Krama Sadbhava Sanskrit Devanagari

Aus Yogawiki

Krama Sadbhava – Sanskrit in Devanagari enthält dieselben Ausschnitte wie der Hauptartikel und folgt ihrer dortigen Reihenfolge: 47 vollständige Strophen, 22 Versfragmente sowie eine Sprecherzeile und einen erhaltenen Teil einer Schlussformel. Diese Teilausgabe umfasst kein vollständiges Kapitel.

Weitere Seiten dieser Ausgabe: Krama Sadbhava · Krama Sadbhava 30 Verse für die spirituelle Praxis

Die Devanagari-Fassung ist aus dem Sanskrittext in IAST übertragen. Die Versnummern sind beibehalten; Q001–Q020 bezeichnen Zitate ohne bekannte ursprüngliche Versnummer. Die verschiedenen überlieferten Zählungen erklären, weshalb die Nummern keine durchgehend aufsteigende Folge bilden.

1.1 श्रीमदुत्तरदिग्भागे पीठं पीठवरं महत् ।
ओड्डियानाभिधानं तु सिद्धयोगिनिसेवितम् ॥

1.2ab तस्मिन् पीठवरे रम्ये श्मशानं करवीरकम् ।

1.9ab तस्मिन् पितृवने घोरे महाभैरवसंकुले ।

1.17 तस्मिंश् चक्रे महाघोरे महामातृभि संकुले ।
स्वविमर्शदशान्तस्था तिष्ठते परमेश्वरी ॥

1.18 काली तु भैरवारूढा महाकालकलाशिनी ।
व्योमरूपा अनन्ताख्या अष्टमूर्तिधरा शिवा ॥

1.19 पञ्चाशद्रुद्रखचिता चतुःषष्टिसुसेविता ।
इन्द्रो ब्रह्मा तथा विष्णू रुद्र ईश्वर एव च ॥

1.20 सदाशिवो महादेवो भैरवश् चैव सप्तमः ।
प्रेतत्वे संस्थिता नित्यं तस्या देव्यास् तु सर्वतः ॥

श्रीभैरव उवाच

1.42cd अस्मिन् पीठे महावीरैर् वीरवीरैस् तु संकुले ।

1.43 किमर्थम् आगताः सर्वे चतुःषष्टिर् महाबलाः ।
योगिनीवीरवीरेश्यो वीरजाः परमेश्वरि ॥

1.44ab त्वदाराधनसंसक्ता महायागेन्द्रसोत्सुकाः ।

1.49cd पृच्छामि परमं देवि स्वविमर्शबलेन तु ।

1.50 अग्रगास् तु पराः देव्याः संहारकरणक्षमाः ।
सर्वास् तास् तु महाभागाः स्वेच्छया विश्वभक्षिकाः ॥

1.51 तथापि हृद्गतं तासां प्रश्नम् अस्ति महाधिये ।
गुप्तं तु परमं दिव्यं किमर्थं सुरवन्दिते ॥

1.53 अष्टौ पीठास् तु ये प्रोक्ताः सर्वपीठेषु चोत्तमाः ।
तत्रस्थास् तु इमाः सर्वा आगतास् तु स्वभावतः ॥

1.54 अष्टाव् अष्टगुणा दिव्याः स्वभावदर्शनोत्सुकाः ।
चतुःषष्टिर् महाभीमाः सर्ववीरेशनायक ॥

1.55ab महायागे तु वै रुद्र उद्युक्तास् तु विधानतः ।

1.67cd अत्यन्तमोहजालेन वेष्टितोऽहं तु सुन्दरि ।

1.68 ममार्थेऽनुग्रहं सम्यक् कुरु तत्त्वेन भामिनि ।
वदस्व परमं गुह्यम् अप्रतर्क्यम् अनिन्दितम् ॥

1.69 योगिनीहृदयावस्थं प्रकटं कुरु शङ्करि ।
तिथिवेलाविनिर्मुक्तं देशकालादिवर्जितम् ॥

1.70 स्थानसंकेतकैर् मुक्तं नक्षत्रैश् च ग्रहैस् तथा ।
मुद्रामन्त्रविनिर्मुक्तं रजोरङ्गादिभिस् तथा ॥

1.71 अक्षतैश् च तिलैर् नित्यम् अग्निकर्मेण वर्जितम् ।
आह्वानादिविनिर्मुक्तं व्रतचर्यादिकैस् तथा ॥

1.72ab रेचकैः पूरकैश् चैव कुम्भकैश् च विशेषतः ।

2.47c नित्ये शून्ये निरानन्दे

3.29cd तेन वक्त्रेण वक्ष्यामि वक्त्राम्नायक्रमागतम् ।

3.93cd निःस्वभावं निरौपम्यं निर्लक्ष्यं निःप्रयोजनम् ।

4.47cd ब्राह्मणी पुक्कसी चैव ध्वजिनी अन्त्यजा तथा ।

4.48 चक्रिणी च तथा छिप्पी शौणिकी क्षत्रियी तथा ।
मातङ्गी चर्मकारी च धीवरी च महामते ॥

4.49 शूद्री वैश्यी तथा वेश्या धावकी नर्तकी तथा ।
एतास् तु पूजयेत् तत्र जात्यहंकारवर्जितः ॥

5.44ab सा विद्यां तव वक्ष्यामि स्वविमर्शबलेन च ।

1.12 अरूपे अस्वरे गर्भे षोडशान्ते व्यवस्थिते ।
इच्छारूपस्वभावस्थे भैरवेशि नमोऽस्तु ते ॥

3.46ab द्वादशान्ता निरानन्दा षोडशान्ता मनोन्मनी

1.59 निर्मुक्तं तु स्वभावेन सर्वपापैश् च वर्जितम् ।
संयमनियमैश् चैव निर्मुक्तं तत्त्वतो महत् ॥

1.60ab वदस्व परमं गुह्यं अस्य यद् हृदये स्थितम् ।

1.42 तेन यष्टेन वै सम्यक् सर्वं जगद् इदं तु यत् ।
नश्यते परमार्थेन यथा वह्निगतं तृणम् ॥

2.52 तत्रस्था परमा रौद्रा मन्त्रभूमिस्तु सा विदुः ।
रावज्ञा रावगारावा रावस्था रावदा सदा ॥

2.83 कथयामि तव स्नेहात् मिलितं च पदं यथा ।
योगिन्यः सर्वभावास् तु चिद्-भाव-पद-मध्यगाः ॥

2.84 द्वादश च समासेन चित्स्वरूपाः स्वरूपतः ।
स्रोत्रयोर् उभयोर् मध्ये परा या चित्स्वरूपिणी ॥

2.85 मेलापे मिलिता सा वै शब्दस्य परमा चितिः ।
त्वग्गता सर्वभूतेषु विश्वेऽस्मिन् सचराचरे ॥

2.86 मेलापे मिलिता सा वै स्पर्शस्य परमा चितिः ।
चक्षुर्मध्ये स्थिता या वै चन्द्रार्क-द्वय-भासकी ॥

2.87 मेलापे मिलिता सा वै रूपस्य परमा चितिः ।
द्वात्रिंशद्-वीर-संयुक्ता मध्ये या स्वादिनी कला ॥

2.88 मेलापे मिलिता सा वै रसस्य परमा चितिः ।
कपाट-द्वय-भेदेन पक्षापक्ष-द्वय-रता ॥

2.89 मेलापे मिलिता सा वै गन्धस्य परमा चितिः ।
परा स्वरूपा पश्यन्ती मध्यमा वैखरी तथा ॥

2.90 मेलापे मिलिता सा वै जप्यते परमा चितिः ।
फणिरूपा पञ्च-मुखा सर्व-ग्रासैक-तत्-परा ॥

2.91 मेलापे मिलिता या वै आदाने परमा चितिः ।
सर्वान्ता षोडशान्ता च पाद-चक्रस्य वाहिका ॥

2.92 मेलापे मिलिता सा वै विहरेत् परमा चितिः ।
अपान-वायुम् आश्रित्य द्वादशान्ते निराकुला ॥

2.93 मेलापे मिलिता सा वै उत्सर्गे परमा चितिः ।
उपस्थस्य तु मध्यगा रेतोवाहे सदोदिता ॥

2.94 मेलापे मिलिता सा वै आनन्दे परमा चितिः ।
संकल्पस्य विकल्पस्य मध्ये या चेतनी कला ॥

2.95 मेलापे मिलिता सा वै मनने परमा चितिः ।
पीता स्वस्य समस्तस्य आद्या या बोधकी दशा ॥

2.96 मेलापे मिलिता सा वै ज्ञानस्य परमा चितिः ।
एतास् तु कथिता देव्यः मेलापे याः खमार्गगाः ॥

Q004 गोपनीयानि नामानि चोरेभ्यो द्रविणं यथा ।
गोपनात् पालयन्त्येव मूर्तयस् तु महार्थतः ॥

Q005 ज्ञानं सृष्टिं विजानीयात् स्थितिर् मन्त्रः प्रकीर्तितः ।
संहारं तु महाकालमेलापं परमं विदुः ॥

Q006 अनाख्यं शक्तिरूपं तु भासाख्यं शम्भुरूपकम् ।
पञ्चप्रकारम् एतद्धि विज्ञेयं तत्त्वदर्शिभिः ॥

Q007 तया व्याप्तम् इदं विश्वं त्रैलोक्यं सचराचरम् ।

Q008 शृणु मे परमां कालीं विद्यां सृष्टिस्वभावगाम् ।

Q001 तेषां मध्यात् क्रमेणैव आदौ पूज्यस् तु कः क्रमः ।
तन् मे कथय सुश्रोणि विस्तरेण यथाविधि ॥

Q002 पुरा यत् कथितं देव पञ्चवाहमहाक्रमम् ।
तेषां तु क्रमराजानां सृष्टिरूपोऽग्रतः सदा ॥

Q003 ततस् तु स्थितिसंहारम् अनाख्यं च ततः परम् ।
भासाख्यं च ततः पश्चात् पूजयेद् अक्रमक्रमम् ॥

Q009 षोडशातः समासेन शृणुष्वेकमना हर ।

Q010 सा सत्ता लीयते यस्याः काली द्व्यष्टकला स्मृता ॥

Q011 इदं सर्वम् असर्वं यत् संहारान्तं तु नित्यशः ।
कुटिलेक्षणरेखान्तग्रस्तम् अस्तमितं च यत् ॥

Q012 ततो बोधरसाविष्टा स्पन्दमाना निराकुला ।
दीधितीनां सहस्रं यद् वमेच् च पिबते भृशम् ॥

Q013 सा कला लीयते यस्यां रुद्रकालीति सा स्मृता ।

Q014 कालोत्थिता महादेव सानन्दा नन्दिनी शिवा ।
चिद्घना युग्ममध्यस्था अक्षरा क्षरगोचरा ॥

Q015 अकुला कलयेन् नित्या कालकाली निराकुला ।
सा कला लीयते यस्यां सृष्टिकाली तु सा स्मृता ॥

Q016 क्रमत्रयाणां यच् चक्रं घोरघोरतरं महत् ।
कालरूपं मरीच्याद्यं त्वाष्ट्रं कल्पान्तकान्तगम् ॥

Q017 आचरेत् तु महाचारचातुर्येणैव तत्र च ।
या कला घोरघोरोग्रा तस्याः सा तुर्यगा शिवा ॥

Q018 महाभैरवघोरस्य चण्डरूपस्य सर्वतः ।
ग्रसते या महाकाली द्व्यष्टका कालनाशिनी ॥

Q019 सप्तदशी तु सा काली विद्धि सर्वार्थकारिणी ।

Q020 शङ्काशून्यो भवेत् सदा ।

श्रीमदुत्तरपीठविनिर्गते श्रीनाथपादावतारिते श्रीकालिकाकुलसद्भावे

Siehe auch

Weitere Seiten dieser Ausgabe: Krama Sadbhava · Krama Sadbhava 30 Verse für die spirituelle Praxis

Literatur und Textquellen

  • Alexis Sanderson: The Śaiva Exegesis of Kashmir. In: Dominic Goodall und André Padoux (Hrsg.): Mélanges tantriques à la mémoire d’Hélène Brunner / Tantric Studies in Memory of Hélène Brunner. Collection Indologie 106. Institut français de Pondichéry / École française d’Extrême-Orient, Pondicherry 2007, S. 231–442 und Bibliografie S. 551–582. Für die Textgrundlage besonders S. 261–264, 278, 282–283, 320–322, 330, 365 und 436. Autorenfassung.
  • Aleksandra Wenta: From the Sequence of the Sun-Goddess (bhānavīkrama) to Time-Consumption (kālagrāsa): Some Notes on the Development of the Śākta Doctrine of the Twelve Kālīs. Journal of Indian Philosophy 49 (2021), S. 725–757, besonders S. 737 Anm. 50 und S. 738 Anm. 56. DOI: 10.1007/s10781-021-09488-9.
  • Benjamin Luke Williams: Abhinavagupta’s Portrait of a Guru: Revelation and Religious Authority in Kashmir. Dissertation, Harvard University 2017, besonders S. 126 Anm. 318 sowie S. 147–148. Universitätsrepositorium.
  • Jackson Barkley Stephenson: Ornament of Reality: Language Ideology in a Tantric Śākta Text. Religions 14/4 (2023), Artikel 456, 15 Seiten, hier Anm. 18 (S. 10), 34 (S. 11) und 48 (S. 12). Grundlage seiner Kramasadbhāva-Zitate: e-Text von Mark S. G. Dyczkowski. Vollständige Verlagsfassung, DOI: 10.3390/rel14040456. Die vorliegende Wiedergabe folgt dem nativen Verlags-HTML; die Seitenzahlen beziehen sich auf die Druckfassung.
  • Maheśvarānanda: Mahārthamañjarī mit dem Kommentar Parimala. Herausgegeben von T. Gaṇapati Śāstrī. Trivandrum Sanskrit Series 66, Trivandrum 1919. Zitate zu Gāthā 37–40, S. 88, 97, 101 und 108. Digitalisat. Ergänzend MIRI-Fachtranskription M00035, Revision 2006: IAST-Text.
  • Aleksandra Wenta: Becoming the Dancer: Dissolving the Boundaries between Ritual, Cognition, and Theatrical Performance in Non-dual Śaivism. Cracow Indological Studies 20/1 (2018), S. 259–295, besonders S. 272 Anm. 23. DOI: 10.12797/CIS.20.2018.01.10. Volltext.
  • Abhinavagupta: Tantrāloka mit Jayarathas Viveka, Band 3, herausgegeben von Madhusūdana Śāstrī. Kashmir Series of Texts and Studies 30, Srinagar 1921. Zitate im Kommentar zu 4.127, 4.157–158 und 4.173, S. 136–137, 172–173 und 190. Digitalisat. Für das Viertelverszitat zu 12.24: Band VII, herausgegeben von Madhusudan Kaul Shastri, KSTS 41, Srinagar 1924, S. 107 (PDF-Seite 332). Digitalisat Band VII; der Katalog nennt irrtümlich Band 3. Titelblatt, Zuschreibung, Zitat und unmittelbarer Kommentarkontext wurden am Druckbild geprüft. Ergänzend MIRI-Fachtranskription M00092, 2006: IAST-Text.