Gautamiya Tantra Sanskrit Devanagari

Aus Yogawiki

Gautamiya Tantra – Sanskrit in Devanagari bietet den Sanskrittext zum deutschen Hauptartikel. Das Eingangskapitel führt von Gautamas hingebungsvoller Praxis zu Naradas Lob des Krishna-Mantras.

Zur Textausgabe: Gautamiya Tantra · Sanskrit in IAST · Sanskrit in Devanagari · Inspirierende Verse und Mantras

1. Kapitel – Der Krishna-Mantra und seine Verheißung

सिद्धाश्रमे वसन् धीमान् गौतमो भगवान् मुनिः ।
तपःस्वाध्यायनिरतो भक्तिमान् पुरुषोत्तमे ॥ १ ॥

नमस्यन् शिरसा कृष्णं स्तुवन् वाचा जनार्दनम् ।
जपन् कराभ्यां यज्ञेशं हृदा ध्यायन् सदा हरिम् ॥ २ ॥

समस्तश्रुतितत्त्वज्ञ इतिहासपुराणवित् ।
मन्त्रौषधिक्रियासम्यग् योगसिद्धान्ततत्त्ववित् ॥ ३ ॥

[Lesung unsicher; siehe Textgrundlage und den Hinweis zu diesem Vers im Hauptartikel.]

धर्मार्थकाममोक्षार्थी नारदं प्रणिपत्य च ।
विनयावनतो भूत्वा पर्यपृच्छद् द्विजोत्तमः ॥ ४ ॥

भगवन् कामदा मन्त्राः शत्रूदासीनबान्धवाः ।
विभिन्नफलदास्ते तु नैकत्र फलदा मताः ॥ ५ ॥

एतत्समफलाः सर्वे न मन्त्रा इति नः श्रुतम् ।
येन सर्वफलावाप्तिः सर्वेषां बन्धुरेव यः ॥ ६ ॥

सर्ववर्णाधिकारश्च नारीणां योग्य एव यः ।
तं ब्रूहि भगवन् मन्त्रमल्पायासफलप्रदम् ॥ ७ ॥

तव नाविदितं किञ्चिद् विद्यते सचराचरे ।
इति श्रुत्वा मुनिश्रेष्ठो नत्वा विष्णुमुवाच ह ॥ ८ ॥

साधु पृष्टं मयाप्येवं पृष्टः प्रोवाच पद्मजः ।
तथा ते कथयिष्यामि यथा प्रोक्तं स्वयम्भुवा ॥ ९ ॥

सर्वे कामाः प्रसीदन्ति कृष्णमन्त्रजपाद् द्विज ।
सर्वेषु मन्त्रवर्गेषु श्रेष्ठं वैष्णवमुच्यते ॥ १० ॥

गाणपत्येषु शैवेषु तथा शाक्तेषु सुव्रत ।
वैष्णवेषु च सर्वेषु कृष्णमन्त्राः फलाधिकाः ॥ ११ ॥

विशेषतो दशार्णोऽयं जपमात्रेण सिद्धिदः ।
मन्त्रस्य ज्ञानमात्रेण लभेन्मुक्तिं चतुर्विधाम् ॥ १२ ॥

अज्ञानतूलराशीनां ज्वलनोऽयं मुनीश्वर ।
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ १३ ॥

अनेनाराधितः कृष्णः प्रसीदत्येव तत्क्षणात् ।
तस्य संक्षेपतो वक्ष्ये सर्वं सम्यक् शृणुष्व मे ॥ १४ ॥

पद्मयोनिरवापाग्र्यं देवराज्यं शचीपतिः ।
अवापुस्त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः ॥ १५ ॥

[Lesung unsicher; siehe Textgrundlage und den Hinweis zu diesem Vers im Hauptartikel.]

पक्षिणामधिपः सोऽभूत् गरुडोऽपि द्विजोत्तम ।
कश्चित् कृष्णं समाराध्य धनेशत्वमवाप्तवान् ॥ १६ ॥

मन्त्रेण कृष्णमाराध्य चन्द्रः सर्वजनप्रियः ।
करोति स्ववशे कामः सर्वान् लोकाननेन च ॥ १७ ॥

मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् ।
मन्त्रराजमिमं ज्ञात्वा कृतार्थो जायते नरः ॥ १८ ॥

पुत्रवान् धनवान् वाग्मी लक्ष्मीवान् पशुमान् भवेत् ।
सुभगः सम्मतः श्लाघ्यो यशस्वी कीर्तिमान् भवेत् ॥ १९ ॥

सर्वलोकाभिरामः स्यात् सर्वज्ञश्च भवेन्नरः ।
अनेन त्रिषु लोकेषु याता मुक्तिं मुमुक्षवः ॥ २० ॥

मन्त्रेणानेन मन्त्रज्ञे भक्तिः स्यात् प्रेमलक्षणा ।
समस्ततीर्थभूतश्च समस्तक्षेत्रपावनः ॥ २१ ॥

रवेरिव दुराधर्षः शुचेरिव शुचिः सदा ।
शङ्करस्यैव सिद्धीशो विष्णोरिव सदाश्रयः ॥ २२ ॥

[Lesung unsicher; siehe Textgrundlage und den Hinweis zu diesem Vers im Hauptartikel.]

बहुना किमिहोक्तेन रहस्यं शृणु गौतम ।
निर्वाणफलदो मन्त्रः किमन्यैर्बहुजल्पितैः ॥ २३ ॥

Kolophon

इति श्रीगौतमीये दशाक्षरफलाध्यायः ॥ १ ॥

Der Kapitelabschluss folgt in normalisierter Schreibung der Ausgabe von 1977. Die Jyotsnā-Ausgabe hat einen anders formulierten Kapitelabschluss.

2. Kapitel – Mantra, Nyasa und Pranayama

Dieses Kapitel betrachtet den Krishna-Mantra als Ausdruck der göttlichen Wirklichkeit. Es verbindet Lautdeutung, die Heiligung des Körpers durch Nyasa, die inneren Zentren und Pranayama. Die technischen Beschreibungen geben die überlieferten Rituale wieder; sie sind keine Anleitung zur selbständigen Durchführung fortgeschrittener Atem- oder Einweihungspraktiken.

समस्तवेदतत्त्वज्ञ सर्वागमविशारद ।
अधुना ब्रूहि मे ब्रह्मन् मन्त्रराजं दशाक्षरम् ॥ १ ॥

अधुना सम्प्रवक्ष्यामि विधानं मुनिनिर्मितम् ।
यावन्मन्त्रा ऋषिच्छन्दो देवतान्यनुक्रमात् ॥ २ ॥

[Lesung unsicher; siehe den Hinweis zu 2.2 im Hauptartikel.]

खान्ताक्षरं समुद्धृत्य त्रयोदशस्वरान्वितम् ।
पार्णं तुर्यस्वरयुतं छान्तं धान्तं तथा द्वयम् ॥ ३ ॥

अमृताक्षरमुद्धृत्य चैकतो मांसयुग्मकम् ।
चतुर्थं मुखवृत्तेन पवनः स्वाहयान्वितः ॥ ४ ॥

[Lesung unsicher; siehe den Hinweis zu 2.4 im Hauptartikel.]

दशाक्षरमनुः प्रोक्तो दृष्टादृष्टफलप्रदः ।
बीजं शक्तिं च वक्ष्यामि ब्रह्मविच्च परात्परम् ॥ ५ ॥

[Lesung unsicher; siehe den Hinweis zu 2.5 im Hauptartikel.]

ब्रह्मार्णं मायया सार्द्धं मन्त्रार्णं नादबिन्दुकम् ।
एतद्बीजं समाख्यातं कृष्णतत्त्वं परात्परम् ॥ ६ ॥

[Lesung unsicher; siehe den Hinweis zu 2.6 im Hauptartikel.]

शुक्रार्णममृतार्णेन मुखवृत्तेन संयुतम् ।
गगनं मुखवृत्तेन प्रोक्ता शक्तिः परात्परा ॥ ७ ॥

एषा शक्तिः परा सूक्ष्मा नित्या संवित्प्रदायिनी ।
ईश्वरो जगतां बीजं शक्तिर्गुणमयी त्वजा ॥ ८ ॥

परमात्मा तथा बुद्धिर्वायुः कुण्डलिनीति च ।
चतुर्विधं बीजशक्तिं सर्वमन्त्रेषु चिन्तयेत् ॥ ९ ॥

त्रितयं तत्र सामान्यं तदिदानीं निरूप्यते ।
ईश्वरो जगतां बीजमाद्यं ब्रह्म तदुच्यते ॥ १० ॥

[Lesung unsicher; siehe den Hinweis zu 2.10 im Hauptartikel.]

तस्य माया समाख्याता शक्तिर्गुणमयी तु या ।
प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम ॥ ११ ॥

तत्त्वानि चेश्वरश्चैव ब्रह्मेति पञ्चमं स्मृतम् ।
सर्गान्तः पुरुषश्चेति तुर्याख्या प्रकृतिः स्मृता ॥ १२ ॥

[Lesung unsicher; siehe den Hinweis zu 2.12 im Hauptartikel.]

तत्त्वानि मांस रूपाणि कालश्च तत्त्वरूपकः ।
ईश्वराख्यो भवेन्नादो बिन्दुश्चैतन्यचिन्मयः ॥ १३ ॥

[Lesung unsicher; siehe den Hinweis zu 2.13 im Hauptartikel.]

एतद्विज्ञानमात्रेण जीवन्मुक्तो महीं चरेत् ।
नास्य कालकलापेक्षा न तीर्थायतनानि च ॥ १४ ॥

क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ।
ईकाराद्वह्निरुत्पन्नो नादाद्वायुरजायत ॥ १५ ॥

बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ।
स्वशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ॥ १६ ॥

तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ।
अत एव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥ १७ ॥

[Lesung unsicher; siehe den Hinweis zu 2.17 im Hauptartikel.]

गोपीति प्रकृतिं विद्याज्जनस्तत्त्वसमूहकम् ।
अनयोराश्रयव्याप्त्या कारणत्वेन चेश्वरः ॥ १८ ॥

सान्द्रानन्दपरं ज्योतिर्वल्लभेन च कथ्यते ।
त्रिपादूर्ध्वमुदैत्पुरुष इत्याहुः परमा गिरः ॥ १९ ॥

बीजोच्चारणमात्रेण चित्स्वभावः प्रजायते ।
वल्लभेन तु तदैक्यं स्वाहयाऽज्ञाननाशनम् ॥ २० ॥

इत्येवं कथितं तत्त्वं मुने वै ब्रह्मसम्मतम् ।
अथवा गोपी प्रकृतिर्जनस्तदंशमण्डलम् ॥ २१ ॥

अनयोर्वल्लभः स्वामी कृष्णाख्य ईश्वरः स्मृतः ।
कार्यकारणयोरीशः श्रुतिभिस्तेन गीयते ॥ २२ ॥

अनेकजन्मसिद्धानां गोपीनां पतिरेव वा ।
नन्दनन्दन इत्युक्तस्त्रैलोक्यानन्दवर्धनः ॥ २३ ॥

चिन्तयेद्विरजो मन्त्री सत्त्वसम्पत्तिहेतवे ।
दशानामपि तत्त्वानां साक्षी चेता तथाऽक्षरः ॥ २४ ॥

दशाक्षर इति ख्यातो मन्त्रराजः परात्परः ।
लुप्तबीजः स्वभावत्वाद्दशार्ण इति कथ्यते ॥ २५ ॥

बीजपूर्वजपश्चास्य रहस्यं कथितं मुने ।
नारदोऽस्य मुनिश्छन्दो विराडिति तथा स्मृतम् ॥ २६ ॥

श्रीकृष्णो देवता चास्य दुर्गाधिष्ठातृदेवता ।
महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ॥ २७ ॥

संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ।
गुरुत्वान्मस्तकं वास्य पुरुषार्थचतुष्टये ॥ २८ ॥

[Lesung unsicher; siehe den Hinweis zu 2.28 im Hauptartikel.]

ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् ।
दौर्बल्यं याति मन्त्राणां विनियोगमजानताम् ॥ २९ ॥

मन्त्रन्यासमथो वक्ष्ये दृष्टादृष्टफलप्रदम् ।
प्रणवाभ्यां पुटं कृत्वा नमोऽन्तान् दशवर्णकान् ॥ ३० ॥

दक्षाङ्गुष्ठादिवामान्तं न्यासः स्यात् सृष्टिरीरितः ।
वामाङ्गुष्ठादिदक्षान्तं संहृतिः परिकीर्तिता ॥ ३१ ॥

उभयोः करयोर्ज्येष्ठापूर्विका स्थितिरिष्यते ।
संहृतिर्दोषसंघातहारिणी परिकीर्तिता ॥ ३२ ॥

विद्याप्रदा तु सृष्ट्यन्ता वर्णिनां शुद्धचेतसाम् ।
स्थित्यन्ता सा गृहस्थानां त्रयं काम्यानुरूपतः ।
सहजानां वानप्रस्थे स्थित्यन्तं केचिदिच्छन्ति ।
संहारान्तो मुनीनां च विरक्तस्य च सर्वशः ॥ ३३ ॥

[Lesung unsicher; siehe den Hinweis zu 2.33 im Hauptartikel.]

न्यासत्रयं सदा कार्यमशक्तैरेकमेकं हि ।
वर्णन्यासं तथा मन्त्री देहे च परिविन्यसेत् ॥ ३४ ॥

हस्तमूले कूर्परके मणिबन्धेऽङ्गुलिमूलके ।
अङ्गुल्यग्रे च विन्यसेत् पादयोरपि विन्यसेत् ॥ ३५ ॥

हस्तमूलादिसृष्टिः स्यान्मणिबन्धात्स्थितिः स्मृता ।
अङ्गुल्यग्रात्संहृतिः स्यात्स्थित्यन्तं त्रितयं न्यसेत् ॥ ३६ ॥

ततः कराङ्गुलिन्यासस्तथैव परिकीर्तितः ।
आचक्राय तथा स्वाहा अङ्गुष्ठाभ्यां नमो वदेत् ॥ ३७ ॥

विचक्राय स्वाहेति तर्जनीभ्यां तथोच्चरेत् ।
सुचक्राय स्वाहा मध्यमाभ्यां नमः ।
त्रैलोक्यरक्षणचक्राय स्वाहेत्यनामिके तथा ॥ ३८ ॥

असुरान्तकचक्राय स्वाहया कनिष्ठयोर्नमः ।
रुक्मिणी प्रकृतिर्वामा साक्षादमृतविग्रहा ॥ ३९ ॥

दक्षिणः पुरुषः प्रोक्तो ज्योतिस्तु विष्णुविग्रहः ।
संयोगात् करयोरेवं परतत्त्वं प्रजायते ॥ ४० ॥

अत एव समस्तानां वस्तूनां शोधनं स्मृतम् ।
पञ्चाङ्गानि ततः कुर्यादङ्गमन्त्रेण देशिकः ॥ ४१ ॥

पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रं विवर्जयेत् ।
आचक्राय तथा स्वाहा शिरसे स्वाहेति संवदेत् ॥ ४२ ॥

[Lesung unsicher; siehe den Hinweis zu 2.42 im Hauptartikel.]

शिरसि विन्यसेत्तद्वत्तथैव करशाखया ।
सुचक्राय तथा स्वाहा शिखायै वषडुच्चरेत् ॥ ४३ ॥

ऊर्ध्वतालत्रयं कृत्वा छोटिकाभिर्दिशो दश ।
बन्धयेन्मुनिशार्दूल नित्यन्यासोऽयमीरितः ॥ ४४ ॥

पूज्यमानो हृदात्माऽयं हृदये संविदात्मकः ।
तत्परात्मा च हृन्मन्त्रेण च देशिकैः ॥ ४५ ॥

[Lesung unsicher; siehe den Hinweis zu 2.45 im Hauptartikel.]

सर्वज्ञादिगुणोत्तुङ्गे सच्चिद्रूपे परात्मनि ।
क्रियते विषयाहारः शिरोमन्त्रेण धीमता ॥ ४६ ॥

[Lesung unsicher; siehe den Hinweis zu 2.46 im Hauptartikel.]

हृच्छिरोरूपचिद्धाममयता भावना दृढा ।
क्रियते निजदेवस्य शिखामन्त्रेण सादरम् ॥ ४७ ॥

मन्त्रात्मकस्य देवस्य मन्त्रवाच्येन तेजसा ।
सर्वतो वर्ममन्त्रेण क्रियते न्याससम्भृतिः ॥ ४८ ॥

यद्ददाति परं ज्ञानं सच्चिद्रूपे परात्मनि ।
हृदयादिमयं तेजः स्यादेतन्नेत्रसंज्ञकम् ॥ ४९ ॥

आध्यात्मिकादिरूपं यत्साधकस्य विनाशयेत् ।
अविद्याजातमस्त्रं तत्परं धाम समीरितम् ॥ ५० ॥

ब्रह्मन् ब्रह्मविदां श्रेष्ठ सर्वभूतहिते रत ।
त्वमेव कृष्णदेवस्य अन्तर्यामी निरामयः ॥ ५१ ॥

अविद्यादोषनिर्मुक्तसमस्तव्रतसंयुतः ।
सर्वलोकैकगमकः सर्वलोकैकतत्त्ववित् ॥ ५२ ॥

सर्वानुभवसाक्षी त्वं सर्वलोकनमस्कृत ।
इदानीं श्रोतुमिच्छामि यदि योग्योऽस्मि सत्तम ॥ ५३ ॥

भवार्णवनिमग्नं मामुद्धर्तुमिहार्हसि ।
इत्यादिस्तुतिभिः स्तुत्वा प्रणम्य च पुनः पुनः ॥ ५४ ॥

पार्श्वमासाद्य तद्वक्त्रमतिरासीन्मुनीश्वरः ।
साधु पृष्टं त्वया ब्रह्मन् मयापि ब्रह्मणा श्रुतः ॥ ५५ ॥

मन्त्रराजो मुनिश्रेष्ठ सर्ववेदागमानुगः ।
ततः प्रभृति विप्रर्षे हरितामाप्तवानहम् ॥ ५६ ॥

तव स्नेहात्प्रवक्ष्यामि यतस्त्वं पुरुषप्रियः ।
क्लींकारं पूर्वमुच्चार्य कृष्णं तुर्यपदान्वितम् ॥ ५७ ॥

गोविन्दं च तथा चोक्त्वा दशार्णं च तथोच्चरेत् ।
भक्त्या ते प्रणिपत्त्या च कथितो मन्त्रनायकः ॥ ५८ ॥

गुह्याद्गुह्यतरो ह्येष वाञ्छाचिन्तामणिः स्मृतः ।
शौनकाद्यास्तु मुनयस्तथान्ये देवमुख्यकाः ॥ ५९ ॥

मन्त्रराजपरिज्ञानात्सद्यस्तत्साम्यमागताः ।
कृष्शब्दश्च सत्तार्थो णश्चानन्दस्वरूपकः ॥ ६० ॥

सुखरूपो भवेदात्मा भावानन्दमयत्वतः ।
गोशब्देन ज्ञानमुक्तं तेन विन्देत तत्पदम् ॥ ६१ ॥

गोशब्दाद्वेद इत्युक्तस्तेन वा लभते विभुम् ।
एवं ते कथिता मन्त्रवासना मुनिसत्तम ॥ ६२ ॥

एतज्ज्ञानानुभावेन जीवन् कृष्णो न चान्यथा ।
किमन्येन बहूक्तेन स्मरणाच्चास्य मन्त्रवित् ॥ ६३ ॥

जीवन्मुक्तो न सन्देहो विष्णुरेव न संशयः ।
नारदोऽस्य मुनिः प्रोक्तो गायत्रीच्छन्द उच्यते ॥ ६४ ॥

कृष्णः प्रकृतिरेतस्य दुर्गाधिष्ठातृदेवता ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ६५ ॥

नारायण इति ख्यातः पदपञ्चात्मकः परः ।
अक्षरार्थस्तु कथितः पदस्यार्थ इतीरितः ॥ ६६ ॥

तस्माद्विज्ञाय च मन्त्री पुरुषार्थचतुष्टयम् ।
लभते नात्र सन्देहः सत्यं सत्यं हि गौतम ॥ ६७ ॥

बीजशक्ती पुरा प्रोक्ते विनियोगश्च पूर्ववत् ।
पञ्चाङ्गानि मनोरस्य पदपञ्चकयोजनात् ॥ ६८ ॥

ब्रह्मरन्ध्रे भ्रुवोर्मध्ये जिह्वामूले तथा पुनः ।
कण्ठदेशे हृदि तथा नाभौ लिङ्गे च मूलके ॥ ६९ ॥

घ्राणद्वये चक्षुषोश्च कर्णयोर्विन्यसेदिति ।
ब्रह्मरन्ध्रे सर्वमन्त्रं व्यापकत्रयमाचरेत् ॥ ७० ॥

मूर्ध्नि वक्त्रे हृदि नाभौ मूले च पदपञ्चकम् ।
रोहावरोहतो न्यस्य केशवाद्यानथो न्यसेत् ॥ ७१ ॥

वर्णन्यासं पुरः कृत्वा केशवाद्यानथो न्यसेत् ।
वर्णन्यासं पुरः कृत्वा केशवाद्यांस्तु न्यसेत् ॥ ७२ ॥

भूतशुद्धिं लिपिन्यासं विना यस्तु प्रपूजयेत् ।
विपरीतफलं दद्यादभक्त्या पूजनं यथा ॥ ७३ ॥

मातृका द्विविधा प्रोक्ता परा चाप्यपरा तथा ।
सुषुम्नान्तः परा तु स्यादपरा बाह्यदेशके ॥ ७४ ॥

अथान्तर्मातृकान्यासो मूलाधारे चतुर्दले ।
स्वर्णाभे वशषसचतुर्वर्णविभूषिते ॥ ७५ ॥

षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।
वभमैर्यरलैर्युक्ते विद्युद्भासितमस्तके ॥ ७६ ॥

अनाहते द्वादशारे प्रवालरुचिसन्निभे ।
कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे ॥ ७७ ॥

विशुद्धे षोडशदले धूम्राभे स्वरभूषिते ।
आज्ञाचक्रे च शुभ्राभे हक्षद्विदलशोभिते ॥ ७८ ॥

सहस्रारे महापद्मे नादबिन्दुद्वयान्विते ।
अकथादित्रिरेखात्महलक्षत्रयकोणके ॥ ७९ ॥

[Lesung unsicher; siehe den Hinweis zu 2.79 im Hauptartikel.]

तन्मध्ये परबिन्दुं च सृष्टिस्थितिलयात्मकम् ।
एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥ ८० ॥

मूलादिब्रह्मरन्ध्रान्तं बिन्दुं ध्यायेच्चिदात्मकम् ।
बिन्दुस्रुतसुधाधारैस्तर्पयन्मातृकां न्यसेत् ॥ ८१ ॥

एकैकं वर्णमुच्चार्य मूलाधाराद्भ्रुवोऽन्तिकम् ।
नमोऽन्त इति च न्यास आन्तरः परिकीर्तितः ॥ ८२ ॥

बाह्यं वै मातृकान्यासं शृणुष्वावहितो मम ।
ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ॥ ८३ ॥

ओष्ठदन्तोत्तमाङ्गास्यदोःपत्सन्ध्यग्रकेषु च ।
पार्श्वतः पृष्ठतो नाभौ जठरे हृदयेऽंशके ॥ ८४ ॥

ककुद्यंसे च हृत्पूर्वं पाणिपादयुगे तथा ।
जठराननयोर्न्यसेन्मातृकार्णान् यथाक्रमात् ॥ ८५ ॥

[Lesung unsicher; siehe den Hinweis zu 2.85 im Hauptartikel.]

चतुर्धा मातृका प्रोक्ता केवला बिन्दुसंयुता ।
सविसर्गा सोभया च रहस्यं त्वथ कथ्यते ॥ ८६ ॥

विद्याकरी केवला च सोभया भक्तिदायिका ।
सविसर्गा पुत्रप्रदा सबिन्दुर्मुक्तिदायिनी ॥ ८७ ॥

केशवादि ततो न्यासं कुर्यात्साधकसत्तमः ।
ऋषिः प्रजापतिश्छन्दो गायत्री देवता पुनः ॥ ८८ ॥

अर्धलक्ष्मीहरिः प्रोक्तः श्रीबीजेन षडङ्गकम् ।
करशुद्धिविधानं च विधाय ध्यानमाचरेत् ॥ ८९ ॥

उद्यदादित्यसङ्काशं तप्तजाम्बूनदप्रभम् ।
कमलावसुधाशोभिपार्श्वद्वन्द्वं परात्परम् ॥ ९० ॥

विचित्ररत्नविहितं नानालङ्कारशोभितम् ।
पीतवस्त्रपरीधानं शङ्खकौमोदकीकरम् ॥ ९१ ॥

वामतश्चक्रपद्मे च ध्यात्वैवं विन्यसेत्ततः ।
प्रणवं पूर्वमुच्चार्य श्रीबीजं तदनन्तरम् ॥ ९२ ॥

मातृकार्णं ततो न्यसेद्वक्ष्यामि तत्प्रकारकम् ।
केशवं विन्यसेत्कीर्त्या कान्त्या नारायणं न्यसेत् ॥ ९३ ॥

माधवं तुष्टिसहितं गोविन्दं पुष्टिसंयुतम् ।
धृत्या विष्णुं शान्तियुक्तं मधुसूदनमेव च ॥ ९४ ॥

त्रिविक्रमं च क्रियया वामनं दयया न्यसेत् ।
श्रीधरं मेधया हृषीकेशं हृष्ट्या युतं न्यसेत् ॥ ९५ ॥

श्रद्धयाम्बुजनाभं च लज्जादामोदरौ ततः ।
वासुदेवं ततो न्यसेल्लक्ष्म्या सङ्कर्षणं ततः ॥ ९६ ॥

सरस्वत्या तथा प्रीत्या प्रद्युम्नं चानिरुद्धकम् ।
रत्या चक्रिजये दुर्गा गदिनो शार्ङ्गिणा प्रभा ॥ ९७ ॥

खड्गिसत्ये शाङ्खिचण्डे वाण्या च हलिनं न्यसेत् ।
विलासिन्या मुसलिनं शूलिनं विजयायुतम् ॥ ९८ ॥

पाशिनं विरजायुक्तं विश्वायामङ्कुशिनं न्यसेत् ।
मुकुन्दं च विनदया सुनन्दानन्दजौ न्यसेत् ॥ ९९ ॥

स्मृत्या च नन्दिनं ऋद्ध्या नरं नरकजित्समृद्ध्या ।
हरिशुद्धी कृष्णबुद्धी भुक्तिसत्यौ च सात्वतम् ॥ १०० ॥

[Lesung unsicher; siehe den Hinweis zu 2.100 im Hauptartikel.]

मत्या च विन्यसेत्प्राज्ञो द्वन्द्वीभूय पृथक्पृथक् ।
शौरिक्षमे शूररमे तथैवोमाजनार्दनौ ॥ १०१ ॥

क्लेदिन्या भूधरं विश्वमूर्त्या क्लिन्नां ततो न्यसेत् ।
वैकुण्ठवसुदे न्यस्येद्वसुधापुरुषोत्तमौ ॥ १०२ ॥

बली च परया युक्तो हंसश्चैव प्रभायुतः ।
वराहोऽपि निशायुक्तो विमलोऽमोघया युतः ॥ १०३ ॥

विद्युता नरसिंहेन कथिताः शिवशक्तयः ।
एवमङ्गेषु विन्यस्य ध्यात्वा पूर्वं समाहितः ॥ १०४ ॥

भक्त्या तु पूजयेद्देवं सोऽभीष्टफलमाप्नुयात् ।
केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ॥ १०५ ॥

अच्युतत्वं ददात्येव सत्यं सत्यं न संशयः ।
केशवाद्या इमे श्यामाः सर्वे नारायणाः स्मृताः ॥ १०६ ॥

शङ्खचक्रगदापद्मलसद्भुजचतुष्टयाः ।
नमोऽन्तार्णं समुच्चार्य नारायणमनुं वदेत् ॥ १०७ ॥

[Lesung unsicher; siehe den Hinweis zu 2.107 im Hauptartikel.]

प्राणात्मानं तथोच्चार्य केशवायेति संस्मरेत् ।
कीर्त्या च मनसा युक्त इत्यादिन्यासमाचरेत् ॥ १०८ ॥

[Lesung unsicher; siehe den Hinweis zu 2.108 im Hauptartikel.]

मुमुक्षवश्च यतयश्चरेयुर्न्यासमुत्तमम् ।
एवं वा विन्यसेन्न्यासं लक्ष्मीबीजपुरःसरम् ॥ १०९ ॥

स्मृतिं श्रुतिं महालक्ष्मीं प्राप्यान्ते हरितां व्रजेत् ।
वाग्भवाद्यं न्यसेद्वापि वागीशत्वमवाप्नुयात् ॥ ११० ॥

यदाद्यं न्यसेन्न्यासं तद्बीजैरङ्गकल्पनम् ।
तत्त्वन्यासं ततः कुर्यात्साधकः सिद्धिहेतवे ॥ १११ ॥

कृतेन येन श्रीदेवरूपतामेव यात्यसौ ।
मादिकान्तास्तथार्णाश्च बीजान्येकैकशोच्चरेत् ॥ ११२ ॥

नमः परायेत्युच्चार्य ततस्तत्त्वात्मने नमः ।
जीवं प्राणं द्वयं चोक्त्वा सर्वाङ्गेषु प्रविन्यसेत् ॥ ११३ ॥

ततो हृदयमध्ये च तत्त्वत्रयं च विन्यसेत् ।
बं बीजं महीतत्त्वं च फमहङ्कारमेव च ॥ ११४ ॥

[Lesung unsicher; siehe den Hinweis zu 2.114 im Hauptartikel.]

यं बीजं च मनस्तत्त्वमित्येवं त्रितयं न्यसेत् ।
लं बीजं शब्दतत्त्वं च न्यसेन्मौलौ ततः परम् ॥ ११५ ॥

[Lesung unsicher; siehe den Hinweis zu 2.115 im Hauptartikel.]

बं बीजं स्पर्शतत्त्वं च विन्यसेदानने सुधीः ।
दूं बीजं रूपतत्त्वं च हृदये विन्यसेत्ततः ॥ ११६ ॥

[Lesung unsicher; siehe den Hinweis zu 2.116 im Hauptartikel.]

पं बीजं रसतत्त्वं च न्यसेदथ च गुह्यके ।
तं बीजं गन्धतत्त्वं च पादयोरथ विन्यसेत् ॥ ११७ ॥

णं बीजं श्रोत्रतत्त्वं च श्रोत्रयोरेव विन्यसेत् ।
ढं बीजं त्वक्तत्त्वं च विन्यसेत्त्वचि साधकः ॥ ११८ ॥

[Lesung unsicher; siehe den Hinweis zu 2.118 im Hauptartikel.]

डं बीजं नेत्रतत्त्वं च नेत्रयोरथ विन्यसेत् ।
ठं बीजं रसनातत्त्वं रसनायामथो न्यसेत् ॥ ११९ ॥

टं बीजं घ्राणतत्त्वं च नासिकायां प्रविन्यसेत् ।
ञं बीजं वाक्तत्त्वं च विन्यसेद्वाचि साधकः ॥ १२० ॥

[Lesung unsicher; siehe den Hinweis zu 2.120 im Hauptartikel.]

मं बीजं पाणितत्त्वं च पाण्योरेव प्रविन्यसेत् ।
जं बीजं पादतत्त्वं च पादयोरेव विन्यसेत् ॥ १२१ ॥

[Lesung unsicher; siehe den Hinweis zu 2.121 im Hauptartikel.]

छं बीजं पायुतत्त्वं च पायौ न्यसेत्समाहितः ।
चं बीजं लिङ्गतत्त्वं च विन्यसेदथ शिश्नके ॥ १२२ ॥

झं बीजं तत्त्वमाकाशं पुनर्मौलौ प्रविन्यसेत् ।
घं बीजं वायुतत्त्वं च वदने विन्यसेत्पुनः ॥ १२३ ॥

[Lesung unsicher; siehe den Hinweis zu 2.123 im Hauptartikel.]

गं बीजं तेजस्तत्त्वं च हृदये विन्यसेत्सुधीः ।
खं बीजं जलतत्त्वं च पुनः शिश्ने प्रविन्यसेत् ॥ १२४ ॥

कं बीजं पृथिवीतत्त्वं विन्यसेत्पादयोः पुनः ।
शं बीजं हृत्पुण्डरीकतत्त्वं हृदि च विन्यसेत् ॥ १२५ ॥

हं बीजं सूर्यमण्डलतत्त्वं हृदि च विन्यसेत् ।
सं बीजं चन्द्रमण्डलतत्त्वं तत्र प्रविन्यसेत् ॥ १२६ ॥

रं बीजं वह्निमण्डलतत्त्वं तत्रैव विन्यसेत् ।
शं परमेष्ठितत्त्वं च वासुदेवं च मूर्धनि ॥ १२७ ॥

[Lesung unsicher; siehe den Hinweis zu 2.127 im Hauptartikel.]

पं बीजं पुंस्तत्त्वं सङ्कर्षणमथो मुखे ।
पं बीजं विश्वतत्त्वं च प्रद्युम्नं हृदि विन्यसेत् ॥ १२८ ॥

[Lesung unsicher; siehe den Hinweis zu 2.128 im Hauptartikel.]

यं बीजं प्रकृतितत्त्वमनिरुद्धमुपस्थके ।
लं बीजं सर्वतत्त्वं च पादौ नारायणं न्यसेत् ॥ १२९ ॥

[Lesung unsicher; siehe den Hinweis zu 2.129 im Hauptartikel.]

क्षौं बीजं कोपतत्त्वं च नृसिंहं सर्वगात्रके ।
एवं तत्त्वानि विन्यस्य प्राणायामं समारभेत् ॥ १३० ॥

दशाक्षरेण चेत्तत्र अष्टाविंशतिरेचके ।
पूरयेद्वामया तद्वद्धारयेत्तत्प्रमाणतः ॥ १३१ ॥

प्राणायामो भवेदेको रेचपूरककुम्भकैः ।
अष्टादशार्णेन चेत्तद्वद्द्वादशैवं समाचरेत् ॥ १३२ ॥

एकेन रेचयेत्कामबीजेनैव पृथक्पृथक् ।
पूरयेत्सप्तजप्तेन विंशत्या तेन धारयेत् ॥ १३३ ॥

सर्वेषु कृष्णमन्त्रेषु बीजेनानेन वा चरेत् ।
अथवा सर्वमन्त्रेषु वर्णानुक्रमतो जपन् ॥ १३४ ॥

प्राणायामं चरेन्मन्त्री रेचपूरककुम्भकैः ।
मन्त्रप्राणायामः प्रोक्तो यौगिकं कथयामि ते ॥ १३५ ॥

रेचयेद्दक्षया विद्वान्मात्राषोडशकेन च ।
द्वात्रिंशन्मात्रयापूर्य चतुःषष्ट्या तु धारयेत् ॥ १३६ ॥

एकश्वासश्चैकमात्रा मात्राया नियमो मतः ।
वामजानुनि तद्धस्तप्रमाणं यावता भवेत् ॥ १३७ ॥

कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः ।
प्राणायामो द्विधा प्रोक्तः सगर्भश्च विगर्भकः ॥ १३८ ॥

सगर्भो मन्त्रजापेन मात्रायाः संख्यया भवेत् ।
प्राणायामात्परं ज्ञानं प्राणायामात्परं पदम् ॥ १३९ ॥

प्राणायामात्परो योगः प्राणायामात्परं धनम् ।
नास्ति नास्ति पुनर्नास्ति कथितं तव सुव्रत ॥ १४० ॥

वत्सराभ्यासयोगेन ब्रह्मसाक्षाद्भवेद्ध्रुवम् ।
चैतन्यावरणं यद्यत्क्षीयते नात्र संशयः ॥ १४१ ॥

प्राणायामं विना मुक्तिमार्गो नास्ति मयोदितः ।
प्राणायामं विना यद्यत्साधनं विफलं भवेत् ॥ १४२ ॥

[Lesung unsicher; siehe den Hinweis zu 2.142 im Hauptartikel.]

प्राणायामेन मुनयः सिद्धिमापुर्न चान्यथा ।
प्राणायामपरो योगी न योगी शिव एव सः ॥ १४३ ॥

गमनागमनं वायोः प्राणस्य धारणं तथा ।
प्राणायाम इति प्रोक्तो योगशास्त्रविशारदैः ॥ १४४ ॥

प्राणो वायुरिति ख्यात आयामस्तन्निरोधनम् ।
प्राणायाम इति प्रोक्तो योगिनां योगसाधनम् ॥ १४५ ॥

आद्यन्तयोर्विधीयन्ते नासिकापुटचारिणः ।
रेचयेद्दक्षया नासा पूरयेद्वामतस्ततः ॥ १४६ ॥

द्वात्रिंशदभ्यसन्मन्त्रं प्राणायामः स उच्यते ।
ब्रह्महत्या सुरापानमगम्यागमनं तथा ॥ १४७ ॥

सर्वमाशु दहत्येव प्राणायामेन वै द्विजः ।
भ्रूणहत्यादिपापानि नाशयेन्मासमात्रतः ॥ १४८ ॥

प्रातः सायं चरेन्नित्यं षोडशप्राणसंयमम् ।
नाशयेत्सर्वपापानि तूलराशिमिवानलः ॥ १४९ ॥

सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् ।
स्वदेहस्थं यथा सर्पश्चर्मोत्सृज्य निरामयः ॥ १५० ॥

प्राणायामात्तथा धक्ष्येदविद्यां कामकर्मजाम् ।
अथवा किं बहूक्तेन शृणु गौतम तत्त्वतः ॥ १५१ ॥

प्राणायामान्न हि परो योगिनां मुक्तिसिद्धये ।
प्राणायामं विधायेत्थं देहे पीठानि विन्यसेत् ॥ १५२ ॥

आधारशक्तिं प्रकृतिं कूर्मसूकरमेव च ।
पृथिवीं क्षीरसिन्धुं च श्वेतद्वीपं च मध्यतः ॥ १५३ ॥

तन्मध्ये रत्नगेहं च सर्वाभीष्टफलप्रदम् ।
गेहमध्ये कल्पवृक्षं सर्वरत्नमहोज्ज्वलम् ॥ १५४ ॥

दक्षिणांसे दक्षिणोरौ तथा वामद्वये पुनः ।
धर्मज्ञानं च वैराग्यं विन्यसेदैश्वरं तथा ॥ १५५ ॥

मुखे पार्श्वे नाभिपार्श्वे नमःपूर्वं तु विन्यसेत् ।
विन्यस्यैवं पुनर्हृदि पद्मं विश्वमयं न्यसेत् ॥ १५६ ॥

प्रकृत्यष्टलसत्पत्रं विकारमयकेसरम् ।
तन्मध्ये विन्यसेन्मन्त्री पञ्चाशद्वर्णकर्णिकाम् ॥ १५७ ॥

प्रणवस्य त्रिभिर्वर्णैर्विन्यसेन्मण्डलत्रयम् ।
कलाभिः सहितं तद्वद्दशद्वादशषोडशैः ॥ १५८ ॥

अकारोकारमकाराः प्रणवांशोद्भवाक्षराः ।
ब्रह्मविष्णुमहेशाख्याः समष्टिव्यष्टिरूपकाः ॥ १५९ ॥

समष्ट्या केवलं ब्रह्म सच्चिदानन्दलक्षणम् ।
स्वबीजपूर्वकास्तत्र सत्त्वादीनथ विन्यसेत् ॥ १६० ॥

तदंशेनैव मतिमान्न्यसेदात्मचतुष्टयम् ।
आत्मान्तरात्मपरमात्मज्ञानात्मानश्च ते मताः ॥ १६१ ॥

आत्मासौ जागरे स्थूलो विश्वात्मा विश्वरूपकः ।
नामाद्यबीजसहितं हृन्मध्ये च व्यवस्थितम् ॥ १६२ ॥

अत एव हृदि न्यस्येद्वाग्वृत्तिर्हृदये स्थितः ।
अन्तरङ्गतया चायमन्तरात्मा हृदन्तरे ॥ १६३ ॥

मनोमयस्तैजसाख्योऽन्तरिन्द्रियवृत्तिधृक् ।
अत एव मुने चायमन्तरात्मेति गीयते ॥ १६४ ॥

अं बीजं चास्य गदितं तत्पूर्वं विन्यसेत्सुधीः ।
परमात्मा सुषुम्नाख्यो मनोव्यावृत्तिहारकः ॥ १६५ ॥

[Lesung unsicher; siehe den Hinweis zu 2.165 im Hauptartikel.]

विलये चेन्द्रिये तत्र सुसुखः केवलः स्थितः ।
पं बीजात्परमात्मानं यजेत्सर्वार्थसिद्धये ॥ १६६ ॥

सङ्कर्षणश्चानिरुद्धः प्रद्युम्नश्चेति तत्त्रयम् ।
ज्ञानात्मासौ वासुदेवः स्वयम्भूः प्राज्ञरूपकः ॥ १६७ ॥

वृत्तित्रये विलीने तु केवलं सुखचिन्मयः ।
सुखात्मा वासुदेवोऽसौ चित्कलाप्रकृतिः परा ॥ १६८ ॥

बीजं तस्य प्रवक्ष्यामि केवलं सुखचिन्मयम् ।
व्योमाक्षरं वह्निबीजं तुर्यस्वरसमन्वितम् ॥ १६९ ॥

नादबिन्दुकलायुक्तं बीजं तत्सुखचिन्मयम् ।
वेदत्रयोद्धृतं सारं सर्वकारणकारणम् ॥ १७० ॥

केसरेष्वष्टशक्तीश्चाष्टप्रकृतिरूपिणीः ।
मध्यशक्तिः पराख्या च चिदानन्दस्वरूपिणी ॥ १७१ ॥

विमलोत्कर्षिणीज्ञाना क्रियायोगा च शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता ॥ १७२ ॥

नवशक्तीः प्रविन्यस्य न्यसेत्तत्र महामनुम् ।
नमो भगवते विष्णवे प्रोच्य सर्वभूतात्मने पदम् ।
वासुदेवपदं ङेन्तं सर्वात्मसंयोगयोगपद्मपीठात्मने नमः ॥ १७३ ॥

[Lesung unsicher; siehe den Hinweis zu 2.173 im Hauptartikel.]

अयं पीठमनुः प्रोक्तः सर्वभूतात्मकः परः ।
श्यामलं कोमलं धाम तत्रोपरि च चिन्तयेत् ॥ १७४ ॥

Ende des zweiten Kapitels nach der Zählung der Ausgabe von 1977.

3. Kapitel – Weitere Nyasas und die Gegenwart Vishnus

Die verschiedenen Nyasas ordnen göttliche Namen, Laute und Wirklichkeitsprinzipien dem Körper zu. So wird der Körper in der Sprache des Rituals zu einem Ort der Gegenwart Vishnus. Die abschließenden Hinweise beziehen sich auf eine überlieferte, angeleitete Praxis.

अथाखिलं न्यासजालं शृणुष्वावहितोऽनघ ।
नित्यन्यासाः पुरा प्रोक्ता यैर्विना विफला यतः ॥ १ ॥

मन्त्रयन्त्रार्चनाः सर्वाः प्रकारेणाप्यनुष्ठिताः ।
फलाधिक्येच्छया न्यासान् समस्तपुरुषार्थदान् ॥ २ ॥

शृणु वक्ष्यामि विप्रेन्द्र येन विष्णुमयो भवेत् ।
स्वरषट्कं यथापूर्वं पश्चात्त्यस्वरषट्ककम् ॥ ३ ॥

[Lesung unsicher; siehe den Hinweis zu 3.3 im Hauptartikel.]

मूर्तिद्वादशकं तद्वद्वासुदेवेन संयुतम् ।
कपाले विन्यसेद्धात्रा केशवं सुसमाहितः ॥ ४ ॥

नारायणं च जठरे अर्यम्णा संयुतं तथा ।
हृदि माधवनामानं मित्रेणेह समन्वितम् ॥ ५ ॥

गोविन्दं गलकूपे च वरुणेन प्रविन्यसेत् ।
विष्णुं च दक्षिणे पार्श्वे चांशुना सह विन्यसेत् ॥ ६ ॥

भुजान्ते दक्षिणे न्यसेद्भगेन मधुसूदनम् ।
त्रिविक्रमं दक्षगले न्यसेद्विवस्वता युतम् ॥ ७ ॥

दामोदरमुपेन्द्रेण वामपार्श्वे न्यसेत्सुधीः ।
भुजान्ते वासुदेवं च पूषणा सह प्रविन्यसेत् ॥ ८ ॥

वामगले सङ्कर्षणं पर्जन्येन च विन्यसेत् ।
पद्मनाभं पृष्ठदेशे त्वष्टा सह प्रविन्यसेत् ॥ ९ ॥

ककुद्देशेऽनिरुद्धं तं विष्णुना सह विन्यसेत् ।
द्वादशाक्षरमनुवरं विन्यसेद्ब्रह्मरन्ध्रके ॥ १० ॥

वासुदेवो भवेत्साक्षाद्व्यापितस्तस्य तेजसा ।
त्रिमात्रिकं समुद्धृत्य नमो भगवते लिखेत् ॥ ११ ॥

वासुदेवं चतुर्थ्या च मन्त्रोऽयं सुरपादपः ।
अस्य विज्ञानमात्रेण वासुदेवः प्रजायते ॥ १२ ॥

मनुसम्पुटितां न्यस्येन्मातृकां विश्वमातरम् ।
तेनैव मन्त्रसिद्धिः स्याद्दोषसंघातनाशनात् ॥ १३ ॥

दशार्णं गोलकं न्यासं वक्ष्ये सम्भूतिदायकम् ।
मन्त्रदशावृत्तिमयं गोपनीयं प्रयत्नतः ॥ १४ ॥

आधारे ध्वजनाभौ च हृदि गलमुखांसके ।
कन्धरायां नाभ्यां कुक्षिद्वये स्तनद्वये ॥ १५ ॥

पार्श्वद्वये तथा श्रोण्योर्मस्तकास्ये च नेत्रयोः ।
कर्णनासिकयोस्तद्वत्कपोलकरसन्धिषु ॥ १६ ॥

तदग्रे पादयोः सन्धौ तदग्रेष्वपि चादरात् ।
मस्तके तत्प्राच्यादिदिक्षु व्यापकं न्यसेत् ॥ १७ ॥

दोष्णोस्तथोरुद्वये मन्त्री मन्त्रवर्णांस्ततो न्यसेत् ।
शिरोध्वयास्यकण्ठहृत्सु तुन्दकं चाङ्घ्रिषु क्रमात् ॥ १८ ॥

[Lesung unsicher; siehe den Hinweis zu 3.18 im Hauptartikel.]

मन्त्रवर्णान्न्यसेज्जानुप्रपदेषु मनुवित्तमः ।
कर्णगण्डांसवक्षोजेष्वपि मन्त्रस्तत्त्ववित् ॥ १९ ॥

[Lesung unsicher; siehe den Hinweis zu 3.19 im Hauptartikel.]

कुक्षिस्फिग्जङ्घान्तजानुपादेषु च विन्यसेत् ।
विभूतिपञ्जरन्यासः सर्वभूतप्रवर्तकः ॥ २० ॥

[Lesung unsicher; siehe den Hinweis zu 3.20 im Hauptartikel.]

दशतत्त्वं ततो न्यसेत्तद्दशार्णस्य सिद्धये ।
पृथिव्यब्तेजोमरुद्वियन्तीति च तत्त्वकम् ॥ २१ ॥

अहङ्कारो महान् प्रकृतिः पुरुषः परः ।
इमानि पञ्च तत्त्वानि यथावदवधारय ॥ २२ ॥

पदाङ्घ्रौ हृदये वक्त्रे मूर्ध्नि न्यसेत्ततः ।
हृदि द्वयं तथा व्याप्य सर्वाङ्गे विन्यसेत्सुधीः ॥ २३ ॥

[Lesung unsicher; siehe den Hinweis zu 3.23 im Hauptartikel.]

मस्तकादि ततो न्यसेद्यावत्पादावसानकम् ।
अयं न्यासो गुप्ततमो मन्त्राणां शीघ्रसिद्धिदः ॥ २४ ॥

कार्योऽन्येष्वपि गोपालमन्त्रेष्वपि विशारदैः ।
दशाक्षरस्य वर्णाश्च संहारक्रमतो न्यसेत् ॥ २५ ॥

सृष्टिन्यासे मनोरस्य वर्णान् विपरीतान्न्यसेत् ।
एकैकाक्षरमुच्चार्य नमोऽन्ते तु पुनः पठेत् ॥ २६ ॥

[Lesung unsicher; siehe den Hinweis zu 3.26 im Hauptartikel.]

परायेति च तत्त्वानि तदन्ते नमसा सह ।
मनसा वा न्यसेन्न्यासान्पुष्पेणैव तथा मुने ॥ २७ ॥

[Lesung unsicher; siehe den Hinweis zu 3.27 im Hauptartikel.]

अङ्गुष्ठानामिकाभ्यां च अन्यथा विफलं भवेत् ॥ २८ ॥

So endet das 3. Kapitel des Gautamiya Tantra.

4. Kapitel – Vrindavan – Meditation über Krishna

Nach den genauen Laut- und Körperzuordnungen öffnet sich ein weiter Meditationsraum. Vrindavan erscheint als Landschaft der Freude: Natur, Licht und Klang führen zur Gegenwart Krishnas. Das Bild lädt zum inneren Schauen ein und endet mit der Verheißung, das Meer des Daseins zu überwinden.

अथ वृन्दावनं ध्यायेत्सर्वदेवनमस्कृतम् ।
सर्वर्तुकुसुमोपेतं पतत्रिगणनादितम् ॥ १ ॥

भ्रमद्भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् ।
कालिन्दीजलकल्लोलशीतलानिलसेवितम् ॥ २ ॥

नानापुष्पलताबद्धवृक्षखण्डैश्च मण्डितम् ।
समानोदितचन्द्रार्कतेजोदीपेन दीपितम् ॥ ३ ॥

कमलोत्पलकल्हारधूलिधूसरिताम्बरम् ।
शाखामृगगणाकीर्णं नानामृगनिषेवितम् ॥ ४ ॥

द्वात्रिंशद्वनसंवीतं वैकुण्ठादतिसौख्यदम् ।
पुरन्दरमुखैर्देवैः सर्वतः समधिष्ठितम् ॥ ५ ॥

तन्मध्ये रत्नभूमिं च सूर्यायुतसमप्रभाम् ।
तत्र कल्पतरूद्यानं नियतं रत्नवर्षणम् ॥ ६ ॥

माणिक्यशिखरोल्लासि तन्मध्ये मणिमण्डपम् ।
नानारत्नगणैश्चित्रं सर्वतेजोविराजितम् ॥ ७ ॥

फलवल्गुलसच्चित्रवितानैरुपशोभितम् ।
रत्नतोरणगोपुरमाणिक्यवेदिकान्वितम् ॥ ८ ॥

[Lesung unsicher; siehe den Hinweis zu 4.8 im Hauptartikel.]

दिव्यैर्मुकुरैः शुभ्रं मुक्ताफलविराजितम् ।
कोटिसूर्यसमाभासं निर्मुक्तं षट्तरङ्गकैः ॥ ९ ॥

बुभुक्षा च पिपासा च प्राणस्य मनसस्तथा ।
शोकमोहौ शरीरस्य जरामृत्यू षडूर्मयः ॥ १० ॥

चतुर्द्वारसमायुक्तं कपाटाष्टकशोभितम् ।
तत्र कल्पतरुं ध्यायेत्स्थविष्ठं रत्नवर्षणम् ॥ ११ ॥

सेवितं ऋतुभिः सर्वैः सुधाशीकरवर्षिणम् ।
गारुत्मतलसत्पत्रं प्रवालरत्नपल्लवम् ॥ १२ ॥

मुक्तारत्नप्रसवितं पद्मरागफलोज्ज्वलम् ।
संसारतापविच्छेदिकुशलच्छायमद्भुतम् ॥ १३ ॥

तन्मूले चिन्तयेन्मन्त्री रत्नसिंहासनं शुभम् ।
तत्र सूर्यसमाभासं पङ्कजं चाष्टपत्रकम् ॥ १४ ॥

सर्वतत्त्वमयं तत्र चिन्तयेज्जगदीश्वरम् ।
संसारसागरोत्तीर्त्यै धर्मकामार्थसिद्धये ॥ १५ ॥

पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ।
रक्तनेत्राधरं रक्तपाणिपादतलं शुभम् ॥ १६ ॥

कौस्तुभोद्भासितोरस्कं नानारत्नविभूषितम् ।
उद्दामविलसन्मुक्तारत्नहारोपशोभितम् ॥ १७ ॥

रत्नैर्नानाविधैर्युक्तं कटिसूत्राङ्गुलीयकम् ।
गोरोचनकुङ्कुमेन ललाटतिलकान्वितम् ॥ १८ ॥

नानारत्नप्रभोद्दासिमुकुटं दीप्ततेजसम् ।
हारकेयूरकटककुण्डलैश्च सुशोभितम् ॥ १९ ॥

अलकाशोभिसद्वक्त्रं पीताम्बरयुगावृतम् ।
बिम्बाधरपुटोद्भासिवंश्याऽमृतरसान्वितम् ॥ २० ॥

बर्हिपत्रकृतापीडं वन्यपुष्पैरलङ्कृतम् ।
कदम्बकुसुमोन्नद्धचारुमालाविराजितम् ॥ २१ ॥

कोटिकन्दर्पलावण्यविलसद्बन्धुरोदरम् ।
वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य वादिनम् ॥ २२ ॥

गायन्तं दिव्यतानैश्च वृन्दावनगतं हरिम् ।
स्वर्गादिव परिभ्रष्टं कन्यकाशतमण्डितम् ॥ २३ ॥

गोगोवत्सगणाकीर्णं वृषषण्डैश्च मण्डितम् ।
गोपकन्यासहस्रैस्तु पद्मपत्रायतेक्षणैः ॥ २४ ॥

अर्चितं देवकुसुमैस्त्रैलोक्यैकगुरुं परम् ।
तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च ॥ २५ ॥

किन्नरीमिथुनं चापि श्रुत्वा गीतं तथा हरेः ।
वीणादिसाधनं त्यक्त्वा विस्मयाविष्टचेतसः ॥ २६ ॥

ते स्तुवन्ति महात्मानं गायन्तो वियति स्थिताः ।
सिद्धगन्धर्वयक्षैश्चाप्सरोभिर्विहङ्गमैः ॥ २७ ॥

स्थावरैः पन्नगैश्चापि सिद्धैर्विद्याधरैस्तथा ।
शाखामृगैर्मनुष्यैश्च वीक्ष्यमाणैः सुविस्मितैः ॥ २८ ॥

सर्वलक्षणसम्पन्नं सौन्दर्येणाभिशोभितम् ।
मोहनं सर्वगोपीनां लोकानां पतिमव्ययम् ॥ २९ ॥

नारदेन च सिद्धेन विश्वामित्रेण धीमता ।
पराशरेण व्यासेन भृगुणाङ्गिरसेन च ॥ ३० ॥

दक्षेण सनकाद्यैश्च सिद्धेन कपिलेन च ।
वास्तुवागीशहारीतयाज्ञवल्क्योशनःक्रतुभिः ॥ ३१ ॥

[Lesung unsicher; siehe den Hinweis zu 4.31 im Hauptartikel.]

मार्कण्डेयभरद्वाजपुलस्त्यपुलहादिभिः ।
वसिष्ठाद्यैर्मुनीन्द्रैश्च स्तूयमानं सुरासुरैः ॥ ३२ ॥

ब्रह्मलोकगतैः सिद्धैर्नानालोकगतैरपि ।
अन्यैरपि सुरश्रेष्ठैः स्तूयमानं स्मरेद्विभुम् ॥ ३३ ॥

एवं सञ्चिन्तयेन्मन्त्री चेतसा कृष्णमव्ययम् ।
संसारसागरं घोरमपि वत्सपदायते ॥ ३४ ॥

So endet das 4. Kapitel des Gautamiya Tantra.

5. Kapitel – Guru, Schüler und Vorbereitung der Einweihung

Die Einweihung beginnt mit der Frage nach der Eignung von Lehrer und Schüler. Der Text verlangt vom Guru Zugänglichkeit, Klarheit, Kenntnis und die Fähigkeit, Zweifel zu lösen. Danach folgen historische Regeln zu Zeitwahl, Bodenprüfung, Vastu-Mandala und Opfergaben. Die gesellschaftlichen Einteilungen und astrologischen Verheißungen werden als Bestandteile dieser Überlieferung wiedergegeben; die Ritualgaben werden ihrem Wortlaut entsprechend übersetzt.

यद्यदुक्तं त्वया ब्रह्मन् तत्तत्सर्वं श्रुतं मया ।
इदानीं परिपृच्छामि केनात्र चाधिकारिता ॥ १ ॥

दीक्षितोऽत्राधिकारित्वमाप्नोति गुरुसेवकः ।
द्विजानामनुपेतानां स्वधर्माध्ययनादिषु ॥ २ ॥

यथाधिकारो नास्तीह सन्ध्योपासनकर्मसु ।
तथा ह्यदीक्षितानां तु मन्त्रतन्त्रार्चनादिषु ॥ ३ ॥

नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्कृतम् ।
अत एव हि दीक्षार्थं सर्वज्ञं गुरुमाश्रयेत् ॥ ४ ॥

सुन्दरः सुमुखः स्वच्छः सुलभो बहुतन्त्रवित् ।
असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः ॥ ५ ॥

वेदवेदान्तसिद्धान्तज्ञानविज्ञानपारगः ।
वाङ्मनःकायचित्तैश्च विष्णोः शुश्रूषणे रतः ॥ ६ ॥

विष्णुमन्त्रानुसन्धायी विष्णुविज्ञानवेदकः ।
विष्णौ समर्पकः सम्यक्त्रिविधोत्पातकर्मणः ॥ ७ ॥

[Lesung unsicher; siehe den Hinweis zu 5.7 im Hauptartikel.]

मनःसंसुदान्तश्च मन्त्रार्थज्ञानपारगः ।
पिण्डे पदे तथा रूपे रूपातीते विवेचकः ॥ ८ ॥

[Lesung unsicher; siehe den Hinweis zu 5.8 im Hauptartikel.]

सन्ध्यात्रयविशेषज्ञोऽप्यध्वषट्कविशोधकः ।
मन्त्रचैतन्यविज्ञाता गुरुरुक्तः स्वयम्भुवा ॥ ९ ॥

नमोऽस्तु गुरवे तस्मै प्रत्यक्षाय यदाज्ञया ।
मृद्भस्मदारुदृषदः फलन्त्यविकलं फलम् ॥ १० ॥

पञ्चाम्नायविशेषज्ञो निग्रहानुग्रहक्षमः ।
शिष्यस्य संशयच्छेत्ता गुरुर्भवति नापरः ॥ ११ ॥

वैष्णवन्यायसिद्धान्तचिन्तामणिरिवापरः ।
आश्रमी ज्ञानकुशलो गुरुर्भवति नापरः ॥ १२ ॥

मन्त्रतन्त्रार्थचैतन्यकुण्डलीगतिवेदकः ।
मन्त्रसिद्धान्तविधिविद्गुरुर्भवति नापरः ॥ १३ ॥

सुदूरमपि गन्तव्यं यत्राम्नायविदो जनाः ।
तेऽपि स्तुत्या नमस्याश्च सेव्याश्चाभीष्टमिच्छता ॥ १४ ॥

एवंविधो गुरुर्ज्ञेयस्त्वन्यथा शिष्यदुःखदः ।
शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः ॥ १५ ॥

अधीतवेदः कुशलः पितृमातृहिते रतः ।
धर्मविद्धर्मकर्ता च गुरुशुश्रूषणे रतः ॥ १६ ॥

सदा शान्तात्मतत्त्वज्ञो दृढदेहो दृढाश्रयः ।
हितेषी प्राणिनां नित्यं परलोकार्थकर्मकृत् ॥ १७ ॥

वाङ्मनःकायवपुर्भिर्गुरुशुश्रूषणे रतः ।
अनित्यकर्मणस्त्यागी नित्यानुष्ठानकर्मकृत् ॥ १८ ॥

जितेन्द्रियो जितालस्यो जितमोहो विमत्सरः ।
गुरुवद्गुरुपुत्रेषु तत्कलत्रेषु भक्तिमान् ॥ १९ ॥

एवंविधो भवेच्छिष्यस्त्वितरो गुरुदुःखदः ।
वर्षकेण भवेद्योग्यो विप्रः सर्वगुणान्वितः ॥ २० ॥

वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः ।
चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥ २१ ॥

यदा शिष्यो भवेद्योग्यः कृपया सद्गुरुस्तदा ।
कृपया परया सम्यग्दीक्षाया विधिमाचरेत् ॥ २२ ॥

मन्त्रारम्भस्तु चैत्रे स्यात्समस्तपुरुषार्थदः ।
वैशाखे रत्नलाभः स्याज्ज्येष्ठे तु मरणं ध्रुवम् ॥ २३ ॥

आषाढे बन्धुनाशः स्यात्पूर्णायुः श्रावणे भवेत् ।
प्रजानाशो भवेद्भाद्रे आश्विने रत्नसञ्चयः ॥ २४ ॥

कार्तिके मन्त्रसिद्धिः स्यान्मार्गशीर्षे तथा भवेत् ।
पौषे तु शत्रुपीडा स्यान्माघे मेधाविवर्धनम् ॥ २५ ॥

फाल्गुने सर्वकामाः स्युर्मलमासं विवर्जयेत् ।
पञ्चाङ्गशुद्धदिवसे स्वोदये चन्द्रसूर्ययोः ॥ २६ ॥

गुरुशुक्रोदये चैव शस्यते मन्त्रसंस्क्रिया ।
रवौ गुरौ सिते सोमे कर्तव्यं बुधशुक्रयोः ॥ २७ ॥

[Lesung unsicher; siehe den Hinweis zu 5.27 im Hauptartikel.]

शुक्लपक्षे शुभा दीक्षा कृष्णे स्यात्पञ्चमावधि ।
द्वादश्यां सर्वथा कार्या चामलायां शुभेऽहनि ॥ २८ ॥

कृष्णप्रिया द्वादशी स्यात्कृष्णदीक्षाप्रवर्तिनी ।
उत्तरात्रयरोहिण्यां रेवतीपुष्यवासरे ॥ २९ ॥

धनिष्ठा वायुमित्राश्विपित्र्यं त्वाष्ट्रं च नैर्ऋतम् ।
ऐन्द्रवैष्णवहस्ताश्च दीक्षायां तु शुभावहाः ॥ ३० ॥

[Lesung unsicher; siehe den Hinweis zu 5.30 im Hauptartikel.]

अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च ।
पुष्योत्तरात्रये त्वेनं कुर्यान्मन्त्राभिषेचनम् ॥ ३१ ॥

शुभयोगेषु सर्वेषु दीक्षा सर्वशुभप्रदा ।
शुभानि करणान्याहुर्दीक्षायां तु विशेषतः ॥ ३२ ॥

शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् ।
चराः सर्वे विवर्ज्याः स्यात्स्थिरराशिषु सौख्यदा ॥ ३३ ॥

त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
दीक्षायां तु शुभाः सर्वे रन्ध्रस्थाः सर्वनाशकाः ॥ ३४ ॥

शिष्यस्य जन्मसङ्क्रान्तौ विषुवे अयने द्वये ।
अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्ययोः ॥ ३५ ॥

शिष्यानुकूलकाले वा दीक्षा सर्वशुभावहा ।
सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् ॥ ३६ ॥

तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।
विनायासेन मन्त्रस्य सिद्धिर्भवति नान्यथा ॥ ३७ ॥

भूमेः परिग्रहं कुर्याद्यावदायतनं भवेत् ।
शुक्लमृत्स्ना च या भूमिर्ब्राह्मी सा परिकीर्तिता ॥ ३८ ॥

क्षत्रिया रक्तमृत्स्ना स्याद्धरिद्वैश्या प्रकीर्तिता ।
कृष्णा भूमिर्भवेच्छूद्रा चतुर्धा परिकीर्तिता ॥ ३९ ॥

ब्राह्मी सर्वार्थसिद्धिः स्यात्क्षत्रिया राज्यदा मता ।
धनधान्यकरी वैश्या शूद्रा तु निन्दिता मुने ॥ ४० ॥

ततो भूमिं परीक्षेत वास्तुज्ञानविशारदः ।
शल्यादिशोधनं कुर्यात्तुषाङ्गारादि शोधयेत् ॥ ४१ ॥

एतस्याकरणे मन्त्री न किञ्चित्फलमाप्नुयात् ।
विप्राशीर्वेदघोषैर्मङ्गलाचारपूर्वकम् ॥ ४२ ॥

वास्तोर्दिङ्मण्डलं कुर्याद्यथाशोभं यथाविधि ।
पूर्वापरायतं सूत्रं विन्यसेद्धस्तमानतः ॥ ४३ ॥

तन्मध्ये किञ्चिदानम्य मत्स्यौ द्वौ परितो लिखेत् ।
तयोर्मध्यस्थितं सूत्रं विन्यसेद्दक्षिणोत्तरम् ॥ ४४ ॥

द्वाभ्यां द्वाभ्यां तथाग्राभ्यां कोणेषु मकरांल्लिखेत् ।
मत्स्यमध्यस्थिताग्राणि तत्र सूत्राणि पातयेत् ॥ ४५ ॥

चतुरस्रं भवेत्तत्र चतुःकोष्ठसमन्वितम् ।
ईशानाद्राक्षसं यावद्यावदग्नेः प्रभञ्जनम् ॥ ४६ ॥

एवं सूत्रद्वयं दद्यात्कर्णसूत्रसमाहितः ।
ब्रह्माणं पूजयेदादौ मध्यकोष्ठचतुष्टये ॥ ४७ ॥

दिक्चतुष्टयेषु पूर्वादौ यजेदार्यमनन्तरम् ।
विवस्वन्तं ततो मित्रं महीधरमनन्तरम् ॥ ४८ ॥

[Lesung unsicher; siehe den Hinweis zu 5.48 im Hauptartikel.]

कोणार्धकोष्ठद्वन्द्वेषु वह्न्यादिपरितः पुनः ।
सावित्रं सवितारं च शक्रमिन्द्रजयं पुनः ॥ ४९ ॥

रुद्रं रुद्रजयं विद्वानापं चाप्यायुवत्सकम् ।
तत्कर्णसूत्रोभयतः कोष्ठद्वन्द्वेषु देशिकः ॥ ५० ॥

[Lesung unsicher; siehe den Hinweis zu 5.50 im Hauptartikel.]

शर्वं गुहं चार्यमणं जम्भकं पिलिपिच्छिकम् ।
वरकीं च विदारीं च पूतनामर्चयेत्क्रमात् ॥ ५१ ॥

[Lesung unsicher; siehe den Hinweis zu 5.51 im Hauptartikel.]

अर्चयेद्दिक्षु पूर्वादौ सार्धाष्टपदेष्विमान् ।
अष्टावष्टविभागेन देवता देशिकोत्तमः ॥ ५२ ॥

[Lesung unsicher; siehe den Hinweis zu 5.52 im Hauptartikel.]

क्रमादीशानपर्जन्यौ जयन्तः शक्रभास्करौ ।
सत्यो वृषान्तरिक्षौ च दिशि प्राच्यां व्यवस्थिताः ॥ ५३ ॥

अग्निः पूषा च वितथो यमश्च गृहरक्षकः ।
गान्धर्वो भृङ्गराजश्च मृगो दक्षिणदिग्भजाः ॥ ५४ ॥

निरृतिर्दौवारिकश्च सुग्रीववरुणौ ततः ।
पुष्पदन्तासुरौ शेषरोगौ प्रत्यग्दिशि स्थिताः ॥ ५५ ॥

वायुर्नागश्च कृकलः सोमो भल्लाट एव च ।
अर्गलाख्यो दित्यदिती कुबेरस्य दिशि स्थिताः ॥ ५६ ॥

उक्तानामिति देवानां पदान्यापूर्य पञ्चभिः ।
रजोभिस्तेष्वथो तेभ्यः पायसान्नैर्बलिं हरेत् ॥ ५७ ॥

पायसैर्मधुरैः सर्वाः संयजेन्मधुरान्वितैः ।
तत्तद्द्रव्यैर्वा मतिमान्पूजयेद्दोषशान्तये ॥ ५८ ॥

पायसौदनलाजैश्च युक्तं धूपप्रसूनकैः ।
अन्नादिभी रसैर्युक्तं माषभक्तादिमण्डितम् ॥ ५९ ॥

गृहाणेमां बलिं ब्रह्मन् वास्तुदोषं प्रणाशय ।
गन्धादिशर्करापूपपायसोपरि संयुतम् ॥ ६० ॥

आर्यकाख्य गृहाणेमं सर्वदोषं प्रणाशय ।
चन्दनाभ्यर्चितं नाथ कर्पूरागुरुमण्डितम् ॥ ६१ ॥

विवस्वन्वै गृहाणेमं सर्वदोषं प्रणाशय ।
सगुडं पायसं नाथ पुष्पदीपसमन्वितम् ॥ ६२ ॥

गृहाणेमं बलिं हृद्यं मित्र शान्तिं प्रयच्छ मे ।
माषौदनं समांसं च गन्धादिक्षीरसंयुतम् ॥ ६३ ॥

गृहाणेमं महाभक्ष्य सर्वदोषं प्रणाशय ।
एवं मध्ये तु सम्पूज्य ईशानादिबलिं हरेत् ॥ ६४ ॥

[Lesung unsicher; siehe den Hinweis zu 5.64 im Hauptartikel.]

क्षीरं खण्डसमायुक्तं पुष्पादिभिरलङ्कृतम् ।
गृहाणेमं बलिं हृद्यं वास्तुशान्तिं प्रयच्छ मे ॥ ६५ ॥

दधीदं गुडसम्मिश्रं गन्धादिभिः सुसंयुतम् ।
गृहाणेमं बलिं वत्स विघ्नमत्र प्रणाशय ॥ ६६ ॥

पुष्पादिकुशपानीयं शर्करागुरुवासितम् ।
सावित्र वै गृहाणेमं शान्तिमत्र प्रयच्छ मे ॥ ६७ ॥

पिष्टकं सगुडं नाथ रक्तगन्धादिशोभितम् ।
गृहाणेमं बलिं सूर्य विघ्नमत्र प्रणाशय ॥ ६८ ॥

शीतमन्नं तथायुष्यं कुसुमादिसमन्वितम् ।
गृहाणेमं बलिं हृद्यमिन्द्रजय नमोऽस्तु ते ॥ ६९ ॥

पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतम् ।
गृहाणेमं बलिं हृद्यं रुद्रदेव नमोऽस्तु ते ॥ ७० ॥

समांसं घृतसम्पक्वं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं रुद्रजय वास्तुस्वस्ति प्रयच्छ मे ॥ ७१ ॥

रक्तपुष्पं समांसं वै रक्तवस्त्रादिसंयुतम् ।
विदारिन्वै गृहाणेमं रक्षोविघ्नं विनाशय ॥ ७२ ॥

पीतरक्तादिसंयुक्तं रक्तगन्धादिसंयुतम् ।
गृहाणेमं पूतने त्वं रक्षोविघ्नं विनाशय ॥ ७३ ॥

सघृतं मांसभक्तं च वस्त्रगन्धाद्यलङ्कृतम् ।
बलिं गृहाण सर्वेश रक्षोविघ्नं प्रणाशय ॥ ७४ ॥

मांसं पुष्पादिसंयुक्तं मांसभक्तोपरिस्थितम् ।
गृहाणेमं बलिं स्कन्द रक्षोविघ्नं विनाशय ॥ ७५ ॥

समांसपिष्टकैर्युक्तं पक्वमांसोदकान्वितम् ।
अर्यमन्वै गृहाणेमं रक्षोविघ्नं विनाशय ॥ ७६ ॥

रक्तमांसौदनं मत्स्यं गन्धधूपसमन्वितम् ।
जम्भक त्वं गृहाणेमं रक्षोविघ्नं प्रणाशय ॥ ७७ ॥

सघृतं चाक्षतामन्नं वस्त्रगन्धाद्यलङ्कृतम् ।
गृहाणेमं बलिं त्वीश वास्तुदोषापहारकम् ॥ ७८ ॥

[Lesung unsicher; siehe den Hinweis zu 5.78 im Hauptartikel.]

उत्पलं पायसैर्युक्तं वस्त्रादिकसमन्वितम् ।
गृहाणेमं बलिं हृद्यं वास्तुदोषं प्रणाशय ॥ ७९ ॥

पञ्चहस्तं सुपीतं च ध्वजं भक्तादिमण्डितम् ।
गृहाणेमं बलिं हृद्यं विष्णुप्रभ नमोऽस्तु ते ॥ ८० ॥

[Lesung unsicher; siehe den Hinweis zu 5.80 im Hauptartikel.]

रक्तपुष्पयुतं भक्तं रक्तगन्धादिभिर्युतम् ।
गृहाणेमं बलिं हृद्यं भास्कराय नमोऽस्तु ते ॥ ८१ ॥

वितानं धूम्रवर्णाभं गन्धादिकसुशोभितम् ।
रक्तयुक्तं गृहाणेमं बलिं सत्य नमोऽस्तु ते ॥ ८२ ॥

इदं तु मांसभक्तं वै वस्त्रगन्धादिपूजितम् ।
गृहाणेमं बलिं हृद्यं वास्तुदोषं प्रणाशय ॥ ८३ ॥

इदं तु शाड्वलं मांसं नैवेद्यादिकसंयुतम् ।
गृहाणेमं बलिं हृद्यं व्योमशान्तिं प्रयच्छ मे ॥ ८४ ॥

[Lesung unsicher; siehe den Hinweis zu 5.84 im Hauptartikel.]

सुवर्णं पिष्टकं चापि वस्त्रगन्धादिभिर्युतम् ।
घृतान्वितं गृहाणेमं सप्तजिह्व नमोऽस्तु ते ॥ ८५ ॥

क्षीरलाजामांसयुक्तं रक्तपुष्पादिसंयुतम् ।
गृहाणेमं बलिं हृद्यं पूषदेव नमोऽस्तु ते ॥ ८६ ॥

दधिगन्धादिभिर्युक्तं पीतपुष्पसमन्वितम् ।
बलिः प्रगृह्यतां सोम सर्वदोषं प्रणाशय ॥ ८७ ॥

ओदनं घृतसम्मिश्रं गन्धपुष्पसमन्वितम् ।
गृहाणेमं बलिं हृद्यं भल्लाटक नमोऽस्तु ते ॥ ८८ ॥

मांसान्नं तु घृताभ्यक्तं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं बलिं हृद्यं [Lesung unsicher] नमोऽस्तु ते ॥ ८९ ॥

मांसान्नं तु घृताभ्यक्तं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं बलिं हृद्यमर्गलाख्य नमोऽस्तु ते ॥ ९० ॥

पूतिकामधुसम्मिश्रं वस्त्रगन्धादिसंयुतम् ।
गृहाणेमं बलिं हृद्यं देवमातर्नमोऽस्तु ते ॥ ९१ ॥

क्षीरखण्डसमायुक्तं नानापुष्पोपशोभितम् ।
दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय ॥ ९२ ॥

स्वर्गपातालमर्त्ये च ये देवा वास्तुदेवताः ।
गृह्णन्त्विमं बलिं हृद्यं तुष्टा यान्तु स्वमन्दिरम् ॥ ९३ ॥

मातरो भूतवेताला ये चान्ये बलिकाङ्क्षिणः ।
विष्णोः पारिषदा ये च तेऽपि गृह्णन्त्विमं बलिम् ॥ ९४ ॥

पितृभ्यः क्षेत्रपालेभ्यो बलिं दत्त्वा प्रकामतः ।
अभावादुक्तद्रव्यस्य कुशपुष्पादिभिर्यजेत् ॥ ९५ ॥

So endet das 5. Kapitel des Gautamiya Tantra.

6. Kapitel – Opferpavillon, Feuergrube und Aussaat

Die Vorbereitung des heiligen Raumes umfasst Bauformen, Maße und symbolische Zuordnungen. Anschließend beschreibt das Kapitel die Aussaat von Samen in geweihten Gefäßen. Ihre Pflege begleitet das Ritual; die Deutung der Keime gehört zur historischen Omenlehre des Textes. Mehrere technische Maßangaben bleiben aufgrund beschädigter Lesungen offen.

भूमिशुद्धिं विधायेत्थं रचयेद्यागमण्डपम् ।
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः ॥ १ ॥

अष्टहस्तसमुच्छ्राया निश्छिद्रा ध्वजिनः समाः ।
पञ्चहस्तसमुच्छ्रायाः संस्थाप्या द्वादशाभितः ॥ २ ॥

तत्पञ्चमांशं निखनेन्मेदिन्यां तन्त्रवित्तमः ।
नवहस्तं पञ्चहस्तं वा सप्तहस्तं यथामति ॥ ३ ॥

कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः ।
मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदीरितम् ॥ ४ ॥

गृहादिकुण्डकरणं मण्डलं वेदिकं तथा ।
मानाङ्गुलेन कर्तव्यं नान्यैरपि कदाचन ॥ ५ ॥

प्रतिमाकरणे चैव मानाङ्गुलमुदीरितम् ।
वापीकूपतडागादिदीर्घिकासेतुमेव च ॥ ६ ॥

मुष्ट्यङ्गुलेन मतिमान्कारयेत्फलहेतवे ।
रथादिगोलिका चैव पोतं शकटमेव च ॥ ७ ॥

[Lesung unsicher; siehe den Hinweis zu 6.7 im Hauptartikel.]

लम्बाङ्गुलेन कर्तव्यं नान्येन तु कदाचन ।
मुष्ट्यङ्गुलप्रमाणानि यत्किञ्चित्कथितानि च ॥ ८ ॥

यजमानस्य कर्तव्यं नान्यस्यापि कदाचन ।
मसृणं रचयेद्गेहं षोडशस्तम्भसंयुतम् ॥ ९ ॥

मध्ये चतुष्टयं तत्र निरूप्येद्द्वादशाभितः ।
चतुर्द्वारसमायुक्तं चतुष्कोणसमन्वितम् ॥ १० ॥

विश्वकर्मानुष्ठितेन यथाशोभं निवेशयेत् ।
अष्टदिक्षु ध्वजानष्टौ तत्तद्दिक्पालवर्णिनः ॥ ११ ॥

पुष्पमालावितानाद्यं सर्वाश्चर्यमनोहरम् ।
तस्याग्रे चोत्तरे वापि रचयेद्यज्ञमण्डपम् ॥ १२ ॥

तत्तत्स्थले चैकगेहे कुण्डमेकं विनिर्मयेत् ।
मध्यपूजावेदिकां च कुर्याद्दर्पणोदरसन्निभाम् ॥ १३ ॥

मण्डपान्तस्त्रिभागस्य चैकभागेन निर्मिताम् ।
मुष्टिमात्रोन्नतां सर्वलक्षणैर्लक्षणान्विताम् ॥ १४ ॥

ततः कुण्डं च रचयेल्लक्षणं तस्य मे शृणु ।
पूर्वापरायतं सूत्रं हस्तमात्रं प्रसार्य च ॥ १५ ॥

तस्याग्रयोर्मत्स्ययुग्मं कुर्यात्स्पष्टं यथा भवेत् ।
द्विभागे कृत्वा तत्सूत्रं पातयेद्दक्षिणोत्तरम् ॥ १६ ॥

तदग्रयोर्मत्स्ययुग्मं कुर्यात्स्पष्टं यथा भवेत् ।
चतुर्दिक्षु चतुःसूत्रं पातयेत्तत्प्रमाणतः ॥ १७ ॥

चतुरस्रं भवेत्कुण्डं सर्वलक्षणलक्षितम् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः कुर्यात्स्वयमनुष्ठितम् ॥ १८ ॥

सर्वकर्मकरं प्रोक्तं शान्त्यादिकषट्कर्मसु ।
अनेन जनयेत्सर्वकुण्डानि मनुवित्तमः ॥ १९ ॥

ततः कुण्डं खनेन्मन्त्री यथाशास्त्रविधानवित् ।
त्यक्त्वा सर्पस्य गात्रं च शिरोदेशं प्रयत्नतः ॥ २० ॥

शिरोघाताद्भवेन्मृत्युः पिण्डेषु पिण्डघातनम् ।
पुच्छे तु दुःखसम्भूतिः क्रोडे सर्वार्थसाधनम् ॥ २१ ॥

यावान्कुण्डस्य विस्तारः खननं तावदीरितम् ।
कण्ठमेकाङ्गुलं त्यक्त्वा मेखलास्तिस्र एव हि ॥ २२ ॥

कुण्डस्य फलमानेन वेदाग्निनयनाङ्गुलाः ।
होतुस्ते तु भवेयुस्ताश्चतुरस्राः सुशोभनाः ॥ २३ ॥

[Lesung unsicher; siehe den Hinweis zu 6.23 im Hauptartikel.]

होतुरग्रे [Lesung unsicher] कुक्ष्यधरसन्निभाम् ।
षट्पञ्चचतुर्द्व्यङ्गुलयोर्विस्तारोन्नतशालिनी ॥ २४ ॥

[Lesung unsicher; siehe den Hinweis zu 6.24 im Hauptartikel.]

[Lesung unsicher] चतुरङ्गुलविस्तृता ।
द्व्यङ्गुला चोन्नता योनिरेषा लक्षणलक्षिता ॥ २५ ॥

स्थलादारभ्य नालं स्यान्न रन्ध्रं योनिमध्यतः ।
सूक्ष्माग्रे स्थूलमूलं च तच्च नालमिष्यते ॥ २६ ॥

योन्यामध्ये बिलं कुर्यात्तदाज्यग्राहिसंज्ञकम् ।
[Lesung unsicher] भवेन्नाभिः फलं वा [Lesung unsicher] ॥ २७ ॥

[Lesung unsicher] चतुरङ्गुलविस्तृतम् ।
अर्धाङ्गुलं तु योन्यग्रं कुर्यादीषदधोमुखम् ॥ २८ ॥

[Lesung unsicher; siehe den Hinweis zu 6.28 im Hauptartikel.]

यवद्वयप्रमाणेन [Lesung unsicher] ।
कण्ठं तु [Lesung unsicher] बध्नीयात्कुण्डमानतः ॥ २९ ॥

[Lesung unsicher; siehe den Hinweis zu 6.29 im Hauptartikel.]

कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् ।
सर्वकुण्डेषु सूत्रं तु बध्नीयात्तद्विधानतः ॥ ३० ॥

कुण्डं तु प्रकृतिः प्रोक्ता सर्वलक्षणलक्षिता ।
उभौ पादौ करौ तस्य भवेत्तत्कोणचतुष्टयम् ॥ ३१ ॥

[Lesung unsicher] कुण्डमित्युक्तं योनिः कारणरूपिणी ।
तेन [Lesung unsicher] हव्यानां विधानं तन्मयत्वतः ॥ ३२ ॥

फलं वितनुते सम्यगन्यथा विफलायते ।
सात्त्विकी मेखला पूर्वी द्वितीया राजसी स्मृता ॥ ३३ ॥

तृतीया तामसी प्रोक्ता इत्युक्तं कुण्डलक्षणम् ।
मण्डपस्योत्तरे भागे मेखला पूर्वापरोन्नता ॥ ३४ ॥

गूढां [Lesung unsicher] शोभां सर्वदृष्टिमनोहराम् ।
पूर्वापरायतं तत्र पञ्चसूत्रनिपातनात् ॥ ३५ ॥

[Lesung unsicher; siehe den Hinweis zu 6.35 im Hauptartikel.]

मध्ये मध्ये विलुप्येत तत्स्याद्द्वादशकोष्ठकम् ।
पञ्चवर्णरजोभिस्तु पदानि तानि पूरयेत् ॥ ३६ ॥

पालिकाः पञ्चमुख्यश्च शरावाणि च पातयेत् ।
द्विषडष्टचतुर्विंशदुच्छ्रितानि यथाक्रमम् ॥ ३७ ॥

[Lesung unsicher; siehe den Hinweis zu 6.37 im Hauptartikel.]

तावन्मात्रमुखान्यूर्ध्वपदानि परिकल्पयेत् ।
नारायणमहेशानब्रह्मरूपाणि तान्यपि ॥ ३८ ॥

[Lesung unsicher; siehe den Hinweis zu 6.38 im Hauptartikel.]

पालिका पञ्चमुखी तु शरावाणि ततः परम् ।
प्रक्षालितानि मन्त्रेण पुण्यानि तानि चैव हि ॥ ३९ ॥

संवेष्टितानि परितस्त्रिगुणैः शुभतन्तुभिः ।
मृद्वालुकाकरीषैश्च पूरितानि समन्ततः ॥ ४० ॥

समर्चितस्वदेवानि पश्चिमादिक्रमेण वै ।
विन्यस्य शालिश्यामानि प्रियङ्गुफलसर्षपान् ॥ ४१ ॥

मुद्गमाषौ शिम्बीकुलत्थमाढकीं यवसं तथा ।
प्रक्षालितानि शुद्धेन जलेन तदनन्तरम् ॥ ४२ ॥

अर्चितस्वदेवानि मूलमन्त्रार्चितानि वै ।
विप्राशिषा वाद्यघोषैः सह निःसार्य तान्यथ ॥ ४३ ॥

निषिच्य तु हरिद्राभिर्नमस्येत्पुनः पुनः ।
वसनेन समाच्छाद्य नवीनेन ततः परम् ॥ ४४ ॥

शुद्धाद्भिरभिषिच्याथ सायं प्रातर्मुहुर्मुहुः ।
इत्येवं सप्तरात्रं वा नवरात्रमथापि वा ॥ ४५ ॥

स्थापयेद्वापयेच्चैव रात्रिशेषेभ्यो बलिं निशि ।
लाजा तिलं हरिद्रा च सक्तुचूर्णं तथा दधि ॥ ४६ ॥

[Lesung unsicher; siehe den Hinweis zu 6.46 im Hauptartikel.]

एतैः प्रथमरात्रौ च भूतेभ्यो बलिमुत्सृजेत् ।
द्वितीयायां क्षिपेद्रात्रौ पितृभ्यस्तिलतण्डुलैः ॥ ४७ ॥

तृतीयायां च यक्षेभ्यः सुलाजादधिसक्तुभिः ।
चतुर्थ्यां रजनौ दद्यान्नागेभ्यश्च पुनर्बलिम् ॥ ४८ ॥

नारिकेरोदकैर्मिश्रैः सक्तुचूर्णं मनोहरम् ।
पद्माक्षतं ब्रह्मणे च पञ्चम्यामुत्सृजेद्बलिम् ॥ ४९ ॥

अपूपमन्नं शर्वाय षष्ठ्यां समाचरेत् ।
गुडौदनं विष्णवे च सप्तम्यां वितरेद्बलिम् ॥ ५० ॥

प्रणवादिचतुर्थ्यन्तं स्वनाम च नमोऽन्तकम् ।
बलिमन्त्रस्तथैव स्यादावाहनविसर्जनम् ॥ ५१ ॥

त्रिविधानां च पात्राणां परतो बहिरेव च ।
अष्टदिक्षु च सन्दद्याल्लोकपालेषु यत्नतः ॥ ५२ ॥

प्रोक्तेषु तेषु पात्रेषु विष्णुब्रह्महरान्यजेत् ।
मुद्गप्रियङ्गुनिष्पावे वायुरग्निः कुलत्थके ॥ ५३ ॥

[Lesung unsicher; siehe den Hinweis zu 6.53 im Hauptartikel.]

आढक्यां रक्षसां देहो वृद्धौ वैवस्वतस्तिले ।
इन्द्रः श्यामे राजमाषे वरुणश्च तथा मुने ॥ ५४ ॥

वस्त्रखण्डे दृढं बद्ध्वा किञ्चिज्जलं क्षिपेत्ततः ।
उद्धृत्य यामत्रितये समतीते च वापयेत् ॥ ५५ ॥

बीजानां देवता सोमः स रात्रौ कान्तिमान्यतः ।
तस्मादाहृत्य बीजानि निशायामेव वापयेत् ॥ ५६ ॥

प्ररूढान्यङ्कुराण्येव नो वीक्षेत कदाचन ।
आचार्य एव तान्वीक्षेत्तच्छिष्यो वा तदाज्ञया ॥ ५७ ॥

प्ररूढैरङ्कुरैः कर्तुर्निर्दिशेच्छुभाशुभम् ।
श्यामैः कृष्णैरङ्कुरैरर्थहानिश्च दुःखभाक् ॥ ५८ ॥

कुब्जैर्रुद्धैर्विप्ररूढैर्मृतिं कुर्यान्न संशयः ।
आचार्यः कारयेन्नैव प्रलयं वीक्ष्य यत्नतः ॥ ५९ ॥

[Lesung unsicher; siehe den Hinweis zu 6.59 im Hauptartikel.]

शान्तिकं सर्वथा कुर्यात्कर्तुरीप्सितसिद्धये ॥ ५९a ॥

So endet das 6. Kapitel des Gautamiya Tantra.

Textgrundlage und Hinweise zur Übersetzung

Die Kapitel 2–6 folgen der Nummerierung der Ausgabe von 1977. Die Jyotsnā-Ausgabe wurde zur Klärung zahlreicher Lesungen herangezogen; bei Kapitel 6 erfolgte die Kontrolle bisher gezielt am Anfang und am Schluss. Unterschiede und nicht zuverlässig lesbare Passagen sind an den jeweiligen Stellen benannt. Die zusätzlichen Verse der Kontrollquelle sind noch nicht in einem vollständigen Variantenanhang erschlossen.

Hauptgrundlage ist das von Pt. Bhagiratha Jha herausgegebene Gautamīyatantram, Chowkhamba Sanskrit Series Office, Varanasi, 1977, hier Kapitel 1, Druckseiten 1–2. Zur Kontrolle wurde das erste Kapitel des Gautamīya Mahātantra mit der Hindi-Erklärung Jyotsnā von Śrīnivāsa Śarmā, Chaukhamba Surbharati Prakashan, Varanasi, erste Ausgabe 2015, Druckseiten 1–4, herangezogen. Die deutsche Übersetzung folgt dem Sanskrit; Erläuterungen des Hindi-Kommentars werden nicht als zusätzliche Verse aufgenommen.

Beide überlieferten OCR-Texte enthalten erhebliche Erkennungsfehler. Offensichtliche Verwechslungen sind im vorliegenden ersten Kapitel anhand der Parallelfassung berichtigt. Sanskritlesungen, die dadurch nicht sicher werden, sind kenntlich gemacht. Eine neue kritische Edition liegt nicht vor. Die dritte beigefügte OCR-Fassung ist als ergänzende Quelle vorhanden, wurde für die Lesefassung dieses Kapitels aber nicht systematisch kollationiert.

Die Kapitelzählung reicht in den beiden Hauptquellen bis 32. Daraus folgt keine durchgehende Übereinstimmung der Verszählung: Das Schlusskapitel endet im OCR der Ausgabe von 1977 mit Vers 130, in der Jyotsnā-Ausgabe mit Vers 128. Besonders bei späteren Zitaten müssen deshalb Ausgabe und Nummerierung zusammen angegeben werden.

Hinweise zu Kapitel 1: In Vers 3 bleibt die Sanskritverbindung mantrauṣadhikriyāsamyag auffällig. In Vers 15 ist die erste Aussage nicht hinreichend sicher gelesen. In Vers 21 und 22 ist der Bezug einzelner Aussagen mehrdeutig. In Vers 22 werden die schwierigen Vergleichsformen nicht stillschweigend grammatisch umgeschrieben. Die Verse 10–23 preisen den Krishna-Mantra aus der eigenen religiösen Perspektive des Werkes; Aussagen über Erfolg und übernatürliche Kräfte sind als solche wiedergegeben.