Mantra Matrika Pushpamala Stava: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 12: Zeile 12:
:रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
:रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
:    चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥ १॥
:    चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥ १॥
:
 
:एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
:एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
:    बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
:    बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
:चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
:चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
:    तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥ २॥
:    तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥ २॥
:
 
:ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं  var  फलकं
:ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं  var  फलकं
:    पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
:    पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
:शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
:शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
:    कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३॥
:    कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३॥
:
 
:लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
:लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
:    प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
:    प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
:गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
:गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
:    स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४॥
:    स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४॥
:
 
:ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः
:ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः
:    रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
:    रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
:मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं
:मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं
:    दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५॥
:    दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५॥
:
 
:हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
:हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
:    हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे ।
:    हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे ।
:मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
:मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
:    नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६॥
:    नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६॥
:
 
:सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
:सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
:    कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् ।
:    कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् ।
:गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
:गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
:    कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७॥
:    कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७॥
:
 
:कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
:कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
:    र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
:    र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
:केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः
:केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः
:    सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८॥
:    सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८॥
:
 
:हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
:हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
:    र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
:    र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
:तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहा-
:तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहा-
:    ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९॥
:    ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९॥
:
 
:लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे
:लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे
:    मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
:    मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
:चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितै-
:चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितै-
:    र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १०॥
:    र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १०॥
:
 
:ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
:ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
:    दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
:    दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
:दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
:दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
:    माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११॥
:    माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११॥
:
 
:सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
:सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
:    पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
:    पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
:मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
:मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
:    पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥
:    पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥
:
 
:कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
:कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
:    पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः । var  दीपालिभिः
:    पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः । var  दीपालिभिः
:उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
:उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
:    मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥
:    मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥
:
 
:लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद्-
:लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद्-
:    इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
:    इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
:वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-
:वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-
:    द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४॥
:    द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४॥
:
 
:ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि-
:ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि-
:    र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
:    र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
:सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते
:सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते
:    संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५॥
:    संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५॥
:
 
:श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
:श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
:    सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
:    सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
:चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसा-
:चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसा-
:    द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६॥
:    द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६॥
:
 
:इति गिरिवरपुत्रीपादराजीवभूषा
:इति गिरिवरपुत्रीपादराजीवभूषा
:    भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
:    भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
:शिवपदमकरन्दस्यन्दिनीयं निबद्धा
:शिवपदमकरन्दस्यन्दिनीयं निबद्धा
:    मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७॥
:    मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७॥
:
 
:इति श्रीमच्छङ्करभगवत्पादविरचितः
:इति श्रीमच्छङ्करभगवत्पादविरचितः
:मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥
:मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥

Version vom 11. September 2022, 13:23 Uhr

Mantra Matrika Pushpamala Stava: (stava/stavaḥ - स्तव/स्तव:) ist ein Loblied oder eine Hymne. Das Mantra Matrika Pushpamala Stava wird Adi Shankaracharya zugeschrieben, der diese Hymne komponiert haben soll, um sie für alle zugänglich zu machen. Die Hymne besteht aus 17 Strophen. Matrika (mātṛkā - मातृका) bedeutet Mutter, aber auch Buchstaben des Alphabets und bezieht sich hier auf das Sanskrit-Alphabet. Pushpa bedeutet Blume und Mala bedeutet Girlande. Diese Hymne ist im Grunde eine Blumengirlande, die aus den Buchstaben des Sanskrit-Alphabets zu Ehren von Parashakti geflochten und ihr dargebracht wird. Die Anfangsbuchstaben der ersten fünfzehn Strophen bilden die fünfzehn Bija Aksharas des Panchadashakshari Mantra (pañcadaśākṣarī mantra). Die sechzehnte Strophe beginnt mit dem exklusiven Bija Akshara (bījākṣara) des ṣoḍaśākṣarī Mantras. Die siebzehnte Strophe ist eine Unterwerfung dieser Hymne zu den Füßen von Parashakti und bittet um Reinigung und Befreiung. Nachfolgend ist das Mantra Matrika Pushpamala Stava in IAST und in Devanagari:



मन्त्र मातृका पुष्पमाला स्तवः

कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि
द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥ १॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥ २॥
ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं var फलकं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४॥
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५॥
हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे ।
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः
सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितै-
र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १०॥
ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः । var दीपालिभिः
उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद्-
इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-
द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४॥
ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि-
र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसा-
द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६॥
इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७॥
इति श्रीमच्छङ्करभगवत्पादविरचितः
मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥