Shakta Pramoda Sanskrit Devanagari Teil 2
Shakta Pramoda Sanskrit Devanagari Teil 2 führt die Sanskritausgabe aus Shakta Pramoda Sanskrit Devanagari Teil 1 fort. Er enthält die Werkabschnitte 10–17: Kamalātmikā, Kumārī, Balidāna und Homa, Durgā, Śiva, Gaṇeśa, Sūrya und Viṣṇu sowie den anschließenden Werkabschluss. Damit reicht die Devanagari-Lektüre von der letzten Mahāvidyā bis zu den abschließenden Verehrungstexten der Sammlung.
Die Umschrift und deutsche Inhaltserschließung zu Kamalātmikā stehen in Textteil 2, diejenigen zu den folgenden Abschnitten in Shakta Pramoda Teil 3. Die Kamalā-Andacht und die Anleitungen zu Gaṇeśa, Śiva und Durgā verbinden ausgewählte Gebete mit konkreten Handlungen.
Die Seite dient der Textlektüre in Devanagari. Ungewöhnliche Lesungen und technische Zeichen der elektronischen Vorlage werden dokumentarisch bewahrt. Bei der Mantrapraxis sind die jeweiligen Quellenhinweise und Voraussetzungen der konkreten Anleitung zu beachten.
Textausgabe: Hauptartikel: Kālī bis Chinnamastā · Textteil 2: Bhairavī bis Kamalā · Textteil 3: Kumārī bis Viṣṇu
Sanskrit in Devanagari: Devanagari 1: Kālī bis Mātaṅgī · Devanagari 2: Kamalā bis Viṣṇu
Praxisanleitungen: Rituale 1: Kālī und Tārā · Rituale 2: Kamalā und Mātaṅgī · Rituale 3: Gaṇeśa, Śiva und Durgā
Alle Artikel der Kategorie Shakti Pramoda
Passende Text- und Praxisabschnitte
| Gegenstand | Sanskrit in IAST | Sanskrit in Devanagari | Ausgearbeitete Praxis |
|---|---|---|---|
| Kamalātmikā | IAST: Kamalātmikā | Devanagari: Kamalātmikā | Ritualanleitung |
| Kumārī | IAST: Kumārī | Devanagari: Kumārī | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Balidāna und Homa | IAST: Balidāna und Homa | Devanagari: Balidāna und Homa | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Durgā | IAST: Durgā | Devanagari: Durgā | Ritualanleitung |
| Śiva | IAST: Śiva | Devanagari: Śiva | Ritualanleitung |
| Gaṇeśa | IAST: Gaṇeśa | Devanagari: Gaṇeśa | Ritualanleitung |
| Sūrya | IAST: Sūrya | Devanagari: Sūrya | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Viṣṇu | IAST: Viṣṇu | Devanagari: Viṣṇu | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
Sanskrit in Devanagari
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
दशमं
कमलात्मिकातन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मजखेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
अथ कमलात्मिकातन्त्रम्
अथ कमलात्मिकाध्यानम्
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्ब्भिर्ग्गजै-
र्हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् |
बिभ्राणा/ व्वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्षौमाबद्धनितम्बबिम्बललिता/ व्वन्देऽरविन्दस्थिताम् || १ ||
प्. ३५४) अथ यन्त्रोद्धारः
अनुक्तकल्पे यन्त्रन्तु लिखेत्पद्मन्दलाष्टकम् ||
षट्कोणकर्णिकन्तत्र वेदद्वारोपशोभितम् ||
अथ मन्त्रोद्धारः
तारम्पूर्वं ल्लिखित्वा परमलममल/ व्वाग्भवम्बीजमन्य-
ल्लज्जाश्रीबीजपूर्व/ व्वशकरणतमङ्कामबीजम्परस्तात् ||
ह्सौः पश्चाद्योजनीयं सुयुतमथ जगत्पूर्विकायाः प्रसूत्या
ङेन्तं रूपन्नमोन्तन्निखिलमनुविदैर्मन्त्रमुक्तं रमायाः ||
अथ मन्त्रः
ओं ऐंह्रींश्रींक्लींह्सौः जगत्प्रसूत्यै नमः ||
अथ पूजाप्रयोगः
प्रातः कृत्यादि पीठन्यासान्तङ्कर्म विधाय
हृत्पद्मस्थपूर्वकेसरेषु मध्ये च पीठशक्तीः पीठमनुञ्च न्यसेत् ||
ओं विभूत्यैनमः, एवम् उन्नत्यै० कान्त्यै० सृष्ट्यै० कीर्त्यै० सन्नत्यै०
व्युष्ट्यै० उत्कृष्ट्यै० ऋद्ध्यै० | ततः श्रीकमलासनायनमः इत्यासन/
व्विन्यस्य ऋष्यादिन्यासङ्कुर्यात् | शिरसि भृगुऋषयेनमः, मुखे
निचृच्छन्दसेनमः, हृदि श्रियै देवतायै नमः | ततः कराङ्गन्यासौ
कुर्यात् | श्रां-अङ्गुष्ठाभ्यान्नमः, श्रींतर्ज्जनीभ्यांस्वाहा,
श्रूंमध्यमाभ्या/ व्वषट् इत्यादि ||
प्. ३५५) एवं श्रांहृदयायनम इत्यादिना च न्यसेत् || तथा च निबन्धे ||
अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् || ततो ध्यानम् ||
कान्त्या काञ्चनसन्निभां
हिमगिरिप्रख्यैश्चतुर्ब्भिर्गजैर्हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यम्
आनां श्रियम् | बिभ्राणा/ व्वरमब्जयुग्ममभयं हस्तैः
किरीटोज्ज्वलाङ्क्षौमाबद्धनितम्बललिता/ व्वन्देऽरविन्दस्थिताम् ||
एवन्ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनङ्कुर्यात् || ततः
पीठपूजा/ व्विधाय केसरेषु मध्ये च विभूत्यादि
पीठमन्वन्तपूजा/ व्विधाय पुनर्द्ध्यात्वा आवाहनादि
पञ्चपुष्पाञ्जलिदानपर्यन्त/ व्विधाय | आवरणपूजामारभेत् ||
अग्न्यादि केसरेषु मध्ये दिक्षु च श्रांहृदयायनमः || इत्यादिना
सम्पूज्य दिग्दलेषु पूर्वादिषु || ओंवासुदेवायनमः, एवं
सङ्कर्षणाय० प्रद्युम्नाय० अनिरुद्धाय० विदिग्दलेषु ओं दमकाय०
ओंसलिलाय० ओंगुग्गुलाय० ओंकुरण्टकाय० || ततो देव्या दक्षिणे
ओंशङ्खनिधये नमः एव/ व्वसुधायैनमः वामे ओंपद्मनिधये०
ओंवसुमत्यै० पत्राग्रेषु पूर्वादितः ओंबलाकायैनमः एवं विमलायै०
वनमालिकायै० बिभीषिकायै० तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ||
ततो धूपादि विसर्ज्जनान्तङ्कर्म समापयेत् || अस्य
पुरश्चरणन्द्वादशलक्षजपः || तथा च
भानुलक्षञ्जपेन्मन्त्रन्दीक्षितो विजितेन्द्रियः || तत्सहस्रञ्च
जुहुयात्कमलैर्मधुराप्लुतैः || जपान्ते जुहुयान्मन्त्री तिलैर्वा
मधुरालुप्तैः || बिल्वैः फलैर्वा जुहुयात्त्रिभिर्वा साधकोत्तमः || इति
पूजाप्रयोगः ||
अथ स्तोत्रम्
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे |
यथा त्वमचला कृष्णे तथा भव मयि स्थिरा || १ ||
ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया |
पद्मा पद्मालया सम्यगुच्चैः श्रीपद्मधारिणी || २ ||
प्. ३५६) द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य यः पठेत् |
स्थिरा लक्ष्मीर्ब्भवेत्तस्य पुत्रदारादिभिः सह || ३ ||
इति श्रीकमलात्मिकास्तोत्रं समाप्तम् ||
अथ कवचम्
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् |
यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः || १ ||
नार्च्चनन्तस्य देवेशि मन्त्रमात्रञ्जपेन्नरः |
स भवेत्पार्वतीपुत्रः सर्वशास्त्रविशारदः || २ ||
विद्यार्थिनां सदा विद्या धनदातृ विशेषतः |
धमार्त्थिभिस्सदा सेव्या कमला विष्णुवल्लभा || ३ ||
अस्याश्चतुरक्षरीविष्णुवल्लभायाः कवचस्य भगवान्
ऋषिरनुष्टुप्छन्दो वाग्भवी शक्तिर्देवता वाग्भवं बीजं
लज्जारमाकीलकं कामबीजात्मकङ्कवचं मम सुपाण्डित्यकवित्व-
सर्वसिद्धिसमृद्धये विनियोगः ||
ऐंकारो मस्तके पातु वाग्भवी सर्वसिद्धिदा |
ह्रीं पातु चक्षुषोर्मध्ये चक्षुययुग्मे च शाङ्करी || ४ ||
जिह्वायाम्मुखवृत्ते च कर्णयोर्दन्तयोर्नसि |
ओष्ठाधरे दन्तपङ्क्तौ तालुमूले हनौ पुनः || ५ ||
पातु मा/ व्विष्णुवनिता लक्ष्मीः श्रीविष्णुरूपिणी ||६ ||
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती |
हृदये मणिबन्धे च ग्रीवायाम्पार्श्वयोः पुनः || ७ ||
पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा |
उपस्थे च नितम्बे च नाभौ जङ्घाद्वये पुनः || ८ ||
जानुचक्रे पदद्वन्द्वे घुटिकेऽङ्गुलिमूलके |
स्वधातुप्राणशक्त्यात्मसीमन्ते मस्तके पुनः || ९ ||
विजया पातु भवने जया पातु सदा मम |
सर्वाङ्गे पातु कामेशी महादेवी सरस्वती || १० ||
तुष्टिः पातु महामाया उत्कृष्टिः सर्वदावतु |
ऋद्धिः पातु महादेवी सर्वत्र शम्भुवल्लभा || ११ ||
वाग्भवी सर्वदा पातु पातु मां हरगेहिनी |
रमा पातु सदा देवी पातु माया स्वराट्स्वयम् || १२ ||
सर्वाङ्गे पातु मां ल्लक्ष्मीर्विष्णुमाया सुरेश्वरी |
प्. ३५३) शिवदूती सदा पातु सुन्दरी पातु सर्वदा || १३ ||
भैरवी पातु सर्वत्र भेरुण्डा सर्वदावतु |
त्वरिता पातु मान्नित्यमुग्रतारा सदावतु || १४ ||
पातु माङ्कालिका नित्यङ्कालरात्रिः सदावतु |
नवदुर्गा सदा पातु कामाक्षी सर्वदावतु || १५ ||
योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम |
मात्राः पान्तु सदा देव्यश्चक्रस्था योगिनीगणाः || १६ ||
सर्वत्र सर्वकार्येषु सर्वकर्मषु सर्वदा |
पातु मान्देवदेवी च लक्ष्मीः सर्वसमृद्धिदा || १७ ||
इति ते कथितं दिव्यङ्कवचं सर्वसिद्धये |
यत्र तत्र न वक्तव्य/ ययदीच्छेदात्मनो हितम् || १८ ||
शठाय भक्तिहीनाय निन्दकाय महेश्वरी |
न्यूनाङ्गे चातिरिक्ताङ्गे दर्शयेन्न कदाचन || १९ ||
न स्तवन्दर्शयेद्दिव्यं सन्दर्श्य शिवहा भवेत् |
कुलीनाय महेच्छाय दुर्गाभक्तिपराय च || २० ||
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् |
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा || २१ ||
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् |
शनौ मङ्गलवारे च रक्तचन्दनकैस्तथा || २२ ||
यावकेन लिखेन्मन्त्रं सर्वतन्त्रसमन्वितम् |
विलिख्य कवचन्दिव्यं स्वयम्भुकुसुमैः शुभैः || २३ ||
स्वशुक्रैः परशुक्रैर्वा नानागन्धसमन्वितैः |
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा || २४ ||
सुतिथौ शुभयोगे वा श्रवणायां रवेर्द्दिने |
अश्विन्याङ्कृत्तिकाया/ व्वा फल्गुन्या/ व्वा मघासु च || २५ ||
पूर्वभाद्रपदायोगे स्वात्याम्मङ्गलवासरे |
विलिखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये || २६ ||
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः |
इन्द्रयोगे शुभे योगे शुक्रयोगे तथैव च || २७ ||
कौलवे बालवे चैव वणिजे चैव सत्तमः |
शून्यागारे श्मशाने च विजने च विशेषतः || २८ ||
कुमारीम्पूजयित्वाऽदौ यजेद्देवीं सनातनीम् |
मत्स्यैर्मांसैः शाकसूपैः पूजयेत्परदेवताम् || २९ ||
प्. ३५८) घृताद्यैः सोपकरणैः पूपसूपैर्विशेषतः |
ब्राह्मणान्भोजयित्वा च पूजयेत्परमेश्वरीम् || ३० ||
अखेटकमुपाख्यानं तत्र कुर्याद्दिनत्रयम् |
तधाधरन्महाविद्यां शङ्करेण प्रभाषिताम् || ३१ ||
मारणद्वेषणादीनि लभते नात्र संशयः |
स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः || ३२ ||
गुरुर्द्देवो हरः साक्षात्पत्नी तस्य हरप्रिया |
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः || ३३ ||
पठति य इह मार्त्त्यो नित्यमार्द्द्रान्तरात्मा जपफलमनुमेय/ ल्लप्स्यते
यद्विधेयम् |
स भवति
पदमुच्चैस्सम्पदाम्पादनम्रक्षितिपमुकुटलक्ष्मीर्ल्लक्षणानाञ्चिरा
य || ३४ ||
इति विश्वसारतन्त्रे कमलात्मिकाकवचं समाप्तम् ||
अथ हृदयम्
आद्यादिश्रीमहालक्ष्मीहृदयमालामन्त्रस्य भार्गव ऋषिः |
आद्यादिश्रीमहालक्ष्मीर्देवता | अनुष्टुबादिनानाछन्दांसि | श्री/
बीजम् ह्रीं शक्तिः | ऐं कीलकम् |
आद्यादिमहालक्ष्मीप्रसादसिद्ध्यर्त्थं जपे विनियोगः ||
अथ न्यासः
ओं भार्गवऋषयेनमः शिरसि | अनुष्टुबादिनानाछन्दोभ्योनमः मुखे
| आद्यादिश्रीमहालक्ष्म्यै देवतायै नमो हृदये | श्रींबीजायनमः
गुह्ये | ह्रींशक्तयेनमः पादयोः | ऐंकीलकायनमः सर्वाङ्गे ||
अथ करन्यासः
ओं श्रीं-अङ्गुष्ठाभ्यान्नमः | ओंह्रींतर्ज्जनीभ्यान्नमः |
ओं-ऐंमध्यमाभ्यान्नमः | ओं श्रीं-अनामिकाभ्यान्नमः |
ओंह्रींकनिष्ठिकाभ्यान्नमः | ओं-ऐंकरतलकरपृष्ठाभ्यान्नमः |
ओंश्रींहृदयायनमः ओंह्रींशिरसेस्वाहा ओं-ऐंशिखायैवषट्
ओंश्रींकवचायहूम् ओंह्रींनेत्रत्रयायवौषट् ओं-ऐं-अस्त्रायफट्
ओंश्रींह्रीं-ऐं इतिदिग्बन्धः ||
अथ ध्यानम्
हस्तद्वयेन कमले धारयन्तीं स्वलीलया |
हारनूपुरस/ययुक्ता/ ल्लक्ष्मीन्देवीं व्विचिन्तये ||
इति ध्यात्वा सम्पूज्य ||
शङ्खचक्रगदाहस्ते शुभ्रवर्णे सुवासिनी |
मम देहि वर/ ल्लक्ष्मि सर्वसिद्धिप्रदायिनि |
प्. ३५९) इति सम्प्रार्त्थ्य ऽओं श्रींह्रीं-ऐं महालक्ष्म्यै कमलधारिण्यै
सिंहवाहिन्यै स्वाहाऽ इति मन्त्रञ्जपित्वा पुनः पूर्ववद्धृदयादि
षडंगन्यासं कृत्वा स्तोत्रम्पठेत् ||
तदित्थम् ||
वन्दे लक्ष्मीम्परशिवमयीं
शुद्धजाम्बूनदाभान्तेजोरूपाङ्कनकवसनां
सर्वभूषोज्ज्वलांगीम् |
बीजापूरङ्कनककलशं हेमपद्मन्दधानामाद्यां शक्तिं
सकलजननीं व्विष्णुवामाङ्कसंस्थाम् || १ ||
श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् |
सर्वकामफलावाप्तिसाधनैकसुखावहाम् || २ ||
स्मरामि नित्यन्देवेशि त्वया प्रेरितमानसः |
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् || ३ ||
समस्तसम्पत्सुखदाम्महाश्रियं समस्तसौभाग्यकरीम्महाश्रियम्
|
समस्तकल्याणकरीम्महाश्रियम्भजाम्यहं
ज्ञानकरीम्महाश्रियम् || ४ ||
विज्ञानसम्पत्सुखदां सनातनीं व्विचित्रवाग्भूतिकरीम्मनोहराम् |
अनन्तसामोदसुखप्रदायिनीन्नमाम्यहम्भूतिकरीं हरिप्रियाम् || ५ ||
समस्तभूतान्तरसंस्थिता त्वं समस्तभोक्त्रीश्वरि विश्वरूपे |
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु त्वत्पादपद्मम्प्रणमाम्यहं श्रीः || ६ ||
दारिद्र्यदुःखौघतमोपहन्त्रि त्वत्पादपद्मम्मयि सन्निधत्स्व |
दीनार्त्तिविच्छेदनहेतुभूतैः कृपाकटाक्षैरभिषिञ्च मां श्रीः || ७ ||
अम्ब प्रसीद करुणासुधयार्द्द्रदृष्ट्या
मान्त्वत्कृपाद्रविणगेहमिमङ्कुरुष्व |
आलोकय प्रणतहृद्गतशोकहन्त्रि त्वत्पादपद्मयुगलम्प्रणमाम्यहम्
श्रीः || ८ ||
शान्त्यै नमोस्तु शरणागतक्षणायै कान्त्यै नमोस्तु
कमनीयगुणाश्रयायै |
क्षान्त्यै नमोस्तु दुरितक्षयकारणायै धात्र्यै नमोस्तु
धनधान्यसमृद्धिदायै || ९ ||
शक्त्यै नमोस्तु शशिशेखरसंस्तुताय रत्यै नमोऽस्तु
रजनीकरसोदरायै |
भक्त्यै नमोस्तु भवसागरतारकायै मत्यै नमोऽस्तु
मधुसूदनवल्लभायै || १० ||
लक्ष्म्यै नमोस्तु शुभलक्षणलक्षितायै सिद्ध्यै नमोस्तु
शिवसिद्धसुपूजितायै |
प्. ३६०) धृत्यै नमोस्त्वमितदुर्गतिभञ्जनायै गत्यै नमोस्तु
वरसद्गतिदायकायै || ११ ||
देव्यै नमोस्तु दिवि देवगणार्च्चितायै भूत्यै नमोस्तु
भुवनार्त्तिविनाशनायै |
दात्र्यै नमोस्तु धरणीधरवल्लभायै पुष्ट्यै नमोऽस्तु
पुरुषोत्तमवल्लभायै || १२ ||
सुतीव्रदारिद्र्यविदुःखहन्त्र्यै नमोऽस्तु ते सर्वभयापहर्त्र्यै |
श्रीविष्णुवृक्षस्थलसंस्थितायै नमो नमस्सर्वविभूतिदायै || १३ ||
जयतु जयतु लक्ष्मीर्लक्षणालंकृताङ्गी जयतु जयतु पद्मा
पद्मसद्माभिवन्द्या |
जयतु जयतु विद्या विष्णुवामाङ्कसंस्था जयतु जयतु
सम्यक्सर्वसम्पत्करी श्रीः || १४ ||
जयतु जयतु देवी देवसङ्घाभिपूज्या जयतु जयतु भद्रा भार्गवी
भाग्यरूपा |
जयतु जयतु नित्या निर्मलज्ञानवेद्या जयतु जयतु सत्या
सर्वभूतान्तरस्था || १५ ||
जयतु जयतु रम्या रत्नगर्ब्भान्तरस्था जयतु जयतु शुद्धा
शुद्धजाम्बूनदाभा |
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी जयतु जयतु शान्ता
शीघ्रमागच्छ सौम्ये || १६ ||
यस्याः कलाद्याः कमलोद्भवाद्या रुद्राश्च शक्रप्रमुखाश्च
देवाः |
जीवन्ति सर्वा अपि शक्तयस्ताः प्रभुत्वमाप्ताः परमायुषस्ते || १७ ||
लिलेख निटिले विधिर्म्मम लिपि/ व्विसृज्यान्तरन्त्वया विलिखितव्यमेतदिति
तत्फलप्राप्तये |
तदन्तरफले स्फुटङ्कमलवासिनी श्रीरिमां समर्पय समुद्रिकां
सकलभाग्संसूचिकाम् || १८ ||
कलया ते यथा देवि जीवंति सचराचराः |
तथा सम्पत्करे लक्ष्मि सर्वदा सम्प्रसीद मे || १९ ||
यथा विष्णुर्द्ध्रुवे नित्यं स्वकलां सन्न्यवेशयत् |
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय || २० ||
सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे |
अचलाङ्कुरु यत्नेन कलाम्मयि निवेशिताम् || २१ ||
मुदास्ताम्मद्भाले परमपदलक्ष्मीः स्फुटकला सदा
वैकुण्ठश्रीर्न्निवसतु कला मे नयनयोः |
प्. ३६१) वसेत्सत्ये लोके मम वचसि लक्ष्मीवरकलाश्रियश्श्वेतद्वीपे
निवसतु कला मे स्वकरयोः || २२ ||
तावन्नित्यम्ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् |
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रिया || २३ ||
सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता |
आद्यादिश्रीमहालक्ष्मि त्वत्कला मयि तिष्ठतु || २४ ||
अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका |
सर्वैश्वर्यप्रदा मेस्तु त्वत्कला मयि स/स्थिता || २५ ||
अलक्ष्मीं हरतु क्षिप्रन्तमः सूर्यप्रभा यथा |
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता || २६ ||
ऐश्वर्यमङ्गलोत्पत्तिस्त्वत्कला यान्निधीयते |
मयि तस्मात्कृतार्त्थोऽस्मि पात्रमस्मि स्थितेस्तव || २७ ||
भवदावेशभाग्यार्हो भाग्यवानस्मि भार्ग्गवि |
त्वत्प्रसादात्पवित्रोह/ ल्लोकमातर्न्नमोस्तु ते || २८ ||
पुनासि मान्त्वङ्कलयैव यस्मादतः समागच्छ ममाग्रतस्त्वम् |
परम्पदं श्रीर्ब्भव सुप्रसन्ना मययच्युतेन प्रविशादिलक्ष्मि || २९ ||
श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः |
नारायणेन सह मां कृपादृष्ट्यावलोकय || ३० ||
सत्यलोकस्थिते लक्ष्मि त्वम्ममागच्छ सन्निधिम् |
वासुदेवेन सहिता प्रसीद वरदा भव || ३१ ||
श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते |
विष्णुना सहिते देवि जगन्मातः प्रसीद मे || ३२ ||
क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ स-माधवे |
त्वत्कृपादृष्टिसुधया सततम्मा/ व्विलोकय || ३३ ||
रत्नगर्ब्भस्थिते लक्ष्मि परिपूर्णहिरण्मयि |
समागच्छ समागच्छ स्थित्वाशु पुरतो मम || ३४ ||
स्थिरा भव महालक्ष्मि निश्चला भव निर्म्मले |
प्रसन्ने कमले देवि प्रसन्नहृदया भव || ३५ ||
श्रीधरे श्रीमहाभूते त्वदन्तः-स्थम्महानिधिम् |
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय || ३६ ||
वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि |
त्वत्कुक्षिगतसर्वस्वं शीघ्रम्मे सम्प्रदर्शय || ३७ ||
प्. ३६२) विष्णुप्रिये रत्नगर्ब्भे समस्तफलदे शिवे |
त्वद्गर्भगतहेमादीन्सम्प्रदर्शय दर्शय || ३८ ||
रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः |
न जाने परमं रूपम्मातर्मे सम्प्रदर्शय || ३९ ||
आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः |
मा वत्स भैरिहेत्युक्त्वा कामङ्गौरिव रक्ष माम् || ४० ||
देवि शीघ्रं समागच्छ धरणीगर्ब्भसंस्थिते |
मातस्त्वद्भृत्यभृत्योहम्मृगये त्वाङ्कुतूहलात् || ४१ ||
उत्तिष्ठ जागृहि त्वम्मे समुत्तिष्ठ सुजागृहि |
अक्षयान्हेमकलशान्सुवर्णेन सुपूरितान् || ४२ ||
निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः |
समुन्नतानना भूत्वा समाधेहि धरान्तरात् || ४३ ||
मत्सन्निधिं समागच्छ मदाहितकृपारसात् |
प्रसीद श्रेयसान्दोग्ध्रि लक्ष्मि मे नयनाग्रतः || ४४ ||
अत्रोपविश लक्ष्मि त्वं स्थिरा भव हिरण्मयि |
सुस्थिरा भव सम्प्रीत्या प्रसीद वरदा भव || ४५ ||
आनीय त्वन्तथा देवि निधीन्मे सम्प्रदर्शय |
अद्य क्षणेन सहसा दत्वा संरक्ष मां सदा || ४६ ||
मयि तिष्ठ तथा नित्य/ ययथेन्द्रादिषु तिष्ठसि |
अभयङ्कुरु मे देवि महालक्षि नमोऽस्तु ते || ४७ ||
समागच्छ महालक्ष्मि शुद्धजाम्बूनदप्रभे |
प्रसीद पुरतः स्थित्वा प्रणतम्मा/ व्विलोकय || ४८ ||
लक्ष्मि भुवङ्गता भासि यत्र यत्र हिरण्मयी |
तत्र तत्र स्थिता त्वम्मे तव रूपम्प्रदर्शय || ४९ ||
क्रीडसे बहुधा भूमौ परिपूर्णहिरण्मयी |
मम मूर्द्धनि ते हस्तमविलम्बितमर्पय || ५० ||
फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनि |
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे || ५१ ||
अयोध्यादिषु सर्वेषु नगरेषु समास्थिते |
वैभवैर्विविधैययुक्ता समागच्छ बलान्विते || ५२ ||
समागच्छ समाअच्छ ममाग्रे भव सुस्थिरा |
करुणारसनिष्यन्दनेत्रद्वयविलासिनी || ५३ ||
सन्निधत्स्व महालक्ष्मि त्वत्पाणिम्मम मस्तके |
प्. ३६३) करुणासुधया मान्त्वमभिषिञ्च स्थिरीकुरु || ५४ ||
सर्वराजगृहे लक्ष्मि समागच्छ मुदान्विते |
स्थित्वाशु पुरतो मेऽद्य प्रसादेनाभयङ्कुरु || ५५ ||
सादरम्मस्तके हस्तम्मम त्वङ्कृपयार्पय |
सर्वराजगृहे लक्ष्मि त्वत्कला मयि तिष्ठतु || ५६ ||
आद्यादिश्रीमहालक्ष्मि विष्णुवामाङ्कसंस्थिते |
प्रत्यक्षङ्कुरु मे रूपं रक्ष मां शरणागतम् || ५७ ||
प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे |
अचला भव सम्प्रीत्या सुस्थिरा भव मद्गृहे || ५८ ||
यावत्तिष्ठन्ति वेदाश्च यावत्त्वन्नाम तिष्ठति |
यावद्विष्णुश्च यावत्त्वन्तावत्कुरु कृपाम्मयि || ५९ ||
चान्द्री कला यथा शुक्ले वर्द्धते सा दिने दिने |
तथा दया ते मययेव वर्द्धतामभिवर्द्धताम् || ६० ||
यथा वैकुण्ठनगरे यथा वै क्षीरसागरे |
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह || ६१ ||
योगिनां हृदये नित्य/ ययथा तिष्ठसि विष्णुना |
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह || ६२ ||
नारायणस्य हृदये भवती यथास्ते नारायणोपि तव हृत्कमले यथास्ते
|
नारायणस्त्वमपि नित्यमुभौ तथैव तौ तिष्ठतां हृदि ममापि
दयावति श्रीः || ६३ ||
विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिङ्कुरु मे गृहे श्रीः
|
दया सुवृद्धिङ्कुरुताम्मयि श्रीस्सुवर्णवृद्धिङ्कुरु मे गृहे श्रीः || ६४
||
न मान्त्यजेथाः श्रितकल्पवल्लि सद्भक्तचिन्तामणिकामधेनो |
विश्वस्य मातर्ब्भव सुप्रसन्ना गृहे कलत्रेषु च पुत्रवर्गे || ६५ ||
आद्यादिमाये त्वमजाण्डबीजन्त्वमेव साकारनिराकृतिस्त्वम् |
त्वया धृताश्चाब्जभवाण्डसङ्घाञ्चित्रञ्चरित्रन्तव देवि विष्णोः ||
६६ ||
ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः |
महिमानन्तव स्तोतुम्मन्दोऽहं शक्नुयाङ्कथम् || ६७ ||
अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च |
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् || ६८ ||
प्. ३६४) भवतीं शरणङ्गत्वा कृतार्त्थाः स्युः पुरातनाः |
इति सञ्चिन्त्य मनसा त्वामहं शरण/ व्व्रजे || ६९ ||
अनन्ता नित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः |
इति वेदप्रमाणाद्धि देवि त्वा/ शरण/ व्व्रजे || ७० ||
तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् |
इति सञ्चिन्त्य सञ्चित्य प्राणान्सन्धारयाम्यहम् || ७१ ||
त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते |
यावत्सम्पूर्णकामः स्यात्तावद्देहि दयानिधे || ७२ ||
क्षणमात्रन्न शक्नोमि जीवितुन्त्वत्कृपा/ व्विना |
न जीवन्तीह जलजा जलन्त्यक्त्वा जलग्रहाः || ७३ ||
यथा हि पुत्रवात्सल्याञ्जननी प्रस्नुतस्तनी |
वत्सन्त्वरितमागत्य सम्प्रीणयति वत्सला || ७४ ||
यदि स्यान्तव पुत्रोऽहम्माता त्व/ ययदि मामकी |
दयापयोधरस्तन्यसुधाभिरभिषिञ्च माम || ७५ ||
मृग्यो न गुणलेशोपि मयि दोषैकमन्दिरे |
पांसूना/ व्वृष्टिबिन्दूनान्दोषाणाञ्च न मे मितिः || ७६ ||
पापिनामहमेवाग्र्यो दयालूनान्त्वमग्रणीः |
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये || ७७ ||
विधिनाहन्न सृष्टश्चेन्न स्यात्तव दयालुता |
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः || ७८ ||
कृपा मदग्रजा किन्ते अहङ्कि/ व्वा तदग्रजः |
विचार्य देहि मे वित्तन्तव देवि दयानिधे || ७९ ||
माता पिता त्वङ्गुरुसद्गतिः श्रीस्त्वमेव सञ्जीवनहेतुभूता |
अन्यन्न मन्ये जगदेकनाथे त्वमेव सर्वम्मम देवि सत्ये || ८० ||
आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्री |
अज्ञानहन्त्री त्रिगुणातिरिक्ता प्रज्ञाननेत्री भव सुप्रसन्ना || ८१ ||
अशेषवाग्जाड्यमलापहन्त्री नवन्नवं स्पष्टसुवाक्प्रदायिनी |
ममेह जिह्वाग्रसुरङ्गनर्त्तकी भव प्रसन्ना वदने च मे श्रीः || ८२ ||
समस्तसम्पत्सु विराजमाना समस्ततेजश्चयभासमाना |
विष्णुप्रिये त्वम्भव दीप्यमाना वाग्देवता मे नयने प्रसन्ना || ८३ ||
प्. ३६५) सर्वप्रदर्श्शे सकलार्त्थदे त्वम्प्रभासुलावण्यदयाप्रदोग्ध्री
|
सुवर्णदे त्वं सुमुखी भव श्रीर्हिरण्मयी मे नयने प्रसन्ना || ८४ ||
सर्वार्त्थदा सर्वजगत्प्रसूतिःसर्वेश्वरी सर्वभयापहन्त्री |
सर्वोन्नता त्वं सुमुखीभव श्रीर्हिरण्मयी मे नयने प्रसन्ना || ८५ ||
समस्तविघ्नौघविनाशकारिणी समस्तभक्तोद्धरणे विचक्षणा |
अनन्तसौभाग्यसुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना || ८६ ||
देवि प्रसीद दयनीयतमाय मह्यन्देवाधिनाथ भव
देवगणाभिवन्द्ये |
मातस्तथैव भव सन्निहिता दृशोर्म्मे पत्या समम्मम मुखे भव
सुप्रसन्ना || ८७ ||
मा वत्स भैरभयदानकरोऽर्पितस्ते मौलौ ममेति मम
दीनदयानुकम्पे |
मातः समर्पय मुदा करुणाकटाक्षम्माङ्गल्यबीजमिह नः सृज
जन्म मातः || ८८ ||
कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः करः सुरतरुः सदा
नवनिधिस्त्वमेवेन्दिरे |
भवेत्तव दयारसो मम रसायनञ्चान्वहम्सुखन्तव
कलानिधिर्विविधवाञ्छितार्त्थप्रदम् || ८९ ||
यथा रसस्पर्शनतोऽयसोपि सुवर्णता स्यात्कमले तथा ते |
कटाक्षसंस्पर्शनतो जनानाममङ्गलानामपि मङ्गलन्त्वम् || ९० ||
देहीति नास्तीति वचः प्रवेशाद्भीतो रमे त्वां शरणम्प्रपद्ये |
अतः सदास्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि || ९१ ||
कल्पद्रुमेण मणिना सहिता सुरम्या श्रीस्ते कला मयि रसेन रसायनेन |
आस्ता/ ययतो मम च दृक् शिरपाणिपादस्पृष्टाः सुवर्णवपुषः
स्थिरजङ्गमाः स्युः || ९२ ||
आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मयि सन्निधेहि |
आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् || ९३ ||
आद्यादिलक्ष्मीहृदयम्पठेद्यः स राज्यलक्ष्मीमचलान्तनोति |
महादरिद्रोपि भवेद्धनाढ्यस्तदन्वये श्रीः स्थिरताम्प्रयाति || ९४ ||
यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा |
तस्याभीष्टन्ददात्याशु तम्पालयति पुत्रवत् || ९५ ||
प्. ३६६) इदं रहस्यं हृदयं सर्वकामफलप्रदम् |
जपः पञ्चसहस्रन्तु पुरश्चरणमुच्यते || ९६ ||
त्रिकालमेककाल/ व्वा नरो भक्तिसमन्वितः |
यः पठेच्छृणुयाद्वापि स याति परमां श्रियम् || ९७ ||
महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे |
इदं श्रीहृदयञ्जप्त्वा पञ्चवारन्धनी भवेत् || ९८ ||
अनेन हृदयेनान्नङ्गर्ब्भिण्या अभिमन्त्रितम् |
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् || ९९ ||
नरेण वाथवा नार्या लक्ष्मीहृदयमन्त्रिते |
जले पीते च तद्वंशे मन्दभाग्यो न जायते || १०० ||
य अश्विने मासि च शुक्लपक्षे रमोत्सवे सन्निहितैकभक्त्या |
पठेत्तथैकोत्तरवारवृद्ध्या लभेत्स सौवर्णमयीं सुवृष्टिम् || १०१ ||
य एकभक्तोन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी |
स मन्दभाग्योपि रमाकटाक्षाद्भवेत्सहस्राक्षशताधिकश्रीः || १०२
||
श्रीशाङ्घ्रिभक्तिं
हरिदासदास्यम्प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् |
गुरोः स्मृतिन्निर्मलबोधबुद्धिम्प्रदेहि मातः परम्पमदं श्रीः || १०३
||
पृथ्वीपतित्वम्पुरुषोत्तमत्व/ व्विभूतिवास/ व्विविधार्त्थसिद्धिम् |
सम्पूर्णकीर्त्तिम्बहु वर्षभोगं प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् ||
१०४ ||
वादार्त्थसिद्धिम्बहुलोकवश्य/ व्वयः स्थिरत्व/ ल्ललनासुभोगम् |
पौत्रादिलब्धिं सकलार्त्थसिद्धिम्प्रदेहि मे भार्गवि जन्म जन्मनि || १०५
||
सुवर्णवृद्धिङ्कुरु मे गृहे श्रीर्विभूतिवृद्धिङ्कुरु मे गृहे श्रीः || १०६
||
अथ शिरोबीजम् ||
ओंयंहंकंलंपं
श्रीध्यायेल्लक्ष्मीम्प्रहसितमुखीङ्कोटिबालार्कभासा/
व्विद्युद्वर्णाम्बरवरधराम्भूषणाढ्यां सुशोभाम् |
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रम्भर्त्त्रा
युक्ताम्मुहुरभयदाम्मह्यमप्यच्युतश्रीः || १०७ ||
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतञ्जपम् |
सिद्धिर्ब्भवतु मे देवि त्वत्प्रसादान्मयि स्थिता || १०८ ||
इति श्रीअथर्वणरहस्ये लक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ||
प्. ३६७) अथोपनिषत्
अथ लोकान् पर्यटन्सनत्कुमारोह वैदे हः पुण्यचित्ता/ ल्लोकानतीत्य
वैष्णवन्धाम दिव्यगणोपेत/
व्विद्रुमवेदिकामणिमुक्तागणार्च्चितम्प्राप |
तत्रापश्यन्महामायाम्परार्द्ध्यवस्त्राभरणोत्तरीयाम्पर्यङ्कस्थ
अम्पारे चरन्तीमादिदेवम्भगवन्तम्परमेश्वरन्दृष्ट्वा च
ताङ्गद्गदवाक्प्रफुल्लरोमा स्तोतुमुपचक्रमे ||
वाचम्मे दिशतु श्रीर्देवी मनो मे दिशतु वैष्णवी |
ओजस्तेजो बलन्दाक्ष्यम्बुद्धेर्वैभवमस्तु मे ||
त्वत्प्रसादाद्भगवति प्रज्ञानम्मे ध्रुवम्भवेत् |
शन्नो दिशतु श्रीर्द्दैवी महामाया वैष्णवीशक्तिराद्या
यामासाद्य स्वयमादिदेवो भगवान्परावरज्ञस्त्रिधासम्भिन्नो
लोकांस्त्रीन्सृजत्यवत्यत्ति च |
यद्भ्रूविक्षेपबलमापन्नो ह्यब्जयोनिस्तदितरे चामरा मुख्याः
सृष्टिचक्रप्रणेतारस्सम्बभूवुः || या वै वरदा स्वोपाया सुप्रसन्ना
सुखयति सहस्रपुरुषान् ये लोकाः सन्ततमानमन्ति शिरसा हृअदये न च
तामेका/ल्लोकपूज्यान्न ते दुर्ग्गति/ ययान्ति भूताः |
अथ महत्या स/व्वृद्ध्या साम्राज्येन पुत्रैः पौत्रैरन्वितो भूमिपृष्ठे
शतं समास्त इज्याभिरिष्ट्वा देवान् पितॄन् मनुष्यानथ
भूरिदक्षिणाभिस्त्वत्प्रसादान्महान्तो गच्छन्ति वैष्णव/
ल्लोकमपुनर्ब्भवाय ये राजर्षयो ब्रह्मर्षयस्तेपि
चासत्कृत्त्वाम्प्रागसन्त एव सुखमामनन्ति नान्यः पन्था
विद्यतेऽयनाय किम्पुनरिहादिदेवो
भगवान्नारायणस्त्वामाधिदेवाखिलङ्करोति कि/ व्वर्णये त्वां
सहस्रकृत्वो नमस्ते य इमा ऋचः पठन्ति प्रातरुत्थाय
भूरिदानतेषाङ्किञ्चिदिह यावशिष्ट/
ययदैश्वर्यन्दुर्ल्लभम्प्राणिनां हि |
इति कमलात्मिकोपनिषत्समाप्ता ||
प्. ३६८) अथ श्रीसूक्तम्
ओं हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् |
चन्द्रां हिरण्मयी/ ल्लक्ष्मीञ्जातवेदो ममावह || १ ||
ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् |
यस्यां हिरण्य/ व्विन्देयङ्गामश्वम्पुरुषानहम् || २ ||
अश्वपूर्णां रथमध्यां हस्तिनादप्रमोदिनीम् |
श्रियन्देवीमुपह्वये श्रीर्मा देवी जुषताम् || ३ ||
कां सोस्मि तां हिरण्यप्राकारामार्द्राञ्ज्वलन्तीन्तृप्तान्तर्पयन्तीम् |
पद्मे स्थिताम्पद्मवर्णान्तामिहोपह्वये श्रियम् || ४ ||
चन्द्राम्प्रभासा/ ययशसा ज्वलन्तीं श्रिय/ ल्लोके देवजुष्टामुदाराम् |
ताम्पद्मनेमिं शरणमहम्प्रपद्ये अलक्ष्मीर्मे नश्यतान्त्वा/
व्वृणोमि ||५ ||
आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः |
तस्य फलानि तपसा नुदन्तु मायान्तरा याश्च बाह्या अलक्ष्मीः || ६ ||
उपैतु मान्देवसखः कीर्त्तिश्च मणिना सह |
प्रादुर्भूतोसि राष्ट्रेऽस्मिन्कीर्त्ति/ व्वृद्धिन्ददातु मे || ७ ||
छुत्पिपासामला ज्येष्ठा अलक्ष्मीर्न्नाशयाम्यहम् |
अभूतिमसमृद्धिञ्च सर्वान्निर्णुद मे गृहात् || ८ ||
गन्धद्वारान्दुराधर्षान्नित्यपुष्टाङ्करीषिणीम् |
ईश्वरीं सर्वभूतानान्तामिहोपह्वये श्रियम् || ९
मनसः काममाकूति/ व्वाचः सत्यमशीमहि |
षशूनां रूपमन्नस्य मयि श्रीः श्रयतां ययशः || १० ||
कर्द्दमेन प्प्रजाभूता मयि सम्भ्रमकर्द्दम |
श्रिय/ व्वासय मे कुले मातरम्पद्ममालिनीम् || ११ ||
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे |
निचदेवीम्मातरं श्रिय/ व्वासय मे कुले || १२ ||
आर्द्राम्पुष्पकरिणीम्पुष्टिं सुवर्णां हेममालिनीम् |
सूर्यां हिरण्मयी/ ल्लक्ष्मीञ्जातवेदो ममावह || १३ ||
आर्द्रा/ ययः करणी/ ययष्टीम्पिङ्गलाम्पद्ममालिनीम् |
चन्द्रां हिरण्मयी/ ल्लक्ष्मीञ्जातवेदो ममावह || १४ ||
ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् |
प्. ३६९) यस्यां हिरण्यम्प्रभूतङ्गावो
दास्योश्वान्विन्देयम्पुरुषानहम् || १५ ||
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् |
श्रियः पञ्चदशर्च्चञ्च श्रीकामः सततञ्जपेत् || १६ ||
इति श्रीसूक्तम् ||
अथाष्टोत्तरशतनामस्तोत्रम्
श्रीशिव उवाच
शतमष्टोत्तरन्नाम्नाङ्कमलाया वरानने |
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् || १ ||
महामाया महालक्ष्मीर्महावाणी महेश्वरी |
महादेवी महारात्रिर्महिषासुरमर्द्दिनी || २ ||
कालरात्रिः कुहूः पूर्णा नन्दाद्या भद्रिका निशा |
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी || ३ ||
शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा |
महावाराहजननी मदनोन्मथिनी मही || ४ ||
वैकुण्ठनाथरमणी विष्णुवक्षस्स्थलस्थिता |
विश्वेश्वरी विश्वमाता वरदा भयदा शिवा || ५ ||
शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी |
गदिनी मुण्डमाला च कमला करुणालया || ६ ||
पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी |
गोलोकनाथरमणी गोलोकेश्वरपूजिता || ७ ||
गया गङ्गा च यमुना गोमती गरुडासना |
गण्डकी सरयू तापी रेवा चैव पयस्विनी || ८ ||
नर्म्मदा चैव कावेरी केदारस्थलवासिनी |
किशोरी केशवनुता महेन्द्रपरिवन्दिता || ९ ||
ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता |
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी || १० ||
श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा |
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका || ११ ||
त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी |
तरुणी च तमोहन्त्री मङ्गला मङ्गलायना || १२ ||
मधुकैटभमथनी शुम्भासुरविनाशिनी |
निशुम्भादिहरा माता हरिशङ्करपूजिता || १३ ||
सर्वदेवमयी सर्वा शरणागतपालिनी |
शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी || १४ ||
प्. ३७०) गन्धर्वगानरसिका गीता गोविन्दवल्लभा |
त्रैलोक्यपालिनी तत्त्वरूप-तारुण्यपूरिता || १५ ||
चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता |
चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा || १६ ||
सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी |
इति ते कथितन्देवि रमानाम शताष्टकम् || १७ ||
त्रिसन्ध्यम्प्रयतो भूत्वा पठेदेतत्समाहितः |
यं यं कामयते कामन्तन्तम्प्राप्नोत्यसंशयः || १८ ||
इमं स्तवं यः पठतीह मर्त्यो वैकुण्ठपत्न्याः परमादरेण |
धनाधिपाद्यैः परिवंदितः स्यात्प्रयास्यति श्रीपदमन्तकाले || १९ ||
इति कमलाया अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ||
अथ सहस्रनाम
ओं तामाह्वयामि सुभगां लक्ष्मीन्त्रैलोक्यपूजिताम् |
एह्येहि देवि पद्माक्षि पद्माकरकृतालये || १ ||
आगच्छागच्छ वरदे पश्य मां स्वेन चक्षुषा |
आयाह्यायाहि धर्मार्थकाममोक्षमये शुभे || २ ||
एव/ विधैः स्तुतिपदैः सत्यैस्सत्यार्थसंस्तुता |
कनीयसी महाभागा चन्द्रेण परमात्मना || ३ ||
निशाकरश्च सा देवी भ्रातरौ द्वौ पयोनिधेः |
उत्पन्नमात्रौ तावास्तां शिवकेशवसंश्रितौ || ४ ||
सनत्कुमारस्तमृषिं समाभाष्य पुरातनम् |
प्रोक्तवानितिहासन्तु लक्ष्म्याः स्तोत्रमनुत्तमम् || ५ ||
अथेदृशान्महाघोराद्दारिद्र्यान्नरकात्कथम् |
मुक्तिर्भवति लोकेऽस्मिन्दारिद्र्यं ययाति भस्मताम् || ६ ||
सनत्कुमार उवाच
पूर्वङ्कृतयुगे ब्रह्मा भगवान्सर्वलोककृत् |
सृष्टिन्नानाविधाङ्कृत्वा पश्चाच्चिन्तामुपेयिवान् || ७ ||
किमाहाराः प्रजास्त्वेताः सम्भविष्यन्ति भूतले |
किमत्र चासान्दारिद्र्यात्कथमुत्तारणम्भवेत् || ८ ||
दारिद्र्यान्मरणं श्रेयस्त्विति सञ्चिन्त्य चेतसि |
क्षीरोदस्योत्तरे कूले जगाम कमलोद्भवः || ९ ||
तत्र तीव्रन्तपस्तप्त्वा कदाचित् परमेश्वरम् |
प्. ३७१) ददर्श पुण्डरीकाक्ष/ व्वासुदेवञ्जगद्गुरुम् || १० ||
सर्वज्ञं सर्वशक्तीनां सर्वावासं सनातनम् |
सर्वेश्वर/ व्वासुदेवं विष्णु/ ल्लक्ष्मीपतिम्प्रभुम् || ११ ||
सोमकोटिप्रतीकाशं क्षीरोदविमले जले |
अनन्तभोगशयनं विश्रान्तं श्रीनिकेतनम् || १२ ||
कोटिसूर्यप्रतीकाशम्महायोगेश्वरेश्वरम् |
योगनिद्रारतं श्रीशं सर्वावासं सुरेश्वरम् || १३ ||
जगदुत्पत्तिसंहार-स्थितिकारणकारणम् |
लक्ष्म्यादिशक्तिकरणञ्जातमण्डलमण्डितम् || १४ ||
आयुधैर्देहवद्भिश्च चक्राद्यैः परिवारितम् |
दुर्न्निरीक्ष्यं सुरैः सिद्धैर्महायोगिशतैरपि || १५ ||
आधार सर्वशक्तिनाम्परन्तेजः सुदुस्सहम् |
प्रभुद्धन्देवमीशानन्दृष्ट्वा कमलसम्भवः || १६ ||
शिरस्यञ्जलिमाधाय स्तोत्रम्पूर्वमुवाच ह |
मनोवाञ्छितसिद्धिन्त्वम्पूरयस्व महेश्वर || १७ ||
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन |
नमस्तेस्तु हृसीकेश महापुरुषपूर्वज || १८ ||
सर्वेश्वर जयानन्द सर्वावास परात्पर |
प्रसीद मम भक्तस्य च्छिन्धि सन्देहजन्तमः || १९ ||
एवं स्तुतः स भगवान्ब्रह्मणाऽव्यक्तजन्मना |
प्रासादाभिमुखः प्राह हरिर्विश्रान्तलोचनः || २० ||
श्रीभगवानुवाच
हिरण्यगर्ब्भ तुष्टोस्मि ब्रूहि यत्तेऽभिवाञ्छितम् |
तद्वक्ष्यामि न सन्देहो भक्तोसि मम सुव्रत || २१ ||
केशवाद्वचनं श्रुत्वा करुणाविष्टचेतनः |
प्रत्युवाच महाबुद्धिर्ब्भगवन्तञ्जनार्दनम् || २२ ||
चतुर्विधभवस्यास्य भूतसर्गस्य केशव |
परित्राणाय मे ब्रूहि रहस्यम्परमाद्भुतम् || २३ ||
दारिद्र्यशमनन्धन्यम्मनोज्ञम्पावनम्परम् |
सर्वेश्वर महाबुद्धे स्वरूप/ व्वैभवम्महत् || २४ ||
श्रियः सर्वार्त्तिशायिन्यास्तथा ज्ञानञ्च शाश्वतम् |
नामानि चैव मुख्यानि यानि गौणानि चाच्युत || २५ ||
त्वद्वक्त्रकमलोत्थानि श्रोतुमिच्छामि तत्त्वतः |
प्. ३७२) इति तस्य वचः श्रुत्वा प्रतिवाक्यमुवाच सः || २६ ||
महाविभूतिस/ययुक्तः षाङ्गुण्यवपुषः प्रभोः |
भगवद्वासुदेवस्य नित्यञ्चैषानपायिनी || २७ ||
एकैव वर्त्तते भिन्ना ज्योत्स्नेव हिमदीधितेः |
सर्वशक्त्यात्मिका चैव विश्व/ व्याप्य व्यवस्थिता || २८ ||
सर्वैश्वर्यगुणोपेता नित्यशुद्धस्वरूपिणी |
प्राणशक्तिः परा ह्येषा सर्वेषाम्प्राणिनाम्भुवि || २९ ||
शक्तीनाञ्चैव सर्वासा/ ययोनिभूता परा कला |
अहन्तस्याः षरन्नाम्नां सहस्रमिदमुत्तमम् || ३० ||
शृणुष्वावहितो भूत्वा परमैश्वर्यभूतिदम् |
देव्याख्या स्मृतिमात्रेण दारिद्र्य/ ययाति भस्मताम् || ३१ ||
श्रीभगवानुवाच
श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया |
केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा || ३२ ||
व्योमपद्मकृताधारा परा व्योमामतोद्भवा |
निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता || ३३ ||
अच्युता व्योमनिलया परमानन्दरूपिणी |
नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा || ३४ ||
ज्ञानशक्तिः कर्तृशक्तिर्ब्भोक्तृशक्तिः शिखावहा |
स्नेहाभासा निरानन्दा विभूतिर्विमला चला || ३५ ||
अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकाशिनी |
शक्तिर्विभिन्नसर्वार्त्तिः समुद्रपरितोषिणी || ३६ ||
मूर्त्तिः सनातनी हार्द्दी निस्तरङ्गा निरामया |
ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकाशिनी || ३७ ||
स्वच्छन्दशक्तिगहना निष्कम्पार्च्चिः सुनिर्मला |
सुरूपा सर्वगापारा बृंहिणी सुगुणोर्ज्जिता || ३८ ||
अकलङ्का निराधारा निस्सङ्कल्पा निराश्रया |
असङ्कीर्णा सुशान्ता च शाश्वती भासुरीस्थिता || ३९ ||
अनौपम्या निर्विकल्पा निर्यन्त्रा यन्त्रवाहिनी |
अभेद्या भेदिनी भिन्ना भारती वैखरी खगा || ४० ||
अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी |
अनिर्द्देश्या प्रतिहता निर्ब्बिजा पावनी परा || ४१ ||
प्. ३७३) अप्रतर्क्या परिमिता भवभ्रान्तिविनाशिनी |
एका द्विरूपा त्रिविधा असङ्ख्याता सुरेश्वरी || ४२ ||
सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्द्ध्रुवा गतिः |
ईश्वरी महिमा ऋद्धिः प्रमोदा उज्ज्वलोद्यमा || ४३ ||
अक्षया वर्द्धमाना च सुप्रकाशा विहङ्गमा |
निरजा जननी नित्या जया रोचिष्मती शुभा || ४४ ||
तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी |
अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी || ४५ ||
अवदाता सुशुद्धा च अमोघाख्या परम्परा |
सन्धानकी शुद्धविद्या सर्वभूतमहेश्वरी || ४६ ||
लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणे नवा |
अनुग्रहा शक्तिराद्या जगज्ज्येष्ठा जगद्विधिः || ४७ ||
सत्यापह्वा क्रियायोग्याह्लादिनी चार्पणा शिवा |
सम्पूर्णाह्लादिनी शुद्धा ज्योतिष्मत्यमतावहा || ४८ ||
रजोवत्यर्कप्रतिभाकर्षिणी कर्षिणी रसा |
परा वसुमती देविकान्तिः शान्तिर्मतिः कला || ४९ ||
कला कलङ्करहिता विशालोद्दीपनी रतिः |
सम्बोधिनी हारिणी च प्रभावा भवभूतिदा || ५० ||
अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा |
धूमा कलावती पूर्णा भासुरा सुमती रसा || ५१ ||
शुद्धाध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च |
प्रापणी प्राणदा प्रह्वी विश्वपांडुरवासिनी || ५२ ||
अवनी वज्रनलिका चित्रा व्रह्माण्डवासिनी |
अनन्तरूपाऽनन्तात्मनन्तस्थाऽनन्तसम्भवा || ५३ ||
महाशक्तिः प्राणशक्तिः प्राणदात्री रतिम्भरा |
महासमूहा निखिला इच्छाधारा सुखावहा || ५४ ||
प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहा बुद्धिगोचरा |
नानादेहा महावर्ता बहुदेहविकाशिनी || ५५ ||
सहस्राणी प्रधाना च न्यायवस्तुप्रकाशिका |
सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्त्थभाषिणी || ५६ ||
नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातना |
व्यक्ताऽव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता || ५७ ||
प्. ३७४) सङ्कल्पसिद्धा साङ्ख्येया तत्त्वगर्ब्भा धवावहा |
भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता || ५८ ||
प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा |
कल्याणवाहिका कल्पा कलिकल्मषनाशिनी || ५९ ||
निरूपोद्भिन्नसन्ताना सुयन्त्रा त्रिगुणालया |
महामाया योगमाया महायोगेश्वरीप्रिया || ६० ||
महास्त्री विमला कीर्त्तिर्ज्जया लक्ष्मीर्निरञ्जनी |
प्रकृतिर्ब्भगवन्मायाशक्तिर्न्निद्रा यशस्करी || ६१ ||
चिन्ताबुद्धिर्यशः प्राज्ञा शान्तिराप्रीतिवर्द्धनी |
प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा || ६२ ||
काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा |
सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्म्महाबला || ६३ ||
वरिष्ठा विजया वीरा जयन्ती विजयप्रदा |
हृद्गहा गोपिनी गुह्या गणगन्धर्वसेविता || ६४ ||
योगीश्वरी योगमाया योगिनी योगसिद्धिदा |
महायोगेश्वरवृता योगयोगेश्वरप्रिया || ६५ ||
ब्रह्मेन्द्ररुद्रनमिता सुरासुरवरप्रदा |
त्रिवर्त्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा || ६६ ||
सुतारा तारिणी तारा दुर्गा सन्तारणी परा |
सुतारणी तारयन्ती भूरितारेश्वरप्रभा || ६७ ||
गुह्यविद्या यज्ञविद्या महाविद्या सुशोभिता |
अध्यात्मविद्या विघ्नेशी पद्मस्था परमेष्ठिनी || ६८ ||
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिर्न्नयात्मिका |
गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा || ६९ ||
विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा |
सिद्धिः स्वाहा स्वधा स्वस्ति सुधा सर्वार्त्थसाधिनी || ७० ||
इच्छासृष्टिर्द्युतिर्ब्भूतिः कीर्त्तिः श्रद्धा दया मतिः |
श्रुतिर्मेधा धृतिर्ह्रीश्रीर्विद्या विबुधवन्दिता || ७१ ||
अनसूया घृणा नीतिर्निव्वृतिः कामधुक्करा |
प्रतिज्ञासन्ततिर्ब्भूतिर्द्यौः प्रज्ञाविश्वमानिनी || ७२ ||
स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा |
प्. ३७५) सन्ध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती || ७३ ||
काङ्क्षा माया महामाया मोहिनी माधवप्रिया |
सौम्या भोगा महाभोगा भ्गिनी भोगदायिका || ७४ ||
सुधौतकनकप्रख्या सुवर्णकमलासना |
हिरण्यगर्ब्भा सुश्रोणी हारिणी रमणी रमा || ७५ ||
चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा |
त्रैलोक्यमण्डना नारी नरेश्वरवरार्च्चिता || ७६ ||
त्रैलोक्यसुन्दरी रामा महाविभववाहिनी |
पद्मस्था पद्मनिलया पद्ममालाविभूषिता || ७७ ||
पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता |
विचित्ररत्नमुकुटा विचित्राम्बरभूषणा || ७८ ||
विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना |
महानारायणी देवी वैष्णवी वीरवन्दिता || ७९ ||
कालसङ्कर्षणी घोरा तत्त्वसङ्कर्षणी कला |
जगत्सम्पूरणी विश्वा महाविभवभूषणा || ८० ||
वारुणी वरदा व्याख्या घण्टाकर्णविराजिता |
नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी || ८१ ||
ऐन्द्री कामधेनुः सृष्टिः कामयोनिर्महाप्रभा |
दृष्टाकाम्या विश्वशक्तिर्ब्बीजगत्यात्मदर्शना || ८२ ||
गरुडारूढहृदया चान्द्री श्रीर्मधुरानना |
महोग्ररूपा वाराही नारसिंही हतासुरा || ८३ ||
युगान्तहुतभुग्ज्वाला कराला पिङ्गला कला |
त्रैलोक्यभूषणी भीमा श्यामा त्रैलोक्यमोहिनी || ८४ ||
महोत्कटा महारक्ता महाचण्डा महासना |
शङ्खिनी लेखिनी स्वस्था लिखिनी खेचरेश्वरी || ८५ ||
भद्रकाली चैकवीरा कौमारी भवमालिनी |
कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका || ८६ ||
बालिका धनदा सूर्या हृदयोत्पलमालिका |
अजिता वर्षणी रीतिर्ब्भरुण्डा गरुडासना || ८७ ||
वैश्वानरी महामाया महाकाली विभीषणा |
महामन्दारविभवा शिवानन्दा रतिप्रिया || ८८ ||
उद्रीतिः पद्ममाला च धूमवेगा विभावनी |
प्. ३७६) सत्क्रिया देवसेना च हिरण्यरजताश्रया || ८९ ||
सहसावर्त्तमाना च हस्तिनादप्रबोधिनी |
हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्द्धरा || ९० ||
सूर्या हिरण्यप्रकटसदृशी हेममालिनी |
पद्मानना नित्यपुष्टा देवमातामृतोद्भवा || ९१ ||
महाधना च या शृङ्गी कार्दमी कम्बुकन्धरा |
आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा || ९२ ||
वरार्च्चिता वरारोहा वरेण्या विष्णुवल्लभा |
कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी || ९३ ||
योगनिद्रा योगरता देवकी कामरूपिणी |
कंसविद्रावणी दुर्गा कौमारी कौशिकी क्षमा || ९४ ||
कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्ज्जया |
विरूपाक्षी विशालाक्षी भक्तानाम्परिरक्षिणी || ९५ ||
बहुरूपा स्वरूपा च विरूपा रूपवर्ज्जिता |
घण्टानिनादबहुला जीमूतध्वनिनिःस्वना || ९६ ||
महासुरेन्द्रमथनी भ्रुकुटीकुटिलानना |
सत्योपायाचिता चैका कौबेरी ब्रह्मचारिणी || ९७ ||
आर्या यशोदा सुतदा धर्मकामार्त्थओक्षदा |
दारिद्र्यदुःखशमनी घोरदुर्गार्त्तिनाशिनी || ९८ ||
भक्तार्तिशमनी भव्या भवभर्गापहारिणी |
क्षीराब्धितनया पद्मा कमला धरणी धरा || ९९ ||
रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी |
प्रज्ञाधारा मिताबुद्धिर्वेदमाता यशोवती || १०० ||
समाधिर्ब्भावना मैत्री करुणा भक्तवत्सला |
अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरागतिः || १०१ ||
दीक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला |
अम्बिका सुरभी सिद्धा सिद्धविद्याधरार्चिता || १०२ ||
सुदीप्ता लेलिहाना च कराली विश्वपूरकी |
विश्वसन्धारणी दीप्तिस्तापनी ताण्डवप्रिया || १०३ ||
उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी |
क्षीरधारा सुप्रभावा लोकमाता सुवर्च्चसा || १०४ ||
हव्यगर्ब्भा चाज्यगर्ब्भा जुह्वतोयज्ञसम्भवा |
आप्यायनी पावनी च दहनी दहनाश्रया || १०५ ||
प्. ३७७) मातृका माधवी मुच्या मोक्षलक्ष्मीर्महर्द्धिदा |
सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला || १०६ ||
श्वेता सुशुक्लवसना शुक्लमाल्यानुलेपना |
हंसा हीनकरी हंसी हृद्या हृत्कमलालया || १०७ ||
सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा |
सावित्री सत्यसङ्कल्पा कामदा कामकामिनी || १०८ ||
दर्शनीया दृशादृश्या स्पृश्यासेव्या वराङ्गना |
भोगप्रिया भोगवती भोगीन्द्रशयनासना || १०९ ||
आर्द्द्री पुष्करिणी पुण्या पावनी पापसूदनी |
श्रीमती च शुभाकारा परमैश्वर्यभूतिदा || ११० ||
अचिन्त्यानन्तविभवा भवभावविभावनी |
निश्रेणी सर्वदेहस्था सर्वभूतनमस्कृता || १११ ||
बलाबलाधिका दैवी गौतमी गोकुलालया |
तोषणी पूर्णचन्द्राभा एकानन्दा शतानना || ११२ ||
उद्याननगरद्वारहर्म्म्योपवनवासिनी |
कूष्माण्डी दारुणी चण्डा किराती नन्दनालया || ११३ ||
कालायनी कालगम्या भयदा भयनाशिनी |
सौदामिनी मेघरवा दैत्यदानवमर्द्दिनी || ११४ ||
जगन्माता भयकरी भूतधर्त्त्री सुदुर्ल्लभा |
काश्यपी शुभदाना च वनमाला शुभावरा || ११५ ||
धन्या धन्येश्वरी धन्या रत्नदा वसुवर्द्धिनी |
गन्धर्वी रेवती गङ्गा शकुनी विमलानना || ११६ ||
इडा शान्तिकरी चैव तामसी कमलालया |
आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया || ११७ ||
जगत्प्रिया च सरथा दुर्ज्जया खगवाहना |
मनोभवा कामचारा सिद्धचारणसेविता || ११८ ||
व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला |
रसलक्ष्मीर्ज्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया || ११९ ||
श्रवणी श्रावणी नेत्री रसना प्राणचारिणी |
विरिञ्चिमाता विभवा वरवारिजवाहना || १२० ||
वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्द्धिनी |
प्. ३७८) अनाहता कुण्डलिनी नलिनी वनवासिनी || १२१ ||
गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती |
सर्वमङ्गलमाङ्गल्या सर्वकामसमृद्धिदा || १२२ ||
सर्वानन्दा महानन्दा सत्कीत्तिः सिद्धसेविता |
सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः || १२३ ||
अरुन्धती वसुमती भार्गवी वास्तुदेवता |
मायूरी वज्रवेताली वज्रहस्ता वरानना || १२४ ||
अनघा धरणी धीरा धमनी मणिभूषणा |
राजश्रीरूपसहिता ब्रह्मश्रीब्रह्मवन्दिता || १२५ ||
जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् |
सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलप्रिया || १२६ ||
धनुर्ल्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी |
कद्रूर्द्धनायुः कपिला सुरसा सुरमोहिनी || १२७ ||
महाश्वेता महानीला महामूर्त्तिर्विषापहा |
सुप्रभा ज्वालिनी दीप्तिस्तृतिर्व्याप्तिः प्रभाकरी || १२८ ||
तेजोवती पद्मबोधा मदलेखारुणावती |
रत्ना रत्नावलीभूता शतधामा शतोपहा || १२९ ||
त्रिगुणा घोषणी रक्षया नर्द्दिनी घोषवर्ज्जिता |
साध्यादितिर्द्दितिर्द्देवी मृगवाहा मृगाङ्कगा || १३० ||
चित्रनीलोत्पलगता वृतरत्नाकराश्रया |
हिरण्यरजतद्वन्द्वा शङ्खभद्रासनस्थिता || १३१ ||
गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया |
मरीचिश्चीरवसना पूर्णचन्द्रार्कविष्टरा || १३२ ||
सुसूक्ष्मा निर्वृतिस्थूला निर्वृतारातिरेव च |
मारीचिर्ज्वालिनी धूम्रा हव्यवाहा हिरण्यदा || १३३ ||
दायिनी कालिनी सिद्धिः शोषणीसम्प्रबोधिनी |
भास्वरासंहतिस्तीक्ष्णा प्रचण्डज्ज्वलनोज्ज्वला || १३४ ||
साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः |
कपिला नीररक्ता च सुषुम्ना विस्फुलिङ्गिनी || १३५ ||
अर्च्चिष्मती रिपुहरी दीर्ग्घा धूमावली जरा |
सम्पूर्णमण्डलीपूषा स्रंसिनी सुमनोहरा || १३६ ||
जया पुष्टिकरी छाया मानसी हृदयोज्ज्वला |
सुवर्णकरणी श्रेष्ठा मृतसञ्जीवनी रणे || १३७ ||
प्. ३७९) विशल्यकरणी शुभ्रा सन्धिनी परमौषधी |
ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा || १३८ ||
विद्युत्प्रभा बिन्दुमती त्रिस्वभावगुणाम्बिका |
नित्योदिता नित्यहृष्टा नित्यकामकरीषिणी || १३९ ||
पद्माङ्का वज्रचिह्ना च वक्रदण्डा विभासिनी |
विदेहपूजिता कन्या माया विजयवाहिनी || १४० ||
मानिनी मङ्गला मान्या मानिनी मानदायिनी |
विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी || १४१ ||
हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी |
प्रत्यङ्गिरा सोमगुप्ता मनोभिज्ञा वदन्मतिः || १४२ ||
यशोधरी रत्नमाला कृष्णा त्रैलोक्यबन्धनी |
अमृताधारणी हर्षा विनता वल्लकी शची || १४३ ||
सङ्कल्पा भामिनी मिश्रा कादम्बर्यामृतप्रभा |
आगता निर्गता वज्रा सुहिता सहिताक्षता || १४४ ||
सर्वार्थसाधनकरी धातुर्द्धारणिकामला |
कारुणाधारसम्भूता कमलाक्षी शशिप्रिया || १४५ ||
सौम्यरूपा महादीप्ता महाज्वालाविकाशिनी |
माला काञ्चनमाला च सद्वज्रकनकप्रभा || १४६ ||
प्रक्रिया परमायोक्त्री क्षोभिका च मुखोदया |
विजृम्भणा च वज्राख्या शृङ्खला कमलेक्षणा || १४७ ||
जयङ्करी मधुमती हरिता शशिनी शिवा |
मूलप्रकृतिरीशानी योगमाता मनोजवा || १४८ ||
धर्मोदया भानुमती सर्वाभासा सुखावहा |
धुरन्धरा च बाला च धमसेव्या तथागता || १४९ ||
सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा |
सुमुही सर्वतोभद्रा गुह्यशक्तिर्गुहालया || १५० ||
हलायुधा च कावीरा सर्वशास्त्रासुधारिणी |
व्योमशक्तिर्महादेहा व्योमगा मगुमन्मयी || १५१ ||
गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती |
तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी || १५२ ||
बाणप्रहरणा बाला बिम्बोष्ठी चारुहासिनी |
ककुद्मिनी चारुपृष्ठी दृष्टादृष्टफलप्रदा || १५३ ||
प्. १८०) काम्यचारी च काम्या च कामाचारविहारिणी |
हिमशैलेन्द्रसङ्काशा गजेन्द्रवरवाहना || १५४ ||
अशेषसुखसौभाग्यसम्पदा योनिरुत्तमा |
सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया || १५५ ||
सर्वाङ्गयोनिः साव्यक्ता सम्प्रधानेश्वरेश्वरी |
विष्णुवक्षःस्थलगता किमतः परमुच्यते || १५६ ||
परा निर्महिमा देवी हरिवक्षःस्थलाश्रया |
सा देवी पापहन्त्री च सान्निध्यङ्कुरुतान्मम || १५७ ||
इति नाम्नां सहस्रन्तु लक्ष्म्याः प्रोक्तं शुभावहम् |
परावरेण भेदेन मुख्यगौणेन भागतः || १५८ ||
यश्चैतत्कीर्त्तयेन्नित्यं शृणुयाद्वापि पद्मज |
शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः || १५९ ||
श्रीनिवासं समभ्यर्च्च्य पुष्पधूपानुलेपनैः |
भोगैश्च मधुपर्काद्यैर्यथाशक्त्या जगद्गुरुम् || १६० ||
तत्पार्श्वस्थां श्रियन्देवीं सम्पूज्य श्रीधरप्रियाम् |
ततो नामसहस्रेण तोषयेत्परमेश्वरीम् || १६१ ||
नामरत्नावलिस्तोत्रमिद/ ययः सततम्पठेत् |
प्रसादाभिमुख लक्ष्मीः सर्वन्तस्मै प्रयच्छति || १६२ ||
यस्या लक्ष्म्याश्च सम्भूताश्शक्तयो विश्वगाः सदा |
कारणत्वन्न तिष्ठन्ति जगत्यस्मिंश्चराचरे || १६३ ||
तस्मात्प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा |
सुप्रीताश्शक्तयस्तस्य सिद्धिमिष्टान्दिशन्ति हि || १६४ ||
एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः |
तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा || १६५ ||
तथैवैकापरा शक्तिश्श्रीस्तस्य करुणाश्रया |
ज्ञानादिषाड्गुण्यमयी या प्रोक्ता प्रकृतिः परा || १६६ ||
एकैव शक्तिश्श्रीस्तस्याद्वितीयात्मनिवर्त्तते |
परा परेशा सर्वेशी सर्वाकारा सनातनी || १६७ ||
अनन्तनामधेया च शक्तिचक्रस्य नायिका |
जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता || १६८ ||
तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी |
सौम्यासौम्येन रूपेण संस्थिता नटजीववत् || १६९ ||
प्. ३८१) यो यो जगति पुम्भावः स विष्णुरिति निश्चयः |
या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता || १७० ||
प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते |
अथ किं बहुनोक्तेन नरनारीमयो हरिः || १७१ ||
अनेकमेदभिन्नस्तु क्रियते परमेश्वरः |
महाविभूतिन्दयिता/ यये स्तुवन्त्यच्युतप्रियाम् || १७२ ||
ते प्राप्नुवन्ति परमा/ ल्लक्ष्मीं संशुद्धचेतसः |
पद्मयोनिरिदम्प्राप्य पठन्स्तोत्रमिदं क्रमात् || १७३ ||
दिव्यमष्टगुणैश्वर्यन्तत्प्रसादाच्च लब्धवान् |
सकामानाञ्च फलदामकामानाञ्च मोक्षदाम् || १७४ ||
पुस्तकाख्याम्भयत्रात्रीं सितवस्त्रान्त्रिलोचनाम् |
महापद्मनिषण्णान्ता/ ल्लक्ष्मीमजरतान्नमः || १७५ ||
करयुगलगृहीतम्पूर्णकुम्भन्दधाना क्वचिदमलगतस्था
शङ्खपद्माक्षपाणिः |
क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता क्वचिदपि सृणिपाशम्बिभ्रती
हेमकान्तिः || १७६ ||
इत्यादि ब्रह्मपुराणे काश्मीरवर्णने हिरण्यगर्ब्भहृदये
सर्वकामप्रदायिकम्पुरुषोत्तमे न प्रोक्त/ ल्लक्ष्मीसहस्रनामस्तोत्रं
समाप्तम् ||
इति शाक्तप्रमोदे कमलात्मिकातन्त्रं समाप्तम्
शाक्तप्रमोदः छप्तेर्स् ११-१७ (एन्द्)
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
एकादशम्
कूमारिकातन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
स्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
शाक्तप्रमोदः
अथ कुमारीतन्त्रम्
अथ कुमारीपूजानिर्णयः
रुद्रयामलोत्तरखण्डीयषष्ठपटले ||
एकवर्षा भवेत्सन्ध्या द्विवर्षा च सरस्वती ||
त्रिवर्षा च त्रिधा मूर्तिश्चतुर्वर्षा च कालिका |
सुभगा पञ्चवर्षा तु षड्वर्षा च भवेदुमा ||
सप्तभिर्ब्भिल्लिनी साक्षादष्टवर्षा तु कुब्जिका |
नवभिः कालसन्दर्ब्भा दशभिश्चापराजिता ||
एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी |
त्रयोदशे महालक्ष्मीर्द्द्विसप्ता पीठनायिका ||
क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका मता |
एवङ्क्रमेण संगृह्य यावत्पुष्पन्न जायते ||
प्रतिपदादिपूर्णान्त/ व्वृद्धिभेदेन पूजयेत् |
एकवर्षेत्यादि सर्वम्बृहन्नीलतन्त्रेऽपि ||
केवलं षड्वर्षा च उमा भवेत्, द्विसप्ता नायिका स्मृता, षोडशे
चर्चिका मतेति पाठभेदो नामभेदश्चेति कुब्जिकातन्त्रे ||
सप्तमपटले तु विशेष उक्तो यथा ||
पञ्चवर्षात्समारभ्य यावद्द्वादशवार्षिकी |
कुमारी सा भवेद्देवी निजरूपप्रकाशिनी ||
षड्वर्षाच्च समारभ्य यावच्च नववार्षिकी |
तावच्चैव महेशानि साधकाभष्टसिद्धये ||
अष्टवर्षात्समारभ्य यावत्त्रयोदशाब्दिकी |
कुलजान्ता/ व्विजानीयात्तत्र पूजां समाचरेत् ||
दशवर्षात्समारभ्य यावत्षोडशवार्षिकी |
युवतीन्ता/ व्विजानीयाद्देवतान्ता/ व्विचिन्तयेत् ||
अन्न/ वस्त्रन्तथा नीरङ्कुमार्यै यो ददाति हि |
अन्नम्मेरुसमन्देवि जलञ्च सागरोपमम् ||
प्. ३८६) वस्त्रैः कोटिसहस्राब्दं शिवलोके महीयते |
पूजोपकरणानीह कुमार्यै यो ददाति हि ||
सन्तुष्टा देवता तस्य पुत्रत्वे सानुकल्प्यते |
विश्वसारे तु ||
अष्टवर्षा तु सा कन्या भवेद्गौरी वरानने |
नववर्षा रोहिणी सा दशवर्षा तु कन्यका ||
अत ऊर्द्ध्वम्महामाया भवेत्सैव रजस्वला |
आरभ्य द्वादशाब्दाच्च यावद्विशतिसङ्ख्यकम् ||
सुकुमारी च सा प्रोक्ता सर्वतन्त्रसमन्विता |
यानपाषाणधातूनान्तेजोरूपेण संस्थिता ||
जीवजंतुषु देवेशि कि/ व्वक्तव्यमतः परम् |
यत्र नास्ति महामाया तत्र किञ्चिन्न विद्यते ||
इत्युक्तम् ||
तत्पूजाफल/ ययोगिनीतन्त्रे पूर्वखण्डे सप्तदशपटले ||
कुमारीपूजनफल/ व्वक्तुन्नार्हामि सुन्दरि ||
जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि |
तस्मात्ताम्पूजयेद्बालां सर्वजातिसमुद्भवाम् ||
जातिभेदो न कर्त्तव्यः कुमारीपूजने शिवे |
जातिभेदान्महेशानि नरकान्न निवर्त्तते ||
विचिकित्सापरो मन्त्री ध्रुवं स पातकी भवेत् |
देवीबुद्ध्या महाभक्तस्तस्मात्ताम्परिपूजयेत् ||
सर्वविद्यास्वरूपा हि कुमारी नात्र संशयः |
यदि भाग्यवशाद्देवि वेश्याकुलसमुद्भवाम् ||
कुमारी/ ल्लभते कान्ते सर्वस्वेनापि साधकः |
यत्नतः पूजयेत्तान्तु स्वर्णरौप्यादिभिर्म्मुदा ||
तदा तस्य महासिद्धिर्ज्जायते नात्र संशयः |
कुमारीपूजास्थानफलमपि तत्रैव ||
कुमारी पूज्यते यत्र स देशः क्षितिपावनः |
महापुण्यतमो भूयात्समन्तात्क्रोशपञ्चकम् ||
यामले तत्रैव ||
महापर्वसु सर्वेषु विशेषाच्च पवित्रके |
महानवम्यान्देवेशि कुमारीञ्च प्रपूजयेत् ||
तस्मात्षोडशपर्यन्त/ ययुवतीति प्रचक्षते |
तत्र भावप्रकाशस्स्यात्स भावः परमो युतः ||
रक्षितव्याः प्रयत्नेन अक्षतास्ताः प्रकारयेत् |
महापूजादिकङ्कृत्वा वस्त्रालङ्कारभोजनैः ||
पूजयेन्मन्दभाग्योऽपि लभते जयमङ्गलम् |
प्. ३८७) अन्येषाङ्कथने नाथ प्रयोजनमहाफलम् ||
विधिना पूजयेद्यस्तु दिव्यवीरपशुस्थितः |
भावत्रये महासौख्यन्दिव्यकर्मणि सत्फलम् ||
तथा ||
अनेककुलसम्पन्नान्नानाजातिसमुद्भवाम् |
अशेषकुलसम्पन्नान्नानाजातिसमुद्भवाम् ||
नानादेशोद्भवा/ व्वापि सगुणाङ्गुणस/ययुताम् |
द्वितीयवत्सरादूर्द्ध्व/ ययावत्स्यादष्टमाब्दकम् ||
तावज्जप्त्वा पूजयित्वा कन्यां सुन्दरमोहिनीम् |
दिव्यभावस्थितस्साक्षात्तन्त्रमन्त्रफलं लभेत् ||
कुमारी पूजनादेव कुमारीभोजनादिभिः |
एकद्वित्र्यादिबीजानाम्फलदा नात्र संशयः ||
ताभ्यः पुष्पम्फलन्दत्त्वा अनुलेपादिकन्तथा |
बालप्रियञ्च नैवेद्यन्दत्त्वा तद्भावभावितः ||
मृदा तदङ्गमात्मानम्वालभावविचेष्टितम् |
अतिप्रियकथालापक्रीडाकौतूहलान्वितः ||
यथार्त्थं तत्प्रियन्तत्र कृत्वा सिद्धीश्वरो भवेत् |
कन्या सर्वसमृद्धिस्स्यात्कन्या सर्वपरन्तपः ||
होमम्मन्त्रार्च्चनन्नित्यक्रियाकौलिकसत्क्रियाम् |
नानाफलमहाधर्मङ्कुमारीपूजन/ व्विना ||
तत्तत्कर्मफलन्नाथ प्राप्नोति साधकोत्तमः |
फलङ्कोटिगुण/ व्वीरः कुमारीपूजया लभेत् ||
कुसुमाञ्जलिपूर्णाञ्च कन्यायै कुलपण्डितः |
ददाति यदि तत्पुष्पङ्कोटिमेरुहिरण्यवत् ||
तद्दानजम्महापुण्यङ्क्षणादेव समालभेत् |
कुमारी भोजिता येन त्रैलोक्यन्तेन भोजितम् ||
कालीतन्त्रे एकादशपटले || ||
कुमारीपूजनङ्कुर्यात्सर्वकर्मफलाप्तये |
रुद्रयामले उत्तरखण्डे सप्तमपटले ||
अथ पूजाम्प्रवक्ष्यामि कुमार्या अतिदुर्ल्लभाम् |
इत्यभिधाय पूजास्थानं महापीठन्देवालयमथापि वा |
नटीकन्यां हीनकन्यान्तथा कापालिकन्यकाम् |
रजकस्यापि कन्याञ्च तथा नापितकन्यकाम् |
गोपालकन्यकाञ्चैव ब्राह्मणस्यापि कन्यकाम् |
शूद्रकन्या/ व्वैद्यकन्यान्तथा वैश्यस्य कन्यकाम् ||
चाण्डालकन्यका/ व्वापि यत्र कुत्राश्रमे स्थिताम् |
प्. ३८८) सुहृद्वर्गस्य कन्याञ्च समानीय प्रयत्नतः ||
पूजयेत्परमानन्दैरात्मध्यानपरायणः |
मम पूजा/ ययः करोति प्रत्यहं शुद्धभक्तितः ||
तस्य वश्यङ्कुमारीणाम्पूजनम्भोजनं रवेः |
तेजोरूप/ व्विधोश्चाग्नेः सर्वाभावे प्रकाशते ||
तत्पूजनात्तदालापाद्भोजनादपि तच्छुभात् |
ममप्रीतिर्ब्भवेत्साक्षाद्देवतागुप्तसंस्थिता ||
बालभैरवदेवस्य कामिनीवदकस्य च |
मत्पुत्रस्य सर्वलोकपूजितस्य महौजसः ||
पूजाभिर्विविधैर्द्द्रव्यैः कुमारी देवपूजिता |
कुमारी देवता प्रोक्ता सर्वतो जगदीश्वरी ||
पूजार्थ सर्वलोकस्य समानीय सुरेश्वरीम् |
पूजयन्तीम्महादेवीङ्गुप्तभावनिवासिनीम् ||
सदा भोजनवाञ्छाढ्या मान्या सन्तुष्टहासिनी |
वृथा न रौति सा देवी कुमारी देवनायिका ||
सरस्वतीस्वरूपा सा पूज्यते सर्वनायकैः |
शिवभक्तैर्विष्णुभक्तैस्तथान्यदेवपूजितैः ||
सर्वलोकैः पूजिता सा चावश्यम्पूज्यते बुधैः |
पूजया लभते पुत्रान्पूजया लभते श्रियम् ||
पूजया धनमाप्नोति पूजया लभते महीम् |
पूजया लभते लक्ष्मीं सरस्वतीम्महौजसम् ||
महाविद्याः प्रसीदन्ति सर्वे देवा न संशयः |
कालभैरवब्रह्मेन्द्र-ब्राह्मणा ब्रह्मवेदिनः ||
रुद्रश्च देववर्गाश्च वैष्णवा ब्रह्मरूपिणः |
अवताराश्च द्विभुजा वैष्णवा मनुशोभिताः ||
अन्ये दिक्पालदेवाश्च चराचरगुरुस्तथा |
नानाविद्याश्रिताः सर्वे दानवाः कूटशालिनः ||
उपसर्गस्थिता ये ये ते ते तुष्टा न संशयः |
यद्यहं शुद्धरूपा हि अन्यलोके च का कथा ||
कुमारीपूजनङ्कृत्वा त्रैलोक्य/ व्वशमानयेत् |
महाकान्तिर्ब्भवेत्क्षिप्रं सर्वपुण्यफलप्रदम् ||
वृहन्नीलतन्त्रे
महाभयातिदुर्ब्भिक्षाद्युत्पातानि कुलेश्वरी |
दुःस्वप्नभयमृत्युञ्च ये चान्ये च समुद्भवाः ||
कुमारीपूजनादेव न ते च प्रभवन्ति हि |
नित्यङ्क्रमेण देवेशि पूजयेद्विधिपूर्वकम् ||
प्. ३८९) घ्नन्ति विघ्नान्पूजिताश्च भयं शत्रून्महोत्कटान् |
ग्रहा रोगाः क्षय/ ययान्ति भूतवेतालपन्नगाः ||
रुद्रयामले यथा
तत्तन्मन्त्रे समुल्लेख्यात्क्षणात्पुण्यायुत/ ल्लभेत् |
मन्त्रेण पुटितङ्कृत्वा जप्त्वा सिद्धीश्वरो भवेत् ||
यद्यत्प्रकारमुद्दिश्य वदामि सुरसुन्दरि |
तत्तत्कार्यमवश्यञ्च भिन्नबुद्धिन्न कारयेत् |
तथा ||
शृणु नाथ कुलार्त्थम्मे कुमारीपूजने मनुम् |
महाविद्या महामन्त्रं सिद्धिमन्त्रन्न संशयः ||
एतन्मन्त्रप्रभावेण जीवन्मुक्तो भवेत्सुधीः |
अतिदेविपद/ ययाति सत्यमानन्दभैरव ||
ऐहिके सुखसम्पत्तिर्मधुमत्याः प्रसादतः |
अवश्यम्प्राप्नुयान्मर्त्त्यो विश्रामङ्कुरु शङ्कर ||
वाग्भवेन वपुः क्षोभम्मायाबीजे गुणाष्टकम् |
श्रियोबीजे श्रियोलाभो मायाबीजे रिपुक्षयः ||
भैरवेण तु बीजेन खेचरत्वं सुरादिभिः |
कुमारिका ह्यहन्नाथ सदा त्वं हि कुमारकः ||
शतमष्टोत्तरा/ व्वापि एका/ व्वा परिपूजयेत् |
पूजिताः परिपूज्यन्ते ह्यवघ्नन्त्यवमानिताः ||
कुमारी योगिनी साक्षात्कुमारी परदेवता |
असुरा दुष्टनागाश्च ये ये दुष्टग्रहा अपि ||
भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः |
याश्चान्या देवतास्सर्वा भूर्भुवस्स्वश्च भैरवाः ||
पृथिव्यादीनि सर्वाणि ब्रह्माण्डे सचराचरम् |
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ||
सन्तुष्टाः सर्वतुष्टाश्च यस्तु कन्याम्प्रपूजयेत् |
विधियुक्ताङ्कुमारीन्तु भोजयेच्चैव भैरव ||
पाद्यार्ग्घ्यञ्च तथा धूपङ्कुङ्कुमञ्चन्दनं शुभम् |
भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत् ||
कुमारीपूजाक्रमः
आनीय सुन्दरीन्नारीङ्कुमारी/ व्वरनायिकाम् |
रत्नालङ्कारस/ययुक्तां शङ्खवस्त्रादिशोभिताम् ||
वाग्भवेन जलन्नाथ तन्नाम्ना परिदापयेत् |
देवीबुद्ध्या सदा ध्यात्वा पूजयेत्साधकोत्तमः ||
प्. ३९०) मायाबीजेन तन्नाम्ना पाद्यन्दद्यात्तथा प्रभो |
लक्ष्मीबीजेन चार्ग्घ्यन्तु कूर्च्चजेन च चन्दनम् ||
मायाबीजेन पुष्पाणि कुमार्यै दापयेत्सुधीः |
सदाशिवेन मन्त्रेण धूपदीपौ महत्तमौ ||
दत्त्वा षडङ्गमन्त्रेण पूजयेद्देवनायक |
तत्प्रकारम्महादेव शृणुष्वानन्दरूपधृक् ||
महातेजोमयं शुभ्रं हृदयं हस्तदक्षिणैः |
विभाव्य प्रपठेद्भक्त्या तन्मन्त्रं शृणु शङ्कर ||
आदौ वाग्भवमुच्चार्य माया/ ल्लक्ष्मीञ्च कूर्च्चकम् |
प्रेतबीजन्ततो ब्रूयात्सविसर्गेन्दुकीलकम् ||
कुलशब्दं समुच्चार्य कुमारिके ततो वदेत् |
हृदयाय नमः प्रोच्य ततः शिरसि भावयेत् ||
शुक्लवर्णं सर्वमयम्बीजमुच्चार्य सन्न्यसेत् |
हकार/ व्वाग्भवाद्यञ्च वकार/ व्वाग्भवात्मकम् ||
माया/ ल्लक्ष्मी/ व्वाग्भवञ्च द्विठान्तं शिरसे पदम् |
वह्निजायावधिर्मन्त्रो न्यसेच्छिरसि साधकः ||
शिखामध्ये कृष्णवर्णन्नीलाञ्जनचयप्रभम् |
विभाव्य सन्न्यसेन्मन्त्री कुमारी कुलसिद्धये ||
आदौ प्रणवमुद्धृत्य तदंते विष्णुसुन्दरीम् |
शिखायै पदमुद्धृत्य वषट्कारन्ततो वदेत् ||
ततः कवचमध्ये च बलवन्तं सुतेजसम् |
प्रथमारुणसङ्काशन्ध्यात्वा चारु कलेवरम् ||
वाग्भवञ्च समुच्चार्य कुलशब्दन्ततो वदेत् |
वागीश्वरि पदम्पश्चात्कवचाय ततो वदेत् ||
तारकम्ब्रह्मशब्दञ्च कवचन्यासजालकम् |
ततो नेत्रत्रये ध्यात्वा महाबीजम्महाप्रभम् ||
रक्तवर्णङ्कोटिकोटिजवामण्डलमण्डितम् |
विराजितङ्कोटिपुण्यार्ज्जिते तेजसि भास्करे ||
वाग्भवं हि समुच्चार्य कुलेश्वरि पदन्ततः |
नेत्रत्रयाय शब्दान्ते वौषड्लोचनमन्त्रकम् ||
ततस्साधकमन्त्री च वामहस्ततले तथा |
मध्यमातर्ज्जनीभ्याञ्च तालद्वयमुपाचरेत् ||
तन्मन्त्रङ्कोटिसूर्योग्रज्योत्स्नाजालसमप्रभम् |
महाकाशोद्भवं शब्दमहोग्रपरिपीडनम् ||
मायाबीजन्तथास्त्रायपदमुद्धृत्य यत्नतः |
फडन्ते चान्तमुद्धृत्य महामन्त्रम्प्रकीर्तितम् ||
प्. ३९१) ततस्तस्याः कुण्डबिले ध्यात्वा च परिवारकाम् |
पूजयेद्यत्नतो मन्त्री तेजसामृतधारया ||
तर्पयेत्पूजयेद्भक्त्या भैरवम्बालभैरवम् |
देवताभिः पूजयित्वा परिवारान्क्रमेण तु ||
ततो वाग्भवमुच्चार्य सिद्धजयाय शब्दतः |
पूर्वम्पदं समुच्चार्य वक्त्रायनम ईरितम् ||
ततो वाग्भवमुच्चार्य जयाय शब्दमुद्धरेत् |
उत्तरे वक्त्रमुद्धृत्य चतुर्थ्यन्तन्नमः पदम् ||
ततो वाग्भवमायाश्रीबीजमुच्चार्य यत्नतः |
कुब्जिके पश्चिमान्ते च वक्त्राय नम ईरिताम् ||
ततो वाग्भवमुच्चार्य कालिके पदमुच्चरेत् |
दक्षवक्त्राय शब्दान्ते नमो मन्त्रम्प्रकीर्तितम् ||
एतन्मन्त्राक्षरान्नाथ समुच्चार्य कुलेश्वर |
पूजयित्वा क्रमेणैव भास्करम्परिपूजयेत् ||
चण्डन्दिक्पालदेवञ्च सन्ध्यादीन्परिपूजयेत् |
वीरभद्राम्महाकन्याङ्कौलिनीङ्कुलगामिनीम् ||
अष्टादशभुजाङ्कालीञ्चण्डदुर्गाम्प्रपूजयेत् |
नैवेद्यादीन्समानीय नानाभक्त्यानुराजितम् ||
दुग्धङ्घनावृतङ्क्षीरम्पक्वान्नम्पक्वसम्फलम् |
यद्यत्कालोपयोग्यञ्च सर्वदा मधुमिश्रितम् ||
पञ्चतत्त्वङ्कुलद्रव्यन्निजकल्याणवर्द्धनम् |
नानाद्रव्यञ्च नैवेद्यं स्वस्वल्पोक्तसाधितम् ||
कुमारीभ्यो निवेद्यैवन्नानासौरभशोभितम् |
शीतलञ्जलमानीय दद्यात्ताभ्यो महासुधीः ||
ततो हितम्महामन्त्रङ्कुमार्याश्चातिदुर्ल्लभम् |
अथ वाग्मी समूलञ्च जप्त्वा सिद्धीश्वरो भवेत् ||
समर्प्य प्राणवायूनान्धारणङ्कारयेत्स्वयम् |
अष्टाङ्गादिप्रमाणञ्च कुर्वन्स्तोत्रम्पठेन्नमेत् ||
प्रणाममन्त्रोऽपि तत्रैव ||
नमामि कुलकामिनीम्परमभाग्यसन्दायिनीङ्कुमाररतिचातुरीं
सकलसिद्धिमानन्दिनीम् |
प्रवालगुटिकास्रजरजतरागवस्त्रान्वितां
हिरण्यतुलभूषणाम्भुवनवाक्कुमारीम्भजे ||
इति मन्त्रेण सन्नम्य तारिणीम्परिपूजयेत् |
शिवाङ्गणेशं सम्पूज्य प्रणमेत्साधकोत्तमः ||
दक्षिणा/ व्विधिवद्दत्त्वा कुमारीभ्यः क्रमेण तु |
विवाहयेत्स्वयङ्कन्याम्ब्रह्महत्या विनश्यति ||
प्. ३९२) यो यश्च पुण्यकाले तु कन्यादानं समापयेत् |
भूमिमुक्तिफलन्तस्य सौभाग्यं सर्वसम्पदः ||
रुद्रलोके वसेन्नित्यन्त्रिनेत्रो भगवान्हरः |
तीर्थकोटिसहस्राणि अश्वमेधशतानि च |
तत्फल/ ल्लभते मर्त्यो यस्तु कन्या/ व्विवाहयेत् |
वालुका सागरे ज्ञेयास्तावदब्दसहस्रकम् ||
एकैकङ्कुलमुद्धृत्य रुद्रलोके महीयते |
तत्तदिष्टदेवतायाः प्रीतये तुष्टये सुधीः ||
कन्यादानं समाहृत्य मुक्तिमाप्नोति भैरव |
तत्तद्द्वितीयकन्यायास्तत्तद्बुद्ध्या च साधकः ||
विभाव्य शिवरूपत्वं सम्प्रदानीय कन्यके |
पूर्णरूपं शिवन्ध्यात्वा वरं सर्वाङ्गसुन्दरम् ||
तेजोमय/ ययशः कान्तङ्कालभैरवरूपिणम् |
बटुकेशम्महादेव/ व्वरयेत्साधकाग्रणीः ||
बालरूपाञ्च त्रैलोक्यसुन्दरी/ व्वरवर्णिनीम् |
नानालङ्कारनम्राङ्गीम्भद्रविद्याप्रकाशिनीम् ||
चारुहास्याम्महानन्दहृदयां शुभदाम् शुभाम् |
ध्यात्वा द्वादशपत्राब्जे पूर्णचन्द्रनिभाननाम् ||
सम्प्रदानं समानीय तत्तन्मन्त्रेण दापयेत् ||
अथ कुमारीमन्त्रपुरश्चरणम्
अष्टमपटले
अथ वक्ष्ये महादेव्याः कुमार्या जपहोमकः ||
लक्षसङ्ख्यञ्जपङ्कृत्वा माया/ व्वा वाग्भवम्मनुम् ||
कालीबीज/ व्वापि नाथ अथवा कामबीजकम् ||
सदाशिवेन पुटितम्बिन्दुचन्द्रविभूषितम् ||
अथवा प्रणवेनापि पुटितन्त्रिदशेश्वर ||
तद्दशांशेन जुहुयाद्घृताक्तैर्बिल्वपत्रकैः ||
अथवा श्वेतपुष्पैश्च कुन्दपुष्पैर्म्महाफलम् ||
एवं क्रमेण जुहुयात्करवीरप्रसूनकैः ||
घृताक्तैः केवलैर्वापि चन्दनागरुमिश्रितैः ||
हविष्याशी दिवाभागे रात्रौ पूजापरो भवेत् ||
निजपूजामशेषैस्तु कुलद्रव्यैः प्रपूजयेत् ||
रविसंख्यञ्जपेत्तत्र परमानन्दरूपधृक् ||
जपान्ते जुहुयान्मन्त्री मदुक्तद्रव्यस/ययुतैः ||
ततः प्राणात्मक/ व्वायुं शोधयित्वा पुनः पुनः ||
प्. ३९३) प्राणायामत्रयङ्कृत्वा चाष्टाङ्गैः प्रणमेन्मुदा |
प्रणामसमये नाथ इदं स्तोत्रम्पठेद्यदि ||
कवचञ्च तथा पाठ्यङ्कुमारीणामथापि वा ||
निजदेव्या महास्तोत्रम्पीठाङ्गङ्कवचन्ततः ||
कुमारीणामहन्देव सहस्रन्नाम साष्टकम् ||
पठित्वा सिद्धिमाप्नोति नात्र कार्या विचारणा ||
तदशक्तौ निजदेव्यास्सहस्रं नाम मङ्गलम् ||
अष्टोत्तरम्पठेन्नाथ सिद्ध्याकाङ्क्षी न संशयः ||
तासां स्तोत्रन्दिव्यन्नाथ शृणु सर्वत्र मङ्गलम् ||
अकस्मात्सिद्धिमाप्नोति पठित्वा साधकोत्तमः ||
अग्रे संस्थाप्य तास्सर्वा रत्नकोटिसुशीतलाः ||
ततः स्तोत्रम्पठेद्धीमान्समाहितमना वशी ||
महादिव्याचाररतो वीरभावोल्बणोऽपि वा ||
एवं क्रमेण प्रपठेद्भक्तिभावपरायणः ||
महाविद्यामहासेवाभक्तिश्रद्धाप्लुतार्पितः ||
महाज्ञानी भवेत्क्षिप्र/ व्वाञ्छासिद्धिमवाप्नुयात् ||
अथ कुमारीपूजाप्रयोगः
तत्र एकवर्षावधिषोडशवर्षपर्यन्तमजातपुष्पा कुमारीसञ्ज्ञा
तत्र वर्षक्रमेण नामानि यथा ||
सन्ध्या सरस्वती त्रिधामूर्त्तिः कालिका सुभगा उमा ||
मालिनी कुब्जिका कालसन्दर्ब्भा अपराजिता ||
रुद्राणी भैरवी महालक्ष्मीः पीठनायिका क्षेत्रज्ञा अम्बिका
प्रतिपदादिपञ्चदश्श्यन्त/ व्वृद्धिक्रमेण पूजनीयाः ||
कुमारी तु सर्वजातीयैव पूज्या ||
प्रशस्ता नटीकन्या कापालिकाकन्या रजककन्या नापितकन्या
गोपालककन्या ब्राह्मणकन्या शूद्रकन्या वैद्यकन्या वणिक्कन्या
चाण्डालकन्या सुहृद्वर्गकन्याः ||
कुमारीमासने समुपवेश्य ध्यायेद्यथा ||
बालरूपाञ्च त्रैलोक्यसुन्दरी/ व्वरवर्णिनीम् ||
नानालंकारनम्राङ्गीम्भद्रविद्याप्रकाशिनीम् ||
चारुहास्याम्महानन्दहृदयां शुभदां शुभाम् ||
एवन्ध्यात्वात्मशिरसि पुष्पन्दत्वा मानसोपचारेण सम्पूज्य
पुनर्द्ध्यात्वा कुमार्यङ्गे दत्वा इदमासनम् ऐंह्रींहू/ह्सौः
सन्ध्यायै कुमार्यै नमः ||
प्. ३९४) एवम्पूर्वबीजान्युच्चार्य सरस्वत्यै कुमार्यै नम इत्यादि
वत्सरानुक्रमेण चतुर्थ्यन्तेन नाम्ना आसनादिभिः
षोडशभिरुपचारैः सम्पूजयेत् ||
एतज्जलम् ऐंसन्ध्यायै नमः, एतत्पाद्यम् ह्रींसन्ध्यायैनमः,
एतदाभरणं श्रींसरस्वत्यै एष गन्धः हू/सन्ध्यायै नमः, एतानि
पुष्पाणि ह्सौस्सन्ध्यायै नमः, एष धूपः ऐं सन्ध्यायै नमः, एष
दीपः ह्रीं सन्ध्यायै एतन्नैवेद्यम् ऐं ह्रींश्रींहू/ह्सौः
सन्ध्यायै निवेदयामि खड्गमाल्यकज्जलकुङ्कुमादिकमनेन
नमोन्तेन मन्त्रेण देयम् ||
सर्वत्र चतुर्थ्यन्तङ्कुमार्यै इति विशेषणन्दातव्यम् ||
ततः षडङ्गपूजा ||
तत्र क्रमस्तु कुमार्या हृदयन्दक्षिणहस्तेन धृत्वा महातेजोमयं
शुक्लवर्णं व्विभाव्य ऐंह्रींहू/ह्सौः कुलकुमारिके हृदयाय
नमः शिरः शुक्लवर्णं सर्वमय/ व्विभाव्य
हैंह्रींश्रींऐंशिरसे स्वाहा शिखान्नीलाञ्जनप्रभा/ व्विभाव्य
ओं श्रीं शिखायै वषट् कवचम्प्रथमारुणसङ्काशं सुतेजस्क/
व्विभाव्य ऐंकुलवागीश्वरि कवचायहूम् ततो नेत्रत्रयं
सर्वबीजमयम्महाप्रभं रक्तवर्णङ्कोटिजवापुष्पोज्ज्वल/ व्विभाव्य
ऐंकुलेश्वरी नेत्रत्रयाय वौषट् ह्रीं-अस्त्रायफडिति वामहस्ततले
तर्ज्जनीमध्यमाभ्यान्तालद्वयन्दद्यात् ||
ततस्तस्याः कुण्डबिले सपरिवारम्बालभैरवन्ध्यात्वा एते गन्धपुष्पे
सपरिवारबालभैरवाय नम इति पूजयेत् एते गन्धपुष्पे
ऐंसिद्धजयाय पूर्ववक्त्राय नमः, एवञ्जयायोत्तरवक्त्राय०,
ऐंह्रींश्रींकुब्जिके पश्चिमवक्त्राय०, ऐंकालिके दक्षिणवक्त्राय०
ओंभास्कराय प्रत्येकन्दिक्पालेभ्यः बीरभद्रायै० महाकन्यायै०
कौलिन्यै० कुलगामिन्यै० अष्टादशभुजायै० काल्यै० चण्डदुर्गायै०
ओङ्कारादिनमोऽन्तेन पूजयेत् ||
ततः कुमारीमूलमन्त्रं स्वीयमन्त्र/ व्वा यथाशक्ति जप्त्वा
प्राणायामङ्कृत्वा जपं समर्प्य स्तवकवचादिकम्पठित्वा
अष्टाङ्गम्पञ्चाङ्ग/ व्वा प्रणम्य दक्षिणान्दद्यात् ||
प्. ३९५) इति कुमारीपूजाप्रयोगः ||
अथ कुमारीतर्पणम्
शृणु नाथ प्रवक्ष्यामि कुमारीतर्पणादिकम् |
यासान्तर्पणमात्रेण कुलसिद्धिर्ब्भवेद्ध्रुवम् || १ ||
कुलबालाम्मूलपद्मस्थिताङ्कामविहारिणीम् |
शतधा मूलमन्त्रेण तर्पयामि तव प्रिये || २ ||
मूलपङ्कजयोगाङ्गी/ कुमारी/ श्रीसरस्वतीम् |
तर्पयामि कुलद्रव्यैस्तव सन्तोषहेतुना || ३ ||
चारुमूलाधारपद्मे षड्दलान्तः प्रकाशिनीम् |
श्रीबीजेन तर्पयामि भोगमोक्षाय केवलम् || ४ ||
स्वाधिष्ठानकलोल्लासविष्णुसङ्केतगामिनीम् |
कालिकान्निजबीजेन तर्पयामि कुलामृतैः || ५ ||
स्वाधिष्ठानाख्यपद्मस्थाम्महातेजोमयीं शिवाम् |
सूर्याणां शीर्षमधुना तर्पयामि कुलेश्वरीम् || ६ ||
मणिपूराब्जमध्येषु मनोहरकलेवराम् |
उमां देवीन्तर्पयामि मायाबीजेन पार्वतीम् || ७ ||
मणिपूराम्भोजमध्ये त्रैलोक्यपरपूजिताम् |
मानिनीम्मलचित्तस्य सद्बुद्धिस्तर्पयाम्यहम् || ८ ||
मणिपूर स्थितां रौद्रीम्परमानन्दवर्द्धिनीम् |
आकाशगामिनीन्देवीङ्कुब्जिकान्तर्पयाम्यहम् || ९ ||
तर्पयामि महादेवीम्मन्त्रसाधनतत्पराम् |
योगिनीङ्कालसन्दर्ब्भान्तर्पयामि कुलाननाम् || १० ||
शक्तिमन्त्रप्रदां रौद्रीं ल्लोलजिह्वासमाकुलाम् |
अपराजिताम्महादेवीन्तर्पयामि कुलेश्वरीम् || ११ ||
महाकौलप्रियां सिद्धां रुद्रलोकसुखप्रदाम् |
रुद्राणीं रुद्रकिरणान्तर्पयामि मधुप्रियाम् || १२ ||
षोडशस्वरसंसिद्धिम्महारौरवनाशिनीम् |
महामद्यपानचित्ताम्भैरवीन्तर्पयाम्यहम् || १३ ||
त्रैलोक्यवरदान्देवीं श्रीबीजमालयावृताम् |
महालक्ष्मीम्भवैश्वर्यान्तर्पयाम्यहमम्बिके || १४ ||
लोकानां हितकर्त्रीञ्च हिताहितजनप्रियाम् |
तर्पयामि रमाबीजपीठाद्याम्पीठनायिकाम् || १५ ||
जयन्तीं व्वेदवेदाङ्गमातरं सूर्यमातरम् |
प्. ३९६) तर्पयामि सुधाभिश्च क्षेत्रज्ञाम्माययावृताम् || १६ ||
तर्पयामि कुलानन्दपारगाम्परमाननाम् |
तर्पयाम्यम्बिकान्देवीम्मायालक्ष्मीं हृदि स्थिताम् || १७ ||
सर्वासाञ्चरणद्वयाम्बुजतलञ्चैतन्यविद्यावतां सौख्यार्त्थं
शुभषोडशस्मरयुतां श्रीषोडशीम्मङ्गलाम् ||
आनन्दार्णवपद्मरागखचिते सिंहासने शोभिते
त्वान्नित्यम्परितर्पयामि सकलं श्वेताब्जमध्यासने || १८ ||
ये नित्यं सुप्रतिष्ठितञ्च सकलस्तोत्राङ्गसन्तर्पण/ व्विद्यादान-
निदानमोक्षपरमम्मायामय/ ययान्ति ते |
नो सन्ति क्षितिमण्डलेष्वरिगणास्सर्वे विपत्कारका राजान/ व्वशयन्ति
योगसकलन्नित्या भवन्ति क्षणात् || १९ ||
तर्पणात्मकमोक्षाख्यम्पठते यदि मानुषः |
अष्टैश्वर्ययुतो भूत्वा वत्सरान्माम्प्रपश्यति || २० ||
महायोगी भवेन्नाथ मासादभ्यासतः प्रभो |
त्रैलोक्यङ्क्षोभयेत्क्षिप्र/ व्वाञ्छाफलमवाप्नुयात् || २१ ||
यः पठेदेकभावेन स तर्पणफल/ ल्लभेत् |
पूजाफलमवाप्नोति कुमारीस्तोत्रपाठतः || २२ ||
यो न कुर्यात्कुमार्यर्च्चाः स्तोत्रञ्च नित्यमङ्गलम् |
स भवेत्पासवः कल्पो मृत्युस्तस्य पदे पदे || २३ ||
इति रुद्रयामले उत्तरखण्डे महातन्त्रोद्दीपणे कुमार्युपचर्योपविन्यासे
सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णयभैरवीस/व्वादे
कुमारीतर्पणात्मकस्तोत्रं समाप्तम् ||
अथ कुमारीस्तोत्रम्
भैरव उवाच
देवेन्द्रोदय-इन्दुकोटिकिरणा/ व्वाराणसीवासिनीं व्विद्या/
व्वाग्भवकामिनीन्त्रिनयनां सूक्ष्मक्रियागामिनीम् |
चण्डोद्वेगनिकृन्तनीन्त्रिजगतान्धात्रीङ्कुमारी/
व्वराम्मूलाम्भोरुहवासिनीं शशिमुखीं सम्पूजयन्ति श्रिये || १ ||
भाव्यान्देवगणैः शिवेन्द्रयतिभिर्मोक्षार्थिभिभिर्बालिकां
संध्यान्नित्यगुणोदयान्द्विजगणश्रेष्ठोदयांशारुहाम् |
शुक्लाभाम्परमेश्वरीं शुभकरीम्भद्रा/
व्विशालाननाङ्गायत्रीङ्गणमातरन्दिनपतिङ्कृष्णाञ्च
वृद्धाम्भजे || २ ||
प्. ३९७) बालाम्बालकपूजिताङ्गुणयुता/
व्विद्यावताम्मोक्षदान्धात्रीं शुक्लसरस्वतीन्नवरा/
व्वाग्वादिनीञ्चण्डिकाम् |
स्वाधिष्ठानहरप्रियाम्प्रियकरीं
व्वेदान्तविद्याप्रदान्नित्यम्मोक्षहिताय योगवपुषा
चैतन्यरूपाम्भजे || ३ ||
नानारत्नसमूहनिर्मितगृहे पूज्यां सुरैर्ब्बालिका/ व्वन्दे
नन्दनकानने मनसि सिद्धान्तैकबीजानने |
अर्त्थं देहि निरर्त्थकाय वपुषे हित्वा कुमारीङ्कलां
मह्यम्मातृकुमारिके च त्रिविधामूर्त्त्या च तेजोमयी || ४ ||
हालाहालकरालिकाङ्कुलपथोल्लासैः
कराब्जोद्वहान्नासामोदकरालिनीं हि भजताङ्कामातिरिक्तप्रदाम् |
बालोहम्बटुकेश्वरस्य चरणाम्भोजाश्रितोऽहं सदा हित्वा
बालकुमारिके शिरसि शुक्लाम्भोरुहे सम्भजे || ५ ||
सूर्याह्लादबलाकिनीङ्कलिमहापापार्द्दितापापहान्तेजोगाम्भुवि
सूर्यगाम्भयहरान्तेजोमयीङ्कालिकाम् |
वन्दे हृत्कमले सदा रविदले बालेन्द्रविद्यां सतीं
साक्षात्सिद्धिकरीङ्कुमारि विमले त्वामाद्यरूपेश्वरीम् || ६ ||
नित्यं
श्रीकुलकामिनीङ्कुलवतीङ्कौलामुनामम्बिकान्नानायोगविलासिनीं
सुरमणीन्नित्यान्तपस्यान्विताम् |
वेदान्तार्त्थविशेषदेशवसनाभाषाविशेषस्थिता/ व्वन्दे
पर्वतराजराजतनयाङ्कालप्रिये त्वामहम् || ७ ||
कौमारीङ्कुलमालिनीं रिपुगणक्षोभाग्निसन्दायिनीं
रक्ताभानयनां शुभाम्परममार्गाम्मुक्तिसञ्ज्ञाप्रदाम् |
भार्याम्भोगवतीम्पतिन्त्रिभुवनेष्वामोदपञ्चाननाम्पञ्चास्यप्रिय
कामिनीम्भयहरां सर्पादिहाराम्भजे || ८ ||
चन्द्रास्याञ्चरणद्वयाभुजमहाशोभाविनोदीन्नदीम्मोहादिक्षयका
रिणी/ व्वरकरां श्रीकुब्जिकां सुन्दरीम् |
ये नित्यम्परिपूजयन्ति सहसा राजेन्द्रचूडामणिं
सम्पत्तिन्धनमायुषन्त्रिजगता/ व्याप्येश्वरत्वञ्जगुः || ९ ||
योगीशम्भुवनेश्वरम्प्रियकरं श्रीकालसन्दर्ब्भया
शोभासागरगामिनं सुरतरु/ व्वाञ्छाफलोद्दीपनम् |
प्. ३९८) लोकानामघनाशनाय शिवया श्रीसञ्ज्ञया विद्यया
धर्मप्राणसदैवतम्प्रणमताङ्कल्पद्रुमम्भावये || १० ||
विद्यान्तामपराजितां मदनगामामोदमत्ताननां
हृत्पद्मस्थितपादुकाङ्कुलकलाङ्कात्यायनीम्भैरवीम् |
ये ये पुण्यधियो भजन्ति परमानन्दाब्धिमध्ये मुदा
सर्वाच्छादिततेजसाभयकरीम्मोक्षाय सत्कीर्त्तये || ११ ||
रुद्राणीम्प्रणमामि
पद्मवदनाङ्कोट्यर्कतेजोमयीन्नानालङ्कृतभूषणाङ्कुलभुजामा
नन्दसन्दायिनीम् |
श्रीमायाकमलान्वितां हृदिगतां सन्तानबीजक्रिया/ व्वन्दे
वाग्भवरूपिणीङ्कुलवधूं हूंकारबीजोद्भवाम् || १२ ||
नमामि
वरभैरवीङ्क्षितितलाघकालाननाम्मृणालकुसुमारुणाम्भुवनदोष
संशोधिनीम् |
जगद्भयहराम्परान्त्वरति या च योगेश्वरीं ममापदसहस्रकं
सकलभोगदान्तामहम् || १३ ||
साम्राज्यम्प्रददाति या भगवती विद्या महालक्षणा
साक्षादष्टसमृद्धिदा भुवि महालक्ष्मीः कुलक्षोभहा |
स्वाधिष्ठानसुपङ्कजे विवसिता/ व्विष्णोरनन्तश्रिये वन्दे
राजपदप्रदां शुभकरीङ्कीलेश्वरीं सर्वदा || १४ ||
पीठानामधिपाधिपामसुरहा/ व्विद्यां शुभान्नायिकां
सर्वालङ्करणान्वितान्त्रिजगताङ्क्षोभापहा/ व्वारुणीम् |
वन्दे पीठगनायिकान्त्रिभुवनच्छायाभिराच्छादितां सर्वेषां
हितकारिणीञ्जयवतामानन्दरूपेश्वरीम् || १५ ||
क्षेत्रज्ञाम्मदविह्वलाङ्कुलवतीं सिद्धप्रियाम्प्रेयसीं
शम्भोश्श्रीबटुकेश्वरस्य महतामानन्दसञ्चारिणीम् |
साक्षादात्मपरोद्गमान्निजमनः क्षोभापहां शाकिनी/
व्वाक्यार्त्थप्रकटामहं रजतभा/ वन्दे महाभैरवीम् || १६ ||
सुपूर्णविधुवन्मुखीङ्कमलमध्यसम्भाविनीं शिरोदशशते
दलेऽमृतमहाब्धिधाराधराम् |
प्रणामफलदायिनीं सकलराज्यवश्याङ्गुणान्नमामि
परमाम्बिका/ व्विषयपाशसंहारिणीम् || १७ ||
साक्षादहन्त्रिभुवनेऽमृतपूर्णदेहां सन्ध्यादिदेवि कललाः
कुलपण्डितेन्द्राम् |
तन्नो भजे सुरवरे वरकालिके त्त्वां सिद्धानले प्रतिदिनम्प्रणमामि
भक्त्या || १८ ||
प्. ३९९) भक्तिन्धनञ्जयपद/ ययदि देहि
दास्यन्तस्मिन्महामधुमतीलधुगेहभार्याम् || १९ ||
एतत्स्तोत्रप्रसादेन कवितावाक्पतिर्ब्भवेत् |
महासिद्धीश्वरो दिव्यो वीरभावपरायणः || २० ||
सर्वत्र जयमाप्नोति स हि स्याद्धरवल्लभः |
वाचामीशो भवेत्क्षिप्रङ्कामरूपी भवेन्नरः || २१ ||
पशुरेव महावीरो दिव्यो भवति निश्चितम् |
क्रमशोऽप्यष्टसिद्धिः स्याद्वाग्मी भवति निश्चितम् || २२ ||
सर्वविद्याः प्रसीदन्ति तुष्टास्सर्वदिगीश्वराः |
वह्निः शीतलता/ ययाति जलस्तम्भं सकारयेत् || २३ ||
धनवान्पुत्रवान्राजा इह लोके भवेन्नरः |
परिचरति वैकुण्ठे कैलासे शिवसन्निधौ || २४ ||
मुक्त एव महादेव यो नित्यं सर्वादा पठेत् |
महाविद्यापदाम्भोजं स हि पश्यति निश्चितम् || २५ ||
इति कुमारीस्तोत्रं समाप्तम् ||
अथ कुमारीकवचम्
अथातस्सम्प्रवक्ष्यामि कुमारीकवचं शुभम् |
त्रैलोक्यमङ्गलन्नाम महापातकनाशनम् || १ ||
पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः |
शक्रो देवाधिपः श्रीमान्देवगुरुर्बृहस्पतिः || २ ||
सम्यक्तेजोमयो वह्निर्द्धर्मराजो भयानकः |
वरुणो देवपूज्यो हि जलानामधिपस्स्वयम् || ३ ||
सर्वहर्त्ता महावायुः कुमारः कुञ्जरेश्वरः |
धनाधिपः प्रियश्शंभोस्सर्वे देवा दिगीश्वराः || ४ ||
त्वमेकः प्रभुरेकात्मा सर्वेशो निर्मलोदयः |
एतत्कवचपाठेन सर्वे भूपा धनाधिपाः || ५ ||
प्रणवो मे शिरः पातु माया सन्ध्यात्मिका सती |
ललाटोर्ध्वं महामाया पातु मे श्रीसरस्वती || ६ ||
कामाख्या बटुकेशानी त्रिमूर्तिर्ब्भालमेव तु |
चामुण्डा बीजरूपा च वदनं कालिका मम || ७ ||
पातु मां सूर्यगा नित्यन्तथा नेत्रद्वयम्मम |
कर्णयुग्मङ्कामबीजस्वरूपोमा तपस्विनी || ८ ||
प्. ४००) रसनाग्रन्तथा पातु वाग्देवी मालिनी मम |
तामवस्था कामरूपा दन्ताग्रङ्कुब्जिका मम || ९ ||
देवी प्रणवरूपा सा पातु नित्यं शिरो मम |
ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरूपिणी || १० ||
गलदेशम्महारौद्री पातु मे चापराजिता |
क्षौंबीजम्मे सदा कण्ठं रुद्राणी स्वाहयान्विता || ११ ||
हृदयं षोडशी विद्या पातु षोडशसुस्वरा |
द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका || १२ ||
सर्वमन्त्रस्वरूपा मे चोदरम्पीठनायिका |
पार्श्श्वयुग्मन्तथा पातु हृद्देवी वाग्भवात्मिका || १३ ||
कैशोरी कटिदेशम्मे मायाबीजस्वरूपिणी |
जङ्घायुग्मञ्जयन्ती मे योगिनी कुल्लुकावृता || १४ ||
सर्वाङ्गमम्बिका देवी पातु मन्त्रार्त्थगामिनी |
केशाग्रङ्कमला देवी नासाग्रं नरमोहिनी || १५ ||
चिबुकञ्चण्डिका देवी कुमारी पातु मे सदा |
हृदय/ ल्ललिता देवी पृष्ठम्पर्वतवासिनी || १६ ||
त्रिशक्तिः षोडशी देवी लिङ्गङ्गुह्यं सदावतु |
श्मशाने चाम्बिका देवी गङ्गागर्ब्भे च भैरवी || १७ ||
शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी |
चतुष्पथे सदा पातु मामेव वज्रधारिणी || १८ ||
शवासनगता चण्डा मुण्डमालाविभूषिता |
पातु मामेव लिङ्गे च ईश्वरी शक्तिरूपिणी || १९ ||
वने पातु महाबाला महारण्ये रणप्रिया |
महाजले तडागे च शत्रुमध्ये सरस्वती || २० ||
महाकाशपथे पृथ्वी पातु मां शीतला सदा |
रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी || २१ ||
अर्द्धनारीश्वरी पातु मम पादतलम्मही |
नवलक्षमहाविद्या कुमारीरूपधारिणी || २२ ||
कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीला |
पातु मा/ व्वरदा वाणी बटुकेश्वरकामिनी || २३ ||
इति ते कथितन्नाथ कवचम्परमाद्भुतम् |
कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्त्थपारगम् || २४ ||
प्. ४०१) यो जपेत्पञ्चतत्त्वेन स्तोत्रेण कवचेन च |
आकाशगामिनी सिद्धिर्ब्भवेत्तस्य न संशयः || २५ ||
वज्रदेही भवेत्क्षिप्रङ्कवचस्य प्रसादतः |
सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् || २६ ||
विवादे व्यवहारे च सङ्ग्रामे कुलमण्डले |
महापथे श्मशाने च योगसिद्ध्युद्भवेन च || २७ ||
पठित्वा फलमाप्नोति सत्यं सत्यङ्कुलेश्वर |
वशीकरणकवचं सर्वत्र जयदं शुभम् || २८ ||
पुण्यव्रती पठेन्नित्य/ ययतिश्श्रीमान्भवेद्ध्रुवम् |
सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् || २९ ||
पठेद्यः शृणुयाद्वापि स भवेत्कल्पपादपः |
भुक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदम् || ३० ||
प्राप्नोति साधकश्रेष्ठो धारयित्वा भवेज्जयी |
असाध्यं साधयेद्विद्वान्पठित्वा कवचं शुभम् || ३१ ||
कुलीनानाम्महासौख्यन्धर्मार्त्थकाममोक्षदम् |
योगिनान्दिवसे नित्यङ्कुमारीम्पूजयेन्निशि || ३२ ||
उपचारविशेषेण त्रैलोक्य/ व्वशमानयेत् |
पललेनाशने वापि मत्स्येन मुद्रया सह || ३३ ||
नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः |
माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः || ३४ ||
पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् |
यज्ञदानतपस्याभिः प्रयोगेण महेश्वर || ३५ ||
स्तुत्वा कुमारीकवचं यः पठेदेकभावतः |
तस्य सिद्धिर्ब्भवेत्क्षिप्रं राजराजेश्वरो भवेत् || ३६ ||
वाञ्छाफलमवाप्नोति यद्यन्मनसि वर्त्तते |
भूर्ज्जपत्रे लिखित्वा यः कवचन्धारयेद्यदि || ३७ ||
शनिमङ्गलवारे च नवम्यामष्टमीदिने |
चतुर्द्दश्याम्पौर्णमास्याङ्कृष्णपक्षे विशेषतः || ३८ ||
लिखित्वा धारयेद्विद्वानुत्तराभिमुखो भवेत् |
महापातकयुक्तोपि मुक्तस्स्यात्सर्वपातकैः || ३९ ||
योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् |
बहुपुत्रान्विता कान्ता सर्वसम्पत्तिस/ययुता || ४० ||
तथा श्रीपुरुषश्रेष्ठो दक्षिणे धारयेद्भुजे |
प्. ४०२) ऐहिके दिव्यदेहः स्यात्पञ्चाननसमप्रभः || ४१ ||
शिवलोके परे याति वायुवेगी निरामयः |
सूर्यमण्डलमाभेद्य परम्मोक्षमवाप्नुयात् || ४२ ||
लोकानामतिसौख्यदम्भयहरं
श्रीपादभक्तिप्रदम्मोक्षार्त्थङ्कवचं
शुभम्प्रपठतामानन्दसिन्धूद्भवम् |
पन्थानङ्कलिकालघोरकलुषध्वंसैकहेतुञ्च य/ यये लोकाः
प्रपठन्ति धर्ममतुलम्मोक्ष/ व्रजन्ति क्षणात् || ४३ ||
इति रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे
कुमारीकवचोल्लासे सिद्धमन्त्रप्रकरणे भावनिर्णयकुमारीकवचं
समाप्तम् ||
अथान्यत्स्तोत्रम्
जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणी |
पूजाङ्गृहाण कौमारि जगन्मातर्न्नमोऽस्तु ते || १ ||
त्रिपुरान्त्रिपुराधारान्त्रिवर्ष्षां ज्ञानरूपिणीम् |
त्रैलोक्यवन्दितान्देवीन्त्रिमूर्त्तिम्पूजयाम्यहम् || २ ||
कालात्मिकाङ्कलातीताङ्कारुण्यहृदयां शिवाम् |
कल्याणजननीन्देवीङ्कल्याणीम्पूजयाम्यहम् || ३ ||
अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम् |
अनन्तशक्तिका/ ल्लक्ष्मीं रोहिणीम्पूजयाम्यहम् || ४ ||
कामचारीं शुभाङ्कान्ताङ्कालचक्रस्वरूपिणीम् |
कामदां करुणोदाराङ्कालिकाम्पूजयाम्यहम् || ५ ||
चण्डवीराञ्चण्डमायाञ्चण्डमुण्डप्रभञ्जनीम् |
पूजयामि सदा देवीञ्चण्डिकाञ्चण्डविक्रमाम् || ६ ||
सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् |
सर्वभूतात्मिका/ ल्लक्ष्मीं शाम्भवीम्पूजयाम्यहम् || ७ ||
दुर्गमे दुस्तरे कार्ये भवदुःखनिवासिनीम् |
पूजयामि सदा भक्त्या दुर्गादुर्गार्त्तिनाशिनीम् || ८ ||
सुन्दरीं सर्ववर्णाभां सुखसौभाग्यदायिनीम् |
सुभद्राजननीन्देवीं सुभद्राम्पूजयाम्यहम् || ९ ||
इति कुमारीस्तोत्रम्
इति शक्तप्रमोदे कुमारीतन्त्रं समाप्तम्
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
द्वादशं तन्त्रम्
बलिदानक्रमः
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
अथ बलिदानक्रमः
स्वयमुत्तराभिमुखः पूर्वाभिमुखम्बलिम् अव्यग्रावयवं सुन्दरं
हृष्टपुष्टम्माल्यङ्कण्ठे वेष्टयित्वा स्नातं समानीय कृताञ्जलिः
पठेत् ||
ओं वाराही यमुना गङ्गा करतोया सरस्वती |
कावेरी चन्द्रभागा च सिन्धुभैरवसागराः ||
पशुस्नानविधानाय सान्निध्यमिह कल्पय |
इति तीर्त्थान्यावाह्य ||
ओं अग्निः पशुरासीत्तेनायजन्त स एत/ लोकमजयद्यस्मिन्नग्निः स ते लोको
भविष्यति तञ्जेष्यसि पिबैता अपः ||
ओं वायः पशुरासीत्तेनायजन्त स एत/ ल्लोकमजयद्यस्मिन्वायुः स ते लोको
भविष्यति तञ्जेष्यसि पिबैता अपः |
ओं सूर्यः पशुरासीत्तेनायजन्त स एत/ ल्लोकमजयद्यस्मिन्सूर्यः स ते लोको
भविष्यति तञ्जेष्यसि पिबैता अपः ||
ओं वाचन्ते शुन्धामि प्राणन्ते शुन्धामि |
चक्षुस्ते शुन्धामि श्रोत्रन्ते शुन्धामि मेढ्रन्ते शुन्धामि पायुन्ते
शुन्धामि ||
चारित्रांस्ते शुन्धामि |
मनस्त आप्यायताम् |
वाक् त आप्यायताम् ||
प्राणस्त आप्यायताम् ||
चक्षुस्त आप्यायताम् ||
श्रोत्रन्त आप्यायताम् |
यत्ते क्रूर/ ययदस्ति तन्तत्त आप्यायताम् |
निष्ट्यायताम् |
तत्ते शुद्ध्या तु शोमहोभ्यः स्वाहा |
इति मन्त्रैः स्नापयित्वा ओं मेधाकारस्तम्भमध्ये पशुबन्धाय
सशृङ्गाद्यवयवम्पशुम्बन्धय बन्धय
ब्रह्माण्डखण्डरूपस्तम्भे पशुम्बन्धय बन्धय ह्वः
फट्स्वाहा ओं ह्रा/ह्री/ह्रू/चा/ चण्डिकायै इमम्पशुम्प्रोक्षामि स्वाहा
इति प्रोक्षणम् ||
ततस्सशृङ्गाद्यवयवम्पशुम्मोक्षङ्कुरु कुरु स्वाहेति मोक्षं कृत्वा
क्षमस्वेति
प्. ४०६) ललाटे सिन्दूरन्दत्त्वा ओं छागपशवे नम इति पाद्यादिकन्दत्त्वा
एतदधिपतये ओं अग्नये नमः एतत् सम्प्रदानीयायै ह्रीं अमुकदेवतायै
नमः इति पुष्पन्दत्त्वा पशोरङ्गदेवताः पूजयेत् ||
यथा शिरसि ओं रुधिरवदनायै नमः, ललाटे ओं शार्ङ्गिण्यै नमः |
भ्रूमध्ये ओं भङ्गायै नमः, चक्षुषोः ओं त्रिनेत्रायै नमः,
कर्णयोः ओं पार्वत्यैनमः, घ्राणे ओं गौर्यैनमः, चिबुके ओं
चण्डिकायै नमः, दन्तपङ्क्तौ ओं उग्रचण्डिकायै नमः, जिह्वायाम् ओं
चण्डघण्टायै नमः, मुखे ओं विरूपाक्षायैनमः, ग्रीवायाम् ओं
चण्डायै नमः, पृष्ठे ओं महाभैरव्यै नमः, उदरे ओं
वैष्णव्यैनमः, चतुष्पदे ओं चण्डप्रियायैनमः, पार्श्वयोः ओं
सर्वैश्वर्यैनमः, कटिदेशे ओं विरूपाक्षायै नमः खुराग्रे ओं
कौशिक्यैनमः, लाङ्गूले ओं प्रहर्षिण्यै नमः, सर्वाङ्गे ओं
पश्वधिष्ठातृदेवताभ्यो नमः इति सम्पूज्य उत्सृजेत् ||
विष्णुः ओं तत्सदद्याश्विने मासि शुक्ले पक्षेऽमुकतिथौ
वार्षिकशरत्कालीनामुकदेवतामहोत्सवे अमुकगोत्रस्यामुकस्य
अमुकदेवताप्रीतिकामनया अमुकदेव्यै इमम्पशु/
वह्निदैवतन्तुभ्यमहङ्घातयिष्यामि इत्युत्सृज्य कृताञ्जलिः पठेत् ||
ओं छाग त्वम्बलिरूपेण मम भाग्यादुपस्थितः ||
प्रणमामि ततस्सर्वं रूपिणम्बलिरूपिणम् ||
यज्ञार्त्थे पशवस्सृष्टास्स्वयमेव स्वयम्भुवा ||
अतस्त्वाङ्घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ||
पशुयोनिप्रसूतोऽसि पूजाहोमादिकर्मसु ||
तुष्टा भवतु सा देवी स रक्तपिशितैस्तव ||
चंडिकाप्रीतिदानेन दातुरापद्विनाशनः ||
चामुण्डाबलिरूपाय बले तुभ्यन्नमोऽस्तु ते ||
ततः ||
पशुपाशाय विद्महे शिरश्छेदाय धीमहि ||
तन्नः पशुः प्रचोदयात् ||
इति कर्णे जपेत् ||
ततः खड्गमानीय ह्रीं इति बीजाक्षर/ ल्लिखित्वा ध्यायेत् ||
कृष्णम्पिनाकपाणिञ्च कालरात्रिस्वरूपिणिम् ||
उग्ररक्तास्यनयनं रक्तमाल्यानुलेपनम् ||
रक्ताम्बरधरञ्चैव पाशहस्तङ्कुटुम्बिनम् ||
प्. ४०७) पिबमानञ्च रुधिरम्भुञ्जानङ्कव्यसंहतिम् ||
एवङ्खड्गन्ध्यात्वा गृहीत्वा ||
ओं रसना त्वञ्चण्डिकायाः सुरलोकप्रसाधकः ||
इत्यभिमन्त्र्य ||
ऐंह्रींखड्गायनम इति पाद्यादिभिः सम्पूज्य पुनर्म्मुष्टौ ओं
महादेवाय नमः, धारे ओंयमायनमः, अग्रे ओंब्रह्मणेनमः ||
ओं असिर्विशनसः खड्गस्तीक्ष्णधारो दुरासदः ||
श्रीगर्ब्भो विजयश्चैव धर्मपाल नमोऽस्तु ते ||
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ||
नक्षत्रङ्कीर्त्तिका तुभ्यङ्गुरुर्देवो महेश्वरः ||
हिरण्यञ्च शरीरन्ते धाता देवो जनार्दनः ||
पिता पितामहो देवस्त्वम्माम्पालय सर्वदा ||
नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः ||
भावशुद्धोमर्षणञ्च अतितेजास्तथैव च ||
ओं तीक्ष्णदंष्ट्रायनम इति पुष्पन्दत्त्वा ||
ओं ह्रींफट् इति खड्गमादाय ओं कालि कालि वज्रेश्वरी लोहदण्डायै
नमः इति जपित्वा छागस्य ग्रीवायाम् ||
खड्ग त्वं शीघ्रञ्छिन्धि छिन्धि फट् फट् स्वाहा इति
पूर्वाभिमुखम्बलिं स्वयमुत्तराभिमुख उत्तराभिमुखम्बलिं
स्वयम्पूर्वाभिमुखो वा, सकृत्प्रहारेण छिन्द्यात् ||
ततो मृन्मयादिपात्रे रुधिरमादाय चतुर्ब्भागङ्कृत्वा ऐशान्याम्
ओंविदारिकायैनमः, आग्नेययाम् ओंपूतनायैनमः, नैरृत्याम् ओं
पापराक्षस्यैनमः, वायव्याम् ओंकौशिक्यैनमः, ओंतत्सदद्यामुके
मास्यमुकपक्षेऽमुकतिथौ वार्षिकशरत्कालीनामुकदेवतामहोत्सवे
ऽमुकगोत्रस्यामुकस्य
दशवर्षावच्छिन्नयामुकदेवताप्रीतिकामनयाऽमुकदेव्यै
छागपशुरुधिरन्दास्यामि इतिसङ्कल्प्य, ओं कालि कालि महाकालिके
पापनाशिनी || शोणितञ्च बलिङ्गृह्ण वरदे वामलोचने ||
एष रुधिरबलिः ||
ओं दक्षयज्ञेति मन्त्रेण दद्यात् ||
तत ऐंह्रींश्रींकौशिकि रुधिरेणाप्यायतामिति वदेत् ||
ततः शिरसि ज्वलद्दीपशिखान्दत्त्वा ओं तत्सदद्यामुके
मास्यमुकपक्षेऽमुकतिथौ वार्षिकशरत्कालीनामुकमहोत्सवे
प्. ४०८) अमुकगोत्रस्यामुकस्य
श्रीमदमुकदेवतादर्शनाभिवन्दनस्पर्शनाभिपूजनस्नपनतर्पणज्
अनितपूर्वपूर्वाधिकपुण्यप्राप्तिकामोऽमुकदेव्यै
सप्रदीपच्छागपशुशीर्षन्दास्यामि इति सङ्कल्प्य || एष
सप्रदीपच्छागपशुशीर्ष्षबलिः ह्रींदुर्गादेव्यैनम इत्युत्सृज्य ||
ओं जय त्वं सर्वभूतेशे सर्वभूतसमावृते || रक्ष मान्निजभूतेभ्यो
बलिम्भुङ्क्ष्व नमोऽस्तु ते || ततः खड्गरुधिरमादाय || ओं यं यं
स्पृशामि पादेन यं यं पश्यामि चक्षुषा || स स मे वश्यता/ ययातु
यदि शक्रसमो भवेत् || इति ललाटे तिलकङ्कुर्यात् || मेषाघाते तु
मेषेत्यूहेन योज्यम् || मेषरुधिरदाने तु
एकवर्षावच्छिन्नामुकदेवताप्रीतिकामः प्रभूतबलिदाने तु द्वौ वा
त्रीन् वा अग्रतः कृत्वा सम्प्रोक्ष्य तत्तत्पशुभ्यो नम इति सम्पूज्य छाग
त्वमित्येकवचनानूहेन प्रयोगः || पश्वन्तरेऽप्येवम् || वाक्ये तु एतान्
पशून् तुभ्यमहङ्घातयिष्ये || रुधिरदाने तु एतान् रुधिरबलीन्
दास्यामि इति सङ्कल्प्य प्रत्येकेन दद्यात् || शीर्षदानमप्येवम् || ततो
मूलमन्त्र/ ययथाशक्ति जप्त्वा || समर्प्य प्रणमेदिति
नन्दिकेश्वरपुराणोक्तपद्धतिः ||
अथ तान्त्रिकबलिदानविधिः
तत्र सुलक्षणम्पशुन्देव्यग्रे संस्थाप्य वक्ष्यमाणविधिना
उत्सृजेत् || तदुक्त/ ययामले || देव्यग्रे स्थापित्वा तु पशु/ ल्लक्षणस/युतम् ||
श्वेतसर्षपविक्षेपाद्भूतानुत्सारयेत्ततः || अर्ग्घ्योदकेन सम्प्रोक्ष्य
अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य धेनुमुद्रयामृतीकृत्य
गन्धपुष्पाक्षतैः पशुं सम्पूज्य मूलेन सप्तधा तत्त्वमुद्रया
प्रोक्षणङ्कृत्वा कर्णे इमम्मन्त्रम्पठेत् || पशुपाशाय विद्महे
विश्वकर्मणे धीमहि || तन्नो जीवः प्रचोदयात् || ततो ह्रीं कालि कालि
वज्रेश्वरि लोहदण्डायै नम इति मन्त्रेण खड्गम्पूजयेत् || ततः
खड्गस्याग्रमध्यमूलङ्क्रमेण पूजयेत् ||
प्. ४०९) यथा ह्रू/वागीश्वरीब्रह्मभ्यान्नमः ||
हू/लक्ष्मीनारायणाभ्यां नमः ||
ह्रू/ उमामहेश्वराभ्यान्नमः ||
ततो ब्रह्मविष्णुशिवशक्तियुक्ताय खड्गाय नम इति सर्वत्र पूजयित्वा
प्रणमेत् ||
खड्गाय खरशाणाय शक्तिकार्यार्त्थतत्परः ||
पशुच्छेद्यस्त्वया शीघ्रङ्खड्गनाथ नमोऽस्तु ते ||
ततो महावाक्यममुकदेवताप्रीतिकामोऽमुकदेव्यै
इमम्पशुन्तुभ्यमहं सम्प्रददे || ततो निवेदयेत् ||
यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ||
ततो बलिञ्छिन्द्यात् ||
ततो रुधिरं समांसन्देव्यै दद्यात् ||
ततोऽवशिष्टम्बटुकादिभ्यो बलिन्दद्यात् || यथा ||
हू/ या/बटुकायनम इति गन्धादिभिस्सम्पूज्य पूर्ववन्मन्त्रेण
वायव्ये बलिन्दद्यात् || हू/या/योगिनीभ्योनम इति सम्पूज्य
पूर्ववन्मन्त्रेण ईशाने बलिन्दद्यात् ||
हू/क्षा/क्षेत्रपालायनम इति सम्पूज्य पूर्ववन्मन्त्रेण
नैरृत्याम्बलिन्दद्यात् ||
हू/गा/गणपतयेनम इति सम्पूज्य पूर्ववन्मन्त्रेण
आग्नेययाङ्गणेशाय बलिन्दद्यात् || इति तन्त्रसारः ||
अथ होमपद्धतिः
तत्रादौ कुण्डस्थण्डिलादिरीतिः || मत्स्यपुराणे ||
प्रागुदक्प्रवणाम्भूमिङ्कारयेद्यत्नतो नरः ||
प्रागुदक्प्रवणाम्पूर्वनीचामुत्तरनीचा/ व्वा तत्र वसिष्ठपञ्चरात्रे
विज्ञानललितायाञ्च ||
सर्वाधिकारीकङ्कुण्डञ्चतुरस्रन्तु सर्वदम् ||
चतुरस्रञ्चतुष्कोणम् ||
भविष्योत्तरे || सहस्रे त्वथ होतव्ये कुर्यात्कुण्डङ्करात्मकम् ||
द्विहस्तमयुते तच्च लक्षहोमे चौष्करम् ||
द्विहस्तादिके यामलः ||
पूर्वपूर्वस्य कुण्डस्य कोणसूत्रेण निर्म्मितम् ||
उत्तरोत्तरकुण्डानाम्मानन्तत्परिकीर्त्तितम् ||
पूर्वपूर्वस्य कुण्डस्य हतद्विहस्तादिमितस्य कोणसूत्रेण
ईशानान्निरृतिकोणदत्तसूत्रेण परिमित/
ययन्मानमुत्तरोत्तरकुण्डानान्तदेव पारिभाषिकन्द्विहस्तादिमानन्न
तु प्रकृतहस्तद्वैगुण्यादि मितम् ||
प्. ४१०) तथात्वे द्विहस्तादिमितस्य चतुर्हस्तपरिमाणापत्तेः ||
कृषिकस्य भूमेः परिमाणवत् || वसिष्ठपञ्चरात्रे ||
यावान्कुण्डस्य विस्तारः खननन्तावदिष्यते ||
हस्तैके मेखलास्तिस्रो वेदाग्निनयनाङ्गुलाः ||
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः ||
चतुर्हस्ते तु कुण्डे ता वसुतर्क्कयुगाङ्गुलाः ||
ब्रह्मचारिमेखलावत् ||
कुण्डवेष्टिता मृद्घटिताः ||
ताश्च खातदेशाद्बाह्ये एकाङ्गुलरूपङ्कण्ठम्परित्यज्य उच्छ्रयेण
विस्तारेण चेत्यादि क्रमेण वेदाद्यङ्गुलाः ||
एतद्विपरीतास्तन्त्रान्तरोक्ता व्यवहारविरुद्धाः ||
वेदाश्चत्वारः, अग्नयस्त्रयः, नयने द्वे, रसाः षट्, गुणास्त्रयः,
वसुतर्कयुगानि अष्टषट्चत्वारि पिङ्गलामते |
खातादेकाङ्गुलन्त्यक्त्वा मेखलाना/ व्विधिर्ब्भवेत् || एककुण्डस्य
पश्चिमदिक्कर्त्तव्यतामाह महादाननिर्णये वसिष्ठपञ्चरात्रे ||
भुक्तौ मुक्तौ तथा पुष्टौ जीर्णोद्धारे तथैव च || सदा होमे सदा
शान्तावेक/ व्वारुणदिग्गतम् || शारदातिलके || होतुरग्रे यो
निरासामुपर्यश्वत्थपत्रवत् ||
मुष्ट्यरत्न्येकहस्तानाङ्कुण्डाना/ ययोनिरीरिता ||
षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशालिनी ||
एकाङ्गुलन्तु योन्यग्रङ्कुर्यादीषदधोमुखम् ||
एकैकाङ्गुलतो योनिङ्कुण्डेष्वन्येषु वर्द्धयेत् ||
यावद्द्वयक्रमेणैव योन्यग्रमपि वर्द्धयेत् ||
स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम् ||
आसाम्मेखलानाम् अश्वत्थपत्रवदित्यनेन
चतुरङ्गुलविस्तृतमूलाद्यथोक्तक्रमेण
एकाङ्गुलान्तस्सङ्कुचितविस्ताराः ||
होमनिमित्ताग्निस्थापनार्त्थस्थण्डिलविधिर्यथा ||
वसिष्ठसंहितायाम् -तस्मात्सम्यक् परीक्ष्यैवङ्कर्त्तव्या शुभवेदिका
||
हस्तमात्रं स्थण्डिल/ व्वा सङ्क्षिप्ते होमकर्मणि |
क्रियासारेऽपि ||
कुण्डमेव/विधन्न्यस्यात्स्थण्डिल/ व्वा समाश्रयेत् ||
शारदातिलकेऽपि ||
नित्यन्नैमित्तिकङ्काम्यं स्थण्डिले वा समाचरेत् ||
प्. ४११) हस्तमात्रं तु तत्कुर्याच्चतुरस्रं समन्ततः ||
इति तिथ्यादितत्त्वे, अपि च गोभिलः ||
अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणन्देशं सम/ व्वा परिसमुह्य
उपलिप्य मध्यतः प्राचीं रेखामुल्लिख्य उदीचीञ्च
संहताम्पश्चान्मध्ये प्राचीस्तिस्र उल्लिख्याभ्युक्षयेल्लक्षणावृदेषा
सर्वत्रेति ||
अनुगुप्ता आच्छादिताः पतितादिभिरदृष्टा इति यावत् ||
प्राङ्नीचादिफलमाह गृह्यसङ्ग्रहे गोभिलपुत्रः ||
प्राङ्नीचब्रह्मवर्च्चस्यमुदङ्नीचं यशोत्तमम् ||
पित्र्यन्दक्षिणतो नीचम्प्रतिष्ठालम्भकं समम् ||
यशोत्तममित्यत्र सान्ता अप्यदन्ता इत्युक्तेरदन्तोऽपि यशशब्दः
गयाशिरे इतिवत् ||
परिसमुह्य सर्वतः कुशैः पार्श्वादिकमपसार्य उत्तरस्यान्दिशि
सार्द्धहस्तोपरि क्षिपेत् ||
परिसमुह्य वितस्तित्रये उत्तरत उत्करङ्करोतीति हरिशर्म्मधृतवचनात् ||
तत्तदुपलेपनम् ||
तत्र कारणमाह गृह्यसङ्ग्रहः ||
इन्द्रेण वज्राभिहतः पुरा वृत्रो महासुरः ||
मेदसा तस्य सङ्क्लिन्ना तदर्त्थमुपलेपयेत् || इति ||
मध्यतः स्थण्डिलाभ्यन्तरे दक्षिणांशेन तु मध्यांशे
उदग्गतैकविंशत्यङ्गुलरेखानुरोधात् || अन्यथा ||
कुशैस्सम्मार्ज्जयेद्भूमिं शुद्धामादौ शुचिस्ततः ||
हस्तमात्राञ्चतुरस्राङ्गोमयेनोपलेपयेत् ||
इति भारद्वाजीयहस्तप्रमाणस्थण्डिले तदनुपपत्तेः ||
प्राचीम्प्राग्गताम् ||
उदीचीञ्च संहताम् ||
पश्चादिति ||
प्राग्गतायाः पश्चिमे भागे स/ल्लग्नामुदगग्राम् मध्ये
उदग्गतायाः प्राचीः प्रागग्रास्थिस्रो रेखा उल्लिख्याभ्युक्षयेदिति ||
रेखाभ्य उद्धृतमृत्तिकोद्धरणपूर्वकमभ्युक्षयेत् ||
उल्लिख्य उद्धृत्याभ्युक्षयेदिति कात्यायनसूत्रात् ||
उत्करप्रक्षेपदेशमाह गृह्यसङ्ग्रहः ||
उत्करङ्गृह्य रेखाभ्योऽरत्निमात्रे निधापयेत् ||
द्वारमेतत्पदार्थानाम्प्रागुदीच्यान्दिशि स्मृतम् || इति ||
परिसमूहनादिपरिषेकान्तङ्कर्म लक्षणसञ्ज्ञकन्तस्य
लक्षणस्यावृत्प्रक्रिया सर्वत्र यत्र यत्राग्निप्रणयनन्तत्र तत्र बोध्या ||
प्. ४१२) रेखाप्रमाणमाह छन्दोगपरिशिष्टे कात्यायनः ||
दक्षिणे प्राग्गतायास्तु प्रमाणन्द्वादशाङ्गुलम् ||
तन्मूललग्ना योदीची तस्या एवन्नवोत्तरम् ||
उदग्गतायास्स/ल्लग्नाश्शेषाः प्रादेशमात्रिकाः ||
सप्तसप्ताङ्गुलांस्त्यक्त्वा कुशेनैव समुल्लिखेत् ||
नवोत्तरन्नवाधिकन्द्वादशाङ्गुलमेकविंशत्यङ्गुलमित्यर्थः ||
शेषाः उक्तरेखयोरवशिष्टास्तिस्रः कुशेन इति सर्वत्राभिसम्बध्यते ||
एवकारेण शाखान्तरोक्तस्य व्यावृत्तिः ||
रेखाणान्देवतावर्णाञ्चाह स्मृतिः ||
प्राग्गता पार्त्थिवी ज्ञेया चाग्नेयी चाप्युदग्गता ||
प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता स्मृता ||
पार्त्थिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत् ||
प्राजापत्या भवेत्कृष्णा नीला चैन्द्री प्रकीर्त्तिता ||
श्वेतवर्णेन सौमी स्याद्रेखाणा/ व्वर्णलक्षणम् ||
अग्निस्थापनपर्यन्तं सव्यहस्तप्रादेशस्य विधानमाह
गृह्यसङ्ग्रहः ||
सव्यम्भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु ||
तावन्नोत्थापयेत्पाणिं ययावदग्निन्निधापयेत् ||
मानकर्त्तारमाह च्छन्दोगपरिशिष्टे कात्यायनः ||
मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि ||
मानकृद्यजमानस्स्याद्विदुषामेष निश्चयः ||
अङ्गुष्ठाङ्गुलिमानमाह स एव ||
अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते ||
तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा ||
यजमानासन्निधौ होमे तु सादारणाङ्गुलिमानम् ||
यथा कपिलपञ्चरात्रे -अष्टभिस्तैर्ब्भवेज्जैष्ठ्य/ मध्यमं
सप्तभिर्यवैः ||
कन्यसं षड्भिरुद्दिष्टमङ्गुलम्मुनिसत्तमैः ||
तैः प्रक्रम्यमानयवैः ||
कन्यसङ्कनिष्ठिम् ||
मानन्तु पार्श्श्वेन ||
षड्यवाः पार्श्श्वमिताः ||
इति कात्यायनवचनात् ||
इति संस्कारतत्त्वम् ||
नाजप्तस्सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः ||
नानिष्टो यच्छते कामांस्तस्मात्त्रितयमर्च्चयेत् ||
पूजया लभते पूजाञ्जपात्सिद्धिर्न्न संशयः ||
विभूतिञ्चाग्निकार्येण सर्वसिद्धिञ्च विन्दति ||
प्. ४१३) नीलतन्त्रेपि ||
नित्यहोमम्प्रवक्ष्यामि सर्वार्त्थ/ ययेन विन्दति ||
सपर्यां सम्यगापाद्य बलिपूर्वञ्चरेद्विधिम् ||
ततो होमन्तर्पणञ्च चरेत्साधकसत्तमः ||
बलिवैश्वादिकञ्चैव ब्राह्मणस्समुपाचरेत् ||
अर्ग्घ्योदकेन सम्प्रोक्ष्य तिस्रो रेखास्समालिखेत् ||
विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ||
मूलमंत्रं समुच्चार्य कुण्डे व स्थण्डिलेऽपि वा ||
भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च ||
स्वाहान्तेन त्रिधा हुत्वा षडङ्गं हवनञ्चरेत् ||
तथा ||
ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ||
हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दुमण्डले ||
श्यामादौ विशेषः ||
भैरवा/श्च हुनेदष्टौ आज्यान्वितैस्तिलैश्शुभैः ||
पूर्वादिदिक्क्रमेणैव ततो होमं समाचरेत् ||
अथ संक्षेपहोमप्रयोगः
कुण्डे वा स्थण्डिले वापि वीक्षणाद्यभिसंस्कृते ||
प्रागग्रा उदगग्राश्च तिस्रो रेखास्समालिखेत् ||
तथा च वीक्षणम्मूलमन्त्रेण शरेण ताडनम्मतम् ||
तेनैव प्रोक्षणं प्रोक्त/ व्वर्मणाभ्युक्षणम्मतम् ||
ततो मूलमुच्चार्य कुण्डाय नम इति सम्पूज्य प्रागग्रास्तिस्रो रेखाः
कर्त्तव्याः ||
प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येन सम्पूज्य उदगग्रासु
ब्रह्मवैवस्वतेन्दून् पूजयेत् ||
सुन्दरीपक्षे तु सर्वत्र षट्तारीप्रयोगः ||
षट्तारी च ऐंह्रींश्रीं ऐंक्लींसौः ब्रह्मणे नमः ||
एवङ्क्रमेण पूजयेत् ||
तथा ब्रह्मसंहितायां होमकुण्डे ||
ऐशान्या/ व्वेदिकां हस्तविस्तारोन्नतिशालिनीम् ||
कृत्वास्मिंन्स्थापयेत्कुम्भ/ ययथोक्तक्रमयोगतः ||
तत्र सम्पूजयेद्देव/ ययथाविध्युपचारकैः ||
ततो होमम्प्रकुर्वीत देवतासन्निधानतः ||
ततः कुण्डमध्ये
षट्कोणवृत्तत्रिकोणन्तद्बहिरष्टदलपद्मन्तद्बहिश्चतुरस्रञ्चतुर्द्द्वार
समेत/ ल्लिखित्वा तदुपरि मूलेन पुष्पाञ्जलिन्दद्यात् सुन्दरीपक्षे तु
बालया ||
प्. ४१४) ततः सर्वाणि प्रणवेनाभ्युक्ष्य वह्नेर्योगपीठमर्च्चयेत् ||
तद्यथा ||
कर्णिकोपर्याधारशक्त्यादिन्सम्पूज्याऽग्न्यादिकोणचतुष्केषु ||
ओं धर्मायनमः
ओं ज्ञानायनमः,
ओं वैराग्यायनमः,
ओं ऐश्वर्यायनमः ||
पूर्वादिदिक्षु ओं अधर्मायनमः,
ओं अज्ञानायनमः,
ओं अवैराग्यायनमः,
ओं अनैश्वर्यायनमः,
मध्ये ओं अनन्तायनमः,
ओं पद्मायनमः,
ओं अं-अर्कमण्डलाय द्वादशकलात्मनेनमः,
ओं उंसोममण्डलाय षोडशकलात्मनेनमः,
ओं म/व्वह्निमण्डलाय दशकलात्मनेनमः ||
ततः केसरेषु पूर्वादिमध्ये च ओं पीतायैनमः,
ओं श्वेतायैनमः,
ओं अरुणायैनमः,
ओं कृष्णायैनमः,
ओं धूम्रायैनमः,
ओं तीव्रायैनमः,
ओं स्फुलिङ्गिन्यैनमः,
ओं रुधिरायैनमः,
ओं ज्वालिन्यैनमः ||
ततो र/वह्न्यासनायनमः || ततः ||
वागीश्वरीमृतुस्नातान्नीलेन्दीवरलोचनाम् ||
वागीश्वरेण स/ययुक्ताङ्क्रीडाभावसमन्विताम् ||
इति ध्यात्वा ||
ओं ह्रींवागीश्वरायनमः, ओं वागीश्वर्यैनम इतिमन्त्रेण
पञ्चोपचारैस्सम्पूज्य सूर्यकान्तादिसम्भूतं श्रोत्रियगेहज/ व्वा
वह्निमानयेत् ||
सुन्दरीपक्षे तु कामेश्वरङ्कामेश्वरीम्पूजयेत् ||
गौतमीये || पाषाणभववह्निञ्च यदि वारणिसम्भवम् ||
श्रोत्रियाणाङ्गेहजञ्च वनस्थ/ व्वाथवा हरेत् ||
यदृच्छालाभस/ययुक्तोऽप्ययोग्यो यागकर्मणि ||
निरग्निब्राह्मणाल्लब्धो ह्यर्द्धलाभकरो भवेत् ||
क्षत्रबन्धोश्चतुर्थांशफलन्दद्याद्धुताशनः ||
वैश्याच्छूद्राच्च विफलञ्जायते होमकर्मणि ||
तस्मात्सर्वप्रयत्नेन वह्निमुक्तं समाहरेत् || तन्त्रान्तरे ||
द्विजातिभवनाद्वापि वह्निमानीय साधकः ||
वौषडन्तेन मूलेन मन्त्रितन्त/ व्विलोकयेत् ||
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ||
हूम्फडन्तेन मूलेन क्रव्यादांशम्परित्यजेत् ||
ततः ओं वह्नेर्योगपीठायनमः ||
चतुर्द्दिक्षु ओं वामायैनमः, एवं ज्येष्ठायैनमः, रौद्र्यैनमः,
अम्बिकायैनमः, ततो मूलमुच्चार्याऽमुकदेवताकुण्डायनमः ||
प्. ४१५) इति कुण्डं सम्पूज्य तदधो वागीश्वरीम् ||
तत्तद्देवतारूपां ऋतुमतीन्ध्यात्वा यथोक्तवह्निमानीय
वीक्षणादिभिस्स/स्कृत्य रमिति तस्माद्वह्निमुद्धृत्य मूलमूच्चार्य
हू/फट्क्रव्यादेभ्यः स्वाहा इत्यनेन क्रव्यादांशम्परित्यज्य
वह्निमन्त्रेण संरक्ष्य हूमित्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य
बाहुभ्यां समुद्धृत्य कुण्डोपरि त्रिः परिभ्राम्य
जानुस्पृष्टमहीतलः शिवबीजबुद्ध्यात्मनोऽभिमुखन्देव्या योनौ
एनङ्क्षिपेत् ||
ततो ह्रींव्वह्निमूर्त्तयेनमः इत्यभ्यर्च्च्य रंवह्निचैतन्यायनमः
इतिचैतन्यन्तत्र स/ययोज्य, वोचित् पिङ्गल हन हन दह दह पच पच सर्वं
ज्ञापय ज्ञापय स्वाहा इति ज्वालयेत् ||
ततः || अग्निम्प्रज्वलित/ व्वन्दे जातवेदं हुताशनम् ||
सुवर्णवर्णाममलं समिद्ध/ व्विश्वतोमुखम् || इत्युपतिष्ठेत् ||
ततोऽग्ने त्वममुकनामासीति नाम कृत्वा ओं वैश्वानर जातवेद इहावह
लोहिताक्ष सर्वकर्माणि साधय स्वाहा ||
अनेनार्ग्घ्यादिभिः सम्पूज्य ओं अग्निहिरण्यादिसप्तजिह्वाभ्योनमः,
ओं सहस्रार्च्चिषे हृदयायनमः,
ओंइत्याद्यग्निषडङ्गेभ्यो नमः,
ओं अग्नये जातवेदसेत्याद्यष्टमूर्त्तिभ्योनमः,
तद्बाह्ये ओंब्राह्म्याद्यष्टशक्तिभ्यो नमः,
तद्बहिः ओं पद्माद्यष्टनिधिभ्योनमः,
तद्बाह्ये ओं इन्द्रादिलोकपालेभ्योनमः ||
तद्वाह्ये ओं वज्राद्यस्त्रेभ्योनमः, ततः
प्रादेशमात्रङ्कुशपत्रद्वयङ्घृतमध्ये निःक्षिप्य
सव्यासव्यमध्यभागेषु इडाम्पिङ्गलां सुषुम्नान्ध्यात्वा
होमङ्कुर्यात् |
स्रुवेण दक्षिणभागादाज्यङ्गृहीत्वा ओं अग्नये
स्वाहेत्यग्नेर्द्दक्षिणनेत्रे जुहुयात् || तथा वामभागाज्यङ्गृहीत्वा ओं
सोमायस्वाहेति वामनेत्रे जुहुयात् ||
ततो मध्यभागादाज्यङ्गृहीत्वा ओं
अग्नीषोमाभ्यांस्वाहेत्यग्नेर्ल्ललाटनेत्रे जुहुयात् ||
प्. ४१६) पुनर्द्दक्षिणतः नम इति घृतं गृहीत्वा ओं अग्नये स्विष्टकृते
स्वाहेत्यग्निमुखे ||
ततो महाव्याहृतिहोमः ||
ओं भूःस्वाहा, ओं भुवःस्वाहा, ओं वैश्वानर जातवेद इहावह
लोहिताक्ष सर्वकर्माणि साधय स्वाहा इत्यनेन त्रिवारञ्जुहुयात् ||
ततोऽग्नौ मूलेन पीठपूर्वकन्देवतां सम्पूज्य तन्मुखे घृतेन
मूलमन्त्रेण पञ्चविंशतिवारञ्जुहुयात् ||
वह्निदेवतयोरात्मना सहैक्य/ व्विभाव्य मूलमन्त्रेण
एकादशाहुतीर्ज्जुहुयात् ||
ततो मूलमन्त्रस्याङ्गदेवताभ्यःस्वाहा ||
शक्तश्चेत्प्रत्येकमेकैकाहुतिञ्जुहुयात् ||
ततः सङ्कल्प/ व्विधाय तत्तत्कल्पोक्तद्रव्येण होमङ्कुर्यात् ||
ततो मूलमन्त्रेण पूर्णाहुतिन्दत्त्वा संहारमुद्रया स्वेष्टदेवतां
हृदये समानीय क्षमस्वेति विसृज्य दक्षिणान्दत्त्वा
अच्छिद्रावधारणङ्कुर्यात् ||
इति संक्षेपहोमप्रकरणम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
त्रयोदशं
दुर्गातन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
शाक्तप्रमोदः
अथ दुर्ग्गातन्त्रम्
अथ दुर्गाध्यानम्
सिंहस्कन्धसमारूढान्नानालङ्कारभूषिताम् ||
चतुर्ब्भुजाम्महादेवीन्नागयज्ञोपवीतिनीम् ||
रक्तवस्त्रपरीधानाम्बालार्कसदृशीतनुम् ||
नारदाद्यैर्मुनिगणैः सेविताम्भवगेहिनीम् ||
त्रिवलीवलयोपेतनाभिनालसुवेशिनीम् ||
रत्नद्वीपे महाद्वीपे सिंहासनसमन्विते ||
प्रफुल्लकमलारूढान्ध्यायेत्ताम्भवगेहिनीम् ||
प्. ४२०) अथ यन्त्रोद्धारः
दुर्गायन्त्रम्प्रवक्ष्यामि शृणुष्व हरवल्लभे ||
त्रिकोणं विन्यसेत्पूर्वन्नवकोनसमन्वितम् ||
त्रैबिम्बसहितं सर्वमष्टपत्रसमन्वितम् ||
त्रिरेखासहितं वज्रम्भूपुरद्वयस/ययुतम् ||
समीकृत्य यथोक्तेन विलिखेद्विधिनामुना ||
नानास्त्रस/ययुत/ ल्लेख्यञ्चक्रम्मन्त्रविभूषितम् ||
तत्र ताम्पूजयेद्देवीम्मूलप्रकृतिरूपिणीम् ||
अथ मन्त्रोद्धारः
अथ दुर्गामनु/ व्वक्ष्ये दृष्टादृष्टफलप्रदम् ||
मायादिः कर्णविद्धाढ्यो भूयोसौ सर्गवान्भवेत् ||
चान्तकश्च प्रतिष्ठावान्मारुतो भौतिकासनः ||
तारादिहृदयान्तोयम्मन्त्रो वस्वक्षरात्मकः ||
अथ मन्त्रः
ओं ह्रीं दुन्दुर्गायै नमः |
अथ पूजाविधिः
प्रातः कृत्यादि पीठन्यासान्त/ व्विधाय केसरेषु मध्ये च
पीठशक्तीर्विन्यसेत् || तद्यथा || आंप्रभायैनमः |
ईंमायायैनमः | ऊंजयायैनमः, ऋ/सूक्ष्मायैनमः,
ॡ/विशुद्धायैनमः, ऐंनन्दिन्यैनमः ||
औं सुप्रभायैनमः, अंविजयायैनमः, अःसर्वसिद्धिदायैनमः ||
तदुपरि ||
ओं वज्रनखदंष्ट्रायुधाय महासिंहासनाय हूंफट्नम
इतिपूजयेत् ||
प्. २४१) तत ऋष्यादिन्यासः || शिरसि नारदऋषये नमः ||
मुखे गायत्रीछन्दसेनमः || हृदि दुर्गादेवतायै नमः ||
ततः कराङ्गन्यासौ ह्रांओंह्रींदुन्दुर्गायै अङ्गुष्ठाभ्यान्नमः,
ह्रीं-ओंह्रींदुन्दुर्गायै तर्ज्जनीभ्यां स्वाहा, ह्रूं-ओं
ह्रींदुन्दुर्गायै मध्यमाभ्या/वषट् ह्रैं-ओंह्रींदुन्दुर्गायै
अनामिकाभ्यांहूम्, ह्रौं-ओंह्रींदुन्दुर्गायै
कनिष्ठिकाभ्या/वौषट्, ह्रः-ओंह्रींदुन्दुर्गायै
करतलकरपृष्ठाभ्यांफट् ||
एवं हृदयादि ||
हां ओं ह्रीं दुन्दुर्गायै हृदयाय नमः,
ह्रीं ओं ह्रीं दुन्दुर्गायै शिरसेस्वाहा,
ह्रूं ओं ह्रीं दुन्दुर्गायै शिखायैवषट्,
ह्रैं ओं ह्रीं दुन्दुर्गायै नेत्रत्रयायवौषट्,
ह्रौं ओं ह्रीं दुन्दुर्गायै कवचायहूम्,
ह्रः ओं ह्रीं दुन्दुर्गायै अस्त्रायफडिति षडङ्गादिन्यासः ||
तथा च निबन्धे |
नमस्कारनियुक्तेन मूलमन्त्रेण देशिकः ||
ह्रीमाद्यैः सह कुर्वीत षडङ्गानि यथाविधि ||
अथ ध्यानम् ||
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिब्भुजैः,
शङ्खञ्चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिश्शोभिता ||
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीक्वणन्नूपुरा,
दुर्गादुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ||
एवन्ध्यात्वा मानसैः शङ्खस्थापनङ्कुर्यात् ||
ततः पीठपूजाङ्कुर्यात् |
केसरेषु मध्ये च आंप्रभायैनमः,
ईंमायायैनमः, ऊंजयायैनमः, ऋंसूक्ष्मायैनमः,
ॡंविशुद्धायैनमः, ओं-ऐंनन्दिन्यैनमः ||
औं सुप्रभायैनमः || अंविजयायैनमः ||
अःसर्वसिद्धिदायैनमः || तदुपरि वज्रनखदंष्ट्रायुधाय
महासिंहासनाय हूम्फट्नमः ||
दद्यादासनमेतेन मूर्त्तिमूलेन कल्पयेत् ||
ततः पुनर्द्ध्यात्वाऽवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्त/
व्विधायावरणपूजामारभेत् ||
अग्निनैरृतिवायवीशानकोणमध्ये दिक्षु च ||
ह्रा/ ओंह्रीं दुन्दुर्गायै हृदयायनमः ||
इत्यादिना पूजयेत् ||
ततः पत्रेषु पूर्वादि || जंजयायै०, विंविजयायै०, किंकीर्त्यै०,
पंप्रीत्यैनमः, पं प्रभायै०, शुंशुद्धायै०, मंमेधायै०,
शंश्रुत्यै० ||
पत्राग्रेषु लंखङ्गायनमः, वंखेटकायनमः,
शंबाणायनमः, षंधनुषेनमः, संशूलाय०, हंतर्ज्जन्यै०
तद्वहिरिन्द्रादिवज्रादींश्च पूजयेत् ||
प्. ४२२) ततो धूपादिविसर्ज्जनान्तङ्कर्म्म समापयेत् || अस्या बलिमन्त्रस्तु ||
एहि एहि पदद्वन्द्वम्मदीयञ्च बलिन्देवि लुलायकपदद्वयं साधय
द्वितीयम्ब्रूयात्खादय द्वितीयम्पुनः ||
सर्वसिद्धिपदन्देवी ततः स्वाहापदम्भवेत् || बलिदानस्य मन्त्रोऽयं
मन्त्रिण्या परिकीर्त्तितः ||
अस्य पुरश्चरणमष्टलक्षः || अष्टसहस्रतिलैर्होमः ||
तथा च ||
वसुलक्षं जपेन्मन्त्रं तत्सहस्रतिलैः सह इत्यादिवचनात् ||
अथ स्तोत्रम्
न मन्त्रन्नो यन्त्रन्तदपि च न जाने स्तुतिमहो
न चाह्वानन्ध्यानन्तदपि च न जाने स्तुतिकथाः ||
न जाने मुद्रास्ते तदपि च न जाने विलपनम्परञ्जाने
मातस्त्वदनुशरणं क्लेशहरणम् || १ ||
विधेरज्ञानेन द्रविणविरहेणाऽलसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ||
तदेतत्क्षन्तव्यञ्जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति || २ ||
पृथिव्याम्पुत्रास्ते जननि बहवः सन्ति सरलाः
परन्तेषाम्मध्ये विरलतरलोहन्तव सुतः ||
मदीयोऽयन्त्यागः समुचितमिदन्नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति || ३ ||
जगन्मातर्मातस्तव चरणसेवा न रचिता
नवा दत्तन्देवि द्रविणमपि भूयस्तव मया ||
तथाऽपि त्वं स्नेहं मयि निरुपम/ ययत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति || ४ ||
परित्यक्त्वा देवान्विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमुपनीते तु वयसि ||
इदानीञ्चेन्मातस्तव यदि कृपा नाऽपि भविता
निरालम्बो लम्बोदरजननि क/ ययामि शरणम् || ५ ||
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरङ्कोटिकनकैः ||
प्. ४२३) तवापर्णे कर्णे विशति मनुवर्णे फलमिदञ्जनः
को जानीते जननि जपनीयञ्जपविधौ || ६ ||
चिताभस्मालेपो गरलमशनन्दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ||
कपाली भूतेशो भजति जगदीशैकपदवीम्भवानि
त्वत्पाणिग्रहणपरिपाटीफलमिदम् || ७ ||
न मोक्षस्याकाङ्क्षा न च विभववाञ्छापि च न
मे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ||
अतस्त्वां स/ययाचे जननि जनन/ ययातु मम वै
मृदानी रुद्राणी शिवशिव भवानीति जपतः || ८ ||
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न्न कृत/ व्वचोभिः ||
श्यामे त्वमेव यदि किञ्चन मययनाथे
धत्से कृपामुचितमम्ब परन्तवैव || ९ ||
आपत्सु मग्नः स्मरणन्त्वदीयङ्करोमि दुर्गे करुणार्णवेशि |
नैतच्छठत्वम्मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ||
१० ||
जगदम्ब विचित्रमत्र किम्परिपूर्णा करुणास्ति चेन्मयि |
अपराधपरम्परावृतन्न हि माता समुपेक्षते सुतम् || ११ ||
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि |
एवं ज्ञात्वा महादेवि यथा योग्यन्तथा कुरु || १२ ||
इति स्तोत्रम् ||
अथ कवचम्
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ||
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ||
अज्ञात्वा कवचन्देवि दुर्गामन्त्रञ्च यो जपेत् |
स नाप्नोति फलन्तस्य परञ्च नरकम्व्रजेत् ||
उमादेवी शिरः पातु ललाटे शूलधारिणी |
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ||
सुगन्धा नासिके पातु वदनं सर्वधारिणी |
जिह्वाञ्च चण्डिका देवी ग्रीवां सौभद्रिका तथा |
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी |
हृदय/ ल्ललिता देवी उदरं सिंहवाहिनी ||
कटिम्भगवती देवी द्वावूरू विन्ध्यवासिनी |
प्. ४२४) महाबला च जङ्घे द्वे पादौ भूतलवासिनी ||
एवं स्थितासि देवि त्वन्त्रैलोक्ये रक्षणात्मिका |
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ||
इति कवचम्
अथोपनिषत्
सर्वे देवा देवीमुपतस्थुः | कासि त्वम्महादेवि |
साब्रवीदहम्ब्रह्मस्वरूपिणी |
मत्तः प्रकृतिपुरुषात्मकञ्जगत् |
शून्यञ्चाशून्यञ्च अहमानन्दावानन्दौ ||
अह/ व्विज्ञानाविज्ञाने |
अहम्ब्रह्माणि वेदब्रह्मणि वेदितव्ये इति चाथर्वणी श्रुतिः ||
अहम्पञ्चभूतानि अहं पञ्चतन्मात्राणि ||
अहमखिलञ्जगत्, वेदोहमवेदोहम्, विद्याहमविद्याहम्,
अजाहमनजाहम्, अधश्चोर्द्ध्वञ्च तिर्यक् चाहम् |
अहं रुद्रेभिर्वसुभिश्चरामि अहमादित्यैरुत विश्वेदेवैः ||
अहम्मित्रावरुणावुभौ बिभर्मि अहमिन्द्राग्नी अहमश्विनावुभौ ||
अहं सोमन्त्वष्टारम्पूषणम्भगं सन्दधामि |
अह/ व्विष्णुमुरुक्रमम्ब्रह्माणमुत्प्रजापतिन्दधामि ||
द्रविणं हविष्मते सुप्रजाय यजमानाय सुन्वते ||
अहं राष्ट्री सङ्गमनी वसूनाञ्चिकितुषी प्रथमा यज्ञियानाम् ||
अहं सुवेर्यः पितरमस्य मूर्द्धन्मम योनिरप्स्वन्तः समुद्रे ||
य एवं वेद स देवीपदमाप्नोति | ते देवा अब्रुवन् |
नमो देव्यै महादेव्यै शिवायै सततन्नमः ||
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ||
तामग्निवर्णान्तपसा ज्वलन्तीं व्वैरोचनीङ्कर्मफलमुपजुष्टाम् ||
दुर्गान्देवीं शरणमहम्प्रपद्ये सुतरां नाशयते तमः ||
देवीमम्बामजनयन्त देवास्ता/ व्विश्वरूपाः षशवो वदन्ति |
सा नो मन्द्रेषमूर्ज्जन्दुहाना धेनुर्वागस्मानुप सुष्ठुतैतु ||
कालरात्रीं व्वापस्तुतानान्ता/ व्वैष्णवीं स्कन्दमातरं
सरस्वतीमदितिन्दक्षदुहितरन्नमाम्यहं पावनां शिवाम् ||
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ||
तन्नो देवी प्रचोदयात् || अदितिह्यजनिष्ट दक्षया दुहिता तव ||
प्. ४२५) तान्देवा अन्वजायन्त भद्रा अमृतबन्धवः ||
कामे योनिः कमलवेत्रपाणिगुहाहस्ता मातरिश्वाशमिन्द्रः
पुनर्ग्गेहा सफला मायया चापृथुकेन विश्वमातादि विद्या एषात्मा
शक्ति | एषा विश्वमोहिनी | पाशाङ्कुशधनुर्बाणधरा एषा
श्रीमहाविद्या य एव/ व्वेद स शोकन्तरति | नमस्ते भगवति
मातरस्मान्पाहि सर्वतः | सैषाष्टौ वसवः, सैषा एकादश रुद्राः,
सैषा द्वादशादित्याः, सैषा विश्वेदेवाः, सोमपा असोमपाश्च सैषा
यातुधाना असुरा रक्षांसि पिशाचा यक्षसिद्धाः, सैषा
सत्त्वरजस्तमांसि, सैषा ब्रह्मविष्णुरुद्ररूपिणी, सैषा
प्रजापतीन्द्रमनवः, सैषा ग्रहनक्षत्रज्योतींषि कलाकाष्ठादीनि
भस्मरूपिणी तामहम्प्रणतोस्मि ||
नित्यपापहारिणी देवी भुक्तिमुक्तिप्रदायिनी ||
अनन्ता/ व्विजयां शुद्धां शरण्यां शिवदां शुभाम् |
वियदाकारस/ययुक्त/ व्वीतिहोत्रसमन्वितम् ||
अर्द्धेन्दुलसितन्देव्या बीजं सर्वार्त्थसाधकम् ||
एवमेकाक्षरम्मन्त्रङ्क्रतवः शुद्धचेतसः ||
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ||
वामा या ब्रह्मभूतस्मात्यष्टवक्त्रसमन्वितम् ||
सूर्यो वामश्रोत्रबिन्दुः स/ययुक्ताष्टातृतीयकः ||
नारायणेन सम्मित्रो सावाद्यश्चाधरयुक्तयः ||
विधे नवार्णकोणः स्यान्महानन्दप्रदायकः ||
हृत्पुण्डरीकमध्यस्थाम्प्रातः सूर्यसमप्रभाम् ||
पाशाङ्कुशधरां सौम्यवरदाभयहस्तकाम् ||
त्रिनेत्रां रक्तवसनाम्भक्तकामदुहाम्भजे ||
भजामि त्वाम्महादेवीम्महाभयविनाशिनीम् ||
महादारिद्र्यशमनी महारूपास्वरूपिणी ||
यस्याः स्वरूपम्ब्रह्मादयो न जानन्ति तस्मादुच्यते अनन्ता | यस्या
गृहन्नोपलक्ष्यते तस्मादुच्यते अलक्ष्यम् | यस्या जननन्नोपलभ्यते
तस्मादुच्यते अजा | एकैव सर्वत्र वर्त्तते तस्मादेका | एकैकविश्वरूपिणी
तस्मादनेका |
अनन्ततपोवाच्यज्ञेयानन्तालक्ष्याजैकानेकानमन्त्राणाम्मातृका
देवी शब्दानां ज्ञानरूपिणी ||
प्. ४२६) ज्ञानानाञ्चिन्मयातीता शून्यानां शून्यसाक्षिणी ||
यस्याः परतरन्नास्ति सैषा दुर्गा प्रकीर्त्तिता |
तान्दुर्गदुर्गमान्देवीन्दुराचारविधायिनीम् ||
नमामि भवभीतोऽहं संसारार्णवतारिणीम् |
य इदमथर्वशीर्षं ययोधीते स पञ्चाथर्वशीर्षफलमाप्नोति
इदमथर्वशीर्षमज्ञात्वा यो अर्च्चां स्थापयति शतलक्षञ्जप्त्वा
नार्चाशुद्धिञ्च विन्दति | शतमष्टोत्तरञ्चास्य पुरश्चर्याविधिः
स्मृतः | दशवारम्पठेद्यस्तु सद्यः पापैः प्रमुच्यते || महादुर्गाणि
तरति महादेव्याः प्रसादतः || सायमधीयानो
दिवसकृतम्पापन्नाशयति | सायम्प्रातः प्रयुञ्जानो अपापो भवति |
निशीथे तुरीयसन्ध्यायां वा जप्त्वा वाक्सिद्धिर्ब्भवति |
नूतनायाम्प्रतिमासन्निधौ जप्त्वा देवतासान्निध्यम्भवति |
प्राणप्रतिष्ठायाञ्जप्त्वा देवता भवति ||
भौमाश्विन्याम्महादेवीसन्निधौ जप्त्वा महामृत्युन्तरति
महामृत्युन्तरति य एव/ व्वेद || इति देव्या अथर्वशीर्षोपनिषत्समाप्ता ||
अथ शतनामाष्टकम्
ईश्वर उवाच
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने |
यस्य प्रसादमात्रेण दुर्गा प्रीता सदा भवेत् || १ ||
सती साध्वी भवप्रीता भवानी भवमोचनी |
आर्या दुर्गा जया आद्या त्रिनेत्रा शूलधारिणी || २ ||
पिनाकधारिणी चित्रा चन्द्रघण्टा महातपा |
मनोबुद्धिरहङ्कारा चित्तरूपा चिता चितिः || ३ ||
सर्वमन्त्रमयी सत्या सत्यानन्दस्वरूपिणी |
अनन्ता भाविनी भाव्या भवा भव्या सदागतिः || ४ ||
शम्भुपत्नी देवमाता चिन्ता रत्नप्रिया सदा |
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी || ५ ||
अपर्णा चैव पर्णा च पाटला पटलावती |
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी || ६ ||
अमेया विक्रमा क्रूरा सुन्दरी कुलसुन्दरी |
प्. ४२७) नवदुर्गा च मातङ्गी मतङ्गमुनिपूजिता || ७ ||
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा |
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः || ८ ||
विमलोत्कर्षिणी ज्ञानक्रिया सत्या च वाक् प्रदा |
बहुला बहुलप्रेमा सर्ववाहनवाहना || ९ ||
निशुम्भशुम्भहननी महिषासुरमर्द्दिनी |
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी || १० ||
सर्वाऽसुरविनाशा च सर्वदानवघातिनी |
सर्वशास्त्रमयी विद्या सर्वास्त्रधारिणी तथा || ११ ||
अनेकशस्त्रहस्ता च अनेकास्त्रविधारिणी |
कुमारी चैव कन्या च कौमारी युवती यतिः || १२ ||
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा |
य इदञ्च पठेत्स्तोत्रन्दुर्गानाम शताष्टकम् || १३ ||
नासाध्य/ विद्यते देवि त्रिषु लोकेषु पार्वति |
धनन्धान्यं सुताञ्जायां हयं हस्तिनमेव च || १४ ||
चतुर्वर्गन्तथा चान्ते लभेन्मुक्तिञ्च शाश्वतीम् |
कुमारीः पूजयित्वा च ध्यात्वा देवीं सुरेश्वरीम् || १५ ||
पूजयेत्परया भक्त्या पठेन्नाम शताष्टकम् |
तस्य सिद्धिर्भवेद्देवि सर्वैः सुरवरैरपि |
राजानो दासतां यांति राज्यश्रियमवाप्नुयात् || १६ ||
गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण |
विलिख्य यन्त्र/ व्विधिना विधिज्ञो भवेत्सदा धारयता पुरारिः || १७ ||
भौमावास्यानिशाभागे चन्द्रे शतभिषाङ्गते |
विलिख्य प्रपठेत्स्तोत्रं स भवेत्सम्पदाम्पदम् || १८ ||
इति शतनामाष्टोत्तरशतम् ||
अथ सहस्रनाम
श्रीदेव्युवाच
मम नाम सहस्रञ्च शिवपूर्वविनिर्म्मितम् |
तत्पठ्यता/ व्विधानेन तदा सर्वम्भविष्यति || १ ||
इत्युक्त्वा पार्वती देवी श्रावयामास तच्च तान् |
तदेव नाम साहस्रन्दकारादि वरानने || २ ||
रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् |
प्. ४२८) सर्वासां पूजितन्नाम श्रीदुर्गादेवता मता || ३ ||
निजवीजम्भवेद्बीजं मन्त्त्रङ्कीलकमुच्यते |
सर्वाशापूरणे देवी विनियोगः प्रकीर्त्तितः || ४ ||
दुन्दुर्गा दुर्गतिहरा दुर्गाजलनिवासिनी || ५ ||
दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी |
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया || ६ ||
दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका |
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा || ७ ||
दुर्गमार्गसदास्थाली दुर्गमार्गरतिप्रिया |
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी || ८ ||
दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्त्तिनी |
दुर्गासुरनिहन्त्री च दुर्गासुरनिषूदिनी || ९ ||
दुर्गासुरहरादूति दुर्गासुरविनाशिनी |
दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका || १० ||
दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता |
दुर्गासुरवधप्रेप्सुर्दुर्गासुरमखान्तकृत् || ११ ||
दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी |
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा || १२ ||
दुर्गविक्षोभनकरी दुर्गशीर्षनिकृन्तनी |
दुर्गविध्वंसनकरी दुर्गदैत्यनिकृन्तनी || १३ ||
दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी |
दुर्गदैत्यहरत्राता दुर्गदैत्यसृगुन्मदा || १४ ||
दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता |
दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा || १५ ||
दुर्गयुद्धासवरता दुर्गयुद्धविमर्द्दिनी |
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी || १६ ||
दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी |
दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी || १७ ||
दुर्गदेशवासरता दुर्गदेशविलासिनी |
दुर्गदेशार्च्चनरता दुर्गादेशजनप्रिया || १८ ||
दुर्गमस्थानसंस्थाना दुर्गमध्यानसाधना |
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी || १९ ||
दुर्गमागमसन्धाना दुर्गमागमसंस्तुता |
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता || २० ||
दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता |
प्. ४२९) दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा || २१ ||
दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता |
दुर्गमाचारसन्तुष्टा दुर्गमाचारतोषिता || २२ ||
दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता |
दुर्गमाचारकसिता दुर्गमस्थानदायिनी || २३ ||
दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा |
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी || २४ ||
दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी |
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजस्थिता || २५ ||
दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा |
दुर्गनाडीरतरता दुर्गनाडीशस/स्तुता || २६ ||
दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता |
दुर्गनाडीशक्रोडस्था दुर्गनाड्युत्थितोत्सुका || २७ ||
दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता |
दरीस्थानदरीस्थानवासिनी दनुजान्तकृत् || २८ ||
दरीकृततपस्या च दरीकृतहरार्चना |
दरीजापितदिष्टा च दरीकृतरतिक्रिया || २९ ||
दरीकृतहरार्हा च दरीक्रीडितपुत्रिका |
दरीसन्दर्शनरता दरीरोपितवृश्चिका || ३० ||
दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा |
दनुजान्तकरी दीनादनुजसन्तानदारिणी || ३१ ||
दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी |
दानवध्वंसिनी देवी दानवानाम्भयङ्करी || ३२ ||
दानवी दानवाराध्या दानवेन्द्रवरप्रदा |
दानवेन्द्रनिहन्त्री च दानवद्वेषिणीसती || ३३ ||
दानवारिप्रेमरता दनवारिप्रपूजिता |
दानवारिकृतार्च्चा च दानवारिविभूतिदा || ३४ ||
दानवारिमहानन्दा दानवारिरतिप्रिया |
दानवारिदानरता दानवारिकृतास्पदा || ३५ ||
दानवारिस्तुतिरता दनवारिस्मृतिप्रिया |
दानवार्याहाररता दानवारिप्रबोधिनी || ३६ ||
दानवारिधृतप्रेमा दुःखशोकविमोचिनी |
दुःखहन्त्री दुःखदात्री दुःखनिर्मूलकारिणी || ३७ ||
दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी |
प्. ४३०) दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा || ३८ ||
दुःखहीना दुःखधारा द्रविणाचारदायिनी |
द्रविणोत्सर्गसन्तुष्टा द्रविणत्यागतोषिका || ३९ ||
द्रविणस्पर्शसन्तुष्टा द्रविणस्पर्शमानदा |
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा || ४० ||
द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा |
द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिता || ४१ ||
द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका |
द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी || ४२ ||
द्रविणाकर्षणकरी द्रविणौघविसर्ज्जनी |
द्रविणाचलदानाढ्या द्रविणाचलवासिनी || ४३ ||
दीनमाता दीनबन्धुर्द्दीनविघ्नविनाशिनी |
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी || ४४ ||
दीनगेहकृतानन्दा दीनगेहविलासिनी |
दीनभावप्रेमरता दीनभावविनोदिनी || ४५ ||
दीनमानवचेतःस्था दीनमानवहर्षदा |
दीनदैन्यनिघातेच्छुर्द्दीनद्रविणदायिनी || ४६ ||
दीनसाधनसन्तुष्टा दीनदर्शनदायिनी |
दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी || ४७ ||
दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता |
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता || ४८ ||
दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता |
दत्तात्रेयहर्षदात्री दत्तात्रेयसुखप्रदा || ४९ ||
दतात्रेयस्तुता चैव दत्तात्रेयनुता सदा |
दत्तात्रेयप्रेमरता दत्तत्रेयानुमानिता || ५० ||
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी |
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी || ५१ ||
दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा |
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी || ५२ ||
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा |
दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा || ५३ ||
दत्तात्रेयज्ञानदात्री दत्तात्रेयभयापहा |
देवकन्या देवमान्या देवदुःखविनाशिनी || ५४ ||
देवसिद्धा देवपूज्या देवेज्या देववन्दिता |
प्. ४३१) देवमान्या देवधन्या देवविघ्नविनाशिनी || ५५ ||
देवरम्या देवरता देवकौतुकतत्परा |
देवक्रीडा देवव्रीडा देववैरिविनाशिनी || ५६ ||
देवकामा देवरामा देवद्विष्टविनाशिनी |
देवदेवप्रिया देवी देवदानववन्दिता || ५७ ||
देवदेवरतानन्दा देवदेववरोत्सुका |
देवदेवप्रेमरता देवदेवप्रिय/व्वदा || ५८ ||
देवदेवप्राणतुल्या देवदेवनितम्बिनी |
देवदेवहृतमना देवदेवसुखावहा || ५९ ||
देवदेवक्रोडरता देवदेवसुखप्रदा |
देवदेवमहानन्दा देवदेवप्रचुम्बिता || ६० ||
देवदेवोपभुक्ता च देवदेवानुसेविता |
देवदेवगतप्राणा देवदेवगतात्मिका || ६१ ||
देवदेवहर्षदात्री देवदेवसुखप्रदा |
देवदेवमहानन्दा देवदेवविलासिनी || ६२ ||
देवदेवधर्मपत्नी देवदेवमनोगता |
देवदेववधूर्द्देवदेवदेवार्च्चनप्रिया || ६३ ||
देवदेवाङ्गनिलया देवदेवाङ्गशायिनी |
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी || ६४ ||
देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा |
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ||
देवदेवप्रियप्राणा देवदेवप्रियात्मिका |
देवदेवार्च्चकप्राणा देवदेवार्चकप्रिया || ६६ ||
देवदेवार्च्चकोत्साहा देवदेवार्च्चकप्रिया |
देवदेवार्च्चका विघ्ना देवदेवप्रसूरपि || ६७ ||
देवदेवस्य जननी देवदेवविधायिनी |
देवदेवस्य रमणी देवदेवहृदाश्रया || ६८ ||
देवदेवेष्टदेवी च देवतापसपातिनी |
देवताभावसन्तुष्टा देवताभावतोषिता || ६९ ||
देवताभाववरदा देवताभावसिद्धिदा |
देवताभावसंसिद्धा देवताभावसम्भवा || ७० ||
देवताभावसुखिनीर्देवताभाववन्दिता |
देवताभावसुप्रीता देवताभावहर्षदा || ७१ ||
देवताविघ्नहन्त्री च देवताद्विष्टनाशिनी |
देवतापूजितपदा देवताप्रेमतोषिता || ७२ ||
देवतागारनिलया देवतासौख्यदायिनी |
देवतानिजभावा च देवताहृतमानसा || ७३ ||
देवताकृतपादार्च्चा देवताहृतभक्तिका |
प्. ४३२) देवतागर्वमध्यस्था देवतादेवतादनुः || ७४ ||
दुन्दुर्गायै नमोनाम्नी दूंफट्मन्त्रस्वरूपिणी |
दूंनमोमन्त्ररूपा च दूंनमोमूर्त्तिकात्मिका || ७५ ||
दूरदर्शिप्रिया दुष्टादुष्टभूतनिषेविता |
दूरदर्शिप्रेमरता दूरदर्शिप्रिय/व्वदा || ७६ ||
दूरदर्शिसिद्धिदात्री दूरदर्शिप्रतोषिता |
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता || ७७ ||
दूरदर्शिगृहीतार्चा दूरदर्शिप्रतर्पिता |
दूरदर्शिप्राणतुल्या दूरदर्शिसुखप्रदा || ७८ ||
दूरदर्शिभ्रान्तिहरा दूरदर्शिहृदास्पदा |
दूरदर्श्श्यरिविद्भावा दीर्ग्घदर्शिप्रमोदिनी || ७९ ||
दीर्ग्घदर्शिप्राणतुल्या दीर्ग्घदर्शिवरप्रदा |
दीर्ग्घदर्शिहर्षदात्री दीर्ग्घदर्शिप्रहर्षिता || ८० ||
दीर्ग्घदर्शिमहानन्दा दीर्ग्घदर्शिगृहालया |
दीर्ग्घदर्शिगृहीतार्चा दीर्ग्घदर्शिहृतार्हणा || ८१ ||
दया दानवती दात्री दयालुर्द्दीनवत्सला |
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका || ८२ ||
दयाम्बुधिर्द्दयासारा दयासागरपारगा |
दयासिन्धुर्दयाभारा दयावत्करुणाकरी || ८३ ||
दयावद्वत्सला देवी दयादानरता सदा |
दयावद्भक्तिसुखिनी दयावत्परितोषिता || ८४ ||
दयावत्स्नेहनिरता दयावत्प्रतिपादिका |
दयावत्त्राणकर्त्त्री च द्यावन्मुक्तिदायिनी || ८५ ||
दयावद्भावसन्तुष्टा दयावत्परितोषिता |
दयावत्तारणपरा दयावत्सिद्धिदायिनी || ८६ ||
दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी |
दयावद्देहंनिलया दयाबन्धु दयाश्रया || ८७ ||
दयालुवात्सल्यकरी दयालुसिद्धिदायिनी |
दयालुशरणासक्ता दयालुदेहमन्दिरा || ८८ ||
दयालुभक्तिभावस्था दयालुप्राणरूपिणी |
दयालुसुखदादम्भा दयालुप्रेमवर्षिणी || ८९ ||
दयालुवशगा दीर्ग्घा दीर्ग्घाङ्गी दीर्ग्घलोचना |
दीर्ग्घनेत्रा दीर्ग्घचक्षुर्द्दीर्ग्घबाहुलतात्मिका || ९० ||
दीर्ग्घकेशी दीर्ग्घमुखी दीर्ग्घघोणा च दारुणा |
दारुणासुरहन्त्री च दारुणासुरदारिणी || ९१ ||
प्. ४३३) दारुणाहवकर्त्त्री च दारुणाहवहर्षिता |
दारुणाहवहोमाढ्या दारुणाचलनाशिनी || ९२ ||
दारुणाचारनिरता दारुणोत्सवहर्षिता |
दारुणोद्यतरूपा च दारुणारिनिवारिणी || ९३ ||
दारुणेक्षणस/युक्ता दोश्चतुष्कविराजिता |
दशदोष्का दशभुजा दशबाहुविराजिता || ९४ ||
दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा |
दशरथार्च्चितपदा दाशरथिप्रिया सदा || ९५ ||
दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया |
दाशरथिप्रियकरी दाशरथिप्रिय/व्वदा || ९६ ||
दाशरथीष्टसन्दात्री दाशरथीष्टदेवता |
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा || ९७ ||
दाशरथिप्रियतमा दाशरथिप्रपूजिता |
दशाननारिसम्पूज्या दशाननारिदेवता || ९८ ||
दशाननारिप्रमदा दशाननारिजन्मभूः |
दशाननारिरतिदा दशाननारिसेविता || ९९ ||
दशाननारिसुखदा दशाननारिवैरिहृत् |
दशाननारीष्टदेवी दशग्रीवारिवन्दिता || १०० ||
दशग्रीवारिजननी दशग्रीवारिभाविनी |
दशग्रीवारिसहिता दशग्रीवसभाजिता || १०१ ||
दशग्रीवारिरमणी दशग्रीववधूरपि |
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा || १०२ ||
दशग्रीवपुरस्था च दशग्रीववधोत्सुका |
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी || १०३ ||
दशग्रीवाहवकरी दशग्रीवानपायिनी |
दशग्रीवप्रियावन्द्या दशग्रीवाहृता तथा || १०४ ||
दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया |
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा || १०५ ||
दशग्रीवेश्वररता दशवर्षीयकन्यका |
दशवर्षीयबाला च दशवर्षीयवासिनी || १०६ ||
दशपापहरा दम्या दशहस्तविभूषिता |
दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता || १०७ ||
दशावताररूपा च दशावताररूपिणी |
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी || १०८ ||
दशविद्यास्वरूपा च दशविद्यामयी तथा |
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी || १०९ ||
प्. ४३४) दिगन्तरा दिगन्तस्स्था दिगम्बरविलासिनी |
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता || ११० ||
दिगम्बरसहचरी दिगम्बरकृतास्पदा |
दिगम्बरहृताचित्ता दिगम्बरकथाप्रिया || १११ ||
दिगम्बरगुणरता दिगम्बरस्वरूपिणी |
दिगम्बरशिरोधार्या दिगम्बरहृताश्रया || ११२ ||
दिगम्बरप्रेमरता दिगम्बररतातुरा |
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता || ११३ ||
दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया |
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरी || ११४ ||
दिगम्बरगणस्पर्शामदिरापानविह्वला |
दिगम्बरीकोटिवृता दिगम्बरीगणावृता || ११५ ||
दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा |
दुरन्तदानवद्वेष्टी दुरन्तदनुजान्तकृत् || ११६ ||
दुरन्तपापहन्त्री च दस्रनिस्तारकारिणी |
दस्रमानससंस्थाना दस्रज्ञानविवर्द्धिनी || ११७ ||
दस्रसम्भोगजननी दस्रसम्भोगदायिनी |
दस्रसम्भोगभवना दस्रविद्याविधायिनी || ११८ ||
दस्रोद्वेगहरा दस्रजननी दस्रसुन्दरी |
दस्रभक्तिविधाज्ञाना दस्रद्विष्टविनाशिनी || ११९ ||
दस्रापकारदमनी दस्रसिद्धिविधायिनी |
दस्रताराराधिता च दस्रमातुप्रपूजिता || १२० ||
दस्रदैन्यहरा चैव दस्रतातनिषेविता |
दस्रपितृशतज्योतिर्दस्रकौशलदायिनी || १२१ ||
दशशीर्षारिसहिता दशशीर्षारिकामिनी |
दशशीर्षपुरी देवी दशशीर्षसभाजिता || १२२ ||
दशशीर्षारिसुप्रीता दशशीर्षवधूप्रिया |
दशशीर्षशिरश्छेत्री दशशीर्षनितम्बिनी || १२३ ||
दशशीर्षहरप्राणा दशशीर्षहरात्मिका |
दशशीर्षहराराध्या दशशीर्षारिवन्दिता || १२४ ||
दशशीर्षारिसुखदा दशशीर्षकपालिनी |
दशशीर्षज्ञानदात्री दशशीर्षारिदेहिता || १२५ ||
दशशीर्षवधोपात्तश्रीरामचंद्ररूपता |
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी || १२६ ||
प्. ४३५) दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया |
दशशीर्षवधूप्राणा दशशीर्षवधूरता || १२७ ||
दैत्यगुरुरतासाध्वी दैत्यगुरुप्रपूजिता |
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता || १२८ ||
दैत्यगुरुगतप्राणा दैत्यगुर्त्तापनाशिनी |
दुरन्तदुःखशमनी दुरन्तदमनीतमी || १२९ ||
दुरन्तशोकशमनी दुरन्तरोगनाशिनी |
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी || १३० ||
दुरन्तकलुषघ्नी च दुःकृतिस्तोमनाशिनी |
दुराशया दुराधारा दुर्ज्जया दुष्टकामिनी || १३१ ||
दर्शनीया च दृश्या च दृश्या च दृष्टिगोचरा |
दूतीयागप्रिया दूती दूतीयागकरप्रिया || १३२ ||
दूतीयागकरानन्दा दूतीयागसुखप्रदा |
दूतीयागकरायाता दूतीयागप्रमोदिनी || १३३ ||
दुर्वासः पूजिता चैव दूर्वासोमुनिभाविता |
दुर्वासोर्चितपादा च दुर्वासोमुनिभाविता || १३४ ||
दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता |
दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा || १३५ ||
दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता |
दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता || १३६ ||
दुर्वासोमुनिसञ्चारा दुर्वासोहृदयङ्गमा |
दुर्वासोहृदयाराध्या दुर्वासोहृत्सरोजगा || १३७ ||
दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया |
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी || १३८ ||
दुर्वासोमुनिकन्या च दुर्वासोद्भूतसिद्धिदा |
दररात्री दरहरा दरयुक्ता दरापहा || १३९ ||
दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया || १४० ||
दरस्मेरा दरापाङ्गी दयादात्री दयाश्रमा |
दस्रपूज्या दस्रमाता दस्रदेवीदरोन्मदा || १४१ ||
दस्रसिद्धा दस्रसंस्था दस्रतापविमोचिनी |
दस्रक्षोभहरा नित्या दस्रलोकगतात्मिका || १४२ ||
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया |
दैत्यगुर्वङ्गनासिद्धा दैत्यगुर्वङ्गनोत्सुका || १४३ ||
दैत्यगुरुप्रियतमा दैत्यगुरुनिषेविता |
प्. ४३६) देवगुरुप्रसूरूपा देवगुरुकृतार्हणा || १४४ ||
देवगुरुप्रेमयुता देवगुर्वनुमानिता |
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा || १४५ ||
देवगुरुज्ञानदात्री देवगुरुप्रमोदिनी |
दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता || १४६ ||
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी |
देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता || १४७ ||
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता |
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता || १४८ ||
देवस्त्रीगणहस्तस्थचारुचामरवीजिता |
देवस्त्रीगणहस्तस्थ-चारुगन्धविलेपिता || १४९ ||
देवाङ्गनाधृतादर्शदृष्ट्यर्त्थमुखचन्द्रमा |
देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका || १५० ||
देवस्त्रीगणहस्तस्थदीपमालाविलोकना |
देवस्त्रीगणहस्तस्थ-धूपघ्राणविनोदिनी || १५१ ||
देवनारीकरगतवासकासवपायिनी |
देवनारीकङ्कतिका-कृत्तकेशनिमार्ज्जना || १५२ ||
देवनारीरुष्ट्यगात्रा देवनारीकृतोत्सुका |
देवनारीविरचिता-पुष्पमालाविराजिता || १५३ ||
देवनारीविचित्राङ्गी देवस्त्रीदत्तभोजना |
देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका || १५४ ||
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यप्रदर्शिनी |
देवस्त्रीयोजितलसद्रत्नपादुपदाम्बुजा || १५५ ||
देवस्त्रीगणविस्तीर्ण-चारुतल्पनिषेदुषी |
देवनारीचारुकरा-कलिताङ्घ्र्यादिदेहिका || १५६ ||
देवनारीकरव्यग्र-तालवृन्तमरुत्सुखा |
देवनारीवेणुवीणा-नादसोत्कण्ठमानसा || १५७ ||
देवकोटिस्तुतिनुता देवकोटिकृतार्हणा |
देवकोटिगीतगुणा देवकोटिकृतस्तुतिः || १५८ ||
दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला |
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता || १५९ ||
दामपूज्या दामभूषा दामोदरविलासिनी |
दामोदरप्रेमरता दामोदरभगिन्यपि || १६० ||
दामोदरप्रसूर्द्दामोदरपत्नीपतिव्रता |
दामोदराभिन्नदेहा दामोदररतिप्रिया || १६१ ||
प्. ४३७) दामोदराभिन्नतनुर्द्दामोदरकृतास्पदा |
दामोदरकृतप्राणा दामोदरगतात्मिका || १६२ ||
दामोदरकौतुकाढ्या दामोदरकलाकला |
दामोदरालिङ्गिताङ्गी दामोदरकुतूहला || १६३ ||
दामोदरकृताह्लादा दामोदरसुचुम्बिता |
दामोदरसुताकृष्टा दामोदरसुखप्रदा || १६४ ||
दामोदरसहाढ्या च दामोदरसहायिनी |
दामोदरगुणज्ञा च दामोदरवरप्रदा || १६५ ||
दामोदरानुकूला च दामोदरनितम्बिनी |
दामोदरजलक्रीडा-कुशलादर्शनप्रिया || १६६ ||
दामोदरबलक्रीडा-त्यक्तस्वजनसौहृदा |
दामोदरलसद्रास-केलिकौतुकिनी तथा || १६७ ||
दामोदरभ्रातृका च दामोदरपरायणा |
दामोदरधरा दामोदरवैरिविनाशिनी || १६८ ||
दामोदरोपजाया च दामोदरनिमन्त्रिता |
दामोदरपराभूता दामोदरपराजिता || १६९ ||
दामोदरसमाक्रान्ता दामोदरहताशुभा |
दामोदरोत्सवरता दामोदरोत्सवावहा || १७० ||
दामोदरस्तन्यदात्री दामोदरगवेषिता |
दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता || १७१ ||
दमयन्तीष्टदेवी च दमयन्तीस्वरूपिणी |
दमयन्तीकृतार्चा च दमनर्षिविभाविता || १७२ ||
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी |
दमनर्षिस्वरूपा च दम्भपूरितविग्रहा || १७३ ||
दम्भहन्त्री दम्भदात्री दम्भलोकविमोहिनी |
दम्भशीला दम्भहरा दम्भवत्परिमर्द्दिनी || १७४ ||
दम्भरूपा दम्भकरी दम्भसन्तानदारिणी |
दत्तमोक्षा दत्तधना दत्तरोग्याथ दाम्भिका || १७५ ||
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका |
दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना || १७६ ||
दत्तमतिद्दत्तभार्या दत्तशास्त्रावबोधिका |
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी || १७७ ||
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा |
दास्यतुष्टा दास्यहरा दासदासीशतप्रदा || १७८ ||
दाररूपा दारवासा दारवासिहृदास्पदा |
प्. ४३८) दारवासिजनाराध्या दारवासिजनप्रिया || १७९ ||
दारवासिविनिर्न्नीता दारवासिसमर्च्चिता |
दारवास्याहृतप्राणा दारवास्यरिनाशिनी || १८० ||
दारवासिविघ्नहरा दारवासिविमुक्तिदा |
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी || १८१ ||
दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका |
दम्पतिस्नेहनिरता दाम्पत्यसाधनप्रिया || १८२ ||
दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी |
दाम्पत्याचारनिरता दम्पत्यामोदमोदिता || १८३ ||
दम्पत्यामोदसुखिनी दाम्पत्याह्लादकारिणी |
दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी || १८४ ||
दाम्पत्यभोगभवना दाडिमीफलभोजिनी |
दाडिमीफलसन्तुष्टा दाडिमीफलमानसा || १८५ ||
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी |
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी || १८६ ||
दाडिमीफलसाम्योरुपयोधरविवर्जिता |
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी || १८७ ||
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः |
दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी || १८८ ||
दक्षयज्ञनाशकर्त्त्री दक्षयज्ञान्तकारिणी |
दक्षप्रसूतिर्द्दक्षेज्या दक्षवंशैकपावनी || १८९ ||
दक्षात्मजा दक्षसूनुर्द्दक्षजा दक्षजातिका |
दक्षजन्मा दक्षजनुर्द्दक्षदेहसमुद्भवा || १९० ||
दक्षजनिर्द्दक्षयागध्वंसिनी दक्षकन्यका |
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा || १९१ ||
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता |
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता || १९२ ||
दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता |
दक्षिणाचारशरणा दक्षिणाचारहर्षिता || १९३ ||
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता |
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी || १९४ ||
द्वारकारी द्वारधात्री दोषमात्रविवर्ज्जिता |
दोषकरा दोषहरा दोषराशिविनाशिनी || १९५ ||
दोषाकरविभूषाढ्या दोषाकरकपालिनी |
प्. ४३९) दोषाकरसहस्राभा दोषाकरसमानना || १९६ ||
दोषाकरमुखीदिव्या दोषाकरकराग्रजा |
दोषाकरसमज्योतिर्दोषाकरसुशीतला || १९७ ||
दोषाकरश्रेणि दोषसदृशापाङ्गवीक्षणा |
दोषाकरेष्टदेवी च दोषाकरनिषेविता || १९८ ||
दोषाकरप्राणरूपा दोषाकरमरीचिका |
दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी || १९९ ||
दोषाकरशिरोभूषा दोषाकरवधूप्रिया |
दोषाकरवधूप्राणा दोषाकरवधूर्म्मता || २०० ||
दोषाकरवधूप्रीता दोषाकरवधूरपि |
दोषापूज्या तथा दोषापूजिता दोषहारिणी || २०१ ||
दोषाजापमहानन्दा दोषाजापपरायणा |
दोषापुरश्चाररता दोषापूजकपुत्रिणी || २०२ ||
दोषापूजकवात्सल्यकारिणी जगदम्बिका |
दोषापूजकवैरिघ्नी दोषापूजकविघ्नहृत् || २०३ ||
दोषापूजकसन्तुष्टा दोषापूजकमुक्तिदा |
दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा || २०४ ||
दुर्योधनपूज्या च दुःशासनसमर्च्चिता |
दण्डपाणिप्रिया दण्डपाणिमाता दयानिधिः || २०५ ||
दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता |
दण्डपाणिगृहासक्ता दण्डपाणिप्रिय/व्वदा || २०६ ||
दण्डपाणिप्रियमता दण्डपाणिमनोहरा |
दण्डपाणिहृतप्राणा दण्डपाणिसुसिद्धिदा || २०७ ||
दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता |
दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता || २०८ ||
दण्डपाणिप्राप्तचर्च्चा दण्डपाण्युन्मुखी सदा |
दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी || २०९ ||
दण्डहस्ता दण्डपाणिर्द्दण्डबाहुर्द्दरान्तकृत् |
दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा || २१० ||
दण्डविद्या दण्डिमाता दण्डिखण्डकनाशिनी |
दण्डिप्रिया दण्डिपूज्या दण्डिसन्तोषदायिनी || २११ ||
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी |
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी || २१२ ||
प्. ४४०) दस्युनिर्नाशिनी दस्युकुलनिर्न्नाशिनी तथा |
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा || २१३ ||
दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा |
दुष्टवर्गनिग्रहार्हा दूषकप्राणनाशिनी || २१४ ||
दूषकोत्तापजननी दूषकारिष्टकारिणी |
दूषकद्वेषनकरी दाहिका दहनात्मिका || २१५ ||
दारकारीनिहन्त्री च दारुकेश्वरपूजिता |
दारकेश्वरमाता च दारुकेश्वरवन्दिता || २१६ ||
दर्ब्भहस्ता दर्ब्भयुता दर्ब्भकर्मविवर्जिता |
दर्ब्भमयी दर्ब्भतनुर्द्दर्ब्भसर्वस्वरूपिणी || २१७ ||
दर्ब्भकर्माचाररता दर्ब्भहस्तकृतार्हणा |
दर्ब्भानुकूला दार्ब्भर्यया दर्वीपात्रानुदामिनी || २१८ ||
दमघोषप्रपूज्या च दमघोषवरप्रदा |
दमघोषसमाराध्या दावाग्निरूपिणी तथा || २१९ ||
दावाग्निरूपा दावग्निनिर्न्नाशितमहाबला |
दन्तदंष्ट्रासुरकला दन्तचर्च्चितहस्तिका || २२० ||
दन्तदंष्ट्रस्यन्दना च दन्तनिर्न्नाशितासुरा |
दधिपूज्या दधिप्रीता दधीचिवरदायिनी || २२१ ||
दधीचीष्टदेवता च दधीचिमोक्षदायिनी |
दधीचिदैन्यहन्त्री च दधीचिदरदारिणी || २२२ ||
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता |
दधीचिज्ञानदात्री च दधीचिगुणदायिनी || २२३ ||
दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा |
दधीचिकुलदेवी च दधीचिकुलदेवता || २२४ ||
दधीचिकुलगम्या च दधीचिकुलपूजिता |
दधीचिसुखदात्री च दधीचिदीनहारिणी || २२५ ||
दधीचिदुःखहन्त्री च दधीचिकुलसुन्दरी |
दधीचिकुलसम्भूता दधीचिकुलपालिनी || २२६ ||
दधीचिदानगम्या च दधीचिदानमानिनी |
दधीचिदानसन्तुष्टा दधीचिदानदेवता || २२७ ||
दधीचिजयसम्प्रीता दधीचिजपमानसा |
दधीचिजपपूजाढ्या दधीचिजपमालिका || २२८ ||
दधीचिजपसन्तुष्टा दधीचिजपतोषिणी |
प्. ४४१) दधीचितपसाराध्या दधीचिशुभदायिनी || २२९ ||
दूर्वा दूर्वादलश्यामा दूर्वादलसमद्युतिः |
नाम्नां सहस्रन्दुर्गाया दादीनामिति कीर्त्तितम् || २३० ||
यः पठेत्साधकाधीशः सर्वसिद्धीर्ल्लभेत्तु सः |
प्रातर्म्मध्याह्नकाले च सन्ध्यायां नियतः शुचिः || २३१ ||
तथार्द्धरात्रसमये स महेश इवापरः |
शक्तियुक्तो महारात्रौ महावीरः प्रपूजयेत् || २३२ ||
महादेवीम्मकाराद्यैः पञ्चभिर्द्द्रव्यसत्तमैः |
तत्पठेत्स्तुतिमिमा/ ययस्स च सिद्धिस्वरूपधृक् || २३३ ||
देवालये श्मशाने च गङ्गातीरे निजे गृहे |
वाराङ्गनागृहे चैव श्रीगुरोस्सन्निधावपि || २३४ ||
पर्वते प्रान्तरे घोरे स्तोत्रमेतत्सदा पठेत् |
दुर्गानामसहस्रं हि दुर्गां पश्यति चक्षुषा || २३५ ||
शतावर्त्तनमेतस्य पुरश्चरणमुच्यते |
स्तुतिसारो निगदितः किम्भूयः श्रोतुमिच्छसि || २३६ ||
इति श्रीकुलार्णवे दुर्गादकारादिसहस्रनामस्तोत्रं समाप्तम् |
इति शाक्तप्रमोदे दुर्गातन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बाहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
चतुर्दशं
शिवतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
अथ शिवतन्त्रम्
अथ शिवध्यानम्
ध्यायेन्नित्यम्महेशं रजतगिरिनिभञ्चारुचन्द्रावतंसं
रत्नाकाल्पोज्ज्वलाङ्गम्परशुमृगवराभीतिहस्तम्प्रसन्नम् |
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्ति/ व्वसान/
व्विश्वाद्य/ व्विश्वबीजन्निखिलभयहरम्पञ्चवक्त्रन्त्रिनेत्रम् || १ ||
प्. ४४६) अथ यन्त्रोद्धारः
अनुक्तकल्पे यन्त्रन्तु लिखेत्पद्मदलाष्टकम् ||
षट्कोणकर्णिकन्तत्र वेदद्वारोपशोभितम् ||
अथ मन्त्रोद्धारः
नमस्कारं समुद्धृत्य वान्तं नेत्रसमन्वितम् |
वारुणम्मुखवृत्तञ्च वायुं लालाटस/ययुतम् ||
अमुम्पञ्चाक्षरम्मन्त्रम्पञ्चकामफलप्रदम् |
प्रणवादिर्यदा देवि तदा मन्त्रः षडक्षरः ||
अथ मन्त्रः
ओं नमश्शिवाय |
अथ पूजाप्रयोगः
प्रातः कृत्यादिकङ्कृत्वा पूजागृहङ्गत्वा आसने उपविश्य
दीपम्प्रज्वाल्य ओं दींदीपनाथायनम इति दीपं सम्पूज्य
भूतापसर्पणङ्कृत्वा पूजामारमेत् | तद्यथा || अथ ध्यानम् ||
बन्धूकसन्निभन्देवन्त्रिनेत्रञ्चन्द्रशेखरम् |
त्रिशूलधारिणन्देवञ्चारुहासं सुनिर्म्मलम् || १ ||
कपालधारिणन्देव/ व्वरदाभयहस्तकम् |
उमया सहितं शम्भुन्ध्यायेत्सोमेश्वरं सदा || २ || इति ध्यानम् ||
अथावाहनम् ||
आयाहि भगवञ्छम्भो शर्व त्वङ्गिरिजापते |
प्रसन्नो भव देवेश नमस्तुभ्यं हि शङ्कर || इत्यावाहनम् ||
अथासनम् ||
प्. ४४७) विश्वेश्वर महादेव राजराजेश्वरप्रिय |
आसनन्दिव्यमीशान दास्येऽहन्तुभ्यमीश्वर || इत्यासनम् ||
अथपाद्यम्
महादेव महेशान महादेव परात्पर |
पाद्यङ्गृहाण मद्दत्तम्पार्वतीसहितेश्वर || इति पाद्यम् ||
अथार्ग्घ्यम्
त्र्यम्बकेश सदाचार जगदादिविधायक |
अर्ग्घ्यङ्गृहाण देवश साम्ब सर्वार्त्थदायक || इत्यर्ग्घ्यम् ||
अथाचमनीयम्
त्रिपुरान्तक दीनार्त्तिनाशक श्रीकण्ठ शाश्वत |
गृहाणाचमनीयञ्च पवित्रोदककल्पितम् ||
इत्याचमनीयम् || अथ गोदुग्धस्नानम् ||
मधुरङ्गोपयः पुण्यम्पटपूतम्पुरस्कृतम् |
स्नानार्थन्देवदेवेश गृहाण परमेश्वर ||
इति दुग्धस्नानम् || अथ दधिस्नानम् ||
दुर्ल्लभन्दिवि सुस्वादु दधि सर्वप्रियम्परम् |
पुष्टिदम्पार्वतीनाथ स्नानाय प्रतिगृह्यताम् ||
इति दधिस्नानम् || अथ घृतस्नानम् ||
घृतङ्गव्यं शुचि स्निग्धं सुसेव्यम्पुष्टिमिच्छताम् |
गृहाणगिरिजानाथ स्नानाय चन्द्रशेखर ||
इति घृतस्नानम् || अथ मधुस्नानम् ||
मधुरम्मृदु मोहघ्नं स्वरभङ्गविनाशनम् ||
महादेवेदमुत्सृष्टन्तव स्नानाय शङ्कर ||
इति मधुस्नानम् || अथ शर्क्करास्नानम् ||
तापशान्तिकरी शीता मधुरास्वादस/ययुता |
स्नानार्त्थन्देवदेवेश शर्करेयम्प्रदीयते ||
इति शर्करास्नानम् || अथ शुद्धोदकस्नानम् ||
गङ्गा गोदावरी रेवा पयोष्णी यमुना तथा |
सरस्वत्यादि तीर्त्थानि स्नानार्त्थम्प्रतिगृह्यताम् ||
अथ शतरुद्र्या स्नानम् || तदुद्धारो यथा ||
नमस्ते रुद्रसूक्तञ्च पुनः षोडशमेव च |
एष ते द्विर्न्नमस्ते द्विर्न्नतविद्वयमेव च ||
मीढुष्टमष्ट चत्वारि वयक्ष्वमष्टमञ्जपेत् ||
ओं नमस्ते रुद्र मन्यवऽ-उतो त ऽ-इषवे नमः || बाहुभ्यामुत ते नमः || १
||
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी || तया नस्स्तन्न्वा शन्तमया
गिरिशन्ताभिचाकशीहि || २ ||
यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे ||
प्. ४४८) शिवाङ्गिरित्र ताङ्कुरु मा हिंसीः पुरुषञ्जगत् || ३ ||
शिवेन व्वचसा त्वा गिरिशाऽच्छाव्वदामसि |
यथा नः सर्वमिज्जगदयक्ष्मं सुमना ऽ-असत् || ४ ||
अद्ध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् |
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्न्योऽधराचीः परासुव ||
५ ||
असौ यस्ताम्रो ऽ-अरुण ऽ-उत बभ्रुः सुमङ्गलः |
ये चैनं रुद्रा ऽ-अभितो दिक्षु श्रिताः सहस्रशोऽवैषां हेड ऽ-ईमहे ||
६ ||
असौ योऽवसर्पति नीलग्रीवो विलोहितः |
उतैनङ्गोपा .आदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः || ७ ||
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे |
अथो ये ऽ-अस्य सत्वानोऽहन्तेभ्योऽकरन्नमः || ८ ||
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्ज्याम् |
याश्च ते हस्त इषवः परा ता भगवो व्वप || ९ ||
विज्ज्यन्धनुः कपर्दिनो विशल्यो बाणवा/ २ || ऽ उत ||
अनेशन्नस्य या ऽ-इषव ऽ-आभुरस्य निषङ्गधिः || १० ||
या ते हेतिर्म्मीढुष्टम हस्ते बभूव ते धनुः |
तयास्मान्न्विश्वतस्त्वमयक्ष्मया परिभुज || ११ ||
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः |
अथो य ऽ-इषुधिस्तवारे ऽ-अस्मन्निधेहि तम् || १२ ||
अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे |
निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव || १३ ||
नमस्त ऽ-आयुधायानातताय धृष्णवे |
उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्वने || १४ ||
मा नो महान्तमुत मा नो ऽ-अर्ब्भकम्मा न ऽ-उक्षन्तमुत मा न ऽ-
उक्षितम् ||
मा नो व्वधीः पितरम्मोत मातरम्मा नः प्प्रियास्तन्न्वो रुद्र रीरिषः ||
१५ ||
मा नस्तोके तनये मा न ऽ-आयुषि मा नो गोषु मा नो ऽ-अश्वेषु रीरिषः |
मा नो व्वीरान् रुद्रभामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे || १६
||
नमो हिरण्यबाहवे सेनान्न्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो
हरिकेशेभ्यः पशूनाम्पतये नमो नमः शष्पिञ्जराय त्विषीमते
पथीनाम्पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम्पतये नमः ||
१७ ||
प्. ४४९) नमो बभ्लुशाय व्याधिने ऽन्नानाम्पतये नमो नमो भवस्य
हेत्यै जगताम्पतये नमो नमो रुद्रायाततायिने क्षेत्राणाम्पतये नमो
नमः सूतायाहन्त्यै व्वनानाम्पतये नमः || १८ ||
नमो रोहिताय स्थपतये व्वृक्षाणाम्पतये नमो नमो भुवन्तये
व्वारिवस्कृतायौषधीनाम्पतये नमो नमो मन्त्रिणे व्वाणिजाय
कक्षाणाम्पतये नमो नम ऽ-उच्चैर्ग्घोषाक्रन्दयते पत्तीनाम्पतये
नमः || १९ ||
नमः कृत्स्नायतया धावते सत्त्वनाम्पतये नमो नमः सहमानाय
निव्व्याधिन आव्व्याधिनीनाम्पतये नमो नमो निषङ्गिणे ककुभाय
स्तेनानाम्पतये नमो नमो निचेरवे परिचरायारण्यानाम्पतये नमः || २०
||
नमो व्वञ्चते परिवञ्चते स्तायूनाम्पतये नमो नमो निषङ्गिण ऽ-
इषुधिमते तस्कराणाम्पतये नमो नमः सृकायिभ्यो जिघांसद्भ्यो
मुष्णताम्पतये नमो नमो ऽसिमद्भ्योनक्तञ्चरद्भ्यो विकृन्तानाम्पतये
नमः || २१ ||
नम ऽ-उष्णीषिणे गिरिचराय कुलुञ्चानाम्पतये नमो नम ऽ-इषुमद्भ्यो
धन्न्वायिभ्यश्च्च वो नमो नम ऽ-आतन्न्वानेभ्यः प्रतिदधानेभ्यश्च
वो नमो नम ऽ-आयच्छद्भ्योऽस्यद्भ्यश्च वो नमः || २२ ||
नमो विसृजद्भ्यो विद्ध्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च
वो नमो नमः शयानेभ्य ऽ-आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो
धावद्भ्यश्च्च वो नमः || २३ ||
नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो ऽश्वेभ्यो
ऽश्वपतिभ्यश्च्च वो नमो नम ऽ-आव्याधिनीभ्यो विविद्ध्यन्तीभ्यश्च्च वो
नमो नम ऽ-उगणाभ्यस्तृंहतीभ्यश्च्च वो नमः || २४ ||
नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च
वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो
व्विश्वरूपेभ्यश्च वो नमः || २५ ||
प्. ४५०) नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्यो ऽ-
अरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमो
महद्भ्यो ऽ-अर्भकेभ्यश्च वो नमः || २६ ||
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः
कर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो
नमः श्वनिभ्यो मृगयुभ्यश्च वो नमः || २७ ||
नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिण्ठाय च || २८ ||
नमः कपर्द्दिने च व्व्युप्तकेशाय च नमः सहस्राक्षाय च
शतधन्न्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय
चेषुमते च || २९ ||
नमो ह्रस्वाय व्वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च
सवृधे च नमोऽग्र्याय च प्रथमाय च || ३० ||
नम ऽ-आशवे चाजिराय च नमः शीग्र्घ्याय च शीभ्याय च नम ऽ-
ऊर्म्म्याय चावस्वन्न्याय च नमो नादेयाय च द्वीप्याय च || ३१ ||
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो
मध्यमाय चापगल्भाय च नमो जघन्न्याय च बुद्ध्न्याय च || ३२ ||
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्म्याय च नमः
श्लोक्याय चावसान्याय च नम ऽ-उर्वर्याय च खल्ल्याय च || ३३ ||
नमो व्वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ-
आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च || ३४ ||
नमो बिल्म्मिने च कवचिने च नमो व्वर्मिणे च वरूथिने च नमः श्रुताय
च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्न्याय च || ३५ ||
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्न्वने च || ३६ ||
नमः स्रुत्त्याय च पत्थ्याय च नमः काट्याय च नीप्याय च नमः
कुल्याय च सरस्याय च नमो नादेयाय च व्वैशन्ताय च || ३७ ||
प्. ४५१) नमः कूप्याय चाऽवट्याय च नमो वीद्ध्र्याय चातप्प्याय च
नमो मेग्घ्याय च विद्युत्त्याय च नमो वर्ष्ष्याय चावर्ष्ष्याय च || ३८ ||
नमो वात्त्याय च रेष्म्याय च नमो वास्तव्याय च व्वास्तुपाय च नमः
सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च || ३९ ||
नमः शङ्गवे च पशुपतये च नम ऽ-उग्राय च भीमाय च
नमोऽग्रेवधाय च दूरेवधाय च नमो हंत्रे च हनीयसे च नमो
वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय || ४० ||
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय
च नमः शिवाय च शिवतराय च || ४१ ||
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च
नमस्तीर्त्थ्याय च कूल्याय च नमः शष्प्याय च फेन्न्याय च || ४२ ||
नमः सिकत्त्याय च प्रवाह्याय च नमः किंशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्प्रपत्थ्याय च || ४३ ||
नमो व्व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो
हृदययाय च निवेष्प्याय च नमः काट्याय च गह्वरेष्ठाय च || ४४ ||
नमः शुष्क्याय च हरित्त्याय च नमः पांसव्याय च रजस्याय च नमो
लोप्प्याय चोलप्प्याय च नम ऊर्व्व्याय च सूर्व्व्याय च || ४५ ||
नमः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय चाभिग्घ्नते च
नम .आअखिदते च प्प्रखिदते च नम ऽ-इषुकृद्भ्यो धनुष्कृद्भ्यश्च्च वो
नमो नमो वः किरिकेभ्यो देवानां हृदयेभ्यो नमो विचिन्वत्त्केभ्यो नमो
विक्षिणत्त्केभ्यो नम ऽ-आनिर्हतेभ्यः || ४६ ||
द्रापे ऽ-अन्धसस्पते दरिद्र नीललोहित ||
आसाम्प्रजानामेषाम्पशूनाम्मा भेर्म्मा रोङ्म्मो च नः
किञ्चनाममत् || ४७ ||
प्. ४५२) इमा रुद्राय तवसे कपर्द्दिने क्षयद्वीराय प्प्रभरामहे मतीः ||
यथा शमसद्द्विपदे चतुष्पदे विश्वम्पुष्टङ्ग्रामे ऽ-अस्मिन्ननातुरम् ||
४८ ||
या ते रुद्र शिवा तनूः शिवा विश्श्वाहा भेषजी |
शिवा रुतस्य भेषजी तया नो मृड जीवसे || ४९ ||
परि नो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः |
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड || ५० ||
मीढुष्टम शिवतम शिवो नः सुमना भव |
परमे वृक्ष ऽ-आयुधन्निधाय कृत्तिं व्वसान ऽ-अचार
पिनाकम्बिभ्रदागहि || ५१ ||
विकिरिद्र विलोहित नमस्ते ऽ-अस्तु भगवः |
यास्ते सहस्रं हेतयो ऽन्यमस्म्मन्निवपन्तु ताः || ५२ ||
सहस्राणि सहस्रशो बाह्वोस्तव हेतयः |
तासामीशानो भगवः पराचीना मुखा कृधि || ५३ ||
असङ्ख्याता सहस्राणि ये रुद्रा ऽ-अधि भूम्याम् |
तेषां सहस्रयोजनेऽव धन्न्वानि तन्मसि || ५४ ||
अस्मिन्महत्यर्णवे ऽन्तरिक्षे भवा ऽ-अधि |
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि || ५५ ||
नीलग्रीवाः शितिकण्ठा दिवं रुद्रा ऽ-उपश्रिताः |
तेषा/ सहस्रयोजनेऽव धन्न्वानि तन्न्मसि || ५६ ||
नीलग्रीवाः शितिकंठाः शर्वा ऽ-अधः क्षमाचराः |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्मसि || ५७ ||
ये भूतानामधिपतयो विशिखासः कपर्द्दिनः |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्मसि || ५८ ||
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा व्विलोहिताः |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्न्मसि || ५९ ||
ये पथाम्पथिरक्षय ऽ-ऐलबृदा आयुर्युधः |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्मसि || ६० ||
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्न्मसि || ६१ ||
येऽन्नेषु व्विविद्ध्यन्ति पात्रेषु पिबतो जनान् |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्न्मसि || ६२ ||
य ऽ-एतावन्तश्च भूया/ सश्च्च दिशो रुद्रा व्वितस्थिरे |
प्. ४५३) तेषा/ सहस्रयोजनेऽव धन्वानि तन्मसि || ६३ ||
नमोऽस्तु रुद्रेभ्यो ये दिवि येषा/ व्वर्षमिषवः |
तेभ्यो दश प्राचीर्द्दश दक्षिणा दश प्रतीचीर्द्दशोदीचीर्द्दशोर्द्ध्वाः
|
तेभ्यो नमो ऽ-अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यन्द्विष्मो यश्च्च नो
द्वेष्टि तमेषाञ्जम्भे दध्मः || ६४ ||
नमोऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषा/ व्वात ऽ-इषवस्तेभ्यो दश
प्राचीर्द्दश दक्षिणा दश प्प्रतीचीर्द्दशोदीचीर्द्दशोर्द्ध्वाः |
तेभ्यो नमो ऽ-अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यन्द्विष्मो यश्च्च नो
द्वेष्टि तमेषाञ्जम्भे दध्मः || ६५ ||
नमोऽस्तु रुद्रेभ्यो ये पृथिव्या/ ययेषामन्नमिषवः |
तेभ्यो दश प्राचीर्द्दश दक्षिणा दश प्रतीचीर्द्दशोदीचीर्द्दशोर्द्ध्वाः
||
तेभ्यो नमो ऽ-अस्तु ते नोऽवन्तु ते नो मृडयंतु ते यं द्विष्मो यश्च नो
द्वेष्टि तमेषाञ्जम्भे दध्मः || ६६ ||
नमस्ते रुद्र मन्यव ऽ-उतो त ऽ-इषवे नमः ||
बाहुभ्यामुत ते नमः || ६७ ||
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी |
तया नस्तन्न्वा शन्तमया गिरिशन्ताभिचाकशीहि || ६८ ||
यामिषुङ्गिरिशन्त हस्ते ब्बिभर्ष्ष्यस्तवे |
शिवाङ्गिरित्र ताङ्कुरु मा हिंसीः पुरुषञ्जगत् || ६९ ||
शिवेन व्वचसा त्वा गिरिशाऽच्छाव्वदामसि |
यथा नः सर्वमिज्जगदयक्ष्मं सुमनाऽ-असत् || ७० ||
अद्ध्यवोचदधिवक्ता प्प्रथमो दैव्व्यो भिषक् |
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परासुव ||
७१ ||
असौ यस्ताम्रो ऽ-अरुण ऽ-उत बभ्रुः सुमङ्गलः |
ये चैनं रुद्रा ऽ-अभितो दिक्षु श्रिताः सहस्रशो ऽवैषा/ हेड ऽ-ईमहे ||
७२ ||
असौ योऽवसर्पति नीलग्रीवो व्विलोहितः | उतैनङ्गोपा ऽ-
अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः || ७३ ||
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे |
अथो ये ऽ-अस्य सत्त्वानोऽहन्तेभ्योऽकरन्नमः || ७४ ||
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्ज्याम् |
याश्च ते हस्त ऽ-इषवः परा ता भगवो व्वप || ७५ ||
विज्यन्धनुः कपर्द्दिनो व्विशल्यो बाणवा/ २ || उत || अनेशन्नस्य या ऽ-इषव
ऽ-आभुरस्य निषङ्गधिः || ७६ ||
या ते हेतिर्म्मीढुष्टम हस्ते बभूव ते धनुः ||
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज || ७७ ||
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः |
अथो यऽ-इषुधिस्तवारे ऽ-अस्मन्निधेहि तम् || ७८ ||
अवतत्त्य धनुष्ट्वं सहस्राक्ष शतेषुधे |
निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव || ७९ ||
नमस्त ऽ-आयुधायानातताय धृष्णवे |
उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्न्वने || ८० ||
मा नो महान्तमुत मा नो ऽ-अर्ब्भकम्मा न ऽ-उक्षन्तमुत मा न ऽ-
उक्षितम् |
मा नो व्वधीः पितरम्मोत मातरम्मा नः प्रियास्तन्न्वो रुद्र रीरिषः || ८१
||
मा नस्तोके तनये मा न ऽ-आयुषि मा नो गोषु मा नो ऽ-अश्वेषु रीरिषः ||
मा नो व्वीरान्त्रुद्रभामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे || ८२
||
एष ते रुद्र भागः सह स्वस्त्राऽम्बिकया तञ्जुषस्व स्वाहैष ते रुद्र
भाग .आअखुस्ते पशुः || ८३ ||
अव रुद्र मदीमह्यव देवन्त्र्यम्बकम् |
यथा नो व्वस्यसस्करद्यथा नः श्रेयस्करद्यथा नो व्व्यवसाययात् || ८४ ||
नमस्ते हरसे शोचिषे नमस्ते ऽ-अस्त्वश्चिषे |
अन्न्या/स्ते ऽ-अस्म्मत्तपन्तु हेतयः पावको ऽ-अस्मभ्यं शिवो भव || ८५ ||
नमस्ते ऽ-अस्तु विद्युते नमस्ते स्तनयित्नवे |
नमस्ते भगवन्नस्तु यतः स्वः समीहसे || ८६ ||
न त/ व्विदाथ य ऽ-इमा जजानान्यद्युष्माकमन्तरम्बभूव |
नीहारेण प्रावृता जल्प्या चासुतृप ऽऽ-उक्थशासश्चरन्ति || ८७ ||
विश्वकर्मा ह्यजनिष्ट देव ऽ-आदिद्गन्धर्वो ऽ-अभवद्द्वितीयः ||
तृतीयः पिता जनितौषधीनामपाङ्गर्ब्भं व्व्यदधात्पुरुत्रा || ८८ ||
मीढुष्टम शिवतम शिवो नः सुमना भव |
परमे व्वृक्ष ऽ-आयुधन्निधाय कृत्तिं व्वसान ऽ-आचर
पिनाकम्बिभ्रदागहि || ८९ ||
प्. ४५५) विकिरिद्र व्विलोहित नमस्ते ऽ-अस्तु भगवः |
यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः || ९० ||
सहस्राणि सहस्रशो व्बाह्वोस्तव हेतयः |
तासामीशानो भगवः पराचीना मुखा कृधि || ९१ ||
असङ्ख्याता सहस्राणि ये रुद्रा ऽ-अधि भूम्म्याम् |
तेषा/ सहस्रयोजनेऽव धन्वानि तन्मसि || ९२ ||
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः |
प्रजावन्तः सचेमहि || ९३ ||
एष ते रुद्र भागः सह स्वस्राऽम्बिकया तञ्जुषस्व स्वाहैष ते रुद्र
भाग ऽ-आखुस्ते पशुः || ९४ ||
अव रुद्रमदीमह्यव देवन्त्र्यम्बकम् |
यथा नो वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसाययात् || ९५ ||
भेषजमसि भेषजङ्गवेऽश्वाय पुरुषाय भेषजम् |
सुखम्मेषाय मेष्यै || ९६ ||
त्र्यम्बक/ ययजामहे सुगन्धिम्पुष्टिंवर्द्धनम् |
उर्वारुकमिव बन्धनान्न्मृत्योर्मुक्षीयमाऽमृतात् ||
त्र्यम्बक/ ययजामहे सुगन्धिम्पतिवेदनम् |
उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः || ९७ ||
एतत्ते रुद्राऽवसन्तेन परो मूजवतोऽतीहि || ९८ ||
त्र्यायुषञ्जमदग्नेः कश्यपस्य त्र्यायुषम् |
यद्देवेषु त्र्यायुषन्तन्नो ऽ-अस्तु त्र्यायुषम् || ९९ ||
शिवो नामासि स्वधितिस्ते पिता नमस्ते ऽ-अस्तु मा मा हिंसीः |
निवर्त्तयाम्यायुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय
सुवीर्याय || १०० ||
इति शुद्धोदकस्नानम् ||
अथ वस्त्रम् ||
वस्त्राणि पट्टकूलानि विचित्राणि नवानि च |
मयानीतानि देवेश प्रसन्नो भव शङ्कर ||
इति वस्त्रम् ||
अथोपवीतम्
सौवर्णं राजतन्ताम्रङ्कार्पासस्य तथैव च |
उपवीतम्मया दत्तं प्रीत्यर्त्थम्प्रतिगृह्यताम् ||
इत्युपवीतम्
अथ गन्धम् ||
सर्वेश्वर जगद्वन्द्य दिव्यासनसमास्थित |
गन्धङ्गृहाण देवेश चन्दनम्प्रतिगृह्यताम् || इति गन्धम् ||
अथाक्षतान् |
गन्धोपरि शुक्लाक्षतान् |
प्. ४५६) अक्षताश्च सुरश्रेष्ठाः शुभ्रा धूताश्च निर्म्मलाः |
मया निवेदिता भक्त्या गृहाण परमेश्वर || इत्यक्षतान् |
अथ पुष्पाणि
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो |
मयाहृतानि पूजार्त्थम्पुष्पाणि प्रतिगृह्यताम् || इति पुष्पाणि |
अथ बिल्वपत्राणि |
बिल्व पत्रं सुवर्णेन त्रिशूलाकारमेव च |
मयार्पितम्महादेव बिल्वपत्रङ्गृहाण मे ||
इति बिल्वपत्राणि ||
अथ धूपम् |
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः |
आघ्रेयः सर्वदेवानान्धूपोऽयम्प्रतिगृह्यता || इति धूपम् |
अथ दीपम्
आज्याक्तवर्त्तिस/ययुक्त/ व्वह्निना दीपितन्तु यत् |
दीपङ्गृहाण देवश त्रैलोक्यतिमिरापह || इति दीपम् ||
अथ नैवेद्यम्
अपूपानि च पक्वानि मण्डका वटकानि च |
पायसं सूपमन्नञ्च नैवेद्यम्प्रतिगृह्यताम् || इति नैवेद्यम् ||
अथाचमनीयम् ||
पानीयं शीतलं शुद्धङ्गाङ्गेयम्महदुत्तमम् |
गृहाण पार्वतीनाथ तव प्रीत्या प्रकल्पितम् || इत्याचमनीयम् ||
अथ करोद्वर्त्तनम्
कर्पूरादीनि द्रव्याणि सुगन्धीनि महेश्वर |
गृहाण जगतान्नाथ करोद्वर्त्तनहेतवे || इति करोद्वर्त्तनम् |
अथ फलानि |
कूष्माण्डम्मातुलिङ्गञ्च नारिकेलफलानि च |
गृहाण पार्वतीकान्त सोमशेखर शङ्कर | इति फलानि ||
अथ स्पूगीफलताम्बूलादीनि ||
पूगीफलम्महद्दिव्यन्नागवल्लीदलैर्युतम् |
गृहाण देवदेवेश द्राक्षादीनि सुरेश्वर || इति पूगीफलादीनि ||
अथ द्रव्यम् ||
हिरण्यगर्ब्भगर्ब्भस्थं हेमबीजसमन्वितम् |
पञ्चरत्नम्मया दत्तङ्गृह्यतां वृषभध्वज || इति द्रव्यम् ||
अथ नीराजनम् ||
अग्निर्ज्ज्योती रविर्ज्ज्योतिर्ज्ज्योतिर्न्नारायणो विभुः |
नीराजयामि देवेशम्पञ्चदीपैः सुरेश्वर || इति नीराजनम् ||
अथ पुष्पाञ्जलिः ||
हर विश्वाखिलाधार निराधार निराश्रय |
पुष्पाञ्जलिङ्गृहाणेश सोमेश्वर नमोऽस्तु ते || इति पुष्पाञ्जलिम् ||
प्. ४५७) अथ प्रणाममन्त्रः |
हेतवे जगतामेव संसारार्णवसेतवे |
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ||
इति प्रणाममन्त्रः |
सर्वमन्त्रान्ते साङ्गाय सायुधाय सवाहनाय सपरिवाराय
सावरणाय नम इति योज्यम् ||
अथ शिवसहस्रनामावली
अस्य श्रीसदाशिवसहस्रनामस्तोत्रमन्त्रस्य, नारायण ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप्छन्दः, सदाशिवो बीजम्, गौरी शक्तिः,
श्रीसदाशिवप्रीत्यर्त्थन्तद्दिव्यसहस्रनामभिः अमुकद्रव्यसमर्पणे
विनियोगः ||
अथ ध्यानम्
ध्यायेन्नित्यम्महेशं रजतगिरिनिभञ्चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गम्परशुमृगवराभीतिहस्तम्प्रसन्नम् |
पद्मासीनां समन्तात्स्तुतममरगणैर्व्व्याघ्रकृत्ति/ व्वसानन/
व्विश्वाद्य/ व्विश्ववन्द्यन्निखिलभयहरम्पञ्चवक्त्रन्त्रिनेत्रम् || १ ||
स्थिरायनमः || १ || स्थाणवेनमः || २ || प्रभवेनमः || ३ ||
भीमायनमः || ४ || प्रवरायनमः || ५ || वरदायनमः || ६ ||
वरायनमः || ७ || सर्वात्मनेनमः || ८ || सर्वविख्यातायनमः || ९ ||
सर्वस्मैनमः || १० || सर्वकरायनमः || ११ || भवायनमः || १२ ||
जटिनेनमः || १३ || चर्म्मिणेनमः || १४ || शिखण्डिनेनमः || १५ ||
सर्वाङ्गायनमः || १६ || सर्वभावनायनमः || १७ ||
हरायनमः || १८ || हरिणाक्षायनमः || १९ || सर्वभूतहरायनमः || २०
|| प्रभवेनमः || २१ || प्रवृत्तयेनमः || २२ || निवृत्तायनमः || २३ ||
नियतायनमः || २४ || शाश्वतायनमः || २५ || ध्रुवायनमः || २६ ||
श्मशानवासिनेनमः || २७ || भगवतेनमः || २८ || खचरायनमः || २९ ||
गोचरायनमः || ३० || अर्द्दनायनमः || ३१ || अभिवाद्यायनमः || ३२ ||
महाकर्मणेनमः || ३३ ||
प्. ४५८) तपस्विनेनमः || ३४ || भूतभावनायनमः || ३५ ||
उन्मत्तवेषप्रच्छन्नायनमः || ३६ || सर्वलोकप्रजापतयेनमः || ३७ ||
महारूपायनमः || ३८ || महाकायायनमः || ३९ || वृषरूपायनमः ||
४० || महायशसेनमः || ४१ || महात्मनेनमः || ४२ ||
सर्वभूतात्मनेनमः || ४३ || विश्वरूपायनमः || ४४ || महाहनवेनमः
|| ४५ || लोकपालायनमः || ४६ || अन्तर्हितात्मनेनमः || ४७ || प्रसादायनमः
|| ४८ || हयगर्द्दभयेनमः || ४९ || पवित्रायनमः || ५० || महतेनमः || ५१ ||
नियमायनमः || ५२ || नियमाश्रितायनमः || ५३ || सर्वकर्मणेनमः || ५४
|| स्वयम्भूतायनमः || ५५ || आदयेनमः || ५६ || आदिकरायनमः || ५७ ||
निधयेनमः || ५८ || सहस्राक्षायनमः || ५९ || विशालाक्षायनमः || ६० ||
सोमायनमः || ६१ || नक्षत्रसाधकायनमः || ६२ || चन्द्रायनमः || ६३ ||
सूर्यायनमः || ६४ || शनयेनमः || ६५ || केतवेनमः || ६६ || ग्रहायनमः
|| ६७ || ग्रहपतयेनमः || ६८ || वरायनमः || ६९ || अत्रयेनमः || ७० ||
अत्र्यानमस्कर्त्रेनमः || ७१ || मृगबाणार्पणायनमः || ७२ ||
अनघायनमः || ७३ || महातपसेनमः || ७४ || घोरतपसेनमः || ७५ ||
अदीनायनमः || ७६ || दीनसाधकायनमः || ७७ || स/व्वत्सरकरायनमः ||
७८ || मन्त्रायनमः || ७९ || प्रमाणायनमः || ८० || परमन्तपायनमः ||
८१ || योगिनेनमः || ८२ || योज्यायनमः || ८३ || महाबीजायनमः || ८४ ||
महारेतसेनमः || ८५ || महाबलायनमः || ८६ || सुवर्णरेतसेनमः || ८७ ||
सर्वज्ञायनमः || ८८ || सुबीजायनमः || ८९ || बीजवाहनायनमः ९० ||
दशवाहवेनमः || ९१ || अनिमिषायनमः || ९२ || नीलकण्ठायनमः || ९३ ||
उमापतयेनमः || ९४ || विश्वरूपायनमः || ९५ ||
प्. ४५९) स्वयंश्रेष्ठायनमः || ९६ || बलवीरायनमः || ९७ ||
अबंलगणायनमः || ९८ || गणकर्त्त्रेनमः || ९९ || गणपतयेनमः || १०० ||
दिग्वाससेनमः || १०१ || कामायनमः || १०२ || मन्त्रविदेनमः || १०३ ||
परममन्त्रायनमः || १०४ || सर्वभवकरायनमः || १०५ || हरायनमः ||
१०६ || कमण्डलुधरायनमः || १०७ || धन्विनेनमः || १०८ ||
बाणहस्तायनमः || १०९ || कपालवतेनमः || ११० || अशनिनेनमः || १११ ||
शतघ्निनेनमः || ११२ || खड्गिनेनमः || ११३ || पट्टिशिनेनमः || ११४ ||
आयुधिनेनमः || ११५ || महतेनमः || ११६ || स्रुवहस्तायनमः || ११७ ||
सुरूपायनमः || ११८ || तेजसेनमः || ११९ || तेजस्करनिधयेनमः || १२० ||
उष्णीषिणेनमः || १२१ || सुवक्त्रायनमः || १२२ || उदग्रायनमः || १२३ ||
विनतायनमः || १२४ || दीर्ग्घायनमः || १२५ || हरिकेशायनमः || १२६ ||
सुतीर्त्थायनमः || १२७ || कृष्णायनमः || १२८ || सृगालरूपायनमः || १२९
|| सिद्धार्त्थायनमः || १३० || मुण्डायनमः || १३१ ||
सर्वशुभंकरायनमः || १३२ || अजायनमः || १३३ || बहुरूपायनमः ||
१३४ || गन्धधारिणेनमः || १३५ || कपर्द्दिनेनमः || १३६ ||
उर्द्ध्वरेतसेनमः || १३७ || उर्द्ध्वलिङ्गायनमः || १३८ ||
उर्द्ध्वशायिनेनमः || १३९ || नभस्थलायनमः || १४० || त्रिजटायनमः ||
१४१ || चीरवाससे नमः || १४२ || रुद्रायनमः || १४३ || सेनापतयेनमः || १४४
|| विभवेनमः || १४५ || अहश्चरायनमः || १४६ || नक्तञ्चरायनमः || १४७ ||
तिग्ममन्यवेनमः || १४८ || सुवर्च्चसायनमः || १४९ || गजघ्नेनमः || १५० ||
दैत्यघ्नेनमः || १५१ || कालायनमः || १५२ || लोकधात्रेनमः || १५३ ||
गुणाकरायनमः || १५४ ||
प्. ४६०) सिंहशार्द्दूलरूपायनमः || १५५ ||
आर्द्द्रचर्माम्बरावृतायनमः || १५६ || कालयोगिनेनमः || १५७ ||
महानादायनमः || १५८ || सर्वकामायनमः || १५९ || चतुष्पथायनमः
|| १६० || निशाचरायनमः || १६१ || प्रेतचारिणेनमः || १६२ ||
भूतचारिणेनमः || १६३ || महेश्वरायनमः || १६४ || बहुभूतायनमः
|| १६५ || बहुधरायनमः || १६६ || स्वर्ब्भानवेनमः || १६७ || अमितायनमः
|| १६८ || गतयेनमः || १६९ || नृत्यप्रियायनमः || १७० || नित्यनर्त्तायनमः ||
१७१ || नर्त्तकायनमः || १७२ || सर्वलालसायनमः || १७३ || घोरायनमः ||
१७४ || महातपसेनमः || १७५ || पाशायनमः || १७६ || नित्यायनमः || १७७ ||
गिरिरुहायनमः || १७८ || नभसेनमः || १७९ || सहस्रहस्तायनमः || १८० ||
विजयायनमः || १८१ || व्यवसायनमः || १८२ || अतन्द्रितायनमः || १८३ ||
अधर्षणायनमः || १८४ || धर्षणात्मनेनमः || १८५ || यज्ञघ्नेनमः ||
१८६ || कामनाशकायनमः || १८७ || दक्षयागापहारिणेनमः || १८८ ||
सुसहायनमः || १८९ || मध्यमायनमः || १९० || तेजोपहारिणेनमः || १९१ ||
बलघ्नेनमः || १९२ || मुदितायनमः || १९३ || अर्त्थायनमः || १९४ ||
अजितायनमः || १९५ || अवरायनमः || १९६ || गम्भीरायनमः | १९७ ||
गभीरायनमः || १९८ || गम्भीरबलवाहनायनमः || १९९ ||
न्यग्रोधरूपायनमः || २०० || न्यग्रोधायनमः || २०१ ||
वृक्षकर्णस्थितयेनमः || २०२ || विभवेनमः || २०३ ||
सुतीक्ष्णदशनायनमः || २०४ || महाकायायनमः || २०५ ||
महाननायनमः || २०६ || विष्वक्सेनायनमः || २०७ || हरयेनमः || २०८ ||
यज्ञायनमः || २०९ || स/ययुगापीडवाहनायनमः || २१० ||
तीक्ष्णतापायनमः || २११ || हर्यश्वायनमः || २१२ ||
प्. ४६१) सहायायनमः || २१३ || कर्मकालविदेनमः || २१४ ||
विष्णुप्रसादितायनमः || २१५ || यज्ञायनमः || २१६ || समुद्रायनमः ||
२१७ || वडवामुखायनमः || २१८ || हुताशनसहायायनमः || २१९ ||
प्रशान्तात्मनेनमः || २२० || हुताशनायनमः || २२१ || उग्रतेजसेनमः ||
२२२ || महातेजसेनमः || २२३ || जन्यायनमः || २२४ || विजयकालविदेनमः ||
२२५ || ज्योतिषामयनायनमः || २२६ || सिद्धयेनमः || २२७ ||
सर्वविग्रहायनमः || २२८ || शिखिनेनमः || २२९ || मुण्डिनेनमः || २३० ||
जटिनेनमः || २३१ || ज्वालिनेनमः || २३२ || मूर्त्तिजायनमः || २३३ ||
मूर्द्ध्वगायनमः || २३४ || बलिनेनमः || २३५ || वेणविनेनमः || २३६ ||
पणविनेनमः || २३७ || तालिनेनमः || २३८ || खलिनेनमः || २३९ ||
कालकटङ्कटायनमः || २४० || नक्षत्रविग्रहमतयेनमः || २४१ ||
गुणबुद्धयेनमः || २४२ || लयायनमः || २४३ || आगमायनमः || २४४ ||
प्रजापतयेनमः || २४५ || विश्ववाहवेनमः || २४६ || विभागायनमः || २४७
|| सर्वगायनमः || २४८ || अमुखायनमः || २४९ || विमोचनायनमः || २५० ||
सुसरणायनमः || २५१ || हिरण्यकवचोद्भवायनमः || २५२ ||
मेढ्रजायनमः || २५३ || बलचारिणेनमः || २५४ || महीचारिणेनमः || २५५
|| स्रुतायनमः || २५६ || सर्वतूर्यनिनादिनेनमः || २५७ ||
सर्वतोद्यपरिग्रहायनमः || २५८ || व्यालरूपायनमः || २५९ ||
गुहावासिनेनमः || २६० || गुहायनमः || २६१ || मालिनेनमः || २६२ ||
तरङ्गविदेनमः || २६३ || त्रिदशायनमः || २६४ || त्रिकालधृषेनमः || २६५ ||
कर्मसर्वबन्धविमोचनायनमः || २६६ || असुरेन्द्राणाम्बन्धनायनमः
|| २६७ || युधिशत्रुविनाशनायनमः || २६८ || साङ्ख्यप्रसादायनमः ||
२६९ ||
प्. ४६२) दूर्वाससेनमः || २७० || सर्वसाधुनिषेवितायनमः || २७१ ||
प्रस्कन्दनायनमः || २७२ || विभागज्ञायनमः || २७३ || अतुल्यायनमः ||
२७४ || यज्ञभागविदेनमः || ३७५ || सर्ववासायनमः || २७६ ||
सर्वचारिणेनमः || २७७ || दुर्वाससेनमः || २७८ || वासवायनमः || २७९ ||
अमरायनमः || २८० || हैमायनमः || २८१ || हेमकरायनमः || २८२ ||
अयज्ञायनमः || २८३ || सर्वधारिणेनमः || २८४ || धरोत्तमायनमः ||
२८५ || लोहिताक्षायनमः || २८६ || महाक्षायनमः || २८७ ||
विजयाक्षायनमः || २८८ || विशारदायनमः || २८९ || सङ्ग्रहायनमः ||
२९० || निग्रहायनमः || २९१ || कर्त्त्रेनमः || २९२ ||
सर्पचीरनिवासनायनमः || २९३ || मुख्यायनमः || २९४ ||
अमुख्यायनमः || २९५ || देहायनमः || २९६ || काहलयेनमः || २९७ ||
सर्वकामदायनमः || २९८ || सर्वकालप्रसादायनमः || २९९ ||
सुबलायनमः || ३०० || बलरूपधृषेनमः || ३०१ || सर्वकामवरायनमः
|| ३०२ || सर्वदायनमः || ३०३ || सर्वतोमुखायनमः || ३०४ ||
आकाशनिर्विरूपायनमः || ३०५ || निपातिनेनमः || ३०६ || अवशायनमः ||
३०७ || खगायनमः || ३०८ || रौद्ररूपायनमः || ३०९ || अंशवेनमः || ३१०
|| आदित्यायनमः || ३११ || बहुरश्मयेनमः || ३१२ || सुवर्च्चस्विनेनमः ||
३१३ || वसुवेगायनमः || ३१४ || महावेगायनमः || ३१५ ||
मनोवेगायनमः || ३१६ || निशाचरायनमः || ३१७ || सर्ववासिनेनमः || ३१८
|| श्रियावासिनेनमः || ३१९ || उपदेशकरायनमः || ३२० || अकारायनमः ||
३२१ || मुनयेनमः || ३२२ || आत्मनिरालोकायनमः || ३२३ ||
सम्भग्नायनमः || ३२४ ||
प्. ४६३) सहस्रदायनमः || ३२५ || पक्षिणेनमः || ३२६ || पक्षरूपायनमः
|| ३२७ || अतिदीप्तायनमः || ३२८ || विशाम्पतयेनमः || ३२९ ||
उन्मादायनमः || ३३० || मदनायनमः || ३३१ || कामायनमः || ३३२ ||
अश्वत्थायनमः || ३३३ || अर्त्थकरायनमः || ३३४ || यशसेनमः || ३३५ ||
वामदेवायनमः || ३३६ || वामायनमः || ३३७ || प्राचेनमः || ३३८ ||
दक्षिणायनमः || ३३९ || वामनायनमः || ३४० || सिद्धयोगिनेनमः || ३४१ ||
महर्षयेनमः || ३४२ || सिद्धार्त्थायनमः || ३४३ || सिद्धसाधकायनमः
|| ३४४ || भिक्षवेनमः ||३४५ || भिक्षुरूपायनमः || ३४६ || विपणायनमः ||
३४७ || मृदवेनमः || ३४८ || अव्ययायनमः || ३४९ || महासेनायनमः || ३५०
|| विशाखायनमः || ३५१ || षष्टिभागायनमः || ३५२ || गवाम्पतयेनमः
|| ३५३ || वज्रहस्तायनमः || ३५४ || विष्कम्भिनेनमः || ३५५ ||
चमूस्तम्भनायनमः || ३५६ || वृत्तावृत्तकरायनमः || ३५७ ||
तालायनमः || ३५८ || मधवेनमः || ३५९ || मधुकलोचनायनमः || ३६० ||
वाचस्पत्यायनमः || ३६१ || वाजसनायनमः || ३६२ ||
आश्रमपूजितायनमः || ३६३ || ब्रह्मचारिणेनमः || ३६४ ||
लोकचारिणेनमः || ३६५ || सर्वचारिणेनमः || ३६६ || विचारविदेनमः || ३६७ ||
ईशानायनमः || ३६८ || ईश्वरायनमः || ३६९ || कालायनमः || ३७० ||
निशाचारिणेनमः || ३७१ || पिनाकधृषेनमः || ३७२ || निमित्तस्थायनमः ||
३७३ || निमित्तायनमः || ३७४ || नन्दयेनमः || ३७५ || नन्दिकरायनमः || ३७६ ||
हरयेनमः || ३७७ || नन्दीश्वरायनमः || ३७८ || नन्दिनेनमः || ३७९ ||
नन्दनायनमः || ३८० || नन्दिवर्द्धनायनमः || ३८१ || भगहारिणेनमः
|| ३८२ ||
प्. ४६४) निहन्त्रेनमः || ३८३ || कालायनमः || ३८४ || ब्रह्मणेनमः || ३८५ ||
पितामहायनमः || ३८६ || चतुर्म्मुखायनमः || ३८७ ||
महालिङ्गायनमः || ३८८ || चारुलिङ्गायनमः || ३८९ ||
लिङ्गाध्यक्षायनमः || ३९० || सुराध्यक्षायनमः || ३९१ ||
योगाध्यक्षायनमः || ३९२ || युगावहायनमः || ३९३ ||
बीजाध्यक्षायनमः || ३९४ || बीजकर्त्त्रेनमः || ३९५ ||
अध्यात्मानुगतायनमः || ३९६ || बलायनमः || ३९७ || इतिहासायनमः ||
३९८ || सङ्कल्पायनमः || ३९९ || गौतमायनमः || ४०० || निशाकरायनमः
|| ४०१ || दम्भायनमः || ४०२ || अदम्भायनमः || ४०३ || वैदम्भायनमः
|| ४०४ || वश्यायनमः || ४०५ || वशकरायनमः || ४०६ || कलयेनमः || ४०७ ||
लोककर्त्त्रेनमः || ४०८ || पशुपतयेनमः || ४०९ || महाकर्त्त्रेनमः || ४१० ||
अनौषधायनमः || ४११ || अक्षरायनमः || ४१२ || परमब्रह्मणेनमः ||
४१३ || बलवतेनमः || ४१४ || शक्रायनमः || ४१५ || नीतयेनमः || ४१६ ||
अनीतयेनमः || ४१७ || शुद्धात्मनेनमः || ४१८ || शुद्धायनमः || ४१९ ||
मान्यायनमः || ४२० || गतागतायनमः || ४२१ || बहुप्रसादायनमः ||
४२२ || सुस्वप्नायनमः || ४२३ || दर्पणायनमः || ४२४ || अमित्रजितेनमः || ४२५
|| वेदकारायनमः || ४२६ || मन्त्रकारायनमः || ४२७ || विदुषेनमः || ४२८ ||
समरमर्द्दनायनमः || ४२९ || महामेघनिवासिनेनमः || ४३० ||
महाघोरायनमः || ४३१ || वशिनेनमः || ४३२ || करायनमः || ४३३ ||
अग्निज्वालायनमः || ४३४ || महाज्वालायनमः || ४३५ || अतिधूम्रायनमः ||
४३६ || हुतायनमः || ४३७ || हविषेनमः || ४३८ || वृषणायनमः || ४३९ ||
शङ्करायनमः || ४४० || वर्च्चस्विनेनमः || ४४१ || धूमकेतनायनमः ||
४४२ ||
प्. ४६५) नीलायनमः || ४४३ || अङ्गलुब्धायनमः || ४४४ || शोभनायनमः
|| ४४५ || निरवग्रहायनमः || ४४६ || स्वस्तिदायनमः || ४४७ ||
स्वतिभावायनमः || ४४८ || भागिनेनमः || ४४९ || भागकरायनमः || ४५०
|| लघवेनमः || ४५१ || उत्साङ्गायनमः || ४५२ || महाङ्गायनमः || ४५३ ||
महागर्ब्भपरायणायनमः || ४५४ || कृष्णवर्णायनमः ||४५५ ||
सुवर्णायनमः || ४५६ || सर्वदेहिनामिन्द्रियायनमः || ४५७ ||
महापादायनमः || ४५८ || महाहस्तायनमः || ४५९ ||
महाकायायनमः || ४६० || महायशसेनमः || ४६१ ||
महामूर्द्ध्नेनमः || ४६२ || महामात्रायनमः || ४६३ ||
महानेत्रायनमः || ४६४ || निशालयायनमः || ४६५ || महान्तकायनमः ||
४६६ || महाकर्णायनमः || ४६७ || महोष्ठायनमः || ४६८ ||
महाहनवेनमः || ४६९ || महानासायनमः || ४७० || महाकम्बवेनमः ||
४७१ || महाग्रीवायनमः || ४७२ || श्मशानभाजेनमः || ४७३ ||
महावक्षसेनमः || ४७४ || महोरस्कायनमः || ४७५ || अन्तरात्मनेनमः ||
४७६ || मृगालयायनमः || ४७७ || लम्बनायनमः || ४७८ ||
लम्बितोष्ठायनमः || ४७९ || महामायायनमः || ४८० || पयोनिधयेनमः
|| ४८१ || महादन्तायनमः || ४८२ || महादंष्ट्रायनमः || ४८३ ||
महाजिह्वायनमः || ४८४ || महामुखायनमः || ४८५ ||
महानखायनमः || ४८६ || महारोम्णेनमः || ४८७ || महाकेशायनमः
|| ४८८ || महाजटायनमः || ४८९ || प्रसन्नायनमः || ४९० || प्रसादायनमः
|| ४९१ || प्रत्ययायनमः || ४९२ || गिरिसाधनायनमः || ४९३ ||
स्नेहनायनमः || ४९४ || अस्नेहनायनमः || ४९५ || अजितायनमः || ४९६ ||
महामुनयेनमः || ४९७ || वृक्षाकारायनमः || ४९८ || वृक्षकेतवेनमः ||
४९९ || अनलायनमः || ५०० ||
प्. ४६६) वायुवाहनायनमः || ५०१ || गण्डलिनेनमः || ५०२ ||
मेरुधाम्नेनमः || ५०३ || देवाधिपतयेनमः || ५०४ ||
अथर्वशीर्षायनमः || ५०५ || सामास्यायनमः || ५०६ ||
ऋक्सहस्रामितेक्षणायनमः || ५०७ || यजुःपादभुजायनमः || ५०८ ||
गुह्यायनमः || ५०९ || प्रकाशायनमः || ५१० || जङ्गमायनमः || ५११ ||
अमोघार्त्थायनमः || ५१२ || प्रसादायनमः || ५१३ || अभिगम्यायनमः ||
५१४ || सुदर्शनायनमः || ५१५ || उपकारायनमः || ५१६ || प्रियायनमः ||
५१७ || सर्वायनमः || ५१८ || कनकायनमः || ५१९ || काञ्चनच्छवयेनमः
|| ५२० || नाभयेनमः || ५२१ || नन्दिकारायनमः || ५२२ || भावायनमः ||
५२३ || पुष्करस्थपतयेनमः || ५२४ || स्थिरायनमः || ५२५ ||
द्वादशायनमः || ५२६ || त्रासनायनमः || ५२७ || आद्यायनमः || ५२८ ||
यज्ञायनमः || ५२९ || यज्ञसमाहितायनमः || ५३० || नक्तायनमः || ५३१
|| कलयेनमः || ५३२ || कालायनमः || ५३३ || मकरायनमः || ५३४ ||
कालपूजितायनमः || ५३५ || सगणायनमः || ५३६ || गणकारायनमः ||
५३७ || भूतवाहनसारथयेनमः || ५३८ || भस्मशयायनमः || ५३९ ||
भस्मगोप्त्रेनमः || ५४० || भस्मभूतायनमः || ५४१ || तरवेनमः || ५४२ ||
गणायनमः || ५४३ || लोकपालायनमः || ५४४ || अलोकायनमः || ५४५ ||
महात्मनेनमः || ५४६ || सर्वपूजितायनमः || ५४७ || शुक्लायनमः || ५४८ ||
त्रिशुक्लायनमः || ५४९ || सम्पन्नायनमः || ५५० || शुचयेनमः || ५५१ ||
भूतनिषेवितायनमः || ५५२ || आश्रमस्थायनमः || ५५३ ||
क्रियावस्थायनमः || ५५४ || विश्वकर्ममतयेनमः || ५५५ || वरायनमः ||
५५६ || विशालशाखायनमः || ५५७ ||
प्. ४६७) ताम्रोष्ठायनमः || ५५८ || अम्बुजालायनमः || ५५९ ||
सुनिश्चलायनमः || ५६० || कपिलायनमः || ५६१ || कपिशायनमः || ५६२ ||
शुक्लायनमः || ५६३ || आयुषेनमः || ५६४ || परायनमः || ५६५ ||
अपरायनमः || ५६६ || गन्धर्वायनमः || ५६७ || अदितयेनमः || ५६८ ||
तार्क्ष्यायनमः || ५६९ || सुविज्ञेयायनमः || ५७० || सुशारदायनमः ||
५७१ || परश्वधायुधायनमः || ५७२ || देवायनमः || ५७३ ||
अनुकारिणेनमः || ५७४ || सुबान्धवायनमः | ५७५ || तुम्बवीणायनमः ||
५७६ || महाक्रोधायनमः || ५७७ || ऊर्द्ध्वरेतसेनमः || ५७८ ||
जलेशायनमः || ५७९ || उग्रायनमः || ५८० || वंशकरायनमः || ५८१ ||
वंशायनमः || ५८२ || वंशनादायनमः || ५८३ || अनिन्दितायनमः ||
५८४ || सर्वाङ्गरूपायनमः || ५८५ || मायाविनेनमः || ५८६ ||
सुहृदायनमः || ५८७ || अनिलायनमः || ५८८ || अनलायनमः || ५८९ ||
बन्धनायनमः || ५९० || बन्धकर्त्रेनमः || ५९१ ||
सुबन्धनविमोचनायनमः || ५९२ || सयज्ञारयेनमः || ५९३ ||
सकामारयेनमः || ५९४ || महादंष्ट्रायनमः || ५९५ ||
महायुधायनमः || ५९६ || बहुधानिन्दितायनमः || ५९७ || शर्वायनमः
|| ५९८ || शङ्करायनमः || ५९९ || शङ्करायनमः || ६०० || अधनायनमः
|| ६०१ || अमरेशायनमः || ६०२ || महादेवायनमः || ६०३ ||
विश्वदेवायनमः || ६०४ || सुरारिघ्नेनमः || ६०५ || अहिर्ब्बुध्न्याअयनमः ||
अनिलाभायनमः || ६०७ || चेकितायनमः || ६०८ || हविषेनमः || ६०९ ||
अजैकपदेनमः || ६१० || कपालिनेनमः || ६११ || त्रिशङ्कवेनमः || ६१२ ||
अजितायनमः || ६१३ || शिवायनमः || ६१४ ||
प्. ४६८) धन्वन्तरयेनमः || ६१५ || धूमकेतवेनमः || ६१६ ||
स्कन्दायनमः || ६१७ || वैश्रवणायनमः || ६१८ || धात्रेनमः || ६१९ ||
शक्रायनमः || ६२० || विष्णवेनमः || ६२१ || मित्रायनमः || ६२२ ||
त्वष्ट्रेनमः || ६२३ || ध्रुवायनमः || ६२४ || धरायनमः || ६२५ ||
प्रभावायनमः || ६२६ || सर्वगवेनमः || ६२७ || अर्यम्णेनमः || ६२८ ||
सवित्रेनमः || ६२९ || रवयेनमः || ६३० || उषङ्गवेनमः || ६३१ ||
विधात्रेनमः || ६३२ || मान्धात्रेनमः || ६३३ || भूतभावनायनमः ||
६३४ || विभवेनमः || ६३५ || वर्णविभाविनेनमः || ६३६ ||
सर्वकामगुणावहायनमः || ६३७ || पद्मनाभायनमः || ६३८ ||
महागर्ब्भायनमः || ६३९ || चन्द्रवक्त्रायनमः || ६४० || अनिलायनमः ||
६४१ || अनलायनमः || ६४२ || बलवतेनमः || ६४३ || उपशान्तायनमः || ६४४ ||
पुराणायनमः || ६४५ || पुण्यचञ्चवेनमः || ६४६ || ईत्यैनमः || ६४७ ||
कुरुकर्त्रेनमः || ६४८ || कुरुवासिनेनमः || ६४९ || पुरुहूतायनमः || ६५० ||
गुणौषधायनमः || ६५१ || सर्वाशयायनमः || ६५२ ||
दर्ब्भचारिणेनमः || ६५३ || सर्वेषांप्राणिपतयेनमः || ६५४ ||
देवदेवायनमः || ६५५ || सुखासक्तायनमः || ६५६ || सतेनमः || ६५७ ||
असतेनमः || ६५८ || सर्वरत्नविदेनमः || ६५९ || कैलासगिरिवासिनेनमः || ६६० ||
हिमवद्गिरिसंश्रयायनमः || ६६१ || कूलहारिणेनमः || ६६२ ||
कूलकर्त्रेनमः || ६६३ || बहुविद्यायनमः || ६६४ || बहुप्रदायनमः || ६६५
|| वणिजायनमः || ६६६ || वर्द्धकिनेनमः || ६६७ || वृक्षायनमः || ६६८ ||
वकुलायनमः || ६६९ || चन्दनायनमः || ६७० || छन्दसेनमः || ६७१ ||
सारग्रीवायनमः || ६७२ || महाजत्रवेनमः || ६७३ ||
प्. ४६९) अलोलायनमः || ६७४ || महौषधायनमः || ६७५ ||
सिद्धार्त्थकारिणेनमः || ६७६ || छन्दोव्याकरणोत्तरसिद्धार्त्थायनमः ||
६७७ || सिंहनादायनमः || ६७८ || सिंहदंष्ट्रायनमः || ६७९ ||
सिंहगायनमः || ६८० || सिंहवाहनायनमः || ६८१ ||
प्रभावात्मनेनमः || ६८२ || जगत्कालस्थालायनमः || ६८३ ||
लोकहितायनमः || ६८४ || तरवेनमः || ६८५ || सारङ्गायनमः || ६८६ ||
नवचक्राङ्गायनमः || ६८७ || केतुमालिनेनमः || ६८८ ||
सभावनायनमः || ६८९ || भूतालयायनमः || ६९० || भूतपतयेनमः ||
६९१ || अहोरात्रायनमः || ६९२ || अनिन्दितायनमः || ६९३ ||
सर्वभूतवाहित्रेनमः || ६९४ || सर्वभूतनिलयायनमः || ६९५ ||
विभवेनमः || ६९६ || भवायनमः || ६९७ || अमोघायनमः || ६९८ ||
स/ययतायनमः || ६९९ || अश्वायनमः || ७०० || भोजनायनमः || ७०१ ||
प्राणधारणायनमः || ७०२ || धृतिमतेनमः || ७०३ || मतिमतेनमः || ७०४
|| दक्षायनमः || ७०५ || सत्कृतायनमः || ७०६ || युगाधिपायनमः || ७०७ ||
गोपालायनमः || ७०८ || गोपतयेनमः || ७०९ || ग्रामायनमः || ७१० ||
गोचर्मवसनायनमः || ७११ || हरयेनमः || ७१२ || हिरण्यबाहवेनमः ||
७१३ || प्रवेशिनाङ्गुहापालायनमः || ७१४ || प्रकृष्टारयेनमः || ७१५ ||
महाहर्षायनमः || ७१६ || जितकामायनमः || ७१७ || जितेन्द्रियायनमः ||
७१८ || गान्धारायनमः || ७१९ || सुवासायनमः || ७२० ||
तपःसक्तायनमः || ७२१ || रतयेनमः || ७२२ || नरायनमः || ७२३ ||
महागीतायनमः || ७२४ || महनृत्यायनमः || ७२५ ||
अप्सरोगणसेवितायनमः || ७२६ || महाकेतवेनमः || ७२७ ||
महाघातवेनमः || ७२८ || नैकसानुचरायनमः || ७२९ || चलायनमः ||
७३० || आवेदनीयायनमः || ७३१ ||
प्. ४७०) आदेशायनमः || ७३२ || सर्वगन्धसुखावहायनमः || ७३३ ||
तोरणायनमः || ७३४ || तारणायनमः || ७३५ || वातायनमः || ७३६ ||
परिधयेनमः || ७३७ || पतिखेचरायनमः || ७३८ ||
स/ययोगवर्द्धनायनमः || ७३९ || गुणाधिकवृद्धायनमः || ७४० ||
अतिवृद्धायनमः || ७४१ || गुणाधिकायनमः || ७४२ ||
नित्यात्मसहायायनमः || ७४३ || देवासुरपतयेनमः || ७४४ || पत्येनमः ||
७४५ || युक्तायनमः || ७४६ || युक्तबाहवेनमः || ७४७ ||
दिविसुपर्वदेवायनमः || ७४८ || आषाढायनमः || ७४९ ||
सुषाढायनमः || ७५० || ध्रुवायनमः || ७५१ || हरणायनमः || ७५२ ||
हरायनमः || ७५३ || आवर्त्तमानवपुषेनमः || ७५४ ||
वसुश्रेष्ठायनमः || ७५५ || महापथायनमः || ७५६ ||
विमर्शशिरोहारिणेनमः || ७५७ || सर्वलक्षणलक्षितायनमः || ७५८ ||
अक्षरथयोगिनेनमः || ७५९ || सर्वयोगिनेनमः || ७६० || महाबलायनमः ||
७६१ || समाम्नायायनमः || ७६२ || असाम्नायायनमः || ७६३ ||
तीर्त्थदेवायनमः || ७६४ || महारथायनमः || ७६५ || निर्ज्जीवायनमः ||
७६६ || जीवनायनमः || ७६७ || मन्त्रायनमः || ७६८ || शुभाक्षायनमः ||
७६९ || बहुकर्कशायनमः || ७७० || रत्नप्रभूतायनमः || ७७१ ||
रत्नाङ्गायनमः || ७७२ || महार्णवनिपानविदेनमः || ७७३ ||
मूलायनमः || ७७४ || विशालायनमः || ७७५ || अमृतायनमः || ७७६ ||
व्यक्ताव्यक्तायनमः || ७७७ || तपोनिधयेनमः || ७७८ || आरोहणायनमः ||
७७९ || अधिरोधायनमः || ७८० || शूलधारिणेनमः || ७८१ ||
महायशसेनमः || ७८२ || सेनाकल्पायनमः || ७८३ || महाकल्पायनमः ||
७८४ || योगायनमः || ७८५ || युगकरायनमः || ७८६ || हरयेनमः || ७८७ ||
प्. ४७१) युगरूपायनमः || ७८८ || महारूपायनमः || ७८९ ||
महानागहनायनमः || ७९० || वधायनमः || ७९१ ||
न्यायनिर्वपणायनमः || ७९२ || पादायनमः || ७९३ || पण्डितायनमः ||
७९४ || अचलोपमायनमः || ७९५ || बहुमालायनमः || ७९६ ||
महामालायनमः || ७९७ || शशिहरसुलोचनायनमः || ७९८ ||
विस्तारलवणकूपायनमः || ७९९ || त्रियुगायनमः || ८०० ||
सफलोदनायनमः || ८०१ || त्रिनेत्रायनमः || ८०२ || विषण्णाङ्गायनमः
|| ८०३ || मणिविद्धायनमः || ८०४ || जटाधरायनमः || || ८०५ ||
बिन्दवेनमः || ८०६ || विसर्गायनमः || ८०७ || सुमुखायनमः || ८०८ ||
शरायनमः || ८०९ || सर्वायुधायनमः || ८१० || सहायनमः || ८११ ||
निवेदनायनमः || ८१२ || सुखाजातायनमः || ८१३ || सुगन्धारायनमः ||
८१४ || महाधनुषेनमः || ८१५ || गन्धपालिभगवतेनमः || ८१६ ||
सर्वकर्मोत्थानायनमः || ८१७ || मन्थानबहुलवायवेनमः || ८१८ ||
सकलायनमः || ८१९ || सर्वलोचनायनमः || ८२० || तलस्तालायनमः || ८२१ ||
करस्थालिनेनमः || ८२२ || ऊर्द्ध्वसंहननायनमः || ८२३ || महतेनमः
|| ८२४ || छत्रायनमः || ८२५ || सुच्छत्रायनमः || ८२६ ||
विख्यातलोकायनमः || ८२७ || सर्वाश्रयक्रमायनमः || ८२८ ||
मुण्डायनमः || ८२९ || विरूपायनमः || ८३० || विकृतायनमः || ८३१ ||
दण्डिनेनमः || ८३२ || कुण्डिनेनमः || ८३३ || विकुर्वाणायनमः || ८३४ ||
हर्यक्षायनमः || ८३५ || ककुभायनमः || ८३६ || वज्रिणेनमः || ८३७ ||
शतजिह्वायनमः || ८३८ || सहस्रपत्सहस्रमूर्द्ध्नेनमः || ८३९ ||
देवेन्द्रायनमः || ८४० || सर्वदेवमयायनमः || ८४१ || गुरवेनमः || ८४२ ||
सहस्रबाहवेनमः || ८४३ ||
प्. ४७२) सर्वाङ्गायनमः || ८४४ || शरण्यायनमः || ८४५ ||
सर्वलोककृतेनमः || ८४६ || पवित्रायनमः | ८४७ || त्रिककुन्मन्त्रायनमः ||
८४८ || कनिष्ठायनमः || ८४९ || कृष्णपिङ्गलायनमः || ८५० ||
ब्रह्मदण्डविनिर्मात्रेनमः || ८५१ || शतघ्नीपाशशक्तिमतेनमः || ८५२ ||
पद्मगर्ब्भायनमः || ८५३ || महागर्ब्भायनमः || ८५४ ||
ब्रह्मगर्ब्भायनमः || ८५५ || जलजोद्भवायनमः || ८५६ || गभस्तयेनमः
|| ८५७ || ब्रह्मकृतेनमः || ८५८ || ब्रह्मिणेनमः || ८५९ || ब्रह्मविदेनमः ||
८६० || ब्राह्मणायनमः || ८६१ || गतयेनमः || ८६२ || अनन्तरूपायनमः ||
८६३ || नैकात्मनेनमः || ८६४ || स्वयम्भुवस्तिग्मतेजसेनमः || ८६५ ||
उर्द्ध्वगात्मनेनमः || ८६६ || पशुपतयेनमः || ८६७ || वातरंहसेनमः ||
८६८ || मनोजवायनमः || ८६९ || चन्दनिनेनमः || ८७० ||
पद्मनालाग्रायनमः || ८७१ || सुरभ्युत्तारणायनमः || ८७२ ||
नरायनमः || ८७३ || कर्णिकारमहास्रग्विणेनमः || ८७४ ||
नीलमौलयेनमः || ८७५ || पिनाकधृषेनमः || ८७६ || उमापतयेनमः || ८७७
|| उमाकान्तायनमः || ८७८ || जाह्नवीधृषेनमः || ८७९ ||
उमाधवायनमः || ८८० || वरवराहायनमः || ८८१ || वरदायनमः ||
८८२ || वरेण्यायनमः || ८८३ || सुमहास्वनायनमः || ८८४ ||
महाप्रसादायनमः || ८८५ || दमनायनमः || ८८६ || शत्रुघ्नेनमः ||
८८७ || श्वेतपिङ्गलायनमः || ८८८ || पीतात्मनेनमः || ८८९ ||
परमात्मनेनमः || ८९० || प्रयतात्मनेनमः || ८९१ || प्रधानधृषेनमः
|| ८९२ || सर्वपार्श्श्वमुखायनमः || ८९३ || त्र्यक्षाय नमः || ८९४ ||
धर्मसाधारणवरायनमः || ८९५ || चराचरात्मनेनमः || ८९६ ||
सूक्ष्मात्मनेनमः || ८९७ || अमृतगोवृषेश्वरायनमः || ८९८ ||
प्. ४७३) साध्यर्षयेनमः || ८९९ || आदित्यवासवेनमः || ९०० ||
विवस्वत्सवित्रमृतायनमः || ९०१ || व्यासायनमः || ९०२ ||
सर्गसुसङ्क्षेपविस्तरायनमः || ९०३ || पर्ययनरायनमः || ९०४ ||
ऋतवेनमः | ९०५ || स/व्वत्सरायनमः || ९०६ || मासायनमः || ९०७ ||
पक्षायनमः || ९०८ || सङ्ख्यासमापनायनमः || ९०९ || कलायैनमः ||
९१० || काष्ठायैनमः || ९११ || लवेभ्योनमः || ९१२ || मात्राभ्योनमः ||
९१३ || मुहूर्त्ताहःक्षपाभ्योनमः || ९१४ || क्षणेभ्योनमः || ९१५ ||
विश्वक्षेत्रायनमः || ९१६ || प्रजाबीजायनमः || ९१७ || लिङ्गायनमः || ९१८
|| आद्यनिर्गमायनमः || ९१९ || सतेनमः || ९२० || असतेनमः || ९२१ ||
व्यक्तायनमः || ९२२ || अव्यक्तायनमः || ९२३ || पित्रेनमः || ९२४ ||
मात्रेनमः || ९२५ || पितामहायनमः || ९२६ || स्वर्गद्वारायनमः || ९२७ ||
प्रजाद्वारायनमः || ९२८ || मोक्षद्वारायनमः || ९२९ ||
त्रिविष्टपायनमः || ९३० || निर्वाणायनमः || ९३१ || ह्रादनायनमः || ९३२
|| ब्रह्मलोकायनमः || ९३३ || परागतयेनमः || ९३४ ||
देवासुरविनिर्मात्रेनमः || ९३५ || देवासुरपरायणायनमः || ९३६ ||
देवासुरगुरवेनमः || ९३७ || देवायनमः || ९३८ ||
देवासुरनमस्कृतायनमः || ९३९ || देवासुरमहामात्रायनमः || ९४० ||
देवासुरगणाश्रयायनमः || ९४१ || देवासुरगणाध्यक्षायनमः || ९४२
|| देवासुरगणाग्रण्येनमः || ९४३ || देवातिदेवायनमः || ९४४ ||
देवर्ष्षयेनमः || ९४५ || देवासुरवरप्रदायनमः || ९४६ ||
देवासुरेश्वरायनमः || ९४७ || विश्वायनमः || ९४८ ||
देवासुरमहेश्वरायनमः || ९४९ || सर्वदेवमयायनमः || ९५० ||
अचिन्त्यायनमः || ९५१ || देवात्मनेनमः || ९५२ || आत्मसम्भवायनमः ||
९५३ ||
प्. ४७४) उद्भिदेनमः || ९५४ || त्रिविक्रमायनमः || ९५५ || वैद्यायनमः || ९५६
|| विरजायनमः || ९५७ || नीरजायनमः || ९५८ || अमरायनमः || ९५९ ||
ईड्यायनमः || ९६० || हस्तीश्वरायनमः || ९६१ || व्याघ्रायनमः || ९६२ ||
देवसिंहायनमः || ९६३ || नरर्षभायनमः || ९६४ || विबुधायनमः ||
९६५ || अग्रवरायनमः || ९६६ || सूक्ष्मायनमः || ९६७ || सर्वदेवायनमः ||
९६८ || तपोमयायनमः || ९६९ || सुयुक्तायनमः || ९७० || शोभनायनमः ||
९७१ || वज्रिणेनमः || ९७२ || प्रासानाम्प्रभवायनमः || ९७३ ||
अव्ययायनमः || ९७४ || गुहायनमः || ९७५ || कान्तायनमः || ९७६ ||
निजसर्गायनमः || ९७७ || पवित्रायनमः || ९७८ || सर्वपावनायनमः || ९७९
|| शृङ्गिणेनमः || ९८० || शृङ्गप्रियायनमः || ९८१ || बभ्रवेनमः || ९८२ ||
राजराजायनमः || ९८३ || निरामयायनमः || ९८४ || अभिरामायनमः ||
९८५ || सुरगणायनमः || ९८६ || विरामायनमः || ९८७ ||
सर्वसाधनायनमः || ९८८ || ललाटाक्षायनमः || ९८९ ||
विश्वदेवायनमः || ९९० || हरिणायनमः || ९९१ || ब्रह्मवर्च्चसायनमः ||
९९२ || स्थावरपतयेनमः || ९९३ || नियमेन्द्रियवर्द्धनायनमः || ९९४ ||
सिद्धार्त्थायनमः || ९९५ || सिद्धभूतार्थायनमः || ९९६ ||
अचिन्त्यायनमः || ९९७ || सत्यव्रतायनमः || ९९८ || शुचयेनमः || ९९९ ||
व्रताधिपायनमः || १००० ||
परायनमः || १ || ब्रह्मणेनमः || २ || भक्तानाम्परमागतयेनमः || ३
|| विमुक्तायनमः || ४ || मुक्ततेजसेनमः || ५ || श्रीमतेनमः || ६ ||
श्रीवर्द्धनायनमः || ७ || जगतेनमः || ८ ||
इतिश्रीमन्महाभारते अनुशासनपर्वणि दानधर्मे सप्तदशाध्याये
शिवसहस्रनामस्तोत्रं सम्पूर्णम् || १७ ||
प्. ४७५) श्रीसाम्बसदाशिवार्पणमस्तु ||
अथार्ग्घ्यप्रदानम्
अद्य पूर्वोच्चरित एवङ्गुणविशेषेण विशिष्टायाम्पुण्यतिथौ
ममात्मनः पुराणोक्तफलप्राप्त्यर्थं
पूजासाङ्गतासिद्ध्यर्त्थमर्ग्घ्यप्रदानङ्करिष्ये ||
शिवरात्र्यर्ग्घ्याणि ||
नमः शिवाय शर्वाय सर्वपापहराय च |
शिवरात्रौ महापुण्यङ्गृहाणार्ग्घ्यन्नमोऽस्तु ते ||
शिवाय० इदम् || १ ||
व्योमकेश नमस्तुभ्य/ व्योमात्मन्व्योमरूपिणे ||
नक्षत्ररूपिणे तुभ्यन्तारकार्ग्घ्यन्नमोऽस्तु ते |
तारकायनमः इदम्० || २ ||
आकाशादिक्छरीराय ग्रहनक्षत्रमालिने ||
सुरसिद्धनिवासाय दत्तमर्ग्घ्यं सदाशिव || सदा० इदम्० || ३ ||
अथ सोमवारार्ग्घ्याणि ||
सोमवारव्रतङ्कर्त्तुः कल्याणम्मम सर्वदा ||
प्रसीद पार्वतीनाथ सायुज्यन्देहि मे प्रभो ||
भवानीशङ्कराय नमः || इदम्० || १ ||
नक्तेन सोमवारेण सोमनाथ जगत्पते ||
अनेककोटिसौभाग्यमनन्तं कुरु शङ्कर || शङ्कराय० इदम्० || २ ||
आकाशादिक्शरीराय ग्रहनक्षत्रमालिने ||
सर्वसिद्धिनिवासाय दत्तमर्ग्घ्यन्नमोऽस्तु ते || सदाशिवा० इदम् || ३ ||
अनेनार्ग्घ्यप्रदानेन भगवाञ्छ्रीभवानीशङ्करमहारुद्रः
प्रीयताम् ||
इत्यर्ग्घ्यप्रदानम् ||
अथ महिम्नस्तोत्रम्
श्रीगणेशायनमः ||
महिम्नः पारन्ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः |
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर
निरपवादः परिकरः || १ ||
अतीतः पन्थानन्तव च महिमा वाङ्मनसयोरतद्व्यावृत्त्या
यञ्चकितमभिधत्ते श्रुतिरपि |
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः || २ ||
प्. ४७६) मधुस्फीता वाचः परमममृतन्निर्मितवतस्तव
ब्रह्मन्कि/ व्वागपि सुरगुरोर्विस्मयपदम् |
मम त्वेता/ व्वाणीङ्गुणकथनपुण्येन भवतः
पुनामीत्यर्त्थेऽस्मिन्पुरमथन बुद्धिर्व्यवसिता || ३ ||
तवैश्वर्य/ ययत्तज्जगदुदयरक्षाप्रलयकृत्-
त्रयीवस्तुव्यस्तन्तिसृषु गुणभिन्नासु तनुषु |
अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः || ४ ||
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनङ्किमाधारो धाता सृजति
किमुपादान इति च |
अतर्क्यैश्वर्ये त्वययनवसरदुःस्थो हतधियः
कुतर्कोऽयङ्कांश्चिन्मुखरयति मोहाय जगतः || ५ ||
अजन्मानो लोकाः किमवयववन्तोऽपि
जगतामधिष्ठातारङ्किम्भवविधिरनादृत्य भवति |
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वाम्प्रत्यमरवर संशेरत इमे || ६ ||
त्रयी साङ्ख्य/ ययोगः पशुपतिमत/ व्वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च |
रुचीना/ व्वैचित्र्यादृजुकुटिलनानापथजुषान्नृणामेको गम्यस्त्वमसि
पयसामर्णव इव || ७ ||
महोक्षः खट्वाङ्गम्परशुरजिनम्भस्म फणिनः
कपालञ्चेतीयत्तव वरद तन्त्रोपकरणम् |
सुरास्तान्तामृद्धिन्दधति तु भवद्भ्रूप्रणिहितान्नहि
स्वात्मारामव्विषयमृगतृष्णा भ्रमयति || ८ ||
ध्रुवङ्कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदम्परो ध्रौव्याध्रौव्ये
जगति गदति व्यस्तविषये |
समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवज्जिह्वेमि त्वान्न खलु ननु धृष्टा मुखरता || ९ ||
तवैश्वर्य/ ययत्नाद्यदुपरि विरिञ्चो हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः |
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्याङ्गिरिश
यत्स्वयन्तस्थे ताभ्यान्तव किमनुवृत्तिर्न्न फलति || १० ||
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरन्दशास्यो यद्बाहूनभृत
रणकण्डूपरवशान् |
प्. ४७७) शिरः पद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्ज्जितमिदम् || ११ ||
अमुष्य त्वत्सेवासमधिगतसारम्भुज-
अनम्बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः |
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वययासीद्ध्रुवमुपचितो मुह्यति खलः || १२ ||
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः |
न तच्चित्रन्तस्मिन्वरिवसितरि त्वच्चरणयोर्न्न
कस्याप्युन्नत्यै भवति शिरसस्त्वययवनतिः || १३ ||
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्याऽसीद्यस्त्रिनयनविषं संहृतवतः |
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः || १४ ||
असिद्धार्त्था नैव क्वचिदपि सदेवासुरनरे
निवर्त्तन्ते नित्यञ्जगति जयिनो यस्य विशिखाः |
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्स्मरः स्मर्त्तव्यात्मा नहि
वशिषु पथ्यः परिभवः || १५ ||
मही पादाघाताद्व्रजति सहसा संशयपदम्पद/
व्विष्णोर्ब्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् |
मुहुर्द्यौर्द्दौस्थ्य/ ययात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वन्नटसि ननु वामैव विभुता || १६ ||
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारा/ ययः पृषतलघुदृष्टः शिरसि ते |
जगद्द्वीपाकारञ्जलधिवलयन्तेन कृतमित्यनेनैवोन्नेयन्धृतमहिम
दिव्यन्तव वपुः || १७ ||
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति |
दिधक्षोस्ते कोऽयन्त्रिपुरतृणमाडम्बरविधिर्विधेयैः क्रीडन्त्यो न खलु
परतन्त्राः प्रभुधियः || १८ ||
हरिस्ते साहस्रङ्कमलबलिमाधाय पदयोर्यदेकोने
तस्मिन्निजमुदहरन्नेत्रकमलम् |
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम् || १९ ||
प्. ४७८) क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताङ्क्वकर्म
प्रध्वस्तम्फलति पुरुषाराधनमृते |
अतस्त्वां सम्प्रेक्ष्ये क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धाम्बद्ध्वा दृढपरिकरः कर्मसु जनः || २० ||
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतामृषीणामार्त्त्विज्यं
सरणद सदस्याः सुरगणाः |
क्रतुभ्रेशस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवङ्कर्त्तुः श्रद्धाविधुरमभिचाराय हि मखाः || २१ ||
प्रजानाथन्नाथ प्रसभमभिकं स्वान्दुहितरङ्गतं रोहिद्भूतां
रिरमयिषुमृष्यस्य वपुषा |
धनुष्पाणेर्यातन्दिवमपि सपत्राकृतममुन्त्रसन्तन्तेऽद्यापि त्यजति न
मृगव्याधरभसः || २२ ||
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्पुरः प्लुष्टन्दृष्ट्वा
पुरमथन पुष्पायुधमपि |
यदिस्त्रैणन्देवी यमनिरतदेहार्द्ध्वघटनादवैति त्वामधा वत वरद
मुग्धा युवतयः || २३ ||
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराश्चिताभस्मालेपः
स्रगपि नृकरोटी परिकरः |
अमङ्गल्यं शीलन्तव भवतु नामैवमखिलन्तथापि स्मर्तॄणा/ व्वरद
परमम्मङ्गलमसि || २४ ||
मनः प्रत्यक्चित्तेसविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः |
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वङ्किमपि यमिनस्तत्किल भवान् || २५ ||
त्वमर्क्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्व/ व्व्योम
त्वमु धरणिरात्मा त्वमिति च |
परिच्छिन्नामेवन्त्वयि परिणता बिभ्रति गिरन्न
विद्मस्तत्तत्त्व/ व्वयमिह तु यत्त्वन्न भवसि || २६ ||
त्रयीन्तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि
सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति |
तुरीयन्ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं वा शरणद गृणात्योमिति पदम् || २७ ||
भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महा/स्तथा भीमेशानाविति
यदभिधानाष्टकमिदम् |
प्. ४७९) अमुष्मिन्प्रत्येकम्प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते || २८ ||
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः |
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः
सर्वस्मै ते तदिदमिति सर्वाय च नमः || २९ ||
बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः |
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः || ३० ||
कृशपरिणति चेतः क्लेशवश्यन्क्व चेदङ् क्व च तव
गुणसीमोल्लङ्घिनी शश्वदृद्धिः ||
इति चकितममन्दीकृत्य माम्भक्तिराधाद्वरद
चरणयोस्ते वाक्यपुष्पोपहारम् || ३१ ||
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी |
लिखति यदि गृहीत्वा शारदा सर्वकालन्तदपि
तव गुणानामीश पारन्न याति || ३२ ||
असुरसुरमुनीन्द्रैरर्च्चितस्येन्दुमौलेर्ग्रथितगुणमहिम्नो
निर्गुणस्येश्वरस्य |
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार || ३३ ||
अहरहरनवद्यन्धूर्ज्जटेः स्तोत्रमेतत्पठति
परमभक्त्या शुद्धचित्तः पुमान्यः |
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च || ३४ ||
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः |
अघोरान्नापरो मन्त्रो नास्ति तत्त्वङ्गुरोः परम् || ३५ ||
दीक्षा दानन्तपस्तीर्त्थं ज्ञान/ ययागादिकाः क्रियाः |
महिम्नः स्तवपाठस्य कलानार्हन्ति षोडशीम् || ३६ ||
आसमाप्तिमिदं स्तोत्रं सर्वमीश्वरवर्णनम् |
अनौपम्यम्मनोहारि पुण्यङ्गन्धर्वभाषितम् || ३७ ||
कुसुमदशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः
स खलु निजमहिम्नो भ्रष्ट एवास्य
रोषात्स्तवनमिदमकार्षीद्दिव्यदिव्यम्महिम्नः || ३८ ||
प्. ४८०) सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुम्पठति
यदि मनुष्यः प्राञ्जलिर्न्नान्यचेताः |
व्रजति शिवसमीपङ्किन्नरैः स्तूयमानः
स्तवनमिदममोघम्पुष्पदन्तप्रणीतम् || ३९ ||
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण |
कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो
भवति भूतपतिर्म्महेशः || ४० ||
इति श्रीपुष्पदन्तविरचितं शिवमहिमाख्यस्तोत्रं सम्पूर्णम् ||
अथ रावणकृतशिवस्तोत्रम्
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरीविराजमानमूर्द्धनि |
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणम्मम || १ ||
धराधरेन्द्रनन्दिनी-विलासबन्धुवन्धुरस्-
फुरदृगन्तसन्ततिप्रमोदमानमानसे |
कृपाकटाक्षघोरणीनिरुद्धदुर्द्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमस्तु वस्तुनि || २ ||
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा-
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे |
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतम्बिभर्त्तु भूतभर्त्तरि || ३ ||
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
निपीतपञ्चसायकन्नमन्निलिम्पनायकम् |
सुधामयूखरेखया विराजमानशेखरम्-
महाकपालिसम्पदे सरिज्जटालमस्तु नः || ४ ||
सहस्रलोचनप्रभृत्यशेषलेखशेखर-
प्रसूनधूलिधोरणीविधूसराङ्घ्रिपीठभूः |
भुजङ्गराजमालया निबद्धजाटजूटकः
श्रियै चिराय जायताञ्चकोरबन्धुशेखरः || ५ ||
करालभालपट्टिकाधगद्धगद्धगज्ज्वलद्-
धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके |
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्म्मम || ६ ||
नवीनमेघमण्डलीनिरुद्धदुर्द्धरस्फुरत्-
कुहूनिशीथिनीतमःप्रबन्धबद्धकन्धरः |
निलिम्पनिर्ज्झरीधरस्तनोतु कृत्तिसुन्दरः
कलानिधानबन्धुरः श्रियञ्जगद्धुरन्धरः || ७ ||
प्. ४८१) प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
वलम्बिकण्ठकन्दलीरुचिप्रबधकन्धरम् |
स्मरच्छिदम्पुरच्छिदम्भवच्छिदङ्गजच्छिदम्-
मखच्छिदान्धकच्छिदन्तमन्तकच्छिदम्भजे || ८ ||
अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी-
रसप्प्रवाहमाधुरीविजृम्भणामधुव्व्रतम् |
स्मरान्तकम्पुरान्तकम्मखान्तकम्भवान्तकङ्-
गजान्तकान्धकान्तकन्तमन्तकान्तकम्भजे || ९ ||
जयत्यदभ्रविभ्रमद्भ्रमद्भुजङ्गमश्वसद्-
विनिर्गमक्रमस्फुरत्करालभालहव्यवाट् |
धिमिन्धिमिन्धिमिन्ध्वनन्मृदङ्गतुङ्गमङ्गल-
ध्वनिक्रमप्रवर्त्तितप्रचण्डताण्डवः शिवः || १० ||
दृषद्विचित्रतल्पयोर्ब्भुजङ्गमौक्तिकस्रजोर्-
गरिष्ठरत्नलोष्टयोः सुहृद्विपक्षपक्षयोः |
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवम्भजाम्यहम् || ११ ||
कदा निलिम्पनिर्ज्झरीनिकुञ्जकोटरे वसन्-
विमुक्तदुर्म्मतिस्सदा शिरःस्थमञ्जलि/ व्वहन् |
विलोललोललोचनाललामभाललग्नकं
शिवेति मन्त्रमुच्चरन्सदा सुखी भवाम्यहम् || १२ ||
निलिम्पनाथनागरी-कदम्बमौलिमल्लिका-
निगुम्फनिर्ब्भरक्षरन्मधूलिकामनोहरः |
तनोतु नो मनो मुद/ व्विनोदनीमहर्न्निशम्-
परश्रियः परम्पदन्तदङ्गजत्विषाञ्चयः || १३ ||
प्रचण्डवाडवानलप्रभाशुभप्रचारिणी
महाष्टसिद्धिकामिनीजनावहूतजल्पना |
विमुक्तवामलोचना विवाहकालिकध्वनिः
शिवेतिमन्त्रभूषणा जगज्जयाय जायताम् || १४ ||
इति रावणकृतं शिवस्तोत्रं सम्पूर्णम् ||
अथ शिवकवचम्
अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य ब्रह्माऋषिः, अनुष्टुप्छन्दः,
श्रीसदाशिवरुद्रो देवता, ह्रींशक्तिः, रंकीलकम्,
श्रींह्रींक्लींबीजम्, श्रीसदाशिवप्रीत्यर्त्थे शिवकवचस्तोत्रजपे
विनियोगः ||
अथ करन्यासः
ओं नमो भगवते ज्वलज्ज्वालामालिने ओं रांसर्वशक्तिधाम्ने ईशानात्मने
अङ्गुष्ठाभ्यान्नमः,
प्. ४८२) ओं नमो भगवते ज्वलज्ज्वालामालिने ओं न/रींनित्यतृप्तिधाम्ने
तत्पुरुषात्मने तर्ज्जनीभ्यान्नमः, ओं नमो भगवते ज्वलज्ज्वालामालिने ओं
म/रू/-अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यान्नमः, ओं नमो
भगवते ज्वलज्ज्वालामालिने ओं शिंरैं स्वतन्त्रशक्तिधाम्ने
वामदेवात्मने अनामिकाभ्यान्नमः, ओं नमो भगवते
ज्वलज्ज्वालामालिने ओं वा/रौं अतुल्यशक्तिधाम्ने सद्योजातात्मने
कनिष्ठाभ्यान्नमः, ओं नमो भगवते ज्वलज्ज्वालामालिने ओं य/रः
अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यान्नमः, एवं
हृदयादि ||
अथ ध्यानम्
वज्रदंष्ट्रन्त्रिनयनङ्कालकण्ठमरिन्दमम् |
सहस्रकरमत्युग्र/ व्वन्दे शम्भुमुमापतिम् || १ ||
अथापरं सर्वपुराणगुह्यन्निःशेषपापौघहरम्पवित्रम् |
जयप्रदं सर्वविपत्प्रमोचन/ व्वक्ष्यामि शैवङ्कवचं हिताय ते || २ ||
ऋषभ उवाच
नमस्कृत्वा महादेव/ व्विश्वव्यापिनमीश्वरम् |
वक्ष्ये शिवमय/ व्वर्म सर्वरक्षाकरन्नृणाम् || ३ ||
शुचौ देशे समासीनो यथावत्कल्पितासनः |
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् || ४ ||
हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् |
अतीन्द्रियं सूक्ष्ममनन्तमाद्यन्ध्यायेत्परानन्दमयम्महेशम् || ५ ||
ध्यानावधूताखिलकर्मबन्धश्चिरञ्चिदानन्दनिमग्नचेताः |
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् || ६ ||
माम्पातु देवोऽखिलदेवतात्मासंसारकूपे पतितङ्गभीरे |
तन्नाम दिव्य/ व्वरमन्त्रमूलन्धुनोतु मे सर्वमघं हृदिस्थम् || ७ ||
सर्वत्र मां रक्षतु विश्वमूर्त्तिर्ज्ज्योतिर्म्मयानन्दघनश्चिदात्मा |
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् || ८ ||
यो भूस्वरूपेण बिभर्त्तिविश्वम्पायात् स भूमेर्ग्गिरिशोऽष्टमूर्त्तिः |
योऽपांस्वरूपेण नृणाङ्करोति सञ्जीवनं सोऽवतु माञ्जलेभ्यः || ९ ||
प्. ४८३) कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः |
स कालरुद्रोऽवतु मान्दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् || १० ||
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः |
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् || ११ ||
कुठारखेटाङ्कुशपाशशूलकपालढक्काक्षगुणान्दधानः |
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् || १२ ||
कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः |
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योधिजातोऽवतु माम्प्रतीच्याम् || १३ ||
वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः |
त्रिलोचनश्चारुचतुर्मुखो माम्पायादुदीच्यान्दिशि वामदेवः || १४ ||
वेदाभयेष्टाङ्कुशपाशटङ्ककपालढक्काक्षकशूलपाणिः |
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्द्ध्वम्परमप्रकाशः || १५
||
मूर्द्धानमव्यान्मम चन्द्रमौलिर्ब्भालम्ममाव्यादथ भालनेत्रः |
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः || १६ ||
पायाच्छ्रुती मे श्रुतिगीतकीर्त्तिः कपोलमव्यात्सततङ्कपाली |
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः || १७ ||
कण्ठङ्गिरीशोऽवतु नीलकण्ठः पाणिद्वयम्पातु पिनाकपाणिः |
दोर्म्मूलमव्यान्मम धर्मबाहुर्वक्षस्थलन्दक्षमखान्तकोऽव्यात् ||
१८ ||
ममोदरम्पातु गिरीन्द्रधन्वा मध्यम्ममाव्यान्मदनान्तकारी |
हेरम्बतातो मम पातु नाभिम्पायात्कटिन्धूर्ज्जटिरीश्वरो मे || १९ ||
ऊरुद्वयम्पातु कुबेरमित्रो जानुद्वयम्मे जगदीश्वरोऽव्यात् |
जङ्घायुगम्पुङ्गवकेतुरव्यात्पादौ ममाव्यात्सुरवन्द्यपादः || २० ||
महेश्वरः पातु दिनादियामे माम्मध्ययामेऽवतु वामदेवः |
त्रियम्बकः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे || २१ ||
पायान्निशादौ शशिशेखरो माङ्गङ्गाधरो रक्षतु मान्निशीथे |
प्. ४८४) गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् || २२ ||
अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितम्माम्
|
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् || २३ ||
तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तम्प्रमथाधिनाथः |
वेदान्तवेद्योऽवतु मान्निषण्णम्मामव्ययः पातु शिवः शयानम् || २४
||
मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्ग्गेषु पुरत्रयारिः |
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः || २५ ||
कल्पान्तकाटोपपटुप्रकोपस्फुटाट्टहासोच्चलिताण्डकोशः |
घोररिसेनार्णवदुर्न्निवारमहाभयाद्रक्षतु वीरभद्रः || २६ ||
पत्त्यश्वमातङ्गरथावरूथसहस्रलक्षायुतकोटिभीषणम् |
अक्षौहिणीनां शतमाततायिनाश्च्छिन्द्यान्मृडो घोरकुठारधारया ||
२७ ||
निहन्तुदस्यून्प्रलयानलार्च्चिर्ज्ज्वलन्त्रिशूलन्त्रिपुरान्तकस्य |
शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीश धनुः पिनाकः || २८ ||
दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्ब्भिक्षदुर्व्यसनदुःसहदुर्यश्
आंसि |
उत्पाततापविषभीतिमसद्ग्रहार्त्तिव्याधींश्च नाशयतु मे
जगतामधीशः || २९ ||
ओं नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमन्त्ररूपाय
सर्वयन्त्राधिष्ठिताय सर्वतन्त्ररूपाय सर्वतत्त्वविदूराय
ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय
सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय
महामणिमुकुटधारणाय माणिक्यभूषणाय
सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय
महाकालभेदनाय मूलधारैकनिलयान तत्त्वातीताय गङ्गाधराय
सर्वदेवाधिदेवाय षडाश्रयाय वेदान्तसाराय ||
त्रिवर्गसाधनायानन्तकोटिब्रह्माण्डनायकायाऽनन्त-वासुकि-तक्षक-
कर्क्कोटकशङ्खकुलिकपद्म-
महापद्मेत्यष्टमहानागकुलभूषणाय प्रणवस्वरूपाय
चिदाकाशायाकाशदिक्स्वरूपाय
प्. ४८५) ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्त्रे
सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे
सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय
सकललोकैकशङ्कराय शशाङ्कशेखराय शाश्वतनिजावासाय
निराभासाय निरामयाय निर्मलाय निर्ल्लोभाय निर्मदाय निश्चिन्ताय
निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय
निरुपप्लवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय
निष्प्रपञ्चायनिस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय
निष्क्रोधाय निर्मलाय निष्पापाय निर्ब्भयाय निर्विकल्पाय निर्ब्भेदाय
निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय
नित्यशुद्धबुद्धिपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय
तेजोरूपाय तेजोमयाय जय जय रुद्र महारौद्र महावतार
महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्तिभि
न्दिपालतोमरमुसलमुद्गरपाशपरिघभुशुण्डीशतघ्नीचक्राद्यायुध्
अभीषणकरसहस्रमुखदंष्ट्राकरालवदन
विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल
नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युञ्जय त्र्यम्बक
त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन
विश्वतोमुख सर्वतो रक्ष रक्ष मा ज्वल ज्वल
महामृत्युमपमृत्युभयन्नाशय नाशय, चोरभयमुत्सादयोत्सादय
विषसर्पभयं शमय शमय, चोरान्मारय मारय, मम
शत्रूनुच्चाटयोच्चाटय, त्रिशूलेन विदारय विदारय, कुठारेण भिन्धि
भिन्धि, खड्गेन छिन्धि छिन्धि, खट्वाङ्गेन विपोथय विपोथय, मुसलेन
निष्पेषय निष्पेषय, बाणैः सन्ताडय सन्ताडय, रक्षांसि भीषय
भीषय, अशेषभूतानि विद्रावय विद्रावय,
कूष्माण्डवेतालमारीगणब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय,
ममाभयङ्कुरु कुरु,
प्. ४८६) वित्रस्तम्मामाश्वासयाश्वासय,
नरकमहाभयान्मामुद्धरोद्धर सञ्जीवय सञ्जीवय,
क्षुत्तृड्भ्याम्मामाप्याययाप्यायय,
दुःखातुरम्मामानन्दयानन्दय, शिवकवचेन
मामाच्छादयाच्छादय, मृत्युञ्जय त्र्यम्बक सदाशिव नमस्ते ||
ऋषभ उवाच
इत्येतत्कवचं शैव/ व्वरद/ व्याहृतम्मया |
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् || ३० ||
यः सदा धारयेन्मर्त्त्यः शैवङ्कवचमुत्तमम् |
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् || ३१ ||
क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा |
सद्यः सुखमवाप्नोति दीर्ग्घमायुश्च विन्दति || ३२ ||
सर्वदारिद्र्यशमनं सौमङ्गल्यविवर्द्धनम् |
यो धत्ते कवचं शैवं स देवैरपि पूज्यते || ३३ ||
महापातकसङ्घातैर्मुच्यते चोपपातकैः |
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः || ३४ ||
त्वमपि श्रद्धया वत्स शैवङ्कवचमुत्तमम् |
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि || ३५ ||
सूत उवाच
इत्युक्त्वा ऋषभो योगी तस्मै पार्त्थिवसूनवे |
ददौ शङ्खम्महारावङ्खड्गञ्चारिनिषूदनम् || ३६ ||
पुनश्च भस्म सम्मन्त्र्य तदङ्गम्परितोऽस्पृशत् |
गजानां षट्सहस्रस्य द्विगुणस्य बलन्ददौ || ३७ ||
भम्मप्रभावात्सम्प्राप्तबलैश्वर्यधृतिस्मृतिः |
स राजपुत्रः शुशुभे शरदर्क इव श्रिया || ३८ ||
तमाह प्राञ्जलिम्भूयः स योगी नृपनन्दनम् |
एष खड्गो मया दत्तस्तपो मन्त्रानुभावितः || ३९ ||
शितधारमिम/ खड्ग/ ययस्मै दर्शयसे स्फुटम् |
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् || ४० ||
अस्य शङ्खस्य निर्ह्राद/ यये शृण्वन्ति तवाहिताः |
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः || ४१ ||
खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ |
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्द्धनौ || ४२ ||
एतयोश्च प्रभावेण शैवेन कवचेन च |
द्विषट्सहस्रनागानाम्बलेन महतापि च || ४३ ||
प्. ४८७) भस्मधारणसामर्त्थ्याच्छत्रुसैन्य/ व्विजेष्यसि |
प्राप्य सिंहासनम्पित्र्यङ्गोप्ताऽसि पृथिवीमिमाम् || ४४ ||
इति भद्रायुषं सम्यगनुशास्य समातृकम् |
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ || ४५ ||
इति शिवकवचं सम्पूर्णम् ||
अथोपनिषत्
ओं नमश्शिवाय ओं नमोस्तु सर्व शम्भो त्रिनेत्र चारुगात्र
त्रैलोक्यनाथ उमापथे दक्षयज्ञविध्वंसकारक सकामाङ्गनाशन
घोरपापप्रणाशन महापुरुष महोग्रमूर्त्ते सर्वसत्त्वक्षयङ्कर
शुभङ्कर महेश्वर त्रिशूलधर स्मरारे गुहाधामन् दिग्वासः
महाशङ्खशेखरजटाधर कपालमालाविभूषितशरीर
वामचक्षुःक्षुभितदेवप्रजाध्यक्ष भगाक्ष्नोःक्षयङ्कर
भीमसेननाथ पशुपते कामाङ्गदहन चत्वरवासिन् शिव महादेवं
ईशान शङ्कर भीमभव वृषध्वज कैटभ प्रौढ महानाथेश्वर
भूतिरत अविमुक्तक रुद्ररुद्रेश्वर स्थाणो एकलिङ्ग कालिन्दीप्रिय
श्रीकण्ठ नीलकण्ठ अपराजित रिपुभयङ्कर सन्तोषपते वामदेव
अघोर तत्पुरुष महाघोर अघोरमूर्त्ते शान्त सरस्वतीकान्त
सहस्रमूर्त्ते महोद्भव विभो कालाग्ने रुद्र रौद्र हर महीधरप्रिय
सर्वतीर्त्थाधिवास हंस कामेश्वर केदार अधिपते परिपूर्ण
मुचुकुन्द मधुनिवास कृपाणपाणे भयङ्कर विद्याराज सोमराज
कामराज महीधरराजकन्याहृदब्जवसते समुद्रशायिन्
गयामुखगोकर्णब्रह्मयोने सहस्रवक्त्राक्षिचरणहाटकेश्वर नमस्ते
नमस्ते || इत्युपनिषत् ||
अथ शतनाम
शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः |
वामदेवो विरूपाक्षः कपर्दी नीललोहितः || १ ||
शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः |
शिपिविष्टोम्बिकानाथः श्रीकण्ठो भक्तवत्सलः || २ ||
प्. ४८८) भवः सर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः |
उग्रः कपालि कामारिरन्धकासुरसूदनः || ३ ||
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः |
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः || ४ ||
कैलासवासी कवची कठोरस्त्रिपुरान्तकः |
वृषाङ्को वृषभारूढो भस्मोद्वलितविग्रहः || ५ ||
सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः |
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः || ६ ||
हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः |
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः || ७ ||
हिरण्यरेता दुर्द्धर्षो गिरीशो गिरिशोनघः |
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः || ८ ||
कृत्तिवासाः पुरारातिर्ब्भगवान्प्रमथाधिपः |
मृत्युञ्जयः सूक्ष्मतनुर्ज्जगद्व्यापी जगद्गुरुः || ९ ||
व्योमकेशो महासेनजनकश्चारुविक्रमः |
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः || १० ||
अष्टमूर्त्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः |
शाश्वतः खण्डपरशुरजः पाशविमोचकः || ११ ||
मृडः पशुपतिर्द्देवो महादेवोऽव्ययः प्रभुः |
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः || १२ ||
भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् |
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः || १३ ||
इमानि दिव्यनामानि जप्यन्ते सर्वदा मया |
नाम कल्पलतेयम्मे सर्वाभीष्टप्रदायिनी || १४ ||
नामान्येतानि सुभगे शिवदानि न संशयः |
वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः || १५ ||
एतानि यानि नामानि तानि सर्वार्त्थदान्यतः |
जप्यन्ते सादरन्नित्यम्मया नियमपूर्वकम् || १६ ||
वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च |
सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि || १७ ||
तेभ्यो नामानि सङ्गृह्य कुमाराय महेश्वरः |
अष्टोत्तरसहस्रन्तु नाम्नामुपदिशत्पुरा || १८ ||
इति शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ||
प्. ४८९) अथ सहस्रनाम
सूत उवाच
श्रूयतामृषयः श्रेष्ठाः कथयामि यथाश्रुतम् |
विष्णुना प्रार्थितो येन सन्तुष्टः परमेश्वरः || १ ||
तदहङ्कथयाम्यद्य पुण्यं नाम सहस्रकम् |
श्रीविष्णुरुवाच
शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः || २ ||
अर्थिगम्यः सदाचारः सर्वः शंभुर्महेश्वरः |
चन्द्रापीडश्चन्द्रमौलिर्विश्वादिश्चामरेश्वरः || ३ ||
वेदान्तसारसन्दोहः कपाली नीललोहितः |
ध्यानाधारोपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः || ४ ||
अष्टमूर्त्तिर्विश्वमूर्त्तिस्त्रिवर्गः स्वर्गसाधनः |
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः || ५ ||
वामदेवो महादेवः पटुः परिवृढो दृढः |
विश्वरूपी विरूपाक्षो वागीशः शुचिमत्तरः || ६ ||
सर्वः प्रमाणस/व्वादी वृषाङ्को वृषवाहनः |
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः || ७ ||
तमोहरो महायोगी गोप्ता ब्रह्माण्डहृज्जटी |
कालकालः कृत्तिवासाः सुभगः प्रणतात्मकः || ८ ||
त्रिपुण्ड्रधारी चाक्षुष्यो दुर्वासाः पुरशासनः |
दिव्यायुधः स्कन्दगुरुः परमेष्ठी परात्परः || ९ ||
अनादिमध्यनिधनो गिरीशो गिरिबान्धवः |
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो मृदुः || १० ||
समाधिवेद्यः कोदण्डी नीलकण्ठः परश्वधी |
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः || ११ ||
धर्मधामा क्षमाक्षेत्रम्भगवान्भगनेत्रभित् |
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रिय/व्वदः || १२ ||
दाता दयाकरो दक्षः कपर्दी कामशासनः |
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः || १३ ||
लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधीः |
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः || १४ ||
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी |
सोमपोऽमृतपः सौम्यो महाज्योतिर्महाद्युतिः || १५ ||
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः |
प्. ४९०) अजातशत्रुरालोकसम्भाव्यो हव्यवाहनः || १६ ||
लोककरो वेदकरः सूत्रकारः सनातनः |
महर्षिः कपिलाचार्यो विश्वदीप्तिर्विलोचनः || १७ ||
पिनाकपाणिर्ब्भूदेववशगः स्वस्तिकृत्सुधीः |
धातृधामा धामकरः सर्वदः सर्वगोचरः || १८ ||
ब्रह्मसृग्विश्वसृक्सर्वः कर्णिकारप्रियः कविः |
शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः || १९ ||
गङ्गाप्प्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः |
विजितात्मा विधेयात्मा भूतवाहनसारथिः || २० ||
सगणो गणवर्यश्च सुकीर्त्तिश्च्छिन्नसंशयः |
कामदेवः कामपालो भस्मोद्धूलितविग्रहः || २१ ||
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः |
समावर्त्तो निवृत्तात्मा धर्मपुञ्जः सदाशिवः || २२ ||
अकल्मषश्चतुर्बाहुर्दुरावासो दुरासदः |
दुर्ल्लभो दुर्गमो दुर्गः सर्वायुधविशारदः || २३ ||
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्द्धनः |
शुभाङ्गो लोकसारङ्गो जगदीशो जनार्दनः || २४ ||
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः |
असाध्यसाधुसाध्यश्च भृत्यमर्कटरूपधृक् || २५ ||
हिरण्यरेताः पौराणो रिपुजीवहरोचलः |
महाहृदो महागर्त्तः सिद्धवृन्दारकेडितः || २६ ||
व्याघ्रचर्माम्बरो व्याली महाभूतो महानिधिः |
अमृतानुभवः श्रीमान्पाञ्चजन्यः प्रभञ्जनः || २७ ||
पञ्चविंशतितत्त्वस्थः पारिजातः परात्परः |
सुलभः सुव्रतः शूरो वाङ्मयीकनिधिर्न्निधिः || २८ ||
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः |
आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः || २९ ||
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः |
धनुर्द्धरो धनुर्वेदो गुणः शशिगुणाकरः || ३० ||
सत्यः सत्यपरो दीनो धर्माङ्गो धर्मसाधनः |
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः || ३१ ||
अभिचार्यो महामायो विश्वकर्मा विशारदः |
वीतरागो विनीतात्मा तपस्वी भूतवाहनः || ३२ ||
प्. ४९१) उन्मत्तवेषः प्रच्छत्रो जितकामोर्चितप्रियः |
कल्पान्तप्रकृतिः कल्पः सर्वलोकप्रजापतिः || ३३ ||
तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः |
लोकपालोन्तर्हितात्मा कल्पादिः कमलेक्षणः || ३४ ||
वेदशास्त्रार्त्थतत्त्वज्ञो नियमो नियमाश्रयः |
चन्द्रः सूर्यः शनिः केतुर्विरागो विद्रुमच्छविः || ३५ ||
भक्तिवश्यः परम्ब्रह्म मृगबाणार्पणो नयः |
अद्रिरद्र्यालयः कान्तः परमात्मा जगद्गुरुः || ३६ ||
सर्वकामालयस्तुष्टो माङ्गल्यो मङ्गलावृतः |
महातपा दीर्ग्घतपाः स्थविष्ठः स्थविरो द्रुमः || ३७ ||
अहः स/व्वत्सरो व्याप्तिः प्रमाणम्परमन्तपः |
स/व्वत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः || ३८ ||
अजः सर्वेश्वरः सिद्धो महारेता महाबलः |
योगो योग्यो महातेजाः सिद्धसर्वादिविग्रहः || ३९ ||
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः |
सुकीर्त्तिः शोभितः श्रावी ह्यवाङ्मनसगोचरः || ४० ||
अमृतः शाश्वतः शान्तो द्रोणहस्तः प्रतापवान् |
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः || ४१ ||
भ्राजिष्णुर्ब्भोजनम्भोक्ता लोकनाथो दुरावरः |
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः || ४२ ||
कालयोगी महानादो महोत्साहो महाबलः |
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः || ४३ ||
निशाचरः प्रतचारी महाशक्तिर्महाद्युतिः |
अनिर्द्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः || ४४ ||
बहुश्रुतो महामायो नियतात्मा ध्रुवोऽध्रुवः |
तेजस्तेजोद्युतिधरो नरकः सर्वशासकः || ४५ ||
नृत्यप्रियो नित्यनृत्यः प्रकाशात्माप्रकाशकः |
स्पष्टः क्रूरो बुधो मन्त्रः समानः सारसम्प्लवः || ४६ ||
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः |
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभोधनुः || ४७ ||
तीर्त्थरूपस्तीर्त्थनामा तीर्त्थादृश्यः सुतीर्त्थदः |
प्. ४९२) अपान्निधिरधिष्ठान/ व्विजयो जयकालवित् || ४८ ||
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः |
विमोचनः सुरगणो विद्येशो बिन्दुसंश्रयः || ४९ ||
बालरूपो बलोन्मत्तो विकर्त्ता गहनो गुहः |
करणङ्कारणङ्कर्त्ता सर्वबन्धविमोचनः || ५० ||
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः |
गुरुदो ललितो भेदो निवासात्मनि संस्थितः || ५१ ||
वीरेश्वरो वीरभद्रो विश्वरूपो विधिर्विराट् |
वीरचन्द्रो मणिर्द्धर्त्ता तीव्रानन्दो नदीश्वरः || ५२ ||
अग्न्याधारस्त्रिशूली च शिपिविष्टः शिवालयः |
वालखिल्यो महावीर्यस्तिग्मांशुर्ब्बधिरः खगः || ५३ ||
अभिरामः सुशरणः सुब्रह्मण्यः सुधानिधिः |
मघवा कौशिको गोमान् विरामः सर्वसाधनः || ५४ ||
ललाटजो विश्वदेहः सारसंसारचक्रभृत् |
अमोघो दण्डिमध्यस्थो हरिणोब्रह्मवर्च्चसः || ५५ ||
परमार्त्थः परोमायी स/व्वरो व्याघ्रकोनलः |
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः || ५६ ||
रविर्विरोचनः स्कन्दः शास्ता वैवस्वतोऽमरः |
युक्तिकृन्मत्तकीर्त्तिश्च सानुगश्च पुरञ्जयः || ५७ ||
कैलासाधिपतिः कान्तः सवितारविलोचनः |
विश्वोत्तमो वीतभयो विश्वभर्त्तानिवारितः || ५८ ||
नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः |
दूरश्रवा विश्वसहो ध्येयो दुःखप्रणाशनः || ५९ ||
उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहो भवः |
अनादिर्भूर्ब्भुवोलक्ष्मीः किरीटी त्रिदशाधिपः || ६० ||
विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिराङ्गदः |
जननो जनजन्मादिः प्रीतिमान्नीतिमान्धवः || ६१ ||
वसिष्ठः कश्यपो भानुर्ब्भीमो भीमपराक्रमः |
प्रणवः सत्पथाचारो महाकाशो महाधनः || ६२ ||
जन्माधिपो महादेवः सकलागमपारगः |
तत्त्वन्तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः || ६३ ||
ऋषिर्ब्राह्मण ऐश्वर्यो जन्ममृत्युजरातिगः |
प्. ४९३) पञ्चयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः || ६४ ||
अनाद्यन्त आत्मयोनिर्वत्सलो भक्तलोकधृक् |
गायत्रीवल्लभः प्रांशुर्विश्वासः प्रभाकरः || ६५ ||
शिशुर्गिरिरतः सम्राट्सुषेणः सुरशत्रुहा |
अनेमिरिष्टनेमिश्च मुक्तिदो विगतज्वरः || ६६ ||
स्वयञ्ज्योतिस्तपञ्ज्योतिरतिज्योतिरचञ्चलः |
पिङ्गलः कपिलः श्मश्रुर्ब्भालनेत्रस्त्रयीतनुः || ६७ ||
ज्ञानस्कन्दो महानीतिर्विश्वोत्पत्तिरुपप्लवः |
भोगी विवस्वतस्तत्त्वो योगपारो दिवस्पतिः || ६८ ||
कल्याणगुणनामा च पापहा पुण्यदर्शनः |
उदारकीर्त्तिरुद्योगी महन्मान्यश्च सत्त्वपः || ६९ ||
नक्षो मलिनकेशश्च स्वाधिष्ठानमदाश्रयः |
पवित्रः पापनाशश्च मणिपूरो नभोगतिः || ७० ||
हृत्पुण्डरीकमासीनः शक्रः शान्तो वृषाकपिः |
कृष्णो ग्रहपतिः कृष्णः समर्त्थोऽनर्त्थनाशनः || ७१ ||
अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः |
ब्रह्मगर्ब्भो बृहद्गर्ब्भो धर्मधेनुर्द्धनागमः || ७२ ||
जगद्धितैषी सुगतः कुमारः कुशलागमः |
हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः || ७३ ||
आरोग्यो नयनाध्यक्षो विश्वामित्रो धनेश्वरः |
ब्रह्मज्योतिर्वसुर्द्धामा महाज्योतिरनुत्तमः || ७४ ||
मातामहो मातरिश्वा नभस्वान्नागहारधृक् |
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः || ७५ ||
निरावरणनिर्वारो वैरञ्चयो विष्टरश्रवाः |
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्त्तिर्महायशाः || ७६ ||
लोकवीराग्रणीर्वीरश्चन्द्रः सत्यपराक्रमः |
व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः || ७७ ||
अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोऽम्बरः |
आशुः शब्दपतिर्वङ्गी प्लवनः शिखिसारथिः || ७८ ||
असंसृतिपतिः शक्रः प्रमादः पादपासनः |
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः || ७९ ||
जप्यो जरारिः शमनो लोहिताश्वस्तनूनपात् |
प्. ४९४) नभयोनिः सुनिष्पन्नः सुरभिः शिशिरात्मकः || ८० ||
वसन्तो माधवो ग्रीष्मो नभस्थो बीजवाहनः |
अङ्गिरागुरुरात्रेयो विमलो विश्ववाहनः || ८१ ||
पावनः पुरुजिच्छक्रस्त्रैविद्यो नरवारणः |
मनोबुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः || ८२ ||
जमदग्निर्ज्जलनिधिर्विगोलो विश्वगोलकः |
अघोरोऽनुत्तरो यज्ञः श्रेष्ठो निःश्रेयसालयः || ८३ ||
शैलो गगनकुन्दाभो दानवारिररिन्दमः |
चामुण्डाजीवकश्चारुनिःशल्यो लोककल्पधृक् || ८४ ||
चतुर्व्वेदश्चतुर्ब्भावश्चतुरश्चतुरप्रियः |
आम्नायोऽथ समाम्नायस्तीर्त्थवेदशिवालयः || ८५ ||
बहुरूपो महारूपः सर्वरूपश्चराचरः |
नयनिर्मायको न्यायो न्यायगम्यो निरञ्जनः || ८६ ||
सहस्रमूर्द्धा देवेन्द्रः सर्वशास्त्रप्रभञ्जनः |
मुण्डो विरूपो विक्रांतो दण्डी ताण्डगुणोत्तमः || ८७ ||
पिङ्गलाक्षो हयग्रीवो नीलग्रीवो निरामयः |
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् || ८८ ||
पद्मासनः परञ्ज्योतिः परम्पारम्परम्फलम् |
पद्मगर्ब्भो महागर्ब्भो विश्वगर्ब्भो विचक्षणः || ८९ ||
चराचरज्ञो वरदो वरेशस्तु महास्वनः |
देवासुरगुरुर्द्देवो देवासुरनमस्कृतः || ९० ||
देवासुरमहामित्रो देवासुरमहाश्रमः |
देवादिदेवो देवोग्निर्देवासुरवरप्रदः || ९१ ||
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः |
देवदेवो महाचिन्त्यो देवतात्मात्मसम्भवः || ९२ ||
सद्योनष्टासुरव्याघ्रो देवसिंहो दिवाकरः |
विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः || ९३ ||
शिवज्ञानप्रदः श्रीमाञ्छिखी श्रीपर्वतप्रियः |
वज्रहस्तः सिद्धखड्गी नरसिंहनिपातनः || ९४ ||
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः |
नन्दी नन्दीश्वरो नन्दो लग्नवृत्तिधरः शुचिः || ९५ ||
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः |
स्वर्द्धामा स्वर्गतः स्वामी स्वरः स्वरतमस्वनः || ९६ ||
प्. ४९५) बोधाध्यक्षो बीजकर्त्ता धर्मकृद्धर्मसम्भवः |
दम्भो लोभोऽथ वै शम्भुस्सर्वभूतमहेश्वरः || ९७ ||
श्मशाननिलयस्त्र्यक्षः सेतुरप्रतिमाकृतिः |
लोकोत्तरः स्फुटालोकस्त्र्यम्बको नागभूषणः || ९८ ||
अन्धकारिर्मयद्वेषी विष्णोः स्कन्धरतात्मकः |
हितदश्च क्षयगुणो दक्षारिः पूषदन्तभित् || ९९ ||
पूर्ज्जनिः खण्डपरशुः सकलो निष्कलो मुनिः |
अकालः सकलाधारः पाण्डुरोगो मृगो नगः || १०० ||
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः |
साङ्गो गोयः प्रियाक्रूरः पुण्यकीर्त्तिरनामयः || १०१ ||
मनोजवस्तीर्त्थकरो जटिलो जीवितेश्वरः |
जीवितान्तकरो नित्यो वसुरेता वसुप्रदः || १०२ ||
सुजातिः सत्कृतिः सिद्धिः सजातिः कालकण्टकः |
कलाधरो महाकालभूतः सत्यपरायणः || १०३ ||
लोकलावण्यकर्त्ता च लोकोत्तरसुखालयः |
तेजोमयो द्युतिधरो लोकमानाग्रणीरणुः || १०४ ||
शुचिस्मितः प्रसन्नात्मा अजेयो दुरतिक्रमः |
ज्योतिर्म्मयो निरुजाङ्गो गङ्गाप्रेष्ठो जलेश्वरः || १०५ ||
तुम्बवीणो महाकायो विशोकः शोकनाशनः |
त्रिलोकपा त्रिलोकेशः सर्वशुद्धिरधोक्षजः || १०६ ||
अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशाम्पतिः |
परः शिवो वसुर्न्नासा सारोमा नन्दनोमयः || १०७ ||
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः |
वेधा विधाता स्रष्टा च संहर्त्ता च चतुर्मुखः || १०८ ||
कैलासशिखरावासी सर्वावासी सदागतिः |
हिरण्यगर्ब्भो द्रुहिणो भूतनाथोऽथ भूपतिः || १०९ ||
सद्योगी योगविद्योगी वरदो ब्राह्मणप्रियः |
देवप्रियो देवनाथो देवको देवचिन्तकः || ११० ||
विषमाक्षो विरूपाक्षो वृषभो वृषवर्द्धनः |
निर्म्ममो निरहङ्कारो निर्मोहो निरुपद्रवः || १११ ||
दर्पहा दर्पदोदृप्तः सर्वार्त्थपरिवर्त्तकः |
सहस्रजित्सहस्रार्चिः स्निग्धप्रकृतिदक्षिणः || ११२ ||
प्. ४९६) भूतभव्यभवोनाथः प्रभवो भूतिनाशनः |
अर्त्थोऽनर्त्थो महाकोशः परकार्यैकपण्डितः || ११३ ||
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्द्दनः |
सत्त्ववान सात्यकिः सत्यः कीर्त्तिस्नेहः कृतागतः || ११४ ||
अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् |
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणानिलः || ११५ ||
नन्दिस्कन्दधरो धुर्यः प्रकटप्रीतिवर्द्धनः |
अपराजितः सर्वसत्त्वो गोविन्दः सत्त्ववाहनः || ११६ ||
अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः |
वाराहशृङ्गधृक्छूरो बलवानेकनाथकः || ११७ ||
श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेककृत् |
श्रीवत्सलः शिवारम्भः शान्तभद्रः समोयशः || ११८ ||
भूयशोभूषणो भूतिर्ब्भूतकृद्भूतिभावनः |
अकम्पो भक्तिकायस्तु कालहा निष्कलेश्वरः || ११९ ||
सत्यव्रतो महात्यागी नित्यशान्तिः परायणः |
परार्त्थवृत्तिर्वरदो विविक्षुस्तु विशारदः || १२० ||
शुभदः शुभकर्त्ता च शुभनामा शुभः स्वयम् |
अनर्त्थितो गुणग्राही अकर्त्ता कनकप्रभः || १२१ ||
स्वभावभद्रो मध्यस्थः शत्रुघ्नो विघ्ननाशनः |
शिखण्डी कवची शूली जटी मुण्डी च कुण्डली || १२२ ||
अमृत्युः सर्वदृक्सिंहस्तेजोराशिर्महामणिः |
असङ्ख्येयोऽप्रमेयात्मा वीर्यवान्वीर्यकोविदः || १२३ ||
वैद्यश्चैव वियोगी च सप्तवीरो मुनीश्वरः |
अनुक्रमो दुराधर्षो मधुरः प्रियदर्शनः || १२४ ||
सुरेशस्तारणः सर्वशब्दः प्रतपताङ्गतिः |
कालक्षयः कालकारी सुकृतिः कृतवासुकिः || १२५ ||
महेष्वासो महीभर्त्ता निष्कलङ्को विशृङ्खलः |
द्युमणिस्तरणिर्द्धन्यः सिद्धिदः सिद्धिसाधनः || १२६ ||
विवृतः स/व्वृतस्तुत्यो व्यूढोरस्को महाभुजः |
सर्वयोनिर्न्निरातङ्को नरनारायणप्रियः || १२७ ||
निर्लेपो निःप्रसङ्गात्मा निर्व्यङ्गो व्यङ्गनाशनः |
प्. ४९७) स्तव्यः स्तवप्रियः स्तोता व्याप्तमूर्त्तिर्न्निराकुलः || १२८ ||
निरवद्यपदोपायो विद्याराशिरसत्कृतः |
प्रशान्तबुद्धिरक्षुण्णः सम्प्रहा नित्यसुन्दरः || १२९ ||
पापहा दर्मधास्त्रीशः साकल्पः शर्वरीपतिः |
परमार्त्थगुरुद्दृष्टिः सुरैराश्रितवत्सलः || १३० ||
सोमो रसज्ञो रसदः सर्वसत्त्वावलम्बनः |
एवन्नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् || १३१ ||
प्रार्थयामास शम्भु/ व्वै पूजयामास शङ्करम् |
परीक्षार्त्थं हरेरीशः कमलेषु महेश्वरः || १३२ ||
गोपयामास कमलन्तदेकम्भुवनेश्वरः |
हृदि विचारितन्तेन कुतो वै कमलङ्गतम् || १३३ ||
यातु यातु सुखेनैव नेत्रङ्किङ्कमलन्न हि |
तदेव कमलङ्कृत्वा यजामि चन्द्रशेखरम् || १३४ ||
इत्येवं हृदयं ज्ञात्वा विष्णोरमिततेजसः |
मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः || १३५ ||
यत्रैव च कृता पूजा कृष्णेन परमात्मना |
तस्मादवतताराशु मण्डलात्पार्थिवस्य सः || १३६ ||
यथोक्तरूपिणं शम्भुन्तेजोराशिसमुत्थितम् |
नमस्कृत्य पुरः स्थित्वा स्तुतिङ्कृत्वा विशेषतः || १३७ ||
प्रसन्नवदनो भूत्वा शम्भोश्च सम्मुखः स्थितः |
इत्थम्भूतं हरिर्द्दृष्ट्वा कोटिभास्करभूषितम् || १३८ ||
प्रणनामीश्वरं शम्भुन्देवदेवञ्जनार्द्दनः |
तदा प्राह महादेवः प्रहसन्निव शङ्करः |
सम्प्रेक्ष्यमाणया विश्वङ्कृताञ्जलिपुटस्थितम् || १३९ ||
शङ्कर उवाच
ज्ञातम्मयेदं सकलन्देवकार्यञ्जनार्दन |
सुदर्शनाख्यञ्चक्रञ्च ददामि तव शोभनम् || १४० ||
यद्रूपम्भवता दृष्टं सर्वलोकसुखावहम् |
हिताय सर्वदेवेशकृतम्भावय सुव्रत || १४१ ||
रणाजावपि संस्मृत्य देवानान्दुःखनाशनम् |
इष्टञ्चक्रमिदं रूपमिदन्नाम सहस्रकम् || १४२ ||
ये शृण्वन्ति सदा भक्त्या सिद्धि स्यादनपायिनी |
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् || १४५ ||
प्. ४९८) विष्णुरपि च संस्नात्वा जग्राहोदङ्मुखस्तदा |
नमस्कृत्य तदा देवम्पुनर्वचनमब्रवीत् || १४४ ||
शृणु देव मया ध्येयम्पठनीयञ्च किम्प्रभो |
लोकानान्दुःखनाशार्त्थ/ व्वद त्व/ ल्लोकशङ्कर || १४५ ||
इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् |
रूपन्ध्येयम्मदीय/ व्वै सर्वानर्त्थविनाशनम् || १४६ ||
अनेकदुःखनाशार्त्थम्पाठ्यन्नाम सहस्रकम् |
धार्यञ्चक्रं सदा मेऽद्य सर्वानर्त्थप्रशान्तये || १४७ ||
अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः |
तेषां दुःखन्न स्वप्नेऽपि जायते नात्र संशयः || १४८ ||
राज्ञाञ्च सङ्कटे प्राप्ते शतवारम्पठेद्यदि |
साङ्गञ्च विधियुक्तञ्च कल्याण/ ल्लभते नरः || १४९ ||
रोगनाशकरञ्चैतद्विद्यानायकमुत्तमम् |
यमुद्दिश्य फलश्रेष्ठम्पठिष्यन्ति नरास्त्विह || १५० ||
लभन्ते नात्र सन्देहः फलं सत्यमनुत्तमम् |
मम प्रातः समुत्थाय पूजाङ्कृत्वा मदीयकम् || १५१ ||
पठते मत्समक्ष/ वै नित्यं सिद्धिर्न्न दूरतः |
ऐहिकां सिद्धिमासाद्य परलोकसमुद्भवाम् || १५२ ||
प्राप्नोति पाठको नित्यम्मत्प्रसादात्सुरेश्वर |
सायुज्यां मुक्तिमायाति नात्र कार्या विचारणा || १५३ ||
एवमुक्त्वा तदा विष्णुं शङ्करः प्रीतमानसः |
उपस्पृश्य कराभ्यां हि उवाच शङ्करः पुनः || १५४ ||
वरदोऽस्मि सुरश्रेष्ठ वरान्वृणु यथेप्सितान् |
भक्त्या वशीकृतो नूनं स्तवेनानेन ते सदा || १५५ ||
इत्युक्तो देवदेवेन देवदेवम्प्रणम्य तम् |
यथेदानीङ्कृपा देव क्रियते चाप्यतः परम् || १५६ ||
कार्या चैव विशेषेण कृपालुत्वात्त्वया प्रभो |
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् || १४७ ||
नान्यदिच्छामि भक्तानामार्त्तिर्नैव भवेत्प्रभो |
तच्छ्रुत्वा वचनन्तस्य दयावान्सुतराम्भवः || १४८ ||
पस्पर्श च तदा तस्मै श्रद्धां शीतांशुलक्षणः |
प्राह त्वैनम्महादेवः परमानन्दमच्युतम् || १५९ ||
प्. ४९९) मयि भक्तिश्च वन्द्यश्च पूज्यश्चैव सुरैरपि |
विश्वम्भरस्त्वदीय/ व्वै नाम पापहरम्परम् || १६० ||
भविष्यति न सन्देहो मत्प्रसादात्सुरोत्तम |
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः || १६१ ||
जनार्द्दनोऽपि भगवान्वचनाच्छङ्करस्य च |
प्राप्य चक्रं शुभन्ध्यानं स्तोत्रमेतन्निरन्तरम् || १६२ ||
पपाठाध्यापयामास भक्तैस्तदुपपादितम् |
अन्येऽपि ये पठिष्यन्ति ते विन्दन्तु तथा फलम् || १६३ ||
इति पृष्टं समायातं शृण्वताम्पापहारकम् |
अतः परञ्च किं श्रेष्ठाः कथयामि वचः पुनः || १६४ ||
इति शिवसहस्रनामस्तोत्रं सम्पूर्णम् ||
इति शाक्तप्रमोदे शिवतन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बाहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
पञ्चदशं
गणेशतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
अथ गणेशतन्त्रम्
अथ गणेशध्यानम्
नवरत्नमयन्द्वीपं स्मरेदिक्षुरसाम्बुधौ |
तद्वीचिधौतपर्यन्तम्मन्दमारुतसेवितम् || १ ||
मन्दारपारिजातादिकल्पवृक्षलताकुलम् |
उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् || २ ||
उद्यद्दिनकरेन्दुभ्यामुद्भासितदिगन्तरम् |
तस्य मध्ये पारिजातन्नवरत्नमयं स्मरेत् || ३ ||
ऋतुभिः सेवितं षड्भिरनिशम्प्रीतिवर्द्धनैः |
तस्याधस्तान्महापीठे रचिते मातृकाम्बुजे || ४ ||
षट्कोणान्तस्त्रिकोणाढ्यम्महागणपतिं स्मरेत् || ५ ||
हस्तीन्द्राननमिन्दुचूडमरुणच्छायन्त्रिनेत्रं रसा-
श्लिष्टम्प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् |
बीजापूरगदाधनुस्त्रिशिखियुक्चक्राब्जपाशोत्पल-
ङ्कञ्जाभैः स्वविषाणरत्नकलशौ हस्तैर्वहन्तम्भजे || ६ ||
गण्डपालीगलद्दानपूरलालसमानसान् |
द्विरेफान्कर्णतालाभ्या/ व्वारयन्तम्मुहुर्मुहुः || ७ ||
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिस्सृतैः |
रत्नवर्षैः प्रीणयन्तं साधकम्मदविह्वलम् ||
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् || ८ ||
प्. ५०४) अथ यन्त्रोद्धारः
षट्कोणञ्च त्रिकोणञ्च तद्बहिः अन्यत्सर्वम्मातृकायन्त्रवत् ||
अथ मन्त्रोद्धारः
श्रीशक्तिस्मरभूविघ्नबीजानि प्रभम/ व्वदेत् |
ङेन्तङ्गणपतिम्पश्चाद्वरान्ते वरदम्परम् ||
प्. ५०५) उक्त्वा सर्वजनम्मेन्ते वशमानय ठद्वयम् |
अष्टाविंशत्यक्षरोयन्ताराद्यो मनुरीरितः ||
अथ मन्त्रः
ओं श्रीं ह्रीं क्लीं ग्लौं गंगणपतये वरवरद सर्वजनम्मे
वशमानय ठः ठः ||
अथ पूजाप्रयोगः
प्रातः कृत्यादि पीठन्यासान्त/ व्विधाय पूर्वोक्तपीठशक्तीर्विन्यस्य ||
तद्यथा || केशरेषु मध्ये च || तीव्रायै० ज्वालिन्यै० नन्दायै० भोगदायै०
कामरूपिण्यै० उग्रायै० तेजोवत्यै० सत्यायै० विघ्ननाशिन्यै० तदुपरि
मध्ये सर्वशक्तिकमलासनाय नमः || सर्वत्र प्रणवादि नमोऽन्तेन
पूजयेत् || तत ऋष्यादिन्यासमाचरेत् || शिरसि गणकऋषयेनमः || मुखे
निचृद्गायत्रीच्छन्दसे नमः || हृदि गणपतयेदेवतायैनमः || ततः
कराङ्गन्यासौ || ओं श्रींह्रींक्लींग्लौंगंगां
अङ्गुष्ठाभ्यान्नमः || ओं श्रींह्रींक्लींग्लौंगंगीं
तर्ज्जनीभ्यांस्वाहा || ६ || एवं गूंमध्यमाभ्या/ व्वषट् || ६ || गैं
अनामिकाभ्यां हूम् || गौं कनिष्ठाभ्यांव्वषट् || ६ || गः
करतलकरपृष्ठाभ्याम्फट् || एवं हृदयादिषु || केचित्तु ओं
गांहृदयायनमः श्रींगींशिरसेस्वाहेति तत्त्वषड्बीजस्थस्वबीजेन
दीर्ग्घभाजा प्रकल्पयेत् || इति वचनाद्विशिष्टस्यैव ग्रहणात् ||
अथ षोडशोपचारक्रमेण पूजाविधिः
अथ ध्यानम् ||
एकदन्तं शूर्पकर्णङ्गजवक्त्रञ्चतुर्ब्भुजम् |
पाशाङ्कुशधरन्देवम्मोदकान्विभ्रतङ्करैः ||
रक्तपुष्पमयीम्मालाङ्कण्ठे हस्ते परां शुभाम् |
भक्ताना/ व्वरदं सिद्धिबुद्धिभ्यां सेवितं सदा ||
सिद्धिबुद्धिप्रदं नॄणान्धर्मार्त्थकाममोक्षदम् |
ब्रह्मरुद्रहरीन्द्राद्यैस्संस्तुतम्परमर्षिभिः || इति ध्यानम् ||
प्. ५०६) अथावाहनम्
आगच्छ जगदाधार सुरासुरवरार्च्चित |
अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित || इत्यावाहनम् ||
अथासनम्
स्वर्णसिंहासनन्दिव्यन्नानारत्नसमन्वितम् |
समर्पितम्मया देव तत्र त्वं समुपाविश || इत्यासनम् ||
अथ पाद्यम्
देवदेवेश सर्वेश सर्वतीर्त्थाहृतञ्जलम् |
पाद्यङ्गृहाण गणपते गन्धपुष्पाक्षतैर्युतम् || इति पाद्यम् |||
अथार्ग्घ्यम्
प्रवालमुक्ताफलपूगरत्नन्ताम्बूलजाम्बूनदमष्टगन्धम् |
पुष्पाक्षतायुक्तममोघशक्ते दत्तम्मयार्ग्घ्यं सफलीकुरुष्व ||
इत्यर्ग्घ्यम् ||
अथाचमनीयम्
गङ्गादिसर्वतीर्त्थेभ्यः प्रार्थितन्तोयमुत्तमम् |
कर्पूरैलालवङ्गादिवासितं स्वीकुरु प्रभो || इत्याचमनीयम् ||
चम्पकाशोकबकुलमालतीमल्लिकादिभिः |
वासितं स्निग्धताहेतुन्तैलञ्चारु प्रगृह्यताम् || इति तैलम् ||
अथ दुग्धस्नानम्
कामधेनुसमुद्भूतं सर्वेषाञ्जीवनम्परम् |
पावनं यज्ञहेतुन्ते पयः स्नानार्त्थमर्पितम् ||| इति दुग्धस्नानम् ||
अथ दधिस्नानम्
धेनुदुग्धसमुद्भूतं शुद्धं सर्वगतं प्रियम् |
मयानीतन्दधि वरं स्नानार्त्थम्प्रतिगृह्यताम् || इति दधिस्नानम् ||
अथ घृतस्नानम्
नवनीतसमुत्पन्नं सर्वसन्तोषकारणम् |
यथाङ्गन्देवताहारङ्घृतं स्नातुं समर्प्पितम् || इति घृतस्नानम् ||
अथ मधुस्नानम्
रक्तसारघसम्भूतं सर्वतेजोविवर्द्धनम् |
सर्वपुष्टिकरन्देव मधु स्नानार्त्थमर्पितम् || इति मधुस्नानम् ||
अथ शर्क्करास्नानम्
इक्षुसारसमुद्भूतां शर्क्करां सुमनोहराम् |
मलापहारिणीं स्नातुङ्गृहाण त्वम्मयार्पिताम् || इति शर्क्करास्नानम् ||
अथ गुडस्नानम्
सर्वमाधुर्यताहेतुस्स्वादुस्सर्वप्रियङ्करः |
पुष्टिकृत्स्नातुमानीत इक्षुसारभवो गुडः || इति गुडस्नानम् ||
अथ मधुपर्क्कः
प्. ५०७) कांस्ये कांस्येन पिहितो दधिमध्वाज्यपूरितः |
मधुपर्क्को मयानीतः पूजार्त्थम्प्रतिगृह्यताम् || इति मधुपर्क्कः ||
अथ शुद्धोदकस्नानम्
सर्वतीर्त्थाहृतन्तोयम्मया प्रार्त्थनया विभो |
सुवासितङ्गृहाणेदं सम्यक् स्नातुं सुरेश्वर || इति शुद्धोदकस्नानम् ||
अथ वस्त्रम्
रक्तवस्त्रयुगन्देव लोकलज्जानिवारणम् |
अनर्ग्घ्यमतिसूक्ष्मञ्च गृहाणेदम्मयार्पितम् || इति वस्त्रम् ||
अथोपवीतम्
राजतम्ब्रह्मसूत्रञ्च काञ्चनं रक्तस/ययुतम् |
भक्त्योपपादितन्देव गृहाण परमेश्वर || इति यज्ञोपवीतम् ||
अथ भूषणम्
अनेकरत्नयुक्तानि भूषणानि बहूनि च |
तत्तदङ्गे काञ्चनानि योजयामि तवाज्ञया || इति भूषणानि ||
अथ चन्दनम्
अष्टगन्धसमायुक्तं रक्तचन्दनमुत्तमम् |
द्वादशाङ्गेषु ते देव लेपयामि कृपाङ्कुरु || इति चन्दनम् ||
अथाक्षताः
रक्तचन्दनसंमिश्रांस्तन्दुलांस्तिलकोपरि |
शोभायै सम्प्रदास्यामि गृहाण परमेश्वर || इत्यक्षताः ||
अथ पुष्पाणि
पाटलङ्कर्णिकारञ्च बन्धूकं रक्तपङ्कजम् |
मोगरम्मालतीपुष्पङ्गृहाण सुमनोहरम् || इति पुष्पाणि ||
अथ धूपः
दशाङ्गङ्गुग्गुलन्धूपं सर्वसौगन्ध्यकारकम् |
सर्वपापक्षयकरन्त्वङ्गृहाण मयार्पितम् || इति धूपः ||
अथ दीपः
सर्वज्ञ सर्वलोकेश तमोनाशनमुत्तमम् |
गृहाण मङ्गलन्दीपन्देवदेव नमोऽस्तु ते || इति दीपः ||
अथ नैवेद्यानि
नानापक्वान्नस/ययुक्तम्पायसं शर्करान्वितम् |
नानाव्यञ्जनशोभाढ्यं शाल्योदनमनुत्तमम् ||
दधिदुग्धघृतैर्युक्तं ल्लवङ्गैलासमन्वितम् |
मरीचिचूर्णसहितक्वथिकावटकान्वितम् ||
राजिकाधान्यस/ययुक्तम्मेथीपिष्टं स-तक्रकम् |
हिङ्गु-जीरक-कूष्माण्ड-म्मरीचि-माष-पिष्टकैः ||
सम्पादितैः सुपक्वैश्च भर्ज्जितैर्वटकैर्युतम् |
मोदकापूप-लड्डूक-शष्कुली-मण्डकादिभिः ||
प्. ५०८) पर्पटैरपि स/ययुक्तन्नैवेद्यममृतान्वितम् |
हरिद्रा-हिङ्गुलवणसहितं सूपमुत्तमम् ||
स-सामुद्रङ्गृहाणेदम्भोजनङ्कुरु सादरम् || इति नैवेद्यानि ||
अथाचमनीयम्
सुतृप्तिकारकन्तोयं सुगन्धञ्च पिबेच्छया |
त्वयि तृप्ते जगत्तृप्तन्नित्यतृप्ते महात्मनि ||
उत्तरापोशनार्त्थन्ते दद्मि तोयं सुवासितम् |
मुखपाणिविशुद्ध्यर्त्थम्पुनस्तोयन्ददामि ते || इत्याचमनीयम् ||
अथ फलानि
दाडिमम्मधुरन्निम्बु-जम्ब्वाम्र-पनसादिकम् |
द्राक्षा-रम्भाफलम्पक्वङ्कर्कन्धूः खार्जुरम्फलम् ||
नारिकेलञ्च नारिङ्गमञ्जिरञ्जम्बिरन्तथा |
उर्वारुकञ्च देवेश फलान्येतानि गृह्यताम् || इति फलानि ||
अथ साचमनीयङ्करोद्वर्त्तनादिकम् ||
मुखपाणिविशुद्ध्यर्त्थम्पुनस्तोयन्ददामि ते |
गृहाण चन्दनञ्चारु कराङ्गोद्वर्त्तनं शुभम् ||
नानापरिमलद्रव्यैर्निर्म्मितञ्चूर्णमुत्तमम् |
सुगन्धिनामकम्पुण्यं गन्धि चारु प्रगृह्यताम् || इति करोद्वर्त्तनम् ||
अथ सिन्दूरम्
चारुशालूरसम्भूत/ व्वंशसारसमुद्भवम् |
सीमन्तभूषणञ्चूर्ण/ ल्लाक्षारञ्जितमस्तु ते || इति सिन्दूरम् ||
अथ ताम्बूलम्
सचन्द्रपूगचूर्णाढ्यङ्खाद्यखादिरस/ययुतम् |
एलालवङ्गसंमिश्रन्ताम्बूलङ्केसरान्वितम् | इति ताम्बूलम् ||
अथ द्रव्यम्
न्यूनातिरिक्तापूजायाः सम्पूर्णफलहेतवे |
दक्षिणाङ्काञ्चनीन्देव स्थापयामि तवाग्रतः || इति दक्षिणा ||
अथ माला
सितपीतैस्तथा रक्तैर्ज्जलजैः कुसुमैः शुभैः |
ग्रथितां सुन्दराम्मालाङ्गृहाण परमेश्वर || इति माला ||
अथ दूर्वाः
हरिताश्श्वेतवर्णा वा पञ्चत्रिपत्रस/ययुताः |
दूर्वाङ्कुरा मया दत्ता एकविंसतिसम्मिताः || इति दूर्वाः ||
अथ प्रदक्षिणा
एकविंशतिसङ्ख्याकाः कुर्यां देव प्रदक्षिणाः |
पदे पदे ते देवेश नश्यन्तु पातकानि मे || इति प्रदक्षिणा ||
अथारार्त्तिकम्
औदुम्बरे राजते वा कांस्ये काञ्चनसम्भवे |
प्. ५०९) पात्रे प्रकल्पितान्दीपान्गृहाण चक्षुरर्पकान् ||
पञ्चारार्त्तिम्पञ्चदीपर्द्दीपिताम्परमेश्वरः |
चारु चन्द्रनिभं दीपङ्गृहाण वीचिवारणम् ||
यथास्यनेक्ष्यते भस्म तथा पाप/ व्विनाशय | इत्यारार्त्तिकम् ||
इति पूजाविधिः
अथ गणेशस्तवराजः
ओं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि |
तन्नो दन्तिः प्रचोदयात् ||
ओंकारमाद्यम्प्रवहन्ति सन्तो वाचः श्रुतीनामपि यङ्गृणन्ति |
गजाननन्देवगणानताङ्घ्रिम्भजेऽहमर्द्धेन्दुकृतावतंसम् ||
पादारविन्दार्च्चनतत्पराणां संसारदावानलभङ्गदक्षम् |
निरन्तरन्निर्ग्गतदानतोयैस्तन्नौमि विघ्नेश्वरमम्बुदाभम् ||
कृताङ्गरागन्नवकुङ्कुमेन मत्तालिजालम्मदपङ्कलग्नम् |
निवारयन्तन्निजकर्णतालैः को विस्मरेत्पुत्रमनङ्गशत्रोः |
शम्भोर्ज्जटाजूटनिवासिगङ्गाजलं समानीय कराम्बुजेन |
लीलाभिराराच्छिवमर्च्चयन्तङ्गजाननम्भक्तियुता भजन्ति |
कुमारभुक्तौ पुनरात्महेतोः पयोधरौ पर्वतराजपुत्र्याः |
प्रक्षालयन्तङ्करशीकरेण मौग्ध्येन तन्नागमुखम्भजामि ||
तया समुद्धृत्य गजस्य हस्त/ यये शीकराः पुष्कररन्ध्रमुक्ताः |
व्योमाङ्गणे ते विचरन्ति ताराः कालात्मना मौक्तिकतुल्यभासः ||
क्रीडारते वारिनिधौ गजस्थे वेलामतिक्रामति वारिपूरे |
कल्पावसानम्परिचिन्त्य देवाः कैलासनाथं श्रुतिभिः स्तुवन्ति ||
नागानने नागकृतोत्तरीये क्रीडारते देवकुमारसङ्घैः |
त्वयि क्षणङ्कालगतिं व्विहाय तौ प्रापतुः कन्दुकतामिनेन्दू ||
मदोल्लसत्पञ्चमुखैरजस्रमध्यापयन्तं सकलागमार्त्थम् |
देवानृषीन्भक्तजनैकमित्त्रं हेरम्बमर्क्कारुणमाश्रयामि ||
पादाम्बुजाभ्यामति वामनाभ्याङ्कृतार्त्थयन्तङ्कृपया धरित्रीम् |
प्. ५१०) अकारणङ्कारणमाप्तवाचान्तन्नागवक्त्रन्न जहाति चेतः ||
येनार्पितं सत्यवतीसुताय पुराणमालिख्य विषाणकोट्या |
तञ्चन्द्रमौलेस्तनयन्तपोभिराराध्यमानन्दघनम्भजामि ||
पदं श्रुतीनाम पदं स्तुतीना/ ल्लीलावतारम्परमात्ममूर्त्तेः |
नागात्मक/ व्वा पुरुषात्मक/ व्वा त्वभेदमाद्यम्भज विघ्नराजम् ||
पाशाङ्कुशौ भग्नरदन्त्वभीष्टङ्करैर्द्दधानङ्कररन्ध्रमुक्तैः |
मुक्ताफलाभैः पृथुशीकरौघैः सिञ्चन्तमङ्गं शिवयोर्ब्भजामि ||
अनेकमेकङ्गजमेकदन्तञ्चैतन्यरूपञ्जगदादिबीजम् |
ब्रह्मेति य/ व्वेदविदो वदन्ति तं शंभुसूनुं सततम्भजामि ||
स्वाङ्कस्थिताया निजवल्लभाया मुखाम्बुजालोकनलोलनेत्रम् |
स्मेराननाब्जम्मदवैभवेन रुद्धम्भजे विश्वविमोहनन्तम् ||
ये पूर्वमाराध्य गजाननन्त्वां सर्वाणि शास्त्राणि पठन्ति तेषाम् |
त्वत्तो न चान्यत्प्रतिपाद्यमेतैस्तदस्ति चेत्सर्वमसत्यकल्पम् ||
हिरण्यवर्णाञ्जगदीशितारङ्कविम्पुराणं रविमण्डलस्थम् |
गजानन/ ययम्प्रविशन्ति सन्तस्तत्कालयोगैस्तमहम्प्रपद्ये ||
वेदान्तगीतम्पुरुषम्भजेऽहमात्मानमानन्दघनं हृदिस्थम् |
गजानन/ ययन्महसा जनाना/ व्विघ्नान्धकारो विलयम्प्रयाति ||
शम्भोस्समालोक्य जटाकलापे शशाङ्कखण्डन्निजपुष्करेण |
सुभग्नदन्तम्प्रविचिन्त्य मौग्ध्यादाक्रष्टुकामः श्रियमातनोतु ||
विघ्नार्गलाना/ व्विनिपातनार्त्थ/ ययन्नारिकेलैः कदलीफलाद्यैः |
प्रसारयन्तम्मदवारणास्यम्प्रभुं सदाभीष्टमहम्भजे यम् ||
यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यङ्गजराजवक्त्रम् |
स्तुत्याऽनया ये विधिवत्स्तुवन्ति ते सर्वलक्ष्मीनिलया भवन्ति ||
इति गणेशस्तवराजः समाप्तः ||
अथ कवचम्
ईश्वर उवाच
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरम्प्रिये |
प्. ५११) पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ||
अज्ञात्वा कवचन्देवि गणेशस्य मनुञ्जपेत् |
सिद्धिर्न्न जायते तस्य कल्पकोटिशतैरै ||
ओं आमोदश्च शिरः पातु प्रमोदश्च शोखोपरि |
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ||
गणक्रीडश्चक्षुर्युगन्नासायाङ्गणनायकः |
गणक्रीडाचितः पातु वदने सर्वसिद्धये ||
जिह्वायां सुमुखः पातु ग्रीवायान्दुर्मुखः सदा |
विघ्नेशो हृदये पातु विघ्ननाशश्च वक्षसि |
गणानान्नायकः पातु बाहुयुग्मे सदा मम |
विघ्नकर्त्ता च उदरे विघ्नहर्त्ता च लिङ्गके ||
गजवक्त्रः कटीदेशे एकदन्तो नितम्बके |
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ||
व्यालयज्ञोपवीती माम्पातु पादयुगे सदा |
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ||
हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः |
य इदम्प्रपठेन्नित्यङ्गणेशस्य महेश्वरि ||
कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् |
सर्वसिद्धिकरं साक्षात् सर्वपापविमोचनम् ||
सर्वसम्पत्प्रदं साक्षात्सर्वशत्रुक्षयङ्करम् |
ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ||
पठनाद्धारणादेव नाशमायान्ति तत्क्षणात् |
धनधान्यकरन्देवि कवचं सुरपूजितम् ||
समो नास्ति महेशानि त्रैलोक्ये कवचस्य च |
हारिद्रस्य महेशानि कवचस्य च भूतले ||
किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् |
इति विश्वसारतन्त्रे गणेशकवचं समाप्तम् ||
अथोपनिषत्
ओं लंस्वाहा नाववतु स्वाहा नौ भुनक्तु स्वाहा वीर्यं करवावहै |
तेजस्विनावधीतमस्तु मा विद्विषावहै |
ओं शान्तिः शान्तिः शान्तिः ||
ओं लंनमस्ते गणपतये | त्वमेव प्रत्यक्षं तत्त्वमसि ||
त्वमेव केवलं कर्त्तासि | त्वमेव केवलन्धर्त्तासि ||
त्वमेव केवलं हर्त्तासि |
प्. ५१२) त्वमेव सर्वं खल्विदम्ब्रह्मासि |
त्वं साक्षादात्मासि नित्यं ||
ऋतं वच्मि || सत्यं वच्मि || अव त्वं माम् || अव वक्तारम् || अव श्रोतारम् ||
अव दातारम् || अव धातारम् || अवानूचानमव शिष्यम् || अव पश्चात्तात् ||
अव पुरस्तात् ||
अवोत्तरात्तात् | अव दक्षिणात्तात् || अव चोर्द्ध्वात्तात् || अवाधरात्तात् ||
सर्वतो माम्पाहि पाहि समन्तात् || त्वं वाङ्मयस्त्वञ्चिन्मयः ||
त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं सच्चिदानन्दाद्वितीयोसि ||
त्वम्प्रत्यक्षम्ब्रह्मासि || त्वं ज्ञानमयो विज्ञानमयोऽसि ||
सर्वं जगदिदन्त्वत्तो जायते || सर्वं जगदिदं त्वत्तस्तिष्ठति || सर्वं
जगदिदन्त्वयि लयमेष्यति || त्वम्भूमिरापोऽनलोऽनिलो नभः || त्वं
चत्वारि वाक्पदानि || त्वङ्गुणत्रयातीतः ||
त्वन्देहत्रयातीतः || त्वङ्कालत्रयातीतः || त्वं मूलाधारस्थितोऽसि नित्यम्
||
त्वं शक्तित्रयात्मकः || त्वां योगिनो ध्यायन्ति नित्यम् || त्वं ब्रह्मा
त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं
चन्द्रमास्त्वं ब्रह्म भूभुवःस्वरोम् ||
गणादीन् पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ||
अनुस्वारः परतरः || अर्द्धेन्दुलसितन्तारेण रुद्धम् ||
एतत्तव मनुस्वरूपम् || गकारः पूर्वरूपम् ||
अकारो मध्यमरूपम् || अनुस्वारश्चान्त्यरूपम् ||
बिन्दुरुत्तररूपम् || नादः सन्धानम् || संहिता सन्धिः ||
सैषा गणेशविद्या || गणऋषिर्निचृद्गायत्री च्छन्दः ||
गणपतिर्देवता || ओं गंगणपतयेनमः ||
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि || तन्नो दन्तिः प्रचोदयात् ||
एकदन्तञ्चतुर्हस्तम्पाशमङ्कुशधारिणम् ||
रदं च वरदं हस्तैर्बिभ्राणम्मूषकध्वजम् ||
रक्तलम्बोदरं शूर्पकर्णकं रक्तवाससम् ||
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् |
भक्तानुकम्पिनन्देवञ्जगत्कारणमच्युतम् ||
आविर्भूतञ्च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् |
प्. ५१३) एवन्ध्यायति यो नित्यं स योगी योगिना/ व्वरः ||
ओं नमो व्रातपतये नमो गणपतये नमः प्रथमपतये नमस्तेऽस्तु
लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्त्तये नमः ||
एतदथर्वशीर्षं योऽधीते || स ब्रह्मभूयाय कल्पते || स सर्वविघ्नैर्न
बाध्यते || स सर्वतः सुखमेघते || स पञ्चमहापापात्प्रमुच्यते ||
सायमधीयानो दिवसकृतं पापन्नाशयति || प्रातरधीयानो रात्रिकृतं
पापं नाशयति || सायम्प्रातः प्रयुञ्जानो अपापो भवति ||
सर्वत्राधीयानोऽपविघ्नो भवति || धर्ममर्थं कामं मोक्षञ्च
विन्दति || इदमथर्वशीर्षमशिष्याय न देयम् || यो यदि मोहाद्दास्यति || स
पापीयान् भवति || सहस्रावर्त्तनाद्यं यं काममधीते || तन्तमनेन
साधयेत् || अनेन गणपतिमभिषिञ्चति | स वाग्मी भवति ||
चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति || इत्यथर्वणवाक्यम् ||
ब्रह्माद्याचरणं विद्यान्न बिभेति कदाचनेति || यो दूर्वाङ्कुरैर्यजति ||
स वैश्रवणोपमो भवति || यो लाजैर्यजति || स यशोवान् भवति || स
मेधावान् भवति || यो मोदकसहस्रेण यजति || स वाञ्छितफलमवाप्नोति
|| यः साज्यसमिद्भिर्यजति || स सर्वं लभते स सर्वं लभते || अष्टौ
ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति || सूर्यग्रहे
महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ||
महाविघ्नात्प्रमुच्यते || महादोषात्प्रमुच्यते ||
महाप्रत्यवायात्प्रमुच्यते || स सर्वविद्भवति स सर्वविद्भवति || य एवं
वेद || इत्युपनिषत् || सह नाववतु || सह नौ भुनक्तु || सह वीर्यं
करवावहै || तेजस्विनावधीतमस्तु मा विद्विषावहै || ओं शान्तिः शान्तिः
शान्तिः || इति गणपत्युपनिषत् ||
अथ शतनाम
ओं गणेश्वरो गणक्रीडो महागणपतिस्तथा ||
विश्वकर्त्ता विश्वमुखो दुर्ज्जयो धूर्ज्जयो जयः || १ ||
प्. ५१४) सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः |
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः || २ ||
चित्राङ्कः श्यामदशनो भालचन्द्रश्चतुर्ब्भुजः |
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः || ३ ||
कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः |
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भजः || ४ ||
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः |
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः || ५ ||
इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः |
अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः || ६ ||
कामिनीकामनः काममालिनीकेलिलालितः |
अमोघसिद्धिराधार आधाराधेयवर्जितः || ७ ||
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः |
कर्मसाक्षी कर्मकर्त्ता कर्माकर्मफलप्रदः || ८ ||
कमण्डलुधरः कल्पः कपर्द्दी कटिसूत्रभृत् |
कारुण्यदेहः कपिलो गुह्यागमनिरूपितः || ९ ||
गुहाशयो गुहाब्धिस्थो घटकुम्भो घटोदरः |
पूर्णानन्दः परानन्दो धनदो धरणीधरः || १० ||
बृहत्तमो ब्रह्मपुरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
भव्यो भूतालयो भोगदाता चैव महामनाः || ११ ||
वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः |
विश्वकर्त्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् || १२ ||
स्वतन्त्रस्सत्यसङ्कल्पस्तथा सौभाग्यवर्द्धनः |
कीर्त्तिदः शोकहारी च त्रिवर्गफलदायकः || १३ ||
चतुर्बाहुश्चतुर्द्दन्तश्चतुर्थीतिथिसम्भवः |
सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपात् || १४ ||
कामरूपः कामगतिर्द्द्विरदो द्वीपरक्षकः |
क्षेत्राधिपः क्षमाभर्त्ता लयस्थो लड्डुकप्रियः || १५ ||
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः |
भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः || १६ ||
इत्येवन्देवदेवस्य गणराजस्य धीमतः |
शतमष्टोत्तरन्नाम्नां सारभूतम्प्रकीर्त्तितम् || १७ ||
सहस्रनाम्नामाकृष्य मया प्रोक्तम्मनोहरम् |
प्. ५१५) ब्राह्मे मुहूर्त्ते चोत्थाय स्मृत्वा देवङ्गणेश्वरम् ||
पठेत्स्तोत्रमिदम्भक्त्या गणराजः प्रसीदति || १८ ||
इति श्रीगणेशस्याष्टोत्तरशतनामस्तोत्रं समाप्तम् ||
अथ सहस्रनाम
व्यास उवाच
कथन्नाम्नां सहस्रं स्वङ्गणेश उपदिष्टवान् |
शिवाय तन्ममाचक्ष्व लोकानुग्रहतत्पर || १ ||
ब्रह्मोवाच
देवदेवम्पुरारातिः पुरत्रयजयोद्यमे |
अनर्च्चनाद्गणेशस्य जातो विघ्नाकुलः किल || २ ||
मनसा स विनिर्द्धार्य ततस्तद्विघ्नकारणम् |
महागणपतिम्भक्त्या समभ्यर्च्च्य यथाविधि || ३ ||
विघ्नप्रशमनोपायमपृच्छदपराजितः |
सन्तुष्टः पूजया शम्भोर्म्महागणपतिः स्वयम् || ४ ||
सर्वविघ्नैकहरणं सर्वकामफलप्रदम् |
ततस्तस्मै स्वकन्नाम्नां सहस्रमिदमब्रवीत् || ५ ||
अस्य श्रीमहागणपतिसहस्रनाममालामन्त्रस्य गणेश ऋषिः
महागणपतिर्द्देवता नानाविधानि छन्दांसि गमिति बीनन्तुण्डमिति
शक्तिः स्वाहेति कीलकम् सकलविघ्ननाशनद्वारा महागणपतिप्रीत्यर्त्थे
जपे विनियोगः ||
महागणपतिरुवाच
ओं गणेश्वरो गणक्रीडो गणनाथो गणाधिपः |
एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः || ६ ||
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः |
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः || ७ ||
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः |
हेरम्बः शम्बरः शम्भुर्ल्लम्बकर्णो महाबलः || ८ ||
नन्दनो लम्पटो भीरुर्मेघनादो गणञ्जयः |
विनायको विरूपाक्षो धीरः शूरो वरप्रदः || ९ ||
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः |
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः || १० ||
कुमारगुरुरीशानपुत्रो मूषकवाहनः |
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः || ११ ||
अविघ्नस्तुम्बरुः सिंहवाहनो मोहिनीप्रियः |
प्. ५१६) कटङ्कटो राजपुत्रः शालकः सम्मितोऽमितः || १२ ||
कूष्माण्डसामसम्भूतिर्द्दुर्ज्जयो धूर्जयो जयः |
भूपतिर्ब्भुवनपतिर्ब्भूतानाम्पतिरव्ययः || १३ ||
विश्वकर्त्ता विश्वमुखो विश्वरूपो निधिर्ग्घृणिः |
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः || १४ ||
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः |
हिरण्मयपुरान्तस्थस्सूर्यमण्डलमध्यगः || १५ ||
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् |
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपालनः || १६ ||
किरीटी कुण्डली हारी वनमाली मनोमयः |
वैमुख्यहतदैत्यश्रीः पादाहतजितक्षितिः || १७ ||
सद्योजातः स्वर्णमुञ्जमेखली दुर्न्निमित्तहृत् |
दुस्स्वप्नहृत्प्रसहनो गुणिनादप्रतिष्ठितः || १८ ||
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः |
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः || १९ ||
चित्राङ्कः श्यामदशनो भालचन्द्रश्चतुर्ब्भुजः |
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः || २० ||
गणाधिराजो विजयः स्थिरो गजपतिर्द्ध्वजी |
देवदेवः स्मरप्राणो दीपको वायुकीलकः || २१ ||
विपश्चिद्वरदो नादो नादभिन्नबलाहकः |
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः || २२ ||
इच्छाशक्तिधरो देवत्राता दैत्यविमर्द्दनः |
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः || २३ ||
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः |
उमाङ्गमलजो गौरीतेजोभूः स्वर्द्धुनीभवः || २४ ||
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः |
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्द्धा ककुप्श्रुतिः || २५ ||
ब्रह्माण्डकुम्भश्चिद्व्योमभालः सत्यशिरोरुहः |
जगज्जन्मलयोन्मेषनिमिषोन्यर्क्कसोमदृक् || २६ ||
गिरिन्द्रैकरदो धर्मो धर्मिष्ठः सामबृंहितः |
ग्रहर्क्ष्क्षदशनो वाणीजिह्वो वासवनासिकः || २७ ||
भ्रूमध्ये संस्थितकरो ब्रह्मविद्या मदोत्कटः |
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः || २८ ||
प्. ५१७) नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः |
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः || २९ ||
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः |
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्द्दस्रजानुकः || ३० ||
पातालजंघो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः |
ज्योतिर्मण्डललांगूलो हृदयालातनिश्चलः || ३१ ||
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः |
सद्भक्तध्याननिगडः पूजावारिनिवारितः || ३२ ||
प्रतापी कश्यपसुतो गणपो विष्टपी बली |
यशस्वी धार्मिकः स्वोजाः प्रथमः प्रमथेश्वरः || ३३ ||
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः |
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः || ३४ ||
तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः |
नन्दानन्दितपीठश्रीभोगदाभूषितासनः || ३५ ||
सकामदायिनीपीठः स्फुरदुग्ग्रासनाश्रयः |
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः || ३६ ||
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः |
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः || ३७ ||
उन्नतप्रपदागूढगुल्फस/व्वृतपार्ष्णिकः |
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः || ३८ ||
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः |
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः || ३९ ||
भग्नचामरदस्तुङ्गसव्यदन्तो महाहनुः |
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः || ४० ||
स्तम्बकाकारकुम्भाग्रो रत्नमौलिर्न्निरंकुशः |
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् || ४१ ||
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः |
सर्पकक्ष्योदराबन्धः सर्पराजोत्तरीयकः || ४२ ||
रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः |
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः || ४३ ||
श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः |
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः || ४४ ||
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः |
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः || ४५ ||
प्. ५१८) सर्वमङ्गलमाङ्गल्यस्सर्वकारणकारणम् |
सर्वदैककरः शार्ङ्गी बीजपूरी गदाधरः || ४६ ||
इक्षुचापधरश्शूली चक्रपाणिस्सरोजभृत् |
पाशी धृतोत्पलश्शालीमञ्जरीभृत्स्वदन्तभृत् || ४७ ||
कल्पवल्लिधरो विश्वभयदैककरो वशी |
अक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः || ४८ ||
पूर्णपात्री कम्बुधरो विधृतालिसमूहकः |
मातुलिङ्गधरश्चूतकलिकाभृत्कुठारवान् || ४९ ||
पुष्करस्थस्वर्णघटी-पूर्णरत्नाभिवर्षकः |
भारतीसुन्दरीनाथो विनायकरतिप्रियः || ५० ||
महालक्ष्मीप्रियतमस्सिद्धलक्ष्मीमनोरमः |
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः || ५१ ||
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः |
आमोदमोदजननः सप्रमोदप्रमोदनः || ५२ ||
सामेधितासमृद्धिश्रीरृद्धिसिद्धिप्रवर्त्तकः |
दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः || ५३ ||
मदनावत्यश्रिताङ्घ्रिः कृतदौर्मुख्यदुर्मुखः |
विघ्नसम्पल्लवोपघ्नस्सेवोन्निद्रमद्द्रवः || ५४ ||
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः |
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् || ५५ ||
मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः |
कामिनीकान्तवक्त्रश्री-रधिष्ठितवसुन्धरः || ५६ ||
वसुन्धरामदोन्नद्धमहाशङ्खनिधिः प्रभुः |
नमद्वसुमती मौली महापद्मनिधिप्रभुः || ५७ ||
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः |
ईशानमूर्द्धा देवेन्द्रशिखः पवननन्दनः || ५८ ||
अग्रप्रत्यग्रनयनो दिव्यास्त्राणाम्प्रयोगवित् |
ऐरावतादिसर्वाशावारणावरणप्रियः || ५९ ||
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः |
जयाजयपरीवारो विजयाविजयावहः || ६० ||
अजिताजितपादाब्जो नित्यानित्यावतंसितः |
विलासिनीकृतोल्लासः शौण्डिसौन्दर्यमण्डितः || ६१ ||
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः |
इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-निषेवितः || ६२ ||
प्. ५१९) सुभगासंश्रितपदो लालिताललिताश्रयः |
कामिनीकामनः काममालिनीकेलिलालितः || ६३ ||
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः |
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः || ६४ ||
नलिनीकामुको वामारामो ज्येष्ठामनोरमः |
रौद्रीमुद्रितपादाब्जो हू/बीजस्तुङ्गशक्तिकः || ६५ ||
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः |
अमृताब्धिकृतावासो मदघूर्णितलोचनः || ६६ ||
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः |
सार्वकालिकसंसिद्धिर्नित्यशैवो दिगम्बरः || ६७ ||
अनपायोनन्तर्दृष्टिरप्रमेयोऽजरामरः |
अनाविलो प्रतिरथो ह्यच्युतोऽमृतमक्षरम् || ६८ ||
अप्रतर्क्योऽक्षयोऽजययोऽनाधारोऽनामयोऽमलः |
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः || ६९ ||
अनाकारो ऽधिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः |
आधारपीठ आधार आधाराधेयवर्ज्जितः || ७० ||
आखुकेतन आशापूरक आखुमहारथः |
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः || ७१ ||
इक्षुचापातिरेकश्री-रिक्षुचापनिषेवितः || ७२ ||
इन्द्रगोपसमानश्री-रिन्द्रनीलसमद्युतिः |
इन्दीवरदलश्याम इन्दुमण्डलनिर्म्मलः || ७३ ||
इध्मप्रिय इडाभाग इडाधामेन्दिराप्रियः |
इक्ष्वाकुविघ्नविध्वंशी इतिकर्त्तव्यतेप्सितः || ७४ ||
ईशानमौलिरीशान ईशानसुत ईतिहा |
ईषणात्रयकल्पान्त ईहामात्रविवर्ज्जितः || ७५ ||
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः |
उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणीः || ७६ ||
ऊर्ज्जस्वानूष्मलमद ऊहापोहदुरासदः |
ऋग्ययुःसामसंभूतिरृद्धिसिद्धिप्रवर्त्तकः || ७७ ||
ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः |
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् || ७८ ||
लुप्तश्रीर्विमुखार्च्चाना/ ल्लूताविस्फोटनाशनः |
एकारपीठमध्यस्थ एकपादकृतासनः || ७९ ||
एशिताखिलदैत्यश्रीरेजिताखिलसंश्रयः |
प्. ५२०) ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः || ८० ||
ऐरम्मदसमोन्मेष ऐरावतनिभाननः |
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः || ८१ ||
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिःस्वनः |
अङ्कुशस्सुरनागानामङ्कुशः सुरविद्विषाम् || ८२ ||
असमस्तविसर्गाणाम्पदेषु परिकीर्त्तितः |
कमण्डलुधरः कल्पः कपर्दी कलभाननः || ८३ ||
कर्मसाक्षी कर्मकर्त्ता कर्माकर्मफलप्रदः |
कदम्बगोलकाकारः कुष्माण्डगणनायकः || ८४ ||
कारुण्यदेवः कपिलः कथकः कटिसूत्रभृत् |
खर्वः खड्गप्रियः खड्गखातान्तस्थः खनिर्म्मलः || ८५ ||
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः |
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः || ८६ ||
गद्यगानप्रियो गर्ज्जो गीतगीर्वाणपूर्वजः |
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः || ८७ ||
गुह्याशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्ग्गुरुः |
घण्टाघर्ग्घरिकामाली घटकुम्भो घटोदरः || ८८ ||
चण्डश्चण्डेश्वरसुहृच्चण्डेशश्चण्डविक्रमः || ८९ ||
चराचरपतिश्चिन्तामणिश्चर्वणलालसः |
छन्दश्छन्दोवपुश्छन्दो दुर्ल्लक्ष्यछन्दविग्रहः || ९० ||
जगद्योनिर्ज्जगत्साक्षी जगदीशो जगन्मयः |
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः || ९१ ||
झलझ्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः |
टङ्कारस्फारसंराव-ष्टङ्कारिमणिनूपुरः || ९२ ||
ठद्वयीपल्लवान्तस्थः सर्वमन्त्रैकसिद्धिदः |
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः || ९३ ||
ढक्काअनिनादमुदितो ढौङ्को ढुण्ढिविनायकः || ९४ ||
तत्त्वानाम्प्रमन्तत्त्वन्तत्त्वम्पदनिरूपितः |
तारकान्तरसंस्थानस्तारकस्तारकान्तकः || ९५ ||
स्थाणुः स्थाणुप्रियः स्थाता स्थावरञ्जङ्गमञ्जगत् |
दक्षयज्ञप्रमथनो दाता दानवमोहनः || ९६ ||
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः |
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः || ९७ ||
दंष्ट्रालग्नद्विपघटो देवार्त्थनृगजाकृतिः |
प्. ५२१) धनधान्यपतिर्द्धन्यो धनदो धरणीधरः || ९८ ||
ध्यानैकप्रकटो ध्येयो ध्यानन्ध्यानपरायणः || ९९ ||
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः |
निष्कलो निर्म्मलो नित्यो नित्यानित्यो निरामयः || १०० ||
पर/ व्योम परन्धाम परमात्मा परम्पदम् |
परात्परः पशुपतिः पशुपाशविमोचकः || १०१ ||
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः |
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः || १०२ ||
प्रणामप्रत्ययातीतः प्रणतार्त्तिनिवारणः |
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः || १०३ ||
बाणार्च्चिताङ्घ्रियुगलो बालकेलिकुतूहली |
ब्रह्मब्रह्मार्च्चितपदो ब्रह्मचारी बृहस्पतिः || १०४ ||
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
बृहन्नादाग्रयचित्कारो ब्रह्माण्डवलिमेखलः || १०५ ||
भ्रूक्षेपदत्तलक्ष्मीको भर्ग्गो भद्रो भयापहः |
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः || १०६ ||
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः |
मन्त्री मन्त्रपतिर्मन्त्री मदमत्तमनोरमः || १०७ ||
मेखलावान्मन्दगतिर्मतिमत्कमलेक्षणः |
महाबलो महावीर्यो महाप्राणो महामनाः || १०८ ||
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः |
यशस्करो योगगम्यो याज्ञिको याजकप्रियः || १०९ ||
रसो रसप्रियो रस्यो रञ्जको रावणार्च्चितः |
रक्षोरक्षाकरो रत्नगर्ब्भो राज्यसुखप्रदः || ११० ||
लक्ष्यालक्षप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः |
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः || १११ ||
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः |
विकर्त्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः || ११२ ||
वामदेवो विश्वनेता वज्री वज्रनिवारणः |
विश्वबन्धनविष्कम्भाधारो विश्वेश्वरः प्रभुः || ११३ ||
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः |
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः || ११४ ||
प्. ५२२) षडृतुकुसुमस्रग्व षडाधारः षडक्षरः |
संसारवैद्यः सर्वज्ञस्सर्वमेषजमेषजम् || ११५ ||
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः |
सिन्दूरितमहाकुम्भस्सदसद्व्यक्तिदायकः || ११६ ||
साक्षीसमुद्रमथनः स्वस/व्वेद्यः स्वदक्षिणः |
स्वतन्त्रः सत्यसङ्कल्पस्सामगानरतस्सुखी || ११७ ||
हंसो हस्ति पिशाचीशो हवनं हव्यकव्यभुक् |
हव्यं हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः || ११८ ||
क्षेत्राधिपः क्षमाभर्त्ता क्षमापरपरायणः |
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः || ११९ ||
धर्मप्रदोर्त्थदः कामदाता सौभाग्यवर्द्धनः |
विद्याप्रदो विभवदो भुक्तिमुक्तिप्रदायकः || १२० ||
आभिरूप्यकरो वीरः श्रीपदो विजयप्रदः |
सर्ववश्यकरो गर्ब्भदोषहा पुत्रपौत्रदः || १२१ ||
मेधादः कीर्त्तिदः शोकहारी दौर्ब्भाग्यनाशनः |
श्रीशोकहारी दौर्ब्भाग्यनाशनस्सर्वशक्तिभृत् || १२२ ||
प्रतिवादिमुखस्तम्भो हृष्टचित्तप्रसादनः |
पराभिचारशमनो दुःखभञ्जनकारकः || १२३ ||
लवस्त्रुटिः कलाकाष्ठानिमेषस्तत्परः क्षणः |
घटीमुहूर्त्तः प्रहरो दिवानक्तमहर्निशम् || १२४ ||
पक्षो मासोऽयन/ व्वर्षं ययुगङ्कल्पो महालयः |
राशिस्तारा तिथिर्योगो वारः करणमंशकम् || १२५ ||
लग्नं होरा कालचक्रम्मेरुस्सप्तर्षयो ध्रुवः |
राहुर्म्मन्दः कविर्ज्जीवो बुधो भौमश्शशी रविः || १२६ ||
कालस्सृष्टिः स्थितिर्विश्वं स्थावरञ्जङ्गमञ्च यत् |
भूरापोग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् || १२७ ||
ब्रह्मा विष्णुश्शिवो रुद्र ईशश्शक्तिस्सदाशिवः |
त्रिदशाः पितरः सिद्धा यक्षरक्षांसि किन्नराः || १२८ ||
साध्या विद्याधरा भूता मनुष्याः पशवः खगाः |
समुद्रास्सरितश्शैला भूतभव्यम्भवोद्भवः || १२९ ||
साङ्ख्यम्पातञ्जल/ ययोगः पुराणानि श्रुतिः स्मृतिः |
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः || १३० ||
प्. ५२३) आयुर्वेदो धनुर्वेदो गान्धर्वङ्काव्यनाटकम् |
वैखानसं भागवतं सात्त्वतम्पाञ्चरात्रकम् || १३१ ||
शैवम्पाशुपतङ्कालमुखम्भैरवशासनम् |
शाक्त/ व्वैनायकं सौरञ्जैनमार्हतसंहिता || १३२ ||
सददद्व्यक्तमव्यक्तं सचेतनमचेतनम् |
बन्धो मोक्षः सुखम्भोगोऽयोगस्सत्यमणुर्महान् || १३३ ||
स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण्नमः |
ज्ञानविज्ञानमानन्दो बोधस्स/व्विच्छमो यमः || १३४ ||
एक एकाक्षराधार एकाक्षरपरायणः |
एकाग्रधीरेकवीर एकानेकस्वरूपधृक् || १३५ ||
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः |
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः || १३६ ||
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः |
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः || १३७ ||
चतुर्बाहुश्चतुर्द्दन्तश्चतुरात्मा चतुर्मुखः |
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः || १३८ ||
चतुर्विधवचोवृत्तिपरिवर्त्तप्रवर्त्तकः |
चतुर्त्थीपूजनप्रीतश्चतुर्त्थीतिथिसम्भवः || १३९ ||
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् |
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः || १४० ||
पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः |
पञ्चब्रह्ममयस्फूर्त्तिः पञ्चवारणवारितः || १४१ ||
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः |
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः || १४२ ||
षडध्वध्वान्तविध्वंसी षडङ्गुलमहाहृदः |
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः || १४३ ||
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः |
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः || १४४ ||
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः |
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः || १४५ ||
सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः |
सप्तच्छन्दोनिधिस्सप्तहोता सप्तस्वराश्रयः || १४६ ||
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः |
प्. ५२४) सप्तच्छन्दोमोदमदस्सप्तच्छन्दोमखप्रभुः || १४७ ||
अष्टमूर्त्तिर्द्ध्येयमूर्त्तिरष्टप्रकृतिकारणम् |
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः || १४८ ||
अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः |
अष्टपीठोपपीठश्री-रष्टमातृसमावृतः || १४९ ||
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्त्तिभृत् |
अष्टचक्रस्फुरन्मूर्त्तिरष्टद्रव्यहविः प्रियः || १५० ||
नवनागासनाध्यासी नवनिध्यनुशासिता |
नवद्वारपुराधारो नवद्वारनिकेतनः || १५१ ||
नवनारायणस्तुत्यो नवदुर्गानिषेवितः |
नवनाथमहानाथो नवनागविभूषणः || १५२ ||
नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः |
दशात्मको दशभुजो दशदिक्पतिवन्दितः || १५३ ||
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः |
दशाक्षरमहामन्त्रो दशाशाव्याधिविग्रहः || १५४ ||
एकादशादिभी रुद्रैःस्तुत एकादशाक्षरः |
द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः || १५५ ||
त्रयोदशभिदाभिन्नविश्वेदेवाधिदैवतम् |
चतुर्द्दशेन्द्रवरदश्चतुर्द्दशमनुप्रभुः || १५६ ||
चतुर्द्दशादिविद्याढ्यश्चतुर्द्दशजगत्प्रभुः |
सामपञ्चदशः पञ्चदशीशीतांशुनिर्म्मलः || १५७ ||
षोडशाधारनिलयः षोडशस्वरमातृकः |
षोडशान्तपदावासः षोडशेन्दुकलात्मकः || १५८ ||
कलासप्तदशीसप्तदशः सप्तदशाक्षरः |
अष्टादशद्वीपपतिरष्टादशपुराणकृत् || १५९ ||
अष्टादशौषधीसृष्टिरष्टादशविधिस्स्मृतः |
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः || १६० ||
एकविंशःपुमानेकविंशत्यङ्गुलिपल्लवः |
चतुर्विशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः || १६१ ||
सप्तविंशतितारेशः सप्तविंशतियोगकृत् |
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः || १६२ ||
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः |
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्ग्गलः || १६३ ||
पञ्चाशदक्षरश्रेणीः पञ्चाशद्रुद्रविग्रहः |
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः || १६४ ||
प्. ५२५) द्विपञ्चाशद्वपुश्श्रेणीस्त्रिषष्ट्यक्षरसंश्रयः |
चतुष्षष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः || १६५ ||
चतुःषष्टिमहासिद्धि-योगिनीवृन्दवन्दितः |
अष्टषष्टिमहातीर्त्थ-क्षेत्रभैरवभावनः || १६६ ||
चतुर्न्नवतिमन्त्रात्मा षण्णवत्यधिकः प्रभुः |
शतानन्दः शतधृतिश्शतपत्रायतेक्षणः || १६७ ||
शतानीकः शतमखश्शतधारवरायुधः |
सहस्रपत्रनिलयस्सहस्रफणभूषणः || १६८ ||
सहस्रशीर्षापुरुषः सहस्राक्षस्सहस्रपात् |
सहस्रनामसंस्तुत्त्यः सहस्राक्षबलापहः || १६९ ||
दशसाहस्रफणिभृत्फणिराजकृतासनः |
अष्टाशीतिसहस्रौघ-महर्षिस्तोत्रयन्त्रितः || १७० ||
लक्षाधीशप्रियाधारो लक्षाधीशमनोमयः |
चतुर्ल्लक्षजपप्रीतश्चतुर्ल्लक्षप्रकाशितः || १७१ ||
चतुराशीतिलक्षाणाञ्जीवानान्देहसंस्थितः |
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्म्मलः || १७२ ||
शिवाभवाध्युष्टकोटिविनायकधुरन्धरः |
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः || १७३ ||
त्रयस्त्रिंशत्कोटिसुर-श्रेणीप्रणतपादुकः |
अनन्तदेवतासेव्यो ह्यनन्तमुनिसंस्तुतः || १७४ ||
अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः |
इति वैनायकन्नाम्नां सहस्रमिदमीरितम् || १७५ ||
इदम्ब्राह्मे मुहूर्त्ते वै यः पठेत्प्रत्यहन्नरः |
करस्थन्तस्य सकलमैहिकामुष्मिकं सुखम् || १७६ ||
आयुरारोग्यमैश्वर्यन्धर्मः शौर्यम्बल/ ययशः |
मेधा प्रज्ञा धृतिः कान्तिस्सौभाग्यमतिरूपता || १७७ ||
सत्यन्दया क्षमा शान्तिर्द्दाक्षिण्यन्धर्मशीलता |
जगत्स/ययमन/ विश्वस/व्वादो वादपाटवम् || १७८ ||
सभापाण्डित्यमौदार्यङ्गाम्भीर्यम्ब्रह्मवर्च्चसम् |
औन्नत्यञ्च कुलं शीलम्प्रतापो वीर्यमार्यता || १७९ ||
ज्ञान/ व्विज्ञानमास्तिक्यन्धैर्य व्विश्वातिशायिता |
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् || १८० ||
वश्यञ्चतुर्विधन्नृणाञ्जपादस्य प्रजायते |
प्. ५२६) राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः || १८१ ||
जप्यते यस्य वश्यार्त्थे स दासस्तस्य जायते |
धर्मार्त्थकाममोक्षाणामनायासेन साधनम् || १८२ ||
शाकिनी-डाकिनी-रक्षोयक्षो-रोगभयापहम् |
साम्राज्यसुखदञ्चैव समस्तरिपुमर्द्दनम् || १८३ ||
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् |
दुःस्वप्नशमनङ्क्रुद्धस्वामिचित्तप्रसादनम् || १८४ ||
षट्कर्माष्टमहासिद्धि त्रिकालज्ञानसाधनम् |
परकृत्योपशमनम्परचक्रविमर्द्दनम् || १८५ ||
सङ्ग्रामरङ्गे सर्वेषामिदमेकञ्जयावहम् |
सर्ववन्ध्यात्वदोषघ्नङ्गर्ब्भरक्षैककारणम् || १८६ ||
पठ्यते प्रत्यह/ ययत्र स्तोत्रङ्गणपतेरिदम् |
देशे तत्र न दुर्ब्भिक्षमीतयो दुरितानि च || १८७ ||
न तद्गेहञ्जहाति श्रीर्यत्रायञ्जप्यते स्तवः |
क्षय-कुष्ठ-प्रमेहार्श्शो-भगन्दरविषूचिकाः || १८८ ||
गुल्मम्प्लीहानमाध्मानमतिसारम्महोदरम् |
कासं श्वासमुदावर्त्तं शूलं शोकादिसम्भवम् || १८९ ||
शिरोरोग/ व्वमिं हिक्काङ्गण्डमालामरोचकम् |
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् || १९० ||
आगन्तुविषमं शीतमुष्णञ्चैकाहिकादिकम् |
इत्याद्युक्तमनुक्त/ व्वा रोगन्दोषादिसम्भवम् || १९१ ||
सर्वम्प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपात् |
सकृत्पाठेन संसिद्धिः स्त्री-शूद्र-पतितैरपि || १९२ ||
सहस्रनाममन्त्रोऽयञ्जप्तव्यस्तु शुभाप्तये |
महागणपतेस्स्तोत्रं सकामः प्रजपन्निदम् || १९३ ||
इच्छया सकलान्भोगानुपभुज्येह पार्त्थिवान् |
मनोरथफलैर्द्दिव्यैर्व्योमयानैर्मनोरमैः || १९४ ||
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मरुद्रादिसद्मसु |
कामरूपः कामगतिः कामतो विचरन्निह || १९५ ||
भुक्त्वा यथेप्सितान्भोगानभीष्टैस्सह बन्धुभिः |
गणेशानुचरो भूत्वा महागणपतेः प्रियः || १९६ ||
नन्दीश्वरादिसानन्दी नन्दितः सकलैर्गणैः |
शिवाभ्याङ्कृपया पुत्रनिर्विशेषञ्च लालितः || १९७ ||
प्. ५२७) शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः |
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते || १९८ ||
निष्कामस्तु जपन्नित्यम्भक्त्या विघ्नेशतत्परः |
योगसिद्धिम्पराम्प्राप्य ज्ञानवैराग्यसंस्थितः || १९९ ||
निरन्तरोदितानन्दे परमानन्दस/व्विदि |
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते || २०० ||
लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः |
यो नामभिर्हुनेदेतैरर्च्चयेत्पूजयेन्नरः || २०१ ||
राजानो वश्यता/ ययान्ति रिपवो यान्ति दासताम् |
मन्त्राः सिद्ध्यन्ति सर्वेपि सुलभास्तस्य सिद्धयः || २०२ ||
मूलमन्त्रादपि स्तोत्रमिदम्प्रियतरम्मम |
नभस्ये मासि शुक्लायाञ्चतुर्त्थ्याम्मम जन्मनि || २०३ ||
दूर्वाभिर्न्नामभिः पूजान्तर्पण/ व्विधिवच्चरेत् |
अष्ष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिस/ययुतः || २०४ ||
तस्येप्सितानि सर्वाणि सिद्ध्यन्त्यत्र न संशयः |
इदम्प्रजप्तम्पठितम्पाठितं श्रावितं श्रुतम् || २०५ ||
व्याकृतञ्चर्च्चितन्ध्यात/ व्विमृष्टमभिनन्दितम् |
इहामुत्र च सर्वेषा/ व्विश्वैश्वर्यप्रदायकम् || २०६ ||
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः |
संरक्ष्यते शिवोद्भूतैर्गणैरघ्युष्टकोटिभिः || २०७ ||
पुस्तके लिखितं स्तोत्रम्मन्त्रभूतम्प्रपूजयेत् |
तत्र सर्वोत्तमा लक्षीः सन्निधत्ते निरन्तरम् || २०८ ||
दानैरशेषैरखिलैर्व्रतैश्च तीर्त्थैरशेषैस्सकलैर्म्मखैश्च |
न तत्फल/ व्विन्दति यद्गणेशसहस्रनाम्नः स्मरणेन सद्यः || २०९ ||
एतन्नाम्नां सहस्रम्पठति दिनमणौ प्रत्यहम्प्रोज्जिहाने
सायम्मध्यन्दिने वा त्रिषवणमथवा सन्तत/ व्वा जनो यः ||
स स्यादैश्वर्यधुर्यः प्रभवति वचसाङ्कीर्तिमुच्चैस्तनोति प्रत्यूहं
हन्ति विश्व/ व्वशयति सुचिर/ व्वर्द्धते पुत्रपौत्रैः || २१० ||
अकिञ्चनोऽप्येकचित्तो नियतो नियताशनः |
जपेत्तु चतुरो मासान्गणेशार्च्चनतत्परः || २११ ||
प्. ५२८) दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि |
लभते महतीं ल्लक्ष्मीमित्याज्ञा पारमेश्वरी || २१२ ||
आयुष्य/ व्वीतरोगङ्कुलमतिविमलं सम्पदश्चार्त्तदानाः
कीर्त्तिर्न्नित्यावदाता मणितिरभिनवा कान्तिरव्याजभव्या ||
पुत्रास्सन्तः कलत्रङ्गुणवदभिमत/ ययद्यदेतच्च सत्यन्नित्य/ ययः
स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तम् || २१३ ||
ओं गणञ्जयो गणपतिर्हेरम्बो धरणीधरः |
महागणपतिर्ल्लक्षप्रदः क्षिप्रप्रसादनः || २१४ ||
अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्न्निधिः |
सुमङ्गलो बीजमाशापूरको वरदः शिवः || २१५ ||
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः |
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् || २१६ ||
यः स्तौति मद्गतमना ममाराधनतत्परः |
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः || २१७ ||
नमो नमस्सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने |
नमो नमो विपुलकरैकसिद्धये नमो नमः करिकलमाननाय ते || २१८ ||
किङ्किणीगणरणितस्तव चरणः प्रकटितगुरुमितिचारित्रगणः |
मदजललहरिकलितकपोलः शमयतु दुरितङ्गणपतिनृपनामा || २१९ ||
इति श्रीगणेशसहस्रनामस्तोत्रं सम्पूर्णम् ||
इति गणेशतन्त्रम् समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बाहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
षोडशम्
सूर्यतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
अथ सूर्यतन्त्रम्
अथ श्रीसूर्यध्यानम्
भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचारञ्जितश्चारुकेशो
भास्वान्यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः |
विश्वाकाशावकाशो ग्रहगहणसहितो भाति यश्चोदयाद्रौ
सर्वानन्दप्रदाता हरिहरनमितः पातु मा/ व्विश्वचक्षुः || १ ||
अथ यन्त्रोद्धारः
पूर्वमष्टदलम्पद्मम्प्रणवादिप्रतिष्ठितम् |
मायाबीजन्दलाष्टाग्रे यन्त्रमुद्धारयेदिति ||
आदित्यम्भास्करम्भानुं रविं सूर्यन्दिवाकरम् |
मार्त्तण्डन्तपनञ्चेति दलेष्वष्टसु योजयेत् ||
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा |
प्. ५३२) अमोघा विद्युता चेति मध्ये श्रीः सर्वतोमुखी ||
अथ मन्त्रोद्धारः
तारो घृणिर्ब्भृगुः पश्चाद्वामकर्णविभूषितः |
वह्न्यासनो मरुच्छेषः सनेत्रोदित्यपश्चिमः ||
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतः परः ||
अथ मन्त्रः
ओं घृणि सूर्य आदित्यः |
अथ पूजाविधिः
प्रातःकृत्यादि प्राणायामान्त/ व्विधाय पीठन्यासङ्कुर्यात् | तत्र
विशेषः || हृदयस्य पूर्वादिदिक्षु मध्ये च प्रभूत/ व्विमल/ सारं
प्. ५३३) समाराध्यम्परसुख/ व्विन्यस्याधारशक्त्यादि
अंसूर्यमण्डलाय दशकलात्मनेनमः इत्यन्त/ व्विन्यसेत् || तथा च
निबन्धे || पीठे च कॢप्ते प्रथमन्दिक्षु मध्ये च स/ययजेत् || प्रभूत/
व्विमल/ सारं समाराध्यमनन्तरम् || परमादिसुखम्पीठं
स्वबिम्बान्तम्प्रकल्पयेत् || ततः केसरेषु मध्ये च || रांदीप्तायैनमः ||
एवं रींसूक्ष्मायै०, रूंजयायै०, रैंभद्रायै०, वैंविभूत्यै०,
वोंविमलायै०, वौं-अमोघायै०, रंविद्युतायै०, रः सर्वतोमुख्यै० ||
तथा च निबन्धे || दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला पुनः ||
अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ||
दीप्तदीपशिखाकाराबीजान्यासा/ व्विदुः क्रमात् ||
अक्लीबह्रस्वत्रितयस्वरान् बिन्द्वग्निस/ययुतान् || ओं तदुपरि
ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठाय नमः || तथा च
शारदायाम् || वदेत्पदञ्चतुर्त्थ्यन्तम्ब्रह्मविष्णुशिवात्मकम् || सौराय
योगपीठाय नमः पदमनन्तरम् || पिठमन्त्रोऽयमाख्यातो दिनेशस्य
जगत्पतेः || ततः ऋष्यादिन्यासः || शिरसि देवभागऋषयेनमः || मुखे
गायत्रीछन्दसेनमः || हृदि आदित्याय देवतायैनमः || तथा च निबन्धे ||
देवभागो मुनिः प्रोक्तो गायत्रीछन्द ईरितम् || आदित्यो देवता प्रोक्ता
दृष्टादृष्टफलप्रदा || ततः कराङ्गन्यासौ || सत्याय तेजोज्वालामणे
हुंफट्स्वाहा अङ्गुष्ठाभ्यान्नमः || एवं ब्रह्मणे तेजोज्वालामणे०
१० तर्ज्जनीभ्यां स्वाहा | विष्णवे ते० १० मध्यमाभ्यां व्वषट् ||
रुद्राय ते० १० अनामिकाभ्या/ हुम् || अग्नये ते० १० कनिष्ठाभ्या/ व्वौषट् ||
सर्वाय ते० १० करतलकरपृष्ठाभ्यां फट् || एवं हृदयादिषु || तथा
च शारदायाम् || सत्याय हृदयम्प्रोक्तम्ब्रह्मणे शिर ईरितम् || विष्णवे
स्याच्छिखा वर्म रुद्राय परिकीर्त्तितम् || अग्नये नेत्रमाख्यातं
सर्वायास्त्रमुदाहृतम् || तेजोज्वालामणे हूं फट् द्विठान्ताः
परिकीर्त्तिताः ||
प्. ५३४) ततो मूर्त्तिन्यासः | यथा || ओंशिरसि आदित्यायनमः || एवं मुखे
ए/रवये०, हृदये उ/भानवे०, गुह्ये इ/भास्कराय०, चरणयोः अ/सूर्याय० ||
तथा च निबन्धे || आदित्य/ व्विन्यसेन्मूर्ध्नि रविम्मुखगतन्न्यसेत् ||
हृदयं भानुनामानम्भास्करङ्गुह्यदेशतः ||
सूर्यञ्चरणयोर्न्न्यस्य वर्णैः सत्यादिपञ्चभिः || ततो न्यासः || शिरसि
ओंनमः, आस्ये ओं घृनमः, कण्ठे ओंणिनमः, हृदि ओंसूनमः, कुक्षौ
ओंर्ययनमः, नाभौ ओंआनमः, लिङ्गे ओं दिनमः, पादयोः ओंत्यनमः ||
तथा च ओं मूर्द्धाऽऽस्यकण्ठ-हृदय-कुक्षि-नाभि-ध्वजाङ्घ्रिषु ||
मन्त्रवर्णान्न्यसेदष्टौ प्रत्येकम्प्रणवादिकम् || ततो ध्यानम्
रक्ताब्जयुग्माभयदानहस्तङ्केयूरहाराङ्गदकुण्डलाढ्यम् ||
माणिक्यमौलिन्दिननाथमीडे बन्धूककान्तिं विलसत्त्रिनेत्रम् ||
एवन्ध्यात्वा मानसैः सम्पूज्य कुम्भस्थापनङ्कुर्यात् || ततो
गुरुपङ्क्तिपूजाङ्कृत्वा पीठपूजाङ्कुर्यात् || ओंखंखखोल्कायनमः
इतिमन्त्रेण मूर्त्तिं सङ्कल्प्य
पुनर्द्ध्यात्वाऽऽवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्त/
व्विधायाऽऽवरणपूजामारभेत् || तथा च निबन्धे ||
तारादिखंखखोल्काय मनुना मूर्तिकल्पना || साक्षिणं
सर्वलोकानान्तस्यामावाह्य पूजयेत् || केसरेष्वग्न्यादिकोणे मध्ये दिक्षु
च सत्याय तेजोज्वालामणि हू/फट् स्वाहा हृदयायनमः एवं
ब्रह्मणे० १० शिरसेस्वाहा || विष्णवे० १० शिखायैवषट् || रुद्राय० १०
कवचायहुम् | अग्नये० १० नेत्रत्रयायवौषट् || सर्वाय० १० अस्त्रायफट् || दिक्
षत्रेषु पूर्वादि ओं आदित्यायनमः एवं ए/रवये० उ/भानवे
ईंभास्कराय० विदिक्पत्रेषु अग्न्यादि ऊ/उषायै० एवं प्रं प्रज्ञायै०,
पम्प्रभायै०, स/सन्ध्यायै० || तथा च || अङ्गानि पूजयेदादौ दिक्पत्रे
सूर्यमूर्त्तयः || आदित्याद्याश्चतस्रोऽर्च्च्याः शक्तयः कोणपत्रगाः ||
प्. ५३५) स्वस्वनामादिवर्णाः स्युस्तासाम्बीजान्यनुक्रमात् || उषा-प्रज्ञा-
प्रभा-सन्ध्याः शक्तयः परिकीर्त्तिताः || ततः पत्रेषु ब्राह्म्याद्याः
पुरतोऽरुणमर्च्चयेत् || तथा च शारदायाम् || पत्राग्रसंस्था
ब्राह्म्याद्याः पुरतोऽरुणमर्च्चयेदिति || तद्बाह्ये
पूर्वादिचन्द्रादीन्पूजयेत् || ओं चन्द्रायनमः, ओं मङ्गलायनमः, एवं
बुधाय०, बृहस्पतये०, शुक्राय०, शनैश्चराय०, राहवे०, केतवेनमः ||
तथा च शारदायाम् || चन्द्रादीन्वज्रादींश्च सम्पूज्य
धूपादिविसर्ज्जनान्तङ्कर्म समापयेत् || अस्य
पुरश्चरणमष्टलक्षजपः || तथा च || वसुलक्षञ्जपेन्मन्त्रमाज्येन च
दशांशतः || तिलैर्वा मधुरासिक्तैर्ज्जुहुयाद्विजितेन्द्रियः || इति पूजा ||
अथ स्तोत्रम्
वसिष्ठ उवाच
स्तुवंस्तत्र ततः साम्बः कृशोधर्मनिसन्ततः |
राजन्नाम सहस्रेण सहस्रांशुन्दिवाकरम् ||
विद्यमानन्तु तन्दृष्ट्वा सूर्यः कृष्णात्मजन्तदा |
स्वप्ने तु दर्शनन्दत्त्वा पुनव्वचनमब्रवीत् ||
श्रीसूर्य उवाच
साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत |
अलन्नाम सहस्रेण पठस्वेमं स्तवं शुभम् ||
यानि नामानि गुह्यानि पवित्राणि शुभानि च |
तानि ते कीर्त्तयिष्यामि श्रुत्वा वत्सावधारय ||
विकर्त्तनो विवस्वांश्च मार्त्तण्डो भास्करो रविः |
लोकप्रकाशकः श्रीमा/ल्लोकचक्षुर्ग्ग्रहेश्वरः ||
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा |
तपनस्तापसश्चैव शुचिः सप्ताश्ववाहनः ||
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः |
एकविंशतिरित्येष स्तव इष्टः सदा मम ||
श्रीरारोग्यकरश्चैव धनवृद्धियशस्करः |
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ||
य एतेन महाबाहो द्वे सन्ध्ये स्तवनोदये |
स्तौति मां प्रणटो भूत्वा सर्वपापैः प्रमुच्यते ||
कायिक/ व्वाचिकञ्चैव मानस/ ययच्च दुष्कृतम् |
प्. ५३६) एष जाप्येन तत्सर्वम्प्रणश्यति न संशयः ||
एष जप्यश्च होमश्च सन्ध्योपासनमेव च |
बलिमन्त्रोऽर्ग्घ्यमन्त्रश्च धूपमन्त्रस्तथैव च ||
अन्नप्रदाने स्नाने च प्रणिपाते प्रदक्षिणे |
पूजितोयम्महामन्त्रः सर्वपापहरः शुभः ||
एवमुक्त्वा तु भगवान् भास्करो जगदीश्वरः |
आमन्त्र्य कृष्णतनयन्तत्रैवान्तरधीयत ||
साम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् |
पूतात्मा नीरुजः श्रीमांस्तस्माद्रोगाद्विमुक्तवान् ||
इति साम्बपुराणे सूर्यस्तवः सम्पूर्णः ||
अथ कवचम्
श्रीसूर्य उवाच
साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् |
त्रैलोक्यमङ्गलन्नाम कवचम्परमाद्भुतम् ||
यज्ज्ञात्वा मन्त्रवित्सम्यक्फलमाप्नोति निश्चितम् |
यद्धृत्वा च महादेवो गणानामधिपोऽभवत् ||
पठनाद्धारणाद्विष्णुः सर्वेषाम्पालकः सदा |
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ||
कवचस्य ऋषिर्ब्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् |
श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ||
आरोग्ययशोमोक्षेषु विनियोगः प्रकीर्त्तितः |
प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ||
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् |
अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ||
ह्रींबीजम्मे मुखम्पातु हृदयम्भुवनेश्वरी |
चन्द्रबीज/ व्विसर्गाढ्यम्पातु मे गुह्यदेशकम् ||
अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः |
शिवोवह्निसमायुक्तो वामाक्षिविन्दुभूषितः ||
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्त्तितः |
गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ||
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः |
इति ते कथितन्दिव्यन्त्रिषु लोकेषु दुर्ल्लभम् ||
श्रीप्रदङ्कान्तिदन्नित्यन्धनारोग्यविवर्द्धनम् |
कुष्ठाधिरोगशमनम्महाव्याधिविनाशनम् ||
त्रिसन्ध्य/ ययः पठेन्नित्यमरोगी बलवान्भवेत् |
बहुना किमिहोक्तेन यद्यन्मनसि वर्त्तते ||
प्. ५३७) तत्तत्सर्वम्भवत्येव कवचस्य च धारणात् |
भूतप्रेत-पिशाचाश्च यक्ष-गन्धर्व-राक्षसाः ||
ब्रह्म-राक्षस-वेताला नैव द्रष्टुमपि क्षमाः |
दूरादेव पलायन्ते तस्य सङ्कीर्त्तनादपि ||
भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः |
रविवारे च सङ्क्रान्त्यां सप्तम्याञ्च विशेषतः ||
धारयेत्साधकश्रेष्ठस्त्रैलोक्यविजयी भवेत् |
त्रिलोहमध्यगङ्कृत्वा धारयेद्दक्षिणे भुजे ||
शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः |
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् ||
कवचन्दुर्ल्लभ/ ल्लोके तव स्नेहात्प्रकाशितम् |
अज्ञात्वा कवचन्दिव्य/ ययो जपेत्सूर्यमुत्तमम् ||
सिद्धिर्न्न जायते तस्य कल्पकोटिशतैरपि || १८ ||
इति ब्रह्मयामले त्रैलोक्यमङ्गलं नाम श्रीसूर्यकवचं सम्पूर्णम् ||
अथ हृदयम्
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् |
रावणञ्चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || १ ||
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा || २ ||
राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन्वत्स समरे विजयिष्यसे || ३ ||
आदित्यहृदयम्पुण्यं सर्वशत्रुविनाशनम् |
जयावहञ्जपन्नित्यमक्षयम्परमं शिवम् || ४ ||
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् |
चिन्ताशोकप्रशमनमायुर्वर्द्धनमुत्तमम् || ५ ||
रश्मिमन्तं समुद्यन्तन्देवासुरनमस्कृतम् |
पूजयस्व विवस्वन्तम्भास्करम्भुवनेश्वरम् || ६ ||
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुरगणा/ल्लोकान् पाति गभस्तिभिः || ७ ||
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः || ८ ||
पितरो वसवः साध्या अश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाः प्राण ऋतुकर्त्ता प्रभाकरः || ९ ||
प्. ५३८) आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || १० ||
हरिदश्वः सहस्रार्च्चिः सप्तसप्तिर्मरीचिमान् |
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्त्तण्डकोंऽशुमान् || ११ ||
हिरण्यगर्ब्भः शिशिरस्तपनोऽहस्करो रविः |
अग्निगर्ब्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || १२ ||
व्योमनाथस्तमोमेदी ऋग्यजुस्सामपारगः |
धनवृष्टिरपाम्मित्रो विन्ध्यवीथी प्लवङ्गमः || १३ ||
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || १४ ||
नक्षत्रग्रहताराणामधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते || १५ ||
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानाम्पतये दिनाधिपतये नमः || १६ ||
जयाय जय भद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || १७ ||
नम उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते || १८ ||
ब्रह्मेशानाच्युतेशाय सूरायाऽऽदित्यवर्च्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९ ||
नमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषाम्पतये नमः || २० ||
तप्तचामीकराभाय हरये विश्वकर्मणे |
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे || २१ ||
नाशयत्येष वै भूतन्तमेव सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२ ||
एष सुप्तेषु जागर्त्ति भूतेषु परिनिष्ठितः |
एष चैवाग्निहोत्रञ्च फलञ्चैवाग्निहोत्रिणाम् || २३ ||
देवाश्च क्रतवश्चैव क्रतूनाम्फलमेव च |
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः || २४ ||
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्त्तयन्पुरुषः कश्चिन्नावसीदति राघव || २५ ||
पूजयस्वैनमेकाग्रो देवदेवञ्जगत्पतिम् |
प्. ५३९) एतत्त्रिगुणितञ्जप्त्वा युद्धेषु विजयिष्यसे || २६ ||
अस्मिन्क्षणे महाबाहो रावणन्त्वञ्जयिष्यसि |
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् || २७ ||
एवं तच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् || २८ ||
आदित्य/ व्वीक्ष्य जप्त्वेदम्परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्ब्भूत्वा धनुरादाय वीर्यवान् || २९ ||
रावणम्प्रेक्ष्य हृष्टात्मा जयार्त्थं समुपागतम् |
सर्वयत्नेन महताबृतस्तस्य वधेऽभवत् || ३० ||
अथ रविरवदन्निरीक्ष्य रामम्मुदितमनाः परमम्प्रहृष्यमाणः |
निशिचरपतिसङ्क्षय/ विदित्वा सुरगणमध्यगतो वचस्त्वरेति || ३१ ||
इति वाल्मीकीये श्रीमद्रामायणे आदित्यहृदयस्तोत्रं सम्पूर्णम् ||
अथ सूक्तम्
व्विभ्राड् बृहत्पिबतु सोम्यं मद्ध्वायुर्द्दधद्यज्ञपतावविह्रुतम् |
वातजूतो यो .आभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति || १ ||
उदु त्यञ्जातवेदसन्देव/ व्वहन्ति केतवः |
दृशे विश्वाय सूर्यम् || २ ||
येना पावक चक्षसा भुरण्यन्तञ्जना/ २ .आनु |
त्व/ व्वरुण पश्यसि || ३ ||
दैव्यावद्ध्वर्यू .आअगतं रथेन सूर्यत्वचा |
मद्ध्वा यज्ञं समञ्जाथे || ४ ||
तम्प्रत्त्नथा पूर्वथा विश्श्वथेमथा ज्ज्येष्ठतातिम्बर्हिषद/ स्वर्विदम्
|
प्रतीचीन/ व्वृजनन्दोहसे धुनिमाशुञ्जयन्तमनु यासु वर्द्धसे || ५ ||
अय/ व्वेनश्च्चोदयत्पृश्न्निगर्ब्भा ज्योतिर्ज्जरायू रजसो विमाने |
इममपा/ सङ्गमे सूर्यस्य शिशुन्न विप्रा मतिभी रिहन्ति || ६ ||
चित्रन्देवानामुदगादनीकञ्चक्षुर्मित्रस्य वरुणस्याग्नेः |
आप्रा द्यावा पृथिवी .आन्तरिक्षं सूर्य .आअत्मा जगतस्तस्थुषश्च || ७ ||
आ न ऽ-इडाभिर्विदथे सुशस्ति व्विश्वानरः सविता देव ऽ-एतु |
प्. ५४०) अपि यथा युवानो मत्सथा नो विश्वञ्जगदभिपित्त्वे मनीषा || ८ ||
यदद्य कच्च वृत्रहन्नुदगा .आभि सूर्य ||
सर्वन्तदिन्द्र ते व्वशे || ९ || तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ||
विश्वमाभासि रोचनम् || १० ||
तत्सूर्यस्य देवत्त्वन्तन्महित्वम्मद्ध्या कर्त्तोर्विततं सञ्जभार ||
यदेदयुक्त हरितः सधस्थादाद्रात्री व्वासस्तनुते सिमस्मै || ११ ||
तन्मित्रस्य व्वरुणस्याभिचक्षे सूर्यो रूपङ्कृणुते द्योरुपस्थे |
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सम्भरन्ति || १२ ||
बण्महा/ २ || ऽ असि सूर्य बडादित्य महा/ २ || ऽ असि || महस्ते सतो महिमा
पनस्यते ऽद्धा देव महा/ २ || ऽ असि || १३ || बट्सूर्य श्रवसा महा/ २ || ऽ
असि सत्रा देव महा/२ || ऽ असि || मह्ना देवानामसुर्यः पुरोहितो व्विभु
ज्योतिरदाभ्यम् || १४ ||
श्रायन्त इव सूर्य/ विश्वेदिन्द्रस्य भक्षत ||
व्वसूनि जाते जनमान ऽ-ओजसा प्प्रति भागन्न दीघिम || १५ ||
अद्या देवा ऽ-उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ||
तन्नो मित्रो व्वरुणो मामहन्तामदितिः सिन्धुः पृथिवी ऽ-उत द्यौः || १६ ||
आ कृष्णेन रजसा व्वर्त्तमानो निवेशयन्नमृतम्मर्त्त्यञ्च |
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् || १७ ||
इति सूक्तम् ||
अथ शतनाम
धौम्य उवाच
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः |
गभस्तिमानजः कालो मृत्युर्द्धाता प्रभाकरः || १ ||
पृथिव्यापश्च तेजश्च ख/ व्वायुश्च परायणम् |
सोमो बृहस्पतिः शुक्रो बुधोङ्गारक एव च || २ ||
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः |
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणो यमः || ३ ||
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसाम्पतिः |
धर्मध्वजो वेदकर्त्ता वेदाङ्गो वेदवाहनः || ४ ||
प्. ५४१) कृतन्त्रेता द्वापरश्च कलिः सर्वमलाश्रयः |
कला काष्ठा मुहूर्त्तश्च क्षपा यामस्तथा क्षणः || ५ ||
स/व्वत्सरकरोश्वत्थः कालचक्रो विभावसुः |
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः || ६ ||
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः |
वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा || ७ ||
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः |
स्रष्टा स/र्वत्तको वह्निः सर्वस्यादिरलोलुपः || ८ ||
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः |
जयो विशालो वरदः सर्वधातुनिषेवितः || ९ ||
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः |
धन्वन्तरिर्द्धूम्रकेतुरादिदेवोऽदितेः सुतः || १० ||
द्वादशात्माऽरविन्दाक्षः पितामातापितामहः |
प्रजाद्वारं सर्गद्वारम्मोक्षद्वारन्त्रिविष्टपम् || ११ ||
दाहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः |
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः || १२ ||
एतद्वै कीर्त्तनीयस्य सूर्यस्यामिततेजसः |
नामाष्टशतकञ्चेदम्प्रोक्तमेतत्स्वयम्भुवा || १३ ||
सुरगणपितृयक्षसेवितें ह्यसुरनिशाचरसिद्धवन्दितम् |
वरकनकहुताशनप्रभम्प्रणिपतितोस्मि हिताय भास्करम् || १४ ||
सूर्योदये यः सुसमाहितः पठेत् स-पुत्रदारान् धनरत्नसञ्चयान् |
लभेत जातिस्मरतान्ततः सदा धृतिञ्च मेधाञ्च स विन्दते पुमान् || १५ ||
इमं स्तवन्देववरस्य यो नरः प्रकीर्त्तयेच्छुद्धमनाः समाहितः |
विमुच्यते शोकदवाग्निसागराल्लभेत् कामान्मनसा यथेप्सितान् || १६ ||
इति श्रीमहाभारते वनपर्वणि धौम्ययुधिष्ठिरस/व्वादे
श्रीसूर्यस्याष्टोत्तरशतनामस्तोत्रं समाप्तम् ||
अथ सहस्रनाम
सुमन्तुरुवाच
माघे मासि सिते पक्षे सप्तम्याङ्कुरुनन्दन |
प्. ५४२) निराहारो रविम्भक्त्या पूजयेद्विधिना नृप || १ ||
पूर्वोक्तेन जपेज्जप्यन्देवस्य पुरतः स्थितः |
शुद्धैकाग्रमना राजञ्जितक्रोधो जितेन्द्रियः || २ ||
शतानीक उवाच
केन मन्त्रेण जप्तेन दर्शनम्भगवान्व्रजेत् |
स्तोत्रेण वापि सविता तन्मे कथय सुव्रत || ३ ||
सुमन्तुरुवाच
स्तुतो नामसहस्रेण यदा भक्तिमता मया |
तदा मे दर्शन/ ययातः साक्षाद्देवो दिवाकरः || ४ ||
शतानीक उवाच
नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि ते द्विज |
येन ते दर्शन/ ययातः साक्षाद्देवो दिवाकरः || ५ ||
सुमन्तुरुवाच
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् |
न चेदस्ति भयङ्किञ्चिद्यजनेन च शाम्यति || ६ ||
ज्वराद्विमुच्यते राजन् स्तोत्रेऽस्मिन्पठिते नरः |
अन्ये च रोगाश्शाम्यन्ति पठतः शृण्वतस्तथा || ७ ||
सम्पद्यन्ते यथाकामास्सर्वभोगा यथेप्सिताः |
य एतदादितः श्रुत्वा सङ्ग्रामम्प्रविशेन्नरः || ८ ||
स जित्वा समरे शत्रूनभ्येति गृहमक्षतः |
वन्ध्यानाम्पुत्रजननम्भीतानाम्भयनाशनम् || ९ ||
भूतकारि दरिद्राणाङ्कुष्ठिनाम्परमौषधम् |
बालानाञ्चैव सर्वेषाङ्ग्रहरक्षोनिवारणम् || १० ||
पठेदेतद्धि यो राजन् स श्रेयः परमाप्नुयात् |
संसिद्धस्सर्वसङ्कल्पः सुखमत्यन्तमश्नुते || ११ ||
धर्मार्त्थिभिर्द्धर्मलब्ध्यै सुखाय च सुखार्त्थिभिः |
राज्याय राज्यकामैश्च पठितव्यमिदन्नरैः || १२ ||
विद्या वहन्तु विप्राणां क्षत्रियाणाञ्जयावहम् |
पश्वा वहन्तु वैश्यानां शूद्राणान्धर्मबर्द्धनम् || १३ ||
पठतां शृण्वतामेतद्भवतीति न संशयः |
तच्छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते || १४ ||
नाम्नां सहस्र/ व्विख्यातन्देवदेवस्य भास्वतः |
ओं अस्य श्रीसूर्यसहस्रनाम्नाम्भगवान् पराशरऋषिरनुष्टुप्छन्द
श्रीसूर्यो देवता सकलाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ||
ओं विश्वविद्विश्वजित्कर्त्ता विश्वात्मा विश्वतोमुखः |
प्. ५४३) विश्वेश्वरो विश्वयोनिर्न्नियतात्मा जितेन्द्रियः || १ ||
कालाश्रयः कालकर्त्ता कालहा कालनाशनः |
महायोगी महाबुद्धिर्महात्मा सुमहाबलः || २ ||
प्रभुर्विभुर्ब्भूतनाथो भूतात्मा भुवनेश्वरः |
भूतभव्यो भावितात्मा भूतान्तः करणश्शिवः || ३ ||
शरण्यः कमलानन्दो नन्दनो नन्दवर्द्धनः |
वरेण्यो वरदो योगी सुस/ययुक्तः प्रकाशकः || ४ ||
प्राक्प्राणः परमः प्राणः प्रीतात्मा प्रियतः प्रियः |
नयः सहस्रपात्साधुर्द्दिव्यकुण्डलमण्डितः || ५ ||
अव्यङ्गधारी धीरात्मा प्रचेता वायुवाहनः |
समाहितमतिर्द्धाता विधाताकृतमङ्गलः || ६ ||
कपर्द्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः |
समायुक्ता विमुक्तात्मा कृतात्मा कृतिना/ व्वरः || ७ ||
अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्श्वरः |
कान्तः कामादिरादित्यो नियतात्मा निराकुलः || ८ ||
कामः कारुणिकः कर्त्ता कमलाकरबोधनः |
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः || ९ ||
सञ्जीवनो जीवनाथो जगज्जीवो जगत्पतिः |
अजयो विश्वनिलयस्स/व्विभागो वृषध्वजः || १० ||
वृषाकपिः कल्पकर्त्ता कल्पान्तकरणो रविः |
एकचक्ररथो मौनी सुरथो रथिना/ व्वरः || ११ ||
अक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः |
दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः || १२ ||
दीननाथो हविर्होता दिव्यबाहुर्द्दिवाकरः |
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावहः || १३ ||
परापरज्ञस्तरणिरंशुमाली मनोहरः |
प्राज्ञः प्रजापतिस्सूर्यः सविता विष्णुरंशुमान् || १४ ||
सदागतिर्ग्गन्धबाहुर्विहितो विधिराशुगः |
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः || १५ ||
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः |
त्र्यम्बकस्सर्वदमनो भावितात्मा भिषग्वरः || १६ ||
आलोककृल्लोकनाथो लोकालोकनमस्कृतः |
प्.५४४) कालः कल्पान्तको वह्निस्तपनस्सम्प्रतापनः || १७ ||
विरोचनो विरूपाक्षस्सहस्राक्षः पुरन्दरः |
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः || १८ ||
खगः प्रतर्द्दनो धन्यो हयगो वाग्विशारदः |
श्रीमांश्च शिशिरो वाग्ग्मी श्रीपतिः श्रीनिकेतनः || १९ ||
श्रीकण्ठः श्रीधरश्श्रीमाञ्छ्रीनिवासो वसुप्रदः |
कामचारी महामायो महेशो विदिताशयः || २० ||
तीर्त्थक्रियावान्सुनयो विभवो भक्तवत्सलः |
कीर्त्तिः कीर्त्तिकरो नित्यः कुण्डली कवची रथी || २१ ||
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः |
बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः || २२ ||
समुद्रो धनदो धाता मान्धाता कश्मलापहः |
तमोघ्नो ध्वान्तहा वह्निर्होतान्तः करणो गुहः || २३ ||
पशुमान्प्रयतानन्दो भूतेशः श्रीमता/ व्वरः |
नित्योदितो नित्यरथः सुरेशः सुरपूजितः || २४ ||
अजितो विजयो जेता जङ्गमस्स्थावरात्मकः |
जीवानन्दो नित्यगामी विजेता विजयप्रदः || २५ ||
पर्ज्जन्योग्निस्थितिः स्थेयः स्थविरोऽणुर्न्निरञ्जनः |
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः || २६ ||
ध्रुवो मेधी महावीर्यो हंसस्संसारतारकः |
सृष्टिकर्त्ता क्रियाहेतुर्मार्त्तण्डो मरुतांपतिः || २७ ||
मरुत्वान्दहनस्त्वष्टा भगो भाग्योऽर्यमापतिः |
वरुणांशो जगन्नाथः कृतकृत्यः सुलोचनः || २८ ||
विवस्वान्भूनुमान्कार्यकारणन्तेजसान्निधिः |
असङ्गगामी तिग्मांशुर्द्धर्मादिर्द्द्वीप्तिदीधितिः || २९ ||
सहस्रदीधितिर्ब्ब्रध्नः सहस्रांशुर्द्दिवाकरः |
गभस्तिमान्दीधितिमान्स्रग्विमानतुलद्युतिः || ३० ||
भास्करस्सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः |
सुरज्येष्ठः सुरपतिर्ब्बहुज्ञो वचसाम्पतिः || ३१ ||
तेजोनिधिर्बृहत्तेजा बृहत्कीर्त्तिर्बृहस्पतिः |
अहिमानूर्ज्जितो धीमानामुक्तः कीर्त्तिवर्द्धनः || ३२ ||
महावैद्योगणपतिर्गणेशो गणनायकः |
प्. ५४५) तीव्रप्रतापनस्तापी तापनो विश्वतापनः || ३३ ||
कार्त्तस्वरो हृषीकेशः पद्मानन्दोभिनन्दितः |
पद्मनाभोऽमृताहारः स्थितिमान्केतुमान्नभः || ३४ ||
अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणी विराट् |
आमुक्तः कवची वाग्ग्मी कञ्चुकी विश्वभावनः || ३५ ||
अनिमित्तगतिश्रेष्ठः शरण्यः सर्वतोमुखः |
विगाही रेणुरसहस्समायुक्तस्समाहितः || ३६ ||
धर्मकेतुर्द्धर्मरतिस्संहर्त्ता स/ययमो यमः |
प्रणतार्त्तिहरो वादी सिद्धकार्यो जनेश्वरः || ३७ ||
नभोविगाहनस्सत्यस्तामसः सुमनोहरः |
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः || ३८ ||
मुखसेव्यो महातेजा जगतामन्तकारणम् |
महेन्द्रो विष्टुतस्तोत्रं स्तुतिहेतुः प्रभाकरः || ३९ ||
सहस्रकर आयुष्मानरोषः सुखदस्सुखी |
व्याधिहा सुखदः सौख्यङ्कल्याणः कल्पिना/व्वरः || ४० ||
आरोग्यकर्मणां सिद्धिर्वृद्धि ऋद्धिरहस्पतिः |
हिरण्यरेता आरोग्य/ व्विद्वान्बन्धुर्बुधो महान् || ४१ ||
प्रणवान्धृतिमान्धर्मो धर्मकर्त्ता रुचिप्रदः |
सर्वप्रियस्सर्वसहः सर्वशत्रुनिवारणः || ४२ ||
प्रांशुर्विद्योतनो द्योतस्सहस्रकिरणः कृतिः |
केयूरभूपणोद्भासी भासितो भासनोनलः || ४३ ||
शरण्यार्त्तिहरो होता खद्योतः खगसत्तमः |
सर्वद्योतो भवद्योतः सर्वद्युतिकरोमलः || ४४ ||
कल्याणः कल्याणकरः कल्पः कल्पकरः कविः |
कल्याणकृत्कल्पवपुः सर्वकल्याणभाजनः || ४५ ||
शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः |
उदारकर्मा सुनयः सुवर्च्चा वर्चसोज्ज्वलः || ४६ ||
वर्च्चस्वी वर्च्चसामीशस्त्रैलोक्येशो वशानुंगः |
तेजस्वी सुयशोवर्णिर्वर्णाध्यक्षो बलिप्रियः || ४७ ||
यशस्वी वेदनिलयस्तेजस्वी प्रकृतिस्थितः |
आकाशगः शीघ्रगतिराशुगः श्रुतिमान्खगः || ४८ ||
गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः |
प्. ५४६) जनिता प्रजनञ्जीवो दीपः सर्वप्रकाशकः || ४९ ||
कर्मसाक्षी योगनित्यो नभस्वानसुरान्तकः |
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः || ५० ||
मरीचिमाली सुमतिः कृतातिथ्योविशेषकः |
शिष्टाचारः शुभाचारः स्वाचाराचारतत्परः || ५१ ||
मन्दारो माठरो रेणुः क्षोभणः पक्षिणाङ्गुरुः |
स्वविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः || ५२ ||
महाश्वेताप्रियो ज्ञेयः सामगो मोददायकः |
सर्ववेदप्रगीतात्मा सर्ववेदालयो लयः || ५३ ||
वेदमूर्त्तिश्चतुर्व्वेदो वेदभृद्वेदपारगः |
क्रियावानतिरोचिष्णुर्वरीयांश्च वरप्रदः || ५४ ||
व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः |
अलङ्काराक्षरो दिव्यविद्यावान् विदिताशयः || ५५ ||
अकारो भूषणोभूष्यो भूष्णुर्ब्भवनपूजितः |
चक्रपाणिर्वज्रधरः सुरेशो लोकवत्सलः || ५६ ||
राज्ञीपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः |
अन्धकारापहः श्रेष्ठो युगावर्त्तो युगादिकृत् || ५७ ||
अप्रमेयः सदायोगी विरहङ्कार ईश्वरः |
शुभप्रदः शुभश्शोभा शुभकर्मा शुभास्पदः || ५८ ||
सत्यवान्धृतिमानर्च्च्यो ह्यकारो वृद्धिदोनलः |
बलभृद्बलदो बन्धुर्बलवान्बलिनाम्बरः || ५९ ||
अनङ्गो नागराडिन्द्रः पद्मयोनिर्गणेश्वरः |
स/व्वत्सरक्रतुर्न्नेता कालचक्रप्रवर्त्तकः || ६० ||
पद्मेक्षणः पद्मयोनिः प्रभवोनसरद्युतिः |
सुमूर्त्तिः सुमतिस्सोमो गोविन्दो जगदादिजः || ६१ ||
पीतवासाः कृष्णवासा दिग्वासातीन्द्रियो हरिः |
अतीन्द्रोऽनेकरूपात्मा स्कन्दः परपुरञ्जयः || ६२ ||
शक्तिमाञ्छूलधृग्भास्वान्मोक्षहेतुरयोनिजः |
सर्वदर्शाजितो दर्शो दुःस्वप्नाशुभनाशनः || ६३ ||
मङ्गल्यकर्त्ता तरणिर्वेगवान्कश्मलापहः |
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः || ६४ ||
विश्वकर्मा महाशक्तिर्ज्योतिरीशो विहङ्गमः |
विचक्षणो दक्ष इन्द्रः प्रत्यूहः प्रियदर्शनः || ६५ ||
प्. ५४७) अश्विनौ वेदनिलयो वेदविद्विदिताशयः |
प्रभाकरो जितरिपुः सुजनोरुणसारथिः || ६६ ||
कुबेरसुरथः स्कन्दो महितोभिहितो गुरुः |
ग्रहराजो ग्रहप्रतिर्ग्रहनक्षत्रमण्डनः || ६७ ||
भास्करः सततानन्दो नन्दनो नन्दिवर्द्धनः |
मङ्गलोऽथ मङ्गलवान्माङ्गल्यो मङ्गलावहः || ६८ ||
मङ्गलाचारचरितः शीर्णः सर्वव्रतो व्रती |
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्त्तिहा || ६९ ||
अकिञ्चनस्सत्यसन्धो निर्गुणो गुणवान्गुणी |
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः || ७० ||
सहस्रांशुः क्रतुपतिः सर्वस्वं सुमतिः सुवाक् |
सुवाहनो माल्यदामा धृताहारो हरिप्रियः || ७१ ||
ब्रह्मप्रचेता प्रथितः प्रतीतात्मा स्थिरात्मकः |
शतबिन्दुः शतमखो गरीयाननलप्रभुः || ७२ ||
धीरो महत्तरो धन्यः पुरुषः पुरुषोत्तमः |
विद्याधाराधिराजो हि विद्यावान्भूतिदः स्थितः || ७३ ||
अनिर्द्देश्यवपुः श्रीमान्विश्वात्मा बहुमङ्गलः |
सुस्थितः सुरथः स्वर्णो मोक्षाधारनिकेतनः || ७४ ||
निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशकः |
दयालुस्सूक्ष्मधीः शान्तिः क्षेमाक्षेमस्थितिप्रियः || ७५ ||
भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः |
महावराहः प्रियकृद्धाता भोक्ता भयप्रदः || ७६ ||
चतुर्वेदधरो नित्यो विनिद्रो विविधाशनः |
चक्रवर्त्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः || ७७ ||
विचित्ररथ एकाकी सप्तसप्तिः परात्परः |
सर्वोदधिस्थितिकरः स्थितिः स्थेयः स्थितिप्रियः || ७८ ||
निष्कलः पुष्कलनिभा वसुमान्वासवप्रियः |
वसुमान्वासवस्वामी वसुदाता वसुप्रदः || ७९ ||
बलवाञ्ज्ञानवा/स्तत्त्वमोङ्कारस्त्रिषु संस्थितः |
सङ्कल्पयोनिर्द्दिनकृद्भगवान्कारणावहः || ८० ||
नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रिय/व्वदः |
प्. ५४८) वषत्कारो हुतं होता स्वाहाकारो हुताहुतिः || ८१ ||
जनार्द्दनो जनानन्दो नरो नारायणोऽम्बुदः |
स्वर्णाङ्गक्षपणो वायुः सुरासुरनमस्कृतः || ८२ ||
विग्रही विमलो बिन्दुर्विशोको विमलद्युतिः |
द्योतितो द्योतनो विद्वान्विवस्वान्वरदो बली || ८३ ||
धर्मयोनिर्महामोहो विष्णुभ्राता सनातनः |
सावित्रीभावितो राजा विसृतो विघृणी विराट् || ८४ ||
सप्तार्च्चिः सप्ततुरगः सप्तलोकनमकृतः |
सम्पन्नोऽथ जगन्नाथः सुमनाश्शोभनप्रियः || ८५ ||
सर्वात्मा सर्वकृत्सृष्टिः सप्तिमान्सप्तमीप्रियः |
सुमेधा माधवो मेध्यो मेधावी मधुसूदनः || ८६ ||
अङ्गिरा गतिकालज्ञो धूमकेतुस्सुकेतनः |
सुखी सुखप्रदः सौख्यङ्कामी कान्तिप्रियो मुनिः || ८७ ||
सन्तापनः सन्तपन आतपी तपसाम्पतिः |
उग्रश्रवास्सहस्रोस्रः प्रियङ्कारी प्रियङ्करः || ८८ ||
प्रीतो विमन्युरम्भोदो जीवनो जगताम्पतिः |
जगत्पिता प्रीतमनाः सर्वः सर्वोगुहाबलः || ८९ ||
सर्वगो जगदानन्दो जगन्नेता सुरारिहा |
श्रेयः श्रेयस्करो ज्यायानुत्तमोत्तम उत्तमः || ९० ||
उत्तमोऽथ महामेरुर्द्धारणो धरणीधरः |
धाराधरो धर्मराजो धर्मो धर्मप्रवर्त्तकः || ९१ ||
रथाध्यक्षो रथपतिस्त्वरमाणोमितानलः |
उत्तरोनुत्तरस्तापी तारापतिरपाम्पतिः || ९२ ||
पुण्यसङ्कीर्त्तनः पुण्यो हेतुर्ल्लोकत्रयाश्रयः |
स्वर्ब्भानुर्विहगारिष्टो विशिष्टोत्कृष्टकर्मकृत् || ९३ ||
व्याधिप्रणाशनः क्षेमः शूरस्सर्वजिता/ व्वरः |
एकनाथो रथाधीशः शनैश्चरपिता सितः || ७४ ||
वैवस्वतगुरुर्मृत्युर्द्धर्मनित्यो महाव्रतः |
प्रलम्बहारः सञ्चारी प्रद्योतो द्योतितोनलः || ९५ ||
सन्तानकृत्परो मन्त्रो मन्त्रमूर्त्तिर्महाबलः |
श्रेष्ठात्मा सुप्रियः शम्भुर्महतामीश्वरेश्वरः || ९६ ||
संसारगतिविच्छेत्ता संसारार्णवतारकः |
सप्तजिह्वः सहस्रार्च्ची रत्नगर्ब्भोपराजितः || ९७ ||
प्. ५४९) धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः |
लोकसाक्षी लोकगुरुर्लोकेशश्छन्दवाहनः || ९८ ||
धर्मरूपः सूक्ष्मवायुर्द्धनुष्पाणिर्द्धनुर्द्धरः |
पिनाकधृङ्महोत्साहो नैकमायो महाशनः || ९९ ||
वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृता/ व्वरः |
ज्ञानगम्यो दुराराध्यो लोहिताङ्गोरिमर्द्दनः || १०० ||
अनन्तो धर्मदो नित्यो धर्मकृच्चक्रिविक्रमः |
दैवतस्त्र्यक्षरो मद्यो नीलाङ्गो नीललोहितः || १०१ ||
एकोनैकस्त्रयी व्यासः सविता समितिञ्जयः |
सार्ङ्गधन्वा नलो भीमः सर्वप्रहरणायुधः || १०२ ||
परमेष्ठी परञ्ज्योतिर्न्नाकपाली दिवस्पतिः |
वदान्यो वासुकिर्वेद्य आत्रेयोतिपराक्रमः || १०३ ||
द्वापरः परमोदारः परमब्रह्मचर्यवान् |
उद्दीप्तवेषो मुकुटी पद्महस्तो हिमांशुभृत् || १०४ ||
स्मितः प्रसन्नवदनः पद्मोदरनिभाननः |
सायन्दिवादिव्यवपुरनिर्द्देश्यो महारथः || १०५ ||
महारथो महानीशः शेषः सत्त्वरजस्तमः |
धृतातपत्रप्रतिमो विमर्ष्षी निर्णयः स्थितः || १०६ ||
अहिंसकः शुद्धमतिरद्वितीयोऽरिमर्द्दनः |
सर्वदो धनदो मोक्षो विहारी बहुदायकः || १०७ ||
ग्रहनाथो ग्रहपतिर्ग्रहेशस्तिमिरापहः |
मनोहरवपुः शुभ्रः शोभनः सुप्रभाननः || १०८ ||
सुप्रभः सुप्रभाकारः सुनेत्रो निक्षुभापतिः |
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः || १०९ ||
सिंहिकेयरिपुर्द्देवो वरदो वरनायकः |
चौर्ब्भुजो महायोगी योगीश्वरपतिस्तथा || ११० ||
अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः |
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः || १११ ||
एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् |
निरालम्बो गगनगो धर्मकर्मप्रभावकृत् || ११२ ||
धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः |
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् || ११३ ||
आधारभूतो रतिमांस्तथा च धनधान्यकृत् |
पापसन्तापसंहर्त्ता मनोवाञ्छितदायकः || ११४ ||
प्. ५५०) रोगहर्त्ता राज्यदायी रमणीयगुणोनृणी |
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः || ११५ ||
सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः |
साम्राज्यदाननिरतः समाराधनतोषवान् || ११६ ||
भक्तदुःखक्षयकरो भवसागरतारकः |
भयापहर्त्ता भगवानप्रमेयपराक्रमः ||
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः || ११७ ||
एतत्ते सर्वमाख्यात/ ययन्मान्त्वम्परिपृच्छसि |
नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे || ११८ ||
धन्य/ ययशस्यमायुष्यन्दुष्टदुःस्वप्ननाशनम् |
बन्धमोक्षकरञ्चैव भानोर्न्नामानुकीर्त्तनम् || ११९ ||
यस्त्विदं शृणुयान्नित्यम्पठित्वा प्रयतो नरः |
अक्षयं सुखमन्नाद्यम्भवेत्तस्योपसाधितम् || १२० ||
नृपाग्नितस्करभय/ व्व्याधिभ्यो न भयम्भवेत् |
विजयी च भवेन्नित्यं श्रेयश्च परमाप्नुयात् || १२१ ||
कीर्तिमान्सुभगो विद्वान्स सुखी प्रियदर्श्शनः |
भवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः || १२२ ||
नाम्नां सहस्रमिदमंशुमतः पठेद्यः प्रातः
शुचिर्न्नियमवान्सुसमाधियुक्तः |
द्वारेण तम्परिहरन्ति सदैव रोगा भीतास्सुपर्णमिव सर्वमहोरगेन्द्राः
|| १२३ ||
इति श्रीभविष्यपुराणे सप्तमीकल्पे भगवतः श्रीसूर्यस्य नाम्नां
सहस्रं सम्पूर्णम् ||
इति सूर्यतन्त्रं समाप्तम्
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
सप्तदशं
विष्णुतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
मुम्ब-ई
श्रीगणेशाय नमः
अथ विष्णुतन्त्रम्
अथ श्रीविष्णुध्यानम्
शान्ताकारम्भुजगशयनम्पद्मनाभं सुरेश/
व्विश्वाधारङ्गगनसदृशम्मेघवर्णं शुभाङ्गम् ||
लक्ष्मीकान्तङ्कमलनयन/ ययोगिभिर्द्ध्यानगम्य/
व्वन्दे विष्णुम्भवभयहरं सर्वलोकैकनाथम् || १ ||
अथ यन्त्रोद्धारः
अनुक्तकल्पे यन्त्रन्तु लिखेत्पद्मदलाष्टकम् |
षट्कोणं कर्णिकन्तत्र वेदद्वारोपशोभितम् ||
प्. ५५४) अथ मन्त्रोद्धारः
स-चतुर्त्थीनमोऽन्तैश्च नामभिर्विन्यसेत्सुधीः |
तारन्नमः पदम्ब्रूयान्नरौ दीर्ग्घसमन्वितौ ||
यवर्णो णायमन्त्रोयम्प्रोक्तो वस्वक्षरः परः ||
अथ मन्त्रः
ओं नमो नारायणाय |
अथ पूजाप्रयोगः
प्रातः कृत्यादि मातृकान्यासान्तङ्कर्म विधाय
केशवकृत्यादिन्यासङ्कुर्यात् || अथ ऋष्यादिन्यासः || शिरसि
प्रजापतयेऋषयेनमः || मुखे गायत्रीछन्दसेनमः || हृदि
अर्द्धलक्ष्मीहरये देवतायै नमः || ततः कराङ्गन्यासौ || श्री/
अङ्गुष्ठाभ्यान्नम इत्यादि || तथा च गौतमीये || ऋषिः प्रजापतिश्छन्दो
गायत्री देवता पुनः || अर्द्धलक्ष्मीहरिः प्रोक्तः
श्रींबीजेनाङ्गकल्पनेति || ततो ध्यानम् ||
उद्यत्प्रद्योतनशतरुचिन्तप्तहेमावदातम्पार्श्श्वद्वन्द्वे जलधिसुतया
विश्वधात्र्या च जुष्टम् || नानारत्नोल्लसितविविधाकल्पमापीतवस्त्र/
व्विष्णु/ व्वन्दे दरकमलकौमोदकीचक्रपाणिम् || एवन्ध्यात्वा न्यसेत् |
वर्णान्मुक्त्वा सार्द्धचन्द्रानिति दर्शनात् || अंकेशवकृत्यैनमो ललाटे
|| आंनारायणायकान्त्यैनमो मुखे || इं माधवायपुष्ट्यैनमो
दक्षनेत्रे || ईं गोविन्दायपुष्ट्यैनमो वामनेत्रे || नमः सर्वत्र || उं
विष्णवेधृत्यै० दक्षकर्णे || ऊं मधुसूदनायशान्त्यै० वामकर्णे |
ऋंत्रिविक्रमायक्रियायै० दक्षनासापुटे || ॠंवामनायदयायै०
वामनासापुटे | ऌंश्रीधरायमेधायै० दक्षगण्डे |
ॡंहृषीकेशायदुर्गायै० वामगण्डे | एं पद्मनाभायश्रद्धायै०
ओष्ठे | ऐंदामोदरायलज्जायै० अधरे | ओंवासुदेवायलक्ष्म्यै०
ऊर्द्ध्वदन्तपङ्क्तौ ||
प्. ५५५) औं सङ्कर्षणायसरस्वत्यै० अधोदन्तपङ्क्तौ |
अंप्रद्युम्नायधृत्यै० मस्तके | अः-अनिरुद्धायरत्यै० मुखे ||
कंचक्रिणेजयायै०, खंगदिनेदुर्गायै०, गंशार्ङ्गिणेप्रभायै०,
घंखड्गिनेसत्यायै०, ङंशङ्खिनेचन्द्रायै०
दक्षकरमूलसन्ध्यग्रकेषु || चंहलिनेवाण्यै०,
छंमुसलिनेविलासिन्यै०, जंशूलिनेविजयायै०, झंपाशिनेविरजायै०,
ञं-अङ्कुशिनेबिम्बायै०, वामकरमूलसन्ध्यग्रकेषु ||
टंमुकुन्दाय विनदायै०, ठंनन्दजाय सुनन्दायै०,
डंनन्दिनेस्मृत्यै०, ढंनरायऋद्ध्यै०, णंनरकजितेसमृद्ध्यै०
दक्षपादमूलसन्ध्यग्रकेषु || तंहरयेशुद्ध्यै०,
थंकृष्णायबृद्ध्यै०, दंसत्यायभूम्यै०, धंसात्वतायमत्यै०,
नंसौराष्ट्रायक्षमायै० वामपादमूलसन्ध्यग्रकेषु ||
पंशूराय रमायै० दक्षपार्श्वे || फंजनार्द्दनाय उमायै०,
वामपार्श्वे | बंभूधराय क्लेदिन्यै० पृष्ठे | भंविश्वमूर्त्तये
क्लिन्नायै० नाभौ | मंवैकुण्ठायवसुदायै० उदरे | यं त्वगात्मने
पुरुषोत्तमायवसुधायै० हृदि | रं असृगात्मनेबलिनेपरायै०
दक्षांसे | लंमांसात्मनेवालानुजायपरायणायै० ककुदि |
वंमद-आत्मनेबलायसूक्ष्मायै० वामांसे | शं-
अस्थ्यात्मनेवृषघ्नायसंघायै० हृदादिदक्षकरे |
षंमज्जात्मनेवृषायप्रज्ञायै० हृदादिबामकरे ||
संशुक्लात्मनेहंसायप्रभायै० हृदादिदक्षपादे |
हंप्राणात्मनेवराहायनिशायै० हृदादिवामपादे |
लंजीवात्मनेविमलाय-अमोघायै० हृदाद्युदरे | क्षंक्रोधात्मने
नृसिंहायविद्युतायै० हृदादिमुखे || तथा च गौतमीये ||
केशवादिरयन्न्यासो न्यासमात्रेण देहिनाम् || अच्युतत्वन्ददात्येव
सत्यं सत्यन्न संशयः || मातृकार्णं समुच्चार्य केशवाय इति
स्मरेत् || कीर्त्त्यै च नमसायुक्तमित्यादि न्यासमाचरेत् || केशवाय ततः
कीर्त्त्यै कान्त्यै नारायणाय च || इत्याद्यगस्त्यसंहितावचनाच्चायं
क्रमः || न तु केशवकीर्त्तिभ्यान्नम इत्यादि || तथा
भुक्तिमुक्तिमिच्छताऽयन्न्यासः कर्त्तव्यः श्रीबीजादि ||
प्. ५५६) यथा -- ||
श्रीं अं केशवायकीर्त्यैनम इत्यादि || अथोपचारक्रमेण पूजा ||
अथावाहनम् || यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ||
कृपया देवदेवेश मदग्रे सन्निधीभव || यस्य ते परमेशान
स्वागतं स्वागतम्प्रभो || कृतार्थोनुगृहीतोऽस्मि सफलञ्जीवनम्मम
|| यदागतोऽसि देवेश चिदानन्दमयाव्यय || अज्ञानाद्वा प्रमादाद्वा
वैकल्पात्साधकस्य च | यदपूर्णम्भवेत्कृत्यन्तथाप्यभिमुखोभव ||
इत्यावाहनम् || अथ पाद्यम् ||
यद्भक्तिलेशसम्पर्क्कात्परमानन्दसम्भवः || तस्मै ते परमेशान
पाद्यं शुद्धाय कल्पये || इति पाद्यम् ||
अथाचमनम् ||
देवानामपि देवाय देवानान्दैवताय च |
आचामङ्कल्पयामीश स्वधया शुद्धिहेतवे || इत्याचमनम् ||
अथार्ग्घ्यम् ||
तापत्रयहरन्दिव्यम्परमानन्दलक्षणम् ||
तापत्रयविमोक्षाय तवार्ग्घ्यङ्कल्पयाम्यहम् || इत्यर्ग्घ्यम् ||
अथ मधुपर्कम् ||
सर्वकालुष्यहीनाय परिपूर्णसुधात्मकम् |
मधुपर्क्कमिमन्देव कल्पयामि प्रसीद मे || इति मधुपर्क्कम् ||
अथ पुनराचमनीयम् ||
उच्छिष्टोप्यशुचिर्वापि यस्य स्मरणमात्रतः |
शुद्धिमाप्नोति तस्मै ते पुनराचमनन्त्विदम् || इति पुनराचमनीयम् ||
अथाभ्यङ्गम् ||
गन्धतैलङ्गृहीत्वा पठेत् | स्नेहङ्गृहाण स्नेहेन लोकनाथ महाशय
|| सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् || इत्यभ्यङ्गम् ||
अथस्नानम् || ओं सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् |
स भूमिं सर्वतस्स्पृत्वात्यतिष्ठद्दशाङ्गुलम् || १ ||
पुरुष एवेदं सर्व ययद्भूत/ ययच्च भाव्यम् |
उतामृतत्त्वस्येशानो यदन्नेनातिरोहति || २ ||
एतावानस्य महिमातो ज्ज्याया/श्च पूरुषः |
पादोस्य विश्वा भूतानि त्रिपादस्यामृतन्दिवि || ३ ||
त्रिपादूर्द्ध्व ऽ-उदैत्पुरुषः पादोऽस्येहाभवत्पुनः |
ततो विष्वङ्व्यक्रामत्साशनानशनेऽ-अभि || ४ ||
प्. ५५७) ततो व्विराडजायत व्विराजो ऽ-अधि पूरुषः |
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः || ५ ||
तस्माद्यज्ञात्सर्वहुतः सम्भृतम्पृषदाज्यम् |
पशू/स्ता/श्चक्रे वायव्यानारण्या ग्ग्राम्याश्च ये || ६ ||
तस्माद्यज्ञात्सर्वहुत ऽ-ऋचः सामानि जज्ञिरे |
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत || ७ ||
तस्मादश्वा ऽ-अजायन्त ये के चोभयादतः |
गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽ-अजावयः || ८ ||
त/ ययज्ञम्बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः |
तेन देवा ऽ-अयजन्त साद्ध्या ऽ-ऋषयश्च ये || ९ ||
यत्पुरुष/ व्व्यदधुः कतिधा व्यकल्पयन् |
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादा ऽ-उच्येते || १० ||
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः |
ऊरू तदस्य यद्वैश्यः पद्भ्या/ शूद्रो ऽ-अजायत || ११ ||
चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽ-अजायत |
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत || १२ ||
नाब्भ्याऽ-आसीदन्तरिक्षं शीर्ष्ष्णो द्यौः समवर्त्तत |
पद्भ्याम्भूमिर्द्दिशः श्रोत्रात्तथा लोका/ २ || ऽ-अकल्पयन् || १३ ||
यत्पुरुषेण हविषा देवा यज्ञमतन्वत |
वसन्तोऽस्यासीदाज्यङ्ग्रीष्म ऽ-इध्मः शरद्धविः || १४ ||
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः |
देवा यद्यज्ञन्तन्वाना ऽ-अबध्नन्पुरुषम्पशुम् || १५ ||
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |
ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || १६ ||
अथ तान्त्रिकमन्त्राः
परमानन्दबोधाब्धिनिमग्ननिजमूर्त्तये |
साङ्गोपाङ्गमिदं स्नानङ्कल्पयाम्यहमीश ते || इति स्नानम् ||
अथ वासः ||
माया/ व्विना न ते जन्म निजगूहोरुतेजसे |
निरावरणविज्ञाय वासस्ते कल्पयाम्यहम् || इति वासः ||
यमाश्रित्य महामाया जगत्संमोहिनी तु सा |
तस्मै ते परमेशान कल्पयाम्युत्तरीयकम् ||
प्. ५५८) अथ यज्ञसूत्रम् ||
यस्य शक्तित्रयेणेदं सम्प्रोक्तमखिलञ्जगत् || यज्ञसूत्राय तस्मै ते
यज्ञसूत्रम्प्रकल्पयेत् || इति यज्ञसूत्रम् || अथ भूषणम् ||
स्वभावसुन्दराङ्गाय सत्यासत्याश्रयाय ते || भूषणानि विचित्राणि
कल्पयामि सुरार्च्चित || इति भूषणम् ||
अथ जलम्
समस्तदेवदेवेश सर्वतृप्तिकरम्परम् ||
अखण्डानन्दसम्पूर्णङ्गृहाण जलमुत्तमम् || इति जलम् ||
अथ गन्धम्
परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् |
गृहाण परमङ्गन्धं कृपया परमेश्वर || इति गन्धम् ||
अथ पुष्पम्
तुरीयगुणसम्पन्न-नानागुणमनोहरम् |
आनन्दसौरभम्पुष्पं गृह्यतामिदमुत्तमम् || इति पुष्पम् ||
अथ धूपः
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः |
आघ्रेयः सर्वदेवानान्धूपोऽयम्प्रतिगृह्यताम् || इति धूपः ||
अथ दीपः
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः |
सबाह्याभ्यन्तरज्योतिर्दीपोयम्प्रतिगृह्यताम् || इति दीपः ||
अथ नैवेद्यम्
सत्पात्रसिद्धं स हविर्विविधानेकभक्षणम् |
निवेदयामि देवेश सानुगाय गृहाण तत् || इति नैवेद्यम् ||
अथाचमनार्त्थजलम्
समस्तदेवदेवेश सर्वज्ञप्तिकरम्परम् |
अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् || इति जलम् ||
अथ ताम्बूलम्
ताम्बूलञ्च वरन्दिव्यङ्कर्पूरादि सुवासितम् |
मयानिवेदितम्भक्त्या गृहाण परमेश्वर || इति ताम्बूलम् ||
इति पूजा
अथ स्तोत्रम्
आदाय वेदान्सकलान्समुद्रान्निहत्य चोन्मथ्य मधुं ह्युदग्रम् |
दत्ताः पुरा येन पितामहाय विष्णुन्तमाद्यम्भज मत्स्यरूपम् || १ ||
दिव्यामृतार्त्थम्मथिते महाब्धौ देवासुरैर्वासुकिमन्दराभ्याम् |
भूमेर्महावेगविधूर्णितायान्तङ्कूर्ममाधारगतन्नमामि || २ ||
समुद्रकाञ्चीसरिदुत्तरीया वसुन्धरामेरुकिरीटभारा |
दंष्ट्रागतो येन समुद्धृताऽभूत्तमादिकोलं शरणम्प्रपद्ये || ३ ||
प्. ५५९) भक्तार्त्तिभङ्गक्षमयाधिपाय स्तम्भान्तरालादुदितो
नृसिंहः |
रिपुं सुराणान्निशितैर्न्नखाग्रैर्विदारयन्तन्न च विस्मरामि || ४ ||
चतुस्समुद्राभरणाधरित्रीन्यासाय नालञ्चरणस्य यस्य |
एकस्य नान्यस्य पदं सुराणान्त्रिविक्रमं सर्वगतन्नमामि || ५ ||
त्रिस्सप्तकृत्वो नृपतीन्निहत्य यस्तर्पणं रक्तमयम्पितृभ्यः |
चकार दोर्द्दण्डबलेन सम्यक्तमादिशूरम्प्रणमामि रामम् || ६ ||
कुले रघूणां समवाप्य जन्म विधाय सेतुञ्जलधेर्जलान्तः |
लङ्केश्वर/ ययः शमयाञ्चकार सीतापतिन्तम्प्रणमामि भक्त्या || ७ ||
हलेन सर्वानसुरान्निकृष्य चकार चूर्णम्मुसलप्रहारैः |
यः कृष्णमासाद्य बलम्बलीयान्भक्त्या भजे तम्बलभद्ररामम् || ८ ||
पुरा सुराणामसुरान्विजेतुं सम्भावयच्छ्रीवरचिह्नवेषम् |
चकार यः शास्त्रममोघकल्पन्तम्मूलभूतम्प्रणतोऽस्मि बुद्धम् ||
९ ||
कल्पावसाने निखिलैः सुरैस्स्वैस्सङ्घट्टयामास निमेषमात्रात् |
यस्तेजसा स्वेन ददाह भीमो विश्वात्मकन्तन्तुरगम्भजामः || १० ||
शङ्खं सुचक्रं सुगदां
सरोजन्दोर्ब्भिर्द्दधानङ्गरुडाधिरूढम् |
श्रीवत्सचिह्नञ्जगदादिमूलन्तमालनीलं हृदि विष्णुमीडे || ११ ||
क्षीराम्बुधौ शेषविशेषतल्पे शयानमन्तःस्मितशोभिवक्त्रम् |
उत्फुल्लनेत्राम्बुजमम्बुदाम्भसामाद्यं श्रुतीनामसकृत्स्मरामि ||
१२ ||
प्रीणयेदनया स्तुत्या जगन्नाथञ्जगन्मयम् |
धर्मार्त्थकाममोक्षाणामाप्तये पुरुषोत्तमम् || १३ ||
इति श्रीविष्णुस्तोत्रं समाप्तम् ||
अथ कवचम्
श्रीनारद उवाच
भगवन्सर्वधर्मज्ञ कवच/ ययत्प्रकाशितम् |
त्रैलोक्यमङ्गलन्नाम कृपया कथय प्रभो || १ ||
सनत्कुमार उवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचम्परमाद्भुतम् |
नारायणेन कथितं कृपया ब्रह्मणे पुरा || २ ||
प्. ५६०) ब्रह्मणा कथितम्मह्यम्परं स्नेहाद्वदामि ते |
अतिगुह्यतरन्तत्त्वम्ब्रह्ममन्त्रौघविग्रहम् || ३ ||
यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं व्वितनुते ध्रुवम् |
यद्धृत्वा पठनात्पाति महालक्ष्मीर्ज्जगत्त्रयम् || ४ ||
पठनाद्धारणाच्छम्भुः संहर्त्ता सर्वमन्त्रवित् |
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् || ५ ||
वरदृप्ताञ्जघानैव पठनाद्धारणाद्यतः |
एवमिन्द्रादस्सर्वे सर्वैश्वर्यमवाप्नुयुः || ६ ||
इदङ्कवचमत्यन्तगुप्तङ्कुत्रापि नो वदेत् |
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् || ७ ||
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् |
त्रैलोक्यमङ्गलस्यास्य कवचस्य प्रजापतिः || ८ ||
ऋषिश्छन्दश्च गायत्री देवो नारायणः स्वयम् |
धर्मार्त्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः || ९ ||
प्रणवो मे शिरः पातु नमो नारायणाय च |
भालम्मे नेत्रयुगलमष्टार्णो भक्तिमुक्तिदः || १० ||
क्लीम्पायाच्छ्रोत्रयुग्मञ्चैकाक्षरस्सर्वमोहनः |
क्लींकृष्णाय सदा घ्राणङ्गोविन्दायेति जिह्विकाम् ||
गोपीजनपद/ व्वल्लभाय स्वाहाननम्मम || ११ ||
अष्टादशाक्षरो मन्त्रः कंठम्पातु दशाक्षरः || १२ ||
गोपीजनपद/ व्वल्लभाय स्वाहा भुजद्वयम् |
क्लींग्लौंक्लींश्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः || १३ ||
क्लींकृष्णः क्लीं करौ पायात्क्लींकृष्णायाङ्गतोऽवतु |
हृदयम्भुवनेशानी क्लींकृष्णाय क्लीं स्तनौ मम || १४ ||
गोपालायाग्निजायान्तङ्कुक्षियुग्मं सदावतु |
क्लींकृष्णाय सदा पातु पार्श्श्वयुग्ममनुत्तमः || १५ ||
कृष्णगोविन्दकौ कट्यां स्मराद्यौ ङेयुतौ मनुः |
अष्टाक्षरः पातु नाभिं कृष्णेति द्व्यक्षक्षरोऽवतु || १६ ||
पृष्ठं क्लींकृष्णकङ्कालं क्लींकृष्णाय द्विठान्तकः |
सक्थिनी सततम्पातु श्रींह्रींक्लीं कृष्ण ठद्वयम् || १७ ||
ऊरूसप्ताक्षरः पायात्त्रयोदशाक्षरोऽवतु |
श्रींह्रींक्लींपदतो गोपीजनवल्लभ दन्ततः || १८ ||
प्. ५६१) भाय स्वाहेति पायुं वै क्लींह्रींश्रीं सदशार्णकः |
जानुनी च सदा पातु ह्रींश्रींक्लीं च दशाक्षरः || १९ ||
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः |
अष्टादशाक्षरो ह्रींश्रींपूर्वको विंशदर्णकः || २० ||
सर्वाङ्गम्मे सदा पातु द्वारकानायको बली |
नमो भगवते पश्चाद्वासुदेवाय तत्परम् || २१ ||
ताराद्यो द्वादशार्णोऽयम्प्राच्याम्मां सर्वदाऽवतु |
श्रींह्रींक्लीं च दशार्णस्तु क्लींह्रींश्रीं षोडशार्णकः || २२ ||
गदाद्युदायुधो विष्णुम्माममग्नेर्द्दिशि रक्षतु |
ह्रींश्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु || २३ ||
तारो नमो भगवते रुक्मिणीवल्लभाय च |
स्वाहेति षोडशार्णोऽयन्नैरृत्यान्दिशि रक्षतु || २४ ||
क्लींहृषीकेशदेशाय नमो मा/ वारुणेऽवतु |
अष्टदशार्णः कामान्तो वायव्ये मां सदावतु || २५ ||
श्रींमायाकामकृष्णाय ह्रींगोविन्दाय द्विठो मनुः |
द्वादशार्णात्मको विष्णुरुत्तरे मां सदावतु || २६ ||
वाग्भावङ्कामं कृष्णाय ह्रींगोविन्दाय तत्परम् |
श्रींगोपीजनवल्लभान्ते भाय स्वाहा ह्सौस्ततः || २७ ||
द्वाविंशत्यक्षरो मन्त्रो मामैशान्ये सदावतु |
कालियस्य फणामध्ये दिव्यन्नृत्यङ्करोति तम् || २८ ||
नमामि देवकीपुत्रन्नृत्यराजानमच्युतम् |
द्वात्रिंशदक्षरो मन्त्रोऽप्यधो मां सर्वदावतु || २९ ||
कामदेवाय विद्महे पुष्पबाणाय धीमहि |
तन्नोऽनङ्गः प्रचोदयादेषा माम्पातु चोर्द्ध्वतः || ३० ||
इति ते कथित/ व्विप्र ब्रह्ममन्त्रौघविग्रहम् |
त्रैलोक्यमङ्गलन्नाम कवचम्ब्रह्मरूपकम् || ३१ ||
ब्रह्मणा कथितम्पूर्वन्नारायणमुखाच्च्युतम् |
तव स्नेहान्ममाऽख्यातम्प्रवक्तव्यन्न कस्यचित् || ३२ ||
गुरुम्प्रणम्य विधिवत्कवचम्प्रपठेत्ततः |
सकृद्द्विस्त्रिर्यथाज्ञानं सोऽपि सर्वतपोमयः || ३३ ||
मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः |
शतमष्टोत्तरञ्चास्य पुरश्चर्याविधिः स्मृतः || ३४ ||
प्. ५६२) हवनादीन्दशांशेन कृत्वा तत्साधयेद्ध्रुवम् |
यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् || ३५ ||
मन्त्रसिद्धिर्ब्भवेत्तस्य पुरश्चर्याविधानतः |
स्पर्द्धामुद्भूय सतत/ लक्ष्मीर्वाणी वसेत्ततः || ३६ ||
पुष्पाञ्जल्यष्टकन्दत्वा मूलेनैव पठेत्सकृत् |
दशवर्षसहस्राणाम्पूजायाः फलमाप्नुयात् || ३७ ||
भूर्ज्जे विलिख्य गुटिकां स्वर्णस्थान्धारयेद्यदि |
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न्न संशयः || ३८ ||
अश्वमेधसहस्राणि वाजपेयशतानि च |
महादानादि यान्येव प्रादक्षिण्यम्भुवस्तथा || ३९ ||
कलान्नार्हन्ति तान्येव सकृदुच्चारणात्ततः |
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः || ४० ||
त्रैलोक्यङ्क्षोभयत्येव त्रैलोक्यविजयी भवेत् |
इदङ्कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम् ||
शतलक्षप्रजप्तोऽपि न मन्त्रस्तस्य सिद्ध्यति || ४१ ||
इति कवचं समाप्तम् ||
अथ हृदयम्
आचम्य प्राणानायम्य देशकालौ स्मृत्वा ममाभीष्टसिद्ध्यर्त्थं
सङ्कलीकरणरीत्या सम्पूटीकरणरीत्या वा नारायणहृदयस्य
सकृदावर्त्तनङ्करिष्ये ||
अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य, भार्ग्गवऋषिः, अनुष्टुप्छन्दः,
श्रीलक्ष्मीनारायणो देवता, ओंबीजम्, नमः शक्तिः, नारायणायेति
कीलकम्, श्रीलक्ष्मीनारायणप्रीत्यर्त्थे जपे विनियोगः ||
ओं नारायणः परञ्ज्योतिरित्यङ्गुष्ठाभ्यान्नमः,
ओं नारायणः परब्रह्मेति तर्ज्जनीभ्यां,
ओं नारायणः परो देव इतिमध्यमाभ्यां,
ओं नारायणः परो ध्यातेति अनामिकाभ्या०,
ओं नारायणः परन्धामेति कनि०, ओं नारायणः परो धर्म इति
करतलकर०, एवं हृदयादि || अथ दिग्बन्धः || ओं ऐंद्द्र्यादि दश दिशम्
|| ऽओं नमः सुदर्शनाय सहस्राराय हूम्फट् बध्नामि नमश्चक्राय
स्वाहाऽ इति प्रतिदिशं योज्यम् ||
प्. ५६३) अथ ध्यानम् || उद्यदादित्यसङ्काशम्पीतवाससमच्युतम् |
शङ्खचक्रगदापाणिन्ध्यायेल्लक्ष्मीपतिं हरिम् |
ऽओं नमो नारायणायऽ इति जपः || अथ मूलाष्टकम् ||
ओं नारायणः परञ्ज्योतिरात्मा नारायणः परः ||
नारायणः परब्रह्म नारायण नमोस्तु ते || १ ||
नारायणः परो देवो दाता नारायणः परः |
नारायणः परो ध्याता नारायण नमोऽस्तु ते || २ ||
नारायणः परन्धाम ध्यानन्नारायणः परः |
नारायणः परो धर्म्मो नारायण नमोऽस्तु ते || ३ ||
नारायणपरो वेदो विद्या नारायणः परा |
विश्वन्नारायणस्साक्षान्नारायण नमोऽस्तु ते || ४ ||
नारायणाद्विधिर्ज्जातो जातो नारायणाच्छिवः |
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते || ५ ||
रविर्न्नारायणन्तेजश्चान्द्रन्नारायणम्महः |
वह्निर्न्नारायणः साक्षान्नारायण नमोऽस्तु ते || ६ ||
नारायण उपास्यः स्याद्गुरुर्न्नारायणः परः |
नारायणः परो बोधो नारायण नमोऽस्तु ते || ७ ||
नारायणः फलम्मुख्यं सिद्धिर्न्नारायणः सुखम् |
सेव्यो नारायणश्शुद्धो नारायण नमोऽस्तु ते || ८ ||
इति मूलाष्टकम् || अथ प्रार्थनादशकम् ||
नारायणस्त्वमेवासि दहराख्ये हृदि स्थितः |
प्रेरकः प्रेर्यमाणानान्त्वया प्रेरितमानसः || १ ||
त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् |
नानोपासनमार्गाणाम्भावहृद्भावबोधकः || २ ||
भावार्त्थकृद्भावभूतो भावसौख्यप्रदो भव |
त्वन्मायामोहित/ व्विश्वन्त्वयैव परिकल्पितम् || ३ ||
त्वदधिष्ठानमात्रेण सैषा सर्वार्थकारिणी |
त्वमेव ताम्पुरस्कृत्य मम कामान्समर्प्पय || ४ ||
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् |
त्वदन्यन्न हि जानामि पालकम्पुण्यरूपकम् || ५ ||
यावत्सांसारिको भावो मनःस्थो भावनात्मकः |
प्. ५६४) तावत्सिद्धिर्भवेत्साध्या सर्वथा सर्वदा विभो || ६ ||
पापिनामहमेवाग्र्यो दयालूनान्त्वमग्रणीः |
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये || ७ ||
त्वयाप्यहन्न सृष्टश्चेन्न स्यात्तव दयालुता |
आमयो नैव सृष्टश्चेदौषधस्य वृथोदयः || ८ ||
पापसङ्घपरिक्रान्तः पापात्मा पापरूपधृक् |
त्वदन्यः कोऽत्र पापेभ्यस्त्राता मे जगतीतले || ९ ||
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या च गुरुस्त्वमेव त्वमेव सर्वम्मम देवदेव || १० ||
प्रार्त्थनादशकञ्चैव मूलाष्टकमुदाहृतम् |
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् || ११ ||
नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् |
लक्ष्मीहृदयकं स्तोत्र/ ययदि चेत्तद्विना कृतम् || १२ ||
तत्सर्वन्निष्फलम्प्रोक्त/ लक्ष्मीः क्रुद्ध्यति सर्वदा |
एतत्सङ्कलितं स्तोत्रं सर्वकर्मफलप्रदम् || १३ ||
लक्ष्मीहृदयकञ्चैव तथा नारायणात्मकम् |
जपेद्यः सङ्कलीकृत्य सर्वाभीष्टमवाप्नुयात् || १४ ||
नारायणस्य हृदयमादौ जप्त्वा ततः परम् |
लक्ष्मीहृदयकं स्तोत्रञ्जपेन्नारायणम्पुनः || १५ ||
पुनर्न्नारायणञ्जप्त्वा पुनर्ल्लक्ष्मीकृतञ्जपेत् |
पुनर्न्नारायणञ्जाप्यं सङ्कलीकरणम्भवेत् || १६ ||
एवम्मध्ये द्विवारेण जपेत्सङ्कलितं हि तत् |
लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् || १७ ||
तद्वज्जपादिकङ्कुर्यादेतत्सङ्कलितं शुभम् |
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् || १८ ||
गोप्यमेतत्सदा कुर्यान्न सर्वत्र प्रकाशयेत् |
इति गुह्यतमं शास्त्रम्प्राप्तम्ब्रह्मादिकैः पुरा || १९ ||
तस्मात्सर्वप्रयत्नेन गोपयेत् साधयेत्सुधीः |
यत्रैतत्पुस्तकन्तिष्ठेल्लक्ष्मीनारायणात्मकम् || २० ||
भूतपैशाचवेताला न स्थिरास्तत्र सर्वदा |
लक्ष्मीहृदयकम्प्रोक्त/ व्विधिना साधयेत्सुधीः || २१ ||
भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् |
सर्वस्वं सर्वदा सत्यङ्गोपयेत्साधयेत्सुधीः || २२ ||
प्. ५६५) गोपनात्साधनाल्लोके धन्यो भवति तत्त्वतः || २३ ||
इत्यथर्वणरहस्ये उत्तरभागे श्रीनारायणहृदयं सम्पूर्णम् ||
अथोपनिषत्
कश्यप उवाच
एकशृङ्ग वृषसिन्धो वृषाकपे सुरवृष अनादिसम्भव रुद्र कपिल
विष्वक्सेन सर्वभूतपते ध्रुवधर्म वैकुण्ठ वृषावर्त्त
अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निजजय
अमृतशय सनातन त्रिधामन् तुषित महातत्त्व लोकनाथ पद्मनाभ
विरञ्च बहुरूप अक्षय अक्षर हव्यभुक् खण्डपरशो शक्र
मुञ्जकेश हंस महादक्षिण हृषीकेश सूक्ष्म महानियमधर
विरजः लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ हव्यभुक्
गभस्तिनाथ शतक्रतुनाथ चन्द्ररथ सूर्यतेजः समुद्रवासः अज
सहस्रशिरः सहस्रपाद अयोमुख महापुरुष पुरुषोत्तम सहस्रबाहो
सहस्रमूर्त्ते सहस्रास्य सहस्रसम्भव विश्वन्त्वामाहुः ||
पुष्पहासचरम त्वमेव वौषट् वषट्कारस्त्वामाहुरम्यमखेषु
प्रशितारम् ||
शतधारं सहस्रधारं बभूव ||
भूवन्द्य भूनाथ भृगुपुत्र वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय
त्वमेव द्यौरसि मातरिश्वासि धर्मोसि होता पोता हन्ता मन्ता नेता
होमहेतुस्त्वमेव ||
अग्र्यश्च धाम्नां त्वमेव ऋग्भिः सुभाण्ड इज्योऽसि सुमेधोसि
समिधस्त्वमेव मतिर्गतिर्द्दाता त्वमसि मोक्षोऽसि योगोऽसि सृजसि धाता
परमयज्ञोऽसि सोमोसि दीक्षितोऽसि दक्षिणासि विश्वमसि ||
स्थविर हिरण्यगर्ब्भ नारायण त्रिनयन आदिवर्ण आदित्यतेजः
महापुरुष पुरुषोत्तम आदिदेव भूमिक्रम त्रिविक्रम प्रभाकर
शम्भो स्वयम्भू भूतादिमहाभूतोऽसि || विश्वभूत विश्वं
त्वमेव विश्वगोप्तासि पवित्रमसि विश्वभव ऊर्द्ध्वकर्मन् अमृत
दिवस्पते वाचस्पते घृतार्च्चे अनन्तकर्म वंशप्राग्वंशधीः
त्वमश्वमेधः वरार्त्थिना/ व्वरदोऽसि त्वम् ||
प्. ५६६) चतुर्ब्भिश्च चतुर्ब्भिश्च द्वाभ्याम्पञ्चभिरेव च | हूयते च
पुनर्द्द्वाभ्यान्तुभ्यं होत्रात्मने नमः || इत्युपनिषत्समाप्ता ||
अथाष्टोत्तरशतनाम
अष्टोत्तरशतन्नाम्ना/ व्विष्णोरतुलतेजसः |
यस्य श्रवणमात्रेण नरो नारायणो भवेत् || १ ||
विष्णुर्ज्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः |
दामोदरो दीनबन्धुरादिदेवो दितेस्सुतः || २ ||
पुण्डरीकः परानन्दः परमात्मा परात्परः |
परशुधारी विश्वात्मा कृष्णः कालीमलापहः || ३ ||
कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः |
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः || ४ ||
हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः |
वामनो वेदवक्ता च वासुदेवस्सनातनः || ५ ||
रामो विरामो विरजो रावणारी रमापतिः |
वैकुण्ठवासी वसुमान् धनदो धरणीधरः || ६ ||
धर्मेशो धरणीनाथो ध्येयो धर्मभृता/व्वरः |
सहस्रशीर्षापुरुषः सहस्राक्षस्सहस्रपात् || ७ ||
सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः |
कौसल्यानन्दनश्श्रीमान्क्षःकुलविनाशकः || ८ ||
जगत्कर्त्ता जगद्धर्त्ता जगज्जेता जनार्त्तिहा |
जानकीवल्लभो देवो देवो जयरूपो जलेश्वरः || ९ ||
क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा |
शेषशायी पन्नगारिवाहनो विष्टरश्रवाः || १० ||
माधवो मथुरानाथो मोहदो मोहनाशनः |
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः || ११ ||
सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः |
नित्यो निरामयश्शुद्धो नरदेवो जगत्प्रभुः || १२ ||
हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः |
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः || १३ ||
सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्द्दनः |
यशोदातनयो योगी योगशास्त्रपरायणः || १४ ||
रुद्रात्मको रुद्रमूर्त्ती राघवो मधुसूदनः |
इति ते कथितन्दिव्यन्नाम्नामष्टोत्तरं शतम् || १५ ||
प्. ५६७) सर्वपापहरम्पुण्य/ व्विष्णोरमिततेजसः |
दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्द्धनम् || १६ ||
सर्वसम्पत्करं सौम्यम्महापातकनाशनम् |
प्रातरुत्थाय विप्रेन्द्र पठेदेकाग्रमानसः || १७ ||
तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् || १७ ||
इत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ||
अथ सहस्रनाम
श्रीमहादेव उवाच
ब्रह्महत्यासहस्राणाम्पापं शाम्येत्कथञ्चन |
न पुनस्त्वययविज्ञाते कल्पकोटिशतैरपि || १ ||
यस्मान्मया कृता स्पर्द्धा पवित्रं स्यात्कथं हरे |
नश्यन्ति सर्वपापानि तन्मां वद सुरेश्वर || २ ||
तदाह देवो गोविन्दो मम प्रीत्या यथायथम् || ३ ||
श्रीभगवानुवाच
सदा नाम सहस्रम्मे पावनम्मत्पदावहम् |
तत्परोऽनुदिनं शम्भो सर्वैश्वर्य/ ययदीच्छसि || ४ ||
श्रीमहादेव उवाच
तमेव तपसा नित्यम्भजामि स्तौमि चिन्तये | तेनाद्वितीयमहिमो
जगत्पूज्योऽस्मि पार्वति || ५ ||
श्रीपार्वत्युवाच
तन्मे कथय देवेश यथाह मयी शङ्कर |
शर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो || ६ ||
श्रीमहादेव उवाच
साधु साधु त्वया पृष्टो विष्णोर्ब्भगवतश्शिवे |
नाम्नां सहस्र/ व्वक्ष्यामि मुख्यन्त्रैलोक्यमङ्गलम् || ७ ||
नारायणाय पुरुषोत्तमाय च नमो महात्मने |
विशुद्धसद्माधिष्ठाय महाहंसाय धीमहि || ८ ||
ओं अस्य श्रीविष्णोः सहस्रनाममन्त्रस्य महादेव ऋषिः, परमात्मा
देवता, सूर्यकोटिप्रतीकाश इतिबीजम्, गङ्गातीर्थोत्तमा शक्तिः,
प्रपन्नाशनिपञ्जर इतिकीलकम्, वासुदेवम्परम्ब्रह्म
इत्यङ्गुष्ठाभ्यान्नमः ||
मूलप्रकृतिरिति तर्ज्जनीभ्यान्नमः ||
भूमहावराह इतिमध्यमाभ्यान्नमः ||
सूर्यवंशध्वजो राम अनामिकाभ्यान्नमः ||
ब्रह्मादिकमलादि गदासूर्यकेशवमिति कनिष्ठाभ्यान्नमः ||
प्. ५६८) शेष इतिकरतलकरपृष्ठाभ्यान्नमः ||
दिव्यास्त्र इत्यस्त्रम् ||
सर्वपापक्षयार्त्थं सर्वाभीष्टसिद्ध्यर्त्थं ||
श्रीविष्णोर्न्नामसहस्रं जपे विनियोगः ||
अथ ध्यानम्
विष्णुं
भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिश्रोणीभूषं
सुवक्षोमणिमकरमहाकुंडलम्मण्डितांसम् |
हस्तोद्यच्चक्रशङ्खाम्बुजगदममलम्पीतकौशेयवासोविद्युद्भासं
समुद्यद्दिनकरसदृशम्पद्महस्तन्नमामि || ९ ||
ओं वासुदेवः परम्ब्रह्म परमात्मा परात्परम् |
परन्धाम परञ्ज्योतिः परन्तत्त्वम्परम्पदम् || १० ||
परं शिवम्परो ध्येयः परं ज्ञानम्परा गतिः |
परमार्त्थः परं श्रेयः परानन्दः परोदयः || ११ ||
परो व्यक्तः पर/ व्व्योम परार्द्धः परमेश्वरः |
निरामयो निर्विकारो निर्विकल्पो निराश्रयः || १२ ||
निरञ्जनो निरालम्बो निर्ल्लेपो निरवग्रहः |
निर्गुणो निष्कलोऽनन्तोऽचिन्त्योऽसावचलोऽच्युतः || १३ ||
अतीन्द्रियोऽमितोऽरोध्योऽनीहोऽनीशोऽव्ययोऽक्षयः |
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः || १४ ||
सर्वश्शंभुस्सर्वसाक्षीपूज्यस्सर्वस्य सर्वदृक् |
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः || १५ ||
सर्वावासः सर्वरूपः सर्वादिस्सर्वदुःखहा |
सर्वार्त्थः सर्वतोभद्रः सर्वकारणकारणम् || १६ ||
सर्वातिशायकः सर्वाध्यक्षः सर्वेश्वरेश्वरः |
षड्विंशको महाविष्णुर्महागुह्यो महाहरिः || १७ ||
नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः |
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः || १८ ||
जन्ममृत्युजरातीतः कलातीतो भवातिगः |
पूर्णस्सत्यश्शुद्धबुद्धस्वरूपो नित्यचिन्मयः || १९ ||
योगिप्रियो योगमयो भवबन्धैकमोचकः |
पुराणः पुरुषः प्रत्यक्चैतन्यपुरुषोत्तमः || २० ||
वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्ज्जितः |
ब्रह्मविद्याश्रयोऽलङ्घ्यः स्वप्रकाशः स्वयम्प्रभः || २१ ||
सर्वोपेय उदासीनः प्रणवस्सर्वतस्समः |
प्. ५६९) सर्वानवद्यो दुष्प्रापस्तुरीयस्तमसः परः || २२ ||
कूटस्थः सर्वसंश्लिष्टो वाङ्मनोगोचरातिगः |
सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः || २३ ||
अनुल्लङ्घ्यः सर्वगतिर्म्महारुद्रो दुरासदः |
मूलप्रकृतिरानन्दः प्रज्ञाता विश्वमोहनः || २४ ||
महामायो विश्वबीजम्परशक्तिसुखैकभुक् |
सर्वकाम्योऽनंतशीलस्सर्वभूतवशङ्करः || २५ ||
अनिरुद्धः सर्वजीवो हृसीकेशो मनःपतिः |
निरुपाधिः प्रियो हंसोऽक्षरः सर्वनियोजकः || २६ ||
ब्रह्माप्राणेश्वरः सर्वभूतभृद्देहनायकः |
क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् || २७ ||
अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः |
योगमृग्यः पद्मनाभः शेषशायी श्रियः पतिः || २८ ||
श्रीसत्योपास्यपादाब्जोऽनन्तः श्रीः श्रीनिकेतनः |
नित्यवक्षःस्थलश्रीः श्रीनिधिः श्रीधरो हरिः || २९ ||
रम्यश्रीर्न्निश्चयश्रीदो विष्णुः क्षीराब्धिमन्दिरः |
कौस्तुभोद्भासितोरस्को माधवो जगदार्त्तिहा || ३० ||
श्रीवत्सवक्षा निःसीमः कल्याणगुणभाजनम् |
पीताम्बरो जगन्नाथो जगद्धाता जगत्पिता || ३१ ||
जगद्बन्धुर्ज्जगत्स्रष्टा जगत्कर्त्ता जगन्निधिः |
जगदेकस्फुरद्वीर्यो नाह/व्वादी जगन्मयः || ३२ ||
सर्वाश्चर्यमयस्सर्वसिद्धार्त्थः सर्ववीरजित् |
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः || ३३ ||
शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः |
सर्वदेवप्रियः सर्वदेववृत्तिरनुत्तमः || ३४ ||
सर्वदेवैकशरणं सर्वदेवैकदैवतम् |
यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः || ३५ ||
यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः |
द्विजैकमानदो हिंस्रः कुलदेवोऽसुरान्तकः || ३६ ||
सर्वदुष्टान्तकृत्सर्वसज्जनानन्दपालकः |
सर्वलोकैकजठरः सर्वलोकैकमण्डलः || ३७ ||
सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः |
शङ्खभृन्नन्दकीपद्मपाणिर्ग्गरुडवाहनः || ३८ ||
प्. ५७०) अनिर्द्देश्यवपुः सर्वः सर्वलोकैकपावनः |
अनन्तकीर्त्तिर्निःश्रीशः पौरुषः सर्वमङ्गलः || ३९ ||
सूर्यकोटिप्रतीकाशो यमकोटिविनाशनः |
ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः || ४० ||
कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः |
कुबेरकोटिलक्ष्मीवाञ्छत्रुकोटिविनाशनः || ४१ ||
कन्दर्पकोटिलावण्यो दुर्गकोटिविमर्द्दनः |
समुद्रकोटिगम्भीरस्तीर्त्थकोटिसमाह्वयः || ४२ ||
हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः |
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्च्चनः || ४३ ||
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः |
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः || ४४ ||
विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्त्तनः |
आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा || ४५ ||
वैकुण्ठोऽनन्तमाहात्म्यो महायोगीश्वरेश्वरः |
नित्यतृप्तो नृसद्भावो निःशङ्को नरकान्तकः || ४६ ||
दीनानाथैकशरण/ व्विश्वैकव्यसनापहा |
जगत्क्षमाकृतो नित्यः कृपालुः सज्जनाश्रयः || ४७ ||
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः |
अधोक्षजो विश्वरेताः प्रजापतिसमाधिपः || ४८ ||
शक्रब्रह्मार्च्चितपदः शंभुब्रह्मोर्द्ध्वधामगः |
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः || ४९ ||
जगत्सेतुर्द्धर्मसेतुर्द्धीरोऽरिष्टधुरन्धरः |
निर्म्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् || ५० ||
रम्यमायो विश्वविश्वो विष्वक्सेनो नगोत्तमः |
सर्वः श्रियः पतिर्द्देव्याः सर्वभूषणभूषितः || ५१ ||
सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा |
समस्तदेवसर्वज्ञः सर्वदैवतनायकः || ५२ ||
समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः |
समस्तदेवकवचं सर्वदेवशिरोमणिः || ५३ ||
समस्तभवनिर्ब्भिन्नो भगवान्बिष्टरश्रवाः |
विभुस्सर्वहितोऽप्यर्को हतारिः सुरतिप्रदः || ५४ ||
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः |
ब्रह्माशम्भुपरार्द्धाढ्यो ब्रह्मज्येष्ठः शिशुः स्वराट् || ५५ ||
प्. ५७१) विराड्भक्तपराधीनः स्तुत्यः सर्वार्त्थसाधकः |
सर्वार्त्थकर्त्ता कृत्यज्ञः स्वार्त्थकृत्यसदोज्झितः || ५६ ||
सदानवस्सदाभद्रः सदाशान्तः सदाशिवः |
सदाप्रियः सदातुष्टः सदापुष्टः सदार्च्चितः || ५७ ||
सदापूतः पावनाग्रो वेदगुह्यो वृषाकपिः |
सहस्रनामा त्रियुगश्चतुम्मूर्त्तिश्चतुर्ब्भुजः || ५८ ||
भूतभव्यभवन्नाथो महापुरुषपूर्वतः |
नारायणो मुञ्जकेशः सर्वयोगविनिस्सृतः || ५९ ||
वेदसारो यज्ञसारः सामसारस्तपोनिधिः |
साध्यश्रेष्ठपुराणर्षिर्निष्ठाशान्तिपरायणः || ६० ||
शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः |
नरकृष्णो हरिर्द्धर्मनन्दनो धर्मजीवनः || ६१ ||
आदिकर्त्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा |
विकालो जितकन्दर्प उर्व्वशीदृङ्मुनीश्वरः || ६२ ||
आद्यकविर्हयग्रीवः सर्ववागीश्वरेश्वरः |
सर्वदेवमयो ब्रह्मगुरुर्वाग्ग्मीश्वरीपतिः || ६३ ||
अनन्तविद्याप्रभवो मूलाविद्याविनाशकः |
सर्वार्हणो जगज्जाड्यनाशको मधुसूदनः || ६४ ||
अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपावकः |
आदिविद्वान्वेदकर्त्ता वेदात्मा श्रुतिसागरः || ६५ ||
ब्रह्मार्त्थवेदाभरणः सर्वविज्ञानजन्मभुः |
विद्याराजो ज्ञानराजो ज्ञानसिन्धुरखण्डधीः || ६६ ||
मत्स्यदेवो महाशृङ्खो जगद्बीजविहित्रधृक् |
लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रवर्त्तकः || ६७ ||
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भवः |
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् || ६८ ||
आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः |
हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः || ६९ ||
समस्तपितृभीतिघ्नः समस्तपितृजीवनम् |
हव्यकव्यैकभुग्भव्यो गुणभव्यैकदायकः || ७० ||
लोमान्तलीनजलधिः क्षोभिताशेषसागरः |
महावराहो यज्ञघ्नध्वंसनो याज्ञिकाश्रयः || ७१ ||
नरसिंहो दिव्यसिंहः सर्वारिष्टार्त्तिदुःखहा |
प्. ५७२) एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनम् || ७२ ||
ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः |
कोटिवज्राधिकनखो गजदुष्प्रेक्षमूर्त्तिधृक् || ७३ ||
मातृचक्रप्रमथनो महामातृगणेश्वरः |
अचिन्त्योऽमोघवीर्याढ्यः समस्तासुरघस्मरः || ७४ ||
हिरण्यकशिपुच्छेदी कालः सङ्कर्षणः पतिः |
कृतान्तवाहनः सद्यःसमस्तभयनाशनः || ७५ ||
सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः |
समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः || ७६ ||
भैरवेशो हरार्त्तिघ्नः कालकल्पो दुरासदः |
दैत्यगर्ब्भस्राविनामा स्फुटब्रह्माण्डवर्ज्जितः || ७७ ||
स्मृतिमात्राखिलत्राता भूतरूपो महाहरिः |
ब्रह्मचर्मशिरः पट्टदिक्पालोऽर्द्धाङ्गभूषणः || ७८ ||
द्वादशार्कशिरोधामा रुद्रशीर्षैकनूपुरः |
योगिनीग्रस्तगिरिजारतो भैरवतर्ज्जकः || ७९ ||
वीरचक्रेश्वरोऽत्युग्रो यमारिः कालस/व्वरः |
क्रोधेश्वरो रुद्रचण्डीपरिवादी सुदुष्टभाक् || ८० ||
सर्वाक्षः सर्वमृत्युश्च मृत्युर्म्मृत्युनिवर्त्तकः |
असाध्यस्सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् || ८१ ||
गणेशकोटिदर्पघ्नो दुःसहोऽशेषगोत्रहा |
देवदानवदुर्द्धर्षो जगद्भक्ष्यप्रदः पिता || ८२ ||
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः |
उग्रेशोऽसुरमार्ज्जारः कालमूषकभक्षकः || ८३ ||
अनन्तायुधदोर्द्दण्डो नृसिंहो वीरभद्रजित् |
योगिनीचक्रगुह्येशः शक्रारिः पशुमांसभुक् || ८४ ||
रुद्रो नारायणो मेषरूपशङ्करवाहनः |
मेषरूपी शिवत्राता दुष्टशक्तिसहस्रभुक् || ८५ ||
तुलसीवल्लभो वीरोऽचिन्त्यमायोऽखिलेष्टदः |
महाशिवः शिवो रुद्रो भैरवैककपालभृत् || ८६ ||
भिल्लश्चक्रेश्वरश्चक्रो दिव्यमोहनरूपधृक् |
गौरीसौभाग्यदो मायानिधिर्म्मायाभयापहः || ८७ ||
ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः |
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा || ८८ ||
उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः |
प्. ५७३) बलिस्वराज्यदः सर्वदेवविप्रात्मदोच्युतः || ८९ ||
उरुक्रमस्तीर्त्थपादस्त्रिदशश्च त्रिविक्रमः |
व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः || ९० ||
ब्रह्मेशाद्याभिवन्द्याङ्घ्रिर्द्द्रुतकर्माऽद्रिधारणः |
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः || ९१ ||
बहुमूर्द्धापराङ्गच्छिद् भृगुपत्नीशिरोहरः |
पापस्तेयः सदापुण्यो दैत्येशो नित्यखण्डकः || ९२ ||
पूरिताखिलदेवेशो विश्वार्त्थैकावतारकृत् |
अमरो नित्यगुप्तात्मा भक्तचिन्तामणिः सदा || ९३ ||
वरदः कार्त्तवीर्यादिराजराज्यप्रदोऽनघः |
विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः || ९४ ||
परशक्तिसमायुक्तो योगानन्दमदोन्मदः |
समस्तेन्द्रारितेजोहृत्परमानन्दपादपः || ९५ ||
अनसूयागर्ब्भरत्नो भोगमोक्षसुखप्रदः |
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिहृत् || ९६ ||
मातृहत्याघनिर्ल्लेपः स्कन्दजिद्विप्रराज्यदः |
सर्वक्षत्रान्तकृद्वीरदर्पहा कार्त्तवीर्यजित् || ९७ ||
योगी योगावतारश्च योगीशो योगतत्परः |
परमानन्ददाता च शिवाचार्ययशःप्रदः || ९८ ||
भीमः परशुरामश्च शिवाचार्यैकविश्वभूः |
शिवाखिलज्ञानकोशी भीष्माचार्योऽग्निदैवतः || ९९ ||
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तकृत् |
अद्वितीयतमोमूर्त्तिर्ब्रह्मचर्यैकदक्षिणः || १०० ||
मनुश्रेष्ठः सतांसेतुर्महीयान्वृषभो विराट् |
आदिराजः क्षितिपिता सर्वरत्नकदोहकृत् || १०१ ||
पृथुजन्माद्येकदक्षो ह्रीः श्रीः कीर्त्तिः स्वयंधृतिः |
जगद्वृत्तिप्रदश्चक्रवर्त्तिश्रेष्ठो दुरस्त्रधृक् || १०२ ||
सनकादिमुनिप्रापद्भगवद्भक्तिवर्द्धनः |
वर्णाश्रमादिधर्माणाङ्कर्त्ता वक्ताप्रवर्त्तकः || १०३ ||
सूर्यवंशध्वजारामो राघवः सद्गुणार्णवः |
ककुत्स्थवीरताधर्मो राजधर्मधुरन्धरः || १०४ ||
नित्यसुस्थाशयः सर्वभद्रग्राही शुभैकदृक् |
नवरत्नं रत्ननिधिः सर्वाध्यक्षो महानिधिः || १०५ ||
प्. ५७४) सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् |
जगद्वशी दाशरथिः सर्वरत्नाश्रयो नृपः || १०६ ||
धर्मः समस्तधर्मस्थो धर्मद्रष्टाऽखिलार्त्तिहृत् |
अतीन्द्रोज्ञानविज्ञानपारदृश्वा क्षमाम्बुधिः || १०७ ||
सर्वप्रकृष्टः शिष्टेष्टो हर्षशोकाद्यनाकुलः |
पित्राज्ञा त्यक्तसाम्राज्यः सपत्नोदयनिर्ब्भयः || १०८ ||
गुहादेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः |
चित्रकूटाप्तरत्नाद्रिजगदीशो रणेचरः || १०९ ||
यथेष्टामोघशस्त्रास्त्रो देवेन्द्रतनयाक्षिहा |
ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा || ११० ||
ब्रह्मशापहताशेषदण्डकारण्यपावनः |
चतुर्द्दशसहस्राख्यरक्षोघ्नैकशरैकभृत् || १११ ||
खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्द्दनः |
जटायुषोग्निगतिदः कबन्धस्वर्गदायकः || ११२ ||
लीलाधनुः कोट्यपास्तदुन्दुभ्यस्थिमहाचयः |
सप्ततालव्यथाकृष्टध्वजपातालदानवः || ११३ ||
सुग्रीवराज्यदो धीमान् मनसैवाभयप्रदः |
हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् || ११४ ||
अग्निदैवत्यबाणैकव्याकुलीकृतसागरः |
सम्लेच्छकोटिबाणैकशुष्कनिर्द्दग्धसागरः || ११५ ||
सनागदैत्यधामैकव्याकुलीकृतसागरः |
समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः || ११६ ||
असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः |
वरदृप्तजनस्थानपौलस्त्यकुलकृन्तनः || ११७ ||
रावणघ्नः प्रहस्तच्छित्कुम्भकर्णाभिदुग्रहा |
रावणैकमुखच्छेत्ता निश्शङ्केन्द्रैकराज्यदः || ११८ ||
स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः |
रक्षोदेवत्वहृद्धर्माधर्महर्म्यः पुरुष्टुतः || ११९ ||
नातिमात्रदशास्यारिर्द्दत्तराज्यविभीषणः |
सुधासृष्टिमृताशेषस्वसैन्यजीवनैककृत् || १२० ||
देवब्राह्मणनामैकधाता सर्वामरार्च्चितः |
ब्रह्मसूर्येन्द्ररुद्रादिवन्द्योऽर्च्चितः सताम्प्रियः || १२१ ||
अयोध्याखिलराज्यार्हस्सर्वभूतमनोहरः |
प्. ५७५) स्वाम्यतुल्यकृपादत्तो हीनोत्कृष्टैकसत्प्रियः || १२२ ||
स्वपक्षादिन्यायदर्शी हीनार्त्थोऽधिकसाधकः |
व्याधव्याजानुचितकृत्तावकोऽखिलतुष्टिकृत् || १२३ ||
पार्वत्यधिकयुक्तात्मा प्रियात्यक्तसुरारिजित् |
साक्षात्कुशलवत्सद्मेन्द्राग्निनातोपराजितः || १२४ ||
कोशलेन्द्रो वीरबाहुः सत्यार्त्थस्त्यक्तसोदरः |
यशोदानन्दनो नन्दी धरणीमण्डलोदयः || १२५ ||
ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः |
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्त्थपः || १२६ ||
स्वर्णीतगर्द्दभश्वादिचिरायोध्याबलैककृत् |
रामाद्वितीयः सौमित्रिलक्ष्मणप्रहतेन्द्रजित् || १२७ ||
विष्णुभक्ताशिवांहःक्षित्पादुकाराज्यनिर्वृतः |
भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः || १२८ ||
शत्रुघ्नो वैद्यराडायुर्वेदगर्ब्भौषधीपतिः |
नित्यानित्याकरो धन्वन्तरिर्यज्ञो जगद्धरः || १२९ ||
सूर्यविघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः |
छिन्नमूर्द्धोपदेशार्कतनूजकृतमैत्रिकः || १३० ||
शेषाङ्गस्थापितनरः कपिलः कर्द्दमात्मजः |
योगात्मकध्यानभङ्गसगरात्मजभस्मकृत् || १३१ ||
धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः |
शम्भुत्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः || १३२ ||
विश्वात्माऽशेषरुद्रार्त्थशिरश्च्छेदाक्षताकृतिः |
वाजपेयादिनामाग्निर्वेदधर्मपरायणः || १३३ ||
श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् |
विश्वप्रकाशितध्यानयोगो मोहोतमिस्रहा || १३४ ||
भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः |
महाप्रलयविश्वैकोऽद्वितीयोखिलदैत्यराट् || १३५ ||
शेषदेवः सहस्राक्षः सहस्राऽङ्घ्रिशिरोभुजः |
फणीफणिफणाकारयोजिताभ्यम्बुदक्षितिः || १३६ ||
कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः |
नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा || १३७ ||
स्वसन्तोषतृप्तिमात्रः पातितैकदशाननः |
प्. ५७६) बलिस/ययमनो घोरो रौहिणेयः प्रलम्बहा || १३८ ||
मुष्टिकघ्नो द्विविदहा कालिन्दीभेदनो बलः |
रेवतीरमणः पूर्वभक्तिरेवाच्युताग्रजः || १३९ ||
देवकीवसुदेवोत्थोऽदितिकश्यपनन्दनः |
वार्ष्णेयः सात्वतांश्रेष्ठः शौरिर्यदुकुलोद्वहः || १४० ||
नराकृतिः पूर्णब्रह्म सव्यसाची परंतपः |
ब्रह्मादिकामनानित्यजगत्पर्वेतशैशवः || १४१ ||
पूतनाघ्नः शकटभिद्यमलार्ज्जुनभञ्जनः |
वत्सासुरारिः केशिघ्नो धेनुकारिर्ग्गवीश्वरः || १४२ ||
दामोदरो गोपदेवो यशोदानन्दकारकः |
कालीयमर्द्दनः सर्वगोपगोपीजनप्रियः || १४३ ||
लीलागोवर्द्धनधरो गोविन्दो गोकुलोत्सवः |
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः || १४४ ||
सद्यः कुवलयापीडघाती चाणूरमर्द्दनः |
कंसारिरुग्रसेनादिराज्यस्थाप्यरिहाऽमरः || १४५ ||
सुधर्माङ्कितभूलोको जरासन्धवलान्तकः |
त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः || १४६ ||
सान्दीपनिमृतापत्यदाता कालान्तकादिजित् |
रुक्मिणीरमणो रुक्मिशासनो नरकान्तकृत् || १४७ ||
समस्तनरकत्राता सर्वभूपतिकोटिजित् |
समस्तसुन्दरीकान्तोऽसुरारिर्ग्गरुडध्वजः || १४८ ||
एकाकीजितरुद्रार्कमरुदापोऽखिलेश्वरः |
देवेन्द्रदर्पहा कल्पद्रुमालंकृतभूतलः || १४९ ||
बाणबाहुसहस्रच्छित्स्कन्धाद्रिगणकोटिजित् |
लीलाजितमहादेवो महादेवैकपूजितः || १५० ||
इन्द्रार्त्थार्ज्जुननिर्ब्भर्त्सुर्ज्जयदः पाण्डवैकधृक् |
काशीराजशिरश्छेत्ता रुद्रशक्त्येकमर्द्दनः || १५१ ||
विश्वेश्वरप्रसादाढ्यः काशीराजसुतार्द्दनः |
शम्भुप्रतिज्ञापाता च स्वयम्भूगणपूजकः || १५२ ||
काशीशगणकोटिघ्नो लोकशिक्षाद्विजार्च्चकः |
शिवतीव्रतपोवश्यः पुराशिववरप्रदः || १५३ ||
गयासुरप्रतिज्ञाधृक् स्वांशशङ्करपूजकः |
शिवकन्याव्रतपतिः कृष्णरूपः शिवारिहा || १५४ ||
महालक्ष्मीवपुर्गौरीत्राणो देवलवातहा |
प्. ५७७) विनिद्रमुचुकुन्दैकब्रह्मास्त्रयुवनाश्वहृत् || १५५ ||
अक्रूरोऽक्रूरमुख्यैकभक्तस्वच्छन्दमुक्तिदः |
सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः || १५६ ||
यमुनापतिरानीतपरिणीतद्विजात्मकः |
श्रीदामशङ्कुभक्तार्त्थभूम्यानीतेन्द्रभैरवः || १५७ ||
दुर्व्वृत्तशिशुपालैकमुक्तिको द्वारकेश्वरः |
आचाण्डालादिकम्प्राप्यद्वारकानिधिकोटिकृत् || १५८ ||
ब्रह्मास्त्रदग्धगर्ब्भस्थपरीक्षिज्जीवनैककृत् |
परिणीतद्विजसुतानेतार्ज्जुनमदापहः || १५९ ||
गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः |
पार्त्थार्त्थखण्डिताशेषदिव्यास्त्रः पार्त्थमोहभृत् || १६० ||
ब्रह्मशापच्छलध्वस्तयादवो विभवावहः |
अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः || १६१ ||
पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः |
उषापतिर्विश्वहेतुर्विश्वतृप्तोऽधिपूरुषः || १६२ ||
चतुरात्मा चतुर्वर्णश्चतुर्वेदविधायकः |
चतुर्विश्वैकविश्वात्मा सर्वोत्कृष्टासुकोटिषु || १६३ ||
आश्रयात्मा पुराणर्षिर्व्यासः शास्त्रसहस्रकृत् |
महाभारतनिर्माता कवीन्द्रो बादरायणः || १६४ ||
कृष्णद्वैपायनः सर्वपुरुषार्त्थकबोधकः |
वेदान्तकर्त्ता ब्रह्मेकव्यञ्जकः पुरुवंशकृत् || १६५ ||
बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः |
निरायुधो जगज्जैत्रः श्रीधनो दुष्टमोहनः || १६६ ||
दैत्यदेवबहिष्कर्त्ता वेदार्त्थश्रुतिगोपकः |
शुद्धोदनिर्न्नष्टदिष्टः सुखदः सदसत्पतिः || १६७ ||
यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः |
चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः || १६८ ||
पाषण्डश्रुतिमार्गेण पाषण्डश्रुतिगोपकः |
कल्की विष्णुयशः पुत्रः कलिकालविलोपकः || १६९ ||
समस्तम्लेच्छहस्तघ्नः सर्वशिष्टद्विजातिकृत् |
सत्यप्रवर्त्तको देवद्विजदीर्ग्घक्षुधापहः || १७० ||
अश्वरावादिवेदेन पृथ्वीदुर्गतिनाशनः |
सद्यःक्ष्मानन्तलक्ष्मीकृन्नष्टनिःशेषधर्मकृत् || १७१ ||
प्. ५७८) अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः |
असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः || १७२ ||
आत्मातत्त्वाधिपः कर्त्तृश्रेष्ठो विधिरुमापतिः |
भर्त्तुःश्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः || १७३ ||
कश्यपो देवाराडिन्द्रः प्रह्लादो दैत्यराट्शशी |
नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः || १७४ ||
महर्षिराड्भृगुर्विष्णुरादित्येशो बलिः स्वराट् |
वायुर्वह्निः शुचिः श्रेष्ठः शङ्करो रुद्रराड्गुरुः || १७५ ||
विद्वत्तमश्चित्ररथो गन्धर्वाग्र्यो वसूत्तमः |
वर्णादिरग्र्यास्त्रीगौरीशक्त्यग्र्याश्रीश्च नारदः || १७६ ||
देवर्षिराट् पाण्डवाग्र्योऽर्ज्जुनो नारदवादराट् |
पवनः पवनेशानो वरुणो यादसाम्पतिः || १७७ ||
गङ्गातीर्त्थोत्तमोद्धृतञ्छत्रकाग्र्य/ व्वरौषधम् |
अन्नं सुदर्श्शनास्त्राग्र्यो वज्रप्रहरणोत्तमम् || १७८ ||
उच्चैःश्रवा वाजिराज ऐरावत इमेश्वरः |
अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् || १७९ ||
अध्यात्मविद्याविद्यात्मा प्रणवञ्छन्दसा/व्वरः |
मेरुर्गिरिपतिर्मार्गो सामाग्र्यः कालसत्तमः || १८० ||
दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् |
तार्क्ष्यः खगेन्द्र ऋत्वग्र्यो वसन्तः कल्पपादपः || १८१ ||
दातृश्रेष्ठः कामधेनुरार्त्तिघ्नाग्र्यः सुरोत्तमः
चिन्तामणिर्गुरुश्रेष्ठो माताहिततमः पिता || १८२ ||
सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्ब्भूधरो नृपः |
वर्णेशो ब्राह्मणश्चान्तःकरणाग्र्यन्नमो नमः || १८३ ||
इत्येतद्वासुदेवस्य विष्णोर्न्नाम सहस्रकम् |
सर्वापराधशमनम्परम्भक्तिविवर्द्धनम् || १८४ ||
अक्षयब्रह्मलोकादिसर्वर्त्थाप्त्यैकसाधनम् |
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् || १८५ ||
समस्तसुखदं सत्यम्परन्निर्वाणदायकम् |
कामक्रोधादिनिश्शेषमनोमलविशोधनम् || १८६ ||
शान्तिदम्पावनन्नॄणाम्महापातकिनामपि |
सर्वेषाम्प्राणिनामाशु सर्वाभीष्टफलप्रदम् || १८७ ||
प्. ५७९) सर्वविघ्नप्रशमनं सर्वारिष्टविनाशनम् |
घोरदुःखप्रशमनन्तीव्रदारिद्र्यनाशनम् || १८८ ||
तापत्रयापहङ्गुह्यन्धनधान्ययशस्करम् |
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वकालदम् || १८९ ||
तीर्त्थयज्ञतपोदानव्रतकोटिफलप्रदम् |
अप्रज्ञजाड्यशमनं सर्वविद्याप्रवर्त्तकम् || १९० ||
राज्यदं राज्यकामानां रोगिणां सर्वरोगनुत् |
वन्ध्यानां सुतदञ्चाशु सर्वश्रेष्ठफलप्रदम् || १९१ ||
अस्त्रग्रामविषध्वंसि ग्रहपीडाविनाशनम् |
माङ्गल्यम्पुण्यमायुष्यं श्रवणात्पठनाज्जपात् || १९२ ||
सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः |
पुराणशास्त्रं स्मृतयः पठिताः पाठितास्तथा || १९३ ||
जप्त्वाऽस्य श्लोकार्द्धम्पाद/ व्वा पठतः प्रिये |
नित्यं सिद्ध्यति सर्वेषामचिरात्किमुतोऽखिलम् || १९४ ||
प्राणेन सदृशं सद्यः प्रत्यहं सर्वकर्मसु |
इदम्भद्रे त्वया गोप्यम्पाठ्यं स्वार्त्थैकसिद्धये || १९५ ||
नावैष्णवाय दातव्य/ व्विकल्पोपहतात्मने |
भक्तिश्रद्धाविहीनाय विष्णुसामान्य दर्श्शिने || १९६ ||
देयम्पुत्राय शिष्याय शुद्धाय हितकाम्यया |
मत्प्रसादादृते नेदं ग्रहीष्यन्त्यल्पमेधसः || १९७ ||
कलौ सद्यः फलङ्कल्पग्राममेष्यति नारद |
लोकानाम्भाग्यहीनाना/ ययेन दुःख/ व्विनश्यति || १९८ ||
क्षेत्रेषु वैष्णवेष्वेतदार्यावर्त्ते भविष्यति |
परं सत्यन्नास्ति विष्णोः परं सत्यन्नास्ति विष्णोः परम्पदम् || १९९ ||
नास्ति विष्णोः परं ज्ञानन्नास्ति मोक्षो ह्यवैष्णवः |
नास्ति विष्णोः परो मन्त्रो नास्ति विष्णोः परन्तपः || २०० ||
नास्ति विष्णोः परन्ध्यानन्नास्ति मन्त्रो ह्यवैष्णवः |
किन्तस्य बहुभिर्म्मन्त्रैः किञ्जपैर्ब्बहुविस्तरैः || २०१ ||
वाजपेयसहस्रैः किं भक्तिर्यस्य जनार्द्दने |
सर्वतीर्त्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः || २०२ ||
सर्वक्रतुमयो विष्णुः सत्यं सत्य/ व्वदाम्यहम् |
प्. ५८०) आब्रह्मसारसर्वस्वं सर्वमेतन्मयोदितम् || २०३ ||
श्रीपार्वत्युवाच
धन्यास्म्यनुगृहीतास्मि कृतार्त्थास्मि जगद्गुरो |
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्ल्लभम् || २०४ ||
अहो बत महत्कष्टं समस्तसुखदे हरौ |
विद्यमानेऽपि सर्वेशे मूढाः क्लिश्यन्ति संसृतौ || २०५ ||
यमुद्दिश्य सदा नाथो महेशोपि दिगम्बरः |
जटिलो भस्मलिप्ताङ्गस्तपस्वी विक्षितो जनैः || २०६ ||
अतोऽधिको न देवोऽस्ति लक्ष्मीकान्तान्मधुद्विषः |
यत्तत्त्वञ्चिन्त्यते नित्यन्त्वया योगीश्वरेण हि || २०७ ||
अतः परङ्किमधिकम्पदं श्रीपुरुषोत्तमात् |
तमविज्ञाय तान्मूढा यजन्ते ज्ञानमानिनः || २०८ ||
मुषितास्मि त्वया नाथ चिर/ ययदयमीश्वरः |
प्रकाशितो न मे यस्य दत्ताद्या दिव्यशक्तयः || २०९ ||
अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः |
भवदादिगुरुर्म्मूढैः सामान्य इव लक्ष्यते || २१० ||
महीयसां हि माहात्म्यम्भजमानान् भजंति चेत् |
द्विषतोऽपि तथा पापानुपेक्ष्यन्ते क्षमालयाः || २११ ||
मयापि बाल्ये स्वपितुः प्रजा हृष्टा बुभुक्षिताः |
दुःखादशक्ताः स्वम्पोष्टुं श्रिया नाध्यासिताः पुरा || २१२ ||
त्वया स/व्वर्द्धिताभिश्च प्रजाभिर्विबुधादयः |
विशसद्भिः स्वशक्त्याद्याः ससुहृन्मित्रबान्धवाः || २१३ ||
त्वया विना क्व देवत्वङ्क्व धैर्यं क्व परिग्रहः |
सर्वे भवन्ति जीवन्तो यातनाः शिरसि स्थिताः || २१४ ||
तामृतेनैव धर्मार्त्थौ कामो मोक्षोऽपि दुर्ल्लभः |
क्षुधितानान्दुर्गतानाङ्कुतो योगसमाधयः || २१५ ||
सा च संसारसारैका सर्वलोकैकपालिका |
वश्या सा कमला यस्य त्यक्त्वा त्वामपि शङ्कर || २१६ ||
श्रिया धर्मेण शौर्येण रूपेणार्जवसम्पदा |
सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः || २१७ ||
कस्तेन तुल्यतामेति देवदेवेन विष्णुना |
यस्यांशांशकभागेन विना सर्वं विलीयते || २१८ ||
प्. ५८१) जगदेतत्तथा प्राहुर्द्दोषायेतद्विमोहिताः |
नास्य जन्म जरा मृत्युर्न्नाप्राप्य/ व्वार्त्थमेव वा || २१९ ||
तथापि कुरुते धर्मान्पालनाय सतां कृते |
विज्ञापय महादेवम्प्रणम्यैकम्महेश्वरम् || २२० ||
अवधार्य तथा साऽहं कान्त कामद शाश्वत |
कामाद्यासक्तचित्तत्वात्किन्तु सर्वेश्वर प्रभो || २२१ ||
त्वन्मयत्वात्प्रसादाद्वा शक्नोमि पठितुन्न चेत् |
विष्णोस्सहस्रनामैतत्प्रत्यह/ व्वृषभध्वज |
नाम्नैकेन तु येन स्यात्तत्फलम्ब्रूहि मे प्रभो || २२२ ||
श्रीमहादेव उवाच
रामरामेति रामेति रमे रामे मनोरमे |
सहस्रनाममितातुल्यं रामनाम वरानने || २२३ ||
अतः सर्वाणि तीर्त्थानि जलञ्चैव प्रयागजम् |
विष्णोर्न्नाम सहस्रस्य कलान्नार्हन्ति षोडशीम् || २२४ ||
इति नारदपञ्चरात्रोक्तं श्रीविष्णोर्न्नामसहस्रं समाप्तम् ||
इति विष्णुतन्त्रं समाप्तम्
इति श्रीशाक्तप्रमोदस्समाप्तः
ग्रन्थस्य विषयानुक्रमणिका
कालीध्यानं तदुक्तं परमिह लिखितं चित्रिताङ्गञ्च काल्या
यन्त्रोद्धारस्सयन्त्रो मनुरपि कथितः सोद्धृतिः पूजनञ्च |
सङ्क्षिप्तं चाप्यनल्पं स्तुतिरपि कथिता चापराधार्द्दनी च ||
नाम्नां साहस्रमुक्तं शतमुपनिषदावर्महृच्चोक्तमत्र || १ ||
तारायाः पूजनं स्तोत्रमिह हि गदित/ व्वर्म चोक्त/ व्वरेण्यं
तत्पश्चाद्ध्यृत्समुक्तं परमुपनिषदष्टोत्तरम्पूतनाम्नाम् ||
यत्नात्प्रोक्तन्तदीयं शतमिह शुभदन्तत्सहस्रञ्च
रम्यन्तारारूपन्तमोघ्नन्त्वरितफलकरषोडशीयन्तथैव || २ ||
लक्ष्म्या लालित्ययुक्तं सकलमपि तथा सुक्तमत्रादिकञ्च धूमा
धर्मार्त्थयुक्तन्तदिह च भुवनाभक्तिदञ्छिन्नमस्ता ||
प्. ५८२)
शत्रुच्छेदप्रदन्तद्बलयुतबगलाबुद्धिदम्भैरवीयम्मातङ्ग्या
माननीय/ ययजनमथ नुतिर्वर्म हृत्प्रोक्तमत्र || ३ ||
नाम्नामष्टोत्त/ययच्छतमिह लिखितन्तत्सहस्रम्परञ्च पूजा प्रोक्ता
कुमार्याः स्तुतिरपि कथिता वर्म तत्तर्पणञ्च |
होमो दानम्बलेश्च प्रचरितमिह वै शोभि शाक्तप्रमोदे प्राप्ते
दौर्लभ्यमेषामिह तु समुदितं सर्वमेकत्र लभ्यम् || ४ ||
ध्यानन्तदुक्तञ्चित्रञ्च यन्त्रमन्त्रौ च कीर्त्तितौ ||
सोद्धारो दशविद्यानामस्मिञ्छाक्तप्रमोदके || ५ ||
विष्णोर्द्ध्यानं सचित्र/ ययजनविधिरपि स्तोत्रमस्मिन्स-वर्म
हृत्प्रोक्तञ्चापि युक्तं सममुपनिषदाष्टोत्तरन्नाम तस्य |
मन्त्रोग्रन्देवगोप्यं शतमिह लिखितञ्चापि नाम्नां सहस्रं
सोद्धारौ यन्त्रमन्त्रावहृदयमखिलन्तादृशन्तच्च देव्याः || ६ ||
एतत्सर्वङ्गणेशेश्वरहृदयविहीनं समुक्तं
सदस्मिन्मार्त्तण्डस्यापि तादृक्सकलमिह परं हृच्च सूक्तेन युक्तम् |
नास्त्यस्मिंस्तस्य चोग्रोपनिषदवगता बोद्ध्यमेतद्विचित्रं
सर्वन्तूपात्तमस्मिन्सकलबुधजनैर्यद्यथास्थानलब्धम् || ७ ||
षट्वेदाङ्केन्दु (१९४६) युक्ते शरदि विधुदिने सत्तिथौ षण्मुखस्य अक्षे
पक्षे सुमासे जयसुखशुभदे माधवे मानवानाम् |
ग्रन्थः शाक्तप्रमोदोऽगमदयमखिलः सम्प्रदेशः समाप्तिं
श्रीदेवैर्न्नन्दनान्तैर्न्नृपकुलकमलाहस्करैः सुप्रणीतः || ८ ||
इति ग्रन्थस्य विषयाः समाप्ताः
Abschluss und Weiterführung
Dieser zweite Devanagari-Teil führt bis zum Abschluss des Śākta Pramoda. Gemeinsam mit Shakta Pramoda Sanskrit Devanagari Teil 1 stellt er die vorliegende Sanskrit-Schriftfassung bereit. Die entsprechende Umschrift ist auf Shakta Pramoda, Shakta Pramoda Teil 2 und Shakta Pramoda Teil 3 verteilt.
Für die Anwendung ausgewählter Texte führen die Kamalā-Andacht und die Rituale zu Gaṇeśa, Śiva und Durgā von der Lektüre zur beschriebenen Handlung. Die Werk-Kategorie sammelt alle zugehörigen Artikel.
Textausgabe: Hauptartikel: Kālī bis Chinnamastā · Textteil 2: Bhairavī bis Kamalā · Textteil 3: Kumārī bis Viṣṇu
Sanskrit in Devanagari: Devanagari 1: Kālī bis Mātaṅgī · Devanagari 2: Kamalā bis Viṣṇu
Praxisanleitungen: Rituale 1: Kālī und Tārā · Rituale 2: Kamalā und Mātaṅgī · Rituale 3: Gaṇeśa, Śiva und Durgā
Alle Artikel der Kategorie Shakti Pramoda
Textgrundlage
Grundlage der Textausgabe ist die elektronische Muktabodha-Fassung M00054 des Śāktapramoda. Das überlieferte Titelblatt nennt Rāja Devanandanasiṃha als Zusammensteller sowie Khemarāja Śrīkṛṣṇadāsa und die Śrīveṅkaṭeśvara Press in Bombay. Die Datumszeile lautet 1892, Saṃvat 1949; 1949 ist hier die Jahresangabe der Saṃvat-Zählung und kein ausgewiesenes christliches Nachdruckjahr. Die Sanskritfassungen bewahren die vorliegenden Lesungen einschließlich ihrer erkennbaren Textprobleme. Die Ritualartikel erläutern gesondert, wo sie Schreibungen für die Rezitation normalisieren oder den Ablauf kürzen.