Nirguna Manasa Puja: Unterschied zwischen den Versionen
Aus Yogawiki
Keine Bearbeitungszusammenfassung |
Keine Bearbeitungszusammenfassung |
||
Zeile 7: | Zeile 7: | ||
:akhaṇḍe saccidānande nirvikalpaikarūpiṇi | | :akhaṇḍe saccidānande nirvikalpaikarūpiṇi | | ||
:sthite | :sthite advitīyabhāve api kathaṃ pūjā vidhīyate || 1|| | ||
:pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam. | :pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam. | | ||
:svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2|| | :svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2|| | ||
:nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca | | :nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca | | ||
Zeile 87: | Zeile 87: | ||
:अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । | :अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । | ||
:स्थिते | :स्थिते अद्वितीयभावे अपि कथं पूजा विधीयते ॥ १॥ | ||
:पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् | :पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । | ||
:स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥ | :स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥ | ||
:निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । | :निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । | ||
:अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् | :अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३॥ | ||
:निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । | :निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । | ||
:निर्विशेषस्य का भूषा को | :निर्विशेषस्य का भूषा को अलङ्कारो निराकृतेः ॥ ४॥ | ||
:निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । | :निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । | ||
:निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥ | :निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥ | ||
:विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते । | :विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते । | ||
:स्वयंप्रकाशचिद्रूपो यो | :स्वयंप्रकाशचिद्रूपो यो असावर्कादिभासकः ॥ ६॥ | ||
:गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । | :गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । | ||
:प्रदक्षिणमनन्तस्य प्रणामो | :प्रदक्षिणमनन्तस्य प्रणामो अद्वयवस्तुनः ॥ ७॥ | ||
:वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । | :वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । | ||
:अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥ | :अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥ | ||
Zeile 105: | Zeile 105: | ||
:गुरुरुवाच । | :गुरुरुवाच । | ||
:आराधयामि मणिसंनिभमात्मलिङ्गम् | :आराधयामि मणिसंनिभमात्मलिङ्गम् | ||
:मायापुरीहृदयपङ्कजसंनिविष्टम् | :मायापुरीहृदयपङ्कजसंनिविष्टम् । | ||
:श्रद्धानदीविमलचित्तजलाभिषेकै\- | :श्रद्धानदीविमलचित्तजलाभिषेकै\- | ||
:र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥ | :र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥ | ||
:अयमेको | :अयमेको अवशिष्टो अस्मीत्येवमावाहयेच्छिवम् । | ||
:आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् | :आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १०॥ | ||
:पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् | :पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् । | ||
:पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् | :पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ ११॥ | ||
:अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् | :अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् । | ||
:विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् | :विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२॥ | ||
:ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् | :ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् । | ||
:पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् | :पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३॥ | ||
:ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । | :ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः । | ||
:अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥ | :अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥ | ||
:निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम् | :निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम् । | ||
:आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥ | :आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥ | ||
:त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् | :त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् । | ||
:इति निश्चयमेवात्र ह्युपवीतं परं मतम् | :इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६॥ | ||
:अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया । | :अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया । | ||
:नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् | :नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ १७॥ | ||
:रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । | :रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । | ||
:आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥ | :आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥ | ||
:ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । | :ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । | ||
:बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् | :बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९॥ | ||
:समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् | :समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् । | ||
:ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥ | :ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥ | ||
:नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् | :नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् । | ||
:पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् | :पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१॥ | ||
:अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । | :अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । | ||
:विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् | :विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२॥ | ||
:रागादिगुणशून्यस्य शिवस्य परमात्मनः । | :रागादिगुणशून्यस्य शिवस्य परमात्मनः । | ||
:सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् | :सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३॥ | ||
:अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् | :अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् । | ||
:आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥ | :आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥ | ||
:विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् | :विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् । | ||
:पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् | :पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५॥ | ||
:परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे । | :परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे । | ||
:कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम् | :कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम् ॥ २६॥ | ||
:विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः । | :विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः । | ||
:इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् | :इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७॥ | ||
:आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना । | :आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना । | ||
:नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् | :नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८॥ | ||
:श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् | :श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् । | ||
:मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् | :मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९॥ | ||
:ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः । | :ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः । | ||
:समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥ | :समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥ | ||
:समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः । | :समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः । | ||
:तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥ | :तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥ | ||
:एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् | :एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् । | ||
:कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥ | :कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥ | ||
:सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् | :सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् । | ||
:विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥ | :विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥ |
Version vom 20. August 2023, 15:18 Uhr
Nirguna Manasa Puja: Die Komposition der Verse der Nirguna Manasa Puja wird dem Vedanta-Gelehrten Adi Shankaracharya zugeschrieben. Sie besteht aus 33 Versen, wobei die ersten 8 die verschiedenen Fragen des Schülers darstellen und die Antworten in den restlichen 25 Versen vom Guru gegeben werden.
!!Diese Seite wird derzeit bearbeitet!!
śiṣya uvāca |
- akhaṇḍe saccidānande nirvikalpaikarūpiṇi |
- sthite advitīyabhāve api kathaṃ pūjā vidhīyate || 1||
- pūrṇasyāvāhanaṃ kutra sarvādhārasya cāsanam. |
- svacchasya pādyamarghyaṃ ca śuddhasyācamanaṃ kutaḥ || 2||
- nirmalasya kutaḥ snānaṃ vāso viśvodarasya ca |
- agotrasya tvavarṇasya kutastasyopavītakam.h || 3||
- nirlepasya kuto gandhaḥ puṣpaṃ nirvāsanasya ca |
- nirviśeṣasya kā bhūṣā ko.alaṅkāro nirākṛteḥ || 4||
- nirañjanasya kiṃ dhūpairdīpairvā sarvasākṣiṇaḥ |
- nijānandaikatṛptasya naivedyaṃ kiṃ bhavediha || 5||
- viśvānandayitustasya kiṃ tāmbūlaṃ prakalpyate |
- svayaṃprakāśacidrūpo yo.asāvarkādibhāsakaḥ || 6||
- gīyate śrutibhistasya nīrājanavidhiḥ kutaḥ |
- pradakṣiṇamanantasya praṇāmo.advayavastunaḥ || 7||
- vedavācāmavedyasya kiṃ vā stotraṃ vidhīyate |
- antarbahiḥ saṃsthitasyodvāsanavidhiḥ kutaḥ || 8||
gururuvāca |
- ārādhayāmi maṇisaṃnibhamātmaliṅgam.h
- māyāpurīhṛdayapaṅkajasaṃniviṣṭam.h |
- śraddhānadīvimalacittajalābhiṣekai\-
- rnityaṃ samādhikusumairnapunarbhavāya || 9||
- ayameko.avaśiṣṭo.asmītyevamāvāhayecchivam.h |
- āsanaṃ kalpayetpaścātsvapratiṣṭhātmacintanam.h || 10||
- puṇyapāparajaḥsaṅgo mama nāstīti vedanam.h |
- pādyaṃ samarpayedvidvansarvakalmaṣanāśanam.h || 11||
- anādikalpavidhṛtamūlājñānajalāñjalim.h |
- visṛjedātmaliṅgasya tadevārghyasamarpaṇam.h || 12||
- brahmānandābdhikallolakaṇakoṭyaṃśaleśakam.h |
- pibantīndrādaya iti dhyānamācamanaṃ matam.h || 13||
- brahmānandajalenaiva lokāḥ sarve pariplutāḥ |
- acchedyo.ayamiti dhyānamabhiṣecanamātmanaḥ || 14||
- nirāvaraṇacaitanyaṃ prakāśo.asmīti cintanam.h |
- ātmaliṅgasya sadvastramityevaṃ cintayenmuniḥ || 15||
- triguṇātmāśeṣalokamālikāsūtramasmyaham.h |
- iti niścayamevātra hyupavītaṃ paraṃ matam.h || 16||
- anekavāsanāmiśraprapañco.ayaṃ dhṛto mayā |
- nānyenetyanusandhānamātmanaścandanaṃ bhavet.h || 17||
- rajaḥsattvatamovṛttityāgarūpaistilākṣataiḥ |
- ātmaliṅgaṃ yajennityaṃ jīvanmuktiprasiddhaye || 18||
- īśvaro gururātmeti bhedatrayavivarjitaiḥ |
- bilvapatrairadvitīyairātmaliṅgaṃ yajecchivam.h || 19||
- samastavāsanātyāgaṃ dhūpaṃ tasya vicintayet.h |
- jyotirmayātmavijñānaṃ dīpaṃ sandarśayedbudhaḥ || 20||
- naivedyamātmaliṅgasya brahmāṇḍākhyaṃ mahodanam.h |
- pibānandarasaṃ svādu mṛtyurasyopasecanam.h || 21||
- ajñānocchiṣṭakarasya kṣālanaṃ jñānavāriṇā |
- viśuddhasyātmaliṅgasya hastaprakṣālanaṃ smaret.h || 22||
- rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
- sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam.h || 23||
- ajñānadhvāntavidhvaṃsapracaṇḍamatibhāskaram.h |
- ātmano brahmatājñānaṃ nīrājanamihātmanaḥ || 24||
- vividhabrahmasaṃdṛṣṭirmālikābhiralaṅkṛtam.h |
- pūrṇānandātmatādṛṣṭiṃ puṣpāñjalimanusmaret.h || 25||
- paribhramanti brahmāṇḍasahasrāṇi mayīśvare |
- kūṭasthācalarūpo.ahamiti dhyānaṃ pradakṣiṇam.h || 26||
- viśvavandyo.ahamevāsmi nāsti vandyo madanyataḥ |
- ityālocanamevātra svātmaliṅgasya vandanam.h || 27||
- ātmanaḥ satkriyā proktā kartavyābhāvabhāvanā |
- nāmarūpavyatītātmacintanaṃ nāmakīrtanam.h || 28||
- śravaṇaṃ tasya devasya śrotavyābhāvacintanam.h |
- mananaṃ tvātmaliṅgasya mantavyābhāvacintanam.h || 29||
- dhyātavyābhāvavijñānaṃ nididhyāsanamātmanaḥ |
- samastabhrāntivikṣeparāhityenātmaniṣṭhatā || 30||
- samādhirātmano nāma nānyaccittasya vibhramaḥ |
- tatraiva bahmaṇi sadā cittaviśrāntiriṣyate || 31||
- evaṃ vedāntakalpoktasvātmaliṅgaprapūjanam.h |
- kurvannāmaraṇaṃ vāpi kṣaṇaṃ vā susamāhitaḥ || 32||
- sarvadurvāsanājālaṃ padapāṃsumiva tyajet.h |
- vidhūyājñānaduḥkhaughaṃ mokṣānandaṃ samaśnute || 33||
शिष्य उवाच ।
- अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
- स्थिते अद्वितीयभावे अपि कथं पूजा विधीयते ॥ १॥
- पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
- स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ २॥
- निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
- अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३॥
- निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च ।
- निर्विशेषस्य का भूषा को अलङ्कारो निराकृतेः ॥ ४॥
- निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
- निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥
- विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।
- स्वयंप्रकाशचिद्रूपो यो असावर्कादिभासकः ॥ ६॥
- गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
- प्रदक्षिणमनन्तस्य प्रणामो अद्वयवस्तुनः ॥ ७॥
- वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
- अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥
- गुरुरुवाच ।
- आराधयामि मणिसंनिभमात्मलिङ्गम्
- मायापुरीहृदयपङ्कजसंनिविष्टम् ।
- श्रद्धानदीविमलचित्तजलाभिषेकै\-
- र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ ९॥
- अयमेको अवशिष्टो अस्मीत्येवमावाहयेच्छिवम् ।
- आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १०॥
- पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
- पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ ११॥
- अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
- विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२॥
- ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
- पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३॥
- ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
- अच्छेद्यो.अयमिति ध्यानमभिषेचनमात्मनः ॥ १४॥
- निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम् ।
- आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५॥
- त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
- इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६॥
- अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया ।
- नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत् ॥ १७॥
- रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
- आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८॥
- ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
- बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९॥
- समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
- ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः ॥ २०॥
- नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
- पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१॥
- अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
- विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२॥
- रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
- सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३॥
- अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
- आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४॥
- विविधब्रह्मसंदृष्टिर्मालिकाभिरलङ्कृतम् ।
- पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५॥
- परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे ।
- कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्षिणम् ॥ २६॥
- विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः ।
- इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७॥
- आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
- नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८॥
- श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
- मननं त्वात्मलिङ्गस्य मन्तव्याभावचिन्तनम् ॥ २९॥
- ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
- समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता ॥ ३०॥
- समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
- तत्रैव बह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१॥
- एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।
- कुर्वन्नामरणं वापि क्षणं वा सुसमाहितः ॥ ३२॥
- सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
- विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३॥