Brihannila Tantra Sanskrit Devanagari: Unterschied zwischen den Versionen

Aus Yogawiki
Yoga Vidya (Diskussion | Beiträge)
Die Seite wurde neu angelegt: „'''Brihannila Tantra Sanskrit Devanagari''' (बृहन्नीलतन्त्र) erschließt die Klang- und Bildwelt eines großen Shakta-Tantra in indischer Schrift. Im Gespräch zwischen Bhairava und Bhairavi wird die Göttliche Mutter als rettende Tara, als Kraft der Sprache in Sarasvati, als verwandelnde Kali und als nährende Annapurna verehrt. Die 24 Kapitel verbinden Mantras, Hymnen, Meditationen und Rituallehren mit…“
 
Yoga Vidya (Diskussion | Beiträge)
 
Zeile 9.006: Zeile 9.006:
==Seminare==
==Seminare==
'''Kundalini Yoga'''
'''Kundalini Yoga'''
<rss max=4>https://www.yoga-vidya.de/seminare/titel/kundalini-yoga-mittelstufe/?type=1655882548</rss>
<rss max=4>https://www.yoga-vidya.de/seminare/titel/kundalini-yoga-mittelstufe/rssfeed.xml</rss>


[https://www.yoga-vidya.de/seminare/ Weitere Seminare zu Yoga, Meditation und spiritueller Praxis].
[https://www.yoga-vidya.de/seminare/ Weitere Seminare zu Yoga, Meditation und spiritueller Praxis].

Aktuelle Version vom 16. September 2026, 14:53 Uhr

Brihannila Tantra Sanskrit Devanagari (बृहन्नीलतन्त्र) erschließt die Klang- und Bildwelt eines großen Shakta-Tantra in indischer Schrift. Im Gespräch zwischen Bhairava und Bhairavi wird die Göttliche Mutter als rettende Tara, als Kraft der Sprache in Sarasvati, als verwandelnde Kali und als nährende Annapurna verehrt. Die 24 Kapitel verbinden Mantras, Hymnen, Meditationen und Rituallehren mit der Frage nach Erkenntnis und Befreiung.

Wer die Devanagari-Schrift liest, kann hier die Sanskritverse im Zusammenhang studieren und ihre Klanggestalt betrachten. Einführung, deutsche Übersetzung und Erläuterungen bietet Brihannila Tantra. Für die kontemplative Lektüre führt Brihannila Tantra 108 Verse und Mantras zu ausgewählten Aussagen über Hingabe, innere Sammlung und das eine Selbst.

Die Schriftfassung bewahrt die überlieferten Lesarten und Textlücken. In 6.31–44 stehen gekennzeichnete Auslassungen; deren Grund und die Besonderheiten der Nummerierung erläutern die Texthinweise am Schluss.

Sanskrittext in Devanagari

अथ बृहन्नीलतन्त्रम् ।


Kapitel 1: Grundmantra und tägliche Übergangsriten

Tara als Trägerin der Mantrakraft.

ओं श्रीगणेशाय नमः | नमस्तारायै |

कैलासशिखरासीनं भैरवं कालसंज्ञितम् |
प्रोवाच सादरं देवी तस्य वक्षःसमाश्रिता || १-१ ||

पुरा प्रतिश्रुतं देव कालीतन्त्रप्रकाशने |
नीलतन्त्रप्रकाशाय तद् वदस्व सदाशिव || १-२ ||

यस्य विज्ञानमात्रेण विजयी भुवि जायते |
यज् ज्ञात्वा साधकाः सर्वे विचरन्ति यथा तथा || १-३ ||

यस्य विज्ञानमात्रेण कविता चित्तमोदिनी |
जायते च महादेव तत्त्वं तत् कथयस्व मे || १-४ ||

श्रीमहाकालभैरव उवाच |

शृणु सा(ध्वि) वरारोहे सर्वार्थस्य प्रदायिनि |
तत्त्वं तत् कथयिष्यामि तव स्नेहाद् गणाधिपे || १-५ ||

नीलतन्त्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये |
तस्मात् कथ्यं महेशानि शृणु(ष्व) कमलानने || १-६ ||

गुह्याद् गुह्यतरं तन्त्रं न प्रकाश्यं कदाचन |
तन्त्रस्यास्य प्रकाशाच्च सिद्धिहानिर्न संशयः || १-७ ||

यद्गृहे निवसेत् तन्त्रं तत्र लक्ष्मीः स्थिरायते |
राजद्वारे श्मशाने च सभायां रणमध्यतः || १-८ ||

निर्जने च वने घोरे (श्वा)पदैः परिभूषिते [परिपूरिते पाठान्तरम् |] |
माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये || १-९ ||

तस्मात् सर्वप्रयत्नेन गोपनीयं प्रयत्नतः [विशेषतः ख पाठः |] |
तन्त्रराजं नीलतन्त्रं तव स्नेहात् प्रकाश्यते || १-१० ||

गोपनीयतमं देवि स्वयोनिरिव पार्वति |
विशेषं मन्त्रराजस्य कथितव्यं वरानने || १-११ ||

यज्ज्ञातात् साधकाः सर्वे सर्वैश्वर्यमवाप्नुयुः |
सारात् सारतरं देवि सर्वसारस्वतप्रदम् || १-१२ ||

नित्यपूजां मन्त्रराजं मान्त्रोपासनिकं विधिम् |
पुरश्चर्यां च नैमित्तकाम्यानां नियमं तथा || १-१३ ||

नियमं च रहस्यानां कुमारीपुजनक्रमम् |
मन्त्रान्तरं च देवेशि पुरश्चर्यां विशेषतः || १-१४ ||

फलं स्तोत्रं विशेषेण कथितव्यं वरानने |
भावानां निर्णयं वाच्यं पूजान्तरविधिं तथा || १-१५ ||

होमस्य नियमं वाच्यं वासनातत्त्वनिर्णयम् |
गुप्तपूजां गुप्तमन्त्रं तथा गुप्तजपक्रमम् || १-१६ ||

स्वर्णरूप्यादिकरणं सूतभस्म तथैव च |
सूतस्य निर्णयं वाच्यं तथा षट्कर्मलक्षणम् || १-१७ ||

विद्योत्पत्तिं विशेषण कथयिष्यामि तच्छृणु |

श्रीदेव्युवाच |

इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् || १-१८ ||

सपर्याभेदसंयुक्तां महापातकनाशिनीम् |

श्रीशिव उवाच |

सिद्धविद्यां महादेवि मायामोहनकारिणीम् || १-१९ ||

शृणु चार्वङ्गि देवेशि सर्वसारस्वतप्रदाम् |
सर्वबीजं समुद्धृत्य द्वितीयं बीजकं शृणु || १-२० ||

जृम्भणान्तं त्यक्तपार्श्वं प्रस्थानवारकं युतम् |
तुरीयस्वरसंयुक्तं चन्द्रबिन्दुविराजितम् || १-२१ ||

बीजं नीलसरस्वत्यास्तृतीयं शृणु भैरवि |
सर्वस्याद्यं समादाय तस्याद्यं तत्र योजयेत् || १-२२ ||

यात्रानिवारणं तत्र योजयेच्च महेश्वरि |
व्य(द्व्य)ङ्गवर्णयुतं कुर्यान्नादबिन्दुविराजितम् || १-२३ ||

कूर्चास्त्रेऽन्ते समायोज्य मन्त्रराजं समुद्धरेत् |
पञ्चाक्षरी महाविद्या श्रीमन्नीलसरस्वती || १-२४ ||

अनया सदृशी विद्या त्रैलोक्ये चातिदुर्लभा |
जपमात्रेण सर्वेषां साधकानां विमुक्तिदा || १-२५ ||

अतिरिक्तश्रमो ह्यत्र नास्ति हे ! सुरपूजिते |
सारात् सारतरं देवि सर्वतन्त्रेषु गोपितम् || १-२६ ||

वशिष्ठोऽस्य ऋषिः प्रोक्तो बृहती च्छन्द उच्यते |
नीलसरस्वती प्रोक्ता देवता कार्यसिद्धये || १-२७ ||

कवित्वार्थे विनियोगः सर्वसिद्धिसमृद्धिदः |
हू/ बीजमस्त्रं शक्तिः स्यादेवमृष्यादिकल्पना || १-२८ ||

उत्थाय चोत्तरे यामे चिन्तयेत् तारिणीं पराम् |
मूलादिब्रह्मरन्ध्रान्तं विसतन्तुतनीयसीम् || १-२९ ||

मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् |
सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् || १-३० ||

तडित्कोटिसमप्रख्यां कालानलशिखोपरि [कामानन्दशिखो ख पाठः |] |
तत्प्रभापटल[मण्डल ख पाठः |]व्याप्तिपटलाङ्कितदेहवान् || १-३१ ||

सर्वमङ्गलसंपन्नः स्नानकर्म समारभेत् |
मृत्कुशानपि संगृह्य [संग्राह्य ख पाठः |] गत्वा जलान्तिकं ततः || १-३२ ||

मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् |
पुनर्निमज्ज्य पयसि संकल्पं स समाचरेत् || १-३३ ||

इष्टदेव्याः प्रपूजार्थं कुर्यात् स्नानं जलाशये |
बिल्वाक्षतमोड्रपुष्पं कुलपुष्पं कुशाञ्जलम् || १-३४ ||

प्रस्थग्राहे ताम्रपात्रे कृत्वा चार्घ्यं निवेदयेत् |
मूलान्ते चोद्यदादित्यमण्डलमध्यवर्तिन्यै || १-३५ ||

शिव[नित्य ख पाठः |]चैतन्यमययै (च) स्वाहेति तन्मनुः स्मृतः |
मूर्तिभेदे महेशानि स्नानमन्यच्छृणु प्रिये || १-३६ ||

प्रोत्थाय चोत्तरे यामे शिरःपद्मे गुरुं स्मरन् |
मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् || १-३७ ||

प्रोद्यत्सूर्यप्रतीकाशां कुण्डलीं परदेवताम् |
यातायातक्रमेणैव चामृतीकृतविग्रहाम् || १-३८ ||

मूलविद्यां जपेद् ध्यात्वा चाष्टोत्तरशतं क्रमात् |
मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः || १-३९ ||

प्रत्युषसि गुरोश्चिन्तां कृत्वा स्नानं समाचरेत् |
नद्यादिं समनुप्राप्य स्नायादप्सु महेश्वरि || १-४० ||

देवीरूपं जलं ध्यात्वा गृहीत्वा जलदर्भकम् |
मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् || १-४१ ||

तत्प्रीत्यै परमेशानि स्नानं कुर्यात् समाहितः |
आदौ च वैदिकीं संध्यां कृत्वा स्नानं समाचरेत् || १-४२ ||

(पश्चात् तु तान्त्रिकीं सन्ध्यां) कुर्याच्चैवागमोदिताम् |
संध्यां कृत्वा ततो वीरः कुलकोटिं समुद्धरेत् || १-४३ ||

स्नानार्थं मृत्तिकां नीत्वा संघृष्य च करद्वये |
गात्रानुलेपनं कुर्यादस्त्रमन्त्रेण देशिकः || १-४४ ||

सूर्याय दर्शयेदादौ ततः कुर्याच्च लेपनम् |
गोक(पु)रीषं नासिकायां वं मन्त्रेण पुटद्वये || १-४५ ||

जलाञ्जलिं ततो दत्त्वा मूर्ध्नः कृत्वाभिषेचनम् |
तत आचमनं कुर्यात् त्रिकोणे दक्षिणेन तु || १-४६ ||

गृहीतपाणिना देवि शङ्खावर्तक्रमेण तु |
विलोड्य तत्र निमज्जेदघमर्षणकं त्रिधा || १-४७ ||

कूर्चबीजं त्रिधा जप्त्वा कारयेदघमर्षणं |
दद्याज्जलाञ्जलींस्त्रीन् वै वरुणाय ततः परम् || १-४८ ||

सोमाय भानवे पश्चाज्जलादुत्थाय वाससी |
परिधाय ततो मन्त्री यथाविधि समाचरेत् || १-४९ ||

तिलकं रक्तगन्धेन गोपीनां चन्दनेन तु |
देव्यस्त्रं विलिखेद् भाले ताराबीजं ततो हृदि || १-५० ||

शक्तिमध्यगतं कुर्यात् प्राणायामं समाचरेत् |
आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् || १-५१ ||

आत्मविद्याशिवैस्तत्त्वैराचमेत् साधकोत्तमः |
त्रिकोणे मूलमन्त्रेण् सवित्रे हंसकं जपन् || १-५२ ||

उपस्थाप्य जपेद् देवि गायत्रीं शृणु सुन्दरि |
तारायै विद्महे प्रोक्त्वा महोग्रायै च धीमहि || १-५३ ||

तन्नो देवीति शब्दान्ते धियो यो नः प्रोचदयात् |
गायत्र्येषा समाख्याता सर्वपापनिकृन्तनी || १-५४ ||

वामपादं ततः कुर्याद् दक्षपादे महेश्वरि |
उपस्थाय पुनर्हंसमूर्ध्वबाहुस्त्रिधा जपेत् || १-५५ ||

तीर्थोदकं तिलकल्कं क्षीराक्षतसमन्वितम् |
उत्तराशामुखो भूत्वा देवीमात्रं च तर्पयेत् || १-५६ ||

मूलान्ते तारिणीं चोक्त्वा तर्पयाम्यग्निवल्लभाम् |
स्वर्णपात्रेण रोप्येण ताम्रपात्रेण वा पुनः || १-५७ ||

ऋजुदर्भत्रयेणैव सन्तर्प्य भक्तितः सुधीः |
दक्षिणाशामुखो भूत्वा संगृह्य मोटकं ततः || १-५८ ||

तृप्यन्तुं पितरः प्रोक्त्वा एतत् तर्पणमादिशेत् |
सूर्यस्य वन्दनं चैवमभेदं च महेश्वरि || १-५९ ||

गायत्रीं प्रजपेद् धीमनघमर्षणपूर्वकम् |
एतत् संध्यात्रयेणैव दिवा रात्रौ च वन्दना || १-६० ||

महारात्रावपि सदा कार्या देशिकसत्तमैः |
संध्या त्ववश्यकर्तव्या त्रिसंध्यं श्रद्धयान्वितः || १-६१ ||

संध्यया प्रविहीनो यो न दीक्षाफलमाप्नुयात् |
अर्धरात्रात् परं यच्च मुहूर्तद्वयमेव च || १-६२ ||

सा महारात्रिरुद्दिष्टा तत्र कृत्वाक्षयं भवेत् |
ततो विद्यां हृदि ध्यात्वा अष्टोत्तरशतं जपेत् || १-६३ ||

तत्रैवोक्तक्रमेणैव तान्त्रिकं स्नानमाचरेत् |
वैदिकीं तान्त्रिकीं संध्यां ततः कुर्यात् समाहितः || १-६४ ||

चतुर्विधानि कार्याणि वेदकार्येषु पार्वति |
आगमं न तथा विद्धि एकमेव हि मद्वचः || १-६५ ||

संध्यां सायन्तनीं कुर्याद् द्वादश्यादिष्वपि प्रिये |
अकुर्वन् निरयं याति यतो नित्यागमक्रिया || १-६६ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (मूलमन्त्रोद्धारपूर्वं सन्ध्याविधिनिरूपणं) प्रथमः पटलः || १ ||


Kapitel 2: Verehrung und Tara-Hymnen

इदानीं शृणु चार्वङ्गि पूजां सर्वागमोदिताम् |
यां कृत्वा परमेशानि शिवत्वं प्राप्नुयादतः || २-१ ||

कार्यां सर्वप्रयत्नेन पूजां कुर्याच्छुचिस्मिते |
एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे || २-२ ||

तत्रस्थः साधयेद् योगी विद्यां त्रिभुवनेश्वरीम् |
पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते [मीक्षते ख पाठः |] || २-३ ||

तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा |
उज्जटे पर्वते वापि निर्जने वा चतुष्पथे || २-४ ||

हर्म्ये वा साधयेद् देवीं सर्वाभीष्टप्रदायिनीम् |
गणेशं क्षेत्रपालं च योगिनीर्वटुकं तथा || २-५ ||

गांवांक्षांयां च बीजानि तान्युक्तानि महेश्वरि |
पूजयित्वा गृहद्वारे ब्रह्माणं पूजयेत् ततः || २-६ ||

मनसा वास्तुदेवं च पूर्वेण तु ततः सुधीः |
ततस्तत् पुरुषान् विघ्नरूपांश्चैव निवारयेत् || २-७ ||

योगस्थानं समाश्रित्य तत्र पीठं विचिन्तयेत् |
श्मशानं तत्र संचिन्त्य तत्र कल्पद्रुमं स्मरेत् || २-८ ||

तन्मूले मणिपीठं च नानामणिविभूषितम् |
नानालङ्कारभूषाढ्यं मुनिदेवैर्विभूषितम् || २-९ ||

शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः |
चतुर्दिक्षु महेशानि शवमुण्डास्थिभूषितम् || २-१० ||

तन्मध्ये चिन्तयेद् देवीं यथोक्तध्यानयोगतः |
एवं ध्यानं महेशानि हृदि कुर्याच्छुचिस्मिते || २-११ ||

शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् |
गन्धानां पञ्चकं दद्याद् रक्तमालां निधापयेत् || २-१२ ||

ह्रींकारं धारयेद् हस्ते स्वर्णाभरणभूषितः |
रक्तवस्त्रद्वययुतः क्रोधपैशुन्यवर्जितः || २-१३ ||

प्रणवं पूर्वमुच्चार्य वज्रोदके ततः परम् |
ततः कूर्चं महादेवि फट् स्वाहा तदनन्तरम् || २-१४ ||

मन्त्रेणानेन देवेशि शोधयेज्जलमुत्तमम् |
प्रणवं च ततो माया विशुद्धं तदनन्तरम् || २-१५ ||

सर्वपापानि तत्पश्चाच्छमय तदनन्तरम् |
अशेषान्ते विकल्पं वापनयेति ततः परम् || २-१६ ||

हुं फट्स्वाहा वधिर्मन्त्रो हस्तक्षालनके मतः |
प्रणवं च ततः कूर्च फट्स्वाहा तदनन्तरम् || २-१७ ||

मन्त्रेणानेन देवेशि आचमेत् साधकोत्तमः |
प्रणवं मणिधरि पदं वज्रिणीति पदं ततः || २-१८ ||

वशकरीति च पदं हूं फट् स्वाहावधिर्मनुः |
मन्त्रेणानेन देवेशिशिखाबन्धनमाचरेत् || २-१९ ||

ओंकारं पूर्वमुच्चार्य रक्षरक्ष पदं ततः |
हूं फट् स्वाहेति मन्त्रेण भूमिशोधनमाचरेत् || २-२० ||

मन्त्रपूतेन तोयेन प्रोक्षयेद् यागमण्डपम् |
चतुर्द्वारे महेशानि गणेशं वटुकं तथा || २-२१ ||

क्षेत्रेशं योगिनीश्चैव पूजयेद् बहुयत्नतः |
तथा चैव महेशानि मुद्रां [मुद्रां नाराचाख्याम् |] कुर्याद् विशेषतः || २-२२ ||

मन्त्रं शृणु वरारोहे सर्वसारस्वतप्रदम् |
प्रणवं पूर्वमुच्चार्य सर्वविघ्नान् समादिशेत् || २-२३ ||

तत्परं च पुनर्देवि उत्सारय तदनन्तरम् |
कूर्चः स्वाहावधिर्मन्त्रः सर्वसिद्धिफलप्रदः || २-२४ ||

प्रणवं पूर्वमुच्चार्य पवित्रपदमन्ततः |
वज्रभूमे पदं पश्चाद् हू/फट् स्वाहावधिर्मनुः || २-२५ ||

मन्त्रेणानेन देवेशि कुर्याद् भूम्यभिमन्त्रणम् |
प्रणवं पूर्वमुच्चार्य आः पदं तदनन्तरम् || २-२६ ||

सुरेखे वज्ररेखे च हूंफट्स्वाहावधिर्मनुः |
रक्तचन्दनपुष्पाभ्यां पूजयित्वासनं सुधीः || २-२७ ||

विशेत् तत्रासने देवि ततः पूजनमारभेत् |
शिखाबन्धनमन्त्रेण वस्त्रग्रन्थिं च बन्धयेत् || २-२८ ||

पूर्वोक्तेनैव मन्त्रेण चित्तादीनां विशोधनम् |
कुर्यान्मन्त्रं महेशानि रक्तगन्धादिना शुभे || २-२९ ||

स्वर्णादिपात्रे संलिख्य तत्रार्णान् संलिखेत् सुधीः |
आःसुरेखे वज्ररेखे हू/ फट्स्वाहा नमः पदम् || २-३० ||

मन्त्रेणानेन देवेशि पद्ममष्टदलं लिखेत् |
तन्मन्त्रेणैव देवेशि वसुपत्रं मनोहरम् || २-३१ ||

पूर्वे त्रिकोणे देवेशि मायाबीजं लिखेच्छुभे |
याम्ये वधूं लिखेच्चैव उत्तरे फंद्विठान्तकम् || २-३२ ||

पश्चिमे च महादेवि टंकारं विलिखेत् ततः |
तन्मध्ये परमेशानि लिखेत् कूर्चं समाहितः || २-३३ ||

अथवान्यप्रकारेण यन्त्रं शृणु गणेश्वरि |
विद्यार्थी प्राप्नुयाद्विद्यां सर्वशास्त्रविबोधिकाम् || २-३४ ||

ज्ञानं तथा च ज्ञानार्थी मोक्षार्थी मोक्षमेव च |
सर्वार्थी प्राप्नुयात् सर्वं यन्त्रस्यास्य प्रसादतः || २-३५ ||

व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् |
ताराधीश्वरवारिवर्णविलसद्दिक् कोण[वृत्तेन ख पाठः |]संशोभितं यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् || २-३६ ||

यन्त्रं निर्माय देवेशि पीठपूजां समाचरेत् |
गन्धर्वोक्तप्रकारेण पूजयेदावृतीस्ततः || २-३७ ||

योनिमुद्रां ततो बद्ध्वा चक्रमध्ये प्रपूजयेत् |
पूर्वे गणपतिं चेष्ट्वा दक्षिणे वटुभैरवम् || २-३८ ||

क्षेत्रपालं पश्चिमे च योगिनीरुत्तरे यजेत् |
ते सर्वे ध्रुवदीर्घाद्याः शक्तिबीजपुरःसराः || २-३९ ||

ततोऽष्टदलमध्ये तु लक्ष्म्यादीश्च प्रपूजयेत् |
लक्ष्मीं सरस्वतीं चैव रतिं प्रीतिं तथा यजेत् || २-४० ||

कीर्तिं शक्तिं [कान्तिं शान्तिं ख पाठः |] च पुष्टिं च तुष्टिं चैव प्रपूजयेत् |
देव्या नीलसरस्वत्याः पीठशक्तय ईरिताः || २-४१ ||

प्रणवादिनमोन्तेन पूजयेद् यत्नतः सुधीः |
भूतशुद्धिं ततः कुर्यात् प्राणायामक्रमेण तु || २-४२ ||

भूतशुद्धिं विधायाथ शून्यं विश्वं विचिन्तयेत् |
निर्लेपं निर्गुणं शुद्धं स्वात्मानं तारिणीमयम् || २-४३ ||

अन्तरिक्षे ततो ध्यायेत् आःकाराद्रक्तपङ्कजम् |
भूयस्तस्योपरि ध्यायेत् टांकाराच्छेतपङ्कजम् || २-४४ ||

तस्योपरि पुनर्ध्यायेत् हू/कारं नीलसन्निभम् |
ततो हू/कारबीजात्तु कर्त्रिकां बीजभूषिताम् || २-४५ ||

कर्त्रिकोपरिगं ध्यायेत् स्वात्मानं तारिणीमयम् |
प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् || २-४६ ||

खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ |
नवयौवनसंपन्नां पञ्चमुद्राविभूषिताम् || २-४७ ||

सुमुखं चतुरस्रं च वृत्तं गोमुखमेव च |
योनिमुद्रेति विख्याता मुद्राः पञ्च नमस्कृतौ || २-४८ ||

चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् |
खड्गकर्त्रिसमायुक्तसव्येतरभुजद्वयाम् || २-४९ ||

कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् |
पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् || २-५० ||

(नीलनागजटाजूटां श्वेताहिकृतकुण्डलाम् |
पीताहिकङ्कणोपेतां धूम्राहिबाहुभूषणाम् || २-५१ ||

श्यामनागोपवीतां च शुभ्राहिहारभूषणाम् |
श्वेतनागलसत्काञ्चीं पाटलाहिपदद्वयाम् || २-५२ ||

पार्श्वद्वये लम्बमाननीलेन्दीवरमालिकाम् |
प्रज्वलत्पितृभूमध्यस्थितां दंष्ट्राकरालिनीम् || २-५३ ||

शवकण्टपदद्वन्द्ववामदक्षपदद्वयाम् |
सावेशस्मेरवदनां भक्तानामभयप्रदाम् || २-५४ ||)

क्रमेणानेन देवेशि ध्यात्वा नीलां (सरस्वतीम्) |
आत्मानं तन्मयं ध्यायेद् भूतशुद्धिरितीरिता || २-५५ ||

अथार्घ्यस्थापनं वक्ष्ये येन सिद्धिर्भवेन्मनोः |
त्रिकोणं मण्डलं कृत्वा स्ववामे परमेश्वरि || २-५६ ||

तत्र त्रिपदिकां न्यस्य शङ्खं प्रक्षाल्य सुन्दरि |
भागत्रयेण देवेशि पूरयेज्जलमुत्तमम् || २-५७ ||

कपालपात्रं संस्थाप्य रक्तगन्धादिकं ततः |
रक्तपुष्पं ततो दद्याद् देवता सुप्रसीदति || २-५८ ||

दशधा मूलविद्यां च जप्त्वा प्रोक्षणमाचरेत् |
प्राणायामं ततः कुर्यात् षडङ्गेन समन्वितम् || २-५९ ||

अक्षोभ्य ऋषिरेतस्या बृहती च्छन्द ईरितम् |
नीलासरस्वती देवी त्रैलोक्ये च सुगोपिता || २-६० ||

हूं बीजमस्त्रं शक्तिः स्याच्चतुर्वर्गफलप्रदम् |
मायाषड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् || २-६१ ||

एवं न्यासविधिं कृत्वा ताराषोढां समाचरेत् |
विद्यया पुटितं कृत्वा षोढा च मातृकां न्यसेत् || २-६२ ||

क्रमोत्क्रमाद् वरारोहे ताराषोढा प्रकीर्तिता |
यस्त्वेवं कुरुते मन्त्री स तु तारा प्रकीर्तितः || २-६३ ||

तस्य लोके गुरुर्नास्ति स गुरुः सर्वयोगिनाम् |
बीजान्ते चैकजटायै हृदयं परिकीर्तितम् || २-६४ ||

तारिण्यै शिरसे स्वाहा तद्वद्वज्रोदके शिखा |
उग्रजटे च कवचं महाप्रतिसरे तथा || २-६५ ||

पिङ्गोग्रैकजटे तद्वन्नेत्रास्त्रे परिकीर्तिते |
यथा काली तथा नीला तत्क्रमान्मातृकां न्यसेत् || २-६६ ||

देवेशि भक्तिसुलभे परिवारसमन्विते |
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव || २-६७ ||

सर्वं मन्त्रमयं कृत्वा देवतायै निवेदयेत् |
उपचारैः षोडशभिः पूजयेद् गन्धपुष्पतः || २-६८ ||

पाद्यार्घ्याचमस्नानवसनाभरणानि च |
गन्धपुष्पधूपदीपनैवेद्याचमनं ततः || २-६९ ||

ताम्बूलमर्चनास्तोत्रं तर्पणं च नमस्कृतम् |
प्रयोजयेदर्चनायामुपचारांस्तु षोडश || २-७० ||

गन्धादयो नैवेद्यान्ताः पूजा पञ्चोपचारिका |
पुष्पस्य नियमं देवि शृणुष्वैकमनाः प्रिये || २-७१ ||

कोकनदं च बन्धूकं कर्णिकाद्वयमेव च |
वकमन्दाररक्तानि करवीराणि शस्यते || २-७२ ||

मल्लिकात्रितयं जाती क्षौमपुष्पं जयन्तिका |
बिल्वपत्रं कुरुबकं मुनिपुष्पं च केसरम् || २-७३ ||

वासन्तीं चैव सौगन्धं काशपुष्पं मनोहरम् |
आमलकं च कादम्बं बकुलं मुथिकां तथा || २-७४ ||

बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः |
ओड्रपुष्पैर्विशेषेण वज्रपुष्पेण शोभितम् || २-७५ ||

सर्वं पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा |
जपापुष्पं महेशानि दद्याद् देव्यै विशेषतः || २-७६ ||

पद्मं प्रियतरं देव्याः शेफाली बकुलं तथा |
रक्तोत्पलेन देवेशि पूजयेत् परमां शिवाम् || २-७७ ||

लक्षवर्षसहस्राणां पूजायाः फलमाप्नुयात् |
शिरीषं परमं देव्याः प्रीतिदं तगरं तथा || २-७८ ||

स्थलपद्मं सुष्ठुतरं लक्षसंख्याक्रमेण च |
यदि दयान्महेशानि सर्वसिद्धिः सुरेश्वरि || २-७९ ||

तदैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा |
विजातीं तुलसीं रम्यां तस्याः प्रीतिकरीं पराम् || २-८० ||

काञ्चनं रक्तवर्णं च अतिप्रियतरं महत् |
भक्तियुक्तो महेशानि सर्वं पुष्पं निवेदयेत् || २-८१ ||

नैवेद्यं परमं रम्यं सुस्वादु सुमनोहरम् |
दद्याच्चैवं महादेव्यै भक्तियुक्तेन चेतसा || २-८२ ||

मधुपर्कं विशेषेण देवीप्रीतिकरं परम् |
संदेशमुष्णं दद्याच्च लड्डुकादिसमन्वितम् || २-८३ ||

पायसं कृसरं दद्याच्छर्करागुडसंयुतम् |
आज्यं दधि मधून्मिश्रं तथान्नानि निवेदयेत् || २-८४ ||

शालमत्स्यं च पाठीनं गोधिकामांसमुत्तमम् |
अन्नं च मधुना मिश्रं यत्नाद् दद्याच्च मन्त्रवित् || २-८५ ||

छागमांसं तथा देवि रोहितं मत्स्यभर्जितम् |
योनिमुद्रां प्रदर्श्याथ आज्ञां प्राप्य यथाविधि || २-८६ ||

मातर्देवि महामाये बन्धमोक्षप्रवर्तिनि |
आज्ञापय महादेवि गुरुत्रयमनुत्तमम् || २-८७ ||

पूजयामि महामाये सर्वसारस्वतप्रदम् |
उवाच सादरं देवी भगवन्तमधोक्षजम् || २-८८ ||

गुरुत्रयं महादेव श्रोतुमिच्छामि यत्नतः |

श्रीभैरव उवाच |

अज्ञात्वा गुरुदेवं च नष्टमार्गो भविष्यति || २-८९ ||

नष्टमार्गे मन्त्रविद्ये न तादृक् सिद्धिगोचरे |
गुरूणां शिष्यभूतानां नास्ति चेत् सन्ततिक्रमः || २-९० ||

तन्मन्त्राश्च विद्याश्च निष्फला नात्र संशयः |
अज्ञात्वा गुरुवंश्यानां शिष्यश्च नष्टसन्ततिः || २-९१ ||

स्ववंशादधिकं ज्ञेयं गुरुवंशं शुभावहम् |
सिद्धौघा गुरवो देवि दिव्यौघा गुरवस्तथा || २-९२ ||

ऊर्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः |
परापरगुरूणां च निर्णयं शृणु भैरवि || २-९३ ||

आदौ सर्वत्र देवेशि मन्त्रदः परमो गुरुः |
सर्वतन्त्रेषु मन्त्रेषु स्वयं प्रकृतिरूपिणी || २-९४ ||

पूर्वाद्यष्टदले चैव परिवारान् प्रपूजयेत् |
वैरोचनादीन् देवेशि पूजयेत् परमेश्वरि || २-९५ ||

प्रणवं पूर्वमुच्चार्य तन्नाम तदनन्तरम् |
वज्रपुष्पं प्रतीच्छेति हुं फट् स्वाहावधिर्मनुः || २-९६ ||

अनेन मनुना देवि परिवारान् प्रपूजयेत् |
द्वार्षु पूर्वादितस्तद्वत् पद्मान्तकयमान्तकौ || २-९७ ||

विघान्तकमथाभ्यर्च्य पूजयेन्नरकान्तकम् |
नाजपात् सिध्यते मन्त्रो नाहुतश्च फलप्रदः || २-९८ ||

इष्टश्च यच्छते कामांस्तस्मात् त्रितयमाचरेत् |
नित्यहोमं प्रवक्ष्यामि सर्वार्थं येन सिध्यति || २-९९ ||

सपर्यां सम्यगापाद्य बलेः पूर्वं [पूर्णं ख पाठः |] चरेद्विधिम् |
ततो जपं तर्पणं च चरन् साधकसत्तमः || २-१०० ||

बलिवश्यादिकं चैव ब्राह्मणश्च समाचरेत् |
विधिवदग्निमानीय क्रव्यादेभ्यो नम इति || २-१०१ ||

मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा |
भूमौ वा संस्तरेद् वह्निं व्याहृतित्रितयेन च || २-१०२ ||

स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं तथा |
ततो देवीं समावाह्य मूलेन षोडशाहुतिम् || २-१०३ ||

हुत्वा स्तुत्वा [जप्त्वा ख पाठ |] नमस्कृत्य विसृजेदिन्दुमण्डले |
बलिं दद्याद् विधानेन छागादिं सुसमाहितः || २-१०४ ||

प्रणवं पूर्वमुच्चर्य मायाबीजं ततः परम् |
एकजटे पदं पश्चान्महायक्षाधिपे ततः || २-१०५ ||

बलिं गृह्णपदद्वन्द्वं गृह्णापयपदद्वयम् |
मम शान्तिं कुरुकुरु परविद्यां पदं ततः || २-१०६ ||

आकृष्य च पदद्वन्द्वं त्रुटद्वन्द्वं ततः परम् |
छिन्धिद्वन्द्वं महेशानि सर्वपदमनन्तरम् || २-१०७ ||

जगत् पदं महेशानि वशमानय तत् परम् |
अनेन मनुना देवि बलिं दत्त्वा जपं चरेत् || २-१०८ ||

सहस्रं प्रजपेन्मन्त्रं शतं वापि महेश्वरि |
विंशत्या वा जपेन्मन्त्रं ततो न्यूनं नचाचरेत् || २-१०९ ||

हृदा सरस्वति यावद् विद्याया व्याप्तिरुच्यते |
मन्त्रध्यानं प्रवक्ष्यामि जपात् स(अ)र्वज्यदायकम् || २-११० ||

मन्त्रध्यानान्महेशानि शुध्यते ब्रह्महा यतः |
मूलचक्रे तु हृल्लेखां सुर्यकोटिसमप्रभाम् || २-१११ ||

स्वाधिष्ठाने पीतवर्णं द्वितीयार्णं विभावयेत् |
नाभौ जीमूतसंकाशं कूर्चबीजं महाप्रभम् || २-११२ ||

अस्त्रबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् |
मूलादिब्रह्मरन्ध्रान्तं सर्वां विद्यां विभावयेत् || २-११३ ||

सूर्यकोटिप्रतीकाशां योगिभिर्दृष्टपूर्विकाम् |
(अथवा पूर्णचन्द्राभं कूर्चं मूर्ध्नि सुधाप्लुतम् || २-११४ ||

अथवा सर्वां विद्यां तां जिह्वायां दीपरूपिणीम् |
तत्प्रभापटलव्याप्तां जिह्वामपि विचिन्तयेत् || २-११५ ||

जिह्वायां न्यसनाद् देवि मूकोऽपि सुकविर्भवेत् |) गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् || २-११६ ||

सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि |
एतत् पूजाक्रमं रात्रौ यदि कुर्यात् परात्मिके || २-११७ ||

त(दे?दै)व सिद्धिमाप्नोति सत्यं सत्यं सुनिश्चितम् |
स्तुतिं कुर्यान्महेशानि देव्यग्रे शुद्धमानसः || २-११८ ||

घोररूपे महारावे सर्वशत्रुवशङ्करि [क्षयङ्करि पाठः |] |
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् || २-११९ ||

सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते |
जाड्यपापहरे देवि त्राहि मां शरणागतम् || २-१२० ||

जटाजूटसमायुक्ते लोलजिह्वानुकारिणि |
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् || २-१२१ ||

सौम्यरूपे घोररूपे [क्रोध पाठः |] चण्डरूपे नमोऽस्तु ते |
[सृष्टि ख पाठः |]दृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् || २-१२२ ||

जडानां जडतां [जडतां भजतां ख पाठः |] हंसि भक्तानां भक्तवत्सले |
मूढतां हर मे देवि त्राहि मां शरणागतम् || २-१२३ ||

हूं हूंकारमये देवि बलिहोमप्रिये नमः |
उग्रतारे नमस्तुभ्यं त्राहि मां शरणागतम् || २-१२४ ||

बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे |
कुबुद्धिं [मूढत्वं ख पाठः |] हर मे देवि त्राहि मां शरणागतम् || २-१२५ ||

इन्द्रादि(दिवि?देव) सद्वृन्दवन्दिते करुणामयि |
तारे ताराधिनाथास्ये त्राहि मां शरणागतम् || २-१२६ ||

अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेत(सः?सा) [यः पठेन्नरः पाठः |] |
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा || २-१२७ ||

मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् |
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् || २-१२८ ||

इदं स्तोत्रं पठेद्यस्तु स(ततं?धनं) लभते नरः |
तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते || २-१२९ ||

पीडायां वापि संग्रामे जप्ये दाने [महोत्पाते ख पाठः |] तथा भये |
य इदं पठति स्तोत्रं शुभं तस्य न संशयः || २-१३० ||

स्तोत्रेणानेन देवेशि स्तुत्वा देवीं सुरेश्वरीम् |
सर्वकाममवाप्नोति सर्वविद्यानिधिर्भवेत् || २-१३१ ||

इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् |
अस्मात्परतरं स्तोत्रं नास्ति तन्त्रे महेश्वरि || २-१३२ ||

एवं स्तुत्वा महादेवीं दण्डवत् प्रणिपत्य च |
आत्मानं च समर्प्याथ योनिमुद्रां प्रदर्शयेत् || २-१३३ ||

अथ वक्ष्ये महेशानि ताराष्टकमिमं परम् |
पठनाद्य?स्य देवेशि शिवत्वं गतवान् (प्रिये?अहम्) || २-१३४ ||

शत्कृ (ता?त्वः) प्रपठनाच्छत्रुनाशो भवेद् ध्रुवम् |
अष्टाविंशतिपाठाच्च राजा च दासतामियात् || २-१३५ ||

अष्टवारं प्रपठनात् सर्वसिद्धिश्वरो भवेत् |
स्तवं शृणु वरारोहे येन राजा भविष्यति || २-१३६ ||

मातर्नीलसरस्वति प्रणमतां सौभाग्यसंपत्प्रदे प्रत्यालीढपदस्थिते शिवहृदि स्मेराननाम्भोरुहे |
फुल्लेन्दीवरलोचनत्रययुते क(र्तृं?त्रीं) कपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये || २-१३७ ||

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धिश्वरि [सिद्धिप्रदे इति पाठान्तरम्|] गद्यप्राकृतपद्यजाति[जातरचना सर्वत्र ख पाठः] रचनासर्वार्थसिद्धिप्रदे |
नीलेन्दीवरलोचनत्रययुते कारुण्यवारां निधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् || २-१३८ ||

खर्वे [सर्वे पाठः |] गर्वसमूहपूरिततनो सर्पादिवेशोज्वले व्याघ्रत्वक् परिवीतसुन्दरकटीव्याधूतघण्टाङ्किते |
सद्यः कृत्तगलद्रजः परिमिलन्मुण्डद्वयीमूर्धज- ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय || २-१३९ ||

मायानङ्गविकाररूपललना बिन्द्वर्धचन्द्रात्मिके हूंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः |
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदानां नहि गोचरा कथमपि प्राप्तां तु तामाश्रये || २-१४० ||

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्य श्रीपरमेश्वरि [स्त्रीपरमेश्वरी पाठः |] त्रिनयनब्रह्मादिसाम्यात्मनः |
संसाराम्बुधिमज्जनेऽपटुतनून् देवेन्द्रमुख्यान् सुरान् मातस्त्वत्पदसेवने हि विमुखः [खो यो पाठः |] किं मन्दधीः सेवते || २-१४१ ||

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण- [ङ्ग पाठः |] स्ते देवा जयसंगरे विजयिनो निःशङ्कमङ्के गताः |
देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परे तत्तुल्यां नियतं यथासु[शुचिरवी पाठः |]भिरमी नाशं व्रजन्ति स्वयम् || २-१४२ ||

त्वन्नामस्मरणापलायनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः |
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितोऽन्तकश्च मनुजे मातः क्षणं भूतले || २-१४३ ||

लक्ष्मीः सिद्धिगणश्च वादकमुखस्तम्भस्तथा वारिणः [वैरिणः ख फाठः |] स्तम्भश्चापि रणाङ्गने गजघटास्तंभस्तथा मोहनम् |
मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः कान्तिः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः || २-१४४ ||

ताराष्टकमिदं पुण्यं [रम्यं ख पाठः |] भक्तिमान् यः पठेन्नरः |
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः || २-१४५ ||

लभते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् |
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् || २-१४६ ||

कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् |
विख्या(तं?तिं) चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् || २-१४७ ||

अनेन स्तवराजेन स्तुत्वा देवीं सरस्वतीम् |
इहैव सर्वकामान् वै भुक्त्वा मोक्षमवाप्नुयात् || २-१४८ ||

अस्मात् परतरं नास्ति स्तवेषु सुरवन्दिते |
कलौ तु सर्वयत्नेन सर्वं त्यक्त्वा स्तवं पठेत् || २-१४९ ||

अष्टाङ्गं प्रणिपत्यादौ भवेत् साक्षात् सदाशिवः |
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा || २-१५० ||

मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः |
त्रिकोणाकारिका चैव तारायाः परिकीर्तिता || २-१५१ ||

एवं नतिं पुरस्कृत्य सुगन्धिं लेपयेत् ततः |
सुषुम्नामार्गकेणैव क्षमस्वेति हृदा नयेत् || २-१५२ ||

प्राणायामं पुनः कृत्वा स्वमात्मानं विभावयेत् |
पुष्पग्रहणमन्त्रं च शृणुष्वैकमनाः प्रिये || २-१५३ ||

वाग्भवं प्रथमं दद्यान्निर्माल्यपदमन्तरम् |
वासिन्यै च पदस्यान्ते नम उच्चार्य पूजयेत् || २-१५४ ||

चर्व्यलेह्यान्नपानादि ताम्बूलस्रग्विलेपनम् |
निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया || २-१५५ ||

शिरोलग्नं ततः कृत्वा निर्माल्यं शिष्टमेव च |
विप्राय दद्यान्नैवेद्यं कुमारिभ्यस्तथैव च |
किञ्चित् स्वयं च स्वीकृत्य विहरेत् सर्वदा भुवि || २-१५६ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (षोडशोपचारपूजास्तोत्रादिनिरूपणं) द्वितीयः पटलः || २ ||


Kapitel 3: Einweihung und Guru

श्रीदेव्युवाच |

देवदेव महादेव अनाथानां दयाकर |
दीक्षाविधिं महादेव कथयस्व समासतः || ३-१ ||

श्रीभैरव उवाच |

शृणु सुन्दरि सर्वेशि कथ्यमानं मयानघे |
तया विना महादेवि ह्यधिकारो न कर्मणि || ३-२ ||

सर्वाश्रमेषु भूतेषु सर्वदेवेषु सुव्रते |
दीक्षां विना महादेवि सर्वं तस्य वृथा भवेत् || ३-३ ||

तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् |
दीक्षामूलं जगत्सर्वं [जपं सर्वं ख पाठः |] दीक्षामूलं परं तपः || ३-४ ||

दीक्षामू(लं?ला) परा सिद्धिस्तस्माद् दीक्षां समाचरेत् |
दीक्षाहीनो महादेवि रौरवं नरकं व्रजेत् || ३-५ ||

अदीक्षिताद्यदि शुभे किञ्चिदादाय भोजयेत् |
वृथा पानं भवेत् सर्वं तस्मात् सर्वं विवर्जयेत् || ३-६ ||

अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते |
अन्नं विष्टासमं तेषां तोयं मूत्रसमं स्मृतम् || ३-७ ||

तस्मात् सर्वप्रयत्नेन सद्गुरोर्दीक्षितो भवेत् |
सद्गुरोराहितदीक्षः सर्वकर्माणि कारयेत् || ३-८ ||

गुरुं विना महादेवि वृथा दीक्षा च जायते |
कल्पे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः || ३-९ ||

मन्वन्तरसहस्रेषु निष्कृ(ते?ति)र्नैव जायते |
गुरोर्मुखान्महाविद्या सर्वपापप्रणाशिनी || ३-१० ||

सद्गुरुं त्वं महादेवि कथ्यमानं मया शृणु |
बहिरिन्द्रियहर्ता च गुरुः सर्वत्र दुर्लभः || ३-११ ||

अन्तरिन्दियहर्ता च गुरुः सर्वत्र शोभनः |
अनिन्दितवेशधारी कपटेन विनाकृतः || ३-१२ ||

आचारवान् महाविद्याराधनेषु च तत्परः |
तत्कल्पाचारशक्तश्च गुरुरित्यभिधीयते || ३-१३ ||

कौलज्ञानी महायोगी गुरुरेव च दैवतम् |
कूलीनः सर्वमन्त्राणां दाता सर्वेषु सुन्दरि || ३-१४ ||

दीक्षा(भ्र?प्र)भुः स एवात्मा नापरो वेदपारगः |
उत्पादकब्रह्मदात्रोगरीयान् कौलनायकः || ३-१५ ||

तस्मान्मन्येत सततं पितुरप्यधिको गुरुः |
ध्यान[धर्म क पाठः |]मूलं गुरोर्मूर्तिः पूजामूलं गुरोः क्रिया || ३- १६ ||

(मूलंमन्त्रं?मन्त्रमूलं) गुरोर्वाक्यं तस्मादादौ गुरुं यजेत् |
शिवोऽपि परविद्यानामुपदेष्टा न संशयः || ३-१७ ||

वैष्णवस्तन्मतस्थानां सौरः सौरविदां सताम् |
गाणपत्यस्तु देवेशि गणदीक्षाप्रवर्तकः || ३-१८ ||

शैवः शाक्तस्तु सर्वत्र दीक्षास्वामी न संशयः |
तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् || ३-१९ ||

एकद्वित्रिचतुष्पञ्चवर्षाण्यालोक्य योग्यताम् |
योग्यं परीक्षयेच्छिष्यमन्यथा दुःखमाप्नुयात् || ३-२० ||

वृद्धिश्राद्धं ततः कृत्वा ब्राह्मणान् परितोष्य च |
गृह्णीयाच्च ततो दीक्षां नान्यथा फलमाप्नुयात् || ३-२१ ||

चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् |
विषुवेऽप्ययनद्वन्द्वे संक्रान्त्यां मदनोत्सवे || ३-२२ ||

दीक्षा कार्या प्रयत्नेन पवित्रे गुरुपर्वणि |
षष्ठी भाद्रपदे मासि (त्रये?इषे) कृष्णचतुर्दशी || ३-२३ ||

कार्तिके नवमी शुक्ला मार्गे शुक्लतृतीयिका |
पौषे च नवमी शुक्ला माघे वरचतुर्थिका || ३-२४ ||

फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी |
वैशाखे चाक्षया शस्ता ज्यैष्ठे दशहरा तिथिः || ३-२५ ||

आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी |
एतानि देवपर्वाणि तीर्थकोटिफलं लभेत् || ३-२६ ||

निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणे शुभा |
सूर्यग्रहणकालस्य समानो नास्ति भूतले || ३-२७ ||

पञ्चाङ्गशुद्धे दिवसे शोभने शशितारयोः |
गुरुशुक्रोदये चैव शस्यते मन्त्रसंस्क्रिया || ३-२८ ||

स्थानं शृणु वरारोहे येन सिध्येन्न संशयः |
गोष्ठे शिवालये पुण्ये श्मशाने च नदीतटे || ३-२९ ||

शून्ये च ग्रहणे पुण्ये गिरौ च सिद्धिलिप्सुकः |
जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति || ३-३० ||

रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयम् |
पुष्या शतभि(षा?षक्) चैव दीक्षानक्षत्रमुच्यते || ३-३१ ||

क्रमं प्रवर्त्य विधिवत् पूजाहोमौ विधाय च |
विद्यां तां कथयेत् सम्यग् जीवकर्णे च तत्त्ववित् || ३-३२ ||

अज्ञात्वा कुल्लुकां देवीमनत्वा गुरुपादुकाम् |
अदत्त्वा दक्षिणां सम्यगकृत्वा कुलपुजनम् || ३-३३ ||

योऽस्मिंस्तन्त्रे प्रवर्तेत न तं पीडयसे ध्रुवम् |
इषे मासि विशेषेण धर्मकामार्थसिद्धये || ३-३४ ||

नात्र कालविचारादि न च नक्षत्रशोधनम् |
अष्टोत्तरशतं होमं बिल्वपत्रेण कारयेत् || ३-३५ ||

अष्टावष्टादश कुर्यादष्टाविंशतिमेव च |
पायसं कृसरं दद्याद् गोधामांसमनुत्तमम् || ३-३६ ||

रम्भापुष्पं शालमत्स्यं जुहुयाच्च प्रयत्नतः |
यवक्षीरं ततो दद्याच्छाल्यन्नं मधुना युतम् || ३-३७ ||

नारिकेलफलं दद्यात् स्वर्णाद्याभरणं तथा |
गोभूहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः || ३-३८ ||

दक्षिणा च विशेषेण दातव्येति महेश्वरि |
गुरवे दक्षिणां दद्यात् प्रत्यक्षाय शिवात्मने || ३-३९ ||

न चेत् संचारिणी शक्तिः कथमस्य भविष्यति |
सर्वस्वं दक्षिणां दद्याद् धेनुं दद्यात् पयस्विनीम् || ३-४० ||

यदा ददाति संतुष्टः प्रसन्नवदनो मनुम् |
आसनं गुरवे दद्याद्रक्तकम्बलसंयुतम् || ३-४१ ||

हाराद्याभरणं दद्याद् गां च दद्यात् पयस्विनीम् |
भूमिं वृत्तिकरीं दद्यात् पुत्रपौत्रानु(षा?या)यिनीम् || ३-४२ ||

गुरवे दक्षिणां दद्यात् सुवर्णं वाससा युतम् |
गुरुसंतोषमात्रेण सिद्धिर्भवति शाश्वती || ३-४३ ||

अन्यथा नैव सिद्धिः स्यादभिचाराय कल्पते |
विप्रेभ्यो भोजनं दद्याद् बहुमानपुरःसरम् || ३-४४ ||

सुवासिनीं कुमारीं च भोजयेन्मिष्टभोजनैः |
तस्य च्छायानुसारी स्यान्निकटे त्रिदिनं वसेत् || ३-४५ ||

पश्चात् संचारिणी शक्तिर्गुरुमेति न संशयः |
गुरोः परतरं नास्ति त्रैलोक्ये च विशेषतः || ३-४६ ||

गुरुणा परमेशानि देवतैक्यं विभावयेत् |
महादेवो गुरुः साक्षाच्छ्रिगुरुः सर्वदेवताः || ३-४७ ||

गुरोश्च संनिधाने तु नान्यदेवं प्रपूजयेत् |
संनिधौ च गुरुं चैव पूजयेत् परमेश्वरि || ३-४८ ||

गुरुपूजाफलं देवि यथावत् कथयामि ते |
गुरुपूजाविधानं च कथयामि वरानने || ३-४९ ||

आदौ भद्रासनं दद्यात् पाद्यं दद्यात्ततः परम् |
अर्घ्यं दद्याद् विशेषेण तथा चाचमनीयकम् || ३-५० ||

धूपं च गुग्गुलं दद्याद् दीपं दद्यात् सुशोभनम् |
चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् || ३-५१ ||

नानाविधं फलं दद्यान्नानारससमन्वितम् |
भक्ष्यं भोज्यं विशेषेण दद्याच्चैव वरानने || ३-५२ ||

पुष्पाणामञ्जलिं दद्याच्चन्दनेन समन्वितम् |
शययां दद्यान्महेशानि विचित्रां सर्वमोहिनीम् || ३-५३ ||

खट्वां दद्यान्महेशानि विचित्राम्बरधारिणीम् |
पादसेवां गुरोः कुर्यादतियत्नेन सुन्दरि || ३-५४ ||

गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु |
गुरुपत्नीं विशेषेण पूजयेत् सर्वभोजनैः || ३-५५ ||

गुरुपत्नी च युवती नाभिवाद्या च पादयोः |
पूर्णविंशतिवर्षेण गुणदोषौ विजानता |
अत एव महेशानि न कुर्यात् पादसेवनम् || ३-५६ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (दीक्षाविधिनिरूपणं) तृतीयः पटलः || ३ ||


Kapitel 4: Vorbereitende Mantrapraxis

अथ वक्ष्ये महेशानि पुरश्चर्याविधिं शिवे |
अकृत्वा तु पुरश्चर्यां मन्त्रं जपति नित्यशः || ४-१ ||

कल्पकोटिजपेनापि तस्य सिद्धिर्न जायते |
जीवहीनो यथा देही(हः) सर्वकर्मसु न क्षमः || ४-२ ||

पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः |
जपहोमौ तर्पणं चाभिषेको द्विजभोजनम् || ४-३ ||

पञ्च कृत्यानि लोकेऽस्मिन् पुरश्चरणमुच्यते |
यद्यत्संख्यं विहीयेत तत्संख्याद्विगुणं जपः || ४-४ ||

कार्यो देवि वरारोहे सर्वेषां च विधिः स्मृतः |
तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः || ४-५ ||

अपूर्वां च कुमारीं च भूषणैः परितोषयेत् |
मन्त्राणां कीलकं कुर्यान्मन्त्रार्चनपुरस्क्रियाम् || ४-६ ||

ऋष्यादीनां महेशानि न्यासं कुर्यान्महेश्वरि |
शृणु वक्ष्यामि देवेशि कालीतन्त्रमनोः क्रमम् || ४-७ ||

बिन्दुः श्रोत्रं नाद आस्यं ककारं हृदयं ततः |
वह्निं नेत्रं कीलकं तु दीर्घाकारं प्रियंवदे || ४-८ ||

तारकं तारिनीतन्त्रे हृदयं विद्धि पार्वति |
हकारं विद्धि सर्वत्र शक्तिपक्षे सुरेश्वरि || ४-९ ||

एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः |
ततः प्रयोगं सर्वेषां वश्यादीनां च कारयेत् || ४-१० ||

स्वेच्छाचारपरो मन्त्री पुरश्चरणसिद्धये |
रहस्यमालामाधाय लक्षमेकं सदा जपेत् || ४-११ ||

एवं कृते महेशानि सिद्धमन्त्रो भविष्यति |
लभते श्रीमतीं वाणीं मन्त्रस्य लक्षजापतः || ४-१२ ||

भावानवहितानां च क्षुद्राणां क्षुद्रचेतसाम् |
चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् || ४-१३ ||

महाचीनक्रमाशक्ता ब्राह्मणा अपि मोहने |
चतुर्गुणविधानेन कुर्वन्ति जपमुत्तमम् || ४-१४ ||

जडो वा यदि मूकः स्याद् भावनावशतत्परः |
रहस्यमार्गे निरताः सर्वे वर्णा द्विजातयः || ४-१५ ||

तदनुष्ठानविरताः सर्वे वर्णाः पृथक् पृथक् |
विशेषतः कलियुगे मत्प्रसादाद् भविष्यति || ४-१६ ||

अस्मात् परतरो नास्ति सिद्धिमन्त्रो गणेश्वरि |
नक्तंभोजी हविष्यान्नो जपेद् विद्यां दिवा शुचिः || ४-१७ ||

तत्कृत्वा सिद्धिमाप्नोति जपेच्च मनसा स्थिरम् |
भूमौ शयीत तत्काले त्यजेच्च युवतीं दिवा || ४-१८ ||

प्रातर्जपं प्रकुर्वीत मुखं शुद्ध्यति तत्परम् |
हविष्यान्नं च संभुज्य ब्रह्मपुष्पं हुनेदथ || ४-१९ ||

जपकाले महेशानि भार्यां यत्नेन वर्जयेत् |
विष्णुकल्पं वर्जयेत् तु तुलसीं च विवर्जयेत् || ४-२० ||

वर्जयेन्मालतीपुष्पमन्यदेवप्रपूजनम् |
हस्तप्रक्षालनं शौचमाचारं भक्तिमांश्चरेत् || ४-२१ ||

देवीनां च तथा पुष्पं पृथक् पात्रे नियोजयेत् |
एकीभावं हि कर्तव्यं यदीच्छेच्छुभमात्मनः || ४-२२ ||

नैवेद्यादि फलैस्तोयैर्जानीयादेव एकभाक् |
हविर्नानाविधैर्गन्धैः पायसैर्मोदकादिभिः || ४-२३ ||

एवं क्रमेण भुञ्जीत दधि क्षीरं तथैव च |
मालानां च महेशानि नियमं शृणु भैरवि || ४-२४ ||

अकस्मादीहिता सिद्धिर्महाशङ्खाख्यमालया |
पञ्चाशन्मणिभिर्माला निर्मिता सर्वकामदा || ४-२५ ||

युद्धे मृतस्य देवेशि चाण्डालस्यास्थिकेन च |
मस्तकस्य विशेषेण महाशङ्खः प्रकीर्तितः || ४-२६ ||

अनया मालया देवि तारामन्त्रः प्रसिद्ध्यति |
तत्संस्कारं वरारोहे शृणुष्वैकमनाः प्रिये || ४-२७ ||

सूत्रेण ग्रथिता माला विप्रस्त्रीसूत्रनिर्मिता |
पट्टसुत्रैः कृता माला जगद्वश्याय कल्पते || ४-२८ ||

स्वर्णसूत्रकृता माला साक्षाद्वैश्रवणो भवेत् |
मुखे मुखं तु संयोज्य पुच्छे पुच्छं नियोजयेत् || ४-२९ ||

गोपुच्छसदृशी माला यद्वा सर्पाकृतिर्भवेत् |
मातृकावर्णसंमिश्रैर्ग्रन्थिं कुर्याद् विधानतः || ४-३० ||

तत्सजातीयमेकाक्षं मेरुत्वेन प्रकल्पयेत् |
एवं क्रमेण ग्रथिता माला सर्वत्र शोभना || ४-३१ ||

एवं सा ग्रथिता माला मन्त्रसिद्धिप्रदायिनी |
एकैकं मणिमादाय ब्रह्मग्रन्थिं विनिर्दिशेत् || ४-३२ ||

अनुलोमविलोमेन मातृकान्तर्गतं जपेत् |
तेन सर्वगुणोपेता जायते सिद्धिभागिति || ४-३३ ||

कुल्लुकां च ततो नत्वा मालापूजां विधाय च |
गृह्णीयाद् दक्षिणेनाथ नच वामेन संस्पृशेत् || ४-३४ ||

नाभितश्च शिरोदेशे कुल्लुकां परिकल्पयेत् |
पट्टसूत्रकृता माला देव्याः प्रीतिकरी सदा || ४-३५ ||

अभावे चापि शङ्खस्य स्फाटिक्या मालया जपेत् |
मालाविशेषं देवेशि भैरवि प्राणवल्लभे || ४-३६ ||

यया जप्तेन देवेशि सिद्धो भवति तत्क्षणात् |
अनया सदृशी विद्या त्रैलोक्ये नास्ति सुन्दरि || ४-३७ ||

कृपया परमेशानि तव स्नेहात् प्रकाश्यते |
परमं शृणु चार्वङ्गि शृणु पार्वति तत्त्वतः || ४-३८ ||

येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् |
अनुलोमविलोमेन मन्त्रमा(न्तविर्भे?त्रार्णभे)दतः || ४-३९ ||

मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुम् |
कुर्यान्मन्त्रमयीं मालां सर्वमन्त्रप्रदीपनीम् || ४-४० ||

चरमार्णं मेरुरूपं न लङ्घयेच्च सर्वदा |
एतत्परं रहस्यं च मयोक्तं ते यशस्विनि || ४-४१ ||

त्वया गुप्ततरं कार्यं नाख्येयं यस्य कस्यचित् |
शुभे काले शुभे लग्ने शुभर्क्षे च शुभे तिथौ || ४-४२ ||

प्रतिष्ठां कारयेद्विद्वान् स्वयं वा गुरुणापि वा |
अश्वत्थपत्रनवकं पद्माकारेण पातयेत् || ४-४३ ||

तत्र संस्थापयेन्मन्त्री मातृकामन्त्रमुच्चरेत् |
वह्निं संस्कृत्य देवेशि हुनेत् सुरगणार्चिते || ४-४४ ||

हुतशेषं प्रतिहुतौ प्रदद्याद् देवताधिया |
तत्र देवीं समभ्यर्च्य ग्रहणेऽपि च पूजयेत् || ४-४५ ||

अनुलोमविलोमेन मातृकार्णेन मन्त्रयेत् |
मेरुं प्रेतेन संमन्त्र्य तां नयेद् देवतात्मताम् || ४-४६ ||

एवं सर्वगुणोपेता जायते सर्वसिद्धये |
स्मृतिसूत्रं वीतिहोत्रमावृत्तित्रितयं ततः || ४-४७ ||

दिवानिशाकरौ प्रोक्तौ तस्मात्तेजस्त्रयी शुभा |
गोप्तव्या ह्यनिशं सूत्रे जपमालेप्सिताप्तये || ४-४८ ||

मातृमेयप्रमाणेन बिन्दुनादकलात्मिकाम् |
उच्चरेदनुसंस्कृत्य कुण्डलीयोगतः प्रिये || ४-४९ ||

तेनविद्या लभेत् सिद्धिं नात्र कार्या विचारणा |
कण्ठदेशे स्थिता मन्त्राः केवला वर्णरूपिणः || ४-५० ||

सौषुम्णाध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवन्ति हि |
ईदृश्या च स्रजा यस्तु कुरुते जपमुत्तमम् || ४-५१ ||

अपमृत्युकलिभ्यां च मुच्यते नात्र संशयः |
अथ वक्ष्ये महेशानि अङ्गुलीनां च निर्णयम् || ४-५२ ||

पर्वद्वयमनामायाः परिवर्तेन वै क्रमात् |
पर्वत्रयं मध्यमायास्तर्जन्येकं समाचरेत् || ४-५३ ||

शक्तिमाला समाख्याता सर्वमन्त्रप्रदीपनी |
व्यग्रचित्तेन यज्जप्तं यज्जप्तं मेरुलङ्घने || ४-५४ ||

तत्सर्वं निष्फलं याति इत्याहुः परमेश्वरि |
पर्वद्वयं हि तर्जन्या मेरुं तद्विद्धि पार्वति || ४-५५ ||

सिद्धये साधको जप्यान्मेरुं नत्वा पुनः पुनः |
तर्जन्यग्रं तथा मध्यं यो जपेत् सोऽपि पापकृत् || ४-५६ ||

नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन |
कुल्लुकां च ततो नत्वा मालापूजां विधाय च || ४-५७ ||

श्रीगु(रु?रो)श्चर(णं?णौ)ध्यात्वा मालाया मन्त्रमुच्चरेत् |
कुल्लुकां च न जानाति महामन्त्रं जपेन्नरः || ४-५८ ||

पञ्चत्वं जायत्रे तस्य अथवा वातुलो भवेत् [मूढकोलकः ख पाठः |] |
तारिणीचण्डिकायाश्च मन्त्रः कुल्लुकवर्जितः || ४-५९ ||

मतिमान् यो द्विजातीनां नोपादेयः कथञ्चन |
कुल्लुकां शिरसि धृत्वा सर्वयज्ञफलं लभेत् || ४-६० ||

नान्यो विचारः सर्वत्र विरूपाक्षस्य संमतः |
कुल्लुके वर्जिते पुंसां यद्यनोपस्थितिर्भवेत् || ४-६१ ||

मम पूजा सदा व्यर्था मम यज्ञस्तथैव च |
तारामन्त्रस्य जानीयात् त्र्यक्षरं मन्त्रमुत्तमम् || ४-६२ ||

न जानाति च यो मूढः कुल्लुकां तारिणीं जपेत् |
यावज्जीवं महेशानि न सिद्ध्यति कदाचन || ४-६३ ||

महामन्त्रं परित्यज्य पूजयेद् यस्तु तारिणीम् |
पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् || ४-६४ ||

कुल्लुका नाम सा देवी अनुभावस्वरूपिणी |
सवामकर्त्रिहस्ता च चतुर्बाहुसमन्विता || ४-६५ ||

नीलोत्पलवपुः श्यामा सर्वालङ्कारभूषिता |
लिखेत् तत् त्र्यक्षरं मन्त्रं हरिद्राचन्दनेन वा || ४-६६ ||

यावज्जीवं तु मन्त्रार्णं शिखायां धारयेत् सदा |
महतीविद्यया प्राप्तं जपेन्मन्त्रं त्रिलक्षकम् || ४-६७ ||

लक्षमेकं जपेद् विद्यां हविष्याशी जितेन्द्रियः |
उ(च्छ?च्च)स्थानेषु देवेशि तदासनस्य संस्थितिः || ४-६८ ||

पूर्वोक्तं पूजनं कृत्वा विप्राराधनतत्परः |
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् || ४-६९ ||

जपान्ते प्रत्यहं मन्त्री होमयेत् तद्दशांशतः |
तर्पणं चाभिषेकं च तत्तद्दशांशतो मनोः || ४-७० ||

प्रत्यहं भोजयेद् विप्रान् न्यूनाधिक्यप्रशान्तये |
अथैवं सर्वसंपूर्णं होमादिकमथाचरेत् || ४-७१ ||

रात्रौ बलिः सम(दाय?र्प्यस्तु)सर्वसिद्धिमभीप्सुभिः |
विना दीपकमन्त्रेण अग्रे शून्यं न चार्चयेत् || ४-७२ ||

विनानया महादेवि विना रुधिरवेदनैः |
त्रिवर्णमयया दीपन्या मन्त्रिणी सा च कथ्यते || ४-७३ ||

मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः |
शत्कोटिजपेनापि कथं सिद्धिर्वरानने || ४-७४ ||

गुप्तजीवाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये |
मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः सदा || ४-७५ ||

मन्त्रोच्चारे कृते यादृक् स्वरूपप्रथ(मं?नं)भवेत् |
शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् || ४-७६ ||

हृदये ग्रन्थिभेदश्च सर्वावयवभेदनम् |
आनन्दाश्रूणि पुलको देहावेशः कुलेश्वरि || ४-७७ ||

गद्गदोक्तिश्च सहसा जायते नात्र संशयः |
सकृदुच्चारिते चैवं मन्त्रे चैतन्यसंयुते || ४-७८ ||

दृश्यते च महादेवि पारंपर्यं तदुच्यते |
एवं जपं यथा कृत्वा दशांशमसितोत्पलैः || ४-७९ ||

आज्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पणम् |
कालागुरुद्रवोपेतैर्विमलैर्गन्धवारिभिः || ४-८० ||

तर्प(येत्) तां परां देवीं तत्प्रकारमिहोच्यते |
जले चावाह्य विधिवत् पाद्याद्यैरुदकात्मकैः || ४-८१ ||

संपूज्य विधिवद् देवीं परिवारान् सकृत्सकृत् |
संतर्प्य विधिवद्भक्त्या दशांशं तर्पयेत् ततः || ४-८२ ||

पुनरकैकं संतर्प्य परिवारांस्तथा पुनः |
तारिणीमभिषिञ्चामि नमो मूर्ध्नि विनिःक्षिपेत् || ४-८३ ||

अभिषेकोऽयमाख्यातः सर्वपापनिकृन्तनः |
अभिषेकदशांशेन साधकानां च भोजनम् || ४-८४ ||

सुवासिनीं कुमारीं च भोजयेत् तदनन्तरम् |
क्षीरखण्डाज्यभोज्यैश्च मन्त्रसिद्धिर्भवेद् ध्रुवम् || ४-८५ ||

गुरवे दक्षिणां दद्याद् बहुमानपुरःसरम् |
होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः || ४-८६ ||

मन्त्रान्ते नाम चोच्चार्य तर्पयामि ततः परम् |
स्वाहान्ते तर्पणं त्वेवमभिषेकं शृणुष्व मे || ४-८७ ||

मन्त्रान्ते नाम चोच्चार्य सिञ्चामीति पदं ततः |
तद्दशांशं ब्राह्मणानां भोजनं च समाचरेत् || ४-८८ ||

इत्येवं सिद्धमन्त्रः सन् सर्वान् कामांश्च साधयेत् |
बिल्वपत्रं महेशानि दशांशं जुहुयात् ततः || ४-८९ ||

अथ चैवं तिलाज्येन होमयेद् वाथ सुन्दरि |
सर्वस्वं गुरवे दद्यात् तदर्धं वा तदर्धतः || ४-९० ||

अज्ञात्वा कुल्लुकां देवीमजप्त्वा गुरुपादुकाम् |
न दत्त्वा दक्षिणां सम्यगकृत्वा चक्रपूजनम् || ४-९१ ||

योऽस्मिंस्तन्त्रे प्रवर्तेत तत्स्वं पीडयते ध्रुवम् |

श्रीदेव्युवाच |

कथितं परमेशान परदारविधौ मयि |
न पापं जायते सुभ्रु परदारविधौ मम || ४-९२ ||

परस्य दारान् संस्पृस्य जप्यते यदि साधकैः |
तदैव महती सिद्धिर्नात्र कार्या विचारणा || ४-९३ ||

कालीकल्पप्रकाशे च कथितं यन्महेश्वर |
अत्रैव सम्यगाख्यानं कुरुष्व हृदयप्रिय || ४-९४ ||

श्रीभैरव उवाच |

शृणु देवि महाभागे आपदुद्धारकारिणि |
अकथ्यं यन्महादेवि तव स्नेहात् प्रकाश्यते || ४-९५ ||

परदारविधौ वेदनिन्दावादः प्रवर्तते |
तासां सङ्गान्महेशानि तामिस्रं नरकं भवेत् || ४-९६ ||

वेदार्थमिति विज्ञाय कथं कुर्याच्च साधकः |
परदारान् नैव गच्छेद्, गच्छञ्जपेच्चेति वेदः || ४-९७ ||

श्रुतिद्वयविरोधित्वाद्गच्छेरन् परयोषितः |
तस्माच्छृणु वरारोहे वेदार्थं कथयामि ते || ४-९८ ||

श्रीदेव्युवाच |

को वेदः कुत आयाति को वा तस्य प्रकाशकः |
कः कर्ता तस्य वेदस्य तत्सर्वं कथयस्व मे || ४-९९ ||

श्रीभैरव उवाच |

एको वेदश्चतुर्धाभूद् यजुःसाम-ऋगादयः |
वेदो ब्रह्मेति साक्षाद्वै जानेऽहं नगनन्दिनि || ४-१०० ||

स्वयं प्रवर्तते वेदस्तत्कर्ता नास्ति सुन्दरि |
स्वयंभूरीशो भगवान् वेदो गीतस्त(या?था)पुरा || ४-१०१ ||

शिवाद्या ऋषिपर्यन्ताः स्मर्तारोऽस्य न कारकाः |
प्रकाशका भवन्त्येते कृष्णाद्यास्त्रिदिवौकसः || ४-१०२ ||

वैदिकप्रतिपाद्यश्च अर्थो धर्मः प्रकीर्तितः |
विपरीतं महेशानि अधर्मो भवति प्रिये || ४-१०३ ||

परदारागमं वदे तन्निषिद्धं सुरेश्वरि |
यद्धि वैधेतरं देवि तन्निषिद्धं महेश्वरि || ४-१०४ ||

परस्त्रियं महेशानि मनसा भावयञ्जपेत् |
तदैव सर्वसिद्धिः स्यान्नात्र कार्या विचारणा || ४-१०५ ||

इति सिद्धन्तविद्भिश्च ज्ञेयं तन्त्रोपदेशिकम् |
महाचीनद्रुमलतावेष्टनेन च यत्फलम् || ४-१०६ ||

तत्फलं नास्ति देवेशि त्रैलोक्ये सुरवन्दिते |
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः || ४-१०७ ||

कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव च |
भ्रान्तिरत्र न कर्तव्या सिद्धिर्भवति निश्चितम् || ४-१०८ ||

तस्मादनेन देवेशि पापं नास्ति महेश्वरि |
तस्मात् कुर्यात् साधकेन्द्रः परदारागमं शुभे || ४-१०९ ||

अथान्यत् संप्रवक्ष्यामि मन्त्रसिद्धेश्च लक्षणम् |
मातृकापुटितं कृत्वा स्वमन्त्रं प्रजपेत् सुधीः || ४-११० ||

क्रमोत्क्रमाच्छतावृत्त्या तदन्ते केवलं मनुम् |
एवं तु प्रत्यहं जप्याद् यावल्लक्षं समाप्यते || ४-१११ ||

निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः |
पुरश्चर्याशतेनापि प्रयोगविधिना तथा || ४-११२ ||

कल्पकोटिजपेनापि पूजायाः शतकेन च |
न सिद्धिर्जायते सुभ्रु! यदि भावो न जायते || ४-११३ ||

इति श्रीबृहन्निलतन्त्रे भैरवभैरवीसंवादे (पुरश्चर्याविधिनिरूपणं) चतुर्थः पटलः || ४ ||


Kapitel 5: Anlassbezogene Verehrung und heilige Sitze

श्रीभैरव उवाच |

नित्यार्चनरतो मन्त्री कुर्यान्नैमित्तिकार्चनम् |
नैमित्तिकार्चने सिद्धिः कुर्यात् काम्यमखण्डितम् || ५-१ ||

मासार्धमथवा मासं द्विगुणं त्रिगुणं तथा |
यावत्फलाप्तिभाग् [प्तवान् ख पाठः |] योगी तावदेवं समाचरेत् || ५-२ ||

नैमित्तिके च काम्ये च फलाप्तिर्मण्डलावधिः |
नचेत् तु द्विगुणीकृत्य यथा स्यात् फलभाक् सुधीः || ५-३ ||

अष्टम्यां च चतुर्दश्यां पूजयेच्च प्रयत्नतः |
यद्यत् प्रार्थयते मन्त्री तत् तदाप्नोति नित्यशः || ५-४ ||

लभते मञ्जुलां वाणीमष्टम्यां च ततो जपेत् |
मध्याह्नसमये देव्याः पूजनं सिद्धिदायकम् || ५-५ ||

प्रातःकाले महादेवि पूजा कार्या विधानतः |
सायाह्ने च महादेवि पूजा च शस्यते बुधैः || ५-६ ||

अष्टम्यां पूजनं देव्याः सर्वकामफलप्रदम् |
रम्भापुष्पं बीजपूरं सुगन्धिपरिमिश्रितम् || ५-७ ||

मिश्रीकृत्य बलिं दद्यादष्टम्यां च विशेषतः |
स्वर्णमालां महादेव्यै दद्याद् गन्धैर्विशेषतः || ५-८ ||

फलं क्षीरं तथा दद्यादधिकं शर्करान्वितम् |
तस्मात् सर्वप्रयत्नेन संपत्त्यै पूजयेच्छिवाम् || ५-९ ||

सूक्ष्मतण्डुलसिद्धार्थान् देव्यै दद्यात् प्रयत्नतः |
अष्टम्यां च चतुर्दश्यां पूजयेच्च यथोविधि || ५-१० ||

आज्ञासिद्धिमवाप्नोति ज(वा?पा)पुष्पं च वर्वराम् |
चन्दनं चार्ककुसुमं दद्यात् श्वेतापराजिताम् || ५-११ ||

अर्घ्यं दद्याद्विशेषेण नित्यपूजा(च?सु) सर्वदा |
अष्टोत्तरशतं जप्यं यावज्जीवितसंख्यया || ५-१२ ||

यस्तु संपूजयेद् दुर्गां महाष्टम्यां प्रयत्नतः |
स त्रिजन्मार्जितं पापं तत्क्षणादेव नाशयेत् || ५-१३ ||

ये जपन्ति महामायां ज्ञात्वा तत्त्वेन भैरवम् |
मधुना पायसं चैव क्षीरमाज्यं च शर्कराम् || ५-१४ ||

बलिं दद्याच्च गोधां वै चासवं च प्रशस्यते |
अत्रासवमवश्यं च ब्राह्मणस्तु विशेषतः || ५-१५ ||

आसवं च महेशानि शृणुष्वैकमनाः प्रिये |

श्रीभैरव्युवाच |

भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु |
केन रूपेण देवेश दद्याद् विप्रोऽथ चासवम् || ५-१६ ||

विशेषं कथयस्वाग्रे सारात् सारतरं यतः |
कैतवं च परित्यज्य यदि स्नेहोऽस्ति मां प्रति || ५-१७ ||

केन पेयमासवं च केनापेयं वदस्व मे |
अपेयं तन्महाबाहो पेयं वा तद्वदस्व मे || ५-१८ ||

यस्मान्मे परमेशान दूरीभवति संश(व?यः) |
कोटीनां तिसृणां देवि तन्त्राणां सारमुत्तमम् || ५-१९ ||

तस्मादत्र प्रकथ्यं ते सत्यं सुरगणार्चिते |

श्रीभैरव उवाच |

शृणु देवि महाभागे सर्वशास्त्रार्थगामिनि |
जिज्ञासितं परं तत्त्वं तन्मे निगदितं शृणु || ५-२० ||

मद्यमदेयमपेयमनिर्ग्राह्यं चेति, जपे देयं चेति |

सुरा वै मलं सत्त्वानां पाप्मा तु मलमुच्यते |
तस्माद् ब्रह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् || ५-२१ ||

अस्यां शृणु वरारोहे सुरां सुरगणार्चिताम् |
गौडी पैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा || ५-२२ ||

पातव्या हि महाभागे न तु कैश्चित् द्विजोत्तमैः |
पनसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् || ५-२३ ||

माक्षिकं तालमा(ध्वि?ध्वी)कं मैरेयं नारिकेलजम् |
समान्येव विजानीयान्मद्या(न्ने?न्ये)कादशैव तु || ५-२४ ||

सुरापानविधौ देवि निन्दा केषां च संमता |
विशेषं शृणु देवेशि तव स्नेहात् प्रकाश्यते || ५-२५ ||

तन्निषिद्धा महादेवि या च वैधेतरा भवेत् |
अमन्त्रितसुरापाने प्रायश्चि(तो?त्तं) विधीयते || ५-२६ ||

शृणु देवि महाभागे पुरावृत्तं मनोहरम् |
शुक्रो दैत्यगुरुः पू(र्वे?र्वं) सिद्ध्यर्थं कृतवाञ्जपम् || ५-२७ ||

कल्पकोटिजपेनापि नासिद्ध्यत कदाचन |
पीत्वासवं महादेवि प्रत्यहं जपतत्परः || ५-२८ ||

चित्तोन्मादं तदा तस्य जातं परमकौतुकम् |
जपभ्रष्टोऽभवत्तत्र सस्मार वनितां शुभाम् || ५-२९ ||

तथोर्वशी च स्वर्वेश्या तत्र गत्वा मनोरमम् |
वाक्यं सर्वरसस्वादु कथयित्वा सुशोभने! || ५-३० ||

शुक्रेण सार्धं देवेशि रमयामास चोर्वशी |
शुक्रोत्पत्तिश्च जायेत ज्ञानं य(ज)ज्ञे ततः परम् || ५-३१ ||

तत्त्वं ज्ञात्वा ततः शुक्रः शशापासवमुत्तमम् |
तेन शापेन देवेशि शप्तं चासवमुत्तमम् || ५-३२ ||

ततः प्र(भू?भृ)ति तद् देवि सिद्धये न च जायते |
एवं क्रमेण देवेशि शतवर्षं गतं प्रिये || ५-३३ ||

ततः सा च भगवती काली कालस्वरूपिणी |
उवाच सादरं वाक्यं काली दैत्यगुरुं प्रति || ५-३४ ||

शृणु वत्स महद्वाक्यं सावधा(ना?नो)ऽवधारय |
कथं शप्तं महाभाग चासवं देवदुर्लभम् || ५-३५ ||

श्रीशुक्र उवाच |

सर्वेशे सर्वभूतेशे सर्वभूतसमावृते |
ब्रह्मेशविष्णुनमिते प्रणमामि सदा शिवे || ५-३६ ||

ब्रह्मविष्णुशिवानां च प्रसूते करुणामयि |
जडानां ज्ञानदे देवि त्राहि मां शरणागतम् || ५-३७ ||

तारिणी त्वं महादेवि चात्र पूर्णा युगागमे |
अस्माकं ज्ञानदात्री च विष्णुमातर्नमोऽस्तु ते || ५-३८ ||

त्वं श्रीस्त्वं (हि?चैव)सावित्री सती च त्वं सुरेश्वरि |
आद्ये भवाद्ये सर्वेशे विश्वमातर्नमोऽस्तु ते || ५-३९ ||

शिवे शिवात्मिके घोरे सर्वविद्यानिधे शुभे |
प्रसन्ना भव सर्वज्ञे सर्वमन्त्रप्रकाशने || ५-४० ||

प्रसीद देवि चास्माकं सर्वभूतदयामयि |
इति स्तवेन संस्तुष्टां महाकालीं करालिनीम् || ५-४१ ||

दण्डवत् प्रणिपत्यादौ पुनराह गरीयसीम् |
आसवं च मया शप्तं कारणं शृणु भैरवि || ५-४२ ||

पीत्वासवं महादेवि न सिद्धिर्जायते मम |
तस्माच्छप्तं महेशानि सर्वं निगदितं शृणु || ५-४३ ||

उवाच सा महासाध्वी काली कालस्वरूपिणी |
प्रहसन्तीव सा देवी शुक्रं दैत्यगुरुं प्रति || ५-४४ ||

अमन्त्रिता सुरा वि(प्रो?प्र!)पीता परमदुर्लभा |
तेनैव हेतुना सिद्धिर्न जाता तव सुन्दर || ५-४५ ||

अमन्त्रितसुरापाने प्रायश्चित्तं विधीयते |
आयसे भाजने भद्रे स्वर्णे रूप्ये तथैव च || ५-४६ ||

ब्राह्मणो वेदवांश्चैव पिबेच्च वारुणीं शुभाम् |
तप्तां सुरां पिबेच्चैव नान्यथा सिद्धिमाप्नुयात् || ५-४७ ||

इति ते कथितं दिव्यं सारवृत्तान्तमुत्तमम् |
अपेया सा निषिद्धा सानाघ्रेया चेति च क्रमात् || ५-४८ ||

अनिर्ग्राह्या च सा देवी या वै वैधेतरा भवेत् |
तस्माज्जपविधौ ज्ञेया सुरा सिद्धिकरी मता || ५-४९ ||

सर्ववर्णैर्महेशानि देया च त्रिविधा सुरा |
अथवासवसंभृत्यै दद्याद्वापि गुडार्द्रकम् || ५-५० ||

तक्रं वा गुडसंमिश्रं दद्याद् देव्यै प्रयत्नतः |
नारिकेलोदकं कां(श्ये?स्ये)ताम्रे वा विसृजेन्मधु || ५-५१ ||

तारामन्त्रेण काल्याश्च अत्र पूर्णाविधौ तथा |
अनुकल्पं चासवं च दद्यादतिमनोहरम् || ५-५२ ||

रम्भाफलं शालमत्स्यं जुहुयान्मन्त्रवित्तमः |
सर्वां सिद्धिमनुक्रम्य अन्ते मोक्षमवाप्नुयात् || ५-५३ ||

साज्यस्य बिल्वपत्रस्य होमेन जगती वशे |
सहस्रहोमे देवेशि लभते सिद्धिमुत्तमाम् || ५-५४ ||

लभते मञ्जुलां वाणीं महाष्टम्यां च साधकः |
कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः || ५-५५ ||

योगिनीपूजनं तत्र साधनं कुलपूजनम् |
यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः || ५-५६ ||

तथा कुलतिथौ शक्तिः पूजिता वरदायिनी |
कुलवारे चतुर्दश्यामष्टम्यां च विशेषतः || ५-५७ ||

शङ्खस्थितं तोयपूर्णं ज(वा?पा)पुष्पं च बर्बरा |
चन्दनं चार्ककुसुमं शुक्ला चैवापराजिता || ५-५८ ||

अ(न्न?र्घ्य)दानं विशेषेण नित्यपूजाक्रमः स्मृतः |
अष्टोत्तरशतं जप्यं यावज्जीवितसंख्यया || ५-५९ ||

सहस्रं वा जपेन्मन्त्रं नित्यपूजाविधौ प्रिये |
महोप्रायाः (?) सदा पूज्या पूजने कुल्लुका परा || ५-६० ||

स्तोत्रमन्त्रव्रतादीनामनुष्ठानं शृणु प्रिये |
अननुष्ठानतस्तस्याः सर्वं तन्निष्फलं भवेत् || ५-६१ ||

महाविद्यां च सुन्दर्या वासुदेवं च योऽर्चयेत् |
प्राप्नोति तत्फलं सर्वं हरिसायुज्यतां व्रजेत् || ५-६२ ||

वासुदेवो हरिर्ब्रह्मा तारिणी प्रकृतिः सदा |
एकमूर्तिः सदा चिन्त्या एकमूर्तिः सदा स्थिता || ५-६३ ||

स्वर्गमोक्षप्रदा देवी धनविद्याप्रदायिनी |
धनविद्यायशोलक्ष्मीरायुरारोग्यवर्द्धिनी || ५-६४ ||

तस्मात्तां पूजयेद् देवीं गन्धपुष्पैश्च धूपकैः |
नैवेद्यैर्विविधैर्भक्त्या पूजयेत् तारिणीं सदा || ५-६५ ||

आषाढे शयनं कुर्यात् सिंहे च परिवर्तनम् |
आश्विने बोधयेद् देवीं पशुपायसभोजनैः || ५-६६ ||

रात्रौ पवित्रेण वरं जायते सुरसुन्दरि |
दिवा प्रबोधेऽपि तथा स्वप्नेऽपि च कदाचन || ५-६७ ||

शुक्लाष्टम्यां घटाष्टम्यां घटस्य च विशेषतः |
माघमासस्य च विधो रात्रौ संपूजयेत् सुधीः || ५-६८ ||

पीठार्चनं महादेवि यत्र सिद्धिरनुत्तमा |
पीठानां परमं पीठं कामरूपं महाफलम् || ५-६९ ||

तत्र यत् क्रियते पूजा सकृद्वापि महेश्व(री?रि) |
विहाय सर्वपीठानि तस्य देहे वसाम्यहम् || ५-७० ||

तस्माच्छतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् |
तेषां फलं महेशानि वक्तुं किं शक्यते मया || ५-७१ ||

तत्र कोटिगुणैः सार्धमाद्या वसति तारिणी |
मत्पीठं ब्रह्मणो वक्रं गुप्तं सर्वसुखावहम् || ५-७२ ||

यतो देवाश्च वेदाश्च मनयश्चैव भावजाः |
सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु || ५-७३ ||

द्विविधं चैव यत्पीठं गोप्तव्यं तन्महेश्वरि [गुप्तं व्यक्तं ख पाठः |] |
व्यक्ताद् [व्यक्त गुप्तं ख पाठः |] गुप्तं महापुण्यं दुरापं साधकाधमैः [कोत्तमैः ख पाठः |] || ५-७४ ||

गुप्तं सर्वत्र देशे तु [देवेशि ख पाठः |] लभ्यते कुलसुन्दरि |
पीठप्रसङ्गाद् देवेशि पीठानि शृणु भैरवि || ५-७५ ||

शृणु तानि महाप्राज्ञे श्रेष्ठस्थानानि यानि च |
सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च || ५-७६ ||

पुष्करं च गयाक्षेत्रमक्षया(द्य?दि)वटं तथा |
वराहपर्वतं चैव शिवं चामरकण्ठकम् || ५-७७ ||

नर्मदा यमुना पिङ्गा गङ्गाद्वारं तथा प्रिये |
गङ्गासागरसङ्गं च कुशावर्तं च बिल्वकम् || ५-७८ ||

श्रीनीलपर्वतं चैव कलम्बकुब्जके तथा |
भृगुतुङ्गं [भृगुभृङ्गं इति पाठान्तरम् |] च केदारं सर्वप्रियमहालयम् || ५-७९ ||

ललिता च सुगन्धा च शाकम्भरीपुरं प्रियम् |
कणतीर्थं महागङ्गा तिलिकाश्रममेव च || ५-८० ||

कुमाराख्यप्रभासौ च तथा धन्या सरस्वती |
अगस्त्याश्रममिष्टं मे काण्वाश्रममतः परम् || ५-८१ ||

कौशिकीसरयूशोणज्योतिःसरःपुरःसरम् |
कामोदकं प्रियं श्रीमत् प्रियमुत्तरमानसम् || ५-८२ ||

मतङ्गवापी सप्तार्चिर यद्विष्णुपदं महत् |
वैद्यनाथं महातीर्थं प्रियः कालञ्जरो गिरिः || ५-८३ ||

वामोच्छेदं हरोच्छेदं गर्गोच्छेदं महानलम् |
भद्रेश्वरं महातीर्थं लक्ष्मणोच्छेदमेव च || ५-८४ ||

जानीहि प्रियसृष्टा च कावेरी कपिलोदका |
सोमेश्वरं शुक्लतीर्थं कृष्णवीण्या प्रभेदकः || ५-८५ ||

पाटला च महाबोधिर्नागतीर्थं मदन्तिका |
पुण्यं रामेश्वरं देवि तथा मेघवनं हरेः || ५-८६ ||

ऐलं रमणकं चैव गोवर्द्धनमतिप्रियम् |
हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमतिप्रियम् || ५-८७ ||

इन्द्रनीलं महानादं तथैव प्रियमेनकम् |
पम्पासरः पञ्चवटी वटीपर्वतिका तथा || ५-८८ ||

गङ्गाबिल्वं च प्रासङ्गः प्रियनादवटस्तथा |
गङ्गावामाचलं चैव तथैव ऋणमोचनम् || ५-८९ ||

गौतमेश्वरतीर्थं च वसिष्ठतीर्थमेव च |
हारीतकं तथा देवि ब्रह्मावर्तं शिवप्रदम् || ५-९० ||

कुशावर्तमतिश्रेष्ठं हंसतीर्थं तथैव च |
पिण्डावकरणं ख्यातं हरिद्वारं तथैव च || ५-९१ ||

तथैव बदरीतीर्थं वामतीर्थं तथैव च |
जयन्तं विजयन्तं च सर्वकल्याणदं प्रिये || ५-९२ ||

विजया शारदातीर्थं भद्रकालीश्वरं तथा |
अश्वतीर्थं सुविख्यातं तथा वेदशिरः प्रियः || ५-९३ ||

ओघवती नदी चैव तीर्थमत्रिपदं तथा |
छागलिङ्गं मातृगणं करवीरपुरं तथा || ५-९४ ||

सप्तगोदावरं तीर्थं सर्वधर्मफलप्रदम् |
अयोध्या मथुरा माया दुर्गा द्वारावति हरेः || ५-९५ ||

विद्यापुरमवन्ती च काञ्ची मङ्गलकोटकम् [शकुलकोठरं नकुलकोठरं मङ्गलकुट्टकं वा इति पाठान्तराणि |] |
कालीघट्टं गुप्ततीर्थं सिद्धाख्यं [लिङ्गाख्यं इति पाठान्तरम् |] सर्वमोहनम् || ५-९६ ||

किरीटमुत्तरातीर्थं दक्षिणातीर्थमुत्तमम् |
विशालातीर्थं काल्याश्च वनं वृन्दावनं तथा || ५-९७ ||

ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्वरम् |
जानीहि सर्वसिद्धीनां हेतुस्थानानि सुन्दरि || ५-९८ ||

अत्र सन्निहिता नित्यं सर्वे देवा महर्षयः |
पितरो योगिनश्चैव ये च सिद्धिपरायणाः || ५-९९ ||

आशु सिद्ध्यन्ति कार्याणि श्रद्धाभक्तिमतां प्रिये |
पुण्यकाले पठेद् यस्तु तत्पुण्यमक्षयं भवेत् || ५-१०० ||

श्राद्धकाले पठेद् यस्तु शृणुयाद्वापि भक्तितः |
अक्षयं तद्भवेद्वाक्यं पितृणां परमं सुखम् || ५-१०१ ||

अस्मिन् स्थाने [पेठद्यस्तु इति वा पाठः |]जपेद्यस्तु सिद्धिर्भवति तत्क्षणात् |
अथ वक्ष्ये महेशानि यत्र या देवता शृणु || ५-१०२ ||

यत्र ते यानि नामानि कथयिष्यामि तच्छृणु |
मग्नोऽहं परमानन्दे त्वत्कथामृतवारिधौ || ५-१०३ ||

पुष्करे कमलाक्षी च गयायां च गयेश्वरी |
अक्षयाऽक्षयवटकेऽमरेशामरकण्ठके || ५-१०४ ||

वराहपर्वते च त्वं वाराही धरणीप्रिया |
दुर्मदा नर्मदायां च कालिन्दी यमुनाजले || ५-१०५ ||

शिवामृता च गङ्गायामम्बा तु तिलिकाश्रमे |
कुमारधाम्नि कौमारि प्रभासे सुरपूजिता || ५-१०६ ||

काश्यां चैवान्नपूर्णा च द्राविडे च सरस्वती |
महाविद्या मत्तमेधा अगस्त्याश्रमके तथा || ५-१०७ ||

कौशिकीति प्रियं नाम कौशिकामृतकौशिके [घृतकौशिके इति पाठान्तरम् |] |
शारदा सरयूतीरे शोणे च कनकेश्वरी || ५-१०८ ||

स्वप्रकाशवशाद् देवि ज्योतिष्मतीह सङ्गमे |
श्रीवहा श्रीगिरौ चैव काली कालोदके तथा || ५-१०९ ||

महादेवि! महाबुद्धिर्नीला चोत्तरमानसे |
मातङ्गी स्यात् मतङ्गे च गुप्तार्चिर्विष्णुपादके || ५-११० ||

स्वर्गङ्गा स्वर्गमार्गे च गोदावर्यां गवेश्वरी |
विमुक्तिश्चैव गोमत्यां विप्रभावा महाबला || ५-१११ ||

शतप्रभा शतरूपा चन्द्रभागा च तत्र वै |
ऐरावत्यां च ईर्नाम सिद्धिदा सिद्धितीरके || ५-११२ ||

दक्षपञ्चनदे चैव दक्षिणा त्वं प्रकीर्तिता |
औजिसे वीर्यदा त्वं च सङ्गमा तीर्थसङ्गमे || ५-११३ ||

बाहुदायामसन्ता(?) त्वं कुरुक्षेत्रे वपेक्षणा |
तपस्विनी पुण्यतमा भारती भरताश्रमे || ५-११४ ||

सुकथा नैमिषारण्ये पाण्डौ च पाण्डवानना |
विशाल्यां च विशालाक्षी मुण्डपृष्ठे शिवात्मिका || ५-११५ ||

श्रद्धा कनखले तीर्थे शुद्धबुद्धिर्मुनीश्वरे |
सुवेशा सुमना गौरी मानसे च सरोवरे || ५-११६ ||

नन्दापुरे महानन्दा ललिता ललितापुरे |
ब्रह्माणी ब्रह्मशिरसि महापातकनाशिनी || ५-११७ ||

पूर्णिमा चेन्दुमत्याद्यैः सिञ्चयन्ती प्रिया सदा |
जा(ह्नि?ह्न)वीसङ्गमे तृप्तिः स्वधा त्वं पितृतुष्टिदा || ५-११८ ||

पुण्याहा वेणुवत्यां च प्रपायां पापनाशिनी |
शङ्खसंहारिणी घोररूपा चैव महोदरी || ५-११९ ||

गर्गोच्छेदे महारात्रिः प्रबला च महावने |
भद्रा च भद्रकाली च भद्रेश्वरीश्वरप्रिया || ५-१२० ||

भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा |
दारुणा नर्मदोच्छेदे कावेर्यां कपिलेश्वरी || ५-१२१ ||

भेदिनी कृष्णवेण्यायां संभेदे शुभवासिनी |
शुद्धा वै शुक्लतीर्थे च प्रभा रामेश्वरे तथा || ५-१२२ ||

महाबोधौ महाबुद्धिः पाटले पाटलेश्वरी |
सुरसा नागतीर्थे च नागेशी नागवन्दिता || ५-१२३ ||

मदन्ते च मदन्ती च प्रमदा च मदन्तिका |
मेरुस्वना [मेघबला मघवने इति पाठान्तरम् |] मेघवने विद्युत्सौदामिनीच्छटा || ५-१२४ ||

रामेश्वरे महा(वि?सि)द्धिर्वारा चैलापुरे सती |
प्रिया रमणके दुर्गा सुवेशा सुरसुन्दरी || ५-१२५ ||

कात्यायनी महादेवी गोवर्द्धनेऽम्बिका तथा |
शुभेश्वरी हरिश्चन्द्रे पुरश्चन्द्रे पुरेश्वरी || ५-१२६ ||

पृथूदके महावेगा मेनाकेऽखिलवर्द्धिनी |
इन्द्रनीले महाकान्ते रत्नवेशा सुशोभना || ५-१२७ ||

माहेश्वरी महानादे महातेजा महाबला |
पम्पासरसि शारङ्गा पञ्चवट्यां तपस्विनी || ५-१२८ ||

वटीपर्वतिकायां च पञ्चवर्गा सुरङ्गिणी |
सङ्गमे विन्ध्यसङ्गायां विन्ध्यश्रीर्विन्ध्यवासिनी || ५-१२९ ||

महानन्दा नन्दतटे गङ्गावामाचले शिवा |
आर्यावर्ते महार्या त्वं विमुक्तिर्-ऋणमोचने || ५-१३० ||

अट्टहासे च चामुण्डा तन्त्रेशी गौतमेश्वरे |
वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धती || ५-१३१ ||

हारीते हरिणाक्षी च ब्रह्मावर्ते व्रतेश्वरी |
गायत्री चैव सावित्री कुशावर्ते कुशप्रिया || ५-१३२ ||

हंसीश्वरी हंसतीर्थे परहंसीश्वरीति च |
पिण्डावकरणे धन्या सुरसा सुखदायिनी || ५-१३३ ||

नारायणी वैष्णवी सा गङ्गाद्वारे विमुक्तिदा |
श्रीविद्या बदरीतीर्थे वामतीर्थे महाधृतिः || ५-१३४ ||

जयन्ते च जयन्ती त्वं विजयन्तेऽपराजिता |
विजयायां महाशुद्धिः शारदायां च शारदा || ५-१३५ ||

सुभद्रा भद्रदा भव्या भद्रकालीश्वरे तथा |
महाभद्रे भद्रकाली हयतीर्थे गिरीश्वरी || ५-१३६ ||

वेददा वेदमाता च वेदेशा वेदमस्तके |
ओघवत्यां महावीर्या महानद्यां महोदया || ५-१३७ ||

चण्डा चात्रिपदे चैव छागलिङ्गे बलिप्रिया |
मातृदर्शे जगन्माता करवीरपुरे सती || ५-१३८ ||

मलिनी रङ्गिणी वामा परमा परमेश्वरी |
सप्तगोदावरे तीर्थे देवशीर्षाखिलेश्वरी || ५-१३९ ||

अयोध्यायां भवानी च जयदा जयमङ्गला |
माधवी मथुरायां च देवकी यादवेश्वरी || ५-१४० ||

वृन्दा गोपेश्वरी राधा रासवृन्दावने रसे |
कात्यायनी महामाया भद्रकाली कलावती || ५-१४१ ||

चन्द्रमाला महाशान्तिर्महायोगिन्यधीश्वरो |
वज्रेश्वरी यशोदेति व्रजश्रीर्गोकुलेश्वरी || ५-१४२ ||

काञ्च्यां कनककाञ्ची स्यादवन्त्यामतिपावनी |
विद्या विद्यापुरे चैव विमला नीलपर्वते || ५-१४३ ||

राजेशे श्वेतगङ्गेशी विमला पुरुषोत्तमे |
विरजा याग(पू?पु)र्यां च भद्रेशे भद्रकर्णिका || ५-१४४ ||

तमोलिप्ते तमोघ्नी च स्वाहा सागरसंगमे |
कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया || ५-१४५ ||

मङ्गला मङ्गले कोटे राढे मङ्गलचण्डिका |
ज्वालामुखी शिवापीठे मन्दारे भुवनेश्वरी || ५-१४६ ||

कालीघट्टे गुह्यकाली किरीटे च महेश्वरी |
किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी || ५-१४७ ||

साक्षात् सर्वत्र भक्तानामभक्तानां कुतोऽपि न |
अथान्यत् संप्रवक्ष्यामि सिद्धिस्थानानि सुन्दरि || ५-१४८ ||

सर्वपापविनाशा(र्थि?य)सर्वसिद्धिप्रदानि च |
निर्मितानि शिवेनेह सि(द्ध?द्धि)स्थानानि यानि च || ५-१४९ ||

श्रुत्वा मनसि भाव्यानि प्रकाशान्यधिकारिषु |
अमरेशमहापीठे ईश ओंकारसंज्ञकः || ५-१५० ||

तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी |
प्रभासे सोमनाथादौ देवी च पुष्करेक्षणा || ५-१५१ ||

देवदेवाधिपः शम्भुर्नैमिषे च महेश्वरः |
तत्र प्रज्ञा च देवी च भवानी लिङ्गधारिणी || ५-१५२ ||

पुष्करे च राजगन्धिः पुरुहूता महेश्वरी |
श्रीपर्वते प्रियं नाम शङ्करस्त्रिपुरान्तकः || ५-१५३ ||

मायापि शङ्करी तत्र भक्तानामखिलार्थदा |
जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी || ५-१५४ ||

त्रिशूलः शङ्करस्तत्र सर्वपापविमोचकः |
आम्रातकपुरे सूक्ष्मः सूक्ष्माख्या परमेश्वरी || ५-१५५ ||

महाकाले महाकालो महाकाली महेश्वरी |
मध्ये शिवश्च सर्वत्र शर्वाणी परमेश्वरी || ५-१५६ ||

केदारेश्वर ईशानो देवी सन्मार्गदायिनि |
भैरवे भैरवः शम्भुर्भैरवी परमेश्वरी || ५-१५७ ||

गणक्षेत्रे मङ्गलाख्या शिवोऽहं प्रपितामहः |
कुरुक्षेत्रे शिवः स्थाणुः शिवा स्थाणुप्रिया परा || ५-१५८ ||

इष्टलाभे स्वयंभूश्च देवी स्वायम्भवा मता |
उग्रः कनखले प्रोक्तः शिवोग्रा शिववल्लभा || ५-१५९ ||

विमलेश्वरे विश्वस्तु विश्वा विश्वप्रिया सदा |
अट्टहासे महानन्दो महानन्दा महेश्वरी || ५-१६० ||

महान्तको महेन्द्रे च पार्वती च महान्तका |
भीमेश्वरो भीमपीठे शिवा भीमेश्वरी तथा || ५-१६१ ||

वस्त्रपादे भवो नाम भवानी भुवनेश्वरी |
अद्रिकूटे महायोगी रुद्राणी परमेश्वरी || ५-१६२ ||

अविमुक्ते महादेवो विशालाक्षी शिवा परा |
महालये हरो रुद्रो महाभागा शिवा तथा || ५-१६३ ||

महाबलश्च गोकर्णे शिवा [भद्रा च इति पाठान्तरम् |]ज्ञेया च चण्डिका |
भद्रवर्णे महादेवो भद्रा च कर्णिका तथा || ५-१६४ ||

सुवर्णाख्ये सहस्राक्ष उत्पला परमेश्वरी |
स्थाणुसङ्गे शिवः स्थाण्विश्वरः स्थाण्वीश्वरा शिवा || ५-१६५ ||

कमलालये म(हास्नाने?हेशानो)कमलाक्षो महेश्वरः |
कमलाक्षी महेशानी सकलार्थप्रदायिनी || ५-१६६ ||

छगलाण्डे कपर्दी च प्रसरा च महेश्वरी |
ऊर्ध्वरेता द्विरण्डे च सन्ध्याख्या परमेश्वरी || ५-१६७ ||

माकोटाख्ये महाकोटः शिवा च मुण्डकेश्वरी |
मण्डलेश्वरपीठे च शङ्करः खाण्डवी शिवा || ५-१६८ ||

कालञ्जरे नीलकण्ठो हरकाली शिवा मता |
स्थाण्वीश्व(रो?रे)स्थलो नाम्ना स्थलाख्या परमेश्वरी || ५-१६९ ||

श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः |
शिवः सभापतिर्नाम यत्र नृत्यति शङ्करः || ५-१७० ||

आत्मानन्दमहामोदपूर्णानन्दमहार्णवम् |
नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति || ५-१७१ ||

यत्र आशु महादेवो भक्तानां वरदो भवेत् |
नृत्यन्तं यत्र देवेशं वीक्ष्य लोको विमुच्यते || ५-१७२ ||

पुण्यस्थानेषु सर्वेषु स्थानमेतन्महोत्तमम् |
यत्र कर्माणि सर्वाणि अक्षयाणि भवन्ति वै || ५-१७३ ||

अस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यमद्भुतम् |
तटाकमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः || ५-१७४ ||

तटाकेऽस्मिन् वसन् स्नात्वा सभानाथं समीक्ष्य च |
अष्टोत्तरसहस्रं तु जपेच्छ्रद्धासमन्वितः || ५-१७५ ||

यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः |
पितरः सिद्धगन्धर्वाः सिद्धयः सर्वसिद्धिदाः || ५-१७६ ||

अत्र दत्तं हुतं जप्तं स्नानमक्षयपुण्यदम् |
यद्यत् प्रकीर्तितं नाम तेनैव परिपूज्य च || ५-१७७ ||

प्रणवादिहृदन्तेन लभतेऽभीष्टमुत्तमम् |
भोजयेद् ब्राह्मणान् योऽत्र सोऽक्षयं फलमश्नुते || ५-१७८ ||

इह नानासुखं भुक्त्वा हरगौरीपुरं व्रजेत् |
शोकदुःखविनाशाय करुणानिधिरीश्वरः || ५-१७९ ||

निर्ममे सर्वसंपत्तौ पुण्यक्षेत्राणि भूतले |
अनेकपुण्यशुद्धानामनेककालसाधनैः || ५-१८० ||

आस्तिकानां भवेदत्र निवासः साधनं श्रुतिः [रतिः इति पाठान्तरम् |] |
तस्माद्यत्नेन कर्तव्यमत्र साधनमुत्तमैः || ५-१८१ ||

इदानीं शृणु चार्वङ्गि पीठं सर्वाङ्गसुन्दरम् |
अक्षमालामयं पीठं(ब्रूहि?विद्धि)मे परमेश्वरि || ५-१८२ ||

यत्र सिद्ध्यन्ति कार्याणि स्थितिस्ते शङ्करस्य च |
विष्णोरगाधबोधस्य तत्क्रियाया महेश्वरि || ५-१८३ ||

अन्येषां चैव देवानां युष्मत्पदनिवासिनाम् |
प्रसादो हि भवत्याशु तत्र मे प्रीतिरुत्तमा || ५-१८४ ||

प्रिये ते कथयिष्यामि अक्षमालात्मकं परम् |
सान्निध्यं यत्र सर्वेषां तस्मादादि दिवौकसाम् || ५-१८५ ||

अस्माभिश्च महद्भिश्च यद्यत् स्थानमलंकृतम् |
तत्तन्महोत्तमं प्रोक्तं सर्वसिद्धिप्रदं प्रिये || ५-१८६ ||

महान्तो यत्र तिष्ठन्ति साधयन्ति परं पदम् |
तत् तन्महोत्तमं स्थानं सर्वं कल्याणदं प्रिये || ५-१८७ ||

अमरेशपुरं चैवासुरान्तकं पुरं तथा |
तत्तन्महोत्तमं स्थानं सर्वसिद्धिकरं नृणाम् || ५-१८८ ||

सतीभिः साधुभिः कान्ते यद्यत् स्थानमलंकृतम् |
अम्बिकापीठमत्यन्तमनन्तपुरमेव च || ५-१८९ ||

अनिरुद्धपुरं वेत्सि तथादितिपुरं परम् |
अणिमादिपुरं चैव अश्वमेधपुरं परम् || ५-१९० ||

अन्नपूर्णामहापीठमम्बुजाख्यपुरं तथा |
आदिपीठानन्दपीठौ चामोदावादिसूकरौ || ५-१९१ ||

आशु सिद्धिपुरं चैव यथाद्यन्तपुरं मुखम् |
अकम्पादित्यपीठा च आद्यादिनाथपीठकौ || ५-१९२ ||

इष्टनामपुरं चैव इन्दिरापुरमेव च |
इलोदयगिरिश्चैव इलान्तेन्दुपुरे प्रिये || ५-१९३ ||

इन्द्राणीन्द्रेश्वरश्चैव इन्द्रानन्दपुरं तथा |
पुरमिन्दुवती नाम तथेन्दुविजयं पुरम् || ५-१९४ ||

ईश्वरीश्वरयोगौ च ईशानन्देश्वरीपुरम् |
ईशान्यैशपुरं देवि कथितं पीठमुत्तमम् || ५-१९५ ||

कामरूपं प्रियं वाराणसी नैपालमेव च |
पौण्डवर्द्धनपीठं च पौरक्यं कान्यकुब्जकम् || ५-१९६ ||

पुण्याद्रिमर्बुदं चैव एकाम्राम्रातकेश्वरम् |
त्रिस्रोतः [त्रैपुरं ख पाठः |] कामकोटं च तथा भृगुपुरं वरम् || ५-१९७ ||

कैलासपीठं केदारं शुभं चन्द्रपुरं तथा |
श्रीपुरं च तथा कन्यापुरं जालन्धरं तथा || ५-१९८ ||

मालवं बिल्वपीठं [च कुलान्तं च ख पाठः |] च देवीकोटं तथैव च |
गोकर्णं मारुतेशं च तथाट्टहासमेव च || ५-१९९ ||

कोल्लानामकगोत्रं च एलापुरमतिप्रियम् |
महापथपुरं चैव ओंकारपुरमेव च || ५-२०० ||

जयदं च जयपुरमुज्जयिनीपुरं तथा |
हरिद्रापीठकं चैव प्रियं क्षीरपुरं प्रियम् || ५-२०१ ||

गजाह्वयपुरं चैव उड्डीशपुरमेव च |
प्रयागं च तथा षष्ठीपुरमेव शिवप्रदम् || ५-२०२ ||

मायापुरमतिश्रेष्ठं पुरं च सौरभेश्वरम् [परमेश्वरं जलेश्वरं ख |] |
श्रीशैलं मेरुपीठं च मलयं च महागिरिम् || ५-२०३ ||

महेन्द्रपुरपीठं च तथा बलिपुरं प्रियम् |
हिरण्यपुरपीठं च महालक्ष्मीपुरं तथा || ५-२०४ ||

चण्ड्.ईपुरमतिश्रेष्ठं तथा छायापुरं प्रिये |
ज्ञात्वा पीठमिदं देवि मद्भक्तेषु प्रकाशय || ५-२०५ ||

समुद्धर इमा/ल्लोकान् मत्सम्बन्धविधानतः |
संसारानलसंतप्तान् चिन्तावायुविघूर्णितान् || ५-२०६ ||

कृपयामृतवर्षिण्या अभिषिच्योद्धर प्रिये |
पुण्यमस्ति महत् कान्ते यशोऽप्यस्ति महत्सुखम् || ५-२०७ ||

महाजनप्रसादोऽस्ति मत्प्रीतिर्लोकरक्षणे |
मत्प्रसङ्गो मदालापो मत्सवो मदनुग्रहः || ५-२०८ ||

मत्कर्म मम सम्बन्धो मन्नाम मम चिन्तनम् |
मत्कथा मदनुध्यानं मदावेशो मदर्चना || ५-२०९ ||

मदीक्षणं मदैक्यं च मन्मतिर्मन्नतिः स्तुतिः |
मद्गानं मे पुरे नाट्यं मत्कर्मोद्योग एव च || ५-२१० ||

मन्नाम वै मन्मनवो मच्चेष्टा मत्प्रियस्पृहा |
एकेनैव कृतार्थश्च मदनुग्रहभाग् भवेत् || ५-२११ ||

यदिच्छेत् तीर्थपीठेषु तदाशु लभते प्रियम् |
मन्मन्त्रग्रहणादेव निष्पापो जायते पुनः || ५-२१२ ||

साधनाल्लभते सिद्धिः सिद्धक्षेत्रेष्वदीर्घतः |
मन्मनुग्रहणं (न्यू?नू)नं मत्तोषकारणं परम् || ५-२१३ ||

गृहीत्वा नार्चयेद्यस्तु न जाने किं स मे पुनः |
स्वर्गतः सुरवृक्षोऽपि न वै भवति कामदः || ५-२१४ ||

नाश्रयेद्यदि तन्मूलं को दोषस्तस्य तत् प्रिये |
चिन्तामणिर्गृहेऽप्यस्ति न तत्र कापि च स्पृहा || ५-२१५ ||

को दोषस्तस्य यत्नेन सिध्यन्ति सकलाः क्रियाः |
तस्माद्यत् कथितं तुभ्यं तत्र यत्नः फलप्रदः || ५-२१६ ||

विना यत्नेन किं किं स्यान्न जाने विजये सखि |
सन्ति तीर्थानि सर्वाणि भास्करोऽयं हुताशनः || ५-२१७ ||

तारकाश्चन्द्रमा ज्योतिर्जलदा जलमेव च |
वसुधादिग्रहा येऽन्ये दिशो विदिश एव च || ५-२१८ ||

तुलसी ब्राह्मणाश्चैव पुराणानि बहूनि च |
शैवाश्च वैष्णवाश्चैव सारो धर्मः सनातनः || ५-२१९ ||

मद्भक्त्यवितथश्रद्धाशरणाश्च निरन्तरम् |
उपाया विविधाः सन्ति स्वपरित्राणहेतवः || ५-२२० ||

तथापि न यतन्तेऽहो तथा चेच्छन्ति किल्विषम् |
राजकोपप्रशभार्थे किं किं न स्यात्तदर्थिनः || ५-२२१ ||

सुखदुःखोपभोगश्च देशाद् देशान्तरं तथा |
प्राप्याप्राप्ये तथा वस्तू दिवा रात्रिस्तथैव च || ५-२२२ ||

इन्द्रियस्पर्शभोगाश्च मेध्यामेध्यं च दर्शने |
यत्नायत्नकृतं कार्यं सिक्तासिक्तमहोदधिः || ५-२२३ ||

भुक्ताभुक्तशरीरं तु सुवेशश्च कुवेशकः |
प्रियवागप्रियवाक् च दूरं निकटमेव च || ५-२२४ ||

सुखं दुःखं तथा यच्च नानाकर्म प्रियाप्रियम् |
सर्वेषां ह्रासवृद्धी च वपुषां निर्गमागमौ || ५-२२५ ||

धनानां स्थितिनाशौ च गन्धानां च क्षयस्थिती |
वयोयौवनरूपाणां प्रक्रमं सर्वमेव च || ५-२२६ ||

पश्यन्तोऽपि न पश्यन्तो ज्ञानिनोऽज्ञानिनः सदा |
तस्माच्छ्रद्धामयं मन्त्रं(सर्वं)श्रद्धा हि भावसिद्धिदा || ५-२२७ ||

अस्मासु भावना यस्य सोऽस्मासु प्रतिपद्यते |
तस्मात् साधुपदे सद्भिर्गन्तव्यमतियत्नतः || ५-२२८ ||

प्रमादादपि नासाधुपथे वै ज्ञानदृष्टिभिः |
इति सर्वं समालोच्य यथार्थं बुद्ध्य पण्डिते || ५-२२९ ||

आचर स्वं प्रियं धर्मं प्रवर्तय शुचिव्रतम् |
मत्पदाम्बुजसेवासु व्रजन्तु मम सन्निधिम् || ५-२३० ||

क्रीडन्तु मज्जनैः सार्धं प्राप्नुयुः परनिर्वृतिम् |
एतैर्मदुपदेशैस्त्वं शृणु वार्तां महामते || ५-२३१ ||

त्वत्प्रसादादिमे लोकाः सूरिणः स्युर्महाप्रिये |
अत्र ते प्रियनामानि शृणुष्व नगनन्दिनि || ५-२३२ ||

कामेशा कामरूपे त्वं पूर्णा काश्यां विमुक्तिदा |
नेपाले पुण्यदा पुण्या सुवेशा पौण्ड्रवर्द्धने || ५-२३३ ||

धर्मबुद्धिः सुधा चैव सुखदा पापमोचनी |
[पारस्ये ख पाठः |] पौरक्ये परमानन्दा ब्रह्माणी कान्यकुब्जके || ५-२३४ ||

पुण्याद्रौ च महापुण्या पूर्णा यज्ञफलेश्वरी |
कात्यायन्यर्बुदे देवि धनदा शिववल्लभा || ५-२३५ ||

एका चैकाम्रके देशे सुरूपेशाम्रकेश्वरे |
त्रिपुरे [त्रिस्रोतसि ख पाठः |] सुन्दरी दिव्यरूपाखिलमनोहरा || ५-२३६ ||

कामकोटे महापीठे प्रमदा मदनालसा |
कामेश्वरी रतिश्चैव भृगुपुर्यां व्रजेश्वरी || ५-२३७ ||

वृक्षेशा च तपोलक्ष्मीः कैलासे भुवनेश्वरी |
केदारे वरदा चैवामृता चन्द्रपुरे सिता || ५-२३८ ||

कलावती प्रभेशा च श्रीपुरे श्रीरमा प्रिया |
कुमारी ब्रह्मचर्या च कन्या च कन्यकापुरे || ५-२३९ ||

जालन्धरे महापीठे नागर्याग्निमुखी शुभा |
ज्वालामुखी लोलजिह्वा सुवेशा च सुरङ्गिणी || ५-२४० ||

मालवे च महाविद्या बिल्वपीठे च रूपिणी |
रूपवति महादेवी देवीकोटेऽखिलेश्वरी || ५-२४१ ||

गोकर्णे प्रियपीठे त्वं रुद्राणी सर्वमङ्गला |
पवने हरपीठे च गन्धश्रीश्च सुगन्धिका || ५-२४२ ||

अट्टहासे महापीठे भीमकाली च कालिका |
विरजे मुक्तिहेतुश्च नमः स्वस्ति सुधामयी || ५-२४३ ||

जयश्री राजलक्ष्मीश्च सुवेशा राजपर्वते |
एलापुरे महासंपत् माहेश्वरी महापथे || ५-२४४ ||

गायत्री ब्रह्मरूपा च तत्सदोङ्कारपीठके |
जया जयपुरे देवी जयदा जयमङ्गला || ५-२४५ ||

विजया मङ्गला गौरी उज्जयिन्यां सदा शिवा |
गौरीश्वरी महादेवी हारद्रापीठके शिवा || ५-२४६ ||

क्षीरपीठे युगाद्या च क्षीराख्या नियमप्रभा |
राजेश्वरी महालक्ष्मीर्हस्तिनापुरवासिनी || ५-२४७ ||

कमला विमला भक्ती रौद्री च नीलपर्वते |
यागेश्वरी त्रिवेण्यां [त्रिवेणी ख पाठः |] च त्रिःस्रोता ब्रह्मरूपिणी || ५-२४८ ||

सिन्धुस्थ(ली?ले)कामधेनुः षष्ठी षष्ठीपुरे प्रिये |
माया मायापुरे देवी सुरभी सौरभेश्वरे || ५-२४९ ||

विलासिनी महानन्दा प्रियचन्दनपर्वते |
महाव्रजेश्वरी श्रेष्ठा शमनेश्वरपीठके || ५-२५० ||

भवानी भवभक्ता च श्रीशैले शिववल्लभा |
देवता या स्वर्गलक्ष्मीः कनकामरपर्वते || ५-२५१ ||

उमा गौरी सती सत्या पार्वती हिमपर्वते |
इन्द्रेश्वरी सुराराध्या माहेन्द्रे जगदीश्वरी || ५-२५२ ||

अल्लाभोगेश्वरी नित्या श्रीमद्वलिपुरे शिवा |
सुवर्णा कनका वामा हिरण्यपुरपीठके || ५-२५३ ||

महालक्ष्मीर्महेशानी महालक्ष्मीपुरेऽम्बिका |
चण्डीपुरे [चण्डा ख पाठः |] प्रचण्डा च चण्डा चण्डवती शिवा || ५-२५४ ||

छत्रे मेघस्वना चैव माया च्छत्रेश्वरी तथा |
कालीघट्टे महापीठे काली कालात्मिका तथा || ५-२५५ ||

लिङ्गाख्ये भैरवी विद्या विजया जाह्नवीतटे |
इति ते कथितं दिव्यं पीठक्रममुदाहृतम् || ५-२५६ ||

अतिगुह्यं महेशानि कथितं देववन्दिते [सुरगणार्चिते इत्यपि पाठः |] |
मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय || ५-२५७ ||

तेषां भाग्यवशेनैव कथितं मन्मुखोदितम् |
अकथ्यं कथितं भद्रे अतिप्रियतमे शिवे || ५-२५८ ||

सारात् सारतरं सर्वं कथितं तव सुन्दरि |

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे नैमित्तिकार्चन पीठ तदीश्वरीवर्णनं पञ्चमः पटलः || ५ ||


Kapitel 6: Kula-Verehrung und Shakta-Praxis

श्रीदेव्युवाच |

भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद |
इदानीं श्रोतुमिच्छामि पूजनं कुलपूजनम् || ६-१ ||

यत्कृ(ते?त्वा)साधको वीरः सद्यो मोक्षमवाप्नुयात् |
एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र भैरव |
कथयस्व महादेव यदि स्नेहोऽस्ति मां प्रति || ६-२ ||

श्रीभैरव उवाच |

कथितव्यं महापुण्यं विस्तरेण तपोधने |
सर्व एव सुराः पूज्याः सत्यं ब्रह्मादयः शिवे || ६-३ ||

एका चेद्युवती तत्र पूजिता चावलोकिता |
स(र्वत्रै?र्वा ए)व परादेव्यः पूजिताः कुलभैरवि || ६-४ ||

आदावन्ते च मध्ये च सा हि पूज्या [लक्षपूर्तौ ख पाठः |] विशेषतः |
न पूजयति चेत् कान्तां बहु[तदा ख पाठः |]विघ्नैर्विलिप्यते || ६-५ ||

पूर्वार्जितफलं नास्ति का कथा परसाधने [पूजने ख पाठः |] |
नवशक्तिर्महेशानि पञ्चशक्तिश्च भैरवि || ६-६ ||

पूजिता विगुणं सर्वं सगुणं कारयेद्यतः |
पृथिवीं सस्यसंपन्नां ब्राह्मन्णे वेदपारगे || ६-७ ||

दत्त्वा यत्फलमाप्नोति तत्फलं कौलिकार्चनात् |
अन्नदानं सहस्रेभ्यः शतेभ्यो यज्वनामपि || ६-८ ||

तेषां भोजनदानेन तत्फलं कौलिकार्चनात् |
वापीकूपतडागानि कृत्वा च शिवकृष्णयोः || ६-९ ||

दानाद् यत् फलमाप्नोति तत्फलं कौलिकार्चनात् |
यदि भाग्यवशेनैव वारमेकं प्रपूजयेत् || ६-१० ||

कृता(र्थो?र्था)स्ते हि निस्तीर्णा यान्ति देवीपुरे स्वयम् |
पुरश्चरणकालेऽपि यदि स्यात् पीठपूजनम् || ६-११ ||

तत्रैव पीठपूजा सा मनसापि न हीयते |
देवीकोटे महाभागा उड्डियाने च भैरवी || ६-१२ ||

योनिमुद्रा [योगनिद्रा ख पाठः |] कामरूपे महिषासुरमर्दिनी |
कात्यायनी कामभूमौ कामाख्या कामरूपिणी || ६-१३ ||

जालन्धरी च पूर्णेशी पूर्णशैले च चण्डिका |
कामरूपे ततो देवी पूज्या दिक्केरवासिनी || ६-१४ ||

अथवा कामरूपस्य दर्शनं यदि भाग्यतः |
तदा भगादिदेवीनां पूजा तत्र विधीयते || ६-१५ ||

यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते |
तदैव मानसीं तत्र तासां च संप्रकल्पयेत् || ६-१६ ||

भगिनीं भगजिह्वां च भगास्यां भगमालिनीम् |
भगिनीं च भगाक्षीं च भगकर्णां भगत्वचम् || ६-१७ ||

भगनासां भगस्तनीं भगस्थां भगसर्पिणीम् |
तत्र संपूज्य गन्धाद्यैर्मानसैर्गुरुमेव च || ६-१८ ||

नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः |
द्वादश्यां पूजयेद्विष्णुं चतुर्दश्यामुमापतिम् || ६-१९ ||

अष्टम्यां पूजयेच्छक्तिं सर्वसिद्धिप्रदां किल |
केशसंस्कारकर्माणि कारयेत् सर्वदा प्रिये || ६-२० ||

आदावानीय देवेशि स्वकान्तां वा परस्त्रियम् |
प्रथमं चासनं दत्त्वा पाद्यं दद्यात् ततः परम् || ६-२१ ||

अर्घ्यं दद्यान्महेशानि यथोक्तविधिना शिवे |
आचमनीयं च तथा दद्याच्च सुधया प्रिये || ६-२२ ||

स्नानीयं परमेशानि वौषडन्तेन दापयेत् |
गन्धं दद्यान्महेशानि गन्धानामष्टकं तथा || ६-२३ ||

पुष्पं दद्याद्वरारोहे गन्धयुक्तं मनोहरम् |
धूपं गुग्गुलुना दद्यात् महादैव्यै मनोहरम् || ६-२४ ||

दीपं च सर्पिषा दद्यात् ताम्राधारं सुशोभनम् |
नैवेद्यं परमं दद्यात् सुस्वादु सुमनोहरम् || ६-२५ ||

नानाद्रव्ययुतं दद्यान्नारिकेलयुतं तथा |
रम्भाफलं बीजपूरं श्रीफलं श्रीनिकेतनम् || ६-२६ ||

मधु दद्यान्महेशानि पलद्वयमितं शुभे |
घृतं दद्यान्महेशानि नूतनं पलमानतः || ६-२७ ||

नानोपहारसंयुक्तं दधिदुग्धयुतं तथा |
ताम्बूलं परमं दद्यात् सुस्वादु च सुवासितम् || ६-२८ ||

कर्पूरादिसमायुक्तं गुवाकेन समन्वितम् |
चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्महेश्वरि || ६-२९ ||

जलं दद्याद्वरारोहे कर्पूरादिसुवासितम् |
यद्यदिच्छति तस्मिन् वै काले सुरगणार्चिते || ६-३० ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३१ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३२ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३३ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३४ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३५ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३६ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३७ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३८ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-३९ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-४० ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-४१ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-४२ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-४३ ||

[Nichtgrafische Inhaltsangabe: altersbezogene und sexualisierte Ritualanweisungen; Sanskritpassage nicht wiedergegeben.] || ६-४४ ||

काली तारा महाविद्या त्रिपुरार्णा महेश्वरी |
एतासां भैरवीणां च प्रयोगात् सिद्धिमाप्नुयात् || ६-४५ ||

बलिं दद्यान्महेशानि सन्ध्याकाले शिवालये |
अदत्त्वा च महादेवि बलिं सर्वहितं प्रिये || ६-४६ ||

............................................................ |
शिवायै च बलिं दद्यात् सर्वयत्नपुरःस(रैः?रम्) |
अन्यथा सिद्धिहानिः स्यान्नात्र कार्या विचारणा || ६-४७ ||

प्रान्तरे बिल्वमूले वा श्मशाने वापि साधकः |
निर्जने वा वने घोरे हर्म्ये वा प्रङ्गणेऽपि वा || ६-४८ ||

भित्त्यधो वा महेशानि बलिं दद्याद् विधानतः |
मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् || ६-४९ ||

कालि कालीति वक्तव्ये [व्या ख पाठः |] तत्र सा शिवरूपिणी |
पशुरूपा समायाति परिवारगणैः सह || ६-५० ||

भुक्त्वा रौति यदैशान्यां वायव्यां सुरवन्दिते |
ऐशान्यां सुखसंपत्तिर्वायवी भोगमोक्षदा || ६-५१ ||

तदैव मङ्गलं तेषां भवत्येव न संशयः |
अवश्यमन्नदानेन नियतं [नित्यं संतोषयेत् ख पाठः |] तोषयेच्छिवाम् || ६-५२ ||

(नित्यश्राद्धं यथा सन्ध्यावन्दनं पितृतर्पणम् |
तथेयं कुलदेवीनां नित्यता कुलपूजने || ६-५३ ||

पशुरूपां शिवां देवीं यो नार्चयति निर्जने) |
जपपूजाविधानानि यत् किञ्चित् सुकृतानि च || ६-५४ ||

गृहीत्वा शापमादाय शिवा रोदिति निर्जने |
शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् || ६-५५ ||

एकया भुज्यते यत्र शिवया देवि भैरवि |
तत्रैव सर्वदेवानां प्रीतिः परमदुर्लभा || ६-५६ ||

पशुशक्तिर्नरशक्तिः पक्षिशक्तिश्च भैरवि |
पूजिता द्विगुणं [विगुणं कर्म सगुणं साधयेद् ध्रुवम् ख पाठः |] कर्म साधयेत् परमेश्वरि || ६-५७ ||

तेन सर्वं प्रयत्नेन कर्तव्यं पूजनं महत् |
राजादिभयमापन्ने देशान्तरभयादिके || ६-५८ ||

अशुभानि च कर्माणि विचिन्त्य बलिमाहरेत् |
बलिमन्त्रं प्रवक्ष्यामि सावधानावधारय || ६-५९ ||

येन सिद्ध्यति सर्वेशि नास्ति कालस्य निश्चयः |
आदौ कालीं समुद्धृत्य शिवे चेति ततः परम् || ६-६० ||

सर्वरूपधरे पश्चात् आगछेति पदद्वयम् |
मम शब्दं ततो ब्रूयात् बलि शब्दं ततः परम् || ६-६१ ||

गृह्ण गृह्णेति द्वन्द्वं च वह्निजायावधिमनुः |
मन्त्रेणानेन देवेशि बलिं दत्त्वा मनोहरम् || ६-६२ ||

सर्वपापैः प्रमुच्येत सत्यं सत्यं महेश्वरि |
मन्त्रान्तरं प्रवक्ष्यामि बल्यर्थं यन्मनोहरम् || ६-६३ ||

गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि |
शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव || ६-६४ ||

एवमुच्चार्य दातव्यो बलिः कुलजनप्रियः |
यदा न भुज्यते देवि तदा नैव शुभं भवेत् || ६-६५ ||

शुभं यदि भवेत् तत्र भुज्यते तदशेषतः |
एवं ज्ञात्वा महादेवि शान्तिं स्वस्त्ययनं चरेत् || ६-६६ ||

इति ते कथितं देवि नैमित्तिकविधिं शिवे |
यत्कृते साधको वीरो जायते च निरापदः || ६-६७ ||

अथ वक्ष्ये महेशानि शाक्ताचारक्रमं शुभम् |
शाक्तानां कुलसर्वस्वं जानीहि नगनन्दिनि || ६-६८ ||

प्रातरुत्थाय मन्त्रज्ञः कुलवृक्षं प्रणम्य च |
शिरःपद्मे गुरुं ध्यात्वा तत्सुधाप्लावितं स्मरेत् || ६-६९ ||

मानसैरुपचारैस्तु तमाराध्य निरामयः |
मुलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् || ६-७० ||

सूर्यकोटिप्रतीकाशां सुधाप्लावितविग्रहाम् |
तत्प्रभापटलव्याप्तं स्वशरीरं विचिन्तयेत् || ६-७१ ||

श्लेष्मातक-करञ्जाक्ष-निम्बाश्वत्थकदम्बकाः |
बिल्वो वाप्यथवाऽशोक इत्यष्टौ कुलपादपाः || ६-७२ ||

एवं ते कथितं भद्रे तन्त्रेऽन्यस्मिन् महेश्वरि |
बालां वा यौवनोन्मत्तां वृद्धां वा कुलसुन्दरीम् || ६-७३ ||

कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् |
तासां प्रहारो निन्दा वा कौटिल्यमप्रियं तथा || ६-७४ ||

सर्वथा च न कर्तव्यमन्यथा सिद्धिरोधकः |
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् || ६-७५ ||

स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि |
विपरीतरता सा तु भाविता हृदयोपरि || ६-७६ ||

तद्धस्थावचितं द्रव्यं तद्धस्तावचितं जलम् |
तद्धस्तावचितं भोज्यं देवताभ्यो निवेदयेत् || ६-७७ ||

अन्यमन्त्रपुरस्कारं निन्दां चैव विवर्जयेत् |
एतद् ब्रह्म तदेवैतन्नाहं वस्तु न सोऽपि च || ६-७८ ||

नानाचारं न कर्तव्यं नाचारणमितस्ततः |
प्रायश्चित्तं भृगोः पातं तीर्थाभिगमनं तथा || ६-७९ ||

पिण्डं वेदोदितं न्यासं कौले पञ्च विवर्जयेत् |
भूतहिंसा न कर्तव्या पशुहिंसा विशेषतः || ६-८० ||

बलिदानं विना देव्या हिंसां सर्वत्र वर्जयेत् |
बलिदानाय या हिंसा दोषाय प्रकीर्तिता || ६-८१ ||

बलिदानाय हिंस्याच्च सदा देवि महापशून् |
इति वेदविदां देवि सिद्धान्तः सर्वसंमतः || ६-८२ ||

वेदसंमतसिद्धन्तः स ममापि च संमतः |
पशुयागे महेशानि पशुं हन्यान्न संशयः || ६-८३ ||

सा हिंसा निन्दिता वेदैर्या च वैधेतरा भवेत् |
वैधहिंसा च कर्तव्या संशयो नास्ति कश्चन || ६-८४ ||

इदानीं शृणु चार्वङ्गि रहस्यं परमाद्भुतम् |
रहस्यं सर्वदेवीनां समयाचारलक्षणम् || ६-८५ ||

येन विना महेशानि न सिध्येन्मन्त्रमुत्तमम् |
कल्पकोटिजपेनापि तस्य सिद्धिर्न जायते || ६-८६ ||

मानवाः कुलशास्त्राणां कुलाचारानुचारिणाम् |
सिद्धाः स्युर्नास्ति संदेहो वैष्णवाचारतत्पराः || ६-८७ ||

परनिन्दासहिष्णुः स्यादुपकाररतः सदा |
पर्वते विजने वापि निर्जने शून्यमण्डले || ६-८८ ||

चतुष्पथे कलामध्ये यदि दैवान्महेश्वरि |
क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद् यथासुखम् || ६-८९ ||

गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादतन्द्रितः |
क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् || ६-९० ||

कुररं श्येनभूकाकौ कृष्णमार्जारमेव च |
कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये || ६-९१ ||

कुलाचारप्रसन्नास्ये नमस्ते शंकरप्रिये |
श्मशाने च शवं दृष्ट्वा प्रदक्षिणमनुव्रजन् || ६-९२ ||

प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात् |
घोरदंष्ट्रे करालास्ये [कठोराक्षि ख पाठः |] किटि शब्दनिनादिनि || ६-९३ ||

गुरुघोररवास्फाले नमस्ते चितिवासिनि |
रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुराम्बिकाम् || ६-९४ ||

प्रणम्य दण्डवद्भूमाविम मन्त्रं पठेन्नरः |
बन्धूकपुष्पसंकाशे त्रिपुरे भयनाशिनि || ६-९५ ||

भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनि |
कृष्णवर्णं तथा पुष्पं राजानं राजपुत्रकम् || ६-९६ ||

हस्त्यश्वरथशस्त्राणि करवीरं तथा शिवम् [फलकान् वीरपूरुषान् ख पाठः |] |
महिषं कुलनाथं च दृष्ट्वा महिषमर्दिनीम् || ६-९७ ||

प्रणम्य जयदुर्गां वा स तु विघ्नैर्न लिप्यते |
जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते || ६-९८ ||

भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तु ते |
मद्यभाण्डं समालोक्य मत्स्यमांसं वरस्त्रियम् || ६-९९ ||

दृष्ट्वा च भैरवीं देवीं प्रणम्य विन्यसेन्मनुम् [विमृशेत् ख पाठः |] |
घोरविघ्नविनाशाय कुलाचारसमृद्धये || ६-१०० ||

नमामि वरदे देवि मुण्डमालाविभूषिते |
रक्तधारासमाकीर्णे वरदे [र्णवदने ख पाठः |] त्वां नमाम्यहम् || ६- १०१ ||

सर्वविघ्नहरे देवि नमस्ते हरवल्लभे |
एतेषां दर्शनेनैव यदि नैवं प्रवर्तते || ६-१०२ ||

शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते |
एतेषां हिंसनोच्चाटमारणं वागुरादिभिः || ६-१०३ ||

क्रियते येन पापात्मा मद्भक्तः स कथं भवेत् |
प्रधानांशसमुद्भूता एते कुलजनप्रिये || ६-१०४ ||

डाकिन्यश्च महादेवि त्वदंशाः सर्वतो दिशः |
लब्धसिद्धिसमायोगो डाकिनीदर्शनं यदि || ६-१०५ ||

अथवा दानवानां च मद्भक्तानां विशेषतः |
वटुकानां देवतानां तस्य सिद्धिश्च जायते || ६-१०६ ||

परयोषां समालोक्य षोडशाब्दां मनोहराम् |
रक्तवस्त्रां मृगाक्षीं च प्रणम्य च मनुं जपेत् || ६-१०७ ||

अष्टोत्तरशतं जप्त्वा सिद्धिमाप्नोति निश्चितम् |
ततः सिद्धमनुर्मन्त्री सर्वकर्माणि साधयेत् || ६-१०८ ||

वैशाखे मासि देवेशि तृतीयाक्षयसंज्ञिता |
तस्यां चावाह्य विधिवत् कालिकां भुवनेश्वरीम् || ६-१०९ ||

प्रस्तुतिं कारयेद्विद्वान् सर्वकामफलप्रदाम् |
स्तुत्वा चावाह्य यत्नेन पूजयेत् परदेवताम् || ६-११० ||

चतुर्भुजां महादेवीं मुण्डमालाविभूषिताम् |
अभयं वरदं खड्गं मुण्डमालाधरां पराम् || ६-१११ ||

श्रीदेव्युवाच

भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग |
कालिकाया महादेव्याः पूजनं विस्तरेण तु || ६-११२ ||

गुप्तबीजं गुप्तमन्त्रं मूलाधारबहिष्क्रियाम् |
कथयस्व समासेन येन तुष्यामि शंकर || ६-११३ ||

(श्रीभैरव उवाच) |

मन्त्रन्यासं समाचर्य ऋष्यादिन्यासमाचरेत् |
आदौ च आसनं दत्त्वा पूजयेत् परदेवताम् || ६-११४ ||

अस्यां तिथौ महादेवि कालिकां यः प्रपूजयेत् |
तस्य सर्वार्थसिद्धिः स्यात् सर्वशत्रुक्षयो भवेत् || ६-११५ ||

राजानोऽन्ये महेशानि दासत्वं प्राप्नुयुर्लघु |
न पूजयति चेत्कालीं दम्भाद्वाप्यथ भैरवि || ६-११६ ||

सर्वनाशं करोत्याशु क्रुद्धा भवति कालिका |
तस्मात् सर्वप्रयत्नेन महाविभवविस्तरैः || ६-११७ ||

पूजयेत् परमेशानीं सर्वकामसमृद्धिदाम् |
महापूजां महादेवि यदि कुर्याद्वरानने || ६-११८ ||

तदैव महती सिद्धिर्भवत्येव न संशयः |
चतुर्वर्गस्य कामी हि पूजयेत् कालिकां मुदा || ६-११९ ||

प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद् बुधः |
न्यासजालं महादेव्याः शरीरे विनिवेश्य वै || ६-१२० ||

एवं च आत्मनो देहे न्यासजालं निवेशयेत् |
भूतशुद्धिं ततः कुर्यात् प्राणायामं चरेत् त्रिधा || ६-१२१ ||

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः |
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || ६-१२२ ||

विघ्नानुत्सार्य देवेशि पद्मं निर्माय यागवित् |
देवीसंमुखतो देवि ततः पूजां समारभेत् || ६-१२३ ||

रात्रौ गते तु प्रहरे प्रथमे सुरवन्दिते [सुरगणार्चिते इति पाठान्तरम् |] |
आसनं प्रथमं दद्यात् स्वागतं तदनन्तरम् || ६-१२४ ||

पाद्यार्घ्याचमनीयं च मधुपर्कं ततः परम् |
तथा चाचमनीयं च स्नानीयं च ततः परम् || ६-१२५ ||

वसनं रक्तकं दद्याद् रजताभरणं तथा |
गन्धपुष्पे महादेवि धूपदीपौ ततः परम् || ६-१२६ ||

नैवेद्यं त्रिविधं दद्यात् सुस्वादु सुमनोहरम् |
ताम्बूलं परमं हृद्यं दद्याद् देव्यै मनोहरम् || ६-१२७ ||

बलिदानं महादेव्यै कुर्यात् साधकसत्तमः |
छागं दद्यात् तथा मेषं महिषं गोधिकां तथा || ६-१२८ ||

कपोतं च महेशानि दद्याद् देव्यै मनोहरम् |
मधूदकं महादेव्यै शर्करादिविनिर्मितम् || ६-१२९ ||

ततः शत्रुबलिं राजा दद्यात् क्षीरेण निर्मितम् |
स्वयं छिन्द्यात् क्रोधदृष्ट्या प्रहारजनकेन च || ६-१३० ||

कोपेन च सकृद् देवि सत्यं सत्यं गणेश्वरि |
प्राणप्रतिष्ठां कृत्वा वै शत्रुनाम्ना महेश्वरि || ६-१३१ ||

शत्रुक्षयो महादेवि भवत्येव न संशयः |
मन्त्रं जप्त्वा विधानेन नमस्कुर्याच्छुचिस्मिते || ६-१३२ ||

वाद्यभाण्डं निवेद्यैव सर्वयत्नेन देशिकः |
ततः स साधको वीरो जायते नात्र संशयः || ६-१३३ ||

सन्दंशं परमं दद्याद् भृष्टद्रव्येण संयुतम् |
गुडक्षीरं मधु द्राक्षामिक्षुदण्डं पुरातनम् || ६-१३४ ||

रम्भाफलं बीजपूरं तथा च नारिकेलकम् |
मधुयुक्तं नारिकेलं शस्यं दद्यान्महेश्वरि || ६-१३५ ||

अवश्यं दापयेत् तत्तु देवीतोषो महान् भवेत् |
गुप्तमन्त्रं महेशानि जानीहि नगनन्दिनि || ६-१३६ ||

[मन्त्रस्तु ओं ह्रीं ह्रीं हूं हूं क्रीं क्रीं दक्षिणे कालिके क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ||] भुवनेशी द्वयं भद्रे कूर्चयुग्मं ततः परम् |
निजबीजद्वयं देवि दक्षिणे कालिकेति च || ६-१३७ ||

संहारक्रमयोगेन पूर्वबीजानि चोच्चरेत् |
वेदादिश्च महामन्त्रो वह्निजायावधिः स्मृतः || ६-१३८ ||

अस्मात् परतरं नास्ति कालीमन्त्रः परात्परः |
कल्पपादपनामायं भजतां कामदो मनुः || ६-१३९ ||

अतिप्रियत्वात् कथितो न प्रकाश्यं वरानने |
गुप्तबीजमिदं काल्याः सर्वतन्त्रेषु गोपितम् || ६-१४० ||

वश्यादि च महेशानि अनेन जायतेऽचिरात् |
अष्टोत्तरशतेनापि मूलाधारबहिष्क्रियाम् || ६-१४१ ||

कर्तुं च शक्यते देवि सिद्धो भवति तत्क्षणात् |
कलौ काली तथा तारा चान्नपूर्णा च सुन्दरी || ६-१४२ ||

एतासां सिद्धविद्यानां श्रीमन्त्रग्रहणादपि |
शिवत्वं जायते सुभ्रु संशयो नास्ति कश्चन || ६-१४३ ||

शीघ्रं सिद्ध्यन्ति मन्त्राश्च सत्यं सत्यं महेश्वरि |
माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्दशी || ६-१४४ ||

तस्यां संपूजयेत् तारां महाविभवविस्तरैः |
चक्रवर्ती महाराजा भवत्येव न संशयः || ६-१४५ ||

मार्गे मासि सिते पक्षे सप्तमी रविवल्लभा |
अन्नदां पूजयेद् भक्त्या पुत्रपौत्रसमन्वितः || ६-१४६ ||

लक्ष्मीः स्थिरायतेऽवश्यं यावच्च सचराचरम् |
तावत् तस्य गृहे लक्ष्मीर्वैकृत्यं परिवर्ज्य च || ६-१४७ ||

निश्चला च भवेद् देवि सत्यं सत्यं गणेश्वरि |
पूजा चास्या महेशानि कथिता तव सन्निधौ || ६-१४८ ||

अन्नदाकल्पके सम्यग् जानीहि गणसुन्दरि |
कार्तिके शुक्लपक्षस्य नवमी या सिता भवेत् || ६-१४९ ||

तस्यां पूज्या महेशानि सुन्दरी परदेवता |
सुन्दर्याः पटले सम्यक् पूजा च कथिता शुभे || ६-१५० ||

इति ते कथितं किञ्चित् नैमित्तं परमं शुभम् |
अन्यद् वक्ष्यामि देवेशि जायन्ते च निरापदः || ६-१५१ ||

इदानीं कथयिष्यामि काम्यानुष्ठानमुत्तमम् |
येनैव महता देवि सर्वविद्यामयो भवेत् || ६-१५२ ||

होमतर्पणपूजा च भावना जप एव च |
मन्त्रस्य साधनं चैव मारणोच्चाटने तथा || ६-१५३ ||

एतानि काम्यकर्माणि कुरुते साधकः सदा |
अर्धरात्रे शरत्कालो हेमन्तः स्यात् प्रभातके || ६-१५४ ||

पूर्वाह्णे च वसन्तः स्यात् मध्याह्ने ग्रीष्म एव च |
प्रावृट्कालोऽपराह्णे स्यात् प्रदोषः शिशिरः स्मृतः || ६-१५५ ||

उषायोगे च हेमन्तः प्रभाते शिशिरागमः |
प्रहरार्धे वसन्तश्च ग्रीष्मो मध्यन्दिनान्तरे || ६-१५६ ||

तुर्ययामे च वर्षाख्या शरदस्तंगते रवौ |
एतत्ते कथितं सुभ्रु कालानां नियमं शृणु || ६-१५७ ||

एवं ज्ञात्वा महेशानि सर्वकर्माणि कारयेत् |
शान्तिं पुष्टिं तथा वश्यमाकर्षोच्चाटनादिकम् || ६-१५८ ||

षट्कर्माणि प्रयुक्तानि निग्रहो मारणं तथा |
रोगकृत्याक्षयादीनां निरासः शान्तिरीरिता || ६-१५९ ||

पुष्टिर्धनजनादीनां वश्यादीनां च कथ्यते |
जनसंवननं चैवाकर्षणमात्मना कृतम् || ६-१६० ||

उच्चाटनादिकरणं निग्रहः परिकीर्तितः |
जनानां प्राणहरणं मारणं परिकीर्तितम् || ६-१६१ ||

सूर्यादयं समारभ्य घटिकादशकं क्रमात् |
ऋतवः स्युर्वसन्ताद्याश्चाहोरात्रं दिने दिने || ६-१६२ ||

वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः |
हेमन्तो शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि || ६-१६३ ||

शिशिरे स्तम्भनं प्रोक्तं विद्वेषे ग्रीष्म ईरितः |
प्रावृड्डुच्चाटने शस्ता शरन्मारणकर्मणि || ६-१६४ ||

वश्ये चाकर्षणे चैव रक्तवर्णं विभावयेत् |
निर्विषीकरणे शान्तौ पुष्टौ चाप्यायने सितम् || ६-१६५ ||

पीतं स्तम्भनकार्येषु धूम्रमुच्छाटने भवेत् |
उन्मादे शक्रगोपाभं कृष्णवर्णाभकं मृतौ || ६-१६६ ||

उत्थितं मारणे ध्येयं सुप्तमुच्चाटने स्मृतम् |
उपविष्टं सुरेशानि वश्यादौ परिचिन्तयेत् || ६-१६७ ||

आसीनं श्वेतवर्णं तु ज्ञेयं तु शान्ति(सात्वि)के शिवे |
वामपार्श्वस्थितं कृष्णं तामसं परिकीर्तितम् || ६-१६८ ||

सात्त्विकं मोक्षकामानां राजसं राज्यमिच्छताम् |
तामसं शत्रुनाशार्थं सर्वव्याधिनिवारकम् || ६-१६९ ||

मारणे विषसंहारे भूतग्रहनिवारणे |
उच्चाटने च विद्वेषे पञ्चवर्णं प्रयुज्यते || ६-१७० ||

मन्त्रान्ते नामसंस्थानं योग इत्यभिधीयते |
शान्तिके पौष्टिके वश्ये प्रायश्चित्तविशोधने || ६-१७१ ||

मोहने दीपने योगं प्रयुञ्जन्ति मनीषिणः |
स्तम्भनोच्चाटनोच्छेदविद्वेषेषु स चोच्यते || ६-१७२ ||

नाम्न आद्यन्तमध्ये च मन्त्रसांमुख्य उच्यते |
मन्त्राभिमुख्यकरणे सर्वपापप्रणाशने || ६-१७३ ||

ज्वर एष विषकृत्याशन्तिके स च उच्यते |
संमीलने स एवाथ मन्त्राणामक्षराणि च || ६-१७४ ||

एकैकान्तरितं मन्त्रग्रथनं तत् प्रकीर्तितम् |
यच्छान्तिके विधातव्यं नामाद्यन्ते यदा मनुः || ६-१७५ ||

तत्संपुटं भवेत् तत्तु कीलकं परिभाषितम् |
स्तम्भे मृत्युजये द्विष्टौ रक्षणादिषु संपुटः || ६-१७६ ||

द्वे द्वे मन्त्राक्षरे यत्र एकैकं साध्यनामकम् |
विदर्भ एष विज्ञेयो मुनिभिस्तन्त्रवेदिभिः || ६-१७७ ||

वह्निकार्ये जपेत् स्वाहा नमः सर्वत्र चार्चने |
शान्तिपुष्टिवशद्वेषमारणोच्चाटने तथा || ६-१७८ ||

सुधा स्वाहा वषट् हुं च वौषट् फटं क्रमान् न्यसेत् |
पद्मासनं महादेवि पौष्टिके समुदाहृतम् || ६-१७९ ||

वश्ये चैव महेशानि तथ च शान्तिके शिवे |
आसनं स्वस्तिकं प्रोक्तं साक्षात् सिद्धिकरं तथा || ६-१८० ||

आकृष्टौ च महेशानि कम्बलं समुदाहृतम् |
वीरासनं महेशानि विद्वेषे समुदाहृतम् || ६-१८१ ||

उच्चाटने मारणे च वीरासनं प्रशस्यते |
शान्तिपौष्टिकवश्ये च सुन्दरी शोभनाशया || ६-१८२ ||

सर्वाभरणसंदीप्ता प्राप्तकाममनोरथा |
ध्यातव्या देवता सम्यक् सुप्रसन्नाननाम्बुजा || ६-१८३ ||

आकर्षणे च तद्वत् स्यात् उच्चाटने प्रशस्यते |
साध्य आकर्षणे द्वेषे प्रथितं तन्त्रवेदिभिः || ६-१८४ ||

वर्जमानैर्जनैर्दान्तैर्ग्रथितस्तक्षकेण च |
उकारवयसाविष्टौ यक्ष उच्चाटने तथा || ६-१८५ ||

शिलयाक्रान्तितस्तत्त्वं तृणपानादिषु स्मरेत्(?) |
इदानीं शृणु चार्वङ्गि तिथीनां नियमं शुभे || ६-१८६ ||

पञ्चमी च द्वितीया च तृतीया सप्तमी तथा |
बुधेज्यवारसंयुक्ता शान्तिकर्मणि पूजिता || ६-१८७ ||

सप्तमी पौष्टिके शस्ता अष्टमी नवमी तथा |
दशम्येकदशी चैव भानुशुक्रादिसंयुता || ६-१८८ ||

आकर्षणेऽप्यमावास्या नवमी प्रतिपत्तथा |
पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि || ६-१८९ ||

कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारका |
उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः || ६-१९० ||

चतुर्दश्यष्टमी कृष्णा अमावास्या तथैव च |
मन्दसौरदिनोपेता शस्ता मारणकर्मणि || ६-१९१ ||

बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा |
पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि || ६-१९२ ||

शुभग्रहोदये कुर्यादशुभा अशुभोदये |
रौद्रकर्माणि रिक्तार्के मृत्युयोगे च मारणम् || ६-१९३ ||

होमतर्पणपूजा च भावना जप एव च |
मन्त्रस्य धारणा चैव मारणोत्सादने तथा || ६-१९४ ||

एतानि काम्यकर्माणि प्रयोगेऽन्यत् समर्चयेत् |
अथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् || ६-१९५ ||

येन विज्ञातमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात् |
प्रतिमां कारयेद् देवि पलेन रजतस्य च || ६-१९६ ||

पलार्धेन महेशानि साध्यस्य प्रतिमां शिवे |
हरितालं पलार्धं च हरिद्राचूर्णकं तथा || ६-१९७ ||

गर्तं कृत्वा सार्धहस्तं तत्र निक्षिप्य सुन्दरि |
रक्तासनं तत्र दत्त्वा वसेत् तद्गतमानसः || ६-१९८ ||

चतुर्दिक्षु महेशानि पताकां विनिवेशयेत् |
रक्तासने चोपविश्य पूर्वास्यो जपमाचरेत् || ६-१९९ ||

पूजाया नियमं देवि जानीहि नगनन्दिनि |
तिलपूर्णं घटं तत्र स्थापयेत् देवि देशिकः || ६-२०० ||

ताम्रपात्रं ततो न्यस्य प्रतिष्ठामाचरेत् ततः |
प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद् बुधः || ६-२०१ ||

अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् |
दशसाहस्रजप्येन प्रयोगार्हो भवेत् ततः || ६-२०२ ||

प्रणवं पूर्वमुच्चार्य मायाबीजं द्वितीयकम् |
कान्तं च लाकिनीयुक्तं वामकर्णेन्दुभूषितम् || ६-२०३ ||

ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् |
साध्यनाम ततो न्यस्य वशमानय तत्परम् || ६-२०४ ||

वह्निजायावधिर्मन्त्रो जपेद् दशसहस्रकम् |
दशांशादिप्रमाणेन होमादींश्च समाचरेत् || ६-२०५ ||

प्रातः स्नात्वा शुचिर्भूत्वा हविष्याशी जितेन्द्रियः |
प्रातः कालं समारभ्य जपेद् मध्यन्दिनावधि || ६-२०६ ||

जपे समाप्ते देवेशि हुनेद् दिने दिने शुभे |
जातीकुसुमहोमेन वशयेन्नात्र संशयः || ६-२०७ ||

कर्पूरमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् |
पूर्वं प्रणवमुद्धृत्य चामुण्डां प्रवदेत् ततः || ६-२०८ ||

तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि भैरवि |
अनेनैव विधानेन सन्तर्प्य परदेवताम् || ६-२०९ ||

सिद्धिप्रयोगो देवेशि जायते नात्र संशयः |
अभिषेकं ततः कुर्याद् भैरवि प्राणवल्लभे || ६-२१० ||

प्रणवं च महेशानि चामुण्डां तदनन्तरम् |
अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषेचयेत् || ६-२११ ||

तद्दशांशेन देवेशि ब्राह्मणान् भोजयेत् तदा |
एवं कृते महेशानि वशीकरणमुत्तमम् || ६-२१२ ||

जायते नात्र संदेहः सत्यं सुरगणार्चिते |
कामतुल्यश्च नारीणां रिपूणां शमनोपमः || ६-२१३ ||

यावज्जीवितपर्यन्तं स्मरबाण इवेश्वरि |
जायते नात्र संदेहः सत्यं सुरगणार्चिते || ६-२१४ ||

श्वेतापराजितामूलं पेषयेद् रोचनायुतम् |
शतेन मन्त्रितं कृत्वा तिलकं कारयेत् ततः || ६-२१५ ||

वशयेद् नात्र सन्देहः सत्यं सत्यं महेश्वरि |
चन्द्रसूर्यौ यदि वृथा तदा निष्फलभाग् भवेत् || ६-२१६ ||

रक्तवस्त्रेण चामुण्डां तोषयेद् बहुयत्नतः |
सुवर्णदक्षिणा देया वित्तानुसारतः प्रिये || ६-२१७ ||

आद्यन्ते महतीं पूजां कुर्यात् तस्य वरानने |
पञ्चदिनप्रयोगेण राजानं वशमानयेत् || ६-२१८ ||

तव प्रीत्यै महादेवि कथितं भुवि दुर्लभम् |
विद्वेषणं विशेषेण शृणुष्वैकमनाः प्रिये || ६-२१९ ||

करञ्जकविषेणैव तथा धत्तूरकेण च |
काकोलूकौ सदा लेख्यौ भूर्जपत्रे महेश्वरि || ६-२२० ||

साध्यानां नामसहितं मन्त्रं संलिख्य साधकः |
एतयोर्यादृशं वैरं तादृशं चामुकयोर्भवेत् || ६-२२१ ||

वह्निजायावधिर्मन्त्रः सर्वविद्वेषकारकः |
महाकाली देवता च पूजा तस्याः शुभप्रदा || ६-२२२ ||

एवं सहस्रमानेन जपं कुर्याच्छुचिस्मिते |
मारणं सविशेषं च शृणुष्वैकमनाः प्रिये || ६-२२३ ||

निहत्य कृष्णमार्जारं मस्तकं तत्र तं नयेत् |
सिन्दूरेण समायुक्तं कुर्यात् साधकसत्तमः || ६-२२४ ||

तज्जिह्वायां महादेवि साध्यनाम लिखेच्छिवे |
साध्यनाम लिखित्वा तु कालीमन्त्रं जपेन्मुदा || ६-२२५ ||

निजबीजेन घटितमक्षरं प्रजपेत् ततः |
दशसाहस्रजापेन मारयेदरिमग्रतः || ६-२२६ ||

श्मशानकालिकां तत्र चावाह्य पूजयेच्छुभे |
लौहालङ्कारसंयुक्तं वस्त्रं देव्यै प्रदापयेत् || ६-२२७ ||

दक्षिणास्यो जपेद् मन्त्रं ततः सिद्धो भवेन्मनुः |
अन्नं पक्त्वा महादेवि निर्जने दापयेत् प्रिये || ६-२२८ ||

अर्धरात्रे बलिं दत्त्वा खनेद् वैरिगृहे यदि |
सप्ताहमध्ये देवेशि शत्रुर्याति यमालयम् || ६-२२९ ||

इति ते कथितं देवि सारात् सारतरं मतम् |
तव स्नेहाद्वरारोहे प्रकाशितमिदं पुरः || ६-२३० ||

शान्तिकं शृणु सर्वज्ञे येन जीवति साधकः |
उर्वशीं प्रथमं नीत्वा युगान्तकारकं परम् || ६-२३१ ||

स्तनद्वयेन संयुक्ता धूमिनी त्रितयं ततः |
अस्य मन्त्रस्य देवेशि सहस्राष्टप्रमाणतः || ६-२३२ ||

जपं कुर्याद् महेशानि अन्नपूर्णा च देवता |
पूजयेद् विविधैर्भक्ष्यैर्नानारससमन्वितैः || ६-२३३ ||

चर्व्यं चोष्यं तथा लेह्यं द्रव्यं दद्यान्मनोहरम् |
दशांशादिप्रमाणेन होमादींश्च समाचरेत् || ६-२३४ ||

पद्मपुष्पस्य होमेन शान्तिर्भवति सुन्दरि |
मधुना तर्पयेद् देवीमन्नपूर्णां परां गतिम् || ६-२३५ ||

प्रथमेऽहनि देवेशि जलेन पूरयेद् घटम् |
तद्घटे पूजयेद् देवीं पुज्यावाह्य सुरेश्वरीम् || ६-२३६ ||

मन्त्रेणानेन देवेशि यदि कुर्यात् प्रयोगकम् |
सर्वव्याधिर्विनश्येत नात्र कार्या विचारणा || ६-२३७ ||

रहस्यं शृणु देवेशि [येन प्रत्यक्षतांव्रजेत् इति पाठान्तरम् |]येन सत्य(युगं?पुरं)व्रजेत् |
साधनादि महेशानि बहुधा कथितं मया || ६-२३८ ||

पुनः केन प्रकारेण ज्योतीरूपां विलोकयेत् |
तन्मे शृणु वरारोहे कृपया परमेश्वरि || ६-२३९ ||

शृणु साध्वि महाभागे सर्वज्ञानान्तरस्थितम् |
वैष्णवे गाणपत्ये च शैवे वा शम्भवेऽपि वा || ६-२४० ||

योगे संन्यासधर्मे वा कौलो धर्मः प्रशस्यते |
कुलीनधर्ममाश्रित्य जपेद् रात्रिन्दिवं शिवे || ६-२४१ ||

नद्यादौ विजने शून्ये गेहे बिल्वतले तटे |
लतासंवेष्टितस्थाने शुद्धभावेन तां भजेत् || ६-२४२ ||

श्मशाने निर्जने वापि सदा तिष्ठति सुन्दरी |
विकाररहिताश्चेत् त्वां भजन्ते सिद्धिकामिनः || ६-२४३ ||

तदा त्वं साधकानां च भविता दृष्टिगोचरा |
साधनं च प्रवक्ष्यामि कथितं यत् तपोधने || ६-२४४ ||

यतिभावेन वा देवि राजभावेन वा शिवे |
अभेददर्शी संभूय त्वां प्रपश्यति साधकः || ६-२४५ ||

तीर्थपूर्णं नवघटं कुजवारेऽष्टमी यदि |
निधाय तत्र विधिवत् पूजां कृत्वा विधानतः || ६-२४६ ||

विषिच्य वेदिकां तत्र तस्योपरि शुभासनम् |
आस्तीर्य निवसेत् तत्र ज्योतिर्मन्त्रपुरःसरम् || ६-२४७ ||

फूत्कारेण चतुर्दिक्षु तन्मन्त्रमुच्चरन् धिया |
ध्यायेच्च सततं देवि तव रूपं प्रयत्नतः || ६-२४८ ||

द्विभुजां सुन्दरीं श्यामां नानारत्नविभूषिताम् |
रक्तवस्त्रां स्मितमुखीं मातृवत् परिपालिनीम् || ६-२४९ ||

भैरवीं घोररूपां त्वां तदा जानाति भैरवि |
नासारन्ध्रोपरि ध्यायेत् तव तेजः स्वचक्षुषा || ६-२५० ||

कूर्चमध्येऽथवा पश्येत् तव ज्योतिरनामयम् |
चन्द्रकोटिप्रभं शीतं रविकोटिसमं खरम् || ६-२५१ ||

उत्तुङ्गे च महाकालं स्वप्रकाशाचलं गुरुम् |
धीरेण चेतसा धार्यं काले काले विधानतः || ६-२५२ ||

शून्यालये प्राङ्गणे वा वीथिकापालिकासु च |
शृङ्गाट-हट्ट-शालेषु यथारुचि करोत्विति || ६-२५३ ||

किन्तु देवि विना हेतुं चेतः कस्मात् प्रसीदति |
अन्तःशुद्धिर्मनःशुद्धिर्हेतुशून्या कथं भवेत् || ६-२५४ ||

नाचारे हरति प्रीतिर्विगीते नास्ति मे रुचिः |
ततो हेतुं समाधाय सुगोप्यं जपमाचरेत् || ६-२५५ ||

सुरा हेतुः कारणं च परमामृतमेव च |
ज्ञानदा शुभदा तीर्थं मदिरा मोदिनी सती || ६-२५६ ||

शुण्डा प्रबहुकुल्याङ्गा पावनी तारिणीति च |
तव नामानि गोप्यानि जानीहि कुलभैरवि || ६-२५७ ||

तत् स्वरूपां मदोन्मत्तां मदिरां शङ्खभूषणाम् |
ध्यायेत् प्रतिमुखीं स्मेरस्वप(सुद)तीं शुभदां शुभाम् || ६-२५८ ||

न च मे त्वापभाषेथा सदा शान्तन चेतसा |
भिक्षुत्वं राजता वापि तवाश्रया युगे युगे || ६-२५९ ||

हेतुशून्या क्रिया नष्टा नान्तःशुद्धिर्नवा सुखम् |
देहं व्यर्थं विजानीहि देवि त्वत्साधनं विना || ६-२६० ||

साधनं हि वृथा देवि हेतुवादं तथा शृणु |
भैरवैर्हेतुपतिभिर्मार्गैः सेव्यं च शङ्करि || ६-२६१ ||

मिलित्वा पर्वतेऽरण्ये यो वै संयमितात्मना |
एकाकी नैव मद्यान्नं स्त्रीभिः (?) स्तोत्रं सुवर्णितम् || ६-२६२ ||

पञ्चभिर्दशभिर्वापि जापकस्य सुसंयुतम् |
समभावे जपेद् देवि नियतं द्वित्रिकैः सह || ६-२६३ ||

किञ्चिद्ध्यानेन तत्सर्वं न द्विधा किञ्चिदीरितम् |
स्मृत्वा ततं ब्रह्ममयं भ्रान्तिरत्र न जायते || ६-२६४ ||

स्वीकृत्य त्वमपि ध्यायेस्तदा द्रक्ष्यसि सुन्दरि |
एवं ध्यात्वा महेशानि प्रसन्नं यदि मे मनः || ६-२६५ ||

शोधनं संप्रवक्ष्यामि ज्ञानात् सार्वज्ञ्यदायकम् |
घटं पुरो निधायादौ त्रिर्जपन् मूलमुच्चरेत् || ६-२६६ ||

योनिमुद्रां प्रदर्श्याथ शुभमेनमुदीरयेत् |
नमस्ते ज्ञानदे शुद्धे शुद्धिभावविनिश्चिते || ६-२६७ ||

ज्योतीरूपे ध्वान्तहरे वरदेऽमृतरूपिणि |
अविद्यान्तरसंस्थाने महापातकनाशिनि || ६-२६८ ||

सर्वपुण्यप्रसवने सर्वदामृतमानसे |
नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वरि || ६-२६९ ||

ऋद्धिं देहि मनः शुद्धिं(देहि)दुद्रुव(?)ते नमः |
चराचरधृते पुण्ये धृतिदे धृतिनाशिनि || ६-२७० ||

सुरासुरनरैः सेव्ये व्यामोहं हर मेऽनघे |
अरुणाक्षि विशालाक्षि विलक्षे साक्षिणि स्वयम् || ६-२७१ ||

दिव्यशङ्खपरीधाने सुलज्जे प्रीयतां मयि |
तमःसंचयनाशिन्यै शिवारूपधृते परे || ६-२७२ ||

नमस्ते कुलधर्मायै कालिकायै हवे वले |
ऐं स्त्रीं हूं ह्रीं दिव्यरूपे महामाये महेश्वरि || ६-२७३ ||

ह्रींकारात् सिद्धिमाप्नोति बुद्धिं देहि यशस्विनि |
अमृतत्वं प्रयाह्यत्र निधेहि सिद्धिमुत्तमाम् || ६-२७४ ||

अपारेऽसारसंसारे तारे कामदुघेऽनघे |
सर्वदेवगणप्रीतेऽपरिमेयगुणाश्रये || ६-२७५ ||

ब्रह्मानन्दपरानन्दे नमस्तेऽस्तु पुनः पुनः |
चक्षुर्ध्वान्तं मनोध्वान्तं छिन्धि देवि सुरेश्वरि || ६-२७६ ||

कुलाचारप्रसन्ना त्वं पुनीहि ब्रह्मवादिनि |
सत्यानन्दमयि श्रीदे कमले शूलधारिणि || ६-२७७ ||

पूतक्रतो विश्वसेव्ये प्रसूतिमुनिमानसे |
नमो नित्यं जयायै ते परायै ते नमाम्यहम् || ६-२७८ ||

शुद्धाचाररते गोप्ये पशूनां गणकण्ठके |
यथा ध्वान्ताद्विमुच्येऽहं तथा कुरु सुरार्चिते || ६-२७९ ||

एवं स्तुत्वा महादेवि मूलेनैव विशोधयेत् |
ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् || कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् || ६-२८० ||

ओं सूर्यमण्डलसंभूते वरुणालयसंभवे |
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् || ६-२८१ ||

ओं वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि |
तेन सत्येन देवेशि ब्रह्महत्यां व्यपोहतु || ६-२८२ ||

ततस्तां पुरतः कृत्वा यथोक्तं जपमाचरेत् |
दिने दिने महादेवि यदि पूजां करोति हि || ६-२८३ ||

अवश्यमेव तद्रूपं जानीयात् साधकोत्तमः |
शवानां साधनं देवि बहुधा कथितं मया || ६-२८४ ||

वीरभावेन तद् देवि हेतुहीनं वृथागतम् |
इदानीं शवरूपेण ध्यायेत् त्वां सततं शिवे || ६-२८५ ||

तदा क्रीडति(सि) मूर्त्या च शवोपरि त्रपान्विता |
ततो नित्यानुरागेण यद्भावाय प्रकल्पसे || ६-२८६ ||

महानिशायां ब्राह्म्ये वा मुहूर्ते ध्यानतत्परः |
त्वद्रूपं परमानन्दं तदा पश्यति निश्चितम् || ६-२८७ ||

रात्रिपूजा-जपध्यानैर्बहुशो हेतुभावितैः |
प्रसन्ना त्वं तदा देवि ततस्तत्र दृढा भवेत् || ६-२८८ ||

सतीं दृष्ट्वा नमस्कुर्यात् स्पृष्ट्वा तां च शुचिर्भवेत् |
पीत्वा च परमानन्दं लभते प्राणनिर्वृतिम् || ६-२८९ ||

मोदिनीपूरितघटं बिल्वशाखादिशोभितम् |
निधाय पुरतो मन्त्रैः पूजां कृत्वा विधानतः || ६-२९० ||

धूपैर्दीपैश्च नैवेद्यैर्बलिभिश्चैव शुद्धिभिः |
द्वाविंशतिशतं नित्यं जप्तव्यं वेदिकोपरि || ६-२९१ ||

यथाशक्त्याथवा जप्यं लक्षमेकं सुसंयुतम् |
तस्मादुत्थाय विधिवत् तिलाज्यैः श्रीफलैर्हुनेत् || ६-२९२ ||

तत्तया सुरया देवि तर्पयेच्च विधानतः |
सन्तुष्टे मण्डले देवि संतुष्टा सिद्धिदा तदा || ६-२९३ ||

निर्विघ्नं जायते तत्र निःशङ्कं निरुपद्रवम् |
निःशोकं निर्विकारं च परं चेतः प्रसीदति || ६-२९४ ||

नैवेद्यं तु नमस्कुर्यात् त्वद्बुद्ध्या स्वीकरिष्यति |
भ्रमबुद्धिर्न कर्तव्या मनसापि कदाचन || ६-२९५ ||

तन्नैवेद्यं चेतसापि यदि निन्दति कश्चन |
तदा तं चर्वयेत् काली निर्मूलं जायतेऽथवा || ६-२९६ ||

तस्माद् दृष्ट्वा च श्रुत्वा च न च निन्दायते क्वचित् |
नरमार्जारमहिष च्छागलैर्मेषकैस्तथा || ६-२९७ ||

कपोतकलविङ्कादैर्हंसमद्गुर-कुक्कुटैः |
शालसजालशकुल-रोहितादिभिरण्डजैः || ६-२९८ ||

बलिभिर्विविधैश्चान्यैः फलैश्च मधुराप्लुतैः |
सिक्तसंपक्वदग्धैश्च वित्वचैरिक्षुयष्टिभिः || ६-२९९ ||

तारिणीं पुरतः कृत्वा शुद्धचित्तेन देशिकः |
स्त्रीणां मनो न हन्तव्यं स्त्रियश्चास्य विशेषतः || ६-३०० ||

शक्तिरूपा हि त्वद्व्य(क्ता?क्तिः)यतः सर्वत्र शोभने |
पशुशक्तिः पक्षिशक्तिर्नरशक्तिश्च शोभने || ६-३०१ ||

विगुणं पूजिता कर्म सगुणं जायते सदा |
तासां पूजा विधानेन कर्तव्या भक्तितः शुभे || ६-३०२ ||

कौलिनीं सुभगां शक्तिं पुष्पेणापि न ताडयेत् |
यदि शक्तिर्भवेत् तुष्टा तुष्टां जानीहि तां शिवे || ६-३०३ ||

नित्यपूजाविधानेन जपहोमपरायणम् |
कुलसङ्गं समाश्रित्य पुरश्चरणमाचरेत् || ६-३०४ ||

क्षेमङ्करीं जम्बुकीं च काकोलं गृध्रमुत्तमम् |
दृष्ट्वा चैषां रुतं श्रुत्वा प्रणमेत् मन्त्रपूर्वकम् || ६-३०५ ||

जपकाले महेशानि यद्येषां श्रूयते रवः |
तदैव सिद्धिं जानीहि न जपेत् स्तोत्रमाचरेत् || ६-३०६ ||

बलिना मुण्डमालाभिर्गृहं कृत्वा जपं चरेत् |
कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये || ६-३०७ ||

कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये |
दीपैरुद्दीपितं कृत्वा तन्मध्ये निवसन् पुनः || ६-३०८ ||

परमानन्दचित्तेन तद्रूपस्य जपं चरेत् |
एकलक्षेन जप्तेन साधयेत् सिद्धिमुत्तमाम् || ६-३०९ ||

रात्रौ जपं तथा पूजां रहस्यामृतसेवनम् |
यदि न स्यात् कुलानन्दसाधकः कौलिकः कथम् || ६-३१० ||

बहुधा कथितं देवि सत्यं जानीहि मद्वचः |
कुलामृतं विना देवि चेतः कस्मात् प्रसीदति || ६-३११ ||

ततो देवि समादाय पूजितां कुलपावनीम् |
अनन्यभावमाश्रित्य ममात्मा सुप्रसीदति || ६-३१२ ||

श्रीदेव्युवाच |

किमर्थं बहुधा देव मोदिनीस्तुतिरीरिता |
तां विना नैव सिद्धिः स्यादित्येवं कथितं कथम् || ६-३१३ ||

तन्मे ब्रूहि महेशान येन तत्साधनं सदा |
क्रियते शान्तचित्तेन तद्रूपं दृश्यते मुदा || ६-३१४ ||

श्रीभैरव उवाच |

शृणु देवि परं गुह्यं कारणस्य च कारणम् |
येन ज्ञातेन शारीरं मानसं च महेश्वरि || ६-३१५ ||

विनश्यति महा(देवि?मोहो)दिव्यं देहं च लप्स्यते |
सर्वागमार्थसारं च सर्वयोगस्य मातरम् || ६-३१६ ||

शरीरं मलिनं विद्धि मनश्चञ्चलमेव च |
मलापकर्षणं नास्ति कुतो ध्यानं महेश्वरि || ६-३१७ ||

शरीरभावा बहवः सुखदुःखात्मकाः शुभे |
चेतःसंमीलनं केन ज्ञायतां तव जन्तुषु || ६-३१८ ||

भीतिलज्जाजुघुप्साद्या निद्रातन्द्राभ्रमादयः |
अविपाको विभ्रमश्च शोकचिन्तादिकाः परे || ६-३१९ ||

भवन्ति विविधा भावा भूतानां देहधारिणाम् |
देहव्यपाये नयनं भूतानां देहधारणे || ६-३२० ||

तत्रैव मन एवाहमात्मारामा सनातनी |
अतस्तु तारिणीं देवि मम तेजःस्वरूपिणीम् || ६-३२१ ||

जानीहि भक्तिसंयुक्तां तामाश्रय विधानतः |
मलापकर्षिते देहे सम्यग् दीपिततेजसि || ६-३२२ ||

ध्यानयोगे स्थिरत्वं च बलित्वं चोपलभ्यते |
नाजीर्णो दुर्बलो रोगी भीरुश्चिन्तापरिप्लुतः || ६-३२३ ||

सुरासंसेवनाद् देवि नैते दोषा भवन्ति हि |
अन्ये च बहवो दोषा नश्यन्ति मुक्तियोगतः || ६-३२४ ||

शापाश्चञ्चलचित्तानां ब्रह्मादीनामिहोदिताः |
मन्त्रेण तां समुद्दिश्य मम पूजापरो भव || ६-३२५ ||

त्वत्स्वरूपां महादेवि तां विद्धि सर्वदा प्रिये |
तया विना मनो नित्यं मालिन्यं न परित्यजेत् || ६-३२६ ||

परित्यक्ते तु मालिन्ये मनो देहं च रूपभाक् |
अतः सुरां समाश्रित्य साधनं कुरु यत्नतः || ६-३२७ ||

इदानीं शृणु चार्वङ्गि शाक्ताचारं वरानने |
येन विना न सिद्धिः स्यात् कल्पकोटिशतैरपि || ६-३२८ ||

मधु मांसं च मत्स्यं च मैथुनं महिला तथा |
पञ्चमानां समाकृत्या पञ्चमी त्वत् स्वरूपिणी || ६-३२९ ||

नत्वा स्तुत्वा च तां देवीं पूजयित्वा सदा शुचिः |
सुरा जनी च शक्तिः स्यान्मम रूपस्वरूपिणी || ६-३३० ||

तां समाश्रित्य सिद्धिः स्यान्नात्र कार्या विचारणा |
सुराभाण्डं नमस्कुर्यात् स्त्रियं च रक्तवाससम् || ६-३३१ ||

कपिलां रोहिणीं गञ्जां गोष्ठं गां च पयस्विनीम् |
कुलवृक्षफलैः पूजा नैवेद्यमामिषं रसम् || ६-३३२ ||

एका त्वं सर्वदेवानां सर्वदेवात्मिकापि च |
सर्वानन्दमयः साक्षात् सर्वकामपरायणः || ६-३३३ ||

चतुष्पथजपासक्तः शुद्धः श्माशानिकः क्वचित् |
भूत्वैव भावयन्नात्मानं ततः स्याच्छक्तिपूजकः || ६-३३४ ||

ब्रह्मानन्दो ब्रह्मरसः सुमनोऽस्थिविभूषितम् |
सुरासनं प्रेतमाला धार्यते शक्तिदेवतैः || ६-३३५ ||

आत्मभूकुसुमैः शुक्रैर्बलिभिः पूजनं निशि |
परब्रह्मरसानन्दी करोति शक्तिसेवकः || ६-३३६ ||

रात्रिपूजा विशेषेण कर्तव्या साधकोत्तमैः |
बलिभिः पञ्चमीवर्गैरन्नैर्विविधपिष्टकैः || ६-३३७ ||

अशनैस्तुलितैः क्लिन्नै रसकेन च सारितैः |
पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्बलिभिस्तथा || ६-३३८ ||

सानन्दैर्नृत्यगीताद्यैः शक्तिभिः साधकैः सह |
संपूज्य पर(मा?या)भक्त्या तर्पयेद्वर्गमाश्रितः || ६-३३९ ||

कुलीनान् कुलसंबन्धान् विज्ञातान् द्वैतमानसान् |
महासत्त्वान् दृष्टपथान् मदेकभाविनोऽपि च || ६-३४० ||

शक्तयः सर्वतः पूज्या मद्भावेन विशेषतः |
शक्तिश्च कुसुमैः पूज्या सिन्दूरैर्गन्धचन्दनैः || ६-३४१ ||

अथ माल्यैरलङ्कारैः केवलं मातृभावतः |
कुमारीपूजनं नित्यं शक्तिं वान्यां प्रपूजयेत् || ६-३४२ ||

एवं शक्तो यदा शक्तेः पूजनं भवमोचनम् |
परीवादः पराभूतिर्हठादाकर्षणं स्त्रियाः || ६-३४३ ||

मनसापि न कर्तव्यं देवि सिद्धिं यदीच्छ(सि?ति) |
रात्रौ च भ्रमणं देवि रात्रौ च शक्तिपूजनम् || ६-३४४ ||

न करोति यदा लोके साधकः कौलिकः कथम् |
अनिन्दा सर्वभूतानां सर्वत्रैव दयान्वितः || ६-३४५ ||

बलिं विना महादेव्या हिंसा सर्वत्र वर्जिता |
सदा सानन्दमनसा मम कामपरायणः || ६-३४६ ||

चतुष्पथनमस्कारी श्मशानचारिपूजकः |
अन्धकारसमास्थायी गुहासेवनतत्परः || ६-३४७ ||

परमामृतपूतात्मा मम प्रीतिपरायणः |
शालिग्रामे ब्राह्मणे च निन्दां चैव विवर्जयेत् || ६-३४८ ||

एषां पूजां विशेषेण करोति कारयत्यपि |
ब्राह्मणो ब्रह्मभावेन क्षत्रः क्षात्रेण शङ्करि || ६-३४९ ||

वैश्यश्च(शूद्र?वैश्य)भावेन प्रसन्नो विचरिष्यति |
दिवा हविष्यभोजी स्यात् न स्पृशेदन्यपूरुषम् || ६-३५० ||

रात्रौ स्वीयगणैर्युक्तः पञ्चमीमाश्रयेच्छिवे |
तव पूजापरो भूत्वा शक्तिभिः साधकैः सह || ६-३५१ ||

नृत्यते गीयते यद्यत् तत् स्तोत्रं पूजनं तव |
विना तीर्थाभिषेकेण नान्तः शुद्ध्यति भैरवि || ६-३५२ ||

न भूयो याति शोकांश्च परत्र मोक्षभाग् भवेत् |
न रूपदर्शने देवि संशयो नास्ति कश्चन || ६-३५३ ||

इति पूजां महेशानि कृत्वा देवीपुरं वसेत् |
अस्याः परतरा देवि नास्ति तन्त्रे महेश्वरि || ६-३५४ ||

एषा पूजा हि देव्याश्च पूजैव सुरवन्दिते |
सर्वधर्मान् परित्यज्य पूजामेतां करोति यः || ६-३५५ ||

स योगी च महात्मा च संसारात् त्रायते क्षणात् |
अगम्यागमने पापं नास्ति तस्य वरानने || ६-३५६ ||

या कथा तव देवेशि तव स्तोत्रं वरानने |
इतस्ततो यद्गमनं प्रदक्षिणमुदाहृतम् || ६-३५७ ||

ततः परं महादेवि धर्माधर्मो न जायते |
अप्रकाश्यं महेशानि तव स्नेहात् प्रकाशितम् || ६-३५८ ||

मद्भक्तेभ्यो महेशानि प्रकाशमुपदाय च |
अभक्तेभ्यो न दद्याद्धि दत्त्वा मृत्युमवाप्नुयात् || ६-३५९ ||

इति ते कथितं देव्यास्तर्पणं शृणु भैरवि |
विद्याकामेन होतव्यं तिलाज्यं मधुसंयुतम् || ६-३६० ||

बिल्वपत्रं घृताक्तं च किंशुकं बकुलं तथा |
बन्धूकपुष्पहोमेन राजा च दासतामियात् || ६-३६१ ||

सर्पिर्लवणहोमेन आकर्षयति कामिनी |
कर्णिकारस्य होमेन सौभाग्यं लभते नरः || ६-३६२ ||

करवीरैश्च पुंनागैः पुष्टिमाप्नोत्यसंशयम् |
राजवृक्षस्य होमेन सर्वसंपत्तिमान् भवेत् || ६-३६३ ||

दुर्वातिलाज्यहोमेन दीर्घायुष्ट्वमवाप्नुयात् |
संपूज्य मूलमन्त्रेण बिल्वपत्रैर्घृतान्वितैः || ६-३६४ ||

सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् |
घृताक्तमालतीपुष्पहोमाद् द्रुतकविर्भवेत् || ६-३६५ ||

तर्पणस्य प्रसङ्गेन होमोऽयं कथितः शिवे |
मधुना तर्पणं कुर्यात् सर्वकामफलप्रदम् || ६-३६६ ||

मन्त्रसिद्ध्यै महेशानि महापातकनाशनम् |
कर्पूरमिश्रितैस्तोयैर्मासमात्रं प्रतर्पयेत् || ६-३६७ ||

वशीकृत्य नृपान् सर्वान् भोगी स्याद् यावदायुषम् |
घृतैः पूर्णयशः सिद्ध्येद् दुग्धैरारोग्यमाप्नुयात् || ६-३६८ ||

अगुरुमिश्रितं देवि सर्वकालं सुखी भवेत् |
नारिकेलोदकमिश्रैस्तोयैः सर्वार्थमाप्नुयात् || ६-३६९ ||

मरीचमिश्रितैस्तोयैः सर्वाञ्छत्रून् विनाशयेत् |
केवलैरुष्णतोयैश्च शत्रुमुच्चाटयेत् क्षणात् || ६-३७० ||

ज्वराविष्टो भवेत् तेन दुग्धसेकात् शमं भवेत् |
हविष्याशी मुक्तकेशो जपेदयुतमाचरेत् || ६-३७१ ||

गद्यपद्यमयी वाणी सभायां तस्य जायते |
उच्चाटयति पिङ्गाक्षी संभावयति केकरा || ६-३७२ ||

विद्रावयति मुक्तास्या संभ्रामयति घूर्णिता |
विक्षोभयति संक्षुब्धा संतापयति सन्निभा || ६-३७३ ||

संकोचयति संरुद्धा विप्ररुद्धा प्रबोधयेत् |
एतत् सर्वं प्रकर्तव्यं भावनामात्रचिन्तनम् || ६-३७४ ||

उच्चाटेषु च सर्वेषु चायुतं प्रजपेत् सुधीः |
शताभिजप्तमात्रेण रोचनातिलकं नरः || ६-३७५ ||

कृत्वा पश्यति यं मन्त्री तं कुर्याद् दासवत् प्रिये |
दन्तेनानीयते चूर्णं कीलकं तेन कारयेत् || ६-३७६ ||

यथा मधुघृताक्तेन पद्मिनीपत्रमात्रके |
लिखेत् सूत्रावलीमध्ये मूलमन्त्रं विदर्भितम् || ६-३७७ ||

तत् कुण्डचतुरस्रे च निक्षिप्य जुहुयादपि |
सहस्रं क्षीरनीराक्तं पद्मानां लोहितत्विषाम् || ६-३७८ ||

मन्त्रं शृणु वरारोहे येन सिद्ध्यति निश्चितम् |
ओं पद्मे पद्मे महापद्मे पद्मावति माये तथा || ६-३७९ ||

स्वाहान्तोऽयं महामन्त्रो नैमित्तिकफलप्रदः |
एवं यः कुरुते कर्म सद्यो द्रुतकविर्भवेत् || ६-३८० ||

उपचारविशेषेण राजपत्नीं वशं नयेत् |
रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् || ६-३८१ ||

मिश्रीकृत्य बलिं दद्यादष्टम्यां च विशेषतः |
प्रयोगबलिमन्त्रोऽयं प्रयोगान् साधयेद् यदि || ६-३८२ ||

अर्धरात्रे ततो नित्यं बलिं दद्यात् चतुष्पथे |
परसैन्यग्रहारिष्ट रोगकृत्यानिवारणम् || ६-३८३ ||

प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् |
विकटदंष्ट्रे परपक्षं मोहय [क्षोभय ख पाठः |] द्वन्द्वमुच्चरेत् || ६- ३८४ ||

खादय द्वन्द्वमुच्चार्य पचद्वन्द्वं वदेत् पुनः |
ये मां हिंसितुमुद्यता योगिनीचक्रैस्तान् हारय हूं फट् स्वाहा |
परविद्यामाकर्षय २ छेदय २ हन २ कपाले गृह्ण २ स्वाहा |
अनेनैव च देवेशि बलिं दद्याद् महेश्वरि |
मायाबीजं समुच्चार्य कालि कालीति सुन्दरि || ६-३८५ ||

वज्रेश्वरी पदं पश्चाल्लोहदण्डायै नमः पदम् |
इति संपूज्य देवेशि शक्तिं संपूजयेत् ततः || ६-३८६ ||

हू/ वागीश्वरीब्रह्मभ्यां नमः | हू/ लक्ष्मीनारायणाभ्यां च |
ततो नमः पदं ब्रूयाद् देवि चण्डे महेश्वरि || ६-३८७ ||

ततोमामहेश्वराभ्यां नम इत्यादिनार्चयेत् |
प्रणवं च ततः पश्चात् कार्तिकेश्वराभ्यां नमः || ६-३८८ ||

इत्यने(न?नैव)मन्त्रेण शक्तिं संपूजयेन्नरः |
इति खड्गं प्रपूज्यैव विशेषेण प्रपूजयेत् || ६-३८९ ||

ओं खड्गाय खरनाशाय शक्तिकार्यार्थतत्पर |
पशुच्छेदस्त्वया कार्यः खड्गनाथ नमोऽस्तु ते || ६-३९० ||

अनेनैव तु मन्त्रेण प्रणमेत् खड्गमुत्तमम् |
गृहीत्वा ताम्रपात्रं च जलपूर्णमुदङ्मुखः || ६-३९१ ||

हर्षकामो महादेव्यै पशोश्च प्रोक्षणं चरेत् |
प्रोक्षणं च पशोः कृत्वा चोत्सृजेद् देवताधिया || ६-३९२ ||

यथोक्तेन विधानेन तुभ्यमस्तु निवेदनम् |
छिन्ने च पतिते वृद्धिर्वामभागे च निन्दितम् || ६-३९३ ||

दैन्यं मध्ये च पतितं देवे छेदं स्मरेद् बुधः |
ततः कुण्डान्तिके गत्वा आहुतिर्दशपञ्चभिः || ६-३९४ ||

तेनैवमुत्सृजन् दोषं बलिं लक्षेत् सलक्षणम् |
ततो रुधिरमाधाय वटुकादीन् समर्चयेत् || ६-३९५ ||

नैर्-ऋत्यां च महेशानि हू/ वा/ वटुकभैरवम् |
वायव्ये हूं यां योगिनीभ्यो नमः इत्यादिनार्चयेत् || ६-३९६ ||

ऐशान्यां च महेशानि हूं क्षौ/ क्षेत्रपालाय नमः |
इत्यादिना देवि(सम्यक्)गन्धपुष्पैः समर्चयेत् || ६-३९७ ||

आग्नेययां हू/ गां गणेशाय नम इत्यादिनार्चयेत् |
गन्धपुष्पैः समभ्यर्च्य बलिदानं समाचरेत् |
इति ते कथितो देवि बलिदानस्य निर्णयः || ६-३९८ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (कुलपूजा शाक्ताचारादिविधिनिरूपणं) षष्ठः पटलः || ६ ||


Kapitel 7: Besondere Anwendungen und Kumari-Verehrung

Die Göttin in einer ihrer vielfältigen Erscheinungen.

श्रीभैरव उवाच |

अथ वक्ष्ये महेशानि निग्रहोपायमुत्तमम् |
अवश्यमेव कर्तव्यं प्रयोगसाधनं तथा || ७-१ ||

मङ्गले शनिवारे च श्मशानाङ्गारमानयेत् |
कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना || ७-२ ||

शताभिमन्त्रितं कृत्वा निःक्षिपेद् वैरिवेश्मनि |
सप्ताहाभ्यन्तरे तेषामुच्चाटनमिदं भवेत् || ७-३ ||

नरास्थि विलिखेन्मन्त्रं क्षारयुक्तहरिद्रया |
सहस्रं परिजप्याथ निशायां शनिवासरे || ७-४ ||

निक्षिप्यते यस्य गेहे तस्य मृत्युस्त्रिमासतः |
क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे || ७-५ ||

धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयम् |
(द्वि?द्वे)षे तु विलिखेद् मन्त्रं प्रेतकर्पटके सुधीः || ७-६ ||

द्वेष्यद्वेषकयोर्नाम्ना तस्य द्वेषो महान् भवेत् |
मन्त्रं शृणु वरारोहे प्रयोगार्हो भवेद् यतः || ७-७ ||

अमुकं मारयेत् यादौ मारयेति पदं ततः |
सहस्रं परिसंजप्य मन्त्रमेनं महेश्वरि || ७-८ ||

द्वेषमन्त्रविशेषं तु शृणु चैकमनाः प्रिये |
अमुकामुकयोर्द्वेषं कुरु कुर्वित्यनन्तरम् || ७-९ ||

मन्त्रमुच्चार्य देवेशि जपेद् देवि सहस्रकम् |
उच्चाटय पदद्वन्द्वं पिङ्गाक्षि तदनन्तरम् || ७-१० ||

फट् मन्त्रं मन्त्रमुच्चार्य साध्यसंज्ञान्वितं पुनः |
देशाद् देशान्तरं याति रिपुः काक इवापरः || ७-११ ||

वह्निपुटे रिपोर्मन्त्रं लिखित्वा पत्रकेण तु |
श्मशाने मन्त्रमुच्चार्य पुटीकृत्य विदर्भ्य च || ७-१२ ||

सहस्रजन्मभिर्जप्त्वा विद्या न हि फलप्रदा |
सिद्धयश्च विनश्यन्ति देवानामपि दुर्लभाः || ७-१३ ||

मातृचक्रेऽमृतं लेख्यं भिन्नाञ्जनपुटीकृतम् |
जले निःक्षिप्य मन्त्रं तु पुनर्नव इतीरितः || ७-१४ ||

जन्मलुप्तो मनुः स्निग्धो नवोदितशशी यथा |
क्षणे क्षणेऽपि तेजस्वी रिपुदृष्टिगतोऽपि च || ७-१५ ||

अथ वक्ष्ये मन्त्रमेकं धारयेत् सर्वदा प्रिये |
योनियुग्मे लिखेन्मन्त्रं मूलं हेमशलाकया || ७-१६ ||

क्लीबहीनान् दीर्घभिन्नान् षट्कोणे च लिखेत् ततः |
अष्टपत्रेष्वष्टवर्णास्तद्वहिर्भूपुरद्वयम् || ७-१७ ||

अष्टवज्र भूपुरे च विलिखेत् साधकोत्तमः |
स्वर्णपत्रेऽथवा भूर्जे रौप्ये वाप्यथ सुव्रते || ७-१८ ||

विलिखेद् हेमलेखन्या गन्धाष्टकसमन्वितम् |
दूर्वाकाण्डेन संलिख्य कुशमूलेन वा पुनः || ७-१९ ||

वेष्टितं पीतवस्त्रेण यत्नेन परिवेष्टयेत् |
बध्नीयात् पीतवस्त्रेण शिशूनां कण्ठभूषणम् || ७-२० ||

स्त्रीणां वामभुजे चैवमन्येषां दक्षिणे भुजे |
वन्ध्या तु लभते पुत्रं निर्धनो धनवान् भवेत् || ७-२१ ||

इयं रक्षा पुरा बद्धा ज्ञानार्थं गौतमादिभिः |
कीर्त्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्क्षिभिः || ७-२२ ||

वाग्भवं कुलदेवी च तारकं वाग्भवं तथा |
हृल्लेखास्त्रमनुश्चैव वह्निजायावधिर्मनुः || ७-२३ ||

अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः |
कालिकामन्त्रतन्त्रोक्तान् प्रयोगानेव चाचरेत् || ७-२४ ||

कालिकातन्त्रमन्त्रोक्तान् प्रयोगानिह चाचरेत् |
यथा काली तथा नीला भेदो नास्ति महेश्वरि || ७-२५ ||

अविशेषेण कर्तव्यं सत्यं च कथितं मया |
अन्यच्छृणु वरारोहे वशीकरणमुत्तमम् || ७-२६ ||

यत्कृते साधको वीरो धन्यो भवति निश्चितम् |
पुष्यार्के च महादेवि वीरमूलं समानयेत् || ७-२७ ||

शोधितं पञ्चगव्येन शोषयेद् भास्करद्युतौ |
चूर्णयेद् मेषशृङ्गेण समादाय च तं शिवे || ७-२८ ||

यन्त्रं संलिख्य देवेशि मातृकाख्यं सुशोभनम् |
मन्त्रं शृणु वरारोहे ध्यानात् सार्वज्ञ्यदायकम् || ७-२९ ||

व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् |
आशास्वस्त्रिषु लान्तटान्तसहितं क्षोणीपुरेणावृतं यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् || ७-३० ||

तेन चूर्णेन देवेशि यन्त्रं संलिख्य यत्नतः |
मृत्पात्रे च समालिख्य स्थापयेत् कुम्भकोपरि || ७-३१ ||

तिलपूर्णं घटं तेन स्थापयेत् सुरवन्दिते |
पट्टवस्त्रेण चामुण्डां पूजयेच्छार्करोदकैः || ७-३२ ||

तन्मन्त्रं परमेशानि जप्त्वा वशयेज्जगत् त्रयम् |
कपर्दिनं समुद्धृत्य कलहं तद् द्वितीयकम् || ७-३३ ||

खड्गेति परमेशानि चामुण्डे च ततः परम् |
जयशब्दं समुच्चार्य वशमानय ठद्वयम् || ७-३४ ||

अनेन मन्त्रराजेन कुर्यात् पौष्टिकमुत्तमम् |
भक्षं भोज्यं महादेव्यै दद्यात् सुरगणार्चिते || ७-३५ ||

रक्तासने चोपविश्य सहस्राष्टौ जेपेन्मुदा |
दशांशादिप्रमाणेन होमादींश्च समाचरेत् || ७-३६ ||

जापे समाप्ते देवेशि दद्याद् रजतदक्षिणाम् |
पलं वापि तदर्धं वा तदर्धं वापि शक्तितः || ७-३७ ||

प्रवालमालया देवि जपं कुर्याच्छुचिस्मिते |
उष्णीषं लोहितं प्रोक्तमुत्तरीयं तथा प्रिये || ७-३८ ||

रक्तवस्त्रं परीधाय जपेत् तद् गतमानसः |
कवित्वं जायते सुभ्रु! मन्त्रस्यास्य प्रसादतः || ७-३९ ||

कविता वशमायाति नात्र कार्या विचारणा |
इदानीं शृणु चार्वङ्गि कविताकारकं परम् || ७-४० ||

प्रयोगं सर्वसंगोप्यं तव स्नेहात् प्रकाश्यते |
नटीं चण्डा(लीनं?लिनीं)चैव योगिनं सर्वमोहनम् || ७-४१ ||

बीजत्रयं जपेद्रात्रौ मध्यरात्रौ रवेर्दिने |
अष्टाधिकसहस्रेण प्रमाणेन जपं चरेत् || ७-४२ ||

शताभिमन्त्रितं कृत्वा पिबेच्च जलमुत्तमम् |
सप्तदिनप्रयोगेण कविता चित्तमोदिनी || ७-४३ ||

जायते नात्र सन्देहः सत्यं सुरगणार्चिते |
पाणिना दक्षिणेनैव मधुलाजान् समानयेत् || ७-४४ ||

प्रागेव नाडीच्छेदाद् बालं संस्कुर्याच्च साधकः |
कवित्वं जायते तेना द्वितीयं सुरवन्दिते || ७-४५ ||

जिह्वां संमार्ज्य देवेशि लिखेद् हेमशलाकया |
दूर्वया वा महादेवि जिह्वोष्ठयोः समालिखेत् || ७-४६ ||

पङ्क्तिद्वयेन संलिख्य कुर्याच्च बालसंस्क्रियाम् |
एकादशाहे देवेशि द्वादशाहेऽथ वा पुनः || ७-४७ ||

वर्णजात्यादिभेदेन मासान्तं संभविष्यति |
यथाशक्त्युपचारेण देवतां पूजयेत् पुरः || ७-४८ ||

संपूज्य देवतां भक्त्या लिखेन्मन्त्रं महेश्वरि |
यदा पिता न देशस्थः पितृव्यो मातुलोऽपि वा || ७-४९ ||

लिखित्वा परमेशानि कुर्याच्च बालसंस्क्रियाम् |
मूलमन्त्रं लिखेद् मन्त्री यस्योष्ठे श्वेतदूर्वया || ७-५० ||

वाक्योच्चाररतो बालो वाग्मी द्रुतकविर्भवेत् |
जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते || ७-५१ ||

जिह्वायां तु लिखेद् मन्त्रं यज्ञदारु कुशेन वा |
वारत्रयं सुसंमार्ज्य दक्षिणेनैव पाणिना || ७-५२ ||

मन्त्रमुच्चार्य प्रत्येकं पङ्क्तिं कुर्यात् सुशोभनाम् |
आदौ संस्कारः कर्तव्यस्तदन्ते च लिखेन्मनुम् || ७-५३ ||

गन्धचन्दनपुष्पैश्च पूजयेत् तारिणीं शिवाम् |
उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमम् || ७-५४ ||

पूजयेत् तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः |
षोडशैरुपचारैश्च पूजयेद् भक्तिभावतः || ७-५५ ||

धूपं दद्याद् गुग्गुलुना सर्वकर्मफलप्रदम् |
नारिकेलं तथा रम्भां बदरं बकुलं तथा || ७-५६ ||

बीजपूरं कर्णिकारं शर्करां गन्धसंयुताम् |
मधूदकं कलायं च सिद्धान्नं पायसप्लुतम् || ७-५७ ||

मांसं मत्स्यं पिष्टकं च दद्यादतिप्रियं महत् |
कविर्वाग्मी भवेत् पुत्रः सर्वकर्मप्रकारकः || ७-५८ ||

जितेन्द्रियः सत्यवादी धार्मिको जायते महान् |
पिता चैव पितुर्भ्राता मातुर्भ्राता पुनस्तथा || ७-५९ ||

लिखेद् मन्त्रं महेशानि नान्यः सुरगणार्चिते |
भ्राता वापि लिखेद् मन्त्रं सर्वकामफलप्रदम् || ७-६० ||

मातुः क्रोडे समादाय वस्त्रेणास्तीर्य यन्ततः |
शान्तिं कुर्याद् बालकस्य ब्राह्मणैः [साधकैः ख पाठः |] सह संयुतः || ७-६१ ||

इमं पुत्रं कामयत कामजानामिहैव तु |
देवेभ्यश्च महेशानि पुष्णाति पदमन्तरम् || ७-६२ ||

शिवशान्तिस्तारायै केसरेभ्यस्तारायै शिवाय शिवयशसे |
मन्त्रस्य लेखनान्ते तु शान्तिं कुर्याद् महेश्वरि |
इत्येतद् मत्स्यसूक्ते च कथितं विस्तरेण तु || ७-६३ ||

तन्मातुर्वामकर्णे तु शान्तिस्तोत्रं पठेन्मुदा |
मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे || कृपया हर विघ्नं मे सर्वसिद्धिं [मन्त्र ख पाठः |] प्रयच्छ मे || ७-६४ ||

माहेशि वरदे देवि परमानन्दरूपिणि |
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-६५ ||

कौमारि सर्वविद्येशे कौमारक्रीडने परे |
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छे मे || ७-६६ ||

विष्णुरूपधरे देवि विनतासुतवाहिनि |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || ७-६७ ||

वाराहि वरदे देवि दंष्ट्रोद् धृतवसुन्धरे |
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-६८ ||

शक्ररूपधरे देवि शक्रादिसुरपूजिते |
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-६९ ||

चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि |
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-७० ||

महालक्ष्मि महोत्साहे शोकसंतापहारिणि |
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-७१ ||

मितिमातृमये देवि मितिमातृबहिष्कृते |
एके बहुतरे [विधे ख पाठः |] देवि विश्वरूपे नमोऽस्तु ते || ७-७२ ||

इदं स्तोत्रं पठेद् यस्तु कर्मारम्भे महेश्वरि |
विदग्धां वा समालोक्य तस्य विघ्नो न जायते || ७-७३ ||

कुलीनस्य द्वारदेवाः कथितास्तव सुन्दरि |
दीक्षाकाले नित्यपूजासमये नार्चयेद् यदि || ७-७४ ||

तस्य पूजाफलं देवि नीयते यक्षराक्षसैः |
शतवर्षजपाद् देवि न सिद्धिर्जायते प्रिये || ७-७५ ||

महापदि समुत्पाते पठेत् स्तोत्रं गणेश्वरि |
आपदश्च पलायन्ते संशयो नास्ति कश्चन || ७-७६ ||

विद्याकामेन देवेशि शतकृत्वः पठेत् स्तवम् |
इति ते कथितं मातुः स्तोत्रं कण्ठविभूषणम् || ७-७७ ||

मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय |
अप्रकाश्यमिदं स्तोत्रं न देयं यस्य कस्यचित् || ७-७८ ||

दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितोऽपि यः |
सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिने || ७-७९ ||

दद्यात् स्तोत्रं महेशानि नान्यथा फलभाग् भवेत् |
अष्टादशपुराणेषु वेदव्यासेन कीर्तितम् || ७-८० ||

श्रीदेव्युवाच |

देवदेव महादेव स्थितिसंहारकारक |
प्रश्नमेकं करोम्यत्र सकाशात् तव सुव्रत || ७-८१ ||

कैतवं च परित्यज्य तत् कथ्यं भवनाशन |
महाचीनक्रमं देव कथितं न प्रकाशितम् |
कथयस्व तदिदानीं यदि स्नेहोऽस्ति मां प्रति || ७-८२ ||

श्रीभैरव उवाच |

महाचीनक्रमं देवि सर्वतन्त्रेषु गोपितम् |
यत् कृत्वा साधकाः सर्वे शिवत्वं यान्ति तत्क्षणात् || ७-८३ ||

न वक्तव्यं महेशानि भुवनत्रितये शिवे |
शुद्धभावेन देवेशि वक्तव्यं तव गोचरे || ७-८४ ||

नान्योऽस्ति मे प्रियः कोऽपि त्वदन्यः सुरवन्दिते |
इदानीं परमेशानि निधारय मनः शिवे || ७-८५ ||

महाचीनक्रमं देवि कथितव्यं वरानने |
अहं देहो महेशानि देही त्वं सर्वरूपदृक् || ७-८६ ||

मीनो यथा महादेवि पयसि प्रहृतो यथा |
सदात्मा त्वं महेशानि अकथ्यं नास्ति सुन्दरि || ७-८७ ||

केचिद् देवा नरा केचिद् दानवा यक्षराक्षसाः |
नागलोकाः किन्नराश्च गन्धर्वाप्सरसां गणाः || ७-८८ ||

ये वा पशुमृगाः पक्षा ये केचिज्जगतीगताः |
एते जडतराः सर्वे परस्परखलात्मकाः || ७-८९ ||

कुकर्मनिरताः सर्वे कुमार्गदर्शनोत्सुकाः |
एतेषां ब्रह्म [कोऽपि ख पाठः |] विज्ञानमानन्दं ब्रह्म चित्सुखम् || ७-९० ||

न जानाति महेशानि तत् कथं कथयामि ते |
नित्यमुक्तस्वभावोऽयं तदर्थमिदमीरितम् || ७-९१ ||

क्षमस्व यदि चार्वङ्गि न वक्तव्यं महेश्वरि |

श्रीदेव्युवाच |

नमस्ते शिवरूपाय नमस्ते गुरुरूपिणे || ७-९२ ||

नमस्ते वरद स्वामिन् करुणानिधये नमः |
अन्यदेवरता ये च सर्वे त्वत् पदकाङ्क्षिणः || ७-९३ ||

तेषामेवाधिकफलं मद्भक्तानां व्यवस्थितम् |
सिंहव्याघ्रादयो ये च ये च विघ्नानुसारिणः [कारिणः ख पाठः |] || ७-९४ ||

विकाराश्च तथा सर्पास्तथान्ये दुष्टजन्तवः |
ते सर्वे विलयं यान्ति पतङ्गा इव पावके || ७-९५ ||

देहं [गेहे ख पाठः |] दीपशिखाकारं दृश्यते दुष्टजन्तुभिः |
केवलं प्रेमभावेन त्वयैव विभुणा प्रभो || ७-९६ ||

किं वा शवमयो भूत्वा आसने पञ्चदेवताः |
पृथिवी जलतां याति जलं तेजोमयं भवेत् || ७-९७ ||

तेजो वायुं तथा वायुराकाशं तत्प्रकाशकम् |
दानवा राक्षसाः सर्वे ये चान्ये (दानवा?देवता)गणाः || ७-९८ ||

राजानश्च तथा चान्ये सर्वे त्वत्पादवर्तिनः |
आज्ञां भजन्ति गन्धर्वाः किं पुनर्नरकीटकाः [किन्नराः ख पाठः |] || ७-९९ ||

यत्र यत्र भवेद् वाञ्छा तत् तत् सिद्धिः करे स्थिता |
सदानुगामिनी वाणी भजते तं सुनिश्चितम् || ७-१०० ||

द्विधाभावं परित्यज्य किमन्यद् बहुभाषितैः |
मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् || ७-१०१ ||

अन्ते तु जायते गौरीलोके शिव इवापरः |
सिद्धा भवन्ति यद्भक्ताः कथयस्व ममाग्रतः || ७-१०२ ||

श्रीभैरव उवाच |

न वक्तव्यमभक्ताय परभक्ताय पापिने |
महाचीनक्रमं देवि विविधं कथितं शिवे || ७-१०३ ||

स्नानादि मानसं शौचं मानसः प्रवरो जपः |
पूजनं मानसं दिव्यं मानसं कल्पनादिकम् || ७-१०४ ||

सर्व एव शुभः कालो नाशुभो वर्तते क्वचित् |
न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि || ७-१०५ ||

वस्त्रासनस्थानगे(हे?ह)देहस्पर्शादि वारिणः |
शुद्धिं नचाचरेदत्र निर्विकल्पं मनश्चरेत् || ७-१०६ ||

नात्र शुद्ध्याद्यपेक्षास्ति न चामेध्यादिदूषणम् |
य एवं चिन्तयेद् मन्त्री सर्वकामफलप्रदम् || ७-१०७ ||

गद्यपद्यमयी वाणी सभायां तस्य जायते |
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः || ७-१०८ ||

राजानोऽपि च दासत्वं भजन्ते किं परे जनाः |
सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः || ७-१०९ ||

महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् |
स्त्रीनिन्दां च न कुर्वीत तासां प्रेम विवर्द्धयेत् || ७-११० ||

अत्युत्कटापराधेऽपि न तस्या द्वेषमाचरेत् |
स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजयेत् स्त्रियः || ७-१११ ||

जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपं चरेत् |
स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्रापि देशिकः || ७-११२ ||

भक्षंस्ताम्बूलमन्यांश्च भ(क्ष?क्ष्य)द्रव्यं यथारुचि |
मांसमत्स्यदधिक्षौद्रभ(क्ष?क्ष्य)द्रव्यं यथारुचि || ७-११३ ||

भुक्तान्नशेषभ(क्षा?क्ष्या)णि भुक्त्वा सर्वं जपं चरेत् |
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च || ७-११४ ||

न जपे कालनियमो नार्चादिषु बलिष्वपि |
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने || ७-११५ ||

नाधर्मो विद्यते सुभ्रु किञ्चिद् धर्मो महान् भवेत् |
स्वेच्छाचारस्थितो देवि प्रचरेद् हृष्टमानसः || ७-११६ ||

(कृतार्थं?कार्तार्थ्यं)मन्यमानस्तु संतुष्टो जितमानसः |
जपं कृत्वा विशेषेण स्त्रिया च जपमाचरेत् || ७-११७ ||

आसनं शृणु देवेशि प्राक् सिद्ध्येज्जपमुत्तमम् |
पीठानामुत्तमं पीठं जपात् सार्वज्ञ्यदायकम् || ७-११८ ||

योनिपीठे निवेश्यैव श्रोण्यां कमललोचने |
योन्यां संक्षिप्तलिङ्गस्तु जपेत् तद्गतमानसः || ७-११९ ||

सहस्रं प्रत्यहं जप्त्वा कन्दर्पसदृशः पुमान् |
जायते नात्र संदेहः सत्यं सुरगणार्चिते || ७-१२० ||

चीनाचारविशेषं हि कथितं परमेश्वरि |
ताराकल्पे महेशानि विस्तरेण प्रकाशितम् || ७-१२१ ||

अत्र चैव महेशानि विशेषः कथितो मया |
योनिकुन्तलमादाय गृह्णीयादन्तरीयकम् || ७-१२२ ||

एवं वत्सरपर्यन्तं जपेत् तद्गतमानसः |
नीलासरस्वती काली चान्नपूर्णा च भैरवी || ७-१२३ ||

साधकाय प्रहृष्टाय प्रसीदति न संशयः |
साधकोऽपि महादेवि वत्सरात् तां प्रपश्यति || ७-१२४ ||

इह ते संशयो नास्ति सत्यं सत्यं महेश्वरि |
अतिस्नेहात् सुरश्रेष्ठे प्रकाशितमिदं तव || ७-१२५ ||

रहस्यं शृणु चार्वङ्गि येन सिद्ध्यति सुन्दरि |
रजस्वलां स्त्रियं वीक्ष्य सहस्रं प्रजपेद् यदि || ७-१२६ ||

तदैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा |
दिनैः षोडशभिर्देवि सिद्धिमाप्नोति साधकः || ७-१२७ ||

पर्वते हस्तमारोप्य निर्भयो यतमानसः |
कवितां लभते सोऽपि अमृतत्वं च गच्छति || ७-१२८ ||

नीलपद्मं तथा बिम्बं खञ्जनं शिखरं तथा |
चामरं रविबिम्बं च तिलपुष्पं सरोवरम् [सरोरुहम् ख पाठः |] || ७-१२९ ||

त्रिसूत्रं [त्रिशूलं ख पाठः |] वीक्ष्य जप्त्वा तु सततं शुद्धभावतः |
सुखप्रसादं सुमुखं सुलोचनं सुहास्यदम् || ७-१३० ||

सुकेशं सुगतिं कन्दं सुगन्धं सुखमेव च |
लभते च यथासंख्यं शृणु पार्वति सादरम् || ७-१३१ ||

महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूज्य च |
तद् द्रुमोद् भवपुष्पेण पूजयेद् भक्तिभावतः || ७-१३२ ||

स भवेत् कुलदेवश्च कुलक्रमगतः शुचिः |
ब्रह्मतरोर्महामूले देवीं ध्यात्वा यथाविधि || ७-१३३ ||

तत्सुधासारसारेण तर्पयेद् मातृकानने |
स भवेत् साधकश्रेष्ठो मातॄणां च भवेत् प्रियः || ७-१३४ ||

महाचीनद्रुमलतावेष्टितः साधकोत्तमः |
रात्रौ यदि जपेद् मन्त्रं सच [लता ख पाठः |] कल्पद्रुमो भवेत् || ७-१३५ ||

तिथिक्रमेण देवेशि लतया वेष्टितो भवेत् |
तदा मासेन सिद्धिः स्यात् सहस्रजपमानतः || ७-१३६ ||

अष्टम्यां च चतुर्दश्यां द्विगुणं यदि जप्यते |
तदैव महती सिद्धिर्देवानामपि दुर्लभा || ७-१३७ ||

महाचीनद्रुमे बीजं लिखित्वा कुङ्कुमेन च |
तत्पार्श्वे साध्यमालिख्य ताडयद् दृष्टिवृष्टिभिः || ७-१३८ ||

तत्र गच्छति कामार्ता यत्र यत्रोपलभ्यते |
महाचीनद्रुमरसेनाक्तं पिण्डं विधाय च || ७-१३९ ||

यन्नाम्ना दीयते देवि सोऽचिराद् मुक्तिमाप्नुयात् |
महाचीनद्रुममूल-मज्जाभिर्बिल्वपत्रकैः || ७-१४० ||

सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः |
तदा राज्यमवाप्नोति यदि सा न पलायते || ७-१४१ ||

तस्यापि षोडशांशेन कलां नार्हन्ति ते शवाः |
शवासनाधिकफलं लतागेहप्रवेशनम् || ७-१४२ ||

धनकामस्तु यो विद्वान् महदैश्वर्यकामुकः |
बृहस्पतिसमो यस्तु भवितुं कामयेद् नरः || ७-१४३ ||

अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य मन्त्रवित् |
मैथुनं यः प्रयात्येवं स तु सर्वफलं लभेत् || ७-१४४ ||

लतारतेषु जप्तव्यं महापातकमुक्तये |
लता यदि न संसर्गे तदा रेतः प्रयत्नतः || ७-१४५ ||

समुत्सार्य जपेद् मन्त्रं धर्मकामार्थसिद्धये |
सुरतेषु प्रजप्तव्यं महापातकमुक्तये || ७-१४६ ||

वरासनस्थां संवीक्ष्य तन्मूले स्वेष्टदेवताम् |
पूजयित्वा महारात्रौ त्रिदिनं पूजयेद् मनुम् || ७-१४७ ||

लक्षपीठफलं देवि लभते नात्र संशयः |
वेतालपादुकासिद्धिः खड्गसिद्धिश्च जायते || ७-१४८ ||

अञ्जनं तिलकं गुप्तं प्रजप्य तु सहस्रकम् |
स्वदेहरुधिराक्तैश्च बिल्वपत्रैः सहस्रकैः || ७-१४९ ||

श्मशानेऽभ्यर्च्य देवीं तु वागीशसमतां व्रजेत् |
श्मशाने योषितं मन्त्री संपूज्य ऋतुगां शुभाम् || ७-१५० ||

रक्तचन्दनदिग्धाङ्गीं रक्तवस्त्रैरलङ्कृताम् |
चारुपुष्पैर्मनुं प्रोच्य ततो ध्यायेच्च सुन्दरीम् || ७-१५१ ||

रमित्वा तां लभेद्राज्यं यदि नात्र पलायते |
मेषमाहिषरक्तेन वाग्मित्वं तस्य जायते || ७-१५२ || ७-

धनित्वं जायते तस्य सर्वसिद्धिः प्रजायते |
वचसा च भवेज्जीवो धनेन च धनाधिपः || ७-१५३ ||

आज्ञया देवराजोऽसौ रूपेणैव मनोभवः |
बलेन पवनो ह्येष सर्वतत्त्वार्थसाधकः || ७-१५४ ||

शोधितं साधितं दद्यात् सास्थि मांसं सदा बलिम् |
सर्वं सास्थि प्रदातव्यं तथा लोमसमन्वितम् || ७-१५५ ||

एवंभूतः सदा देवि साधको भुवि दुर्लभः |
यया कयाचित् दृष्ट्या वा यज्जपो भुवि दृश्यते || ७-१५६ ||

एतत् प्रकाशनात् देवि मृत्युर्भवति नान्यथा |
एतत् साधकनिन्दां वा एतन्मन्त्रस्य वा पुनः || ७-१५७ ||

महाभूतगणैः सार्धं तस्य सर्वं हराम्यहम् |
योगिनीचक्रसहिता स्वयं तद्वधकारिणी || ७-१५८ ||

रहस्यं शृणु देवेशि येन वाग्मी भवेत् सदा |
यस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि || ७-१५९ ||

सारस्वतप्रयोगोऽयं कथितो विश्वमोहने |
विशेषं कथयिष्यामि सावधानावधारय || ७-१६० ||

वीरतन्त्रे कथितं ते येन सर्वमयो भवेत् |
जिह्वायां भावयेद् यस्तु तारिणीं दीपरूपिणीम् || ७-१६१ ||

मातृकासहितां विद्यां त्रिरावर्त्य जलं पिबेत् |
जलपानविधानेन मूकोऽपि सुकविर्भवेत् || ७-१६२ ||

अजस्रभावनाभ्यासात् साधकः सुकृती सुधीः |
कविर्वाग्मी महायोगी मुक्तिभागी भवेन्नरः || ७-१६३ ||

अब्दाच्चतुर्विधं तस्य पाण्डित्यमुपजायते |
अथ वक्ष्ये महेशानि रहस्यं परमाद्भुतम् || ७-१६४ ||

युवतीनां तु योनौ तु लिखेद् मन्त्रान् मनोरमान् |
संजप्य च महामन्त्रं सर्वसारस्वतप्रदम् || ७-१६५ ||

सहस्रजपमानेन प्रयोगं च समाचरेत् |
पश्चाद् भ्रमणयोगेन ताडयेद् योनिमण्डलम् || ७-१६६ ||

सहस्रं च जपेत् तावद् यावद् रेतो न जायते |
तेन तत्त्वेन देवेशि तर्पयेद् यतमानसः || ७-१६७ ||

कवित्वं जायते सुभ्रु वाग्मित्वं च तथैव च |
पण्डि(त)त्वं महत्त्वं च जायते नात्र संशयः || ७-१६८ ||

रक्तपुष्पैर्महेशानि योनिपूजनमाचरेत् |
युवतीरूपमास्थाय पूजयेद् बहुयत्नतः || ७-१६९ ||

घृणां त्यक्त्वा महेशानि पूजयेद् योनिमण्डलम् |
रहस्यं शृणु चार्वङ्गि येन सिद्धो भवेद् मनुः || ७-१७० ||

(श्रीदेव्युवाच |)

भगवन् भूतभव्येश भूताधिप महाबल |
प्रसीद देवदेवेश सर्वप्राणिहिते रत || ७-१७१ ||

येनावश्यं भवेत् सिद्धिस्तदुपायं वद प्रभो |

श्रीभैरव उवाच |

शृणु देवि परं ज्ञानं सर्वज्ञानोत्तमोत्तमम् |
येन विज्ञानमात्रेण शीघ्रं विद्या प्रसीदति || ७-१७२ ||

मूलकन्दे च या शक्तिर्जगदाधाररूपिणी |
तद्भ्रमावर्तवातो यः प्राण इत्युच्यते बुधैः || ७-१७३ ||

झिल्लीशब्दा व्यक्ततरा कूजन्ती सततोत्थिता |
गच्छन्ती ब्रह्मरन्ध्रेण प्रविशन्ती स्वकेतनम् || ७-१७४ ||

यातायातक्रमेणैव तत्र कुर्यान्मनोलयम् |
तेन मन्त्रे शिखा जाता सर्वमन्त्रप्रदीपिका || ७-१७५ ||

तमःपूर्णे गृहे यद्वद् न किञ्चिदपि भासते |
शिखाहीनास्तथा मन्त्रा न सिध्यन्ति कदाचन || ७-१७६ ||

शिखोपदेशः सर्वत्र गोपितः परमेश्वरि |
तेन विना न सिद्धिः स्याद् वर्षकोटिशतैरपि || ७-१७७ ||

तस्मात् त्वयापि गिरिजे गोपनीयः प्रयत्नतः |
सुप्ता निद्रायिता मत्ता विद्रावणरता परा || ७-१७८ ||

समस्तदोषजालेन ग्रथिता [रहिता येन ख पाठः |] कुलसुन्दरि |
[स्वापे प्रहरे महानिशि चारो वामनाड्या वायोरुदयः | तथैव दक्षिणनाड्या वायोरुदये दिवाचारः | संध्याचारस्तु उभयनाडीप्रवाहः |] निशाचारं दिवाचारं सन्ध्याचारं च पल्लवम् || ७-१७९ ||

दुर्लभं बीजसंयुक्तं [संकेतं भावसंकेतं ख पाठः |] भावसंयोगमेव च |
ज्ञात्वा प्रबोधयेद् वीरो गुरुस्तत्रैव कारणम् || ७-१८० ||

निशाचारे महेशानि विशेषं कथयामि ते |
वामदक्षिणनासायामुदये देवि तत्त्वतः || ७-१८१ ||

स्वापकाले तु मन्त्राणां जपोऽनर्थफलप्रदः |
स्वापकालो वामवाहो जागरो [प्रबोधो ख |] दक्षिणावहः || ७-१८२ ||

आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः |
प्रबोधकालं जानीयाद् मन्त्रयोरुभयोरपि || ७-१८३ ||

कर्मणोर्वह्निताराद्याः वियत्प्रायाः समीरिताः |
आग्न्येययोऽपि च सौम्याः स्युर्भूयिष्ठेन्द्वमृताक्षराः || ७-१८४ ||

एवं पञ्चाशदाग्नेययो विद्याः सौम्याः प्रकीर्तिताः |
वामवाहो यदा वायुर्दीर्घाणां योजनं तदा || ७-१८५ ||

दक्षिणस्यां यदा वायुस्तदा ह्रस्वो नियोजितः |
उभयस्थो यदा वायुस्तदा स्युरुभयात्मिकाः || ७-१८६ ||

प्रणवं मातृकादेवी हृल्लेखेत्यमृतत्रयम् |
अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिद्ध्यति || ७-१८७ ||

एवं शृणु वरारोहे सर्वसारं मनूत्तमम् |
नियमः पुरुषैर्ज्ञेयो न योषित्सु कदाचन || ७-१८८ ||

यद्वा तद्वा येन तेन सर्वतः सर्वतोऽपि च |
योषितां ध्यानमात्रेण सिद्धयः स्युर्न संशयः || ७-१८९ ||

यथाऽयस्कान्तमात्रेण गूढविद्धशिलंत्वयः |
स्वयमेव बहिर्याति यथा वा सौरतेजसा || ७-१९० ||

सूर्यकान्तः स्फुटं भाति यथा चन्द्रस्य रश्मिभिः |
चन्द्रकान्तो द्रावयति यथा वर्षासु वारिदैः || ७-१९१ ||

जलसेकातितृप्ता भू रसपूर्णा प्रचक्षते |
क्षुधार्तः क्षीरपानेन यथा तृप्तोऽभिजायते || ७-१९२ ||

पुष्पदर्शनमात्रेण गन्धर्वश्च सुखी भवेत् |
कुलपुष्पप्रदानेन यथा शक्तिः प्रतुष्यति || ७-१९३ ||

गुरुसेवैकमात्रेण मन्त्रसिद्धिर्भवेद् यथा |
महापद्मवनं ध्यात्वा यथा सिद्धिश्वरो भवेत् || ७-१९४ ||

त्रिपुराध्यानमात्रेण भुक्तिर्मुक्तिर्यथा भवेत् |
महादुर्गाप्रसादेन यथा सिद्धीश्वरो भवेत् || ७-१९५ ||

युवतीध्यानमात्रेण यथा कुलपतिर्भवेत् |
गङ्गास्मरणामात्रेण निष्पापो जायते यथा || ७-१९६ ||

तथा कर्षणमात्रेण शिव एव प्रजायते |
कामाख्या योनिपूजायां यथा तुष्यति भैरवि || ७-१९७ ||

योषिच्चिन्तनमात्रेण तथैव वरदायिनी |
तस्मात् सर्वप्रयत्नेन दीक्षयेद्(द्वि?नि)जकौलिकीम् || ७-१९८ ||

अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते |
अनेनैव क्रमेणैव यः करोति क्रियां शुभाम् || ७-१९९ ||

तस्य वंशे महेशानि बृहस्पतिसमः पुमान् |
जायते नात्र सन्देहः सत्यं सत्यं सुरार्चिते || ७-२०० ||

एकदा नारदं प्राप्य गौरी सर्वसुखान्विता |
पप्रच्छ मधुरां भाषां शङ्करान्वेषणे रता || ७-२०१ ||

देवर्षिरब्रवीद् वाक्यं शृणु हे नगनन्दिनि |
ताराप्रयोगमेतं हि येन सिद्धिर्भविष्यति || ७-२०२ ||

नारद उवाच |

एकदेन्द्रः श्रिया भ्रष्टो विहाय चामरावतीम् |
हिरण्याक्षपुरेऽगच्छत् सहितो देवसैन्यकैः || ७-२०३ ||

देवारिभिः समं तत्र विरोधः सुमहानभूत् |
पराजितो देवराजो बृहस्पतिपुरोधसः || ७-२०४ ||

आश्रमे च पुनर्गत्वा विमृश्य विविधं शिवे |
उवाच सादरं वाक्यं गुरुं प्राप्य जगद् गुरुम् || ७-२०५ || ७-

(इन्द्र उवाच |)

विश्वेषां पावनस्त्वं हि जगत् यस्मिंश्चराचरे |
ब्रजामि शरणं देव रक्ष मां भगवन् यतः || ७-२०६ ||

उपायं ब्रूहि देवेश इन्द्रत्वं जायते यतः |
केन रूपेण देवेश मम त्राणं भविष्यति || ७-२०७ ||

बृहस्पतिरुवाच |

देवेन्द्र शृणु मद्वाक्यं येन त्राणं भविष्यति |
हिरण्याक्षपुरे देव दैत्याः सर्वारिमर्दकाः || ७-२०८ ||

तेषां पराभवं कर्तुं न क्षमो जगतीतले |
कारणं शृणु देवेश येनैव शृणु मद्वचः || ७-२०९ ||

पुरा त्रेतायुगे राजन्नकरोर्नीलसाधनम् |
तेन पुण्यफलेनैव इन्द्रत्वं गतवान् प्रिय || ७-२१० ||

कालीतारासाधनं च नानारूपेणवि(स्तरं?स्तृतम्) |
अकरोद् दैत्यपुत्रोऽसौ तस्मात् पुण्यफलादिदम् || ७-२११ ||

येनोपायेन देवेश इन्द्रत्वं प्राप्स्यसि स्वयम् |
तस्योपायं महाराज सावधानोऽवधारय || ७-२१२ ||

धर्मेण वर्धते नित्यमधर्मान्न विवर्धते |
येन रूपेण देत्योऽसौ धर्मं संत्यजति द्रुतम् || ७-२१३ ||

तमुपायं जगद्वन्द्य(ब्रूहि?शृणु)सत्यं वचो मम |
वृद्धब्राह्मणरूपेण वञ्चयामि सुरेश्वर || ७-२१४ ||

ततो विप्रो महान् भूत्वा वृद्धः पण्डितपावनः |
सर्वशास्त्रार्थतत्त्वज्ञो हिरण्याक्षपुरं ययौ || ७-२१५ ||

शृणु वत्स महद् वाक्यं येन भद्रं भविष्यति |
अहं तु सर्वशास्त्रज्ञो निर्धनत्वादिहागतः || ७-२१६ ||

वृत्तिं दत्त्वाध्यापकत्वमिति भिक्षा कृता मया |
अध्यापकाय यो वृत्तिं दत्त्वाध्यापयति द्विजान् || ७-२१७ ||

किं न दत्तं भवेत् तेन धर्मकामार्थमिच्छता |
पुण्यात् पुण्यतरं पुण्यं जानीहि सर्वसंमतम् || ७-२१८ ||

तथाऽस्त्विति वचः(श्रु?कृ)त्वा चाददद् वृत्तिमुत्तमाम् |
अध्यापयामास द्विजान् दत्त्वा वृत्तिं मनोरमाम् || ७-२१९ ||

कुतर्कः शतशो देवि कृतस्तेन महीयसा |
कुतर्केण महादेवि कुतर्कोऽयं महानपि || ७-२२० ||

मोहितो दैत्यराजेन्द्रो येन दानवपुङ्गवः |
कृते कर्मणि भूमिस्थैः स्वर्गे तृप्तिः कथं भवेत् || ७-२२१ ||

तारिणी च महाकाली भवानी च महेश्वरी |
तासां पूजा वृथा देव किमर्थं क्रियतेऽशुभा || ७-२२२ ||

एवं बहुविधेनैव कुतर्केण महानपि |
मोहितो दैत्यराजोऽसौ धर्मं त्यक्त्वा महेश्व(री?रि) || ७-२२३ ||

अधर्मनिरताः सर्वे धर्मं त्यक्त्वा महेश्वरि |
कालक्रमेण तेषां तु आपदः परमाः शुभे || ७-२२४ ||

ततो बृहस्पतिर्देवो देवराजगृहं ययौ |
इन्द्राय सर्वमाचख्यौ दैत्यानां कर्मबन्धनम् || ७-२२५ ||

शृणु चैकाग्रमनसा येन ते कुशलं महत् |
जायते नात्र संदेहो देवराज जगत्पते || ७-२२६ ||

तारिणीं कालिकां चैवान्नपूर्णां भैरवीं पराम् |
संपूज्य विधिवद्भक्त्या सर्वसिद्धिर्भविष्यति || ७-२२७ ||

पूजाविधानं देवेश श्रोतुमर्हम्यसंशयम् |
प्राङ्गने मध्यमे रात्रौ फाल्गुने मासि सुन्दर || ७-२२८ ||

चतुर्दिक्षु महेशान कदलीस्तम्भमुत्तमम् |
आत्म(ने?नो)ऽग्रे च देवेश मण्डपं कारय प्रिय || ७-२२९ ||

चूताश्वत्थवटैर्दे(वि?व)च्छन्नं कुर्याच्च मण्डपम् |
कुमारीवेष्टितं कुर्याद् मण्डपं सर्वमोहनम् || ७-२३० ||

तारामूर्तिं तथा कालीमूर्तिं वा देवराजक |
सर्वकार्यप्रदां देव तां कुरुष्व महेश्वर || ७-२३१ ||

अन्नदामूर्तिमेतां हि कुरु वा सुरवन्दित |
वटपत्रे महादेव्यै बलिं यत्नेन दापयेत् || ७-२३२ ||

आसनं कम्बलं दद्यात् स्वागतं मधुनिर्मितम् |
पाद्यं तु पयसा दद्यादर्घ्यं दद्यात् कुशेन च || ७-२३३ ||

मधुपर्कं घृतेनैव जलेनाचमनीयकम् |
तक्रेण स्नानमाचर्य वसनं लोहितं स्मृतम् || ७-२३४ ||

रजताभरणं दद्यात् सर्वदेवमनोहरम् |
तण्डुलेन विना देव्यै नैवेद्यं दापयेत् प्रिय || ७-२३५ ||

चर्व्यं चोष्यं तथा लेह्यं पेयं दद्याद् मनोहरम् |
रक्तचन्दनबीजैश्च जपेदष्टसहस्रकम् || ७-२३६ ||

शुक्लप्रतिपदारभ्यमष्टम्यां च समापयेत् |
बलिं दद्याद् महादेव्यै छागेन महिषेण वा || ७-२३७ ||

अन्नं मत्स्यं तथा मांसं घृतं परमशोभनम् |
पिष्टकं परमं द्रव्यं दद्याद् देव्यै मनोहरम् || ७-२३८ ||

होमयेद् देवदेवेश यथाशक्ति विधानतः |

श्रीभैरव उवाच |

कुमारीं पूजयेद् यत्नैर्द्रव्यैर्बहुविधैरपि || ७-२३९ ||

होमादिकं तु सकलं कुमारीपूजनं विना |
परिपूर्णफलं नैव सकलं पूजनं भवेत् || ७-२४० ||

ततः सकलसिद्ध्यर्थं कुमारीं तु प्रपूजयेत् |
आनयेत् कन्यकां योग्यां कुमारीं तु सुवासिनीम् || ७-२४१ ||

सुवासिनीं मदप्रौढां संशयं त्यज सुन्दरि |
कथयामि न सन्देहः कुमारीपूजनं शुभम् || ७-२४२ ||

यस्याः पूजनमात्रेण त्रैलोक्यपूजनं भवेत् |
कुमारी च महेशानि त्रिधा मूर्तिर्व्यवस्थिता || ७-२४३ ||

परापरात्मिका चैव तृतीया च परापरा |
यत्र काले न किञ्चित् स्याद् देवासुरमहोरगाः || ७-२४४ ||

त्रैलोक्यं न त्वमहं तदा जाता कुमारिका |
आद्यसृष्टिकरी या तु प्रत्यक्षा साभवत् त्रिधा || ७-२४५ ||

उमाकला तु सा जाता [देवी ख पाठः |] सृष्टिरूपा भवान्तरे |
एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती || ७-२४६ ||

त्रिवर्षा च त्रिधा मूर्तिश्चतुर्वर्षा च कालिका |
सुभगा पञ्चवर्षा च षड्वर्षा तु उमा भवेत् || ७-२४७ ||

सप्तभिर्मालिनी चैव अष्टवर्षा च कुब्जिका |
नवभिः कालसङ्कर्षा दशभिश्चापराजिता || ७-२४८ ||

एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी |
त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका || ७-२४९ ||

क्षेत्रज्ञा पञ्चदशभिः षोडशे चर्चिका मता |
एवं क्रमेण संपूज्या यावत् पुष्पं न जायते || ७-२५० ||

प्रतिपदादि पूर्णान्तं वृद्धिभेदेन पूजयेत् |
महापर्वसु सर्वेषु विशेषाच्च पवित्रके || ७-२५१ ||

महानवम्यां देवेशि कुमारीं च प्रपूजयेत् |
पिङ्गलां पूजयेद् यस्तु षोडशे चैकभक्तिमान् || ७-२५२ ||

भक्तितः पूजयित्वा तु सर्वसंपत्तिमान् भवेत् |
पूजयेत् कुलविद्यानामेकैकां कुलभैरवीम् || ७-२५३ ||

एवं प्रणवयोगेन चैतन्यं तत्त्वमर्चयेत् [मनुं ख पाठः |] |
प्रणवस्य विशेषं हि जानीहि नगनन्दिनि || ७-२५४ ||

यज्ज्ञानात् साधकाः सर्वे भवन्ति मुक्तिभागिनः |
योनिर्बिन्दुमती चैव मायाबीजं ततः परम् || ७-२५५ ||

ततो लक्ष्मीं समुच्चार्य कुर्याद् मायां महेश्वरि |
[ऐं ह्रीं श्रीं हूं ह्रीं एते पञ्च प्रणवाः |] प्रणवाः पञ्च विख्याताः सर्वपापहराः शुभे || ७-२५६ ||

भैरवीबीजमाख्यातं प्रेतबीजं मनोहरम् |
एकं द्वाभ्यां त्रिभिश्चैव सप्तभिर्वाष्टभिः पुनः || ७-२५७ ||

महाभयानि दुर्भिक्षाद्युत्पातानि कुलेश्वरि |
दुःस्वप्नमपमृत्युश्च अन्ये ये ये समुद्भवाः || ७-२५८ ||

कुमारीपूजनादेव न तस्य प्रभवन्ति हि |
नित्यक्रमेण देवेशि पूजयेद् विधिपूर्वकम् || ७-२५९ ||

घ्नन्ति विघ्नान् पूजितास्तास्तथा शत्रून् महोत्कटान् |
व्याधयः सर्वरिष्टानि दुर्निमित्तान्यसंशयम् || ७-२६० ||

ग्रहा यक्षाः क्षयं यान्ति भूतवेतालपन्नगाः |
असुरा गुह्यकाः प्रोक्ता योगिनी गुह्यडाकिनी || ७-२६१ ||

अणिमादीनि वेतालभैरवादीनि चैव हि |
तुष्यन्ति दिव्यवेतालो भवेत् कुमारिकार्चनात् || ७-२६२ ||

ऐंकारेण जलं देयं ह्रींकारात् पादशोधनम् |
श्रींकारेण महेशानि अर्घ्यं दद्याद् महेश्वरि || ७-२६३ ||

कूर्चबीजेन देवेशि दद्याच्चन्दनमुत्तमम् |
शक्तिबीजेन पुष्पाणि सर्वैः धूपांश्च दापयेत् || ७-२६४ ||

वाग्भवं च ततो मायां सुन्दरीति ततः परम् |
ङेऽन्तं पश्चिमवक्त्रं च हृदन्तेन न्यसेत् प्रि(य?ये) || ७-२६५ ||

योनियुक्तं शान्तवर्णो बिन्दुयुक्तःसुरार्चिते |
कुमारिके पदं प्रोच्य शिरसे वह्निवल्लभा || ७-२६६ ||

वेदादिं च ततो मायां स्वबीजं तदनन्तरम् |
शिखायै वषडित्युक्तं भैरवप्राणवन्दिते || ७-२६७ ||

प्रणवं काकिनीं चैव बिन्दुयुक्तां सनातनीम् |
वागीश्वरी पदं चोक्त्वा कवचाय हुमीरितम् || ७-२६८ ||

मायाबीजं समुच्चार्य अस्त्राय फडिति क्रमात् |
वाग्भवं च सिद्धि पदं जयाय तदनन्तरम् || ७-२६९ ||

पूर्ववक्त्राय देवेशि हृदन्तेन प्रपूजयेत् |
पुनर्वाग्भवबीजं ङेयुतमुत्तरवक्त्रकम् || ७-२७० ||

नमोन्तेन महादेवि पूजयेत् सुरसुन्दरीम् |
प्रणवं च महेशानि कालिके पदमन्तरम् || ७-२७१ ||

दक्षवक्त्राय तत्पश्चाद् नमोन्तं भैरवप्रिये |
वाग्भवेन पुरक्षोभं मायाबीजे गुणाष्टकम् || ७-२७२ ||

श्रीबीजेन श्रियो लाभो ह्रींबीजेनारिसंक्षयः |
भैरवेण तु बीजेन खड्गानामपराजितम् || ७-२७३ ||

कुमारिकाष्टकं वाथ सदा त्वं च कुमारिका |
अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् || ७-२७४ ||

पूजिताः पूजयन्त्येता निर्दहन्त्यवमानिताः |
कुमारी योगिनी साक्षात् कुमारी सर्वदेवताः || ७-२७५ ||

भूर्भुवर्मूर्तिका देवी कुमारी च प्रपूजिता |
असुरा दुष्टनागाश्च ये ये दुष्टग्रहा अपि || ७-२७६ ||

भूतवेतालगन्धर्व डाकिनीयक्षराक्षसाः |
हृदयं देवताः सर्वे भूर्भुवश्चैव भैरवि || ७-२७७ ||

पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् |
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ७-२७८ ||

ते तुष्टाः सर्वतुष्टाश्च कुमारीं यः प्रपूजयेत् |
कालाग्निशिवपर्यन्तं तथा गौर्यादिसंस्थितिः || ७-२७९ ||

सप्तद्विपाः समुद्राश्च भुवनानि चतुर्दश |
विधिना वै कुमारीं च भोजयेच्चैव भैरवीम् || ७-२८० ||

पाद्यमर्घ्यं तथा धूपं कुङ्कुमं चन्दनं तथा |
भक्तिभावेन संपूज्य सर्वं त(स्य?स्या) निवेदयेत् || ७-२८१ ||

प्रदक्षिणत्रयं कुर्याद् आदौ मध्ये तथान्ततः |
पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः || ७-२८२ ||

विवाहयेत् स्वयं कन्यां ब्रह्महत्या विनश्यति |
गवां हत्या स्त्रिया हत्या सर्वं पापं प्रणश्यति || ७-२८३ ||

माता चैव पिता चैव भ्रातरश्च विशेषतः |
ये च यत्र पुरः [पुनः ख पाठः |] सर्वे कन्यादानं प्रकल्पयेत् || ७-२८४ ||

भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसंपदः |
रुद्रलोके वसेद् नित्यं त्रिनेत्रो [नियतो ख पाठः |] भगवान् हरः || ७-२८५ ||

षष्टिकोटिसहस्राणि अश्वमेधफलं लभेत् |
एतत् फलं लभेद् मर्त्यः कन्यां यस्तु विवाहयेत् || ७-२८६ ||

बालुकाः सागरे यावत् तावदब्दं महेश्वरि |
एकैकं कुलमुद्धृत्य सत्यकल्पे गतोऽपि च || ७-२८७ ||

तावत् स भुङ्क्ते भोगांश्च यावद्भूमिदिवौकसः |
कन्यादानं महादानं सर्वदानेषु चोत्तमम् || ७-२८८ ||

दौर्भाग्यं नश्यति क्षिप्रं सौभाग्यं च प्रवर्धते |
राजद्वारे लभेत् पूजां राजलक्ष्मीः स्थिरायते || ७-२८९ ||

सर्वाः कुमारिकाश्चैव पूजयेद् भक्तिभावतः |
महाभये समुत्पन्ने यस्तु कन्यां प्रपूजयेत् || ७-२९० ||

तत्क्षणाल्लभते मोक्षं सत्यं सत्यं न संशयः |
इति ते कथितं देवि कुमारीपूजनक्रमम् || ७-२९१ ||

विशेषलक्षणं चैव कथयिष्यामि संशृणु |
तस्मात् परतरं नास्ति(म?त)न्त्रमध्ये महेश्वरि || ७-२९२ ||

कुमारीं पूजयित्वा च शिवत्वं गतवानहम् |
कृष्णत्वं गतवान् कृष्णो ब्रह्मत्वं गतवान्(मुदा?विधिः) || ७-२९३ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (निग्रहादिप्रयोग कुमारीपूजाक्रमनिरूपणं) सप्तमः पटलः || ७ ||


Kapitel 8: Yantras, Mantravarianten und Weihen

श्रीभैरव उवाच |

यन्त्रं शृणु वरारोहे येन सिद्ध्यति निश्चितम् |
ततो लिखेद् यन्त्रराजं समस्तपुरुषार्थदम् || ८-१ ||

यस्य विज्ञानमात्रेण सद्यः खेचरतां व्रजेत् |
आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्बहिर्न्यसेत् || ८-२ ||

बहिस्त्रिकोणमालिख्य षट्कोणं तद्बहिर्न्यसेत् |
मध्ये तु वैन्दवं चक्रं मायाबीजविभूषितम् || ८-३ ||

षट्कोणं तद्बहिर्वृत्तं ततश्चाष्टदलं लिखेत् |
बहिर्वृत्तेन संयुक्तं भूपुरेणैव संवृतम् || ८-४ ||

ज्ञात्वैवं मुक्तिमायाति यन्त्रमेतन्न संशयः |
एतत् तु विलिखेत् ताम्रे कुण्डगोलविलेपिते || ८-५ ||

स्वयंभूकुसुमैर्युक्ते कुङ्कुमागुरुसंयुते |
शुद्धासने च पशुभिरदृष्टे पुरतो न्यसेत् || ८-६ ||

अर्घ्यद्रव्यमर्घ्यपात्रे निक्षिपेत् पुरतः सुधीः |
ततोऽर्घ्यं कारयेद् मन्त्री तया नार्या सुवेशया || ८-७ ||

कुण्डगोलोद्भवं द्रव्यं सुयंभूकुसुमं तथा |
नाधर्मो जायते सुभ्रु महामन्त्रस्य साधने || ८-८ ||

ततो पीठक्रमेणैव यन्त्रपूजां समाचरेत् |
ततो हृदयपद्मान्तः स्फुरन्तीं परमेश्वरीम् || ८-९ ||

सुषुम्नावर्त्मना नीत्वा शिरःस्थानं महेश्वरि |
ततो वै स्वकराम्भोजपुष्पराशौ समानयेत् || ८-१० ||

नासया वामया देवि वायुबीजेन मन्त्रवित् |
देवेशि भक्तिसुलभे परिवारसमन्विते || ८-११ ||

यावत् त्वां पूजयिष्यामि मातर्देवि इहावह |
इत्यनेन च मन्त्रेण देवीमावाहयेत् सुधीः || ८-१२ ||

आवाह्य देवीं तामिष्ट्वा चोपचारैर्निवेश्य च |
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् || ८-१३ ||

विप्रचित्तां पूजयेच्च बहिः षट्कोणके तथा |
उग्रामुग्रप्रभां दीप्तां तन्मध्ये च त्रिकोणके || ८-१४ ||

मात्रां मुद्रां मितां चैव पूजयेदपर त्रिके |
सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः || ८-१५ ||

तर्जनीं वामहस्तेन धारयन्त्यो दिगम्बराः |
देवतादक्षिणे भागे महाकालं समर्चयेत् || ८-१६ ||

ततः स्तुत्वा नमस्कृत्य कुर्यात् संमेलनं धिया |
देवताग्रे तु संभोगं देवताप्रीतिकारकम् || ८-१७ ||

संभोगं तु पुरस्कृत्य देवीमीह विसृज्य च |
कृतकृत्यो भवेन्मन्त्री नात्र कार्या विचारणा || ८-१८ ||

इदानीं शृणु देवेशि उपचारान् विशेषतः |
प्रथमं तु सुरा पूज्या माध्वी गौडी तथैव च || ८-१९ ||

पैष्टी तस्या अभावेन आतिदेशिकमाचरेत् |
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु || ८-२० ||

गव्यं च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना |
ताम्बूलं च सकर्पूरं नारिकेलं सशर्करम् || ८-२१ ||

पायसं सघृतं चैव आर्द्रकं सगुडं तथा |
तण्डुलं सतिलं चैव तालं खर्जूरमेव च || ८-२२ ||

कदलीं तिन्तिडीं चैव श्रीफलं फलमुत्तमम् |
अन्यानि च सुगन्धीनि स्वादूनि च फलानि च || ८-२३ ||

नरश्छागस्तथा मेषो महिषः शशकस्तथा |
शरभः शूकरश्चैव बलयः परिकीर्तिताः || ८-२४ ||

कृष्णमार्जारकश्चैव ज्ञातव्या मन्त्रवित्तमैः |
एतेषां चैव रक्तानि देयानि परमेश्वरि || ८-२५ ||

जलं सुवासितं देयं कुलक्षालनमेव च |
नैवेद्यानि प्रधानानि कथितानि मया प्रिये || ८-२६ ||

येन संतुष्यते देवि कुमारी वरवर्णिनी |
तं दद्यात् परमेशानि किमन्यच्च्रोतुमिच्छसि || ८-२७ ||

पुष्पितायाः कुलागारं स्पृष्ट्वा जपति यो नरः |
अयुतैकप्रमाणेन साधकः स्थिरमानसः || ८-२८ ||

केवलं शुद्धभावेन स तु विद्यानिधिर्भवेत् |
संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तथा || ८-२९ ||

वशमायान्ति ते सर्वे साधकस्य न चान्यथा |
मुक्तकेशो हविष्याशी प्रजपेदयुतं नरः || ८-३० ||

नग्नां परस्त्रियं स्पृष्ट्वा प्रजपेत् स्थिरमानसः |
तस्यालोकनमात्रेण वादिनो निष्प्रभां गताः || ८-३१ ||

राजानोऽपि च दासत्वं भजन्ते किं परे जनाः |
धनकामस्तु यो विद्वान् महदैश्वर्यकामुकः || ८-३२ ||

बृहस्पतिसमो यस्तु भवितुं कामयेन्नरः |
सुन्दरीं यौवनोन्मत्तां नारीमानीय यत्नतः || ८-३३ ||

अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य मन्त्रवित् |
मैथुनं यः करोत्येव स तु विद्यानिधिर्भवेत् || ८-३४ ||

विपरीतरता सा तु भुवि श्रीर्हृदयोपरि |
तन्मुखे चुम्बनं दत्त्वा सहस्रं मानसं जपेत् || ८-३५ ||

स भवेत् सर्वसिद्धीशो नात्रकार्या विचारणा |
सर्वेषां साधनानां हि श्रेष्ठं स्यात् कुलसाधनम् || ८-३६ ||

तस्मात् सर्वप्रयत्नेन साधयेत् तं समाहितः |
इदानीं शृणु देवेशि रहस्यमिदमुत्तमम् || ८-३७ ||

पुरा दारुवने रम्ये उन्मत्ता रागमोहिताः |
परस्त्रियं घर्षयन्ति मद्यं स्वादन्ति नित्यशः || ८-३८ ||

तद् दृष्ट्वानुचितं कर्म विष्णुना समुपस्थितम् |

श्रीविष्णुरुवाच |

देवदेव महादेव सर्वदेव दयानिधे || ८-३९ ||

देवदारुवने पापा मद्यपानरतातुराः |
परस्त्रियं घर्षयन्ति मुनयो रागमोहिताः || ८-४० ||

दिगम्बरास्तथा मूढाः संप्रयास्यन्ति कां गतिम् |
इति तस्य वचः श्रुत्वा तमुवाच त्वहं प्रिये || ८-४१ ||

कालिका या महाविद्या ह्यनिरुद्धसरस्वती |
विद्याराज्ञीति या प्रोक्ता एते तन्मन्त्रजापकाः || ८-४२ ||

परं मुक्ता भविष्यन्ति तद्गायत्रीं जपन्ति च |
एतस्यास्तु प्रभावेण सर्वे देवा विमोचिताः || ८-४३ ||

निजमातृवधात् सोऽपि परशुरामो विमोचितः |
दत्तात्रेयश्चात्रिपुत्रः सुरापानाद् विमोचितः || ८-४४ ||

गोतमस्त्रीघर्षणाच्च देवेन्द्रोऽपि विमोचितः |
चाण्डालीगमनात् पूर्वं वशिष्ठश्च विमोचितः || ८-४५ ||

गुरुदाराघर्षणाच्च चन्द्रमाश्च विमोचितः |
ब्रह्मणस्तु शिरश्छेदाच् शिवः सोऽहं विमोचितः || ८-४६ ||

रावणस्य वधाच्चापि रामचन्द्रो विमोचितः |
तमेव गूढं वक्ष्यामि श्रुत्वा गोप्यः सदा बुधैः || ८-४७ ||

कालिकायै पदं चोक्त्वा विद्महे तदनन्तरम् |
ततः श्मशानवासिन्यै धीमहीति पदं ततः || ८-४८ ||

तन्नो घोरी पदं चोक्त्वा ततः कामः प्रचोदयात् |
एषा तु कालीगायत्री दशधा जप्तयानया || ८-४९ ||

ब्रह्महत्यादिपापानि खण्डं खण्डं व्रजन्ति हि |
अनया सदृशी विद्या अनेन सदृशो जपः || ८-५० ||

अनेन सदृशं ज्ञानं न भूतं न भविष्यति |
अन्यच्च शृणु देवेशि यथा पानादिकर्मणि || ८-५१ ||

कुमारीसाधनादीनि अनया साधयेच्छुभे |
लीलया च महेशानि सिद्धिर्भवति निश्चितम् || ८-५२ ||

नटी कापालिनी वेश्या रजकी ब्राह्मणी शुभा |
शूद्रकन्या विशः स्त्री च क्षत्रि(यी?या) सर्वदायिनी || ८-५३ ||

एतासां कांश्चिदानीय ततस्तद्योनिमण्डले |
पूजयित्वा महादेवीं ततो मैथुनमाचरेत् || ८-५४ ||

धर्माधर्महविर्दी(प्ता?प्ते) आत्माग्नौ मनसा स्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् || ८-५५ ||

स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः |
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् || ८-५६ ||

धर्माधर्मफल[कला ख पाठः |]स्नेहपूर्णां वह्नौ जुहोम्यहम् |
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः || ८-५७ ||

ततो गच्छेत् प्रियां गच्छन् देवीं त्रिभुवनेश्वरीम् |
तच्छ्रुत्वा वचनं विष्णुर्मां पुनरभ्यभाषत || ८-५८ ||

नमोऽस्तु ते महादेव सर्वतन्त्रात्मरूपिणे |
त्वत् प्रसादादयं देव संशयो मे महान् गतः || ८-५९ ||

अनुजानीहि देवेश गमिष्यामि यथासुखम् |
ततो मयाभ्यनुज्ञातः प्रणम्य च यथाविधि || ८-६० ||

ययौ स्वभवनं विष्णुरेतत् ते कथितं प्रिये |
इदानीं शृणु देवेशि मन्त्रराजं मनोरमम् || ८-६१ ||

अत्र श्रीमन्त्रराजस्य माहात्म्यं शृणु पार्वति |
श्रद्धया यत्र देवेशि परां मुक्तिमवाप्स्यति || ८-६२ ||

अश्वमेधैश्च गोमेधैर्नरमेधैस्तथा परैः |
दानैश्च विविधैर्द्रव्यैर्होमैर्नानाविधैरपि || ८-६३ ||

अनेकजन्मसाहस्रैस्तपोभिः प्राप्यते परा |
विद्याराज्ञी घोरकाली अनिरुद्धसरस्वती || ८-६४ ||

ज्ञात्वैव मुक्तिमाप्नोति किं पुनः कथ्यते परम् |
अस्य ज्ञानप्रभावेण सिद्धयोऽष्टौ भवन्ति हि || ८-६५ ||

मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते |
तस्यालोकनमात्रेण वादिनो निष्प्रभा मताः || ८-६६ ||

राजानोऽपि च दासत्वं भजन्ते किं परे जनाः |
वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः || ८-६७ ||

दिवारात्रिव्यत्ययं च वशीकर्तुं क्षमो भवेत् |
बृहस्पतिसमो वाग्मी सुकविर्भार्गवो भवेत् || ८-६८ ||

धने कुबेरसदृशस्तेजसा भास्करोपमः |
बलेन सदृशो रामे विष्णुतुल्यपराक्रमः || ८-६९ ||

ब्रह्महत्यासुरापानस्तेयगुर्वङ्गनागमात् |
सद्यो निर्दोषमायाति मन्त्रस्यास्य प्रसादतः || ८-७० ||

एवं संक्षेपतो वक्ष्ये नास्ति मन्त्रसमोऽधुना |
सौरे च गाणपत्ये च चान्द्रे वैष्णव एव च || ८-७१ ||

नान्यद् विस्तरतो वक्तुं शक्यते परमेश्वरि |
वक्त्रैः कोटिसहस्रैस्तज्जिह्वाकोटिशतैरपि || ८-७२ ||

निजमुद्धृत्य देवेशि आगस्करं द्वितीयकम् |
वाणीं चैव महेशानि वर्णत्रयमुदाहृतम् || ८-७३ ||

अनेन मन्त्रराजेन सदृशं नापरं प्रिये |
तव स्नेहाद् वरारोहे प्रकाशमुपपादितम् || ८-७४ ||

न वक्तव्यं न वक्तव्यं न वक्तव्यं महेश्वरि |
तव स्नेहेन कथितं प्राणवद्धि सुरेश्वरि || ८-७५ ||

कुमारीपूजनेनैव दक्षिणाविधिरुत्तमा |
कथिता देवि भद्रं ते अप्रकाश्यं प्रकाशितम् || ८-७६ ||

पूजाविधिरयं प्रोक्तः कुत्र वा पूज्यते शिवा |
कुत्र वा ध्यायते देवी तं शृणुष्व महेश्वरि || ८-७७ ||

कामरूपे पूर्णगिरौ कोङ्कटे चोड्डीयानके |
वाराणस्यां तु लौहित्ये करतोयानदीजले || ८-७८ ||

आर्यावर्ते प्रयागे च ब्रह्मावर्ते तथैव च |
अनन्तफलदा पूजा सर्वत्रैव जले स्थले || ८-७९ ||

तदभावे शुन्यगेहे सिन्दूरादिविलेपिते |
कर्त्रिशूलधनुःखड्ग-घण्टाचामरकादिभिः || ८-८० ||

वितानध्वजसंकीर्णे कृष्णागुरुसुधूपिते |
सुदतीनां सुकेशीनां वेश्यानां गानशोभिते || ८-८१ ||

घण्टानादरवाकीर्णे दीपावलीपरिष्कृते |
एवं भूतगृहे पूज्या तारा चैव सुशोभना || ८-८२ ||

श्मशाने च सदा पूज्या पीठादप्यधिका मता |
तारिण्यास्तु श्मशानात् तु नान्यत् स्थानं प्रशस्यते || ८-८३ ||

तस्माच् श्मशाने पूजा च कर्तव्या भूतिलिप्सुभिः |
गायत्री या पुरा प्रोक्ता ब्रह्मज्ञानस्वरूपिणी || ८-८४ ||

श्रीकृष्णश्च ऋषिस्तस्या गायत्री च्छन्द उच्यते |
शिवशक्तिस्वरूपा हि देवता परिकीर्तिता || ८-८५ ||

अतः परं प्रवक्ष्यामि येनाशु फलमाप्नुयात् |
ब्राह्मे मुहूर्ते उत्थाय ताम्बूलपूरिताननः || ८-८६ ||

खड्गहस्तः सुवाढ्यां तु दद्याद् मांसान्वितं बलिम् |
पूजयित्वा यथान्यायं तत आनीय सुन्दरीम् || ८-८७ ||

कामिनीं यौवनोन्मत्तां सुवेशां चारुहासिनीम् |
कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः || ८-८८ ||

यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते |
तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् || ८-८९ ||

स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् |
स्त्रीमेलनं सदा कुर्यात् सुन्दरीभिर्विशेषतः || ८-९० ||

तासां प्रहारो निन्दा च कौटिल्यमप्रियं ततः |
सर्वथा नैव कर्तव्यमन्यथा सिद्धिरोधकृत् || ८-९१ ||

तद्धस्तारचितं भोज्यं दैवतायै निवेदयेत् |
प्रातःकृत्यं ततः कृत्वा स्नात्वा चिरं यथाविधि || ८-९२ ||

प्रयोगेण समागम्य कपालान्तःस्थले विशेत् |
दिक्कालनियमो नास्ति स्थित्यादिनियमो नच || ८-९३ ||

न जपे कालनियमो नार्चनादिबलिष्वपि |
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने || ८-९४ ||

पूजयेद् विविधैः पुष्पैस्तुलसीवर्जितैः शुभैः |
एवं संपूज्य विधिवत् सञ्जपेत् परमेश्वरीम् || ८-९५ ||

निशायां पूजयेद् देवीं जपेच्च प्रयतो नरः |
सिन्दूरभूषणो नित्यं तथा चैव दिगम्बरः || ८-९६ ||

नारीं दिगम्बरीं कृत्वा विपरीतरतो भवेत् |
अभिघातं चुम्बनं च कुर्यात् स्वाभीष्टसिद्धये || ८-९७ ||

निर्लज्जाकामबाणेन घृष्टं स्यात् मन्दिरं धनुः |
तस्मिन् काले साधकेन्द्रो जपेत् संशुद्धमानसः || ८-९८ ||

संभोगं च स्वयं कुर्वञ्जपेत् सारस्वतप्रदाम् |
तस्माद् भाव्या महेशानि कथिता देवदुर्लभा || ८-९९ ||

यस्याः प्रसादमासाद्य कलयामि जगत् त्रयम् |
शिवशक्त्यात्मिका देवी अनिरुद्धसरस्वती |
यां ज्ञात्वा मुक्तिमाप्नोति किमन्यत् कथयामि ते || ८-१०० ||

(श्रीदेव्युवाच |)

इदानीं(शृणु?देव)कस्यास्ति घोरे कलियुगे शुभे |
प्राधान्यं परमेशान तद्वदस्व सदाशिव || ८-१०१ ||

श्रीभैरव उवाच |

कलिनाम्नि युगे देवि प्रधानां तारिणीं शुभाम् |
कालीं चैव महेशानि अनिरुद्धसरस्वतीम् || ८-१०२ ||

श्मशानकालिकायास्तु प्राधान्यं शृणु भैरवि |
सर्वसिद्धेः कारणं हि अनिरुद्धसरस्वती || ८-१०३ ||

तस्या मन्त्रेण मन्त्री स्यात् सर्वसिद्धिफलप्रदः |
तारामन्त्रं पूर्वमुक्तं कालीमन्त्रं शृणुष्व मे || ८-१०४ ||

मायाद्वन्द्वं कूर्चयुग्मं निजबीजत्रयं तथा [त्रयं त्रयम् ख पाठः |] |
दक्षिणे कालिके चेति संहारक्रमतः शुभे || ८-१०५ ||

पूर्वबीजानि चोद्धृत्य स्वाहान्तोऽयं मनुः स्मृतः |
विद्याराज्ञीति विख्याता मन्त्रश्च कल्पपादपः || ८-१०६ ||

अस्मात् परतरं नास्ति कालीमन्त्रं मनोरमम् |
तस्मात् सर्वप्रयत्नेन मन्त्रराजं शृणुष्व मे || ८-१०७ ||

मन्त्रस्य ज्ञानमात्रेण जीवन्मुक्तश्च साधकः |
एषा विद्या(रहस्या तु) पूजने जपने तथा || ८-१०८ ||

ध्यानं तथा कुलाचारे सर्वविद्यागमेषु च |
उच्चाटनं मारणं च वशीकरणमुत्तमम् || ८-१०९ ||

आकर्षणं स्तम्भनं च विद्वेषणमतः परम् |
अनया साधयेद् देवि सिद्ध्यत्येव न संशयः || ८-११० ||

पूजां च विविधां कुर्यात् स्वशाखोक्तक्रमेण च |
रक्तपुष्पैः पूजयित्वा सहस्रं होमयेदथ || ८-१११ ||

सा तु काममयी नारी निर्लज्जा काममोहिता |
स्वयं(सान्त्याष्य?सन्त्यज्य)भर्तारं साधकं गच्छति ध्रुवम् || ८-११२ ||

अयुतं च जपेद् देवि ध्यात्वा देवीं दिगम्बरीम् |
स्थावरा जङ्गमाश्चैव पातालतलगा अपि || ८-११३ ||

आकर्ष्यति मन्त्री च तत्क्षणाद् भुवि संस्थिताः |
जप्त्वा देवीं श्मशाने च ध्यात्वा देवीं दिगम्बरीम् || ८-११४ ||

तद्भस्मलेपनं कुर्यात् ततः संहरते जगत् |
श्वेतापराजितापुष्पैः पुजयेद् भक्तिभावतः || ८-११५ ||

हुत्वायुतं श्मशानेऽपि विश्वमुच्चाटयेद् ध्रुवम् |
नारीं नग्नां श्मशाने च स्पृष्ट्वा च योनिमण्डलम् || ८-११६ ||

जपित्वा च वशीकुर्याद् यदि सा न पलायते |
कृष्णपुष्पैः पूजयित्वा ध्यात्वा चैव दिगम्बरीम् || ८-११७ ||

जप्त्वायुतं श्मशानस्थः शत्रूणां मारणं चरेत् |
कालीकल्पस्वरूपं च कथितं सुन्दरि प्रिये || ८-११८ ||

गोपने सर्वसिद्धिः स्याद् नात्र कार्या विचारणा |
यथा काली तथा नीला चानिरुद्धसरस्वती || ८-११९ ||

तस्माच्च कथिता विद्या काली काली(कलौ युगे) |
रहस्यं शृणु चार्वङ्गि कुण्डल्याश्चक्रनिर्णये || ८-१२० ||

आसनं जीवनस्येदममृतं देहरक्षकम् |
निर्गुणं शाम्भवं चक्रं त्रिविधं शृणु पार्वति || ८-१२१ ||

येन विज्ञानमात्रेण ध्रुवं ज्योतिर्मयो भवेत् |
इडापिङ्गलयोर्मध्ये वर्णाश्च ज्योतीरूपिणः || ८-१२२ ||

ज्योतीरूपाणि चक्राणि ज्योतीरूपा च कुण्डली |
चन्द्रतः सूर्यपर्यन्तं चक्राण्यत्र चतुर्दश || ८-१२३ ||

अत्रास्ति कुण्डलीशक्तिर्बीजरूपा निराकृतिः |
परेयं कुण्डलीशक्तिश्चन्द्रमण्डलवर्तिनी || ८-१२४ ||

इमं भेदं महेशानि यो जानाति स योगवित् |
दलं कोशं तथा वर्णं तथैव चक्रदेवताः || ८-१२५ ||

तथैव पूर्ववज्ज्ञेयं सर्वचक्रेष्वयं विधिः |
चन्द्रतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश || ८-१२६ ||

परापरेति विख्याता कुण्डली जीवसंज्ञका |
सूर्यतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश || ८-१२७ ||

परमेष्ठी समाख्याता सूर्यमण्डलवर्तिनी |
नराकारस्वरूपेयं परज्योतिःस्वरूपिणी || ८-१२८ ||

गोलकान्तर्ग(तो?ता)देवी ज्योतिर्बिन्दुसमाश्रिता |
अत्रास्ति गोलकं चक्रं गोलोक इव दृश्यते || ८-१२९ ||

इयं नारायणी काली तारा शून्यनिवासिनी |
सुन्दरी रक्तकाली च महिषमर्दिनी तथा || ८-१३० ||

मन(सः?सा)कल्पि(तो?ता)मूर्तिस्तेजोरूपाऽपरा च सा |
परमात्मैव रामोऽयं महाविष्णुर्महाशिवः || ८-१३१ ||

निरञ्जनस्वरूपोऽयं कृष्णरूपा च तारिणी |
आत्मप्रकाशिनी नित्या नित्यानन्दस्वरूपिणी || ८-१३२ ||

तस्या मन्त्राणि सुभगे मम मन्त्राणि यानि तु |
पूर्वाम्नायविधानेन शीघ्रकामफलप्रदा || ८-१३३ ||

नानापापहरा देवी वीरस्तद्गतमानसः |
तत्त्वभावं समासाद्य फलतत्त्वं लभेन्नरः || ८-१३४ ||

तव मन्त्राणि देवेशि सर्वार्थदायकानि च |
यथा स्वयंभुवा देवाश्चत्वारः परिकीर्तिताः || ८-१३५ ||

ज्ञातव्याश्च प्रसिद्धाश्च पारम्पर्योपदेशतः |
पर्यायतोऽपि विज्ञेयाः श्रुतिवाङ्मयभेदतः || ८-१३६ ||

तथा त्वयि मया प्रोक्ताः षडाम्नायाश्च सन्निधौ |
स चाम्नायः श्रुतिर्ज्ञेयः श्रुतिश्च वेद उच्यते || ८-१३७ ||

अतस्त्वयापि गिरिजे गोपनीयः स्वयोनिवत् |
अत ऊर्ध्वं तु सुभगे रहस्यं परमं शृणु || ८-१३८ ||

महामन्त्री यदा देवि साधको दैवयोगतः |
तत्र कस्य जपं कुर्यात् पूजनादिकमेव च || ८-१३९ ||

सर्वदेवनमस्कारं नित्यं कुर्यात् प्रयत्नतः |
जपादिकं तु तस्यैव यत्र शङ्काभिजायते || ८-१४० ||

गुरोर्गृहीतमन्त्रस्य प्रजपत्यपि साधकः |
भ्रष्टाचारं प्रमादाद्वा आलस्याद्वापि सुन्दरि || ८-१४१ ||

शङ्करस्य गृहीतस्य कथितं यत्र कुत्रचित् |
हीनवीर्यमवाप्नोति मन्त्रादिश्च वरानने || ८-१४२ ||

इत्यादिदोषनाशार्थं विधानं शृणु सांप्रतम् |
प्रथमं जननं नाम जीवनं तु द्वितीयकम् || ८-१४३ ||

तृतीयं ताडनं देवि चतुर्थं बोधनं तथा |
पञ्चमं त्वभिषेकस्तु विमलीकरणं तथा || ८-१४४ ||

आप्यायनं सप्तमं तु अष्टमं तर्पणं स्मृतम् |
नवमं दीपनं प्रोक्तं दशमं गोपनं मतम् || ८-१४५ ||

मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् |
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः || ८-१४६ ||

स्वरव्यञ्जनभेदेन जीवनं तदुदाहृतम् |
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा || ८-१४७ ||

प्रत्येकं वायुबीजेन ताडनं नाम(तः?तत्) शृणु |
मन्त्रं विलिख्य विधिवत् प्रसूनैः करवीरजैः || ८-१४८ ||

तन्मन्त्राक्षरसंख्यातैर्हन्याद्रेफेण बोधनम् |
स्वतन्त्रोक्तविधानेन तदा मन्त्रार्णसंख्यया || ८-१४९ ||

अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये |
संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् || ८-१५० ||

मन्त्रे मलत्रयं देवि विमलीकरणात्मकम् |
तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः || ८-१५१ ||

कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षयेद् मनोः |
तेन मन्त्रेण विधिवदेतदाप्यायनं मतम् || ८-१५२ ||

मनुना वारिणा पात्रे तर्पणं तर्पणं भवेत् |
तारमायारमायोगाद् मनोर्दीपनमुच्यते || ८-१५३ ||

जप्यमानस्य मन्त्रस्य गोपनं चाप्रकाशनम् |
एते च दश संस्काराः सर्वतन्त्रेषु गोपिताः || ८-१५४ ||

एतान् कृत्वा जपेद् मन्त्रं सदा परहितं प्रिये |
निर्गुणं यत् परं ब्रह्म ज्योतीरूपं निराकृति || ८-१५५ ||

साकारं यदि जायेत सर्वदेहेषु देवता |
रूपत्रयं सदा भूत्वा देहिनां देहभेदतः || ८-१५६ ||

भगाकारं च यद् ब्रह्म लिङ्गाकारस्वरूपतः |
केचित् सेवन्ति सुभगे लिङ्गाकारस्य सर्वदा || ८-१५७ ||

भगाकारं च सेवन्ते विविधा ज्ञानिनः सदा |
स्त्रीजातिरूपा सर्वत्र सर्वदेहेषु जानता || ८-१५८ ||

(या?सा) शक्तिरूपा विज्ञेया पुरुषः शिवरूपधृक् |
तत्र तेषां विशेषार्थं नरदेहे वरानने || ८-१५९ ||

शक्तिः शिवश्च विज्ञेयो मम संकेतमुत्तमम् |
भगं कुण्डं च सुभगे स्रुवं लिङ्गं प्रकीर्तितम् || ८-१६० ||

ऋतुरग्निश्च सुभगे गर्तमध्ये च क्षेपणम् |
आज्यरूपं मतं शुक्रं मनो होता प्रकीर्तितः || ८-१६१ ||

फलरूपं च तत्रैव नानासंसारकामनाः |
विज्ञाय चैवं यो मन्त्री मनुश्च पीठब्रह्मवत् || ८-१६२ ||

नित्यं च होमयेद् देवि तस्य रूपमनन्तकम् |
यं यं कामादिकं देवि मनसा चिन्त्य कारयेत् || ८-१६३ ||

न दोषगुणविज्ञेयो (यं यं?तं तं) काममवाप्नुयात् |
यथोक्तदेवतायाश्च यथोक्तफलमश्नुते || ८-१६४ ||

आयुर्लक्ष्मीं यशो देवि कीर्तिं च मोक्षमाप्नुयात् |
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् || ८-१६५ ||

गोप्या गोप्या पुनर्गोप्या जननीजारगर्भवत् |
इति ते कथितं सम्यक् संस्कारक्रममुत्तमम् || ८-१६६ ||

इदानीं शाम्भवं चक्रं त्रिविधं शृणु पार्वति |
येन विज्ञानमात्रेण ध्रुवं ज्योतिर्मयो भवेत् || ८-१६७ ||

इडापिङ्गलयोर्मध्ये वर्णाश्च ज्योतीरूपिणः |
ज्योतीरूपाणि चक्राणि ज्योतीरूपा च कुण्डली || ८-१६८ ||

चन्द्रतः सूर्यपर्यन्तं चक्राण्यत्र चतुर्दश |
तत्रास्ति कुण्डलीशक्तिर्बीजरूपा निराकृतिः || ८-१६९ ||

पारेयं कुण्डलीशक्तिश्चन्द्रमण्डलवर्तिनी |
इमं भेदं महेशानि यो जानाति स योगवित् || ८-१७० ||

दलं कोषं तथा वर्णं तथैव च(न्द्र?क्र)देवताः |
तथैव पूर्ववज्ज्ञेयः सर्वचक्रेष्वयं विधिः || ८-१७१ ||

चन्द्रतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश |
परापरेति विख्याता कुण्डली जीवसंज्ञका || ८-१७२ ||

सूर्यतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश |
परमेष्ठी समाख्याता सूर्यमण्डलवर्तिनी || ८-१७३ ||

नराकारस्वरूपेयं परज्योतिःस्वरूपिणी |
गोलकान्तर्गता देवी ज्योतिर्बिन्दुसमाश्रिता || ८-१७४ ||

अत्रास्ति गोलकं चक्रं गोलोक इव दृश्यते |
इयं नारायणी काली तारा स्याच्छून्यवासिनी || ८-१७५ ||

सुन्दरी रक्तकालीयं भैरवी नादिनी तथा |
मन(सः?सा)कल्पिता मूर्तिस्तेजोरूपा परापरा || ८-१७६ ||

परमात्मैव रामोऽयं महाविष्णुर्महाशिवः |
निरञ्जनस्वरूपोऽयं कृष्णरूपा च तारिणी || ८-१७७ ||

आत्मप्रकाशिनी देवी नित्यानन्दस्वरूपिणी |
इति ते कथितं देवि रहस्यं परमाद्भुतम् || ८-१७८ ||

अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि |
इदानीं शृणु देवेशि परं ब्रह्मस्वरूपकम् || ८-१७९ ||

प्राणस्तु परमेशानि आत्मज्ञानं शुचिस्मिते |
यस्तु प्राणो महेशानि स जीवः परिकीर्तितः || ८-१८० ||

प्रदीपकलिकाकारो हृदये विद्यते प्रिये |
परं ब्रह्म महेशानि प्रदीपकलिकाकृति || ८-१८१ ||

आत्मान्तरात्मा देवेशि सर्वेषां हृदि वर्तते |
अन्तरात्मा परं ब्रह्म शरीरं व्याप्य तिष्ठति || ८-१८२ ||

द्वये तेजो वरारोहे शक्तिं प्रकृतिरूपिणीम् |
प्राणायामस्य काले तु दृष्ट्वाश्चर्यं वरानने || ८-१८३ ||

यद् दृष्टं परमं गुह्यं तन्निशामय योगिनि |
आत्मा ब्रह्मसमो भूत्वा यद् दृष्टं परमेश्वरि || ८-१८४ ||

तदक्षरं महेशानि दृष्टमानन्दमद्भुतम् |
मनो मया महेशानि कृत्वा तत्रैव पार्वति || ८-१८५ ||

सुधार्णवे महेशानि मग्नो भूत्वा वरानने |
लक्षवर्षं महेशानि निर्गतं परमेश्वरि || ८-१८६ ||

प्राणायामक्षणे देवि लक्षवर्षं गतं मम |
यद् दृष्टं परमेशानि निर्दिष्टं तच्छृणु प्रिये || ८-१८७ ||

नातः परतरं किञ्चिद् विद्यते मम गोचरे |
पर्यङ्कं परमेशानि आश्चर्यं परमाद्भुतम् || ८-१८८ ||

पयःफेननिभा शयया नानारत्नविभूषिता |
या शयया परमेशानि स एव श्रीसदाशिवः || ८-१८९ ||

तत्रोपरि महेशानि सूक्ष्मां त्रिपुरसुन्दरीम् |
जपायावकसिन्दूर सदृशाकृतिरूपिणीम् || ८-१९० ||

चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् |
वरदाभयहस्तां च धारिणीं परमेश्वरीम् || ८-१९१ ||

दृष्ट्वानन्दमयीं लोलां लक्षवर्षं गतं मम |
यदा तु परमेशानि मम दृग् गोचरं गतः || ८-१९२ ||

तदैव सहसा तत्र सूक्ष्मरूपत्वमागतः |
ध्यानभङ्गे महेशानि तदैव मम सुन्दरि || ८-१९३ ||

तत्रैव दृष्टं ब्रह्माण्डं ब्रह्माद्यास्त्रिदिवौकसः |
शक्तिं विना महेशानि नास्ति किञ्चिद् मम प्रिये || ८-१९४ ||

शक्तिर्हि ब्रह्मणो रूपं शक्तिरूपं वरानने |
शक्तिं विना महेशानि न किञ्चिद् मम गोचरे || ८-१९५ ||

एवं हि क्रमतो देवि मातृकान्यासमुत्तमम् |
कृत्वा न्यासं महेशानि मातृका विश्वमोहिनी || ८-१९६ ||

अतः परं महेशानि श्रीकण्ठन्यासमाचरेत् |
श्रीकण्ठन्यासमात्रेण शिवोऽहं कमलानने || ८-१९७ ||

श्रीकण्ठं परमेशानि त्रैलोक्ये चातिदुर्लभम् |
पूर्वोक्तेन क्रमेणैव सर्वं कुर्यात् शुचिस्मिते || ८-१९८ ||

सर्वं कुर्याद् महेशानि यत्नतः परमेश्वरि |
ध्यायेत् शिवां वरारोहां हृत्प(त्र?द्मे)कमलेक्षणे || ८-१९९ ||

हृत्पद्मं परमं स्थानं ब्रह्मस्थानं सुरार्चिते |
जीवस्य स्थानमेतत् तु हृदयं परमं पदम् || ८-२०० ||

हृत्पद्मं द्वादशदलं सहस्रादित्यवर्चसम् |
तन्मध्ये भावयेद् देवं शिवं मृत्युञ्जयं प्रिये || ८-२०१ ||

शुद्धस्फटिकसंकाशं पञ्चवक्त्रं महाप्रभम् |
आजानुबाहुं देवेशि पद्मवक्त्रं सुवीक्षणम् || ८-२०२ ||

किरीटिनं कुण्डलिनं केयूराङ्गदशोभितम् |
सततं हास्ययुक्तं च दन्तपङ्क्तिविराजितम् || ८-२०३ ||

रुद्राक्षशोभितोरस्कं जटाशोभितमस्तकम् |
व्याघ्रचर्मपरीधानं दशबाहुविराजितम् || ८-२०४ ||

एवं ध्यात्वा महादेव सदा मृत्युञ्जयं प्रिये |
शक्तियुक्तं महादेवं सर्वाङ्गसर्वमोहनम् || ८-२०५ ||

सर्वाङ्गचिन्तनं कृत्वा एकाङ्गं चिन्तयेत् ततः |
एकाङ्गं तु परित्यज्य समाधिर्जायते ततः || ८-२०६ ||

समाधिकाले देवेशि यत् तेज उपपद्यते |
तन्निशामय देवेशि ज्ञानं परमदुर्लभम् || ८-२०७ ||

सर्वाङ्गं तु परित्यज्य यत् तेज उपजायते |
स एव परमेशानि शिवो मृत्युञ्जयः प्रिये || ८-२०८ ||

प्रदीपकलिकाकारां प्रकृतिं विद्धि पार्वति |
तत्र तेजसि देवेशि अन्तरात्मा सदा स्थितः || ८-२०९ ||

अन्तरात्मा महेशानि कार्यकारणवर्जितः |
भ्रमरे भ्रमरीं बद्ध्वा हृत्पद्मे परमेश्वरि || ८-२१० ||

योगस्थस्य महेशानि लक्षवर्षं गतं मम |

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (यन्त्रमन्त्रान्तरप्रयोग तत्संस्कारादिविधिनिरूपणं) अष्टमः पटलः || ८ ||


Kapitel 9: Vira-Sadhana

श्रीभैरव उवाच |

शृणु देवि प्रवक्ष्यामि साधनान्तरमुत्तमम् |
यत् कृते परमेशानि कृतार्थो नात्र संशयः || ९-१ ||

प्रासादस्यान्तिके देवि कदलीस्तम्भनं भवेत् |
तत्र वेदिं महेशानि वृक्षं तत्र प्ररोपयेत् || ९-२ ||

रक्तासने चोपविश्य साधयेद् वीरसाधनम् |
मातृकान्यासमाचर्य पूजयेत् परमेश्वरीम् || ९-३ ||

षोडशैरुपचारैस्तु पूजयेत् परदेवताम् |
पाद्यं दद्याद् महादेव्यै गोमूत्रमिश्रितं पयः || ९-४ ||

ताम्रपात्रे मधु दत्त्वा दुग्धयुक्तं हविर्युतं |
घनीभूतं महेशानि दधि दद्यात् सशर्करम् || ९-५ ||

आचमनीयं देवेशि कांस्येनैव प्रदापयेत् |
नैवेद्यं परमं दद्यात् सुस्वादु सुमनोहरम् || ९-६ ||

मधुयुक्तं नारिकेलं तक्रं च शर्करान्वितम् |
दत्त्वा देव्यै महेशानि जीवन्मुक्तो भवेद् ध्रुवम् || ९-७ ||

अन्नं दद्याद् महेशानि सामिषं परमं शुभे |
सप्ताहं व्याप्य तत्रैव जपेत् तद्गतमानसः || ९-८ ||

गते तु प्र(हरे?थमे)यामे द्वितीयप्रहरावधि |
रुद्राक्षमालया देवि जपेद् वीतभयः सदा || ९-९ ||

सप्ताहाभ्यन्तरे देवि सिद्धो भवति मानवः |
मातृकाक्षरसंयुक्तां विद्यां यद्वा न्यसेत् ततः || ९-१० ||

मन्त्रध्यानपरो भूत्वा जपेद् मन्त्रमनन्यधीः |
एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् || ९-११ ||

द्व्यक्षरे त्वष्टसाहस्रं त्र्यक्षरे त्वयुतार्धकम् |
ततः परं तु मन्त्राणां गजान्तकसहस्रकम् || ९-१२ ||

निशायां जपमारभ्य उदयान्तं समाचरेत् |
जपादौ च बलिं दत्त्वा पश्चादपि बलिं हरेत् || ९-१३ ||

जपान्ते जपमध्ये वा देहि देहीति भाषते |
तदापि च बलिं दद्याच् छागलं वापि माहिषम् || ९-१४ ||

न दिक्षु वीक्षणं किञ्चिन् न वा बन्धुसमागमः |
गजारिदुष्टसर्पाणां मृगानां दंष्ट्रिणां तथा || ९-१५ ||

पक्षिकीटपिशाचानां यद्यन्मनसि संस्थितम् |
तत्सर्वं स्वप्नवत् बु(द्ध्य?ध्वा)भयं सर्वत्र वर्जयेत् || ९-१६ ||

समाप्य साधनं देवि दक्षिणां विभवावधि |
गुरवे गुरुपुत्राय तत् पत्न्यै चापि दापयेत् || ९-१७ ||

सम्यक् सिद्धस्य मन्त्रस्य नासाध्यं विद्यते क्वचित् |
गुरुमन्त्रवतः [बहु ख पाठः |] पुंसः का कथा रुद्र एव सः || ९-१८ ||

यतः सर्वत्र देवेशि गुरुपूजा गरीयसी |
तदग्रे मन्त्रतन्त्राणां भाषणं नैव कारयेत् || ९-१९ ||

पूजिते गुरुपादे वै सर्वदैव सुखी भवेत् |
सर्वेषां तन्त्रमन्त्राणां पितासौ परमेश्वरः || ९-२० ||

अन्यदेवसपर्या वा चान्यदेवस्य कीर्त(नात्?नम्) |
गुरुदेवं विना देवि तदग्रे नरके स्थितिः || ९-२१ ||

शवारू(ढा?ढो)यदि भवेत् तद्विशेष इहोच्यते |
शून्यागारे बिल्वमूले नदीतीरे चतुष्पथे || ९-२२ ||

शवासन(र?ग)तो मन्त्री चिन्तयेद् वीरसाधनम् |
चण्डालं चाभिभूतं वा शीघ्रसिद्धिफलप्रदम् || ९-२३ ||

आनीय स्थापयेदादौ न्यासजालं समाचरेत् |
पीठमन्त्रं समालिख्य गन्धपुष्पादिनार्चयेत् || ९-२४ ||

अभ्यर्च्य चासनं दत्त्वा आत्मरक्षां च कारयेत् |
ततः शवास्ये विधिवद् देवताप्यायनं ततः || ९-२५ ||

मन्त्रान्ते भुवनेशी स्याद् रेफान्तो मन्त्र ईरितः |
महानीलक्रमं देवि सर्वसिद्धिप्रदायकम् || ९-२६ ||

न कस्यचित् प्रयोक्तव्यं गोप्तव्यं प्रीतये मम |
सर्वेषां जीवहीनानां जन्तूनां वीरसाधने || ९-२७ ||

ब्राह्मणं गोमयं त्यक्त्वा साधयेत् वीरसाधनम् |
महाशवाः प्रशस्ताः स्युः प्रधानं साधयेत् प्रिये || ९-२८ ||

श्मशाने हि पुरश्चर्या कथिता भुवि दुर्लभा |
श्मशानसाधनं देवि मतं साधनमुत्तमम् || ९-२९ ||

श्मशानस्थो यदि भवेत् जपन् मन्त्रमनन्यधीः |
स सर्वसाधनं कृत्वा देवीलोके महीयते || ९-३० ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (वीरसाधनविधानं) नवमः पटलः || ९ ||


Kapitel 10: Weitere besondere Praktiken

श्रीभैरव उवाच |

इदानीं शृणु चार्वङ्गि येन सिद्धो भवेद् मनुः |
शवमुण्डं समादाय मङ्गले वासरे निशि || १०-१ ||

पञ्चगव्येन मिलितं चन्दनैकेन संयुतम् |
अर्द्धहस्तमिते गर्ते हरिद्रारोचनायुते || १०-२ ||

क्षिपेत् तत्र शवमुण्डं रजतेन समन्वितम् |
मृत्तिकया पूरयित्वा सर्वं संस्कृत्य शोधयेत् || १०-३ ||

तत्रोपरि विशेद् देवि क्रमेण हि समन्वितः |
सहस्रस्य प्रमाणेन जपं कुर्यात् समाहितः || १०-४ ||

समाप्ते तु जपे तत्र पूजयेत् परमेश्वरीम् |
एवं त्रिदिनमध्ये तु सिद्धो भवति मानवः || १०-५ ||

इति ते कथितं भद्रं प्रयोगं सिद्धिदायकम् |
अष्टमीसन्धिवेलायां अष्टोत्तरशतं जपेत् || १०-६ ||

सप्तदिनप्रयोगेन सिद्धिमाप्नोति मानवः |
शनौ च सन्धिवेलायां गृहे लताख्यकं यजेत् || १०-७ ||

जपेदेकाकी विजने लतासाधनतत्परः |
एवं कृते महादेवि सिद्धिमाप्नोति साधकः || १०-८ ||

पूर्वोक्तकल्पमासाद्य पूजादिकं समाचरन् |
केवलं कामदेवोऽसौ जप्त्वा चाष्टोत्तरं शतम् || १०-९ ||

सप्ताहाभ्यन्तरे देवि महदैश्वर्यमाप्नुयात् |
विशेषं शृणु चार्वङ्गि तन्त्रेषु सर्वकामदम् || १०-१० ||

येन विज्ञानमातेण सिद्धयोऽष्टौ भवन्ति हि |
तासां मूले तु देवेशि उग्रां संपूज्य साधकः || १०-११ ||

महासिद्धिर्भवेद् देवि सत्यं सत्यं वरानने |
कुलाकृष्टलतागारे लिखित्वा मन्त्रमेव च || १०-१२ ||

प्रपूज्य तत्र संस्कारं कृत्वा तस्यै निवेदयेत् |
किञ्चित् जप्तं मनुं नीत्वा देवताभावतत्परः || १०-१३ ||

तां प्रपूज्य नमस्कृत्य स्वयं जप्त्वा सुसंयतः |
प्रातः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्भवेन् नृणाम् || १०-१४ ||

भूमिपुत्रसमायुक्ता अमावास्या शुभप्रदा |
भाद्रे पुष्करयोगेन तस्यां वीरवरोत्तमः || १०-१५ ||

विष्णुक्रान्तां समानीय निक्षिपेद् मृतभूमिषु |
तत्र तां सचितां कृत्वा तद्दिने मृतहट्टके || १०-१६ ||

तत्र प्रसार्य तां मत्स्यत्वक्स्नेहेन दापयेत् |
तज्जलेनाभिषेकं च पूर्ववच्च शवोपरि || १०-१७ ||

सचितां विजयां तस्य उदरे मुखवर्त्मना |
क्षिप्त्वा तत्रैव तत् मत्स्यमञ्जनान्वितलोचनः || १०-१८ ||

तिलकं पूर्वद्रव्येण तथाजस्रं मनुं जपेत् |
स्वयमायाति भगवान् भैरवो बीमबाहुकः || १०-१९ ||

गतभीतिस्ततो वीरस्तं विलोक्य जपेद् मनुम् |
यदि भाग्यवशाद् देवि लगुडस्तत्र लक्ष्यते || १०-२० ||

तदा स्वयं भैरवोऽसौ साक्षाद् वीरेश्वरो भवेत् |
मत्स्यमानीय देवेशि निक्षिपेत् पितृकानने || १०-२१ ||

तत्रासकृज् जपित्वा च देवतामेलनं भवेत् |
निशायां मृतहट्टे च उन्मत्तानन्दभैरवः || १०-२२ ||

दिग्वासा विमलो भस्मभूषणो मुक्तकेशकः |
कृपाणी खड्गहस्तश्च जपेन् मातृकया यदि || १०-२३ ||

तदा तस्य महादेवि सर्वसिद्धिः करे स्थिता |
डाकिनीं योगिनीं वापि अन्यां वा गणसुन्दरीम् || १०-२४ ||

तत्र चानीय संपूज्य सर्वसिद्धीश्वरो भवेत् |
गुरुमानीय संस्थाप्य देववत् पूजयेद् विभुम् || १०-२५ ||

वस्त्रालङ्कारहेमाद्यैः स्वयं संतोषयेद् गुरुम् |
तत्सुतं तत्सुतां वापि तत्पत्नीं च विशेषतः || १०-२६ ||

पूजयित्वा मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् |
सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च || १०-२७ ||

केवलं देवभावेन जप्त्वा सिद्धीश्वरो भवेत् |
गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिद्ध्यति || १०-२८ ||

गुरुं विलङ्घ्य शास्त्रेऽस्मिन् नाधिकारः सुरैरपि |
एषां च मन्त्रतन्त्राणां प्रयोगः क्रियते यदि || १०-२९ ||

गुरुवक्त्रं विना देवि सिद्धिहानिः प्रजायते |
एतत् तन्त्रं च मन्त्रं च शिष्येभ्योऽपि न दापयेत् |
अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || १०-३० ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (साधनान्तरविधाननिरूपणं) दशमः पटलः || १० ||


Kapitel 11: Mantraformen und die blaue Sarasvati

श्रीभैरव उवाच |

विशेषान् शृणु वक्ष्यामि येन सिद्ध्येज् जगत् त्रयम् |
यस्मात् परतरं नास्ति तन्त्रमध्ये न संशयः || ११-१ ||

सर्वभाषामयी शुद्धा सर्वाम्नायैर्नमस्कृता |
मायाबीजं समुद्धृत्य तारकं वह्निसंयुतम् || ११-२ ||

मायाबिन्द्वीश्वरयुतं [बिन्दुस्वर ख पाठः |] द्वितीयं बीजमुद्धृतम् |
[त्रुटिरत्र दृश्यते |] रमां फट्कारकं चैव बीजपञ्चकमुत्तमम् || ११-३ ||

पञ्चरश्मिसमाक्रान्ताऽज्ञानेन्धनप्रदीपकम् |
तस्योद्धारमहं वक्ष्ये शृणु सार्वज्ञकारणम् || ११-४ ||

प्रथमं प्रणवं दत्त्वा चतुर्थस्वरभूषितम् |
रेफारूढं स्फुरद् दीप्तमिन्दुबिन्दुविराजितम् || ११-५ ||

भगं चैव महेशानि चतुर्थस्वरसंयुतम् |
(दाहारूढं रयं चैव शक्तियुक्तं तु योजयेत्) || ११-६ ||

नादबिन्दुसमायुक्तं हूंकारं योजयेत् ततः |
फट्कारं च ततो दद्यात् संपूर्णं सिद्धिदायकम् || ११-७ ||

लीलया वाक्प्रदा चेति तेन नीलसरस्वती |
तारकत्वात् सदा तारा सुखमुक्तिप्रदायिनी || ११-८ ||

(उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता |) वितारैकजटा चैषा महामुक्तिकरी सदा || ११-९ ||

तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती |
ताराद्या पञ्चवर्णेयं श्रीमन्निलसरस्वती || ११-१० ||

श्रीबीजाद्यापि देवेशि तदा श्रीःसर्वतोमुखी |
एषैव हि महाविद्या मायाद्या सकलेष्टदा || ११-११ ||

वाग्भवाद्या यदा विद्या वाग्रूपा सर्ववाङ्मयी |
एतान् क्रमगतान् प्राप्ता(न्)मत भेदाञ् जगन्मयी || ११-१२ ||

एषा पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी |
वधूबीजं मध्यबीजं सर्वबीजान्तिमं भवेत् || ११-१३ ||

फलिनी सर्वविद्यानां जयिनी जयकाङ्क्षिणाम् |
विषक्षयकरी विद्या अमृतत्वप्रदायिनी || ११-१४ ||

मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते |
लिखेत् खं कूर्चसंयुक्तं रौद्रं त्रैगुण्यमेव च || ११-१५ ||

विधिविष्णुमहेशानां स्वशक्त्या क्रमयोगतः |
एषा मता महाविद्या सर्वसिद्धिप्रदा शुभा || ११-१६ ||

सर्वमन्त्रमयी शुद्धा सर्वतन्त्रेषु गोपिता |
सिद्धिदा भजतामाशु संप्रदायविधानतः || ११-१७ ||

ध्यानपूजादिकं सर्वं कुर्यात् साधकसत्तमः |
अथातः संप्रवक्ष्यामि तारां भुवनतारिणीम् || ११-१८ ||

यस्याः स्मरणमात्रेण भयमाशु विनाशयेत् |
प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् || ११-१९ ||

गगनं शेषसंयुक्तं बिन्दुनादविभूषितम् |
कूर्चबीजं च हृदयं तारायै च समुद्धरेत् || ११-२० ||

महापद्मं समुद्धृत्य तारायै च समुद्धृतम् |
सकलदुस्तरांस्तारे तारयेति तथा पुनः || ११-२१ ||

तरयुग्मं वह्निजाया मन्त्रोऽयं सुरपादपः |
गद्यपद्यमयी वाणी सभायां तस्य जायते || ११-२२ ||

चतुर्लक्षजपेनास्याः सिद्धयोऽष्टौ भवन्ति हि |
ध्यानपूजादिकं सर्वं पूर्वत् समुपाचरेत् || ११-२३ ||

प्रणवं पूर्वमुद्धृत्य तारे उत्तारयेति च |
माया स्वाहेति मन्त्रोऽयं दशाक्षर उदाहृतः || ११-२४ ||

स्मरणात् सर्वसत्त्वानां भयमाशु विनाशयेत् |
ध्यानपूजादिकं सर्वं पूर्वमुक्तं सुरेश्वरि || ११-२५ ||

विद्यारत्नं प्रवक्ष्यामि शृणु पर्वतनन्दिनि |
वाग्भवं कुलदेवीं च तारकं वाग्भवं तथा || ११-२६ ||

हृल्लेखां चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः |
अष्टाक्षरो मनुः प्रोक्तो वेदमातुरनुत्तमः || ११-२७ ||

पञ्चाङ्गं चास्य मन्त्रस्य पञ्चबीजैः प्रकल्पयेत् |
अस्त्रं शेषाक्षरैर्न्यस्य कृतकृत्यो भवेद् नरः || ११-२८ ||

ध्यानपूजादिकं सर्वं पूर्वमुक्तं महेश्वरि |
कालिका सिद्धविद्या स्याद् महाकाली परा मता || ११-२९ ||

तस्यास्तन्त्रे महाविद्या विज्ञेया साधकोत्तमैः |
सर्ववेदमयी विद्या सर्वाम्नायैर्नमस्कृता || ११-३० ||

रक्षाकरी च संप्रोक्ता यदा सेव्या च साधकैः |
प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च || ११-३१ ||

महापद्मे पदं कुर्यात् पद्मावति पदं ततः |
माये स्वाहेति मन्त्रोऽयं प्रोक्तः सप्तदशाक्षरः || ११-३२ ||

पूजा पूर्ववदुद्दिष्टा चार्धरात्रे चतुष्पथे |
जपमस्याश्चरेद् यस्तु शीघ्रं द्रुतकविर्भवेत् || ११-३३ ||

बीजमन्त्राः स्वतन्त्राः स्युस्तारिण्याः सर्वसिद्धिदाः |
एते भेदा महोग्रायाः पुरुषार्थप्रवर्तकाः || ११-३४ ||

आयुःश्रीकान्तिकविता विद्यासौभाग्यदायिनी |
अन्ते निरामयं ब्रह्म जीवन्मुक्तिप्रदायिनी || ११-३५ ||

(शिवबीजं महेशानि शक्तिबीजं ततः परम् |
सर्वबिन्दुसमायुक्तं वेदाद्यं तदधः क्रमात् || ११-३६ ||

माया स्त्रीं वर्मबीजान्ते हंसं जीवमुदीरितम् |
एषा त्वष्टाक्षरी विद्या तव स्नेहात् प्रकाशिता || ११-३७ ||)

आज्ञासिद्धिमवाप्नोति त्रैलोक्यं वशमानयेत् |
वशमायान्ति सहसा वेदविद्याश्चतुर्दश || ११-३८ ||

हंसतारा महाविद्या तव स्नेहात् प्रकाशिता |
कवितामाहरेत् पुंसां धनार्थी धनमाप्नुयात् || ११-३९ ||

मोक्षार्थी लभते मोक्षं नात्र कार्या विचारणा |
उग्रतारा महाविद्या कथ्यते मम पौरुषम् || ११-४० ||

पञ्चाक्षरी च या विद्या हंसाद्यन्ता महोदया |
केवलं त्वत्प्रयत्नेन [प्रसादेन ख पाठः |] तव स्नेहात् प्रकीर्तिता || ११-४१ ||

अस्याश्च जपपूजादीन् पञ्चाक्षरीवदाचरेत् |
बीजयुक्ता महाविद्या त्रिताराद्या पृथक् पृथक् || ११-४२ ||

त्रैलोक्ये कथिता सिद्धिदायिन्युत्तमभूतिदा |
षड्दीर्घमायया चैव षडङ्गं समुपाचरेत् || ११-४३ ||

पूजा पूर्ववदुद्दिष्टा प्रयोगान् वापि तत्समान् |
वाङ्मायाकमलाबीजमीशो भृगुनिषेवितः || ११-४४ ||

चतुर्दशेन्दुसंयुक्तः पश्चाद् भृगुः सहेश्वरः |
चतुर्दशविसर्गाढ्यो वद द्वन्द्वं च वाक् पदम् || ११-४५ ||

वादिनीति पदं पश्चात् क्लीं पदत्रितयं ततः |
नीलसरस्वति पदं त्रिधावृत्तिश्च वाङ्मनोः || ११-४६ ||

काहि शब्दद्वयं पश्चात् कलरीमग्निवल्लभा |
चतुस्त्रिंशद्वर्णयुक्तो नीलसारस्वतो मनुः [प्रकाशम् - ऐं ह्रीं श्रीं हसौं स्हौंः वद वद वाग्वादिनि क्लीं क्लीं क्लीं नीलसरस्वति ऐं ऐं ऐं काहिकाहि कलरीं स्वाहा || ११-३४ ] || ११-४७ ||

षाट्कोशिकोऽयं विज्ञेयः षड्भिर्मन्त्रैर्यतः कृतः |
ऋषिच्छन्दोदेवतानां विभागं शृणु पार्वति || ११-४८ ||

गङ्गाप्रवाहो नामर्षिर्मत्स्यरूपी जनार्दनः |
अत्यष्टिः कथिता छन्दो देवी नीलसरस्वती || ११-४९ ||

सर्ववागैश्वर्यमयी समस्ताभीष्टदायिनी |
ऐंबीजं कीलकं ज्ञेयं ह्सौं शक्तिः समीरिता || ११-५० ||

नीलो वर्णश्च विज्ञेयस्त्वरितं कविताफलम् |
मुद्रा तु प्रति(वासि?राशी)नां मुखमुद्रा समीरिता || ११-५१ ||

हृल्लेखया षडङ्गानि कुर्यात् षड्दिर्घयुक्तया |
नीलांशुकां मणिमयीं व्याघ्रचर्मधरां शुभाम् || ११-५२ ||

विद्यां ब्रह्मस्वरूपां च सर्वकामफलप्रदाम् |
नमस्कुर्यात् प्रयत्नेन सर्वकामवरेश्वरीम् || ११-५३ ||

अथ वक्ष्ये महेशानि नीलस्य भावमग्रतः |
पूर्वं देवासुरैर्युद्धे दानवा दितिजैः सह || ११-५४ ||

चक्रेण चक्रिणा छित्त्वा (छिन्नाः) कान्दिशीकाः प्रदुद्रुवुः |
सम्भूय ते दुष्टदैत्याः समुद्रकुहरोदरे || ११-५५ ||

चक्रिणा च कृता पूर्वदेवानां परिभू(यते?तये) |
देवरूपा भगवती सर्वमन्त्रमयी शुभा || ११-५६ ||

तत्रैव सर्वविप्राणां यज्ञकाण्डः प्रवर्तते |
तेषु यज्ञेषु संभूतैर्हविर्भिर्बलिनः सुराः || ११-५७ ||

......................................................................... |
सुरा हास्मान् प्रबाधन्ते वयं निर्बलिनस्ततः || ११-५८ ||

इति तेषां वचः श्रुत्वा दीनानां दितिजन्मनाम् |
हयग्रीवः सोमकश्च निर्वेदं भृशमापतुः || ११-५९ ||

तावुभौ भ्रातरौ दुष्टौ तुरङ्गग्रीव सोमकौ |
शब्दाकर्षणिकां देवीं समुद्दिश्यातपस्यताम् || ११-६० ||

तयोर्घोरतपःप्रीता शब्दाकर्षणिदेवता |
प्रोवाच व्रियतामत्र वाञ्छितो वरवल्लभः || ११-६१ ||

ताभ्यामुक्ता भगवती वरप्रार्थनहेतवे |
सर्वशब्दाकर्षणार्थं वरोऽस्मभ्यं प्रदीयताम् || ११-६२ ||

तथास्त्विति तया प्रोक्तौ दानवावतिदर्पितौ |
ततस्तस्य प्रभावेण भूलोकं समुपस्थितौ || ११-६३ ||

स(र्वाः?र्वे)चाकर्षिताः शब्दा मन्त्ररूपा द्विजन्मनाम् |
सा शब्दरूपिणी देवी शुभ्ररूपा सरस्वती || ११-६४ ||

मुखानि सर्वविप्राणां त्यक्त्वा दिव्यवपुर्धरा |
आयाता दैत्यवरयोर्दुष्टगृहमुपागता || ११-६५ ||

क्रन्दन्तीं तां च विवशां नीत्वा पातालगोलके |
हालाहलविषैः कृत्वा कुण्डं नीलजलप्रभैः || ११-६६ ||

तत्र तां विनिमज्यैव वद्ध्वा पन्नगरज्जुभिः |
पर्वतैर्निविडं कृत्वा पुनर्देवजिगीषया || ११-६७ ||

तामासाद्य महादिप्तौ तुष्टुवतुः शुभावहम् |
शब्दाकर्षणबाणेन दैत्यानां पृथिवीतले || ११-६८ ||

निःशब्दाश्चैव बाणेन वेदविस्मारिणो द्विजाः |
मन्त्रविस्मरणेनैव यज्ञविद्या निरासिता || ११-६९ ||

तन्नाशतो हविर्भागवर्जिता बलहानितः |
निर्वीयाश्च निरुद्योगास्ताभ्यां देवा निराकृताः || ११-७० ||

इत्थं विद्राव्य विबुद्धांस्तौ हयग्रीवसोमकौ |
विष्णुचक्राङ्कितौ तौ च समुद्रान्तर्गृहे स्थितौ || ११-७१ ||

ततो विष्णुर्महामत्स्यरूपधारी सदा प्रभुः |
यत्नं चकार देवेशि तदुद्धरणहेतवे || ११-७२ ||

सहस्रदंष्ट्रस्य झषस्य रूपं पाठीननाम्नः परमोऽथ विष्णुः |
रूपं गृहीत्वा भगवाननन्तो विवेश देवोद्धरणाय यत्न(चाब्धि)म् || ११-७३ ||

वराहरूपेण यथाब्धिमग्नां युगे युगे प्रोद्धृतवान् धरित्रीम् |
तथैव मत्स्याकृतिरम्बुजाक्षो विलोडयामास समुद्रपूरम् || ११-७४ ||

श्रीमत्स्यरूपस्य हरेः शरीरादाविर्बभूवुश्च भुजाश्चतस्रः |
खड्गं तथा चक्रकशार्ङ्गचापौ कौमोदकी बाहुचतुष्टयेन || ११-७५ ||

मत्स्यस्वरूपस्य जनार्दनस्य बभूव युद्धं शरदां सहस्रम् |
ततश्च शब्दार्थविमर्शनार्थं निःश्वासवातेन बलादगृह्णात् || ११-७६ ||

अप(अ)हृतौ तौ हरिचक्रकृत्तौ कौमोदकीताडनमूर्च्छितौ च |
महाहवे नाशमुपागतौ तौ दैत्यौ हयग्रीवकसोमकाख्यौ || ११-७७ ||

अथाम्बुधेर्गर्तपुरास्त्रवासे निवेशितां तां विषकुण्डमध्ये |
मत्स्यस्वरूपी भगवाननन्तो निःश्वासमात्रैकशरीरशेषाम् || ११-७८ ||

आश्वासयामास स गीतवाक्यैर्हरिः स्मितं प्राह सरस्वतीं ताम् |
त्रितारविद्यां प्रथमं जगाद समस्तमन्त्रप्रकरस्य मूलम् || ११-७९ ||

तेनापि नो संविदमाप देवी प्रासादमन्त्रं पुनरुज्जगाद |
तेनापि नो संविदमाप देवी कामेश्वरीं सोऽथ जगाद विष्णुः || ११-८० ||

एवं षडक्षरमनुं वचसां सवित्रीमुत्थाप्य तां संविदमाबभाषे |
नीलासि जाता विषकुण्डमध्ये सर्वाङ्गपूर्णा स्मितवक्त्रपद्मे || ११-८१ ||

यथा पुरा सर्वमहासुराणां मुखान्तरे याहि च वीतयत्नम् |
वेदान् समुच्चारय नाशयैतान् इत्यादि वाणी हरिमाह देवी || ११-८२ ||

मत्स्यावतारेण सुरक्षिताहं भयं भवेन्नैव फलं समाप्तम् |
किंत्वस्य शोभाकृतिरन्यथा मे नीलत्वमाप्तेति नितान्तचिन्ता || ११-८३ ||

निवेशिताहं विषकुण्डमध्ये यथेति दूरीभवति क्षणेन |
तथा कुरुष्व प्रथितरुपायै इत्युक्त ईशोऽपि जगाद लक्ष्मीम् || ११-८४ ||

मा त्वं शुचं याहि चिरात् सवित्रि प्रागस्म्यभूवं शशिशुद्धवर्णा |
उग्रेण हालाहलकर्षणेन नीलत्वमाप्तासि कुतोऽत्र दोषः || ११-८५ ||

नील्यो विपण्यो भुवनस्य शोभां पुष्णन्ति नीलः खलु देव एव |
नीला मृडानी जगतां सवित्री नीलं च कण्ठे पुरशासनस्य || ११-८६ ||

नीलो महेन्द्रः सुरचक्रवर्ती नीला जगज्जीवनदाश्च मेघाः |
नीलं नभः सर्वजनावकाशो नीलः कलङ्कः शशिदीप्तिहेतुः || ११-८७ ||

नीलोऽप्यहं सत्त्वगुणाश्रयश्च नीलस्य वर्णस्य कुतोऽस्ति दोषः |
अशेषभूषामणिभूषिताङ्ग्यो विनाञ्जनेनाक्षिनिवेशितेन || ११-८८ ||

न रूपवत्यो नच वा युवत्यो विलासवत्यो नवयौवनाश्च |
ख्यातिश्च ते नीलसरस्वतीति ख्याता भवित्री भुवनत्रयेऽपि || ११-८९ ||

त्वदर्थमेव प्रयतं मयार्ये षाट्कौषिकी बालमृगाक्षि नित्या |
षडर्णयोगेन हि जीवितासि विनष्टचेष्टा विषकुण्डमध्ये || ११-९० ||

इत्थं समाश्व(अ)स्य वचोभिराद्यां प्रणम्य चादाय सरस्वतीं ताम् |
प्रवर्तयामास मुखे द्विजानां पुनः सुराणां सुखहव्यल(ब्धौ?ब्ध्यै) || ११-९१ ||

ततः प्रभृत्येव जगत्प्रतीता मोक्षप्रदा नीलसरस्वतीति |
(...............................................................................................) || ११-९२ ||

अस्या गुप्तं महामन्त्रं सर्वकामफलप्रदम् |
यस्य स्मरणमात्रेण विजयी भुवि जायते || ११-९३ ||

शृणु वक्ष्यामि देवेशि उपायं साधने प्रिये |
येन देवेशि भद्रं ते भविष्यति सुनिश्चितम् || ११-९४ ||

मन्त्रं शृणु वरारोहे जपात् सार्वज्ञदायकम् |
विष्णुशक्तिर्महाशक्तिर्वह्निबीजं फडन्तकम् || ११-९५ ||

वर्णपञ्चकमेतत् तु सार्वज्ञकारणं महत् |
यदाक्षमालया देवि दिक्सहस्रं जपेद् मनुम् || ११-९६ ||

आज्ञासिद्धिमवाप्नोति नात्र कार्या विचारणा |
षण्मासात् परतो देवि महाराजत्वमाप्नुयात् || ११-९७ ||

अनेन सदृशं ज्ञानमनेन सदृशं तपः |
नास्ति नास्ति महामाये तन्त्रमध्ये सुरेश्वरि || ११-९८ ||

अनेन मन्त्रराजेन वश्यादिकं समाचरेत् |
ततः सिद्धो भवेद् मर्त्यो नात्र चिन्ताविधिः स्मृतः || ११-९९ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (मन्त्रोद्धारतत्प्रकारान्तरनीलिम्-निरूपणमेकादशः पटलः || ११ ||


Kapitel 12: Entstehungs- und Verehrungsordnungen

Begleitende Yoga-Vidya-Praxis: Chakra-Energie-Meditation mit Sukadev Diese eigenständige Übung erläutert keine besonderen Ritualanweisungen dieses Kapitels.

श्रीभैरव उवाच |

इदानीं शृणु वक्ष्यामि विद्योत्पत्तिं वरानने |
महाकाली जगद्धात्री तेजोरूपा जगन्मयी || १२-१ ||

ब्रह्मरूपा महादेवी सर्वकल्याणहेतुका |
गोलोकादुपरि स्थानं मणिमुक्तादिशोभितम् || १२-२ ||

चतुर्द्वारं चतुष्काण्डं चतुरस्रं मनोरमम् |
चतुर्भित्तिसमाकीर्णं मुक्ताहा(रं?रै)र्महोज्ज्वलम् || १२-३ ||

स्फटिकस्तम्भसंक्रान्तं नृत्यगीतादिसंयुतम् |
निर्मुक्तं परमेशानि परमं नात्र संशयः || १२-४ ||

इति ते कथितं दिव्यं कैलासस्थानमुत्तमम् |
गते जगति सर्वांशे प्रलये परमेऽनघे || १२-५ ||

ब्रह्मविष्णुशिवास्तत्र न्यवसंस्तत्र भैरवि |
भीमनामा महाराजा धार्मिकः परमः पुमान् || १२-६ ||

तस्य द्वारि महादेवि शिवाद्याः सकलेष्टदाः |
तपसा च महादेवि प्रीतास्ते भद्रकेकये || १२-७ ||

प्रलये च गते देवि राजानं रक्षितुं शिवे |
ब्रह्माद्याः परमेशानि उपायं चक्रिरे शिवे || १२-८ ||

अन्तस्तत्त्वं समीक्ष्यैव उपायं च वरानने |
न्यवसंस्तत्र संप्राप्ता देवीरूपं मनोरमम् || १२-९ ||

विभागं परमेशानि वटपत्रोदरे स्थिताः |
भगवत्या(ः) पदं ध्यात्वा लक्षवर्षं ततोऽभवत् || १२-१० ||

जाता काली परा नित्या प्रत्यक्षा तत्र भैरवि |
प्राह देव महादेव भवद्भिः स्तूयतेऽत्र का || १२-११ ||

ततस्तां दृष्टिपथगां ज्ञात्वा ब्रह्मादयः सुराः |
स्तवं चक्रुः परं तत्र भगवत्याः पदेऽभवन् || १२-१२ ||

नमस्तुभ्यं महेशानि परमानन्दरूपिणि |
अस्माकं प्राणरक्षार्थमागतासि जलोपरि || १२-१३ ||

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः |
नमस्तेऽस्तु महारौद्रि कालरात्रि नमोऽस्तु ते || १२-१४ ||

त्वां विना परमे रौद्रि प्रेतत्वं गतवान् भवः |
रक्ष रक्ष परे विद्ये त्रैलोक्यभुवनोदरे || १२-१५ ||

मधुकैटभसंहन्त्रि निसुम्भासुरमर्दिनि |
देवैश्वर्यप्रदे देवि नमस्ते शङ्करप्रिये || १२-१६ ||

चन्द्रसूर्यमये देवि परज्योतिःस्वरूपिणि |
स्तवाभिभावभूता त्वं प्रसीद परमेश्वरि || १२-१७ ||

इत्युक्त्वा प्रणिपत्यापि प्रणमन्तः पुनः पुनः |
किरीटेनार्कवर्णेन कालीपदेऽस्पृशन् प्रिये || १२-१८ ||

वरं वृणु महाभागा भगवत्योक्तमुत्तमम् |
रक्षां कुरु महामाये नमस्ते शङ्करप्रिये || १२-१९ ||

तथास्त्विति वचः कृत्वा सृष्ट्यादी(न्)कुरुतानघाः ! |

ब्रह्मोवाच |

केन रूपेण देवेशि सृष्टिस्थित्यादिकं भवेत् |
इति तस्य वचः श्रुत्वा भवानी भवमोहिनी || १२-२० ||

कथयामास सर्वांस्तान् व(वदुस्ता?रदा सा)सुरान् वरान् |
मम पादरजो नीत्वा उपादानात्मकं शिवम् || १२-२१ ||

सृष्ट्यादीन् कुरुत प्राज्ञा येन सिद्धिर्भविष्यति |
तत्पादप्रभवं नीत्वा रजो देवि शिवे शुभे || १२-२२ ||

सृष्टिं कर्तुं ततो ब्रह्मा स्थितौ विष्णुः प्रवर्तकः |
संहारे रुद्र एवासौ प्रावर्तयत सत्वरम् || १२-२३ ||

सृष्टिराविर्बभूवाथ सर्वदेववरोत्तमैः |
सनकाद्या सनन्दाद्या सन्ध्या चापि व्यजायत || १२-२४ ||

प्रजाः ससर्ज देवेशः सर्वभूतमयीः शुभाः |
स्थितिं विष्णुर्महाभागश्चकार जगतां विभुः || १२-२५ ||

प्रसंहरति रुद्रश्च सृष्टेरेवं क्रमं शृणु |
स्वर्गे देवा महादेवि इन्द्रो राजा तु तत्र वै || १२-२६ ||

मर्त्यलोकं सनाथाढ्यं राजा च भगवान् मनुः |
पातालं सर्वनागाढ्यं निर्ममे जगतां विभुः || १२-२७ ||

तत्र राजा विराधाख्यः प्रजापालनतत्परः |
ततो ब्रह्मा च विष्णुश्च रुद्रश्चैव सदाशिवः || १२-२८ ||

स्वस्वकर्मणि घूर्णन्ते प्रभवन्ति गणेश्वरि |
ततस्तु परमेशानि रौद्री रात्रिरुदीरिता || १२-२९ ||

असुरास्तत्र देवेशि प्रदुद्रुवुर्महाभयाः |
स्वर्गान् निराकृतास्तैस्तु भयानकभयार्दिताः || १२-३० ||

इन्द्रादयः सुरगणा ब्रह्मविष्णुशिवात्मिकाम् |
आगच्छंस्तु महादेवीं स्वस्वकार्यार्थसाधकाः || १२-३१ ||

त्वमेव जगतां नाथस्त्वयि सर्वं प्रतिष्ठितम् |
त्वमेव हव्यं(हेतो?होता)च भोज्यं भोक्ता च शाश्वतः || १२-३२ ||

वेद्यं वेदयिता चासि ध्याता ध्येयं च तत्परः |
त्वं पितृणामपि पिता देवानामपि देवता || १२-३३ ||

परतोऽपि परश्चापि विधाता वेधसामपि |
परब्रह्मस्वरूपस्त्वं प्रसीद परमेश्वरि || १२-३४ ||

इति तेषां वचः श्रुत्वा देवी चादितिजन्मनाम् |
प्राह देवाः ! परो धर्मः परात् परतरोऽपि च || १२-३५ ||

किं कारणं महाभागाः! यत्नं कुरुत सादरम् |
एवं श्रुत्वा ततो ब्रह्मा प्रोवाच वदतां वरः || १२-३६ ||

महेन्द्रस्य न चैश्वर्यं शाम्यते न च तेन सा |
विष्ण्वादिको महान् भूतस्तेन शाम्येन्न संशयः || १२-३७ ||

ययौ ब्रह्मा महेन्द्रेण गोलोकं सहितो मुदा |
नानाविधैर्महेशानि वाक्यैश्च परमेश्वरम् || १२-३८ ||

तुष्टाव परमानन्दं स्वकार्योद्धरणाय च |
इति तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः || १२-३९ ||

उवाच सादरं विष्णुर्न मया शक्यते विभो |
ब्रह्मविष्णू महेशानि आगतौ मम गोचरे || १२-४० ||

स्तवैर्बहुविधैर्दिव्यैस्तुष्टुवतुः परं शुभे |
मयोक्तं परमेशानि एतान् हन्तुं न शक्यते || १२-४१ ||

इति मद्वचनं श्रुत्वा ब्रह्मविष्णू समाहितौ |
प्राञ्जलिं च ततो बद्ध्वा प्रतुष्टुवतुर्मां चिरम् || १२-४२ ||

ततः परं महादेवि कथितं सर्वमोहनम् |
न शक्तिर्मम तत्रास्ति समर्था तद्विमर्दने || १२-४३ ||

अस्ति काली महातीर्थे कैलासे भवगेहिनी |
परमे च शिवे देवी संस्थिता विश्वमोहिनी || १२-४४ ||

सैव काली महाविद्याऽज्ञानेन्धनप्रदीपनी |
ततो ब्रह्मा च विष्णुश्च रुद्रोऽहं परमेश्वरि || १२-४५ ||

महाकालीदर्शनाय वयं तत्र गताः शुभे |
तेजोरूपधरे देवि महानाथे हरप्रिये || १२-४६ ||

देवदानवगन्धर्वहिताय परमेश्वरि |
प्रसीद सर्वकल्याणि नमस्ते शारदेऽनघे || १२-४७ ||

इति तेषां वचः श्रुत्वा महाकाली महाशिवा |
देवानां प्रीतये देवि प्रत्यक्षरूपतां गता || १२-४८ ||

देवी उवाच |

किं याचत सुराः सर्वे वरं वृणु तपोघनाः! |
यत् (यत्)कामयमानाः स्थ तत् सर्वं(शृणुता?वदता)मराः || १२-४९ ||

देवा ऊचुः |

भीता महासुरैर्देवि यज्ञकाण्डं निवर्तितम् |
तेषां वधाय देवि त्वं प्रसीद सर्वगोचरे || १२-५० ||

इति तेषां वचः श्रुत्वा देवी चादितिजन्मनाम् |
प्रसन्ना सा महादेवी नीलरूपा वराङ्गना || १२-५१ ||

नीलसरस्वती ख्याता सृष्टसर्वविमोहिनी |
तस्या उत्थाय सा देवी नीलवाणीति शब्दिता || १२-५२ ||

किमाज्ञापय देवि त्वं तत् करोमि प्रहेलया |
तस्यास्तद्वचनं श्रुत्वा महाकालीति चिन्मयी || १२-५३ ||

उवाच सादरं देवि स्नेहगद्गदया गिरा |
लीलया वाक्प्रदा चेति तस्मान्नीलसरस्वती || १२-५४ ||

देवि त्वं प्रथिता साध्वि नीलवाणीति(भाविनी?तारिणी) |
तस्याः प्रभाववृन्दैश्च व्याप्तं सर्वं जगत् त्रयम् || १२-५५ ||

गच्छ त्वं परमेशानि मत्स्वरूपा वरानने |
देवकार्यहितार्थाय निर्मिता त्वं शुचिस्मिते || १२-५६ ||

इति तस्या वचः श्रुत्वा तारिणी विश्वमोहिनी |
देवान् प्राह महाभागाः! गच्छत यत्र तेऽसुराः || १२-५७ ||

अहं तत्र गमिष्यामि सर्वथा सन्निधौ सुराः |
इत्युक्त्वा सा महादेवी तारिणी कामचारिणी || १२-५८ ||

अन्तर्हिता महामाया मायारूपवती च सा |
महामाया सदानन्दा सर्वदेवमयी शुभा || १२-५९ ||

ए(या?षा) च सर्वदेवानां गायत्री च मनोरमा |
गायत्री सैव सावित्री सैव ब्रह्मस्वरूपिणी || १२-६० ||

यामासाद्य महात्मानो धर्मकामार्थमुक्तिषु |
नासाद्यं मेनिरे किञ्चित् त्रिषु लोकेषु सुन्दरि || १२-६१ ||

कवित्वं परमैश्वर्यं महादेव्याः प्रसादतः |
ईशत्वं गतवान् इन्द्रः विष्णुत्वं गतवान् हरिः || १२-६२ ||

शिवत्वं गतवान् रुद्रः सर्वैश्वर्ययुतो महान् |
इति तद्वचनं श्रुत्वा देवाः सर्वैर्नमस्कृताः || १२-६३ ||

किरीटेनार्कवर्णेन स्पृशन्तस्तत्पदाम्बुजम् |
नमस्कृत्य नमस्कृत्य पुनर्नत्वा महेश्वरीम् || १२-६४ ||

सर्वं कार्यं महादेवि न किञ्चिदवशिष्यते |
संस्मृता संस्मृता देवि हिंसेथाः परमापदः || १२-६५ ||

इति नत्वा महादेवीं सर्वकामवरेश्वरीम् |
आगतास्ते पुनस्तत्र स्थितिर्यत्र शिवे (नघे?नगे) || १२-६६ ||

पञ्चवर्षं गतं तत्र देवानां दिव्यजन्मनाम् |
भ्रष्टराज्याः परातङ्का मर्त्या इव नगोपरि || १२-६७ ||

इन्द्रादयः सुरगणाः पुनर्देवीं समस्मरन् |
गताः सर्वे नगं शुद्धं यत्रास्ते सुन्दरी शिवा || १२-६८ ||

आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् |
मधुपर्काचमस्नान - वसनाभरणानि च || १२-६९ ||

गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं शिवे |
षोडशैरुपचारैश्च देवीं नीलसरस्वतीम् || १२-७० ||

पूजयित्वा बलिं दत्त्वा शिवायै विविधैः शुभैः |
जपं चकार देवेशि देववृन्दः सुरोत्तमः || १२-७१ ||

महामन्त्रं पूर्वमुक्तं लक्षं जप्त्वा महेश्वरि |
अयुतं चाजुहोदज्यैः पद्मपुष्पैर्मनोरमैः || १२-७२ ||

होमं चक्रुस्तिलयुक्तैः शर्करासहितैरपि |
एवं हुत्वा महादेवि दशांशेनाभिषेचनम् || १२-७३ ||

दशांशैस्तर्पणं देवि कृतं सर्वैर्महेश्वरि |
समाप्ते च ततो देवीं पूजयित्वा महानिशि || १२-७४ ||

बलिं दत्त्वा महादेव्यै सुराहाराः सुरास्तथा |
एवं नियममानेन कृतं कर्म मनोरमम् || १२-७५ ||

ततो भगवती देवी देवैः स्मृता महेश्वरि |
सन्तुष्टा सा महादेवी नीलरूपा महोदरी || १२-७६ ||

देवाग्रे परमेशानि प्रत्यक्षत्वमुपागता |
किं करोमि क्व गच्छामि ब्रूत देवाः! समाहवे || १२-७७ ||

देवा ऊचुः |

प्रणमा(मि?मो)महादेवि प्रसन्ना भव चेश्वरि |
ततो भगवती देवी नीलरूपा मनोरमा || १२-७८ ||

दृष्ट्वा सुरसमूहान् सा तारिणी सर्वकामदा |
स्वदेहतः पराः सृष्टा विद्या द्वादश ईरिताः || १२-७९ ||

काली चैव महादेवी महाविद्या तथैव च |
षोडशी भुवनेशानी भैरवी च्छिन्नमस्तका || १२-८० ||

धूमावती च बगला मातङ्गी कमलात्मिका |
एता विद्या महादेवि सिद्धिविद्याः प्रकीर्तिताः || १२-८१ ||

महादेव्याः सरस्वत्या देहोद्भूता वरानने |
अन्याश्च मातरस्तस्या देहाज्जाता वरानने || १२-८२ ||

सर्वा देव्याः परानन्दे नृत्यन्ति चरणान्तिके |
ततोऽसुरान् निहत्यैव पुनर्देवान् महेश्वरि || १२-८३ ||

संस्थापयामास तदा स्वस्वस्थानं गतास्तदा |
इति प्रकारं देवेशि शृणु भैरवि मन्मुखात् || १२-८४ ||

तव स्नेहाद् वरारोहे प्रकाशमुपपादितम् |
एतत् ते कथितं देवि विद्योत्पत्तिर्महेश्वरि || १२-८५ ||

सर्वतन्त्रेषु देवेशि गोपनीया सुरेश्वरि |
तस्मात् परतरं नास्ति तन्त्रमध्ये महेश्वरि || १२-८६ ||

एषा ते कथिता विद्या सर्वसारोत्तमोत्तमा |
इदानीं शृणु देवेशि सार्वज्ञकारणं मतम् || १२-८७ ||

रात्रौ प्रथमयामे तु मङ्गले वासरे शिवे |
चतुर्हस्तप्रमाणां हि वेदिं कृत्वा मनोरमाम् || १२-८८ ||

सिन्दूरेण महेशानि यन्त्रं निर्माय साधकः |
ताम्रस्योपरि संस्थाप्य वेष्टयेद् रक्तवाससा || १२-८९ ||

तिलपूर्णं घटं तत्र स्थापयेत् सुरवन्दिते |
पूर्वमुक्तं मन्त्रबीजं तेनैव जपमाचरेत् || १२-९० ||

पूर्वास्यो हि जपं कुर्यद् विशेद् रक्तासने सुधीः |
भूर्जे विलिख्य देवेशि साध्यनाम विदर्भितम् || १२-९१ ||

तदधः स्थापयेद् देवि विशेत् तदुपरि प्रिये |
रक्तवस्त्रं परिधाय उष्णीषं लोहितं शिवे || १२-९२ ||

जपेत् पूर्वमुखो देवि पूजयेत् परमेश्वरीम् |
सिन्दूरारुणविग्रहां करतले वामे च मुण्डं तथा कर्णे सव्ये शवेशं परिणमितजटाकेशपाशेन युक्ता(म्) |
ध्यायेदट्टाट्टहासां (............?) रक्तधाराविशेषा रक्ताख्या पूर्णमूला विदधतु(?)(सु)वरं कामरूपा वराङ्गी || १२-९३ ||

इति ध्यात्वा महादेवीं पूजयेत् परमेश्वरीम् |
दशसाहस्रजाप्येन जपं कुर्याच्शुचिस्मिते || १२-९४ ||

होमयेत् तद्दशांशेन दशांशैस्तर्पणं चरेत् |
तद्दशांशैर्महेशानि अभिषेचनमाचरेत् || १२-९५ ||

ततो देवि महाभागे जपहोमादिकं चरेत् |
पञ्चदिनप्रयोगेण सिद्धो भवति साधकः || १२-९६ ||

इति ते कथितं देवि प्रयोगसारमुत्तमम् |
सर्वसिद्धिप्रदं देवि सर्वापद्विनिवारकम् || १२-९७ ||

पुष्पवन्तौ यदि वृथा तदा निष्फलभाग् भवेत् |
अस्मात् परतरं नास्ति सत्यं सुरगणार्चिते || १२-९८ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (विद्योत्पत्ति सृष्टिक्रमपूजादिसाधन निरूपणं) द्वादशः पटलः || १२ ||


Kapitel 13: Mahakali

Kali und Shiva: Kraft und Bewusstsein in traditioneller Bildsprache.

श्रीभैरव उवाच |

अथ वक्ष्ये महेशानि सावधानावधारय |
महाकाल्याः परं मन्त्रं सर्वसारस्वतप्रदम् || १३-१ ||

यामाहुराद्यां प्रकृतिं वराङ्गनां प्रमातुराद्यां सकलां तुरीयाम् |
परापराम्बां वरदां वरेण्यां वीरेश्वरीं साधकसिद्धिदात्रीम् || १३-२ ||

यामाद्यां प्रकृतिं प्राहुः कालीं कालस्वरूपिणीम् |
तस्या मन्त्रं महामन्त्रं मन्त्रसारमिमं प्रिये || १३-३ ||

यज्ज्ञात्वा साधकाः सर्वे सिद्धिं प्रापुर्महर्षयः |
शिवरूपा शवारूढा वरदा भयनाशिनी || १३-४ ||

सर्वकामप्रदा देवी सर्वविस्मयकारिणी |
नात्र चित्तादिशुद्धिः स्याद् न चामित्रादिदूषणम् || १३-५ ||

न कालनियमस्तत्र महामन्त्रस्य साधने |
न वारं न च नक्षत्रं न च तिथ्यादिदूषणम् || १३-६ ||

गुरुचिन्ता न चैवात्र महाकाल्याश्च साधने |
मन्त्रं शृणु वरारोहे सर्वसारस्वतप्रदम् || १३-७ ||

महाशक्तिद्वयं देवि शब्दबीजद्वयं ततः |
निजबीजत्रयं चैव दक्षिणे कालिके - पदम् || १३-८ ||

संहारक्रमयोगेन पूर्वबीजानि चोच्चरेत् |
वर्तुलाद्यं महामन्त्रं वह्निप्रियान्तकं शिवे || १३-९ ||

त्रयोविंशत्यक्षरात्मा मनुः परमशोभनः |
अनेन मन्त्रराजेन शिवोऽहं नात्रसंशयः || १३-१० ||

भैरवोऽस्य ऋषिः प्रोक्तो उष्णिक् छन्द उदाहृतम् |
महाकाली देवता च लज्जाबीजं तु बीजकम् || १३-११ ||

हू/बीजं मन्त्रशक्तिः स्याद् विनियोगः प्रकीर्तितः |
ध्यानं शृणु वरारोहे जपात् सिद्धिप्रदायकम् |
यस्याभ्यासवशाद् देवि पशवो वीरतां गताः || १३-१२ ||

मेघाङ्गीं विगताम्बरां शवशिवारूढां त्रिनेत्रां(परां) कर्णालम्बितबालयुग्मशुभदां मुण्डस्रजा मालिनीम् |
वामेऽधोर्ध्वकराम्बुजे नरशिरः खड्गं च सव्येतरे दानाभीति विमुक्तकेशनिचयां वन्दे महासुन्दरीम् || १३-१३ ||

इति ध्यानेन संपूज्य तोषयेत् परमेश्वरीम् |
गायत्रीं शृणु चार्वङ्गि जपात् सार्वज्ञदायिकाम् || १३-१४ ||

कालिकायै पदं चोक्त्वा विद्महे पदमन्तरम् |
श्मशानान्ते च वासिन्यै धीमहीति पदं ततः || १३-१५ ||

तन्नो घोरा च देवेशि प्रचोदयादनन्तरम् |
जप्ता विंशतिधा देवी सर्वसंपत् प्रदायिनी || १३-१६ ||

जपेद् विंशतिसाहस्रं पुरश्चरणसिद्धये |
होमयेत् तद् दशांशेन तद् दशांशेन तर्पयेत् || १३-१७ ||

दशांशेनाभिषेकं च भोजयेद् ब्राह्मणांस्ततः |
तदन्ते महतीं पूजां कृत्वा सर्वं समाचरेत् || १३-१८ ||

ततो विसर्जयेद् देवि घटं चैव जले क्षिपेत् |
तत् प्रयोगमहं वक्ष्ये दृष्टादृष्टफलप्रदम् || १३-१९ ||

साधिते च प्रयोगेऽस्मिन् मन्त्राः सिद्ध्यन्ति नान्यथा |
गते तु(प्रहरे?प्रथमे)यामे तृतीयप्रहरावधि || १३-२० ||

प्राङ्गने चाथवा भूमौ साधयेद् वीरसाधनम् |
कदलीस्तम्भमारोप्य वेदिकां च महेश्वरि || १३-२१ ||

घटं तत्र च संस्थाप्य सिन्दूरेणसमन्वितम् |
आम्रपल्लवमेतस्मिन् पानसं खादिरं तथा || १३-२२ ||

अश्वत्थबदरीपत्रं क्षिपेत् कुम्भे गणेश्वरि |
स्वर्णं रुप्यं तथा मुक्तां प्रवालं स्फटिकं तथा || १३-२३ ||

एतत् सर्वं समुत्क्षिप्य साधयेद् वीरसाधनम् |
संलिख्य मातृकायन्त्रं तत्रोपरि विशेनमुदा || १३-२४ ||

कम्बले संविशेन्मन्त्री उत्तराशामुखः स्थितः |
नानाद्रव्यैः पूजयित्वा अन्नव्यञ्जनसंयुतम् || १३-२५ ||

छागमांसं तथा सान्नं परमान्नं मनोरमम् |
पायसं च तथा देवि महादेव्यै प्रदापयेत् || १३-२६ ||

आनीय युवतीं रम्यां नानालङ्कारभूषिताम् |
केशसंस्करणं कृत्वा ताम्बूलं च प्रदापयेत् || १३-२७ ||

स्तनद्वये रमाबीजं मुखे वाग्भवबीजकम् |
भगपार्श्वद्वये देवि लिखेत् कामद्वयं शिवे || १३-२८ ||

कुन्तलाकर्षणं कुर्यात् स्तनमर्दनपूर्वकम् |
संक्षिप्य लिङ्गं तद्योनौ घातं कुर्याच्शुचिस्मिते || १३-२९ ||

सहस्रस्य प्रमाणेन जपं कुर्याद् वरानने |
सप्तदिनप्रयोगेण मन्त्रसिद्धिर्भवेत् प्रिये || १३-३० ||

अथवा प्रजपेत् मन्त्रं यावत् पत्रं न दृश्यते |
पत्रे जाते महेशानि मन्त्रसिद्धिर्न संशयः || १३-३१ ||

इति ते कथितं देवि रहस्यं सर्वकामदम् |
न प्रकाश्यं महेशानि न प्रकाश्यं कदाचन || १३-३२ ||

भवभीतिर्महेशानि नास्ति हे नगनन्दिनि |
प्रयोगोऽयं महेशानि सर्वसिद्धिप्रदायकः || १३-३३ ||

मूलमन्त्रस्य माहात्म्यं कथितुं नैव शक्यते |
वक्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || १३-३४ ||

तथापि वक्तुं शक्नोमि न च वै परमेश्वरि |
अस्ति गुह्यतमं स्थानं त्रैलोक्ये चातिदुर्लभम् || १३-३५ ||

कामरूपं महापीठं सर्वकामफलप्रदम् |
एवं जप्तं महेशानि अनन्तफलदं भवेत् || १३-३६ ||

यदि भाग्यवशेनैव पीठं प्राप्नोति मानवः |
तत्र जप्तं महेशानि अनन्तफलदं भवेत् || १३-३७ ||

सिद्धिर्यत्र महेशानि तत्र तिष्ठति भैरवी |
तस्मात् परतरं स्थानं तन्त्रेऽस्मिन्नात्र संशयः || १३-३८ ||

इति श्रीबृहन्निलतन्त्रे भैरवभैरवीसंवादे (महाकालीमन्त्र - तत्पुरश्चरणादिप्रयोग - वीरसाधननिरूपणं) त्रयोदशः पटलः || १३ ||


Kapitel 14: Kamakhya und Tripura

श्रीभैरव उवाच |

अथ वक्ष्ये महादेवि कामाख्यामन्त्रमुत्तमम् |
कामाख्यापञ्चमूर्तीनां रूपकं पञ्चभैरव(म्) || १४-१ ||

कामस्थं काममध्यस्थं कामोदरपुटी(हृ?कृ)तम् |
कामेन कामयेत् कामी कामं कामेन कामयेत् || १४-२ ||

ज्येष्ठं तु व्यञ्जनं ब्रह्मा अपरः शक्र उच्यते |
प्रथमं पुरतः कुर्यात् संसक्तं वसुधामयम् || १४-३ ||

प्रजापतिस्तथा शक्रबीजसंस्थाक्षिसंयुतम् |
चन्द्रार्घसहितं बीजं कामाख्यायाः प्रचक्षते || १४-४ ||

इदं धर्मप्रदं काममोक्षा(र्थी?र्थ)संप्रदायकम् |
इदं रहस्यं परममन्यतस्तु सुदुर्लभम् || १४-५ ||

स्तुत्यमिदं यः शृणुयाद् गुरुवक्त्राद् वरोत्तमम् |
स कामान् निखिलान् प्राप्य परे लोके महीयते || १४-६ ||

कालीतन्त्रस्य मन्त्रस्य यथा पूर्वं मयोदितम् |
मण्डलं प्रतिपत्त्या तु पर्याय आलयस्य च || १४-७ ||

स एव प्रथमः कार्यः शिलायां पुष्पचन्दनैः |
पात्रादीनां प्रतिष्ठार्थं तथैवात्रापि योजयेत् || १४-८ ||

तत्र ताः सकलाः ग्राह्या आसनादेश्च पूजनम् |
प्रथमं भास्करायार्घ्यं प्रदद्याच् श्वेतसर्षपैः || १४-९ ||

रक्तचन्दनपुष्पौश्च सगणाय महात्मने |
आसनार्चनशेषे तु पीठोक्ताः सर्वदेवताः || १४-१० ||

पीठनाम्ना तु संपूज्य मण्डलस्य तु मध्यतः |
ध्यानस्वरूपं भिन्नं तु महाकाल्या वरानने || १४-११ ||

कामाख्यासर्वसाम्ये तु महामायास्तवोद्गतम् |
योगिनीस्तु चतुःषष्टिं पूजयेत् परमेश्वरि || १४-१२ ||

गुहं मनोभ(वो?वं) देवि महोच्छ्वासां तथा सखीम् |
अनन्तरं पूजयेत् तु दिक्पालांश्च नवग्रहान् || १४-१३ ||

रूपतस्तान् समुद्दिश्य पूजयेत् स गणाधिपे |
पूर्वद्वारे गणपतिं प्रथमं पूजयेच्शिवे || १४-१४ ||

नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत् |
भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे || १४-१५ ||

एते मम द्वारपालास्तव द्वारे प्रपूजयेत् |
पात्रामृतीकृतवि(धौ?धिं) कुर्याद्वै काममुद्रया || १४-१६ ||

भूतापसरणं कुर्यात् पूर्वं तालत्रयेण तु |
वामहस्ते दक्षिणेन पाणिना तालमाचरेत् || १४-१७ ||

हू/ हू/ फडिति मन्त्रेण वेतालादींश्च सर्पयेत् |
अत्रोक्तेन स्वरूपेण प्राणायामान्तमाचरेत् || १४-१८ ||

स्थापयेत् प्रथमं देवीं मूलमन्त्रेण पूजकः |
मधुक्षीराज्यदधिभिर्गोमूत्रैर्गोमयैस्तथा || १४-१९ ||

रत्नोदकैः शर्करादिगुडरत्नकुशोदकैः |
सितसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः || १४-२० ||

रक्तचन्दनपुष्पैश्च दूर्वागोरोचनायुतैः |
नवभिर्वितरेदर्घ्यं शिलाया योनिसन्निधौ || १४-२१ ||

आसनं पाद्यमर्घ्यं च तत आचमनीयकम् |
मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणे || १४-२२ ||

पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् |
नैवेद्याचमनीये तु प्रदक्षिणानमस्कृती || १४-२३ ||

एते षोडश निर्दिष्टा उपचारास्तु सुन्दरि |
आवाहयेद् महादेवि गायत्र्या कामरूपया || १४-२४ ||

तामेवं विद्धि वेतालगुह्यदैवतभैरवैः |
कामाख्ये त्वमिहागच्छ यथावन्मम संनिधौ || १४-२५ ||

पूजाकर्मणि सान्निध्यमिह कल्पय कामिनि |
पूजावसाने च बलिं देवीप्रित्यै निवेदयेत् || १४-२६ ||

रुद्राक्षमालया जप्यमाधायैव समापयेत् |
त्र्यक्षरैर्मूलमन्त्रस्य त्रिरावृत्तैः प्रपूजयेत् || १४-२७ ||

महाकाल्याः षडङ्गानि स्वाङ्गानामन्तरे तथा |
नीलमन्त्रस्य मन्त्रस्य कराङ्गन्यासयोश्च ये || १४-२८ ||

स्वरैः प्रोक्ता महादेवि सार्धचन्द्रैः सबिन्दुकैः |
मूलमन्त्राद्यक्षराभ्यां युगपद्भुवि योजयेत् || १४-२९ ||

कनिष्ठादिक्रमेणैव त्वङ्गन्यासं समाचरेत् |
अङ्गन्यासकरन्यासौ कृत्वा पश्चात् तु साधकः || १४-३० ||

हृच्छिरस्तु शिखा वर्म नेत्रास्योदरपृष्ठतः |
वाह्वोः पार्श्वयोर्जङ्घयोः पादयोश्चापि विन्यसेत् || १४-३१ ||

अभयं वरदं हस्तमक्षमालां सुरेश्वरि |
पूजयेच्च शिवं सूर्यं शिवाश्चन्द्रकलास्तथा || १४-३२ ||

रक्तपद्मं शरं चैव लोहितं ब्रह्मपुत्रकम् |
मनोभवशिलां तत्र शक्तिहस्तां सुमध्यमाम् || १४-३३ ||

देव्याः प्रपूजयेद् भक्तः करवालं च पार्श्वतः |
पीठाधिदेवतास्तत्र यजेत् कामेश्वरीं शुभाम् || १४-३४ ||

त्रिपुरां पूजयेन् मध्ये पीठे प्रत्यधिदेवताम् |
शारदां च महोच्छ्वासां मध्य एवं प्रपूजयेत् || १४-३५ ||

चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी |
योनिमुद्रा समाख्याता निर्माल्यस्य विसर्जने || १४-३६ ||

इदं द्रव्यं तु सिन्दूर अङ्गरागं तु कुङ्कुमैः |
इति योऽत्र मया प्रोक्तो विशेषः परिपूजने || १४-३७ ||

एतैर्विशेषैः सहितं महादेव्याः प्रपूजने |
सर्वं कल्पं समासाद्य कालिकां परिपूजयेत् || १४-३८ ||

मनोभवगुहामध्ये स याति परमां गतिम् |
ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च || १४-३९ ||

कौमारी वैष्णवी दूर्गा नारसिंही च कालिका |
चामुण्डा शिवदूती च वाराही कार्तिकी तथा || १४-४० ||

माहेश्वरी शङ्करी च जयन्ती सर्वमङ्गला |
काली (क)पालिनी मेधा शिवा शाकम्भरी तथा || १४-४१ ||

भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा |
क्षेमा धात्री तथा स्वाहा स्वधाऽपर्णा महोदरी || १४-४२ ||

घोररूपा महाकाली भद्रकाली भयङ्करी |
क्षेमङ्करी चोग्रचण्डा चण्डोग्रा चण्डनायिका || १४-४३ ||

चण्डा चण्डवती चण्डी महाप्रियङ्करी तथा |
बलविकरणी देवी बलप्रमथनी तथा || १४-४४ ||

मनोन्मथनी चैव हि सर्वभूतस्य दमनी |
उमा तारा महानिद्रा विजया च जया तथा || १४-४५ ||

पूर्वोक्ताः शैलपुत्र्याद्या योगिन्यष्टौ तथा क्रमात् |
ताभिराभिश्च सहिताश्चतुष्षष्टिं च योगिनीः || १४-४६ ||

पूजयेद् मण्डलस्या(न्ता?न्तः) सर्वकामार्थसिद्धये |
नानाविधं तु नैवेद्यं पानं पायसमेव च || १४-४७ ||

मोदकापुपपिष्टादि देव्यै सम्यक् प्रदापयेद् |
एवं तु पूजयेद् देवीं कालिकां कामदायिनीम् || १४-४८ ||

भक्तियुक्तो नरो भूत्वा सर्वान् स लभते प्रियान् |
महोच्छ्वासा महादेवी महामाया तु सा स्मृता || १४-४९ ||

कालिकातन्त्रमन्त्रेण संपूज्य योनिमण्डले |
तदेव मण्डलं चास्या ह्यङ्गन्यासं तदेव च || १४-५० ||

स एव पूजापर्यायस्तद्ध्यानं सैव देवता |
मण्डलादि विसर्गान्तं महामायाः प्रपूजने || १४-५१ ||

यत् प्रोक्तं तेन तां देवीं महोच्छ्वासां तु मण्डले |
स्नानपूर्वं पूजयेत् तु मध्वाज्यादिभिरासवैः || १४-५२ ||

शृणुष्वेकमनाः कान्ते त्रिपुरायाः प्रपूजनम् |
एतस्या मूलम(न्त्रेण?न्त्रं तु) पूर्वमुत्तरतन्त्रके || १४-५३ ||

वाग्भवं कामबीजं च डामरं चेति तत् त्रयम् |
सर्वधर्मार्थकामादिसाधनं कुण्डलीयुतम् || १४-५४ ||

त्रीण्यस्याः पूजने दद्यात् स्वर्गा(?)ध्याता महेश्वरी |
त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी || १४-५५ ||

तस्यास्तु स्नापनं यादृङ् महाकाल्याः प्रकीर्तितम् |
तेनैव स्नापनं कुर्याद् मूलमन्त्रेण साधकः || १४-५६ ||

त्रिकोणमण्डलं चास्यास्त्रिपुरं च त्रिरेखकम् |
मन्त्रस्तु त्र्यक्षरं ज्ञेयं तथा रूपत्रयं ततः || १४-५७ ||

त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च भूतये |
सर्वं त्रयं त्रयं यस्मात् तस्मात् सा त्रिपुरा मता || १४-५८ ||

उदीच्याद्यथ पू(र्णा?र्वा)न्ता रेखाः कार्यास्तु मण्डले |
त्रिस्त्रिरेखास्तु कर्तव्याः स्युः पुनः पुष्पचन्दनैः || १४-५९ ||

ऐशान्याद्यथ नैर्-ऋत्यां यन्त्रं कृत्वाञ्ज(सो)ल्लिखेत् |
नैर्-ऋत्यां चैव वायव्यां तत ऐशान्यगाः पुनः || १४-६० ||

एवं त्रिकोणं विलिखेद् मण्डलस्यान्तरे पुनः |
ऐशान्यां या तु देवेशि सा शक्तिः परमेश्वरी || १४-६१ ||

एवं क्रमेण देवेशि वेतालादीन् प्रपूजयेत् |

इति श्रीबृहन्नीअलतन्त्रे भैरवभैरवीसंवादे (कामाख्यामन्त्र - त्रिपुरामण्डलपूजादिनिरूपणं) चतुर्दशः पटलः || १४ ||


Kapitel 15: Orte der Praxis

श्रीभैरव उवाच |

अथ वक्ष्ये महेशानि साधनस्थानमुत्तमम् |
यत्र जप्तं महेशानि हठात् सिद्धिप्रदायकम् || १५-१ ||

दर्पणो देवि नाम्ना तु पर्वतः परमेश्वरि |
कुबेरो यत्र वसति लोकपालैर्युतः शिवे || १५-२ ||

रोहितो मध्यदेशे तु तस्मिन्नास्ते महेश्वरि |
रक्तवर्णो महेशानि लोहाकृतिरिवापरः || १५-३ ||

पर्वतस्य महेशानि माहात्म्यात् स्वर्गतिं गतः |
हिमालयेन सदृशः सर्वकर्मसुसाधकः || १५-४ ||

समुत्पन्नं तु लौहित्यं सर्वैर्देवगणैर्हरिः |
सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् || १५-५ ||

तस्य स्नानात् महेशानि पापदर्पस्य पाटनात् |
तेनायं दर्पणो नाम सर्वैर्देवगणैः कृतः || १५-६ ||

तस्मिन् जप्ते महेशानि तत्क्षणात् सिद्धिमाप्नुयात् |
रोहितो नाम दैत्योऽसौ देवीमन्त्रं प्रजप्तवान् || १५-७ ||

तत्र देवीवरं प्राप्य तत्क्षणात् स्वर्ग(तं?तिं) गतः |
अधिष्ठाने तु देव्यास्तु दर्पणाख्या तदाभवत् || १५-८ ||

दर्पणाद् दिशि पूर्वस्यामग्निज्वालामयो गिरिः |
सर्पाकारशतज्वालादीर्घाकृतिः कृतः स्मृतः || १५-९ ||

यत्र तिष्ठति वै वह्निरूर्ध्वभागे महेश्वरि |
सिन्दूरपुञ्जसंकाशे चारुदारुशिलातले || १५-१० ||

तस्मिन् गिरिवरे वह्निर्नित्यमद्यापि शोभते |
भैरवस्य हितार्थाय महाकाली महोज्ज्वला || १५-११ ||

तत्र तिष्ठति देवेशि रक्तवर्णा महोज्ज्वला |
पूर्वमेव स्थितस्तत्र साक्षाद्वह्निर्महोज्ज्वलः || १५-१२ ||

लौहित्यनिकटे कुण्डः सर्वसारस्वतप्रदः |
तत्र स्नात्वा महेशानि साक्षाद् देवमयो भवेत् || १५-१३ ||

पुरस्तादग्निस्थानस्य कुण्डकं वरुणाह्वयम् |
तस्य तीरे गिरिः श्रेष्ठो नाम्ना कंशवरः पुरा || १५-१४ ||

वरुणस्तत्र वसति नित्यमेव जलाधिपः |
तस्मिन् कंशवरे सम्यक् पूजयित्वा प्रचेतसम् || १५-१५ ||

स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् |
आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् || १५-१६ ||

शशिचूडाशिखायुक्तं कौबेरं बीजमुच्यते |
सप्तमो यः पकारस्य बिन्दुचन्द्रार्धसंयुतः || १५-१७ ||

वह्निबीजमिति ख्यातस्तेन वह्निं प्रपूजयेत् |
मकारपञ्चमः सोमबिन्दुभ्यां वारुणः स्मृतः || १५-१८ ||

एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् |
वायुकूटो नाम गिरिः पूर्वस्यां वारुणाचलात् || १५-१९ ||

खड्गीशवायुबीजेन मण्डलेन समन्वितः |
वायुलोकः स्थितस्तत्र यस्माद् निःसृत्य मारुतः || १५-२० ||

ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूतले |
तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् || १५-२१ ||

पूर्वाद्वायुगिरेः शैलश्चाश्वकूट इति स्मृतः |
त्रिकोणश्चाश्वसंकाशस्तदूर्ध्वे चन्द्रमण्डलम् || १५-२२ ||

कूर्मं च बिन्दुसंयुक्तं मन्त्रं संजप्य सुन्दरि |
चन्द्रबीजमिति ख्यातं विद्धि तं परमेश्वरि || १५-२३ ||

अद्यापि तं महादेवि प्रतिदर्शे च चन्द्रमाः |
प्रदक्षिणीकृत्य महादेवि याति निशापतिः || १५-२४ ||

महाकाली घोररूपा तत्र तिष्ठति सुन्दरि |
शिवेन सार्धं देवेशि क्रीडायुक्ता महानिशि || १५-२५ ||

तत्र गत्वा मनुं जप्त्वा सिद्धो भवति साधकः |
रहस्यं शृणु देवेशि सर्वाह्लादकरं परम् || १५-२६ ||

तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः |
तत्र स्नात्वा च पीत्वा च मुक्तिमाप्नोति मानवः || १५-२७ ||

चन्द्रो देवि महेन्द्रस्तु रोहिणीसहितः प्रिये |
भगवत्याः पदं तत्र अञ्चितौ मुक्तिदायिनौ || १५-२८ ||

कृते कार्ये महादेवि भगवत्या महोल्कया |
रोहिण्या सहितो देवि चन्द्रः सर्वप्रकाशकः || १५-२९ ||

अतिरेकं महाकाल्याः कृतवान् परमेश्वरि |
दधिना परमेशानि दुग्धेनैव महेश्वरि || १५-३० ||

तेजोऽसीति घृतेनैव शर्करासहितेन च |
फलोदकैर्महेशानि श्रीपुष्पसहितैस्तथा || १५-३१ ||

नानातीर्थोकैश्चैव अभिषिञ्चेद् अनन्तरम् |
तज्जलैः सहितं कुण्डं महापुण्यफलप्रदम् || १५-३२ ||

चन्द्रकुण्डस्य तीरे तु महाभीमः सिताकृतिः |
प्रतिदर्शं पूजयित्वा लभेद् मुक्तिं महेश्वरि || १५-३३ ||

तस्यैव निकटे देवि भस्मकूटो महागिरिः |
यत्र तिष्ठति भूतेशो महादेवो महामतिः || १५-३४ ||

दक्षिणे तस्य कूटस्य देवी पीयूषधारिणी |
उर्वशी नाम विख्याता महेन्द्रो यत्र तिष्ठति || १५-३५ ||

महाकाल्या महेशानि चोर्वशी तत्र तिष्ठति |
महाकाल्या महादेवि यत्र तिष्ठति भाविनी || १५-३६ ||

सा चैवामृतराशिस्तु कृत्वा किंचन किंचन |
उपस्थापयते नित्यं कामाख्या योनिमण्डले || १५-३७ ||

सुधाशिलान्तरस्था तु उर्वशी कुण्डवासिनी |
उर्वशीकुण्डकूटस्य मध्ये कुण्डं सुधाकृतम् || १५-३८ ||

(द्वि?द्वा)त्रिंशद् धनुर्विस्तीर्णं पञ्चाशद् धनुरायतम् |
तत्र स्नात्वा च पीत्वा च कामरूपो भवेद् नरः || १५-३९ ||

चन्द्रकुण्डस्य चैशान्यां मणिकूटो महागिरिः |
मणिकर्णेशो महांस्तत्र सदा तिष्ठति सुन्दरि || १५-४० ||

सद्योजात इति ख्यातः कालिका तत्र तिष्ठति |
जपं पूजां प्रशस्तां च साधयेत् साधनं परम् || १५-४१ ||

सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः |
मणिकर्णेश्वरं दृष्ट्वा मुक्तिमाप्नोति साध्कः || १५-४२ ||

नदीषु मङ्गला नाम हिमपर्वतनिर्गता |
पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना || १५-४३ ||

मणिकूटं समारुह्य यः पश्यति शुभां नदीम् |
स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् || १५-४४ ||

मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलम् |
निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः || १५-४५ ||

शरीरं प्राप्य तपसा समाराध्य वृषध्वजम् |
तत्र मत्स्यस्वरूपेण कामदेवेन संस्थितम् || १५-४६ || १५-

अधित्यकायां पृथिवी वीक्ष्यमाणा ह्यनन्ततः |
नदी तु शाश्वती नाम्ना तत्रास्ते दक्षिणस्रवा || १५-४७ ||

शिवः कामधरो नाम तस्मिन् शैले व्यवस्थितः |
शाश्वत्यां विविधं स्नात्वा पीत्वा कामधराम्भसि || १५-४८ ||

विमुक्तपापः शुद्धात्मा शिवलोके महीयते |
इति यः परमं तत्त्वं जानाति परमेश्वरि || १५-४९ ||

स विमुक्तो महापापात् सत्यं सत्यं भवेद् नरः |
इदानीं शृणु चार्वङ्गि रहस्यं सर्वमोहनम् || १५-५० ||

गन्धमादनपूर्वस्यां सुकान्तो नाम पर्वतः |
तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम् || १५-५१ ||

यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः |
अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ || १५-५२ ||

तत्पर्वते महादेवीं प्रपूज्य परमेश्वरि |
पुरश्चरणमेकं तु कृत्वा निर्वाणमाप्नुयात् || १५-५३ ||

पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्व(को?यो) गिरिः |
यत्रास्ते सततं देवो निर्-ऋ(तो?तिः) राक्षसेश्वरः || १५-५४ ||

खड्गहस्तो महाकायो वामे चर्मधरस्तथा |
जटाजूटसमायुक्तः (पा?प्रां)शुः कृष्णाचलोपमः || १५-५५ ||

द्विभुजः कृष्णवर्णस्तु शवस्योपरि संस्थितः |
रक्षःकूटं समारुह्य निर्-ऋतिं राक्षसेश्वरम् || १५-५६ ||

यः पूजयेद् महादेवीं कालिकां कालरूपिणीम् |
नास्ति तस्य च रक्षोभ्यो भयं सुरगणार्चिते || १५-५७ ||

राक्षसाश्च पिशाचाश्च वेतालाश्च (ग?वि)नायकाः |
तां दृष्ट्वा च महाकालीं सर्वपापैः प्रमुच्यते || १५-५८ ||

रक्षःकूटात् पूर्वदिशि भैरवो नाम (साधक?पर्वतः) |
पाण्डुनाथ इति ख्यातो यथारूपेण संस्थितः || १५-५९ ||

तत्रैव पूजयेद् देवं पाण्डुनाथाह्वयं गिरिम् |
वर्णेन घनवर्णेन गदापद्मधरः करे || १५-६० ||

दक्षिणे कमला देवी बाहुभ्यामपि बिभ्रतम् |
चतुर्भुजं रक्तपद्मसंस्थितं मुकुटाकुलम् || १५-६१ ||

कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम् |
नमो नारायणायेति मूलबीजेन वै हरेः || १५-६२ ||

एवं संपूजयेद् देवं चतुर्वर्गस्य सिद्धये |
पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयो गिरिः || १५-६३ ||

ब्रह्मणा निर्मितः पूर्वं वासार्थं स्वर्गवासिनाम् |
आयामेन शतव्यामं विस्तारेण तदर्धकम् || १५-६४ ||

सर्वपापहरं पुण्यं देवसेकात् समागतम् |
कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतोदर || १५-६५ ||

हर मे सर्वपापानि पुण्यं शुद्धं च साधय |
इति देवि प्रकारेण ब्रह्मकूटं महागिरिम् || १५-६६ ||

प्रदक्षिणेन संपूज्य देवीसायुज्यमाप्नुयात् |
पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रमहो हरिः || १५-६७ ||

सततं यत्र वसति विष्णुर्वाराहरूपधृक् |
ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् || १५-६८ ||

तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः |
ब्रह्मशैलस्य पूर्वस्यां भूमिपीठो व्यवस्थितः || १५-६९ ||

चारुलिङ्गं शुभ्रवर्णं कामाख्यानाभिमण्डलम् |
तत्रोग्रतारारूपेण रमते परमेश्वरी || १५-७० ||

तत्र तेनैव रूपेण पूजितव्या शुभात्मिका |
रूपं शृणु वरारोहे तत्र ध्येया सदाशिवा || १५-७१ ||

कृष्णा लम्बोदरी दीर्घा विह्वला रक्तदन्तिका |
चतुर्भुजा कृशाङ्गी च दक्षिणे कर्त्रिखर्परौ || १५-७२ ||

खड्गं चेन्दीवरं वामे शीर्षे चैव जटा पुनः |
वामपादं शवस्योर्वोर्निधायोत्तमदक्षिणम् || १५-७३ ||

शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती |
नागहारशिरोमाला भूतिदा कामदा परा || १५-७४ ||

त्रिकोणमण्डलं चास्याः हुंकारमध्यबीजकम् |
द्वारेनाना योगिनीनां नामान्यासां तु तन्त्रके || १५-७५ ||

ज्ञेयानि नरशार्दूलैर्यत् प्रोक्तं चास्य गोचरे |
उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलास्तथा || १५-७६ ||

नीलकूटं समारुह्य पुनर्योनौ न जायते |
तत्र देवीं पूजयित्वा सर्वसिद्धिश्वरो भवेत् || १५-७७ ||

पुरन्दरपुरीयाते वाराङ्गनाकुलाधिके |
सुधासंकीर्णतोऽमोघे पापं हर मनोहरे || १५-७८ ||

अमृतेनामृतं चाद्य देहि देवि ममोर्वशि |
पुरन्दरप्रिये देवि वाराङ्गनाकुलाधिके || १५-७९ ||

लौहित्यहदसंकीर्णे पापं हर ममोर्वशि |
इत्येभिः स्तुतिमन्त्रैश्च स्नात्वा पुण्योर्वशीवने || १५-८० ||

सर्वपापविनिर्मुक्तो विष्णुलोके विराजते |
उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी || १५-८१ ||

शुक्लवस्त्रा गौरवर्ण पीनोन्नतपयोधरा |
सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता || १५-८२ ||

उमामिन्द्रस्तु गदितं मन्त्रमस्याः प्रकीर्तितम् |
गणेशः पूर्वदेशस्थः कामाख्यापर्वतस्य च || १५-८३ ||

तत्रैव चाग्निवेतालः स्थितः द्वारि मनोहरः |
तयोः रूपं च मन्त्रं च यथोक्तं च महेश्वरि || १५-८४ ||

तदहं प्रतिवक्ष्यामि शृणुष्वैकमनाः प्रिये |
प्रणवं परमेशानि हृदयं तदनन्तरम् || १५-८५ ||

हस्तिमुखायेति तदा निजबीजादिसंयुतः |
मन्त्रं सि(द्धि?द्ध)गणेशस्य द्वारस्थस्य प्रकीर्तितम् || १५-८६ ||

रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् |
लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् || १५-८७ ||

शूर्पकर्णं बृहत्तुण्डमेकदन्तं पृथूदरम् |
दक्षिणे करिदन्तं च उत्पलं च तथा परे || १५-८८ ||

लड्डुकं परशुं चैव वामतः परिकीर्तयेत् |
बृहद्वक्षस्त्रिनयनं पीनस्कन्धाङ्घ्रिपाणिनम् || १५-८९ ||

युक्तं बहिर्कुरङ्गीभ्यां मध्यस्थमूषकान्वितम् |
मन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पूजने || १५-९० ||

स एव मन्त्रो ग्राह्यस्तु तादृग्विधिनिषेवणम् |
द्विभुजो पीनवदनो रक्तनेत्रो भयङ्करः || १५-९१ ||

छुरिका दक्षिणे पाणौ वामे रुधिरपात्रकम् |
दंष्ट्राकरालवदनः कृशो धमनिसन्ततः || १५-९२ ||

जटां दीर्घां मूर्ध्नि बिभ्रद् घोररावयुतः परः |
यः पूजयेत् तस्य पुनर्भूतादिभ्यो भयं नहि || १५-९३ ||

अथ वक्ष्ये महेशानि योगिनीतत्त्वमुत्तमम् |
शैलपुत्रीप्रमुख्यानां मन्त्राण्यष्टाक्षराणि च || १५-९४ ||

वैष्ण्वईतन्त्रमन्त्राणि पूर्वप्रोक्तानि तानि च |
शैलपुत्र्यास्तथा चाङ्गं मन्त्रं प्राक्प्रतिपादितम् || १५-९५ ||

रूपसदृशवर्णानां योगिनीनां विशेषतः |
प्रत्यक्षरेण बीजेन दुर्गातन्त्रोक्तवर्त्मना || १५-९६ ||

नैजबीजेनैव पूज्या योगिन्यश्च महेश्वरि |
कात्यायनीपादयुग्मं दुर्गातन्त्रेण पूजयेत् || १५-९७ ||

तदेव पूजनं रूपं तत् पूर्वं प्रतिपादितम् |
प्रणवं पूर्वमुद्धृत्य छान्तवर्णं समादिशेत् || १५-९८ ||

वामगण्डेन संयुक्तं चन्द्रबिन्दुविभूषितम् |
हंसशेषविसर्गान्तं मन्त्रं सर्वप्रियं शिवे || १५-९९ ||

कालरात्रिं पूजयित्वा सर्वैश्वर्ययुतो भवेत् |
अनेनैव विधानेन पूजयेद् भुवनेश्वरीम् || १५-१०० ||

महाशक्तिं समुद्धृत्य वाग्भवं तदनन्तरम् |
पुनयोनिं समासाद्य बीजत्रयमुदाहृतम् || १५-१०१ ||

अनेन मन्त्रराजेन पूजयेद् भुवनेश्वरीम् |
एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः || १५-१०२ ||

विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने |
नीलातन्त्रोक्तरूपेण तत्र पूजां समाचरेत् || १५-१०३ ||

प्रत्येकं योगिनीं यस्तु पूजयेत् सुरवन्दिते |
स सर्वयज्ञस्य फलं लभते नात्र संशयः || १५-१०४ ||

नीलशैलस्य रूपस्य स्वरूपं प्रतिपादितम् |
नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणम् || १५-१०५ ||

पूर्वस्यां कपटो नाम पर्वतो यः स्वरूपधृक् |
तत्र याम्या शिला कृष्णा नीलाञ्जनसमप्रभा || १५-१०६ ||

अधित्यकायां राजेन्द्रं व्यासपञ्चसुरान्तकम् |
पूजयेत् तत्र शमनं पा(शौ?शं)दण्डं सदैव यः || १५-१०७ ||

धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम् |
कृष्णवर्णं तु द्विभुजं किरीटमुकुटोज्ज्वलम् || १५-१०८ ||

दधतं चासिपत्रं च वामपाणौ सदैव हि |
कृष्णवर्णं स्थूलपादं बहिर्निःसृतदन्तकम् || १५-१०९ ||

भयाभयप्रदं नित्यं नृणां महिषवाहनम् |
पूजयेत् परया भक्त्या यमबीजेन सुन्दरि || १५-११० ||

उपान्त्यवर्गस्यान्ते यो वर्णो बिन्द्विन्दुसंयुतः |
यमबीजमिति ख्यातं यमस्य प्रीतिकारकम् || १५-१११ ||

अनेनैव तु मन्त्रेण यमं हि पूज(येत्?यन्)शिवे |
कपटाख्याचलवरे नापमृत्युं समाप्नुयात् || १५-११२ ||

पूर्वस्यां कपटाख्यस्य शैलोऽर्चिष इति स्मृतः |
यः पूर्वभाग्यैः प्राप्तो भृङ्गेश्याग्नेययामवस्थितः || १५-११३ ||

अस्मिन् वसन्ति सततं ग्रहाश्चैव यथेच्छया |
एतांश्च पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित् || १५-११४ ||

अथ वक्ष्ये महेशानि सूर्यस्यापि च मन्त्रकम् |
रूपं मन्त्रं च तन्त्रं च सूर्यस्यापि च संशृणु || १५-११५ ||

सप्तानामितरेषां तु मन्त्ररूपं शृणुष्व मे |
रक्ताम्भोजधरः शूली शक्तिमांश्च गदाधरः || १५-११६ ||

चतुर्भुजो भानुरयं वरदो मेऽस्तु मऽऽगलः |
प्रणवं पूर्वमुद्धृत्य हान्तवर्णं ततो न्यसेत् || १५-११७ ||

चन्द्रेण पुटितं बीजं द्वितीयं बीजमुत्तमम् |
तृतीयं शृणु चार्वङ्गि वह्निबीजं महात्मकम् || १५-११८ ||

अनेन मन्त्रराजेन सूर्यस्य पूजनं भवेत् |
इदानीं कथयिष्यामि कज्जलाचलमुत्तमम् || १५-११९ ||

यत्र गौरी महादुर्गा शिवेन सहिता सती |
सर्वे विद्याधराद्यास्तु सन्त्यत्र देवयोनयः || १५-१२० ||

तं पर्वतं दिव्यरूपं समीक्ष्य च जपेद् दश |
सहस्रान्त्रं मनुं प्रोक्तं सर्वसर्वस्वगोचरे || १५-१२१ ||

थान्तबीजं समुद्धृत्य वामगण्डविभूषितम् |
अर्धचन्द्रेण पुटितं बीजमाद्यं प्रियङ्करम् || १५-१२२ ||

महाशक्तिं वरारोहे द्वितीयं बीजमुद्धृतम् |
वह्निजायाअवधि मन्त्रं दुर्गाया बीजमुत्तमम् || १५-१२३ ||

तेन बीजेन देवेशि कालिकां पूजयेत् शिवे |
सहस्रस्य प्रमाणेन जपं कुर्यात् शुचिस्मिते || १५-१२४ ||

तत्र जप्ते महेशानि मोक्षमाप्नोति साधकः |
एकस्मिंश्च महेशानि पुरश्चरणके कृते || १५-१२५ ||

पुरश्चरणलक्षाणां फलं तत्र भविष्यति |
तस्य पूर्वे महेशानि शुभपर्वतके शुभे || १५-१२६ ||

शच्या सार्धं पुरा रेमे यत्र शक्रः सुरेश्वरः |
तत्पूर्वं सा महादेवि नदी कपिलसंज्ञिता || १५-१२७ ||

तस्यां स्नात्वा जलं पीत्वा देवीलोके महीयते |
कालिकानिलयात् पूर्वदक्षिणस्यां तथा दिशि || १५-१२८ ||

विद्यते महदावृत्तं पवित्रं भूबिलं महत् |
पञ्चविंशतिमानेन योजनानां गणेश्वरि || १५-१२९ ||

तस्मादायाति स्म नदी सर्वदेवनमस्कृता |
को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य पिला स्मृता || १५-१३० ||

गङ्गेव फलदा यस्मात् तस्मात् कपिलसंज्ञिता |
स्नात्वा कपिलगङ्गायां पूर्वमन्यतरासु च || १५-१३१ ||

नरः स्वर्गमवाप्यादौ देवीलोकं ततो व्रजेत् |
अभीष्टदा नदीपूर्वभागे दमनिकाह्वया || १५-१३२ ||

नदी महाहृष्टतोया पापानां शमनी तथा |
ततो ब्रह्माह्वया चाभूद् अपरा सरिदुत्तमा || १५-१३३ ||

तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी |
माघमासं तु सकलं नद्यां स्नात्वा महेश्वरि || १५-१३४ ||

तथा दमनिकायां तु परं निर्वाणमाप्नुयात् |

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (साधनस्थानान्तरनिरूपणं) पञ्चदशः पटलः || १५ ||


Kapitel 16: Jahresrituale und Lebensordnung

श्रीभैरव उवाच |

अथ वक्ष्ये महेशानि सारस्वतपदप्रदम् |
आचारं परमेशानि शृणुष्वैकमना यतः || १६-१ ||

यान्यवश्यं महेशानि कर्तव्यानीति निश्चितम् |
साधवः क्षीणदोषाश्च स्वच्छन्दाः साधुवादकाः || १६-२ ||

तेषामाचरणं यत् तु सदाचारः स उच्यते |
समुद्दिष्टसदाचारान् गृह्णीयात् तद्गृहान्तवत् || १६-३ ||

कुर्याद् विधिनिषेधाभ्यां निषेधादिविधिं तथा |
षट्कर्मसु नियु~जीत राजा विप्रान् समन्ततः || १६-४ ||

तथैव क्षत्रियादीनि स्वे स्वे कर्मणि योजयेत् |
यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् || १६-५ ||

स दण्ड्यः परमेशानि शतं दण्डेन दण्डयेत् |
सांवत्सरेषु कृत्येषु विशिष्यैतान् समाचरेत् || १६-६ ||

अवश्यं पार्थिवः कुर्यात् तान् विशेषान् महेश्वरि |
शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् || १६-७ ||

नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये |
पौषे मास्यसिते पक्षे तृतीया या महेश्वरि || १६-८ ||

पुष्येण युक्ता देवेशि तत्र देवीं प्रपूज्य च |
सर्वान् कामानवाप्नोति सर्वं भवति निश्चितम् || १६-९ ||

ज्यैष्ठे दशहरायां तु कालिकाया महेश्वरि |
तथा नीलसरस्वत्याः पूजनं विधिवच्चरेत् || १६-१० ||

अवश्यं राजभिः कार्यमन्यथा नश्यति ध्रुवम् |
एभिः कृत्यैर्बलं राज्यं कोषश्चापि विवर्धते || १६-११ ||

अकृते च महादेवि दुर्भिक्षं मरकं भवेत् |
जायन्ते चेतयः सर्वा विशिष्यैतान् समाचरेत् || १६-१२ ||

शरत्काले महाष्टम्यां नीलायाः पूजने विधिः |
पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम् || १६-१३ ||

विधिं नीराजनस्य त्वं शृणु हे नगनन्दिनि |
कृतेन येन चास्माकं गजानामपि वर्धनम् || १६-१४ ||

आश्विने शुक्लपक्षस्य तृतीयां स्नाति योगिनी |
ऐशान्यां ससुरा सैव गृह्णीयात् स्नानमुत्तमम् || १६-१५ ||

नीराजनं ततः कुर्यात् संप्राप्ते देवसेऽष्टमे |
नीराजनस्य कालस्तु पूर्वमुक्तो मया तव || १६-१६ ||

विधानमात्रं देवेशि शृणुष्वैकमनाः प्रिये |
एकं हयं महासत्त्वं सुमनोहरमेव वा || १६-१७ ||

पूजयेत् सप्त दिवसान् गन्धपुष्पांशुकादिभिः |
तृतीयादौ पूजयित्वा नयेत् तं यज्ञमण्डलम् || १६-१८ ||

चेष्टा निरूपयंस्तस्य जानीयात् तु शुभाशुभम् |
परराष्ट्राभिमर्दः स्याद् अश्वो यदि पलायते || १६-१९ ||

म्रियते राजपुत्रस्तु यदि लेडानि मुञ्चति |
नीयमानो न गच्छेच्चेद् महिषीमरणं तथा || १६-२० ||

तथैव मुखनासाक्षिशब्दं कुर्याद् हयो यदि |
यत्काष्ठाभिमुखं कुर्यात् तत्काष्ठायां जयेद् रिपून् || १६-२१ ||

इति ते कथितं देवि राजत्वस्य प्रदायकम् |
प्रयोगं मम सर्वस्वं जानीहि नगनन्दिनि || १६-२२ ||

अन्यं शृणु वरारोहे येन सिद्ध्यति साधकः |
ज्यैष्ठे मासि सिते पक्षे ज्येष्ठायुक्ता च सुन्दरि || १६-२३ ||

पौर्णमासी महेशानि तस्यां स्नानं महाफलम् |
चन्दनागुरुकक्कोलैर्दूर्वया श्वेतसर्षपैः || १६-२४ ||

आमलक्या महेशानि हरिद्राचूर्णकेन च |
तिलतैलैर्विष्णुतैलैरन्यैश्च गन्धसंयुतैः || १६-२५ ||

नारायणेन तैलेन स्नपयेत् परमेश्वरीम् |
नारिकेलोदकेनैव स्नपयेद् यदि कालिकाम् || १६-२६ ||

लक्षवर्षसहस्रैश्च देवीलोके महीयते |
दध्ना च परमेशानि स्नपयित्वा सुरेश्वरीम् || १६-२७ ||

कल्पकोटिशतेनापि सायुज्याच्च न हीयते |
दुग्धेन स्नपयेद् देवीं महाकालीं महोज्ज्वलाम् || १६-२८ ||

तस्य लक्ष्मीर्विशेषेण स्थिरा स्याद् नात्र संशयः |
घृतेन स्नपयेद् देवीं सर्वकामार्थसिद्धये || १६-२९ ||

तथा शर्करया देवि फलमाप्नोति साधकः |
मधुना स्नपयित्वा तु सर्वकामवरेश्वरीम् || १६-३० ||

कालिकां परमेशानि तथा चैव सरस्वतीम् |
सर्वदुःखविनिर्मुक्तः स्वर्गे लोके महीयते || १६-३१ ||

सुगन्धिपुष्पतोयेन स्नपयेत् परमेश्वरीम् |
तस्य पुण्यफलं देवि शृणुष्वैकमनाः प्रिये || १६-३२ ||

कल्पकोटिसहस्रैस्तु देवीसायुज्यमाप्नुयात् |
भुङ्क्ते च विविधान् भोगान् यावदाभूतसंप्लवम् || १६-३३ ||

सचन्दनजलेनैव स्नपयित्वा सुरेश्वरीम् |
यमलोकं परित्यज्य कैलासे वसतिर्भवेत् || १६-३४ ||

वैशाखे मासि देवेशि स्नपयेत् शीतलैर्जलैः |
नारिकेलोदकं दिव्यं तस्यै दद्याद् मनोहरम् || १६-३५ ||

प्रातः संपूजयेद् देवीं सायाह्ने संप्रकाशयेत् |
ज्यैष्ठे मासि सुरश्रेष्ठे मल्लिकां मालतीं तथा || १६-३६ ||

दापयेत् परमेशानि दध्ना च स्नानमाचरेत् |
तथा कर्पूरसंमिश्रैस्तोयैश्च स्नपयेत् शिवाम् || १६-३७ ||

एवं क्रमेण देवेशीं स्नपयित्वा सुखं भवेत् |
शुचौ मासि महादेव्यै शर्करासहितं दधि || १६-३८ ||

दद्याच्च परमेशानि स्नपयेत् श्वेतसर्षपैः |
शर्करासहिता/ल्लाजान् महादेव्यै प्रदापयेत् || १६-३९ ||

एवं क्रमेण देवेशि पुरश्चर्याफलं लभेत् |
श्रावणे परमेशानि घृतेन स्नपयेत् शिवाम् || १६-४० ||

तथा मसूरचूर्णेन स्नपयित्वा महेश्वरीम् |
भुक्त्वा च विविधान् भोगान् दुर्गालोके महीयते || १६-४१ ||

पिष्टकैः सगुडैर्देवि तोषयेत् परमेश्वरीम् |
नभस्ये परमेशानि स्नपयेत् सुरसुन्दरीम् || १६-४२ ||

हरिद्रामलकेनैव मथनेनैव सुन्दरि |
क्षीरं दद्याद् महादेव्यै शर्करासहितं प्रिये || १६-४३ ||

छागमांसं पलान्नं च सूक्ष्मान्नसहितेन च |
दद्याच्च पिष्टकं मौद्गं क्षीराज्यपरिभूषितम् || १६-४४ ||

एवं क्रमेण यो दद्याद् देवीलोकमवाप्नुयात् |
इषे मासि प्रवृत्ते तु महादेवीं सरस्वतीम् || १६-४५ ||

स्नपयेत् च कषायेण कल्पामृतरसेन च |
नारायणेन तैलेन विष्णुतैलेन वा पुनः || १६-४६ ||

अन्येन गन्धतैलेन स्नपयेद् भवमोहिनीम् |
दद्याच्च परमं हृद्यं सन्देशं रसनासुखम् || १६-४७ ||

लड्डुकं परमं तस्यै दापयेत् सुरनायिके |
नानाविधैश्च बलिभिः पूजयेत् शांकरीं शिवाम् || १६-४८ ||

एवं पूजां नरः कृत्वा वसेत् कल्पायुतं दिवि |
कार्तिके मासि देवेशि स्नपयेदुष्णदुग्धकैः || १६-४९ ||

यक्षकर्दमकैर्वापि स्नपयेत् कार्तिके शिवे |
भ्रष्टद्रव्यं महादेवि गोधूमादिविकारजम् || १६-५० ||

क्षीरेण सहितं दद्याद् महादेव्यै प्रियङ्करम् |
नारिकेलं तथा रम्भां गुवाकमिक्षुदण्डकम् || १६-५१ ||

जम्भीरं नागरङ्गं च दद्याद् देव्यै सुशोभनम् |
कदुष्णं परमान्नं च पिष्टकेन च संयुतम् || १६-५२ ||

भ्रष्टमत्स्यादिकं तस्यै दापयेद् यत्नतः शिवे |
एवं कृत्वा नरः सद्यो जीवन्मुक्तो भविष्यति || १६-५३ ||

न तस्य पापपुण्यादि जायते नात्र संशयः |
मार्गशीर्षे महादेवि मासश्रेष्ठे च सुन्दरीम् || १६-५४ ||

स्नपयेद् उष्णतोयैश्च वस्त्रपूतैः सुगन्धिभिः |
कुङ्कुमादिभिरायुक्तैः पुष्पमाल्यमनोहरैः || १६-५५ ||

हरिद्रासहितैश्चारग्वधबीजैः सशर्करैः |
स्नपयेत् परमेशानीं घृताक्तं चान्नमुत्तमम् || १६-५६ ||

व्यञ्जनं च घृताक्तं च सगुडं शुक्तिकायुतम् |
वार्ताकीभ्रष्टद्रव्येण तोषयेत् परमेश्वरीम् || १६-५७ ||

मूलकं परमं तस्यै दापयेद् यत्नतः शिवे |
नैवेद्यैर्विविधैर्देवि चणकादिविभूषितैः || १६-५८ ||

कदलीसहितैर्देवि दद्यात् परमसुन्दरि |
सूक्ष्मवस्त्रं महादेव्यै ख(टं?ट्वां)दद्यात् सुशोभनाम् || १६-५९ ||

शययायुक्तां महेशानि दापयेत् सुरवन्दिते |
एवं क्रमेण यो देवि मार्गे मासि प्रदापयेत् || १६-६० ||

तस्य पुण्यफलं देवि शृणु हे नगनन्दिनि |
इह लोके सुखं भुक्त्वा महाराजत्वमाप्नुयात् || १६-६१ ||

इति ते कथितं देवि सर्वसिद्धिप्रदायकम् |
पौषे मासि महादेवीं स्नपयेदुक्तया दिशा || १६-६२ ||

पूपयावकद्रव्यादि दापयेत् सुरमोहिनि |
दिवा रात्रौ महादेव्यै दापयेद् भक्तमुत्तमम् || १६-६३ ||

सघृतं परमं हृद्यं ताम्बूलादियुतं प्रिये |
नैवेद्यं परमं दद्यात् सयत्नैः साधकोत्तमैः || १६-६४ ||

माघे मासि महादेवि स्नपयेद् घृतपायसैः |
गन्धयुक्तैर्जलैश्चापि स्नपयित्वा परां शिवाम् || १६-६५ ||

देवीसायुज्यमेवात्र प्राप्नुयाद् नात्र संशयः |
चर्व्यं चोष्यं तथा लेह्यं पेयं दद्याद् मनोरमम् || १६-६६ ||

अन्नं पिष्टादिकं दद्याद् महादेव्यै प्रियङ्करम् |
एवं क्रमेण देवेशीं तोषयेद् बहुयत्नतः || १६-६७ ||

इह लोके सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् |
फाल्गुने मासि देवेशि स्नपयेत् परमेश्वरीम् || १६-६८ ||

घृतेन पयसा वापि स्नपयेत् परमेश्वरीम् |
नैवेद्यं परमं दिव्यं सुस्वादु सुमनोहरम् || १६-६९ ||

नानाद्रव्ययुतं भद्रे सर्वद्रव्यं सुशोभनम् |
दद्याद् देव्यै महेशानि सुखमाप्नोति साधकः || १६-७० ||

चैत्रे मासि महेशानि दद्याच्च घृतपायसम् |
दधि क्षीरं मधु द्रव्यं पायसं शर्करां तथा || १६-७१ ||

दद्याद् देव्यै महेशानि परं द्रव्यं सुशोभनम् |
एवं क्रमेण देवेशि पूजयेद् यस्तु साधकः || १६-७२ ||

स मोक्षभाग् भवत्येव सत्यं सत्यं महेश्वरि |
इति ते कथितं दिव्यं सर्वपापप्रमोचनम् || १६-७३ ||

प्रयोगं यः करोत्येवं स सुखी नात्र संशयः |

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (प्रयोगान्तर - द्वादशमासविधिनिरूपणं) षोडशः पटलः || १६ ||


Kapitel 17: Kali-Verehrung und Feueropfer

अथ वक्ष्ये महेशानि सार्वज्ञकारणं परम् |
रात्रौ देवि वरारोहे प्रथमे प्रहरे गते || १७-१ ||

मध्यरात्रौ विशेषेण सहस्रं यदि साधकः |
प्रजपेत् परया भक्त्या मन्त्रमेनं समाहितः || १७-२ ||

योनिं पूर्वं पुनर्योनिं बीजयुग्मात्मकं मनुम् |
प्रजपेद् मध्यरात्रौ च मन्त्रपूतं जलं क्षिपेत् || १७-३ ||

षण्मासाभ्यन्तरे देवि सर्वज्ञत्वं समाप्नुयात् |
इति सत्यं महादेवि संशयो नास्ति कश्चन || १७-४ ||

चन्द्रसूर्यौ यदि वृथा तदा निष्फलभाग् भवेत् |
रहस्यं शृणु चार्वङ्गि महाकाल्याः प्रियङ्करम् || १७-५ ||

येन सिद्ध्यति देवेशि साधको वीतमत्सरः |
कार्तिके मासि देवेशि अमावास्या च या तिथिः || १७-६ ||

तस्यां रात्रौ विशेषेण पूजयेत् कालिकां पराम् |
प्रथमे प्रहरे देव्यः स्नानाय परमेश्वरीम् | ७ ||

समाराध्य महेशानि संकल्पस्तदनन्तरम् |
तत् समीपे (मण्डपे तु) पद्मं निर्माय सुन्दरि || १७-८ ||

अथवा सर्वतोभद्रं निर्माय मण्डलं शुभम् |
भद्रासने महादेवीं संस्थाप्य पर्मेश्वरि || १७-९ ||

स्नपयेद् दर्पणे शुभ्रे हरिद्राम्लकेन च |
तैलेन परमेशानि गन्धयुक्तेन सुन्दरि || १७-१० ||

शीतलैः सुजलैर्देवीं कालिकां स्नपयेद् मुदा |
एवमुक्तप्रकारैश्च नीलावत् पूजयेत् सुधीः || १७-११ ||

ध्यानं शृणु वरारोहे सारस्वतप्रदायकम् |
येन ध्यानेन देवेशि साधयेत् सिद्धिमुत्तमाम् || १७-१२ ||

मेघवर्णां स्मितमुखीं मुक्तकेशीं दिगम्बराम् |
अट्टाट्टहासवदनां स्मेरा(रुण?नन)सरोरुहाम् || १७-१३ ||

त्रिनेत्रां वरदां नित्यां महादेवोपरि स्थिताम् |
कर्णालम्बितबालाढ्यां मुण्डमालाविभूषिताम् || १७-१४ ||

वामोर्ध्वे कर्त्रिकां दिव्यां तद(र्धे?धो) मुण्डधारिणीम् |
अभयं वरदं हस्ते बिभ्रतीं दक्षिणेन च || १७-१५ ||

त्रैलोक्यमोहिनीं देवीं मालां दिव्यां सुबिभ्रतीम् |
एवं ध्यायेद् महाकालीं प्रसन्नवदनां शुभाम् || १७-१६ ||

मण्डपं परमेशानि निर्माय विधिवत् शिवे |
चतुरस्रं चतुर्द्वारं मुकुटाङ्कितमूर्द्धजाम् || १७-१७ ||

परमे मण्डपे देवि पूजयेत् परमेश्वरीम् |
विविधैः पूजयेद् द्रव्यैः पुष्पधूपासनादिभिः || १७-१८ ||

नैवेद्यं परमं दद्याद् नानाद्रव्योपशोभितम् |
पक्वान्नं परमं दिव्यं नानारससमन्वितम् || १७-१९ ||

सन्देशं परमं कृत्यं(हृद्यं) सुस्वादु सुमनोहरम् |
अपर्याप्तं महेशानि नाभिमात्रप्रमाणतः || १७-२० ||

प्रहरे प्रहरे पूजां जपं चैव समाचरेत् |
ननाविधैश्च बलिभिः पूजयेत् कालिकां शिवाम् || १७-२१ ||

होमयेत् परमेशानि पायसाज्येन सुन्दरीम् |
बिल्वपत्रैर्महेशानि होमयेच्च महेश्वरीम् || १७-२२ ||

स्तवं पठेद् महेशानि (भ?भु)क्तिमुक्तिप्रदायकम् |
ततो विसर्जयेद् धीमान् महदेवीं मनोहराम् || १७-२३ ||

इति ते कथितं दिव्यं कालिकायाः प्रपूजनम् |
यः करोति महादेवि स मोक्षं प्राप्नुयाद् ध्रुवम् || १७-२४ ||

इह लोके सुखं देवि भवेद् नीलाविधौ प्रिये |
अथ वक्ष्ये महादेवि कुण्डानां निर्णयं तथा || १७-२५ ||

होमार्थ्ं परमेशानि सरस्वत्याः शिवप्रिये |
होमस्यैव विधिं वक्ष्ये कुण्डेन सहितं (विभो?शिवे) || १७-२६ ||

आदौ भूमिं परीक्षेत वास्तुलक्षणतत्परः |
शल्योद्धारं प्रकुर्वीत चाथवा परमेश्वरि || १७-२७ ||

पौरुषेण प्रमाणेन खनेत् सुरगणार्चिते |
वास्तुपूर्वदिशि महादेवि कुण्डं प्रकल्पयेत् || १७-२८ ||

ऐशान्यां वा महेशानि कुण्डं कुर्याद् यथाविधि |
सप्तहस्तं नव तथा पञ्च पञ्च विभेदतः || १७-२९ ||

चतुरस्रं चतुर्द्वारं निश्छिद्रं तु प्रकल्पयेत् |
संस्तरेद् दर्भकेणैव सूत्रेणैव प्रकल्पयेत् || १७-३० ||

एककुण्डमिते नान्यत् पञ्चहस्तगृहं भवेत् |
चतुरस्रे महेशानि सर्वकर्माणि साधयेत् || १७-३१ ||

प्रमाणं शृणु देवेशि येन सिद्धो भवेद् मनुः |
कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः || १७-३२ ||

मध्यस्य दीर्घमानेन मानाङ्गुलिनिरूपणम् |
अष्टभिश्च यवै(र्देवि) एकाङ्गुलमिति स्मृतम् || १७-३३ ||

प्रत्येकसूत्रमास्फाल्य तन्मध्ये साधयेत् सुद्धिः |
भागत्रयेण तन्मध्ये विधाय चैव पार्वति || १७-३४ ||

दिशोर्मत्स्ययुगं कुर्यात् (तस्यान्या?तन्मत्स्या)दनयोः क्वचित् |
दक्षिणोत्तरगं सूत्रं यथानालं निपातयेत् || १७-३५ ||

तत् सूत्राग्रेषु संस्थाप्य कोणेषु मकरांल्लिखेत् |
कोणस्य मकरस्थानि दिक्षु सूत्राणि पातयेत् || १७-३६ ||

एवं कृते चतुष्कोष्ठं चतुरस्रं च जायते |
एतत् कुण्डं महेशानि चतुरस्रं सुलक्षणम् || १७-३७ ||

कुण्डविस्तारमानं हि तादृशं परमेश्वरि |
तन्मानं परमेशानि तादृग् रूपा च मेखला || १७-३८ ||

पञ्चत्रिमेखलं कुर्यात् तन्त्रवित् साधकोत्तमः |
मेखलात्रितयं चैव महाहोमे महेश्वरि || १७-३९ ||

वेदाग्निनयनोत्सेधविस्तारा हस्तमात्रके |
अन्तर्नवाङ्गुलोत्सेधा विस्तृता तु नवाङ्गुला || १७-४० ||

सर्वत्रैवंविधं क्षेत्रं कुण्डानामनुरूपतः |
एकाङ्गुलं परित्यज्य कुण्डान्तर्मेखला भवेत् || १७-४१ ||

एकहस्ते तु कुण्डे वै ह्यन्यत् कुण्डे विवर्जयेत् |
अर्द्धाङ्गुलप्रमाणे तु कुण्डं कुर्याच्च मन्त्रवित् || १७-४२ ||

सात्त्विकी मेखला पूर्वा द्वितीया राजसी तथा |
तृतीया तामसी प्रोक्ता मेखलानां तु निर्णयः || १७-४३ ||

इति ते कथितं दिव्यं मेखलानिर्णयं तथा |
अथ वक्ष्ये महेशानि योनिनिर्णयमुत्तमम् || १७-४४ ||

प्रथमे योनिं कुण्डे तु [प्रथमे मेखले योनिं ख पाठः |] मेखलान्तरपूर्वतः |
कुर्याद् गजोष्ठवर्णं तु कुण्डवित् सर्वलक्षणम् || १७-४५ ||

योनिः षडङ्गुला प्रोक्ता चतुरङ्गुलविस्तृता |
उन्नता द्व्यङ्गुला प्रोक्ता कुण्डे हस्तमिते बुधैः || १७-४६ ||

नाभिं कुण्डोदरे [कुण्डादधः ख पाठः |] कुर्यात् सुधीरष्टदलाब्जवत् |
तत् तत् कुण्डानुरूपां वा नाभिं तत्र विचक्षणः || १७-४७ ||

नेत्रवेदाङ्गुलोत्सेधविस्तारा नाभिरत्र वै |
द्विहस्तादिषु कुण्डेषु योनिं संवर्धयेत् क्रमात् || १७-४८ ||

एकैकाङ्गुलिमानेन तथा नाभिं च वर्धयेत् |
कुण्डस्थले वहिःस्थानं स्थलं विद्धि महेश्वरि || १७-४९ ||

चतुरस्रस्थलारब्धं नालमध्ये सरन्ध्रकम् |
स्थूलमूला च सूक्ष्माग्रा उन्नतिः स्याद् मनोहरा || १७-५० ||

वहिःस्थले मेखलायाः स्थानमारभ्य [बहिःस्थमेखलाबाह्यस्थानमा ख पाठः |] कारयेत् |
योनिमध्ये बिलं कुर्यात् तद् बाह्ये ग्राहिसंज्ञकम् || १७-५१ ||

योन्यग्रं वर्धयेद् विद्वान् नाभिर्वृत्ताकृतिर्भवेत् |
हस्तमात्रे सहस्रं तु द्विहस्ते चायुतं स्मृतम् || १७-५२ ||

चतुर्हस्ते लक्षमात्रं षट्करे दशलक्षकम् |
दशहस्ते महेशानि कोटिहोमं समाचरेत् || १७-५३ ||

दशहस्तात् परं नास्ति तन्त्रेऽस्मिन् परमेश्वरि |
खाताधिके भवेद् रोगी हीने धेनुधनक्षयः || १७-५४ ||

वक्रकुण्डे तु संतापो बन्धुहा हीनमेखले |
मेखलारहिते शोकोऽभ्यधिके वित्तसंक्षयः || १७-५५ ||

भार्याविनाशकं कुण्डं योन्याः शून्यं महेश्वरि |
अपत्यध्वंसनं कुण्डं यदि तत् कण्ठवर्जितम् || १७-५६ ||

उच्चाटः स्फुटिते छिद्रसंकुले वा मृतिर्भवेत् |
तस्माद् हि परमेशानि ज्ञात्वा कुण्डं प्रसाधयेत् || १७-५७ ||

देवीप्रीतिकरं कुण्डं सर्वदेवनमस्कृतम् |
मन्त्रसिद्धिकरं कुण्डं सर्वसारस्वतप्रदम् || १७-५८ ||

अथ वक्ष्ये महेशानि ह्यग्निकार्यं सुशोभनम् |
यस्मिन् हुत्वा वरारोहे सर्वविद्यामयो भवेत् || १७-५९ ||

मण्डपस्योत्तरे भागे कुण्डान् कृत्वा यथोदितान् |
नित्यनैमित्तिककाम्यान् संस्कारं तत्र चाचरेत् || १७-६० ||

अष्टादश स्युः संस्काराः कुण्डानां तन्त्रवर्त्मना |
वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं चरेत् || १७-६१ ||

तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतम् |
अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् || १७-६२ ||

समीकरणमन्त्रेण सेचनं वर्मणा मतम् |
कुट्टनं हेतिमन्त्रेण वर्ममन्त्रेण मार्जनम् || १७-६३ ||

विलेपनं कलारूपकल्पनं तदनन्तरम् |
त्रिसूत्रीकरणं पश्चाद् हृदयेनार्चनं भवेत् || १७-६४ ||

अस्त्रेण वज्रीकरणं हृन्मन्त्रेण जलैः शुभैः |
योनिकुण्डानि देवेशि संस्कुर्यात् साधकोत्तमः || १७-३५ ||

तस्मिन् कुण्डे महेशानि रेखात्रयं समाचरेत् |
प्रागग्रा उदगग्रा वा तिस्रो रेखा लिखेत् ततः || १७-६६ ||

प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः |
रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः || १७-६७ ||

अथवा त्रिकोणवृत्तं चतुरस्रं लिखेत् ततः |
तत्र वह्नेर्योगपीठमर्चयेत् प्राणवल्लभे || १७-६८ ||

वामा ज्येष्ठा च रौद्री च अम्बिका शक्तयः क्रमात् |
ततो देवि महाभागे ताराकुण्डं प्रपूजयेत् || १७-६९ ||

तन्मध्ये परमेशानीं नीलां वागीश्वरीं यजेत् |
ततश्च श्रोत्रियो वह्निं तद्बीजेनैव चोद्धरेत् || १७-७० ||

हू/फट्कारेण देवेशि क्रव्यादेभ्यस्ततः परम् |
वह्निजायावधिर्मन्त्रं वह्नेः सं(त्य?ते)जनं जपेत् || १७-७१ ||

तमग्निं शोधयेत् तत्र धेनुमुद्रावगुण्ठनम् |
वारुणेनैव मन्त्रेण अमृतीकरणं मतम् || १७-७२ ||

कराभ्यां च समुद्धृत्य भ्रामयेद् उपरि त्रिधा |
शिवस्य बीजबुद्ध्या तु तद्योनौ परमेश्वरि || १७-७३ ||

ह्रींबीजमादौ संजप्य वह्निमूर्तिं च ङेयुताम् |
इत्यभ्यर्च्य महादेवि इडयाकृष्य सुन्दरि || १७-७४ ||

ततः कुम्भकयोगेन कूर्चबीजं समुच्चरन् |
वह्नेश्चैतन्यापादान्ते ङेयुते परमेश्वरि || १७-७५ ||

ततस्तु ज्वालयेद् वह्निं चिन्मन्त्रेण महेश्वरि |
चिन्मन्त्रं परमेशानि शृणुष्वैकमनाः प्रिये || १७-७६ ||

चित् पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा |

वह्न्यङ्गे परमेशानि न्यासं कुर्याद् वरानने |
सहस्रार्चिषे हृदयाय नमोऽन्तं न्यासमुत्तमम् || १७-७७ ||

स्वस्तिपूर्णाय शिरसे स्वाहान्तोऽयं मनुः स्मृतः |
उत्तिष्ठ पुरुषायेति शिखायै वषडित्यपि || १७-७८ ||

धूमव्यापिने कवचाय हुमित्येव सुन्दरि |
सप्तजिह्वाय नेत्रत्रयाय वौषडिति प्रिये || १७-७९ ||

धनुर्धराय अस्त्राय फडित्यङ्गानि संन्यसेत् |
आवाहनस्य मन्त्रं वै शृणु हे नगनन्दिनि || १७-८० ||

प्रणवं पूर्वमुद्धृत्य वैश्वानर ततः परम् |
जातवेद लोहिताक्ष इहावह ततः परम् || १७-८२ ||

सर्वकर्माणि साधय वह्निजायावधिर्मनुः |
इत्यनेन च संपूज्य ध्यायेद् वह्निं समाहितः || १७-८३ ||

ध्यानं शृणु महेशानि ध्यानात् सार्वज्ञकारकम् |
बन्धूकपुष्पसंकाशं सुतप्तकनकप्रभम् || १७-८४ ||

पद्महस्तं महाबाहुं वदनद्वयशोभितम् |
सप्तच्छन्दोमयकरं वसतित्र(य)विग्रहम् || १७-८५ ||

त्रिधा ज्ञात्वा त्रिपादार्थं हव्यकव्यविवाहनम् |
ब्रह्माध्वर्यूद्गातृहोतृ - चतुःशृङ्गविराजितम् || १७-८६ ||

पञ्चरात्रं पाशुपतं देवानां तु महामतम् |
बौद्धं वैदिकमित्येतत् षट्पिङ्गलविलोचनम् || १७-८७ ||

वेदार्थचतुरश्रोत्रं स्तोत्रशस्त्रमयध्वनिम् |
रसातलजटाबद्ध - मणिकोटरभास्करम् || १७-८८ ||

हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् |
रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् || १७-८९ ||

पृष्ठदेशसमालम्बि - सौवर्णघृतपात्रकम् |
वामैस्त्रिभिर्बाहुभिश्च दधानं रक्तवाससम् || १७-९० ||

सदा शब्दायमानं तु एधमानं स्वतेजसा |
तोमरं तालवृन्तं च सौवर्णघृतपात्रकम् || १७-९१ ||

व्यावृत्तताम्रवदनं सप्तजिह्वासमाकुलम् |
एवं ध्यायेद् महावह्निं चतुर्वर्गफलप्रदम् || १७-९२ ||

सप्तजिह्वाः प्रपूज्याथ पूर्वादिदिक्षु सुन्दरि |
ब्राह्म्याद्याः पूजयेद् देवि स्वकर्मसिद्धये प्रिये || १७-९३ ||

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा |
वाराही च तथेन्द्राणी चामुण्डा चैव सुन्दरि || १७-९४ ||

महालक्ष्मिर्महेशानि पूजयेत् परमेश्वरि |
बहिर्देशे पुनर्लक्ष्मीस्तथा चैव सरस्वती || १७-९५ ||

रतिः प्रीतिश्च कीर्तिश्च शान्तिः पुष्टिश्च सुन्दरि |
तुष्टिश्चैव महेशानि बहिर्देशे प्रपूजयेत् || १७-९६ ||

मेखलासु महेशानि ब्रह्माणं पूजयेत् सुधीः |
मेखलासु च सर्वासु वेष्टयेद् दर्भसंकुलैः || १७-९७ ||

त्रिपंक्त्याचरितं कुण्डं ततो व्याहृतिभिर्हुनेत् |
त्रिः प्रताप्य महेशानि स्रुवं च प्रोक्षयेज्जलैः || १७-९८ ||

वामदक्षिणहस्ताभ्यां पुनः प्रताप्य सुन्दरि |
दक्षिणे परमेशानि स्थापयेच्च स्रुवस्रुचौ || १७-९९ ||

अस्त्रमन्त्रेण देवेशि आज्यपात्रस्य प्रोक्षणम् |
ततः पवित्रं तस्मिन् वै क्षिप्त्वा वह्नौ च निक्षिपेत् || १७-१०० ||

स्रुवेण परमेशानि हृदन्तेन महेश्वरि |
तत् पात्रादाज्यमानीय हुनेद्वह्नौ महेश्वरि || १७-१०१ ||

अग्नये च महेशानि सोमाय च ततः परम् |
अग्नीषोमपदौ ङेन्तौ वह्निजायावधिः प्रिये || १७-१०२ ||

वामदक्षिणमध्यात् तु गृह्णीयाद् आज्यमुत्तमम् |
अग्नये स्विष्टकृते स्वाहा हुनेत् सुरगणार्चिते || १७-१०३ ||

मायाबीजं महेशानि हृदन्तेन महेश्वरि |
गर्भाधानादिकं कर्म कल्पयामि महेश्वरि || १७-१०४ ||

सप्तसप्ताहुतीर्दद्यादन्येषां परमेश्वरि |
विवाहान्तं कर्मगणं प्रोच्य संस्कारमाचरेत् || १७-१०५ ||

तस्मिन्नग्नौ महेशानि देवीं संपूजयेन्नरः |
तद्वह्नेरात्मना चैक्यं विभाव्य परिकल्पयेत् || १७-१०६ ||

ततश्च मूलमन्त्रेण जुहुयात् षोडशाहुतीः |
सतिलैश्च त्रिमध्वक्तैः सरक्तैः करवीरकैः || १७-१०७ ||

अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तथा |
जुहुयाद् मूलमन्त्रेण महादेव्यै महेश्वरि || १७-१०८ ||

पृथक् कृत्वा महेशानि हुनेदावरणादिकम् |
प्रणवं पूर्वमुच्चार्य अग्नये चैतदेव हि || १७-१०९ ||

पृथिव्यै चैव महते स्वाहान्तोऽयं मनुः स्मृतः |
भुवश्च वायवे चैव अन्तरिक्षाय चैव हि || १७-११० ||

दिवे चैव महेशानि वह्निजायावधिर्मनुः |
स्वर्गाय चैव सूर्याय तथा चन्द्रमसे प्रिये || १७-१११ ||

नक्षत्रेभ्यो महेशानि वह्निजायावधिर्मनुः |
तदन्ते महतीं पूर्वां (जां) कुर्यात् चैव वरानने || १७-११२ ||

तद्वह्निं रक्षयेद् धीमन् यथाशक्ति विधानतः |
न्युब्जेन पाणिना देवि होमयेत् सुरवन्दिते || १७-११३ ||

उत्तानेनैव हस्तेन यदि होमं करोति च |
तदा तज्जनितं पुण्यं न भवेत् परमेश्वरि || १७-११४ ||

इति ते कथितं दिव्यं कुण्डादीनां निरूपणम् |
प्रयत्नात् परमेशानि कर्तव्यं होमकर्मणि || १७-११५ ||

अथ वक्ष्ये महेशानि सावधानावधारय |
माघे मासि सिते पक्षे सप्तमी या तिथिर्भवेत् || १७-११६ ||

तस्यां रात्रौ महादेवीं पूजयेत् परमेश्वरीम् |
चतुर्भुजां महारौद्रीं श्मशानालयवासिनीम् || १७-११७ ||

मुण्डाभयखड्गवरान् दधतीं परमेश्वरीम् |
मुण्डमालासमाकीर्णां लोचनत्रयसंयुताम् || १७-११८ ||

गते तु प्रथमे यामे तृतीयप्रहरावधि |
पूजयेत् परमेशानीं महाविभवविस्तरैः || १७-११९ ||

पूर्वोक्तपूजया देवि पूजयेत् कालरात्रिकाम् |
सहस्रस्य प्रमाणेन जपं कुर्यात् शुचिस्मिते || १७-१२० ||

होमयेत् परमेशानि पूर्वोक्तेन महेश्वरि |
नैवेद्यं परमं देवि भ्रष्टद्रव्यादिकं प्रिये || १७-१२१ ||

दद्यात् प्रियतरं वस्तु महामायाप्रियंकरम् |
अकुर्वन् निरयं याति सत्यं सत्यं महेश्वरि || १७-१२२ ||

अथ ते कथयिष्यामि सन्ध्योपासनकं विधिम् |
आचम्य प्राङ्मुखो भूत्वा दिवसे परमेश्वरि || १७-१२३ ||

रात्रौ उदङ्मुखः कुर्याद् आह्निकं प्रियमुत्तमम् |
अन्येषां पापराशीनां नाशकं विद्धि पार्वति || १७-१२४ ||

भ्रूणहत्या सुरापानं सुवर्णहर्णं तथा |
गुरुदराभिगमनं यच्चान्यद् दुष्कृतं कृतम् || १७-१२५ ||

सर्वमेतत् पुनातीयं महाभैरवरूपधृत् |
द्विभुजां पीतवसनां नानालङ्कारभूषिताम् || १७-१२६ ||

रक्तवर्णां कृशाङ्गीं च त्रिवलीवलयोज्ज्वलाम् |
पुस्तकं परमं दिव्यं दक्षिणे बिभ्रतीं शुभाम् || १७-१२७ ||

शिक्षासूत्रं तथा वामे बिभ्रतीं नयनत्रयाम् |
कौशेयवसनां चापि देवीं सन्ध्यां विभावयेत् || १७-१२८ ||

इति ते कथितं दिव्यं ध्यानं सुरगणार्चिते |
ध्यात्वा सन्ध्यां विशेषेण सर्वपापक्षयो भवेत् || १७-१२९ ||

आचमनं तथा वापि तीर्थस्यावाहनं ततः |
प्राणायामं षडङ्गस्य न्यासमुत्तमकं ततः || १७-१३० ||

हस्ततले जलं नीत्वा मन्त्रमुच्चार्य पञ्चधा |
गलितोदकतो देवि मूर्धानमभिषेचयेत् || १७-१३१ ||

तज्जलं दक्षिणे हस्ते आदाय परमेश्वरि |
तेजोरूपं तज्जलं तु कर्षयेद् इडया प्रिये || १७-१३२ ||

प्रक्षाल्य पापं देहान्तः रेचयेत् पिङ्गलान्तरात् |
हस्तस्य क्षालनं कुर्याद् अर्घ्यं सूर्याय दापयेत् || १७-१३३ ||

महादेव्यै त्रिरावृत्त्या चार्घ्यं दद्यात् सुरेश्वरि |
गायत्रीं ध्यानसंयुक्तां प्रजपेत् तदनन्तरम् || १७-१३४ ||

ततो देवान् प्रतर्प्यैव इष्टदेवं त्रिः तर्पयेत् |
जपं समर्प्य देवेशि मूलमन्त्रं जपेत् ततः || १७-१३५ ||

अष्टोत्तरशतावृत्त्या प्रजप्य मन्त्रमुत्तमम् |
ततो जपं समर्प्यैवं प्रणमेद् दण्डवद् भुवि || १७-१३६ ||

प्राणायामं षडङ्गं च कुर्याच्चान्ते महेश्वरि |
अमावास्या पौर्णमासी श्राद्धीयदिवसे तथा || १७-१३७ ||

संक्रान्तौ परमेशानि सन्ध्यां चैव समाचरेत् |
चतुर्विधानि कर्माणि देवका(ष्टे?र्ये)षु पार्वति || १७-१३८ ||

आगमं नु तथा विद्धि यतो नित्यागमक्रिया |
सन्ध्यां सायन्तनीं कुर्याद् द्वादश्यादिष्वपि प्रिये || १७-१३९ ||

अकुर्वन् निरयं याति एकमेव हि मद्वचः |
इति ते कथितं दिव्यमाह्निकाचारमुत्तमम् || १७-१४० ||

त्रिःसन्ध्यां परमेशानि कुर्यात् साधकसत्तमः |
नास्ति यस्यादरस्तत्र न स ब्राह्मण उच्यते || १७-१४१ ||

क्रुद्धा भगवती तस्य कामान् इष्टान् निहन्ति वै |
संक्षेपेणैव देवेशि शृणु पूजाविधिं शिवे || १७-१४२ ||

आदौ ऋष्यादिविन्यासः करशुद्धिस्ततः परम् |
अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च || १७-१४३ ||

तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् |
ध्यानं पूजा जपश्चैतत् सर्वतन्त्रेष्वयं क्रमः || १७-१४४ ||

बलिदानं तथा कार्यं यथावत् तन्त्रवेदिभिः |
पूजयेद् भैरवं दुर्गां तथा चैव महेश्वरीम् || १७-१४५ ||

वृषभं नन्दिनं चैव अतियत्नेन पूजयेत् |
महाकाल्ं यजेद् धीमान् सर्वागमविशारदः || १७-१४६ ||

चक्रराजं पूजयित्वा सर्वसिद्धीश्वरो भवेत् |
आदौ लिङ्गं महादेवं पूजयेद् यत्नतः शिवे || १७-१४७ ||

तस्मिंश्चैव हि समये स्वेष्टदेवं प्रपूजयेत् |
तस्माद् निर्माल्यपुष्पं च गृह्णीयाद् भक्तिभावतः || १७-१४८ ||

इष्टपूजां विना लिङ्गनिर्माल्यं च निषिध्यते |

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (कालीध्यानादिपूजा कुण्डमेखलायोनिनिर्णय अग्निकार्यादिनिरूपणं) सप्तदशः पटलः || १७ ||


Kapitel 18: Tausend Namen Taras

Begleitende Yoga-Vidya-Praxis: Yoga mit Chakrakonzentration und Pranayama Diese eigenständige Übung erläutert keine besonderen Ritualanweisungen dieses Kapitels.

श्रीदेव्युवाच |

देव देव महादेव सृष्टिस्थित्यन्तकारक |
प्रसङ्गेन महादेव्या विस्तरं कथितं मयि || १८-१ ||

देव्या नीलसरस्वत्याः सहस्रं परमेश्वर |
नाम्नां श्रोतुं महेशान प्रसादः क्रियतां मयि |
कथयस्व महादेव यद्यहं तव वल्लभा || १८-२ ||

श्रीभैरव उवाच |

साधु पृष्टं महादेवि सर्वतन्त्रेषु गोपितम् |
नाम्नां सहस्रं तारायाः कथितुं नैव शक्यते || १८-३ ||

प्रकाशात् सिद्धिहानिः स्यात् श्रिया च परिहीयते |
प्रकाशयति यो मोहात् षण्मासाद् मृत्युमाप्नुयात् || १८-४ ||

अकथ्यं परमेशानि अकथ्यं चैव सुन्दरि |
क्षमस्व वरदे देवि यदि स्नेहोऽस्ति मां प्रति || १८-५ ||

सर्वस्वं शृणु हे देवि सर्वागमविदां वरे [शिवे ख पाठः |] |
धनसारं महादेवि गोप्तव्यं परमेश्वरि || १८-६ ||

आयुर्गोप्यं गृहच्छिद्रं गोप्यं न पापभाग् भवेत् |
सुगोप्यं परमेशानि गोपनात् सिद्धिमश्नुते || १८-७ ||

प्रकाशात् कार्यहानिश्च प्रकाशात् प्रलयं भवेत् |
तस्माद् भद्रे महेशानि न प्रकाश्यं कदाचन || १८-८ ||

इति देववचः श्रुत्वा देवी परमसुन्दरी |
विस्मिता परमेशानी विषणा तत्र जायते || १८-९ ||

शृणु हे परमेशान कृपासागरपारग |
तव स्नेहो महादेव मयि नास्त्यत्र निश्चितम् || १८-१० ||

भद्रं भद्रं महादेव इति कृत्वा महेश्वरी |
विमुखीभूय देवेशी तत्रास्ते शैलजा शुभा || १८-११ ||

विलोक्य विमुखीं देवीं महादेवो महेश्वरः |
प्रहस्य परमेशानीं परिष्वज्य प्रियां कथाम् || १८-१२ ||

कथयामास तत्रैव महादेव्यै महेश्वरि |
मम सर्वस्वरूपा त्वं जानीहि नगनन्दिनि || १८-१३ ||

त्वां विनाहं महादेवि पूर्वोक्तशवरूपवान् |
क्षमस्व परमानन्दे क्षमस्व नगनन्दिनि || १८-१४ ||

यथा प्राणो महेशानि देहे तिष्ठति सुन्दरि |
तथा त्वं जगतामाद्ये चरणे पतितोऽस्म्यहम् || १८-१५ ||

इति मत्वा महादेवि रक्ष मां तव किङ्करम् |
ततो देवी महेशानी त्रैलोक्यमोहिनी शिवा || १८-१६ ||

महादेवं परिष्वज्य प्राह गद्गदया गिरा |
सदा देहस्वरूपाहं देही त्वं परमेश्वर || १८-१७ ||

तथापि वञ्चनां कर्तुं मामित्थं वदसि प्रियम् |
महादेवः पुनः प्राह भैरवि प्राणवल्लभे || १८-१८ ||

नाम्नां सहस्रं तारायाः श्रोतुमिच्छस्यशेषतः |

श्रीदेव्युवाच |

न श्रुतं परमेशान तारानामसहस्रकम् |
कथयस्व महाभाग सत्यं परमसुन्दरम् || १८-१९ ||

(श्रीपार्वत्युवाच |)

कथमीशान सर्वज्ञ लभन्ते सिद्धिमुत्तमाम् |
साधकाः सर्वदा येन तन्मे कथय सुन्दर || १८-२० ||

यस्मात् परतरं नास्ति स्तोत्रं तन्त्रेषु निश्चितम् |
सर्वपापहरं दिव्यं सर्वापद्विनिवारकम् || १८-२१ ||

सर्वज्ञानकरं पुण्यं सर्वमङ्गलसंयुतम् |
पुरश्चर्याशतैस्तुल्यं स्तोत्रं सर्वप्रियङ्करम् || १८-२२ ||

वश्यप्रदं मारणदमुच्चाटनप्रदं महत् |
नाम्नां सहस्रं तारायाः कथयस्व सुरेश्वर || १८-२३ ||

श्रीमहादेव उवाच |

नाम्नां सहस्रं तारायाः स्तोत्रपाठाद् भविष्यति |
नाम्नां सहस्रं तारायाः कथयिष्याम्यशेषतः || १८-२४ ||

शृणु देवि सदा भक्त्या भक्तानां परमं हितम् |
विना पूजोपहारेण विना जा(पे?प्ये)न यत् फलम् || १८-२५ ||

तत् फलं सकलं देवि कथयिष्यामि तच्छृणु |

ओं अ(स्याः?स्य) श्रीतारादेव्या भक्तिकुलसर्व(स्व) नाम्नः (सहस्रनाम) स्तोत्रस्य, अक्षोब्य ऋषिः, बृहती - उष्णिक् छन्दः, श्री उग्रतारा श्रीमदेकजटा श्रीनीलसरस्वती देवता, पुरुषार्थचतुष्टयसिद्ध्यर्थे विनियोगः ||

तारा रात्रिर्महारात्रिर्कालरात्रिर्महामतिः [कपालिनी ख पाठः |] |
कालिका कामदा माया महामाया महास्मृतिः [महोत्सवा ख |] || १८-२६ ||

महादानरता यज्ञा यज्ञोत्सवविभूषिता |
चन्द्रवक्त्रा [वज्रा क |] चकोराक्षी चारुनेत्रा सुलोचना || १८-२७ ||

त्रिनेत्रा महती देवी कुरङ्गाक्षी मनोरमा [हरा ख |] |
ब्राह्मी नारायणी ज्योत्स्ना चारुकेशी सुमूर्धजा || १८-२८ ||

वाराही वारुणी विद्या महाविद्या महेश्वरी |
सिद्धा [पिङ्गा ख |] कुञ्चितकेशा च महायज्ञस्वरूपिणी || १८-२९ ||

गौरी चम्पकवर्णा च कृशाङ्गी शिवमोहिनी |
सर्वानन्दस्वरूपा च सर्वशङ्कैकतारिणी [संकट ख |] || १८-३० ||

विद्यानन्दमयी नन्दा भद्रकाली स्वरूपिणी |
गायत्री सुचरित्रा च कौलव्रतपरायणा || १८-३१ ||

हिरण्यगर्भा भूगर्भा महागर्भा सुलोचनी |
हिमवत्तनया दिव्या महामेघस्वरूपिणी || १८-३२ ||

जगन्माता जगद्धात्री जगतामुपकारिणी |
ऐन्द्री सौम्या तथा घोरा [याम्या ख |] वारुणी माधवी [वायवी ख |] तथा || १८-३३ ||

आग्नेयी वैनतेयी [नैर्-ऋती चैव ख पाठः |] च ऐशानी चण्डिकात्मिका |
सुमेरुतनया नित्या सर्वेषामुपकारिणी || १८-३४ ||

ललज्जिह्वा सरोजाक्षी मुण्ड[मुक्ता क |]स्रक्परिभूषिता |
सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी || १८-३५ ||

धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगगामिनी |
रुक्मिणी जानकी दुर्गाम्बिका सत्यवती रतिः || १८-३६ || १८-

कामाख्या कामदा नन्दा नारसिंही सरस्वती |
महादेवरता चण्डी चण्डदोर्दण्डखण्डिनी || १८-३७ ||

दीर्घकेशी सुकेशी च पिङ्गकेशी महाकचा |
भवानी भवपत्नी (१००) च भवभीतिहरा सती [शची ख |] || १८-३८ ||

पौरन्दरी तथा विष्णोर्जाया माहेश्वरी तथा |
सर्वेषां जननी विद्या [नित्या ख |] चार्वङ्गी दैत्यनाशिनी || १८-३९ ||

सर्व [घोररूपा ख |] रूपा महेशानि कामिनी वरवर्णिनी |
महाविद्या महामाया महामेधा महोत्सवा || १८-४० ||

विरूपा विश्वरूपा च मृडानी मृडवल्लभा |
कोटिचन्द्रप्रतीकाशा शतसूर्यप्रकाशिनी || १८-४१ ||

जह्नुकन्या महोग्रा च पार्वती विश्वमोहिनी |
कामरूपा महेशानी नित्योत्साहा मनस्विनी || १८-४२ ||

वैकुण्ठनाथपत्नी च तथा शङ्करमोहिनी |
काश्यपी कमला कृष्णा कृष्णरूपा च कालिनी || १८-४३ ||

माहेश्वरी वृषारूढा सर्वविस्मयकारिणी |
मान्या मानवती शुद्धा कन्या हिमगिरेस्तथा || १८-४४ ||

अपर्णा पद्मपत्राक्षी नागयज्ञोपवीतिनी |
महाशङ्खधरा कान्ता कमनीया नगात्मजा || १८-४५ ||

ब्रह्माणी वैष्णवी शम्भोर्जाया गङ्गा जलेश्वरी |
भागीरथी मनोबुद्धिर्नित्या विद्यामयी तथा || १८-४६ ||

हरप्रिया गिरिसुता हरपत्नी तपस्विनी |
महाव्याधिहरा देवी महाघोरस्वरूपिणी || १८-४७ ||

महापुण्यप्रभा भीमा मधुकैटभनाशिनी |
शङ्खिनी वज्रिणी धात्री तथा पुस्तकधारिणी || १८-४८ ||

चामुण्डा चपला तुङ्गा शुम्बदैत्यनिकृन्तनी |
शान्तिर्निद्रा महानिद्रा पूर्णनिद्रा च रेणुका || १८-४९ ||

कौमारी कुलजा कुन्ती [कान्ति ख |] कौलव्रतपरायणा |
वनदुर्गा सदाचारा द्रौपदी द्रुपदात्मजा || १८-५० ||

यशस्विनी यशस्या च यशोधात्री यशःप्रदा |
सृष्टिरूपा महागौरी निशुम्बप्राणनाशिनी || १८-५१ ||

पद्मिनी (२००) वसुधा पृथ्वी रोहिणी विन्ध्यवासिनी |
शिवशक्तिर्महाशक्तिः शङ्खिनी शक्तिनिर्गता [नाशिनी ख |] || १८-५२ ||

दैत्यप्राणहरा देवी सर्वरक्षणकारिणी |
क्षान्तिः क्षेमङ्करी चैव बुद्धिरूपा महाधना || १८-५३ ||

श्रीविद्या भैरवि भव्या भवानी भवनाशिनी [भय ख |] |
तापिनी भाविनी सीता तीक्ष्णतेजःस्वरूपिणी || १८-५४ ||

दात्री दानपरा काली दुर्गा दैत्यविभूषणा |
महापुण्यप्रदा भीमा मधुकैटभनाशिनी || १८-५५ ||

पद्मा पद्मावती कृष्णा तुष्टा पुष्टा तथोर्वशी |
वज्रिणी वज्रहस्ता च तथा नारायणी शिवा || १८-५६ ||

खड्गिनी खड्गहस्ता च खड्गखर्परधारिणी |
देवाङ्गना देवकन्या [मान्या ख पाठः |] देवमाता पुलोमजा || १८-५७ ||

सुखिनी स्वर्गदात्री च सर्वसौख्यविवर्धिनी |
शीला शीलावती सूक्ष्मा सूक्ष्माकारा वरप्रदा || १८-५८ ||

वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदा सदा [मला ख |] |
उग्रकाली महाकाली भद्रकाली च दक्षिणा || १८-५९ ||

भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा |
शूलिनी शूलहस्ता च कर्त्रीखर्परधारिणी || १८-६० ||

महावंशसमुद्भूता मयूरवरवाहना |
महाशङ्खरता रक्ता [शक्ता ख पाठः |] रक्तखर्परधारिणी || १८-६१ ||

रक्ताम्बरधरा रामा रमणी सुरनायिका |
मोक्षदा शिवदा श्यामा मदविभ्रममन्थरा || १८-६२ ||

परमानन्ददा ज्येष्ठा योगिनी गणसेविता |
सारा जाम्बवती चैव सत्यभामा नगात्मजा || १८-६३ ||

रौद्रा रौद्रबला घोरा रुद्रसारारुणात्मिका |
रुद्ररूपा महारौद्री (३००) रौद्रदैत्यविनाशिनी || १८-६४ ||

कौमारी कौशिकी चण्डा [विद्या ख पाठः |] कालदैत्यविनाशिनी |
शम्भुपत्नी शम्भुरता शम्बुजाया महोदरी || १८-६५ ||

शिवपत्नी शिवरता शिवजाया शिवप्रिया |
हरपत्नी हररता हरजाया हरप्रिया || १८-६६ ||

मदनान्तककान्ता च मदनान्तकवल्लभा |
गिरिजा गिरिकन्या च गिरीशस्य च वल्लभा || १८-६७ ||

भूता भव्या भवा स्पष्टा पावनी परपालिनी |
अदृश्या च व्यक्तरूपा इष्टानिष्टप्रवर्द्धिनी || १८-६८ ||

अच्युता प्रच्युतप्राणा प्रमदा वासवेश्वरी |
अपांनिधिसमुद्भूता धारिणी च प्रतिष्ठिता || १८-६९ ||

उद्भवा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी |
कमला पुष्पदेहा च कामिनी कञ्जलोचना || १८-७० ||

शरण्या कमला प्रीतिर्विमलानन्दवर्धिनी |
कपर्दिनी कराला च निर्मला देवरूपिणी || १८-७१ ||

उदीर्णभूषणा भव्या सुरसेना महोदरी |
श्रीमती शिशिरा नव्या [नन्दा ख |] शिशिराचलकन्यका || १८-७२ ||

सुरमान्या सुरश्रेष्ठा ज्येष्ठा प्राणेश्वरी स्थिरा |
तमोघ्नी ध्वान्तसंहन्त्री प्रयतात्मा पतिव्रता [परि ख |] || १८-७३ ||

प्रद्योतिनी रथारूढा सर्वलोकप्रकाशिनी |
मेधाविनी महावीर्या हंसी संसारतारिणी || १८-७४ ||

प्रणतप्राणिनामार्तिहारिणी दैत्यनाशिनी |
डाकिनी शाकिनीदेवी वरखट्वाङ्गधारिणी || १८-७५ ||

कौमुदी कुमुदानन्दा [कुन्दा ख पाठ |] कौलिका कुलजामरा |
गर्विता गुणसंपन्ना नगजा खगवाहिनी || १८-७६ ||

चन्द्रानना महोग्रा च चारुमूर्धजशोभना |
मनोज्ञा माधवी मान्या (४००) माननीया सतां सुहृत् || १८-७७ ||

ज्येष्ठा श्रेष्ठा मघा पुष्या धनिष्ठा पूर्वफाल्गुनी |
रक्तबीजनिहन्त्री च रक्तबीजविनाशिनी || १८-७८ ||

चण्डमुण्डनिहन्त्री च चण्डमुण्डविनाशिनी |
कर्त्री हर्त्री सुकर्त्री च विमलामलवाहिनी || १८-७९ ||

विमला भास्करी वीणा महिषासुरघातिनी |
कालिन्दी यमुना वृद्धा सुरभिः [युवति ख पाठः |] बालिका सती || १८-८० ||

कौशल्या कौमुदी मैत्रीरूपिणी चाप्यरुन्धती |
पुरारिगृहिणी पूर्णा पूर्णानन्दस्वरूपिणी || १८-८१ ||

पुण्डरीकाक्षपत्नी च पुण्डरीकाक्षवल्लभा |
संपूर्णचन्द्रवदना बालचन्द्रसमप्रभा || १८-८२ ||

रेवती रमणी चित्रा चित्राम्बरविभूषणां |
सीता वीणावती चैव यशोदा विजया प्रिया || १८-८३ ||

नवपुष्पसमुद्भूता नवपुष्पोत्सवोत्सवा |
नवपुष्पस्रजामाला माल्यभूषणभूषिता [भूषिता ख |] || १८-८४ ||

नवपुष्पसमप्राणा नवपुष्पोत्सवप्रिया |
प्रेतमण्डलमध्यस्ता सर्वाङ्गसुन्दरी शिवा || १८-८५ ||

नवपुष्पात्मिका षष्ठी पुष्पस्तवकमण्डला |
नवपुष्पगुणोपेता श्मशान[शरीर ख पाठ |]भैरवप्रिया || १८-८६ ||

कुलशास्त्रप्रदीपा च कुलमार्गप्रवर्द्धिनी |
श्मशानभैरवी काली भैरवी भैरवप्रिया || १८-८७ ||

आनन्दभैरवी ध्येया भैरवी कुरुभैरवी |
महाभैरवसंप्रीता भैरवीकुलमोहिनी || १८-८८ ||

श्रीविद्याभैरवी नीतिभैरवी गुणभैरवी |
संमोहभैरवी पुष्टिभैरवी तुष्टिभैरवी || १८-८९ ||

संहारभैरवी सृष्टिभैरवी स्थितिभैरवी |
आनन्दभैरवी वीरा सुन्दरी स्थितिसुन्दरी || १८-९० ||

गुणानन्दस्वरूपा च सुन्दरी कालरूपिणी |
श्रीमायासुन्दरी सौम्यसुन्दरी लोकसुन्दरी || १८-९१ ||

श्रीविद्यामोहिनी बुद्धिर्महाबुद्धिस्वरूपिणी |
मल्लिका हाररसिका हार(अ)लम्बनसुन्दरी || १८-९२ ||

नीलपङ्कजवर्णा (५००) च नागकेसरभूषिता |
जपाकुसुमसङ्काशा जपाकुसुमशोभिता || १८-९३ ||

प्रिया प्रियङ्करी विष्णोर्दानवेन्द्रविनाशिनी |
ज्ञानेश्वरी ज्ञानदात्री ज्ञानानन्दप्रदायिनी || १८-९४ ||

गुणगौरवसंपन्ना गुणशीलसमन्विता |
रूपयौवनसंपन्ना रूपयौवनशोभिता || १८-९५ ||

गुणाश्रया गुणरता गुणगौरवसुन्दरी |
मदिरामोदमत्ता च ताटङ्कद्वयशोभिता || १८-९६ ||

वृक्षमूलस्थिता देवी वृक्षशाखोपरिस्थिता |
तालमध्याग्रनिलया वृक्षमध्यनिवासिनी || १८-९७ ||

स्वयम्भूपुष्पसंकाशा स्वयम्भूपुष्पधारिणी |
स्वयम्भूकुसुमप्रीता स्वयम्भूपुष्पशोभिनी || १८-९८ ||

स्वयम्भूपुष्परसिका नग्ना ध्यानवती सुधा |
शुक्रप्रिया[शुक्ल ख पाठः |] शुक्ररता शुक्रमज्जनतत्परा || १८-९९ ||

पूर्णपर्णा सुपर्णा च निष्पर्णा पापनाशिनी |
मदिरामोदसंपन्ना मदिरामोदधारिणी || १८-१०० ||

सर्वाश्रया सर्वगुणा नन्दनन्दनधारिणी [नन्दकन्दल ख पाठः |] |
नारीपुष्पसमुद्भूता नारीपुष्पोत्सवोत्सवा || १८-१०१ ||

नारीपुष्पसमप्राणा नारीपुष्परता मृगी |
सर्वकालोद्भवप्रीता सर्वकालोद्भवोत्सवा || १८-१०२ ||

चतुर्भुजा दशभुजा अष्टादशभुजा तथा |
द्विभुजा षड्भुजा प्रीता रक्तपङ्कजशोभिता || १८-१०३ ||

कौबेरी कौरवी कौर्या कुरुकुल्ला कपालिनी |
सुदीर्घकदलीजङ्घा रम्भोरू रामवल्लभा || १८-१०४ ||

निशाचरी निशामूर्तिर्निशाचन्द्रसमप्रभा |
चान्द्री चान्द्रकला चन्द्रा चारुचन्द्रनिभानना || १८-१०५ ||

(श्रो?स्रो)तस्वती स्रुतिमती सर्वदुर्गतिनाशिनी |
सर्वाधारा सर्वमयी सर्वानन्दस्वरूपिणी || १८-१०६ ||

सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी शुभा |
सहस्रनयनप्राणा सहस्रनयनप्रिया || १८-१०७ ||

सहस्रशीर्षा सुषमा [सुसमा ख पाठः |] सदम्भा सर्वभक्षिका |
यष्टिका यष्टिचक्रस्था षद्वर्गफलदायिनी || १८-१०८ ||

षड्विंशपद्ममध्यस्था षड्विंशकुलमध्यगा |
हू/कारवर्णनिलया हू/काराक्षरभूषणा || १८-१०९ ||

हकारवर्णनिलया हकाराक्षरभूषणा |
हारिणी हारवलिता हारहीरकभूषणा || १८-११० ||

ह्रींकारबीजसहिता ह्रींकारैरुपशोभिता (६००) |
कन्दर्पस्य कला कुन्दा कौलिनी कुलदर्पिता || १८-१११ ||

केतकीकुसुमप्राणा केतकीकृतभूषणा |
केतकीकुसुमासक्ता केतकीपरिभूषिता || १८-११२ ||

कर्पूरपूर्णवदना महामाया महेश्वरी |
कला केलिः क्रिया कीर्णा कदम्बकुसुमोत्सुका || १८-११३ ||

कादम्बिनी करिशुण्डा [करिगतिः ख पाठः |] कुञ्जरेश्वरगामिनी |
खर्वा सुखञ्जनयना खञ्जनद्वन्द्वभूषणा || १८-११४ ||

खद्योत इव दुर्लक्षा खद्योत इव चञ्चला |
महामाया ज्गद्धात्री गीतवाद्यप्रिया रतिः || १८-११५ ||

गणेश्वरी गणेज्या च गुणपूज्या गुणप्रदा |
गुणाढ्या गुणसंपन्ना गुणदात्री गुणात्मिका || १८-११६ ||

गुर्वी गुरुतरा गौरी गाणपत्यफलप्रदा |
महाविद्या महामेधा तुलिनी गणमोहिनी || १८-११७ ||

भव्या भवप्रिया भाव्या भावनीया भवात्मिका |
घर्घरा घोरवदना घोरदैत्यविनाशिनी || १८-११८ ||

घोरा घोरवती घोष्या [घोषा ख |] घोरपुत्री घनाचला [घनालया ख |] |
चर्चरी चारुनयना चारुवक्त्रा चतुर्गुणा || १८-११९ ||

चतुर्वेदमयी चण्डी चन्द्रास्या चतुरानना |
चलच्चकोरनयना चलत्खञ्जनलोचना || १८-१२० ||

चलदम्भोजनिलया चलदम्भोजशोभिता [लोचना ख पाठः |] |
छत्री छत्रप्रिया छत्रा छत्रचामरशोभिता || १८-१२१ ||

छिन्नछदा छिन्नशिराश्छिन्ननासा छलात्मिका |
छलाढ्या छलसंत्रस्ता छलरूपा छलस्थिरा || १८-१२२ ||

छकारवर्णनिलया छकाराढ्या छलप्रिया |
छद्मिनी छद्मनिरता छद्मच्छद्मनिवासिनी || १८-१२३ ||

जगन्नाथप्रिया जीवा जगन्मुक्तिकरी मता |
जीर्णा जीमूतवनिता जीमूतैरुपशोभिता || १८-१२४ ||

जामातृवरदा जम्भा जमलार्जुनभञ्जिनी |
झर्झरी झाकृतिर्झल्ली झरी (७००) झर्झरिका तथा || १८-१२५ ||

टङ्कारकारिणी टीका सर्वटङ्कारकारिणी |
ठंकराङ्गी डमरुका डाकारा डमरुप्रिया || १८-१२६ ||

ढक्कारावरता नित्या तुलसी मणिभूषिता |
तुला च तोलिका तीर्णा तारा तारणिका तथा || १८-१२७ ||

तन्त्रविज्ञा तन्त्ररता तन्त्रविद्या च तन्त्रदा |
तान्त्रिकी तन्त्रयोग्या च तन्त्रसारा च तन्त्रिका || १८-१२८ ||

तन्त्रधारी तन्त्रकरी सर्वतन्त्रस्वरूपिणी |
तुहिनांशुसमानास्या तुहिनांशुसमप्रभा || १८-१२९ ||

तुषाराकरतुल्याङ्गी तुषाराधारसुन्दरी |
तन्त्रसारा तन्त्रकरो तन्त्रसारस्वरूपिणी || १८-१३० ||

तुषारधामतुल्यास्या तुषारांशुसमप्रभा |
तुषाराद्रिसुता तार्क्ष्या ताराङ्गी तालसुन्दरी || १८-१३१ ||

तारस्वरेण सहिता तारस्वरविभूषिता |
थकारकूटनिलया थकाराक्षरमालिनी || १८-१३२ ||

दयावती दीनरता दुःखदारिद्र्यनाशिनी |
दौर्भाग्यदुःखदलिनी दौर्भाग्यपदनाशिनी || १८-१३३ ||

दुहिता दीनबन्धुश्च दानवेन्द्रविनाशिनी |
दानपात्री दानरता दानसंमानतोषिता || १८-१३४ ||

दान्त्यादिसेविता दान्ता दया दामोदरप्रिया |
दधीचिवरदा तुष्टा दानवेन्द्रविमर्दिनी || १८-१३५ ||

दीर्घनेत्रा दीर्घकचा दीर्घनासा च दीर्घिका |
दारिद्र्यदुःखसंनाशा दारिद्र्यदुःखनाशिनी || १८-१३६ ||

दाम्भिका दन्तुरा दम्भा दम्भासुरवरप्रदा |
धनधान्यप्रदा धन्या धनेश्वरधनप्रदा || १८-१३७ ||

धर्मपत्नी धर्मरता धर्माधर्मविनाशिनी [प्रवर्धिनी ख |] |
धर्मिणी धर्मिका धर्म्या धर्माधर्मविवर्द्धिनी || १८-१३८ ||

धनेश्वरी धर्मरता धर्मानन्दप्रवर्द्धिनी |
धनाध्यक्षा धनप्रीता धनाढ्या धनतोषिता || १८-१३९ ||

धीरा धैर्यवती धिष्ण्या धवलाम्भोजसंनिभा [सव ख पाठः |] |
धरिणी धारिणी धात्री धूरणी धरणी धरा (८००) || १८-१४० ||

धार्मिका धर्मसहिता धर्मनिन्दकवर्जिता |
नवीना नगजा निम्ना निम्ननाभिर्नगेश्वरी || १८-१४१ ||

नूतनाम्भोजनयना नवीनाम्भोजसुन्दरी |
नागरी नगरज्येष्ठा नगराजसुता नगा || १८-१४२ ||

नागराजकृततोषा नागराजविभूषिता |
नागेश्वरी नागरूढा नागराजकुलेश्वरी || १८-१४३ ||

नवीनेन्दुकला नान्दी नन्दिकेश्वरवल्लभा |
नीरजा नीरजाक्षी च नीरजद्वन्द्वलोचना || १८-१४४ ||

नीरा नीरभवा वाणी नीरनिर्मलदेहिनी |
नागयज्ञोपवीताढ्या नागयज्ञोपवीतिका || १८-१४५ ||

नागकेसरसंतुष्टा नागकेसरमालिनी |
नवीनकेतकीकुन्द - मल्लिकाम्भोजभूषिता || १८-१४६ ||

नायिका नायकप्रीता नायकप्रेमभूषिता |
नायकप्रेमसहिता नायकप्रेमभाविता || १८-१४७ ||

नायकानन्दनिलया नायकानन्दकारिणी |
नर्मकर्मरता नित्यं नर्मकर्मफलप्रदा || १८-१४८ ||

नर्मकर्मप्रिया नर्मा नर्मकर्मकृतालया |
नर्मप्रीता नर्मरता नर्मध्यानपरायणा || १८-१४९ ||

पौष्णप्रिया च पौष्पेज्या पुष्पदामविभूषिता |
पुण्यदा पूर्णिमा पूर्णा कोटिपुण्यफलप्रदा || १८-१५० ||

पुराणागमगोप्या च पुराणागमगोपिता |
पुराणगोचरा पूर्णा पूर्वा प्रौढा विलासिनी || १८-१५१ ||

प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी |
फाल्गुनी फाल्गुनप्रीता फाल्गुनप्रेधारिणी || १८-१५२ ||

फाल्गुनप्रेमदा चैव फणिराजविभूषिता |
फणिकाञ्ची फणिप्रीता फणिहारविभूषिता || १८-१५३ ||

फणीशकृतसर्वाङ्गभूषणा फणिहारिणी |
फणिप्रीता फणिरता फणिकङ्कणधारिणी || १८-१५४ ||

फलदा त्रिफला शक्ता फलाभरणभूषिता |
फकारकूटसर्वाङ्गी फाल्गुनानन्दवर्द्धिनी || १८-१५५ ||

वासुदेवरता विज्ञा विज्ञविज्ञानकारिणी |
वीणावती बलाकीर्णा बालपीयूषरोचिका || १८-१५६ ||

बालावसुमती विद्या विद्याहारविभूषिता |
विद्यावती वैद्यपदप्रीता वैवस्वती बलिः || १८-१५७ ||

बलिविध्वंसिनी चैव वराङ्गस्था (९००) वरानना |
विष्णोर्वक्षःस्थलस्था च वाग्वती विन्ध्यवासिनी || १८-१५८ ||

भीतिदा भयदा भानोरंशुजालसमप्रभा |
भार्गवेज्या भृगोः पूज्या भरद्वारनमस्कृता || १८-१५९ ||

भीतिदा भयसंहन्त्री भीमाकारा च सुन्दरी |
मायावती मानरता मानसंमानतत्परा || १८-१६० ||

माधवानन्ददा माध्वी मदिरामुदितेक्षणा |
महोत्सवगुणोपेता महती च महद्गुणा || १८-१६१ ||

मदिरामोदनिरता मदिरामज्जने रता |
यशोधरी यशोविद्या यशोदानन्दवर्द्धिनी || १८-१६२ ||

यशःकर्पूरधवला यशोदामविभूषिता |
यमराजप्रिया [स्वसा ख पाठः |] योगमार्गानन्दप्रवर्द्धिनी || १८-१६३ ||

यमस्वसा च यमुना योगमार्गप्रवर्द्धिनी |
यादवानन्दकर्त्री च यादवानन्दवर्द्धिनी || १८-१६४ ||

यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषिता |
रामप्रीता रामरता रामतोषणतत्परा || १८-१६५ ||

राज्ञी राजकुलेज्या च राजराजेश्वरी रमा |
रमणी रामणी रम्या रामानन्दप्रदायिनी || १८-१६६ ||

रजनीकरपूर्णास्या रक्तोत्पलविलोचना |
लाङ्गलिप्रेमसंतुष्टा लाङ्गलिप्रणयप्रिया || १८-१६७ ||

लाक्षारुणा च ललना लीला लीलावती लया |
लङ्केश्वरगुणप्रीता लङ्केशवरदायिनी || १८-१६८ ||

लवङ्गीकुसुमप्रीता लवङ्गकुसुमस्रजा [मोत्सुका ख |] |
धाता विवस्वद्गृहिणी विवस्वत्प्रेमधारिणी || १८-१६९ ||

शवोपरिसमासीना शववक्षःस्थलस्थिता |
शरणागतरक्षित्री शरण्या श्रीः शरद्गुणा || १८-१७० ||

षट्कोणमध्यमध्यस्था [चक्र ख पाठः |] संपद(ह?र्थ)निषेविता |
हू/काराकारिणी देवी हू/काररूपशोभिता || १८-१७१ ||

क्षेमङ्करी तथा क्षेमा क्षेमधामविवर्द्धिनी |
क्षेमाम्नाया तथाज्ञा च इडा इश्वरवल्लभा || १८-१७२ ||

उग्रदक्षा तथा चोग्रा अकारादिस्वरोद्भवा |
ऋकारवर्णकूटस्था ॠकारस्वरभूषिता || १८-१७३ ||

एकारा च तथा चैका एकाराक्षरवासिता |
ऐष्टा चैषा तथा चौषा औकाराक्षरधारिणी || १८-१७४ ||

अं अःकारस्वरूपा च सर्वागमसुगोपिता (१०००) |
इत्येतत् कथितं देवि तारानामसहस्रकम् || १८-१७५ ||

य इदं पठति स्तोत्रं प्रत्यहं भक्तिभावतः |
दिवा वा यदि वा रात्रौ सन्ध्ययोरुभयोरपि || १८-१७६ ||

स्तवराजस्य पाठेन राजा भवति किङ्करः |
सर्वागमेषु पूज्यः स्यात् सर्वतन्त्रे स्वयं हरः || १८-१७७ ||

शिवस्थाने श्मशाने च शून्यागारे चतुष्पथे |
य पठेच्छृणुयाद् वापि स योगी नात्र संशयः || १८-१७८ ||

यानि नामानि सन्त्यस्मिन् प्रसङ्गाद् मुरवैरिणः |
ग्राह्याणि तानि कल्याणि नान्यान्यपि [तु ख पाठः |] कदाचन || १८-१७९ ||

हरेर्नाम न गृह्णीयाद् न स्पृशेत् तुलसीदलम् |
नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन || १८-१८० ||

सिन्दूरकरवीराद्यैः पुष्पैर्लोहितकैस्तथा |
योऽर्चयेद् भक्तिभावेन तस्यासाध्यं न किञ्चन || १८-१८१ ||

वातस्तम्भं जलस्तम्भं गतिस्तम्भं विवस्वतः |
वह्नेः स्तम्भं [शैत्यं ख पाठः |] करोत्येव स्तवस्यास्य प्रकीर्तनात् || १८- १८२ ||

श्रियमाकर्षयेत् [पते ख पाठः |] तूर्णमानृण्यं जायते हठात् |
यथा तृणं दहेद् वह्निस्तथारीन् मर्दयेत् क्षणात् || १८-१८३ ||

मोहयेद् राजपत्नीश्च देवानपि वशं नयेत् |
यः पठेत् शृणुयाद् वापि एकचित्तेन सर्वदा || १८-१८४ ||

दीर्घायुश्च सुखी वाग्मी वाणी तस्य वशङ्करी |
सर्वतीर्थाभिषेकेण गयाश्राद्धेन यत् फलम् || १८-१८५ ||

तत्फलं लभते सत्यं यः पठेदेकचित्ततः |
येषामाराधने श्रद्धा ये तु साधितुमुद्यताः || १८-१८६ ||

तेषां कृतित्वं सर्वं स्याद् गतिर्देवि परा च सा |
ऋतुयुक्तलतागारे स्थित्वा दण्डेन ताडयेत् || १८-१८७ ||

जप्त्वा स्तुत्वा च भक्त्या च गच्छेद् वै तारिणीपदम् |
अष्टम्यां च चतुर्दश्यां नवम्यां शनिवासरे || १८-१८८ ||

संक्रान्त्यां मण्डले रात्रौ अमावास्यां च योऽर्चयेत् |
वर्षं व्याप्य च देवेशि तस्याधीनाश्च सिद्धयः || १८-१८९ ||

सुतहीना च या नारी दौर्भाग्यामयपीडिता |
वन्ध्या वा काकवन्ध्या वा मृतगर्भा च याङ्गना || १८-१९० ||

धनधान्यविहीना च रोगशोकाकुला च या |
सापि चैतद् महादेवि भूर्जपत्रे लेखापयेत् [लिखेत् ततः ख पाठः |] || १८-१९१ ||

सव्ये भुजे च बध्नीयात् सर्वसौख्यवती भवेत् |
एवं पुमानपि प्रायो दुःखेन परिपीडितः || १८-१९२ ||

सभायां व्यसने घोरे विवादे शत्रुसंकटे |
चतुरङ्गे च तथा युद्धे सर्वत्रापत्[अरि ख पाठ]प्रपीडिते || १८-१९३ ||

स्मरणादेव कल्याणि संक्षयं यान्ति दूरतः |
पूजनीयं प्रयत्नेन शून्यागारे शिवालये || १८-१९४ ||

बिल्वमूले श्मशाने च तटे वा कुलमण्डले |
शर्करासवसंयुक्तैर्भक्तैर्दुग्धैः सपायसैः || १८-१९५ ||

अपूपापिष्टसंयुक्तैर्नैवेद्यैश्च यथोचितैः |
निवेदितं च यद्द्रव्यं भोक्तव्यं च विधानतः || १८-१९६ ||

तन्न चेद् भुज्यते मोहाद् भोक्तुं नेच्छन्ति देवताः |
अनेनैव विधानेन योऽर्चयेत् परमेश्वरीम् || १८-१९७ ||

स भूमिवलये देवि साक्षादीशो न संशयः |
महाशङ्खेन देवेशि सर्वं कार्यं जपादिकम् || १८-१९८ ||

कुलसर्वस्वकस्यैवं प्रभावो वर्णितो मया |
न शक्यते समाख्यातुं वर्षकोटिशतैरपि || १८-१९९ ||

किञ्चिद् मया च चापल्यात् कथितं परमेश्वरि |
जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते || १८-२०० ||

कुलीनाय प्रदातव्यं ताराभक्तिपराय च |
अन्यभक्ताय नो देयं वैष्णवाय विशेषतः || १८-२०१ ||

कुलीनाय महेच्छाय भक्तिश्रद्धापराय च |
महात्मने सदा देयं परीक्षितगुणाय च || १८-२०२ ||

नाभक्ताय प्रदातव्यं पथ्यन्तरपराय च |
न देयं देवदेवेशि गोप्यं सर्वागमेषु च || १८-२०३ ||

पूजाजपविहीनाय स्त्रीसुरानिन्दकाय च |
न स्तवं दर्शयेत् क्वापि संदर्श्य शिवहा भवेत् || १८-२०४ ||

पठनीयं सदा देवि सर्वावस्थासु सर्वदा |
यः स्तोत्रं कुलनायिके प्रतिदिनं भक्त्या पठेद् मानवः स स्याद्वित्तचयैर्धनेश्वरसमो विद्यामदैर्वाक्पतिः |
सौन्दर्येण च मूर्तिमान् मनसिजः कीर्त्या च नारायणः शक्त्या शङ्कर एव सौख्य[शौर्य |]विभवैर्भूमेः पतिर्नान्यथा || १८-२०५ ||

इति ते कथितं गुह्यं तारानामसहस्रकम् |
अस्मात् परतरं स्तोत्रं नास्ति तन्त्रेषु निश्चयः || १८-२०६ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (तारासहस्रनामनिरूपणं) अष्टादशः पटलः || १८ ||


Kapitel 19: Tara-Schutzgebet

Die Mahavidyas als unterschiedliche Erscheinungen der Göttlichen Mutter.

श्रीभैरव उवाच |

अथ वक्ष्ये महेशानि कवचं परमाद्भुतम् |
यज्ज्ञात्वा साधकाः सर्वे अवश्यं मुक्तिमाप्नुयुः || १९-१ ||

श्रूयतां परमं गुह्यं कवचं मन्मुखिदितम् |
जपाद्धि सर्वकल्याणं जायते नात्र संशयः || १९-२ ||

अप्रकाश्यं महादेवि तव स्नेहात् प्रकाशितम् |
उद्धृतं सारभूतानां सारात् सारतरं परम् || १९-३ ||

कवचं धारयेद् यस्तु पठेद् वा भक्तिभावतः |
स शिवः स च विद्येशः स च योगी न संशयः || १९-४ ||

कवचेन विना देवि योऽर्चयेत् तारिणीं पराम् |
कल्पकोटिशतेनापि न सिद्धिर्जायते प्रिये || १९-५ ||

ब्रह्मविष्णुशिवानां च बीजं रक्षतु मूलकम् |
तदेव शक्तिमूलं च लिङ्गं रक्षतु यत्नतः || १९-६ ||

मणिपूरं सदा पातु वधूबीजमशेषतः |
अनाहतं वर्मबीजं पातु मे सर्वसर्वतः || १९-७ ||

अस्त्रादि सर्वदा पातु विशुद्धं कण्ठदेशकम् |
शेषं हि पातु मे नित्यमाज्ञास्थानं द्विपत्रकम् || १९-८ ||

शीर्षं पातु सदा तारा जटा पातु सदाननम् |
नीलासरस्वती पातु हृदयं मे सदा पुनः || १९-९ ||

मूलाधारं सदा पातु महानीलसरस्वती |
अक्षोभ्यः पातु सर्वाङ्गं बृहती पातु भालकम् || १९-१० ||

उग्रतारा देवता मे शङ्खं रक्षतु सर्वदा |
कर्णौ (तु)मे सदा पातु ह्रीं बीजं तदशेषतः || १९-११ ||

स्तनद्वयं सदा पातु हूंशक्तिर्विघ्नघातकः |
रसनां मे सदा पातु लक्ष्मीर्देवी च शाश्वती || १९-१२ ||

रसनाग्रं सदा पातु सरस्वती प्रयत्नतः |
रतिः पातु सदा बीजं प्रीतिर्मे वदनं सदा || १९-१३ ||

कीर्तिः कीर्तिं सदा पातु शान्तिः शान्तिं सदावतु |
पुष्टिर्मे पातु पुष्टिं च तुष्टिस्तुष्टिं सदावतु || १९-१४ ||

वैरोचनः सदा पातु शङ्खं च शङ्खपाण्डुरः |
पाण्डुरो मे सदा गुह्यं पातु नित्यं च सर्वशः || १९-१५ ||

पद्मनाभः सदा पातु नाभिं मे दशपत्रिकाम् |
असिताङ्गः पातु लिङ्गं नामकः पातु कर्णकौ || १९-१६ ||

मामकः पातु मे बाहू हस्तौ पातु महेश्वरी |
तारा [तारको ख पाठः |] मे पातु सततं पृष्ठं पद्मान्तको मम || १९-१७ ||

पार्श्वं मे च सदा (पा(तु?तां)यमान्तकवदान्तकौ |
चरणौ मे सदा पातां विघ्नान्तनरकान्तकौ || १९-१८ ||

तारा मे पातु सततं अष्टाङ्गं परमेश्वरी |
इतीदं कवचं देवि कथितं मन्मुखोदितम् || १९-१९ ||

प्रमादात् परमेशानि न प्रकाश्यं कदाचन |
योगिनीभिस्तदा हन्यात् स्वयं च वधकारिणी || १९-२० ||

यदि भाग्यवशाद् देवि लब्धं साधकसत्तमैः |
तदा तस्य महासिद्धिर्जायते देवि निश्चितम् || १९-२१ ||

निषेद्धेभ्यो न दातव्यं न प्रकाश्यं कदाचन |
यदि दद्याद् निषिद्धेभ्यो तदा मृत्युमवाप्नुयात् || १९-२२ ||

दद्यात् शान्ताय शिष्याय तन्त्रमन्त्रयुताय च |
गुरुभक्तियुतायैव तत्र सिद्धिरनुत्तमा || १९-२३ ||

रहस्यं कथितं सर्वमनन्तफलदायकम् |
गोप्तव्यं परमेशानि न प्रकाश्यं कदाचन || १९-२४ ||

कवचेन विना देवि योऽर्चयेत् तारिणीं शिवाम् |
तमश्नाति महोग्रा सा योगिनीभिः सुनिश्चितम् || १९-२५ ||

इति ते कथितं गुह्यं कवचं देवि दुर्लभम् |
अथ वक्ष्ये महेशानि गोपनीयं प्रयत्नतः || १९-२६ ||

गुप्तमन्त्रं गुप्तजापं शृणुष्व क(म)लानने |
महाशक्तिं समुद्धृत्य मातङ्गीं परमेश्वरीम् || १९-२७ ||

वह्निबीजं महेशानि बीजत्रयमुदाहृतम् |
बीजत्रयात्मकं मन्त्रं सर्वसारस्वतप्रदम् || १९-२८ ||

एकादशसहस्रं तु पुरश्चरणमिष्यते |
होमयेत् तद्दशांशेन दशांशेनैव तर्पणम् || १९-२९ ||

अभिषेकं दशांशेन भोजयेद् ब्राह्मणान् दश |
मधूनि पायसं चैव महाज्यं च महेश्वरि || १९-३० ||

जुहुयाद् भक्तिभावेन सर्वतन्त्रेषु गोपितम् |
अनेन मन्त्रराजेन साधयेत् तारिणीं शुभाम् || १९-३१ ||

ततः सिद्धो महादेवि भवत्येव महेश्वरि |
युवतीयोनिदेशे तु हस्तमारोप्य सुन्दरि || १९-३२ ||

उत्तरास्यो महेशानि भूत्वा परमसुन्दरीम् |
तारिणीं भावयेद् देवि मनसा काममोहिनीम् || १९-३३ ||

संभाव्य परमेशानि योनिमध्ये महेश्वरि |
तत्र मुखं समानीय जपेदष्टोत्तरं शतम् || १९-३४ ||

सिद्धमन्त्री महेशानि जायते नात्र संशयः |
पञ्चदिनप्रयोगेन कुबेर इव जायते || १९-३५ ||

सर्वैश्वर्ययुतो भूत्वा विहरेत् क्षितिमण्डले |
अष्टोत्तरशतं जप्यं स्तनमर्दनपूर्वकम् || १९-३६ ||

क्षिपेत् लिङ्गं योनिगर्ते लघु शीर्षे च मस्तकम् |
घाताघातेन देवेशि शुक्रमुत्सार्य सुन्दरि || १९-३७ ||

वामहस्ते तदाधाय तिलकं कारयेद् यदि |
सर्वसंपत्तिमान् भूत्वा मोदते पृथिवीतले || १९-३८ ||

राजानोऽपि च दासत्वं भजन्ते किं परे जनाः |
तस्य पादपद्मद्वन्द्वं रा(ज्ञः?ज्ञां)किरीटभूषणम् || १९-३९ ||

सभायां जायते देवि बृहस्पतिरिवापरः |
इति ते कथितं गुप्तमन्त्रजापं महाधनम् || १९-४० ||

मन्त्रराजं महादेवि कथितं नगन्दिनि |
गोपनीयं पशोरग्रे सिद्धमन्त्रं सदा शिवे || १९-४१ ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (ताराकवच गुप्तमन्त्रनिरूपणं) एकोनविंशः पटलः || १९ ||


Kapitel 20: Hundert Namen Taras und die Essenz der Lehre

श्रीदेव्युवाच |

सर्वं संसूचितं देव नाम्नां शतं महेश्वर |
यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् || २०-१ ||

पठित्वा परमेशान हठात् सिद्ध्यति साधकः |
नाम्नां शतं महादेव कथयस्व समासतः || २०-२ ||

श्रीभैरव उवाच |

शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् |
यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः || २०-३ ||

कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् |
नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् || २०-४ ||

नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः |
कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् || २०-५ ||

शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् |
सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् || २०-६ ||

तारिणी तारसंयोगा महातारस्वरूपिणी |
तारकप्राणहर्त्री च तारानन्दस्वरूपिणी || २०-७ ||

महानीला महेशानी महानीलसरस्वती |
उग्रतारा सती साध्वी भवानी भवमोचिनी || २०-८ ||

महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया |
महादानरता चण्डी चण्डासुरविनाशिनी || २०-९ ||

चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला |
एकजटा कुरङ्गाक्षी वरदाभयदायिनी || २०-१० ||

महाकाली महादेवी गुह्यकाली वरप्रदा |
महाकालरता साध्वी महैश्वर्यप्रदायिनी || २०-११ ||

मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा |
शठविज्ञा महानादा कमला बगलामुखी || २०-१२ ||

महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी |
सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी || २०-१३ ||

हिमालयसुता कन्या कन्यारूपविलासिनी |
शवोपरिसमासीना मुण्डमालाविभूषिता || २०-१४ ||

दिगम्बरा पतिरता विपरीतरतातुरा |
रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया || २०-१५ ||

स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका |
शिवप्राणा शिवरता शिवदात्री शिवासना || २०-१६ ||

अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी |
मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा || २०-१७ ||

खर्वा खर्वजनप्रीता मणिभूषितमण्डना |
किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना || २०-१८ ||

कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका |
कपालखर्परधरा पञ्चाशन्मुण्डमालिका || २०-१९ ||

हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना |
शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी || २०-२० ||

उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका |
रमेशी रमणी रम्या रामानन्दस्वरूपिणी || २०-२१ ||

रजनीकरसंपूर्णा रक्तोत्पलविलोचना (१००) |
इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि || २०-२२ ||

प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् |
सर्वासुरमहानादस्तूयमानमनुत्तमम् || २०-२३ ||

षण्मासाद् महदैश्वर्यं लभते परमेश्वरि |
भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये || २०-२४ ||

धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् |
दारार्थी प्राप्नुयाद् दारान् सर्वागम(पुरो?प्रचो)दितान् || २०-२५ ||

अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः |
सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन || २०-२६ ||

इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि |
अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः || २०-२७ ||

नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः |
प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः || २०-२८ ||

इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने |
येन विज्ञानमात्रेण विजयी भुवि जायते || २०-२९ ||

योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने |
अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च || २०-३० ||

तज्जलं तु पिबेद् देवि षण्मासं जपते यदि |
सर्वविद्यामयो भूत्वा मोदते पृथिवीतले || २०-३१ ||

शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि |
वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा || २०-३२ ||

तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि |
सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् || २०-३३ ||

शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् |
अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः || २०-३४ ||

जायते च जगत्सर्वं सस्थावरचरात्मकम् |
श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि || २०-३५ ||

साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे |
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः || २०-३६ ||

उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः |
तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् || २०-३७ ||

तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि |
भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते || २०-३८ ||

भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः |
स(तु)दुग्धाख्यसंयोगे नानात्वं लभते प्रिये || २०-३९ ||

तृणेन जायते देवि रसस्तस्मात् परो रसः |
तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः || २०-४० ||

स एव कारणं तत्र तत्कार्यं स च लक्ष्यते |
दृश्यते च महादे(व?वि)न कार्यं न च कारणम् || २०-४१ ||

तथैवायं स एवात्मा नानाविग्रहयोनिषु |
जायते च ततो जातः कालभेदो हि भाव्यते || २०-४२ ||

स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् |
स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः || २०-४३ ||

नानाध्याससमायोगादात्मना जायते शिवे |
एक एव स एवात्मा सर्वरूपः सनातनः || २०-४४ ||

अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् |
तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् || २०-४५ ||

विना घटत्वयोगेन न प्रत्यक्षो यथा घटः |
इतराद् भिद्यमानोऽपि स भेदमुपगच्छति || २०-४६ ||

मां विना पुरुषे भेदो न च याति कथञ्चन |
न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः || २०-४७ ||

न स्नानैस्तर्पणैर्वापि नच (ज्ञा?दा)नैः कदाचन |
प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् || २०-४८ ||

प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् |
प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् || २०-४९ ||

नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः |
इति ते कथितं तत्त्वं सर्वसारमनोरमम् || २०-५० ||

इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (ताराशतनाम तत्त्वसारनिरूपणं) विंशः पटलः || २० ||


Kapitel 21: Alchemie und innere Haltung

श्रीभैरव उवाच

अथ वक्ष्ये महेशानि तत्त्वसारं पुरातनम् |
येन विज्ञानमात्रेण कुबेर इव जायते || २१-१ ||

ताम्रसीसकमेतत् तु पित्तलं चापि यत्नतः |
चतुर्हस्तप्रमाणं हि गर्तं कृत्वा तु साधकः || २१-२ ||

सरलं भस्म कुर्याच्च विवर्जाङ्गारसंयुतम् |
करीषमर्धसं(युक्तं?शुष्कं)ताम्रस्योपरि पूरितम् || २१-३ ||

तापयेत् परमेशानि दिनानि सप्त चैव हि |
ततः प(रे?रं)महेशानि उत्तोल्य यत्नतः शिवे || २१-४ ||

पात्रे लोहमये देवि तमादाय महेश्वरि |
वि(वज?वर्जा)ङ्गारजैर्देवि अलातैस्तापयेद् दृढम् || २१-५ ||

द्रवीभूतं तथा ताम्रं येन जायेत सुन्दरि |
तदर्धं च रसं तत्र दद्यात् प्रयतमानसः || २१-६ ||

विजावरसकेनैव अटरूषरसेन च |
सिंहिकारसकेनाथ युक्तं कुर्याद् महेश्वरी || २१-७ ||

ततश्च स्वर्णं जायेत सत्यं सुरगणार्चिते |
मूलमन्त्रस्य जाप्येन सिद्ध्यत्येव न संशयः || २१-८ ||

सहस्रदशजापेन सिद्ध्यत्येव न संशयः |
पूर्वोक्तेन रसेनैव शुद्धसूतेन वा पुनः || २१-९ ||

संहृत्य तत्र दद्याच्च सीसकं रूप्यतां व्रजेत् |
इति ते कथितं सर्वं सर्वसारस्वतप्रदम् || २१-१० ||

प्रयोगार्हो भवेद् देवि सत्यं सत्यं वरानने |
इदानीं शृणु चार्वङ्गि सूतभस्म तथैव च || २१-११ ||

येन विज्ञानमात्रेण मंत्रसिद्धिर्भवेत् प्रिये |
सार्धहस्तप्रमाणेन गर्तं कृत्वा तु देशिकः || २१-१२ ||

हरिद्रागोमयेनाथ लेपयेत् परमेश्वरि |
ततस्तु गजमूत्रेण भस्म कुर्याद् यथाविधि || २१-१३ ||

वैजयन्त्याश्च मूलेन तथा सिद्धरसेन च |
करीषकेण देवेशि भस्मीकुर्याद् विधानतः || २१-१४ ||

शुद्धसुतं समादाय मङ्गले वासरे निशि |
ऊर्ध्वाधो लवणं दत्त्वा भस्मीभवति तत्क्षणात् || २१-१५ ||

अश्वत्थपल्लवेनैव संयुक्तं परमेश्वरि |
सूतभस्म भवत्येव परेशि नात्र संशयः || २१-१६ ||

अश्वदन्तेन देवेशि वाजिमारेण चैव हि |
संयुक्तसूतं तत्रत्यं भस्मीभवति तत्क्षणात् || २१-१७ ||

धातुना सह युक्तं तद् बद्धिभवति सुन्दरि |
पातालरसकेनैव भवेच्च स्वर्णमुत्तमम् || २१-१८ ||

आदौ च गुलिकां बद्ध्वा पश्चाद् रसेन ताडयेत् |
ततो बद्धिभवत्येव सत्यं गुरुगणार्चिते || २१-१९ ||

त्रिरात्रस्य विधानेन जपं कुर्याच्छुचिस्मिते |
ततः प्रयोगो देवेशि सिद्धो नास्त्यत्र संशयः || २१-२० ||

भावनारससंपन्नो भवेद् योगी महाकविः |
भावस्य निर्णयं देवि कथितमपि शोभने || २१-२१ ||

भावस्तु त्रिविधो देवि दिव्यवीरपशुक्रमात् |
गुरवस्तु त्रिधा ज्ञेयास्तथैव मन्त्रदेवताः || २१-२२ ||

आद्यो भावो महादेवि श्रेयान् सर्वागमेषु च |
द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः || २१-२३ ||

बहुजापात् तथा होमात् कायक्लेशादिविस्तरैः |
न भावेन बिना देवि मन्त्रविद्या फलप्रदा || २१-२४ ||

किं वीरसाधनैर्लक्षैः किं वा कृष्टिकुलाकुलैः |
किं पीठपूजनेनैव किं कन्याभोजनादिभिः || २१-२५ ||

स्वयोषित्प्रीतिदानेन किं परेषां तथैव च |
किं जितेन्द्रियभावेन किं कुलाचारकर्मणा || २१-२६ ||

यदि भावविशुद्धात्मा न स्यात् कुलपरायणः |
भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् || २१-२७ ||

भावेन गोत्रवृद्धिः स्याद् भावेन कुलसाधनम् |
किं न्यासविस्तरेणैव किं भूतशुद्धिविस्तरैः || २१-२८ ||

किं तथा पूजनेनैव यदि भावो न जायते |
शेषभावो महादे(व?वि)सर्वकर्मसुखावहः || २१-२९ ||

तेन भावेन देवेशि पूजयेत् परमेश्वरीम् |
विना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः || २१-३० ||

यत्र कुत्र कुजे वारे श्मशानगमने कृते |
पूजाफलं लभेत् तत्र सप्तवासरसंमितम् || २१-३१ ||

चतुर्दश्यां गते तत्र पक्षपुण्यफलं लभेत् |
नागते नार्चिते स्थाने पशुरेव न संशयः || २१-३२ ||

नान्यः स्यादधिको देव इति चिन्तापरायणः |
साधके क्षोभमापन्ने मम क्षोभः प्रजायते || २१-३३ ||

तस्माद् यत्नाद् भोगयुतो भवेद् वीरवरः सदा |
भोगेन मोक्षमाप्नोति भोगेन कुलसुन्दरीम् || २१-३४ ||

बिना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः |
न पूजां मानसीं कुर्याद् न ध्यानं नच चिन्तनम् || २१-३५ ||

यद्यद् वदति निद्राति यत्करोति यदर्चति |
तत् सर्वं कुलरूपं तु ध्यात्वैवं विहरेत् सुधीः || २१-३६ ||

तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् |
न चैव श्रुतिदोषोऽत्र नापराधादिदुषणम् || २१-३७ ||

एकाकी निर्जने देशे श्मशाने पर्वते वने |
शुन्यागारे नदीतीरे निःशङ्को विहरेत् सदा || २१-३८ ||

वीराणां जपकालस्तु सर्वकालः प्रशस्यते |
सर्वदेशे सर्वपीठे कर्तव्यं कुलतोषणम् || २१-३९ ||

इति विज्ञाय देवेशि सर्वं कुर्याद् वरानने |
बहुनात्र किमुक्तेन किमन्यत् कथयामि ते || २१-४० ||

इति श्रीबृहन्निलतन्त्रे भैरवीभैरवसंवादे (रसायन - भावनिरूपणं) एकविंशः पटलः || २१ ||


Kapitel 22: Tausend Namen Kalis

श्रीदेव्युवाच |

पूर्वं हि सूचितं देव कालीनामसहस्रकम् |
तद्वदस्व महादेव यदि स्नेहोऽस्ति मां प्रति || २२-१ ||

श्रीभैरव उवाच |

तन्त्रेऽस्मिन् परमेशानि कालीनामसहस्रकम् |
शृणुष्वैकमना देवि भक्तानां प्रीतिवर्द्धनम् || २२-२ ||

(ओं अस्याः श्रीकालीदेव्याः मन्त्रसहस्रनामस्तोत्रस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीकाली देवता क्री/ बीजं हू/ शक्तिः ह्री/ कीलकं धर्मार्थकाममोक्षार्थे विनियोगः) | न्यासादि,

कलिका कामदा कुल्ला भद्रकाली गणेश्वरी |
भैरवी भैरवप्रीत भवानी भवमोचिनी || २२-३ ||

कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी |
महाकालरता सूक्ंसा कौलव्रतपरायणा || २२-४ ||

कोमलाङ्गी करालाङ्गी कमनीया वराङ्गना |
गन्धचन्दनदिग्धाङ्गी सती साध्वी पतिव्रता || २२-५ ||

काकिनी वर्णरूपा च महाकालकुटुम्बिनी |
कामहन्त्री कामकला कामविज्ञा महोदया || २२-६ ||

कान्तरूपा महालक्ष्मिर्महाकालस्वरूपिणी |
कुलीना कुलसर्वस्वा कुलवर्त्मप्रदर्शिका || २२-७ ||

कुलरूपा चकोराक्षी श्रीदुर्गा दुर्गनाशिनी |
कन्या कुमारी गौरी तु कृष्णदेहा महामनाः || २२-८ ||

कृष्णाङ्गी नीलदेहा च पिङ्गकेशी कृशोदरी |
पिङ्गाक्षी कमलप्रीता काली कालपराक्रमा || २२-९ ||

कलानाथप्रिया देवी कुलकान्ताऽपराजिता |
उग्रतारा महोग्रा च तथा चैकजटा शिवा || २२-१० ||

नीला घना बलाका च कालदात्री कलात्मिका |
नारायणप्रिया सूक्ष्मा वरदा भक्तवत्सला || २२-११ ||

वरारोहा महाबाणा किशोरी युवती सती |
दीर्घाङ्गी दीर्घकेशा च नृमुण्डधारिणी तथा || २२-१२ ||

मालिनी नरमुण्डाली शवमुण्डास्थिधारिणी |
रक्तनेत्रा विशालाक्षी सिन्दूरभूषणा मही || २२-१३ ||

घोररात्रिर्महारात्रिर्घोरान्तकविनाशिनी |
नारसिंही महारौद्री नीलरूपा वृषासना || २२-१४ ||

विलोचना विरूपाक्षी रक्तोत्पलविलोचना |
पूर्णेन्दुवदना भीमा प्रसन्नवदना तथा (१००) || २२-१५ ||

पद्मनेत्रा विशालाक्षी शरज्ज्योत्स्नासमाकुला |
प्रफुल्लपुण्डरीकाभलोचना भयनाशिनी || २२-१६ ||

अट्टहासा महोच्छ्वासा महाविघ्नविनाशिनी |
कोटराक्षी कृशग्रीवा कुलतीर्थप्रस(अ)धिनी || २२-१७ ||

कुलगर्तप्रसन्नास्या महती कुलभूषिका |
बहुवाक्यामृतरसा चण्डरूपाति(रो?वे)गिनी || २२-१८ ||

वेगदर्पा विशालैन्द्री प्रचण्डचण्डिका तथा |
चण्डिका कालवदना सुतीक्ष्णनासिका तथा || २२-१९ ||

दीर्घकेशी सुकेशी च कपिलाङ्गी महारुणा |
प्रेतभूषणसंप्रीता प्रेतदोर्दण्डघण्टिका || २२-२० ||

शङ्खिनी शङ्खमुद्रा च शङ्खध्वनिनिनादिनी |
श्मशानवासिनी पूर्णा पूर्णेन्दुवदना शिवा || २२-२१ ||

शिवप्रीता शिवरता शिवासनसमाश्रया |
पुण्यालया महापुण्या पुण्यदा पुण्यवल्लभा || २२-२२ ||

नरमुण्डधरा भीमा भीमासुरविनाशिनी |
दक्षिणा दक्षिणाप्रीता नागयज्ञोपवीतिनी || २२-२३ ||

दिगम्बरी महाकाली शान्ता पीनोन्नतस्तनी |
घोरासना घोररूपा सृक्प्रान्ते - रक्तधारिका || २२-२४ ||

महाध्वनिः शिवासक्ता महाशब्दा महोदरी |
कामातुरा कामसक्ता प्रमत्ता शक्तभावना || २२-२५ ||

समुद्रनिलया देवी महामत्तजनप्रिया |
कर्षिता कर्षणप्रीता सर्वाकर्षणकारिणी || २२-२६ ||

वाद्यप्रीता महागीतरक्ता प्रेतनिवासिनी |
नरमुण्डसृजा गीता मालिनी माल्यभूषिता || २२-२७ ||

चतुर्भुजा महारौद्री दशहस्ता प्रियातुरा |
जगन्माता जगद्धात्री जगती मुक्तिदा परा || २२-२८ ||

जगद्धात्री जगत्त्रात्री जगदानन्दकारिणी |
जगज्जीवमयी हैमवती माया महाकचा || २२-२९ ||

नागाङ्गी संहृताङ्गी च नागशययासमागता |
कालरात्रिर्दारुणा च चन्द्रसूर्यप्रतापिनी (२००) || २२-३० ||

नागेन्द्रनन्दिनी देवकन्या च श्रीमनोरमा |
विद्याधरी वेदविद्या यक्षिणी शिवमोहिनी || २२-३१ ||

राक्षसी डाकिनी देवमयी सर्वजगज्जया |
श्रुतिरूपा तथाग्नेयी महामुक्तिर्जनेश्वरी || २२-३२ ||

पतिव्रता पतिरता पतिभक्तिपरायणा |
सिद्धिदा सिद्धिसंदात्री तथा सिद्धजनप्रिया || २२-३३ ||

कर्त्रिहस्ता शिवारूढा शिवरूपाअ शवासना |
तमिस्रा तामसी विज्ञा महामेघस्वरूपिणी || २२-३४ ||

चारुचित्रा चारुवर्णा चारुकेशसमाकुला |
चार्वङ्गी चञ्चला लोला चीनाचारपरायणा || २२-३५ ||

चीनाचारपरा लज्जावती जीवप्रदाऽनघा |
सरस्वती तथा लक्ष्मीर्महानीलसरस्वती || २२-३६ ||

गरिष्ठा धर्मनिरता धर्माधर्मविनाशिनी |
विशिष्टा महती माल्या तथा सौमयजनप्रिया || २२-३७ ||

भयदात्री भयरता भयानकजनप्रिया |
वाक्यरूपा छिन्नमस्ता छिन्नासुरप्रिया सदा || २२-३८ ||

ऋग्वेदरूपा सावित्री रागयुक्ता रजस्वला |
रजःप्रीता रजोरक्ता रजःसंसर्गवर्द्धिनी || २२-३९ ||

रजःप्लुता रजःस्फीता रजःकुन्तलशोभिता |
कुण्डली कुण्डलप्रीता तथा कुण्डलशोभिता || २२-४० ||

रेवती रेवतप्रीता रेवा चैरावती शुभा |
शक्तिनी चक्रिणी पद्मा महापद्मनिवासिनी || २२-४१ ||

पद्मालया महापद्मा पद्मिनी पद्मवल्लभा |
पद्मप्रिया पद्मरता महापद्मसुशोभिता || २२-४२ ||

शूलहस्ता शूलरता शूलिनी शूलसङ्गिका |
पि(णा?ना)कधारिणी वीणा तथा वीणावती मघा || २२-४३ ||

रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता |
रणप्रीता रणरता रणासुरविनाशिनी || २२-४४ ||

रणाग्रवर्तिनी (३००) राणा रणाग्रा रणपण्डिता |
जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा || २२-४५ ||

रतिप्रिया रतिरता रतिभक्ता रतातुरा |
रतिभीता रतिगता महिषासुरनाशिनी || २२-४६ ||

रक्तपा रक्तसंप्रीता रक्ताख्या रक्तशोभिता |
रक्तरूपा रक्तगता रक्तखर्परधारिणी || २२-४७ ||

गलच्छोणितमुण्डाली कण्ठमालाविभूषिता |
वृसासना वृषरता वृषासनकृताश्रया || २२-४८ ||

व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा |
कामाङ्गी परमा प्रीता परासुरनि(वा?रा)सिनी || २२-४९ ||

तरुणा तरुणप्राणा तथा तरुणमर्दिनी |
तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती || २२-५० ||

स्वप्नावती स्वप्नरता नारसिंही महालया |
अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा || २२-५१ ||

मन्दाकिनी मन्दरता महानन्दा वरप्रदा |
मानदा मानिनी मान्या माननीया मदातुरा || २२-५२ ||

मदिरा मदिरोन्मादा मदिराक्षी मदालया |
सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता || २२-५३ ||

जयप्रदा जयरता दुर्ज(या?यया)सुरनाशिनी |
दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी || २२-५४ ||

सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी |
कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया || २२-५५ ||

गुणातीता गुणप्रीता गुणरक्ता गुणात्मिका |
सगुणा निर्गुणा सीता निष्ठा काष्ठा प्रतिष्ठिता || २२-५६ ||

धनिष्ठा धनदा धन्या वसुदा सुप्रकाशिनी |
गुर्वी गुरुतरा धौम्या धौम्यासुरविनाशिनी (४००) || २२-५७ ||

निष्कामा धनदा कामा सकामा कामजीवना |
चिन्तामणिः कल्पलता तथा शङ्करवाहिनी || २२-५८ ||

शङ्करी शङ्कररता तथा शङ्करमोहिनी |
भवानी भवदा भव्या भवप्रीता भवालया || २२-५९ ||

महादेवप्रिया रम्या रमणी कामसुन्दरी |
कदलीस्तम्भसंरामा निर्मलासनवासिनी || २२-६० ||

माथुरी मथुरा माया तथा सुरभिवर्द्धिनी |
व्यक्ताव्यक्तानेकरूपा सर्वतीर्थास्पदा शिवा || २२-६१ ||

तीर्थरूपा महारूपा तथागस्त्यवधूरपि |
शिवानी शैवलप्रीता तथा शैवलवासिनी || २२-६२ ||

कुन्तला कुन्तलप्रीता तथा कुन्तलशोभिता |
महाकचा महाबुद्धिर्महामाया महागदा || २२-६३ ||

महामेघस्वरूपा च तथा कङ्कणमोहिनी |
देवपूज्या देवरता युवती सर्वमङ्गला || २२-६४ ||

सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः |
भगप्रीता भगरता भगप्रेमरता सदा || २२-६५ ||

भगसंमर्दनप्रीता भगोपरि-निवेशिता |
भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी || २२-६६ ||

दक्षकन्या महादक्षा सर्वदक्षा प्रचण्डिका |
दण्डप्रिया दण्डरता दण्डताडनतत्परा || २२-६७ ||

दण्डभीता दण्डगता दण्डसंमर्दने रता |
सुवेदिदण्डमध्यस्था बूर्भुवःस्वःस्वरूपिणी || २२-६८ ||

आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः |
क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी || २२-६९ ||

विशालावयवा मेघ्या त्रिवलीवलया शुभा |
मदोन्मत्ता मदरता मत्तासुरविनाशिनी || २२-७० ||

मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी |
चण्डरूपा महाचण्डी चण्डिका चण्डनायिका || २२-७१ ||

चण्डोग्रा चण्डवर्णा प्रचण्डा (५००) चण्डावती शिवा |
नीलाकारा नीलवर्णा नीलेन्दीवरलोचना || २२-७२ ||

खड्गहस्ता च मृद्वङ्गी तथा खर्परधारिणी |
भीमा च भीमवदना महाभीमा भयानका || २२-७३ ||

कल्याणी मङ्गला शुद्धा तथा परमकौतुका |
परमेष्ठी पररता पर(अ)त्परतरा परा || २२-७४ ||

परानन्दस्वरूपा च नित्यानन्दस्वरूपिणी |
नित्या नित्यप्रिया तन्द्री भवानी भवसुन्दरी || २२-७५ ||

त्रैलोक्यमोहिनी सिद्धा तथा सिद्धजनप्रिया |
भैरवी भैरवप्रीता तथा भैरवमोहिनी || २२-७६ ||

मातङ्गी कमला लक्ष्मीः षोडशी विषयातुरा |
विषमग्ना विषरता विषरक्षा जयद्रथा || २२-७७ ||

काकपक्षधरा नित्या सर्वविस्मयकारिणी |
गदिनी कामिनी खड्गमुण्डमालाविभूषिता || २२-७८ ||

योगीश्वरी योगमाता योगानन्दस्वरूपिणी |
आनन्दभैरवी नन्दा तथा नन्दजनप्रिया || २२-७९ ||

नलिनी ललना शुभ्रा शुभ्राननविभूषिता |
ललज्जिह्वा नीलपदा तथा सु(मु?म)खदक्षिणा || २२-८० ||

बलिभक्ता बलिरता बलिभोग्या महारता |
फलभोग्या फलरसा फलदा श्रीफलप्रिया || २२-८१ ||

फलिनी फलसंवज्रा फलाफलनिवारिणी |
फलप्रीता फलगता फलसंदानसन्धिनी || २२-८२ ||

फलोन्मुखी सर्वस्त्त्वा महासत्त्वा च सात्त्विकी |
सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी || २२-८३ ||

महारूपा महाभागा महामेघस्वरूपिणी |
भयनासा गणरता गणप्रीता महागतिः || २२-८४ ||

सद्गतिः सत्कृतिः स्वक्षा शवासनगता शुभा |
त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी || २२-८५ ||

महानन्दा सदानन्दा (६००) नित्यानित्यस्वरूपिका |
सत्यगन्धा सत्यगणा सत्यरूपा महाकृतिः || २२-८६ ||

श्मशानभैरवी काली तथा भयविमर्दिनी |
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी || २२-८७ ||

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी |
महासप्तदशी षष्ठी सप्तमी (चा)ष्टमी तथा || २२-८८ ||

नवमी दशमी देवप्रिया चैकादशी शिवा |
द्वादशी परमा दिव्या नीलरूपा त्रयोदशी || २२-८९ ||

चतुर्दशी पौर्णमासी राजराजेश्वरी तथा |
त्रिपुरा त्रिपुरेशी च तथा त्रिपुरमर्दिनी || २२-९० ||

सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोपवीतिनी |
चामरी चामरप्रीता चमरासुरमर्दिनी || २२-९१ ||

मनोज्ञा सुन्दरी रम्या हंसी च चारुहासिनी |
नितम्बिनी नितम्बाढ्या नितम्बगुरुशोभिता || २२-९२ ||

पट्टवस्त्रप(रि?री)धाना पट्टवस्त्रधरा शुभा |
कर्पूरचन्द्रवदना कुङ्कुमद्रवशोभिता || २२-९३ ||

पृथिवी पृथुरूपा सा पार्थिवेन्द्रविनाशिनी |
रत्नवेदिः सुरेशा च सुरेशी सुरमोहिनी || २२-९४ ||

शिरोमणिर्मणिग्रीवा मणिरत्नविभूषिता |
उर्वशी शमनी काली महाकालस्वरूपिणी || २२-९५ ||

सर्वरूपा महासत्त्वा रूपान्तरविलासिनी |
शिवा शैवा च रुद्राणी तथा शिवनिनादिनी || २२-९६ ||

मातङ्गिनी भ्रामरी च तथैवा(ङ्गन?नङ्ग)मेखला |
योगिनी डाकिनी चैव तथा महेश्वरी परा || २२-९७ ||

अलम्बुषा भवानी च महाविद्यौघसंभृता |
गृध्ररूपा ब्रह्मयोनिर्महानन्दा महोदया || २२-९८ ||

विरूपाक्षा महानादा चण्डरूपा कृताकृतिः |
वरारोहा महावल्ली महात्रिपुरसुन्दरी || २२-९९ ||

भगात्मिका भगाधाररूपिणी भगमालिनी |
लिङ्गाभिधायिनी देवी (७००) महामाया महास्मृतिः || २२-१०० ||

महामेधा महाशान्ता शान्तरूपा वरानना |
लिङ्गमाला लिङ्गभूषा भगमालाविभूषणा || २२-१०१ ||

भगलिङ्गामृतप्रीता भगलिङ्गामृतात्मिका |
भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी || २२-१०२ ||

स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमासना |
स्वयम्भूकुसुमरता लतालिङ्गनतत्परा || २२-१०३ ||

सुराशना सुराप्रीता सुरासवविमर्दिता |
सुरापानमहातीक्ष्णा सर्वागमविनिन्दिता || २२-१०४ ||

कुण्डगोलसदाप्रीता गोलपुष्पसदारतिः |
कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका || २२-१०५ ||

स्वयम्भवा शिवा धात्री पावनी लोकपावनी |
महालक्ष्मीर्महेशानी महाविष्णुप्रभाविनी || २२-१०६ ||

विष्णुप्रिया विष्णुरता विष्णुभक्तिपरायणा |
विष्णोर्वक्षःस्थलस्था च विष्णुरूपा च वैष्णवी || २२-१०७ ||

अश्विनी भरणी चैव कृत्तिका रोहिणी तथा |
धृतिर्मेधा तथा तुष्टिः पुष्टिरूपा चिता चितिः || २२-१०८ ||

चितिरूपा चित्स्वरूपा ज्ञानरूपा सनातनी |
सर्वविज्ञजया गौरी गौरवर्णा शची शिवा || २२-१०९ ||

भवरूपा भवपर भवानी भवमोचिनी |
पुनर्वसुस्तथा पुष्या तेजस्वी सिन्धुवासिनी || २२-११० ||

शुक्राशना शुक्रभोगा शुक्रोत्सारणतत्परा |
शुक्रपूज्या शुक्रवन्द्या शुक्रभोग्या पुलोमजा || २२-१११ ||

शुक्रार्च्या शुक्रसंतुष्टा सर्वशुक्रविमुक्तिदा |
शुक्रमूर्तिः शुक्रदेहा शुक्राङ्गी शुक्रमोहिनी || २२-११२ ||

देवपूज्या देवरता युवती सर्वमङ्गला |
सर्वप्रियङ्करी भोग्या भोगरूपा (भो?भ)गाकृतिः || २२-११३ ||

भगप्रेता भगरता भगप्रेमपरा तथा |
भगसंमर्दनप्रीता भगोपरि निवेशिता || २२-११४ ||

भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी |
दक्षकन्या महादक्षा सर्वदक्षा प्रदन्तिका (८००) || २२-११५ ||

दण्डप्रिया दण्डरता दण्डताडनतत्परा |
दण्डभीता दण्डगता दण्डसंमर्दने रता || २२-११६ ||

वेदिमण्डलमध्यस्था भूर्भुवःस्वःस्वरूपिणी |
आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः || २२-११७ ||

क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी |
विशालावयवा मेध्या त्रिवलीवलया शुभा || २२-११८ ||

मद्योन्मत्ता मद्यरता मत्तासुरविलासिनी |
मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी || २२-११९ ||

चण्डरूपा महाचण्डा चण्डिका चण्डनायिका |
चण्डोग्रा च चतुर्वर्गा तथा चण्डावती शिवा || २२-१२० ||

नीलदेहा नीलवर्णा नीलेन्दीवरलोचना |
नित्यानित्यप्रिया भद्रा भवानी भवसुन्दरी || २२-१२१ ||

भैरवी भैरवप्रीता तथा भैरवमोहिनी |
मातङ्गी कमला लक्ष्मीः षोडशी भीषणातुरा || २२-१२२ ||

विषमग्ना विषरता विषभक्ष्या जया तथा |
काकपक्षधरा नित्या सर्वविस्मयकारिणी || २२-१२३ ||

गदिनी कामिनी खड्गा मुण्डमालाविभूषिता |
योगेश्वरी योगरता योगानन्दस्वरूपिणी || २२-१२४ ||

आनन्दभैरवी नन्दा तथानन्दजनप्रिया |
नलिनी ललना शुभ्रा शुभाननविराजिता || २२-१२५ ||

ललज्जिह्वा नीलपदा तथा संमुखदक्षिणा |
बलिभक्ता बलिरता बलिभोग्या महारता || २२-१२६ ||

फलभोग्या फलरसा फलदात्री फलप्रिया |
फलिनी फलसंरक्ता फलाफलनिवारिणी || २२-१२७ ||

फलप्रीता फलगता फलसन्धानसन्धिनी |
फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विका || २२-१२८ ||

सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी |
महारूपा महाभागा महामेघस्वरूपिणी || २२-१२९ ||

भयनाशा गणरता गणगीता महागतिः |
सद्गतिः (९००) सत्कृतिः साक्षात् सदासनगता शुभा || २२-१३० ||

त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी |
महानन्दा सदानन्दा नित्या सत्यस्वरूपिणी || २२-१३१ ||

शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी |
महाशुक्रा शुक्ररता शुक्रसृष्टिविधायिनी || २२-१३२ ||

सारदा साधकप्राणा साधकप्रेमवर्द्धिनी |
साधकाभीष्टदा नित्यं साधकप्रेमसेविता || २२-१३३ ||

साधकप्रेमसर्वस्वा साधकाभक्तरक्तपा |
मल्लिका मालती जातिः सप्तवर्णा महाकचा || २२-१३४ ||

सर्वमयी सर्वशुभ्रा गाणपत्यप्रदा तथा |
गगना गगनप्रीता तथा गगनवासिनी || २२-१३५ ||

गणनाथप्रिया भव्या भवार्चा सर्वमङ्गला |
गुह्यकाली भद्रकाली शिवरूपा सतांगतिः || २२-१३६ ||

सद्भक्ता सत्परा सेतुः सर्वाङ्गसुन्दरी मघा |
क्षीणोदरी महावेगा वेगानन्दस्वरूपिणी || २२-१३७ ||

रुधिरा रुधिरप्रीता रुधिरानन्दशोभना |
पञ्चमी पञ्चमप्रीता तथा पञ्चमभूषणा || २२-१३८ ||

पञ्चमीजपसंपन्ना पञ्चमीयजने रता |
ककारवर्णरूपा च ककाराक्षररूपिणी || २२-१३९ ||

मकारपञ्चमप्रीता मकारपञ्चगोचरा |
ऋवर्णरूपप्रभवा ऋवर्णा सर्वरूपिणी || २२-१४० ||

(स?श)र्वाणी सर्वनिलया सर्वसारसमुद्भवा |
सर्वेश्वरी सर्वसारा सर्वे(षां?च्छा) सर्वमोहिनी || २२-१४१ ||

गणेशजननी दुर्गा महामाया महेश्वरी |
महेशजननी मोहा विद्या विद्योतनी विभा || २२-१४२ ||

स्थिरा च स्थिरचित्ता च सुस्थिरा धर्मरञ्जिनी |
धर्मरूपा धर्मरता धर्माचरणतत्परा || २२-१४३ ||

धर्मानुष्ठानसन्दर्भा सर्वसन्दर्भसुन्दरी |
स्वधा स्वाहा वषट्कारा श्रौषट् वौषट् स्वधात्मिका || २२-१४४ ||

ब्राह्मणी ब्रह्मसंबन्धा ब्रह्मस्थाननिवासिनी |
पद्मयोनिः पद्मसंस्था चतुर्वर्गफलप्रदा || २२-१४५ ||

चतुर्भुजा शिवयुता शिवलिङ्गप्रवेशिनी (१०००) |
महाभीमा चारुकेशी गन्धमादनसंस्थिता || २२-१४६ ||

गन्धर्वपूजिता गन्धा सुगन्धा सुरपूजिता |
गन्धर्वनिरता देवी सुरभी सुगन्धा तथा || २२-१४७ ||

पद्मगन्धा महागन्धा गन्धामोदितदिङ्मुखा |
कालदिग्धा कालरता महिषासुरमर्दिनी || २२-१४८ ||

विद्या विद्यावती चैव विद्येशा विज्ञसंभवा |
विद्याप्रदा महावाणी महाभैरवरूपिणी || २२-१४९ ||

भैरवप्रेमनिरता महाकालरता शुभा |
माहेश्वरी गजारूढा गजेन्द्रगमना तथा || २२-१५० ||

यज्ञेन्द्रललना चण्डी गजासनपराश्रया |
गजेन्द्रमन्दगमना महाविद्या महोज्ज्वला || २२-१५१ ||

बगला वाहिनी वृद्धा बाला च बालरूपिणी |
बालक्रीडारता बाला बलासुरविनाशिनी || २२-१५२ ||

बाल्यस्था यौवनस्था च महायौवनसंरता |
विशिष्टयौवना काली कृष्णदुर्गा सरस्वती || २२-१५३ ||

कात्यायनी च चामुण्डा चण्डासुरविघातिनी |
चण्डमुण्डधरा देवी मधुकैटभनाशिनी || २२-१५४ ||

ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा |
रुद्रकाली विशालाक्षी भैरवी कालरूपिणी || २२-१५५ ||

महामाया महोत्साहा महाचण्डविनाशिनी |
कुलश्रीः कुलसंकीर्णा कुलगर्भनिवासिनी || २२-१५६ ||

कुलाङ्गारा कुलयुता कुलकुन्तलसंयुता |
कुलदर्भग्रहा चैव कुलगर्तप्रदायिनी || २२-१५७ ||

कुलप्रेमयुता साध्वी शिवप्रीतिः शिवाबलिः |
शिवसक्ता शिवप्राणा महादेवकृतालया || २२-१५८ ||

महादेवप्रिया कान्ता महादेवमदातुरा |
मत्तामत्तजनप्रेमधात्री विभववर्द्धिनी || २२-१५९ ||

मदोन्मत्ता महाशुद्धा मत्तप्रेमविभूषिता |
मत्तप्रमत्तवदना मत्तचुम्बनतत्परा || २२-१६० ||

मत्तक्रिडातुरा भैमी तथा हैमवती मतिः |
मदातुरा मदगता विपरीतरतातुरा || २२-१६१ ||

वित्तप्रदा वित्तरता वित्तवर्धनतत्परा (११००) |
इति ते कथितं सर्वं कालीनामसहस्रकम् || २२-१६२ ||

सारात्सारतरं दिव्यं महाविभववर्द्धनम् |
गाणपत्यप्रदं राज्यप्रदं षट्कर्मसाधकम् || २२-१६३ ||

यः पठेत् साधको नित्यं स भवेत् संपदां पदम् |
यः पठेत् पाठयेद्वापि शृणोति श्रावयेदथ || २२-१६४ ||

न किञ्चिद् दुर्लभं लोके स्तवस्यास्य प्रसादतः |
ब्रह्महत्या सुरापानं सुवर्णहरणं तथा || २२-१६५ ||

गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् |
सर्वमेतत्पुनात्येव सत्यं सुरगणार्चिते || २२-१६६ ||

रजस्वलाभगं दृष्ट्वा पठेत् स्तोत्रमनन्यधीः |
स शिवः सत्यवादी च भवत्येव न संशयः || २२-१६७ ||

परदारयुतो भूत्वा पठेत् स्तोत्रं समाहितः |
सर्वैश्वर्ययुतो भूत्वा महाराजत्वमाप्नुयात् || २२-१६८ ||

परनिन्दां परद्रोहं परहिंसां न कारयेत् |
शिवभक्ताय शान्ताय प्रियभक्ताय वा पुनः || २२-१६९ ||

स्तवं च दर्शयेदेनमन्यथा मृत्युमाप्नुयात् |
अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि || २२-१७० ||

महाकाली महादेवी तथा नीलसरस्वती |
न भेदः परमेशानि भेदकृन्नरकं व्रजेत् || २२-१७१ ||

इदं स्तोत्रं मया दिव्यं तव स्नेहात् प्रकथ्यते |
उभयोरेवमेकत्वं भेदबुद्ध्या न तां भजेत् |
स योगी परमेशानि समो मानापमानयोः || २२-१७२ ||

इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे (कालीसहस्रनामनिरूपणं) द्वाविंशः पटलः || २२ ||


Kapitel 23: Hundert Namen Kalis

श्रीदेव्युवाच |

पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् |
नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो || २३-१ ||

श्रीभैरव उवाच |

साधु पृष्टं महादेवि अकथ्यं कथयामि ते |
न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि || २३-२ ||

प्राणाधिकप्रियतरा भवती मम मोहिनी |
क्षणमात्रं न जीवामि त्वां बिना परमेश्वरि || २३-३ ||

यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् |
तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः || २३-४ ||

शृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् |
सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च ईरितः || २३-५ ||

देवता भैरवो देवि पुरुषार्थचतुष्टये |
विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः || २३-६ ||

महाकाली जगद्धात्री जगन्माता जगन्मयी |
जगदम्बा गजत्सारा जगदानन्दकारिणी (१०) || २३-७ ||

जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी |
भैरवभाविनी भावानन्ता सारस्वतप्रदा || २३-८ ||

चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला |
भद्रकाली (२०) विशालाक्षी कामदात्री कलात्मिका || २३-९ ||

नीलवाणी महागौरसर्वाङ्गा सुन्दरी परा |
सर्वसंपत्प्रदा भीमनादिनी वरवर्णिनी || २३-१० ||

वरारोहा (३०) शिवरुहा महिषासुरघातिनी |
शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता || २३-११ ||

सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा |
कोमलाङ्गी विधात्री च विधातृवरदायिनी (४०) || २३-१२ ||

पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी |
कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा || २३-१३ ||

मत्ताङ्गी मदनप्रीता मदाघूर्णितलोचना (५०) |
मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी || २३-१४ ||

नरमुण्डस्रजा देवी खड्गहस्ता भयानका |
अट्टहासयुता पद्मा पद्मरागोपशोभिता || २३-१५ ||

वराभयप्रदा (६०) काली कालरात्रिस्वरूपिणी |
स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा || २३-१६ ||

शरत्ज्योत्स्ना च संह्लादा विपरीतरतातुरा |
मुक्तकेशी (७०) छिन्नजटा जटाजूटविलासिनी || २३-१७ ||

सर्पराजयुताभीमा स(र्व?र्प)राजोपरि स्थिता |
श्मशानस्था म्हानन्दिस्तुता संदीप्तलोचना || २३-१८ ||

शवासनरता नन्दा सिद्धचारणसेविता (८०) |
बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी || २३-१९ ||

गायत्री चैव सावित्री महानीलसरस्वती |
लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता || २३-२० ||

व्याघ्रचर्मावृता (९०) मेध्या त्रिवलीवलयाञ्चिता |
गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा || २३-२१ ||

पवित्रा परमा माया महामाया महोदया (१००) |
इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि || २३-२२ ||

यः पठेत् प्रातरुत्थाय स तु विद्यानिधिर्भवेत् |
इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् || २३-२३ ||

तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः |
खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये || २३-२४ ||

ते सर्वे वशमायान्ति साधकस्य हि नान्यथा |
नाम्नां वरं महेशानि परित्यज्य सहस्रकम् || २३-२५ ||

पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् |
अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि || २३-२६ ||

भजते यो महकालीं सिद्धिर्नास्ति कलौ युगे |
प्रपठेत् प्रयतो भक्त्या तस्य पुण्यफलं शृणु || २३-२७ ||

लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् |
बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति || २३-२८ ||

इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे (कालीशतनामनिरूपणं) त्रयोविंशः पटलः || २३ ||


Kapitel 24: Annada und die Einheit der Göttin

Annapurna, die nährende und fürsorgliche Göttin.

श्रीदेव्युवाच |

देवेदेव महादेव सृष्टिस्थित्यन्तकारक |
यदुक्तमन्नदाकल्पे तद्वदस्व समाहितः || २४-१ ||

अन्नदायाः परं मन्त्रं विशेषं कथयामि ते |
इति मे कथितं भद्र तद्वदस्व समाहितः || २४-२ ||

श्रीभैरव उवाच |

यथा काली तथा नीला तथा चैवान्नदा शिवे |
एतासां मन्त्रमेतस्मिन् कथितं परमेश्वरि || २४-३ ||

एका मूर्तिस्त्रिधा भूत्वा जगतां हितकारिणी |
अन्नदायाः परं कल्पं कथितं तव सुन्दरि || २४-४ ||

मन्त्रराजं महादेवि शृणुष्वैकमनाः प्रिये |
[अन्नवर्णं महादेवि महिकारसमन्वितम् | न्नं वर्णं चैव मे देहि स्वराद्येन विभूषितम् || २४-अनाधिलोहितं देवि तये पदसमन्वितम् | ममान्नं पदमीशानि प्रदापय पदं ततः || २४-इति तन्त्रान्तरोक्तो मन्त्रः ||] जृम्भणान्तं त्यक्तपर्श्वं यात्रावारणरोहकम् || २४-५ ||

वामाक्षिसंयुतं देवि बिन्दुसंयुतमुत्तमम् |
प्रथमं बीजमेतद्धि कथितं परमेश्वरि || २४-६ ||

ततश्च लोहितं देवि स्वराद्येन विभूषितम् |
अन्नवर्णं महादेवि मकारैकारसंयुतम् || २४-७ ||

नान्नवर्णं महादेवि स्वराद्येन विभूषितम् |
ततश्च परमेशानि त्रिपदं सर्वगोपनम् || २४-८ ||

मन्त्रं गुप्तं महेशानि वह्निजायावधिस्थितम् |
मन्त्रमेतन्महेशानि हठात् सिद्धिप्रदायकम् || २४-९ ||

ध्यानपूजादिकं सर्वं कथितं पूर्वकल्पके |
शतनाम प्रवक्ष्यामि सर्वसारस्वतप्रदम् || २४-१० ||

बिना येन महादेवीमन्नदां भजते नरः |
शतवर्षसहस्रेण तस्य सिद्धिर्न जायते || २४-११ ||

तस्मात् सर्वप्रयत्नेन सावधानावधारय |
नाम्नां सहस्रं कथितं परमं तव सुन्दरि || २४-१२ ||

इदानीं शृणु देवेशि अन्नदाशतनामकम् |
यस्मात् परतरं नास्ति तन्त्रमध्ये महेश्वरि || २४-१३ ||

अन्नदा परमा माया महादेवी शिवप्रिया |
भवानी जगतामाद्या प्राणदा प्राणवल्लभा || २४-१४ ||

जगज्जीवमयी (१०) गौरी त्रयी वेदमयी परा |
काशीपुरनिवासा च काशीपुरविनाशिनी || २४-१५ ||

कैलासनिलया काली कल्पज्ञा कल्पदा (२०) शुभा |
महादेवप्रपूज्या च महादेवरतातुरा || २४-१६ ||

पायसान्नप्रिया देवी पीनोन्नतपयोधरा |
त्रिवलीवलयोपेता नयनोत्तमसत्तमा || २४-१७ ||

अन्नपात्रधृतानन्ता (३०) अन्नवेषनतत्परा |
गङ्गा गया विशालाक्षी विशालरूपयौवना || २४-१८ ||

मदोन्मत्ता स्वरूपाङ्गी पूर्णचन्द्रनिभानना |
शिवप्राणा शिवरता (४०) सदाशिवमहाघना || २४-१९ ||

महादेवप्रिया साध्वी सती कामालसा प्रिया |
कोमलाङ्गी कामकला कला काष्ठा (५०) यशस्विनी || २४-२० ||

प्रफुल्लपद्मवदना तथा पद्मालया शिवा |
भवानी भवनप्रीता पद्मासनसमाश्रया || २४-२१ ||

वेष्टिता सिद्धगन्धर्वैः संस्तुता ऋषिभिस्तथा |
शिवेन सह संविष्टा (६०) शिवक्रीडनतत्परा || २४-२२ ||

युवती यौवनप्रीता नित्ययौवनतत्परा |
सदा षोडशवर्षीया सदाशिवमनोरमा || २४-२३ ||

चारुरूपधरा चारुवक्त्रा चारुपराक्रमा |
चार्वङ्गी (७०) कनकाङ्गी च कनकोपरिसंस्थिता || २४-२४ ||

अन्नपूर्णा सदापूर्णा भूषणा स्वर्णकङ्कणा |
भक्तप्राणा भक्तरता भक्तभोजनतत्परा || २४-२५ ||

आज्यप्रिया (८०) विरूपाक्षी काकपक्षधरा शुभा |
शुभदा शोभना शुद्धा निष्कला परमागतिः || २४-२६ ||

दीनप्रिया दीनरता (९०) दीनभोजनतत्परा |
साधकप्रेमसंपन्ना साधकाभीतिदायिनी || २४-२७ ||

साधकैः सह संविष्टा साधकप्रेमतोषिता |
साधकानन्ददात्री च साधकप्रेमगोचरा || २४-२८ ||

जगद्धात्री जगत्त्रात्री जगतां जयकारिणी (१००) |
इति ते कथितं दिव्यमन्नपूर्णाशतं शुभम् || २४-२९ ||

यः पठेत् प्रातरुत्थाय स भवेत् परमेश्वरः |
दरिद्रो लभते देवि सर्वसंपत्तिमेव च || २४-३० ||

अरोगी जायते सुभ्रु! सर्वशास्त्रार्थविद्भवेत् |
अन्नचिन्ता तस्य वंशे न जायते सुरेश्वरि || २४-३१ ||

स भवेत् परमेशानि त्रैलोक्यविजयी प्रभुः |
वन्ध्यापि लभते पुत्रं कन्या विन्दति सत्पतिम् || २४-३२ ||

पठनाद्धारणाद् वापि नरो सर्वमयो भवेत् |
गुह्याद् गुह्यतरं स्तोत्रं सर्वतन्त्रेषु गोपितम् || २४-३३ ||

तव स्नेहाद् वरारोहे प्रकाशितमिदं पुरः |
न प्रकाश्यं महादेवि न प्रकाश्यं कदाचन || २४-३४ ||

मद्भक्ताय महेशानि प्रकाशमुपपादय |
व्यासादयो वशिष्ठाद्याः सर्वे च तदुपासकाः || २४-३५ ||

एकान्नपूर्णा देवेशि रूपभेदादनेकधा |
काली तारा महाविद्या चान्नदा परमेश्वरी || २४-३६ ||

एता विद्या महादेवि सिद्धविद्याः कलौ युगे |
अनेकजन्मसौभाग्याद् यद्येताः परमेश्वरि || २४-३७ ||

प्राप्नुवन्ति वरारोहे तेषां पुण्यफलं शृणु |
यदि भाग्यवशेनैव एतासां सदुपासकः || २४-३८ ||

स कविः सच विज्ञानी सच साधकसत्तमः |
एतन्मन्त्रग्रहादेव सिद्धो भवति मानवः || २४-३९ ||

एतन्मन्त्रं समादाय धर्मकामार्थमुक्तिषु |
नासाध्यं मेनिरे देवि साधकाः वीतमत्सराः || २४-४० ||

ऐश्वर्येण महादेवि कुबेर इव जायते |
य एताः पूजयेन्नित्यं प्रत्यहं भक्तिभावतः || २४-४१ ||

तस्यैवज्ञाकराः सर्वे सिद्धयोष्टौ भवन्ति हि |
तस्यैव धनसंपत्तिं दृष्ट्वैव परमेश्वरि || २४-४२ ||

इन्द्रोऽपि परमेशानि तिरस्कृत इवापरः |
तस्यैव जननी धन्या पिता तस्य सुरोत्तमः || २४-४३ ||

संप्रदायविदां वक्त्राद् य एता वेत्ति तत्त्वतः |
एतासां ज्ञानमात्रेण कुलकोतीः समुद्धरेत् || २४-४४ ||

नन्दन्ति पितरः सर्वे गाथां गायन्ति ते मुदा |
अपि चास्मत्कुले कश्चित् कुलज्ञानी भविष्यति || २४-४५ ||

एष्टव्या बहवः पुत्रा यद्यप्येकः कुलं वसेत् |
किं गयापिण्डदानेन किं काशीगमनेन च || २४-४६ ||

यदि भाग्यवशेनैव कालीं सरस्वतीं शिवे |
अन्नपूर्णां महादेवीं पूजयति गृहाङ्गने || २४-४७ ||

स ब्राह्मणः स वेदज्ञः स वशी सच साधकः |
स तीर्थवासी पीठानां चतुर्थाश्रमिणो यथा || २४-४८ ||

स संन्यासी महायोगी जीवन्मुक्तो भविष्यति |
पापं पुण्यं महादेवि तस्य नास्ति वरानने || २४-४९ ||

हिंसादिजनितो दोषो नास्त्येव वरवर्णिनि |
अपि चेत् त्वत्समा नारी मत्समः पुरुषो यदि || २४-५० ||

एतासां सिद्धविद्यानां समो मन्त्रोऽस्ति वै तदा |
मन्त्रं संत्यज्य चान्येषां एतन्मन्त्रं समाश्रयेत् || २४-५१ ||

कोटीनां तिसृणां मध्ये तन्त्रसारं प्रकाशितम् |
यदुक्तं परमेशानि तत्कर्तव्यमहर्निशम् || २४-५२ ||

एतत् तन्त्रं महेशानि यद्गृहे तिष्ठति प्रिये |
मत्सांनिध्यं महेशानि तत्र तिष्ठति निश्चितम् || २४-५३ ||

सर्वविद्या भवत्येव संशयो नास्ति कश्चन |
ऐश्वर्यं रोगराहित्यं सदा भवति तद्गृहे || २४-५४ ||

अहं शिवः परात्मा च विमाता तु महेश्वरी |
सर्वमेव महेशानि कथितं दुर्लभं शिवे || २४-५५ ||

इति श्रीबृहन्नीलतन्त्रे सर्वतन्त्रोत्तमोत्तमे भैरवभैरवीसंवादे (अन्नदामन्त्रोद्धारशतनामतन्त्रमाहात्म्यनिरूपणं) चतुर्विंशः पटलः || २४ ||

समाप्तं चेदं श्रीबृहन्नीलतन्त्रम् |

पञ्चाङ्कनन्दशशि (१९९५) संमितवैक्रमेऽब्दे श्रीनीलतन्त्रकमशेषसुतन्त्रसारम् |
श्रीभैरवागममहाब्धिमहार्घरत्नं संस्कृत्य शुद्धिपदपाठसुमीलनाद्यैः || १ ||

प्राचीनहस्तलिखितानपि जीर्णभूयो ग्रन्थान् प्रयत्नवशतोऽनुविधृत्य लब्धान् |
औदार्यवीर्यसुभगत्वगुणस्फुरच्छ्री- राजाधिराज हरिसिंहनृपानुशिष्ट्या || २ ||

उच्चैः पदाधिकृतिभाजन काकजाति- श्रीरामचन्द्रविबुधाधिकृतिप्रबन्धे |
संपाद्य शास्त्रि शिवनाथसहायभाजा प्राकाशि शास्त्रिहरभट्ट विपश्चितेदम् || ३ ||

Seminare

Kundalini Yoga

30.10.2026 - 01.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Arjuna Wingen
13.11.2026 - 15.11.2026 Kundalini Yoga Mittelstufe

Intensives Kundalini Yoga Seminar zur Erweckung der inneren Kundalini Energie, Erweiterung des Bewusstseins und Entfaltung des vollen Potentials. Yoga A…
Manuel Hirning

Weitere Seminare zu Yoga, Meditation und spiritueller Praxis.

Textgrundlage und Hinweise zur Lesung

Grundlage ist die elektronische Sanskritausgabe des Muktabodha Indological Research Institute, Katalognummer M00116, in lateinischer Umschrift und Devanagari; Revision vom 17. September 2008. Als Herausgeber nennt der Datensatz Madhusudan Kaul, als Erscheinungsjahr 1941 und als Erscheinungsort Srinagar. Die elektronische Transkription entstand unter Aufsicht von Mark S. G. Dyczkowski.

Die elektronische Vorlage trägt die Lizenz Creative Commons Namensnennung – Nicht kommerziell 4.0. Dieser Herkunfts- und Lizenzhinweis gilt insbesondere für die übernommenen Sanskrittexte. Bearbeitungen umfassen die Wiki-Gliederung, Entfernung gedruckter Seitenverweise, typographische Zeilenumbrüche und, in der Devanagari-Ausgabe, die Darstellung der Ziffern in indischer Schrift. Eine neue kritische Edition wird damit nicht beansprucht.

Die Schriftfassungen stimmen in der Folge der Kapitel und Versmarkierungen überein. Dies belegt keine unabhängige Bestätigung jeder Lesart. Beide enthalten dieselben auffälligen Schreibungen, Varianten und Lücken. Varianten in eckigen Klammern sowie unsichere Ergänzungen in runden Klammern bleiben im Sanskrit erhalten. Angaben wie »kha pāṭhaḥ« bezeichnen eine Lesart der mit »kha« bezeichneten Textgrundlage. Mit Punkten angezeigte Lücken bleiben offen; insbesondere sind 11.58 und 11.92 nur teilweise überliefert, und bei 11.3 wird bereits in der Vorlage eine Lücke vermerkt.

Kapitel 17 enthält einen als »7« statt »17-7« bezeichneten Vers. Zwischen 17.64 und 17.66 steht erneut die Nummer »17-35«; sie wird in der Zuordnung der deutschen Übersetzung als 17.65 geführt, während die ursprüngliche Schlussnummer erhalten bleibt. Die Nummer 17.81 ist nicht vorhanden; aus dem Nummernsprung allein lässt sich kein sicherer Textverlust folgern. Diese Ausgabe enthält 2.838 Übersetzungen nummerierter Texteinheiten und 14 gekennzeichnete Inhaltsangaben. Insgesamt sind 2.852 mit einer Versschlussnummer versehene Texteinheiten vorhanden, einschließlich des verkürzt nummerierten Verses 17.7. Daneben stehen unnummerierte Formeln, Übergangszeilen, Kolophone und drei Schlussverse der Herausgeberüberlieferung.

Die Verse 6.31–44 verbinden ausdrücklich genannte Minderjährige mit sexualisierten Ritualhandlungen. Diese Passage wird in beiden Schriftfassungen nicht wörtlich wiedergegeben; an ihre Stelle treten gekennzeichnete, nichtgrafische Inhaltsangaben. Die Nummerierung bleibt erhalten.

Die deutsche Übersetzung erhält ansonsten auch ungewöhnliche Angaben und widersprüchliche Aussagen. Unsicherheiten werden an der jeweiligen Stelle benannt. Buchstabenrätsel zur Gewinnung von Mantras werden nicht ohne ausreichenden Beleg zu vollständigen Rezitationsformeln ergänzt. Technische Schlüsselwörter wie Vidya, Kula oder Bhava haben mehrere Bedeutungen; ihre Wiedergabe folgt dem jeweiligen Zusammenhang. Die Bedeutungen von Vidya reichen von Wissen über Mantra bis zur Göttin als Mantramacht.

Die als »tausend Namen« bezeichnete Kali-Hymne setzt in 22.146 eine Zählmarke 1000 und endet in 22.162 mit der Marke 1100. Der traditionelle Titel bleibt erhalten; die Namenszählung wird nicht stillschweigend korrigiert. Die drei editorischen Schlussverse nennen das Vikrama-Jahr 1995 und weitere an der Ausgabe Beteiligte. Diese Angabe steht neben dem Erscheinungsjahr 1941 der elektronischen Katalogbeschreibung.

Einleitende Deutungen und heutige Praxisanregungen sind von den Aussagen des übersetzten Textes zu unterscheiden. Bei traditionellen Fruchtverheißungen bleibt der religiöse Aussagecharakter maßgeblich.