा सुश्रद्धः शाम्भवाचारतत्परः ।
मच्छासने हितो यश्च तेन लोकत्रयं जितम् ॥ ६८ ॥

८.६९
ज्ञानिना लोकयात्रायै सर्वत्र समदृष्टिना ।
क्रियन्ते येन कर्माणि तेन लोकत्रयं जितम् ॥ ६९ ॥

८.७०
शौचन्तु द्विविधं देवि बाह्याभ्यन्तरभेदतः ।
ब्रह्मण्यात्मार्पणं यत्तत् शौचमान्तरिकं स्मृतम् ॥ ७० ॥

८.७१
अद्भिर्वा भस्मना वाऽपि मलानामपकर्षणम् ।
देहशुद्धिर्भवेद्येन बहिःशौचं तदुच्यते ॥ ७१ ॥

८.७२
गङ्गा नद्यो ह्रदा वाप्यस्तथा कूपाश्च क्षुल्लकाः ।
सर्वं पवित्रजननं स्वर्णदी क्रमतः प्रिये ॥ ७२ ॥

८.७३
भस्माऽत्र याज्ञिकं श्रेष्ठं मृत्स्ना तु मलवर्जिता ।
वासोऽजिनतृणादीनि मृद्वज्जानीहि सुव्रते ॥ ७३ ॥

८.७४
किमत्र बहुनोक्तेन शौचाशौचविधौ शिवे ।
मनःपूतं भवेद्येन गृहस्थस्तत्तदाचरेत् ॥ ७४ ॥

८.७५
निद्रान्ते मैथुनस्यान्ते त्यागान्ते मलमूत्रयोः ।
भोजनान्ते मले स्पृष्टे बहिःशौचं विधीयते ॥ ७५ ॥

८.७६
सन्ध्या त्रैकालिकी कार्या वैदिकी तान्त्रिकी क्रमात् ।
उपासनाया भेदेन पूजां कुर्याद् यथाविधि ॥ ७६ ॥

८.७७
ब्रह्ममन्त्रोपासकानां गायत्रीजपनात् प्रिये ।
ज्ञानात् ब्रह्मेति तद्वाच्यं सन्ध्या भवति वैदिकी ॥ ७७ ॥

८.७८
अन्येषां वैदिकी सन्ध्या सूर्योपस्थानपूर्वकम् ।
अर्घ्यदानं दिनेशाय गायत्रीजपनं तथा ॥ ७८ ॥

८.७९
अष्टोत्तरं सहस्रं वा शतं वा दशधाऽपि वा ।
जपानां नियमो भद्रे सर्वत्राह्निककर्मणि ॥ ७९ ॥

८.८०
शूद्रसामान्यजातीनामधिकारोऽस्ति केवलम् ।
आगमोक्तविधौ देवि सर्वसिद्धिस्ततो भवेत् ॥ ८० ॥

८.८१
प्रातः सूर्योदयः कालो मध्याह्नस्तदनन्तरम् ।
सायं सूर्यास्तसमयस्त्रिकालानामयं क्रमः ॥ ८१ ॥

८.८२
श्रीदेव्युवाच ।
विप्रादिसर्ववर्णानां विहिता तान्त्रिकी क्रिया ।
त्वयैव कथिता नाथ सम्प्राप्ते प्रबले कलौ ॥ ८२ ॥

८.८३
तदिदानीं कथं देव विप्रान् वैदिककर्मणि ।
नियोजयसि तत्सर्वं विशेषाद्वक्तुमर्हसि ॥ ८३ ॥

८.८४
श्रीसदाशिव उवाच ।
सत्यं ब्रवीषि तत्त्वज्ञे सर्वेषां तान्त्रिकी क्रिया ।
लोकानां भोगमोक्षाय सर्वकर्मसु सिद्धिदा ॥ ८४ ॥

८.८५
इयन्तु ब्रह्मसावित्री यथा भवति वैदिकी ।
तथैव तान्त्रिकी ज्ञेया प्रशस्तोभयकर्मणि ॥ ८५ ॥

८.८६
अतोऽत्र कथितं देवि द्विजानां प्रवले कलौ ।
गायत्र्यामधिकारोऽस्ति नान्यमन्त्रेषु कर्हिचित् ॥ ८६ ॥

८.८७
ताराद्या कमलाद्या च वाग्भवाद्या यथाक्रमात् ।
ब्राह्मणक्षत्रियविशां सावित्री कथिता कलौ ॥ ८७ ॥

८.८८
द्विजादीनां प्रभेदार्थं शूद्रेभ्यः परमेश्वरि ।
सन्ध्येयं वैदिकी प्रोक्ता प्रागेवाह्निककर्मणाम् ॥ ८८ ॥

८.८९
अन्यथा शाम्भवैर्मार्गैः केवलैः सिद्धिभाग्भवेत् ।
सत्यं सत्यं पुनः सत्यं सत्यमेतन्न संशयः ॥ ८९ ॥

८.९०
कालात्ययेऽपि सन्ध्येयं कर्तव्या देववन्दिते ।
ओं तत्सत् ब्रह्म चोच्चार्य मोक्षेच्छुभिरनातुरैः ॥ ९० ॥

८.९१
आसनं वसनं पात्रं शयया यानं निकेतनम् ।
गृह्यकं वस्तुजातञ्ज स्वच्छात् स्वच्छं प्रशस्यते ॥ ९१ ॥

८.९२
समाप्याह्निककर्माणि स्वाध्यायं गृहकर्म वा ।
गृहस्थो नियतं कुर्यान्नैव तिष्ठेन्निरुद्यमः ॥ ९२ ॥

८.९३
पुण्यतीर्थे पुण्यतिथौ ग्रहणे चन्द्रसूर्ययोः ।
जपं दानं प्रकुर्वाणः श्रेयसां निलयो भवेत् ॥ ९३ ॥

८.९४
कलावन्नगतप्राणा नोपवासः प्रशस्यते ।
उपवासप्रतिनिधावेकं दानं विधीयते ॥ ९४ ॥

८.९५
कलौ दानं महेशानि सर्वसिद्धिकरं भवेत् ।
तत्पात्रं केवलं ज्ञेयो दरिद्रः सत्क्रियान्वितः ॥ ९५ ॥

८.९६
मासवत्सरपक्षाणामारम्भदिनमम्बिके ।
चतुर्दश्यष्टमी शुक्ला तथैवैकादशी कुहूः ॥ ९६ ॥

८.९७
निजजन्मदिनञ्चैव पित्रोर्मरणवासरः ।
वैधोत्सवदिनञ्चैव पुण्यकालः प्रकीर्तितः ॥ ९७ ॥

८.९८
गङ्गानदी महानद्यो गुरोः सदनमेव च ।
प्रसिद्धं देवताक्षेत्रं पुण्यतीर्थं प्रकीर्तितम् ॥ ९८ ॥

८.९९
त्यक्त्वा स्वाध्यायनं पित्रोः शुश्रूषान्दाररक्षणम् ।
नरकाय भवेत्तीर्थं तीर्थाय व्रजतां नृणाम् ॥ ९९ ॥

८.१००
न तीर्थसेवा नारीणां नोपवासादिकाः क्रियाः ।
नैव व्रतानां नियमो भर्तुः शुश्रूषणं विना ॥ १०० ॥

८.१०१
भर्तैव योषितां तीर्थं तपो दानं व्रतं गुरुः ।
तस्मात् सर्वात्मना नारी पतिसेवां समाचरेत् ॥ १०१ ॥

८.१०२
पत्युः प्रियं सदा कुर्यात् वचसा परिचर्यया ।
तदाज्ञानुचरी भूत्वा तोषयेत् पतिबान्धवान् ॥ १०२ ॥

८.१०३
नेक्षेत् पतिं क्रूरदृष्ट्या श्रावयेन्नैव दुर्वचः ।
नाप्रियं मनसा वापि चरेद्भर्तुः पतिव्रता ॥ १०३ ॥

८.१०४
कायेन मनसा वाचा सर्वदा प्रियकर्मभिः ।
या प्रीणयति भर्तारं सैव ब्रह्मपदं लभेत् ॥ १०४ ॥

८.१०५
नान्यवक्त्रं निरीक्षेत नान्यैः सम्भाषणञ्चरेत् ।
न चाङ्गं दर्शयेदन्यान् भर्तुराज्ञानुसारिणी ॥ १०५ ॥

८.१०६
तिष्ठेत् पित्रोर्वशे बाल्ये भर्तुः सम्प्राप्तयौवने ।
वार्द्धक्ये पतिबन्धूनां न स्वतन्त्रा भवेत् क्वचित् ॥ १०६ ॥

८.१०७
अज्ञातपतिमर्यादामज्ञातपतिसेवनाम् ।
नोद्वाहयेत् पिता बालामज्ञातधर्मशासनाम् ॥ १०७ ॥

८.१०८
नरमांसं न भुञ्जीयात् नराकृतिपशूंस्तथा ।
बहूपकारकान् गाश्च मांसादान् रसवर्जितान् ॥ १०८ ॥

८.१०९
फलानि ग्राम्यवन्यानि मूलानि विविधानि च ।
भूमिजातानि सर्वाणि भोज्यानि स्वेच्छया शिवे ॥ १०९ ॥

८.११०
अध्यापनं याजनञ्च विप्राणां व्रतमुत्तमम् ।
अशक्तौ क्षत्रियविशां वृत्तैर्निर्वाहमाचरेत् ॥ ११० ॥

८.१११
राजन्यानाञ्च सद्वृत्तं संग्रामो भूमिशासनम् ।
अत्राशक्तौ वणिग्वृत्तं शूद्रवृत्तमथाश्रयेत् ॥ १११ ॥

८.११२
वाणिज्याशक्तवैश्यानां शूद्रवृत्तमदूषणम् ।
शूद्राणां परमेशानि सेवावृत्तिं विधीयते ॥ ११२ ॥

८.११३
सामान्यानां तु वर्णानां विप्रवृत्त्यन्यवृत्तिषु ।
अधिकारोऽस्ति देवेशि देहयात्राप्रसिद्धये ॥ ११३ ॥

८.११४
अद्वेष्टा निर्ममः शान्तः सत्यवादी जितेन्द्रियः ।
निर्मत्सरो निष्कपटः स्ववृत्तौ ब्राह्मणो भवेत् ॥ ११४ ॥

८.११५
अध्यापयेत् पुत्रबुद्ध्या शिष्यान् सन्मार्गवर्तिनः ।
सर्वलोकहितैषी स्यात् पक्षपातविनिर्मुखः ॥ ११५ ॥

८.११६
मिथ्यालापमसूयाञ्च व्यसनाप्रियभाषणम् ।
नीचैः प्रसक्तिं दम्भञ्च सर्वथा ब्राह्मणस्त्यजेत् ॥ ११६ ॥

८.११७
युयुत्सा गर्हिता सन्धौ सम्मानैः सन्धिरुत्तमा ।
मृत्युर्जयो वा युद्धेषु राजन्यानां वरानने ॥ ११७ ॥

८.११८
अलोभी स्यात् प्रजावित्ते गृह्णीयात् सम्मितं करम् ।
रक्षन्नङ्गीकृतं धर्मं पुत्रवत् पालयेत् प्रजाः ॥ ११८ ॥

८.११९
न्यायं युद्धं तथा सन्धिं कर्माण्यन्यानि यानि च ।
मन्त्रिभिः सह कुर्वीत विचार्य सर्वथा नृपः ॥ ११९ ॥

८.१२०
धर्मयुद्धेन योद्धव्यं न्यायदण्डपुरस्क्रियाः ।
करणीया यथाशास्त्रं सन्धिं कुर्याद् यथाबलम् ॥ १२० ॥

८.१२१
उपायैः साधयेत् कार्यं युद्धं सन्धिञ्च शत्रुभिः ।
उपायानुगताः सर्वा जयक्षेमविभूतयः ॥ १२१ ॥

८.१२२
स्यान्नीचसङ्गाद्विरतः सदा विद्वज्जनप्रियः ।
धीरो विपत्तौ दक्षश्च शीलवान् सम्मितव्ययी ॥ १२२ ॥

८.१२३
निपुणो दुर्गसंस्कारे शस्त्रशिक्षाविचक्षणः ।
स्वसैन्यभावान्वेषी स्यात् शिक्षयेद्रणकौशलम् ॥ १२३ ॥

८.१२४
न हन्यान्मूर्च्छितान् युद्धे त्यक्तशस्त्रान् पराङ्मुखान् ।
वलानीतान् रिपून् देवि रिपुदारशिशूनपि ॥ १२४ ॥

८.१२५
जयलब्धानि वस्तूति सन्धिप्राप्तानि यानि च ।
वितरेत्तानि सैन्येभ्यो यथायोग्यविभागतः ॥ १२५ ॥

८.१२६
शौर्यं वृत्तञ्च योद्धॄणां ज्ञेयं राज्ञा पृथक् पृथक् ।
बहुसैन्याधिपं नैकं कुर्यादात्महिते रतः ॥ १२६ ॥

८.१२७
नैकस्मिन् विश्वसेद्राजा नैकं न्याये नियोजयेत् ।
साम्यं क्रीडोपहासञ्च नीचैः सह विवर्जयेत् ॥ १२७ ॥

८.१२८
बहुश्रुतः स्वल्पभाषी जिज्ञासुर्ज्ञानवानपि ।
बहुमानोऽपि निर्दम्भो धीरो दण्डप्रसादयोः ॥ १२८ ॥

८.१२९
स्वयं वा चरदृष्ट्या वा प्रजाभावान् विलोकयेत् ।
एवं स्वजनभृत्यानां भावान् पश्येन्नराधिपः ॥ १२९ ॥

८.१३०
क्रोधाद्दम्भात् प्रमादाद्वा सम्मानं शासनं तथा ।
सहसा नैव कर्तव्यं स्वामिना तत्त्वदर्शिना ॥ १३० ॥

८.१३१
सैन्यसेनाधिपामात्यवनितापत्यसेवकाः ।
पालनीयाः सदोषाश्चेत् दण्ड्या राज्ञा यथाविधि ॥ १३१ ॥

८.१३२
उन्मत्तानसमर्थांश्च बालांश्च मृतबान्धवान् ।
ज्वराभिभूतान् वृद्धांश्च रक्षयेत् पितृवन्नृपः ॥ १३२ ॥

८.१३३
वैश्यानां कृषिवाणिज्यं वृत्तं विद्धि सनातनम् ।
येनोपायेन लोकानां देहयात्रा प्रसिद्धति ॥ १३३ ॥

८.१३४
अतः सर्वात्मना देवि वाणिज्यकृषिकर्मसु ।
प्रमादव्यसनालस्यं मिययाशाठ्यं विवर्जयेत् ॥ १३४ ॥

८.१३५
निश्चित्य वस्तु तन्मूल्यमुभयोः सम्मतौ शिवे ।
परस्पराङ्गीकरणं क्रयसिद्धिस्ततो भवेत् ॥ १३५ ॥

८.१३६
मत्तविक्षिप्तबालानामरिग्रस्तनृणां प्रिये ।
रोगविभ्रान्तबुद्धीनामसिद्धौ दानविक्रयौ ॥ १३६ ॥

८.१३७
क्रयसिद्धिरदृष्टानां गुणश्रवणतो भवेत् ।
विपर्यये तद्गुणानामन्यथा भवति क्रयः ॥ १३७ ॥

८.१३८
कुञ्जरोष्ट्रतुरङ्गाणां गुप्तदोषप्रकाशनात् ।
वर्षातीतेऽपि तत्क्रेयमन्यथा कर्तुमर्हति ॥ १३८ ॥

८.१३९
धर्मार्थकाममोक्षाणां भाजनं मानवं वपुः ।
अतः कुलेशि तत्क्रेयो न सिद्धेन्मम शासनात् ॥ १३९ ॥

८.१४०
यवगोधूमधान्यानां लाभो वर्षे गते प्रिये ।
युक्तश्चतुर्थो धातूनामष्टमः परिकीर्तितः ॥ १४० ॥

८.१४१
ऋणे कृषौ च वाणिज्ये तथा सर्वेषु कर्मसु ।
यद्यदङ्गीकृतं मर्त्यैस्तत्कार्यं शास्त्रसम्मतम् ॥ १४१ ॥

८.१४२
दक्षः शुचिः सत्यभाषी जितनिद्रो जितेन्द्रियः ।
अप्रमत्तो निरालस्यः सेवावृत्तौ भवेन्नरः ॥ १४२ ॥

८.१४३
प्रभुर्विष्णुसमो मान्यस्तज्जाया जननीसमा ।
मान्यास्तद्बान्धवा भृत्यैरिहामुत्र सुखेप्सुभिः ॥ १४३ ॥

८.१४४
भर्त्रुर्मित्राणि मित्राणि जानीयात्तदरीनरीन् ।
सभीतिः सर्वदा तिष्ठेत् प्रभोराज्ञां प्रतीक्षयन् ॥ १४४ ॥

८.१४५
अपमानं गृहच्छिद्रं गुप्त्यर्थं कथितञ्च यत् ।
भर्तुर्ग्लानिकरं यच्च गोपयेदतियत्नतः ॥ १४५ ॥

८.१४६
अलोभः स्यात् स्वामिधने सदा स्वामिहिते रतः ।
तत्सन्निधावसद्भाषं क्रीडां हास्यं परित्यजेत् ॥ १४६ ॥

८.१४७
न पापमनसा पश्येदपि तद्गृहकिङ्करीः ।
विविक्तशययां हास्यञ्च ताभिः सह विवर्जयेत् ॥ १४७ ॥

८.१४८
प्रभोः शययासनं यानं वसनं भाजनानि च ।
उपानद्भूषणं शस्त्रं नात्मार्थं विनियोजयेत् ॥ १४८ ॥

८.१४९
क्षमां कृतापराधश्चेत् प्रार्थयेद्यत्नतः प्रभोः ।
प्रागल्भ्यं प्रौढवादञ्च साम्याचारं विवर्जयेत् ॥ १४९ ॥

८.१५०
सर्वे वर्णाः स्वस्ववर्णैर्ब्राह्मोद्वाहं तथाऽशनम् ।
कुर्वीरन् भैरवीचक्रात्तत्त्वचक्रादृते शिवे ॥ १५० ॥

८.१५१
उभयत्र महेशानि शैवोद्वाहः प्रकीर्तितः ।
तथाऽदाने च पाने च वर्णभेदो न विद्यते ॥ १५१ ॥

८.१५२
श्रीदेव्युवाच ।
किमिदं भैरवीचक्रं तत्त्वचक्रञ्च कीदृशम् ।
तत्सर्वं श्रोतुमिच्छामि कृपया वक्तुमर्हसि ॥ १५२ ॥

८.१५३
श्रीसदाशिव उवाच ।
कुलपूजाविधौ देवि चक्रानुष्ठानमीरितम् ।
विशेषपूजासमये तत्कार्यं साधकोत्तमैः ॥ १५३ ॥

८.१५४
भैरवीचक्रविषये न तादृङ्नियमः प्रिये ।
यथासमयमासाद्य कुर्याच्चक्रमिदं शुभम् ॥ १५४ ॥

८.१५५
विधानमस्य वक्ष्यामि साधकानां शुभावहम् ।
आराधिता येन देवी तूर्णं यच्छति वाञ्छितम् ॥ १५५ ॥

८.१५६
कुलाचार्यो रम्यभूमावास्तीर्याऽसनमुत्तमम् ।
कामाद्येनास्त्रबीजेन संशोध्योपविशेत्ततः ॥ १५६ ॥

८.१५७
सिन्दूरेण कुसीदेन केवलेन जलेन वा ।
त्रिकोणञ्चतुरस्रञ्च मण्डलं रचयेत् सुधीः ॥ १५७ ॥

८.१५८
विचित्रघटमानीय दध्यक्षतविमृक्षितम् ।
फलपल्लवसंयुक्तं सिन्दूरतिलकान्वितम् ॥ १५८ ॥

८.१५९
सुवासितजलैः पूर्णं मण्डले तत्र साधकः ।
प्रणवेन तु संस्थाप्य धूपदीपौ प्रदर्शयेत् ॥ १५९ ॥

८.१६०
सम्पूज्य गन्धपुष्पाभ्यां चिन्तयेदिष्टदेवताम् ।
संक्षेपपूजाविधिना तत्र पूजां समाचरेत् ॥ १६० ॥

८.१६१
विशेषमत्र वक्ष्यामि शृणुष्वाऽमरवन्दिते ।
गुर्वादिनवपात्राणां नात्र स्थापनमिष्यते ॥ १६१ ॥

८.१६२
यथेष्टं तत्त्वमादाय संस्थाप्य पुरतो व्रती ।
प्रोक्षयेदस्त्रमन्त्रेण दिव्यदृष्ट्याऽवलोकयेत् ॥ १६२ ॥

८.१६३
अलियन्त्रे गन्धपुष्पं दत्त्वा तत्र विचिन्तयेत् ।
आनन्दभैरवीं देवीं आनन्दभैरवं तथा ॥ १६३ ॥

८.१६४
नवयौवनसम्पन्नां तरुणारुणविग्रहाम् ।
चारुहासामृताभाषोल्लसद्वदनपङ्कजाम् ॥ १६४ ॥

८.१६५
नृत्यगीतकृतामोदां नानाभरणभूषिताम् ।
विचित्रवसनां ध्यायेत् वराभयकराम्बुजाम् ॥ १६५ ॥

८.१६६
इत्यानन्दमयीं ध्यात्वा स्मरेदानन्दभैरवम् ॥ १६६ ॥

८.१६७
कर्पूरपूरधवलं कमलायताक्षम् दिव्याम्बराभरणभूषितदेहकान्तिम् ।
वामेन पाणिकमलेन सुधाढ्यपात्रम् दक्षेण शुद्धिगुटिकां दधतं स्मरामि ॥ १६७ ॥

८.१६८
ध्यात्वैवमुभयोस्तत्र सामरस्यं विचिन्तयन् ।
प्रणवादिनमोऽन्तेन नाममन्त्रेण देशिकः ।
संपूज्य गन्धपुष्पाभ्यां शोधयेत् कारणं ततः ॥ १६८ ॥

८.१६९
पाशादित्रिकबीजेन स्वाहान्तेन कुलार्चकः ।
अष्टोत्तरशतावृत्त्या जपन् हेतुं विशोधयेत् ॥ १६९ ॥

८.१७०
गृहकाम्यैकचित्तानां गृहिणां प्रबले कलौ ।
आद्यतत्त्वप्रतिनिधौ विधेयं मधुरत्रयम् ॥ १७० ॥

८.१७१
दुग्धं सिता माक्षिकञ्च विज्ञेयं मधुरत्रयम् ।
अलिरूपमिदं मत्त्वा देवतायै निवेदयेत् ॥ १७१ ॥

८.१७२
स्वभावात् कलिजन्मानः कामविभ्रान्तचेतसः ।
तद्रूपेण न जानन्ति शक्तिं सामान्यबुद्धयः ॥ १७२ ॥

८.१७३
अतस्तेषां प्रतिनिधौ शेषतत्त्वस्य पार्वति ।
ध्यानं देव्याः पदाम्भोजे स्वेष्टमन्त्रजपस्तथा ॥ १७३ ॥

८.१७४
ततस्तु प्राप्ततत्त्वानि पललादीनि यानि च ।
प्रत्येकं शतधाऽनेन मनुना चाभिमन्त्रयेत् ॥ १७४ ॥

८.१७५
सर्वं ब्रह्ममयं ध्यात्वा निमील्य नयनद्वयम् ।
निवेद्य पूर्ववत् काल्यै पानभोजनमाचरेत् ॥ १७५ ॥

८.१७६
इदन्तु भैरवीचक्रं सर्वतन्त्रेषु गोपितम् ।
तवाग्रे कथितं भद्रे सारात्सारं परात्परम् ॥ १७६ ॥

८.१७७
विवाहो भैरवीचक्रे तत्त्वचक्रेऽपि पार्वति ।
सर्वथा साधकेन्द्रेण कर्तव्यः शैववर्त्मना ॥ १७७ ॥

८.१७८
विना परिणयं वीरः शक्तिसेवां समाचरन् ।
परस्त्रीगामिनां पापं प्राप्नुयान्नात्र संशयः ॥ १७८ ॥

८.१७९
सम्प्राप्ते भैरवीचक्रे सर्वे वर्णाः द्विजोत्तमाः ।
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ १७९ ॥

८.१८०
नात्र जातिविचारोऽस्ति नोच्छिष्टादिविवेचनम् ।
चक्रमध्यगता वीरा मम रूपा नराख्यया ॥ १८० ॥

८.१८१
न देशकालनियमो न वा पात्रविचारणम् ।
येन केनाऽहृतं द्रव्यं चक्रेऽस्मिन् विनियोजयेत् ॥ १८१ ॥

८.१८२
दूरदेशात् समानीतं पक्वं वाऽपक्वमेव वा ।
वीरेण पशुना वापि चक्रमध्यगतं शुचि ॥ १८२ ॥

८.१८३
चक्रारम्भे महेशानि विघ्नाः सर्वे भयाकुलाः ।
बिभीतास्ते पलायन्ते वीराणां ब्रह्मतेजसा ॥ १८३ ॥

८.१८४
पिशाचा गुह्यका यक्षा वेतालाः क्रूरजातयः ।
श्रुत्वात्र भैरवीचक्रं दूरं गच्छन्ति साध्वसम् ॥ १८४ ॥

८.१८५
तत्र तीर्थानि सर्वाणि महातीर्थादिकानि च ।
सेन्द्रामरगणाः सर्वे तत्रागच्छन्ति सादरम् ॥ १८५ ॥

८.१८६
चक्रस्थानं महातीर्थं सर्वतीर्थाधिकं शिवे ।
त्रिदशा यत्र वाञ्छन्ति तव नैवेद्यमुत्तमम् ॥ १८६ ॥

८.१८७
म्लेच्छेन श्वपचेनापि किरातेनापि हूणुना ।
आमं पक्वं यदानीतं वीरहस्तार्पितं शुचि ॥ १८७ ॥

८.१८८
दृष्ट्वा तु भैरवीचक्रं मम रूपांश्च साधकान् ।
मुच्यन्ते पशुपाशेभ्यः कलिकल्मषदूषिताः ॥ १८८ ॥

८.१८९
प्रबले कलिकाले तु न कुर्याच्चक्रगोपनम् ।
सर्वत्र सर्वदा वीरः साधयेत् कुलसाधनम् ॥ १८९ ॥

८.१९०
चक्रमध्ये वृथालापं चाञ्चल्यं बहुभाषणम् ।
निष्ठीवनमधोवायुं वर्णभेदं विवर्जयेत् ॥ १९० ॥

८.१९१
क्रूरान् खलान् पशून् पापान् नास्तिकान् कुलदूषकान् ।
निन्दकान् कुलशास्त्राणां चक्राद्दूरतरं त्यजेत् ॥ १९१ ॥

८.१९२
स्नेहाद्भयादानुरक्त्या पशुंश्चक्रे प्रवेशयन् ।
कुलधर्मात् परिभ्रष्टो वीरोऽपि नरकं व्रजेत् ॥ १९२ ॥

८.१९३
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः सामान्यजातयः ।
कुलधर्माश्रिता ये वै पूज्यास्ते देववत् सदा ॥ १९३ ॥

८.१९४
वर्णाभिमानाच्चक्रे तु वर्णभेदं करोति यः ।
स याति घोरनिरयमपि वेदान्तपारगः ॥ १९४ ॥

८.१९५
चक्रान्तर्गतकौलानां साधूनां शुद्धचेतसाम् ।
साक्षाच्छिवस्वरूपाणां पापशङ्का भवेत् कुतः ॥ १९५ ॥

८.१९६
यावद्वसन्ति चक्रेषु विप्राद्याः शैवमार्गिणः ।
तावत्तु शाम्भवाचारांश्चरेयुः शिवशासनात् ॥ १९६ ॥

८.१९७
चक्राद्विनिःसृताः सर्वे स्वस्ववर्णाश्रमोदितम् ।
लोकयात्राप्रसिद्ध्यर्थं कुर्युः कर्म पृथक् पृथक् ॥ १९७ ॥

८.१९८
पुरश्चर्याशतेनापि शवमुण्डचितासनात् ।
चक्रमध्ये सकृत् जप्त्वा तत् फलं लभते सुधीः ॥ १९८ ॥

८.१९९
भैरवीचक्रमाहात्म्यं को वा वक्तुं क्षमो भवेत् ।
सकृदेतत् प्रकुर्वाणः सर्वैः पापैः प्रमुच्यते ॥ १९९ ॥

८.२००
षण्मासं भूमिपालः स्यात् वर्षं मृत्युञ्जयः स्वयम् ।
नित्यं समाचरन् मर्त्यो ब्रह्मनिर्वाणमाप्नुयात् ॥ २०० ॥

८.२०१
बहुना किमिहोक्तेन सत्यं जानीहि कालिके ।
इहामुत्र सुखावाप्त्यै कुलमार्गो हि नापरः ॥ २०१ ॥

८.२०२
कलेः प्राबल्यसमये सर्वधर्मविवर्जिते ।
गोपनात् कुलधर्मस्य कौलोऽपि नारकी भवेत् ॥ २०२ ॥

८.२०३
कथितं भैरवीचक्रं भोगमोक्षैकसाधनम् ।
तत्त्वचक्रं कुलेशानि साम्प्रतं वच्मि तत् शृणु ॥ २०३ ॥

८.२०४
तत्त्वचक्रं चक्रराजं दिव्यचक्रं तदुच्यते ।
नात्राधिकारः सर्वेषां ब्रह्मज्ञान् साधकान् विना ॥ २०४ ॥

८.२०५
परब्रह्मोपासका ये ब्रह्मज्ञा ब्रह्मतत्पराः ।
शुद्धान्तःकरणाः शान्ताः सर्वप्राणिहिते रताः ॥ २०५ ॥

८.२०६
निर्विकारा निर्विकल्पा दयाशीला दृढव्रताः ।
सत्यसङ्कल्पका ब्राह्मास्त एवात्राऽधिकारिणः ॥ २०६ ॥

८.२०७
ब्रह्मभावेन तत्त्वज्ञे ये पश्यन्ति चराचरम् ।
तेषां तत्त्वविदां पुंसां तत्त्वचक्रेऽधिकारिता ॥ २०७ ॥

८.२०८
सर्वं ब्रह्ममयं भावश्चक्रेऽस्मिंस्तत्त्वसंज्ञके ।
येषामुत्पद्यते देवि त एव तत्त्वचक्रिणः ॥ २०८ ॥

८.२०९
न घटस्थापनाऽत्रास्ति न बाहुल्येन पूजनम् ।
सर्वत्र ब्रह्मभावेन साधयेत् तत्त्वसाधनम् ॥ २०९ ॥

८.२१०
ब्रह्ममन्त्री ब्रह्मनिष्ठो भवेच्चक्रेश्वरः प्रिये ।
ब्रह्मज्ञैः साधकैः सार्द्धं तत्त्वचक्रं समारभेत् ॥ २१० ॥

८.२११
रम्ये सुनिर्मले देशे साधकानां सुखावहे ।
विचित्रासनमानीय कल्पयेद्विमलासनम् ॥ २११ ॥

८.२१२
तत्रोपविश्य चक्रेशः सहितो ब्रह्मसाधकैः ।
आसादयेत्तु तत्त्वानि स्थापयेदग्रतः शिवे ॥ २१२ ॥

८.२१३
तारादिप्राणबीजान्तं शतावृत्त्या जपन् मनुम् ।
सर्वतत्त्वेषु चक्रेश इमं मन्त्रमुदीरयेत् ॥ २१३ ॥

८.२१४
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २१४ ॥

८.२१५
सप्तधा वा त्रिधा जप्त्वा तानि सर्वाणि शोधयेत् ॥ २१५ ॥

८.२१६
ततो ब्राह्मेण मनुना समर्प्य परमात्मने ।
ब्रह्मज्ञैः साधकैः सार्द्धं विदध्यात् पानभोजनम् ॥ २१६ ॥

८.२१७
ब्रह्मचक्रे महेशानि वर्णभेदं विवर्जयेत् ।
न देशकालनियमो न पात्रनियमस्तथा ॥ २१७ ॥

८.२१८
ये कुर्वन्ति नरा मूढा दिव्यचक्रे प्रमादतः ।
कुलभेदं वर्णभेदं ते गच्छन्त्यधमां गतिम् ॥ २१८ ॥

८.२१९
अतः सर्वप्रयत्नेन ब्रह्मज्ञैः साधकोत्तमैः ।
तत्त्वचक्रमनुष्ठेयं धर्मकामार्थमुक्तये ॥ २१९ ॥

८.२२०
श्रीदेव्युवाच ।
गृहस्थानामशेषेण धर्मानकथयत् प्रभो ।
संन्यासविहितात् धर्मान् कृपया वक्तुमर्हसि ॥ २२० ॥

८.२२१
श्रीसदाशिव उवाच ।
अवधूताश्रमो देवि कलौ संन्यास उच्यते ।
विधिना येन कर्तव्यस्तत् सर्वं शृणु साम्प्रतम् ॥ २२१ ॥

८.२२२
ब्रह्मज्ञाने समुत्पन्ने विरते सर्वकर्मणि ।
अध्यात्मविद्यानिपुणः संन्यासाश्रममाश्रयेत् ॥ २२२ ॥

८.२२३
विहाय वृद्धौ पितरौ शिशुं भार्यां पतिव्रताम् ।
त्यक्त्वाऽसमर्थान् बन्धूंश्च प्रव्रजन्नारकी भवेत् ॥ २२३ ॥

८.२२४
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च ।
कुलावधूतसंस्कारे पञ्चानामधिकारिता ॥ २२४ ॥

८.२२५
सम्पाद्य गृहकर्माणि परितोष्याऽपरानपि ।
निर्ममो निलयाद्गच्छेन्निष्कामो विजितेन्द्रियः ॥ २२५ ॥

८.२२६
आहूय स्वजनान् बन्धून् ग्रामस्थान् प्रतिवासिनः ।
प्रीत्याऽनुमतिमन्विच्छेत् गृहाज्जिगमिषुर्जनः ॥ २२६ ॥

८.२२७
तेषामनुज्ञामादाय प्रणम्य परदेवताम् ।
ग्रामं प्रदक्षिणीकृत्य निरपेक्षो गृहादियात् ॥ २२७ ॥

८.२२८
मुक्तः संसारपाशेभ्यः परमानन्दनिर्वृतः ।
कुलावधूतं ब्रह्मज्ञं गत्वा संप्रार्थयेदिदम् ॥ २२८ ॥

८.२२९
गृहाश्रमे परब्रह्मन् ममैतद्विगतं वयः ।
प्रसादं कुरु मे नाथ संन्यासग्रहणं प्रति ॥ २२९ ॥

८.२३०
निवृत्तगृहकर्माणं विचार्य विधिवद्गुरुः ।
शान्तं विवेकिनं वीक्ष्य द्वितीयाश्रममादिशेत् ॥ २३० ॥

८.२३१
ततः शिष्यः कृतस्नानो यतात्मा विहिताह्निकः ।
ऋणत्रयविमुक्त्यर्थं देवर्षीनर्चयेत् पितॄन् ॥ २३१ ॥

८.२३२
देवा ब्रह्मा च विष्णुश्च रुद्रश्च स्वगणैः सह ।
ऋषयः सनकाद्याश्च देवब्रह्मर्षयस्तथा ॥ २३२ ॥

८.२३३
अत्र ये पितरः पूज्या वक्ष्यामि शृणु तानपि ॥ २३३ ॥

८.२३४
पिता पितामहश्चैव प्रपितामह एव च ।
माता पितामही देवि तथैव प्रपितामही ।
मातामहादयोऽप्येवं मातामह्यादयोऽपि च ॥ २३४ ॥

८.२३५
प्राच्यामृषीन् यजेद्देवान् दक्षिणस्यां पितॄन् यजेत् ।
मातामहान् प्रतीच्याञ्च पूजयेन्न्यासकर्मणि ॥ २३५ ॥

८.२३६
पूर्वादिक्रमतो दद्यादासनानां द्वयं द्वयम् ।
देवादीन् क्रमतस्तत्राऽवाह्य पूजां समाचरेत् ॥ २३६ ॥

८.२३७
समर्च्य विधिवत्तेभ्यः पिण्डान् दद्यात् पृथक् पृथक् ।
पिण्डप्रदानविधिना दत्त्वा पिण्डं यथाक्रमम् ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पितृदेवताः ॥ २३७ ॥

८.२३८
तृप्यध्वं पितरो देवा देपर्षिमातृका गणाः ।
गुणातीतपदे यूयमनृणीकुरुताऽचिरात् ॥ २३८ ॥

८.२३९
इत्यानृण्यमर्थयित्वा प्रणम्य च पुनः पुनः ।
ऋणत्रयविनिर्मुक्त आत्मश्राद्धं प्रकल्पयेत् ॥ २३९ ॥

८.२४०
पिता ह्यात्मैव सर्वेषां तत्पिता प्रपितामहः ।
आत्मन्यात्मार्पणार्थाय कुर्यादात्मक्रियां सुधीः ॥ २४० ॥

८.२४१
उत्तराभिमुखो भूत्वा पूर्ववत् कल्पितासने ।
आवाह्याऽत्मपितॄन् देवि दद्यात् पिण्डं समर्चयन् ॥ २४१ ॥

८.२४२
प्रागग्रान् दक्षिणाग्रांश्च पश्चिमाग्रान् यथाक्रमात् ।
पिण्डार्थमास्तरेद्दर्भानुदगग्रान् स्वकर्मणि ॥ २४२ ॥

८.२४३
समाप्य श्राद्धकर्माणि गुरुदर्शितवर्त्मना ।
युयुक्षुश्चित्तशुद्ध्यर्थमिमं मन्त्रं शतं जपेत् ॥ २४३ ॥

८.२४४
ह्रीं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
ऊर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् ॥ २४४ ॥

८.२४५
उपासनानुसारेण वेद्यां मण्डलपूर्वकम् ।
संस्थाप्य कलशं तत्र गुरुः पूजां समारभेत् ॥ २४५ ॥

८.२४६
ततस्तु परमं ब्रह्म ध्यात्वा शाम्भववर्त्मना ।
विधाय पूजां ब्रह्मज्ञो वह्निस्थापनमाचरेत् ॥ २४६ ॥

८.२४७
प्रागुक्तसंस्कृते वह्नौ स्वकल्पोक्ताहुतिं गुरुः ।
दत्त्वा शिष्यं समाहूय साकल्यं हावयेत्तु तम् ॥ २४७ ॥

८.२४८
आदौ व्याहृतिभिर्हुत्वा प्राणहोमं प्रकल्पयेत् ।
प्राणापानौ समानश्चोदानव्यानौ च वायवः ॥ २४८ ॥

८.२४९
तत्त्वहोमं ततः कुर्याद्देहात्माध्यासमुक्तये ।
पृथिवी सलिलं वह्निर्वायुराकाशमेव च ॥ २४९ ॥

८.२५०
गन्धो रसश्च रूपश्च स्पर्शः शब्दो यथाक्रमात् ।
ततो वाक्पाणिपादाश्च पायूपस्थौ ततः परम् ॥ २५० ॥

८.२५१
श्रोत्रं त्वङ्नयनं जिह्वा घ्राणं बुद्धीन्द्रियाणि च ।
मनो बुद्धिश्च चित्तञ्चाहङ्कारो देहजाः क्रियाः ॥ २५१ ॥

८.२५२
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि यानि च ॥ २५२ ॥

८.२५३
एतानि मे पदान्ते च शुद्ध्यन्तां पदमुच्चरेत् ।
ह्रीं ज्योतिरहं विरजा विपाप्मा भूयासमित्यपि ॥ २५३ ॥

८.२५४
चतुर्विंशतितत्त्वानि कर्माणि दैहिकानि च ।
हुत्वाऽग्नौ निष्क्रियो देहं मृतवच्चिन्तयेत्ततः ॥ २५४ ॥

८.२५५
विभाव्य मृतवत् कायं रहितं सर्वकर्मणा ।
स्मरंस्तत् परमं ब्रह्म यज्ञसूत्रं समुद्धरेत् ॥ २५५ ॥

८.२५६
ऐं क्लीं हूं इति मन्त्रेण स्कन्धादुत्तार्य तत्त्ववित् ।
यज्ञसूत्रं करे कृत्वा पठित्वा व्याहृतित्रयम् ।
वह्निजायां समुच्चार्य घृताक्तमनले क्षिपेत् ॥ २५६ ॥

८.२५७
हुत्वैवमुपवीतञ्च कामबीजं समुच्चरन् ।
छित्वा शिखां करे कृत्वा घृतमध्ये नियोजयेत् ॥ २५७ ॥

८.२५८
ब्रह्मपुत्रि शिखे त्वं हि बालरूपा तपस्विनी ।
दीयते पावके स्थानं गच्छ देवि नमोऽस्तु ते ॥ २५८ ॥

८.२५९
कामं मायां कूर्चमन्त्रं वह्निजायामुदीरयन् ।
तस्मिन् सुसंस्कृते वह्नौ शिखाहोमं समाचरेत् ॥ २५९ ॥

८.२६०
शिखामाश्रित्य पितरो देवा देवर्षयस्तथा ।
सर्वाण्याश्रमकर्माणि निवसन्ति शिखोपरि ॥ २६० ॥

८.२६१
अतः सन्तर्प्य ताः सर्वा देवर्षिपितृदेवताः ।
शिखासूत्रपरित्यागाद्देही ब्रह्ममयो भवेत् ॥ २६१ ॥

८.२६२
यज्ञसूत्रशिखात्यागात् संन्यासः स्यात् द्विजन्मनाम् ।
शूद्राणामितरेषाञ्च शिखां हुत्वैव संस्क्रिया ॥ २६२ ॥

८.२६३
ततो मुक्तशिखासूत्रः प्रणमेत् दण्डवद् गुरुम् ।
गुरुरुत्थाप्य तं शिष्यं दक्षकर्णे वदेदिदम् ॥ २६३ ॥

८.२६४
तत्त्वमसि महाप्राज्ञ हंसः सोऽहं विभावय ।
निर्ममो निरहङ्कारः स्वभावेन सुखं चर ॥ २६४ ॥

८.२६५
ततो घटञ्च वह्निञ्च विसृज्य ब्रह्मतत्त्ववित् ।
आत्मस्वरूपं तं मत्वा प्रणमेच्छिरसा गुरुः ॥ २६५ ॥

८.२६६
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नमः ।
त्वमेव तत् तत्त्वमेव विश्वरूप नमोऽस्तु ते ॥ २६६ ॥

८.२६७
ब्रह्ममन्त्रोपासकानां तत्त्वज्ञानां जितात्मनाम् ।
स्वमन्त्रेण शिखाच्छेदात् संन्यासग्रहणं भवेत् ॥ २६७ ॥

८.२६८
ब्रह्मज्ञानविशुद्धानां किं यज्ञैः श्राद्धपूजनैः ।
स्वेच्छाचारपराणां तु प्रत्यवायो न विद्यते ॥ २६८ ॥

८.२६९
ततो निर्द्वन्द्वरूपोऽसौ निष्कामस्थिरमानसः ।
विहरेत् स्वेच्छया शिष्यः साक्षाद् ब्रह्ममयो भुवि ॥ २६९ ॥

८.२७०
आब्रह्मस्तम्बपर्यन्तं सद्रूपेण विभावयन् ।
विस्मरन्नामरूपाणि ध्यायन्नात्मानमात्मनि ॥ २७० ॥

८.२७१
अनिकेतः क्षमावृत्तो निःशङ्कः सङ्गवर्जितः ।
निर्ममो निरहङ्कारः संन्यासी विहरेत् क्षितौ ॥ २७१ ॥

८.२७२
मुक्तो विधिनिषेधेभ्यो निर्योगक्षेम आत्मवित् ।
सुखदुःखसमो धीरो जितात्मा विगतस्पृहः ॥ २७२ ॥

८.२७३
स्थिरात्मा प्राप्तदुःखोऽपि सुखे प्राप्तेऽपि निष्पृहः ।
सदानन्दः शुचिः शान्तो निरपेक्षो निराकुलः ॥ २७३ ॥

८.२७४
नोद्वेजकः स्याज्जीवानां सदा प्राणिहिते रतः ।
विगतामर्षभीर्दान्तो निःसङ्कल्पो निरुद्यमः ॥ २७४ ॥

८.२७५
शोकद्वेषविमुक्तः स्यात् शत्रौ मित्रे समो भवेत् ।
शीतवातातपसहः समो मानापमानयोः ॥ २७५ ॥

८.२७६
समः शुभाशुभे तुष्टो यदृच्छाप्राप्तवस्तुना ।
निस्त्रैगुण्यो निर्विकल्पो निर्लोभः स्यादसञ्चयी ॥ २७६ ॥

८.२७७
यथा सत्यमुपाश्रित्य मृषा विश्वं प्रतिष्ठति ।
आत्माश्रितस्तथा देहो जानन्नेवं सुखी भवेत् ॥ २७७ ॥

८.२७८
इन्द्रियाण्येव कुर्वन्ति स्वं स्वं कर्म पृथक् पृथक् ।
आत्मा साक्षी विनिर्लिप्तो ज्ञात्वैवं मोक्षभाग् भवेत् ॥ २७८ ॥

८.२७९
धातुप्रतिग्रहं निन्दामनृतं क्रीडनं स्त्रिया ।
रेतस्त्यागमसूयाञ्च संन्यासी परिवर्जयेत् ॥ २७९ ॥

८.२८०
सर्वत्र समदृष्टिः स्यात् कीटे देवे तथा नरे ।
सर्वं ब्रह्मेति जानीयात् परिव्राट् सर्वकर्मसु ॥ २८० ॥

८.२८१
विप्रान्नं श्वपचान्नं वा यस्मात्तस्मात् समागतम् ।
देशं कालं तथा पात्रमश्नीयादविचारयन् ॥ २८१ ॥

८.२८२
अध्यात्मशास्त्राध्ययनैः सदा तत्त्वविचारणैः ।
अवधूतो नयेत् कालं स्वेच्छाचारपरायणः ॥ २८२ ॥

८.२८३
संन्यासिनां मृतं कायं दाहयेन्न कदाचन ।
सम्पूज्य गन्धपुष्पाद्यैर्निखनेद्वाप्सु मज्जयेत् ॥ २८३ ॥

८.२८४
अप्राप्तयोगमर्त्यानां सदा कामाभिलाषिणाम् ।
स्वभावाज्जायते देवि प्रवृत्तिः कर्मसङ्कुले ॥ २८४ ॥

८.२८५
तत्रापि ते सानुरक्ता ध्यानार्चाजपसाधने ।
श्रेयस्तदेव जानन्तु यत्रैव दृढनिश्चयाः ॥ २८५ ॥

८.२८६
अतः कर्मविधानानि प्रोक्तानि चित्तशुद्धये ।
नामरूपं बहुविधं तदर्थं कल्पितं मया ॥ २८६ ॥

८.२८७
ब्रह्मज्ञानादृते देवि कर्मसंन्यसनं विना ।
कुर्वन् कल्पशतं कर्म न भवेन्मुक्तिभाग् जनः ॥ २८७ ॥

८.२८८
कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः ।
साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् ॥ २८८ ॥

८.२८९
यतेर्दर्शनमात्रेण विमुक्तः सर्वपातकात् ।
तीर्थव्रततपोदानसर्वयज्ञफलं लभेत् ॥ २८९ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे वर्णाश्रमाचारधर्मकथनं नामाष्टमोल्लासः ।

Kapitel ९

Shakti erscheint als vielfältige Kraft des einen göttlichen Grundes.

९.१
श्रीसदाशिव उवाच ।
वर्णाश्रमाचारधर्माः कथितास्तव सुव्रते ।
संस्कारान् सर्ववर्णानां शृणुष्व गदतो मम ॥ १ ॥

९.२
संस्कारेण विना देवि देहशुद्धिर्न जायते ।
नासंस्कृतोऽधिकारी स्याद् दैवे पैत्रे च कर्मणि ॥ २ ॥

९.३
अतो विप्रादिभिर्वर्णैः स्वस्ववर्णोक्तसंस्क्रिया ।
कर्तव्या सर्वथा यत्नैरिहामुत्र हितेप्सुभिः ॥ ३ ॥

९.४
जीवसेकः पुंसवनं सीमन्तोन्नयनं तथा ।
जातनाम्नी निष्क्रमणमन्नाशनमतः परम् ।
चूडोपनयनोद्वाहाः संस्काराः कथिता दश ॥ ४ ॥

९.५
शूद्राणां शूद्रभिन्नानामुपवीतं न विद्यते ।
तेषां नवैव संस्कारा द्विजातीनां दश स्मृताः ॥ ५ ॥

९.६
नित्यानि सर्वकर्माणि तथा नैमित्तिकानि च ।
काम्यान्यपि वरारोहे कुर्याच्छाम्भववर्त्मना ॥ ६ ॥

९.७
यानि यानि विधानानि येषु येषु च कर्मसु ।
पुरैव ब्रह्मरूपेण तान्युक्तानि मया प्रिये ॥ ७ ॥

९.८
संस्कारेषु च सर्वेषु तथैवान्येषु कर्मसु ।
विप्रादिवर्णभेदेन क्रमान्मन्त्राश्च दर्शिताः ॥ ८ ॥

९.९
सत्यत्रेताद्वापरेषु तत्तत्कर्मसु कालिके ।
प्रणवाद्यांस्तु तान् मन्त्रान् प्रयोगेषु नियोजयेत् ॥ ९ ॥

९.१०
कलौ तु परमेशानि तैरेव मनुभिर्नराः ।
मायाद्यैः सर्वकर्माणि कुर्युः शङ्करशासनात् ॥ १० ॥

९.११
निगमागमतन्त्रेषु वेदेषु संहितासु च ।
सर्वे मन्त्रा मयैवोक्ताः प्रयोगो युगभेदतः ॥ ११ ॥

९.१२
कलावन्नगतप्राणाः मानवा हीनतेजसः ।
तेषां हिताय कल्याणि कुलधर्मो निरूपितः ॥ १२ ॥

९.१३
कलिदुर्बलजीवानां प्रयासाशक्तचेतसाम् ।
संस्कारादिक्रियास्तेषां संक्षेपेणापि वच्मि ते ॥ १३ ॥

९.१४
सर्वेषां शुभकार्याणामादिभूता कुशण्डिका ।
तस्मादादौ प्रवक्ष्यामि शृणु तां देववन्दिते ॥ १४ ॥

९.१५
रम्ये परिष्कृते देशे तुषाङ्गारादिवर्जिते ।
हस्तमात्रप्रमाणेन स्थण्डिलं रचयेत् सुधीः ॥ १५ ॥

९.१६
तिस्रो रेखा विधातव्या प्रागग्रास्तत्र मण्डले ।
कूर्चेनाभ्युक्ष्य ताः सर्वा वह्निना वह्निमाहरेत् ॥ १६ ॥

९.१७
आनीय वह्निं तत्पार्श्वे स्थापयेद्वाग्भवं स्मरन् ॥ १७ ॥

९.१८
ततस्तस्मात् ज्वलद्दारु गृहीत्वा दक्षपाणिना ।
ह्रीं क्रव्यादेभ्यो नमः स्वाहा क्रव्यादांशं परित्यजेत् ॥ १८ ॥

९.१९
इत्थं प्रतिष्ठितं वह्निं पाणिभ्यामात्मसम्मुखम् ।
उद्धृत्य तासु रेखासु मायाद्यां व्याहृतिं स्मरन् ॥ १९ ॥

९.२०
संस्थाप्य तृणदारुभ्यां प्रबलीकृत्य पावकम् ।
समिधे द्वे घृताक्ते च हुत्वा तस्मिन् हुताशने ।
स्वकर्मविहितं नाम कृत्वा ध्यायेद्धनञ्जयम् ॥ २० ॥

९.२१
बालार्कारुणसङ्काशं सप्तजिह्वं द्विमस्तकम् ।
अजारूढं शक्तिधरं जटामुकुटमण्डितम् ॥ २१ ॥

९.२२
ध्यात्वैवं प्राञ्जलिर्भूत्वाऽवाहयेद्धव्यवाहनम् ॥ २२ ॥

९.२३
मायामेह्येहि पदतः सर्वामर वदेत् प्रिये ।
हव्यवाहपदान्ते च मुनिभिः स्वगणैः सह ।
अध्वरं रक्ष रक्षेति नमः स्वाहा ततो वदेत् ॥ २३ ॥

९.२४
इत्यावाह्य हव्यवाहमयं ते योनिरुच्चरन् ।
यथोपचारैः सम्पूज्य सप्त जिह्वाः प्रपूजयेत् ॥ २४ ॥

९.२५
काली कराली च मनोजवा च सुलोहिता चैव सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वनिरूपिणी च लेलायमानेति च सप्त जिह्वाः ॥ २५ ॥

९.२६
ततोऽग्नेः पूर्वमारभ्य सह कीलालपाणिना ।
उत्तरान्तं महेशानि त्रिधा प्रोक्षणमाचरेत् ॥ २६ ॥

९.२७
तथैव याम्यमारभ्य कौबेरान्तं हुताशितुः ।
त्रिधा पर्युक्षणं कुर्यात्ततो यज्ञीयवस्तुनः ॥ २७ ॥

९.२८
परिस्तरेत्ततो दर्भैः पूर्वस्मादुत्तरावधि ।
उदक्संस्थैरुत्तराग्रैः प्रागग्रैरन्यदिक्स्थितैः ॥ २८ ॥

९.२९
अग्निं दक्षिणतः कृत्वा गत्वा ब्रह्मासनान्तिकम् ।
वामाङ्गुष्ठकनिष्ठाभ्यां ब्रह्मणः कल्पितासनात् ॥ २९ ॥

९.३०
गृहीत्वा कुशपत्रैकं ह्रीं निरस्तः परावसुः ।
इत्युक्त्वाग्नेर्दक्षिणस्यां निक्षिपेदुत्करादिना ॥ ३० ॥

९.३१
सीद यज्ञपते ब्रह्मन्निदं ते कल्पितासनम् ।
सीदामीति वदन् ब्रह्मा विशेत्तत्रोत्तरामुखः ॥ ३१ ॥

९.३२
सम्पूज्य गन्धपुष्पाद्यैर्ब्रह्माणं प्रार्थयेदिदम् ॥ ३२ ॥

९.३३
गोपाय यज्ञं यज्ञेश यज्ञं पाहि बृहस्तपते ।
माञ्च यज्ञपतिं पाहि कर्मसाक्षिन्नमोऽस्तु ते ॥ ३३ ॥

९.३४
गोपयामि वदेत् ब्रह्मा ब्रह्माभावे स्वयं वदेत् ।
तत्र दर्भमयं विप्रं कल्पयेत् यज्ञसिद्धये ॥ ३४ ॥

९.३५
ततो ब्रह्मन्निहागच्छागच्छेत्यावाह्य साधकः ।
पाद्यादिभिश्च सम्पूज्य यावद् यज्ञसमापनम् ।
तावद्भवद्भिः स्थातव्यमिति प्रार्थ्य नमेत्ततः ॥ ३५ ॥

९.३६
सोदकेन करेणाग्नेरीशानाद् ब्रह्मणोऽन्तिकम् ।
त्रिधा पर्युक्ष्य वह्निञ्च त्रिः प्रोक्ष्य तदनन्तरम् ॥ ३६ ॥

९.३७
आगत्य वर्त्मना तेन सूपविश्य निजासने ।
स्थण्डिलस्योत्तरे दर्भानुदगग्रान् परिस्तरेत् ॥ ३७ ॥

९.३८
तेषु यज्ञीयवस्तूनि सर्वाण्यासादयेत् सुधीः ।
सोदकं प्रोक्षणीपात्रमाज्यस्थालीसमित्कुशान् ॥ ३८ ॥

९.३९
आसाद्य स्रुक्स्रुवादीनि ह्रां ह्रीं ह्रूमिति मन्त्रकैः ।
दिव्यदृष्ट्या प्रोक्षणेन संस्कृत्य तदनन्तरम् ॥ ३९ ॥

९.४०
पृथिव्यां दक्षिणं जानु पातयित्वा स्रुवे स्रुचा ।
घृतमादाय मतिमांश्चिन्तयन् हितमात्मनः ।
ह्रीं विष्णवे द्विठान्तेन प्रदद्यादाहुतित्रयम् ॥ ४० ॥

९.४१
तथैव घृतमादाय ध्यायन् देवं प्रजापतिम् ।
वायव्यादग्निकोणान्तं जुहुयादाज्यधारया ॥ ४१ ॥

९.४२
पुनराज्यं समादाय ध्यायन्देवं पुरन्दरम् ।
नैरृतादीशकोणान्तं जुहुयादाज्यधारया ॥ ४२ ॥

९.४३
ततोऽग्नेरुत्तरे याम्ये मध्ये च परमेश्वरि ।
अग्निं सोमं अग्नीषोमौ समुल्लिख्य यथाक्रमात् ॥ ४३ ॥

९.४४
सचतुर्थीनमोऽन्तेन मायाद्येनाहुतित्रयम् ।
हुत्वा विधेयकर्मोक्तं होमं कुर्याद्विचक्षणः ॥ ४४ ॥

९.४५
आहुतित्रयदानान्तं धाराहोमं प्रचक्षते ॥ ४५ ॥

९.४६
यदुद्दिश्याहुतिं दद्यात् देयोद्देशोऽपि तत्कृते ।
समाप्य प्रकृतं कर्म स्विष्टकृद्धोममाचरेत् ॥ ४६ ॥

९.४७
प्रायश्चित्तात्मको होमः कलौ नास्ति वरानने ।
स्विष्टिकृता व्याहृतिभिः प्रायश्चित्तं विधीयते ॥ ४७ ॥

९.४८
पूर्ववद्धविरादाय ब्रह्माणं मनसा स्मरन् ।
अस्मिन् कर्मणि देवेश प्रमादाद्भ्रमतोऽपि वा ॥ ४८ ॥

९.४९
न्यूनाधिकं कृतं यच्च सर्वं स्विष्टकृतं कुरु ।
मायाद्येनामुना देवि स्वाहान्तेनाहुतिं हुनेत् ॥ ४९ ॥

९.५०
त्वमग्ने सर्वलोकानां पावनः स्विष्टकृत् प्रभुः ।
यज्ञसाक्षी क्षेमकर्ता सर्वान् कामान् प्रपूरय ।
अनेन हवनं कुर्यात् मायया वह्निजायया ॥ ५० ॥

९.५१
इत्थं स्विष्टकृतं होमं समाप्य क्रतुसाधकः ।
कर्मणोऽस्य परब्रह्मन्नयुक्तं विहितञ्च यत् ॥ ५१ ॥

९.५२
तच्छान्त्यै यज्ञसम्पत्त्यै व्याहृत्या हूयते विभो ।
मायादिवह्निजायान्तैर्भूर्भुवः स्वरिति त्रिभिः ॥ ५२ ॥

९.५३
आहुतित्रितयं दद्यात् त्रितयेन तथैव च ।
हुत्वाग्नौ यजमानेन दद्यात् पूर्णाहुतिं बुधः ॥ ५३ ॥

९.५४
स्वयं चेत् कर्मकर्ता स्यात् स्वयमेवाहुतिं क्षिपेत् ।
अभिषेकविधानादावेवमेव विधिः स्मृतः ॥ ५४ ॥

९.५५
आदौ मायां समुच्चार्य ततो यज्ञपते वदेत् ।
पूर्णो भवतु यज्ञो मे हृष्यन्तु यज्ञदेवताः ।
फलानि सम्यक् यच्छन्तु वह्निकान्तावधिर्मनुः ॥ ५५ ॥

९.५६
मन्त्रेणानेन मतिमानुत्थाय सुसमाहितः ।
फलताम्बूलसहिताहुतिं दद्याद्धुताशने ॥ ५६ ॥

९.५७
दत्तपूर्णाहुतिर्विद्वान् शान्तिकर्म समाचरेत् ।
प्रोक्षणीपात्रतोयेन कुशैः सम्मार्जयेच्छिरः ॥ ५७ ॥

९.५८
आपः सुमित्रियाः सन्तु भवन्त्वोषधयो मम ।
आपो रक्षन्तु मां नित्यमापो नारायणः स्वयम् ॥ ५८ ॥

९.५९
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातनः ।
इत्याभ्यां मार्जनं कृत्वा भूमौ बिन्दून् विनिक्षिपेत् ॥ ५९ ॥

९.६०
ये द्विषन्ति च मां नित्यं यांश्च द्विष्मो नरान् वयम् ।
आपो दुर्भित्रियास्तेषां सन्तु भक्षन्तु तानपि ॥ ६० ॥

९.६१
अनेनेशानदिग्भागे बिन्दून् प्रक्षिप्य तान् कुशान् ।
हित्वा कृताञ्जलिर्भूत्वा प्रार्थयेद्धव्यवाहनम् ॥ ६१ ॥

९.६२
बुद्धिं विद्यां बलं मेधां प्रज्ञां श्रद्धं यशः श्रियम् ।
आरोग्यं तेज आयुष्यं देहि मे हव्यवाहन ॥ ६२ ॥

९.६३
इति प्रार्थ्य वीतिहोत्रं विसृजेदमुना शिवे ॥ ६३ ॥

९.६४
यज्ञ यज्ञपतिं गच्छ यज्ञं गच्छ हुताशन ।
स्वां योनिं गच्छ यज्ञेश पूरयास्मन्मनोरथम् ॥ ६४ ॥

९.६५
अग्ने क्षमस्व स्वाहेति मन्त्रेणाग्नेरुदग्दिशि ।
दत्वा दध्नाऽहुतिं वह्निं दक्षिणस्यां विचालयेत् ॥ ६५ ॥

९.६६
ब्रह्मणे दक्षिणां दत्त्वा भक्त्या नत्वा विसर्जयेत् ।
ततस्तु तिलकं कुर्यात् स्रुवसंलग्नभस्मना ॥ ६६ ॥

९.६७
मायां कामं समुच्चार्य सर्वशान्तिकरो भव ।
ललाटे तिलकं कुर्यात् मन्त्रेणानेन याज्ञिकः ॥ ६७ ॥

९.६८
शान्तिरस्तु शिवं चास्तु वासवाग्निप्रसादतः ।
मरुतां ब्रह्मणश्चैव वसुरुद्रप्रजापतेः ॥ ६८ ॥

९.६९
अनेन मनुना पुष्पं धारयेन्मस्तकोपरि ।
स्वशक्त्या दक्षिणां दद्यात् होमप्रकृतकर्मणोः ॥ ६९ ॥

९.७०
इति ते कथिता देवि सर्वकर्मकुशण्डिका ।
प्रयोज्या शुभकर्मादौ यत्नतः कुलसाधकैः ॥ ७० ॥

९.७१
प्रकृते कर्मणि शिवे चरुर्येषां कुलागमः ।
सिद्ध्यर्थं कर्मणान्तेषां चरुकर्म निगद्यते ॥ ७१ ॥

९.७२
चरुस्थाली प्रकर्तव्या ताम्री वा मृत्तिकोद्भवा ॥ ७२ ॥

९.७३
कुशण्डिकोक्तविधिना द्रव्यसंस्करणावधि ।
कृत्वा कर्म चरुस्थालीमानयेदात्मसम्मुखे ॥ ७३ ॥

९.७४
अक्षतामब्रणां दृष्ट्वा प्रादेशपरिमाणकम् ।
पवित्रकुशमेकञ्च स्थालीमध्ये नियोजयेत् ॥ ७४ ॥

९.७५
आनीय तण्डुलांस्तत्र संस्थाप्य स्थण्डिलान्तिके ।
यस्मिन् कर्मणि ये देवाः पूजनीयाः सुरार्चिते ॥ ७५ ॥

९.७६
तत्तन्नाम चतुर्थ्यन्तमुक्त्वा त्वाजुष्टमीरयन् ।
गृह्णामि निर्वपामीति प्रोक्षामीति क्रमाद्वदन् ॥ ७६ ॥

९.७७
गृहीत्वा निर्वपेत् स्थाल्यां प्रोक्षयेज्जलबिन्दुना ।
प्रत्येकञ्चतुरो मुष्टीन् देवमुद्दिश्य तण्डुलान् ॥ ७७ ॥

९.७८
ततो दुग्धं सिताञ्चैव दत्वा पाकविधानतः ।
सुपचेत् संस्कृते वह्नौ सावधानेन सुव्रते ॥ ७८ ॥

९.७९
सुपक्वं कोमलं ज्ञात्वा दद्यात् तत्र घृतस्रुवम् ॥ ७९ ॥

९.८०
अग्नेरुत्तरतः पात्रं विनिधाय कुशोपरि ।
पुनस्त्रिधा घृतं दत्त्वा स्थालीमाच्छादयेत् कुशैः ॥ ८० ॥

९.८१
ततः सृवे चरुस्थाल्या घृताधारणपूर्वकम् ।
किञ्चिच्चरुं समादाय जानुहोमं समाचरेत् ॥ ८१ ॥

९.८२
धाराहोमं ततः कृत्वा प्रधानीभूतकर्मणि ।
यत्र ये विहिता देवास्तन्मन्त्रैराहुतीर्हुनेत् ॥ ८२ ॥

९.८३
समाप्य प्रकृतं होमं स्विष्टिकृद्धोमपूर्वकम् ।
प्रायश्चित्तात्मकं हुत्वा कुर्यात् कर्मसमापनम् ॥ ८३ ॥

९.८४
संस्कारेषु प्रतिष्ठासु विधिरेषः प्रकीर्तितः ।
विधेयः शुभकर्मादौ कर्मसंसिद्धिहेतवे ॥ ८४ ॥

९.८५
अथोच्यते महामाये गर्भाधानादिकाः क्रियाः ।
तत्रादावृतुसंस्कारः कथ्यते क्रमतः शृणु ॥ ८५ ॥

९.८६
कृतनित्यक्रियः शुद्धः पञ्च देवान् समर्चयेत् ।
ब्रह्मा दुर्गा गणेशश्च ग्रहा दिक्पतयस्तथा ॥ ८६ ॥

९.८७
स्थण्डिलस्येन्द्रदिग्भागे घटेष्वेतान् प्रपूजयेत् ।
ततस्तु मातृकाः पूज्या गौर्याद्याः षोडश क्रमात् ॥ ८७ ॥

९.८८
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा शान्तिः पुष्टिर्धृतिः क्षमा ।
आत्मनो देवता चैव तथैव कुलदेवता ॥ ८८ ॥

९.८९
आयान्तु मातरः सर्वास्त्रिदशानन्दकारिकाः ।
विवाहव्रतयज्ञानां सर्वाभीष्टं प्रकल्प्यताम् ॥ ८९ ॥

९.९०
यानशक्तिसमारूढाः सौम्यमूर्तिधराः सदा ।
आयान्तु मातरः सर्वा यज्ञोत्सवसमृद्धये ॥ ९० ॥

९.९१
इत्यावाह्य मातृगणान् स्वशक्त्या परिपूज्य च ।
देहल्यां नाभिमात्रायां प्रादेशपरिमाणतः ।
सप्त वा पञ्च वा बिन्दून् दद्यात् सिन्दूरचन्दनैः ॥ ९१ ॥

९.९२
प्रत्येकबिन्दुं मतिमान् कामं मायां रमां स्मरन् ।
घृतधारामविच्छिन्नां दत्त्वा तत्र वसुं यजेत् ॥ ९२ ॥

९.९३
वसुधारां प्रकल्प्यैवं मयोक्तेनैव वर्त्मना ।
विरच्य स्थण्डिलं धीरो वह्निस्थापनपूर्वकम् ।
होमद्रव्याणि संस्कृत्य पचेच्चरुमनुत्तमम् ॥ ९३ ॥

९.९४
प्राजापत्यश्चरुश्चात्र वायुनामा हुताशनः ।
समाप्य धाराहोमान्तं कृत्यमार्तवमारभेत् ॥ ९४ ॥

९.९५
ह्रीं प्रजापतये स्वाहा चरुणैवाहुतित्रयम् ।
प्रदायैकाहुतिं दद्यादिमं मन्त्रमुदीरयन् ॥ ९५ ॥

९.९६
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आंसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ ९६ ॥

९.९७
आज्येन चरुणा वापि साज्येन चरुणापि वा ।
सूर्यं प्रजापतिं विष्णुं ध्यायन्नाहुतिमुत्सृजेत् ॥ ९७ ॥

९.९८
गर्भं धेहि शिनीवाली गर्भं धेहि सरस्वती ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ९८ ॥

९.९९
ध्यात्वा देवीं शिनीवालीं सरस्वत्यश्विनौ तथा ।
स्वाहान्तमनुनाऽनेन दद्यादाहुतिमुत्तमाम् ॥ ९९ ॥

९.१००
ततः कामं बधूं मायां रमां कूर्चं समुच्चरन् ।
अमुष्यै पुत्रकामायै गर्भमाधेहि सद्विठम् ।
उक्त्वा ध्यात्वा रविं विष्णुं जुहुयात् संस्कृतेऽनले ॥ १०० ॥

९.१०१
यथेयं पृथिवी देवी ह्युत्ताना गर्भमादधे ।
तथा त्वं गर्भमाधेहि दशमे मासि सूतये ।
स्वाहान्तेनाऽमुना विष्णुं ध्यायन्नाहुतिमाहरेत् ॥ १०१ ॥

९.१०२
पुनराज्यं समादाय ध्यात्वा विष्णुं परात्परम् ।
विष्णो ज्येष्ठेन रूपेण नार्यामस्यां वरीयसम् ।
सुतमाधेहि ठद्वन्द्वमुक्त्वा वह्नौ हविस्त्यजेत् ॥ १०२ ॥

९.१०३
कामेन पुटितां मायां मायया पुटितां वधूम् ।
पुनः कामञ्च मायाञ्च पठित्वाऽस्याः शिरः स्पृशेत् ॥ १०३ ॥

९.१०४
पतिपुत्रवतीभिश्च नारीभिः परिवेष्टितः ।
शिरश्चालभ्य हस्ताभ्यां बध्वाः क्रोडाञ्चले पतिः ॥ १०४ ॥

९.१०५
विष्णुं दुर्गां विधिं सूर्यं ध्यात्वा दद्यात् फलत्रयम् ।
ततः स्विष्टिकृतं हुत्वा प्रायश्चित्त्या समापयेत् ॥ १०५ ॥

९.१०६
यद्वा प्रदोषसमये गौरीशङ्करपूजनात् ।
भास्करार्घ्यप्रदानाच्च दम्पत्योः शोधनं भवेत् ॥ १०६ ॥

९.१०७
आर्तवं कथितं कर्म गर्भाधानमथो शृणु ॥ १०७ ॥

९.१०८
तद्रात्रावन्यरात्रौ वा युग्मायां निशि भार्यया ।
सदनाभ्यन्तरं गत्वा ध्यात्वा देवं प्रजापतिम् ॥ १०८ ॥

९.१०९
स्पृशन् पत्नीं पठेद्भर्ता मायाबीजपुरःसरम् ।
आवयोः सुप्रजायै त्वं शयये शुभकरी भव ॥ १०९ ॥

९.११०
आरुह्य भार्यया शययां प्राङ्मुखो वाप्युदङ्मुखः ।
उपविश्य स्त्रियं पश्यन् हस्तमाधाय मस्तके ।
वामेन पाणिनाऽलिङ्ग्य स्थाने स्थाने मनुं जपेत् ॥ ११० ॥

९.१११
शीर्षे कामं शतं जप्त्वा चिवुके वाग्भवं शतम् ।
कण्ठे रमां विंशतिधा स्तनद्वन्द्वे शतं शतम् ॥ १११ ॥

९.११२
हृदये दशधा मायां नाभौ तां पञ्चविंशतिम् ।
जप्त्वा योनौ करं दत्त्वा कामेन सह वाग्भवम् ॥ ११२ ॥

९.११३
शतमष्टोत्तरं जप्त्वा लिङ्गेऽप्येवं समाचरन् ।
विकाश्य मायया योनिं स्त्रियं गच्छेत् सुताप्तये ॥ ११३ ॥

९.११४
रेतःसम्पातसमये ध्यात्वा विश्वकृतं पतिः ।
नाभेरधस्तात् चित्कुण्डे रक्तिकायां प्रपातयेत् ॥ ११४ ॥

९.११५
शुक्रसेकान्तरे विद्वानिमं मन्त्रमुदीरयेत् ॥ ११५ ॥

९.११६
यथाऽग्निना सगर्भा भूर्द्यौर्यथा वज्रधारिणा ।
वायुना दिग्गर्भवती तथा गर्भवती भव ॥ ११६ ॥

९.११७
जाते गर्भे ऋतौ तस्मिन्नन्यस्मिन् वा महेश्वरि ।
तृतीये गर्भमासे तु चरेत् पुंसवनं गृही ॥ ११७ ॥

९.११८
कृतनित्यक्रियो भर्ता पञ्च देवान् समर्चयेत् ।
गौर्यादिमातृकाश्चैव वसोर्धारां प्रकल्पयेत् ॥ ११८ ॥

९.११९
वृद्धिश्राद्धं ततः कृत्वा पूर्वोक्तविधिना सुधीः ।
धाराहोमान्तमापाद्य कुर्यात् पुंसवनक्रियाम् ॥ ११९ ॥

९.१२०
प्राजापत्यश्चरुस्तत्र चन्द्रनामा हुताशनः ॥ १२० ॥

९.१२१
गव्ये दध्नि यवञ्चैकं द्वौ माषावपि निक्षिपेत् ।
पतिः पृच्छेत् स्त्रियं भद्रे किं त्वं पिवसि त्रिःकृतम् ॥ १२१ ॥

९.१२२
ततः सीमन्तिनी ब्रूयात् मायापुंसवनं त्रिधा ।
प्रसृतींस्त्रीन् पिवेन्नारी यवमाषयुतं दधि ॥ १२२ ॥

९.१२३
जीवत्सुताभिर्वनितां यागस्थानं समानयेत् ।
संस्थाप्य वामभागे तां चरुहोमं समाचरेत् ॥ १२३ ॥

९.१२४
पूर्ववच्चरुमादाय मायां कूर्चं समुच्चरन् ।
ये गर्भविघ्नकर्तारो ये च गर्भविनाशकाः ॥ १२४ ॥

९.१२५
भूताः प्रेताः पिशाचाश्च वेताला वालघातकाः ।
तान् सर्वान् नाशय द्वन्द्वं गर्भरक्षां कुरु द्विठः ॥ १२५ ॥

९.१२६
मन्त्रेणानेन रक्षोघ्नं चिन्तयित्वा हुताशनम् ।
रुद्रं प्रजापतिं ध्यायन् ध्यायन् प्रदद्यात् द्वादशाहुतीः ॥ १२६ ॥

९.१२७
ततो माया चन्द्रमसे स्वाहेत्याहुतिपञ्चकम् ।
दत्त्वा भार्याहृदि स्पृष्ट्वा मायां लक्ष्मीं शतं जपेत् ॥ १२७ ॥

९.१२८
ततः स्विष्टिकृतं हुत्वा प्रायश्चित्त्या समापयेत् ।
ततस्तु पञ्चमे मासि दद्यात् पञ्चामृतं स्त्रियै ॥ १२८ ॥

९.१२९
शर्करा मधु दुग्धञ्च घृतं दधि समांशकम् ।
पञ्चामृतमिदं प्रोक्तं देहशुद्धौ विधीयते ॥ १२९ ॥

९.१३०
वाग्भवं मदनं लक्ष्मीं मायां कूर्चं पुरन्दरम् ।
पञ्चद्रव्योपरि शिवे प्रजप्य पञ्च पञ्चधा ।
एकीकृत्याऽमृतान्यत्र प्राशयेद्दयितां पतिः ॥ १३० ॥

९.१३१
सीमन्तोन्नयनं कुर्यान्मासि षष्ठेऽष्टमेऽपि वा ।
यावन्न जायतेऽपत्यं तावत् सीमन्तनक्रिया ॥ १३१ ॥

९.१३२
पूर्वोक्तधाराहोमान्तं कर्म कृत्वा स्त्रिया सह ।
उपविश्याऽसने प्राज्ञः प्रदद्यादाहुतित्रयम् ।
विष्णवे भास्वते धात्रे वह्निजायां समुच्चरन् ॥ १३२ ॥

९.१३३
ततश्चन्द्रमसं ध्यात्वा शिवनाग्नि हुताशने ।
सप्तधा हवनं कुर्यात् सोममुद्दिश्य मानवः ॥ १३३ ॥

९.१३४
अश्विनौ वासवं विष्णुं शिवं दुर्गां प्रजापतिम् ।
ध्यात्वा प्रत्येकतो दद्यादाहुतीः पञ्चधा शिवे ॥ १३४ ॥

९.१३५
स्वर्णकङ्कतिकां भर्ता गृहीत्वा दक्षिणे करे ।
सीमन्ताद्वद्धकेशान्तः केशपाशे निवेशयेत् ॥ १३५ ॥

९.१३६
शिवं विष्णुं विधिं ध्यायन् मायाबीजं समुच्चरन् ॥ १३६ ॥

९.१३७
भार्ये कल्याणि सुभगे दशमे मासि सुव्रते ।
सुप्रसूता भव प्रीता प्रसादाद्विश्वकर्मणः ॥ १३७ ॥

९.१३८
आयुष्मती कङ्कतिका वर्चस्वी ते शुभं कुरु ।
ततः समापयेत् कर्म स्विष्टिकृद्धवनादिभिः ॥ १३८ ॥

९.१३९
जातमात्रं सुतं दृष्ट्वा दत्त्वा स्वर्णं गृहान्तरे ।
पूर्वोक्तविधिना धीरो धाराहोमं समापयेत् ॥ १३९ ॥

९.१४०
ततः पञ्चाहुतीर्दद्यात् अग्निमिन्द्रं प्रजापतिम् ।
विश्वान् देवांश्च ब्रह्माणमुद्दिश्य तदनन्तरम् ॥ १४० ॥

९.१४१
मधुसर्पिः कांस्यपात्रे समानीयाऽसमांशकम् ।
वाग्भवं शतधा जप्त्वा प्राशयेत्तनयं पिता ॥ १४१ ॥

९.१४२
दक्षहस्तानामिकया मन्त्रमेनं समुच्चरन् ।
आयुर्वर्चो बलं मेधा वर्द्धतां ते सदा शिशो ॥ १४२ ॥

९.१४३
इत्यायुर्जननं कृत्वा गुप्तं नाम प्रकल्पयेत् ।
कृतोपनयने पुत्रे तेन नाम्ना समाह्वयेत् ॥ १४३ ॥

९.१४४
प्रायश्चित्तादिकं कृत्वा जातकर्म समापयेत् ।
नालछेदं ततो धात्री कुर्यादुत्साहपूर्वकम् ॥ १४४ ॥

९.१४५
यावन्न छिद्यते नालं तावच्छौचं न वाधते ।
प्रागेव नाडिकाछेदाद्दैवीं पैत्रीं क्रियाञ्चरेत् ॥ १४५ ॥

९.१४६
कुमार्याश्चापि कर्तव्यमेवमेवममन्त्रकम् ।
षष्ठे वा चाष्टमे मासि नाम कुर्यात् प्रकाशतः ॥ १४६ ॥

९.१४७
स्नापयित्वा शिशुं माता परिधाप्याम्बरे शुभे ।
भर्तुः पार्श्वं समागत्य प्राङ्मुखं स्थापयेत् सुतम् ॥ १४७ ॥

९.१४८
अभिषिञ्चेत् शिशोर्मूर्ध्नि सहिरण्यकुशोदकैः ।
जाह्नवी यमुना रेवा सुपवित्रा सरस्वती ॥ १४८ ॥

९.१४९
नर्मदा वरदा कुन्ती सागराश्च सरांसि च ।
एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये ॥ १४९ ॥

९.१५०
ह्रीं आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन महे रणाय चक्षुषे ॥ १५० ॥

९.१५१
ह्रीं यो वः शिवतमो रसस्तस्य भाजयतेह न ऊशतीरिव मातरः ॥ १५१ ॥

९.१५२
ह्रीं तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा च नः ॥ १५२ ॥

९.१५३
अभिषिच्य त्रिभिर्मन्त्रैः पूर्ववद्वह्निसंस्क्रियाम् ।
कृत्वा सम्पाद्य धारान्तं दद्यात् पञ्चाहुतीः सुधीः ॥ १५३ ॥

९.१५४
अग्नये प्रथमां दत्त्वा वासवाय ततः परम् ।
ततः प्रजानाम्पतये विश्वदेवेभ्य एव च ।
ब्रह्मणे चाहुतिं दद्याद्वह्नौ पार्थिवसंज्ञके ॥ १५४ ॥

९.१५५
ततोऽङ्के पुत्रमादाय श्रावयेत् दक्षिणश्रुतौ ।
स्वल्पाक्षरं सुखोच्चार्यं शुभं नाम विचक्षणः ॥ १५५ ॥

९.१५६
श्रावयित्वा त्रिधा नाम ब्राह्मणेभ्यो निवेद्य च ।
ततः समापयेत् कर्म कृत्वा स्विष्टिकृदादिकम् ॥ १५६ ॥

९.१५७
कन्याया निष्क्रमो नास्ति बृद्धिश्राद्धं न विद्यते ।
नामान्नप्राशनं चूडां कुर्याद्धीमानमन्त्रकम् ॥ १५७ ॥

९.१५८
चतुर्थे मासि षष्ठे वा कुर्यान्निष्क्रमणं शिशोः ॥ १५८ ॥

९.१५९
कृतनित्यक्रियस्तातः सम्पूज्य गणनायकम् ।
स्नापयित्वा तु तनयं वस्त्रालङ्कारभूषितम् ।
संस्थाप्य पुरतो विद्वानिमं मन्त्रमुदीरयेत् ॥ १५९ ॥

९.१६०
ब्रह्मा विष्णुः शिवो दुर्गा गणेशो भास्करस्तथा ।
इन्द्रो वायुः कुवेरश्च वरुणोऽग्निर्बृहस्पतिः ।
शिशोः शुभं प्रकुर्वन्तु रक्षन्तु पथि सर्वदा ॥ १६० ॥

९.१६१
इत्युक्त्वाऽङ्के समादाय गीतवाद्यपुरःसरम् ।
बहिर्निष्क्रामयेद्बालं सानन्दैः स्वजनैः सह ॥ १६१ ॥

९.१६२
गत्वाऽध्वनि कियद्दूरं शिशुं सूर्यं निरीक्षयेत् ॥ १६२ ॥

९.१६३
ह्रीं तच्चक्षुर्देवहितं पुरस्ताच्छ्रक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥ १६३ ॥

९.१६४
इत्यादित्यं दर्शयित्वा समागत्य निजालयम् ।
अर्घ्यं दत्त्वा दिनेशाय स्वजनान् भोजयेत् पिता ॥ १६४ ॥

९.१६५
षष्ठे मासि कुमारस्य मासि वाप्यष्टमे शिवे ।
पितृभ्राता पिता वापि कुर्यादन्नाशनक्रियाम् ॥ १६५ ॥

९.१६६
पूर्ववद्देवपूजादि वह्निसंस्करणं तथा ।
एवं धारान्तकर्माणि सम्पाद्य विधिवत् पिता ॥ १६६ ॥

९.१६७
दद्यात् पञ्चाहुतीस्तत्र शुचिनाग्नि हुताशने ।
अग्निमुद्दिश्य प्रथमां द्वितीयां वासवं स्मरन् ॥ १६७ ॥

९.१६८
ततः प्रजापतिं देवं विश्वान् देवान् ततः परम् ।
ब्रह्माणञ्च समुद्दिश्य पञ्चमीमाहुतिं त्यजेत् ॥ १६८ ॥

९.१६९
ततोऽग्नावन्नदां ध्यात्वा दत्तपञ्चाहुतिः पिता ।
तत्राथवा गृहेऽन्यस्मिन् वस्त्रालङ्कारशोभितम् ।
क्रोडे निधाय तनयं प्राशयेत् पायसामृतम् ॥ १६९ ॥

९.१७०
पञ्चप्राणाहुतेर्मन्त्रैर्भोजयित्वा तु पञ्चधा ।
ततोऽन्नव्यञ्जनादीनां दत्त्वा किञ्चित् शिशोर्मुखे ॥ १७० ॥

९.१७१
शङ्खतूर्यादिघोषेण प्रायश्चित्त्या समापयेत् ।
इत्यन्नप्राशनं प्रोक्तं चूडाविधिमतः शृणु ॥ १७१ ॥

९.१७२
तृतीये पञ्चमे वर्षे कुलाचारानुसारतः ।
चूडाकर्म शिशोः कुर्याद्बालसंस्कारसिद्धये ॥ १७२ ॥

९.१७३
देवपूजादिधारान्तं कर्म निष्पाद्य साधकः ।
सत्याग्नेरुत्तरे देशे वृषगोमयपूरितम् ॥ १७३ ॥

९.१७४
तिलगोधूमसंयुक्तं शरावं स्थापयेद् बुधः ।
कवोष्णं सलिलं चापि क्षुरमेकं सुशाणितम् ॥ १७४ ॥

९.१७५
आसाद्य तनयं तत्र जनकः स्वीयवामतः ।
संस्थाप्य जननीक्रोडे कवोष्णसलिलैश्च तैः ॥ १७५ ॥

९.१७६
वारुणं दशधा जप्त्वा सम्मार्ज्य शिशुमूर्द्धजान् ।
मायया कुशपत्राभ्यां जुष्टिमेकां प्रकल्पयेत् ॥ १७६ ॥

९.१७७
मायां लक्ष्मीं त्रिधा जप्त्वा गृहीत्वा लौहजं क्षुरम् ।
छित्त्वा तु जुष्टिकामूलं मातृहस्ते निवेशयेत् ॥ १७७ ॥

९.१७८
कुमारमाता हस्ताभ्यामादाय गोमयान्विते ।
शरावे स्थापयेत् जुष्टिं नापिताय पिता वदेत् ॥ १७८ ॥

९.१७९
क्षुरमुण्डिन् शिशोः क्षौरं सुखं साधय ठद्वयम् ।
पठित्वा नापितं पश्यन् सत्यनामनि पावके ।
प्रजापतिं समुद्दिश्य प्रदद्यादाहुतित्रयम् ॥ १७९ ॥

९.१८०
नापितेन कृतक्षौरं स्नापयित्वा शिशुं ततः ।
वस्त्रालङ्कारमाल्येन भूषयित्वाऽग्निसन्निधौ ॥ १८० ॥

९.१८१
स्ववामभागे संस्थाप्य स्विष्टिकृद्धोममाचरेत् ।
प्रायश्चित्तं ततः कृत्वा दद्यात् पूर्णाहुतिं पिता ॥ १८१ ॥

९.१८२
माया शिशो ते कुशलं कुरुतां विश्वकृद्विभुः ।
पठित्वैनं शिशोः कर्णे स्वर्णमयया शलाकया ।
राजत्या लौहमयया वा कर्णवेधं प्रकल्पयेत् ॥ १८२ ॥

९.१८३
आपोहिष्ठेति मन्त्रेण अभिषिच्य सुतं ततः ।
शान्त्यादिदक्षिणां कृत्वा चूडाकर्म समापयेत् ॥ १८३ ॥

९.१८४
गर्भाधानादिचूडान्तं समानं सर्वजातिषु ।
शूद्रसामान्यजातीनां सर्वमेतदमन्त्रकम् ॥ १८४ ॥

९.१८५
जातकर्मादिचूडान्तं कुमार्याश्चाप्यमन्त्रकम् ।
कर्तव्यं पञ्चभिर्वर्णैरेकं निष्क्रमणं विना ॥ १८५ ॥

९.१८६
अथोच्यते द्विजातीनामुपवीतक्रियाविधिः ।
यस्मिन् कृते द्विजन्मानो दैवपैत्राधिकारिणः ॥ १८६ ॥

९.१८७
गर्भाष्टमेऽष्टमे वाऽब्दे कुर्यादुपनयं शिशोः ।
षोडशाब्दाधिको नोपनेतव्यो निष्क्रियोऽपि सः ॥ १८७ ॥

९.१८८
कृतनित्यक्रियो विद्वान् पञ्च देवान् समर्चयेत् ।
गौर्यादिमातृकाश्चैव वसुधारां प्रकल्पयेत् ॥ १८८ ॥

९.१८९
वृद्धिश्राद्धं ततः कुर्यात् देवतापितृतृप्तये ।
कुशण्डिकोक्तविधिना धाराहोमान्तमाचरेत् ॥ १८९ ॥

९.१९०
प्रातः कृताशनं बालं सुस्नातं समलङ्कृतम् ।
शिखां विना कृतक्षौरं क्षौमाम्बरविभूषितम् ॥ १९० ॥

९.१९१
छायामण्डपमानीय समुद्भवहुताशितुः ।
समीपे चात्मनो वामे संस्थाप्य विमलासने ॥ १९१ ॥

९.१९२
शिष्यं वदेद्ब्रह्मचर्यं कुरु वत्स ततः शिशुः ।
ब्रह्मचर्यं करोमीति गुरवे विनिवेदयेत् ॥ १९२ ॥

९.१९३
ततो गुरुः प्रसन्नात्मा शिशवे शान्तचेतसे ।
काषायवाससी दद्यात् दीर्घायुष्ट्वाय वर्चसे ॥ १९३ ॥

९.१९४
मौञ्जीं कुशमयीं वापि त्रिवृतां ग्रन्थिसंयुताम् ।
तूष्णीं च मेखलां दद्यात् काषायाम्बरधारिणे ॥ १९४ ॥

९.१९५
मायामुच्चार्य सुभगा मेखलां स्यात् शुभप्रदा ।
इत्युक्त्वा मेखला बद्ध्वा मौनी तिष्ठेत् गुरोः पुरः ॥ १९५ ॥

९.१९६
यज्ञोपवीतं परमं पवित्रं बृहस्पतिर्यत् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ १९६ ॥

९.१९७
मन्त्रेणानेन शिशवे दद्यात् कृष्णाजिनान्वितम् ।
यज्ञोपवीतं दण्डञ्च वैणवं खादिरञ्च वा ।
पालाशमथवा दद्यात् क्षीरवृक्षसमुद्भवम् ॥ १९७ ॥

९.१९८
आपो हि ष्ठेति मन्त्रेण मायया पुटितेन च ।
त्रिरावृत्त्या कुशाम्भोभिर्धृतदण्डोपवीतिनम् ।
अभिषिच्य ततस्तोयैः पूरयेद्वालकाञ्जलिम् ॥ १९८ ॥

९.१९९
तदञ्जलिं दिनेशाय दातारं ब्रह्मचारिणम् ।
तच्चक्षुरिति मन्त्रेण दर्शयेद्भास्करं गुरुः ॥ १९९ ॥

९.२००
दृष्टभास्करमाचार्यो वदेन्माणवकं ततः ।
मम व्रते मनो धेहि मम चित्तं ददामि ते ।
जुषस्वैकमना वत्स मम वाचोऽस्तु ते शिवम् ॥ २०० ॥

९.२०१
हृदि स्पृष्ट्वा पठित्वैनं किन्नामाऽसीति तं वदेत् ।
शिष्यस्त्वमुकशर्माऽहं भवन्तमभिवादये ॥ २०१ ॥

९.२०२
कस्य त्वं ब्रह्मचारीति गुरौ पृच्छति पार्वति ।
शिष्यः सावहितो ब्रूयाद्भवतो ब्रह्मचार्यहम् ॥ २०२ ॥

९.२०३
इन्द्रस्य ब्रह्मचारी त्वमाचार्यरते हुताशनः ।
इत्युक्त्वा सद्गुरुः पश्चाद्देवेभ्यस्तं समर्पयेत् ॥ २०३ ॥

९.२०४
त्वां प्रजापतये वत्स सवित्रे वरुणाय च ।
पृथिव्यै विश्वदेवेभ्यः सर्वदेवेभ्य एव च ।
समर्पयामि ते सर्वे रक्षन्तु त्वां निरन्तरम् ॥ २०४ ॥

९.२०५
ततो माणवको वह्निं दक्षिणावर्तयोगतः ।
गुरुं प्रदक्षिणीकृत्य स्वासने पुनराविशेत् ॥ २०५ ॥

९.२०६
गुरुः शिष्येण संस्पृष्टः समुद्भवहुताशने ।
पञ्चदेवान् समुद्दिश्य दद्यात् पञ्चाहुतीः प्रिये ॥ २०६ ॥

९.२०७
प्रजापतिस्तथा शक्रो विष्णुर्ब्रह्मा शिवस्तथा ॥ २०७ ॥

९.२०८
मायादिवह्निजायान्तैर्जुहुयात् स्वस्वनामभिः ।
अनुक्तमन्त्रे सर्वत्र विधिरेषः प्रकीर्तितः ॥ २०८ ॥

९.२०९
ततो दुर्गा महालक्ष्मीः सुन्दरी भुवनेश्वरी ।
इन्द्रादिदशदिक्पाला भास्करादिनवग्रहाः ॥ २०९ ॥

९.२१०
प्रत्येकनाम्ना हुत्वैतान् वाससाऽच्छाद्य बालकम् ।
पृच्छेन्माणवकं प्राज्ञो ब्रह्मचर्याभिमानिनम् ।
को वाऽश्रमस्ते तनय ब्रूहि किं ते मनोगतम् ॥ २१० ॥

९.२११
ततः शिष्यः सावहितो धृत्वा गुरुपदद्वयम् ।
करोतु मामाश्रमिणं ब्रह्मविद्योपदेशतः ॥ २११ ॥

९.२१२
एवं प्रार्थयमानस्य दक्षकर्णे शिशोस्तदा ।
श्रावयित्वा त्रिधा तारं सर्वमन्त्रमयं शिवे ।
व्याहृतित्रयमुच्चार्य सावित्रीं श्रावयेद्गुरुः ॥ २१२ ॥

९.२१३
ऋषिः सदाशिवः प्रोक्तः छन्दस्त्रिष्टुबुदाहृतम् ।
अधिष्ठात्री तु सावित्री मोक्षार्थे विनियोगिता ॥ २१३ ॥

९.२१४
आदौ तत्सवितुः पश्चाद्वरेण्यं पदमुच्चरेत् ।
भर्गः पदान्ते देवस्य धीमहीति पदं वदेत् ॥ २१४ ॥

९.२१५
ततस्तु परमेशानि धियो यो नः प्रचोदयात् ।
पुनः प्रणवमुच्चार्य सावित्र्यर्थं गुरुर्वदेत् ॥ २१५ ॥

९.२१६
त्र्यक्षरात्मकतारेण परेशः प्रतिपाद्यते ।
पाता हर्ता च संस्रष्टा यो देवः प्रकृतेः परः ॥ २१६ ॥

९.२१७
असौ देवस्त्रिलोकात्मा त्रिगुणं व्याप्य तिष्ठति ।
अतो विश्वमयं ब्रह्म वाच्यं व्याहृतिभिस्त्रिभिः ॥ २१७ ॥

९.२१८
तारव्याहृतिवाच्यो यः सावित्र्या ज्ञेय एव सः ।
जगद्रूपस्य सवितुः संस्रष्टुर्दीव्यतो विभोः ॥ २१८ ॥

९.२१९
अन्तर्गतं महद्वर्चो वरणीयं यतात्मभिः ।
ध्यायेम तत् परं सत्यं सर्वव्यापि सनातनम् ॥ २१९ ॥

९.२२०
यो भर्गः सर्वसाक्षीशो मनोबुद्धीन्द्रियाणि नः ।
धर्मार्थकाममोक्षेषु प्रेरयेद्विनियोजयेत् ॥ २२० ॥

९.२२१
इत्थमर्थयुतां ब्रह्मविद्यामादिश्य सद्गुरुः ।
शिष्यं नियोजयेद्देवि गृहस्थाश्रमकर्मसु ॥ २२१ ॥

९.२२२
ब्रह्मचर्योचितं वेशं वत्सेदानीं परित्यज ।
शाम्भवोदितमार्गेण देवान् पितॄन् समर्चय ॥ २२२ ॥

९.२२३
ब्रह्मविद्योपदेशेन पवित्रं ते कलेवरम् ।
प्राप्ता गृहस्थाश्रमिता तदुक्तं कर्म कल्पय ॥ २२३ ॥

९.२२४
उपवीतद्वयं दिव्यवस्त्रालङ्करणानि च ।
गृहाण पादुकाछत्रं गन्धमाल्यानुलेपनम् ॥ २२४ ॥

९.२२५
ततः काषायवसनं कृष्णाजिनसमन्वितम् ।
यज्ञसूत्रं मेखलाञ्च दण्डं भिक्षाकरण्डकम् ॥ २२५ ॥

९.२२६
आचारादर्जितां भिक्षां समर्प्य गुरवे शिवे ।
शुद्धोपवीतयुगलं परिधायाम्बरे शुभे ॥ २२६ ॥

९.२२७
गन्धमाल्यधरस्तूष्णीं तिष्ठेदाचार्यसन्निधौ ।
ततो गृहस्थाश्रमिणं शिष्यमेतद्वदेद्गुरुः ॥ २२७ ॥

९.२२८
जितेन्द्रियः सत्यवादी ब्रह्मज्ञानपरो भव ।
स्वाध्यायाऽश्रमकर्माणि यथाधर्मेण साधय ॥ २२८ ॥

९.२२९
इत्यादिश्य द्विजं पश्चात् समुद्भवहुताशने ।
मायादिप्रणवान्तेन भूर्भुवःस्वस्त्रयेण च ॥ २२९ ॥

९.२३०
हावयित्वा त्रिधाऽचार्यः स्विष्टिकृद्धोममाचरन् ।
दत्त्वा पूर्णाहुतिं भद्रे व्रतकर्म समापयेत् ॥ २३० ॥

९.२३१
जीवसेकादिसंस्कारा व्रतान्ताः पितृतो नव ।
उद्वाहः पितृतो वापि स्वतोऽपि सिध्यति प्रिये ॥ २३१ ॥

९.२३२
विवाहाह्नि कृतस्नानः कृतनित्यक्रियः कृती ।
पञ्चदेवान् समभ्यर्च्य गौर्यादिमातृकास्तथा ।
वसोर्धारां कल्पयित्वा वृद्धिश्राद्धं समाचरेत् ॥ २३२ ॥

९.२३३
रात्रौ प्रतिश्रुतं पात्रं गीतवाद्यपुरःसरम् ।
छायामण्डपमानीय उपवेश्य वरासने ॥ २३३ ॥

९.२३४
वासवाभिमुखं दाता पश्चिमाभिमुखो विशेत् ।
आचम्य स्वस्तिमृद्धिञ्च कथयेद्ब्राह्मणैः सह ॥ २३४ ॥

९.२३५
साधुप्रश्नं वरं पृच्छेदर्चनाप्रश्नमेव च ।
वरात् प्रश्नोत्तरं नीत्वा पाद्याद्यैर्वरमर्चयेत् ॥ २३५ ॥

९.२३६
समर्पयामि वाक्येन देयद्रव्यं समर्पयेत् ।
पादयोरर्पयेत् पाद्यं शिरस्यर्घ्यं निवेदयेत् ॥ २३६ ॥

९.२३७
आचम्यं वदने दद्यात् गन्धं माल्यं सुवाससी ।
दिव्याभरणरत्नानि यज्ञसूत्रं समर्पयेत् ॥ २३७ ॥

९.२३८
ततस्तु भाजने कांस्ये कृत्वा दधि घृतं मधु ।
समर्पयामि वाक्येन मधुपर्कं करेऽर्पयेत् ॥ २३८ ॥

९.२३९
वरोऽपि पात्रमादाय वामे पाणौ निधाय च ।
दक्षाङ्गुष्ठानामिकाभ्यां प्राणाहुत्युक्तमन्त्रकैः ॥ २३९ ॥

९.२४०
पञ्चधाघ्राय तत्पात्रमुदीच्यां दिशि धारयेत् ।
मधुपर्कं समर्प्यैवं पुनराचामयेद्वरम् ॥ २४० ॥

९.२४१
दूर्वाक्षताभ्यां जामातुर्विधृत्य जानु दक्षिणम् ।
स्मृत्वा विष्णुं तत्सदिति मासपक्षतिथीस्ततः ॥ २४१ ॥

९.२४२
समुल्लिख्य निमित्तानि वृणुयाद्वरमुत्तमम् ।
गोत्रप्रवरनामानि प्रत्येकं प्रपितामहात् ॥ २४२ ॥

९.२४३
षष्ठ्यन्तानि समुच्चार्य वरस्य जनकावधि ।
द्वितीयान्तं वरं ब्रूयात् गोत्रप्रवरनामभिः ॥ २४३ ॥

९.२४४
तथैव कन्यामुल्लिख्य ब्राह्मोद्वाहेन पण्डितः ।
दातुं भवन्तमित्युक्त्वा वृणेऽहमिति कीर्तयेत् ॥ २४४ ॥

९.२४५
वृतोऽस्मीति वरो ब्रूयात् ततो दाता वदेद्वरम् ।
यथाविहितमित्युक्त्वा विवाहकर्म कुर्विति ।
वरो ब्रूयात् यथाज्ञानं करवाणि तदुत्तरम् ॥ २४५ ॥

९.२४६
ततः कन्यां समानीय वस्त्रालङ्कारभूषिताम् ।
वस्त्रान्तरेण संच्छाद्य स्थापयेद्वरसम्मुखम् ॥ २४६ ॥

९.२४७
पुनर्वरं समभ्यर्च्य वासोऽलङ्करणादिभिः ।
वरस्य दक्षिणे पाणौ कन्यापाणिं नियोजयेत् ॥ २४७ ॥

९.२४८
तन्मध्ये पञ्चरत्नानि फलताम्बूलमेव वा ।
दत्त्वाऽर्चयित्वा तनयां वराय विदुषेऽर्पयेत् ॥ २४८ ॥

९.२४९
प्राग्वत्त्रिपुरुषाख्यानं निमित्ताख्यानमेव च ।
आत्मनः काममुद्दिश्य चतुर्थ्यन्तं वरं वदेत् ॥ २४९ ॥

९.२५०
कन्याभिधां द्वितीयान्तामर्चितां समलङ्कृताम् ।
साच्छादनां प्रजापतिदेवताकामुदीरयन् ॥ २५० ॥

९.२५१
तुभ्यमहमिति प्रोच्य दद्यात् सम्प्रददे वदन् ।
वरः स्वस्तीति स्वीकुर्यात् सम्प्रदाता वरं वदेत् ॥ २५१ ॥

९.२५२
धर्मे चार्थे च कामे च भवता भार्यया सह ।
वर्तितव्यं वरो बाढमुक्त्वा कामस्तुतिं पठेत् ॥ २५२ ॥

९.२५३
दाता कामो गृहीताऽपि कामायाऽदाच्च कामिनीम् ।
कामेन त्वां प्रगृह्णामि कामः पूर्णोऽस्तु चावयोः ॥ २५३ ॥

९.२५४
ततो वदेत् सम्प्रदाता कन्यां जामातरं प्रति ।
प्रजापतिप्रसादेन युवयोरभिवाञ्छितम् ।
पूर्णमस्तु शिवञ्चास्तु धर्मं पालयतं युवाम् ॥ २५४ ॥

९.२५५
तत आच्छाद्य वस्त्रेण सम्प्रदाता सुमङ्गलैः ।
परस्परशुभालोकं कारयेद्वरकन्ययोः ॥ २५५ ॥

९.२५६
ततो हिरण्यरत्नानि यथाशक्त्यनुसारतः ।
जामात्रे दक्षिणां दद्यादच्छिद्रमवधारयेत् ॥ २५६ ॥

९.२५७
वरस्तु भार्यया सार्द्धं तद्रात्रौ दिवसेऽपि वा ।
कुशण्डिकोक्तविधिना वह्निस्थापनमाचरेत् ॥ २५७ ॥

९.२५८
योजकाख्यः पावकोऽत्र प्राजापत्यश्चरुः स्मृतः ।
धारान्त कर्म सम्पाद्य दद्यात् पञ्चाहुतीर्वरः ॥ २५८ ॥

९.२५९
शिवं दुर्गां तथा विष्णुं ब्रह्माणं वज्रधारिणाम् ।
ध्यात्वैकैकं समुद्दिश्य जुहुयात् संस्कृतेऽनले ॥ २५९ ॥

९.२६०
भार्यायाः पाणियुगलं गृह्णीयादित्युदीरयन् ।
पाणिं गृह्णामि सुभगे गुरुदेवरता भव ।
गार्हस्थ्यं कर्म धर्मेण यथावदनुशीलय ॥ २६० ॥

९.२६१
घृतेन स्वामिदत्तेन लाजैर्भ्रात्राहृतैः शिवे ।
प्रजापतिं समुद्दिश्य दद्यात् वेदाहुतीर्वधूः ॥ २६१ ॥

९.२६२
प्रदक्षिणीकृत्य वह्निमुत्थाय भार्यया सह ।
दुर्गां शिवं रमां विष्णुं ब्राह्मीं ब्रह्माणमेव च ।
युग्मं युग्मं समुद्दिश्य त्रिस्त्रिधा हवनं चरेत् ॥ २६२ ॥

९.२६३
अश्ममण्डलिकासप्तारोहौ कुर्यादमन्त्रकम् ।
निशायां चेत् तदा स्त्रीभिः पश्येद् ध्रुवमरुन्धतीम् ॥ २६३ ॥

९.२६४
प्रत्यावृत्यासने सम्यगुपविश्य वरस्तदा ।
स्विष्टिकृद्धोमतः पूर्णाहुत्यन्तेन समापयेत् ॥ २६४ ॥

९.२६५
ब्राह्मो विवाहो विहितो दोषहीनः सवर्णया ।
कुलधर्मानुसारेण गोत्रभिन्नासपिण्डया ॥ २६५ ॥

९.२६६
ब्राह्मोद्वाहेन या ग्राह्या सैव पत्नी गृहेश्वरी ।
तदनुज्ञां विना ब्राह्मविवाहं नाचरेत् पुनः ॥ २६६ ॥

९.२६७
तस्या अपत्ये तद्वंशे विद्यमाने कुलेश्वरि ।
शैवोद्भवान्यपत्यानि दायार्हाणि भवन्ति न ॥ २६७ ॥

९.२६८
शैवा तदन्वयाश्चैव लभेरन् धनभाजिनः ।
यथाविभवमाच्छादं ग्रासञ्च परमेश्वरि ॥ २६८ ॥

९.२६९
शैवो विवाहो द्विविधः कुलचक्रे विधीयते ।
चक्रस्य नियमेनैको द्वितीयो जीवनावधि ॥ २६९ ॥

९.२७०
चक्रानुष्ठानसमये स्वगणैः शक्तिसाधकैः ।
परस्परेच्छयोद्वाहं कुर्याद्वीरः समाहितः ॥ २७० ॥

९.२७१
भैरवीवीरवृन्देषु स्वाभिप्रायं निवेदयेत् ।
आवयोः शाम्भवोद्वाहे भवद्भिरनुमन्यताम् ॥ २७१ ॥

९.२७२
तेषामनुज्ञामादाय जप्त्वा सप्ताक्षरं मनुम् ।
अष्टोत्तरशतावृत्त्या प्रणमेत् कालिकां पराम् ॥ २७२ ॥

९.२७३
ततो वदेत् तां रमणीं कौलानां सन्निधौ शिवे ।
अकैतवेन चित्तेन पतिभावेन मां वृणु ॥ २७३ ॥

९.२७४
गन्धपुष्पाक्षतैर्वृत्वां सा कौला दयितं ततः ।
सुश्रद्दधाना देवेशि करौ दद्यात् करोपरि ॥ २७४ ॥

९.२७५
ततोऽभिषिञ्चेत् चक्रेशो मन्त्रेणानेन दम्पती ।
तदा चक्रस्थिताः कौला ब्रूयुः स्वस्तीति सादरम् ॥ २७५ ॥

९.२७६
राजराजेश्वरी काली तारिणी भुवनेश्वरी ।
बगला कमला नित्या युवां रक्षन्तु भैरवी ॥ २७६ ॥

९.२७७
अभिषिञ्चेत् द्वादशधा मधुना वाऽर्घ्यपाथसा ।
ततस्तौ प्रणतौ विद्वान् श्रावयेद्वाग्भवं रमाम् ॥ २७७ ॥

९.२७८
यद्यदङ्गीकृतं तत्र ताभ्यां पाल्यं प्रयत्नतः ।
शाम्भवोक्तविधानेन कुलीनाभ्यां कुलेश्वरि ॥ २७८ ॥

९.२७९
वयोवर्णविचारोऽत्र शैवोद्वाहे न विद्यते ।
असपिण्डां भर्तृहीनामुद्वहेच्छम्भुशासनात् ॥ २७९ ॥

९.२८०
परिणीता शैवधर्मे चक्रनिर्धारणेन या ।
अपत्यार्थी ऋतुं दृष्ट्वा चक्रातीते तु तां त्यजेत् ॥ २८० ॥

९.२८१
शैवभार्योद्भवापत्यमनुलोमेन मातृवत् ।
समाचरेद्विलोमेन तत्तु मामान्यजातिवत् ॥ २८१ ॥

९.२८२
एषां सङ्करजातीनां सर्वत्र पितृकर्मसु ।
भोज्यप्रदानं कौलानां भोजनं विहितं भवेत् ॥ २८२ ॥

९.२८३
नृणां स्वभावजं देवि प्रियं भोजनमैथुनम् ।
सङ्क्षेपाय हितार्थाय शैवधर्मे निरूपितम् ॥ २८३ ॥

९.२८४
अत एव महेशानि शैवधर्मनिषेवणात् ।
धर्मार्थकाममोक्षाणां प्रभुर्भवति नान्यथा ॥ २८४ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे कुशण्डिकादशविधसंस्कारविधिर्नाम नवमोल्लासः ।

Kapitel १०

१०.१
श्रीदेव्युवाच ।
कुशण्डिकाविधिर्नाथ संस्काराश्च दश श्रुताः ।
वृद्धिश्राद्धविधिं देव कृपया मे प्रकाशय ॥ १ ॥

१०.२
कस्मिन् कस्मिंश्च संस्कारे प्रतिष्ठासु च कास्वपि ।
कुशण्डिकाविधानञ्च वृद्धिश्राद्धञ्च शङ्कर ॥ २ ॥

१०.३
कर्तव्यं वा न कर्तव्यं तन्ममाचक्ष्व तत्वतः ।
मत्प्रीतये महेशान जीवानां मङ्गलाय च ॥ ३ ॥

१०.४
श्रीसदाशिव उवाच ।
जीवसेकाद्विवाहान्तदशसंस्कारकर्मसु ।
यत्र यद्विहितं भद्रे सविशेषं प्रकीर्तितम् ॥ ४ ॥

१०.५
तदेव कार्यं मनुजैस्तत्वज्ञैर्हितमिच्छुभिः ।
अन्यत्र यद्विधातव्यं तच्छृणुष्व वरानने ॥ ५ ॥

१०.६
वापीकूपतडागानां देवप्रतिकृतेस्तथा ।
गृहारामव्रतादीनां प्रतिष्ठाकर्मसु प्रिये ॥ ६ ॥

१०.७
सर्वत्र पञ्चदेवानां मातॄणामपि पूजनम् ।
वसोर्धारा च कर्तव्या वृद्धिश्राद्धकुशण्डिके ॥ ७ ॥

१०.८
स्त्रीणां विधेयकृत्येषु वृद्धिश्राद्धं न विद्यते ।
देवतापितृतृप्त्यर्थं भोज्यमेकं समुत्सृजेत् ॥ ८ ॥

१०.९
देवमात्रार्चनं तत्र वसुधारा कुशण्डिका ।
भक्त्या स्त्रिया विधातव्या ऋत्विजा कमलानने ॥ ९ ॥

१०.१०
पुत्रश्च पौत्रो दौहित्रो ज्ञातयो भगिनीसुतः ।
जामातर्त्विग्दैवपित्रे शस्ताः प्रतिनिधौ शिवे ॥ १० ॥

१०.११
वृद्धिश्राद्धं प्रवक्ष्यामि तत्त्वतः शृणु कालिके ॥ ११ ॥

१०.१२
कृत्वा नित्योदितं कर्म मानवः सुसमाहितः ।
गङ्गां यज्ञेश्वरं विष्णुं वास्त्वीशं भूपतिं यजेत् ॥ १२ ॥

१०.१३
ततो दर्भमयान् विप्रान् कल्पयेत् प्रणवं स्मरन् ।
पञ्चभिर्नवभिर्वाऽपि सप्तभिस्त्रिभिरेव वा ॥ १३ ॥

१०.१४
निर्गर्भैश्च कुशैः साग्रैर्दक्षिणावर्तयोगतः ।
सार्द्धद्वयावर्तनेन ऊर्द्ध्वाग्रैरचयेद् द्विजान् ॥ १४ ॥

१०.१५
वृद्धिश्राद्धे पार्वणादौ षड्विप्राः परिकीर्तिताः ।
एकोद्दिष्टे तु कथित एक एव द्विजः शिवे ॥ १५ ॥

१०.१६
ततो विप्रान् कुशमयानेकस्मिन्नेव भाजने ।
कौबेराभिमुखान् कृत्वा स्नापयेदमुना सुधीः ॥ १६ ॥

१०.१७
ह्रीं शन्नो देवीरभीष्टये शन्नो भवन्तु पीतये ।
शंयोरभिस्रवन्तु नः ॥ १७ ॥

१०.१८
ततस्तु गन्धपुष्पाभ्यां पूजयेत् कुशभूसुरान् ॥ १८ ॥

१०.१९
पश्चिमे दक्षिणे चैव युग्मयुग्मक्रमात् सुधीः ।
षट्पात्राणि सदर्भाणि स्थापयेत्तुलसीतिलैः ॥ १९ ॥

१०.२०
पात्रद्वये पश्चिमायां याम्ये पात्रचतुष्टये ।
पूर्वास्यावुत्तरमुखान् षड्विप्रानुपवेशयेत् ॥ २० ॥

१०.२१
दैवपक्षं पश्चिमायां दक्षिणे वामयाम्ययोः ।
पितुर्मातामहस्यापि पक्षौ द्वौ विद्धि पार्वति ॥ २१ ॥

१०.२२
नान्दीमुखाश्च पितरो नान्दीमुख्यश्च मातरः ।
मातामहादयोऽप्येवं मातामह्यादयोऽपि च ।
श्राद्धे नाम्न्याभ्युदयिके समुल्लेख्या वरानने ॥ २२ ॥

१०.२३
दक्षावर्तेनोत्तरास्यो दैवं कर्म समाचरेत् ।
वामावर्तेन दक्षारयः पितृकर्माणि साधयेत् ॥ २३ ॥

१०.२४
सर्वं कर्म प्रकुर्वीत दैवादिक्रमतः शिवे ।
लङ्घनान्मातृमातॄणां श्राद्धं तद्विफलं भवेत् ॥ २४ ॥

१०.२५
कौबेराभिमुखोऽनुज्ञावाक्यं दैवे प्रकल्पयेत् ।
याम्यास्यः कल्पयेद्वाक्यं पित्र्ये मातामहेऽपि च ।
तत्रादौ दैवपक्षे तु वाक्यं शृणु शुचिस्मिते ॥ २५ ॥

१०.२६
कालादीनि निमित्तानि समुल्लिख्य ततः परम् ।
तत्तत्कर्माभ्युदयार्थमुक्त्वा साधकसत्तमः ॥ २६ ॥

१०.२७
पित्रादीनां त्रयाणां तु मात्रादीनां तथैव च ।
मातामहानां च मातामह्यादीनामपि प्रिये ॥ २७ ॥

१०.२८
ष.ष्ठ्यन्तं कीर्तयेन्नाम गोत्रोच्चारणपूर्वकम् ।
विश्वेषाञ्चैव देवानां श्राद्धं पदमुदीरयेत् ॥ २८ ॥

१०.२९
कुशनिर्मितयोः पश्चात् विप्रयोरहमित्यपि ।
करिष्ये परमेशानीत्यनुज्ञावाक्यमीरितम् ॥ २९ ॥

१०.३०
विश्वान् देवान् परित्यज्य पितृपक्षे तु पार्वति ।
तथा मातामहस्यापि पक्षेऽनुज्ञा प्रकीर्तिता ॥ ३० ॥

१०.३१
ततो जपेद्ब्रह्मविद्यां गायत्रीं दशधा शिवे ॥ ३१ ॥

१०.३२
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमोऽस्तु पुष्ट्यै स्वाहायै नित्यमेव भवन्त्विति ॥ ३२ ॥

१०.३३
पठित्वैनं त्रिधा हस्ते जलमादाय सत्तमः ।
वं हूं फडिति मन्त्रेण श्राद्धद्रव्याणि शोधयेत् ॥ ३३ ॥

१०.३४
आग्नेययां पात्रमेकन्तु संस्थाप्य कुलनायिके ।
रक्षोघ्नममृतं प्रोच्य यज्ञरक्षां कुरुष्व मे ।
इत्युक्त्वा भाजने तस्मिंस्तुलसीदलसंयुतम् ॥ ३४ ॥

१०.३५
निधाय सलिलं देवि देवादिक्रमतः सुधीः ।
विप्रेभ्यो जलगण्डूषं दत्वा दद्यात् कुशासनम् ॥ ३५ ॥

१०.३६
तत आवाहयेद्विद्वान् विश्वान् देवान् पितॄंस्तथा ।
मातॄर्मातामहांश्चापि तथा मातामहीः शिवे ॥ ३६ ॥

१०.३७
आवाह्य पूजयेदादौ विश्वान् देवांस्ततो यजेत् ।
पितृत्रयं तथा मातृत्रयं मातामहत्रयम् ॥ ३७ ॥

१०.३८
मातामहीत्रयं चापि पाद्यार्घ्याचमनादिभिः ।
धूपैर्दीपैश्च वासोभिः पूजयित्वा वरानने ।
पात्राणां पातनप्रश्नं कुर्याद्दैवक्रमात् शिवे ॥ ३८ ॥

१०.३९
मण्डलं रचयेदेकं मायया चतुरस्रकम् ।
द्वे द्वे च मण्डले कुर्यात् तद्वत्पक्षद्वयोरपि ॥ ३९ ॥

१०.४०
वारुणप्रोक्षितेष्वेषु पात्राण्यासाद्य साधकः ।
तेन क्षालितपात्रेषु सर्वोपकरणैः सह ।
पानार्थपाथसान्नानि क्रमेण परिवेशयेत् ॥ ४० ॥

१०.४१
ततो मधुयवान् दत्वा ह्रां ह्रूं फडिति मन्त्रकैः ।
संप्रोक्ष्यान्नानि सर्वाणि विश्वान् देवांस्तथा पितॄन् ॥ ४१ ॥

१०.४२
मातॄर्मातामहान् मातामहीरुल्लिख्य तत्त्ववित् ।
निवेद्य देवीं गायत्रीं देवताभ्यस्त्रिधा पठेत् ॥ ४२ ॥

१०.४३
शेषान्नपिण्डयोः प्रश्नौ कुर्यादाद्ये ततः परम् ॥ ४३ ॥

१०.४४
दत्तशेषैरक्षताद्यैर्मालूरफलसन्निभान् ।
द्विजात् प्राप्तोत्तरः पिण्डान् रचयेद्द्वादश प्रिये ॥ ४४ ॥

१०.४५
अन्यं तु कल्पयेदेकं पिण्डं तत्सममम्बिके ।
आस्तरेन्नैरृते दर्भान् मण्डले यवसंयुतान् ॥ ४५ ॥

१०.४६
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
अग्निदग्धाश्च ये केऽपि व्यालव्याघ्रहताश्च ये ॥ ४६ ॥

१०.४७
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
मद्दत्तपिण्डतोयाभ्यां ते यान्तु तृप्तिमक्षयाम् ॥ ४७ ॥

१०.४८
दत्त्वा पिण्डमपिण्डेभ्यो मन्त्राभ्यां सुरवन्दिते ।
प्रक्षाल्य हस्तावाचान्तः सावित्रीं प्रजपंस्ततः ।
देवताभ्यस्त्रिधा जप्त्वा मण्डलानि प्रकल्पयेत् ॥ ४८ ॥

१०.४९
उच्छिष्टपात्रपुरतः पूर्वोक्तविधिना बुधः ।
द्वे द्वे च मण्डले देवि रचयेत् पितृतः क्रमात् ॥ ४९ ॥

१०.५०
पूर्वमन्त्रेण संप्रोक्ष्य कुशांस्तेष्वास्तरेत् कृती ।
अभ्युक्ष्य वायुना दर्भान् पितृदर्भक्रमात् शिवे ।
ऊर्द्ध्वे मूले च मध्ये च त्रींस्त्रीन् पिण्डान्निवेदयेत् ॥ ५० ॥

१०.५१
आमन्त्रणेन प्रत्येकं नामोच्चार्य महेश्वरि ।
स्वधया वितरेत् पिण्डं यवमाध्वीकसंयुतम् ॥ ५१ ॥

१०.५२
पिण्डान्ते पिण्डशेषञ्च विकीर्य लेपभाजिनः ।
प्रीणयेत् करलेपेन नैकोद्दिष्टेष्वयं विधिः ॥ ५२ ॥

१०.५३
देवतापितृतृप्त्यर्थं सावित्रीं दशधा जपेत् ।
देवताभ्यस्त्रिधा जप्त्वा पिण्डान् सम्पूजयेत्ततः ॥ ५३ ॥

१०.५४
प्रज्वाल्य धूपं दीपं च निमील्य नयनद्वयम् ।
दिव्यदेहधरान् पितॄनश्नतः कव्यमध्वरे ।
विभाव्य प्रणमेद्धीमानिमं मन्त्रमुदीरयन् ॥ ५४ ॥

१०.५५
पिता मे परमो धर्मः पिता मे परमं तपः ।
स्वर्गः पिता मे तत्तृप्तौ तृप्तमस्त्यखिलं जगत् ॥ ५५ ॥

१०.५६
ततो निर्माल्यमादाय प्रार्थयेदाशिषः पितॄन् ॥ ५६ ॥

१०.५७
आशिषो मे प्रदीयन्तां पितरः करुणामयाः ।
वेदाः सन्ततयो नित्यं वर्द्धन्तां बान्धवा मम ॥ ५७ ॥

१०.५८
पातारो मे विवर्द्धन्तां बहून्यन्नानि सन्तु मे ।
याचितारः सदा सन्तु मा च याचामि कञ्चन ॥ ५८ ॥

१०.५९
दैवादितो द्विजान् पिण्डान् विसृजेत्तदनन्तरम् ।
तथैव दक्षिणां कुर्यात् पक्षेषु त्रिषु तत्त्ववित् ॥ ५९ ॥

१०.६०
गायत्रीं दशधा जप्त्वा देवताभ्योऽपि पञ्चधा ।
दृष्ट्वा वह्निं रविं विप्रमिदं पृच्छेत् कृताञ्जलिः ॥ ६० ॥

१०.६१
इदं श्राद्धं समुच्चार्य साङ्गं जातमुदीरयेत् ।
द्विजो वदेत् सम्यगेव साङ्गं जातं विधानतः ॥ ६१ ॥

१०.६२
अङ्गवैगुण्यशान्त्यर्थं प्रणवं दशधा जपन् ।
अच्छिद्राभिविधानेन कुर्यात् कर्मसमापनम् ।
पात्रीयान्नानि पिण्डांश्च ब्राह्मणाय निवेदयेत् ॥ ६२ ॥

१०.६३
विप्राभावे गवाजेभ्यः सलिले वा विनिःक्षिपेत् ।
वृद्धिश्राद्धमिदं प्रोक्तं नित्यसंस्कारकर्मणि ॥ ६३ ॥

१०.६४
श्राद्धे पर्वणि कर्तव्ये पार्वणत्वेन कीर्तयेत् ॥ ६४ ॥

१०.६५
देवतादिप्रतिष्ठासु तीर्थयात्राप्रवेशयोः ।
पार्वणेन विधानेन श्राद्धमेतदुदीरयेत् ॥ ६५ ॥

१०.६६
नैतेषु श्राद्धकृत्येषु पितॄन्नान्दीमुखान् वदेत् ।
नमोऽन्तपुष्ट्यायित्यत्र स्वधायै पदमुच्चरेत् ॥ ६६ ॥

१०.६७
पित्रादित्रयमध्ये तु यो जीवति वरानने ।
तस्योर्द्ध्वतनमुल्लिख्य श्राद्धं कुर्याद्विचक्षणः ॥ ६७ ॥

१०.६८
जनकादिषु जीवत्सु त्रिषु श्राद्धं विवर्जयेत् ।
तेषु प्रीतेषु देवेशि श्राद्धयज्ञफलं लभेत् ॥ ६८ ॥

१०.६९
जीवत्पितरि कल्याणि नान्यश्राद्धाधिकारिता ।
मातुः श्राद्धं विना पत्न्यास्तथा नान्दीमुखं विना ॥ ६९ ॥

१०.७०
एकोद्दिष्टे तु कौलेशि विश्वदेवान्न पूजयेत् ।
एकमेव समुद्दिश्याऽनुज्ञावाक्यं प्रकल्पयेत् ॥ ७० ॥

१०.७१
दक्षिणाभिमुखो दद्यादन्नं पिण्डं च मानवः ।
यवस्थाने तिला देयाः सर्वमन्यच्च पूर्ववत् ॥ ७१ ॥

१०.७२
प्रेतश्राद्धे विशेषोऽयं गङ्गाद्यर्चां विवर्जयेत् ।
मृतं समुल्लिखेत् प्रेतं वाक्ये दानेऽन्नपिण्डयोः ॥ ७२ ॥

१०.७३
एकमुद्दिश्य यत् श्राद्धमेकोद्दिष्टं तदुच्यते ।
प्रेतस्यान्ने च पिण्डे च मत्स्यं मांसं नियोजयेत् ॥ ७३ ॥

१०.७४
अशौचान्तात् द्वितीयेऽह्नि श्राद्धं यत् कुरुते नरः ।
प्रेतश्राद्धं विजानीहि तदेव कुलनायिके ॥ ७४ ॥

१०.७५
गर्भस्रावाज्जातमृतादन्यत्र मृतजातयोः ।
कुलाचारानुसारेण मानवोऽशौचमाचरेत् ॥ ७५ ॥

१०.७६
द्विजातीनां दशाहेन द्वादशाहेन पक्षतः ।
शूद्रसामान्ययोर्देवि मासेनाशौचकल्पना ॥ ७६ ॥

१०.७७
असपिण्डमृतज्ञातौ त्रिरात्राशौचमिष्यते ।
शृण्वतोऽपि गताशौचे सपिण्डस्य मृतिं शिवे ॥ ७७ ॥

१०.७८
अशुचिर्नाधिकारी स्याद्दैवे स्याद्दैवे पित्र्ये च कर्मणि ।
ऋते कुलार्चनादाद्ये तथा प्रारब्धकर्मणः ॥ ७८ ॥

१०.७९
पञ्चवर्षाधिकान् मर्त्यान् दाहयेत् पितृकानने ।
भर्त्रा सह कुलेशानि न दहेत् कुलकामिनीम् ॥ ७९ ॥

१०.८०
तव स्वरूपा रमणी जगत्याच्छन्नविग्रहा ।
मोहाद्भर्तुश्चितारोहात् भवेन्नरकगामिनी ॥ ८० ॥

१०.८१
ब्रह्ममन्त्रोपासकांस्तु तेषामाज्ञानुसारतः ।
प्रवाहयेद्वा निखनेद्दाहयेद्वापि कालिके ॥ ८१ ॥

१०.८२
पुण्यक्षेत्रे च तीर्थे वा देव्याः पार्श्वे विशेषतः ।
कुलीनानां समीपे वा मरणं शस्तमम्बिके ॥ ८२ ॥

१०.८३
विभावयन् सत्यमेकं विस्मरन् जगतां त्रयम् ।
परित्यजति यः प्राणान् स स्वरूपे प्रतिष्ठति ॥ ८३ ॥

१०.८४
प्रेतभूमौ शवं नीत्वा स्नापयित्वा घृतोक्षितम् ।
उत्तराभिमुखं कृत्वा शाययेत्तं चितोपरि ॥ ८४ ॥

१०.८५
सम्बोधनान्तं तद्गोत्रं प्रेताख्यानं समुच्चरन् ।
दत्त्वा पिण्डं प्रेतमुखे दहेद्वह्निमनुं स्मरन् ॥ ८५ ॥

१०.८६
पिण्डन्तु रचयेत्तत्र सिद्धान्नैस्तण्डुलैश्च वा ।
यवगोधूमचूर्णैर्वा धात्रीफलसमं प्रिये ॥ ८६ ॥

१०.८७
स्थितेषु प्रेतपुत्रेषु ज्येष्ठे श्राद्धाधिकारिता ।
तदभावेऽन्यपुत्रादौ ज्येष्ठानुक्रमतो भवेत् ॥ ८७ ॥

१०.८८
अशौचान्तान्तदिवसे कृतस्नानो नरः शुचिः ।
मृतप्रेतत्वमुक्त्यर्थमुत्सृजेत्तिलकाञ्चनम् ॥ ८८ ॥

१०.८९
गां भूमिं वसनं यानं पात्रं धातुविनिर्मितम् ।
भोज्यं बहुविधं दद्यात् प्रेतस्वर्गाय सत्सुतः ॥ ८९ ॥

१०.९०
गन्धं माल्यं फलं तोयं शययां प्रियकरीं तथा ।
यद् यत् प्रेतप्रियं द्रव्यं तत् स्वर्गाय समुत्सृजेत् ॥ ९० ॥

१०.९१
ततस्तु वृषभञ्चैकं त्रिशूलाङ्केन लाञ्छितम् ।
स्वर्णेनालङ्कृतं कृत्वा त्यजेत् तत्स्वरवाप्तये ॥ ९१ ॥

१०.९२
प्रेतश्राद्धोक्तविधिना श्राद्धं कृत्वाऽतिभक्तितः ।
ब्रह्मज्ञान् ब्राह्मणान् कौलान् क्षुधितानपि भोजयेत् ॥ ९२ ॥

१०.९३
दानेष्वशक्तो मनुजः कुर्वन् श्राद्धं स्वशक्तितः ।
बुभुक्षितान् भोजयित्वा प्रेतत्वं मोचयेत् पितुः ॥ ९३ ॥

१०.९४
आद्यैकोद्दिष्टमेतत्तु प्रेतत्वान्मुक्तिकारणम् ।
वर्षे वर्षे मृततिथौ दद्यादन्नं गतासवे ॥ ९४ ॥

१०.९५
बहुभिर्विधिभिः किं वा कर्मभिर्बहुभिश्च किम् ।
सर्वसिद्धिमवाप्नोति मानवः कौलिकार्चनात् ॥ ९५ ॥

१०.९६
विना होमाज्जपात् श्राद्धात् संस्कारेषु च कर्मसु ।
सम्पूर्णकार्यसिद्धिः स्यादेकया कौलिकार्चया ॥ ९६ ॥

१०.९७
शुक्लां चतुर्थीमारभ्य शुभकर्माणि साधयेत् ।
असितां पञ्चमीं यावत् विधिरेष शिवोदितः ॥ ९७ ॥

१०.९८
अन्यत्रापि विरुद्धेऽह्नि गुर्वर्त्विक्कौलिकाज्ञया ।
कर्माण्यपरिहार्याणि कर्मार्थी कर्तुमर्हति ॥ ९८ ॥

१०.९९
गृहारम्भः प्रवेशश्च यात्रा रत्नादिधारणम् ।
सम्पूज्याऽद्यां पञ्चतत्त्वैः कुर्यादेतानि कौलिकः ॥ ९९ ॥

१०.१००
संक्षेपयात्रामथवा कुर्यात् साधकसत्तमः ।
ध्यायन् देवीं स्मरन्मन्त्रं नत्वा गच्छेद् यथामति ॥ १०० ॥

१०.१०१
सर्वासु देवतार्चसु शारदीयोत्सवादिषु ।
तत्तत्कल्पोक्तविधिना ध्यानपूजां समाचरेत् ॥ १०१ ॥

१०.१०२
आद्यापूजोक्तविधिना बलिहोमं प्रयोजयेत् ।
कौलार्चनं दक्षिणाञ्च कृत्वा कर्म समापयेत् ॥ १०२ ॥

१०.१०३
गङ्गां विष्णुं शिवं सूर्यं ब्रह्माणं परिपूज्य च ।
उद्देश्यमर्चयेद्देवं सामान्यो विधिरीरितः ॥ १०३ ॥

१०.१०४
कौलिकः परमं धर्मः कौलिकः परदेवता ।
कौलिकः परमं तीर्थं तस्मात् कौलं सदार्चयेत् ॥ १०४ ॥

१०.१०५
सार्द्धत्रिकोटितीर्थानि ब्रह्माद्याः सर्वदेवताः ।
वसन्ति कौलिके देहे किन्न स्यात् कौलिकार्चनात् ॥ १०५ ॥

१०.१०६
पूर्णाभिषिक्तः सत्कौलो यस्मिन् देशे विराजते ।
धन्यो मान्यः पुण्यतमः स देशः प्रार्थते सुरैः ॥ १०६ ॥

१०.१०७
कृतपूर्णाभिषेकस्य साधकस्य शिवात्मनः ।
पुण्यपापविहीनस्य प्रभावं वेत्ति को भुवि ॥ १०७ ॥

१०.१०८
केवलं नररूपेण तारयन्नखिलं जगत् ।
शिक्षयन् लोकयात्राञ्च कौलो विहरति क्षितौ ॥ १०८ ॥

१०.१०९
श्रीदेव्युवाच ।
पूर्णाभिषिक्तकौलस्य माहात्म्यं कथितं प्रभो ।
विधानमभिषेकस्य कृपया श्रावयस्व माम् ॥ १०९ ॥

१०.११०
श्रीसदाशिव उवाच ।
विधानमेतत् परमं गुप्तमासीद् युगत्रये ।
गुप्तभावेन कुर्वन्तो नरा मोक्षं ययुः पुरा ॥ ११० ॥

१०.१११
प्रवले कलिकाले तु प्रकाशे कुलवर्त्मनः ।
नक्तं वा दिवसे कुर्यात् सप्रकाशाभिषेचनम् ॥ १११ ॥

१०.११२
नाऽभिषेकं विना कौलः केवलं मद्यसेवनात् ।
पूर्णाभिषेकात् कौलः स्यात् चक्राधीशः कुलार्चकः ॥ ११२ ॥

१०.११३
तत्राभिषेकपूर्वेऽह्णि सर्वविघ्नोपशान्तये ।
यथाशक्त्युपचारेण विघ्नेशं पूजयेद्गुरुः ॥ ११३ ॥

१०.११४
गुरुश्चेन्नाधिकारी स्यात् शुभपूर्णाभिषेचने ।
तदाऽभिषिक्तकौलेन संस्कारं साधयेत् प्रिये ॥ ११४ ॥

१०.११५
खान्तार्णं बिन्दुसंयुक्तं बीजमस्य प्रकीर्तितम् ॥ ११५ ॥

१०.११६
गणकोऽस्य ऋषिश्छन्दो निवृत् विघ्नस्तु देवता ।
कर्तव्यकर्मणो विघ्नशान्त्यर्थे विनियोगिता ॥ ११६ ॥

१०.११७
षड्दीर्घयुक्तमूलेन षडङ्गानि समाचरेत् ।
प्राणायामं ततः कृत्वा ध्यायेद् गणपतिं शिवे ॥ ११७ ॥

१०.११८
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं ।
खड्गं पाशाङ्कुशेष्टान्युरुकरविलसद्वारुणीपूर्णकुम्भकम् ।
बालेन्दूद्दीप्तमौलिं करिपतिवदनं बीजपूरार्द्रगण्डं भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् ॥ ११८ ॥

१०.११९
ध्यात्वैवं मानसैरिष्ट्वा पीठशक्तीः प्रपूजयेत् ।
तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी ॥ ११९ ॥

१०.१२०
उग्रा तेजस्वती सत्या मध्ये विघ्नविनाशिनी ।
पूर्वादितोऽर्चयित्वैताः पूजयेत् कमलासनम् ॥ १२० ॥

१०.१२१
पुनर्ध्यात्वा गणेशानं पञ्चतत्त्वोपचारकैः ।
अभ्यर्च्य तच्चतुर्दिक्षु गणेशं गणनायकम् ॥ १२१ ॥

१०.१२२
गणनाथं गणक्रीडं यजेत् कौलिकसत्तमः ।
एकदन्तं रक्ततुण्डं लम्बोदरगजाननौ ॥ १२२ ॥

१०.१२३
महोदरञ्च विकटं धूम्राभं विघ्ननाशनम् ॥ १२३ ॥

१०.१२४
ततो ब्राह्मीमुखाः शक्तीर्दिक्पालांश्च प्रपूजयन् ।
तेषामस्त्राणि सम्पूज्य विघ्नराजं विसर्जयेत् ॥ १२४ ॥

१०.१२५
एवं सम्पूज्य विघ्नेशमधिवासनमाचरेत् ।
भोजयेच्च पञ्चतत्त्वैर्ब्रह्मज्ञान् कुलसाधकान् ॥ १२५ ॥

१०.१२६
ततः परदिने स्नातः कृतनित्योदितक्रियः ।
आजन्मकृतपापानां क्षयार्थं तिलकाञ्चनम् ।
उत्सृजेत् कौलतृप्त्यर्थं भोज्यञ्चैकमपि प्रिये ॥ १२६ ॥

१०.१२७
अर्घ्यं दत्त्वा दिनेशाय ब्रह्मविष्णुशिवग्रहान् ।
अर्चयित्वा मातृगणान् वसुधारां प्रकल्पयेत् ॥ १२७ ॥

१०.१२८
कर्मणोऽभ्युदयार्थाय वृद्धिश्राद्धं समाचरेत् ।
ततो गत्वा गुरोः पार्श्वं प्रणम्य प्रार्थयेदिदम् ॥ १२८ ॥

१०.१२९
त्राहि नाथ कुलाचारनलिनीकुलवल्लभ ।
त्वत्पादाम्भोरुहछायां देहि मूर्ध्नि कृपानिधे ॥ १२९ ॥

१०.१३०
आज्ञां देहि महाभाग शुभपूर्णाभिषेचने ।
निर्विघ्नं कर्मणः सिद्धिमुपैमि त्वत्प्रसादतः ॥ १३० ॥

१०.१३१
शिवशक्त्याज्ञया वत्स कुरु पूर्णाभिषेचनम् ।
मनोरथमयी सिद्धिर्जायतां शिवशासनात् ॥ १३१ ॥

१०.१३२
इत्थमाज्ञां गुरोः प्राप्य सर्वोपद्रवशान्तये ।
आयुर्लक्ष्मीवलारोग्यावाप्त्यै सङ्कल्पमाचरेत् ॥ १३२ ॥

१०.१३३
ततस्तु कृतसङ्कल्पो वस्त्रालङ्कारभूषणैः ।
कारणैः शुद्धिसहितैरभ्यर्च्य वृणुयाद् गुरुम् ॥ १३३ ॥

१०.१३४
गुरुर्मनोहरे गेहे गैरिकादिविचित्रिते ।
चित्रध्वजपताकाभिः फलपल्लवशोभिते ॥ १३४ ॥

१०.१३५
किङ्किणीजालमालाभिश्चन्द्रातपविभूषिते ।
घृतप्रदीपावलिभिस्तमोलेशविवर्जिते ॥ १३५ ॥

१०.१३६
कर्पूरसहितैर्धूपैर्यक्षधूपैः सुवासिते ।
व्यजनैश्चामरैर्बर्हैर्दर्पणाद्यैरलङ्कृते ॥ १३६ ॥

१०.१३७
सार्धहस्तमितां वेदीमुच्चकैश्चतुरङ्गुलाम् ।
रचयेन्मृण्मयीं तत्र चूर्णैरक्षतसम्भवैः ॥ १३७ ॥

१०.१३८
पीतरक्तासितश्वेतश्यामलैः सुमनोहरम् ।
मण्डलं सर्वतोभद्रं विदद्यात् श्रीगुरुस्ततः ॥ १३८ ॥

१०.१३९
स्वस्वकल्पोक्तविधिना मानसार्चावधिक्रियाम् ।
कृत्वा पूर्वोक्तमन्त्रेण पञ्चतत्त्वानि शोधयेत् ॥ १३९ ॥

१०.१४०
संशोध्य पञ्चतत्त्वानि पुरःकल्पितमण्डले ।
स्वार्णं वा राजतं ताम्रं मृण्मयं घटमेव वा ॥ १४० ॥

१०.१४१
क्षालितञ्चाऽस्त्रबीजेन दध्यक्षतविचर्चितम् ।
स्थापयेद्ब्रह्मबीजेन सिन्दूरेणाऽङ्कयेत् श्रिया ॥ १४१ ॥

१०.१४२
क्षकाराद्यैरकारान्तैर्वर्णैर्बिन्दुविभूषितैः ।
मूलमन्त्रत्रिजापेन पूरयेत् कारणेन तम् ॥ १४२ ॥

१०.१४३
अथवा तीर्थतोयेन शुद्धेन पाथसाऽपि वा ।
नवरत्नं सुवर्णं वा घटमध्ये विनिःक्षिपेत् ॥ १४३ ॥

१०.१४४
पनसोडुम्बराश्वत्थवकुलाम्रसमुद्भवम् ।
पल्लवं तन्मुखे दद्यात् वाग्भवेन कृपानिधिः ॥ १४४ ॥

१०.१४५
शरावं मार्तिकं वापि फलाक्षतसमन्वितम् ।
रामां मायां समुच्चार्य स्थापयेत् पल्लवोपरि ॥ १४५ ॥

१०.१४६
बध्नीयाद्वस्त्रयुग्मेन ग्रीवां तस्य वरानने ।
शक्तौ रक्तं शिवे विष्णौ श्वेतवासः प्रकीर्तितम् ॥ १४६ ॥

१०.१४७
स्थां स्थीं मायां रमां स्मृत्वा स्थिरीकृत्य घटान्तरे ।
निःक्षिप्य पञ्चतत्त्वानि नवपात्राणि विन्यसेत् ॥ १४७ ॥

१०.१४८
राजतं शक्तिपात्रं स्यात् गुरुपात्रं हिरण्मयम् ।
श्रीपात्रन्तु महाशङ्खं ताम्राण्यन्यानि कल्पयेत् ॥ १४८ ॥

१०.१४९
पाषाणदारुलौहानां पात्राणि परिवर्जयेत् ।
शक्त्या प्रकल्पयेत् पात्रं महादेव्याः प्रपूजने ॥ १४९ ॥

१०.१५०
पात्राणां स्थापनं कृत्वा गुरून् देवीं प्रतर्पयेत् ।
ततस्त्वमृतसम्पूर्णघटमभ्यर्चयेत् सुधीः ॥ १५० ॥

१०.१५१
दर्शयित्वा धूपदीपौ सर्वभूतबलिं हरेत् ।
पीठदेवान् पूजयित्वा षडङ्गन्यासमाचरेत् ॥ १५१ ॥

१०.१५२
प्राणायामं ततः कृत्वा ध्यात्वाऽवाह्य महेश्वरीम् ।
स्वशक्त्या पूजयेदिष्टां वित्तशाठ्यं विवर्जयेत् ॥ १५२ ॥

१०.१५३
होमान्तकृत्यं निष्पाद्य कुमारीशक्तिसाधकान् ।
पुष्पचन्दनवासोभिरर्चयेत् सद्गुरुः शिवे ॥ १५३ ॥

१०.१५४
अनुगृह्णन्तु कौला मे शिष्यं प्रति कुलव्रताः ।
पूर्णाभिषेकसंस्कारे भवद्भिरनुमन्यताम् ॥ १५४ ॥

१०.१५५
एवं पृच्छति चक्रेशे तं ब्रूयुर्गुरुमादरात् ।
महामायाप्रसादेन प्रभावात् परमात्मनः ।
शिष्यो भवतु पूर्णस्ते परतत्त्वपरायणः ॥ १५५ ॥

१०.१५६
शिष्येण च गुरुर्देवीमर्चयित्वाऽर्चिते घटे ।
कामं मायां रमां जप्त्वा चालयेद्विमलं घटम् ॥ १५६ ॥

१०.१५७
उत्तिष्ठ ब्रह्मकलश देवतात्मक सिद्धिद ।
त्वत्तोयपल्लवैः सिक्तः शिष्यो ब्रह्मरतोऽस्तु मे ॥ १५७ ॥

१०.१५८
इत्थं सञ्चाल्य कलशमुत्तराभिमुखं गुरुः ।
मन्त्रैरेतैर्वक्ष्यमाणैरभिषिञ्चेत् कृपान्वितः ॥ १५८ ॥

१०.१५९
शुभपूर्णाभिषेकस्य सदाशिव ऋषिः स्मृतः ।
छन्दोऽनुष्टुब्देवताऽद्या प्रणवं बीजमीरितम् ।
शुभपूर्णाभिषेकार्थे विनियोगः प्रकीर्तितः ॥ १५९ ॥

१०.१६०
गुरवस्त्वाऽभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
दुर्गालक्ष्मीभवान्यस्त्वामभिषिञ्चन्तु मातरः ॥ १६० ॥

१०.१६१
षोडशी तारिणी नित्या स्वाहा महिषमर्दिनी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ १६१ ॥

१०.१६२
जयदुर्गा विशालाक्षी ब्रह्माणी च सरस्वती ।
एतास्त्वामभिषिञ्चन्तु वगला वरदा शिवा ॥ १६२ ॥

१०.१६३
नारसिंही च वाराही वैष्णवी वनमालिनी ।
इन्द्राणी वारुणी रौद्री त्वाऽभिषिञ्चन्तु शक्तयः ॥ १६३ ॥

१०.१६४
भैरवी भद्रकाली च तुष्टिः पुष्टिरुमा क्षमा ।
श्रद्धा कान्तिर्दया शान्तिरभिषिञ्चन्तु ते सदा ॥ १६४ ॥

१०.१६५
महाकाली महालक्ष्मीर्महानीलसरस्वती ।
उग्रचण्डा प्रचण्डा त्वामभिषिञ्चन्तु सर्वदा ॥ १६५ ॥

१०.१६६
मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा ।
रामो भार्गवरामस्त्वामभिषिञ्चन्तु वारिणा ॥ १६६ ॥

१०.१६७
असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तो भयङ्करः ।
कपाली भीषणश्च त्वामभिषिञ्चन्तु वारिणा ॥ १६७ ॥

१०.१६८
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता महोग्रा त्वामभिषिञ्चन्तु सर्वदा ॥ १६८ ॥

१०.१६९
इन्द्रोऽग्निः शमनो रक्षो वरुणः पवनस्तथा ।
धनदश्च महेशानः सिञ्चन्तु त्वां दिगीश्वराः ॥ १६९ ॥

१०.१७०
रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः ।
राहुः केतुः सनक्षत्रा अभिषिञ्चन्तु ते ग्रहाः ॥ १७० ॥

१०.१७१
नक्षत्रं करणं योगो वाराः पक्षौ दिनानि च ।
ऋतुर्मासो हायनस्त्वामभिषिञ्चन्तु सर्वदा ॥ १७१ ॥

१०.१७२
लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः ।
समुद्रास्त्वाऽभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ १७२ ॥

१०.१७३
गङ्गा सूर्यसुता रेवा चन्द्रभागा सरस्वती ।
सरयुर्गण्डकी कुन्ती श्वेतगङ्गा च कौशिकी ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ १७३ ॥

१०.१७४
अनन्ताद्या महानागाः सुपर्णाद्याः पतत्रिणः ।
तरवः कल्पवृक्षाद्याः सिञ्चन्तु त्वां महीधराः ॥ १७४ ॥

१०.१७५
पातालभूतलव्योमचारिणः क्षेमकारिणः ।
पूर्णाभिषेकसन्तुष्टास्त्वाऽभिषिञ्चन्तु पाथसा ॥ १७५ ॥

१०.१७६
दोर्भाग्यं दुर्यशो रोगा दौर्मनस्यं तथा शुचः ।
विनश्यन्त्वभिषेकेन परमब्रह्मतेजसा ॥ १७६ ॥

१०.१७७
अलक्ष्मीः कालकर्णी च डाकिन्यो योगिनीगणाः ।
विनश्यन्त्वभिषेकेण कालीबीजेन ताडिताः ॥ १७७ ॥

१०.१७८
भूताः प्रेताः पिशाचाश्च ग्रहा येऽरिष्टकारकाः ।
विद्रुतास्ते विनश्यन्तु रमाबीजेन ताडिताः ॥ १७८ ॥

१०.१७९
अभिचारकृता दोषा वैरिमन्त्रोद्भवाश्च ये ।
मनोवाक्कायजा दोषाः विनश्यन्त्वभिषेचनात् ॥ १७९ ॥

१०.१८०
नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः ।
अभिषेकेण पूर्णेन पूर्णाः सन्तु मनोरथाः ॥ १८० ॥

१०.१८१
इत्येकाधिकविंशत्या मन्त्रैः संसिक्तसाधकम् ।
पशोर्मुखाल्लब्धमन्त्रं पुनः संश्रावयेद् गुरुः ॥ १८१ ॥

१०.१८२
पूर्वोक्तनाम्ना सम्बोध्य ज्ञापयन् शक्तिसाधकान् ।
दद्यादानन्दनाथान्तमाख्यानं कौलिको गुरुः ॥ १८२ ॥

१०.१८३
श्रुतमन्त्रो गुरोर्यन्त्रे सम्पूज्य निजदेवताम् ।
पञ्चतत्त्वोपचारेण गुरुमभ्यर्चयेत्ततः ॥ १८३ ॥

१०.१८४
गोभूहिरण्यवासांसि पानालङ्करणानि च ।
गुरवे दक्षिणां दत्त्वा यजेत् कौलान् शिवात्मकान् ॥ १८४ ॥

१०.१८५
कृतकौलार्चनो धीरः शान्तोऽतिविनयान्वितः ।
श्रीगुरोश्चरणौ स्पृष्ट्वा भक्त्या नत्वेदमर्थयेत् ॥ १८५ ॥

१०.१८६
श्रीनाथ जगतां नाथ मन्नाथ करुणानिधे ।
परामृतप्रदानेन पूरयाऽस्मन्मनोरथम् ॥ १८६ ॥

१०.१८७
आज्ञां मे दीयतां कौलाः प्रत्यक्षशिवरूपिणः ।
सच्छिष्याय विनीताय ददामि परमामृतम् ॥ १८७ ॥

१०.१८८
चक्रेश परमेशान कौलपङ्कजभास्कर ।
कृतार्थं कुरु सच्छिष्यं देह्यमुष्मै कुलामृतम् ॥ १८८ ॥

१०.१८९
आज्ञामादाय कौलानां परमामृतपूरितम् ।
सशुद्धिकं पानपात्रं शिष्यहस्ते समर्पयेत् ॥ १८९ ॥

१०.१९०
हृद्याकृष्य गुरुर्देवीं स्रुवसंलग्नभस्मना ।
स्वस्य शिष्यस्य कौलानां कूर्चे च तिलकं न्यसेत् ॥ १९० ॥

१०.१९१
ततः प्रसादतत्त्वानि कौलेभ्यः परिवेशयन् ।
चक्रानुष्ठानविधिना विदध्यात् पानभोजनम् ॥ १९१ ॥

१०.१९२
इति ते कथितं देवि शुभपूर्णाभिषेचनम् ।
ब्रह्मज्ञानैकजननं शिवत्वफलसाधनम् ॥ १९२ ॥

१०.१९३
नवरात्रं सप्तरात्रं पञ्चरात्रं त्रिरात्रकम् ।
अथ वाप्येकरात्रञ्च कुर्यात् पूर्णाभिषेचनम् ॥ १९३ ॥

१०.१९४
संस्कारेऽस्मिन् कुलेशानि पञ्चकल्पाः प्रकीर्तिताः ।
नवरात्रे विधातव्यं सर्वतोभद्रमण्डलम् ॥ १९४ ॥

१०.१९५
नवनाभं सप्तरात्रे पञ्चाब्जं पञ्चरात्रके ।
त्रिरात्रे चैकरात्रे च पद्ममष्टदलं प्रिये ॥ १९५ ॥

१०.१९६
मण्डले सर्वतोभद्रे नवनाभेऽपि साधकैः ।
स्थापनीया नव घटाः पञ्चाब्जे पञ्चसङ्ख्यकाः ॥ १९६ ॥

१०.१९७
नलिनेऽष्टदले देवि घटस्त्वेकः प्रकीर्तितः ।
अङ्गावरणदेवांश्च केसरादिषु पूजयेत् ॥ १९७ ॥

१०.१९८
पूर्णाभिषेकसिद्धानां कौलानां निर्मलात्मनाम् ।
दर्शनात् स्पर्शनाद् घ्राणाद् द्रव्यशुद्धिर्विधीयते ॥ १९८ ॥

१०.१९९
शाक्तैर्वा वैष्णवैः शैवैः सौरैर्गाणपतैरपि ।
कौलधर्माश्रितः साधुः पूजनीयोऽतियत्नतः ॥ १९९ ॥

१०.२००
शाक्ते शाक्तो गुरुः शस्तः शैवे शैवो गुरुर्मतः ।
वैष्णवे वैष्णवः सौरे सौरो गुरुरुदाहृतः ॥ २०० ॥

१०.२०१
गाणपे गाणपश्चैव कौलः सर्वत्र सद्गुरुः ।
अतः सर्वात्मना धीमान् कौलाद् दीक्षां समाचरेत् ॥ २०१ ॥

१०.२०२
पञ्चतत्त्वेन यत्नेन भक्त्या कौलान् यजन्ति ये ।
उद्धृत्य पुरुषान् सर्वांस्ते यान्ति परमां गतिम् ॥ २०२ ॥

१०.२०३
पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः ।
वीराल्लब्धमनुर्वीरः कौलाद्भवति ब्रह्मवित् ॥ २०३ ॥

१०.२०४
शाक्ताभिषेकी वीरः स्यात् पञ्च तत्त्वानि शोधयेत् ।
स्वेष्टपूजाविधावेव न तु चक्रेश्वरो भवेत् ॥ २०४ ॥

१०.२०५
वीरघाती वृथापायी वीराणां स्त्रीगमस्तथा ।
स्तेयी महापातकिनस्तत्संसर्गी च पञ्चमः ॥ २०५ ॥

१०.२०६
कुलवर्त्म कुलद्रव्यं कुलसाधकमेव च ।
ये निन्दन्ति दुरात्मानस्ते गच्छन्त्यधमां गतिम् ॥ २०६ ॥

१०.२०७
नृत्यन्ति रुद्रडाकिन्यो नृत्यन्ति रुद्रभैरवाः ।
मांसास्थिचर्वणानन्दाः सुराकौलद्विषां नृणाम् ॥ २०७ ॥

१०.२०८
दयालवः सत्यशीलाः सदा परहितैषिणः ।
तान् गर्हयन्तो नरकान्निष्कृतिं यान्ति न क्वचित् ॥ २०८ ॥

१०.२०९
उक्ता प्रयोगा बहवः कर्माणि विविधानि च ।
ब्रह्मैकनिष्ठकौलस्य त्यागानुष्ठानयोः समम् ॥ २०९ ॥

१०.२१०
एकमेव परं ब्रह्म जगदावृत्य तिष्ठति ।
विश्वार्चया तदर्चा स्यात् यतः सर्वं तदन्वितम् ॥ २१० ॥

१०.२११
फलासक्ताः कामपराः कर्मजालरताः प्रिये ।
पृथक्त्वेन यजन्तोऽपि तत् प्रयान्ति विशन्ति च ॥ २११ ॥

१०.२१२
सर्वं ब्रह्मणि सर्वत्र ब्रह्मैव परिपश्यति ।
ज्ञेयः स एव सत्कौलो जीवन्मुक्तो न संशयः ॥ २१२ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे वृद्धिश्राधादिमृतक्रियापूर्णाभिषेककथनं नाम दशमोल्लासः ।

Kapitel ११

११.१
श्रुत्वा शाम्भवधर्माणि वर्णाश्रमविभेदतः ।
अपर्णा परया प्रीत्या पप्रच्छ शङ्करं प्रति ॥ १ ॥

११.२
श्रीदेव्युवाच ।
वर्णाश्रमाचारधर्माः संस्कारा लोकसिद्धये ।
कथिताः कृपया मह्यं सर्वज्ञेन त्वया प्रभो ॥ २ ॥

११.३
कलौ दुर्वृत्तयो लोकाः कामक्रोधान्धचेतसः ।
नास्तिकाः संशयात्मानः सदेन्द्रियसुखैषिणः ॥ ३ ॥

११.४
भवन्निगदितं वर्त्म नानुष्ठास्यन्ति दुर्धियः ।
तेषां का गतिरीशान विशेषाद्वक्तुमर्हसि ॥ ४ ॥

११.५
श्रीसदाशिव उवाच ।
साधु पृष्टं त्वया देवि लोकानां हितकारिणि ।
त्वं जगज्जननी दुर्गा जन्मसंसारमोचनी ॥ ५ ॥

११.६
त्वमाद्या जगतां धात्री पालयित्री परात्परा ।
त्वयैव धार्यते देवि विश्वमेतच्चराचरम् ॥ ६ ॥

११.७
त्वमेव पृथ्वी त्वं वारि त्वं वायुस्त्वं हुताशनः ।
त्वं वियत्त्वमहङ्कारस्त्वं महत्तत्त्वरूपिणी ॥ ७ ॥

११.८
त्वमेव जीवो लोकेऽस्मिंस्त्वं विद्या परदेवता ।
इन्द्रियाणि मनोबुद्धिर्विश्वेषां त्वं गतिः स्थितिः ॥ ८ ॥

११.९
त्वमेव वेदाः प्रणवः स्मृतयस्त्वं हि संहिताः ।
निगमागमतन्त्राणि सर्वशास्त्रमयी शिवा ॥ ९ ॥

११.१०
महाकाली महालक्ष्मीर्महानीलसरस्वती ।
महोदरी महामाया महारौद्री महेश्वरी ॥ १० ॥

११.११
सर्वज्ञा त्वं ज्ञानमयी नास्त्यवेद्यं तवाऽन्तिके ।
तथापि पृच्छसि प्राज्ञे प्रीतये कथयामि ते ॥ ११ ॥

११.१२
सत्यमुक्तं त्वया देवि मनुजानां विचेष्टितम् ।
जानन्तोऽपि हितं मत्ताः पापैराशु सुखप्रदैः ॥ १२ ॥

११.१३
नाऽचरिष्यन्ति सद्वर्त्म हिताहितबहिष्कृताः ।
तेषां निःश्रेयसार्थाय कर्तव्यं यत्तदुच्यते ॥ १३ ॥

११.१४
अनुष्ठानं निषिद्धस्य त्यागो विहितकर्मणः ।
नॄणां जनयतः पापं क्लेशशोकामयप्रदम् ॥ १४ ॥

११.१५
स्वानिष्टमात्रजननात् परानिष्टोपपादनात् ।
तदेव पापं द्विविधं जानीहि कुलनायिके ॥ १५ ॥

११.१६
परानिष्टकरात् पापात् मुच्यते राजशासनात् ।
अन्यस्मान्मुच्यते मर्त्यः प्रायश्चित्त्या समाधिना ॥ १६ ॥

११.१७
प्रायश्चित्त्याऽथवा दण्डैर्न पूता ये कृतांहसः ।
नरकान्न निवर्तन्ते इहामुत्र विगर्हिताः ॥ १७ ॥

११.१८
तत्रादौ कथयाम्याद्ये नृपशासननिर्णयम् ।
यल्लङ्घनान्महेशानि राजा यात्यधमां गतिम् ॥ १८ ॥

११.१९
भृत्यान् पुत्रानुदासीनान् प्रियानपि तथाऽप्रियान् ।
शासने च तथा न्याये समदृष्ट्याऽवलोकयेत् ॥ १९ ॥

११.२०
स्वयं चेत् कृतपापः स्यात् पीडयेदकृतांहसः ।
उपवासैश्च दानैस्तान् परितोष्य विशुध्यति ॥ २० ॥

११.२१
वधार्हं मन्यमानः स्वं कृतपापो नराधिपः ।
त्यक्त्वा राज्यं वनं प्राप्य तपसाऽत्मानमुद्धरेत् ॥ २१ ॥

११.२२
गुरुदण्डं नैव राजा विदध्याल्लघुपापिषु ।
न लघुं गुरुपापेषु विना हेतुं विपर्यये ॥ २२ ॥

११.२३
तस्मिन् यच्छासने शास्या अनेकोन्मार्गवर्तिनः ।
पापेभ्यो निर्भये शस्तो लघुपापे गुरुर्दमः ॥ २३ ॥

११.२४
सकृत्कृतापराधेन सत्रपे बहुमानिनि ।
पापाद्भीरौ प्रशस्तः स्याद् गुरुपापे लघुर्दमः ॥ २४ ॥

११.२५
स्वल्पापराधी कौलश्चेत् ब्राह्मणो लघुपापकृत् ।
बहुमान्योऽपि दण्ड्यः स्याद्वचोभिरवनीभृता ॥ २५ ॥

११.२६
न्यायं दण्डं प्रसादं च विचार्य सचिवैः सह ।
यो न कुर्यान्महीपालः स महापातकी भवेत् ॥ २६ ॥

११.२७
न त्यजेत् पितरौ पुत्रो न त्यजेयुर्नृपं प्रजाः ।
न त्यजेत् स्वामिनं भार्या विना तानतिपापिनः ॥ २७ ॥

११.२८
राज्यं धनं जीवनं च धार्मिकस्य महीपतेः ।
संरक्षेयुः प्रजा यत्नैरन्यथा यान्त्यधोगतिम् ॥ २८ ॥

११.२९
मातरं भगिनीञ्चापि तथा दुहितरं शिवे ।
गन्तारो ज्ञानतो ये च महागुरुनिघातकाः ॥ २९ ॥

११.३०
कुलधर्मं समाश्रित्य पुनस्त्यक्तकुलक्रियाः ।
विश्वासघातिनो लोका अतिपातकिनः स्मृताः ॥ ३० ॥

११.३१
मातरं भगिनीं कन्यां गच्छतो निधनं दमः ।
तासामपि सकामानां तदेव विहितं शिवे ॥ ३१ ॥

११.३२
मातापितृस्वसुस्तल्पं स्नुषां श्वश्रूं गुरुस्त्रियम् ।
पितामहस्य वनितां तथा मातामहस्य च ॥ ३२ ॥

११.३३
पित्रोर्भ्रातुः सुतां जायां भ्रातुः पत्नीं सुतामपि ।
भागिनेयीं प्रभोः पत्नीं तनयाञ्च कुमारिकाम् ॥ ३३ ॥

११.३४
गच्छतां पापिनां लिङ्गच्छेदो दण्डो विधीयते ।
आसामपि सकामानां दमो नासानिकृन्तनम् ।
गृहान्निर्यापणं चैव पापादस्माद्विमुक्तये ॥ ३४ ॥

११.३५
सपिण्डदारतनयाः स्त्रियं विश्वासिनामपि ।
सर्वस्वहरणं केशवपनं गच्छतो दमः ॥ ३५ ॥

११.३६
स्त्रीभिरेताभिरज्ञानाद् भवेत् परिणयो यदि ।
ब्राह्मेण वापि शैवेन ज्ञात्वा तास्तत्क्षणं त्यजेत् ॥ ३६ ॥

११.३७
सवर्णं दारान् यो गच्छेत् अनुलोमपरस्त्रियम् ।
दमस्तस्य धनादानं मासैकं कणभोजनम् ॥ ३७ ॥

११.३८
राजन्यवैश्यशूद्राणां सामान्यानां वरानने ।
ब्राह्मणीं गच्छतां ज्ञानाल्लिङ्गच्छेदो दमः स्मृतः ॥ ३८ ॥

११.३९
ब्राह्मणीं विकृतां कृत्वा देशान्निर्यापयेन्नृपः ।
वीरस्त्रीगामिनां तासामेवमेव दमो विधिः ॥ ३९ ॥

११.४०
दुरात्मा यस्तु रमते प्रतिलोमपरस्त्रिया ।
दण्डस्तस्य धनादानं त्रिमासं कणभोजनम् ॥ ४० ॥

११.४१
सकामायाः स्त्रियाश्चापि दण्डस्तद्वद्विधीयते ।
बलात्कारगता भार्या त्याज्या पाल्या भवेत् शिवे ॥ ४१ ॥

११.४२
ब्राह्मी भार्याऽथवा शैवी कामतो वाप्यकामतः ।
सर्वथा हि परित्याज्या स्याच्चेत् परगता सकृत् ॥ ४२ ॥

११.४३
गच्छतां वारनारीषु गवादिपशुयोनिषु ।
शुद्धिर्भवति देवेशि त्रिरात्रं कणभोजनात् ॥ ४३ ॥

११.४४
गच्छतां कामतः पुंसः स्त्रियाः पायुं दुरात्मनाम् ।
वध एव विधातव्यो भूभृता शम्भुशासनात् ॥ ४४ ॥

११.४५
बलात्कारेण यो गच्छेदपि चाण्डालयोषितम् ।
वधस्तस्य विधातव्यो न क्षन्तव्यः कदापि सः ॥ ४५ ॥

११.४६
परिणीतास्तु या नार्यो ब्राह्मैर्वा शैववर्त्मभिः ।
ता एव दारा विज्ञेया अन्याः सर्वाः परस्त्रियः ॥ ४६ ॥

११.४७
कामात् परस्त्रियं पश्यन् रहः सम्भाषयन् स्पृशन् ।
परिष्वज्योपवासेन विशुध्येद् द्विगुणक्रमात् ॥ ४७ ॥

११.४८
कुर्वत्येवं सकामा या परपुंसा कुलाङ्गना ।
उक्तोपवासविधिना स्वात्मानं परिशोधयेत् ॥ ४८ ॥

११.४९
ब्रुवन्निन्द्यं वचः स्त्रीषु पश्यन् गुह्यं परस्त्रियाः ।
हसन् गुरुतरं मर्त्यः शुध्येद् द्विरुपवासतः ॥ ४९ ॥

११.५०
दर्शयन्नग्नमात्मानं कुर्वन्नग्नं तथा परम् ।
त्रिरात्रमशनं त्यक्त्वा शुद्धो भवति मानवः ॥ ५० ॥

११.५१
पत्न्याः पराभिगमनं प्रमाणयति चेत् पतिः ।
नृपस्तदा तां तज्जारं शास्यात् शास्त्रानुसारतः ॥ ५१ ॥

११.५२
प्रमाणे यद्यशक्तः स्यात् दयितोपपतेः पतिः ।
त्यक्त्वा तां पोषयेद् ग्रासैस्तिष्ठेच्चेत् पतिशासने ॥ ५२ ॥

११.५३
रममाणामुपपतौ पश्यन् पत्नीं पतिस्तदा ।
निघ्नन् वनितया जारं वधार्हो नैव भूभृतः ॥ ५३ ॥

११.५४
भर्तुर्निवारणं यत्र गमने येन भाषणे ।
प्रयाणाद्भाषणात्तत्र त्यागार्हा स्यात् कुलाङ्गना ॥ ५४ ॥

११.५५
मृते पत्यौ स्वधर्मेण पतिबन्धुवशे स्थिता ।
अभावे पितृबन्धूनां तिष्ठन्ती दायमर्हति ॥ ५५ ॥

११.५६
द्विर्भोजनं परान्नं च मैथुनामिषभूषणम् ।
पर्यङ्गं रक्तवासश्च विधवा परिवर्जयेत् ॥ ५६ ॥

११.५७
नाङ्गमुद्वर्तयेद्वासैर्ग्राम्यालापमपि त्यजेत् ।
देवव्रता नयेत् कालं वैधव्यं धर्ममाश्रिता ॥ ५७ ॥

११.५८
न विद्यते पिता यस्य शिशोर्माता पितामहः ।
नियतं पालने तस्य मातृबन्धुः प्रशस्यते ॥ ५८ ॥

११.५९
मातुर्माता पिता भ्राता मातुर्भ्रातुः सुतास्तथा ।
मातुः पितुः सोदराश्च विज्ञेयाः मातृबान्धवाः ॥ ५९ ॥

११.६०
पितुर्माता पिता भ्राता पितुर्भ्रातुः स्वसुः सुताः ।
पितुः पितुः सोदराश्च विज्ञेयाः पितृबान्धवाः ॥ ६० ॥

११.६१
पत्युर्माता पिता भ्राता पत्युर्भ्रातुः स्वसुः सुताः ।
पत्युः पितुः सोदराश्च विज्ञेयाः पतिबान्धवाः ॥ ६१ ॥

११.६२
पित्रे मात्रे पितुः पित्रे पितामह्यै तथा स्त्रियै ।
अयोग्यसूनवे पुत्रहीनमातामहाय च ॥ ६२ ॥

११.६३
मातामह्यै दरिद्रेभ्य एभ्यो वासस्तथाऽशनम् ।
दापयेन्नृपतिः पुंसा यथाविभवमम्बिके ॥ ६३ ॥

११.६४
दुर्वाच्यं कथयन् पत्नीमेकाहमशनं त्यजेत् ।
त्र्यहं सन्ताडयन् रक्तं पातयन् सप्त वासरान् ॥ ६४ ॥

११.६५
क्रोधाद्वा मोहतो भार्यां मातरं भगिनीं सुताम् ।
वदन्नुपोष्य सप्ताहं विशुध्येच्छिवशासनात् ॥ ६५ ॥

११.६६
शण्ढेनोद्वाहितां कन्यां कालातीतेऽपि पार्थिवः ।
जानन्नुद्वाहयेत् भूयो विधिरेषः शिवोदितः ॥ ६६ ॥

११.६७
परिणीता न रमिता कन्यका विधवा भवेत् ।
साप्युद्वाह्या पुनः पित्रा शैवधर्मेष्वयं विधिः ॥ ६७ ॥

११.६८
उद्वाहाद् द्वादशे पक्षे पत्यन्तात् गतहायने ।
प्रसूते तनयं योग्यं न सा पत्नी न सः सुतः ॥ ६८ ॥

११.६९
आगर्भात् पञ्चमासान्तर्गर्भं या स्रावयेद्धिया ।
तदुपायकृतं ताञ्च यातयेत्तिव्रताडनैः ॥ ६९ ॥

११.७०
पञ्चमात् परतो मासात् या स्त्री भ्रूणं प्रपातयेत् ।
तत्प्रयोक्तुश्च तस्याश्च पातकं स्याद्बधोद्भवम् ॥ ७० ॥

११.७१
यो हन्ति ज्ञानतो मर्त्यं मानवः क्रूरचेष्टितः ।
वधस्तस्य विधातव्यः सर्वथा धरणीभृता ॥ ७१ ॥

११.७२
प्रमादाद् भ्रमतोऽज्ञानात् घ्नन्तन्नरमरिन्दमः ।
द्रविणादानतस्तीव्रताडनैस्तं विशोधयेत् ॥ ७२ ॥

११.७३
स्वतो वा परतो वापि वधोपायं प्रकुर्वतः ।
अज्ञानवधिनां दण्डो विहितस्तस्य पापिनः ॥ ७३ ॥

११.७४
मिथः संग्रामयोद्धारमाततायिनमागतम् ।
निहत्य परमेशानि न पापार्हो भवेन्नरः ॥ ७४ ॥

११.७५
अङ्गच्छेदे विधातव्यं भूभृताऽङ्गनिकृन्तनम् ।
प्रहारे च प्रहरणं नृषु पापं चिकीर्षुषु ॥ ७५ ॥

११.७६
विप्रान् गुरूनवगुरेत् प्रहरेद् यो दुरासदः ।
धनादानाद्धस्तदाहात् क्रमतस्तं विशोधयेत् ॥ ७६ ॥

११.७७
शस्त्रादिक्षतकायस्य षण्मासात् परतो मृतौ ।
प्रहर्ता दण्डनीयः स्याद् वधार्हो न हि भूभृतः ॥ ७७ ॥

११.७८
राष्ट्रविप्लाविनो राज्यं जिहीर्षून्नृपवैरिणाम् ।
रहो हितैषिणो भृत्यान् भेदकान्नृपसैन्ययोः ॥ ७८ ॥

११.७९
योद्धुमिच्छूः प्रजा राज्ञा शस्त्रिणः पान्थपीडकान् ।
हत्वा नरपतिस्त्वेतान् नैव किल्विषभाग् भवेत् ॥ ७९ ॥

११.८०
यो हन्यान्मानवं भर्तुराज्ञयापरिहार्यया ।
भर्तुरेव वधस्तत्र प्रहर्तुर्न शिवाज्ञया ॥ ८० ॥

११.८१
अयत्नपुंसः पशुना शस्त्रैर्वा म्रियते नरः ।
धनदण्डेन वा कायदमेनाऽस्य विशोधनम् ॥ ८१ ॥

११.८२
बहिर्मुखान्नृपाज्ञासु नृपाग्रे प्रौढवादिनः ।
दूषकान् कुलधर्माणां शास्याद्राजा विगर्हितान् ॥ ८२ ॥

११.८३
स्थाप्यापहारिणं क्रूरं वञ्चकं भेदकारिणम् ।
विवादयन्तं लोकांश्च देशान्निर्यापयेन्नृपः ॥ ८३ ॥

११.८४
शुल्केन कन्यां दातॄंश्च पुत्रं शण्ढे प्रयच्छतः ।
देशान्निर्यापयेद्राजा पतितान् दुष्कृतात्मनः ॥ ८४ ॥

११.८५
मिथ्यापवादव्याजेन परानिष्टं चिकीर्षवः ।
यथापवादं ते शास्या धर्मज्ञेन महीभृता ॥ ८५ ॥

११.८६
यो यत्परिमितानिष्टं कुर्यात्तत्सम्मितं धनम् ।
नृपतिर्दापयेत्तेन जनायाऽनिष्टभागिने ॥ ८६ ॥

११.८७
मणिमुक्ताहिरण्यादिधातूनां स्तेयकारिणः ।
करस्य बाह्वोश्छेदो वा कार्यो मूल्यं विचारयन् ॥ ८७ ॥

११.८८
महिषाश्वगवादीनां रत्नादीनां तथा शिशोः ।
बलेनाऽपहृतां नॄणां स्तेयिवद्विहितो दमः ॥ ८८ ॥

११.८९
अन्नानामल्पमूलस्य वस्तुनस्तेयिनं नृपः ।
विशोधयेत्तं पक्षैकं सप्ताहं वाऽशयन् कणम् ॥ ८९ ॥

११.९०
विश्वासघातके पुंसि कृतघ्ने सुरवन्दिते ।
यज्ञैर्व्रतैस्तपोदानैः प्रायश्चित्तैर्न निष्कृतिः ॥ ९० ॥

११.९१
ये कूटसाक्षिणो मर्त्या मध्यस्था पक्षपातिनः ।
शास्यात्तांस्तीव्रदण्डेन देशान्निर्यापयेन्नृपः ॥ ९१ ॥

११.९२
षट् साक्षिणः प्रमाणं स्युश्चत्वारस्त्र्य एव वा ।
अभावे द्वावपि शिवे प्रसिद्धौ यदि धार्मिकौ ॥ ९२ ॥

११.९३
देशतः कालतो वापि तथा विषयतः प्रिये ।
परस्परमयुक्तञ्चेद् अग्राह्यं साक्षिणां वचः ॥ ९३ ॥

११.९४
अन्धानां वाक् प्रमाणं स्याद्बधिराणां तथा प्रिये ।
मूकानामेडमूकानां शिरसाऽङ्गीकृतिर्लिपिः ॥ ९४ ॥

११.९५
लिपिः प्रमाणं सर्वेषां सर्वत्रैव प्रशस्यते ।
विशेषाद्व्यवहारेषु न विनश्येच्चिरं यतः ॥ ९५ ॥

११.९६
स्वीयार्थमपरार्थञ्चेत् कुर्वतः कल्पितां लिपिम् ।
दण्डस्तस्य विधातव्यो द्विपाद्यं कूटसाक्षिणः ॥ ९६ ॥

११.९७
अभ्रमस्याऽप्रमत्तस्य यदङ्गीकरणं सकृत् ।
स्वीयार्थे तत्प्रमाणं स्याद्वचसो बहुसाक्षिणाम् ॥ ९७ ॥

११.९८
यथा तिष्ठन्ति पुण्यानि सत्यमाश्रित्य पार्वति ।
तथाऽनृतं समाश्रित्य पातकान्यखिलान्यपि ॥ ९८ ॥

११.९९
अतः सत्यविहीनस्य सर्वपापाश्रयस्य च ।
ताडनाद्दमनाद्राजा न पापार्हः शिवाज्ञया ॥ ९९ ॥

११.१००
सत्यं ब्रवीमि सङ्कल्प्य स्पृष्ट्वा कौलं गुरुं द्विजम् ।
गङ्गातोयं देवमूर्तिं कुलशास्त्रं कुलामृतम् ॥ १०० ॥

११.१०१
देवीनिर्माल्यमथवा कथनं शपथो भवेत् ।
तत्राऽनृतं वदन् मर्त्यः कल्पान्तं नरकं व्रजेत् ॥ १०१ ॥

११.१०२
अपापजनिकार्याणां त्यागे वा ग्रहणेऽपि वा ।
तत् कार्यं सर्वथा मर्त्यैः स्वीकृतं शपथेन यत् ॥ १०२ ॥

११.१०३
स्वीकारोल्लङ्घनाच्छुध्येत् पक्षमेकमभोजनैः ।
भ्रमेणापि तमुल्लङ्घ्य द्वादशाहं कणाशनैः ॥ १०३ ॥

११.१०४
कुलधर्मोऽपि सत्येन विधिना चेन्न सेवितः ।
मोक्षाय श्रेयसे न स्यात् कौले पापाय केवलम् ॥ १०४ ॥

११.१०५
सुरा द्रवमयी तारा जीवनिस्तारकारिणी ।
जननी भोगमोक्षाणां नाशिनी विपदां रुजाम् ॥ १०५ ॥

११.१०६
दाहिनी पापसङ्घानां पावनी जगतां प्रिये ।
सर्वसिद्धिप्रदा ज्ञानबुद्धिविद्याविवर्धिनी ॥ १०६ ॥

११.१०७
मुक्तैर्मुमुक्षुभिः सिद्धैः साधकैः क्षितिपालकैः ।
सेव्यते सर्वदा देवैराद्ये स्वाभीष्टसिद्धये ॥ १०७ ॥

११.१०८
सम्यग्विधिविधानेन सुसमाहितचेतसा ।
पिबन्ति मदिरां मर्त्या अमर्त्या एव ते क्षितौ ॥ १०८ ॥

११.१०९
प्रत्येकतत्वस्वीकाराद्विधिना स्याच्छिवो नरः ।
न जाने पञ्चतत्वानां सेवनात् किं फलं भवेत् ॥ १०९ ॥

११.११०
इयञ्चेत् वारुणी देवी निपीता विधिवर्जिता ।
नॄणां विनाशयेत् सर्वं बुद्धिमायुर्यशो धनम् ॥ ११० ॥

११.१११
अत्यन्तपानान्मद्यस्य चतुर्वर्गप्रसाधनी ।
बुद्धिर्विनश्यति प्रायो लोकानां मत्तचेतसाम् ॥ १११ ॥

११.११२
विभ्रान्तबुद्धेर्मनुजात् कार्याकार्यमजानतः ।
स्वानिष्टं च परानिष्टं जायतेऽस्मात् पदे पदे ॥ ११२ ॥

११.११३
अतो नृपो वा चक्रेशो मद्ये मादकवस्तुषु ।
अत्यासक्तजनान् कायधनदण्डेन शोधयेत् ॥ ११३ ॥

११.११४
सुराभेदात् व्यक्तिभेदात् न्यूनेनाऽप्यधिकेन वा ।
देशकालविभेदेन बुद्धिभ्रंशो भवेन्नॄणाम् ॥ ११४ ॥

११.११५
अत एव सुरामानादतिपानं न लक्ष्यते ।
स्खलद्वाक्पाणिपाद्दृग्भिरतिपानं विचारयेत् ॥ ११५ ॥

११.११६
नेन्द्रियाणि वशे यस्य मदविह्वलचेतसः ।
देवतागुरुमर्यादोल्लङ्घिनो भयरूपिणः ॥ ११६ ॥

११.११७
निखिलानर्थयोग्यस्य पापिनः शिवघातिनः ।
दहेज्जिह्वां हरेदर्थान् ताडयेत्तं च पार्थिवः ॥ ११७ ॥

११.११८
विचलत्पादवाक्पाणिं भ्रान्तमुन्मत्तमुद्धतम् ।
तमुग्रं यातयेद्राजा द्रविणं चाहरेत्ततः ॥ ११८ ॥

११.११९
अपवाग्वादिनं मत्तं लज्जाभयविवर्जितम् ।
धनादानेन तं शास्यात् प्रजाप्रीतिकरो नृपः ॥ ११९ ॥

११.१२०
शताभिषिक्तः कौलश्चेत् अतिपानात् कुलेश्वरि ।
पशुरेव स मन्तव्यः कुलधर्मबहिष्कृतः ॥ १२० ॥

११.१२१
पिबन्नतिशयं मद्यं शोधितं वाऽप्यशोधितम् ।
त्याज्यो भवति कौलानां दण्डनीयोऽपि भूभृतः ॥ १२१ ॥

११.१२२
ब्राह्मीं भार्यां सुरां मत्ताः पाययन्तो द्विजातयः ।
शुध्येयुर्भार्यया सार्धं पञ्चाहं कणभोजनात् ॥ १२२ ॥

११.१२३
असंस्कृतसुरापानात् शुध्येदुपवसंस्त्र्यहम् ।
भुक्त्वाऽप्यशोधितं मांसमुपवासद्वयं चरेत् ॥ १२३ ॥

११.१२४
असंस्कृते मीनमुद्रे खादन्नुपवसेदहः ।
अवैधं पञ्चमं कुर्वन् राज्ञो दण्डेन शुध्यति ॥ १२४ ॥

११.१२५
भुञ्जानो मानवं मांसं गोमांसं ज्ञानतः शिवे ।
उपोष्य पक्षं शुद्धः स्यात् प्रायश्चित्तमिदं स्मृतम् ॥ १२५ ॥

११.१२६
नराकृतिपशोर्मांसं मांसं मांसादनस्य च ।
अत्त्वा शुध्येन्नरः पापादुपवासैस्त्रिभिः प्रिये ॥ १२६ ॥

११.१२७
म्लेच्छानां श्वपचानां च पशूनां कुलवैरिणाम् ।
खादन्नन्नं विशुद्धः स्यात् पक्षमेकमुपोषितः ॥ १२७ ॥

११.१२८
उच्छिष्टं यदि भुञ्जीत ज्ञानादेषां कुलेश्वरि ।
शुध्येन्मासोपवासेनाऽज्ञानात् पक्षोपवासतः ॥ १२८ ॥

११.१२९
अनुलोमेन वर्णानामन्नं भुक्त्वा सकृत् प्रिये ।
दिनत्रयोपवासेन विशुद्धः स्यान्ममाज्ञया ॥ १२९ ॥

११.१३०
पशुश्वपचम्लेच्छानामन्नं चक्रार्पितं यदि ।
वीरहस्तार्पितं वापि तदश्नन्नैव पापभाक् ॥ १३० ॥

११.१३१
अन्नाभावे च दौर्भिक्ष्ये विपदि प्राणसङ्कटे ।
निषिद्धेनाऽदनेनापि रक्षन् प्राणान्न पातकी ॥ १३१ ॥

११.१३२
करिपृष्ठे तथाऽनेकोद्वाह्यपाषाणदारुषु ।
अलक्षितेऽपि दुष्याणां भक्ष्यदोषो न विद्यते ॥ १३२ ॥

११.१३३
पशूनभक्ष्यमांसांश्च व्याधियुक्तानपि प्रिये ।
न हन्याद्देवतार्थेऽपि हत्वा च पातकी भवेत् ॥ १३३ ॥

११.१३४
कृच्छ्रव्रतं नरः कुर्याद् गोवधे बुद्धिपूर्वके ।
अज्ञानादाचरेदर्धं व्रतं शङ्करशासनात् ॥ १३४ ॥

११.१३५
न केशवपनं कुर्यात् न नखच्छेदनं तथा ।
न क्षारयोगं वसने यावन्न व्रतमाचरेत् ॥ १३५ ॥

११.१३६
उपवासैर्नयेत् मासं मासमेकं कणाशनैः ।
मासं भैक्षान्नमश्नीयात् कृच्छ्रव्रतमिदं शिवे ॥ १३६ ॥

११.१३७
व्रतान्ते वापितशिराः कौलान् ज्ञातींश्च बान्धवान् ।
भोजयित्वा विमुक्तः स्याद् ज्ञानगोवधपातकात् ॥ १३७ ॥

११.१३८
अपालनवधाद्गोश्च शुध्येदष्टोपवासतः ।
बाहुजाद्या विशुध्येयुः पादन्यूनक्रमात् प्रिये ॥ १३८ ॥

११.१३९
गजोष्ट्रमहिषाश्वांश्च हत्वा कौलिनि कामतः ।
उपवासैस्त्रिभिः शुध्येन्मानवः कृतकिल्विषः ॥ १३९ ॥

११.१४०
मृगमेषाजमार्जारान् निघ्नन्नुपवसेदहः ।
मयूरशुकहंसांश्च सज्योतिरशनं त्यजेत् ॥ १४० ॥

११.१४१
निहत्य सास्थिजन्तूंश्च नक्तमद्यात् निरामिषम् ।
निरस्थिजीविनो हत्वा मनस्तापेन शुद्ध्यति ॥ १४१ ॥

११.१४२
पशुमीनाण्डजान्निघ्नन् मृगयायां महीपतिः ।
न पापार्हो भवेद्देवि राज्ञो धर्मः सनातनः ॥ १४२ ॥

११.१४३
देवोद्देशं विना भद्रे हिंसां सर्वत्र वर्जयेत् ।
कृतायां वैधहिंसायां नरः पापैर्न लिप्यते ॥ १४३ ॥

११.१४४
संकल्पितव्रतापूर्तौ देवनिर्माल्यलङ्घने ।
अशुचौ देवतास्पर्शे गायत्रीजपमाचरेत् ॥ १४४ ॥

११.१४५
माता पिता ब्रह्मदाता महान्तो गुरवः स्मृताः ।
निन्दन्नेतान् वदन् क्रूरं शुध्येत् पञ्चोपवासतः ॥ १४५ ॥

११.१४६
एवमन्यान् गुरून् कौलान् विप्रान् गर्हन्नपि प्रिये ।
सार्धद्वयोपवासेन मुक्तो भवति पातकात् ॥ १४६ ॥

११.१४७
वित्तार्थी मानवो देशानखिलान् गन्तुमर्हति ।
निषिद्धकौलिकाचारं देशं शास्त्रमपि त्यजेत् ॥ १४७ ॥

११.१४८
गच्छंस्तु स्वेच्छया देशे निषिद्धकुलवर्त्मनि ।
कुलधर्मात्पतेद्भूयः शुध्येत् पूर्णाभिषेकतः ॥ १४८ ॥

११.१४९
तपनोदयमारभ्य यामाष्टकमभोजनम् ।
उपवासः स विज्ञेयः प्रायश्चित्ते विधीयते ॥ १४९ ॥

११.१५०
पिबंस्तोयाञ्जलिञ्चैकं भक्षन्नपि समीरणम् ।
मानवः प्राणरक्षार्थं न भ्रश्येदुपवासतः ॥ १५० ॥

११.१५१
उपवासासमर्थश्चेद्रुजा वा जरसाऽपि वा ।
तदा प्रत्युपवासञ्च भोजयेद्द्वादश द्विजान् ॥ १५१ ॥

११.१५२
परनिन्दां निजोत्कर्षं व्यसनायुक्तभाषणम् ।
अयुक्तं कर्म कुर्वाणो मनस्तापैर्विशुध्यति ॥ १५२ ॥

११.१५३
अन्यानि यानि पापानि ज्ञानाज्ञानकृतान्यपि ।
नश्यन्ति जपनाद्देव्याः सावित्र्याः कौलभोजनात् ॥ १५३ ॥

११.१५४
सामान्यनियमान् पुंसां स्त्रीषु षण्डेषु योजयेत् ।
योषितां तु विशेषोऽयं पतिरेको महागुरुः ॥ १५४ ॥

११.१५५
महारोगान्विता ये च ये नराश्चिररोगिणः ।
स्वर्णदानेन पूताः स्युर्दैवे पैत्र्येऽधिकारिणः ॥ १५५ ॥

११.१५६
अपघातमृतेनापि दूषितं विद्युदग्निना ।
गृहं विशोधयेद्धोमैर्व्याहृत्या शतसंख्यकैः ॥ १५६ ॥

११.१५७
वापीकूपतडागेषु सास्थ्नां शवनिरीक्षणात् ।
उद्धृत्य कुणपं तेभ्यस्ततस्तान् परिशोधयेत् ॥ १५७ ॥

११.१५८
पूर्णाभिषेकमनुभिर्मन्त्रितैः शुद्धवारिभिः ।
पूर्णैस्त्रिसप्तकुम्भैस्तान् प्लावयेदिति शोधनम् ॥ १५८ ॥

११.१५९
यदि स्वल्पजलास्ते स्युः शवदुर्गन्धिदूषिताः ।
सपङ्कं सलिलं सर्वमुद्धृत्याप्लावयेत्तु तान् ॥ १५९ ॥

११.१६०
सन्ति भूरीणि तोयानि गजदघ्नानि तेषु च ।
शतकुम्भजलोद्धारैरभिषेकेण शोधयेत् ॥ १६० ॥

११.१६१
यद्येवं शोधिता न स्युर्मृतस्पृष्टजलाशयाः ।
अपेयसलिलास्तेषां प्रतिष्ठामपि नाचरेत् ॥ १६१ ॥

११.१६२
स्नानमेषु जलैरेषां कुर्वन् कर्म वृथा भवेत् ।
दिनमेकं निराहारः शुध्येत् पञ्चामृताशनात् ॥ १६२ ॥

११.१६३
याचकं धनिनं दृष्ट्वा वीरं युद्धपराङ्मुखम् ।
दूषकं कुलधर्माणां मद्यपाञ्च कुलस्त्रियम् ॥ १६३ ॥

११.१६४
मित्रद्रोहकरं मर्त्यं स्वयं पापरतं बुधम् ।
पश्यन् सूर्यं स्मरन् विष्णुं सचेलः स्नानमाचरेत् ॥ १६४ ॥

११.१६५
खरकुक्कुटकोलांश्च विक्रीणन्तो द्विजातयः ।
नीचवृत्तिं चरन्तोऽपि शुध्येयुस्त्रिदिनव्रतात् ॥ १६५ ॥

११.१६६
दिनमेकं निराहारो द्वितीयं कणभोजनः ।
अपरन्तु नयेदद्भिस्त्रिदिनव्रतमम्बिके ॥ १६६ ॥

११.१६७
गृहेऽनुद्घाटितद्वारेऽनाहूतः प्रविशन्नरः ।
वारितार्थप्रवक्ताऽपि पञ्चाहमशनं त्यजेत् ॥ १६७ ॥

११.१६८
आगच्छतो गुरून् दृष्ट्वा नोत्तिष्ठेद्यो मदान्वितः ।
तथैव कुलशास्त्राणि शुध्येदेकोपवासतः ॥ १६८ ॥

११.१६९
एतस्मिन् शाम्भवे शास्त्रे व्यक्तार्थपदबृंहिते ।
कूटेनार्थं कल्पयन्तः पतिता यान्त्यधोगतिम् ॥ १६९ ॥

११.१७०
इदं ते कथितं देवि सारात्सारं परात्परम् ।
इहामुत्रार्थदं धर्म्यं पावनं हितकारकम् ॥ १७० ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे स्वपरानिष्ठजनकपापप्रायश्चित्तकथनं नाम एकादशोल्लासः ।

Kapitel १२

१२.१
श्रीसदाशिव उवाच ।
भूयस्ते कथयाम्याद्ये व्यवहारान् सनातनान् ।
यान् रक्षन् प्रविदन्राजा स्वच्छन्दं पालयेत् प्रजाः ॥ १ ॥

१२.२
नियमेन विना राज्ञो मानवा धनलोलुपाः ।
मिथस्ते विवदिष्यन्ति गुरुस्वजनबन्धुभिः ॥ २ ॥

१२.३
व्यतिघ्नन्ति तदा देवि स्वार्थिनो वित्तहेतवे ।
पापाश्रया भविष्यन्ति हिंसया च जिहीर्षया ॥ ३ ॥

१२.४
अतस्तेषां हितार्थाय नियमो धर्मसम्मतः ।
नियोज्यते यमाश्रित्य न भ्रश्येयुः शुभान्नराः ॥ ४ ॥

१२.५
दण्डयेत् पापिनो राजा यथा पापापनुत्तये ।
तथैव विभजेद्दायान् नृणां सम्बन्धभेदतः ॥ ५ ॥

१२.६
सम्बन्धो द्विविधो ज्ञेयो विवाहाज्जन्मनस्तथा ।
तत्रौद्वाहिकसम्बन्धादपरो बलवत्तरः ॥ ६ ॥

१२.७
दाये तूर्ध्वतनाज्ज्यायान् सम्बन्धोऽधस्तनः शिवे ।
अध ऊर्ध्वक्रमादत्र पुमान् मुख्यतरः स्मृतः ॥ ७ ॥

१२.८
तत्रापि सन्निकर्षेण सम्बन्धी दायमर्हति ।
अनेन विधिना धीरा विभजेयुः क्रमाद्धनम् ॥ ८ ॥

१२.९
मृतस्य पुत्रे पौत्रे च कन्यासु पितरि स्थिते ।
भार्यायामपि दायार्हः पुत्र एव न चापरः ॥ ९ ॥

१२.१०
बहवस्तनया यत्र सर्वे तत्र समांशिनः ।
ज्येष्ठे राज्याधिकारित्वं तत्तु वंशानुसारतः ॥ १० ॥

१२.११
ऋणं यत् पैतृकं तच्च शोधयेत् पैतृकैर्धनैः ।
तस्मिन् स्थिते विभागार्हं न भवेत् पैतृकं वसु ॥ ११ ॥

१२.१२
विभज्य यदि गृह्णीयुर्विभवं पैतृकं नराः ।
तेभ्यस्तद्धनमाहृत्य पितॄणं दापयेन्नृपः ॥ १२ ॥

१२.१३
यथा स्वकृतपापेन निरयं यान्ति मानवाः ।
ऋणेनापि तथा बद्धः स्वयमेव न चापरः ॥ १३ ॥

१२.१४
साधारणं धनं यच्च स्थावरं स्थावरेतरम् ।
अंशिनः प्राप्तुमर्हन्ति स्वं स्वमंशं विभागतः ॥ १४ ॥

१२.१५
अंशिनां सम्मतावेव विभागः परिसिध्यति ।
तेषामसम्मतौ राजा समदृष्ट्यांशमाचरेत् ॥ १५ ॥

१२.१६
स्थावरस्य चरस्यापि विभागानर्हवस्तुनः ।
मूल्यं वा तदुपस्वत्वमंशिनां विभजेन्नृपः ॥ १६ ॥

१२.१७
विभक्तेऽपि धने यस्तु स्वीयांशं प्रतिपादयेत् ।
पुनर्विभज्य तद्द्रव्यमप्राप्तांशाय दापयेत् ॥ १७ ॥

१२.१८
कृते विभागे द्रव्याणामंशिनां सम्मतौ शिवे ।
पुनर्विवादयंस्तत्र शास्यो भवति भूभृतः ॥ १८ ॥

१२.१९
स्थिते प्रेतस्य पौत्रे च भार्यायाञ्च पितर्यपि ।
पौत्र एव धनार्हः स्यादधस्ताज्जन्मगौरवात् ॥ १९ ॥

१२.२०
अपुत्रस्य स्थिते ताते सोदरे च पितामहे ।
जन्मतः सन्निकर्षेण पितैवाऽस्य धनं हरेत् ॥ २० ॥

१२.२१
विद्यमानासु कन्यासु सन्निकृष्टास्वपि प्रिये ।
मृतस्य पौत्रो धनभाक् यतो मुख्यतरः पुमान् ॥ २१ ॥

१२.२२
धनं मृतेन पुत्रेण पौत्रं याति पितामहात् ।
अतोऽत्र गीयते लोकैः पुत्ररूपः स्वयं पिता ॥ २२ ॥

१२.२३
औद्वाहिकेऽपि सम्बन्धे ब्राह्मी भार्या वरीयसी ।
अपुत्रस्य हरेद्रिक्थं पत्युर्देहार्धहारिणी ॥ २३ ॥

१२.२४
पतिपुत्रविहीना तु सम्प्राप्य स्वामिनो धनम् ।
नैव दातुं न विक्रेतुं समर्था स्वधनं विना ॥ २४ ॥

१२.२५
पितृभिः श्वशुरैर्वापि दत्तं यद्धर्मसम्मतम् ।
स्वकृत्योपार्जितं यच्च स्त्रीधनं तत् प्रकीर्तितम् ॥ २५ ॥

१२.२६
तस्यां मृतायां रिक्थं तत् पुनः स्वामिपदं व्रजेत् ।
तदासन्नतरो रिक्थमध ऊर्ध्वक्रमाधरेत् ॥ २६ ॥

१२.२७
मृते पत्यौ स्वधर्मेण पतिबन्धुवशे स्थिता ।
तदभावे पितृबन्धोस्तिष्ठन्ती दायमर्हति ॥ २७ ॥

१२.२८
शङ्कितव्यभिचाराऽपि न पत्युर्दायभागिनी ।
लभते जीवनं मात्रं भर्तुर्विभवहारिणः ॥ २८ ॥

१२.२९
बह्व्यश्चेद्वनितास्तस्य स्वर्यातुर्धर्मतत्पराः ।
भजेरन् स्वामिनो वित्तं समांशेन शुचिस्मिते ॥ २९ ॥

१२.३०
पत्युर्धनहरायाश्च मृतौ भर्तृसुतास्थितौ ।
पुनः स्वामिपदं गत्वा धनं दुहितरं व्रजेत् ॥ ३० ॥

१२.३१
एवं स्थितायां कन्यायां रिक्थं पुत्रवधूगतम् ।
तन्मृतौ स्वामिनं प्राप्य श्वशुरात्तत्सुतामियात् ॥ ३१ ॥

१२.३२
तथा पितामहे सत्त्वे वित्तं मातृगतं शिवे ।
तस्यां मृतायां पुत्रेण भर्त्रा श्वशुरगम्भवेत् ॥ ३२ ॥

१२.३३
मृतस्योर्ध्वगतं वित्तं यथा प्राप्नोति तत्पिता ।
जनन्यपि तथाऽप्नोति पतिहीना भवेद्यदि ॥ ३३ ॥

१२.३४
अतः सत्यां जनन्यां तु विमाता न धनं हरेत् ।
मृतौ जनन्यास्तं प्राप्य पित्रा गच्छेद्विमातरम् ॥ ३४ ॥

१२.३५
अधस्तनानां विरहाद्यथा रिक्थं न यात्यधः ।
येनैवाऽधस्तनं प्राप्तं तेनैवोर्ध्वं तदा व्रजेत् ॥ ३५ ॥

१२.३६
अतः स्थितौ पितृव्यस्य धनं स्वसृगतञ्च सत् ।
पत्यौ स्थितेऽनपत्याया मृतौ पितृव्यमाश्रयेत् ॥ ३६ ॥

१२.३७
ऊर्ध्वाद्वित्तमधः प्राप्य पुमांसमवलम्बते ।
अतः सत्यां सोदरायां वैमात्रेयो धनं हरेत् ॥ ३७ ॥

१२.३८
स्थितायां सोदरायाञ्च विमातुः पुत्रसन्ततौ ।
वैमात्रेयगतं वित्तं वैमात्रेयान्वयो भजेत् ॥ ३८ ॥

१२.३९
मृतस्य सोदरो भ्राता वैमात्रेयस्तथा शिवे ।
धनं पितृगतत्वेन विभजेतां समांशिनौ ॥ ३९ ॥

१२.४०
कन्यायां जीवितायाञ्च तदपत्यं न दायभाक् ।
यत्र यद्बाधितं वित्तं तन्मृतावपरं व्रजेत् ॥ ४० ॥

१२.४१
विभजेयुर्दुहितरः पुत्राभावे पितुर्वसु ।
उद्वाहयन्त्योऽनूढां तु पितुः साधारणैर्धनैः ॥ ४१ ॥

१२.४२
असन्तत्या मृतायाश्च स्त्रीधनं स्वामिनं भजेत् ।
अन्यत्तु द्रविणं यस्मादाप्तं तत्पदमाश्रयेत् ॥ ४२ ॥

१२.४३
प्रेतलब्धधनैर्नारी विदध्यादात्मपोषणम् ।
पुण्यन्तु तदुपस्वत्वैर्न शक्ता दानविक्रये ॥ ४३ ॥

१२.४४
पितामहस्नुषायाञ्च सत्यां तातविमातरि ।
पितामहगतं रिक्थं तत्पुत्रेण स्नुषां व्रजेत् ॥ ४४ ॥

१२.४५
पितामहे पितृव्ये च तथा भ्रातरि जीवति ।
अधोभवानां मुख्यत्वात् भ्रातैव धनभाग् भवेत् ॥ ४५ ॥

१२.४६
पितृव्यात् सन्निकर्षेऽत्र तुल्यौ भ्रातृपितामहौ ।
धनं पितृपदं गत्वा प्रयातुर्भ्रातरं भजेत् ॥ ४६ ॥

१२.४७
स्थितेऽप्यपत्ये दुहितुः प्रेतस्य पितरि स्थिते ।
दुहित्रपत्यं धनभाग् धनं यस्मादधोमुखम् ॥ ४७ ॥

१२.४८
स्वःप्रयातुः स्थिते ताते तथा मातरि कालिके ।
पुंसो मुख्यतरत्वेन धनहारी भवेत् पिता ॥ ४८ ॥

१२.४९
स्थितः स्वपितृसापिण्डो वर्तमानेऽपि मातुले ।
प्रेतस्य धनहारी स्यात् पितुः सम्बन्धगौरवात् ॥ ४९ ॥

१२.५०
अधस्ताद्गमनाभावे धनमूर्ध्वभवं गतम् ।
तत्रापि पुंसां मुख्यत्वादितं पितृकुलं शिवे ।
अतोऽत्र सन्निकृष्टोऽपि मातुलो नाप्नुयाद्धनम् ॥ ५० ॥

१२.५१
अजीवत्पितृकः पौत्रः पितृव्यैः सह पार्वति ।
पितामहस्य द्रविणात् स्वपितुर्दायमर्हति ॥ ५१ ॥

१२.५२
भ्रातृहीना तथा पौत्री पितृव्यैः समभागिनी ।
पितामहधनं सौम्या हरेच्चेन्मृतमातृका ॥ ५२ ॥

१२.५३
सत्यां पौत्र्याः पितामह्यां पौत्र्याः पितृष्वसर्यपि ।
वित्ते पितृगते देवि पौत्री तत्राऽधिकारिणी ॥ ५३ ॥

१२.५४
अधोगामिषु वित्तेषु पुमान् ज्यायानधस्तनः ।
ऊर्ध्वगामिधने श्रेष्ठः पुमानूर्ध्वोद्भवो भवेत् ॥ ५४ ॥

१२.५५
अतः स्नुषायां पौत्र्याञ्च सत्यां दुहितरि प्रिये ।
प्रेतस्य विभवं हर्तुं नैव शक्नोति तत्पिता ॥ ५५ ॥

१२.५६
यदा पितृकुले न स्यान्मृतस्य धनभाजनम् ।
पूर्वोक्तविधिना रिक्थं मातामहकुलं भजेत् ॥ ५६ ॥

१२.५७
मातामहगतं वित्तं मातुलैस्तत्सुतादिभिः ।
अध ऊर्ध्वक्रमेणैवं पुमांसं स्त्रियमाश्रयेत् ॥ ५७ ॥

१२.५८
ब्राह्म्यन्वये विद्यमाने पित्रोः सापिण्डने स्थिते ।
मृतस्य शैवीतनयो न पितुर्दायभाग् भवेत् ॥ ५८ ॥

१२.५९
शैवी पत्नी च तत्पुत्रा लभेरन् धनभागिनः ।
ग्रासमाच्छादनं भद्रे स्वःप्रयातुर्यथा धनम् ॥ ५९ ॥

१२.६०
शैवोद्वाहं प्रकुर्वन्तीं शैवभर्तैव पालयेत् ।
सौम्याञ्चेन्नाधिकारोऽस्याः पित्रादीनां धने प्रिये ॥ ६० ॥

१२.६१
अतः सत्कुलजां कन्यां शैवैरुद्वाहयन् पिता ।
क्रोधाद्वा लोभतो वापि स भवेल्लोकगर्हितः ॥ ६१ ॥

१२.६२
शैवीतदन्वयाभावे सोदको ब्रह्मदो नृपः ।
हरेयुः क्रमतो वित्तं मृतस्य शिवशासनात् ॥ ६२ ॥

१२.६३
पिण्डदात् सप्तपुरुषाः सपिण्डाः कथिताः प्रिये ।
सोदका दशमान्ताः स्युस्ततः केवलगोत्रजाः ॥ ६३ ॥

१२.६४
विभक्तं द्रविणं यच्च संसृष्टं स्वेच्छया तु चेत् ।
अविभक्तविधानेन भजेरंस्तद्धनं पुनः ॥ ६४ ॥

१२.६५
अविभक्ते विभक्ते वा यस्य यादृग्विभागिता ।
मृतेऽपि तस्य दायादास्तादृग्विभवभागिनः ॥ ६५ ॥

१२.६६
ये यस्य धनहर्तारो भवेयुर्जीवनावधि ।
दद्युः पिण्डं त एवाऽस्य शैवभार्यासुतं विना ॥ ६६ ॥

१२.६७
लोकेऽस्मिन् जन्मसम्बन्धाद् यथाऽशौचं विधीयते ।
धनभागित्वसम्बन्धात् त्रिरात्रं विहितं तथा ॥ ६७ ॥

१२.६८
पूर्णेऽशौचेऽथवाऽपूर्णे तत्कालाभ्यन्तरे श्रुते ।
श्रवणाच्छेषदिवसैर्विशुद्ध्येयुर्द्विजादयः ॥ ६८ ॥

१२.६९
कालातीते तु विज्ञाते खण्डेऽशौचं न विद्यते ।
पूर्णे त्रिरात्रं विहितं न चेत् संवत्सरात् परम् ॥ ६९ ॥

१२.७०
वर्षातीतेऽपि चेन्मातुः पितुर्वा मरणश्रुतौ ।
त्रिरात्रमशुचिः पुत्रस्तथा भर्तुः पतिव्रता ॥ ७० ॥

१२.७१
अशौचाभ्यन्तरे यस्मिन्नशौचान्तरमापतेत् ।
गुर्वशौचेन मर्त्यानां शुद्धिस्तत्र विधीयते ॥ ७१ ॥

१२.७२
अशौचानां गुरुत्वञ्च कालव्यापित्वगौरवात् ।
व्याप्यव्यापकयोर्मध्ये गरीयो व्यापकं स्मृतम् ॥ ७२ ॥

१२.७३
यद्यशौचान्तदिवसे पतेदपरसूतकम् ।
पूर्वाशौचेन शुद्धिः स्यादघवृद्ध्या दिनद्वयम् ॥ ७३ ॥

१२.७४
तावत् पितृकुलाशौचंयावन्नोद्वहनं स्त्रियाः ।
जातेपरिणये पित्रोर्मृतौ त्र्यहमुदाहृतम् ॥ ७४ ॥

१२.७५
विवाहानन्तरं नारी पतिगोत्रेण गोत्रिणी ।
तथा गृहीतृगोत्रेण दत्तपुत्रस्य गोत्रिता ॥ ७५ ॥

१२.७६
सुतमादाय सम्मत्या जनन्या जनकस्य च ।
स्वगोत्रनामान्युल्लिख्य संस्कुर्यात् स्वजनैः सह ॥ ७६ ॥

१२.७७
औरसेऽपि यथा पित्रोर्धने पिण्डेऽधिकारिता ।
आदात्रोर्दत्तके तद्वद्यतोऽस्य पितरौ हि तौ ॥ ७७ ॥

१२.७८
आपञ्चाब्दं शिशुं गृह्णन् सवर्णात् परिपालयेत् ।
पञ्चवर्षाधिको बालो दत्तको न प्रशस्यते ॥ ७८ ॥

१२.७९
भ्रातृपुत्रोऽपि दत्तश्चेद्गृहीतैव भवेत् पिता ।
उत्पादकः पितृव्यः स्यात् सर्वकर्मसु कालिके ॥ ७९ ॥

१२.८०
यो यस्य धनहर्ता स्यात् स तद्धर्माणि पालयेत् ।
संरक्षेन्नियमांस्तस्य तद्बन्धून् परितोषयेत् ॥ ८० ॥

१२.८१
कानीना गोलकाः कुण्डा अतिपातकिनश्च ये ।
नाऽशौचं मरणे तेषां नैव दायाधिकारिता ॥ ८१ ॥

१२.८२
लिङ्गच्छेदो दमो येषां यासां नासानिकृन्तनम् ।
महापातकिनाञ्चापि मृतौ नाऽशौचमाचरेत् ॥ ८२ ॥

१२.८३
नृणामुद्देशहीनानां परिवारान् धनान्यपि ।
पालयेद्रक्षयेद्राजा यावद्द्वादशवत्सरम् ॥ ८३ ॥

१२.८४
द्वादशाब्दे गते तेषां दर्भदेहान् विदाहयेत् ।
त्रिरात्रान्ते तत्सुताद्यैः प्रेतत्वं परिमोचयेत् ॥ ८४ ॥

१२.८५
ततस्तत्परिवारेभ्यः पुत्रादिक्रमतो धनम् ।
विभज्य नृपतिर्दद्यादन्यथा पातकी भवेत् ॥ ८५ ॥

१२.८६
न कोऽपि रक्षिता यस्य दीनस्याऽपद्गतस्य च ।
तस्यैव नृपतिः पाता यतो भूपः प्रजाप्रभुः ॥ ८६ ॥

१२.८७
यद्यागच्छेदनुद्दिष्टो विभागान्तेऽपि कालिके ।
तस्यैव दाराः पुत्राश्च धनं तस्यैव नान्यथा ॥ ८७ ॥

१२.८८
न समर्थः पुमान् दातुं पैतृकं स्थावरञ्च यत् ।
स्वजनायाऽथवाऽन्यस्मै दायादानुमतिं विना ॥ ८८ ॥

१२.८९
यत्तु स्वोपार्जितं रिक्थं स्थावरं स्थावरेतरम् ।
अस्थावरं पैतृकं च स्वेच्छया दातुमर्हति ॥ ८९ ॥

१२.९०
स्थिते पुत्रेऽथवा पत्न्यां कन्यायां तत्सुतेऽपि वा ।
जनके च जनन्यां वा भ्रातर्येवं स्वसर्यपि ॥ ९० ॥

१२.९१
स्वार्जितं स्थावरधनमस्थावरधनञ्च यत् ।
अस्थावरं पैतृकञ्च दातुं सर्वं क्षमो भवेत् ॥ ९१ ॥

१२.९२
धनमेवं विधानेन दत्तं वा धर्मसात्कृतम् ।
पुंसा तदन्यथा कर्तुं पुत्राद्यैर्नैव शक्यते ॥ ९२ ॥

१२.९३
धर्मार्थं स्थापितं रिक्थं दाता रक्षितुमर्हति ।
न प्रभुः पुनरादातुं धर्मो ह्यस्य यतः प्रभुः ॥ ९३ ॥

१२.९४
मूलं वा तदुपस्वत्वं यथासङ्कल्पमम्बिके ।
स्वयं वा तत्प्रतिनिधिर्धर्मार्थं विनियोजयेत् ॥ ९४ ॥

१२.९५
स्वोपार्जितधनस्यार्धं दायादायाऽपि चेत् धनी ।
दद्यात् स्नेहेन तच्चान्यो नान्यथा कर्तुमर्हति ॥ ९५ ॥

१२.९६
यदि स्वोपार्जितस्यार्धमेकस्मै धनहारिणाम् ।
ददात्यन्यैश्च दायादैः प्रतिरोद्धुं न शक्यते ॥ ९६ ॥

१२.९७
एकेन पितृवित्तेन यत्र वित्तमुपार्जितम् ।
पित्र्ये समांशा दायादा न लाभार्हा विनाऽर्जकम् ॥ ९७ ॥

१२.९८
पैतृकाणि च वित्तानि नष्टेऽप्युद्धारयेत्तु यः ।
दायादानां तद्धनेभ्य उद्धर्ता द्व्यंशमर्हति ॥ ९८ ॥

१२.९९
पुण्यं वित्तं च विद्या च नाश्रयेदशरीरिणम् ।
शरीरन्तु पितुर्यस्मात् किन्न स्यात् पैतृकं वसु ॥ ९९ ॥

१२.१००
पृथगन्नैः पृथग्वित्तैर्मनुजैर्यदुपार्जितम् ।
सर्वं तत् पितृसंक्रान्तं तदा स्वोपार्जितं कुतः ॥ १०० ॥

१२.१०१
अतो महेशि स्वायासैर्येन यद्धनमर्जितम् ।
स्वोपार्जितं तदेव स्यात् स तत्स्वामी न चापरः ॥ १०१ ॥

१२.१०२
मातरं पितरं देवि गुरुं चैव पितामहान् ।
मातामहान् करेणापि प्रहरन्नैव दायभाक् ॥ १०२ ॥

१२.१०३
निघ्नन्नन्यानपि प्राणैर्न तेषां धनमाप्नुयात् ।
हतानामन्यदायादा भवेयुर्धनभागिनः ॥ १०३ ॥

१२.१०४
नपुंसकाः पङ्गवश्च ग्रासाच्छादनमम्बिके ।
यावज्जिवनमर्हन्ति न ते स्युर्दायभागिनः ॥ १०४ ॥

१२.१०५
सस्वामिकं प्राप्तधनं पथि वा यत्र कुत्रचित् ।
नृपस्तत्स्वामिने प्राप्त्रा दापयेत् सुविचारयन् ॥ १०५ ॥

१२.१०६
अस्वामिकानां जीवानामस्वामिकधनस्य च ।
प्राप्ता तत्र भवेत् स्वामी दशमांशं नृपेऽर्पयेत् ॥ १०६ ॥

१२.१०७
स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्तिनि ।
योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः ॥ १०७ ॥

१२.१०८
सान्निध्यवर्तिनां ज्ञातिः सवर्णो वा विशिष्यते ।
तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी ॥ १०८ ॥

१२.१०९
निर्णीतमूल्येऽप्यन्येन स्थावरस्य क्रयोद्यमे ।
तन्मूल्यं चेत् समीपस्थो राति क्रेता न चापरः ॥ १०९ ॥

१२.११०
मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा ।
सन्निधिस्थस्तदाऽन्यस्मै गृही शक्तोऽतिविक्रये ॥ ११० ॥

१२.१११
क्रीतं चेत् स्थावरं देवि परोक्षे प्रतिवासिनः ।
श्रवणादेव तन्मूल्यं दत्त्वाऽसौ प्राप्तुमर्हति ॥ १११ ॥

१२.११२
क्रेता तत्र गृहारामान् विनिर्माति भनक्ति वा ।
मूल्यं दत्त्वापि नाप्नोति स्थावरं सन्निधिस्थितः ॥ ११२ ॥

१२.११३
करहीनाऽप्रतिहता वन्यारण्यातिदुर्गमा ।
अनादिष्टोऽपि तां भूमिं सम्पन्नां कर्तुमर्हति ॥ ११३ ॥

१२.११४
बहुप्रयाससाध्यायास्तस्या भूमिर्महीभृते ।
दत्त्वा दशांशं भुञ्जीयात् भूमिस्वामी यतो नृपः ॥ ११४ ॥

१२.११५
वापीकूपतडागानां खननं वृक्षरोपणम् ।
परानिष्टकरे देशे न गृहं कर्तुमर्हति ॥ ११५ ॥

१२.११६
देवार्थं दत्तकूपादौ तथा स्रोतस्वतीजले ।
पानाधिकारिणः सर्वे सेचनेऽन्तिकवासिनः ॥ ११६ ॥

१२.११७
यत्तोयसेचनाल्लोका भवेयुर्जलकातराः ।
न सिञ्चेयुर्जलं तस्मादपि सन्निधिवर्तिनः ॥ ११७ ॥

१२.११८
धनानामविभक्तनामंशिनां सम्मतिं विना ।
तथाऽनिर्णीतवित्तानामसिद्धौ न्यासविक्रयौ ॥ ११८ ॥

१२.११९
स्थाप्यानां बद्धवित्तानां ज्ञानान्नष्टेऽप्ययत्नतः ।
तन्मूल्यं दापयेत्तेन स्वामिने सर्वर्था नृपः ॥ ११९ ॥

१२.१२०
अभिमत्या स्थापकस्य पश्वादिन्यस्तवस्तुनाम् ।
व्यवहारे कृते तत्र धार्ता सम्पोषयेत् पशून् ॥ १२० ॥

१२.१२१
लाभे नियोजयेद्द्यत्र स्थावरादीनि मानवः ।
नियमेन विना काललाभयोरन्यथा भवेत् ॥ १२१ ॥

१२.१२२
साधारणानि वस्तूनि लाभार्थं नैव योजयेत् ।
मृते पितरि सर्वेषामंशिनां सम्मतिं विना ॥ १२२ ॥

१२.१२३
क्रमव्यत्ययमूल्येन द्रव्याणां विक्रये सति ।
नृपस्तदन्यथा कर्तुं क्षमो भवति पार्वति ॥ १२३ ॥

१२.१२४
जननञ्चापि मरणं शरीराणां यथा सकृत् ।
दानं तथैव कन्याया ब्राह्मोह्वाहः सकृत् सकृत् ॥ १२४ ॥

१२.१२५
नैकपुत्रः सुतं दद्यान्नैकस्त्रीकस्तथा स्त्रियम् ।
नैककन्यः सुतां शैवोद्वाहे पितृहितः पुमान् ॥ १२५ ॥

१२.१२६
दैवे पित्र्ये च वाणिज्ये राजद्वारे विशेषतः ।
यद्विदध्यात् प्रतिनिधिस्तन्नियन्तुः कृतिर्भवेत् ॥ १२६ ॥

१२.१२७
न दण्डार्हः प्रतिनिधिस्तथा दूतोऽपि सुव्रते ।
नियोक्तृकृतदोषेण विधिरेष सनातनः ॥ १२७ ॥

१२.१२८
ऋणे कृषौ च वाणिज्ये तथा सर्वेषु कर्मसु ।
यद्यदङ्गीकृतं लोकैस्तत्कार्यं धर्मसम्मतम् ॥ १२८ ॥

१२.१२९
अधीशेनावितं विश्वं नाशं यान्ति निनंक्षवः ।
तत्पातॄन् पाति विश्वेशस्तस्माल्लोकहितो भवेत् ॥ १२९ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे सनातनव्यवहारकथनं नाम द्वादशोल्लासः ।

Kapitel १३

Die kosmische Ordnung gehört zur Symbolwelt der Weihe-Rituale.

१३.१
इति निगदितवन्तं देवदेवं महेशं निखिलनिगमसारं स्वर्गमोक्षैकबीजम् ।
कलिमलकलितानां पावनैकान्तचित्ता त्रिभुवनजनमाता पार्वती प्राद्द भक्त्या ॥ १ ॥

१३.२
देव्युवाच ।
महद्योनेरादिशक्तेर्महाकाल्या महाद्युतेः ।
सूक्ष्मातिसूक्ष्मभूतायाः कथं रूपनिरूपणम् ॥ २ ॥

१३.३
रूपं प्रकृतिकार्याणां सा तु साक्षात् परात्परा ।
एतन्मे संशयं देव विशेषाच्छेत्तुमर्हसि ॥ ३ ॥

१३.४
श्रीसदाशिव उवाच ।
उपासकानां कार्याय पुरैव कथितं प्रिये ।
गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् ॥ ४ ॥

१३.५
श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते ।
प्रविशन्ति तथा काल्यां सर्वभूतानि शैलजे ॥ ५ ॥

१३.६
अतस्तस्याः कालशक्तेर्निर्गुणाया निराकृतेः ।
हितायाः प्राप्तयोगानां वर्णः कृष्णो निरूपितः ॥ ६ ॥

१३.७
नित्यायाः कालरूपाया अव्ययायाः शिवात्मनः ।
अमृतत्वाल्ललाटेऽस्याः शशिचिह्नं निरूपितम् ॥ ७ ॥

१३.८
शशिसूर्याग्निभिर्नित्यैरखिलं कालिकं जगत् ।
सम्पश्यति यतस्तस्मात् कल्पितं नयनत्रयम् ॥ ८ ॥

१३.९
ग्रसनात् सर्वसत्त्वानां कालदन्तेन चर्वणात् ।
तद्रक्तसङ्घो देवेश्याः वासोरूपेण भाषितम् ॥ ९ ॥

१३.१०
समये समये जीवरक्षणं विपदः शिवे ।
प्रेरणं स्वस्वकार्येषु वरश्चाभयमीरितम् ॥ १० ॥

१३.११
रजोजनितविश्वानि विष्टभ्य परितिष्ठति ।
अतो हि कथितं भद्रे रक्तपद्मासनस्थिता ॥ ११ ॥

१३.१२
क्रीडन्तं कालिकं कालं पीत्वा मोहमयीं सुराम् ।
पश्यन्ती चिन्मयी देवी सर्वसाक्षिस्वरूपिणी ॥ १२ ॥

१३.१३
एवं गुणानुसारेण रूपाणि विविधानि च ।
कल्पितानि हितार्थाय भक्तानामल्पमेधसाम् ॥ १३ ॥

१३.१४
श्रीदेव्युवाच ।
ध्यानं यत् कथितं काल्या जीवनिस्तारहेतवे ।
तस्यानुरूपतो मूर्तिं मृण्मयीं वा शिलामयीम् ॥ १४ ॥

१३.१५
दारुधातुमयीं वापि निर्माय यदि साधकः ।
विचित्रभवनं कृत्वा वस्त्रालङ्कारभूषिताम् ।
स्थापयेत्तत्र देवेशीं किं फलं तस्य जायते ॥ १५ ॥

१३.१६
प्रतिष्ठा केन विधिना तस्याः प्रतिकृतेः प्रभो ।
कर्तव्या तदशेषेण कृपया मे प्रकाश्यताम् ॥ १६ ॥

१३.१७
वापीकूपगृहारामदेवप्रतिकृतेस्तथा ।
प्रतिष्ठा सूचिता पूर्वं गदिता न विशेषतः ॥ १७ ॥

१३.१८
तद्विधानमपि श्रोतुमिच्छामि त्वन्मुखाम्बुजात् ।
कथ्यतां परमेशान कृपया यदि रोचते ॥ १८ ॥

१३.१९
श्रीसदाशिव उवाच ।
गुह्यमेतत् परं तत्त्वं यत् पृष्टं परमेश्वरि ।
कथयामि तव स्नेहात् समाहितमनाः शृणु ॥ १९ ॥

१३.२०
सकामाश्चैव निष्कामा द्विविधा भुवि मानवाः ।
अकामानां पदं मोक्षः कामिनां फलमुच्यते ॥ २० ॥

१३.२१
यो यद्देवप्रतिकृतिं प्रतिष्ठापयति प्रिये ।
स तल्लोकमवाप्नोति भोगानपि तदुद्भवान् ॥ २१ ॥

१३.२२
मृण्मये प्रतिबिम्बे तु वसेत् कल्पायुतं दिवि ।
दारुपाषाणधातूनां क्रमाद्दशगुणाधिकम् ॥ २२ ॥

१३.२३
तृणकाष्ठादिरचितं ध्वजवाहनसंयुतम् ।
मन्दिरं देवमुद्दिश्य काममुद्दिश्य वा नरः ।
संस्कुर्यादुत्सृजेद्वापि तस्य पुण्यं निशामय ॥ २३ ॥

१३.२४
तृणादिनिर्मितं गेहं यो दद्यात् परमेश्वरि ।
वर्षकोटिसहस्राणि स वसेद्देववेश्मनि ॥ २४ ॥

१३.२५
इष्टकागृहदाने तु तस्माच्छतगुणं फलम् ।
ततोऽयुतगुणं पुण्यं शिलागेहप्रदानतः ॥ २५ ॥

१३.२६
सेतुसङ्क्रमदाताऽद्ये यमलोकं न पश्यति ।
सुखं सुरालयं प्राप्य मोदते स्वर्निवासिभिः ॥ २६ ॥

१३.२७
वृक्षारामप्रतिष्ठाता गत्वा त्रिदशमन्दिरम् ।
कल्पपादपवृन्देषु निवसन् दिव्यवेश्मनि ।
भुङ्क्ते मनोरमान् भोगान् मनसो यानभीप्सितान् ॥ २७ ॥

१३.२८
प्रीतये सर्वसत्त्वानां ये प्रदद्युर्जलाशयम् ।
विधूतपापास्ते प्राप्य ब्रह्मलोकमनामयम् ।
निवसेयुः शतं वर्षानम्भसां प्रतिशीकरम् ॥ २८ ॥

१३.२९
यो दद्याद्वाहनं देवि देवताप्रीतिकारकम् ।
स तेन रक्षितो नित्यं तल्लोके निवसेच्चिरम् ॥ २९ ॥

१३.३०
मृण्मये वाहने दत्ते यत् फलं जायते भुवि ।
दारुजे तद्दशगुणं शिलाजे तद्दशाधिकम् ॥ ३० ॥

१३.३१
रिन्तिका कांस्यताम्रादिनिर्मिते देववाहने ।
दत्ते फलमवाप्नोति क्रमात् शतगुणाधिकम् ॥ ३१ ॥

१३.३२
देव्यागारे महासिंहं वृषभं शङ्करालये ।
गरुडं कैशवे गेहे प्रदद्यात् साधकोत्तमः ॥ ३२ ॥

१३.३३
तीक्ष्णदंष्ट्रः करालास्यः शटाशोभितकन्धरः ।
चतुरङ्घ्रिर्वज्रनखो महासिंहः प्रकीर्तितः ॥ ३३ ॥

१३.३४
शृङ्गायुधः शुद्धकायः चतुष्पादसितक्षुरः ।
बृहत्ककुत् कृष्णपुच्छः श्यामस्कन्धो वृषः स्मृतः ॥ ३४ ॥

१३.३५
गरुडः पक्षिजङ्घस्तु नरास्यो दीर्घनासिकः ।
पादसङ्कोचसंविष्टः पक्षयुक्तः कृताञ्जलिः ॥ ३५ ॥

१३.३६
पताकाध्वजदानेन देवप्रीतिः शतं समाः ।
ध्वजदण्डस्तु कर्तव्यो द्वात्रिंशद्धस्तसम्मितः ॥ ३६ ॥

१३.३७
सुदृढश्छिररहितः सरलः शुभदर्शनः ।
वेष्टितो रक्तवस्त्रेण कोटौ चक्रसमन्वितः ॥ ३७ ॥

१३.३८
पताका तत्र संयोज्या तत्तद्वाहनचिह्निता ।
प्रशस्तमूला सूक्ष्माग्रा दिव्यवस्त्रविनिर्मिता ।
शोभमाना ध्वजाग्रे या पताका सा प्रकीर्तिता ॥ ३८ ॥

१३.३९
वासोभूषणपर्यङ्कयानसिंहासनानि च ।
पानप्राशनताम्बूलभाजनानि पतद्ग्रहम् ॥ ३९ ॥

१३.४०
मणिमुक्ताप्रवालादिरत्नान्यात्मप्रियञ्च यत् ।
यो दद्याद्देवमुद्दिश्य श्रद्धाभक्तिसमन्वितः ।
स तल्लोकं समासाद्य तत्तत्कोटिगुणं लभेत् ॥ ४० ॥

१३.४१
कामिनां फलमित्युक्तं क्षयिष्णुः स्वप्नराज्यवत् ।
निष्कामानान्तु निर्वाणं पुनरावृत्तिवर्जितम् ॥ ४१ ॥

१३.४२
जलाशयगृहारामसेतुसंक्रमशाखिनाम् ।
देवतानां प्रतिष्ठायां वास्तुदैत्यं प्रपूजयेत् ॥ ४२ ॥

१३.४३
अनर्चयित्वा यो वास्तुं कुर्यात् कर्माणि मानवः ।
विघ्नं तस्याऽचरेद्वास्तुः परिवारगणैः सह ॥ ४३ ॥

१३.४४
कपिलास्यः पिङ्गकेशो भीषणो रक्तलोचनः ।
कोटराक्षो लम्बकर्णो दीर्घजङ्घो महोदरः ॥ ४४ ॥

१३.४५
अश्वतुण्डः काककण्ठो वज्रबाहुर्व्रतान्तकः ।
एते परिकरा वास्तोः पूजनीयाः प्रयत्नतः ॥ ४५ ॥

१३.४६
मण्डलं शृणु वक्ष्यामि यत्र वास्तुं प्रपूजयेत् ॥ ४६ ॥

१३.४७
वेद्यां वा समदेशे वा शस्ताद्भिरुपलेपिते ।
वायवीशकोणयोर्मध्ये हस्तमात्रप्रमाणतः ॥ ४७ ॥

१३.४८
सूत्रपातक्रमेणैव रेखामेकां प्रकल्पयेत् ।
ईशानादग्निपर्यन्तमपरां रचयेत्तथा ॥ ४८ ॥

१३.४९
आग्नेयान्नैरृतं यावत् नैरृताद्वायवावधि ।
दत्त्वा रेखे चतुष्कोणमेकं मण्डलमालिखेत् ॥ ४९ ॥

१३.५०
कोणसूत्रे पातयित्वा चतुर्धा विभजेत्तु तत् ।
यथा तत्र भवेद्देवि मत्स्यपुच्छचतुष्टयम् ॥ ५० ॥

१३.५१
ततो भित्वा पुच्छमूलं वारुणाद्वासवावधि ।
कौबेराद् याम्यपर्यन्तं दद्याद्रेखाद्वयं सुधीः ॥ ५१ ॥

१३.५२
ततश्चतुर्षु कोणेषु कोणरेखान्वितेष्वपि ।
कर्णाकर्णिप्रयोगेण न्यसेद्रेखाचतुष्टयम् ॥ ५२ ॥

१३.५३
एवं सङ्केतविधिना कोष्ठानां षोडशं लिखन् ।
पञ्चवर्णेन चूर्णेन रचयेद्यन्त्रमुत्तमम् ॥ ५३ ॥

१३.५४
चतुर्षु मध्यकोष्ठेषु पद्मं कुर्यात् मनोहरम् ।
चतुर्दलं पीतरक्तकर्णिकं रक्तकेसरम् ॥ ५४ ॥

१३.५५
दलानि शुक्लवर्णानि यद्वा पीतानि कल्पयेत् ।
यथेष्टं पूरयेत् पद्मसन्धिस्थानानि वर्णकैः ॥ ५५ ॥

१३.५६
शाम्भवं कोष्ठमारभ्य कोष्ठानां द्वादशं क्रमात् ।
श्वेतकृष्णपीतरक्तैश्चतुर्वर्णैः प्रपूरयेत् ॥ ५६ ॥

१३.५७
दक्षिणावर्तयोगेन कोष्ठानां पूरणं प्रिये ।
वामावर्तेन देवानां पूजनं तेषु साधयेत् ॥ ५७ ॥

१३.५८
पद्मे समर्चयेद्वास्तुदैत्यं विघ्नोपशान्तये ।
ईशादिद्वादशे कोष्ठे कपिलास्यादिदानवान् ॥ ५८ ॥

१३.५९
कुशण्डिकोक्तविधिना कुर्वन्ननलसंस्कृतिम् ।
यथाशक्त्याऽहुतिं दत्त्वा वास्तुयज्ञं समापयेत् ॥ ५९ ॥

१३.६०
इति ते कथिता देवि वास्तुपूजा शुभप्रदा ।
यां साधयन्नरः क्वापि वास्तुविघ्नैर्न बाध्यते ॥ ६० ॥

१३.६१
देव्युवाच ।
मण्डलं कथितं वास्तोर्विधानमपि पूजने ।
ध्यानं न गदितं नाथ तदिदानीं प्रकाशय ॥ ६१ ॥

१३.६२
श्रीसदाशिव उवाच ।
ध्यानं वच्मि महेशानि श्रूयतां वास्तुरक्षसः ।
यस्यानुशीलनात् सद्यो नश्यन्ति सकलापदः ॥ ६२ ॥

१३.६३
चतुर्भुजं महाकायं जटामण्डितमस्तकम् ।
त्रिलोचनं करालास्यं हारकुण्डलशोभितम् ॥ ६३ ॥

१३.६४
लम्बोदरं दीर्घकर्णं लोमशं पीतवाससम् ।
गदात्रिशूलपरशुखट्वाङ्गं दधतं करैः ॥ ६४ ॥

१३.६५
असिचर्मधरैर्वीरैः कपिलास्यादिभिर्वृतम् ।
शत्रूणामन्तकं साक्षादुद्यदादित्यसन्निभम् ॥ ६५ ॥

१३.६६
ध्यायेद्देवं वास्तुपतिं कूर्मपद्मासनस्थितम् ।
मारीभये रोगभये डाकिन्यादिभये तथा ॥ ६६ ॥

१३.६७
औत्पातिकापत्यदोषे व्यालरक्षोभयेऽपि च ।
ध्यात्वैवं पूजयेद्वास्तुं परिवारसमन्वितम् ॥ ६७ ॥

१३.६८
तिलाज्यपायसैर्हुत्वा सर्वशान्तिमवाप्नुयात् ।
यथा वास्तुः पूजनीयः प्रोक्तकर्मसु सुव्रते ॥ ६८ ॥

१३.६९
ग्रहाश्चापि तथा पूज्या दशदिक्पतिभिर्युताः ।
ब्रह्मा विष्णुश्च रुद्रश्च वाणी लक्ष्मीश्च शङ्करी ॥ ६९ ॥

१३.७०
मातरः सगणेशाश्च सम्पूज्या वसवस्तथा ।
पितरो यद्यतृप्ताः स्युः कर्मस्वेतेषु कालिके ॥ ७० ॥

१३.७१
सर्वं तस्य भवेद्व्यर्थं विघ्नञ्चापि पदे पदे ।
अतो महेशि यत्नेन प्रोक्तसंस्कारकर्मसु ॥ ७१ ॥

१३.७२
पितॄणां तृप्तयेऽत्राऽभ्युदयिकं श्राद्धमाचरेत् ।
ग्रहयन्त्रं प्रवक्ष्यामि सर्वशान्तिविधायकम् ॥ ७२ ॥

१३.७३
यत्र सम्पूजिताः सेन्द्रा ग्रहा यच्छन्ति वाञ्छितम् ।
त्रित्रिकोणैर्लिखेद्यन्त्रं तद्वहिर्वृत्तमालिखेत् ॥ ७३ ॥

१३.७४
विदध्याद्वृत्तलग्नानि दलान्यष्टौ च तद्बहिः ।
चतुर्द्वारान्वितं कुर्यात् भूपुरं सुमनोहरम् ॥ ७४ ॥

१३.७५
वासवेशानयोर्मध्ये भूपुरस्य बहिःस्थले ।
वृत्तं विरचयेदेकं प्रादेशपरिमाणकम् ॥ ७५ ॥

१३.७६
रक्षोवारुणयोर्मध्ये चापरं कल्पयेत्तथा ॥ ७६ ॥

१३.७७
नवग्रहाणां वर्णेन नवकोणानि पूरयेत् ।
मध्यत्रिकोणद्वौ पार्श्वौ सव्यदक्षिणभेदतः ॥ ७७ ॥

१३.७८
श्वेतपीतौ विधातव्यौ पृष्ठभागः सितेतरः ।
अष्टदिक्पतिवर्णेन पर्णान्यष्टौ प्रपूरयेत् ॥ ७८ ॥

१३.७९
सितरक्तासितैश्चूर्णैः पुरः प्राकारमाचरेत् ।
पुरो बहिःस्थे द्वे वृत्ते देवि प्रादेशसम्मिते ॥ ७९ ॥

१३.८०
उपर्यधःक्रमेणैव रक्तश्वेते विधाय च ।
सन्धिस्थानानि यन्त्रस्य स्वेच्छया रंजयेत् सुधीः ॥ ८० ॥

१३.८१
यत्कोष्ठे यो ग्रहः पूज्यो यत्पत्रे यश्च दिक्पतिः ।
यद्द्वारेऽवस्थिता ये च तत्क्रमं शृणु साम्प्रतम् ॥ ८१ ॥

१३.८२
मध्यकोणे यजेत् सूर्यं पार्श्वयोररुणं शिखाम् ।
पश्चात् प्रचण्डयोर्दण्डौ पूजयेदंशुमालिनः ॥ ८२ ॥

१३.८३
भानूर्ध्वकोणे पूर्वस्यामर्चयेद्रजनीकरम् ।
आग्नेये मङ्गलं याम्ये बुधं नैरृतकोणके ॥ ८३ ॥

१३.८४
बृहस्पतिं वारुणे च दैत्याचार्यं प्रपूजयेत् ।
शनैश्चरं तु वायव्ये कौवेरेशानयोः क्रमात् ।
राहुं केतुं यजेत् चन्द्रं परितस्तारकागणान् ॥ ८४ ॥

१३.८५
सूरो रक्तः शशी शुक्लो मङ्गलोऽरुणविग्रहः ।
बुधजीवौ पाण्डुपीतौ श्वेतः शुक्रोऽसितः शनिः ।
राहुकेतू विचित्राभौ ग्रहवर्णाः प्रकीर्तिताः ॥ ८५ ॥

१३.८६
चतुर्भुजं रविं ध्यायेत् पद्मद्वयवराभयैः ।
चिन्तयेच्छशिनं दानमुद्रामृतकराम्बुजम् ॥ ८६ ॥

१३.८७
कुजमीषत्कुब्जतनुं हस्ताभ्यां दण्डधारिणम् ।
ध्यायेत् सोमात्मजं बालं भाललोलितकुन्तलम् ॥ ८७ ॥

१३.८८
यज्ञसूत्रान्वितं ध्यायेत् पुस्तकाक्षकरं गुरुम् ।
एवं दैत्यगुरुञ्चापि काणं खञ्जं शनैश्चरम् ॥ ८८ ॥

१३.८९
राहुकेतू शिरःकायौ विकृतौ क्रूरचेष्टितौ ।
स्वैः स्वैर्ध्यानैर्ग्रहानिष्ट्वा यजेदिन्द्रादिदिक्पतीन् ॥ ८९ ॥

१३.९०
दलेष्वष्टसु पूर्वादिक्रमतः साधकोत्तमः ।
सहस्राक्षं यजेदादौ पीतकौषेयवाससम् ॥ ९० ॥

१३.९१
वज्रपाणिं पीतरुचिं स्थितमैरावतोपरि ।
रक्ताभं छागवाहस्थं शक्तिहस्तं हुताशनम् ॥ ९१ ॥

१३.९२
ध्यायेत् कालं लुलापस्थं दण्डिनं कृष्णविग्रहम् ।
निरृतिं खड्गहस्तञ्च श्यामलं वाजिवाहनम् ॥ ९२ ॥

१३.९३
वरुणं मकरारूढं पाशहस्तं सितप्रभम् ।
ध्यायेत् कृष्णत्विषं वायुं मृगस्थञ्चाङ्कुशायुधम् ॥ ९३ ॥

१३.९४
कुबेरं कनकाकारं रत्नसिंहासनस्थितम् ।
स्तुतं यक्षगणैः सर्वैः पाशाङ्कुशकराम्बुजम् ॥ ९४ ॥

१३.९५
ईशानं वृषभारूढं त्रिशूलवरधारिणम् ।
व्याघ्रचर्माम्बरधरं पूर्णेन्दुसदृशप्रभम् ॥ ९५ ॥

१३.९६
ध्यात्वा चैतान् क्रमादिष्ट्वा ब्रह्मानन्तौ पुरो बहिः ।
ऊर्ध्वाधोवृत्तयोरर्च्यौ ततोऽर्च्या द्वारदेवताः ॥ ९६ ॥

१३.९७
उग्रो भीमः प्रचण्डेशौ पूर्वद्वाःस्थाः प्रकीर्तिताः ।
जयन्तः क्षेत्रपालश्च नकुलेशो बृहच्छिराः ।
याम्यद्वारे पश्चिमे च वृकाश्वानन्ददुर्जयाः ॥ ९७ ॥

१३.९८
त्रिशिराः पुरजिच्चैव भीमनादो महोदरः ।
उत्तरद्वारपाश्चैते सर्वे शस्त्रास्त्रपाणयः ॥ ९८ ॥

१३.९९
श्रूयतां ब्रह्मणो ध्यानमनन्तस्यापि सुव्रते ॥ ९९ ॥

१३.१००
रक्तोत्पलनिभो ब्रह्मा चतुरास्यश्चतुर्भुजः ।
हंसारूढो वराभीतिमालापुस्तकपाणिकः ॥ १०० ॥

१३.१०१
हिमकुन्देन्दुधवलः सहस्राक्षः सहस्रपात् ।
सहस्रपाणिवदनो ध्येयोऽनन्तः सुरासुरैः ॥ १०१ ॥

१३.१०२
ध्यानं पूजाक्रमश्चापि यन्त्रञ्च कथितं प्रिये ।
वास्त्वादिक्रमतो ह्येषां मन्त्रानपि शृणु प्रिये ॥ १०२ ॥

१३.१०३
क्षकारो हव्यवाहस्थः षड्दीर्घस्वरसंयुतः ।
भूषितो नादबिन्दुभ्यां वास्तुमन्त्रः षडक्षरः ॥ १०३ ॥

१३.१०४
तारं मायां तीग्मरश्मे ङेऽन्तमारोग्यदं वदेत् ।
वह्निजायां ततो दत्त्वा सूर्यमन्त्रं समुद्धरेत् ॥ १०४ ॥

१३.१०५
कामो माया च वाणी च ततोऽमृतकरेति च ।
अमृतं प्लावय द्वन्दं स्वाहा सोममनुर्मतः ॥ १०५ ॥

१३.१०६
ऐं ह्रां ह्रीं सर्वपदाद्दुष्टान्नाशय नाशय ।
स्वाहावसानो मन्त्रोऽयं मङ्गलस्य प्रकीर्तितः ॥ १०६ ॥

१३.१०७
ह्रीं श्रीं सौम्यपदञ्चोक्त्वा सर्वान् कामां स्ततो वदेत् ।
पूरयाऽन्ते वह्निकान्तामेष सोमात्मजे मनुः ॥ १०७ ॥

१३.१०८
तारेण पुटिता वाणी ततः सुरगुरोपदम् ।
अभीष्टं यच्छ यच्छेति स्वाहामन्त्रो बृहस्पतेः ॥ १०८ ॥

१३.१०९
शां शीं शूं शैं ततः शौं शंः शुक्रमन्त्रः समीरितः ॥ [१०९] ॥

१३.११०
ह्रां ह्रां ह्रीं ह्रीं सर्वशत्रून् विद्रावय पदद्वयम् ।
मार्तण्डसूनवे पश्चात् नमो मन्त्रः शनैश्चरे ॥ ११० ॥

१३.१११
रां ह्रौं भ्रौं ह्रीं सोमशत्रो शत्रून् विध्वंसय द्वयम् ।
राहवे नम इत्येष राहोर्मनुरुदाहृतः ॥ १११ ॥

१३.११२
क्रूं ह्रं क्रैं केतवे स्वाहा केतोर्मन्त्रः प्रकीर्तितः ॥ ११२ ॥

१३.११३
लं रं मृं स्त्रूं वं यमिति क्षं हौं ब्रीममिति क्रमात् ।
इन्द्राद्यनन्तदिक्पानां दशमन्त्राः समीरिताः ॥ ११३ ॥

१३.११४
अन्येषां परिवारणां नाममन्त्राः प्रकीर्तिताः ।
अनुक्तमन्त्रे सर्वत्र विधिरेष शिवोदितः ॥ ११४ ॥

१३.११५
नमोऽन्तमन्त्रे देवेशि न नमो योजयेद् बुधः ।
स्वाहान्तेऽपि तथामन्त्रे न दद्याद्वह्निवल्लभाम् ॥ ११५ ॥

१३.११६
ग्रहादिभ्यः प्रदातव्यं पुष्पं वासश्च भूषणम् ।
तेषां वर्णानुरूपेण नान्यथा प्रीतये भवेत् ॥ ११६ ॥

१३.११७
कुशण्डिकोक्तविधिना वह्निं संस्थापयन् सुधीः ।
पुष्पैरुच्चावचैर्यद्वा समिद्भिर्होममाचरेत् ॥ ११७ ॥

१३.११८
शान्तिकर्मणि पुष्टौ च वरदो हव्यवाहनः ।
प्रतिष्ठायां लोहिताक्षः शत्रुहा क्रूरकर्मणि ॥ ११८ ॥

१३.११९
शान्तौ पुष्टौ महेशानि तथा क्रूरेऽपि कर्मणि ।
ग्रहयागं प्रकुर्वाणो वाच्छितार्थमवाप्नुयात् ॥ ११९ ॥

१३.१२०
यथा प्रतिष्ठाकार्येषु देवार्चा पितृतर्पणम् ।
वास्तोर्यागे ग्रहाणाञ्च तद्वदेव विधीयते ॥ १२० ॥

१३.१२१
यद्येकस्मिन् दिने द्विस्त्रिः प्रतिष्ठा यागकर्म च ।
तन्त्रेण तत्र देवार्चा पितृश्राद्धाग्निसंस्क्रियाः ॥ १२१ ॥

१३.१२२
जलाशयगृहारामसेतुसंक्रमशाखिनः ।
वाहनासनयानानि वासोऽलङ्करणानि च ॥ १२२ ॥

१३.१२३
पानाशनीयपात्राणि देयवस्तूनि यान्यपि ।
असंस्कृतानि देवाय न प्रदद्युः फलेप्सवः ॥ १२३ ॥

१३.१२४
काम्ये कर्मणि सर्वत्र बुधः सङ्कल्पमाचरेत् ।
विधिवाक्यानुसारेण सम्पूर्णसुकृताप्तये ॥ १२४ ॥

१३.१२५
संस्कृताभ्यर्चितं द्रव्यं नामोच्चारणपूर्वकम् ।
सम्प्रदानाभिधाञ्चोक्त्वा दत्त्वा सम्यक् फलं लभेत् ॥ १२५ ॥

१३.१२६
जलाशयगृहारामसेतुसंक्रमशाखिनाम् ।
कथ्यन्ते प्रोक्षणे मन्त्राः प्रयोज्या ब्रह्मविद्यया ॥ १२६ ॥

१३.१२७
जीवनाधार जीवानां जीवनप्रद वारुण ।
प्रोक्षणे तव तृप्यन्तु जलभूचरखेचराः ॥ १२७ ॥

१३.१२८
तृणकाष्ठादिसम्भूत वासेय ब्रह्मणः प्रिय ।
त्वां प्रोक्षयामि तोयेन प्रीतये भव सर्वदा ॥ १२८ ॥

१३.१२९
इष्ठकादिसमुद्भूत वक्तव्यन्त्विष्टकामये ॥ १२९ ॥

१३.१३०
फलैः पत्रैश्च शाखाद्यैश्छायाभिश्च प्रियङ्कराः ।
यच्छन्तु मेऽखिलान् कामान् प्रोक्षितास्तीर्थवारिभिः ॥ १३० ॥

१३.१३१
सेतुस्त्वं भवसिन्धूनां पारदः पथिकप्रियः ।
मया संप्रोक्षितः सेतो यथोक्तफलदो भव ॥ १३१ ॥

१३.१३२
संक्रम त्वां प्रोक्षयामि लोकानां संक्रमं यथा ।
ददासीह तथा स्वर्गे संक्रमो मे प्रदीयताम् ॥ १३२ ॥

१३.१३३
आरामप्रोक्षणे मन्त्रो य एव कथितः प्रिये ।
स एव शाखिसंस्कारे प्रयोक्तव्यो मनीषिभिः ॥ १३३ ॥

१३.१३४
प्रणवो वारुणञ्चाऽस्त्रं बीजत्रितयमम्बिके ।
सर्वसाधारणद्रव्यप्रोक्षणे विनियोजयेत् ॥ १३४ ॥

१३.१३५
स्नापनार्हं वाहनं चेत् स्नापयेत् ब्रह्मविद्यया ।
अन्यत्रैवाऽर्घ्यतोयेन कुशाग्रेण विशोधयेत् ॥ १३५ ॥

१३.१३६
प्राणप्रतिष्ठामाचर्य तत्तद्वाहनसंज्ञया ।
पूजितोऽलङ्कृतो वाहो देयो भवति दैवते ॥ १३६ ॥

१३.१३७
जलाशये पूजनीयो वरुणो यादसां पतिः ।
गृहे प्रजापतिर्ब्रह्माऽरामे सेतौ च संक्रमे ।
पूज्यो विष्णुर्जगत्पाता सर्वात्मा सर्वदृग्विभुः ॥ १३७ ॥

१३.१३८
देव्युवाच ।
विविधानि विधानानि कथितान्युक्तकर्मसु ।
क्रमो न दर्शितो येन मानवः कर्म साधयेत् ॥ १३८ ॥

१३.१३९
क्रमव्यत्ययकर्माणि बह्वायासकृतान्यपि ।
न यच्छन्ति फलं सम्यक् नॄणां कर्मानुजीविनाम् ॥ १३९ ॥

१३.१४०
श्रीसदाशिव उवाच ।
यदुक्तं परमेशानि मातेव हितकारिणि ।
निःश्रेयसन्तल्लोकानां फलव्यापृतचेतसाम् ॥ १४० ॥

१३.१४१
एतेषामुक्तकृत्यानामनुष्ठानं पृथक् पृथक् ।
वास्तुयागक्रमाद्देवि कथयाम्यवधीयताम् ॥ १४१ ॥

१३.१४२
पूर्वेऽह्नि नियताहारः श्वःप्रातः स्नानमाचरेत् ।
कृत्वा पौर्वाह्निकं कर्म गुरुं नारायणं यजेत् ॥ १४२ ॥

१३.१४३
ततः स्वकाममुद्दिश्य विधिदर्शितवर्त्मना ।
कृतसङ्कल्पको मन्त्री गणेशादीन् समर्चयेत् ॥ १४३ ॥

१३.१४४
बन्धूकाभं त्रिनेत्रं द्विरदवरमुखं नागयज्ञोपवीतं शङ्खं चक्रं कृपाणं विमलसरसिजं हस्तपद्मैर्दधानम् ।
उद्यद्बालेन्दुमौलिं दिनकरकिरणोद्दिप्तवस्त्राङ्गशोभं नानालङ्कारयुक्तं भजत गणपतिं रक्तपद्मोपविष्टम् ॥ १४४ ॥

१३.१४५
एवं ध्यात्वा यथाशक्त्या पूजयित्वा गणेश्वरम् ।
ब्रह्माणञ्च ततो वाणीं विष्णुं लक्ष्मीं समर्चयेत् ॥ १४५ ॥

१३.१४६
शिवं दुर्गां ग्रहांश्चापि तथा षोडश मातृकाः ।
घृतधारास्वपि वसूनिष्ट्वा कुर्यात् पितृक्रियाम् ॥ १४६ ॥

१३.१४७
ततः प्रोक्तविधानेन मण्डलं वास्तुरक्षसः ।
निर्माय पूजयेत्तत्र वास्तुदैत्यं गणैः सह ॥ १४७ ॥

१३.१४८
ततस्तु स्थण्डिलं कृत्वा वह्निं संस्कृत्य पूर्ववत् ।
धाराहोमान्तमाचर्य वास्तुहोमं समारभेत् ॥ १४८ ॥

१३.१४९
यथाशक्त्याऽहुतीस्तस्मै परिवारगणाय च ।
तथा पूजितदेवेभ्यो दत्त्वा कर्म समापयेत् ॥ १४९ ॥

१३.१५०
वास्तुयागे पृथक्कार्ये एष ते कथितः क्रमः ।
अनेनैव ग्रहाणाञ्च यज्ञोऽपि विहितः प्रिये ॥ १५० ॥

१३.१५१
ग्रहाणामत्र मुख्यत्वान्नाङ्गत्वेन प्रपूजनम् ।
सङ्कल्पानन्तरं कार्यं वास्त्वर्चनमिति क्रमः ॥ १५१ ॥

१३.१५२
गणेशाद्यर्चनं सर्वं वास्तुयागविधानवत् ।
ग्रहाणां यन्त्रमन्त्रौ च ध्यानं प्रागेव कीर्तितम् ॥ १५२ ॥

१३.१५३
प्रसङ्गात् कथितौ भद्रे ग्रहवास्तुक्रतुक्रमौ ।
अथ प्रस्तुतकृत्यानामुच्यते कूपसंस्क्रिया ॥ १५३ ॥

१३.१५४
संकल्पं विधिवत् कृत्वा वास्तुपूजनमाचरेत् ।
मण्डले कलशे वापि शालग्रामे यथामति ॥ १५४ ॥

१३.१५५
ततः पूज्यो गणपतिर्ब्रह्मा वाणी हरी रमा ।
शिवो दुर्गा ग्रहाश्चापि पूज्या दिक्पतयस्तथा ॥ १५५ ॥

१३.१५६
मातरौ वसवोऽष्टौ च ततः कार्या पितृक्रिया ।
प्राधान्यं वरुणस्यात्र स हि पूज्यो विशेषतः ॥ १५६ ॥

१३.१५७
नानोपहारैर्वरुणमर्चयित्वा स्वशक्तितः ।
विधिवत् संस्कृते वह्नौ वारुणं होममाचरेत् ॥ १५७ ॥

१३.१५८
पूजितेभ्यश्च देवेभ्यो दत्त्वा प्रत्येकमाहुतिम् ।
पूर्णाहुत्यन्तकृत्येन होमकर्म समापयेत् ॥ १५८ ॥

१३.१५९
ततो ध्वजपताकास्रग्गन्धसिन्दूरचर्चितम् ।
उक्तप्रोक्षणमन्त्रेण प्रोक्षयेत् कूपमुत्तमम् ॥ १५९ ॥

१३.१६०
ततः स्वकाममुद्दिश्य देवमुद्दिश्य वा नरः ।
सर्वभूतप्रीणनायोत्सृजेत् कूपजलाशयम् ॥ १६० ॥

१३.१६१
कृताञ्जलिपुटो भूत्वा प्रार्थयेत् साधकाग्रणीः ।
सुप्रीयन्तां सर्वभूता नभोभूतोयवासिनः ॥ १६१ ॥

१३.१६२
उत्सृष्टं सर्वभूतेभ्यो मयैतज्जलमुत्तमम् ।
तृप्यन्तु सर्वभूतानि स्नानपानावगाहनैः ॥ १६२ ॥

१३.१६३
सामान्यं सर्वजीवेभ्यो मया दत्तमिदं जलम् ।
ये च केचिद्विपद्यन्ते स्वस्वकर्मविपाकतः ॥ १६३ ॥

१३.१६४
तत्पापैर्न प्रलिप्येऽहं सफलास्तु मम क्रिया ।
ततस्तु दक्षिणां कृत्वा कृतशान्त्यादिकक्रियः ॥ १६४ ॥

१३.१६५
ब्राह्मणान् भोजयेत् कौलान् दीनानपि बुभुक्षितान् ।
जलाशयप्रतिष्ठासु सर्वत्रैष क्रमः शिवे ॥ १६५ ॥

१३.१६६
तडागादौ च कर्तव्या नागस्तम्भजलेचराः ॥ १६६ ॥

१३.१६७
मीनमण्डूकमकरकूर्माश्च जलजन्तवः ।
कार्या धातुमयाश्चैते कर्तृवित्तानुसारतः ॥ १६७ ॥

१३.१६८
मत्स्यौ स्वर्णमयौ कुर्यात् मण्डूकावपि हेमजौ ।
राजतौ मकरौ कूर्ममिथुनं ताम्ररिन्तिकम् ॥ १६८ ॥

१३.१६९
एतैर्जलचरैः सार्धं तडागमपि दीर्घिकाम् ।
सागरञ्च समुत्सृज्य प्रार्थयन्नागमर्चयेत् ॥ १६९ ॥

१३.१७०
अनन्तो वासुकिः पद्मो महापद्मश्च तक्षकः ।
कुलीरः कर्कटः शङ्खः पाथसां रक्षका इमे ॥ १७० ॥

१३.१७१
इत्यष्टौ नागनामानि लिखित्वाऽश्वत्थपल्लवे ।
स्मृत्वा प्रणवगायत्र्यौ घटमध्ये विनिःक्षिपेत् ॥ १७१ ॥

१३.१७२
चन्द्रार्कौ साक्षिणौ कृत्वा विलोड्यैकं समुद्धरेत् ।
तत्रोत्तिष्ठति यो नागस्तं कुर्यात्तोयरक्षकम् ॥ १७२ ॥

१३.१७३
स्तम्भमेकं समानीय विंशहस्तमितं शुभम् ।
सरलं दारुजं तैलैरुक्षितञ्च हरिद्रया ॥ १७३ ॥

१३.१७४
स्नापयेत्तीर्थतोयेन व्याहृत्या प्रणवेन च ।
तत्र ह्रीश्रीक्षमाशान्तिसहितं नागमर्चयेत् ॥ १७४ ॥

१३.१७५
नाग त्वं विष्णुशययाऽसि महादेवविभूषणम् ।
स्तम्भमेनमधिष्ठाय जलरक्षां कुरुष्व मे ॥ १७५ ॥

१३.१७६
इति प्रार्थ्य ततो नागस्तम्भं मध्येजलाशयम् ।
समारोप्य तडागञ्च कर्ता कुर्यात् प्रदक्षिणम् ॥ १७६ ॥

१३.१७७
यूपश्चेत् स्थापितः पूर्वं तदा नागं घटेऽर्चयन् ।
तज्जलं तत्र निःक्षिप्य शिष्टं कर्म समापयेत् ॥ १७७ ॥

१३.१७८
एवं गृहप्रतिष्ठायां कृतसंकल्पको बुधः ।
वास्त्वादिवसुपूजान्तं पैत्रं कर्म च कूपवत् ॥ १७८ ॥

१३.१७९
विधायाऽत्र विशेषेण यजेद्देवं प्रजापतिम् ।
प्राजापत्यञ्च हवनं कुर्यात् साधकसत्तमः ॥ १७९ ॥

१३.१८०
गृहं पूर्वोक्तमन्त्रेण प्रोक्ष्य गन्धादिनाऽर्चयन् ।
ईशानाभिमुखो भूत्वा प्रार्थयेद्विहिताञ्जलिः ॥ १८० ॥

१३.१८१
प्रजापतिपते गेह पुष्पमाल्यादिभूषितः ।
अस्माकं शुभवासाय सर्वथा सुखदो भव ॥ १८१ ॥

१३.१८२
ततस्तु दक्षिणां कृत्वा शान्त्याशीर्वादमाचरेत् ।
विप्रान् कुलीनान् दीनांश्च भोजयेदात्मशक्तितः ॥ १८२ ॥

१३.१८३
अन्यार्थन्तु प्रतिष्ठा चेत् तद्वासायात्र योजयेत् ।
देवत्राकृतगेहस्य विधानं शृणु शैलजे ॥ १८३ ॥

१३.१८४
इत्थं संस्कृत्य भवनं शङ्खतूर्यादिनिःस्वनैः ।
देवतासन्निधिं गत्वा प्रार्थयेद्विहिताञ्जलिः ॥ १८४ ॥

१३.१८५
उत्तिष्ठ देवदेवेश भक्तानां वाञ्छितप्रद ।
आगत्य जन्मसाफल्यं कुरु मे करुणानिधे ॥ १८५ ॥

१३.१८६
इत्यभ्यर्थ्य गृहाभ्यर्णे देवमानीय साधकः ।
उपस्थाप्य गृहद्वारि पुरतो वाहनं न्यसेत् ॥ १८६ ॥

१३.१८७
त्रिशूलमथवा चक्रं विन्यस्य भवनोपरि ।
रोपयेन्मन्दिरेशाने सपताकं ध्वजं सुधीः ॥ १८७ ॥

१३.१८८
चन्द्रातपैः किङ्किणीभिः पुष्पस्रक्चूतपल्लवैः ।
शोभयित्वा गृहं सम्यक् छादयेद्दिव्यवाससा ॥ १८८ ॥

१३.१८९
उत्तराभिमुखं देवं वक्ष्यमाणविधानतः ।
स्नापयेद्विहितैर्द्रव्यैस्तत्क्रमं वच्मि ते शृणु ॥ १८९ ॥

१३.१९०
ऐं ह्रीं श्रीमिति मन्त्रान्ते मूलमन्त्रं समुच्चरन् ।
दुग्धेन स्नापयामि त्वां मातेव परिपालय ॥ १९० ॥

१३.१९१
प्रोक्तबीजत्रयस्यान्ते तथा मूलं नियोजयन् ।
दध्ना त्वां स्नापयाम्यद्य भवतापहरो भव ॥ १९१ ॥

१३.१९२
पुनर्बीजत्रयं मूलं सर्वानन्दकरेति च ।
मधुना स्नापितः प्रीतो मामानन्दमयं कुरु ॥ १९२ ॥

१३.१९३
प्राग्वन्मूलं समुच्चार्य सावित्रीं प्रणवं स्मरन् ।
देवप्रियेण हविषा आयुःशुक्रेण तेजसा ।
स्नानं ते कल्पयामीश मामरोगं सदा कुरु ॥ १९३ ॥

१३.१९४
तद्वन्मूलञ्च गायत्रीं व्याहृतिं समुदीरयन् ।
देवेश शर्करातोयैः स्नातो मे यच्छ वाञ्छितम् ॥ १९४ ॥

१३.१९५
तथा मूलं समुच्चार्य गायत्रीं वारुणं मनुम् ।
विधात्रा निर्मितैर्दिव्यैः प्रियैः स्निग्धैरलौकिकैः ।
नारिकेलोदकैः स्नानं कल्पयामि नमोऽस्तु ते ॥ १९५ ॥

१३.१९६
गायत्र्या मूलमन्त्रेण स्नापयेदिक्षुजैः रसैः ॥ १९६ ॥

१३.१९७
कामबीजं तथा तारं सावित्रीं मूलमीरयन् ।
कर्पूरागुरुकाश्मीरकस्तूरीचन्दनोदकैः ।
सुस्नातो भव सुप्रीतो भुक्तिमुक्ती प्रयच्छ मे ॥ १९७ ॥

१३.१९८
इत्यष्टकलशैः स्नानं कारयित्वा जगत्पतिम् ।
गृहाभ्यन्तरमानीय स्थापयेदासनोपरि ॥ १९८ ॥

१३.१९९
स्नापनार्हा न चेदर्चा तद्यन्त्रे वापि तन्मनौ ।
शालग्रामशिलायां वा स्नापयित्वा प्रपूजयेत् ॥ १९९ ॥

१३.२००
अशक्तौ मूलमन्त्रेण स्नापयेच्छुद्धपाथसाम् ।
अष्टभिः कलशैर्यद्वा पञ्चभिः सप्तभिर्यथा ॥ २०० ॥

१३.२०१
घटप्रमाणं प्रागेव कथितं चक्रपूजने ।
सर्वत्रागमकृत्येषु स एव विहितो घटः ॥ २०१ ॥

१३.२०२
ततो यजेन्महादेवं स्वस्वपूजाविधानतः ।
तत्रोपचारान् वक्ष्यामि शृणु देवि परात्परे ॥ २०२ ॥

१३.२०३
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्कस्तथाचम्यं स्नानीयं वस्त्रभूषणे ॥ २०३ ॥

१३.२०४
गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ।
देवार्चनासु निर्दिष्टा उपचाराश्च षोडश ॥ २०४ ॥

१३.२०५
पाद्यमर्घ्यञ्चाचमनं मधुपर्काचमौ तथा ।
गन्धादिपञ्चकं चैते उपचारा दश स्मृताः ॥ २०५ ॥

१३.२०६
गन्धपुष्पे धूपदीपौ नैवेद्यञ्चापि कालिके ।
पञ्चोपचाराः कथिता देवतायाः प्रपूजने ॥ २०६ ॥

१३.२०७
अस्त्रेणाऽर्घ्याम्भसा द्रव्यं प्रोक्ष्य धेनुं प्रदर्शयन् ।
सम्पूज्य गन्धपुष्पाभ्यां द्रव्याख्यानं समुल्लिखेत् ॥ २०७ ॥

१३.२०८
वक्ष्यमाणमनुं स्मृत्वा मूलञ्च देवताभिधाम् ।
सचतुर्थीं समुच्चार्य त्यागार्थं वचनं पठेत् ॥ २०८ ॥

१३.२०९
निवेदनविधिः प्रोक्तो देवे देयेषु वस्तुषु ।
अनेन विधिना विद्वान् द्रव्यं दद्याद्दिवौकसे ॥ २०९ ॥

१३.२१०
आद्यार्चनविधौ पूर्वं पाद्यार्घ्यादिनिवेदनम् ।
अर्पणं कारणादीनां सर्वमेव प्रदर्शितम् ॥ २१० ॥

१३.२११
अनुक्तमन्त्रा ये तत्र तानेवात्र शृणु प्रिये ।
आसनाद्युपचाराणां प्रदाने विनियोजयेत् ॥ २११ ॥

१३.२१२
सर्वभूतान्तरस्थाय सर्वभूतान्तरात्मने ।
कल्पयाम्युपवेशार्थमासनं ते नमो नमः ॥ २१२ ॥

१३.२१३
उक्तक्रमेण देवेशि प्रदायाऽसनमुत्तमम् ।
कृताञ्जलिपुटो भूत्वा स्वागतं प्रार्थयेत्ततः ॥ २१३ ॥

१३.२१४
देवाः स्वाभीष्टसिद्ध्यर्थं यस्य वाञ्छन्ति दर्शनम् ।
सुस्वागतं स्वागतं मे तस्मै ते परमात्मने ॥ २१४ ॥

१३.२१५
अद्य मे सफलं जन्म जीवनं सफलाः क्रियाः ।
स्वागतं यत्त्वया तन्मे तपसां फलमागतम् ॥ २१५ ॥

१३.२१६
देवमामन्त्र्य संप्रार्थ्य स्वागतप्रश्नमम्बिके ।
विहितं पाद्यमादाय मन्त्रमेनमुदीरयेत् ॥ २१६ ॥

१३.२१७
यत्पादजलसंस्पर्शाच्छुद्धिमाप जगत्त्रयम् ।
तत्पादाब्जप्रोक्षणार्थं पाद्यन्ते कल्पयाम्यहम् ॥ २१७ ॥

१३.२१८
परमानन्दसन्दोहो जायते यत्प्रसादतः ।
तस्मै सर्वात्मभूताय आनन्दार्घ्यं समर्पये ॥ २१८ ॥

१३.२१९
जातीलवङ्गकक्कोलैर्जलं केवलमेव वा ।
प्रोक्षितार्चितमादाय मन्त्रेणाऽनेन चार्पयेत् ॥ २१९ ॥

१३.२२०
यदुच्छिष्टमुपस्पृष्टं शुद्धिमेत्यखिलं जगत् ।
तस्मै मुखारविन्दाय आचामं कल्पयामि ते ॥ २२० ॥

१३.२२१
मधुपर्कं समादाय भक्त्याऽनेन समर्पयेत् ॥ २२१ ॥

१३.२२२
तापत्रयविनाशार्थमखण्डानन्दहेतवे ।
मधुपर्कं ददाम्यद्य प्रसीद परमेश्वर ॥ २२२ ॥

१३.२२३
अशुचिः शुचितामेति यत्स्पृष्टस्पर्शमात्रतः ।
तस्मिंस्ते वदनाम्भोजे पुनराचमनीयकम् ॥ २२३ ॥

१३.२२४
स्नानार्थं जलमादाय प्राग्वत् प्रोक्षितमर्चितम् ।
निधाय देवपुरतो मन्त्रमेनमुदीरयेत् ॥ २२४ ॥

१३.२२५
यत्तेजसा जगद्व्याप्तं यतो जातमिदं जगत् ।
तस्मै ते जगदाधार स्नानार्थं तोयमर्पये ॥ २२५ ॥

१३.२२६
स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ।
अन्यद्रव्यप्रदानान्ते दद्यात्तोयं सकृत् सकृत् ॥ २२६ ॥

१३.२२७
वस्त्रमानीय देवाग्रे शोधितं पूर्ववर्त्मना ।
धृत्वा कराभ्यामुत्तोल्य पठेदेनं मनुं सुधीः ॥ २२७ ॥

१३.२२८
सर्वावरणहीनाय मायाप्रच्छन्नतेजसे ।
वाससी परिधानाय कल्पयामि नमोऽस्तु ते ॥ २२८ ॥

१३.२२९
नानाभरणमादाय स्वर्णरौप्यादिनिर्मितम् ।
प्रोक्ष्याऽर्चयित्वा देवाय दद्यादेनं समुच्चरन् ॥ २२९ ॥

१३.२३०
विश्वाभरणभूताय विश्वशोभैकयोनये ।
मायाविग्रहभूषार्थं भूषणानि समर्पये ॥ २३० ॥

१३.२३१
गन्धतन्मात्रया सृष्टा येन गन्धधरा धरा ।
तस्मै परात्मने तुभ्यं परमं गन्धमर्पये ॥ २३१ ॥

१३.२३२
पुष्पं मनोहरं रम्यं सुगन्धं देवनिर्मितम् ।
मया निवेदितं भक्त्या पुष्पमेतत् प्रगृह्यताम् ॥ २३२ ॥

१३.२३३
वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्वभूतानां धूपो घ्राणाय तेऽर्प्यते ॥ २३३ ॥

१३.२३४
सुप्रकाशो महादीप्तः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ २३४ ॥

१३.२३५
नैवेद्यं स्वादुसंयुक्तं नानाभक्ष्यसमन्वितम् ।
निवेदयामि भक्त्येदं जुषाण परमेश्वर ॥ २३५ ॥

१३.२३६
पानार्थं सलिलं देव कर्पूरादिसुवासितम् ।
सर्वतृप्तिकरं स्वच्छमर्पयामि नमोऽस्तु ते ॥ २३६ ॥

१३.२३७
ततः कर्पूरखदिरलवङ्गैलादिभिर्युतम् ।
ताम्बूलं पुनराचम्यं दत्त्वा वन्दनमाचरेत् ॥ २३७ ॥

१३.२३८
उपचाराधारदाने साधारं द्रव्यमुल्लिखेत् ।
दद्याद्वा पृथगाधारं तत्तन्नाम समुच्चरन् ॥ २३८ ॥

१३.२३९
इत्थमर्चितदेवाय दत्त्वा पुष्पाञ्जलित्रयम् ।
साच्छादनं गृहं प्रोक्ष्य पठेदेनं कृताञ्जलिः ॥ २३९ ॥

१३.२४०
गेह त्वं सर्वलोकानां पूज्यः पुण्ययशःप्रदः ।
देवतास्थितिदानेषु सुमेरुसदृशो भव ॥ २४० ॥

१३.२४१
त्वं कैलासश्च वैकुण्ठस्त्वं ब्रह्मभवनं गृह ।
यत् त्वया विधृतो देवस्तस्मात् त्वं सुरवन्दितः ॥ २४१ ॥

१३.२४२
यस्य कुक्षौ जगत् सर्वं वरीवर्ति चराचरम् ।
मायविधृतदेहस्य तस्य मूर्तेर्विधारणात् ॥ २४२ ॥

१३.२४३
देवमातृसमस्त्वं हि सर्वतीर्थमयस्तथा ।
सर्वकामप्रदो भूत्वा शान्तिं मे कुरु ते नमः ॥ २४३ ॥

१३.२४४
इत्यभ्यर्थ्य त्रिरभ्यर्च्य गृहं चक्रादिसंयुतम् ।
आत्मनः काममुद्दिश्य दद्याद्देवाय साधकः ॥ २४४ ॥

१३.२४५
विश्वावासाय विश्वाय गृहं ते विनिवेदितम् ।
अङ्गीकुरु महेशान कृपया सन्निधीयताम् ॥ २४५ ॥

१३.२४६
इत्युक्त्वाऽर्पितगेहाय देवाय दत्तदक्षिणः ।
शङ्खतूर्यादिघोषैस्तं स्थापयेद्वेदिकोपरि ॥ २४६ ॥

१३.२४७
स्पृष्ट्वा देवपदद्वन्द्वं मूलमन्त्रं समुच्चरन् ।
स्थां स्थीं स्थिरो भवेत्युक्त्वा वासस्ते कल्पितो मया ।
इति देवं स्थिरीकृत्य भवनं प्रार्थयेत् पुनः ॥ २४७ ॥

१३.२४८
गृह देवनिवासाय सर्वथा प्रीतिदो भव ।
उत्सृष्टे त्वयि मे लोकाः स्थिराः सन्तु निरामयाः ॥ २४८ ॥

१३.२४९
द्विसप्तातीतपुरुषान् द्विसप्तानागतानपि ।
मां च मे परिवारांश्च देवधाम्नि निवासय ॥ २४९ ॥

१३.२५०
यजनात् सर्वयज्ञानां सर्वतीर्थनिषेवणात् ।
यत्फलं तत्फलं मेऽद्य जायतां त्वत्प्रसादतः ॥ २५० ॥

१३.२५१
यावत् वसुन्धरा तिष्ठेत् यावदेते धराधराः ।
यावद्दिवानिशानाथौ तावन्मे वर्ततां कुलम् ॥ २५१ ॥

१३.२५२
इति प्रार्थ्य गृहं प्राज्ञः पुनर्देवं समर्चयन् ।
दर्पणाद्यन्यवस्तूनि ध्वजं चापि निवेदयेत् ॥ २५२ ॥

१३.२५३
ततस्तु वाहनं दद्यात् यस्मिन् देवे यथोदितम् ।
शिवाय वृषभं दत्त्वा प्रार्थयेद्विहिताञ्जलिः ॥ २५३ ॥

१३.२५४
वृषभ त्वं महाकायस्तीक्ष्णशृङ्गोऽरिघातकः ।
पृष्ठे वहसि देवेशं पूज्योऽसि त्रिदशैरपि ॥ २५४ ॥

१३.२५५
क्षुरेषु सर्वतीर्थानि रोम्नि वेदाः सनातनाः ।
निगमागमतन्त्राणि दशनाग्रे वसन्ति ते ॥ २५५ ॥

१३.२५६
त्वयि दत्ते महाभाग सुप्रीतः पार्वतीपतिः ।
वासं ददातु कैलासे त्वं मां पालय सर्वदा ॥ २५६ ॥

१३.२५७
सिंहं दत्त्वा महादेव्यै गरुडं विष्णवे तथा ।
यथा स्तूयान्महेशानि तन्मे निगदतः शृणु ॥ २५७ ॥

१३.२५८
सुरासुरनियुद्धेषु महाबलपराक्रमः ।
देवानां जयदो भीमो दनुजानां विनाशकृत् ॥ २५८ ॥

१३.२५९
सदा देवीप्रियोऽसि त्वं ब्रह्मविष्णुशिवप्रियः ।
देव्यै समर्पितो भक्त्या जहि शत्रून्नमोऽस्तु ते ॥ २५९ ॥

१३.२६०
गरुत्मन् पतगश्रेष्ठ श्रीपतिप्रीतिदायक ।
वज्रचञ्चो तीक्ष्णनख तव पक्षा हिरण्मया ।
नमस्तेऽस्तु खगेन्द्राय पक्षिराज नमोऽस्तु ते ॥ २६० ॥

१३.२६१
यथा करपुटेन त्वं संस्थितो विष्णुसन्निधौ ।
तथा मामरिदर्पघ्न विष्णोरग्रे निवासय ॥ २६१ ॥

१३.२६२
त्वयि प्रीते जगन्नाथः प्रीतः सिद्धिं प्रयच्छति ॥ २६२ ॥

१३.२६३
देवाय दत्तद्रव्याणां दद्याद्देवाय दक्षिणाम् ।
तथा कर्मफलञ्चापि भक्त्या तस्मै समर्पयेत् ।
नृत्यैर्गीतैश्च वादित्रैः सामात्यः सहबान्धवः ॥ २६३ ॥

१३.२६४
वेश्मप्रदक्षिणं कृत्वा देवं नत्वाऽशयेद्द्विजान् ॥ २६४ ॥

१३.२६५
देवागारप्रतिष्ठायां य एष कथितः क्रमः ।
आरामसेतुसंक्रामशाखिनामीरितोऽपि सः ॥ २६५ ॥

१३.२६६
विशेषेणाऽत्र कृत्येषु पूज्यो विष्णुः सनातनः ।
पूजाहोमौ तथा सर्वं गृहदानविधानवत् ॥ २६६ ॥

१३.२६७
अप्रतिष्ठितदेवाय नैव दद्यात् गृहादिकम् ।
अर्च्याऽप्रतिष्ठिते देवे पूजादानं विधीयते ॥ २६७ ॥

१३.२६८
अथ तत्र श्रीमदाद्याप्रतिष्ठाक्रम उच्यते ।
येन प्रतिष्ठिता देवी तूर्णं यच्छति वाञ्छितम् ॥ २६८ ॥

१३.२६९
तद्दिने साधकः प्रातः स्नातः शुचिरुदङ्मुखः ।
संकल्पं विधिवत् कृत्वा यजेद्वास्त्वीश्वरं ततः ॥ २६९ ॥

१३.२७०
ग्रहदिक्पतिहेरम्बाद्यर्चनं पितृकर्म च ।
विधाय साधकैर्विप्रैः प्रतिमासन्निधिं व्रजेत् ॥ २७० ॥

१३.२७१
प्रतिष्ठितगृहे यद्वा कुत्रचित् शोभनस्थले ।
आनीयाऽर्चामर्चयित्वा स्नापयेत् साधकोत्तमः ॥ २७१ ॥

१३.२७२
भस्मना प्रथमं स्नानं ततो वल्मीकमृत्स्नया ।
वराहदन्तिदन्तोत्थमृत्तिकाभिस्ततः परम् ।
वेश्याद्वारमृदा चापि प्रद्युम्नहृदजातया ॥ २७२ ॥

१३.२७३
ततः पञ्चकषायेण पञ्चपुष्पैस्त्रिपत्रकैः ।
कारयित्वा गन्धतैलैः स्नापयेत् प्रतिमां सुधीः ॥ २७३ ॥

१३.२७४
वाट्यालबदरीजम्बुवकुलाः शाल्मलिस्तथा ।
एते निगदिताः स्नाने कषायाः पञ्च भूरुहाः ॥ २७४ ॥

१३.२७५
करवीरं तथा जातीचम्पकं सरसीरुहम् ।
पाटलीकुसुमञ्चापि पञ्चपुष्पं प्रकीर्तितम् ॥ २७५ ॥

१३.२७६
वर्वरातुलसीबिल्वं पत्रत्रयमुदाहृतम् ॥ २७६ ॥

१३.२७७
एतेषु प्रोक्तद्रव्येषु जलयोगो विधीयते ।
पञ्चामृते गन्धतैले तोययोगं विवर्जयेत् ॥ २७७ ॥

१३.२७८
सव्याहृतिं सप्रणवां गायत्रीं मूलमुच्चरन् ।
एतद्द्रव्यस्य तोयेन स्नापयामि नमो वदेत् ॥ २७८ ॥

१३.२७९
ततः प्रागुक्तविधिना दुग्धाद्यैरष्टभिर्घटैः ।
कवोष्णसलिलैश्चापि स्नापयेत् प्रतिमां बुधः ॥ २७९ ॥

१३.२८०
सितगोधूमचूर्णेन तिलकल्केन वा शिवाम् ।
शालीतण्डुलचूर्णेन मार्जयित्वा विरुक्षयेत् ॥ २८० ॥

१३.२८१
तीर्थाम्भसामष्टघटैः स्नापयित्वा सुवाससा ।
सम्मार्जिताङ्गीं प्रतिमां पूजास्थानं समानयेत् ॥ २८१ ॥

१३.२८२
अशक्तौ शुद्धतोयानां पञ्चविंशतिसंख्यकैः ।
कलशैः स्नापयेदर्चां भक्त्या साधकसत्तमः ॥ २८२ ॥

१३.२८३
स्नाने स्नाने महादेव्याः शक्त्या पूजनमाचरेत् ।
ततो निवेश्य प्रतिमामासने सुपरिष्कृते ।
पाद्यार्घ्याद्यैरर्चयित्वा प्रार्थयेद्विहिताञ्जलिः ॥ २८३ ॥

१३.२८५
नमस्ते प्रतिमे तुभ्यं विश्वकर्मविनिर्मिते ।
नमस्ते देवतावासे भक्ताभीष्टप्रदे नमः ॥ २८५ ॥

१३.२८६
त्वयि सम्पूजयाम्याद्यां परमेशीं परात्पराम् ।
शिल्पदोषावशिष्टाङ्गं सम्पन्नं कुरु ते नमः ॥ २८६ ॥

१३.२८७
ततस्तत्प्रतिमामूर्ध्नि पाणिं विन्यस्य वाग्यतः ।
अष्टोत्तरशतं मूलं जप्त्वा गात्राणि संस्पृशेत् ॥ २८७ ॥

१३.२८८
षडङ्गमातृकान्यासं प्रतिमाङ्गे प्रविन्यसन् ।
षड्दीर्घभाजा मूलेन षडङ्गन्यासमाचरेत् ॥ २८८ ॥

१३.२८९
तारमायारमाद्यैश्च नमोऽन्तैर्बिन्दुसंयुतैः ।
अष्टवर्गैर्देवताङ्गे वर्णन्यासं प्रकल्पयेत् ॥ २८९ ॥

१३.२९०
मुखे स्वरान् कवर्गञ्च कण्ठदेशे न्यसेत् बुधः ।
चवर्गमुदरे दक्षबाहौ टाद्यक्षराणि च ॥ २९० ॥

१३.२९१
तवर्गञ्च वामबाहौ दक्षवामोरुयुग्मयोः ।
पवर्गञ्च यवर्गञ्च शवर्गं मस्तके न्यसेत् ॥ २९१ ॥

१३.२९२
वर्णन्यासं विधायेत्थं तत्त्वन्यासं समाचरेत् ॥ २९२ ॥

१३.२९३
पादयोः पृथिवीतत्त्वं तोयतत्त्वञ्च लिङ्गके ।
तेजस्तत्त्वं नाभिदेशे वायुतत्त्वं हृदम्बुजे ॥ २९३ ॥

१३.२९४
आस्ये गगनतत्त्वञ्च चक्षुषो रूपतत्त्वकम् ।
घ्राणयोर्गन्धतत्त्वञ्च शब्दतत्त्वं श्रुतिद्वये ॥ २९४ ॥

१३.२९५
जिह्वायां रसतत्त्वञ्च स्पर्शतत्त्वं त्वचि न्यसेत् ।
मनस्तत्त्वं भ्रुवोर्मध्ये सहस्रदलपङ्कजे ॥ २९५ ॥

१३.२९६
शिवतत्त्वं ज्ञानतत्त्वं परतत्त्वं तथोरसि ।
जीवप्रकृतितत्त्वे च विन्यसेत् साधकाग्रणीः ।
महत्तत्त्वमहङ्कारतत्त्वं सर्वाङ्गके क्रमात् ॥ २९६ ॥

१३.२९७
तारमायामाद्येन ङे नमोऽन्तेन विन्यसेत् ॥ २९७ ॥

१३.२९८
सबिन्दुमातृकावर्णपुटितं मूलमुच्चरन् ।
नमोऽन्तं मातृकास्थाने मन्त्रन्यासं प्रयोजयेत् ॥ २९८ ॥

१३.२९९
सर्वयज्ञमयं तेजः सर्वभूतमयं वपुः ।
इयं ते कल्पिता मूर्तिरत्र त्वां स्थापयाम्यहम् ॥ २९९ ॥

१३.३००
ततः पूजाविधानेन ध्यानमावाहनादिकम् ।
प्राणप्रतिष्ठां सम्पाद्य पूजयेत् परदेवताम् ॥ ३०० ॥

१३.३०१
देवगेहप्रदाने तु ये ये मन्त्राः समीरिताः ।
त एवात्र प्रयोक्तव्या मन्त्रलिङ्गेन पूजने ॥ ३०१ ॥

१३.३०२
विधिवत् संस्कृते वह्नावर्चितेभ्योऽर्पिताहुतिः ।
आवाह्य देवीं सम्पूज्य जातकर्माणि साधयेत् ॥ ३०२ ॥

१३.३०३
जातनाम्नी निष्क्रमणमन्नप्राशनमेव च ।
चूडोपनयनं चैते षट्संस्काराः शिवोदिताः ॥ ३०३ ॥

१३.३०४
प्रणवं व्याहृतिं चैव गायत्रीं मूलमन्त्रकम् ।
सामन्त्रणाभिधानं ते जातकर्मादि नाम च ॥ ३०४ ॥

१३.३०५
सम्पादयाम्यग्निकान्तां समुच्चार्य विधानवित् ।
पञ्चपञ्चाहुतीर्दद्यात् प्रतिसंस्कारकर्मणि ॥ ३०५ ॥

१३.३०६
दत्तनाम्नाऽहुतिशतं मूलोच्चारणपूर्वकम् ।
देव्यै दत्त्वाऽहुतेरंशं प्रतिमामूर्ध्नि निःक्षिपेत् ॥ ३०६ ॥

१३.३०७
प्रायश्चित्तादिभिः शेषं कर्म सम्पादयन् सुधीः ।
भोजयेत् साधकान् विप्रान् दीनानाथांश्च तोषयेत् ॥ ३०७ ॥

१३.३०८
उक्तकर्मस्वशक्तश्चेत् पाथसां सप्तभिर्घटैः ।
स्नापयित्वाऽर्चयन् शक्त्या श्रावयेन्नाम देवताम् ॥ ३०८ ॥

१३.३०९
इति ते श्रीमदाद्यायाः प्रतिष्ठा कथिता प्रिये ।
एवं दुर्गादिविद्यानां महेशादिदिवौकसाम् ॥ ३०९ ॥

१३.३१०
चलतः शिवलिङ्गस्य प्रतिष्ठायामयं विधिः ।
प्रयोक्तव्यो विधानज्ञैर्मन्त्रनामोहपूर्वकम् ॥ ३१० ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे आद्याकालीप्रतिष्ठानुष्ठाने वास्तुग्रहयागजलाशयादिप्रतिष्ठादेवगृहदानादिसर्वदेवप्रतिष्ठाकथनं नाम त्रयोदशोल्लासः ।

Kapitel १४

१४.१
श्रीदेव्युवाच ।
आद्यशक्तेरनुष्ठानात् कृपया भूरिसाधनम् ।
कथितं मे कृपानाथ तृप्ताऽस्मि तव भावतः ॥ १ ॥

१४.२
सचलस्येशलिङ्गस्य प्रतिष्ठाविधिरीरितः ।
अचलस्य प्रतिष्ठायां किं फलं विधिरेव कः ॥ २ ॥

१४.३
कथ्यतां जगतां नाथ सविशेषेण साम्प्रतम् ।
इदं हि परमं तत्त्वं प्रष्टुं वद वृणोमि कम् ॥ ३ ॥

१४.४
त्वत्तः को वास्ति सर्वज्ञो दयालुः सर्वविद्विभुः ।
आशुतोषो दीननाथो ममाऽनन्दविबर्धनः ॥ ४ ॥

१४.५
श्रीसदाशिव उवाच ।
शिवलिङ्गस्थापनस्य माहात्म्यं किं ब्रवीमि ते ।
यत्स्थापनान्महापापैर्मुक्तो याति परं पदम् ॥ ५ ॥

१४.६
स्वर्णपूर्णमहीदानाद्वाजिमेधायुतार्जनात् ।
निस्तोये तोयकरणात् दीनार्तपरितोषणात् ॥ ६ ॥

१४.७
यत् फलं लभते मर्त्यस्तस्मात् कोटिगुणं फलम् ।
शिवलिङ्गप्रतिष्ठायां लभते नात्र संशयः ॥ ७ ॥

१४.८
लिङ्गरूपी महादेवो यत्र तिष्ठति कालिके ।
तत्र ब्रह्मा च विष्णुश्च सेन्द्रास्तिष्ठन्ति देवताः ॥ ८ ॥

१४.९
सार्धत्रिकोटितीर्थानि दृष्टादृष्टानि यानि च ।
पुण्यक्षेत्राणि सर्वाणि वर्तन्ते शिवसन्निधौ ॥ ९ ॥

१४.१०
लिङ्गरूपधरं शम्भुं परितो दिग्विदिक्षु च ।
शतहस्तप्रमाणेन शिवक्षेत्रं प्रकीर्तितम् ॥ १० ॥

१४.११
ईशक्षेत्रं महापुण्यं सर्वतीर्थोत्तमोत्तमम् ।
यत्राऽमरा विराजन्ते सर्वतीर्थानि सर्वदा ॥ ११ ॥

१४.१२
क्षणमात्रं शिवक्षेत्रे यो वसेद्भावतत्परः ।
स सर्वपापनिर्मुक्तो यात्यन्ते शङ्करालयम् ॥ १२ ॥

१४.१३
अत्र यत् क्रियते कर्म स्वल्पं वा बहुलं तथा ।
प्रभावाद्धूर्जटेस्तत्तत्कोटिकोटिगुणं भवेत् ॥ १३ ॥

१४.१४
यत्र तत्र कृतात् पापान्मुच्यते शिवसन्निधौ ।
शैवक्षेत्रे कृतं पापं वज्रलेपसमं प्रिये ॥ १४ ॥

१४.१५
पुरश्चर्यां जपं दानं श्राद्धं तर्पणमेव च ।
यत् करोति शिवक्षेत्रे तदनन्ताय कल्पते ॥ १५ ॥

१४.१६
पुरश्चर्याशतं कृत्वा ग्रहे शशिदिनेशयोः ।
यत् फलं तदवाप्नोति सकृज्जप्त्वा शिवान्तिके ॥ १६ ॥

१४.१७
गयागङ्गाप्रयागेषु कोटिपिण्डप्रदो नरः ।
यत् प्राप्नोति तदत्रैव सकृत् पिण्डप्रदानतः ॥ १७ ॥

१४.१८
अतिपातकिनो ये च महापातकिनश्च ये ।
शैवतीर्थे कृतश्राधास्तेऽपि यान्ति परां गतिम् ॥ १८ ॥

१४.१९
लिङ्गरूपी जगन्नाथो वेद्यां श्रीदुर्गया सह ।
यत्रास्ति तत्र तिष्ठन्ति भुवनानि चतुर्दश ॥ १९ ॥

१४.२०
स्थापितेशस्य माहात्म्यं किञ्चिदेतत् प्रकाशितम् ।
अनादिभूतभूतेशमहिमा वागगोचरः ॥ २० ॥

१४.२१
महापीठे तवाऽर्चायामस्पृश्यस्पर्शदूषणम् ।
विद्यते विद्यते नैतल्लिङ्गरूपधरे हरे ॥ २१ ॥

१४.२२
यथा चक्रार्चने देवि कोऽपि दोषो न विद्यते ।
शिवक्षेत्रे महतीर्थे तथा जानीहि कालिके ॥ २२ ॥

१४.२३
बहुनात्र किमुक्तेन तवाग्रे सत्यमुच्यते ।
प्रभावः शिवलिङ्गस्य मया वक्तुं न शक्यते ॥ २३ ॥

१४.२४
अयुक्तवेदिकं लिङ्गं युक्तं वेदिकयाऽपि वा ।
साधकः पूजयेद्भक्त्या स्वाभीष्टफलसिद्धये ॥ २४ ॥

१४.२५
प्रतिष्ठापूर्वसायाह्ने देवतां योऽधिवासयेत् ।
सोऽश्वमेधायुतफलं लभते साधकोत्तमः ॥ २५ ॥

१४.२६
मही गन्धः शिला धान्यं दूर्वा पुष्पं फलं दधि ।
घृतं स्वस्तिकसिन्दूरं शङ्खकज्जलरोचनाः ॥ २६ ॥

१४.२७
सिद्धार्थं काञ्चनं रौप्यं ताम्रं दीपश्च दर्पणम् ।
अधिवासविधौ विंशद्द्रव्याण्येतानि योजयेत् ॥ २७ ॥

१४.२८
प्रत्येकं द्रव्यमादाय मायया ब्रह्मविद्यया ।
अनेनाऽमुष्यपदतः शुभमस्त्वधिवासनम् ॥ २८ ॥

१४.२९
इति स्पृशेत् साध्यभालं मह्याद्यैः सर्ववस्तुभिः ।
ततः प्रशस्तिपात्रेण त्रिधैवमधिवासयेत् ॥ २९ ॥

१४.३०
अनेन विधिना देवम्धिवास्य विधानवित् ।
गृहदानविधानेन दुग्धाद्यैः स्नापयेत्ततः ॥ ३० ॥

१४.३१
सम्मार्ज्य वाससा लिङ्गं स्थापयित्वाऽसनोपरि ।
पूजानुष्ठानविधिना गणेशादीन् समर्चयेत् ॥ ३१ ॥

१४.३२
प्रणवेन करन्यासौ प्राणायामं विधाय च ।
ध्यायेत् सदाशिवं शान्तं चन्द्रकोटिसमप्रभम् ॥ ३२ ॥

१४.३३
व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम् ।
विभूतिलिप्तसर्वाङ्गं नागालङ्कारभूषितम् ॥ ३३ ॥

१४.३४
धूम्रपीतारुणश्वेतरक्तैः पञ्चभिराननैः ।
युक्तं त्रिनयनं बिभ्रज्जटाजूटधरं विभुम् ॥ ३४ ॥

१४.३५
गङ्गाधरं दशभुजं शशिशोभितमस्तकम् ।
कपालं पावकं पाशं पिनाकं परशुं करैः ॥ ३५ ॥

१४.३६
वामैर्दधानं दक्षैश्च शूलं वज्राङ्कुशं शरम् ।
वरञ्च बिभ्रतं सर्वैर्देवैर्मुनिवरैः स्तुतम् ॥ ३६ ॥

१४.३७
परमानन्दसन्दोहोल्लसत्कुटिललोचनम् ।
हिमकुन्देन्दुसङ्काशं वृषासनविराजितम् ॥ ३७ ॥

१४.३८
परितः सिद्धगन्धर्वैरप्सरोभिरहर्निशम् ।
गीयमानमुमाकान्तमेकान्तशरणप्रियम् ॥ ३८ ॥

१४.३९
इति ध्यात्वा महेशानं मानसैरुपचारकैः ।
संपूज्याऽवाह्य तल्लिङ्गे यजेच्छक्त्या विधानतः ॥ ३९ ॥

१४.४०
आसनाद्युपचाराणां दाने मन्त्राः पुरोदिताः ।
मूलमत्र मनुं वक्ष्ये महेशस्य महात्मनः ॥ ४० ॥

१४.४१
माया तारः शब्दबीजं सन्ध्यर्णान्ताक्षरान्वितम् ।
अर्धेन्दुबिन्दुभूषाढ्यं शिवबीजं प्रकीर्तितम् ॥ ४१ ॥

१४.४२
सुगन्धिपुष्पमाल्येन वाससाऽच्छाद्य शङ्करम् ।
निवेश्य दिव्यशययायां देवीमेवं विशोधयेत् ॥ ४२ ॥

१४.४३
वेद्यां प्रपूजयेद्देवीमेवमेव विधानतः ।
माययाऽत्र करन्यासौ प्राणायामं समाचरेत् ॥ ४३ ॥

१४.४४
उद्यद्भानुसहस्रकान्तिममलां वह्न्यर्कचन्द्रेक्षणाम् मुक्तायन्त्रितहेमकुण्डललसत्स्मेराननाम्भोरुहाम् ।
हस्ताब्जैरभयं वरञ्च दधतीं चक्रं तथाब्जं दधत् पीनोत्तुङ्गपयोधरां भयहरां पीताम्बरां चिन्तये ॥ ४४ ॥

१४.४५
इति ध्यात्वा महादेवीं पूजयेन्निजशक्तितः ।
ततस्तु दश दिक्पालान् वृषभञ्च समर्चयेत् ॥ ४५ ॥

१४.४६
भगवत्या मनुं वक्ष्ये येनाऽराध्या जगन्मयी ॥ ४६ ॥

१४.४७
मायां लक्ष्मीं समुच्चार्य थान्तं षष्ठस्वरान्वितम् ।
बिन्दुयुक्तं तदन्ते च योजयेद्वह्निवल्लभाम् ॥ ४७ ॥

१४.४८
पूर्ववत् स्थापयन् देवीं सर्वदेवबलिं हरेत् ।
दधियुक्तमाषभक्तं शर्करादिसमन्वितम् ॥ ४८ ॥

१४.४९
ऐशान्यां बलिमादाय वारुणेन विशोधयेत् ।
संपूज्य गन्धपुष्पाभ्यां मन्त्रेणानेन चार्पयेत् ॥ ४९ ॥

१४.५०
सर्वे देवाः सिद्धगणा गन्धर्वोरगराक्षसाः ।
पिशाचा मातरो यक्षा भूताश्च पितरस्तथा ॥ ५० ॥

१४.५१
ऋषयो येऽन्यदेवाश्च बलिं गृह्णन्तु संयताः ।
परिवार्य महादेवं तिष्ठन्तु गिरिजामपि ॥ ५१ ॥

१४.५२
ततो जपेन्महादेव्या मन्त्रमेनं यथेप्सितम् ।
गीतवाद्यादिभिः सद्भिर्विदध्यान्मङ्गलक्रियाम् ॥ ५२ ॥

१४.५३
अधिवासं विधायेत्थं परेऽह्नि विहितक्रियः ।
संकल्पं विधिवत् कृत्वा पञ्च देवान् प्रपूजयेत् ॥ ५३ ॥

१४.५४
मातृपूजां वसोर्धारां वृद्धिश्राद्धं समाचरन् ।
महेशद्वारपालांश्च यजेत् भक्त्या समाहितः ॥ ५४ ॥

१४.५५
नन्दी महाबलः कीशवदनो गणनायकः ।
द्वारपालाः शिवस्यैते सर्वे शस्त्रास्त्रपाणयः ॥ ५५ ॥

१४.५६
ततो लिङ्गं समानीय वेदीरूपां च तारिणीम् ।
मण्डले सर्वतोभद्रे स्थापयेद्वा शुभासने ॥ ५६ ॥

१४.५७
अष्टभिः कलशैः शम्भुं मनुना त्र्यम्बकेन च ।
स्नापयित्वाऽर्चयेत् भक्त्या षोडशैरुपचारकैः ॥ ५७ ॥

१४.५८
वेदीं च मूलमन्त्रेण तद्वत् संस्थाप्य पूजयन् ।
कृताञ्जलिपुटः साधुः प्रार्थयेत् शङ्करं शिवम् ॥ ५८ ॥

१४.५९
आगच्छ भगवन् शम्भो सर्वदेवनमस्कृत ।
पिनाकपाणे सर्वेश महादेव नमोऽस्तु ते ॥ ५९ ॥

१४.६०
आगच्छ मन्दिरे देव भक्तानुग्रहकारक ।
भगवत्या सहाऽगच्छ कृपां कुरु नमो नमः ॥ ६० ॥

१४.६१
मातर्देवि महामाये सर्वकल्याणकारिणि ।
प्रसीद शम्भुना सार्धं नमस्तेऽस्तु हरप्रिये ॥ ६१ ॥

१४.६२
आयाहि वरदे देवि भवनेऽस्मिन् वरप्रदे ।
प्रीता भव महेशानि सर्वसम्पत्करी भव ॥ ६२ ॥

१४.६३
उत्तिष्ठ देवदेवेशि स्वैः स्वैः परिकरैः सह ।
सुखं निवसतां गेहे प्रीयेतां भक्तवत्सलौ ॥ ६३ ॥

१४.६४
इति प्रार्थ्य शिवं देवीं मङ्गलध्वनिपूर्वकम् ।
प्रदक्षिणं त्रिधा वेश्म कारयित्वा प्रवेशयेत् ॥ ६४ ॥

१४.६५
पाषाणखनिते गर्ते इष्टकारचितेऽपि वा ।
अधस्त्रिभागलिङ्गस्य रोपयेन्मूलमुच्चरन् ॥ ६५ ॥

१४.६६
यावच्चन्द्रश्च सूर्यश्च यावत् पृथ्वी च सागराः ।
तावदत्र महादेव स्थिरो भव नमोऽस्तु ते ॥ ६६ ॥

१४.६७
मन्त्रेणानेन सुदृढं कारयित्वा सदाशिवम् ।
उत्तराग्रां तत्र वेदीं मूलेनैव प्रवेशयेत् ॥ ६७ ॥

१४.६८
स्थिरा भव जगद्धात्रि सृष्टिस्थित्यन्तकारिणि ।
यावद्दिवानिशानाथौ तावदत्र स्थिरा भव ॥ ६८ ॥

१४.६९
अनेन सुदृढीकृत्य लिङ्गं स्पृष्ट्वा पठेदिमम् ॥ ६९ ॥

१४.७०
व्याघ्रा भूताः पिशाचाश्च गन्धर्वाः सिद्धचारणाः ।
यक्षा नागाश्च वेतालाः लोकपाला महर्षयः ॥ ७० ॥

१४.७१
मातरो गणनाथाश्च विष्णुर्ब्रह्मा बृहस्पतिः ।
यस्य सिंहासने युक्ता भूचराः खेचरास्तथा ॥ ७१ ॥

१४.७२
आवाहयामि तं देवं त्र्यक्षमीशानमव्ययम् ।
आगच्छ भगवन्नत्र ब्रह्मनिर्मितयन्त्रके ॥ ७२ ॥

१४.७३
ध्रुवाय भव सर्वेषां शुभाय च सुखाय च ।
ततो देवप्रतिष्ठोक्तविधिना स्नापयन् शिवम् ॥ ७३ ॥

१४.७४
प्राग्वद्ध्यात्वा मानसोपचारैः सम्पूजयेत् प्रिये ।
विशेषमर्घ्यं संस्थाप्य समर्च्य गणदेवताः ।
पुनर्ध्यात्वा महेशानं पुष्पं लिङ्गोपरि न्यसेत् ॥ ७४ ॥

१४.७५
पाशाङ्कुशपुटा शक्तिर्यादिसान्ताः सबिन्दुकाः ।
हौं हंस इति मन्त्रेण तत्र प्राणान् निवेशयेत् ।
चन्दनागुरुकाश्मीरैर्विलिप्य गिरिजापतिम् ॥ ७५ ॥

१४.७६
यजेत् प्रागुक्तविधिना षोडशैरुपचारकैः ।
जातनामादिसंस्कारान् कृत्वा पूर्वविधानवत् ॥ ७६ ॥

१४.७७
समाप्य सर्वं विधिवत् वेद्यां देवीं महेश्वरीम् ।
अभ्यर्च्य तत्र देवस्य मूर्तीरष्टौ प्रपूजयेत् ॥ ७७ ॥

१४.७८
शर्वः क्षितिः समुद्दिष्टा भवो जलमुदाहृता ।
रुद्रोऽग्निरुग्रो वायुः स्याद् भीम आकाशशब्दितः ॥ ७८ ॥

१४.७९
पशोः पतिर्यजमानो महादेवः सुधाकरः ।
ईशानः सूर्य इत्येते मूर्तयोऽष्टौ प्रकीर्तिताः ॥ ७९ ॥

१४.८०
प्रणवादिनमोऽन्तेन प्रत्येकाह्वानपूर्वकम् ।
पूर्वादीशानपर्यन्तमष्ट मूर्तीः क्रमाद्यजेत् ॥ ८० ॥

१४.८१
इन्द्रादिदिक्पतीनिष्ट्वा ब्राह्म्याद्याश्चाऽष्टमातृकाः ।
वृषं वितानं गेहादि दद्यादीशाय साधकः ॥ ८१ ॥

१४.८२
ततः कृताञ्जलिर्भक्त्या प्रार्थयेत् पार्वतीपतिम् ॥ ८२ ॥

१४.८३
गृहेऽस्मिन् करुणासिन्धो स्थापितोऽसि मया प्रभो ।
प्रसीद भगवन् शम्भो सर्वकारणकारण ॥ ८३ ॥

१४.८४
यावत् ससागरा पृथ्वी यावत् शशिदिवाकरौ ।
तावदस्मिन् गृहे तिष्ठ नमस्ते परमेश्वर ॥ ८४ ॥

१४.८५
गृहेऽस्मिन् यस्य कस्यापि जीवस्य मरणं भवेत् ।
न तत्पापैः प्रलिप्येऽहं प्रसादात्तव धूर्जटे ॥ ८५ ॥

१४.८६
ततः प्रदक्षिणीकृत्य नमस्कृत्य गृहं व्रजेत् ।
प्रभाते पुनरागत्य स्नापयेच्चन्द्रशेखरम् ॥ ८६ ॥

१४.८७
शुद्धैः पञ्चामृतैः स्नानं प्रथमं प्रतिपादयेत् ।
ततः सुगन्धितोयानां कलशैः शतसंख्यकैः ॥ ८७ ॥

१४.८८
संपूज्य तं यथाशक्त्या प्रार्थयेत् भक्तिभावतः ॥ ८८ ॥

१४.८९
विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।
सम्पूर्णमस्तु तत् सर्वं त्वत्प्रसादादुमापते ॥ ८९ ॥

१४.९०
यावच्चन्द्रश्च सूर्यश्च यावत् पृथ्वी च सागराः ।
तावन्मे कीर्तिरतुला लोके तिष्ठतु सर्वदा ॥ ९० ॥

१४.९१
नमस्त्र्यक्षाय रुद्राय पिनाकवरधारिणे ।
विष्णुब्रह्मेन्द्रसूर्याद्यैरर्चिताय नमो नमः ॥ ९१ ॥

१४.९२
ततस्तु दक्षिणां दत्त्वा भोजयेत् कौलिकान् द्विजान् ।
भक्ष्यैः पेयैश्च वासोभिर्दरिद्रान् परितोषयेत् ॥ ९२ ॥

१४.९३
प्रत्यहं पूजयेद्देवं यथाविभवमात्मनः ।
स्थावरं शिवलिङ्गं तु न कदापि विचालयेत् ॥ ९३ ॥

१४.९४
अचलस्येशलिङ्गस्य प्रतिष्ठा कथितेति ते ।
सङ्क्षेपात् परमेशानि सर्वागमसमुद्धृता ॥ ९४ ॥

१४.९५
श्रीदेव्युवाच ।
यद्यकस्माद्देवतानां पूजाबाधो भवेद्विभो ।
विधेयं तत्र किं भक्तैस्तन्मे कथय तत्त्वतः ॥ ९५ ॥

१४.९६
अपूजनीया कैर्दोषैर्भवेयुर्देवमूर्तयः ।
त्याज्या वा केन दोषेण तदुपायश्च भण्यताम् ॥ ९६ ॥

१४.९७
श्रीसदाशिव उवाच ।
एकाहमर्चनाबाधे द्विगुणं देवमर्चयेत् ।
दिनद्वये तद्द्विगुणं तद्द्वैगुण्यं दिनत्रये ॥ ९७ ॥

१४.९८
ततः षण्मासपर्यन्तं यदि पूजा न सम्भवेत् ।
तदाऽष्टकलशैर्देवं स्नापयित्वा यजेत् सुधीः ॥ ९८ ॥

१४.९९
षण्मासात् परतो देवं प्राक्संस्कारविधानतः ।
पुनः सुसंस्कृतं कृत्वा पूजयेत् साधकाग्रणीः ॥ ९९ ॥

१४.१००
खण्डितं स्फुटितं व्यङ्गं संस्पृष्टं कुष्ठरोगिणा ।
पतितं दुष्टभूम्यादौ न देवं पूजयेद्बुधः ॥ १०० ॥

१४.१०१
हीनाङ्गं स्फुटितं भग्नं देवं तोये विसर्जयेत् ।
स्पर्शादिदोषदुष्टं तु संस्कृत्य पुनरर्चयेत् ॥ १०१ ॥

१४.१०२
महापीठेऽनादिलिङ्गे सर्वदोषविवर्जिते ।
सर्वदा पूजयेत्तत्र स्वं स्वमिष्टं सुखाप्तये ॥ १०२ ॥

१४.१०३
यद्यत्पृष्टं महामाये नृणां कर्मानुजीविनाम् ।
निःश्रेयसाय तत् सर्वं सविशेषं प्रकीर्तितम् ॥ १०३ ॥

१४.१०४
विना कर्म न तिष्ठन्ति क्षणार्धमपि देहिनः ।
अनिच्छन्तोऽपि विवशाः कृष्यन्ते कर्मवायुना ॥ १०४ ॥

१४.१०५
कर्मणा सुखमश्नन्ति दुःखमश्नन्ति कर्मणा ।
जायन्ते च प्रलीयन्ते वर्तन्ते कर्मणो वशात् ॥ १०५ ॥

१४.१०६
अतो बहुविधं कर्म कथितं साधनान्वितम् ।
प्रवृत्तयेऽल्पबोधानां दुश्चेष्टितनिवृत्तये ॥ १०६ ॥

१४.१०७
यतो हि कर्म द्विविधं शुभञ्चाऽशुभमेव च ।
अशुभात् कर्मणो यान्ति प्राणिनस्तीव्रयातनाम् ॥ १०७ ॥

१४.१०८
कर्मणोऽपि शुभाद्देवि फलेष्वासक्तचेतसः ।
प्रयान्त्यायान्त्यमुत्रेह कर्मशृङ्खलयन्त्रिताः ॥ १०८ ॥

१४.१०९
यावन्न क्षीयते कर्म शुभं वाऽशुभमेव वा ।
तावन्न जायते मोक्षो नृणां कल्पशतैरपि ॥ १०९ ॥

१४.११०
यथा लौहमयैः पाशैः पाशैः स्वर्णमयैरपि ।
तथा बद्धो भवेज्जीवः कर्मभिश्चाऽशुभैः शुभैः ॥ ११० ॥

१४.१११
कुर्वाणः सततं कर्म कृत्वा कष्टशतान्यपि ।
तावन्न लभते मोक्षं यावत् ज्ञानं न विन्दति ॥ १११ ॥

१४.११२
ज्ञानं तत्त्वविचारेण निष्कामेणापि कर्मणा ।
जायते क्षीणतमसां विदुषां निर्मलात्मनाम् ॥ ११२ ॥

१४.११३
ब्रह्मादितृणपर्यन्तं मायया कल्पितं जगत् ।
सत्यमेकं परं ब्रह्म विदित्वैवं सुखी भवेत् ॥ ११३ ॥

१४.११४
विहाय नामरूपाणि नित्ये ब्रह्मणि निश्चले ।
परिनिश्चिततत्त्वो यः स मुक्तः कर्मबन्धनात् ॥ ११४ ॥

१४.११५
न मुक्तिर्जपनाद्धोमादुपवासशतैरपि ।
ब्रह्मैवाऽहमिति ज्ञात्वा मुक्तो भवति देहभृत् ॥ ११५ ॥

१४.११६
आत्मा साक्षी विभुः पूर्णः सत्योऽद्वैतः परात्परः ।
देहस्थोऽपि न देहस्थो ज्ञात्वैवं मुक्तिभाग् भवेत् ॥ ११६ ॥

१४.११७
बालक्रीडनवत् सर्वं रूपनामादिकल्पनम् ।
विहाय ब्रह्मनिष्ठो यः स मुक्तो नाऽत्र संशयः ॥ ११७ ॥

१४.११८
मनसा कल्पिता मूर्तिर्नृणां चेन्मोक्षसाधनी ।
स्वप्नलब्धेन राज्येन राजानो मानवास्तदा ॥ ११८ ॥

१४.११९
मृच्छिलाधातुदार्वादिमूर्तावीश्वरबुद्धयः ।
क्लिश्यन्तस्तपसा ज्ञानं विना मोक्षं न यान्ति ते ॥ ११९ ॥

१४.१२०
आहारसंयमक्लिष्टा यथेष्टाहारतुन्दिलाः ।
ब्रह्मज्ञानविहीनाश्चेन्निष्कृतिं ते व्रजन्ति किम् ॥ १२० ॥

१४.१२१
वायुपर्णकणातोयव्रतिनो मोक्षभागिनः ।
सन्ति चेत् पन्नगा मुक्ताः पशुपक्षिजलेचराः ॥ १२१ ॥

१४.१२२
उत्तमो ब्रह्मसद्भावो ध्यानभावस्तु मध्यमः ।
स्तुतिर्जपोऽधमो भावो बहिः पूजाऽधमाधमा ॥ १२२ ॥

१४.१२३
योगो जीवात्मनोरैक्यं पूजनं सेवकेशयोः ।
सर्वं ब्रह्मेति विदुषो न योगो न च पूजनम् ॥ १२३ ॥

१४.१२४
ब्रह्मज्ञानं परं ज्ञानं यस्य चित्ते विराजते ।
किं तस्य जपयज्ञाद्यैस्तपोभिर्नियमव्रतैः ॥ १२४ ॥

१४.१२५
सत्यं विज्ञानमानन्दमेकं ब्रह्मेति पश्यतः ।
स्वभावात् ब्रह्मभूतस्य किं पूजा ध्यानधारणा ॥ १२५ ॥

१४.१२६
न पापं नैव सुकृतं न स्वर्गो न पुनर्भवः ।
नापि ध्येयो न वा ध्याता सर्वं ब्रह्मेति जानतः ॥ १२६ ॥

१४.१२७
अयमात्मा सदा मुक्तो निर्लिप्तः सर्ववस्तुषु ।
किं तस्य बन्धनं कस्मान्मुक्तिमिच्छन्ति दुर्धियः ॥ १२७ ॥

१४.१२८
स्वमायारचितं विश्वमवितर्क्यं सुरैरपि ।
स्वयं विराजते तत्र ह्यप्रविष्टः प्रविष्टवत् ॥ १२८ ॥

१४.१२९
बहिरन्तर्यथाऽकाशं सर्वेषामेव वस्तुनाम् ।
तथैव भाति सद्रूपो ह्यात्मा साक्षी स्वरूपतः ॥ १२९ ॥

१४.१३०
न बाल्यमस्ति वृद्धत्वं नात्मनो यौवनं जनुः ।
सदैकरूपश्चिन्मात्रो विकारपरिवर्जितः ॥ १३० ॥

१४.१३१
जन्मयौवनवार्धक्यं देहस्यैव न चाऽत्मनः ।
पश्यन्तोऽपि न पश्यन्ति मायाप्रावृतबुद्धयः ॥ १३१ ॥

१४.१३२
यथा शरावतोयस्थं रविं पश्यत्यनेकधा ।
तथैव मायया देहे बहुधाऽत्मानमीक्षते ॥ १३२ ॥

१४.१३३
यथा सलिलचाञ्चल्यं मन्यन्ते तद्गते विधौ ।
तथैव बुद्धेश्चाञ्चल्यं पश्यन्त्यात्मन्यकोविदाः ॥ १३३ ॥

१४.१३४
घटस्थं यादृशं व्योम घटे भग्नेऽपि तादृशम् ।
नष्टे देहे तथैवात्मा समरूपो विराजते ॥ १३४ ॥

१४.१३५
आत्मज्ञानमिदं देवि परं मोक्षैकसाधनम् ।
जानन्निहैव मुक्तः स्यात् सत्यं सत्यं न संशयः ॥ १३५ ॥

१४.१३६
न कर्मणा विमुक्तः स्यान्न सन्तत्या धनेन वा ।
आत्मनाऽत्मानमाज्ञाय मुक्तो भवति मानवः ॥ १३६ ॥

१४.१३७
प्रियो ह्यात्मैव सर्वेषां नात्मनोऽस्त्यपरं प्रियम् ।
लोकेऽस्मिन्नात्मसम्बन्धात् भवन्त्यन्ये प्रियाः शिवे ॥ १३७ ॥

१४.१३८
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं भाति मायया ।
विचार्यमाणे त्रितये आत्मैवैकोऽवशिष्यते ॥ १३८ ॥

१४.१३९
ज्ञानमात्मैव चिद्रूपो ज्ञेयमात्मैव चिन्मयः ।
विज्ञाता स्वयमेवात्मा यो जानाति स आत्मवित् ॥ १३९ ॥

१४.१४०
एतत्ते कथितं ज्ञानं साक्षान्निर्वाणकारणम् ।
चतुर्विधावधूतानामेतदेव परं धनम् ॥ १४० ॥

१४.१४१
श्रिदेव्युवाच ।
द्विविधावाश्रमौ प्रोक्तौ गार्हस्थो भैक्षुकस्तथा ।
किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः ॥ १४१ ॥

१४.१४२
श्रुत्वा वेदितुमिच्छामि तत्त्वतः कथय प्रभो ।
चतुर्विधावधूतानां लक्षणं सविशेषतः ॥ १४२ ॥

१४.१४३
श्रीसदाशिव उवाच ।
ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः ।
गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ॥ १४३ ॥

१४.१४४
पूर्णाभिषेकविधिना संस्कृता ये च मानवाः ।
शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्चिते ॥ १४४ ॥

१४.१४५
ब्राह्मावधूताः शैवाश्च स्वाश्रमाचारवर्तिनः ।
विदध्युः सर्वकर्माणि मदुदीरितवर्त्मना ॥ १४५ ॥

१४.१४६
विना ब्रह्मार्पितं चैते तथा चक्रार्पितं विना ।
निषिद्धमन्नं तोयञ्च न गृह्णीयुः कदाचन ॥ १४६ ॥

१४.१४७
ब्राह्मावधूतकौलानां कौलानामभिषेकिणाम् ।
प्रागेव कथितो धर्म आचारश्च वरानने ॥ १४७ ॥

१४.१४८
स्नानं सन्ध्याऽशनं पानं दानं च दाररक्षणम् ।
सर्वमागममार्गेण शैवब्राह्मावधूतयोः ॥ १४८ ॥

१४.१४९
उक्तावधूतो द्विविधः पूर्णापूर्णविभेदतः ।
पूर्णः परमहंसाख्यः परिव्राडपरः प्रिये ॥ १४९ ॥

१४.१५०
कृतावधूतसंस्कारो यदि स्यात् ज्ञानदुर्बलः ।
तदा लोकालये तिष्ठन्नात्मानं स तु शोधयेत् ॥ १५० ॥

१४.१५१
रक्षन् स्वजातिचिह्नञ्च कुर्वन् कर्माणि कौलवत् ।
सदा ब्रह्मपरो भूत्वा साधयेत् ज्ञानमुत्तमम् ॥ १५१ ॥

१४.१५२
ओं तत्सन्मन्त्रमुच्चार्य सोऽहमस्मीति चिन्तयन् ।
कुर्यादात्मोचितं कर्म सदा वैराग्यमाश्रितः ॥ १५२ ॥

१४.१५३
कुर्वन् कर्माण्यनासक्तो नलिनीदलनीरवत् ।
यतेताऽत्मानमुद्धर्तुं तत्त्वज्ञानविवेकतः ॥ १५३ ॥

१४.१५४
ओं तत्सदिति मन्त्रेण यो यत् कर्म समाचरेत् ।
गृहस्थो वाऽप्युदासीनस्तस्याऽभीष्टाय तद् भवेत् ॥ १५४ ॥

१४.१५५
जपो होमः प्रतिष्ठा च संस्काराद्यखिलाः क्रियाः ।
ओं तत्सन्मन्त्रनिष्पन्नाः सम्पूर्णाः स्युर्न संशयः ॥ १५५ ॥

१४.१५६
किमन्यैर्बहुभिर्मन्त्रैः किमन्यैर्भूरिसाधनैः ।
ब्राह्म्येणानेन मन्त्रेण सर्वकर्माणि साधयेत् ॥ १५६ ॥

१४.१५७
सुखसाध्यमबाहुल्यं सम्पूर्णफलदायकम् ।
नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके ॥ १५७ ॥

१४.१५८
पुरः प्रदेशे देहे वा लिखित्वा धारयेदिमम् ।
गेहस्तस्य महातीर्थं देहः पुण्यमयो भवेत् ॥ १५८ ॥

१४.१५९
निगमागमतन्त्राणां सारात्सारतरो मनुः ।
ओं तत्सदिति देवेशि तवाग्रे सत्यमीरितम् ॥ १५९ ॥

१४.१६०
ब्रह्मविष्णुमहेशानां भित्त्वा तालुशिरःशिखाः ।
प्रादुर्भूतोऽयमों तत्सत् सर्वमन्त्रोत्तमोत्तमः ॥ १६० ॥

१४.१६१
चतुर्विधानामन्नानामन्येषामपि वस्तुनाम् ।
मन्त्रान्यैः शोधनेनाऽलं स्याच्चेदेतेन शोधितम् ॥ १६१ ॥

१४.१६२
पश्यन् सर्वत्र सद्रूपं जपंस्तत्सन्महामनुम् ।
स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् ॥ १६२ ॥

१४.१६३
जपादस्य भवेत् सिद्धो मुक्तः स्यादर्थचिन्तनात् ।
साक्षाद् ब्रह्मसमो देही सार्थमेनं जपन् मनुम् ॥ १६३ ॥

१४.१६४
त्रिपदोऽयं महामन्त्रः सर्वकारणकारणम् ।
साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयम् ॥ १६४ ॥

१४.१६५
युग्मं युग्मपदं वापि प्रत्येकपदमेव वा ।
जप्त्वैतस्य महेशानि साधकः सिद्धिभाग् भवेत् ॥ १६५ ॥

१४.१६६
शैवावधूतसंस्कारविधूताखिलकर्मणः ।
नापि दैवे न वा पित्रे नार्षे कृत्येऽधिकारिता ॥ १६६ ॥

१४.१६७
चतुर्णामवधूतानां तुरीयो हंस उच्यते ।
त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्वे शिवोपमाः ॥ १६७ ॥

१४.१६८
हंसो न कुर्यात् स्त्रीसङ्गं न वा धातुपरिग्रहम् ।
प्रारब्धमश्नन् विहरेन्निषेधविधिवर्जितः ॥ १६८ ॥

१४.१६९
त्यजेत् स्वजातिचिह्नानि कर्माणि गृहमेधिनाम् ।
तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः ॥ १६९ ॥

१४.१७०
सदात्मभावसन्तुष्टः शोकमोहविवर्जितः ।
निर्नकेतस्तितिक्षुः स्यान्निःशङ्को निरुपद्रवः ॥ १७० ॥

१४.१७१
नाऽर्पणं भक्ष्यपेयानां न तस्य ध्यानधारणाः ।
मुक्तो विरक्तो निर्द्वन्द्वो हंसाचारपरो यतिः ॥ १७१ ॥

१४.१७२
इति ते कथितं देवि चतुर्णां कुलयोगिनाम् ।
लक्षणं सविशेषेण साधूनां मत्स्वरूपिणाम् ॥ १७२ ॥

१४.१७३
एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् ।
सर्वतीर्थफलावाप्तिर्जायते मनुजन्मनाम् ॥ १७३ ॥

१४.१७४
पृथिव्यां यानि तीर्थानि पुण्यक्षेत्राणि यानि च ।
कुलसन्न्यासिनां देहे सन्ति तानि सदा प्रिये ॥ १७४ ॥

१४.१७५
ते धन्यास्ते कृतार्थाश्च ते पुण्यास्ते कृताध्वराः ।
यैरर्चिताः कुलद्रव्यैर्मानवैः कुलसाधवः ॥ १७५ ॥

१४.१७६
अशुचिर्याति शुचितामस्पृश्यः स्पृश्यतामियात् ।
अभक्ष्यमपि भक्ष्यं स्यात् येषां संस्पर्शमात्रतः ॥ १७६ ॥

१४.१७७
किराताः पापिनः क्रूराः पुलिन्दा यवनाः खसाः ।
शुद्ध्यन्ति येषां संस्पर्शात्तान् विना कोऽन्यमर्चयेत् ॥ १७७ ॥

१४.१७८
कुलतत्त्वैः कुलद्रव्यैः कौलिकान् कुलयोगिनः ।
येऽर्चयन्ति सकृद्भक्त्या तेऽपि पूज्या महीतले ॥ १७८ ॥

१४.१७९
कौलधर्मात् परो धर्मो नास्त्येव कमलानने ।
अन्त्यजोऽपि यमाश्रित्य पूतः कौलपदं व्रजेत् ॥ १७९ ॥

१४.१८०
करिपादे विलीयन्ते सर्वप्राणिपदा यथा ।
कुलधर्मे निमज्जन्ति सर्वे धर्मास्तथा प्रिये ॥ १८० ॥

१४.१८१
अहो पुण्यतमाः कौलास्तीर्थरूपाः स्वयं प्रिये ।
ये पुनन्त्यात्मसम्बन्धान् म्लेच्छश्वपचपामरान् ॥ १८१ ॥

१४.१८२
गङ्गायां पतिताम्भांसि यान्ति गाङ्गेयतां यथा ।
कुलाचारे विशन्तोऽपि सर्वे गच्छन्ति कौलताम् ॥ १८२ ॥

१४.१८३
यथाऽर्णवगतं वारि न पृथग्भावमाप्नुयात् ।
तथा कुलाम्बुधौ मग्ना न भवेयुर्जनाः पृथक् ॥ १८३ ॥

१४.१८४
विप्राद्यन्त्यजपर्यन्ता द्विपदा येऽत्र भूतले ।
ते सर्वेऽस्मिन् कुलाचारे भवेयुरधिकारिणः ॥ १८४ ॥

१४.१८५
आहूताः कुलधर्मेऽस्मिन् ये भवन्ति पराङ्मुखाः ।
सर्वधर्मपरिभ्रष्टास्ते गच्छन्त्यधमां गतिम् ॥ १८५ ॥

१४.१८६
प्रार्थयन्ति कुलाचारं ये केचिदपि मानवाः ।
तान् वञ्चयन् कुलीनोऽपि रौरवं नरकं व्रजेत् ॥ १८६ ॥

१४.१८७
चाण्डालं यवनं नीचं मत्वा स्त्रियमवज्ञया ।
कौलं न कुर्यात् यः कौलः सोऽधमो यात्यधोगतिम् ॥ १८७ ॥

१४.१८८
शताभिषेकात् यत् पुण्यं पुरश्चर्याशतैरपि ।
तस्मात् कोटिगुणं पुण्यमेकस्मिन् कौलिके कृते ॥ १८८ ॥

१४.१८९
ये ये वर्णाः क्षितौ सन्ति यद्यद्धर्ममुपाश्रिताः ।
कौला भवन्तस्ते पाशैर्मुक्ता यान्ति परं पदम् ॥ १८९ ॥

१४.१९०
शैवधर्माश्रिताः कौलाः तीर्थरूपाः शिवात्मकाः ।
स्नेहेन श्रद्धया प्रेम्णा पूज्या मान्याः परस्परम् ॥ १९० ॥

१४.१९१
बहुनाऽत्र किमुक्तेन तवाग्रे सत्यमुच्यते ।
भवाब्धितरणे सेतुः कुलधर्मो हि नापरः ॥ १९१ ॥

१४.१९२
छिद्यन्ते संशयाः सर्वे क्षीयन्ते पापसञ्चयाः ।
दह्यन्ते कर्मजालानि कुलधर्मनिषेवणात् ॥ १९२ ॥

१४.१९३
सत्यव्रता ब्रह्मनिष्ठाः कृपयाऽहूय मानवाने ।
पावयन्ति कुलाचारैस्ते ज्ञेयाः कौलिकोत्तमाः ॥ १९३ ॥

१४.१९४
इति ते कथितं देवि सर्वधर्मविनिर्णयम् ।
महानिर्वाणतन्त्रस्य पूर्वार्धं लोकपावनम् ॥ १९४ ॥

१४.१९५
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवान् ।
सर्वपापविनिर्मुक्तः सोऽन्ते निर्वाणमाप्नुयात् ॥ १९५ ॥

१४.१९६
सर्वागमानां तन्त्राणां सारात्सारं परात्परम् ।
तन्त्रराजमिदं ज्ञात्वा जायते सर्वशास्त्रवित् ॥ १९६ ॥

१४.१९७
किन्तस्य तीर्थभ्रमणैः किं यज्ञैर्जपसाधनैः ।
जानन्नेतन्महातन्त्रं कर्मपाशैर्विमुच्यते ॥ १९७ ॥

१४.१९८
स विज्ञः सर्वशास्त्रेषु सर्वधर्मविदां वरः ।
स ज्ञानी ब्रह्मवित् साधुर्य एतद्वेत्ति कालिके ॥ १९८ ॥

१४.१९९
अलं वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः ।
किमन्यैर्बहुभिस्तन्त्रैर्ज्ञात्वेदं सर्वविद्भवेत् ॥ १९९ ॥

१४.२००
आसीद् गुह्यतमं यन्मे साधनं ज्ञानमुत्तमम् ।
तव प्रश्नेन तन्त्रेऽस्मिंस्तत् सर्वं सुप्रकाशितम् ॥ २०० ॥

१४.२०१
यथा त्वं ब्रह्मणः शक्तिर्मम प्राणाधिका परा ।
महानिर्वाणतन्त्रं मे तथा जानीहि सुव्रते ॥ २०१ ॥

१४.२०२
यथा नगेषु हिमवान् तारकासु यथा शशी ।
भास्वांस्तेजःसु तन्त्रेषु तन्त्रराजमिदं तथा ॥ २०२ ॥

१४.२०३
सर्वधर्ममयं तन्त्रं ब्रह्मज्ञानैकसाधनम् ।
पठित्वा पाठयित्वाऽपि ब्रह्मज्ञानी भवेन्नरः ॥ २०३ ॥

१४.२०४
विद्यते यस्य भवने सर्वतन्त्रोत्तमोत्तमम् ।
न तस्य वंशे देवेशि पशुर्भवति कर्हिचित् ॥ २०४ ॥

१४.२०५
अज्ञानतिमिरान्धोऽपि मूर्खः कर्मजडोऽपि वा ।
शृण्वन्नेतन्महातन्त्रं कर्मबन्धाद्विमुच्यते ॥ २०५ ॥

१४.२०६
एतत्तन्त्रस्य पठनं श्रवणं पूजनं तथा ।
वन्दनं परमेशानि नृणां कैवल्यदायकम् ॥ २०६ ॥

१४.२०७
उक्तं बहुविधं तन्त्रमेकैकाख्यानसंयुतम् ।
सर्वधर्मान्वितं तन्त्रं नातःपरतरं क्वचित् ॥ २०७ ॥

१४.२०८
पातालचक्रं भूचक्रज्योतिश्चक्रसमन्वितम् ।
परार्धमस्य यो वेत्ति स सर्वज्ञो न संशयः ॥ २०८ ॥

१४.२०९
परार्धसहितं ग्रन्थमेनं जानन्नरो भवेत् ।
त्रिकालवार्तां त्रैलोक्यवृत्तान्तं कथितुं क्षमः ॥ २०९ ॥

१४.२१०
सन्ति तन्त्राणि बहुधा शास्त्राणि विविधान्यपि ।
महानिर्वाणतन्त्रस्य कलां नार्हन्ति षोडशीम् ॥ २१० ॥

१४.२११
महानिर्वाणतन्त्रस्य माहात्म्यं किं ब्रवीमि ते ।
विदित्वैतन्महातन्त्रं ब्रह्मनिर्वाणमाप्नुयात् ॥ २११ ॥

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे पूर्वकाण्डे शिवलिङ्गस्थापनचतुर्विधावधूतविवरणकथनं नाम चतुर्दशोल्लासः ।

समाप्तोऽयं पूर्वार्धः ।

Siehe auch

Mahanirvana Tantra · Mahanirvana Tantra 108 Verse und Mantras · Kularnava Tantra · Niruttara Tantra · Sanskrit

Seminare

Kundalini Yoga und tantrische Praxis

25.10.2026 - 30.10.2026 Kundalini Yoga Meditation Kursleiter Ausbildung

Kundalini Yoga Meditationen sind ein faszinierendes weites Gebiet, dessen Potential noch bei weitem nicht ausgeschöpft ist. Kundalini Meditationen kön…
Adishakti Stein, Viveka Wilde
30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Textgrundlage und Hinweise zur Übersetzung

Grundlage ist der Sanskrit-Grundtext des Mahānirvāṇatantra, Muktabodha-Katalog M00049, nach Arthur Avalons Ausgabe der Tantrik Texts, Band 13 (1926), mit dem Kommentar Hariharananda Bharatis. Der E-Text wurde unter der Leitung von Mark S. G. Dyczkowski erfasst. Die vierzehn Kapitel bilden den Purvardha, die erste Hälfte; die im Schlusskapitel erwähnte zweite Hälfte gehört nicht zu dieser Grundlage. Der Kommentar ist nicht Teil der hier wiedergegebenen Grundverse.

Die Schlussziffern [141] in Kapitel 5 und [109] in Kapitel 13 ergänzen die fehlenden Nummern zweier vorhandener Textstücke. Die Grundlage springt von 13.283 auf 13.285; ein eigener Vers 13.284 wird nicht ergänzt. Der vierte Kapitelkolophon trägt abweichend die Ziffer 2. Die Schrägstrichnotation des Bindu ist als Anusvara wiedergegeben; das Schlussglied von 13.109 bleibt unsicher. Die Lesefassung umfasst 2516 nummerierte Textabschnitte. Weitere Erläuterungen stehen unter Textgrundlage und Hinweise zur Übersetzung.

Rechtehinweis: Der Muktabodha-E-Text nennt die Lizenz Creative Commons Namensnennung–Nicht kommerziell 4.0. Diese Quellen- und Lizenzangabe ist bei Weitergabe der darauf beruhenden Sanskrit-Lesefassungen und Bearbeitungen zu erhalten; eine Freigabe für kommerzielle Nutzung wird damit nicht erklärt. Gegenüber dem E-Text bestehen die oben beschriebenen redaktionellen Änderungen sowie die deutsche Übersetzung und die Auswahl der Praxisverse.