Shakta Pramoda Sanskrit Devanagari Teil 1
Shakta Pramoda Sanskrit Devanagari Teil 1 enthält den Sanskrittext der ersten neun Werkabschnitte: Kālī, Tārā, Ṣoḍaśī, Bhuvaneśvarī, Chinnamastā, Tripurabhairavī, Dhūmāvatī, Bagalāmukhī und Mātaṅgī. Die Seite gehört zur Artikelreihe Shakta Pramoda / Shakti Pramoda und ermöglicht das Studium der Mantras, Gebete und Ritualanweisungen in Devanagari.
Die Umschrift und deutsche Inhaltserschließung zu Kālī bis Chinnamastā stehen im Hauptartikel, diejenigen zu Bhairavī bis Mātaṅgī in Shakta Pramoda Teil 2. Der folgende Devanagari-Teil beginnt mit Kamalātmikā und führt bis zum Werkende.
Die Schriftfassung dient der genauen Textlektüre. Für eine praktische Durchführung führen die unten verknüpften Ritualartikel Schritt für Schritt durch ausgewählte Abläufe. Erkennbare ungewöhnliche Lesungen und technische Zeichen der elektronischen Vorlage bleiben im Grundtext erhalten; diese dokumentarische Wiedergabe ist keine durchgehend philologisch bereinigte Rezitationsausgabe.
Textausgabe: Hauptartikel: Kālī bis Chinnamastā · Textteil 2: Bhairavī bis Kamalā · Textteil 3: Kumārī bis Viṣṇu
Sanskrit in Devanagari: Devanagari 1: Kālī bis Mātaṅgī · Devanagari 2: Kamalā bis Viṣṇu
Praxisanleitungen: Rituale 1: Kālī und Tārā · Rituale 2: Kamalā und Mātaṅgī · Rituale 3: Gaṇeśa, Śiva und Durgā
Alle Artikel der Kategorie Shakti Pramoda
Passende Text- und Praxisabschnitte
| Gegenstand | Sanskrit in IAST | Sanskrit in Devanagari | Ausgearbeitete Praxis |
|---|---|---|---|
| Kālī | IAST: Kālī | Devanagari: Kālī | Ritualanleitung |
| Tārā | IAST: Tārā | Devanagari: Tārā | Ritualanleitung |
| Ṣoḍaśī / Tripurasundarī | IAST: Ṣoḍaśī / Tripurasundarī | Devanagari: Ṣoḍaśī / Tripurasundarī | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Bhuvaneśvarī | IAST: Bhuvaneśvarī | Devanagari: Bhuvaneśvarī | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Chinnamastā | IAST: Chinnamastā | Devanagari: Chinnamastā | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Tripurabhairavī | IAST: Tripurabhairavī | Devanagari: Tripurabhairavī | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Dhūmāvatī | IAST: Dhūmāvatī | Devanagari: Dhūmāvatī | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Bagalāmukhī | IAST: Bagalāmukhī | Devanagari: Bagalāmukhī | In der derzeitigen praktischen Auswahl nicht ausgearbeitet. |
| Mātaṅgī | IAST: Mātaṅgī | Devanagari: Mātaṅgī | Ritualanleitung |
Sanskrit in Devanagari
श्रीः
शाक्तप्रमोदः
काल्यादिदशमहाविद्यातन्त्रात्मकः
कुमार्यादिपंचायतनदेवतानां तन्त्रैश्च समलंकृतः
शिवहरराजधानीराजभिः
श्रीराजदेवनन्दनसिंहबहादुरनराधिपैः
संगृह्य विरचितः
मुद्रक एवं प्रकाशकः
खेमराज श्रीकृष्णदास
अध्यक्ष श्रीवेंकटेश्वर प्रेस
खेमराज श्रीकृष्णदास मार्ग बोंब-ई ४०० ००४
संस्करण सन् १८९२, सम्वत् १९४९
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
नत्वा कालीङ्कृपार्द्राङ्कलिकलुषहराङ्कोमलाङ्कान्तदेहाम् |
कुर्व्वे शाक्तप्रमोदं सुकृतसुमतिदं शोभनं सज्जनानाम् ||
शक्तीनां सत्सपर्यादिकमिह गदितं तत्समन्त्रन्दशानाम् |
पञ्चानान्देवतानामपि तदखिलकङ्खण्डनन्दुर्म्मतीनाम् ||
अथ श्रीकालीध्यानम्
शवारूढाम्महाभीमाङ्घोरदंष्ट्रां हसन्मुखीम् |
चतुर्भुजाङ्खड्गमुण्डवराभयकरां शिवाम् || १ ||
मुण्डमालाधरान्देवीं ललज्जिह्वान्दिगम्बराम् |
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् || २ ||
प्. ४) अथ यन्त्रोद्धारः
आदौ त्रिकोणमालिख्य त्रिकोणन्तद्बहिर्लिखेत् |
ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् || १ ||
ततस्त्रिवृत्तमालिख्य लिखेदष्टदलं ततः |
वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककम् || २ ||
अथ मन्त्रोद्धारः
कालीबीजत्रयम्प्रोक्त्वा लज्जाबीजद्वयन्ततः |
हू/कारौ द्वौ ततः पश्चाद्दक्षिणे कालिके ततः || १ ||
कालीबीजत्रयन्तस्माल्लज्जाबीजद्वयं पठेत् |
द्वौ च स्वाहान्तहूङ्कारौ कालीमन्त्र उदाहृतः || २ ||
अथ मन्त्रः
क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं ३ ह्रीं २
हू/ २ स्वाहा ||
अथ श्रीदक्षिणकालीसपर्यापद्धतिः
प्रथमम्पञ्चवर्णरजश्चित्रं शुद्धं स्थानं गत्वा पूजावेद्या
बहिः स्थित्वा गुरुम्प्रणम्य इष्टदेवताम्प्रणम्य दिक्पालांश्च
प्रणम्य आचम्य ततः कुशहस्तो मौनी पापशमनार्थं
श्लोकद्वयम्पठेत् | तद्यथा -
ओ देवि त्वत्प्रकृतञ्चित्तम्पापाक्रान्तमभून्मम |
तन्निस्सरन्तु चित्तान्मे पापं हूं फट् च ते नमः || १ ||
सूर्यस्सोमो यमःकालो महाभूतानि पञ्च च ||
प्. ५) एते शुभाशुभस्येह कर्मणो नव साक्षिणः ऽ
इति पठित्वा सम्प्रार्थ्य गृहे प्रविशेत् | मौनी मूलेनाचम्य
ऽओ वज्रोदके हूं फट् स्वाहाऽ इति जलङ्गृहीत्वा ऽहूं स्वाहाऽ इति करे
आदाय ऽओं ह्रीं विशुद्धसर्वपापानिशमयाशेषविकल्पमपनय हू/
फट् स्वाहाऽ इत्यनेन पादौ प्रक्षाल्य ऽओं ह्रीं स्वाहाऽ इति पुनराचम्य
ऽऐं कालिकायै नमः, ऐं कपालिन्यै नमः, ऐं कुल्लायै नमःऽ इति
त्रिराचम्य ततो मूलेन हस्तौ प्रक्षाल्य ऽओं कालिकायै नमः | ओं
कपालिन्यै नमःऽ इति दशहस्ताङ्गुलीभिरोष्ठौ द्विरुन्मृज्य ऽओं कुल्लायै
नमःऽ इति करं प्रक्षाल्य मूलेन
सङ्कुचिताङ्गुलीभिर्मुखतर्जन्यङ्गुष्ठाभ्यां नासिकां मूलेन
अनामिकाङ्गुष्ठाभ्याङ्कर्णमङ्गुष्ठकनिष्ठाभ्यान्नाभिन्तलेनह्
ऋदयं सर्वाङ्गुलीभिर्मस्तकं भुजौ च स्पृशेत् |
ततस्तिलकङ्कुलचन्दनादिना
ललाटोदरहृत्कण्ठदक्षपार्श्वांसकण्ठपृष्ठककुदि भुजद्वन्द्वे
मूर्द्धनि द्वादशस्वपि स्थानेषु कुर्यात् | ततो
ऽदेव्यस्त्र/व्विलिखेद्भाले कालीबीजन्ततो हृदि ||
शक्तिम्मध्यगताङ्कृत्वाकूर्चबीजन्न्यसेत्सुधीःऽ
ततः सामान्यार्घ्यस्थापनङ्कुर्यात् ||
तद्यथा-स्ववामेत्रिकोणवृत्तभूपुरात्मकम्मण्डल/व्विलिख्य ततः ऽओं
आधारशक्तिभ्यो नमःऽ इति पुष्पाक्षतादिभिरभ्यर्च्य ऽओं हः
द्वारार्घ्यं साधयामिऽ इत्युक्त्वा ऽफट्ऽ इतिप्रक्षालितं
शङ्खादिपात्रन्त्रिपादिकोपरि निधाय ऽनमःऽ इति जलेनापूर्य
ऽगङ्गे च यमुने चैव गोदावरिसरस्वति |
नर्मदे सिन्धुकावेरिजलेऽस्मिन्सन्निधिङ्कुरुऽ
इतिमन्त्रेणाङ्कुशमुद्रयासूर्य मण्डलात्तीर्थन्तज्जले आवाह्य,
गन्धादिकम्प्रणवेननिःक्षिप्य, धेनुमत्स्यमुद्रे दर्शयित्वा,
प्रणवेनाष्टादशकृत्वोवाभिमन्त्र्यफडिति मन्त्रेणद्वारमभिषेचयेत्
ऽओं मणिधरिणि वज्रिणि शिखरिणि सर्वलोकवशङ्करि हूंफट्स्वाहाऽ इति
शिखाम्बध्नीयात् || ततो द्वारदेवताः पूजयेत् ऽगंगणेशाय नमः,
बं बटुकाय नमः, क्षंक्षेत्रेशाय नमः, यं योगिनीभ्यो नमःऽ
इति ऊध्वें वामेदक्षे
प्. ६) अध इति चतुर्दिक्षु पूजयेत् ऽ गंगङ्गायै नमः, यंयमुनायै
नमःऽ इति शाखापार्श्वयोः ऽलंलक्ष्म्यैनमः, संसरस्वत्यैनमःऽ
|| इति ऊर्ध्वे अधश्चपूजयेत् ||
ऽओं ब्रह्माण्याद्यष्टमातृभ्योनमःऽ इतिदेहल्याम्
गन्धपुष्पादिनाभ्यर्च्च्यततोदक्षिणाङ्गंसङ्कोचयन्
दक्षचरणमग्रे निधाय वामशाखामस्पृशन् मण्डलाभ्यन्तरे
गत्वा ऽओं रक्षरक्षहू/फट्स्वाहाऽ इति जलेनाभिषिच्य ऽ ओं
पवित्रवज्रभूमेहू/फट्स्वाहाऽ इत्यभिमन्त्र्य
ऽहींआधारशक्तिकमलासनायनमःऽ इत्यासनमभ्यर्च्यत्रिकोण/
विलिख्य ऽआसुरेखेवज्ररेखेहू/फट्स्वाहाऽ इति मण्डल/व्विलिख्य तत्र
ऽहसौंऽ इतिप्रेतबीज/व्विलिख्य ऽह्रीं आधारशक्तिकमलासनायनमःऽ
इत्यासनमभ्यर्च्य | ओं अनन्ताय नमः, विमलासनायनमः,
पद्मासनायनमःऽ इति कुशानास्तीर्य
व्याघ्राजिनकृष्णसारमृगाजिनङ्कम्बलासन/ वा प्रकल्पयेत् |
तदभावेतुपञ्चविंशतिकुशनिर्मितविष्टरं शवरूप/ वा प्रकल्पयेत्
|| ऽह्सौंमहाप्रेतपद्मासनायनमःऽ इत्यभ्यर्च्य तत्रासने
आत्ममन्त्रेण
उपविश्यवामोरूपरिदक्षिणपादङ्कृत्वाबद्धवीरासनः
वामपादोपरि दक्षिणोरुन्धृत्वाविपरीत/व्वा पूर्वाभिमुख
उत्तराभिमुखोवा-आसनन्धृत्वा मन्त्रम्पठेत् ||
आसनमन्त्रस्यमेरुपृष्ठऋषिः सुतलञ्छन्दः कूर्मोदेवता
आसनपरिग्रहेविनियोगः ऽओं पृथ्वित्वयाधृतालोका देवित्व/व्विष्णुनाधृता
|| त्वञ्चधारयमान्नित्यम्पवित्रङ्कुरुचासनम्ऽ इति ऽओं
वास्तुपुरुषायनमः, ओं ब्रह्मणेनमःऽ इति नैरृत्येसम्पूज्य ऽओं
धर्मायनमः, ओं ज्ञानायनमः, ओं वैराग्याय नमः, ओं
ऐश्वर्यायनमःऽ इतिदिक्षुसम्पूज्य ऽओं अधर्मायनमः, ओं
अवैराग्यायनमः, ओं अनैश्वर्यायनमःऽ इति विदिक्षुसम्पूजयेत् || ऽओं
हू/फट्स्वाहाऽ इति मन्त्रेण ऽओं ह्रींस्वाहाऽ इतिमन्त्रेण वा
कायवाक्चित्तशोधनङ्कृत्वा ऽरक्षरक्षहू/फट्स्वाहाऽ
इत्यात्मानमभिरक्षयेत् ऽओं शताभिषेके
शताभिषेकेपदेहू/फट्स्वाहा, ओं पुष्पकेतुराजार्हत् पुष्पे पुष्पे
महापुष्पे सुपुष्पे पुष्पसम्भवे |
प्. ७) पुष्पचयावकीर्णेहू/ फट्स्वाहाऽ इतिपुष्पमभिमन्त्रयेत् | अन्यानि
पूजावस्तूनिसर्वाणि
सामान्यार्घ्योदकेनाभिषिच्यधेनुमुद्रामत्स्यमुद्रे दर्शयित्वा
पुष्पाणि शुद्धानि विभावयेत् || वमितिजलधाराम्प्रक्षिप्य,
वह्निबीजेनवह्निप्राकारं विचिन्त्य ऽहू/फट्ऽ इतिमन्त्रेण
चतुर्द्दिक्षुक्रोधदृष्ट्यानिरीक्ष्य सर्वान् विघ्नानुत्सारयेत् | तद्यथा -
ऽसर्वविघ्नानुत्सारयहू/फट्स्वाहाऽ इतिमन्त्रेण ऊर्ध्वमवलोक्य
दिव्या/श्चतुर्द्दिक्षुजलक्षेपेणान्तरिक्षगान् वामपार्ष्णिघातत्रयेण
भौमान् विघ्नानुत्सार्य
लाजचन्दनसिद्धार्थतिलदधिदूर्वाक्षतानामन्यतममादाय ऽओं
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः | ये
चात्रविघ्नकर्तारस्ते नश्यन्तु शिवाज्ञयाऽ इतिपठ/श्चतुर्द्दिक्षु क्षिपेत् |
ततो वामे ओं गुरुभ्यो नमः, ओं परमगुरुभ्योनमः, ओं
परात्परगुरुभ्योनमः, ओं परमेष्ठिगुरुभ्योनमःऽ दक्षिणे ऽओं
गणेशायनमःऽ पुरतः ऽओं दक्षिणकालिकायैनमःऽ इतिप्रणमेत् || ततः
करशुद्धिङ्कुर्यात् || तद्यथा- ऽहू/ऽ इतिमन्त्रेणचन्दनाक्तानि
कुसुमान्यङ्गुल्यग्रेणादाय ऽहौंऽ इतिमन्त्रेण कराभ्याम्मर्द्दयित्वा
ऽक्लींऽ इति बीजेन दक्षहस्तेन सम्मृज्य ऽओं तत्सत्ऽ
इतिमन्त्रेणवामहस्तेनाघ्राय ऽहौंऽ इति मन्त्रेण
ऐशान्यान्दिशिपुष्पम्परित्यजेत् ऽओं तेसर्वेविलय/ययान्तु
येमांहिंसन्तिहिंसकाः || मृत्युरोगभयक्रोधाः पतन्तुरिपुमस्तकेऽ
इति मन्त्रेणवापरित्यजेत् | परित्यागश्चनाराचमुद्रया ||
अथ भूतशुद्धिः
शिरसि भैरवायऋषयेनमः | मुखे उष्णिक्छन्दसेनमः | हृदये
ओं दक्षिणकालिकायैनमः | गुह्ये क्रींबीजायनमः | पादयोः हू/
शक्तयेनमः | सर्वाङ्गे क्रींकीलकायनमः ||
प्. ८) अथ षडङ्गन्यासः
ऽक्रांहृदयायनमःऽ अङ्गुलीभिस्तर्ज्जनीमध्यमानामभिः
प्रसारिताभिर्हृदयंस्पृशेत् || ऽक्रींशिरसेस्वाहाऽ
इतितर्ज्जनीमध्यमाभ्यां शिरसिस्पृशेत् || ऽक्रूंशिखायैवषट्ऽ
इतिबद्धमुष्टिना अङ्गुष्ठेनशिखां स्पृशेत् || ऽक्रैंकवचायहुम्ऽ
इतिमन्त्रेणव्यस्तहस्ताभ्यां सर्वाङ्गे || ऽक्रौंनेत्रत्रयायवौषट्ऽ
इतितर्ज्जन्या-अनामया नेत्रे,
मध्यमयाभ्रूमध्यमेवन्नेत्रत्रयंस्पृशेत् || ऽक्रः अस्त्रायफट्ऽ इति
छोटिकयादिग्बन्धनं कुर्यात् || एवङ्करन्यासः - ऽक्रां-
अङ्गुष्ठाभ्यान्नमः, क्रींतर्ज्जनीभ्यां स्वाहा
क्रूंमध्यमाभ्यांव्वषट्, क्रैं-अनामिकाभ्यां हूम्,
क्रौंकनिष्ठाभ्यां वौषट्, क्रःकरतलकरपृष्ठाभ्यांफट्,
एवङ्करन्यास/व्विधाय दशधासप्तधापञ्चधा वा मूलेन
व्यापकन्यासङ्कुर्यात् | ततः
पूर्वोक्तक्रमेणप्राणायामत्रय/व्विदध्यात् || तद्यथा -
दक्षिणहस्ताङ्गुष्ठेनदक्षनासापुटन्निरुध्यवामनासापुटेन
मूलं षोडशवारञ्जपन्
शनैःशनैःप्राणाख्यवायुमाकृष्यशिरसिसहस्रारेधारयेदिति
पूरकः | दक्षहस्तानामिकातर्जन्यङ्गुष्ठैः नासापुटद्वयन्निरुध्य
मूलञ्चतुःषष्टिवारञ्जपन् कुम्भयेत् |
पुनर्द्दक्षनासापुटमङ्गुष्ठनिरोधनन्त्यक्त्वामूलन्द्वात्रिंशद्वा
रञ्जपञ्छनैः शनैस्तद्वायुं रेचयेत् इति प्राणायामत्रयम् ||
यदिस/विच्छोधनमिच्छेत्तदात्रैवकर्त्तव्यम् | तद्विधिस्तु ऽओं
सिद्धाढ्यांशिवगेहिनीङ्करलसत्पाशाङ्कुशाम्भैरवीम्भक्ताभी.
स्टवरप्रदांसुकुशलां संसारबन्धच्छिदाम् ||
पीयूषाम्बुधिमन्थनोद्भवरसांस/व्विद्विलासां परा/
व्वीराराधितपादुकां सुविजयान्ध्यायेज्जगन्मोहिनीम्ऽ इति ध्यात्वा ऽओं
स/विदेब्रह्मसम्भूतेब्रह्मपुत्रिसदानघे | भरवानन्दतृप्त्यर्थं
पवित्राभवसर्वदा ||ऽ ओंब्राह्मण्यैनमः स्वाहा ऽओं सिद्धमूलक्रिये
देवि हीनबोधप्रबोधिनि || राजप्रजावशङ्करिशत्रुकण्ठनिषूदिनि |ऽ
प्. ९) ऐंक्षत्रियायैनमः स्वाहा || ऽओं
अज्ञानेन्धनदीप्ताग्निज्वालाग्निज्ञानरूपिणि || आनन्दस्यागमप्रीतिं
सम्यग्ज्ञानम्प्रयच्छमे ||ऽ ह्रींवैश्यायैनमः स्वाहा || ऽओं
नमस्यामिनमस्यामियोगमार्गप्रदर्शिनि | त्रैलोक्यविजये मातः
समाधिफलदाभवऽ क्लींशूद्रायै नमः स्वाहा
इत्येतैर्मन्त्रैस्संशोध्य ततः ऽओं अमृते अमृतोद्भवे अमृतवर्षिणि
अमृतमाकर्षय आकर्षय सिद्धिन्देहिसर्वम्मेवशमानयस्वाहाऽ इति
मन्त्रेणाभिमन्त्रयेत् | ततः ऽओं ह्रीं ह्लीं लूं अः अंडं
एंमहाघोरेशाय नमःऽ इत्यघोरमन्त्रेणचाभिमन्त्र्यमूलमन्त्रं
सप्तवारञ्जप्त्वाश्रीष्टदेवीमावाह्यधेनुमुद्रा/ययोनिमुद्राञ्च
प्रदर्श्य छोटिकाभिर्दिग्बन्धनन्तालत्रयञ्च कृत्वा तत्र
श्रीष्टदेवीम्मानसोपचारैः सम्पूज्य ऽऐ/ गुरुपादुकाभ्यो नमःऽ
इतिमन्त्रेणब्रह्मरन्ध्रे श्रीगुरुन्त्रिधातर्पयेत्
मूलेनहृत्कमलेश्रीष्टदेवताम्पञ्चधातर्पयेत् | ततः स्वीकारः ऽऐ/
आत्मतत्त्वेन आत्मतत्त्वं शोधयामिस्वाहा,
ऐंविद्यातत्त्वेनविद्यातत्त्वंशोधयामिस्वाहा,
ऐंशिवतत्त्वेनशिवतत्त्वंशोधयामिस्वाहाऽ मूलमुच्चार्य
ऽसर्वतत्त्वेनसर्वतत्त्वंशोधयामिस्वाहाऽ
ऽऐंवदवदवाग्वादिनिममजिह्वाग्रेस्थिरा भवसर्वसत्त्ववशङ्करि
स्वाहाऽ इतिमुखेनजाठराग्नौजुहुयात्मूलमन्त्रेण सर्वम्पिबेत् | ततः
स्तुवीत
ऽस/व्विद्देविगरीयसीगुणमयीवैगुण्यविध्वंसिनीमायामोहमदान्धक्
आरशमनीतापत्रयोन्मूलिनी ||
वाग्देवीवदनाम्बुजैकरसिकासम्बोधिनीदीपिकाब्रह्मज्ञानविवेकसिद्ध्
अविजयीविज्ञानमूर्त्त्यैनमः || १ ||
स/व्विदासवयोर्म्मध्ये स/व्विदेवगरीयसी ||
भयनाशाय निर्ग्गन्धाविख्यातामोदकारिणी || २ ||ऽ
इतिस्तुत्वाश्रीगुरुं श्रीष्टदेवताञ्चप्रणम्यऋष्यादिन्यासं,
षडङ्गन्यासं, करन्यासञ्चकुर्यात् | तद्यथा-
शिरसिभैरवायऋषयेनमः, मुखे-उष्णिक्छन्दसेनमः, हृदये ओं
दक्षिणाकालिकायैनमः, गुह्येक्रींबीजायनमः, पादयोः हू/शक्तये
नमः, सर्वाङ्गे क्रींकीलकायनमः || अथ षडङ्गन्यासः ||
क्रांहृदयाय नमः,
प्. १०) क्रींशिरसेस्वाहा, क्रूंशिखायैवषट्, क्रैंकवचायहुम्,
क्रौंनेत्रत्रयायवौषट्, क्रःअस्त्रायफट् || एवंकरन्यासः || क्रां-
अंगुष्ठाभ्यांनमः, क्रींतर्ज्जनीभ्यांस्वाहा,
क्रूंमध्यमाभ्यांवषट्, क्रैं-अनामिकाभ्यांहुम्,
क्रौंकनिष्ठाभ्यांवौषट्, क्रःकरतलकरपृष्ठाभ्यांफट् ||
एवं करन्यास/ विधायभूतशुद्धिङ्कुर्यात् ||
अङ्केकरावुत्तानीकृत्यनिश्चलचित्तः ऽसोहम्ऽ
इतिमन्त्रेणप्रबोधिताङ्कुण्डलिनीम्मूलाधारात् सुषुम्नावर्त्मना
स्वाधिष्ठाने मणिपूरेऽनाहतेक्रमेणानीय तत्र
स्थितञ्जीवम्प्रदीपकलिकाकार/व्विचिन्त्यतन्मुखे
निक्षिप्यततोविशुद्धाख्याज्ञाचक्रे
आनीयततःशिरोऽवस्थिताधोमुखसहस्रारचक्रेहिमनिभसर्ववर्णविभु
उषिताकखादित्रिरेखासु-आलक्षत्रयविभूषितसहस्रदलयुक्तम्पद्मम् |
तत्र गुरुं तस्मिन्समानीय तत्कर्णिकास्थपरशिवे ऽहंसःऽ इति मन्त्रेण
स/ययोजयेत् || अथ पादतो जानुपर्यन्तञ्चतुष्कोणं सुवर्णाभं ऽलम्ऽ इति
बीजेन युक्तं
सवज्रकम्पृथ्वीमण्डलन्तत्रगमनसहितम्पादेन्द्रियङ्गन्धसहितङ्घ्र्
आणेन्द्रियन्निवृत्तिकलायुक्तम्ब्रह्माणं, समानवायुञ्च विभावयेत् |
ततो जानुतो नाभिपर्यन्तमर्द्धचन्द्राकारं श्वेताभं ऽवम्ऽ इति बीजेन
युक्तम्पद्मद्वयलाञ्छितञ्जलमण्डलन्तत्र च
ग्रणक्रियासहितम्पाणीन्द्रियंरसेनसहजिह्वेन्द्रियम्प्रतिष्ठाकलासहित.
म् श्रीविष्णुमुदानवायुञ्चविभावयेत् || ततो
नाभितोहृदयपर्ययन्तन्त्रिकोणं रक्तं ऽरम्ऽ इति बीजेन
युक्तंस्वस्तिकान्वितन्तेजोमण्डलन्तत्र च
विसर्गक्रियासहितम्पायविन्द्रियंरूपेणचक्षुरिन्द्रिय/ व्विद्याकलासहितं
शिव/व्व्यानवायुञ्चविभावयेत् || ३ ||
ततो हृदयाद् भ्रूमध्यपर्यन्त/ व्वर्तुलं धूम्रवर्णं ऽयम्ऽ इति
बीजेनयुक्तं
षड्बिन्दुलाञ्छित/व्वायुमण्डलन्तत्रानन्दक्रियासहितोपस्थेन्द्रियं
स्पर्शसहितन्त्वगिन्द्रियम् || शान्तिकलासहितमीशानमपानवायुञ्च
विभावयेत् || ततोभ्रूमध्याद्ब्रह्मरन्ध्रपर्यन्त/व्वर्त्तुलं स्वच्छं
ऽहम्ऽ इति
प्.११) बीजेनयुक्तन्नभोमण्डलन्तत्र
वचनक्रियासहित/व्वागिन्द्रियंशब्दसहितं क्षोत्रेन्द्रियं,
शान्त्यतीताख्यकलासहितं सदाशिवम्प्राणवायुञ्च ध्यायेत् || ततः
सहस्रारे शून्ये सर्वचैतन्यमये परब्रह्म ध्यायेत् || ततः
सपरिकरम्पृथ्वीमण्डलञ्जलमण्डले, तच्च वह्निमण्डले, तच्च
वायुमण्डले, तच्चाकाशमण्डले, तच्चाहङ्कारे, तम्महत्तत्त्वे, तच्च
प्रकृतौ, ताञ्च ब्रह्मणि लीना/व्विभावयेत् || ततः
सर्वंशून्य/व्विचिन्तयेत् ||
ततोदक्षिणकुक्षौकृष्णवर्णमङ्गुष्ठप्रमाणम्ब्रह्महत्याशिरस्क.
म्स्वर्णस्तेयभुजं
सुरापानहृदयङ्गुरुतल्पकटीयुतन्तत्संसर्गपदद्वन्द्वमुपपातकरो
मकञ्चम्मधरमधोमुखम्पापपुरुष/व्विचिन्त्यतत्सहितं
शरीरम्पूरकविधिनादशकृत्वोजप्तेन ऽयम्ऽ इति बीजेन
नभोध्यातेनसंशोष्यकुम्भकविधिना चतुःषष्टिकृत्वोजप्तेन ऽरम्ऽ इति
बीजेनवह्निमण्डले मेढ्रमूलेवाध्यातेन,
रक्तवर्णाम्मायान्नाभौ
ध्यात्वातदुद्भूताग्निनासन्दह्यरेचकविधिना द्वात्रिंशत्कृत्वोजप्तेन
ऽयम्ऽ इतिबीजेन पापपुरुषोद्भवम्भस्मकालीबीजं हृदि
पीताभन्ध्यात्वा तदुद्भूतेन वायुनाप्रोत्सारयेत् || ततः
पूरकविधिनाषोडशकृत्वोजप्तेन ऽवम्ऽ इतिवरुणबीजेन
हृदिस्थेनघण्टिकायान्ध्यातेनवातद्भस्मललाटेतुषाराभङ्कूर्च्चबि
इजन्ध्यात्वा तदुद्भूतेनामृतेनाप्लाव्यकुम्भकविधिना
चतुःषष्टिजप्तेन ऽलम्ऽ
इतिबीजेनपृथ्वीमण्डलेध्यातेनतद्भस्मघनीकृत्य रेचकविधिना
द्वात्रिंशत्कृत्वोजप्तेन ऽहम्ऽ इतिबीजेन नभोमण्डले स्थितेनाङ्गानि
रेचयित्वा
पापपुण्यनिर्मुक्तंशरीरंशाम्भवन्ध्यात्वाचिन्मयाद्भूतानि
उत्पादयेत् | तद्यथा - ऽसोहं, हंसःऽ
इतिवामन्त्रेणप्रकृतिञ्चिन्मयादुत्पाद्य
प्रकृतेर्म्महत्तत्त्वम्महत्त्वादहङ्कारमहङ्कारान्नभो, नभसो
वायुं, वायोरग्निं, वह्नेरपस्ततः पृथ्वीमुत्पादयेत् | तेनैव मन्त्रेण
कुण्डलिनीञ्चैतन्यमयीञ्चन्द्रमण्डलान्तर्गतामृतम्पाययित्वा
षट्सु चक्रेषु क्रमशः स्वचरणयुगलान्तर्गतामृतवृष्ट्या
सिञ्चन्तीन्तेष्वानीय जीवन्तया वियोज्य हृदये संस्थाप्य
प्. १२) ताम्मूलाधारे स्वयम्भू लिङ्गे स्थापयेत्
इत्यात्मानन्देवतामयन्ध्यायेत् || इतिभूतशुद्धिः || ततः
प्राणमन्त्रेणजीवस्थापनङ्कुर्यात् || तत्र क्रमः- ओं
अस्यप्राणस्थापनमन्त्रस्य ब्रह्मविष्णुमहेश्वराऋषयः
ऋग्यजुस्सामानिछन्दांसि चैतन्यरूपाप्राणशक्तिर्देवता
प्राणस्थापनेविनियोगः || शिरसि ब्रह्मविष्णुमहेश्वरेभ्यः
ऋषिभ्योनमः, मुखे ऋग्यजुस्सामभ्यश्छन्दोभ्योनमः,
हृदयेप्राणशक्त्यैदेवतायैनमः, गुह्ये-आंबीजायनमः, पादयोः
ह्रींशक्तयेनमः, सर्वाङ्गे क्रौंकीलकायनमः, इतिविन्यस्य
षडङ्गानि विन्यसेत् | ङं कंखंगंघं-
आकाशवायुवह्निजलपृथिव्यात्मने हृदयाय नमः |
ञंचंछंजंझंशब्दस्पर्शरूपरसगन्धात्मनेशिरसेस्वाहा |
णंटंठंडंढंश्रोत्रत्वक्चक्षुर्ज्जिह्वाघ्राणात्मनेशिखायैव
षट् | नंतंथंदंधंवाक्पाणिपादपायूपस्थात्मनेकवचायहु/
|| मंपंफंबंभंवक्तव्यादानगमनविसर्गानन्दात्मने
नेत्रत्रयायवौषट् |
शंयंरंवंलंहंषंक्षंसंलंमनोबुद्ध्यहङ्कारचित्तात्म्
अने अस्त्रायफट् | एवङ्करन्यासः सोऽपि यथा | नाभेरारभ्य पादान्तम्
आमिति न्यसेत्, ङंकंखंघंगं
आकाशवायुवह्निजलपृथिव्यात्मने अङ्गुष्ठाभ्यान्नमः,
ञंचंछंझंजंशब्दस्पर्शरूपरसगन्धात्मनेतर्ज्जनीभ्यांस्
वाहा, णंटंठंढंडंश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने
मध्यमाभ्या/व्वौषट्,
नंतंथंधंदंवाक्पाणिपादपायूपस्थात्मने
अनामिकाभ्यांहूम्,
मंपंफंभंबंवक्तव्यादानगमनविसर्गानन्दात्मने
कनिष्ठिकाभ्यांवौषट्,
शंयंरंवंलंहंषंक्षंसंलंमनोबुद्ध्यहङ्कारचित्तात्म्
अने करतलकरपृष्ठाभ्याम्फट् | ततो नाभितोहृदयपर्यन्तं
ह्रीमितिहृदयान्मस्तकान्तङ्क्रौमितिविन्यसेत्, यन्त्वगात्मनेनम इतिहृदि,
रं-असृगात्मनेनम इतिदक्षिणांसे, लंमांसात्मनेनम इतिककुदि,
वंमेद- आत्मनेनम इतिवामस्कन्धे, शं-अस्थ्यात्मनेनम
इतिहृदयाद्दक्षिणभुजाग्रान्तं, षंमज्जात्मनेनम
इतिहृदयाद्वामभुजाग्रान्तं, संशुक्रात्मने नम
इतिहृदयाद्दक्षिणपादाग्रान्तं, हौं ओज-आत्मनेनम
इतिहृदयाद्वामपादाग्रान्तं, हंघ्राणात्मनेनम
इतिहृदयान्नाभ्यन्तं, संजीवात्मने
प्.१३) नम इति हृदयान्मस्तकान्तं प्राणमन्त्रेण
सप्तधापञ्चधावाव्यापकन्यासङ्कुर्यात् || ततो ध्यायेत् || यथा -
रक्ताब्धिपोतारुणपद्मसंस्थांपाशाङ्कुशेष्वासशरासिबाणान् ||
शूलङ्कपालन्दधतीङ्कराब्जैरक्तान्त्रिनेत्राम्प्रणमामि देवीम्ऽ
ततोवक्ष्यमाणलेलिहानमुद्रयाहृदयं
स्पृशन्नेकादशवारंप्राणमन्त्रञ्जपेत् || मन्त्रश्च-
आंह्रींक्रोंयंरंलंवंशंषंसंहों-ओंक्षंसंहंसः
ह्रीं-ओंहंसः श्रीदक्षिणकालिकायाः (मम) प्राणा इहप्राणाः,
आंह्रींक्रोंयंरंलंवंशंषंसंहों-
ओंक्षंशंसंहंसः ह्रीं-ओंहंसः श्रीदक्षिणकालिकाया जीव
इह स्थितः,
आंह्रींक्रोंयंरंलंवंशंषंसंहोंओंक्षंसंहंसः
श्रीदक्षिणकालिकायाः सर्वेन्द्रियाणि इहस्थितानि,
आंह्रींक्रोंयंरंलंवंशंषंसंहों-ओंक्षंसंहंसः
ह्रीं-ओंहंसः श्रीदक्षिणकाइकाया
वाङ्मनस्त्वक्चक्षुःश्रोत्रघ्राणप्राणा
इहागत्यसुखञ्चिरन्तिष्ठन्तुस्वाहा, ओंक्षंसंहंसः ह्रींओं-
आंह्रींक्रोंश्रीदक्षिणकालिकायाः प्राणा इहप्राणाः,
आंह्रींक्रोंश्रीदक्षिणकालिकाया जीव इह स्थितः,
आंह्रींक्रोंश्रीदक्षिणकालिकायाः सर्वेन्द्रियाणि,
आंह्रींक्रोंश्रीदक्षिणकालिकायाः
वाङ्मनस्त्ववचक्षुःश्रोत्रघ्राणप्राणा इहागत्यसुखञ्चिरन्तिष्ठन्तु
स्वाहा || ततो
देवतारूपमात्मानन्ध्यात्वाप्राणायामऋष्यादिन्यासषडङ्गन्यास्
अकरन्यासान् विधाय मातृकान्यासमाचरेत् || तत्र ओं अस्य
मातृकामन्त्रस्यब्रह्माऋषिर्गायत्रीछन्दो, मातृकासरस्वतीदेवता,
हलोबीजानि, स्वराः शक्तयस्तदुभयङ्कीलकम्
अभीष्टसिद्ध्यर्थेन्यासेविनियोगः | प्राणायामो यथा-
इडया अ-इ-उ-ऋ-ऌ-ए-ऐ-ओ-औ-एभिःस्वरैः पूरयेत्, कुचुटुतुपु इति
वर्णपञ्चकेन कुम्भयेत् | यरलवशषसह-एभिरष्टभिर्वर्णैरेचयेत् ||
ऋष्यादिन्यासो यथा-
शिरसिब्रह्मणेऋषयेनमः, मुखेगायत्रीछन्दसे नमः,
हृदिमातृकासरस्वत्यैनमः, लिङ्गेहल्भ्यो बीजेभ्योनमः, पादयोः
स्वरेभ्यः शक्तिभ्योनमः, सर्वाङ्गेतदुभयकीलकायनमः ||
अथषडङ्गन्यासो यथा || अंकंखंगंघंङं
आ/हृदयायनमः, इंचंछंजंझंञं-ईंशिरसे स्वाहा,
प्. १४) उंटंठंडंढंणं ऊंशिखायैवषट्,
एंतंथंदंधंनं ऐंकवचाय हुम्,
ओंपंफंबंभंमं-औंनेत्रत्रयायवौषट्,
अंयंरंलंवंशंषंसंहंलंक्षं अः अस्त्राय फट् ||
एवङ्करन्यासो यथा || अंकंखंगंघंङं आ/-
अङ्गुष्ठाभ्यान्नमः, इंचंछंजंझंञं-
ईंतर्ज्जनीभ्यांस्वाहा, उंटंठंडंढंणं-
ऊंमध्यमाभ्यांवषट्, एंतंथंदंधंनं-ऐं
अनामिकाभ्यांहुम्, ओंपंफंबंभंमं
औंकनिष्ठिकाभ्यांवौषट्,
अंयंरंलंवंशंषंसंहंलंक्षं-अः
करतलकरपृष्ठाभ्यांफट् || अथ ध्यानम् -
ऽपञ्चाशल्लिपिभिर्विभक्तसुखदोःपन्मध्यवक्षःस्थलान्भास्वन्मौलि
निबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् |
मुद्रामक्षगुणं सुधाढ्यकलशं
व्याख्याञ्चहस्ताम्बुजैर्बिभ्राणा/व्विशदप्रभान्त्रिनयना/व्वाग्देवत्
आमाश्रये ||
अथान्तर्मातृकान्यासः || अं-इं-उं-ऋं-ऌं-एं-ऐं-ओं-औं नमैति
धूम्राभेषोडशदलेकण्ठेन्यसेत्,
कंखंगंघंङंचंछंजंझंञंटंठंनमैतिद्वादऽऽ
सदलेप्रवालनिभेहृदये,
डंढंणंतंथंदंधंनंपंफंनम
इतिनीलजीमूतसन्निभे दशदलेनाभेरुपरिमणिपूरे,
बंभंमंयंरंलंनम-इतिविद्युन्निभेषड्दलेनाभेरधः
स्वाधिष्ठाने, वंशंषंसंनमैतिसुवर्णाभे
चतुर्द्दलेमूलाधारे, हंक्षंनमैतिद्विदलेचन्द्राभे भ्रूमध्ये
आज्ञाचक्रे न्यसेत् | ऽसहस्रारेहिमनिभे सर्ववर्ण्णविभूषिते ||
अकखादित्रिरेखासु आलक्षत्रयभूषिते ||ऽ परबिन्दुभ्योनमैतिन्यसेत् |
मूलादिब्रह्मरन्ध्रान्तन्बिन्दुञ्चिदात्मकन्ध्यात्वातत्स्रुतसुधासारैर्
मातृकान्तर्पयेत् | ललाटे अंनमः, मुखवृत्ते आंनमः, दक्षनेत्रे
इंनमः, वामनेत्रे ईंनमः, दक्षकर्णे उंनमः, वामकर्णे
ऊंनमः, दक्षनासायां ऋंनमः, वामनासायाम् ॠंनमः,
दक्षगण्डे ऌंनमः, वामगण्डे ॡंनमः, ऊर्ध्वौष्ठे एंनमः,
अधरोष्ठे ऐंनमः, ऊर्ध्वदन्तपङ्क्तौ ओंनमः, अधोदन्तपंक्तौ
औंनमः, शिरसि अंनमः, मुखे अःनमः | वीरचूडामणौ तु-
जिह्वाग्रे अंनमः, कण्ठदेशे अःनमः, दक्षिणबाहुमूले कंनमः,
कूर्परे खंनमः, मणिबन्धे गंनमः, अङ्गुलीमूले घंनमः,
अङ्गुल्यग्रे ङंनमः, वामबाहुमूले
प्.१५) चंनमः, कूर्परे छंनमः, मणिबन्धे जंनमः,
अङ्गुलीमूले झंनमः, अङ्गुल्यग्रे ञंनमः, दक्षिणोरुमूले
टंनमः, जानुनि ठंनमः, गुल्फे डंनमः, अङ्गुलीमूले
ढंनमः, अङ्गुल्यग्रे णंनमः, वामोरुमूले तं नमः, जानुनि
थंनमः, गुल्फे दंनमः, अङ्गुलीमूले धंनमः, अङ्गुल्यग्रे
नंनमः, दक्षपार्श्वे पंनमः, वामपार्श्वे फंनमः, पृष्ठे
बंनमः, नाभौ भंनमः, उदरे मंनमः, हृदये
यंत्वगात्मने नमः, दक्षांसेरं-असृगात्मनेनमः, ककुदि
लंमांसात्मनेनमः, वामांसे वंमेद-आत्मनेनमः,
हृदयाद्दक्षभुजाग्रान्तं शं-अस्थ्यात्मने नमः,
हृदयाद्वामभुजाग्रान्तं षंमज्जात्मनेनमः,
हृदयाद्दक्षपादाग्रान्तंशुक्रात्मनेनमः,
हृदादिवामपादाग्रान्तंहं-आत्मनेनमः,
हृदयान्मस्तकान्तंलंपरमात्मने नमः, इति बहिर्मातृकान्यासः ||
अथ सृष्टिक्रमः | तत्रतुविसर्गान्वितः
प्रणवपुटितोवामायालक्ष्मीबीजपूर्वोवावाग्भवाद्योवान्यस्तव्यः |
तत्र वाग्भवाद्यो यथा-जिह्वाग्रे-ऐं-अंनमः, कण्ठदेशतः ऐं-अः
नमः, दक्षिणबाहुमूले-ऐंकंनमः, कूर्परे-ऐंखंनमः,
मणिबन्धे ऐंगंनमः, अङ्गुलीमूले ऐंघंनमः, अङ्गुल्यग्रे-
ऐंङंनमः, वामबाहुमूले-ऐंचंनमः, कूर्परे-
ऐंछंनमः, मणिबन्धे-ऐंजंनमः, अङ्गुलीमूले-ऐंझंनमः,
अङ्गुल्यग्रे ऐंञंनमः, दक्षिणोरुमूले ऐंटंनमः, जानुनि
ऐंठंनमः, गुल्फे-ऐंडंनमः, अङ्गुलीमूले ऐंढंनमः,
अङ्गुल्यग्रे-ऐंणंनमः, वामोरुमूले ऐंतंनमः, जानुनि
ऐंथंनमः, गुल्फे ऐंदंनमः, अङ्गुलीमूले-ऐंधंनमः,
अङ्गुल्यग्रे ऐंनंनमः, दक्षपार्श्वे ऐंपंनमः, वामपार्श्वे-
ऐंफंनमः, पृष्ठे ऐंबंनमः, नाभौ ऐंभंनमः, उदरे-
ऐंमंनमः, हृदये-ऐंपं त्वगात्मने नमः, दक्षांसे ऐंरं-
असृगात्मनेनमः, ककुदि-ऐंलंमांसात्मने नमः, वामांसे
ऐंवंमेद आत्मने नमः, हृदयाद्दक्षभुजाग्रान्तम् ऐंशं
अस्थ्यात्मनेनमः, हृदयाद्वामभुजाग्रान्तम्
ऐंषंमज्जात्मनेनमः, हृदयाद्दक्षपादाग्रान्तम्,
ऐंसंशुक्रात्मनेनमः, हृदादिवामपादाग्रान्तम् ऐंहं
आत्मनेनमः, हृदयान्मस्तकान्तम् ऐंलंपरमात्मनेनमः ||
प्.१६) अथ स्थितिक्रमः
तत्र प्रथमन्ध्यान/ यथा -
सिन्दूरकान्तिमसिताभरणान्त्रिनेत्रा/
व्विद्याक्षसूत्रमृगपोतवरान्दधानाम् ||
पार्श्वस्थिताम्भगवतीमपिकाञ्चनाङ्गीन्ध्यायेत्कराब्जधृतपुस्तकव्
अर्णमालाम् || एवं ध्यात्वा न्यसेत् | तद्यथा-ललाटे
टंठंडंनमः, मुखवृत्ते टंठंडंनमः, दक्षनेत्रे
टंठंडंनमः, वामनेत्रे टंठंडंनमः, दक्षकर्णे
टंठंडंनमः, वामकर्णे टंठंडंनमः, दक्षनासायाम्
टंठंडंनमः,वामनासायाम् टंठंडंनमः, दक्षगण्डे
टंठंडंनमः, वामगण्डे टंठंडंनमः, उर्द्ध्वौष्ठे
टंठंडंनमः, अधरोष्ठे टंठंडंनमः,
ऊर्ध्वदन्तपङ्क्तौ टंठंडंनमः, अधोदन्तपङ्क्तौ
टंठंडंनमः, शिरसि टंठंडंनमः, मुखे
टंठंडंनमः, जिह्वाग्रे टंठंडंनमः, कण्ठदेशे
टंठंडंनमः, दक्षिणबाहुमूले टंठंडंनमः, कूर्परे
टंठंडंनमः, मणिबन्धे टंठंडंनमः, अङ्गुलीमूले
टंठंडंनमः, अङ्गुल्यग्रे टंठंडंनमः, वामबाहुमूले
टंठंडंनमः, कूर्परे टंठंडंनमः, मणिबन्धे
टंठंडंनमः, अङ्गुलीमूले टंठंडंनमः, दक्षिणोरुमूले
टंठंडंनमः, जानुनि टंठंडंनमः, गुल्फे
टंठंडंनमः, अङ्गुलीमूले टंठंडंनमः, अङ्गुल्यग्रे
टंठंडंनमः, वामोरुमूले टंठंडंनमः, जानुनि
टंठंडंनमः, गुल्फे टंठंडंनमः, अङ्गुलीमूले
टंठंडंनमः, अङ्गुल्यग्रे टंठंडंनमः, दक्षपार्श्वे
टंठंडंनमः, वामपार्श्वे टंठंडंनमः, पृष्ठे
टंठंडंनमः, उदरे टंठंडंनमः, हृदये
टंठंडंनमः, दक्षांसे टंठंडंनमः, ककुदि
टंठंडंनमः, वामांसे टंठंडंनमः,
हृदयाद्दक्षभुजाग्रान्तम् टंठंडंनमः,
हृदयाद्वामभुजाग्रान्तम् टंठंडंनमः,
हृदयाद्दक्षपादाग्रान्तम् टंठंडंनमः,
हृदयाद्वामपादाग्रान्तम् टंठंडंनमः, हृदयान्मस्तकान्तम्
टंठंडंनमः |
इति स्थितिक्रमः |
अथ संहारक्रम
तत्र ध्यानं यथा- ऽअक्षस्रजं हरिणपोतमुद्रग्रटंकं
विद्याकरैरविरतंदधतीं त्रिनेत्राम् |
अर्द्धेन्दुमौलिभरणामरविन्दवासां वर्णेश्वरीं
प्रणमतंस्तनभारखिन्नाम्ऽ
प्. १७) || तत्रक्रमः || ललाटे क्षंनमः, मुखवृत्ते हंनमः,
दक्षनेत्रे संनमः, वामनेत्रे षंनमः, दक्षकर्णे शंनमः,
वामकर्णे वंनमः, दक्षनासायां लंनमः, वामनासायां
रंनमः, दक्षगण्डे यंनमः, वामगण्डे मंनमः,
ऊर्द्ध्वोष्ठे भंनमः, अधरोष्ठे बंनमः, ऊर्द्ध्वदन्तपङ्क्तौ
फंनमः, अधोदन्तपङ्क्तौ पंनमः, शिरसि नंनमः, मुखे
धंनमः, दक्षिणबाहुमूले दंनमः, कूर्प्परे थंनमः,
मणिबन्धे तंनमः, अङ्गुलीमूले णंनमः, अङ्गुल्यग्रे ढंनमः,
वामबाहुमूले डंनमः, कूर्प्परे ठंनमः, मणिबन्धे
टंनमः, अङ्गुलीमूले ञंनमः, अङ्गुल्यग्रे झंनमः,
दक्षिणोरुमूले जंनमः, जानुनि छंनमः, गुल्फे चंनमः,
अङ्गुलीमूले ङंनमः, अङ्गुल्यग्रे घंनमः, वामोरुमूले
गंनमः, जानुनि खंनमः, गुल्फे कंनमः, अङ्गुलीमूले अःनमः,
अङ्गुल्यग्रे अंनमः, दक्षपार्श्वे औंनमः, वामपार्श्वे ओंनमः,
पृष्ठे ऐंनमः, नाभौ एंनमः, उदरे ॡंनमः, हृदये
ऌंनमः, दक्षांसे ॠंनमः, ककुदि ऋंनमः, वामांसे
ऊंनमः, हृदयाद्दक्षभुजाग्रान्तम् उं-अस्थ्यात्मने नमः,
हृदयाद्वामभुजाग्रान्तम् ईंमज्जात्मनेनमः,
हृदयाद्दक्षपादाग्रान्तम् इंशुक्रात्मनेनमः,
हृदादिवामपादाग्रान्तम् आं-आत्मनेनमः, हृदयान्मस्तकान्तम्
अंपरमात्मनेनमः || इति संहारक्रमः || अथश्रीकण्ठादिन्यासः ||
तत्र ध्यानं यथा ऽअतिश्यामांत्रिनयनांशवासनसमुन्नताम् ||
बिभ्रतीं विविधाकल्पाञ्चतुर्दिक्षुशिवायुताम् ||
पाशाङ्कुशवराक्षस्रक्पाणिं शीतांशुशेखराम् || त्र्यक्षं
रक्तसुवर्ण्णाभमर्द्धनारीश्वरं भजेऽ || शक्तिध्यानं यथा ऽएता
रुद्राङ्गपीठस्थाः सिन्दूरारुणविग्रहाः | रक्तोत्पलाः
कपालाभ्यामलङ्कृतकराम्बुजाःऽ इतिरुद्रन्यासे ध्यानं कर्त्तव्यम् ||
अस्य श्रीकण्ठादिन्यासस्य
दक्षिणामूर्तिरृषिर्ग्गायत्रीछन्दोऽर्द्धनारीश्वरो देवता,
श्रीकण्ठादिन्यासे विनियोगः || ललाटे
अंश्रीकण्ठायपूर्णोदर्यैनमः, मुखवृत्ते आं-
अनन्नायवीर्यायैनमः,
प्. १८) दक्षनेत्रे इंसूक्ष्मेशायशाल्मल्यैनमः, वामनेत्रे
ईंत्रिमूर्तयेलोलाक्ष्यैनमः, दक्षकर्णे उं-
अमरेशायवर्तुलाक्ष्यैनमः, वामकर्णे ऊं-
अर्धांशायदीर्ग्घघोणायैनमः, दक्षनासायाम्
ऋंमारभूतयेदीर्घमुख्यैनमः, वामनासायाम्
ऋंतिथीशायगोमुख्यैनमः, दक्षगण्डे
ऌंस्थाराधीशायदीर्घजिह्वायैनमः, वामगण्डे
ॡंहरायकुण्डोदर्यैनमः, ऊर्द्ध्वोष्ठे एंझिणीशाय-
ऊर्द्ध्वकेश्यैनमः अधरोष्ठे ऐंभौक्तिकायविकृतमुख्यै नमः,
उर्द्ध्वदन्तपङ्क्तौ ओंसद्योजातायज्वालामुख्यैनमः,
अधोदन्तपङ्क्तौ औं-अनुग्रहेशाय-उल्कामुख्यैनमः, शिरसि अं-
अक्रूरायश्रीमुख्यैनमः, मुखे अःमहासेनायविद्यामुख्यैनमः,
दक्षिणबाहुमूले कंक्रोधीशाय महाकाल्यैनमः, कूर्प्परे
खंचण्डीशायसरस्वत्यैनमः, मणिबन्धे
गंपञ्चान्तकायगौर्यैनमः, अङ्गुलीमूले
घंशिवोन्नमायत्रैलोक्यविद्यायैनमः, अङ्गुल्यग्रे ङं-
एकरुद्रायमन्त्रशक्तयेनमः, वामबाहुमूले चंकूर्मेशाय-
आत्मशक्त्यैनमः, कूर्परे छं-एकनेत्रायभूतिमात्रेनमः,
मणिबन्धे जंचतुराननायलम्बोदर्यैनमः, अङ्गुलीमूले झं
अजेशायद्राविण्यैनमः, अङ्गुल्यग्रे ञंसर्वेशायनागर्यैनमः,
दक्षिणोरुमूले टंसोमेशायखेचर्यैनमः, जानुनि
ठंलाङ्गलीशायमञ्जर्यै नमः, गुल्फे
डंडारकेशायरूपिण्यैनमः, अङ्गुलीमूले ढं-
अर्द्धनारीशायवीरिण्यैनमः, अङ्गुल्यग्रे णं-
उमाकान्तायकाकोदर्यैनमः, वामोरुमूले तं-
आषाढिनेपूतनायैनमः, जानुनि थंदण्डिनेभद्रकाल्यैनमः,
गुल्फे दं-अत्रीशाययोगिन्यैनमः, अङ्गुलीमूले
धंमीनेशायशंखिन्यै नमः, अङ्गुल्यग्रे
नंमेषेशायगर्जिन्यैनमः, दक्षपार्श्वे
पंलोहितायकालरात्र्यैनमः, वामपार्श्वे
फंशिखीशायवकूर्दिन्यैनमः, पृष्ठे
बंछगलण्डायकपर्दिन्यैनमः, नाभौ
भंद्विरंडेशायवज्रायैनमः, उदरे
मंमहाकालायजयायैनमः, हृदये
यंवाणीशायसुमुखैश्वर्यैनमः, दक्षांसे
रंभुजङ्गायरेवत्यैनमः, ककुदि लंपिनाकिनेमाधव्यैनमः,
वामांसे
प्.१९) वंषङ्गीशायवारुण्यैनमः, हृदयाद्दक्षभुजाग्रान्तं
शंबकेशायवायव्यै नमः, हृदयादिवामभुजाग्रान्तं
षंश्वेतायरक्षोविदारिण्यै नमः, हृदयाद्दक्षपादाग्रान्तं
संभृगवेसहजायैनमः, हृदादिवामपादाग्रान्तम्
हंनकुलीशायलक्ष्म्यैनमः, हृदयान्मस्तकान्तं
क्षंस/व्वर्त्तकायमहामायायैनमः || इति रुद्रन्यासः ||
अथ कालीतन्त्रोक्तप्रकारेण षोढान्यासः कर्त्तव्यः
यथामातृकान्यासः प्रथमः || अं आं इं ईं उं ऊं ऋं
ॠं ऌं ॡं नमो हृदि, एं ऐं ओं औं अं अः कं खं गं घं
दक्षभुजे, ङं चं छं जं झं ञं टं ठं डं ढं
वामभुजे, णं तं थं दं धं नं पं फं बं भं
दक्षपादे, मं यं रं लं वं शं षं सं हं लं क्षं
इतिवामपादे विन्यसेत् || इति मातृकान्यासः प्रथमः ||
अथ द्वितीयः
ललाटे श्रीं अं श्रीं अं श्रीं अं नमः, मुखवृत्ते श्रीं
आं श्रीं आं श्रीं आं नमः, दक्षनेत्रे श्रीं इं श्रीं इं श्रीं
इं नमः, वामनेत्रे श्रीं ईं श्रीं ईं श्रीं ईं नमः, दक्षकर्णे
श्रीं उं श्रीं उं श्रीं उं नमः, वामकर्णे श्रीं ऊं श्रीं
ऊं श्रीं ऊं नमः, दक्षनासायां श्रीं ऋं श्रीं ऋं श्रीं ऋं
नमः, वामनासायां श्रीं ॠं श्रीं ॠं श्रीं ॠं नमः,
दक्षगण्डे श्रीं ऌं श्रीं ऌं श्रीं ऌं नमः, वामगण्डे श्रीं
ॡं श्रीं ॡं श्रीं ॡं नमः, उर्द्ध्वोष्ठे श्रीं एं श्रीं एं
श्रीं एं नमः, अधरोष्ठे श्रीं ऐं श्रीं ऐं श्रीं ऐं नमः,
ऊर्ध्वदन्तपङ्क्तौ श्रीं ओं श्रीं ओं श्रीं ओं नमः
अधोदन्तपङ्क्तौ श्रीं औं श्रीं औं श्रीं औं नमः, शिरसि श्रीं
अं श्रीं अं श्रीं अं नमः, मुखे श्रीं अः श्रीं अः श्रीं अः
नमः, दक्षिणबाहुमूले श्रीं कं श्रीं कं श्रीं कं नमः,
कूर्परे श्रीं खं श्रीं खं श्रीं खं नमः, मणिबन्धे श्रीं
गं श्रीं गं श्रीं गं नमः, अङ्गुलीमूले श्रीं घं श्रीं
घं श्रीं घं नमः, अङ्गुल्यग्रे श्रीं ङं श्रीं ङं श्रीं
ङं नमः, वामबाहुमूले श्रीं चं श्रीं चं श्रीं चं नमः,
कूर्परे श्रीं छं श्रीं छं श्रीं छं नमः, मणिबन्धे श्रीं
जं श्रीं जं श्रीं जं नमः, अङ्गुलीमूले श्रीं झं श्रीं झं
श्रीं झं नमः, अङ्गुल्यग्रे श्रीं ञं श्रीं ञं श्रीं ञं
नमः,
प्. २०) दक्षिणोरुमूले श्रीं टं श्रीं टं श्रीं टं नमः, जानुनि
श्रीं ठं श्रीं ठं श्रीं ठं नमः, गुल्फे श्रीं डं श्रीं
डं श्रीं डं नमः, अङ्गुलीमूले श्रीं ढं श्रीं ढं श्रीं
ढं नमः, अङ्गुल्यग्रे श्रीं णं श्रीं णं श्रीं णं नमः,
वामोरुमूले श्रीं तं श्रीं तं श्रीं तं नमः, जानुनि श्रीं थं
श्रीं थं श्रीं थं नमः, गुल्फे श्रीं दं श्रीं दं श्रीं दं
नमः, अङ्गुलीमूले श्रीं धं श्रीं धं श्रीं धं नमः,
अङ्गुल्यग्रे श्रीं नं श्रीं नं श्रीं नं नमः, दक्षपार्श्वे
श्रीं पं श्रीं पं श्रीं पं नमः, वामपार्श्वे श्रीं फं
श्रीं फं श्रीं फं नमः, पृष्ठे श्रीं बं श्रीं बं श्रीं
बं नमः, नाभौ श्रीं भं श्रीं भं श्रीं भं नमः, उदरे
श्रीं मं श्रीं मं श्रीं मं नमः, हृदये श्रीं यं श्रीं
यं श्रीं यं त्वगात्मनेनमः, दक्षांसे श्रीं रं श्रीं रं
श्रीं रं असृगात्मनेनमः, ककुदि श्रीं लं श्रीं लं श्रीं लं
मांसात्मनेनमः, वामांसे श्रीं वं श्रीं वं श्रीं वं मेद
आत्मनेनमः, हृदयाद्दक्षभुजाग्रान्तं श्रीं शं श्रीं शं
श्रीं शं अस्थ्यात्मनेनमः, हृदयाद्वामभुजाग्रान्तं श्रीं षं
श्रीं षं श्रीं षं मज्जात्मनेनमः, हृदयाद्दक्षपादाग्रान्तं
श्रीं सं श्रीं सं श्रीं सं शुक्रात्मनेनमः,
हृदादिवामपादाग्रान्तं श्रीं हं श्रीं हं श्रीं हं आत्मने
नमः, हृदयान्मस्तकान्तम् श्रीं क्षं श्रीं क्षं श्रीं क्षं
परमात्मने नमः || इति द्वितीयः ||
अथ तृतीयः
ललाटे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, मुखवृते क्लीं
श्रीं क्लीं श्रीं क्लीं श्रीं नमः, दक्षनेत्रे क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, वामनेत्रे क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, दक्षकर्णे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
वामकर्णे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,दक्षनासायां
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, वामनासायां क्लीं
श्रीं क्लीं श्रीं क्लीं श्रीं नमः, दक्षगण्डे क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, वामगण्डे क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, ऊर्द्ध्वोष्ठे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
अधरोष्ठे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
ऊर्ध्वदन्तपङ्क्तौ क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
अधोदन्तपङ्क्तौ क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, शिरसि
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, मुखे क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, दक्षिणबाहुमूले क्लीं श्रीं
प्. २१) क्लीं श्रीं क्लीं श्रीं नमः, कूर्परे क्लीं श्रीं क्लीं श्रीं
क्लीं श्रीं नमः, मणिबन्धे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं
नमः, अङ्गुलीनूले क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
अङ्गुल्यग्रे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, वामबाहुमूले
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, कूर्परे क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, मणिबन्धे क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, अङ्गुलीमूले क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
अङ्गुल्यग्रे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, दक्षिणोरुमूले
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, जानुनि क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, गुल्फे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं
नमः, अङ्गुलीमूले क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
अङ्गुल्यग्रे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, वामोरुमूले
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, जानुनि क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, गुल्फे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं
नमः, अङ्गुलीमूले क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
अङ्गुल्यग्रे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, दक्षपार्श्वे
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, वामपार्श्वे क्लीं श्रीं
क्लीं श्रीं क्लीं श्रीं नमः, पृष्ठे क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, नाभौ क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, उदरे
क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः, हृदये क्लीं श्रीं क्लीं
श्रीं क्लीं श्रीं नमः, दक्षांसे क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, ककुदि क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
वामांसे क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमः,
हृदयाद्दक्षभुजाग्रान्तं क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं
नमः, हृदयाद्वामभुजाग्रान्तं क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, हृदयादक्षपादाग्रान्तं क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, हृदादिवामपादाग्रान्तं क्लीं श्रीं क्लीं श्रीं क्लीं
श्रीं नमः, हृदयान्मस्तकान्तं क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं
नमः || इतितृतीयः ||
अथ चतुर्थः
ललाटे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, मुखवृत्ते ह्रीं
श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, दक्षनेत्रे ह्रीं श्रीं ह्रीं
श्रीं ह्रीं श्रीं नमः, वामनेत्रे ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः,
प्. २२) दक्षकर्णे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
वामकर्णे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
दक्षनासायां ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
वामनासायां ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
दक्षगण्डे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, वामगण्डे
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, उर्द्ध्वोष्ठे ह्रीं श्रीं
ह्रीं श्रीं ह्रीं श्रीं नमः, अधरोष्ठे ह्रीं श्रीं ह्रीं श्रीं
ह्रीं श्रीं नमः, उर्द्ध्वदन्तपङ्क्तौ ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः, अधोदन्तपङ्क्तौ ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं
नमः, शिरसि ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, मुखे ह्रीं
श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, दक्षिणबाहुमूले ह्रीं श्रीं
ह्रीं श्रीं ह्रीं श्रीं नमः, कूर्परे ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः, मणिबन्धे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
अङ्गुलीमूले ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, अङ्गुल्यग्रे
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, वामबाहुमूले ह्रीं
श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, कूर्परे ह्रीं श्रीं ह्रीं श्रीं
ह्रीं श्रीं नमः, मणिबन्धे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं
नमः, अङ्गुलीमूले ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
अङ्गुल्यग्रे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, दक्षिणोरुमूले
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, जानुनि ह्रीं श्रीं ह्रीं
श्रीं ह्रीं श्रीं नमः, गुल्फे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं
नमः, अङ्गुलीमूले ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
अङ्गुल्यग्रे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, वामोरुमूले
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, जानुनि ह्रीं श्रीं ह्रीं
श्रीं ह्रीं श्रीं नमः, गुल्फे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं
नमः, अङ्गुलीमूले ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
अङ्गुल्यग्रे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, दक्षिणपार्श्वे
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, वामपार्श्वे ह्रीं श्रीं
ह्रीं श्रीं ह्रीं श्रीं नमः, पृष्ठे ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः, नाभौ ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, उदरे
ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः, हृदये ह्रीं श्रीं ह्रीं
श्रीं ह्रीं श्रीं नमः, दक्षांसे ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः, ककुदि ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
वामांसे ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः,
हृदयाद्दक्षभुजाग्रान्तम् ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं
नमः, हृदयाद्वामभुजाग्रान्तम् ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः, हृदयादिवामपादाग्रान्तम् ह्रीं श्रीं ह्रीं श्रीं
ह्रीं श्रीं नमः, हृदयान्मस्तकान्तम् ह्रीं श्रीं ह्रीं श्रीं ह्रीं
श्रीं नमः || इतिचतुर्थः ||
प्. २३) अथ पञ्चमः
ललाटे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, मुखवृत्ते मूलं
ह्रां ह्रां ऋं ॠं क्लूं नमः, दक्षनेत्रे मूलं ह्रां ह्रां ऋं
ॠं क्लूं नमः, वामनेत्रे मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः, दक्षकर्णे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
वामकर्णे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, दक्षनासायाम्
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, वामनासायां मूलं
ह्रां ह्रां ऋं ॠं क्लूं नमः, दक्षगण्डे मूलं ह्रां ह्रां
ऋं ॠं क्लूं नमः, वामगण्डे मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः, ऊर्द्ध्वोष्ठे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
अधरोष्ठे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
ऊर्द्ध्वदन्तपङ्क्तौ मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
अधोदन्तपङ्क्तौ मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, शिरसि
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, मुखे मूलं ह्रां ह्रां
ऋं ॠं क्लूं नमः, दक्षिणबाहुमूले मूलं ह्रां ह्रां ऋं ॠं
क्लूं नमः, कूर्परे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
मणिबन्धे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुलीमूले
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुल्यग्रे मूलं ह्रां
ह्रां ऋं ॠं क्लूं नमः, वामबाहुमूले मूलं ह्रां ह्रां ऋं
ॠं क्लूं नमः, कूर्परे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
मणिबन्धे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुलीमूले
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुल्यग्रे मूलं ह्रां
ह्रां ऋं ॠं क्लूं नमः, दक्षिणोरुमूले मूलं ह्रां ह्रां ऋं
ॠं क्लूं नमः, जानुनि मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
गुल्फे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुलीमूले मूलं
ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुल्यग्रे मूलं ह्रां ह्रां ऋं
ॠं क्लूं नमः, वामोरुमूले मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः, जानुनि मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, गुल्फे
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, अङ्गुलीमूले मूलं ह्रां
ह्रां ऋं ॠं क्लूं नमः, अङ्गुल्यग्रे मूलं ह्रां ह्रां ऋं ॠं
क्लूं नमः, दक्षपार्श्वे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः,
वामपार्श्वे मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, पृष्ठे
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, नाभौ मूलं ह्रां
ह्रां ऋं ॠं क्लूं नमः, उदरे मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः, हृदये मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, दक्षांसे
मूलं ह्रां ह्रां ऋं ॠं क्लूं नमः, ककुदि मूलं ह्रां ह्रां
ऋं ॠं क्लूं नमः, वामांसे मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः, हृदयाद्दक्षपादाग्रान्तम् मूलं ह्रां ह्रां ऋं ॠं
क्लूं नमः,
प्. २४) हृदयाद्वामभुजाग्रान्तम् मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः, हृदयाद्दक्षपादाग्रान्तम् मूलं ह्रां ह्रां ऋं ॠं
क्लूं नमः, हृदादिवामपादाग्रान्तम् मूलं ह्रां ह्रां ऋं ॠं
क्लूं नमः, हृदयान्मस्तकान्तम् मूलं ह्रां ह्रां ऋं ॠं क्लूं
नमः || इति पञ्चमः ||
अथ षष्ठः
ललाटे मूलंनमः, मुखवृत्ते मूलंनमः, दक्षनेत्रे
मूलंनमः, वामनेत्रे मूलंनमः, दक्षकर्णे मूलंनमः,
वामकर्णे मूलंनमः, दक्षनासायां मूलंनमः,
वामनासायां मूलंनमः, दक्षगण्डे मूलंनमः, वामगण्डे
मूलंनमः, ऊर्द्ध्वोष्ठे मूलंनमः, अधरोष्ठे मूलंनमः,
ऊर्द्ध्वदन्तपङ्क्तौ मूलंनमः, अधोदन्तपङ्क्तौ मूलंनमः,
शिरसि मूलंनमः, मुखे मूलंनमः, दक्षिणबाहुमूले
मूलंनमः, कूर्परे मूअलंनमः, मणिबन्धे मूलंनमः,
अङ्गुलीमूले मूलंनमः, अङ्गुल्यग्रे मूलंनमः, वामबाहुमूले
मूलंनमः, कूर्परे मूअलंनमः, मणिबन्धे मूलंनमः,
अङ्गुलीमूले मूलंनमः, अङ्गुल्यग्रे मूलंनमः, दक्षिणोरुमूले
मूलंनमः, जानुनि मूलंनमः, गुल्फे मूलंनमः, अङ्गुलीमूले
मूलंनमः, अङ्गुल्यग्रे मूलंनमः, वामोरुमूले मूलंनमः,
जानुनि मूलंनमः, गुल्फे मूलंनमः, अङ्गुलीमूले मूलंनमः,
अङ्गुल्यग्रे मूलंनमः, दक्षपार्श्वे मूलंनमः, वामपार्श्वे
मूलंनमः, पृष्ठे मूलंनमः, नाभौ मूलंनमः, उदरे
मूलंनमः, हृदये मूलंनमः, दक्षांसे मूलंनमः, ककुदि
मूलंनमः, वामांसे मूलंनमः, हृदयाद्दक्षभुजाग्रान्तम्
मूलंनमः, हृदयाद्वामभुजाग्रान्तम् मूलंनमः,
हृदयाद्दक्षपादाग्रान्तम् मूलंनमः, हृदादिवामपादाग्रान्तम्
मूलंनमः, हृदयान्मस्तकान्तम् मूलंनमः ||
इत्यनुलोमः
प्. २५) अथ विलोमः
हृदयान्मस्तकान्तम् मूलंनमः, हृदादिवामपादाग्रान्तम्
मूलंनमः, हृदयाद्दक्षपादाग्रान्तम् मूलंनमः,
हृदयाद्वामभुजाग्रान्तम् मूलंनमः, हृदयाद्दक्षभुजाग्रान्तम्
मूलंनमः, वामांसे मूलंनमः, ककुदि मूलंनमः,
दक्षांसे मूलंनमः, हृदये मूलंनमः, उदरे मूलंनमः,
नाभौ मूलंनमः, पृष्ठे मूलंनमः, वामपार्श्वे
मूलंनमः, दक्षपार्श्वे मूलंनमः, अङ्गुल्यग्रे मूलंनमः,
अङ्गुलीमूले मूलंनमः, गुल्फे मूलंनमः, जानुनि मूलंनमः,
वामोरुमूले मूलंनमः, अङ्गुल्यग्रे मूलंनमः,अङ्गुलीमूले
मूलंनमः, गुल्फे मूलंनमः, जानुनि मूलंनमः,
दक्षिणोरुमूले मूलंनमः, अङ्गुल्यग्रे मूलंनमः, अङ्गुलीमूले
मूलंनमः, मणिबन्धे मूलंनमः, कूर्परे मूलंनमः,
वामबाहुमूले मूलंनमः, अङ्गुल्यग्रे मूलंनमः, अङ्गुलीमूले
मूलंनमः, मणिबन्धे मूलंनमः, कूर्परे मूलंनमः,
दक्षिणबाहुमूले मूलंनमः, मुखे मूलंनमः, शिरसि
मूलंनमः, अधोदन्तपङ्क्तौ मूलंनमः, ऊर्द्ध्वदन्तपङ्क्तौ
मूलंनमः, अधरोष्ठे मूलंनमः, ऊर्द्ध्वोष्ठे मूलंनमः,
वामगण्डे मूलंनमः, दक्षगण्डे मूलंनमः, वामनासायां
मूलंनमः, दक्षनासायां मूलंनमः वामकर्णे
मूलंनमः, दक्षकर्णे मूलंनमः वामनेत्रे मूलंनमः
दक्षनेत्रे मूलंनमः, मुखवृत्ते मूलंनमः, ललाटे
मूलंनमः || इति विलोमः || अष्टोत्तरशतसङ्ख्यकमूलेन
व्यापकन्यासं कुर्यादिति षष्ठः ||
अथ तत्त्वन्यासः
तद्यथा - - पादादिनाभिपर्यन्तं क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं
हूं ओं आत्मतत्त्वायनमः, नाभ्यादिहृदयपर्यन्तं दक्षिणे कालिके ओं
विद्यातत्त्वायनमः,
प्. २६) हृदादिशिरःपर्यन्तं क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं
स्वाहा ओं शिवतत्त्वायनमः ||
अथ बीजन्यासः
तथाहि - ब्रह्मरन्ध्रे क्रींनमः, भ्रूमध्ये क्रींनमः,
ललाटे क्रींनमः, नाभौ ह्रींनमः, गुह्ये ह्रींनमः, वक्त्रे
हूंनमः, गुर्वङ्गे हूंनमः इति || इमौ न्यासौ || क्रीं क्रीं क्रीं
ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं क्रीं क्रीं ह्रीं ह्रीं
हूं हूं स्वाहा इति विद्याबीजेन ततो मूलेन नवधा सप्तधा
पञ्चधा व्यापकन्यासं कुर्यात् | ततो ध्यानं कुर्यात्तद्यथा -
करालवदनांघोरांमुक्तकेशीञ्चतुर्भुजाम् |
कालिकांदक्षिणांदिव्याम्मुण्डमालाविभूषिताम् ||
सद्यश्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम् ||
अभयंवरदञ्चैवदक्षिणाधोर्ध्वपाणिकाम् ||
महामेघप्रभांश्यामांतथाचैवदिगम्बराम् |
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ||
कर्णावतंसतानीतशवयुग्मभयानकाम् |
घोरदंष्ट्राङ्करालास्याम्पीनोन्नतपयोधराम् ||
शवानाङ्करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् |
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ||
घोररावाम्महारौद्रींश्मशानालयवासिनीम् |
दन्तुरां दक्षिणव्यापिलम्बमानकचोच्चयाम् ||
शवरूपमहादेवहृदयोपरिसंस्थिताम् |
शिवाभिर्घोररूपाभिश्चतुर्द्दिक्षुसमन्विताम् ||
महाकालेनचसमंविपरीतरतातुराम् |
एवंसञ्चिन्तयेद्देवीं सर्वकामार्थसिद्धये ||
ततः समस्तकिल्बिषरहितं निर्मलदेहं विचिन्त्य आत्मानं देवीरूपं
विभावयेत् || अथ पीठदेवताया देहे पीठमयं विभावयेत् || तद्यथा
- आधारे मण्डूकायनमः, स्वाधिष्ठाने कालाग्निरुद्रायनमः,
नाभौ कच्छपायनमः, हृदये ओं आधारशक्तयेनमः,
कूर्मायनमः, धरायैनमः, सुधासमुद्रायनमः,
कल्पवृक्षायनमः, मणिहर्म्म्यायनमः, हेमपीठायनमः,
इतिहृदयेन्यसेत् ||
प्. २७) दक्षबाहौ धर्मायनमः, वामे ज्ञानायनमः, वामोरौ
वैराग्यायनमः, दक्षोरौ ऐश्वर्यायनमः, वदने अधर्मायनमः,
वामपार्श्वे अज्ञानायनमः, नाभौ अवैराग्यायनमः,
दक्षिणपार्श्वे अनैश्वर्यायनमः, हृदिसंसत्त्वायनमः,
रंरजसेनमः, तंतमसेनमः, तपिन्यादिकलाभ्योनमः,
अमृतादिकलाभ्योनमः, धूम्रार्च्चिकलाभ्योनमः, आं-आत्मनेनमः,
अं-अन्तरात्मनेनमः, पंपरमात्मनेनमः,
ह्रींज्ञानात्मनेनमः, मंमायातत्त्वायनमः,
कंकलातत्त्वायनमः, विंविद्यातत्त्वायनमः, पंपरतत्त्वायनमः,
श्मशानायनमः, मुनिभ्योदेवेभ्योनमः,
बहुमांसास्थिमोदमानाभ्यः शिवाभ्योनमः,
शवमुण्डचिताङ्गारेभ्योनमः, ओंजयायैनमः, ओंविजयायैनमः,
ओंजितायैनमः, ओं-अपराजितायैनमः, ओं नित्यायैनमः,
ओंविलासिन्यैनमः, ओंदोग्ध्यैनमः, ओं-अघोरायैनमः,
ओंमङ्गलायैनमः, ततः ह्सौंमहाप्रेतपद्मासनायनमः,
एवंदेहमयंपीठं विभाव्य प्रातःकृत्योक्तप्रकारेण
कुण्डल्युत्थानादि कृत्वा देवींध्यात्वा तत्तन्मुद्राः प्रदर्श्य
मानसैरुपचारैः पूजयेत् | तद्यथा - मूलाधारे ध्वजाधोगुदोर्ध्वे
चतुःशोणपत्रे वंशंषंसमितिसहिते प्रसुप्तभुजगाकारां
स्वयम्भूलिङ्गवेष्टिनीं ध्यायेत् || तद्यथा ||
ध्यायेत्कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम् |
प्रसुप्तभुजगाकारां विद्युत्पटलसन्निभाम् ||
तामिष्टदेवतारूपां सार्द्धत्रिवलयान्विताम् |
कोटिसौदामिनीभासां स्वयम्भूलिङ्गवेष्टिनीम् ||
तामुत्थाप्य महादेवीं हंसं मन्त्रेण साधकः |
उद्यद्दिनकरद्योतांयावच्छासन्दृढासनः ||
अशेषाशुभशान्त्यर्थंसमाहितमनाश्चिरम् |
तत्प्रभापटलव्याप्तं शरीरमपि चिन्तयेत् ||
सुषुम्नावर्त्मनैवैनां परब्रह्मणि योजयेत् |
तत्र परब्रह्मणि सङ्गमयय ततश्चन्द्रमण्डलान्तर्गतामृतधारां
निपीय तया
लोलीभूताञ्चैतन्यमयीञ्चरणयुगलान्तर्विगलितैरमृतनिवहैः
प्रपञ्चं सञ्चतीम्मूलाधारमानयेत् || आत्मानं
शुद्धचैतन्यानन्दमयं
प्. २८) देवतारूपं विभावयेत् || ततो मूलाधारात्कुण्डलिनीं
हंसंमन्त्रेणोत्थाप्य द्वादशदले हृदयसरसिजे,
षड्बिंदुलाञ्छितकादिचान्तसहिते गत्वा प्रदीपकलिकाकारजीवरूपां
द्वितीयाम्प्रदीपकलिकामाकृष्य स्वमुखे निःक्षिप्तवतीम्परब्रह्मणि
सङ्गमयय पुनर्हृदयदेशमानीय तन्मुखात्प्रदीपकलिकां
विनिष्कृष्य मूलाधारे संस्थापयेत् ||
ताम्प्रदीपकलिकान्देवतारूपान्ध्यायेत् || तद्यथा ||
मेघाङ्गी/व्विगताम्बरां
शवशिवारावान्त्रिनेत्राम्पराङ्कर्ण्णालम्बितवालयुग्मभयदाम्मुण्
डस्रजामालिनीम् || वामाधोर्ध्वकराम्बुजे नरशिरःखड्गञ्च
सव्येतरे दानाभीतिविमुक्तकेशनिचया/ व्वन्दे सदा कालिकाम् ||
इतिध्यात्वा तत्तन्मुद्राम्प्रदर्श्य मानसैरुपचारैःपूजयेत् || तत्र
प्रार्थयेदनेन मन्त्रेण ऽओं स्वागतन्देवदेवेशि सन्निधौ भव कालिके ||
गृहाण मानसीम्पूजा/ ययथार्त्थपरिभाषिताम्ऽ ततोऽष्टोत्तरशत/
व्वर्णमयया मालया जपेत् || इति मानसपूजाविधिः ||
अथ बहिःपूजा
तत्र प्राणायामषडङ्गन्यासादि कुर्यात् || तद्यथा ||
क्रांहृदयाय नमः, क्रींशिरसेस्वाहा, क्रूंशिखायैवषट्,
क्रैंकवचायहुम्, क्रौंनेत्रत्रयायवौषट्, क्रः-अस्त्रायफट्,
इतिछोटिकया दिग्बन्धनङ्कुर्यात् || एवं करन्यासः |
क्रांअङ्गुष्ठाभ्यांनमः, क्रींतर्ज्जनीभ्यांस्वाहा,
क्रूंमध्यमाभ्यांव्वौषट्, क्रैं अनामिकाभ्यांहुम्,
क्रौंकनिष्ठिकाभ्यांवौषट्, क्रःकरतलकरपृष्ठाभ्याम्फट्,
एवन्न्यासादिकङ्कृत्वा ऽआःसुरेखेवज्ररेखेहु/फट्स्वाहाऽ अनेन
मन्त्रेण कुङ्कुमसिन्दूरादिभिः
सौवर्णराजतताम्रस्फाटिकवैद्रुमाद्यन्यतमपात्रे
षट्कोणत्रिकोणाष्टदलभूपुरात्मक/ ययन्त्रं लिखेत् || तदुक्तं
रुद्रयामले ऽततः कुङ्कुमसिन्दूरैः कार्य/ ययन्त्रन्तु योगिनाम् ||
सौवर्णेराजतेताम्रे स्फाटिके वैद्रुमे तथा || चक्रेयथोक्तविधिना
प्. २९) पूज्या देवी नरोत्तमैः ||ऽ सारसङ्ग्रहेऽपि ऽताम्रेद्वादशक/
व्वर्षं स्फाटिकादौ तु सर्वदा || तेषाम्मध्येस्फाटिकन्तु
सर्वसिद्धिप्रदम्भवेत्ऽ इत्यादि || तन्त्रान्तरेपि ऽयावज्जीवं सुवर्णे
स्याद्रौप्ये द्वाविंशति प्रिये || ताम्रेद्वादशवर्षान्तन्तदर्द्ध
भूर्ज्जपत्रके || एकतोलन्द्वितोल/ व्वा त्रितोल/ व्वेदतोलकम् ||
स्वेच्छातोलन्नरःकृत्वा प्रत्यवायं समश्नुतेऽ || इति बहिःपूजा ||
अथार्ग्घस्थापनविधिः
तद्यथा- आत्मयन्त्रयोर्म्मध्ये
त्रिकोणवृत्तषट्कोणचतुरस्रमण्डल/ व्विरच्य ईमितिविलिख्य,
मूलखण्डत्रयेण त्रिकोणं सम्पूज्यषट्कोणेषुषडङ्गं सम्पूज्य
चतुरस्रे ऽपूर्णगिरिपीठायनमःऽ इति पूर्व्वे,
ऽउड्डीयानपीठायनमःऽ इतिदक्षिणे ऽकामरूपपीठायनमःऽ
इतिपश्चिमे, ऽजालन्धरपीठायनमःऽ इत्युत्तरे, इतिसम्पूज्य मध्ये ऽओं
आधारशक्तयेनमःऽ इतिसम्पूज्य त्रिकोणगर्भत्रिकोणषट्कोणभूषिता/
यय/त्रिकाम्मूलेन संस्थाप्य ऽनमःऽ
इतिसामान्यार्घस्थजलेनाभ्युक्ष्य
ऽवांवींवुंहसक्षमलवरयूंधर्मदवह्निमण्डलात्मनेकालिकार्
ग्घ्यपात्राधारायनमःऽ इतिसम्पूज्य यंधूम्रार्च्चिषेनमः, रं
ऊष्मायैनमः, लंज्वलिन्यैनमः, वंज्वालिन्यैनमः,
शंविस्फुलिङ्गिन्यैनमः, षंसुश्रियैनमः, संसुरूपायैनमः,
हंकपिलायैनमः, लंहव्यवाहायैनमः, क्षंकव्यवाहायैनमः,
इतिबह्निदशकलाः सम्पूज्य षट्कोणेषु षडङ्गञ्च सम्पूज्य
मध्यमूलेनदेवीम्प्रपूज्य ऽश्रीकालिकाश्रीपात्रं
स्थापयामिनमः,ऽ इतिपठित्वा तदुपरि सौवर्णंराजतन्ताम्रन्नारिकेल/
व्वा पात्रं फडितिप्रक्षालितं संस्थाप्य ऽह्रीं ह्रीं हूं
हसक्षमलवरयूंवसुप्रदतपिन्यादिद्वादशकलात्मने
अर्क्कमण्डलायश्रीदक्षिणाकालिकार्घ्यपात्रायनमः,ऽ इतिसम्पूज्य
पूर्वादिप्रादक्षिण्येन कलाम्पूजयेत्तद्यथा -
ऽकंभंतपिन्यैनमः, खंबंतापिन्यैनमः,
प्. ३०) गंफंधूम्रायै नमः, घंपंमरीच्यैनमः,
ङंनंज्वालिन्यैनमः, चंधंरुच्यैनमः,
छंदंसुषुम्नायैनमः, जंथंभोगदायै नमः,
झंतंविश्वायैनमः, ञंणंबोधिन्यैनमः,
टंढंधारिण्यैनमः, ठंडंक्षमायैनमःऽ इति सम्पूज्य
तत्पात्रमध्येत्रिकोणं षट्कोणवृत्तम्मूलेनविलिख्य
षडङ्गंसम्पूज्यमूलेनत्रिकोणं सम्पूज्य विलोममातृकया
दशधाजप्तेन वा क्षीरञ्जल/ व्वा मधुस/व्विदादि वा निक्षिप्य तेन
त्रिकोणम्परिपूर्य यंरंवमितिदोषशोषणदहनप्लावनानि कृत्वा
सांसींसूंसहक्षमलवरयूंकामप्रदामृतादिषोडशकलात्मने
सोममण्डलाय ऽस्रीदक्षिणाकालिकार्ग्घ्यामृतायनमःऽ इतिसम्पूज्य
कलाःपूजयेत् | ऽअं अमृतायैनमः, आंमानदायैनमः,
इंपूषायैनमः, ईंतुष्ट्यैनमः, उंपुष्ट्यैनमः,
ऊंवृत्त्यैनमः, ऋंधृत्यैनमः, ॠंशशिन्यैनमः
ऌंचन्द्रिकायैनमः, ॡंकान्त्यैनमः, एंज्योत्स्नायैनमः,
ऐंश्रियैनमः, ओंप्रीत्यैनमः, औं-अङ्गदायैनमः,
अंपूर्णायैनमः, अःपूर्णामृतायैनमःऽ इतिकलाः सम्पूज्य
एलालवङ्गकर्पूरादिसुगन्धादिनिःक्षिप्य पूर्ववद्यन्त्रन्द्रव्ये विलिख्य
त्रिकोणरेखायाम् ऽअं १६ कं १६ खं १६ऽ इतिविलिख्य मध्ये
ऽहंलंक्षंऽ इतिस/ल्लिख्य मूलखण्डत्रयेण सम्पूज्य
ऽगङ्गेचयमुनेचैवगोदावरिसरस्वति ||
नर्म्मदेसिन्धुकावेरिजलेस्मिन्सन्निधिङ्कुरु || ओं ब्रह्माण्डोदरतीर्थानि
करैः स्पृष्टानि ते रवे || तेन सत्येन मे देव तीर्थन्देहिदिवाकरऽ
इत्यादिभिस्तीर्थान्यावाह्याङ्कुशमुद्रया ऽवौषट्ऽ इतिपुष्पं ऽवषट्ऽ
इत्यनेन गालिनींमुद्रांप्प्रदर्श्य | गालिनीमुद्रा यथा
ऽकनिष्ठाङ्गुष्ठकौयुक्तौकरयोरितरेतरम् ||
तर्ज्जनीमध्यमानामासंहताभुग्नवर्ज्जिताःऽ || वमितिधेनुमुद्रया
अमृतीकृत्य इष्टदेवतान्ध्यात्वा सम्पूज्य
सङ्कलीकृत्यशङ्खमुद्राम्प्रदर्श्य, षट्कोणे च षडङ्गं सम्पूज्य
पूर्वे ग्लूंगगनरत्नेभ्योनमः, दक्षिणे स्लूंस्वर्गरत्नेभ्योनमः,
इति पश्चिमे प्लूंपातालरत्नेभ्योनमः, उत्तरे म्लूं
मनुष्यरत्नेभ्योनमः, नूंनागरत्नेभ्योनमः, इतिमध्ये
प्. ३१) सम्पूज्य ऐंमूलं अमृते-अमृतोद्भवे-अमृतेश्वरि-अमृतवर्षिणि
अमृतंस्रावयसांजूंजूं-अमृतेश्वर्यै स्वाहा
इत्यमृतेश्वरीन्त्रिधा जप्त्वा त्रैयम्बकेन गायत्र्या वा
शांशींशूंशैंशौंशः शुक्रशापविमोचितायैस्वाहा
इत्यमृतेशी स्मृत्वा
ऽअखण्डैकवरानन्दकरेपरसुधात्मनि |
स्वच्छन्दस्फुरणामत्र निधेह्यमृतरूपिणी ||
सूर्यकोटिप्रतीकाशञ्चन्द्रकोटिसुशीतलम् |
अष्टादशभुजन्देवम्पञ्चवक्त्रन्त्रिलोचनम् |
अमृतार्णवमध्यस्थब्रह्मपद्मोपरिस्थितम् |
वृषारूढन्नीलकण्ठं सर्वाभरणभूषितम् |
कपालखट्वाङ्गधरङ्घण्टाडमरुवादिनम् ||
पाशाङ्कुशधरन्देवङ्गदामुशलधारिणम् |
खड्गखेटकपट्टीशमुद्गरोच्छूलकुन्तिनम् ||
विचित्रखेटकम्मुण्ड/ व्वरदाभयमालिनम् |
लोहितन्देवदेवेशम्भावयेत्साधकोत्तमः ||
भावयेच्च सुरान्देवीञ्चन्द्रकोट्ययुतप्रभाम् |
हिमकुन्देन्दुधवलाम्पञ्चवक्त्रान्त्रिलोचनाम् ||
अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् |
प्रहसन्ती/ व्विशालाक्षीन्देवदेवस्यसम्मुखीम् ||ऽ
इतिमन्त्रेणवामाङ्गुष्ठमध्यमाभ्यान्द्रव्यमुद्धृत्यानंदभैर
वमिथुनन्तत्रैवसम्पूज्यसन्तर्प्यच-अमृतेशींस्मृत्वा
क्लींकुलस्थामृताकारेसिद्धिज्ञानकरेपरे || अमृतत्वन्निधेह्यत्र वस्तुनि
क्लिन्नरूपिणि || हंसःतर्पयामिनमःऽ इतिपूर्ववत्संतर्प्य
अमृतेशींस्मृत्वा सौं तद्रूपैकरसाख्यञ्च दत्वाह्येतत्स्वरूपिणी ||
भूत्वा कुलामृताकारम्मयि विस्फुरणङ्कुरु || ऽहंसःऽ इति
प्राग्वत्सन्तर्प्यमूलं सप्तधाजप्त्वा कवचेनावगुण्ठ्यास्त्रेण
संरक्ष्य मत्स्यमुद्रयाच्छाद्य योनिधेनुमुद्रे प्रदर्शयेत् ||
इतिश्रीपात्रस्थापनविधिः || दक्षिणे अर्ग्घ्यस्थापनं कुर्यात् || तद्यथा
|| त्रिकोणवृत्तषट्कोणभूपुराणिकृत्वा | आधारशक्तयेनः
इत्यभ्यर्च्याग्निमूर्द्ध्वङ्कोणाग्रङ्कृत्वा शङ्खमुद्रान्दर्शयेत् ||
शङ्खमुद्रा यथा - ऽवाममुष्ट्यन्तरेङ्गुष्ठन्निवेश्य
प्. ३२) सरलाङ्गुलीः || दक्षिणस्य करस्यैव वामाङ्गुष्ठेनसंस्पृशेत् ||
शङ्खमुद्रेयमाख्याता मन्त्रविद्भिरनुत्तमाऽ इतिपुष्पाक्षतैः
षडङ्गानि-अग्नीशासुरवायव्येषु मध्यदिक्षु चसम्पूज्य ऽफट्ऽ इति
प्रक्षालितमाधारं संस्थाप्य तत्र वह्निमण्डलमभ्यर्च्य, तर
पूर्वबीजेन शङ्खम्प्रक्षाल्य, तत्र संस्थाप्य,
पूर्वोक्तमन्त्रेणार्कमण्डलन्तत्र सम्पूज्य मूलेन जलन्दत्वा,
पूर्वोक्तमन्त्रेण चन्द्रमण्डलमभ्यर्च्य ऽगङ्गेचऽ इत्यादिना
तीर्थमावाह्य, ऽवौषट्ऽ इतिस/योज्य सम्पूज्य तीर्थशक्तिञ्च सम्पूज्य
ऽवषट्ऽ इति पुष्पन्न्यस्य गालिनीमुद्राम्प्रदर्श्य, ऽरम्ऽ इति स्वधाबीजेन
धेनुमुद्रया अमृतीकृत्य, इष्टदेवतान्ध्यात्वा, सकलीकृत्य, षडङ्गानि
सन्न्यस्य, अस्त्रेण संरक्ष्य सम्पूज्य अष्टकृत्वोमूलेनाभिमन्त्र्य,
मत्स्यमुद्रयाच्छाद्य,
कुशाग्राक्षततिलव्रीहियवाज्यसिद्धार्थम्पुष्पाणि सङ्क्षिप्य,
योनिमुद्रान्दर्शयित्वा,
श्रीपात्रस्थजलङ्किञ्चित्सङ्क्षिपेदित्यर्ग्घ्यस्थापनविधिः || तद्वामे
पाद्यपात्रन्त्रिकोणवृत्तचतुरस्रे आधारशक्तिं सम्पूज्यपात्रं
साधारं संस्थाप्य ऽनमःऽ इतिमूलेन वा जलेन प्रपूर्य ऽवषट्ऽ
इतिपुष्पं ऽनमःऽ इति गन्धञ्च निःक्षिप्य उशीरं रोचनञ्च
श्यामाकविष्णुक्रान्ताक्षदूर्वा-इतिवा
सङ्क्षिप्यास्त्रेणाष्टकृत्वोऽभिमन्त्र्य मूलेनाभिमन्त्र्यधेनुयोनिमुद्रे
दर्शयेत् || एवन्तत्पार्श्वे आचमनीयपात्रन्त्रिरावृत्तचतुरस्रे
आधारशक्तिं सम्पूज्य पात्रं साधारं संस्थाप्य ऽनमःऽ
इतिमूलेन वा जलेन प्रपूर्य ऽवषट्ऽ इति पुष्पं ऽनमःऽ इति गन्धञ्च
निःक्षिप्य
जातिकर्पूरकङ्कोललवङ्गतमालकादिचूर्णन्निक्षिप्यास्त्रेणाष्टकृत्वोऽ
भिमन्त्र्य मूलेनाभिमन्त्र्य धुनुयोनिमुद्रेदर्शयेत् || तद्दक्षिणे
मधुपर्कपात्रन्त्रिकोणवृत्तचतुरस्रे आधारशक्तिसम्पूज्य पात्र
साधारम्मधुघृतशर्करादधिदुग्धयुतं
संस्थाप्यास्त्रेणाष्टकृत्वोभिमन्त्र्यमूलेनाभिमन्त्र्यधेनुयोनिमुद्रे
दर्शयेत् || तद्दक्षे स्नानीयपात्रन्त्रिकोणवृत्तचतुरस्रे आधारशक्ति
सम्पूज्य पात्रं साधारं संस्थाप्य ऽनमःऽ इति मूलेन वा जलेन
प्. ३३) प्रपूर्य ऽवषट्ऽ इतिपुष्पं ऽनमःऽ इतिगन्धञ्च निक्षिप्य उशीरं
रोचनञ्च
संक्षिप्यास्त्रेणाष्टकृत्वोऽभिमन्त्र्यमूलेनाभिमन्त्र्यधेनुयोनिमुद्रे
दर्शयेत् | तत्रैव श्रीचन्दनादिपुष्पन्दक्षेवसनभूषणादि तत्रैव
स्थापयेत्
सामान्यार्ग्घ्यस्थजलेनविशेषजलेनवाभिषिच्यमूलेनाष्टवारमभिम्
अन्त्र्य धेनुयोनिमुद्रे दर्शयेत् | एवं सर्ववस्तुशोधन/
व्विशेषजलेनात्ममृर्ध्नि भैरवौ तर्पयेत् | श्रीपात्रामृतेन
विशेषार्ग्घ्यपात्रेण वा देवीं हृदि त्रिवारन्तर्पयेत् || तर्पणञ्च
तत्त्वमुद्रया || सा चानामिकाङ्गुष्ठयोगेन बोध्या || अत्र
तत्त्वशुद्ध्याद्यपि कौलिकैराचरणीयम् || तद्यथा तत्र श्रुतिः ||
प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा
विपाप्मा भूयासं स्वाहा | ओं पृथिव्यप्तेजोवायवाकाशानि मे
शुद्ध्यन्तामित्यादि ओं प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे
शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा | ओं
स्पर्शरूपरसगन्धाकाशानि मे शुद्ध्यन्ताम् ज्योतिरहं विरजा
विपाप्मा भूयासं स्वाहा | ओं वायुतेजःसलिलभूम्यात्मानो मे
शुद्ध्यन्ताञ्ज्योतिरहं व्विरजा विपाप्मा भूयासं स्वाहा | इति
परामृशन् सप्तधा सर्वाङ्गे ओं त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे
शुद्ध्यन्ताम् || ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा | ओं
पाणिपादपायूपस्थशब्दा मे शुद्ध्यन्ताम् ज्योतिरह/ व्विरजा
विपाप्मा भूयासं स्वाहा || इतितत्त्वशुद्धिः ||
ईशानवह्निनिऋतिवायुकोणेषु मण्डलानि विधाय
बटुकयोगिनीगणेशक्षेत्रपालभूतेभ्यः सम्पूज्य
वटकादिबलिन्दद्यात् | मण्डलमभ्यर्च्च्य वटकादिद्रव्यसंस्थापयेत् ||
ओं एह्येहिदेवी पुत्रकपिशजटाभारभास्वरज्वालामुख
सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितम्बलिङ्गृह्णगृह्ण
स्वाहा || अनेनाङ्गुष्ठानामिकायोगेन ईशाने बटुकाय बलिन्दद्यात् ||
ऊर्द्ध्वम्ब्रह्माण्डतो वा दिविगतसुतले भूतले निष्कले वा पाताले
वानले वा सलिलपवनयोर्यत्रतत्रस्थितावा || क्षेत्रे पीठोपपीठादिषु
कृतसुपदाः
प्.३४) पुष्पधूपादिकेन प्रीता देव्यस्सदाताश्शुभवलिविधिनायान्तु
देवेन्द्रतुल्याः || ऽयां यीं यूं यैं यौं यः योगिनीभ्यः
हू/फट्स्वाहाऽ अनेन कनिष्ठाङ्गुष्ठयोगेन वह्निकोणे बलिन्दद्यात् ||
ऽक्षांक्षींक्षूंक्षैंक्षौंक्षः
क्षेत्रपालधूपदीपादिसहितम्बलिं गृह्णगृह्णस्वाहाऽ
अङ्गुष्ठतर्ज्जनीभ्या/ व्वायुकोणे बलिन्दद्यात् ||
ऽगांगींगूंवरवरदसर्वजनम्मे वशमानय बलिं गृह्णगृह्ण
स्वाहाऽ मुष्टिमध्यस्थामङ्गुलीन्दण्डवत्कृत्वा नैऋते बलिन्दद्यात् ||
वामभागे मण्डलं कृत्वा साधारपात्रं संस्थाप्य तत्र
बलिद्रव्यन्दत्त्वा सेकादिकृत्वा ऽओं
ह्रींसर्वविघ्नकृद्भ्यःसर्वभूतेभ्योहू/फट्स्वाहाऽ इत्यनेन
तत्त्वमुद्रया भूतेह्यो बलिन्दद्यात् | इदम्बलिदान/वस्तुतःपुरश्चरणे
एव कर्त्तव्यम् || सुवर्णस्फटिकादौ
काश्मीरमृगनाभिमलयोद्भवरक्तचन्दनादिद्रव्येण
ऽआसुरेखेवज्ररेखेहूम्फट्स्वाहाऽ इतिमन्त्रेण च
षट्कोणगर्ब्भन्त्रिकोणत्रयाष्टदलभूपुरात्मक/ ययन्त्र/ ल्लिखेत् || तत्र
पञ्चगव्येन पञ्चामृतेन च प्रक्षाल्य प्राणप्रतिष्ठामन्त्रेण
अष्टोत्तरशतकृत्वः प्राणान् प्रतिष्ठाप्य || मन्त्रोयथा
ऽआंह्रीक्रोंयंरंलंवंशंषंसंहोंओंक्षंसंहंसःह्रीं
ओं हंसः
श्रीमद्दक्षिणकालिकायाष्षट्कोणगर्ब्भत्रिकोणत्रयाष्टदलभूपुरात्
मकयन्त्रस्य सजीववाङ्मनश्चक्षुश्श्रोत्रघ्राणप्राणा इहागत्य
सुखं चिरन्तिष्ठन्तु स्वाहाऽ || ततः ऽओंयन्त्रराजाय विद्महे
महायन्त्राय धीमहि | तन्नो यन्त्रःप्रचोदयात्ऽ इतिदशधा जप्त्वा,
दशधापुष्पाञ्जलिंसङ्क्षिप्य, होमं कृत्वा प्रतिहोमे
हुतशेषन्तस्मिन्क्षिपेत् | तत्राधारशक्त्यादिपूजनङ्कुर्यात् || तद्यथा
ऽह्रीं आधारशक्तिभ्योनमः इति सम्पूज्य | ततो
रक्तचन्दनपुष्पाक्षतपुञ्जन्निधाय ऽओं जयायैनमःऽ
ऽओंविजयायैनमःऽ ऽओं अजितायैनमःऽ ऽओं अपराजितायैनमःऽ
ऽओंनित्यायैनमःऽ ऽओंविलासिन्यैनमःऽ ऽओंदोग्घ्र्यैनमःऽ ऽओं
अघोरायैनमःऽ ऽओंमङ्गलायैनमःऽ इतिपीठशक्तीरभ्यर्च्य
ऽह्रींकालिकायोगपीठात्मनेनमःऽ
ऽह्सौंसदाशिवमहाप्रेतपद्मासनायनमःऽ इत्यभ्यर्च्य
प्. ३५) ततो देवी/ ययजेत् | हस्तेपुष्पाक्षतपुञ्जन्निधाय
कूर्ममुद्रा/व्विधाय कुलकुण्डलिनी हृदयदेशे आनीय तन्मुखे
प्रक्षिप्य ताम्परब्रह्मणि
सङ्गमययचन्द्रमण्डलान्तर्गतामृतलोलीभूतान्द्विदले सन्निवेश्य
वामनासापुटेन ऽयम्ऽ इतिनिष्कृष्य पूर्वङ्कामकलान्ध्यायेत् |
ऽमुखम्बिन्दुवदाकारन्तदधःकुचयुग्मकम् |
तदधस्सपराङ्गञ्च सपरिष्कृतमण्डलम् ||ऽ
ततः पुष्पादिचक्रे क्षिपेत् | देवीन्ध्यात्वा आवाहयेत् | ध्यानञ्च
ऽकरालवदनाङ्घोराम्मुक्तकेशीञ्चतुर्ब्भुजाम् |
कालिकान्दक्षिणान्दिव्याम्मुण्डमालाविभूषिताम् || १ ||
सद्यश्छिन्नसिरः खड्गवामोर्ध्वाधः कराम्बुजाम् |
अभय/ व्वरदञ्चैव दक्षिणाधोर्ध्वपाणिकाम् || २ ||
महामेघप्रभां श्यामान्तथा चैवदिगम्बराम् |
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् || ३ ||
कर्णावतंसतानीतशवयुग्मभयानकाम् |
घोरदंष्ट्राकरालास्याम्पीनोन्नतपयोधराम् || ४ ||
शवानाङ्करसङ्घातैःकृताकाञ्चीं हसन्मुखीम् |
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् || ५ ||
गोररूपाम्महारौद्रीं श्मशानालयवासिनीम् |
दन्तुरान्दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् || ६ ||
शवरूपमहादेवहृदयोपरिसंस्थिताम् |
शिवाभिर्घोररूपाभिश्चतुर्दिक्षुसमन्विताम् || ७ ||
महाकालेन सार्द्धोर्द्ध्वमुपविष्टरतातुराम् |
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् || ८ ||
एवं सञ्चिन्तयेद्देवींश्मशानालयवासिनीम् |ऽ
अथवाहंसतन्त्रोक्तन्ध्यानङ्कुर्यात् | यथा-
ऽनमामि दक्षिणामूर्तिङ्कालिकाम्परभैरवीम् |
भिन्नाञ्जनचयप्रख्याम्प्रवीरशवसंस्थिताम् || १ ||
गलच्छोणितधाराभिः स्मेराननसरोरुहाम् |
पीनोन्नतकुचद्वन्द्वाम्पीनवक्षोनितम्बिनीम् || २ ||
दक्षिणाम्मुक्तकेशालीन्दिगम्बरविनोदिनीम् |
महाकालशवाविष्टां स्मेरानन्दोपरिस्थिताम् || ३ ||
मुखंसान्द्रस्मितामोदमोदिनीम्मदविह्वलाम् |
आरक्तमुखसान्द्राभिर्न्नेत्रालीभिर्विराजिताम् || ४ ||
प्.३६) शवद्वयकृतोत्तंसां सिन्दूरतिलकोज्ज्वलाम् |
पञ्चाशन्मुण्डघटितमालाशोणितलोहिताम् || ५ ||
नानामणिविशोभाढ्य-नानालङ्कारशोभिताम् |
शवास्थिकृतकेयूरशङ्खकङ्कणमण्डिताम् || ६ ||
शववक्षस्समारूढा/ ल्लेलिहानां शवङ्क्वचित् |
शवमांसकृतग्रासां साट्टहासम्मुहुर्म्मुहुः || ७ ||
खड्गमुण्डधरा/ व्वामे सव्येऽभयवरप्रदाम् |
दन्तुराञ्च महारौद्रीञ्चण्डनादातिभीषणाम् || ८ ||
शिवाभिर्घोररूपाभिर्वेष्टिताम्भयनाशिनीम् |
मा भैर्मा भैस्स्वभक्तेषु जल्पन्तिङ्घोरनिःस्वनैः || ९ ||
यूयङ्किमिच्छथ ब्रूत ददामीतिप्रभाषिणीम् |ऽ
इतिध्यायेत् || आवाहनञ्च ऽआत्मसंस्थामजां
शुद्धान्त्वामहम्परमेश्वरीम् ||
आरण्यमिवहव्यांशम्मूर्त्तावावाहयाम्यहम्ऽ इतिमूलञ्च पठन्
ऽभगवति दक्षिणकालिके इहागच्छऽ इति
प्रसारितसंहताङ्गुलीमूलपर्वणोरङ्गुष्ठौ निःक्षिप्य आवाहयेत् ||
ततः ऽओं देवेशि भक्तिसुलभे परिवारसमन्विते || यावत्त्वाम्पूजयिष्यामि
तावत्त्वं सुस्थिरा भव || तवेयम्महिमामूर्तिस्तस्यान्त्वां
सर्वगाम्प्रभो || भक्तिस्नेहसमाकृष्टान्दीपवत्स्थापयाम्यहम्ऽ ||
इतिमूलम्पठित्वा पूर्वोक्तया अधोमुख्या मुद्रया स्थापयेत् || ऽओं
सर्वान्तर्यामिन्यै देवि सर्वबीजमये शुभे | स्वात्मस्थायै परं
शुद्धमासनङ्कल्पयाम्यहम्ऽ मूलञ्च पठन्पद्ममुद्रया
पुष्पाद्यासनन्दद्यात् || ततः ऽओं अस्मिन्वरासने देवि
सुखासीनेऽक्षरात्मिके || प्रथिष्ठिता भवेस्सा त्वम्प्रसीद परमेश्वरिऽ
मूलञ्च पठन् ऽइह प्रतिष्ठिताभवऽ इतिपूर्वोक्तया मुद्रया
प्रतिष्ठापयेत् | ऽअनन्या तत्र देवेशि मूर्तिशक्तिरियम्प्रभो |
सान्निध्यङ्कुरु तस्यान्त्वम्भक्तानुग्रहतत्परेऽ मूलञ्च पठन् ऽइह
सन्निधेहिऽ उच्छिताङ्गुष्ठमुष्टयोस्स/ययोगात्सन्निधापनमुद्रया
सन्निधानङ्कुर्यात् || ऽओं आज्ञया तव देवेशि कृपाम्भोधे गुणाम्बुधे
|| आत्मना चैकदृप्तान्त्वां संरुणद्धि महेश्वरिऽ इतिमूलञ्च पठन्
प्.३७) अन्तः प्रवेशिताङ्गुष्ठमुष्ट्यात्मिकया ऽइह सन्निरुध्यस्वऽ
इतिसन्निरोधनङ्कुर्यात् || ऽअज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधकस्य
च || मम ऊनं भवेत्कृत्यन्तदाप्याभिमुखीभवऽ इति, मूलञ्च पठन्
ऽइहसम्मुखीभवऽ
इतिउत्तानमुष्टियुगलात्मिकयासम्मुखीकरणङ्कुर्यात् || ततो ऽहूमऽ
इत्यनेन
सव्यहस्तमुष्टिदीर्घाधोमुखतर्ज्जन्यात्मिकयाऽभितोभ्रामितयाऽवगु.
न्ठयेत् || ऽओंदशपीयूषवर्षिण्यापूरयेद्यज्ञविष्टरम् || मूर्त्तौ
वायज्ञसम्पूर्त्तौ स्थिराभव महेश्वरि || देवताङ्गे
षडङ्गन्यासात्मकं सकलीकरणङ्कुर्यात् || तद्यथा
ऽक्रांहृदयायनमः, क्रींशिरसेस्वाहा, क्रूंशिखायैवषट्,
क्रैंकवचायहूम्, क्रौंनेत्रत्रयायवौषट्, क्रः अस्त्रायफट् || ततः
ऽस्वभक्तवाङ्मनश्चक्षुःश्रोत्रदूरार्पितस्थिते || स्वतेजः
पञ्जरेणाशु वेष्टिता भव सर्वतः ||ऽ स्वधाबीजेन धेनुमुद्रया
अमृतीकरणम् || ततो महामुद्रया परमीकरणम् || महामुद्रा यथा -
ऽअन्योन्यग्रथिताङ्गुष्ठाप्रसारितपराङ्गुलिः || महामुद्रेयमुदिता
परमीकरणे प्रिये ||ऽ तथा ऽओंयस्यादर्शनमिच्छन्ति
देवास्स्वाभीष्टसिद्धये || तस्यै ते परमैशान्यै आगतं स्वागतञ्च
मेऽ मूलञ्च पठन् ऽसाङ्गे सायुधे सवाहने सावरणे
श्रीमद्दक्षिणकालिके तव स्वागतम्ऽ
इतिप्रसारिताङ्गुल्यधोमुखकरद्वयेन स्वागतङ्कुर्यात् || ऽओं
कृतार्थोनुगृहीतोस्मि सफलज्जीवितञ्च मे | आगता देवदेवेशि
सुस्वागतमिदम्पुनःऽ मूलञ्च पठन्नूर्ध्वमुख्या
पूर्वोक्तमुद्रया सुस्वागतङ्कुर्यात् ||
लेलिहानमुद्रयाप्राणस्थापनम्पूर्वोक्तरीत्या कुर्यात् || लेलिहानमुद्रा
यथा || ऽतर्ज्जनीमध्यमानामां समाङ्कुर्यादधोमुखीम् |
अनामायाङ्क्षिपेद्बद्धामृजुङ्कृत्वा कनिष्ठिकाम् ||
लेलिहानात्ममुद्रेयञ्जीवन्यासे प्रकीर्त्तिता || ऽ
पूर्वोक्तप्राणस्थापनरीतिर्यथा -
आंह्रींक्रोंयंरंलंवंशंषंसंहोंओंक्षंसंहंसः
ह्रींओंहंसः श्रीमद्दक्षिणकालिकायाः प्राणा इह प्राणाः |
आंह्रीक्रोंयंरंलंवंशंहोंओंक्षंसंहंसःह्रींओंसः
श्रीमद्दक्षिणकालिकाया जीव इह स्थितः | आंह्रींक्रों-
प्. ३८) यंरंलंवंशंषंसंहोंओंक्षंसंहंसःह्रीं ओं
हंसः श्रीमद्दक्षिणकालिकायास्सर्वेन्द्रियाणि इह स्थितानि |
आंह्रींक्रोंयंरंलंवंशंषंसंहोंसः
ओंक्षंसंहंसःश्रीमद्दक्षिणकालिकाया
वाङ्मनस्त्वक्चक्षुश्श्रोत्रजिह्वाघ्राणप्राणा इहागत्य
सुखञ्चिरन्तिष्ठन्तु स्वाहा || ततो मूलमन्त्रेणार्ग्घ्योदकेन
त्रिःप्रोक्षणम् | शालग्रामे मणौ यन्त्रे नावाहनविसर्ज्जने ||
प्राणप्रतिष्ठाञ्च न कुर्यात् ||ऽ योनिम्महायोनिञ्च बध्वा
खड्गमुण्डाऽभयवरमुद्रान्दर्शयेत् | महायोनिमुद्रा यथा -
ऽतर्ज्जन्यनामिके मध्ये कनिष्ठे च क्रमादपि | करयोर्योजयेच्चैव
कनिष्ठामूलभेदतः | अङ्गुष्ठाग्रन्तु निःक्षिप्य महायोनिः
प्रकीर्त्तिता || अधोमुखीमिमाङ्कृत्वा दर्शयेद्बीजपूर्विकाम् ||ऽ बीजम्
ऐमिति || योनिमुद्रायान्तु- ऽअङ्गुष्ठाग्रन्तु न निःक्षिपेदिति ||ऽ
खड्गादिमुद्रा तु स्पष्टैव | ततः पुष्पाञ्जलिन्दद्यात् || तत्र एकम्पादे,
द्वितीयञ्जानुनि, तृतीयन्नाभौ, चतुर्थं हृदये, मस्तके पञ्चममिति ||
ततः पाद्यादि दद्यात् || तद्यथा |
ऽयद्भक्तिलेशसम्पर्कात्परमानन्दसम्भवः || तस्मै ते चरणाब्जाय
पाद्यं शुद्धाय कल्पयेऽ इति, मूलञ्च पठन्
ऽइदम्पाद्यन्दक्षिणकालिकायैनिवेदयामि नमःऽ
इतिपूर्वोक्तपुष्पगन्धोशीररोचनश्यामाक
विष्णुक्रान्ताब्जदूर्व्यायुतञ्जलमनामाङ्गुष्ठयोर्योगेन
पादयोर्दद्यात् | ऽओं वेदानामपि वेदाय देवानान्देवतात्मने |
आचमङ्कल्पयामीशि शुद्धानां शुद्धिहेतवेऽ मूलञ्च पठन्
ऽइदमाचमनीयन्दक्षिणकालिकायै निवेदयामिऽ
इत्याचमनीयङ्कनिष्ठाहीनोन्नतस/ययुक्तचतुरङ्गुलीरूपाचमनमुद्र
याचन्दनपुष्पजातीकर्पूरकङ्कोललवङ्गतमालकादिचूर्णस/ययुक्तजल्
अम्मुखे दद्यात् | ऽओं सर्वकालुष्यहीनायै परिपूर्णसुखात्मने |
मधुपर्कमिदन्देवि कल्पयामि प्रसीद मेऽ मूलञ्च पठन्
स/ययुक्ताधोमुख्यनामिकास्पृष्टाङ्गुष्ठात्मिकयामधुघृतशर्कर
अदधिदुग्धसङ्घातात्मकम्मधुपर्कम्मुखे दद्यात् || ऽओं
उच्छिष्टोप्यशुचिर्वापि यस्याः
प्. ३९) स्मरणमात्रतः |
शुद्धिमाप्नोति तस्यै ते पुनराचमनीयकम्ऽ इति मूलञ्च
पठन्पूर्ववदाचमनीयम्मुखे दद्यात् || ऽओं
तापत्रयहरन्दिव्यम्परमानन्दलक्षणम् |
तापत्रयविनिर्मुक्तन्तवार्घ्यङ्कल्पयाम्यहम् ||ऽ इति मूलञ्च पठन्
ऽइदमर्ग्घ्यन्दक्षिणकालिकायै निवेदयामि, एषोर्ग्घः
श्रीमद्दक्षिणकालिकायै स्वाहाऽ इत्यनेन पठितेन
कुशाग्राक्षततिलव्रीहियवाज्यसिद्धार्थपुष्पमिश्रितजलात्मकाद्याञ्छि
रसि सर्वाङ्गुलीस/ययोगेन दद्यात् | ततो हरिद्राद्युद्वर्त्तनद्रव्यन्तैलञ्च
दद्यात् || ऽओं स्नेहं गृहाण स्नेहेन लोकमातर्महाशये | सर्वलोकेषु
शुद्धात्मन्ददामि स्नेहमुत्तमम् |ऽ मूलञ्चपठन्
इदंहरिद्रादिद्रव्यन्तैलञ्चदक्षिणकालिकायै निवेदयामि ऽनमःऽ
इत्युक्त्वा उद्वर्त्तयेत् || ऽओं परमानन्दबोधाब्धिनिमग्ननिजमूर्त्तये |
साङ्गोपाङ्गमिदं स्नानङ्कल्पयाम्यहमीश्वरिऽ मूलञ्चपठन्
ऽइदंस्नानीयन्दक्षिणकालिकायै निवेदयामि, इदं
स्नानीयन्दक्षिणकालिकायैनमःऽ इतिपठित्वा
कनिष्ठाहीनदक्षहस्तमुष्ट्यात्मिकया मुद्रयास्नानीयन्दद्यात् ||
शतकृत्वः सहस्रकृत्वो यथाशक्ति वा मूलम्पठन्स्नपयेत् | ऽओं
मायाचित्रपटच्छन्ननिजगुह्योरुतेजसे || निवारणाय विज्ञानवासस्ते
कल्पयाम्यहम्ऽ मूलञ्च पठन् ऽइद/ व्वासो दक्षिणकालिकायैऽ
इत्याद्युक्तवाक्येन
उत्तानदक्षिणहस्ताङ्गुष्ठस्पृष्टतन्मध्यमात्मिकया रक्त/ व्वासो
दद्यात् || ऽओं यामाश्रित्य महादेवो जगत्संहारकस्सदा | तस्यै ते
परमेशान्यै कल्पयाम्युत्तरीयकम् इदमुत्तरीयन्दक्षिणकालिकायै
इत्यादिवाक्येन पूर्वोक्तमुद्रयोत्तरीयन्दद्यात् || ततो
मूलेनाष्टोत्तरसहस्रशतदशान्यतमवारङ्गन्धोदकैर्देवीमभिषि~
न्चेत् || ऽ ओं स्वभावसुन्दराङ्गायै नानाशक्त्याश्रिते शिवे || भूषणानि
विचित्राणि कल्पयाम्यमरार्चितेऽ ऽएतानि भूषणानि दक्षिणकालिकायै
निवेदयामिनमःऽ इति
वाक्येनदक्षहस्ताङ्गुष्ठस्पृष्टानामिकात्मिकयामुद्रयाभूषणान्
इदद्यात् ||
मूलमन्त्रेणसम्पुटितम्प्रत्येकमातृकाक्षरम्पठन्देवताङ्गेषु
प्. ४०) विन्यसेत् || ऽओं परमानन्दसौभाग्यपरिपूर्णदिगन्तरे |
गृहाणपरमङ्गन्धङ्कृपया परमेश्वरि ||ऽ मूलञ्च पठन्
ऽइदञ्चन्दनं श्रीदक्षिणकालिकायै नमःऽ इतिवाक्येन
कर्पूरमिश्रितश्रीखण्डचन्दनम्बहुचंदनञ्च
कनिष्ठाङ्गुष्ठस/ययोगेनदेव्यङ्गे निवेदयेत् || ऽओं अक्षतान्धवलान् देवि
स्वर्णरौप्यमयीकृतान् | गृहाणजगदीशाने प्रसीद परमेश्वरिऽ ||
मूलञ्च पठन् ऽसाङ्गायैसायुधायैसबलवाहनायै सपरिवारायै
श्रीदक्षिणकालिकायैनिवेदयामिनमःऽ इतिवाक्येनसर्वाङ्गुलीभिर्दद्यात्
|| ततः ऽओंतुरीयवनसम्भूतन्नानागुणमनोहरम् ||
अमन्दसौरभम्पुष्पङ्गृह्यतामिदमुत्तमम्ऽ ऽएतानि पुष्पाणि
दक्षिणकालिकायै वौषट्ऽ इति, मूलञ्च पठंस्तर्ज्जन्यङ्गुष्ठयोगेन
दद्यात् || यथोत्पन्नमपर्युषितमच्छिद्रन्नवं शुभम्पुप्पन्दद्यात् ||
अञ्जलिदाने त्वधोमुखता न दोषाय
ऽश्वेतरक्तजपापुष्पकरवीरतगरजातीसेवन्तीयूयिकाधत्तूराशोकबकुल्
अश्वेतकृष्णापराजिताबकपुष्पबिल्वपत्त्रचम्पकनागकेशरमल्लिकाझिण्
इकाकाञ्चीबर्बराकरक्तपद्मपुष्पामलककोकनदबन्धूककेतक्याद्य
अन्यतमपुष्पन्निवेदयेत् || अर्कमन्दारौ अतिप्रशस्तौ तुलसीम्मालती/
व्वर्ज्जयेत् || दूर्वया नार्च्चयेत् || धूपभाजनं ऽफट्ऽ इति सम्प्रोक्ष्य
ऽनमःऽ इत्यभ्यर्च्य वायुबीजेन द्वादशवारजप्तेन संशोष्य
वामहस्ततले दक्षहस्तपृष्ठन्निवेश्य ऽरम्ऽ इतिबीजेन
षोडशवारजप्तेन सन्दह्य वामहस्तपृष्ठे दक्षहस्ततलन्निवेश्य,
ऽवम्ऽ इति षोडशवारजप्तेन धेनुमुद्रयाऽमृतीकृत्य,
मूलेनाष्टशोऽभिमन्त्र्य ऽजयध्वनिमन्त्रमातःस्वाहाऽ इतिघण्टां
सम्पूज्य वामतर्ज्जन्या संस्पृश्य मूलम्पठन् ऽओंवनस्पतिरसोपेतो
गन्धाढ्यः सुमनोहरः || आघ्रेयः
सर्वदेवानान्धूपोऽयम्प्रतिगृह्यताम्ऽ ऽएष धूपः
श्रीदक्षिणकालिकायै नमःऽ इतिशङ्खाम्बु प्रक्षिपेद्भूमौ ततो
वामहस्तेन घण्टा/व्वादयन् दक्षतर्ज्जन्यङ्गुष्ठयोगेन
धूपमुद्रान्दर्शयन् देवतागुणान्कीर्त्तयन्नाभिदेशतो
प्. ४१) धूपयेत् || पुष्पाञ्जलित्रयन्दद्यात् || एवन्दीपदानप्रकारः ऽओं
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ||
सबाह्याभ्यन्तरज्योतिर्द्दिपोयम्प्रतिगृह्यताम्ऽ इति, मूलञ्चपठन्
मध्यमाङ्गुष्ठयोगेन दीपमुद्राम्प्रदर्श्श्य नेत्रप्रदेशे
दीपन्दर्श्शयेत् || घृतदीपो दक्षिणे देयस्तैलदीपो वामतः ||
स्वर्णादिभाजने साज्यशर्करपायसादिकम्परिविष्य चतुरस्रे निधाय
ऽफट्ऽ इति मन्त्रेण चक्रमुद्रयाऽभिरक्ष्य द्वादशवारजप्तेन ऽयम्ऽ
इतिवायुबीजेन संशोष्य वामहस्ततलेदक्षहस्तपृष्ठे निवेश्य ऽरम्ऽ
इतिवह्निबीजेन द्वादशवारजप्तेन सन्दह्य, दक्षकराग्रेण संस्पृश्य
ऽवम्ऽ इतिसुधाबीजेन धेनुमुद्रयाऽमृतीकृत्य मूलमन्त्रेण
कराभ्यां संस्पृश्य अष्टधाचाभिमन्त्र्य
धेनुमुद्राम्प्रदर्श्श्यगन्धपुष्पैः समभ्यर्च्य ऽतत्त्वाख्यमुद्रया
देव्यै नैवेद्यं हि निवेदयेत् ||ऽ ऽओं सत्पात्रसिद्धं
सहविर्विविधानेकभक्षणम् || निवेदयामि देवेशि कृपया त्वङ्गृहाण
तत्ऽ || इतिपठन् ग्रासमुद्राम्प्रदर्श्श्यशङ्खोदकेननिवेदयेत् || ततः ऽओं
समस्तदेवदेवेशि सर्वावाप्तिकरम्परम् || अखण्डानन्दसम्पूर्णे
गृहाणजलमुत्तमम् ||ऽ इतिपानीयमाचमनीयञ्च दत्त्वा
चुलुक/व्विधिवद्दद्यात् | पञ्चमुद्राः
प्राणापानसमानोदानव्यानाख्याः प्रदर्शयेत् || तद्यथा
कनिष्ठानामिकाभ्याम्प्राणमुद्रा |
मध्यमातर्ज्जनीभ्यामपानाख्या | अनामामध्यमाभ्यां
समानाख्या | अनामातर्ज्जनीभ्यामुदानाख्या |
सर्वाङ्गुलीभिर्व्व्यानाख्या | ततो मूलेन ताम्बूलं
साधकस्तत्त्वमुद्रया
एलालवङ्गकर्प्पूरजातीफलादिस/ययुतन्तमालदलकर्पूरपूगेरितम्मुद्
आन्वितान्ध्यायन् ऽफट्ऽ इतिसम्प्रोक्ष्य ऽनमःऽ इत्यभ्यर्च्य वायुबीजेन
द्वादशवारजप्तेन संशोष्य || वामहस्ततलं दक्षहस्तपृष्ठे
निवेश्य ऽरम्ऽ
इतिबीजेनद्वादशवारजप्तेनसन्दह्यवामहस्तपृष्ठेदक्षहस्ततलन्निवेऽऽ
स्य ऽवम्ऽ इतिसुधाबीजेनधेनुमुद्रया अमृतीकृत्य
मूलेनाष्टवारमभिमन्त्र्य ऽओंएलालवङ्गकर्पूरनागवल्लीदलैर्युतम्
|| पूगभागेरितन्देवि ताम्बूलङ्गृह्यतान्नमः
प्.४२) ऽमूलम्पठन् ऽइदन्ताम्बूलं श्रीदक्षिणकालिकायै
निवेदयामिनमःऽ इतिमुखप्रदेशे तत्त्वमुद्रया दद्यात् || ततः
पुष्पाञ्जलिङ्गृहीत्वा ऽओं स/व्विन्मये परेशानि परामृते चरुप्रिये ||
अनुज्ञान्दक्षिणे देहि परिवारार्च्चनाय मेऽ || तत्र प्रथमं
षडङ्गपूजा | अग्नीशासुरवायव्येषु मध्ये दिक्षु च षडङ्गशक्तीः
पूजयेत् || तासान्ध्यानन्तु- ऽतुषारस्फटिक
श्यामनीलकृष्णारुणास्तथा || वरदाभयधारिण्यः प्रधानतनवः
स्त्रियःऽ इतिध्यात्वा ऽहृदयदेवते-इहागच्छ-
इहतिष्ठक्रांहृदयायनमः श्रीपादुकाम्पूजयामिऽ इतिसम्पूज्य
ततः ऽशिरोदेवते-इहागच्छ-
इहतिष्ठक्रींशिरसेस्वाहाश्रीपादुकाम्पूजयामिऽ ऽशिखादेवते-
इहागच्छ-इहतिष्ठक्रूंशिखायै वषट्श्रीपादुकाम्पूजयामिऽ
ऽकवचदेवते-इहागच्छ-इहतिष्ठक्रैंकवचायहुम् ||
श्रीपादुकाम्पूजयामिऽ ऽनेत्रत्रयदेवते इहागच्छ इह
तिष्ठक्रौंनेत्रत्रयायवौषट्श्रीपादुकाम्पूजयामिऽ ऽअस्त्रदेवते-
इहागच्छ-इहतिष्ठ क्रः अस्त्रायफट्श्रीपादुकाम्पूजयामिऽ ततो
वायव्यादीशानपर्यन्तङ्गुरुपङ्क्तिम्पूजयेत् || तत्र गुरुक्रमोयथा
ऽमहादेवी महादेवस्त्रिपुरश्चैव भैरवः || दिव्यौघा
गुरवःप्रोक्तास्सिद्धौघान्कथयामि ते || ब्रह्मानन्दः
पूर्णदेवश्चलच्चित्तश्चलाचलः | कुमारःक्रोधनश्चैव
वरदस्स्मरदीपनः || मायामायावती चैव मानवौघाञ्छृणुप्रिये ||
विमलः कुशलश्चैव श्रीमत्सेनस्सुधाकरः || प्रह्लादस्सनकश्चैव
वसिष्ठो बोध एवच || मीनो गोरक्षकश्चैव भोजदेवःप्रजापतिः ||
मूलदेवो रन्तिदेवो विघ्नेश्वरहुताशनौ ||
समयानन्दसन्तोषौकालिकागुरवस्तथा || आनन्दनाथशब्दान्ते
गुरवस्सर्वसिद्धिदाः || स्त्रियोपि गुरुरूपाश्चेदम्बान्ताः परिकीर्तिताःऽ ||
ततः पूजा ऽमहादेव्यम्ब इहागच्छ
इहतिष्ठमहादेव्यम्बाश्रीपादुकाम्पूजयामि || महादेवानन्दनाथ
इहागच्छ इह तिष्ठ महादेवानन्दनाथ श्रीपादुकाम्पूजयामि ||
त्रिपुरानन्दनाथ इहागच्छ इहतिष्ठ
त्रिपुरानन्दनाथश्रीपादुकाम्पूजयामि || भैरवानन्दनाथ
प्.४३) इहागच्छ इहतिष्ठ भैरवानन्दनाथश्रीपादुकाम्पूजयामि |
अथसिद्धौघा-इहागच्छत-इहतिष्ठत
ब्रह्मानन्दानन्दनाथश्रीपादुकाम्पूजयामि |
पूर्णदेवानन्दनाथश्रीपादुकाम्पूजयामि | चलच्चित्तानन्दनाथ
श्रीपादुकाम्पूजयामि | चलाचलानन्दनाथश्रीपादुकाम्पूजयामि ||
कुमारानन्दनाथश्रीपादुकाम्पूजयामि |
क्रोधानन्दनाथश्रीपादुकाम्पूजयामि |
वरदानन्दनाथश्रीपादुकाम्पूजयामि |
स्मरदीपनानन्दनाथश्रीपादुकाम्पूजयामि |
मायाम्बाश्रीपादुकाम्पूजयामि |
मायावत्यम्बाश्रीपादुकाम्पूजयामिऽ || इति || अथ मानवौघा
इहागच्छत इहतिष्ठत || ऽविमलानन्दनाथश्रीपादुकाम्पूजयामि |
कुशलानन्दनाथश्रीपादुकाम्पूअजयामि ||
श्रीमत्सेनानन्दनाथश्रीपादुकाम्पूजयामि ||
सुधाकरानन्दनाथश्रीपादुकाम्पूजयामि |
प्रह्लादानन्दनाथश्रीपादुकाम्पूजयामि |
सनकानन्दनाथश्रीपादुकाम्पूजयामि |
वसिष्ठानन्दनाथश्रीपादुकाम्पूजयामि |
बोधानन्दनाथश्रीपादुकाम्पूजयामि |
मीनानन्दनाथश्रीपादुकाम्पूजयामि |
गोरक्षकानन्दनाथश्रीपादुकाम्पूजयामि |
भोजदेवानन्दनाथश्रीपादुकाम्पूजयामि |
प्रजापत्यानन्दनाथश्रीपादुकाम्पूजयामि |
मूलदेवानन्दनाथश्रीपादुकाम्पूजयामि |
रन्तिदेवानन्दनाथश्रीपादुकाम्पूजयामि |
विघ्नेश्वरानन्दनाथश्रीपादुकाम्पूजयामि |
हुताशनानन्दनाथश्रीपादुकाम्पूजयामि |
समयानन्दनाथश्रीपादुकाम्पूजयामि |
सन्तोषानन्दनाथश्रीपादुकाम्पूजयामि |ऽ ततो निजगुरुंपुरोध्यात्वा
पञ्चोपचारैस्सम्पूज्य, ततः ऽओं अभीष्टसिद्धिम्मेदेहि
शरणागतपालिके | भक्त्या समर्पये तुभ्यमिदमावरणार्च्चनम्ऽ
इतिमूलञ्च पठन् पुष्पचन्दनयुतशङ्खोदकेन देव्या वामहस्ते
आवरणपूजां समर्प्पयेत् ततोरश्मिवृन्ददेवताः पूजयेत् |
तासान्ध्यान/ ययथा ऽसर्वाः श्यामा असिकरा
मुण्डमालाविभूषिताः | तर्ज्जनी/
व्वामहस्तेनधारयन्त्यश्चसस्मिताःऽ ||
प्. ४४) बाह्यत्रिकोणस्य सम्मुखकोणे
ऽओंकालीश्रीपादुकाम्पूजयामिनमःऽ इतिपाद्यादिभिस्त्रिः कालीं
सम्पूजयेत् || एवन्देव्या वामे ऽओं
कपालिनीश्रीपादुकाम्पूजयामिनमःऽ इति || दक्षे ऽओं
कुल्लाश्रीपादुकाम्पूजयामिऽ इत्यादि तदन्तस्त्रिकोणेसम्मुखे ऽओं
कुरुकुल्लाश्रीपादुकाम्पूजयामिऽ इत्यादि || वामे ऽओं
विरोधिनीश्रीपादुकाम्पूजयामिऽ इत्यादि || दक्षे ऽओं
विप्रचित्ताश्रीपादुकाम्पूजयामिऽ इत्यादि || तदन्तस्त्रिकोणेसम्मुखे
ऽओंउग्राश्रीपादुकाम्पूजयामिऽ इत्यादि || ततो वामे ऽओं
उग्रप्रभाश्रीपादुकाम्पूजयामिऽ इत्यादि || दक्षे ऽओं
दीप्ताश्रीपादुकाम्पूजयामिऽ इत्यादि || तदन्तस्त्रिकोणे सम्मुखे ऽओं
नीलाश्रीपादुकाम्पूजयामिऽ इत्यादि || वामे
ऽघनाश्रीपादुकाम्पूजयामिऽ इत्यादि || दक्षे
ऽओंबलाकाश्रीपादुकाम्पूजयामिऽ इत्यादि | तदन्तस्त्रिकोणे सम्मुखे
ऽओंमात्राश्रीपादुकाम्पूजयामिऽ इत्यादि || वामे
ऽओंमुद्राश्रीपादुकाम्पूजयामिऽ इत्यादि || दक्षे
ओंमित्राश्रीपादुकाम्पूजयामि इत्यादि | पूर्वोक्तवाक्यैः पाद्यादिभिः
पूजयेत् || ततो देव्या दक्षे ऽह्सौंमहाकालायहूंफट्ऽ
इतिमन्त्रेणमहाकालम्पूजयेत् || कुलार्णवेतु ओं
ह्रींक्ष्मींहूंमहाकालायहौंमहादेवायक्रींकालिकायै हौ
इतिमहाकालमन्त्रः || तद्ध्यानन्तु
ऽअञ्जनाद्रिनिभन्देवम्पिङ्गकेशन्द्विबाहुकम् ||
आशाम्बरंसर्पभूषाभूषितम्प्रणमामि तम्ऽ
इतिध्यात्वापूर्वोक्तमन्त्रद्वयान्यतरेण महाकालम्पूजयेत् || ततः ऽओं
अभीष्टिसिद्धिम्मे देहि शरणागतपालिके |
भक्त्यासमर्प्पयेतुभ्यमिदमावरणार्च्चनम्ऽ इतिमन्त्रेण
शङ्खोदकादिना देव्या वामहस्ते आवरणार्च्चनं समर्पयेत् ||
ततोष्टदले पूर्वादिक्रमेणाष्टशक्तीः पूजयेत् || तद्यथा पूर्वे ऽओं
आंब्रह्माणीश्रीपादुकाम्पूजयामिनमःऽ
इत्यादिवाक्येनपाद्यादिभिस्त्रिस्सम्पूजयेत् | अग्निकोणे ऽओं ईं
श्रीनारायणीश्रीपादुकाम्पूजयामिऽ इत्यादि || दक्षिणे ऽओं ऊं
माहेश्वरीश्रीपादुकाम्पूजयामिऽ
प्. ४५) इत्यादि || नैरृते ऽओं ऋं श्रीचामुण्डाश्रीपादुकाम्पूजयामिऽ
इत्यादि पश्चिमे ऽओंॡंकौमारीश्रीपादुकाम्पूजयामिऽ इत्यादि || वायव्ये
ऽओं ऐं अपराजिताश्रीपादुकाम्पूजयामिऽ इत्यादि || उत्तरे ऽओं-
औंवाराहीश्रीपादुकाम्पूजयामिऽ इत्यादि || ईशाने
ओंअःनारसिंहीश्रीपादुकाम्पूजयामि इत्यादि || आसान्ध्यानन्तु
पूजनतः पूर्वमेवकर्त्तव्यम् || तद्यथा
ऽदण्डङ्कमण्डलुम्पश्चादक्षसूत्रम्महाभयम् ||
बिभ्रतीकनकच्छायाम्ब्राह्मी कृष्णाजिनोज्ज्वला || १ ||
शूलम्परश्वधङ्क्षुद्रदुन्दुभीनृकरोटिकाम् |
वहन्ती हिमसङ्काशा ध्येया माहेश्वरी शुभा || २ ||
अङ्कुशन्दण्डखट्वाङ्गौ पाशञ्च दधती करैः |
बन्धूकपुष्पसङ्काशा कुमारी कामदायिनी || ३ ||
चक्रङ्घण्टाङ्कपालञ्च शङ्खञ्चदधती करैः |
तमालश्यामलाध्येयावैष्णवीविभ्रमोज्ज्वला || ४ ||
मुशलङ्करवालञ्च खेटकन्दधतीहलम् |
करैश्चतुर्भिर्वाराहीध्येयाकालघनच्छविः || ५ ||
अङ्कुशन्तोमर/ व्विद्युत्कुलिशम्बिभ्रती करैः |
इन्द्रनीलनिमेन्द्राणी ध्येया सर्वसमृद्धिदा || ६ ||
शूलङ्कृपाणं नृशिरः कपालन्दधतीकरैः |
मुण्डस्रङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा || ७ ||
अक्षस्रजम्बीजपूरङ्कपालन्दधती करैः |
वहन्ती हेमसङ्काशा मोहलक्ष्मीस्समीरिता || ८ ||ऽ
इति || ततः ऽअभीष्टसिद्धिम्मे देहि शरणागतपालिके | भक्त्या समर्पये
तुभ्यमिदमावरणार्च्चनम्ऽ इतिमूलञ्च
पठन्पुष्पचन्दनयुतशङ्खोदकेन देव्या वामहस्ते समर्पयेत् ||
ततः यन्त्राग्रे भैरवान्पूजयेत् || तत्र प्रथमन्ध्यानङ्कुर्यात् ||
तद्यथा ऽभीषणास्यन्त्रिनयनमर्द्धचन्द्रविभूषितम् ||
स्फटिकाभङ्कङ्कणादिभूषाशतसमायुतम् ||
अष्टवर्षवयस्कञ्च कुन्तलोल्लसितम्भजे ||
धारयन्तन्दण्डशूलेभैरव्यादिसमायुतम् ||ऽ इति ध्यात्वा पूजयेत् ||
पूजाक्रमस्तु ऽऐं ह्रीं अं
असिताङ्गभैरवश्रीपादुकाम्पूजयामिनमः || ऐंह्रीम्-इं
रुरुभैरवश्रीपादुकाम्पूजयामिनमः || ऐंह्रीं-
उंचण्डभैरवश्रीपादुकाम्पूजयामिनमः ||
ऐंह्रींऋंक्रोधभैरवश्रीपादुकाम्पूजयामिनमः ||
प्. ४६) ऐं ह्रीं ऌं उन्मत्तभैरवश्रीपादुकान्पूजयामिनमः ||
ऐंह्रींएंकपालिभैरवश्रीपादुकाम्पूजयामिनमः || ऐं ह्रीं ओं
भीषणभैरवश्रीपादुकाम्पूजयामिनमः || ऐंह्रीं-
अंसंहारभैरवश्रीपादुकाम्पूजयामिनमः ||ऽ इतिवामावर्तेन
पूजयेत् || तत्रैव पूर्वादितो वामावर्त्तेनाष्टभैरवीः
प्रत्येकन्तत्तन्नामाक्षरस्तास्ताः पूजयेत् || तत्रासान्ध्यानन्तु ऽभावये
च महादेवीञ्चन्द्रकोटियुतप्रभाम् ||
हिमकुन्देन्दुधवलाम्पञ्चवक्त्रान्त्रिलोचनाम् ||
अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् || प्रहसन्ती/
व्विशालाक्षीन्देवदेवस्य सम्मुखीम्ऽ इति ध्यात्वा पूजयेत् | यथा
ऽश्रीभैरवीश्रीपादुकाम्पूजयामिनमः |
महाभैरवीश्रीपादुकाम्पूजयामिनमः |
सिंहभैरवीश्रीपादुकाम्पूजयामिनमः |
धूम्रभैरवीश्रीपादुकाम्पूजयामिनमः |
भीमभैरवीश्रीपादुकाम्पूजयामिनमः |
उन्मत्तभैरवीश्रीपादुकांपूजयामिनमः |
वशीकरणभैरवीश्रीपादुकांपूजयामिनमः |
मोहनभैरवीश्रीपादुकाम्पूजयामिनमः |ऽ ततः ऽओं अमीष्टसिद्धिम्मे
देहि शरणागतपालिके | भक्त्या समर्पये तुभ्यमिदमावरणार्च्चनम्ऽ
इतिमन्त्रेण देव्या वामहस्ते आवरणार्चनं समर्प्पयेत् | ततो
यन्त्रबाह्ये इन्द्रादीन्पूजयेत् || तेषान्ध्यान/ ययथा ऽइन्द्रं
नीलवर्णमैरावतवाहन/ व्वज्रहस्तम्मुकुटधारिणम्
सहस्राक्षन्ध्यायेत् || वह्निं रक्तवर्णं
शक्तिहस्तन्त्रिनेत्रम्मेषवाहनन्ध्यायेत् ||
यमम्महिषवाहनन्दण्डपाशधरं श्यामन्ध्यायेत् || निरृतिं
श्यामवर्णङ्खड्गहस्तम्मृतपुरुषवाहनन्ध्यायेत् ||
वरुणम्पाशहस्तम्मकरवाहनं शुद्धवर्णन्ध्यायेत् ||
वायुमङ्कुशहस्तम्मृगवाहनन्नीलवर्णन्ध्यायेत् ||
कुबेरङ्गदाहस्तम्मर्त्त्यवाहनं श्यामवर्णन्ध्यायेत् || ईशानं
शूलहस्त/ व्वृषभवाहनन्त्रिनेत्रङ्गौरवर्णन्ध्यायेत् ||
हंसमारूढं स्वर्णञ्च
चतुर्वक्त्रन्दण्डत्रयाक्षसूत्रङ्कमण्डलुन्दधतञ्जटाजूटधरम्ब्र्
अह्माणन्ध्यायेत् ||
श्यामङ्गरुडवाहनंशङ्खचक्रगदापद्मधारिणञ्चतुर्हस्तन्ना
नालङ्कारसंयुक्तंव्विष्णुन्ध्यायेत् ||ऽ
प्. ४७) इतिध्यात्वा ऽइन्द्रादय इहागच्छत इह तिष्ठतऽ इत्यावाह्य ||
पूर्वादितो वामावर्त्तेन पूजयेद्यथा
ऽलंइन्द्रश्रीपादुकाम्पूजयामिनमः |
रंवह्निश्रीपादुकाम्पूजयामिनमः |
यंयमश्रीपादुकाम्पूजयामिनमः |
क्षंनिरृतिश्रीपादुकाम्पूजयामिनमः |
वंवरुणश्रीपादुकाम्पूजयामिनमः |
यंवायुश्रीपादुकाम्पूजयामिनमः |
इंकुबेरश्रीपादुकाम्पूजयामिनमः |
होंईशानश्रीपादुकाम्पूजयामिनमः |
ह्रींब्रह्मश्रीपादुकाम्पूजयामिनमः | ततः
ओंविष्णुश्रीपादुकाम्पूजयामिनमःऽ |
ऽअभीष्टसिद्धिम्मे देहि शरणागतपालिके || भक्त्या समर्पये
तुभ्यमिदमावरणार्च्चनम् |ऽ इतिमन्त्रेण देव्याः वामहस्ते
आवरणार्च्चनं समर्पयेत् | ततो वामावर्त्तेन तत्तत्स्थले अस्त्राणि
पूजयेद्यथा |
वंवज्रश्रीपादुकाम्पूजयामिनमः ||
शंशक्तिश्रीपादुकाम्पूजयामिनमः |
दंदण्डश्रीपादुकाम्पूजयामिनमः ||
खंखड्गश्रीपादुकाम्पूजयामिनमः ||
पंपाशश्रीपादुकाम्पूजयामिनमः ||
अंअङ्कुशश्रीपादुकाम्पूजयामिनमः ||
गगदाश्रीपादुकाम्पूजयामिनमः ||
शंशूलश्रीपादुकाम्पूजयामिनमः ||
पंपद्मश्रीपादुकाम्पूजयामिनमः ||
चंचक्रश्रीपादुकाम्पूजयामिनमः ||
ततः ऽअभीष्टसिद्धिम्मे देहि शरणागतपालिके || भक्त्या समर्प्पये
तुभ्यमिदमावरणार्च्चनम् ||ऽ इतिमन्त्रेणदेव्यावामकरे
आवरणार्च्चनंसमर्प्पयेत् | ततः देव्या वामोर्ध्वहस्ते
खंखड्गश्रीपादुकाम्पूजयामिनमः |
तदधः मुंमुण्डश्रीपादुकाम्पूजयामिनमः |
दक्षोर्द्ध्वे अं अभयश्रीपादुकाम्पूजयामिनमः |
तदधःवंवरश्रीपादुकाम्पूजयामिनमः |
ओं अभीष्टसिद्धिम्मेदेहिशरणागतपालिके ||
भक्त्यासमर्प्पये तुभ्यमिदमावरणार्च्चनम् |ऽ इतिमन्त्रेण
आवरणार्च्चनं देव्यावामकरेसमर्प्पयेत् || पुष्पाञ्जलि त्रयन्देव्याः
पादयोर्द्दद्यात् || ततष्षडङ्गन्यासम्पूर्वोक्तङ्कुर्यात् || तद्यथा
क्रांहृदयायनमः | क्रींशिरसेस्वाहा | क्रूंशिखायै वषट् |
प्. ४८) क्रैंकवचायहुम् | क्रौंनेत्रत्रयायवौषट् | क्रःअस्त्रायफट् |
एवन्न्यास/व्विधाय, गन्धपुष्पाक्षतैर्देवींसम्पूज्य, मूलम्पठन्
ऽश्रीमद्दक्षिणकालीन्देवीन्तर्पयामिनमःऽ इति मन्त्रेण
मधुकर्पूरमिश्रितैर्जलैर्द्वादशधा तर्पयेत् | ततो
घण्टा/व्वादयंस्ततोजपङ्कुर्यात् | तत्र पूर्वोक्तक्रमेण
प्राणायामं षडङ्गन्यासञ्च विदध्यात् || तद्यथा क्रींबीजेन १६
षोडशधापूरक ६४ चतुष्षष्टिकुम्भक ३२
द्वाशिंद्रेचकैस्त्रिवारम्प्राणानायम्य, ततोन्यासः
ऽक्रांहृदयायनमः क्रीशिरसेस्वाहा क्रू/शिखायै वषट्
क्रैंकवचायहुम् क्रौंनेत्रत्रयायवौषट् क्रःअस्त्रायफट्ऽ ततः ओं
माले मालेमहामालेसर्वतत्त्वस्वरूपिणी ||
चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मे सिद्धिदाभव || ऽओं ह्रींमालायैनमःऽ
इत्यनेनमालान्दक्षिणकरेनिधाय हृत्प्रदेशेसमानीय, मध्यभागेन
गुटिकां प्रत्येकं संस्पृशन्मेरुमलङ्घयन्
स्वशरीरेकामकाला/व्विभाव्य, शिरसिगुरुन्ध्यात्वा,
हृदिदेवीम्भावयञ्जिह्वायांमंत्रन्दीपरूपिण/व्विभाव्यतत्प्रभाप्
अटलेजिह्वामपिदीपरूपा/व्विभाव्य, मनसा, उपांशुना वा
करमालया वर्णमालया, वा
संस्कृतमहाशङ्खरुद्राक्षस्फटिकाद्यन्यतममालया, वा
अष्टोत्तरसहस्रमष्टोत्तरशत/व्वाद्रुतमविलम्बितम्प्रजप्य, मालां
शिरसि ऽओं त्वम्माले सर्वभूतानां सर्वलोकप्रियामता ||
शिवङ्कुरुष्वमेभद्रेयशोवीर्यञ्चसर्वदा ||ऽ इतिपठन्निधाय
ऽह्रींसिद्ध्यैनमःऽ इतिसम्पूज्य पुनःप्राणायामन्न्यासादिकञ्च
विधाय, यथा क्रींबीजेन १६ पूरक ६४ कुम्भक ३२
रेचकैस्त्रिवारम्प्राणानायम्य || ततो न्यासः || क्रांहृदयाय नमः,
क्रींशिरसेस्वाहा | क्रू/शिखायैवषट् | क्रैंकवचायहूं |
क्रौंनेत्रत्रयायवौषट्, क्रः अस्त्रायफट्, इति न्यासादिकृत्वा,
ततोदेवताम्पुष्पाक्षतादिभिः सम्पूज्य,
पुष्पचन्दनाक्षतयुतशङ्खोदकेन
ऽओंगुह्यातिगुह्यगोप्त्रीत्वङ्गृहाणास्मत्कृतञ्जपम् | सिद्धिर्भवतु मे देवि
त्वत्प्रसादान्महेश्वरि ||ऽ इतिमन्त्रेण देव्या वामकरे
तेजोमयञ्जलन्ध्यात्वा जपं समर्पयेत् ||
प्. ४९) ततो मालां शिरस उत्तार्य ऽओं त्वम्माले सर्वदेवानां
सर्वसिद्धिप्रदा मता || तेन सत्येन मे सिद्धिन्देहि मातर्न्नमोस्तु ते ||ऽ
इत्यमुम्मन्त्रम्पठन्सम्पूज्य, यत्नतो गोपयेत् || ततो देव्यै
पुष्पाञ्जल्यष्टकन्दत्त्वा स्तोत्रकवचादिकम्पठेत् ||
कराद्भ्रंशेत्तच्छान्त्यर्थमष्टोत्तरशतम्मूलञ्जपेत् || ततो वामे
चतुरस्रम्मण्डल/ व्विधाय, किञ्चित्पात्रे संस्थाप्य,
तस्मिन्मांसमाषान्नशाकाज्यपायसापूपकाद्यन्यतमबलि/व्विधाय
अ ऽफट्ऽ इतिसम्प्रोक्ष्य ऽनमःऽ इत्यभ्यर्च्य ऽयम्ऽ इतिवायुबीजेन
द्वादशवारजप्तेन संशोध्य, वामहस्ततले दक्षहस्तपृष्ठन्निवेश्य
ऽरम्ऽ इतिवह्निबीजेन षोडशवारजप्तेन संदीप्य ऽवम्ऽ इत्यमृतबीजेन
विंशतिवारजप्तेन धेनुमुद्रयाऽमृतीकृत्य ऽहूम्ऽ इत्यवगुण्ठ्य
योनिधेनुमुद्रेदर्शयित्वा, तत्त्वमुद्राञ्च प्रदर्श्य ऽओं क्रीं श्रीं
दक्षिणकालिकायै स्वाहा एष बलिन्नमःऽ इत्युत्सृज्य नैरृत्यान्दिशि
धारयेत् | एष नित्यबलिदानमन्त्रः || रात्रौ काम्यबलिर्द्देयः || तत्र
मन्त्रस्तु ऽओं पद्मेपद्मे महापद्मे पद्मावति महायक्षाधिपतये
मयोपनीतमिमं बलिं गृह्णगृह्णगृह्णापयगृह्णापय मम
सर्वशान्तिङ्कुरुकुरु परविद्याञ्चाकृष्याकृष्य छिन्धि ह्रीं हूं
स्वाहाऽ इतिमन्त्रेण चतुप्पथादिस्थाने पूर्वोक्तशोधन/ व्विधाय
तत्त्वमुद्राम्प्रदर्श्य मांसाद्यन्यतमबलिन्दद्यात् ||
अधिकभक्त्युत्तरशक्तिकालादिलाभे चतुर्थ्यन्तैः
प्रत्येकैस्सहस्रनामस्तोत्रान्तर्गतनामभिः पुष्पादिना कालीम्पूजयेत् ||
तद्यथा ||
ओं क्रीं काल्यै नमः १ क्रूं कराल्यै नमः २ कल्याण्यै नमः ३
कमलायै नमः ४ कलायै नमः ५ कलावत्यै नमः ६ कलाढ्यायै
नमः ७ कलापूज्यायै नमः ८ कलात्मिकायै नमः ९ कलाहृष्टायै
नमः १० कलापुष्टायै नमः ११ कलामस्तायै नमः १२ कलाकरायै
नमः १३ कलाकोटिसमाभासायै नमः १४ कलाकोटिप्रपूजितायै नमः
१५ कलाकर्म्मकलाधरायै नमः १६ कलापरायै नमः १७
प्. ५०) कलागमायै नमः १८ कलधारायै नमः १९ कमलिन्यै नमः २०
ककारायै नमः २१ करुणायै नमः २२ कव्यै नमः २३
ककारवर्णसर्वाङ्ग्यै नमः २४ कलाकोटिप्रभूषितायै नमः २५
ककारकोटिगुणितायै नमः २६ ककारकोटिभूषणायै नमः २७
ककारवर्णहृदयायै नमः २८ ककारमनुमण्डितायै नमः २९
ककारवर्णनिलयायै नमः ३० काकशब्दपरायणायै नमः ३१
ककारवर्णमुकुटायै नमः ३२ ककारवर्णभूषणायै नमः ३३
ककारवर्णरूपायै नमः ३४ काकशब्दपरायणायै नमः ३५
ककवीरास्फालरतायै नमः ३६ कमलाकरपूजितायै नमः ३७
कमलाकरनाथायै नमः ३८ कमलाकररूपधृषे नमः ३९
कमलाकरसिद्धिस्थायै नमः ४० कमलाकरपारदायै नमः ४१
कमलाकरमध्यस्थायै नमः ४२ कमलाकरतोषितायै नमः ४३
कथङ्कारपरालापायै नमः ४४ कथङ्कारपरायणायै नमः ४५
कथङ्कारपदान्तस्थायै नमः ४६ कथङ्कारपदार्थभुवे नमः ४७
कमलाक्ष्यै नमः ४८ कमलजायै नमः ४९ कमलाक्षप्रपूजितायै
नमः ५० कमलाक्षवरोद्युक्तायै नमः ५१ ककरायै नमः ५२
कर्बूराक्षरायै नमः ५३ करतारायै नमः ५४ करच्छिन्नायै नमः
५५ करश्यामायै नमः ५६ करार्णवायै नमः ५७ करपूज्यायै नमः
५८ कररतायै नमः ५९ करदायै नमः ६० करजितायै नमः ६१
करतोयायै नमः ६२ करामर्षायै नमः ६३ कर्मनाशायै नमः ६४
करप्रियायै नमः ६५ करप्राणायै नमः ६६ करकजायै नमः ६७
करकायै नमः ६८ करकान्तरायै नमः ६९ करकाचलरूपायै नमः
७० करकाचलशोभिन्यै नमः ७१ करकाचलपुत्र्यै नमः ७२
करकाचलतोषितायै नमः ७३ करकाचलगेहस्थायै नमः ७४
करकाचलरक्षिण्यै नमः ७५ करकाचलसम्मान्यायै नमः ७६
करकाचलकारिण्यै नमः ७७ करकाचलवर्षाढ्यायै नमः ७८
प्. ५१) करकाचलरञ्जितायै नमः ७९ करकाचलकान्तारायै नमः ८०
करकाचलमालिन्यै नमः ८१ करकाचलभोज्यायै नमः ८२
करकाचलरूपिण्यै नमः ८३ करामलकसंस्थायै नमः ८४
करामलकसिद्धिदायै नमः ८५ करामलकसम्पूज्यायै नमः ८६
करामलकतारिण्यै नमः ८७ करामलककाल्यै नमः ८८
करामलकरोचिन्यै नमः ८९ करामलकमात्रे नमः ९०
करामलकसेविन्यै नमः ९१ करामलकवद्ध्येयायै नमः ९२
करामलकदायिन्यै नमः ९३ कञ्जनेत्रायै नमः ९४ कञ्जमत्यै
नमः ९५ कञ्जस्थायै नमः ९६ कञ्जधारिण्यै नमः ९७
कञ्जमालाप्रियकर्यै नमः ९८ कञ्जरूपायै नमः ९९ कञ्जजायै
नमः १०० कञ्जजात्यै नमः १०१ कञ्जगत्यै नमः १०२
कञ्जहोमपरायणायै नमः १०३ कञ्जमण्डलमध्यस्थायै नमः
१०४ कञ्जाभरणभूषितायै नमः १०५ कञ्जसम्माननिरतायै नमः
१०६ कञ्जोत्पत्तिपरायणायै नमः १०७ कञ्जराशिसमाकारायै नमः
१०८ कञ्जारण्यनिवासिन्यै नमः १०९ करञ्जवृक्षमध्यस्थायै नमः
११० करञ्जवृक्षवासिन्यै नमः १११ करञ्जफलभूषाढ्यायै नमः
११२ करञ्जारण्यवासिन्यै नमः ११३ करञ्जमालाभरणायै नमः
११४ करवालपरायणायै नमः ११५ करवालप्रहृष्टात्मने नमः ११६
करवालप्रियागत्यै नमः ११७ करवालप्रियाकन्थायै नमः ११८
करवालविहारिण्यै नमः ११९ करवालमर्ययै नमः १२० कर्मायै
नमः १२१ करवालप्रियङ्कर्यै नमः १२२ कबन्धमालाभरणायै
नमः १२३ कबन्धराशिमध्यगायै नमः १२४
कबन्धकूटसंस्थानायै नमः १२५ कबन्धानन्तभूषणायै
नमः १२६ कबन्धनादसन्तुष्टायै नमः १२७ कबन्धासनधारिण्यै
नमः १२८ कबन्धगृहमध्यस्थायै नमः १२९ कबन्धवनवासिन्यै
नमः १३० कबन्धकाञ्च्यै नमः १३१ करण्यै नमः १३२
कबन्धराशिभूषणायै नमः १३३
प्. ५२) कबन्धमालाजयदायै नमः १३४ कबन्धदेहवासिन्यै नमः १३५
कबन्धासनमान्यायै नमः १३६ कपालमाल्यधारिण्यै नमः १३७
कपालमालामध्यस्थायै नमः १३८ कपालब्रततोषितायै नमः १३९
कपालदीपसन्तुष्टायै नमः १४० कपालदीपरूपिण्यै नमः १४१
कपालदीपवरदायै नमः १४२ कपालकञ्जलस्थितायै नमः १४३
कपालमालाजयदायै नमः १४४ कपालजलतोषिण्यै नमः १४५
कपालसिद्धिसंहृष्टायै नमः १४६ कपालभोजनोद्यतायै नमः १४७
कपालब्रतसंस्थानायै नमः १४८ कपालकमलालयायै नमः १४९
कवित्वामृतसारायै नमः १५० कवित्वामृतसागरायै नमः १५१
कवित्वसिद्धिसंहृष्टायै नमः १५२ कवित्वादानकारिण्यै नमः १५३
कविपूज्यायै नमः १५४ कविगत्यै नमः १५५ कविरूपायै नमः १५६
कविप्रियायै नमः १५७ कविब्रह्मानन्दरूपायै नमः १५८
कवित्वव्रततोषितायै नमः १५९ कवित्वव्रतसंस्थानायै नमः १६०
कविवाञ्छाप्रपूरिण्यै नमः १६१ कविकण्ठस्थितायै नमः १६२
कंहृईंककंकंकविपूर्तिदायै नमः १६३ कञ्जलायै नमः १६४
कञ्जलदानमानसायै नमः १६५ कञ्जलप्रियायै नमः १६६
कपालकञ्जलसमायै नमः १६७ कञ्जलेशप्रपूजितायै नमः १६८
कञ्जलार्णवमध्यस्थायै नमः १६९ कञ्जलानन्यरूपिण्यै नमः १७०
कञ्जलप्रियसन्तुष्टायै नमः १७१ कज्जलप्रियतोषिण्यै नमः १७२
कपालमालाभरणायै नमः १७३ कपालकरभूषणायै नमः १७४
कपालकरभूषाढ्यायै नमः १७५ कपालचक्रमण्डितायै नमः १७६
कपालकोटिनिलयायै नमः १७७ कपालदुर्गकारिण्यै नमः १७८
कपालगिरिसंस्थानायै नमः १७९ कपालचक्रवासिन्यै नमः १८०
कपालपात्रसन्तुष्टायै नमः १८१ कपालार्ग्घ्यपरायणायै नमः १८२
कपालार्ग्घ्यप्रियप्राणायै नमः १८३ कपालार्ग्घ्यवरप्रदायै नमः
१८४
प्. ५३) कपालचक्ररूपायै नमः १८५ कपालरूपमात्रगायै नमः १८६
कदल्यै नमः १८७ कदलीरूपायै नमः १८८ कदलीवनवासिन्यै नमः
१८९ कदलीपुष्पसम्प्रीतायै नमः १९० कदलीफलमानसायै नमः १९१
कदलीहोमसन्तुष्टायै नमः १९२ कदलीदर्शनोद्यतायै नमः १९३
कदलीगर्भमध्यस्थायै नमः १९४ कदलीवनसुन्दर्यै नमः १९५
कदम्बपुष्पनिलयायै नमः १९६ कदम्बवनमध्यगायै नमः १९७
कदम्बकुसुमामोदायै नमः १९८ कदम्बवनतोषिण्यै नमः १९९
कदम्बपुष्पसम्पूज्यायै नमः २०० कदम्बपुष्पहोमदायै नमः
२०१ कदम्बपुष्पमध्यस्थायै नमः २०२ कदम्बफलभोजिन्यै नमः
२०३ कदम्बकाननान्तस्थायै नमः २०४ कदम्बाचलवासिन्यै नमः २०५
कक्षपायै नमः २०६ कक्षपाराध्यायै नमः २०७ कच्छपासन
स्थितायै नमः २०८ कर्णपूरायै नमः २०९ कर्णनासायै नमः २१०
कर्णाढ्यायै नमः २११ कालभैरव्यै नमः २१२ कलहप्रीतायै नमः
२१३ कलहदायै नमः २१४ कलहायै नमः २१५ कलहातुरायै नमः २१६
कर्णयक्ष्यै नमः २१७ कथिन्यै नमः २१८ कर्णसुन्दर्यै नमः २१९
कर्णपिशाचिन्यै नमः २२० कर्णमञ्जर्यै नमः २२१ कपिकक्षदायै
नमः २२२ कविकक्षविरूपाढ्यायै नमः २२३ कविकक्षस्वरूपिण्यै
नमः २२४ कस्तूरीमृगसंस्थानायै नमः २२५ कस्तूरीमृगरूपिण्यै
नमः २२६ कस्तूरीमृगसन्तोषायै नमः २२७ कस्तूरीमृगमध्यगायै
नमः २२८ कस्तूरीरसनीलाङ्ग्यै नमः २२९ कस्तूरीगन्धतोषितायै
नमः २३० कस्तूरीपूजकप्राणायै नमः २३१ कस्तूरीपूजकप्रियायै
नमः २३२ कस्तूरीप्रेमसन्तुष्टायै नमः २३३ कस्तूरीप्राणधारिण्यै
नमः २३४ कस्तूरीपूजकानन्दायै नमः २३५ कस्तूरीगन्धरूपिण्यै
नमः २३६ कस्तूरीमालिकारूपायै नमः २३७ कस्तूरीभोजनप्रियायै
नमः २३८
प्. ५४) कस्तूरीतिलकानन्दायै नमः २३९ कस्तूरीतिलकप्रियायै नमः २४०
कस्तूरीहोमसन्तुष्टायै नमः २४१ कस्तूरीतर्पणोद्यतायै नमः २४२
कस्तूरीमार्ज्जनोद्युक्तायै नमः २४३ कस्तूरीचक्रपूजितायै नमः २४४
कस्तूरीपुष्पसम्पूज्यायै नमः २४५ कस्तूरीचर्वणोद्यतायै नमः २४६
कस्तूरीगर्ब्भमध्यस्थायै नमः २४७ कस्तूरीवस्त्रधारिण्यै नमः
२४८ कस्तूरिकामोदरतायै नमः २४९ कस्तूरीवनवासिन्यै नमः २५०
कस्तूरीवनसंरक्षायै नमः २५१ कस्तूरीप्रेमधारिण्यै नमः २५२
कस्तूरीशक्तिनिलयायै नमः २५३ कस्तूरीशक्तिकुण्डगायै नमः २५४
कस्तूरीकुण्डसंस्नातायै नमः २५५ कस्तूरीकुण्डमज्जनायै नमः
२५६ कस्तूरीजीवसन्तुष्टायै नमः २५७ कस्तूरीजीवधारिण्यै नमः २५८
कस्तूरीपरमामोदायै नमः २५९ कस्तूरीजीवनक्षमायै नमः २६०
कस्तूरीजातिभावस्थायै नमः २६१ कस्तूरीगन्धचुम्बनायै नमः २६२
कस्तूरीगन्धसंशोभाविराजितकपालभुवे नमः २६३
कस्तूरीमदनान्तस्थायै नमः २६४ कस्तूरीमदहर्षदायै नमः २६५
कस्तूर्यै नमः २६६ कवितानाढ्यायै नमः २६७
कस्तूरीगृहमध्यगायै नमः २६८ कस्तूरीस्पर्शकप्राणायै नमः
२६९ कस्तूरीनिन्दाकान्तकायै नमः २७० कस्तूर्यामोदरसिकायै नमः
२७१ कस्तूरीक्रीडनोद्यतायै नमः २७२ कस्तूरीदाननिरतायै नमः २७३
कस्तूरीवरदायिन्यै नमः २७४ कस्तूरीस्थापनाशक्तायै नमः २७५
कस्तूरीस्थानरञ्जिन्यै नमः २७६ कस्तूरीकुशलप्राणायै नमः २७७
कस्तूरीस्तुतिवन्दितायै नमः २७८ कस्तूरीवन्दकाराध्यायै नमः २७९
कस्तूरीस्थानवासिन्यै नमः २८० कहरूपायै नमः २८१ कहाढ्यायै
नमः २८२ कहानन्दायै नमः २८३ कहात्मभुवे नमः २८४
कहपूज्यायै नमः २८५ कहेत्याख्यायै नमः २८६ कहहेषायै नमः
२८७
प्. ५५) कहात्मिकायै नमः २८८ कहमालायै नमः २८९ कण्ठभूषायै
नमः २९० कहमन्त्रजपोद्यतायै नमः २९१ कहनामस्मृतिपरायै
नमः २९२ कहनामपरायणायै नमः २९३ कहपरायणरतायै नमः
२९४ कहदेव्यै नमः २९५ कहेश्वर्यै नमः २९६ कहहेत्वै नमः २९७
कहान्दायै नमः २९८ कहनादपरायणायै नमः २९९ कहमात्रे
नमः ३०० कहान्तस्थायै नमः ३०१ कहमन्त्रायै नमः ३०२
कहेश्वरायै नमः ३०३ कहगेयायै नमः ३०४ कहाराध्यायै नमः
३०५ कहध्यानपरायणायै नमः ३०६ कहतन्त्रायै नमः ३०७
कहकहायै नमः ३०८ कहचर्यापरायणायै नमः ३०९ कहाचारायै
नमः ३१० कहगत्यै नमः ३११ कहताण्डवकारिण्यै नमः ३१२
कहारण्यायै नमः ३१३ कहगत्यै नमः ३१४ कहशक्तिपरायणायै
नमः ३१५ कहराज्यरतायै नमः ३१६ कर्मसाक्षिण्यै नमः ३१७
कर्मसुन्दर्यै नमः ३१८ कर्मविद्यायै नमः ३१९ कर्मगत्यै नमः ३२०
कर्मतन्त्रपरायणायै नमः ३२१ कर्ममात्रायै नमः ३२२
कर्मगात्रायै नमः ३२३ कर्मधर्मपरायणायै नमः ३२४
कर्मरेखानाशकर्त्र्यै नमः ३२५ कर्मरेखाविनोदिन्यै नमः ३२६
कर्मरेखामोहकर्यै नमः ३२७ कर्मकीर्तिपरायणायै नमः ३२८
कर्मविद्यायै नमः ३२९ कर्मसारायै नमः ३३० कर्माधारायै
नमः ३३१ कर्मभुवे नमः ३३२ कर्मकार्यै नमः ३३३ कर्महार्यै
नमः ३३४ कर्मकौतुकसुन्दर्यै नमः ३३५ कर्मकाल्यै नमः ३३६
कर्मतारायै नमः ३३७ कर्मछिन्नायै नमः ३३८ कर्मदायै नमः
३३९ कर्मचाण्डालिन्यै नमः ३४० कर्मवेदमात्रे नमः ३४१ कर्मभुवे
नमः ३४२ कर्मकाण्डरतानन्तायै नमः ३४३
कर्मकाण्डानुमानितायै नमः ३४४ कर्मकाण्डपरीणाहायै नमः
३४५
प्. ५६) कमठ्यै नमः ३४६ कमठाकृत्यै नमः ३४७
कमठाराध्यहृदयायै नमः ३४८ कमठायै नमः ३४९
कण्ठसुन्दर्यै नमः ३५० कमठासनसंसेव्यायै नमः ३५१
कमठ्यै नमः ३५२ कर्मतत्परायै नमः ३५३ करुणाकरकान्तायै
नमः ३५४ करुणाकरवन्दितायै नमः ३५५ कठोरायै नमः ३५६
करमालायै नमः ३५७ कठोरकुचधारिण्यै नमः ३५८ कपर्द्दिन्यै
नमः ३५९ कपटिन्यै नमः ३६० कठिन्यै नमः ३६१ कङ्कभूषणायै
नमः ३६२ करभोर्वै नमः ३६३ कठिनदायै नमः ३६४ करभायै
नमः ३६५ करभालयायै नमः ३६६ कलभाषामययै नमः ३६७
कल्पायै नमः ३६८ कल्पनायै नमः ३६९ कल्पदायिन्यै नमः ३७०
कमलस्थायै नमः ३७१ कलामालायै नमः ३७२ कमलास्यायै नमः
३७३ क्वणत्प्रभायै नमः ३७४ कुकुद्मिन्यै नमः ३७५ कष्टवत्यै नमः
३७६ करणीयकथार्च्चितायै नमः ३७७ कचार्च्चितायै नमः ३७८ कचतन्वै
नमः ३७९ कचसुन्दरधारिण्यै नमः ३८० कठोरकुचस/लग्नायै नमः
३८१ कटिसूत्रविराजितायै नमः ३८२ कर्णभक्षप्रियायै नमः ३८३
कन्दायै नमः ३८४ कथायै नमः ३८५ कन्दगत्यै नमः ३८६ कल्यै
नमः ३८७ कलिघ्न्यै नमः ३८८ कलिदूत्यै नमः ३८९
कविनायकपूजितायै नमः ३९० कणकक्षानियन्त्र्यै नमः ३९१
कश्चित्कविवरार्चितायै नमः ३९२ कर्त्र्यै नमः ३९३ कर्तृकाभूषायै
नमः ३९४ करिण्यै नमः ३९५ कर्णशत्रुपायै नमः ३९६ करणेश्यै
नमः ३९७ कर्णपायै नमः ३९८ कलवाचायै नमः ३९९ कलानिध्यै
नमः ४०० कलनायै नमः ४०१ कलनाधारायै नमः ४०२ कारिकायै
नमः ४०३ करकायै नमः ४०४ करायै नमः ४०५ कलगेयायै नमः ४०६
कर्कराश्यै नमः ४०७ कर्कराशिप्रपूजितायै नमः ४०८
प्. ५७) कन्याराश्यै नमः ४०९ कन्यकायै नमः ४१०
कन्यकाप्रियभाषिण्यै नमः ४११ कन्यकादानसंतुष्टायै नमः ४१२
कन्यकादानतोषिण्यै नमः ४१३ कन्यादानकरानन्दायै नमः ४१४
कन्यादानग्रहेष्टदायै नमः ४१५ कर्षणायै नमः ४१६
कक्षदहनायै नमः ४१७ कामितायै नमः ४१८ कमलासनायै नमः
४१९ करमालानन्दकर्त्र्यै नमः ४२० करमालाप्रतोषितायै नमः ४२१
करमालाशयानन्दायै नमः ४२२ करमालासमागमायै नमः ४२३
करमालासिद्धिदात्र्यै नमः ४२४ करमालायै नमः ४२५ करप्रियायै
नमः ४२६ करप्रियाकररतायै नमः ४२७ करदानपरायणायै नमः
४२८ कलानन्दायै नमः ४२९ कलिगत्यै नमः ४३० कलिपूज्यायै नमः ४३१
कलिप्रस्वै नमः ४३२ कलनादनिनादस्थायै नमः ४३३
कलनादवरप्रदायै नमः ४३४ कलनादसमाजस्थायै नमः ४३५
कहोलायै नमः ४३६ कहोलदायै नमः ४३७ कहोलगेहमध्यस्थायै
नमः ४३८ कहोलवरदायिन्यै नमः ४३९ कहोलकविताधारायै नमः ४४०
कहोलऋषिमानितायै नमः ४४१ कहोलमानसाराध्यायै नमः ४४२
कहोलवाक्यकारिण्यै नमः ४४३ कर्तृरूपायै नमः ४४४ कर्तृमययै
नमः ४४५ कर्तृमात्रे नमः ४४६ कर्तर्यै नमः ४४७ कनीयायै नमः ४४८
कनकाराध्यायै नमः ४४९ कनीनकमययै नमः ४५०
कनीयानन्दनिलयायै नमः ४५१ कनकानन्दतोषितायै नमः ४५२
कनीनककरायै नमः ४५३ काष्ठायै नमः ४५४ कथार्णवकर्ययै
नमः ४५५ कर्ययै नमः ४५६ करिगम्यायै नमः ४५७ करिगत्यै नमः ४५८
करिध्वजपरायणायै नमः ४५९ करिनाथप्रियायै नमः ४६०
कण्ठायै नमः ४६१ कथानकप्रतोषितायै नमः ४६२ कमनीयायै
नमः ४६३ कमनकायै नमः ४६४ कमनीयविभूषणायै नमः ४६५
कमनीयसमाजस्थायै नमः ४६६
प्. ५८) कमनीयव्रतप्रियायै नमः ४६७ कमनीयगुणाराध्यायै नमः
४६८ कपिलायै नमः ४६९ कपिलेश्वर्यै नमः ४७० कपिलाराध्यहृदयायै
नमः ४७१ कपिलाप्रियवादिन्यै नमः ४७२ कहचक्रमन्त्रवर्णायै नमः
४७३ कहचक्रप्रसूनकायै नमः ४७४ क-ए-ईल्ह्रींस्वरूपायै नमः ४७५
क-ए-ईल्ह्रींवरप्रदायै नमः ४७६ क-ए-ईल्ह्रींसिद्धिदात्र्यै नमः ४७७
क-ए-ईल्ह्रींस्वरूपिण्यै नमः ४७८ क-ए-ईल्ह्रींमन्त्रवर्णायै नमः ४७९
क-ए-ईल्ह्रींप्रसूकलायै नमः ४८० कवर्गायै नमः ४८१ कपाटस्थायै
नमः ४८२ कपाटोद्घाटनक्षमायै नमः ४८३ कङ्काल्यै नमः ४८४
कपाल्यै नमः ४८५ कङ्कालप्रियमाषिण्यै नमः ४८६
कङ्कालभैरवाराध्यायै नमः ४८७ कङ्कालमानससंस्थितायै
नमः ४८८ कङ्कालमोहनिरतायै नमः ४८९ कङ्कालमोहदायिन्यै
नमः ४९० कलुषघ्न्यै नमः ४९१ कलुषहायै नमः ४९२
कलुषार्त्तिविनाशिन्यै नमः ४९३ कलिपुष्पायै नमः ४९४ कलादानायै
नमः ४९५ कशिष्वै नमः ४९६ कश्यपार्चितायै नमः ४९७ कश्यपायै
नमः ४९८ कश्यपाराध्यायै नमः ४९९ कलिपूर्णकलेवरायै नमः
५०० कलेवरकर्यै नमः ५०१ कांच्यै नमः ५०२ कवर्गायै नमः ५०३
करालकायै नमः ५०४ करालभैरवाराध्यायै नमः ५०५
करालभैरवेश्वर्यै नमः ५०६ करालायै नमः ५०७ कलनाधारायै
नमः ५०८ कपर्द्दीशवरप्रदायै नमः ५०९ कपर्द्दीशप्रेमलतायै
नमः ५१० कपर्द्दिमालिकायै नमः ५११ कपर्द्दिजपमालाढ्यायै
नमः ५१२ करवीरप्रसूनदायै नमः ५१३ करवीरप्रियप्राणायै नमः
५१४ करवीरप्रपूजितायै नमः ५१५ कर्णिकारसमाकारायै नमः ५१६
कर्णिकारप्रपूजितायै नमः ५१७ करीषाग्निस्थितायै नमः ५१८ कर्षायै
नमः ५१९ कर्षमात्रसुवर्णदायै नमः ५२० कलशायै नमः ५२१
प्. ५९) कलशाराध्यायै नमः ५२२ कषायायै नमः ५२३ करिगानदायै
नमः ५२४ कपिलायै नमः ५२५ कलकण्ठ्यै नमः ५२६ कलिकल्पलतायै
नमः ५२७ कल्पलतायै नमः ५२८ कल्पमात्रे नमः ५२९ कल्पकार्यै
नमः ५३० कल्पभुवे नमः ५३१ कर्पूरामोदरुचिरायै नमः ५३२
कर्पूरामोदधारिण्यै नमः ५३३ कर्पूरमालाभरणायै नमः ५३४
कर्पूरवासपूर्त्तिदायै नमः ५३५ कर्पूरमालाजयदायै नमः ५३६
कर्पूरार्णवमध्यगायै नमः ५३७ कर्पूरतर्पणरतायै नमः ५३८
कटकाम्बरधारिण्यै नमः ५३९ कपटेश्वरसम्पूज्यायै नमः ५४०
कपटेश्वररूपिण्यै नमः ५४१ कट्वै नमः ५४२ कपिध्वजाराध्यायै
नमः ५४३ कलापपुष्परूपिण्यै नमः ५४४ कलापपुष्परुचिरायै नमः
५४५ कलापपुष्पपूजितायै नमः ५४६ क्रकचायै नमः ५४७
क्रकचाराध्यायै नमः ५४८ कथंब्रूमायै नमः ५४९ करलतायै
नमः ५५० कथङ्कारविनिर्मुक्तायै नमः ५५१ काल्यै नमः ५५२
कालक्रियायै नमः ५५३ क्रत्वै नमः ५५४ कामिन्यै नमः ५५५
कामिनीपूज्यायै नमः ५५६ कामिनीपुष्पधारिण्यै नमः ५५७
कामिनीपुष्पनिलयायै नमः ५५८ कामिनीपुष्पपूर्णिमायै नमः ५५९
कामिनीपुष्पपूजार्हायै नमः ५६० कामिनीपुष्पभूषणायै नमः
५६१ कामिनीपुष्पतिलकायै नमः ५६२ कामिनीकुण्डचुम्बनायै नमः
५६३ कामिनीयोगसन्तुष्टायै नमः ५६४ कामिनीयोगभोगदायै नमः ५६५
कामिनीकुण्डसम्मग्नायै नमः ५६६ कामिनीकुण्डमध्यगायै नमः
५६७ कामिनीमानसाराध्यायै नमः ५६८ कामिनीमानतोषितायै नमः
५६९ कामिनीमानसञ्चारायै नमः ५७० कालिकायै नमः ५७१
कालकालिकायै नमः ५७२ कामायै नमः ५७३ कामदेव्यै नमः ५७४
कामेश्यै नमः ५७५ कामसम्भवायै नमः ५७६
प्. ६०) कामभावायै नमः ५७७ कामरतायै नमः ५७८ कामार्त्तायै
नमः ५७९ काममञ्जर्यै नमः ५८० काममञ्जीररणितायै नमः ५८१
कामदेवप्रियान्तरायै नमः ५८२ कामकाल्यै नमः ५८३ कामकलायै
नमः ५८४ कालिकायै नमः ५८५ कमलार्चितायै नमः ५८६ कादिकायै
नमः ५८७ कमलायै नमः ५८८ काल्यै नमः ५८९
कालानलसमप्रभायै नमः ५९० कल्पान्तदहनायै नमः ५९१
कान्तायै नमः ५९२ कान्तारप्रियावासिन्यै नमः ५९३ कालपूज्यायै
नमः ५९४ कालरतायै नमः ५९५ कालमात्रे नमः ५९६ कालिन्यै नमः
५९७ कालवीरायै नमः ५९८ कालघोरायै नमः ५९९ कालसिद्धायै
नमः ६०० कालदायै नमः ६०१ कालाञ्जनसमाकारायै नमः ६०२
कालञ्जरनिवासिन्यै नमः ६०३ कालऋद्ध्यै नमः ६०४ कालवृद्ध्यै
नमः ६०५ कारागृहविमोचिन्यै नमः ६०६ कादिविद्यायै नमः ६०७
कादिमात्रे नमः ६०८ कादिस्थायै नमः ६०९ कादिसुन्दर्यै नमः ६१०
काश्यै नमः ६११ कांच्यै नमः ६१२ काञ्चीशायै नमः ६१३
काशीशवरदायिन्यै नमः ६१४ क्रींबीजायै नमः ६१५
क्रींबीजाहृदयायै नमः स्मृतायै नमः ६१६ काम्यायै नमः ६१७
काम्यगत्यै नमः ६१८ काम्यसिद्धिदात्र्यै नमः ६१९ कामभुवे नमः
६२० कामाख्यायै नमः ६२१ कालरूपायै नमः ६२२
कामचापविमोचिन्यै नमः ६२३ कामदेवकलारामायै नमः ६२४
कामदेवकलालयायै नमः ६२५ कामरात्र्यै नमः ६२६ कामदात्र्यै
नमः ६२७ कान्ताराचलवासिन्यै नमः ६२८ कालरूपायै ६२९ कालगत्यै
नमः ६३० कामयोगपरायणायै नमः ६३१ कामसम्मर्द्दनरतायै
नमः ६३२ कामगेहविकाशिन्यै नमः ६३३ कालभैरवभार्यायै नमः
६३४ कालभैरवकामिन्यै नमः ६३५ कालभैरवयोगस्थायै नमः ६३६
प्. ६१) कालभैरवभोगदायै नमः ६३७ कामधेन्वै नमः ६३८
कामदोग्घ्र्यै नमः ६३९ काममात्रे नमः ६४० कान्तिदायै नमः ६४१
कामुकायै नमः ६४२ कामुकाराध्यायै नमः ६४३
कामुकानन्दवर्द्धिन्यै नमः ६४४ कार्त्तवीर्यायै नमः ६४५
कार्त्तिकेयायै नमः ६४६ कार्त्तिकेयप्रपूजितायै नमः ६४७ कार्यायै
नमः ६४८ कारणदायै नमः ६४९ कार्यकारिण्यै नमः ६५०
कारणान्तरायै नमः ६५१ कान्तिगम्यायै नमः ६५२ कान्तिमययै नमः
६५३ कात्यायै नमः ६५४ कात्यायन्यै नमः ६५५ कायै नमः ६५६
कामसारायै नमः ६५७ काश्मीरायै नमः ६५८
काश्मीराचारतत्परायै नमः ६५९ कामरूपाचाररतायै नमः ६६०
कामरूपप्रिय/व्वदायै नमः ६६१ कामरूपाचारसिद्ध्यै नमः ६६२
कामरूपमनोमययै नमः ६६३ कार्त्तिक्यै नमः ६६४
कार्त्तिकाराध्यायै नमः ६६५ काञ्चनारप्रसूनभुवे नमः ६६६
काञ्चनारप्रसूनाभायै नमः ६६७ काञ्चनारप्रपूजितायै नमः
६६८ काञ्चरूपायै नमः ६६९ काञ्चभूम्यै नमः ६७०
कांस्यपात्रप्रभोजिन्यै नमः ६७१ कांस्यध्वनिमययै नमः ६७२
कामसुन्दर्यै नमः ६७३ कामचुम्बनायै नमः ६७४
काशपुष्पप्रतीकाशै नमः ६७५ कामद्रुमसमागमायै नमः ६७६
कामपुष्पायै नमः ६७७ कामभूम्यै नमः ६७८ कामपूज्यायै
नमः ६७९ कामदायै नमः ६८० कामदेहायै नमः ६८१ कामगेहायै
नमः ६८२ कामबीजपरायणायै नमः ६८३ कामध्वजसमारूढायै
नमः ६८४ कामध्वजसमास्थितायै नमः ६८५ काश्यप्यै नमः ६८६
काश्यपाराध्यायै नमः ६८७ काश्यपानन्ददायिन्यै नमः ६८८
कालिन्दीजलसंकाशायै नमः ६८९ कालिन्दीजलपूजितायै नमः ६९०
कादेवपूजानिरतायै नमः ६९१ कादेवपरमार्थदायै नमः ६९२
कार्मणायै नमः ६९३ कार्मणाकारायै नमः ६९४
प्. ६२) कामकार्मणकारिण्यै नमः ६९५ कार्मणत्रोटनकर्यै नमः ६९६
काकिन्यै नमः ६९७ कारणाह्वयायै नमः ६९८ काव्यामृतायै नमः
६९९ कालिङ्गायै नमः ७०० कालिङ्गमर्द्दनोद्यतायै नमः ७०१
कालागुरुविभूषाढ्यायै नमः ७०२ कालागुरुविभूतिदायै नमः ७०३
कालागुरुसुगन्धायै नमः ७०४ कालागुरुप्रतर्पणायै नमः ७०५
कावेरीनीरसम्प्रीतायै नमः ७०६ कावेरीतीरवासिन्यै नमः ७०७
कालचक्रभ्रमाकारायै नमः ७०८ कालचक्रनिवासिन्यै नमः ७०९
काननायै नमः ७१० काननाधारायै नमः ७११ कार्व्यै नमः ७१२
कारुणिकामययै नमः ७१३ काम्पिल्यवासिन्यै नमः ७१४ काष्ठायै
नमः ७१५ कामपत्न्यै नमः ७१६ कानभुवे नमः ७१७
कादम्बरीपानरतायै नमः ७१८ कादम्बर्यै नमः ७१९ कलायै नमः
७२० कामवन्द्यायै नमः ७२१ कामेश्यै नमः ७२२
कामराजप्रपूजितायै नमः ७२३ कामराजेश्वरीविद्यायै नमः ७२४
कामकौतुकसुन्दर्यै नमः ७२५ काम्बोजजायै नमः ७२६ काञ्चिनदायै
नमः ७२७ कांस्यकाञ्चनकारिण्यै नमः ७२८
काञ्चनाद्रिसमाकारायै नमः ७२९ काञ्चनाद्रिप्रदायै नमः ७३०
कामकीर्त्यै नमः ७३१ कामकेश्यै नमः ७३२ कारिकायै नमः ७३३
कान्ताराश्रयायै नमः ७३४ कामभेद्यै नमः ७३५ कामार्त्तिनाशिन्यै
नमः ७३६ कामभूमिकायै नमः ७३७ कालनिर्णाशिन्यै नमः ७३८
काव्यवनितायै नमः ७३९ कामरूपिण्यै नमः ७४०
कायस्थाकामसन्दीप्त्यै नमः ७४१ काव्यदायै नमः ७४२ कालसुन्दर्यै
नमः ७४३ कामेश्यै नमः ७४४ कारणवरायै नमः ७४५
कामेशीपूजनोद्यतायै नमः ७४६ काञ्चीनूपुरभूषाढ्याअयै
नमः ७४७ कुङ्कुमाभरणान्वितायै नमः ७४८ कालचक्रायै नमः ७४९
कालगत्यै नमः ७५० कालचक्रमनोभवायै नमः ७५१
प्. ६३) कुन्दमध्यायै नमः ७५२ कुन्दपुष्पायै नमः ७५३
कुन्दपुष्पप्रियायै नमः ७५४ कुजायै नमः ७५५ कुजमात्रे नमः ७५६
कुजाराध्यायै नमः ७५७ कुठारवरधारिण्यै नमः ७५८
कुञ्जरस्थायै नमः ७५९ कुशरतायै नमः ७६० कुशेशयविलोचनायै
नमः ७६१ कुनठ्यै नमः ७६२ कुरर्यै नमः ७६३ क्रुद्धायै नमः ७६४
कुरङ्ग्यै नमः ७६५ कुटजाश्रयायै नमः ७६६ कुम्भीनसविभूषायै
नमः ७६७ कुम्भीनसवधोद्यतायै नमः ७६८ कुम्भकणमनोल्लासायै
नमः ७६९ कुलचूडामण्यै नमः ७७० कुलायै नमः ७७१
कुलालगृहकन्यायै नमः ७७२ कुलचूडामणिप्रियायै नमः ७७३
कुलपूज्यायै नमः ७७४ कुलाराध्यायै नमः ७७५
कुलपूजापरायणायै नमः ७७६ कुलभूषायै नमः ७७७ कुक्ष्यै
नमः ७७८ कुररीगणसेवितायै नमः ७७९ कुलपुष्पायै नमः ७८०
कुलरतायै नमः ७८१ कुलपुष्पपरायणायै नमः ७८२ कुलवस्त्रायै
नमः ७८३ कुलाराध्यायै नमः ७८४ कुलकुण्डसमप्रभायै नमः ७८५
कुलकुण्डसमोल्लासायै नमः ७८६ कुण्डपुष्पपरायणायै नमः ७८७
कुण्डपुष्पप्रसन्नास्यायै नमः ७८८ कुण्डगोलोद्भवात्मिकायै नमः
७८९ कुण्डगोलोद्भवाधारायै नमः ७९० कुण्डगोलमययै नमः ७९१
कुह्वै नमः ७९२ कुण्डगोलप्रियप्राणायै नमः ७९३
कुण्डगोलप्रपूजितायै नमः ७९४ कुण्डगोलमनोल्लासायै नमः ७९५
कुण्डगोलबलप्रदायै नमः ७९६ कुण्डदेवरतायै नमः ७९७
क्रुद्धायै नमः ७९८ कुलसिद्धिकरीपरायै नमः ७९९
कुलकुण्डसमाकारायै नमः ८०० कुलकुण्डसमानभुवे नमः ८०१
कुण्डसिद्ध्यै नमः ८०२ कुण्डऋद्ध्यै नमः ८०३
कुमारीपूजनोद्यतायै नमः ८०४ कुमारीपूजकप्राणायै नमः ८०५
कुमारीपूजकालयायै नमः ८०६ कुमार्यै नमः ८०७ कामसन्तुष्टायै
नमः ८०८ कुमारीपूजनोत्सुकायै नमः ८०९
प्. ६४) कुमारीव्रतसन्तुष्टायै नमः ८१० कुमारीरूपधारिण्यै नमः
८११ कुमारीभोजनप्रीतायै नमः ८१२ कुमार्यै नमः ८१३ कुमारदायै
नमः ८१४ कुमारमात्रे नमः ८१५ कुलदायै नमः ८१६ कुलयोन्यै
नमः ८१७ कुलेश्वर्यै नमः ८१८ कुललिङ्गायै नमः ८१९ कुलानन्दायै
नमः ८२० कुलरम्यायै नमः ८२१ कुतर्कधृषे नमः ८२२ कुन्त्यै नमः
८२३ कुलकान्तायै नमः ८२४ कुलमार्गपरायणायै नमः ८२५ कुल्लायै
नमः ८२६ कुरुकुल्लायै नमः ८२७ कुल्लुकायै नमः ८२८ कुलकामदायै
नमः ८२९ कुलिशाङ्ग्यै नमः ८३० कुब्जिरिकायै नमः ८३१
कुब्जिकानन्दवर्द्विन्यै नमः ८३२ कुलीनायै नमः ८३३ कुञ्जरगत्यै
नमः ८३४ कुञ्जरेश्वरगामिन्यै नमः ८३५ कुलपाल्यै नमः ८३६
कुलवत्यै नमः ८३७ कुलदीपिकायै नमः ८३८ कुलयोगेश्वर्यै नमः ८३९
कुण्डायै नमः ८४० कुङ्कुमारुणविग्रहायै नमः ८४१
कुङ्कुमानन्दसन्तोषायै नमः ८४२ कुङ्कुमार्णववासिन्यै नमः ८४३
कुसुमायै नमः ८४४ कुसुमप्रीतायै नमः ८४५ कुलभुवे नमः ८४६
कुलसुन्दययै नमः ८४७ कुमुद्वत्यै नमः ८४८ कुमुदिन्यै नमः ८४९
कुशलायै नमः ८५० कुलटालयायै नमः ८५१ कुलटालयमध्यस्थायै
नमः ८५२ कुलटासङ्गतोषितायै नमः ८५३ कुलटाभुवनोद्युक्तायै
नमः ८५४ कुशावर्त्तायै नमः ८५५ कुलावर्णवायै नमः ८५६
कुलार्णवाचाररतायै नमः ८५७ कुण्डल्यै नमः ८५८ कुण्डलकृत्यै
नमः ८५९ कुमत्यै नमः ८६० कुलश्रेष्ठायै नमः ८६१
कुलचक्रपरायणायै नमः ८६२ कूटस्थायै नमः ८६३ कूटदृष्ट्यै
नमः ८६४ कुन्तलायै नमः ८६५ कुन्तलाकृत्यै नमः ८६६
कुशलाकृतिरूपायै नमः ८६७ कूर्चबीजधरायै नमः ८६८ क्वै नमः
८६९ कुंकुंकुंकुंशब्दरतायै नमः ८७०
क्रुंक्रुंक्रुंक्रुंपरायणायै नमः ८७१
प्. ६५) कुंकुंकुंशब्दनिलयायै नमः ८७२ कुक्कुरालयवासिन्यै नमः
८७३ कुक्कुरासङ्गस/ययुक्तायै नमः ८७४ कुक्कुरानन्तविग्रहायै नमः
८७५ कूर्चारम्भायै नमः ८७६ कूर्चबीजायै नमः ८७७
कूर्चजापपरायणायै नमः ८७८ कुलिन्यै नमः ८७९ कुलसंस्थानायै
नमः ८८० कूर्च्चकण्ठपरागत्यै नमः ८८१
कूर्च्चवीणाभालदेशायै नमः ८८२ कूर्च्चमस्तकभूषितायै नमः
८८३ कुलवृक्षगतायै नमः ८८४ कूर्मायै नमः ८८५
कूर्माचलनिवासिन्यै नमः ८८६ कुलबिन्द्वै नमः ८८७ कुलशिवायै
नमः ८८८ कुलशक्तिपरायणायै नमः ८८९ कुलबिन्दुमणिप्रख्यायै
नमः ८९० कुङ्कुमद्रुमवासिन्यै नमः ८९१ कुचमर्द्दनसन्तुष्टायै
नमः ८९२ कुचजापपरायणायै नमः ८९३ कुचस्पर्शनसन्तुष्टायै
नमः ८९४ कुचालिङ्गनहर्षदायै नमः ८९५ कुगतिघ्न्यै नमः ८९६
कुबेरार्चायै नमः ८९७ कुचभुवे नमः ८९८ कुलनायिकायै नमः ८९९
कुगायनायै नमः ९०० कुचधरायै नमः ९०१ कुमात्रे नमः ९०२
कुन्ददन्तिन्यै नमः ९०३ कुगेयायै नमः ९०४ कुहराभासायै नमः
९०५ कुगेयाकुघ्नदारिकायै नमः ९०६ कीर्त्यै नमः ९०७ किरातिन्यै
नमः ९०८ क्लिन्नायै नमः ९०९ किन्नरायै नमः ९१० किन्नर्यै नमः ९११
क्रियायै नमः ९१२ क्रीङ्कारायै नमः ९१३ क्रींजपासक्तायै नमः
९१४ क्रींहूंस्त्रींमन्त्ररूपिण्यै नमः ९१५ किर्मीरितदृशापाङ्ग्यै
नमः ९१६ किशोर्यै नमः ९१७ किरीटिन्यै नमः ९१८ कीटभाषायै नमः
९१९ कीटयोन्यै नमः ९२० कीटमात्रे नमः ९२१ कीटदायै नमः ९२२
किंशुकायै नमः ९२३ कीरमाषायै नमः ९२४ क्रियासारायै नमः
९२५ क्रियावत्यै नमः ९२६ कींकींशब्दपरायै नमः ९२७ क्लीं क्लीं
क्लू/ क्लैं क्लों मन्त्ररूपिण्यै नमः ९२८ कां कीं कूं कैं
स्वरूपायै नमः ९२९ कःफट्मन्त्रस्वरूपिण्यै नमः ९३०
केतकीभूषणानन्दायै नमः ९३१
प्. ६६) केतकीभरणान्वितायै नमः ९३२ कैकदायै नमः ९३३ केशिन्यै
नमः ९३४ केशीसूदनतत्परायै नमः ९३५ केशरूपायै नमः ९३६
केशमुक्तायै नमः ९३७ कैकेययै नमः ९३८ कौशिक्यै नमः ९३९
कैरवायै नमः ९४० कैरवाह्लादायै नमः ९४१ केशरायै नमः ९४२
केतुरूपिण्यै नमः ९४३ केशवाराध्यहृदयायै नमः ९४४
केशवासक्तमानसायै नमः ९४५ क्लैव्यविनाशिन्यै नमः ९४६
क्लैंचक्लैंबीजजपतोषितायै नमः ९४७ कौसल्यायै नमः ९४८
कोशलाक्ष्यै नमः ९४९ कोशायै नमः ९५० कोमलायै नमः ९५१
कोलापुरनिवासायै नमः ९५२ कोलासुरविनाशिन्यै नमः ९५३
कोटिरूपायै नमः ९५४ कोटिरतायै नमः ९५५ क्रोधिन्यै नमः ९५६
क्रोधरूपिण्यै नमः ९५७ केकायै नमः ९५८ कोकिलायै नमः ९५९ कोट्यै
नमः ९६० कोटिमन्त्रपरायणायै नमः ९६१ कोट्यनन्तमन्त्रयुतायै
नमः ९६२ कैरूपायै नमः ९६३ केरलाश्रयायै नमः ९६४
केरलाचारनिपुणायै नमः ९६५ केरलेन्द्रगृहेस्थितायै नमः ९६६
केदाराश्रमसंस्थायै नमः ९६७ केदारेश्वरपूजितायै नमः ९६८
क्रोधरूपायै नमः ९६९ क्रोधपदायै नमः ९७० क्रोधमात्रे नमः
९७१ कौशिक्यै नमः ९७२ कोदण्डधारिण्यै नमः ९७३ क्रौंचायै
नमः ९७४ कौशल्यायै नमः ९७५ कौलमार्गगायै नमः ९७६ कौलिन्यै
नमः ९७७ कौलिकाराध्यायै नमः ९७८ कौलिकागारवासिन्यै नमः ९७९
कौतुक्यै नमः ९८० कौमुद्यै नमः ९८१ कौलायै नमः ९८२ कौमार्यै
नमः ९८३ कौरवार्चितायै नमः ९८४ कौण्डिन्यायै नमः ९८५ कौशिक्यै
नमः ९८६ क्रोधज्वालाभासुररूपिण्यै नमः ९८७
कोटिकालानलज्वालायै नमः ९८८ कोटिमार्तण्डविग्रहायै नमः ९८९
कृत्तिकायै नमः ९९० कृष्णवर्णायै नमः ९९१ कृष्णायै नमः ९९२
प्. ६७) कृत्यायै नमः ९९३ क्रियातुरायै नमः ९९४ कुशाङ्ग्यै नमः ९९५
कृतकृत्यायै नमः ९९६ क्रःफट्स्वाहास्वरूपिण्यै नमः ९९७
क्रौंक्रौंहू/फट्मन्त्रवर्णायै नमः ९९८ क्रीं
ह्रींहू/फट्नमस्स्वधायै नमः ९९९
क्रींक्रींह्रींह्रींतथाह्रू/ह्रू/फट्स्वाहामन्त्ररूपिण्यै नमः
१००० | इतिश्रीसर्वसाम्राज्यमेधाचतुर्थ्यन्तनामसहस्रकं सम्पूर्णम्
||
अथ कुमारीं सुवासिनीं च पूजयेद्भोजयेच्च || तत्क्रमो यथा
पूजागृहे कुमारीमानीय, प्रदक्षिणीकृत्योद्वर्त्तनाद्यैः स्नापयित्वा,
गन्धतैलेन शरीरं संस्कुर्यात् | केशं परिष्कृत्य, ललाटे सिन्दूरम्,
नयनयोः कज्जलम्, सर्वाङ्गे चन्दनम्, वस्त्रालङ्कारैराभूष्य, पादौ
प्रक्षाल्य, पीठोपरि समावेश्य, ताम्बूलेन मुखं संशोध्य,
स्वयमपि न्यासं कृत्वा षडङ्गेषु न्यसेत् | ऽओं क्लांकुलकुमारिके
हृदयाय नमः | ओं क्लीं कुलकुमारिके शिरसेस्वाहा | ओं
क्लूंकुलकुमारिके शिखायैवषट् | ओं क्लैंकुलकुमारिके कवचायहुम् |
ओं क्लौंकुलमुमारिके नेत्रत्रयाय वौषट् | ओं क्लः कुलकुमारिके
अस्त्रायफट् ||ऽ ततोऽङ्गेषु मातृकान्यासाः || स च यथा - ऽअंनमो
ललाटे | आंनमो मुखवृत्ते | इंनमो दक्षनेत्रे | ईंनमो वामनेत्रे |
उंनमो दक्षकर्णे | ऊंनमो वामकर्णे | ऋंनमो दक्षनासायाम् |
ॠंनमो वामनासायाम् | ऌंनमो दक्षगण्डे | ॡंनमो वामगण्डे |
एंनमः ऊर्ध्वोष्ठे | ऐंनमः अधरोष्ठे | ओंनमः
ऊर्ध्वदन्तपङ्क्तौ | औंनमः अधोदन्तपङ्क्तौ | अंनमः शिरसि |
अःनमो मुखे ||ऽ ततो ध्यायेत्
ऽशङ्खकुन्देन्दुधवलां द्विभुजां वरदाभयाम् |
चन्द्रमध्यमहाम्भोजभावहावविराजिताम् ||ऽ
एवं ध्यात्वा मानसोपचारैस्सम्पूज्य, पुनर्ध्यात्वा पूजयेत् || यथा
ऽइदं पाद्यं ह्रीं कुलकुमारिकायै नमःऽ एवम्
ऽइदमर्घ्यमिदमाचमनीयमिदमनुलेपनमेतेऽक्षताः एतानि पुष्पाणि
एष धूपः एष दीपः इदन्नैवेद्यमिदं ताम्बूलं
ह्रींकुलकुमारिकायै नमःऽ इतिमन्त्रेण
प्. ६८) पूजयेत् || अतः षडङ्गमन्त्रेण षडङ्गानि पूजयेत् || तद्यथा
ऽओंक्लांकुलकुमारिके हृदयाय नमः | ओंक्लींकुलकुमारिके शिरसे
नमः | ओंक्लूंकुलकुमारिके शिखायै नमः | ओंक्लैंकुलकुमारिके
कवचाय नमः | ओंक्लौंकुलकुमारिके नेत्रत्रयाय नमः | ओं
क्लःकुलकुमारिके अस्त्राय नमः |ऽ इत्यङ्गानि पूजयित्वा ऽओं
ह्रींहंसःकुलकुमारिकाश्रीपादुकाम्पूजयामिऽ इति
पुष्पाञ्जलित्रयं च दत्त्वा कालीं पूजयेत् | तद्यथा -
ऽओं-ऐंसन्ध्यायै नमः | ओं-ऐंसरस्वत्यै नमः | ओं-ऐंत्रिमूर्त्यै
नमः | ओं-ऐंकालिकायै नमः | ओं-ऐंसुभगायै नमः | ओं-ऐं-उमायै
नमः | ओं-ऐंमालिन्यै नमः | ओं-ऐंकुब्जिकायै नमः | ओं-
ऐंकालसङ्कर्षिण्यै नमः | ओं-ऐं-अपराजितायै नमः | ओं-
ऐंरुद्राण्यै नमः | ओं-ऐंभैरव्यै नमः | ओं-ऐंमहालक्ष्म्यै
नमः | ओं-ऐंपीठनायिकायै नमः | ओं-ऐंक्षेत्रज्ञायै नमः | ओं-
ऐंचर्च्चिकायै नमः || १६ ||ऽ ततो मूलेन पुष्पाञ्जलित्रयन्दत्त्वा,
प्रदक्षिणीकृत्य प्रणमेत् || तत्र मन्त्रो यथा ||
ऽओंजगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि ||
पूजां गृहाण कौमारि जगन्मातर्नमोस्तु ते || १ ||
त्रिपुरां त्रिगुणां धात्रीं ज्ञानमार्गस्वरूपिणीम् ||
त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् || २ ||
कालात्मिकां कालभीतां कारुण्यहृदयां शिवाम् ||
कारुण्यजननीन्नित्यां कल्याणीं पूजयाम्यहम् || ३ ||
अणिमादिगुणोपेतामकारादिस्वरात्मिकाम् ||
शक्तिभेदात्मिका/ल्लक्ष्मीं रोहिणीम्पूजयाम्यहम् || ४ ||
कलाधारां कलारूपां कालचण्डस्वरूपिणीम् |
कामदां करुणाधारां कामिनीम्पूजयाम्यहम् || ५ ||
चण्डधारां चण्डमायां चण्डमुण्डविनाशिनीम् ||
प्रणमामि च देवेशीं चण्डिकाम्पूजयाम्यहम् || ६ ||
सुखानन्दकरीं शान्तां सर्वदेवनमस्कृताम् ||
सर्वभूतात्मिकां देवीं शङ्करीं पूजयाम्यहम् || ७ ||
दुर्गमे दुस्तरे चैव दुःखत्रयविनाशिनीम् ||
पूजयामि सदा भक्त्या दुर्गां दुर्गे नमाम्यहम् || ८ ||
प्. ६९) सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् ||
सुभद्रजननीं देवीं सुभद्रां प्रणमाम्यहम् || ९ ||ऽ
ततः कर्प्पूरादिवर्त्तिकारचितारार्तिकं दत्त्वा, दक्षिणां च दत्त्वा,
प्रणम्य, विसर्ज्जयेत् || कौमारी, त्रिपुरा, कल्याणी, रोहिणी, कामिनी,
चण्डिका, शङ्करी, दुर्गा, सुभद्रा, इतिकुमारीनामानि ||
ततश्छागादिबलिं दद्यात् तद्यथा छागं सिन्दूराद्यैरलङ्कृत्य
अर्घ्योदकेन ऽदुर्गेदुर्गेरक्षिणीस्वाहाऽ इति त्रिः प्रोक्ष्य स्नापयेदनेन
ऽओंवाराही यमुना गङ्गा करतोया सरस्वती |
कावेरी चन्द्रभागा च सिन्धुभैरवसागराः ||
अजस्नाने महेशानि सान्निध्यमिह कल्पय |
पशुपाशविनाशाय हेमकूटस्थिताय च |
परायपरमेष्ठिने हूङ्काराय च मूर्त्तये ||ऽ
ततो गन्धोदकेन त्रिःप्रोक्ष्य कृताञ्जलिः पठेत् || ऽ
ओं छाग त्वं बलिरूपेण महाभाग्यादुपस्थितः |
प्रणमामि सदा भक्त्या रूपिणं बलिरूपिणम् ||
चण्डिकाप्रीतिकामस्य दातुरापद्विनाशिने |
चण्डिकाबलिरूपाय बले तुभ्यं नमोनमः ||
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा |
अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ||
ततः पाश्वपूजा
ऽओंजयन्त्यैनमः ३ | ओंमङ्गलायैनमः ३ | ओंकाल्यैनमः ३ |
ओंभद्रकाल्यैनमः ३ | ओंमानस्तोकायैनमः ३ | ओंविजयायैनमः ३ | ओं-
अपराजितायैनमः ३ |ऽ मध्ये ऽओं-अनन्तायैनमः |ऽ ततः प्रत्यङ्गं
पूजयेत् || शिरसि ऽरुधिरवदनायैनमः |ऽ कपोले ऽचण्डिकायैनमः |ऽ
चक्षुषोः ऽचन्द्रार्काभ्यान्नमः |ऽ कर्णयोः बृहस्पतयेनमः |
नासायाम् सरस्वत्यैनमः | जिह्वायाम् ऽउग्रदन्तिकायैनमः |ऽ
ग्रीवायां ऽमहादन्तिकायैनमः |ऽ उदरे ऽपृथिव्यैनमः |ऽ
जङ्घाचतुष्टये ऽधर्मायनमः |ऽ ततो जलङ्गृहीत्वा हस्ते
ऽओंह्रींश्रींवरुणमण्डलाधिष्ठितविग्रहायै पशुरूपचण्डिकायै
इमम्पशुम्प्रोक्षामि स्वाहाऽ इति पशुप्रोक्षणम् |
ततस्तिलकुशजलान्यादाय ऽओं-
अद्यामुकमास्यमुकपक्षेऽमुकतिथावमुकगोत्रः
प्. ७०) श्री-अमुकशर्मा
छागसमसङ्ख्यकदशवर्षावच्छिन्नश्रीमद्दक्षिणकालिकाप्रीतिकाम्
ओऽहमेताञ्छागान्वह्निदैवतान् भगवत्यै श्रीदक्षिणकालिकायै
तुभ्यं घातयिष्येऽ
ततो गन्धादिभिः खड्गमर्च्चयेत् ||
ऽओंकृष्णम्पिनाकपाणिञ्च कालरात्रिस्वरूपिणम् |
उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ||
रक्ताम्बरधरञ्चैव पाशहस्तङ्कुटुम्बिनम् |
पिबमानञ्च रुधिरम्भुञ्जानङ्कव्यसंहतिम् ||ऽ
ऽओंकालिकालिवज्रेश्वरीलौहदण्डाय नमःऽ इति त्रिः सम्पूज्य
सिन्दूरादिना ह्रींकार/ व्विलिख्य ऽखङ्गायनमःऽ इति सम्पूज्य
बलिकर्णे बलिगायत्रीं श्रावयेत् | ऽह्रींबलिरूपाय विद्महे
देवीप्रियायधीमहि | तन्नः पशुः प्रचोदयात् ||ऽ ततः खड्गम्प्रार्थयेत्
ऽओं-असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः |
श्रीगर्ब्भो विजयश्चैव धर्मपाल नमोस्तु ते ||
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ||
नक्षत्रङ्कृत्तिका ते तु गुरुर्द्देवो महेश्वरः ||
रोहिण्यश्च शरीरन्ते धाता देवो जनार्द्दनः ||
पिता पितामहो देवस्त्वम्माम्पालय सर्वदा ||
नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः ||
भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ||
इय/ येन धृता क्षोणी हतश्च महिषासुरः ||
तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः ||
चण्डिकारसनाबुद्ध्या एकघाते तु घातयेत् ||
पशुपाशाय विद्महे विप्रकर्णाय धीमहि ||
तन्नश्छागः प्रचोदयात् ||ऽ
सकलं रुधिरन्मुण्डञ्च देव्यग्रे कृत्वा समभागेन
संपूर्णम्परमङ्कविर्दीपयेत् | मांससमीपजन्दीपं ऽक्रौंक्रं
नमोनमःऽ अनेन मुण्डे मुण्डे दीपन्दद्यात्ततस्तर्प्पयेदेभिः | पूर्वे ऽ
चामुण्डान्तर्पयामिनमः |ऽ दक्षिणे ऽयोगिनीन्तर्पयामिनमः |ऽ
पश्चिमे ऽडाकिनीन्तर्पयामिनमःऽ उत्तरे ऽभैरवीन्तर्पयामिनमः |ऽ
आग्नेययाम् ऽविदारिकान्तर्पयामिनमः |ऽ नैरृते
ऽपापराक्षसीन्तर्पयामिनमः |ऽ वायव्ये ऽपूतनान्तर्पयामिनमः |ऽ
ईशाने ऽकालिकान्तर्पयामिनमः |ऽ
प्.७१) ऽओंअद्य दशवर्षाविच्छिन्नश्रीदक्षिणकालिकाप्रीतिकाम
इमञ्छागरुधिरं समुण्ड/ व्विष्णुदैवतम्भगवत्यै
श्रीदक्षिणकाल्यै तुभ्यमहं सम्प्रददेऽ इति छागदानविधिः ||
तत आरार्त्तिकम् || तद्यथा कस्मि/श्चित्स्वर्णादिभाजने
गोधूमचूर्णपिष्टे कर्पूरमिश्रिता एकादश श्वेतवर्त्तिकाः प्रज्वाल्य
धूपदानविध्युक्तप्रकारेण प्रोक्षणादिकङ्कृत्वा आरार्त्तिकन्दद्यात् ||
आरार्त्तिकभाजनं ऽफट्ऽ इति सम्प्रोक्ष्य ऽनमःऽ इत्यभ्यर्च्च्य ऽयम्ऽ
इतिवायुबीजेन द्वादशवारजप्तेन संशोष्य वामहस्ततले
दक्षहस्तपृष्ठन्निवेश्य ऽरम्ऽ इतिबीजेन संदह्य, वामहस्तपृष्ठे
दक्षहस्ततलन्निवेश्य ऽवम्ऽ इतिषोडशवारजप्तेन
धेनुमुद्रयाऽमृतीकृत्य, मूलेनाष्टशोऽभिमन्त्र्य,
ऽजयध्वनिमन्त्रमातः स्वाहाऽ इतिघण्टां सम्पूज्य वामतर्ज्जन्या
संस्पृश्य मूलम्पठन् ऽओंकर्पूरवर्त्तिस/युक्त/ वह्निना योजितञ्च यत् ||
आरार्त्तिकमिदन्दिव्यङ्गृहाण जगदीश्वरि ||ऽ मूलञ्च पठन्
ऽइदमारार्त्तिकं साङ्गायै सायुधायै सबलवाहनायै सपरिवारायै
सावरणायै श्रीदक्षिणकालिकाम्पूजयामि नमःऽ इति पठञ्जलन्दत्वा
नेत्रप्रदेशे दशधा भ्रामयेत् | ततः पुष्पाञ्जलित्रयेण
ऽसायुधसवाहनसपरिवारमहाकालसहितश्रीदक्षिणकालिकाम्पूजया
मिनमःऽ इति त्रि सम्पूज्य त्रिस्तप्पयेत् || ततो
योनिमुद्रादिकम्पूर्ववद्दर्शयेत् || ततश्छत्रचामरे दर्शयित्वा
पुष्पाञ्जलिङ्गृहीत्वा श्लोकचतुष्टयम्पठेत् || श्लोका यथा -
ऽबुद्धिश्शरासने कॢप्ता दर्पणम्मङ्गलानि च |
मनोवृत्तिर्विचित्रा ते नृत्यरूपेण कल्पिता || १ ||
ध्वनयोगीति रूपेण शब्दवाद्यप्रभेदतः |
छत्राणि तव पद्मानि कल्पितानि मया प्रभो || २ ||
सुषुम्नाध्वजरूपेण प्राणाद्यावाशरात्मना |
अहङ्कारो गजत्वेन वेगः कॢप्तोरथात्मना || ३ ||
इंद्रियाण्यश्वरूपाणि शब्दादीन्थवर्त्मना |
मनः प्रग्रहरूपेण बुद्धिस्सारथिरूपतः ||
सर्वमन्यत्तवाकॢप्तन्तवोपकरणात्मना || ४ ||
प्. ७२) इति पुष्पाञ्जलिन्दद्यात्प्रार्त्थयेत् || इति
श्रीमद्दक्षिणकाल्यास्सपर्याविधिस्सम्पूर्णः ||
ततो नित्यहोमङ्कुर्यात् || तद्यथा स्थण्डिले कुण्डे वा मूलेन
वीक्ष्य, अस्त्रेण प्रोक्षणताडने कृत्वा, कुशैराच्छाद्य,
व्याहृतित्रयमुच्चार्य, वह्निमानीय, तिस्रो रेखाः स/ल्लिख्य, अस्त्रमन्त्रेण
नैरृत्ये क्रव्यादांशम्परित्यज्य मूलेनाभिमन्त्र्य, ऽवम्ऽ
इतिधेनुमुद्रयाऽमृतीकृत्यास्त्रेण संरक्ष्य ऽहूम्ऽ इत्यवगुण्ठ्य परितो
भ्रामयन् त्रिःप्रणवम्पठन्
शययागतामृतुस्नातान्नीलेन्दीवरघारिणीन्देवेन भुज्यमाना/
वागीश्वरीङ्कुण्डे ध्यात्वा तद्योनिमण्डले ईशरेतो धिया वह्निं
ऽहूं वह्निचैतन्यायनमःऽ इतिपठन्मूलञ्च पठन्स्थापयेत् || ततो
वह्निम्पुष्पाक्षतादिना सम्पूज्य तत्र इष्टदेवतामावाह्य, सम्पूज्य,
घृतादिभिर्व्यस्तसमस्ताभिर्महाव्याहृतिभिराहुतिचतुष्टयन्दत्त्वा,
स्वकल्पोक्तकरवीरपुष्पैर्घृतादिना वा पञ्चविंशतिसङ्ख्यया
स्वाहान्तम्मूलमंत्रमुच्चार्य तदन्ते चतुर्थ्यन्तन्देवताभिधानं
स्वाहान्तमुच्चार्य जुहुयात् || पुनर्व्याहृतिभिर्हुत्वा मूर्त्तौ देवीन्नियोज्य
संहारमुद्रया वह्नि/ व्विसृज्य, देव्यै आचमनादिकन्दद्यात् ||
चामरादिकं सम्प्रदर्श्य स्तुत्वा, ऽयानि कानि चऽ इत्यादिना त्रिः
प्रदक्षिणङ्कुर्यात् || ततो दण्डवत्प्रणिपत्य,
आचमनादिकम्पुष्पाञ्जलिञ्च विधाय ततो ब्रह्मार्पणाख्येन मनुना
आत्मानमर्पयेत् || तद्यथा अर्पणमन्त्रस्तु ऽओंइतः
पूर्वपापबुद्धिन्देवधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु
मनसा वाचा हस्ताभ्याम्पद्भ्यामुदरेण शिश्ना यत्स्मृत/ ययदुक्त/
यत्कृतन्तत्सर्वम्ब्रह्मार्पणम्भवतु स्वाहा माम्मदीयञ्च
सकलन्देव्यै ते समर्पये ओंतत्सत्ऽ | ततः प्राणायामादिक/ व्विधाय
पुष्पाक्षतादिभिस्सम्पूज्य, क्षमापयेत् || क्षमापनमन्त्रो यथा -
अज्ञानाद्विस्मृतेर्भीत्यायन्न्यूनमधिकङ्कृतम् ||
विपरीतञ्च तत्सर्वङ्क्षमस्व परमेश्वरि || १ ||
प्. ७३) मन्त्रहीनङ्क्रियाहीन/ व्विधिहीनं सुरेश्वरि ||
सम्पूजिता मया देवि तस्मात्त्व/ व्वरदा भव || २ ||
आवाहनञ्च पूजाञ्च त्वन्माहात्म्यञ्जपन्तथा |
विसर्ज्जनन्न जनामि कालिके त्वङ्क्षमस्व मे || ३ ||
यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् |
तत्सर्वङ्क्षम्यतान्देवि प्रसीद परमेश्वरि || ४ ||
यस्याः स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु |
न्यूनं सम्पूर्णता/ याति प्रसीद परमेश्वरि || ५ ||
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ||
गृहाणार्च्चामिमां सर्वाम्प्रसीद परमेश्वरि || ६ ||
इत्येतैः पुष्पाञ्जलिना क्षमापयेत् || ततो योनिमुद्राम्बद्ध्वा प्रणम्य
ऽओंगच्छ गच्छ परं स्थानं स्वस्थानम्परमेश्वरि |
पूजाराधनकाले च पुनरागमनाय च ||ऽ इति,
मूलमन्त्रम्पठन्संहारमुद्रया देवी/ विसृज्य स्वहृदये स्थापयेत् ||
तत ऐशान्यान्दिशि ऽह्रींचण्डेश्वर्यैनमःऽ इति चण्डेश्वरीं
सम्पूज्य ऽचण्डेश्वरि महादेवि निर्माल्यैश्चन्दनादिभिः |
लेह्यचोष्यान्नपानादिनिर्माल्यस्रग्विलेपनैः |
निर्माल्यभोजनन्तुभ्यन्ददामि श्रीशिवाज्ञया ||ऽ इति मन्त्रेण
निर्माल्यन्दद्यात् | ततस्तत्रैवोच्छिष्टचाण्डालिनीं सम्पूज्य
तदुच्छिष्टनैवेद्यासवमुच्छिष्टचाण्डाल्यै दद्यात् || ततो
ब्राह्मणान्कुमारीश्च सम्भोज्य स्वयम्प्रसादम्भुञ्जीत ||
पुरश्चरणे त्वय/ व्विशेषः | लक्षसंख्याकजपः तद्दशांशः
पूर्वोक्तद्रव्यैः पुरश्चरणपद्धत्युक्तक्रमेण पूर्वोक्तविधिना
होमः कर्त्तव्यः || तद्दशांशतः
कर्पूरमिश्रिततोयैस्तीर्थतोयैर्न्मधुना वा मूलमन्त्रमुच्चार्य
ऽदक्षिणकालीन्तर्पयामि स्वाहाऽ एतदुच्चार्य किञ्चित्पात्रे देवतां
सम्पूज्य तर्पयेत् | पुनः प्राणायामादि विधाय विसर्ज्जयेत् |
तद्दशांशतो मार्जयेत् || तद्यथा आत्मानन्देवताबुद्ध्या ध्यात्वा
सम्पूज्य मूलविद्यां समुच्चार्य तदन्ते
देवताभिधान्द्वितीयान्तामुच्चार्य तदन्ते ऽअभिषिञ्चामि नमःऽ
इत्यात्मानमभिषेचयेत् || तद्दशांशब्राह्मणभोजनम् | तदन्ते
महतीम्पूजाञ्च कुर्यात् ||
प्. ७४) अथ संक्षिप्तपूजाविधिः
तत्र स्ववामे चतुरस्र/ ल्लिखित्वा तत्र ऽओंह्रःसामान्यार्घ्यंस्थापयामि
इतिपुष्पाक्षतान्प्रक्षिप्य तत्र ऽओं आधारशक्तिभ्यो नमःऽ इति सम्पूज्य
तत्रार्घपात्रं संस्थाप्य ऽनमःऽ इति जलेनापूर्य तस्मिञ्जले
सूर्यमण्डलादङ्कुशमुद्रया तीर्थान्यावाहयेत् | तत्र मन्त्रः
ऽओंगङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धु कावेरि जलेस्मिन्सन्निधिङ्कुरु ||
ओंब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे |
तेन सत्येन मे देव तीर्थन्देहि दिवाकरऽ
इति तीर्थान्यावाह्य ऽओंगङ्गादिसकलतीर्थेभ्यो नमःऽ
इतिपुष्पाक्षतादिभिस्सम्पूज्य ऽओं अर्कमण्डलाय द्वादशकलात्मने
नमःऽ ऽओंवह्निमण्डलायदशकलात्मने नमःऽ ऽओं
सोममण्डलायषोडशकलात्मने नमःऽ
इत्यर्कवह्निसोममण्डलत्रयं सम्पूज्य ऽओं षडङ्गेभ्यो नमःऽ
इतिषडङ्गानि सम्पूज्य अस्त्रे संरक्ष्य कवचेनावगुण्ठ्य ऽवम्ऽ
इतिधेनुमुद्रया अमृतीकृत्य मत्स्यमुद्रया आच्छाद्य प्रणवन्दशकृत्वो
जपेत् || शङ्खमुद्रां सन्दर्श्य धेनुमुद्रायोनिमुद्रे दर्शयेत् |
इतिसामान्यार्घ्यस्थापनविधिः || अथ पूजा || यन्त्र/ ल्लिखित्वा
कुङ्कुमकेशरचन्दनादिभिः
षट्कोणगर्भत्रिकोणत्रयाष्टभूपुरात्मक/ ल्लिखेत् || ततः
ऋष्यादिन्यासङ्कुर्यात् तद्यथा शिरसि भैरवायऋषयेनमः | मुखे
उष्णिक्छन्दसे नमः | हृदये ओंदक्षिणकालिकायै नमः | गुह्ये
क्रींबीजाय नमः | पादयोः हूंशक्तये नमः | सर्वाङ्गे
क्रींकीलकायनमः |ऽ अथ षडङ्गन्यासः || ऽक्रांहृदयाय नमःऽ
इत्यङ्गुलीभिस्तर्ज्जनीमध्यमानामाभिः प्रसारिताभिर्हृदयं स्पृशेत् |
ऽक्रींशिरसेस्वाहाऽ इतितर्जनीमध्यमाभ्यां शिरः स्पृशेत् |
ऽक्रूंशिखायैवषट् |ऽ इतिबद्धमुष्टिनाङ्गुष्ठेन शिखां स्पृशेत् |
ऽक्रैंकवचायहूम्ऽ इति मन्त्रेण व्यस्तहस्ताभ्यां सर्वाङ्गे |
क्रोंनेत्रत्रयायवौषट् ||ऽ इतितर्ज्जन्या अनामया नेत्रे मध्यमया
भ्रूमध्यम् एवन्नेत्रत्रयं स्पृशेत् |
प्. ७५) क्रःअस्त्रायफट् |ऽ इतिछोटिकया दिग्वन्धनङ्कुर्यात् |
एवङ्करन्यासः ऽ क्रांअङ्गुष्ठाभ्या/नमः |
क्रींतर्ज्जनीभ्यांस्वाहा | क्रूंमध्यमाभ्यांवषट् | क्रैं-
अनामिकाभ्यांहूम् | क्रौंकनिष्ठाभ्यांवौषट् |
क्रःकरतलकरपृष्ठाभ्यांफट्ऽ एवन्यास/ व्विधाय दशधा
सप्तधा पञ्चधा व्यापकन्यासङ्कुर्यात् ||
ततश्चतुःषोडशाष्टवारजप्तेन मूलमन्त्रेण
पूरककुम्भकरेचकाख्यम्प्राणायामत्रयङ्कुर्यात् || ततो
दक्षिणकालीन्ध्यायेत् | तत आवाहयेत् | तद्यथा || करकच्छपिकां
सपुष्पाम्बद्ध्वा यथोक्तरूपान्देवीन्ध्यात्वा
हृदयान्नासिकोपरिसमानीय मूलम्पठित्वा ऽएह्येहि महादेवि
पादुकाभ्यान्दयानिधेऽ इत्यञ्जलिस्थपुष्पोपरि समानीय ऽओंदेवेशि
भक्तिसुलभे परिवारसमन्विते | यावत्त्वाम्पूजयिष्यामि तावत्त्वं
सुस्थिरा भवऽ इतियन्त्रोपरि क्षिपेत् || ततो मूलमुच्चार्य ऽसाङ्गे सायुधे
सवाहने सावरणे सपरिवारे दक्षिणकालिके इहागच्छऽ
इत्यावाहनमुद्रयाऽऽवाहयेत् | ऽइहतिष्ठऽ इतिस्थापनमुद्रया स्थापयेत्
| ऽइहसन्निधेहिऽ इतिसन्निधीकरणमुद्रया सन्निधीकरणम्
ऽइहसन्निरुध्यस्वऽ इतिसन्निरोधनमुद्रया सन्निरोधनम् |
ऽइहसन्मुखीभवऽ इतिसन्मुखीकरणमुद्रया सम्मुखीकरणम् | अस्त्रेण
संरक्ष्य, ऽहूम्ऽ इत्यवगुण्ठ्य ऽवम्ऽ इतिधेनुमुद्रयाऽमृतीकृत्य
देवताङ्गे षडङ्गान्विन्यस्य मूलमन्त्रेण सकलीकृत्य
ऽआ/ह्रींक्रोंस्वाहाऽ इति द्वादशवारञ्जप/ ल्लेलिहानमुद्रया
देवतायाः प्राणप्रतिष्ठाङ्कुर्यात् || तद्यथा,
ऽआ/ह्रींक्रोंश्रींदक्षिणकालिकाया
वाङ्मनस्त्वक्चक्षुश्श्रोत्रघ्राणप्राणा इहागत्य सुखञ्चिरन्तिष्ठन्तु
स्वाहाऽ इति हस्तन्दत्त्वा पठेत् || तत्र धेनुमुद्राम्प्रदर्शयेत् || ततो
मूलमन्त्रम्पठन् ऽएष पुष्पाञ्जलिस्साङ्गसायुधसवाहनसावरणस
रिवारदक्षिणकालिकादेवतायैनमःऽ इतिपुष्पाञ्जलिपञ्चकन्दद्यात् ||
एवं सर्वत्र मूलमन्त्रपाठस्साङ्ग इत्यादियोजना च बोध्या ||
ऽइदम्पाद्यमिदमाचमनीयम्ऽ
प्. ७६) ऽएषोऽर्घ्यःऽ ऽएष मधुपर्कःऽ ऽइदम्पुनराचमनीयम्ऽ ऽइदं
स्नानीयन्दक्षिणकालिकादेवतायैनमः ||ऽ ऽइदं रक्तचन्दनानुलेपनम्ऽ
ऽएते अक्षताऽ ऽइमानि पुष्पाणि अमुकदेवतायैवौषट्ऽ एष धूपः एष
दीपः एतानि नैवेद्यानि कालिकादेवतायैनमः ||ऽ इति सङ्क्षेपतः पूजा/
व्विधाय ततो जपमालामानीय, क्वचित्पात्रे वामहस्ते वा स्थापयित्वा,
मूलमन्त्रेणार्ग्घोदकेनाभ्युक्ष्य
ऽओं माले माले महामाये सर्वशक्तिस्वरूपिणि |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव |ऽ
ओं ह्रींसिद्ध्यैनमःऽ इत्यनेन मालान्दक्षिणकरे निधाय हृत्प्रदेशे
समानीय मध्यमामध्यभागेन गुटिकाम्प्रत्येकं स्पृशन्
मेरुमलङ्घयन् शरीरे कामकला/ व्विभाव्य शिरसि गुरुन्ध्यात्वा हृदि
देवीम्भावयन् जिह्वायाम्मन्त्रन्दीपरूपिण/ व्विभाव्य तत्प्रभापटले
जिह्वामपि दीपरूपिणी/ व्विभाव्य मनसा उपांशुना वा करमालया
वर्णमालया वा
संस्कृतमहाशङ्खरुद्राक्षस्फटिकाद्यन्यतममालया वा
मूलमन्त्रमष्टोत्तरशत/ व्वा अद्रुतमविलम्बितम्प्रजप्य मालां
शिरसि
ऽओंत्वम्माले सर्वभूतानां सर्वलोकप्रिया मता |
शिवङ्कुरुष्व मे भद्रे यशोवीर्यञ्च सर्वदाऽ इतिपठन्निधाय
ऽह्रींसिद्ध्यैनमःऽ इति संपूज्य पुनः पूर्ववत्
प्राणायामन्यासादिकञ्च विधाय देवताम्पुष्पाक्षतादिभिः
सम्पूज्य पुष्पचन्दनाक्षतयुतशङ्खोदकेन
ऽओंगुह्यातिगुह्यगोप्त्री त्वङ्गृहाणास्मत्कृतञ्जपम् ||
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि |ऽ
इतिमन्त्रेण देव्या वामकरे तेजोमयञ्जलं ध्यात्वा, समर्पयेत् | ततो
मालां शिरस उत्तार्य
ऽओं त्वम्माले सर्वदेवानां सर्वसिद्धिप्रदा मता |
तेन सत्येन मे सिद्धिन्देहि देवि नमोऽस्तु ते |ऽ
इत्यमुम्मन्त्रम्पठन्सम्पूज्य यत्नतो गोपयेत् | कराद्भ्रष्टे
तच्छान्त्यर्थमष्टोत्तरशतमूलञ्जपेत् ततो देव्यै
पुष्पाञ्जल्यष्टकन्दत्त्वा स्तोत्रकवचादिकम्पठेत् ||
प्. ७७) अथ कर्पूरस्तोत्रम्
कर्पूरम्मध्यमान्त्यस्वरपररहितं सेन्दुवामाक्षियुक्तम्बीजन्ते
मातरेतत्त्रिपुरहरवधु त्रिष्कृत/ यये जपन्ति ||
तेषाङ्गद्यानि पद्यानि च मुखकुहरादुल्लसन्तोव वाचः
स्वच्छन्दध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिङ्गतानाम् || १ ||
ईशानस्सेन्दुवामश्रवणपरिगतम्बीजमन्यन्महेशि द्वन्द्वन्ते
मन्दचेता यदि जपति जनो वारमेकङ्कदाचित् |
जित्वा वाचामधीशन्धनदमषि
चिरम्मोहयत्यम्बुजाक्षीवृन्दञ्चन्द्रार्द्धचूडे प्रभवति स
महाघोररावावतंसे || २ ||
ईशो वैश्वानरस्थश्शशधरविलसद्वामनेत्रेण युक्तम्बीजन्ते
द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ||
द्वेष्टारन्ते निहन्ति त्रिभुवनमसिते वश्यभावन्नयंति
सृक्कद्वन्द्वास्त्रधाराद्वयधरवदने दक्षिणे कालिकेति || ३ ||
ऊर्ध्वं व्वामे कृपाणङ्करतलकमले छिन्नमुण्डन्तथाधः सव्ये
भीति/ व्वरञ्च त्रिजगदघहरे दक्षिणे कालिके च ||
जप्त्वैदतन्नामवर्णन्तव
मनुविभवम्भावयन्तस्तदर्थन्तेषामष्टौ करस्थाः प्रकटितवदने
सिद्धयस्त्र्यम्बकस्य || ४ ||
वर्गाद्य/ व्वह्निसंस्थ/ व्विधुरति ललितन्तत्त्रयङ्कूर्चयुग्म/
ल्लज्जाद्वन्द्वञ्च पश्चात्स्मितमुखि तदधष्ठद्वय/ ययोजयित्वा ||
मातर्ये ये जपन्ति स्मरहरमहिले भावयन्ते स्वरूपन्ते
लक्ष्मीलास्यलीलाकमलदृशः कामरूपा भवन्ति || ५ ||
प्रत्येक/ व्वा द्वय/ व्वा त्रयमपि च परम्बीजमत्यन्तगुह्यन्त्वन्नाम्ना
योजयित्वा सकलमपि सदा भाववन्तो जपन्ति ||
तेषान्नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी
दिव्यमुण्डस्रगतिशयलसत्कण्ठपीनस्तनाढ्ये || ६ ||
गतासूनाम्बाहुप्रकरकृतकाञ्चीपरिलसन्नितम्बान्दिग्वस्त्रान्त्रिभुवन
विधात्रीन्त्रिनयनाम् ||
श्मशानस्थे तल्पे शवहृदि
महाकालसुरतप्रसक्तान्त्वान्ध्यायञ्जननि जडचेता अपि कविः || ७ ||
प्. ७८) शिवाभिर्घोराभिश्शवनिवहमुण्डास्थिनिकरैः परं
सङ्कीर्णायाम्प्रकटितचितायां हरवधूम् ||
प्रविष्टां सन्तुष्टामुपरि सुरते नातियुवतीं सदा त्वान्ध्यायन्ति
क्वचिदपि न तेषाम्परिभवः || ८ ||
वदामस्ते कि/व्वा जननि वयमुच्चैर्ज्जडधियो न धाता नापीशो हरिरपि
न ते वेत्ति परमम् ||
तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते तदेतत्क्षन्तव्यो न खलु
पशुरोषस्समुचितः || ९ ||
समन्तादापीनस्तनजघनधृग्यौवनवतीरतासक्तो नक्त/ ययदि जपति
भक्तस्तव मनुम् |
बिवासास्त्वान्ध्यायन्गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा
भुवि चिरतरञ्जीवति कविः || १० ||
समस्स्वस्थीभूतो जपति विपरीतो सदा विचिन्त्य
त्वान्ध्यायन्नतिशयमहाकालसुरताम् ||
तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्याः
स्मरहरवधू सिद्धिनिवहाः || ११ ||
प्रसूते संसारञ्जननि जगतीम्पालयति वा समस्तङ्क्षित्यादि
प्रलयसमये संहरति च ||
अतस्त्वां धातापि त्रिभुवनपतिः श्रीषतिरपि महेशोपि प्रायः सकलमपि
किं स्तौमि भवतीम् || १२ ||
अनेके सेवन्ते भवदधिकगीर्वाणनिवहा विमूढास्ते मातः किमपि नहि
जानन्ति परमम् ||
समाराध्यामाद्यां हरिहरविरञ्च्यादिविबुधैः प्रपन्नोस्मि स्वैरं
रतिरसमहानन्दनिरताम् || १३ ||
धरित्री कीलालं शुचिरपि समीरोपि गगनन्त्वमेका कल्याणी गिरिशरमणी
कालि सकलम् ||
स्तुतिः का ते मातर्निजकरुणया मामगतिकम्प्रसन्ना त्वम्भूया
भवमनु न भूयान्मम जनुः || १४ ||
श्मशानस्थस्स्वस्थो गलितचिकुरो दिक्पटधरस्सहस्रं
त्वर्क्काणान्निजगलितवीर्येण कुसुमम् ||
जप/स्त्वत्प्रत्येकम्मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति
धरित्रीपरिवृढः || १५ ||
गृहे सम्मार्ज्जन्या परिगलितवीर्यं हि कुसुमं समूलम्मध्याह्ने
वितरति चितायाङ्कुजदिने ||
समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततङ्गजारूढो याति
क्षितिपरिवृढः सत्कविवरः || १६ ||
प्. ७९) स्वपुष्पैराकीर्णङ्कुसुमधनुषो मंदिरमहो पुरो
ध्यायन्ध्यायञ्जपति यदि भक्तस्तव मनुम् ||
स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः पर्यन्ते
परमपदलीनः प्रभवति || १७ ||
त्रिपञ्चारे पीठे शवशिवहृदि
स्मेरवदनाम्महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ||
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामपि जननि
स स्यात्स्मरहरः || १८ ||
सलोमास्थि स्वैरम्पललमपि मार्जारमसिते ||
परञ्चोष्ट्रम्मेषन्नरमहिषयोश्छागमपि वा ||
बलिन्ते पूजायामपि वितरताम्मर्त्त्यवसतां सतां सिद्धिः सर्वा
प्रतिपदमपूर्वा प्रभवति || १९ ||
वशी लक्षम्मन्त्रम्प्रजपति हविष्याशनरतो दिवा
मातर्युष्मच्चरणयुगलध्याननिरतः ||
परन्नक्तन्नग्नो निधुवनविनोदेन च मनुञ्जनो लक्षं
सम्यक्स्मरहरसमानः क्षितितले || २० ||
इदं स्तोत्रं मातस्तव
मनुसमुद्धारणजपस्वरूपाख्यम्पादाम्बुजयुगलपूजाविधियुतम् ||
निशार्द्वे वा पूजासमयमथवा यस्तु पठति प्रलापस्तस्यापि प्रसरति
कवित्वामृतरसः || २१ ||
कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरल/ व्वशस्तस्य क्षोणीपतिरपि
कुबेरप्रतिनिधिः ||
रिपुः कारागारं कलयति च तत्केलिकलया चिरञ्जीवन्मुक्तस्स भवति
सुभक्तः प्रतिजनुः || २२ ||
इति श्रीमहाकालप्रणीतङ्कर्पूरस्तोत्रं सम्पूर्णम् ||
अथ स्तोत्रम्
प्राग्देहस्थो यदाहं तव चरणयुगन्नाश्रितो नार्च्चितोहं
तेनाद्याकीर्तिवर्गैर्ज्जठरजदहनैर्बाद्ध्यमानो बलिष्ठैः ||
क्षिप्त्वा जन्मान्तरान्नः पुनरिह भविता क्वाश्रयः क्वापि सेवा
क्षन्तव्यो मेपराधः प्रकटितवदने कामरूपे कराले || १ ||
बाल्ये बालाभिलापैर्जडितजडमतिर्बाललीला प्रसक्तो
न त्वां जानामि मातः कलिकलुषहराम्भोगमोक्षप्रदात्रीम् ||
नाचारो नैव पूजा न च यजनकथा न स्मृतिर्नैव सेवा
क्षन्तव्यो ० || २ ||
प्. ८०) प्राप्तोहं यौवनञ्चेद्विषधरसदृशैरिन्द्रियैर्दष्टगात्रो
नष्टप्रज्ञः परस्त्रीपरधनहरणे सर्वदा साभिलाषः ||
त्वत्पादाम्भोजयुग्मङ्क्षणमपि मनसा न स्मृतोहङ्कदापि
क्षन्तव्यो ० || ३ ||
प्रौढो भिक्षाभिलाषी सुतदुहितृकलत्रार्थमन्नादिचेष्टः
क्व प्राप्स्ये कुत्र यामीत्यनुदिनमनिशञ्चिन्तया मग्नदेहः ||
नो ते ध्यानन्न चास्था न च भजनविधिर्न्नामसङ्कीर्त्तन/ व्वा
क्षन्तव्यो ० || ४ ||
वृद्धत्वे बुद्धिहीनः कृशविवशतनुश्श्वासकासातिसारैः
कर्मानर्होऽक्षिहीनः प्रगलितदशनः क्षुत्पिपासाभिभूतः ||
पश्चात्तापेन दग्धो मरणमनुदिनन्ध्येयमात्रन्न चान्यत्क्षन्तव्यो ०
|| ५ ||
कृत्वा स्नानं दिनादौ क्वचिदपि सलिलं नो कृतं नैव पुष्पन्ते
नैवेद्यादिकञ्च क्वचिदपि न कृतं नापि भावो न भक्तिः ||
न न्यासो नैव पूजा न च गुणकथनं नापि चार्च्चा कृता ते
क्षन्तव्यो ० || ६ ||
जानामि त्वां न चाहं भवभयहरणी
सर्वसिद्धिप्रदात्रीन्नित्यानन्दोदयाढ्यान्त्रितयगुणमयीन्नित्यशुद्धोद
याढ्याम् ||
मिथ्याकर्माभिलाषैरनुदिनमभितः पीडितो दुःखसङ्घैः
क्षन्तव्यो ० || ७ ||
कालाभ्रां श्यामलाङ्गी/ व्विगलितचिकुराङ्खड्गमुण्डाभिरामान्
त्रासत्राणेष्टदात्रीङ्कुणपगणशिरोमालिनीन्दीर्घनेत्राम् ||
संसारस्यैकसाराम्भवजननहराम्भावितो भावनाभिः
क्षन्तव्यो ० || ८ ||
ब्रह्मा विष्णुस्तथेशः परिणमति सदा
त्वत्पदाम्भोजयुग्मम्भाग्याभावान्न चाहम्भवजननि
भवत्पादयुग्मम्भजामि ||
नित्य/ ल्लोभप्रलोभैः कृतवशमतिः कामुकस्त्वाम्प्रयाचे
क्षन्तव्यो ० || ९ ||
रागद्वेषैः प्रमत्तः कलुषयुततनुः कामनाभोगलुब्धः
कार्याकार्याविचारी कुलमतिरहितः कौलसङ्घैर्विहीनः ||
क्व ध्यानन्ते क्व चार्च्चा क्व च मनु जपन्नैव किञ्चित्कृतोहङ्क्षन्तव्यो
० || १० ||
रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पापचेता
निद्रालस्यप्रसक्तस्सुजठरभरणे व्याकुलः कल्पितात्मा ||
प्. ८१) किन्ते पूजाविधानन्त्वयि क्व च नुमतिः क्वानुरागः क्व चास्था
क्षन्तव्यो ० || ११ ||
मिथ्याव्यामोहरागैः परिवृतमनसः क्लेशसङ्घान्वितस्य
क्षुन्निद्रौघान्वितस्य स्मरणविरहिणः पापकर्मप्रवृत्तेः ||
दारिद्र्यस्य क्व धर्मः क्व च जननि रुचिः क्व स्थितिस्साधुसङ्घैः
क्षन्तव्यो ० || १२ ||
मातस्तातस्य देहाज्जननि जठरगः संस्थितस्त्वद्वशेहन्त्वं हर्त्रां
कारयित्री करणगुणमयी कर्महेतुस्वरूपा ||
त्वम्बुद्धिश्चित्तसंस्थाप्यहमतिभवती सर्वमेतत्क्षमस्व
क्षन्तव्यो ० || १३ ||
त्वम्भूमिस्त्वञ्जलञ्च त्वमसि हुतवहस्त्वञ्जगद्वायुरूपा
त्वञ्चाकाशम्मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा ||
आत्मा त्वञ्चासि मातः परमसि भवती त्वत्परन्नैव किञ्चित्क्षन्तव्यो ० ||
१४ ||
त्वङ्काली त्वञ्च तारा त्वमसि गिरिसुता सुन्दरी भैरवी त्वन्त्वन्दुर्गा
छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् ||
धूमामातङ्गिनी त्वन्त्वमसि च बगला, मङ्गलादिस्तवाख्या
क्षन्तव्यो ० || १५ ||
स्तोत्रेणानेन देवीम्परिणमति जनो यः सदा भक्तियुक्तो
दुष्कृत्यादुर्गसङ्घम्परितरति शत/ व्विघ्नता नाशमेति ||
नाधिर्व्याधिः कदाचिद्भवति यदि पुनस्सर्वदा
सापराधस्सर्वन्तत्कामरूपे त्रिभुवनजननि क्षामयेः पुत्रबुद्ध्या ||
१६ ||
ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा
निःपापी निःकलङ्की कुलपतिकुशलस्सत्यवाग्धार्मिकश्च ||
नित्यानन्दो दयाढ्यः पशुगणविमुखस्सत्पथाचारशीलः
संसाराब्धिं सुखेन प्रतरति गिरिजापादयुग्मावलम्बात् || १७ ||
इति स्तोत्रम् ||
अथ कवचम्
भैरव्युवाच
कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ||
इदानीं श्रोतुमिच्छामि कवचम्पूर्वसूचितम् || १ ||
त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि |
त्वमेव शरणन्नाथ त्राहि मान्दुःखसङ्कटात् || २ ||
प्. ८२) भैरव उवाच
रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे |
श्रीजगन्मङ्गलन्नाम कवचम्मन्त्रविग्रहम् || ३ ||
पठित्वा धारयित्वा च त्रैलोक्यम्मोहयेत्क्षणात् |
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् || ४ ||
योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूत्तमः |
वरतृप्तो जघानैव रावणादिनिशाचरान् || ५ ||
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः |
धनाधिपः कुबेरोपि सुरेशोऽभूच्छचीपतिः || ६ ||
एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये |
श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः || ७ ||
छन्दोऽनुष्टुब्देवता च कालिका दक्षिणेरिता |
जगताम्मोहने दुष्टविजये भुक्तिमुक्तिषु || ८ ||
योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः |
शिरो मे कालिका पातु क्रींकारैकाक्षरी परा || ९ ||
क्रींक्रींक्रीं मे ललाटञ्च कालिका खड्गधारिणी |
हूं हूं पातु नेत्रयुगं ह्रीं ह्रीं पातु श्रुती मम || १० ||
दक्षिणे कालिका पातु घ्राणयुग्मम्महेश्वरी |
क्रींक्रींक्रीं रसनाम्पातु हूं हूं पातु कपोलकम् || ११ ||
वदनं सकलम्पातु ह्री/ ह्री/ स्वाहास्वरूपिणी |
द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा || १२ ||
खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु |
क्रीहू/ह्री/ त्र्यक्षरी पातु चामुण्डा हृदयम्मम || १३ ||
ऐंहू/ओं-ऐं स्तनद्वन्द्वं ह्रींफट्स्वाहा ककुत्स्थला |
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका || १४ ||
क्रींक्रींहूंहूंह्रींह्रींकारी पातु षडक्षरी मम |
क्रीं नाभिम्मध्यदेशञ्च दक्षिणे कालिकाऽवतु || १५ ||
क्रींस्वाहा पातु पृष्ठञ्च कालिका सा दशाक्षरी |
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः || १६ ||
सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता |
ह्रींह्रीं दक्षिणे कालिके हूंहूं पातु कटिद्वयम् || १७ ||
काली दशाक्षरी विद्या स्वाहा मामूरुयुग्मकम् |
ओंक्रींक्रीं मे स्वाहा पातु कालिका जानुनी सदा || १८ ||
कालीहृन्नामविद्येयञ्चतुर्वर्गफलप्रदा |
क्रींह्रींह्रीं पातु सा गुल्फन्दक्षिणे कालिकाऽवतु || १९ ||
प्. ८३) क्रींह्रूंह्रींस्वाहा पदम्पातु चतुर्द्दशाक्षरी मम |
खड्गमुण्डधरा काली वरदाभयधारिणी || २० ||
विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु |
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी || २१ ||
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषा |
नीला घना वलाका च मात्रा मुद्रा मिता च माम् || २२ ||
एतास्सर्वाः खड्गधरा मुण्डमालाविभूषणाः |
रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा || २३ ||
माहेश्वरी च चामुण्डा कौमारी चापराजिता |
वाराही नारसिंही च सर्वाश्चामितभूषणाः || २४ ||
रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मा/ ययथा तथा |
इति ते कथितन्दिव्यङ्कवचम्परमाद्भुतम् || २५ ||
श्रीजगन्मङ्गलन्नाम महाविद्यौघविग्रहम् |
त्रैलोक्याकर्षणम्ब्रह्मन्कवचम्मन्मुखोदितम् || २६ ||
गुरुपूजा/ व्विधायाथ विधिवत्प्रपठेत्ततः |
कवचन्त्रिस्सकृद्वापि यावज्जीवञ्च वा पुनः || २७ ||
एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् |
त्रैलोक्यङ्क्षोभयत्येव कवचस्य प्रसादतः || २८ ||
महाकविर्भवेन्मासं सर्वसिद्धीश्वरो भवेत् |
पुष्पाञ्जलीन्कालिकायै मूलेनैवार्पयेत् सकृत् || २९ ||
शतवर्षसहस्राणाम्पूजायाः फलमाप्नुयात् |
भूर्ज्जे विलिखितञ्चैतत्स्वर्णस्थन्धारयेद्यदि || ३० ||
विशाखायान्दक्षबाहौ कण्ठे वा धारयेद्यदि |
त्रैलोक्यम्मोहयेत्क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् || ३१ ||
पुत्रवान्धनवाञ्श्रीमान्नानाविद्यानिधिर्भवेत् |
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः || ३२ ||
नाशमायाति या नारी वन्ध्या वा मृतपुत्रिनी |
बह्वपत्या जीवतोका भवत्येव न संशयः || ३३ ||
न देयम्परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः |
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् || ३४ ||
स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे सुखे |
पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् || ३५ ||
इदङ्कवचमज्ञात्वा यो भजेद्घोरदक्षिणाम् ||
प्. ८४) शतलक्षम्प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ||
सहस्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् || ३६ ||
इति कवचम् ||
अथ हृदयम्
श्रीमहाकाल उवाच
महाकौतूहलस्तोत्रं हृदयाख्यम्महोत्तमम् |
शृणु प्रिये महागोप्यन्दक्षिणायाः सुगोपितम् || १ ||
अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् |
अन्येभ्यः कुरु गोप्यञ्च सत्यं सत्यञ्च शैलजे || २ ||
श्रीदेव्युवाच
कस्मिन्युगे समुत्पन्नङ्केन स्तोत्रङ्कृतम्पुरा |
तत्सर्वङ्कथ्यतां शम्भो महेश्वर दयानिधे || ३ ||
श्रीमहाकाल उवाच
पुरा प्रजापतेः शीर्षश्छेदनङ्कृतवानहम् |
ब्रह्महत्याकृतैः पापैर्भैरवत्वम्ममागतम् || ४ ||
ब्रह्महत्याविनाशाय कृतं स्तोत्रम्मया प्रिये |
कृत्याविनाशकं स्तोत्रम्ब्रह्महत्यापहारकम् || ५ ||
ऽओं अस्य श्रीदक्षिणकाल्या हृदयस्तोत्रमन्त्रस्य
श्रीमहाकालऋषिरुष्णिक्छन्दः || श्रीदक्षिणकालिकादेवता क्रींबीजं,
ह्रींशक्तिः, नमः कीलकम् || सर्वत्र सर्वदा जपे विनियोगः ||
ओंक्रांहृदयायनमः |
ओंक्रींशिरसेस्वाहा |
ओंक्रूंशिखायैवषट् |
ओंक्रैंकवचायहूम् |
ओंक्रौंनेत्रत्रयायवौषट् |
ओंक्रः-अस्त्रायफट् |
अथ ध्यानम्
ध्यायेत्कालीम्महामायान्त्रिनेत्राम्बहुरूपिणीम् |
चतुर्भुजा/ ल्ललज्जिह्वाम्पूर्णचन्द्रनिभाननाम् || १ ||
नीलोत्पलदलप्रख्यां शत्रुशङ्घविदारिणीम् |
नरमुण्डन्तथा खड्गङ्कमल/ व्वरदन्तथा || २ ||
बिभ्राणां रक्तवदनान्दंष्ट्रालीङ्घोररूपिणीम् |
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् || ३ ||
शवासनस्थितान्देवीम्मुण्डमालाविभूषिताम् |
इति ध्यात्वा महादेवीन्ततस्तु हृदयम्पठेत् || ४ ||
ओं कालिका घोररूपाद्या सर्वकामफलप्रदा |
सर्वदेवस्तुता देवी शत्रुनाशङ्करोतु मे || ५ ||
ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा |
प्. ८५) तव स्नेहान्मयाख्यातन्न देय/ यस्य कस्यचित् || ६ ||
अथ ध्यानम्प्रवक्ष्यामि निशामय परात्मिके |
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति || ७ ||
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् |
जटाजूटाञ्च सञ्चिन्त्य महाकालसमीपगाम् || ८ ||
एवन्न्यासादयस्सर्वे ये प्रकुर्वन्ति मानवाः |
प्राप्नुवन्ति च ते मोक्ष सत्यं सत्य/ व्वरानने || ९ ||
यन्त्रं शृणु परन्देव्यास्सर्वार्थसिद्धिदायकम् |
गोप्याद्गोप्यतरं गोप्यङ्गोप्याद्गोप्यतरम्महत् || १० ||
त्रिकोणम्पञ्चकञ्चाष्टकमलम्भूपुरान्वितम् |
मुण्डपङ्क्तिञ्च ज्वालाञ्च कालियन्त्रं सुसिद्धिदम् || ११ ||
मन्त्रन्तु पूर्वकथितन्धारयस्व सदा प्रिये |
देव्या दक्षिणकाल्यास्तु नाममालान्निशामय || १२ ||
काली दक्षिणकाली च कृष्णरूपा परात्मिका |
मुण्डमाली विशालाक्षी सृष्टिसंहारकारिका || १३ ||
स्थितिरूपा महामाया योगनिद्रा भगात्मिका |
भगसर्पिः पानरता भगोद्योता भगाङ्गजा || १४ ||
आद्या सदा नवा घोरा महातेजाः करालिका |
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती || १५ ||
एतानि नाममाल्यानि ये पठन्ति दिने दिने |
तेषान्दासस्य दासोऽहं सत्यं सत्यम्महेश्वरि || १६ ||
कालीङ्कालहरान्देवीङ्कङ्कालबीजरूपिणीम् |
काकरूपाङ्कलातीताङ्कालिकान्दक्षिणाम्भजे || १७ ||
कुण्डगोलप्रियान्देवीं स्वयम्भूकुसुमेरताम् |
रतिप्रियाम्महारौद्रीङ्कालिकाम्प्रणमाम्यहम् || १८ ||
दूतीप्रियाम्महादूतीन्दूतीयोगेश्वरीम्पराम् |
दूतीयोगोद्भवरतान्दूतीरूपान्नमाम्यहम् || १९ ||
क्रींमन्त्रेण जलञ्जप्त्वा सप्तधा सेचनेन तु |
सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा || २० ||
क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्तत्तः |
तिलकङ्क्रियते प्राज्ञैर्ल्लोको वश्यो भवेत्सदा || २१ ||
क्रींह्रू/ह्रींमन्त्रजप्तेन चाक्षतं सप्तभिः प्रिये |
महाभयविनाशश्च जायते नात्र संशयः || २२ ||
क्रींह्रींह्रू/स्वाहामन्त्रेण श्मशानाग्निञ्च मन्त्रयेत् |
प्. ८६) शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्ब्भविष्यति || २३ ||
ह्रू/ह्रींक्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा |
रिपूणाञ्चैव चोच्चाटन्नयत्येव न संशयः || २४ ||
आकर्षणे च क्रींक्रींक्रीं जप्त्वाऽक्षतम्प्रतिक्षिपेत् |
सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये || २५ ||
क्रींक्रींक्रींह्रू/ह्रू/ह्रींह्रीं च कज्जलं शोधितन्तथा |
तिलकेन जगन्मोहं सप्तधा मन्त्रमाचरेत् || २६ ||
हृदयम्परमेशानि सर्वपापहरम्परम् |
अश्वमेधादिदानानाङ्कोटिकोटिगुणोत्तरम् || २७ ||
कन्यादानादिदानानाङ्कोटिकोटिगुणम्फलम् |
दूतीयागादियागानाङ्कोटिकोटिफलं स्मृतम् || २८ ||
गङ्गादिसर्वतीर्थानाम्फलङ्कोटिगुणं स्मृतम् ||
एकधा पाठमात्रेण सत्यं सत्यम्मयोदितम् || २९ ||
कौमारी स्वेष्टरूपेण पूजाङ्कृत्वा विधानतः |
पठेत्स्तोत्रम्महेशानि जीवन्मुक्तस्स उच्यते || ३० ||
रजस्वलाभगन्दृष्ट्वा पठेदेकाग्रमानसः |
लभते परमं स्थानन्देवीलोके वरानने || ३१ ||
महादुःखे महारोगे महासङ्कटके दिने |
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् |
सत्यं सत्यम्पुनस्सत्यङ्गोपयेन्मातृजारवत् || ३२ ||
इति हृदयं समाप्तम् ||
अथोपनिषद्
अथ हैनाम्ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति
सुभगाङ्कामरेफेन्दिरां समष्टिरूपिणीमादौ
तदन्वकर्तुर्बीजद्वयकूर्च्चबीजन्तद्धोमषष्ठस्वरबिन्दुमेलनं
रूपन्तदनुभुवना द्वयभुवना तु
व्योमज्वलनेन्दिराशून्यमेलनरूपा दक्षिणे कालिके
वेत्यभिमुखङ्गता तदनु बीजसप्तकमुच्चार्य
बृहद्भानुजायामुच्चरेत् | अयं सर्वमन्त्रोत्तमोत्तम इमं सकृज्जपन् स
तु विश्वेश्वरः स तु नारीश्वरः स तु वेदेश्वरः स सर्वगुरुः
सर्वनमस्यः सर्वेषु वेदेष्वधिश्रितो भवति स सर्वेषु तीर्थेषु स्नातो
भवति सर्वेषु यज्ञेषु दीक्षितो भवति स स्वयं सदाशिवः
प्. ८७) त्रिकोणन्त्रिकोणन्त्रिकोणम्पुनश्चैव न्त्रिकोणन्त्रिकोणन्ततो वसुदलं
सार्द्धचन्द्रकेसर/ युग्मशो विलिख्य सम्भृतम्भूपुरैकेन युतं
सर्वज्ञेनाभ्यर्च्य तस्मिन् देवीदले रेखाया/ व्विन्यस्य ध्येया
अभिनवजलदवदना घनस्तनी कुटिलदंष्ट्रा शवासना
वराभयखड्गमुण्डमण्डितहस्ता कालिका ध्येया काली कपालिनी
कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्तेति षट्कोणगाः | उग्रा उग्रप्रभा दीप्ता
नीला घना बलाका मात्रा मुद्रा मितेति नवकोणगाः
इत्थम्पञ्चदशकोणगाः | ब्राह्मी नारायणी माहेश्वरी चामुण्डा
कौमारी अपराजिता वाराही नारसिंहीत्यष्टपत्रगाः |
चतुष्.कोणगाश्चत्वारो देवाः माधव-रुद्र-विनायक-सौराः |
चतुर्द्दिक्षु इन्द्र-यम-वरुण-कुबेराः | देवीं सर्वाङ्गेनादौ सम्पूज्य
भगोदकेन तर्पणम्पञ्चमकारेण पूजनमेतस्याः सपर्यायाः
किमधिकन्नो शक्यम्ब्रह्मादि पदं हेयं हेलया प्राप्नोति एतस्या
एकद्वित्रिक्रमेण मनवो भवन्ति नारिमित्रादिलक्षणमत्र वर्त्तते
अमुष्यमन्त्रपाठकस्य गतिरस्ति नान्यस्येह गतिरस्ति एतस्यास्तारा
मनोर्दुर्गा मनोर्वा सिद्धिः इदानीन्तु सर्वाः स्वप्नभूता असितैव
जागर्ति इमामसिताज्ञामुपनिषद/ ययो वाऽधीते सोऽपुत्रः पुत्रीभवति
निर्द्धनो धनायति धर्मार्थकाममोक्षाणाम्पात्रीयत्यन्यस्य
वरदः दृष्ट्वा जगन्मोहयति क्रोधस्तञ्जहाति
गङ्गादितीर्थक्षेत्राणामग्निष्टोमादियज्ञानां फलभागीयति ||
इत्यथर्वणवेदे सौभाग्यकाण्डे कालिकोपनिषत्समाप्ता ||
अथ शतनाम
भैरव उवाच
शतनाम प्रवक्ष्यामि कालिकाया वरानने |
यस्य प्रपठनाद्वाग्ग्मी सर्वत्र विजयी भवेत् || १ ||
काली कपालिनी कान्ता कामदा कामसुन्दरी |
कालरात्रिः कालिका च कालभैरवपूजिता || २ ||
कुरुकुल्ला कामिनी च कामनीयस्वभाविनी |
कुलीना कुलकर्त्री च कुलवर्त्त्मप्रकाशिनी || ३ ||
कस्तूरीरसनीला च काम्या कामस्वरूपिणी |
प्. ८८) ककारवर्णनिलया कामधेनुः करालिका || ४ ||
कुलकान्ता करालास्या कामार्त्ता च कलावती |
कृशोदरी च कामाख्या कौमारी कुलपालिनी || ५ ||
कुलजा कुलकन्या च कलहा कुलपूजिता |
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी || ६ ||
कामदात्री कामहत्री कृष्णा चैव कपर्द्दिनी |
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता || ७ ||
काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा |
क्रींरूपा कुलगम्या च कमला कृष्णपूजिता || ८ ||
कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी |
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी || ९ ||
कुलस्त्री कीर्त्तिका कृत्या कीर्तिश्च कुलपालिका |
कामदेवकला कल्पलता कामाङ्गवर्द्धिनी || १० ||
कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका |
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी || ११ ||
कुमारीपूजनरता कुमारीगणशोभिता |
कुमारीरञ्जनरता कुमारीव्रतधारिणी || १२ ||
कङ्काली कमनीया च कामशास्त्रविशारदा |
कपालखट्वाङ्गधरा कालभैरवरूपिणी || १३ ||
कोटरी कोटराक्षी च काशी कैलासवासिनी |
कात्यायिनी कार्यकरी काव्यशास्त्रप्रमोदिनी || १४ ||
कामाकर्षणरूपा च कामपीठनिवासिनी |
कङ्किनी काकिनी क्रीडा कुत्सिता कलहप्रिया || १५ ||
कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्द्धिनी |
कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया || १६ ||
कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा |
इति ते कथितन्देवि गुह्याद्गुह्यतरम्परम् || १७ ||
प्रपठेद्य इदन्नित्यङ्कालीनाम शताष्टकम् |
त्रिषु लोकेषु देवेशि तस्यासाध्यन्न विद्यते || १८ ||
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि |
यः पठेत्परया भक्त्या कालीनाम शताष्टकम् || १९ ||
कालिका तस्य गेहे च संस्थानङ्कुरुते सदा |
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः || २० ||
वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये |
प्. ८९) शताष्टकञ्जपन्मन्त्री लभते क्षेममुत्तमम् || २१ ||
कालीं संस्थाप्य विधिवत्स्तुत्वा नामशताष्टकैः |
साधकस्सिद्धिमाप्नोति कालिकायाः प्रसादतः || २२ ||
इत्यष्टोत्तरशतनाम समाप्तम् ||
अथ सहस्रनाम
कैलाशशिखरे रम्ये नानादेवगणावृते |
नानावृक्षलताकीर्णे नानापुष्पैरलङ्कृते || १ ||
चतुर्मण्डलस/ययुक्ते शृङ्गारमण्डपे स्थिते |
समाधौ संस्थितं शान्तङ्क्रीडन्त/ ययोगिनीप्रियम् || २ ||
तत्र मौनधरन्दृष्ट्वा देवी पृच्छति शङ्करम् |
देव्युवाच
किन्त्वया जप्यते देव किन्त्वया स्मर्यते सदा || ३ ||
सृष्टिः कुत्र विलीनास्ति पुनः कुत्र प्रजायते |
ब्रह्माण्डकारण/ ययत्तत्किमाद्यङ्कारणम्महत् || ४ ||
मनोरथमयी सिद्धिस्तथा वाञ्छामयी शिव |
तृतीया कल्पनासिद्धिः कोटिसिद्धीश्वरत्वकम् || ५ ||
शक्तिपाताष्टदशकञ्चराचरपुरीगतिः |
महेन्द्रजालमिन्द्रादिजालानां रचनान्तथा || ६ ||
अणिमाद्यष्टकन्देव परकायप्रवेशनम् |
नवीनसृष्टिकरणं समुद्रशोषणन्तथा || ७ ||
अमायाञ्चन्द्रसन्दर्शो दिवा चन्द्रप्रकाशनम् |
चन्द्राष्टकञ्चाष्टदिक्षु तथा सूर्याष्टकं शिव || ८ ||
जले जलमयत्वञ्च वह्नौ वह्निमयत्वकम् |
ब्रह्मविष्ण्वादिनिर्माणमिन्द्राणाङ्कारणङ्करे || ९ ||
पातालगुटिका यक्षवेतालपञ्चकन्तथा |
रसायनन्तथा गुप्तिस्तथैव चाखिलाञ्जनम् || १० ||
महामधुमती सिद्धिस्तथा पद्मावती शिव |
तथा भोगवती सिद्धिर्यावत्यः सन्ति सिद्धयः || ११ ||
केन मन्त्रेण तपसा कलौ पापसमाकुले |
आयुष्यम्पुण्यरहिते कथम्भवति तद्वद || १२ ||
शिव उवाच
विना मन्त्र/ व्विना स्तोत्रं व्विनैव तपसा प्रिये |
विना बलि/ व्विना न्यासम्भूतशुद्धि/ व्विना प्रिये || १३ ||
विना ध्यान/ व्विना यन्त्र/ व्विना पूजादिना प्रिये |
विना क्लेशादिभिर्देवि देहदुःखादिभिर्विना || १४ ||
सिद्धिराशु भवेद्येन तदेवङ्कथ्यते मया |
प्. ९०) शून्ये ब्रह्माण्डगोले तु पञ्चाशच्छून्यमध्यके || १५ ||
पञ्चशून्यस्थिता तारा सर्वान्ते कालिका स्मृता |
अनन्तकोटिब्रह्माण्ड-राजदन्ताग्रके शिवे || १६ ||
स्थाप्य शून्यालयङ्कृत्वा कृष्णवर्ण/ विधाय च |
महानिर्गुणरूपा च वाचातीता परा कला || १७ ||
क्रीडायां संस्थिता देवी शून्यरूपा प्रकल्पयेत् |
सृष्टेरारम्भकार्ये तु दृष्टा छाया तया यदा || १८ ||
इच्छाशक्तिस्तु सा जाता तया कालो विनिर्म्मितः |
प्रतिबिम्बन्तत्र दृष्टञ्जाता ज्ञानाभिधा तु सा || १९ ||
इदमेतत्कि/ विशिष्टञ्जात/ व्विज्ञानकम्मुदा |
तदा क्रियाभिधा जाता तदीक्षातो महेश्वरी || २० ||
ब्रह्माण्डगोले देवेशि राजदन्तस्थितञ्च यत् |
सा क्रिया स्थापयामास स्वस्वस्थानक्रमेण च || २१ ||
तत्रैव स्वेच्छया देवि सामरस्य परायणा |
तदिच्छा कथ्यते देवि यथावदवधारय || २२ ||
युगादिसमये देवि शिवम्परगुणोत्तमम् |
तदिच्छा निर्गुणं शान्तं सच्चिदानन्दविग्रहम् || २३ ||
शाश्वतं सुंदरं शुक्लं सर्वदेवयुत/ व्वरम् |
आदिनाथङ्गुणातीतङ्काल्या संयुतमीश्वरम् || २४ ||
विपरीतरतन्देवं सामरस्यपरायणम् |
पूजार्थमागतन्देवगन्धर्वाप्सरसाङ्गणम् || २५ ||
यक्षिणीं किन्नरीमन्यामुर्वश्याद्यान्तिलोत्तमाम् |
वीक्ष्य तन्मायया प्राह सुन्दरी प्राणवल्लभा || २६ ||
त्रैलोक्यसुन्दरी प्राणस्वामिनी प्राणरञ्जिनी |
किमागतम्भवत्याद्य मम भाग्यार्णवो महान् || २७ ||
उक्त्वा मौनधरं शम्भुम्पूजयन्त्यप्सरोगणाः |
अप्सरस ऊचुः ||
संसारात्तारितन्देव त्वया विश्वं जनप्रिय || २८ ||
सृष्टेरारम्भकार्यार्थमुद्युक्तोसि महाप्रभो |
वेश्याकृत्यमिदन्देव मङ्गलार्थप्रगायनम् || २९ ||
प्रयाणोत्सवकाले तु समारम्भे प्रगायनम् |
गुणाद्यारम्भकालो हि वर्त्तते शिवशङ्कर || ३० ||
इन्द्राणीकोटयः सन्ति तस्याः प्रसवबिन्दुतः |
प्. ९१) ब्रह्माणी वैष्णवी चैव माहेशीकोटिकोटयः || ३१ ||
तव सामरसानन्ददर्शनार्थं समुद्भवाः |
सञ्जाताश्चाग्रतो देव चास्माकं सौख्यसागर || ३२ ||
रतिं हित्वा कामिनीनां नान्यत्सौख्यं महेश्वर |
सा रतिर्दृश्यतेऽस्माभिम्मर्हत्सौख्यार्थकारिका || ३३ ||
एवमेतत्तु चास्माभिः कर्त्तव्यं भर्तृणा सह |
एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः || ३४ ||
ध्यानं हित्वा मायया तु प्रोवाच कालिकाम्प्रति |
कालि कालि रुण्डमाले प्रिये भैरववादिनि || ३५ ||
शिवारूपधरे क्रूरे घोरदंष्ट्रे भयानके |
त्रैलोक्यसुन्दरकरी-सुन्दर्यः सन्ति मेऽग्रतः || ३६ ||
सुन्दरीवीक्षणङ्कर्म कुरु कालि प्रिये शिवे |
ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहम्प्रति || ३७ ||
तव रूपम्महाकालि महाकालप्रियङ्करम् |
एतासां सुन्दरं रूपन्त्रैलोक्यप्रियकारकम् || ३८ ||
एवं मायाप्रभाविष्टो महाकालो वदन्निति |
इति कालवचः श्रुत्वा कालम्प्राह च कालिका || ३९ ||
माययाच्छाद्य चात्मानं निजस्त्रीरूपधारिणी |
इतः प्रभृति स्त्रीमात्रम्भविष्यति युगे युगे || ४० ||
वल्ल्याद्यौषधयो देवि दिवा वल्लीस्वरूपताम् |
रात्रौ स्त्रीरूपमासाद्य रतिकेलिः परस्परम् || ४१ ||
अज्ञानञ्चैव सर्वेषाम्भविष्यति युगे युगे |
एवं शापञ्च दत्त्वा तु पुनः प्रोवाच कालिका || ४२ ||
बिपरीतरतिङ्कृत्वा चिन्तयन्ति भजन्ति ये |
तेषा/ व्वरम्प्रदास्यामि नित्यन्तत्र वसाम्यहम् || ४३ ||
इत्युक्त्वा कालिका विद्या तत्रैवान्तरधीयत |
त्रिंशत्त्रिखर्वषड्वृन्दनवत्यर्बुदकोटयः || ४४ ||
दर्शनार्थन्तपस्तेपे सा वै कुत्र गता प्रिया |
मम प्राणप्रिया देवी हाहा प्राणप्रिये शिवे || ४५ ||
किङ्करोमि क्व गच्छामि इत्येवम्भ्रमसङ्कुलः |
तस्याः काल्या दया जाता मम चिन्तापरः शिवः || ४६ ||
यन्त्रप्रस्तारबुद्धिस्तु काल्या दत्तातिसत्वरम् |
यन्त्रयागन्तदारभ्य पूर्व बिन्दुत्वगोचरम् || ४७ ||
प्. ९२) श्रीचक्रं यन्त्रप्रस्तार-रचनाभ्यासतत्परः |
इतस्ततो भ्राम्यमाणस्त्रैलोक्यञ्चक्रमध्यकम् || ४८ ||
चक्रपारन्दर्शनार्थङ्कोट्यर्बुदयुगङ्गतम् |
भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका || ४९ ||
तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् |
रूपञ्जातम्महेशानि जाग्रत्त्रिपुरसुन्दरि || ५० ||
रूपन्दृष्ट्वा महादेवो राजराजेश्वरोऽभवत् |
तस्याः कटाक्षमात्रेण तस्या रूपधरः शिवः || ५१ ||
विना शृङ्गारस/ययुक्ता तदा जाता महेश्वरी |
विना काल्यंशतो देवि जगत्स्थावरजङ्गमम् || ५२ ||
न शृङ्गारो न शक्तित्वं क्वापि नास्ति महेश्वरी |
सुन्दर्या प्रार्थिता काली तुष्टा प्रोवाच कालिका || ५३ ||
सर्वासान्नेत्रकेशे च ममांशोऽत्र भविष्यति |
पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये || ५४ ||
सावस्था तरुणाख्या तु तदन्ते नैव तिष्ठति |
मद्भक्तानाम्महेशानि सदा तिष्ठति निश्चितम् || ५५ ||
शक्तिस्तु कुण्ठिता जाता तथा रूपं न सुन्दरम् |
चिन्ताविष्टा तु मालिना जाता तत्र तु सुन्दरी || ५६ ||
क्षणं स्थित्वा ध्यानपरा काली चिन्तनतत्परा |
तदा काली प्रसन्नाभूत्क्षणार्द्धेन महेश्वरी || ५७ ||
वरम्ब्रूहि वर्म्ब्रूहि वरम्ब्रूहीति सादरम् |
सुन्दर्युवाच ||
मम सिद्धिवरन्देहि वरो यः प्रार्थ्यते मया || ५८ ||
तागुदृपायङ्कथय येन शक्तिर्भविष्यति |
श्रीकाल्युवाच ||
मम नामसहस्रञ्च मया पूर्व/ विनिर्मितम् || ५९ ||
मत्स्वरूपङ्ककाराख्यम्महासाम्राज्यनामकम् |
वरदानाभिधन्नाम क्षणार्द्धाद्वरदायकम् || ६० ||
तत्पठस्व महामाये तव शक्तिर्भविष्यति |
ततः प्रभृति श्रीविद्या तन्नामपाठतत्परा || ६१ ||
तदेव नामसाहस्रं सुन्दरीशक्तिदायकम् |
कथ्यते नामसाहस्रं सावधानमनाः शृणु || ६२ ||
सर्वसाम्राज्यमेधाख्य-नामसाहस्रकस्य च |
महाकाल ऋषिः प्रोक्त उष्णिक्छन्दः प्रक्रीर्तितम् || ६३ ||
देवता दक्षिणा काली मायाबीजम्प्रकीर्तितम् |
हू/शक्तिः कालिकाबीजङ्कीलकम्परिकीर्तितम् || ६४ ||
प्. ९३) ध्यानञ्च पूर्ववत्कृत्वा साधयस्वेष्टसाधनम् |
कालिकावरदानादिस्वेष्टार्थे विनियोगतः || ६५ ||
कीलकेन षडङ्गानि षड्दीर्ग्घाब्जेन कारयेत् |
ओमस्य
श्रीसर्वसाम्राज्यमेधानामकालीरूपककारात्मकसहस्रनामस्तोत्रम्
अन्त्रस्य महाकाल ऋषिरनुष्टुप्छन्दः श्रीदक्षिणमहाकाली देवता,
ह्रीं बीजम्, हूं शक्तिः, क्रींकीलकङ्कालीवरदानाद्यखिलेष्टार्थे
जपे विनियोगः ||
ओंक्रींङ्काली क्रूंकराली च कल्याणी कमला कला |
कलावती कलाढ्या च कलापूज्या कलात्मिका | १ ||
कलादृष्टा कलापुष्टा कलामस्ता कलाधरा |
कलाकोटिसमाभासा कलाकोटिप्रपूजिता || २ ||
कलाकर्मकलाधारा कलापारा कलागमा |
कलाधारा कमलिनी ककारा करुणा कविः || ३ ||
ककारवर्णसर्वाङ्गी कलाकोटिप्रभूषिता |
ककारकोटिगुणिता ककारकोटिभूषणा || ४ ||
ककारवर्णहृदया ककारमनुमण्डिता |
ककारवर्णनिलया काकशब्दपरायणा || ५ ||
ककारवर्णमुकुटा ककारवर्णभूषणा |
ककारवर्णरूपा च ककशब्दपरायणा || ६ ||
ककवीरास्फालरता कमलाकरपूजिता |
कमलाकरनाथा च कमलाकररूपधृक् || ७ ||
कमलाकरसिद्धिस्था कमलाकरपारदा |
कमलाकरमध्यस्था कमलाकरतोषिता || ८ ||
कथङ्कारपरालापा कथङ्कारपरायणा |
कथङ्कारपदान्तस्था कथङ्कारपदार्थभूः || ९ ||
कमलाक्षी कमलजा कमलाक्षप्रपूजिता |
कमलाक्षवरोद्युक्ता ककाराकर्बुराक्षरा || १० ||
करतारा करच्छिन्ना करश्यामा करार्णवा |
करपूज्या कररता करदा करपूजिता || ११ ||
करतोया करामर्षा कर्मनाशा करप्रिया |
करप्राणा करकजा करका करकान्तरा || १२ ||
करकाचलरूपा च करकाचलशोभिनी |
करकाचलपुत्री च करकाचलतोषिता || १३ ||
करकाचलगेहस्था करकाचलरक्षिणी |
करकाचलसम्मान्या करकाचलकारिणी || १४ ||
करकाचलवर्षाढ्या करकाचलरञ्जिता |
प्. ९४) करकाचलकान्तारा करकाचलमालिनी ||१५ ||
करकाचलभोज्या च करकाचलरूपिणी |
करामलकसंस्था च करामलकसिद्धिदा || १६ ||
करामलकसम्पूज्या करामलकतारिणी |
करामलककाली च करामलकरोचिनी || १७ ||
करामलकमाता च करामलकसेविनी |
करामलकवद्ध्येया करामलकदायिनी || १८ ||
कञ्जनेत्रा कञ्जगतिः कञ्जस्था कञ्जधारिणी |
कञ्जमालाप्रियकरी कञ्जरूपा च कञ्जना || १९ ||
कञ्जजातिः कञ्जगतिः कञ्जहोमपरायणा |
कञ्जमण्डलमध्यस्था कञ्जाभरणभूषिता || २० ||
कञ्जसम्माननिरता कञ्जोत्पत्तिपरायणा |
कञ्जराशिसमाकारा कञ्जारण्यनिवासिनी || २१ ||
करञ्जवृक्षमध्यस्था करञ्जवृक्षवासिनी |
करञ्जफलभूषाढ्या करञ्जारण्यवासिनी || २२ ||
करञ्जमालाभरणा करवालपरायणा |
करवालप्रहृष्टात्मा करवालप्रियागतिः || २३ ||
करवालप्रियाकन्था करवालविहारिणी |
करवालमयीकर्मा करवालप्रियङ्करी || २४ ||
कबन्धमालाभरणा कबन्धराशिमध्यगा |
कबन्धकूटसंस्थाना कबन्धानन्तभूषणा || २५ ||
कबन्धनादसंतुष्टा कबन्धासनधारिणी |
कबन्धगृहमध्यस्था कबन्धवनवासिनी || २६ ||
कबन्धकाञ्चीकरणी कबन्धराशिभूषणा |
कबन्धमालाजयदा कबन्धदेहवासिनी || २७ ||
कबन्धासनमान्या च कपालमाल्यधारिणी |
कपालमालामध्यस्था कपालव्रततोषिता || २८ ||
कपालदीपसन्तुष्टा कपालदीपरूपिणी |
कपालदीपवरदा कपालकज्जलस्थिता || २९ ||
कपालमालाजयदा कपालजपतोषिणी |
कपालसिद्धिसंहृष्टा कपालभोजनोद्यता || ३० ||
कपालव्रतसंस्थाना कपालकमलालया |
कवित्वामृतसारा च कवित्वामृतसागरा || ३१ ||
कवित्वसिद्धिसंहृष्टा कवित्वादानकारिणी |
कविपूज्या कविगतिः कविरूपा कविप्रिया || ३२ ||
कविब्रह्मानन्दरूपा कवित्वव्रततोषिता |
प्. ९५) कविमानससंस्थाना कविवाञ्छाप्रपूरिणी || ३३ ||
कविकण्ठस्थिता कंह्रींकंकंकंकविपूर्त्तिदा |
कज्जला कज्जलादानमानसा कज्जलप्रिया || ३४ ||
कपालकज्जलसमा कज्जलेशप्रपूजिता |
कज्जलार्णवमध्यस्था कज्जलानन्दरूपिणी || ३५ ||
कज्जलप्रियसन्तुष्टा कज्जलप्रियतोषिणी |
कपालमालाभरणा कपालकरभूषणा || ३६ ||
कपालकरभूषाढ्या कपालचक्रमण्डिता |
कपालकोटिनिलया कपालदुर्गकारिणी || ३७ ||
कपालगिरिसंस्थाना कपालचक्रवासिनी |
कपालपात्रसन्तुष्टा कपालार्घ्यपरायणा || ३८ ||
कपालार्घ्यप्रियप्राणा कपालार्घ्यवरप्रदा |
कपालचक्ररूपा च कपालरूपमात्रगा || ३९ ||
कदली कदलीरूपा कदलीवनवासिनी |
कदलीपुष्पसम्प्रीता कदलीफलमानसा || ४० ||
कदलीहोमसन्तुष्टा कदलीदर्शनोद्यता |
कदली गर्भमध्यस्था कदलीवनसुन्दरी || ४१ ||
कदम्बपुष्पनिलया कदम्बवनमध्यगा |
कदम्बकुसुमामोदा कदम्बवनतोषिणी || ४२ ||
कदम्बपुष्पसम्पूज्या कदम्बपुष्पहोमदा |
कदम्बपुष्पमध्यस्था कदम्बफलभोजिनी || ४३ ||
कदम्बकाननांतःस्था कदम्बाचलवासिनी |
कक्षपा कक्षपाराध्या कक्षपासनसंस्थिता || ४४ ||
कर्णपूरा कर्णनासा कर्णाढ्या कालभैरवी |
कलप्रीता कलहदा कलहा कलहातुरा || ४५ ||
कर्णयक्षी कर्णवार्त्ता कथिनी कर्णसुन्दरी |
कर्णपिशाचिनी कर्णमञ्जरी कपिकक्षदा || ४६ ||
कविकक्षाविरूपाढ्या कविकक्षस्वरूपिणी |
कस्तूरीमृगसंस्थाना कस्तूरीमृगरूपिणी || ४७ ||
कस्तूरीमृगसन्तोषा कस्तूरीमृगमध्यगा |
कस्तूरीरसनीलाङ्गी कस्तूरीगन्धतोषिता || ४८ ||
कस्तूरीपूजकप्राणा कस्तूरीपूजकप्रिया |
कस्तूरीप्रेमसन्तुष्टा कस्तूरीप्राणधारिणी || ४९ ||
कस्तूरीपूजकानन्दा कस्तूरीगन्धरूपिणी |
कस्तूरीमालिकारूपा कस्तूरीभोजनप्रिया || ५० ||
कस्तूरीतिलकानन्दा कस्तूरीतिलकप्रिया |
प्. ५१) कस्तूरीहोमसन्तुष्टा कस्तूरीतर्पणोद्यता || ५१ ||
कस्तूरीमार्जनोद्युक्ता कस्तूरीचक्रपूजिता |
कस्तूरीपुष्पसम्पूज्या कस्तूरीचर्वणोद्यता || ५२ ||
कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी |
कस्तूरिकामोदरता कस्तूरीवनवासिनी || ५३ ||
कस्तूरीवनसंरक्षा कस्तूरीप्रेमधारिणी |
कस्तूरीशक्तिनिलया कस्तूरीशक्तिकुण्डगा || ५४ ||
कस्तूरीकुण्डसंस्नाता कस्तूरीकुण्डमज्जना |
कस्तूरीजीवसन्तुष्टा कस्तूरीजीवधारिणी || ५५ ||
कस्तूरीपरमामोदा कस्तूरीजीवनक्षमा |
कस्तूरीजातिभावस्था कस्तूरीगन्धचुम्बना || ५६ ||
कस्तूरीगन्धसंशोभा-विराजितकपालभूः |
कस्तूरीमदनान्तःस्था कस्तूरीमदहर्षदा || ५७ ||
कस्तूरीकवितानाढ्या कस्तूरीगृहमध्यगा |
कस्तूरीस्पर्शकप्राणा कस्तूरीविन्दकान्तका || ५८ ||
कस्तूर्यामोदरसिका कस्तूरीक्रीडनोद्यता |
कस्तूरीदाननिरता कस्तूरीवरदायिनी || ५९ ||
कस्तूरीस्थापनासक्ता कस्तूरीस्थानरञ्जिनी |
कस्तूरीकुशलप्रश्ना कस्तूरीस्तुतिवन्दिता || ६० ||
कस्तूरीवन्दकाराध्या कस्तूरीस्थानवासिनी |
कहरूपा कहाढ्या च कहानन्दा कहात्मभूः || ६१ ||
कहपूज्या कहात्याख्या कहहेया कहात्मिका |
कहमाला कण्ठभूषा कहमन्त्रजपोद्यता || ६२ ||
कहनामस्मृतिपरा कहनामपरायणा |
कहपरायणरता कहदेवी कहेश्वरी || ६३ ||
कहहेतुकहानन्दा कहनादपरायणा |
कहमाता कहान्तस्था कहमन्त्रा कहेश्वरा || ६४ ||
कहगेया कहाराध्या कहध्यानपरायणा |
कहतन्त्रा कहकहा कहचर्यापरायणा || ६५ ||
कहाचारा कहगतिः कहताण्डवकारिणी |
कहारण्या कहगतिः कहशक्तिपरायणा || ६६ ||
कहराज्यनता कर्मसाक्षिणी कर्मसुन्दरी |
कर्मविद्या कर्मगतिः कर्मतन्त्रपरायणा || ६७ ||
कर्ममात्रा कर्मगात्रा कर्मधर्मपरायणा |
कर्मरेखानाशकर्त्री कर्मरेखाविनोदिनी || ६८ ||
प्. ९७) कर्मरेखामोहकारी कर्मकीर्तिपरायणा |
कर्मविद्या कर्मसारा कर्माधारा च कर्मभूः || ६९ ||
कर्मकारी कर्महारी कर्मकौतुकसुन्दरी |
कर्मकाली कर्मतारा कर्मच्छिना च कर्मदा || ७० ||
कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः |
कर्मकाण्डरतानन्ता कर्मकाण्डानुमानिता || ७१ ||
कर्मकाण्डपरीणाहा कमठी कमठाकृतिः |
कमठाराध्यहृदया कमठाकण्ठसुन्दरी || ७२ ||
कमठासनसंसेव्या कमठीकर्मतत्परा |
करुणाकरकान्ता च करुणाकरवन्दिता || ७३ ||
कठोराकरमाला च कठोरकुचधारिणी |
कपर्द्दिनी कपटिनी कठिनी कङ्कभूषणा || ७४ ||
करभोरूः कठिनदा करभा करभालया |
कलभाषामयी कल्पा कल्पना कल्पदायिनी || ७५ ||
कमलस्था कलामाला कमलास्या क्वणत्प्रभा |
कुकुद्मिनी कष्टवती करणीयकथार्चिता || ७६ ||
कचार्चिता कचतनुः कचसुन्दरधारिणी |
कठोकुचस/ल्लग्ना कटिसूत्रविराजिता || ७७ ||
कर्णभक्षप्रिया कन्दाकथाकन्दगतिः कलिः |
कलिघ्नी कलिदूती च कविनायकपूजिता || ७८ ||
कणकक्षानियन्त्री च कश्चित्कविवरार्चिता |
कर्त्री च कर्त्तृकाभूषा करिणी कर्णशत्रुपा || ७९ ||
करणेशी करणपा कलवाचा कलानिधिः |
कलना कलनाधारा कलनाकारिकाकरा || ८० ||
कलगेया कर्कराशिः कर्कराशिप्रपूजिता |
कन्याराशिः कन्यका च कन्यकाप्रियभाषिणी || ८१ ||
कन्यकादानसन्तुष्टा कन्यकादानतोषिणी |
कन्यादानकरानन्दा कन्यादानग्रहेष्टदा || ८२ ||
कर्षणाकक्षदहना कामिता कमलासना |
करमालानन्दकर्त्री करमालाप्रपोषिता || ८३ ||
करमालाशयानन्दा करमालासमागमा |
करमालासिद्धिदात्री करमालाकरप्रिया || ८४ ||
करप्रिया कररता करदानपरायणा |
कलानन्दा कलिगतिः कलिपूज्या कलिप्रसूः || ८५ ||
प्. ९८) कलनादनिनादस्था कलनादवरप्रदा |
कलनादसमाजस्था कहोला च कहोलदा || ८६ ||
कहोलगेहमध्यस्था कहोलवरदायिनी |
कहोलकविताधारा कहोलऋषिमानिता || ८७ ||
कहोलमानसाराध्या कहोलवाक्यकारिणी |
कर्त्तृरूपा कर्तृमयी कर्तृमाता च कर्त्तरी || ८८ ||
कनीया कनकाराध्या कनीनकमयी तथा |
कनीयानन्दनिलया कनकानन्दतोषिता || ८९ ||
कनीयककराकाष्ठा कथार्णवकरी करी |
करिगम्या करिगतिः करिध्वजपरायणा || ९० ||
करिनाथप्रिया कण्ठा कथानकप्रतोषिता |
कमनीया कमनका कमनीयविभूषणा || ९१ ||
कमनीयसमाजस्था कमनीयव्रतप्रिया |
कमनीयगुणाराध्या कपिला कपिलेश्वरी || ९२ ||
कपिलाराध्यहृदया कपिलाप्रियवादिनी |
कहचक्रमन्त्रवर्णा कहचक्रप्रसूनका || ९३ ||
क-ए-ई-ल्ह्रींस्वरूपा च क-ए-ईल्ह्रींवरप्रदा |
क-ए-ईल्ह्रींसिद्धिदात्री क-ए-ईल्ह्रींस्वरूपिणी || ९४ ||
क-ए-ईल्ह्रींमन्त्रवर्णा क-ए-ईल्ह्रींप्रसूकला |
कवर्गा च कपाटस्था कपाटोद्घाटनक्षमा || ९५ ||
कङ्काली च कपाली च कङ्कालप्रियभाषिणी |
कङ्कालभैरवाराध्या कङ्कालमानसस्थिता || ९६ ||
कङ्कालमोहनिरता कङ्कालमोहदायिनी |
कलुषघ्नी कलुषहा कलुषार्त्तिविनाशिनी || ९७ ||
कलिपुष्पा कलादाना कशिपुः कश्यपार्चिता |
कश्यपा कश्यपाराध्या कलिपूर्णकलेवरा || ९८ ||
कलेवरकरी काञ्ची कवर्गा च करालका |
करालभैरवाराध्या करालभैरवेश्वरी || ९९ ||
कराला कलनाधारा कपर्द्दीशवरप्रदा |
कपर्द्दीशप्रेमलता कपर्द्दिमालिकायुता || १०० ||
कपर्द्दिजपमालाढ्या करवीरप्रसूनदा |
करवीरप्रियप्राणा करवीरप्रपूजिता || १०१ ||
कर्णिकारसमाकारा कर्णिकारप्रपूजिता |
करिषाग्निस्थिता कर्षाकर्षमात्रसुवर्णदा || १०२ ||
कलशा कलशाराध्या कषाया करिगानदा |
कपिला कलकण्ठी च कलिकल्पलता मता || १०३ ||
प्. ९९) कल्पलता कल्पमाता कल्पकारी च कल्पभूः |
कर्पूरामोदरुचिरा कर्पूरामोदधारिणी || १०४ ||
कर्पूरमालाभरणा कर्पूरवासपूर्त्तिदा |
कर्पूरमालाजयदा कर्पूरार्णवमध्यगा || १०५ ||
कर्पूरतर्पणरता कटकाम्बरधारिणी |
कपटेश्वरसम्पूज्या कपटेश्वररूपिणी || १०६ ||
कटुः कविध्वजाराध्या कलापपुष्पधारिणी |
कलापपुष्परुचिरा कलापपुष्पपूजिता || १०७ ||
क्रकचा क्रकचाराध्या कथम्ब्रूमा करालता |
कथङ्कारविनिर्मुक्ता काली कालक्रिया क्रतुः || १०८ ||
कामिनी कामिनीपूज्या कामिनीपुष्पधारिणी |
कामिनीपुष्पनिलया कामिनीपुष्पपूर्णिमा || १०९ ||
कामिनीपुष्पपूजार्हा कामिनीपुष्पभूषणा |
कामिनीपुष्पतिलका कामिनीकुण्डचुम्बना || ११० ||
कामिनीयोगसन्तुष्टा कामिनीयोगभोगदा |
कामिनीकुण्डसम्मग्ना कामिनीकुण्डमध्यगा || १११ ||
कामिनीमानसाराध्या कामिनीमानतोषिता |
कामिनीमानसञ्चारा कालिका कालकालिका || ११२ ||
कामा च कामदेवी च कामेशी कामसम्भवा |
कामभावा कामरता कामार्त्ता काममञ्जरी || ११३ ||
काममञ्जीररणिता कामदेवप्रियान्तरा |
कामकाली कामकला कालिका कमलार्चिता || ११४ ||
कादिका कमला काली कालानलसमप्रभा |
कल्पान्तदहना कान्ता कान्तारप्रियवासिनी || ११५ ||
कालपूज्या कालरता कालमाता च कालिनी |
कालवीरा कालघोरा कालसिद्धा च कालदा || ११६ ||
कालाञ्जनसमाकारा कालञ्जरनिवासिनी |
कालऋद्धिः कालवृद्धिः कारागृहविमोचिनी || ११७ ||
कादिविद्या कादिमाता कादिस्था कादिसुन्दरी |
काशी काञ्ची च काञ्चीशा काशीशवरदायिनी || ११८ ||
क्रीम्बीजा चैव क्राम्बीजाहृदयायनमस्स्मृता |
काम्या काम्यगतिः काम्यसिद्धिदात्री च कामभूः || ११९ ||
प्. १००) कामाख्या कामरूपा च कामचापविमोचिनी |
कामदेवकलारामा कामदेवकलालया || १२० ||
कामरात्रिः कामदात्री कान्ताराचलवासिनी |
कामरूपा कालगतिः कामयोगपरायणा || १२१ ||
कामसम्मर्द्दनरता कामगेह विकाशिनी |
कालभैरवभार्या च कालभैरवकामिनी || १२२ ||
कालभैरवयोगस्था कालभैरवभोगदा |
कामधेनुः कामदोग्ध्री काममाता च कान्तिदा || १२३ ||
कामुका कामुकाराध्या कामुकानन्दवर्द्धिनी |
कार्त्तवीर्या कार्त्तिकेया कार्त्तिकेयप्रपूजिता || १२४ ||
कार्या कारणदा कार्यकारिणी कारणान्तरा |
कान्तिगम्या कान्तिमयी कात्या कात्यायनी च का || १२५ ||
कामसारा च काश्मीरा काश्मीराचारतत्परा |
कामरूपाचाररता कामरूपप्रिय/व्वदा || १२६ ||
कामरूपाचारसिद्धिः कामरूपमनोमयी |
कार्त्तिकी कार्त्तिकाराध्या काञ्चनारप्रसूनभूः || १२७ ||
काञ्चनारप्रसूनाभा काञ्चनारप्रपूजिता |
काञ्चरूपा काञ्चभूमिः कांस्यपात्रप्रभोजिनी || १२८ ||
कांस्यध्वनिमयी कामसुन्दरी कामचुम्बना |
काशपुष्पप्रतीकाशा कामद्रुमसमागमा || १२९ ||
कामपुष्पा कामभूमिः कामपूज्या च कामदा |
कामदेहा कामगेहा कामबीजपरायणा || १३० ||
कामध्वजसमारूढा कामध्वजसमास्थिता |
काश्यपी काश्यपाराध्या काश्यपानन्ददायिनी || १३१ ||
कालिन्दीजलसङ्काशा कालिन्दीजलपूजिता |
कादेवपूजानिरता कादेवपरमार्थदा || १३२ ||
कार्मणा कार्मणाकारा कामकार्मणकारिणी |
कार्मणत्रोटनकरी काकिनी कारणाह्वया || १३३ ||
काव्यामृता च कालिङ्गा कालिङ्गमर्दनोद्यता |
कालागुरुविभूषाढ्या कालागुरुविभूतिदा || १३४ ||
कालागुरुसुगन्धा च कालागुरुप्रतर्पणा |
कावेरीनीरसम्प्रीता कावेरीतीरवासिनी || १३५ ||
कालचक्रभ्रमाकारा कालचक्रनिवासिनी |
प्. १०१) कानना काननाधारा कारुः कारुणिकामयी || १३६ ||
काम्पिल्यवासिनी काष्ठा कामपत्नी च कामभूः |
कादम्बरीपानरता तथा कादम्बरीकला || १३७ ||
कामवन्द्या च कामेशी कामराजप्रपूजिता |
कामराजेश्वरीविद्या कामकौतुकसुन्दरी || १३८ ||
काम्बोजजा काञ्चिनदा कांस्यकाञ्चनकारिणी |
काञ्चनाद्रिसमाकारा काञ्चनाद्रिप्रदानदा || १३९ ||
कामकीर्त्तिः कामदेशी कारिका कान्तराश्रया |
कामभेदी च कामार्तिनाशिनी कामभूमिका || १४० ||
कालनिर्णाशिनी काव्यवनिता कामरूपिणी |
कायस्था कामसन्दीप्तिः काव्यदा कालसुन्दरी || १४१ ||
कामेशी कारणवरा कामेशीपूजनोद्यता |
काञ्चीनूपुरभूषाढ्या कुङ्कुमाभरणान्विता || १४२ ||
कालचक्रा कालगतिः कालचक्रामनोभवा |
कुन्दमध्या कुन्दपुष्पा कुन्दपुष्पप्रिया कुजा || १४३ ||
कुजमाता कुजाराध्या कुठारवरधारिणी |
कुञ्जरस्था कुशरता कुशेशयविलोचना || १४४ ||
कुनठी कुररी कुद्रा कुरङ्गी कुटजाश्रया |
कुम्भीनसविभूषा च कुम्भीनसवधोद्यता || १४५ ||
कुम्भकर्णमनोल्लासा कुलचूडामणिः कुला |
कुलालगृहकन्या च कुलचूडामणिप्रिया || १४६ ||
कुलपूज्या कुलाराध्या कुलपूजापरायणा |
कुलभूषा तथा कुक्षिः कुररीगणसेविता || १४७ ||
कुलपुष्पा कुलरता कुलपुष्पपरायणा |
कुलवस्त्रा कुलाराध्या कुलकुण्डसमप्रभा || १४८ ||
कुलकुण्डसमोल्लासा कुण्डपुष्पपरायणा |
कुण्डपुष्पाप्रसन्नास्या कुण्डगोलोद्भवात्मिका || १४९ ||
कुण्डगोलोद्भवाधारा कुण्डगोलमयी कुहूः |
कुण्डगोलप्रियप्राणा कुण्डगोलप्रपूजिता || १५० ||
कुण्डगोलमनोल्लासा कुण्डगोलबलप्रदा |
कुण्डदेवरता क्रुद्धा कुलसिद्धिकरा परा || १५१ ||
कुलकुण्डसमाकारा कुलकुण्डसमानभूः |
कुण्डसिद्धिः कुण्डऋद्धिः कुमारीपूजनोद्यता || १५२ ||
प्. १०२) कुमारीपूजकप्राणा कुमारीपूजकालया |
कुमारीकामसन्तुष्टा कुमारीपूजनोत्सुका || १५३ ||
कुमारीव्रतसन्तुष्टा कुमारीरूपधारिणी |
कुमारीभोजनप्रीता कुमारी च कुमारदा || १५४ ||
कुमारमाता कुलदा कुलयोनिः कुलेश्वरी |
कुललिङ्गा कुलानन्दा कुलरम्या कुतर्क्कधृक् || १५५ ||
कुन्ती च कुलकान्ता च कुलमार्गप्ररायणा |
कुल्ला च कुरुकुल्ला च कुल्लुका कुलकामदा || १५६ ||
कुलिशाङ्गी कुब्जिका च कुब्जिकानन्दवर्द्धिनी |
कुलीना कुञ्जरगतिः कुञ्जरेश्वरगामिनी || १५७ ||
कुलपाली कुलवती तथैव कुलदीपिका |
कुलयोगेश्वरी कुण्डा कुङ्कुमारुणविग्रहा || १५८ ||
कुङ्कुमानन्दसन्तोषा कुङ्कुमार्णववासिनी |
कुसुमा कुसुमप्रीता कुलभूः कुलसुन्दरी || १५९ ||
कुमुद्वती कुमुदिनी कुशला कुलटालया |
कुलटालयमध्यस्था कुलटासङ्गतोषिता || १६० ||
कुलटाभवनोद्युक्ता कुशावर्ता कुलार्णवा |
कुलार्णवाचाररता कुण्डली कुण्डलाकृतिः || १६१ ||
कुमती च कुलश्रेष्ठा कुलचक्रपरायणा |
कूटस्था कूटदृष्टिश्च कुन्तला कुन्तलाकृतिः || १६२ ||
कुशलाकृतिरूपा च कूर्च्चबीजधरा च कूः |
कुंकुंकुंकुंशब्दरता क्रूंक्रूंक्रूंक्रूम्परायणा || १६३ ||
कुंकुंकुंशब्दनिलया कुक्कुरालयवासिनी |
कुक्कुरासङ्गस/युक्ता कुक्कुरानन्तविग्रहा || १६४ ||
कूर्च्चारम्भा कूर्च्चबीजा कूर्च्चजापपरायणा |
कुचस्पर्शनसन्तुष्टा कुचालिङ्गनहर्षदा || १६५ ||
कुगतिघ्नी कुबेरार्च्या कुचभूः कुलनायिका |
कुगायना कुचधरा कुमाता कुन्ददन्तिनी || १६६ ||
कुगेया कुहराभाषा कुगेया कुघ्नदारिका |
कीर्त्तिः किरातिनी क्लिन्ना किन्नरा किन्नरी क्रिया || १६७ ||
क्रीङ्कारा क्रीञ्जपासक्ता क्रींह्रूंस्त्रींमन्त्ररूपिणी |
किर्म्मीरितदृशापाङ्गी किशोरी च किरीटिनी || १६८ ||
कीटभाषा कीटयोनिः कीटमाता च कीटदा |
किंशुका कीरभाषा च क्रियासारा क्रियावती || १६९ ||
प्. १०३) कींकींशब्दपरा क्लींक्लींक्लूंक्लैंक्लौंमन्त्ररूपिणी |
कांकींकूंकैंस्वरूपा च कः फट्मन्त्रस्वरूपिणी || १७० ||
केतकीभूषणानन्दा केतकीभरणान्विता |
कैकदा केशिनी केशी केशीसूदनतत्परा || १७१ ||
केशरूपा केशमुक्ता कैकेयी कौशिकी तथा |
कैरवा कैरवाह्लादा केशरा केतुरूपिणी || १७२ ||
केशवाराध्यहृदया केशवासक्तमानसा |
क्लैव्यविनाशिनी क्लैञ्च क्लैम्बीजजपतोषिता || १७३ ||
कौशल्या कोशलाक्षी च कोशा च कोमला तथा |
कोलापुरनिवासा च कोलासुरविनाशिनी || १७४ ||
कोटिरूपा कोटिरता क्रोधिनी क्रोधरूपिणी |
केका च कोकिला कोटिः कोटिमन्त्रपरायणा || १७५ ||
कोट्यनन्तमन्त्रयुता कैरूपा केरलाश्रया |
केरलाचारनिपुणा केरलेन्द्रगृहस्थिता || १७६ ||
केदाराश्रमसंस्था च केदारेश्वरपूजिता |
क्रोधरूपा क्रोधपदा क्रोधमाता च कौशिकी || १७७ ||
कोदण्डधारिणी क्रौञ्चा कौशिल्या कौलमार्गगा |
कौलिनी कौलिकाराध्या कौलिकागारवासिनी || १७८ ||
कौतुकी कौमुदी कौला कुमारी कौरवार्च्चिता |
कौण्डिन्या कौशिकी क्रोधाज्वालाभासुररूपिणी || १७९ ||
कोटिकालानलज्वाला कोटिमार्त्तण्डविग्रहा |
कृत्तिका कृष्णवर्णा च कृष्णकृत्या क्रियातुरा [कृपातुरा] || १८० ||
कृशाङ्गी कृतकृत्या च क्रःफट्स्वाहारूपिणी |
क्रौंक्रौंहूंफट्मन्त्रवर्णा क्रींह्रींहू/फट्नमस्स्वधा || १८१
||
क्रींक्रींह्रींह्रींतथाह्रूंह्रूंफट्स्वाहामन्त्ररूपिणी |
इति श्रीसर्वसाम्राज्यमेधानाम सहस्रकम् || १८२ ||
सुन्दरीशक्तिदानाख्या-स्वरूपाभिधमेव च |
कथितन्दक्षिणाकाल्याः सुन्दर्यै प्रीतियोगतः || १ ||
वरदानप्रसङ्गेन रहस्यमपि दर्शितम् |
गोपनीयं सदा भक्त्या पठनीयम्परात्परम् || २ ||
प्रातर्म्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि |
प्. १०४) यज्ञकाले जपान्ते च पठनीय/ व्विशेषतः || ३ ||
यः पठेत्साधको धीरः कालीरूपो हि वर्षतः |
पठेद्वा पाठयेद्वापि शृणोति श्रावयेदपि || ४ ||
वाचकन्तोषयेद्वापि स भवेत्कालिकातनुः |
सहेल/ व्वा सलील/ व्वा यश्चैनम्मानवः पठेत् || ५ ||
सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः |
मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका || ६ ||
पुष्पवन्ध्या शूलवन्ध्या शृणुयात्स्तोत्रमुत्तमम् |
सर्वसिद्धिप्रदातारं सत्कविञ्चिरजीवितम् || ७ ||
पाण्डित्यङ्कीर्त्तिस/युक्त/ ल्लभते नात्र संशयः |
स ययङ्काममुपस्कृत्य कालीन्ध्यात्वा जपेत्स्तवम् || ८ ||
तन्तङ्कामङ्करे कृत्वा मन्त्री भवति नान्यथा |
योनिपुष्पैर्ल्लिङ्गपुष्पैः कुण्डगोलोद्भवैरपि || ९ ||
स/योगामृतपुष्पैश्च वस्त्रदेवीप्रसूनकैः |
कालिपुष्पैः पीठतोयैर्योनिक्षालनतोयकैः || १० ||
कस्तूरीकुङ्कुमैर्देवीन्नखकालागुरुक्रमात् |
अष्टगन्धैर्धूपदीपैर्ययवयावय-स/ययुतैः || ११ ||
रक्तचन्दनसिन्दूरैर्मत्स्यमांसादिभूषणैः |
मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि || १२ ||
महोपचारै रक्तैश्च नैवेद्यैस्सुरसान्वितैः |
पूजयित्वा महाकालीम्महाकालेन लालिताम् || १३ ||
विद्याराज्ञीङ्कुल्लुकाञ्च जप्त्वा स्तोत्र~जपेच्छिवे |
कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः || १४ ||
ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः |
शवयोनिस्थितो वीरः श्मशानसुरतान्वितः || १५ ||
शून्यालये बिन्दुपीठे पुष्पाकीर्णे शिवावने |
शयानोत्थप्रभुञ्जानः कालीदर्शनमाप्नुयात् || १६ ||
तत्र यद्यत्कृतङ्कर्म तदनन्तफलम्भवेत् |
ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका || १७ ||
कवित्वे तारिणीतुल्यः सौन्दर्ये सुन्दरीसमः |
सिन्धोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा || १८ ||
वज्रास्त्र इव दुर्द्धर्षस्त्रैलोक्यविजयास्त्रभृत् |
शत्रुहन्ता काव्यकर्त्ता भवेच्छिवसमः कलौ || १९ ||
प्. १०५) दिग्विदिक्चन्द्रकर्त्ता च दिवारात्रिविपर्ययी |
महादेवसमो योगी त्रैलोक्यस्तम्भकः क्षणात् || २० ||
गानेन तुम्बुरुस्साक्षाद्दाने कर्णसमो भवेत् |
गजाश्वरथपत्तीनामस्त्राणामधिपः कृती || २१ ||
आयुष्येषु भुशुण्डी च जरापलितनाशकः |
वर्षषोडशवान्भूयात्सर्वकाले महेश्वरी || २२ ||
ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित् |
सर्वं हस्तगतम्भूयान्नात्र कार्या विचारणा || २३ ||
कुलपुष्पयुतन्दृष्ट्वा तत्र काली/ व्विचिन्त्य च |
विद्याराज्ञीन्तु सम्पूज्य पठेन्नामसहस्रकम् || २४ ||
मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् |
परदारान्समालिङ्ग्य सम्पूज्य परमेश्वरीम् || २५ ||
हस्ताहस्तिकयायोगङ्कृत्वा जप्त्वा स्तवम्पठेत् |
योनी/ व्वीक्ष्य जपेत्स्तोत्रङ्कुबेरादधिको भवेत् || २६ ||
कुण्डगोलोद्भवङ्गृह्यवर्णाक्तं होमयेन्निशि |
पितृभूमौ महेशानि विधिरेखाम्प्रमार्ज्जयेत् || २७ ||
तरुणीं सुन्दरीं रम्याञ्चञ्चलाङ्कामगर्विताम् |
समानीय प्रयत्नेन संशोध्य न्यासयोगतः || २८ ||
प्रसूनमञ्चं संस्थाप्य पृथिवीङ्कशिताञ्चरेत् |
मूलचक्रन्तु सम्भाव्य देव्याश्चारणस/ययुतम् || २९ ||
सम्पूज्य परमेशानि सङ्कल्प्य तु महेश्वरि |
जप्त्वा स्तुत्वा महेशानीम्प्रणवं संस्मरेच्छिवे || ३० ||
अष्टोत्तरशतैर्योनिम्प्रमन्त्र्याचुम्ब्य यत्नतः |
स/ययोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् || ३१ ||
शून्यागारे शिवारण्ये शिवदेवालये तथा |
शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे || ३२ ||
श्मशाने पर्वतप्रान्ते एकलिङ्गे शिवामुखे |
मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तथा || ३३ ||
कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा |
पठेत्सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये || ३४ ||
अरण्ये शून्यगर्त्ते च रणे शत्रुसमागमे |
प्रजपेच्च ततो नाम काल्याश्चैव सहस्रकम् || १३५ ||
बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् |
कालीं सञ्चिन्त्य प्रजपेत्पठेन्नामसहस्रकम् || १३६ ||
प्. १०६) सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् |
मुण्डचूडकयोर्योनि त्वचि वा कोमले शिवे || ३७ ||
विष्टरे शववस्त्रे वा पुष्पवस्त्रासनेपि वा |
मुक्तकेशो दिशावासा मैथुनी शयने स्थितः || ३८ ||
जप्त्वा कालीम्पठेत्स्तोत्रङ्खेचरी-सिद्धिभाग्भवेत् |
चिकुर/ ययोगमासाद्य शुक्रोत्सारणमेव च || ३९ ||
जप्त्वा श्रीदक्षिणाङ्कालीं शक्तिपातशतम्भवेत् |
लतां स्पृशञ्जपित्वा च रमित्वा त्वर्चयन्नपि || ४० ||
आलोकयन्दिशावासाः परशक्ति/ व्विशेषतः |
स्तुत्वा श्रीदक्षिणाङ्काली/ ययोनिं स्वकरगाञ्चरेत् || ४१ ||
पठेन्नामसहस्र/ ययः स शिवादधिको भवेत् |
लतान्तरेषु जप्तव्यं स्तुत्वा कालीन्निराकुलः || ४२ ||
दशावधानो भवति मासमात्रेण साधकः |
कालरात्र्याम्महारात्र्या/ व्वीररात्र्यामपि प्रिये || ४३ ||
महारात्र्याञ्चतुर्द्दश्यामष्टम्यां संक्रमेपि वा |
कुहूपूर्णेन्दुशुक्रेषु भौमामायान्निशामुखे || ४४ ||
नवम्याम्मङ्गलदिने तथा कुलतिथौ शिवे |
कुलक्षेत्रे प्रयत्नेन पठेन्नामसहस्रकम् || ४५ ||
सौदर्शनो भवेदाशु किन्नरीसिद्धिभाग्भवेत् |
पश्चिमाभिमुख/ लिङ्ग/ व्वृषशून्यम्पुरातनम् || ४६ ||
तंत्र स्थित्वा जपेत्स्तोत्रं सर्वकामाप्तये शिवे |
भौमवारे निशीथे वा अमावस्यादिने शुभे || ४७ ||
माषभक्तबलिञ्छागङ्कृसरान्नञ्च पायसम् |
दग्धमीनं शोणितञ्च दधिदुग्धङ्गुडाद्रर्कम् || ४८ ||
बलिन्दत्वा जपेत्तत्रत्वष्टोत्तरसहस्रकम् |
देवगन्धर्वसिद्धौघैः सेवितां सुरसुन्दरीम् || ४९ ||
लभेद्देवेशि मासेन तस्य चासनसंहतिः |
हस्तत्रयम्भवेदूर्ध्वन्नात्र कार्या विचारणा || ५० ||
हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः |
ब्रह्मादींस्तम्भयेद्देवि माहेशीम्मोहयेत्क्षणात् || ५१ ||
आकर्षयेन् महाविद्यान्दशपूर्वान्त्रियामतः |
कुर्वीत विष्णुनिर्माण/ ययमादीनान्तु मारणम् || ५२ ||
ध्रुवमुच्चाटयेन्नूनं सृष्टिनूतनतान्नरः |
मेष-माहिष-मार्जार-खर-च्छाग-नरादिकैः || ५३ ||
प्. १०७) खड्गी-शूकर-कपोतैष्टिट्टिभैश्शशकैः पलैः |
शोणितैस्सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः || ५४ ||
कादम्बरीसिन्दुमद्यैस्सुरारिष्टैश्च सासवैः |
योनिक्षालिततोयैश्च योनिलिङ्गामृतैरपि || ५५ ||
स्वजातकुसुमैः पूज्यां जपान्ते तर्पयेच्छिवाम् |
सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः || ५६ ||
शक्त्यालभन् पठेत्स्तोत्रङ्कालीरूपो दिनत्रयात् |
दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा || ५७ ||
वेश्यालता गृहे गत्वा तस्याश्चुम्बनतत्परः |
तस्या योनौ मुखन्दत्वा तद्रस/ व्विलिहज्जपेत् || ५८ ||
तदन्ते नाम साहस्रम्पठेद्भक्तिपरायणः |
कालिकादर्शनन्तस्य भवेदेव त्रियामतः || ५९ ||
नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः |
प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः || ६० ||
पात्राणां साधनङ्कृत्वा दिग्वस्त्रान्तां समाचरेत् |
सम्भाव्य चक्रन्तन्मूले तत्र सावरणाञ्जपेत् || ६१ ||
शतम्भाले शतङ्केशे शतं सिन्दूरमण्डले |
शतत्रयङ्कुचद्वन्द्वे शतन्नाभौ महेश्वरि | ६२ ||
शत/ ययोनौ महेशानि स/ययोगे च शतत्रयम् |
जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् || ६३ ||
शतावधानो भवति मासमात्रेण साधकः |
मातङ्गिनीं समानीय कि/ व्वा कापालिनीं शिवे || ६४ ||
दन्तमाला जपे कार्या गले धार्या नृमुण्डजा |
नेत्रपद्मे योनिचक्र/ शक्तिचक्र/ स्ववक्त्रके || ६५ ||
कृत्वा जपेन्महेशानि मुण्डयत्रम्प्रपूजयेत् |
मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः || ६६ ||
अन्यामालिङ्ग्य प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् |
अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयञ्जपेत् || ६७ ||
अन्यायोनौ शिवन्दत्वा पुनः पूर्ववदाचरेत् |
अवधानसहस्रेषु शशिपातशतेषु च || ६८ ||
राजा भवति देवेशि मासपञ्चकयोगतः |
यवनीशक्तिमानीय गानशक्तिपरायणाम् || ६९ ||
कुलाचारमतेनैव तस्या योनि/ व्विकासयेत् |
प्. १०८) तत्र जिह्वाम्प्रदत्त्वा तु जपेन्नामसहस्रकम् || ७० ||
नृकपाले तत्र दीपं ज्वाल्य यत्नेन वै जपेत् |
महाकविवरो भूयान्नात्र कार्या विचारणा || ७१ ||
कामार्तो शक्तिमानीय योनौ तु मूलचक्रकम् |
विलिख्य परमेशानि तत्र मन्त्र/ ल्लिखेच्छिवे || ७२ ||
तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्त्ववित् |
अश्रुतानि च शास्त्राणि वेदादीन्पाठयेद्ध्रुवम् || ७३ ||
विना न्यासैर्विना पाठैर्विना ध्यानादिभिः प्रिये |
चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः || ७४ ||
चतुर्विधञ्च पाण्डित्यन्तस्य हस्तगतङ्क्षणात् |
शिवाबलिः प्रदातव्या सर्वदा शून्यमण्डले || ७५ ||
कालीध्यानम्मन्त्रचिन्ता नीलसाधनमेव च |
सहस्रनामपाठश्च कालीनामप्रकीर्तनम् || ७६ ||
भक्तस्य कार्यमेतावदन्यदभ्युदय/ व्विदुः |
वीरसाधनकङ्कर्म शिवापूजाबलिस्तथा || ७७ ||
सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् |
वेश्यागृहे निशाचारो रात्रौ पर्यटनन्तथा || ७८ ||
शक्तिपूजा योनिदृष्टिः खड्गहस्तो दिगम्बरः |
मुक्तकेशो वीरवेषः कुलमूर्त्तिधरो नरः || ७९ ||
कालीभक्तो भवेद्देवि नान्यथा क्षोभमाप्नुयात् |
दुग्धस्वादी योनिलेही स/व्विदासवघूर्णितः || ८० ||
वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् |
वेश्याचक्रसमायोगात्कालीचक्रसमस्स्वयम् || ८१ ||
वेश्यादेहसमायोगात्कालीदेहसमस्स्वयम् |
वेश्यामध्यगत/ व्वीरङ्कदा पश्यामि साधकम् || ८२ ||
एव/ व्वदति सा काली तस्माद्वेश्या वरा मता |
वेश्याकन्या तथा पीठ-जातिमेदकुलक्रमात् || ८३ ||
अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् |
कुमारीम्पूजयेद्भक्त्या जपान्ते भवनं प्रिये || ८४ ||
पठेन्नामसहस्रं यः कालीदर्शनभाग्भवेत् |
भक्त्या पूज्य कुमारीञ्च वेश्याकुलसमुद्भवाम् || ८५ ||
वस्त्रहेमादिभिस्तोष्य यत्नात्स्तोत्रम्पठेच्छिवे |
त्रैलोक्यविजयी भूयाद्दिवाचन्द्रप्रकाशकः || ८६ ||
प्. १०९) यद्यद्दत्तङ्कुमार्यै तु तदनन्तफलम्भवेत् |
कुमारीपूजनफलम्मया वक्तुन्न शक्यते || ८७ ||
चाञ्चल्यादुदितङ्किञ्चित्क्षम्यतामयमञ्जलिः |
एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् || ८८ ||
कुमार्यश्शक्तयश्चैव सर्वमेतच्चराचरम् |
शक्तिमानीय तद्गात्रे न्यासजालम्प्रविन्यसेत् || ८९ ||
वामभागे च संस्थाप्य जपेन्नामसहस्रकम् |
सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा || ९० ||
श्मशानस्थो भवेत्स्वस्थो गलितञ्चिकुरञ्चरेत् |
दिगम्बरः सहस्रञ्च सूर्यपुष्पं समानयेत् || ९१ ||
स्ववीर्येण युतङ्कृत्वा प्रत्येकम्प्रजपन् हुनेत् |
पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् || ९२ ||
नखकेशं स्ववीर्यञ्च यद्यत्सम्मार्ज्जनीगतम् |
मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः || ९३ ||
कुजवारे मध्यरात्रे होमङ्कृत्वा श्मशानके |
पठेन्नाम सहस्रं ययः पृथ्वीशाकर्षणम्भवेत् || ९४ ||
पुष्पयुक्ते भगे देवि स/ययोगानन्दतत्परः |
पुनश्चिकुरमासाद्य मूलमन्त्रञ्जपञ्शिवे || ९५ ||
चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः |
कालिकाम्पूजयेत्तत्र पठेन्नामसहस्रकम् || ९६ ||
पृथ्वीशाकर्षणङ्कुर्यान्नात्र कार्या विचारणा |
कदलीवनमासाद्य लक्षमात्रञ्जपेन्नरः || ९७ ||
मधुमत्या स्वयन्देव्या सेव्यमानः स्मरोपमः |
श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् || ९८ ||
आकर्षिणीं समुच्चार्य ठं ठं स्वाहा समुच्चरेत् |
त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् || ९९ ||
नदीम्पुरीञ्च रत्नानि हेमस्त्रीशैलभूरुहान् |
आकर्षयत्यम्बुनिधिं सुमेरुञ्च दिगन्ततः || १०० ||
अलभ्यानि च वस्तूनि दूराद्भूमितलादपि |
वृत्तान्तञ्च सुरस्थानाद्रहस्य/ व्विदुषामपि || १०१ ||
राज्ञाञ्च कथयत्येषा सत्यं सत्वरमादिशेत् |
द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा || १०२ ||
ओं ह्रींपद्मावतिपदन्ततस्त्रैलोक्यनाम च |
वार्त्ताञ्च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः || १०३ ||
प्. ११०) ब्रह्मविष्ण्वादिकानाञ्च त्रैलोक्ये यादृशी भवेत् |
सर्व/ व्वदति देवेशी त्रिकालज्ञः कविश्शुभः || १०४ ||
त्रिवर्षम्पठतो देवि लभेद्भोगवतीङ्कलाम् |
महाकालेन दष्टोऽपि चितामध्यगतोऽपि वा || १०५ ||
तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् |
मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् || १०६ ||
स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः |
चतुर्वर्षम्पठेद्यस्तु स्वप्नसिद्धस्ततो भवेत् || १०७ ||
ओं ह्रींस्वप्नवाराहि कलिस्वप्ने कथयोच्चरेत् |
अमुकस्यामुकन्देहि क्रींस्वाहान्तो मनुर्मतः || १०८ ||
स्वप्नसिद्धा चतुर्वषात्तस्य स्वप्ने सदा स्थिता |
चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् || १०९ ||
तद्धस्तजलस/ययोगान्मूर्खः काव्यङ्करोति च |
तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् || ११० ||
मस्तके तु करङ्कृत्वा वद वाणीमिति ब्रुवन् |
साधको वाच्छया कुर्यात्तत्तथैव भविष्यति || १११ ||
ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले |
समस्तास्सिद्धयो देवि करामलकवद्भवेत् || ११२ ||
साधकस्मृतिमात्रेण यावन्त्यस्सन्ति सिद्धयः |
स्वयमायान्ति पुरतो जपादीनान्तु का कथा || ११३ ||
विदेशवर्त्तिनो भूत्वा वर्त्तन्ते चेटका इव |
अमायाञ्चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च || ११४ ||
अष्टम्याम्पूर्णचन्द्रत्वञ्चन्द्रसूर्याष्टकन्तथा |
अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरी || ११५ ||
अणिमाखेचरत्वञ्च चराचरपुरीगतिम् |
पादुकाखड्गवेतालयक्षिणीगुह्यकादयः || ११६ ||
तिलको गुप्ततादृश्यञ्चराचरकथानकम् |
मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् || ११७ ||
उड्डीनसिद्धिर्देवेशि पष्टिसिद्धीश्वरत्वकम् |
तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा || ११८ ||
केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टने गृहे |
प्. १११) भित्तौ च फलके देवि लेख्यम्पूज्यञ्च यत्नतः || ११९ ||
मध्ये चक्रन्दशाङ्गोक्तम्परितो नामलेखनम् |
तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् || १२० ||
एको हि शतसाहस्रन्निर्जित्य च रणाङ्गणे |
पुनरायाति च सुखं स्वगृहम्प्रति पार्वति || १२१ ||
एको हि शतसन्दर्श्शी लोकानाम्भवति ध्रुवम् |
कशलं स्थाप्य यत्नेन नाम सहस्रकम्पठेत् || १२२ ||
सेकः कार्यो महेशानि सर्वापतिनिवारणे |
भूतप्रेतग्रहादीनां रक्षसाम्ब्रह्मरक्षसाम् || १२३ ||
वेतालानाम्भैरवाणां स्कन्दवैनायकादिकान् |
नाशयेत् क्षणमात्रेण नात्रकार्या विचारणा || १२४ ||
भस्माभिमन्त्रितङ्कृत्वा ग्रहग्रस्ते विलेपयेत् |
भस्मसङ्क्षेपणादेव सर्वग्रहविनाशनम् || १२५ ||
नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि |
वन्ध्या पुत्रप्रदा देवि नात्र कार्या विचारणा || १२६ ||
कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे |
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् || १२७ ||
पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये |
बलवान्कीर्त्तिमान् धन्यो धार्मिकः साधकः कृती || १२८ ||
बहुपुत्रो रथानाञ्च गजानामधिपः सुधीः |
कामिनीकर्षणोद्युक्तः क्रीञ्चदक्षिणकालिके || १२९ ||
क्रींस्वाहा प्रजपेन्मन्त्रमयुतन्नामपाठकः |
आकर्षणञ्चरेद्देवि जलखेचरभूगतान् || १३० ||
वशीकरणकामो हि हूं हूं ह्रीं ह्रीं च दक्षिणे |
कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् || १३१ ||
उर्व्वशीमपि वशयेन्नात्र कार्या विचारणा |
क्रीञ्चदक्षिणकालिके स्वाहायुक्तञ्जपेन्नरः || १३२ ||
पठेन्नाम सहस्रन्तु त्रैलोक्यम्मारयेद्ध्रुवम् |
सद्भक्ताय प्रदातव्या विद्याराज्ञि शुभे दिने || १३३ ||
सद्विनीताय शान्ताय दान्तायातिगुणाय च |
भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च || १३४ ||
वैष्णवाय प्रशुद्धाय शिवावलिरताय च |
वेश्यापूजनयुक्ताय कुमारीपूजकाय च || १३५ ||
प्. ११२) दुर्गाभक्ताय रौद्राय महाकालप्रजापिने |
अद्वैतभावयुक्ताय कालीभक्तिपराय च || १३६ ||
देयं सहस्रं नामाख्यं स्वयङ्काल्या प्रकाशितम् |
गुरुदैवतमन्त्राणां महेशस्यापि पार्वति || १३७ ||
अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः |
यो मन्त्रम्भावयेन्मन्त्री स शिवो नात्र संशयः || १३८ ||
स शाक्तो वैष्णवस्सौरः स एव पूर्णदीक्षितः |
अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते || १३९ ||
वेश्यास्त्रीनिन्दकायाथ सुरास/व्वित्प्रनिन्दके |
सुरामुखीमनुं स्मृत्वा सुराचारो भविष्यति || १४० ||
आसां वाग्देवता घोरे परघोरे च हू/ व्वदेत् |
घोररूपे महाघोरे मुखी भीमपद/ व्वदेत् || १४१ ||
भीषण्यमुपषष्ठयन्तं हेतुर्वामयुगे शिवे |
शिववह्नियुगास्त्रं हू/हू/कवचमनुर्भवेत् || १४२ ||
एतस्य स्मरणादेव दुष्टानाञ्च मुखे सुरा |
अवतीर्णा भवेद्देवी दुष्टानाम्भद्रनाशिनी || १४३ ||
खलाय परतन्त्राय परनिन्दापराय च |
भ्रष्टाय दुष्टसत्त्वाय परवादरताय च || १४४ ||
शिवाभक्ताय दुष्टाय परदाररताय च |
न स्तोत्रन्दर्शयेद्देवि शिवाहत्याकरो भवेत् || १४५ ||
कालिकानन्दहृदयः कालिकाभक्तिमानसः |
कालीभक्तो भवेत्सो हि धन्यरूपस्स एव तु || १४६ ||
कलौ काली कलौ काली कलौ काली वरप्रदा |
कलौ काली कलौ काली कलौ काली तु केवला || १४७ ||
बिल्वपत्रसहस्राणि करवीराणि वै तथा |
प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा || १४८ ||
कमलानां सहस्रन्तु प्रतिनाम्ना समर्पयेत् |
चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् || १४९ ||
मन्त्रक्षोभयुतो नैव कलशस्थजलेन च |
नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् || १५० ||
तथा मदनकन्देवि सहस्रमाहरेद्व्रती |
सहस्रनाम्रा सम्पूज्य कालीवरमवाप्नुयात् || १५१ ||
चक्र/ व्विलिख्य देहस्थन्धारयेत्कालिकातनुः |
काल्यै निवेदितं यद्यत्तदंशम्भक्षयेच्छिवे || १५२ ||
प्. ११३) दिव्यदेहधरो भूत्वा कालीदेहे स्थिरो भवेत् |
नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवाः || १५३ ||
योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये |
मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः || १५४ ||
तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा |
अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति || १५५ ||
क्रमदीक्षायुतानाञ्च सिद्धिर्भवति नान्यथा |
मन्त्रक्षोभश्च वा भूयात्क्षीणायुर्वा भवेद्ध्रुवम् || १५६ ||
पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् |
क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् || १५७ ||
एकवारम्पठेद्देवि सर्वपापविनाशनम् |
द्विवारञ्च पठेद्यो हि वाञ्छा/व्विन्दति नित्यशः || १५८ ||
त्रिवारञ्च पठेद्यस्तु वागीशसमता/ व्व्रजेत् |
चतुर्वारम्पठेद्देवि चतुर्वर्णाधिपो भवेत् || १५९ ||
पञ्चवारम्पठेद्देवि पञ्चकामाधिपो भवेत् |
षड्वारञ्च पठेद्देवि षडैश्वर्याधिपो भवेत् || १६० ||
सप्तवारम्पठेत्सप्तकामानाञ्चिन्तित/ ल्लभेत् |
वासुवारम्पठेद्देवि दिगीशो भवति ध्रुवम् || १६१ ||
नववारम्पठेद्देवि नवनाथसमो भवेत् |
दशवारङ्कीर्त्तयेद्यो दशार्हः खेचरेश्वरः || १६२ ||
विंशद्वारङ्कीर्त्तयेद्यः सर्वैश्वर्यमयो भवेत् |
पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः || १६३ ||
पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् |
शतवारङ्कीर्त्तयेद्यः शताननसमानधीः || १६४ ||
शतपञ्चकमावत्त्य/ राजराजेश्वरो भवेत् |
सहस्रावर्त्तनाद्देवि लक्ष्मीरावृणुते स्वयम् || १६५ ||
त्रिसहस्रं समावर्त्त्य त्रिनेत्रसदृशो भवेत् |
पञ्चसाहस्रमावर्त्त्य कामकोटिविमोहनः || १६६ ||
दशसहस्रावर्त्तनैर्भवेद्दशमुखेश्वरः |
पञ्चविंशतिसाहस्रैश्चतुर्विंशतिसिद्धिधृक् || १६७ ||
लक्षावर्त्तनमात्रेण लक्ष्मीपतिसमो भवेत् |
लक्षत्रयावर्त्तनात्तु महादेव/ व्विजेष्यति || १६८ ||
लक्षपञ्चकमावर्त्त्य कलापञ्चकस/ययुतः |
दशलक्षावर्तनात्तु दशविद्याप्तिरुत्तमा || १६९ ||
प्. ११४) पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् |
पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् || १७० ||
कोटिमावर्त्तयेद्यस्तु कालीम्पश्यति चक्षुषा |
वरदानोद्युक्तकराम्महाकालसमन्विताम् || १७१ ||
प्रत्यक्षम्पश्यति शिवे तस्या देहो भवेद्ध्रुवम् |
श्रीविद्या-कालिका-तारा-त्रिशक्तिविजयी भवेत् || १७२ ||
विधेर्ल्लिपिञ्च सम्मार्ज्य किङ्करत्व/ व्विसृज्य च |
महाराज्यमवाप्नोति नात्र कार्या विचारणा || १७३ ||
त्रिशक्तिविषये देवि क्रमदीक्षा प्रकीर्त्तिता |
क्रमदीक्षायुतो देवि राजा भवति निश्चितम् || १७४ ||
क्रमदीक्षाविहीनस्य फलम्पूर्वमिहेरितम् |
क्रमदीक्षायुतो देवि शिव एव न चापरः || १७५ ||
क्रमदीक्षासमायुक्तः काल्योक्तसिद्धिभाग्भवेत् |
क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे || १७६ ||
अहो जन्मवताम्मध्ये धन्यः क्रमयुतः कलौ |
तत्रापि धन्यो देवेशि नामसाहस्रपाठकः || १७७ ||
दशकालीविधौ देवि स्तोत्रमेतत्सदा पठेत् |
सिद्धि/व्विन्दति देवेशि नात्र कार्या विचारणा || १७८ ||
काली काली महाविद्या कलौ काली च सिद्धिदा |
कलौ काली च सिद्धा च कलौ काली वरप्रदा || १७९ ||
कलौ काली साधकस्य दशनार्थं समुद्यता |
कलौ काली केवला स्यान्नात्र कार्या विचारणा || १८० ||
नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् |
कलौ काली/ व्विहायाथ यः कञ्चित्सिद्धिकामुकः || १८१ ||
स तु शक्ति/ व्विना देवि रतिसम्भोगमिच्छति |
कलौकाली/ व्विना देवि यः कश्चित्सिद्धिमिच्छति || १८२ ||
स नीलसाधनन्त्यक्त्त्वा परिभ्रमति सर्वतः |
कलौ काली/ व्विहायाथ यः कश्चिन्मोक्षमिच्छति || १८३ ||
गुरुध्यानम्परित्यज्य सिद्धिमिच्छति साधकः |
कलौ काली/ व्विहायाथ यः कश्चिद्राज्यमिच्छति || १८४ ||
स भोजनम्परित्यज्य भुक्षुवृत्तिमभीप्सति |
प्. ११५) स धन्यः स च विज्ञानी स एव सुरपूजितः || १८५ ||
स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः |
स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा || १८६ ||
शिवरूपङ्गुरुन्ध्यात्वा शिवरूपङ्गुरुं स्मरेत् |
सदाशिवः स एव स्यान्नात्र कार्या विचारणा || १८७ ||
स्वस्मिन् कालीन्तु सम्भाव्य पूजयेज्जगदम्बिकाम् |
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा || १८८ ||
गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः |
रहस्यातिरहस्यञ्च रहस्यातिरहस्यकम् || १८९ ||
श्लोकार्द्धम्पादमात्र/ व्वा पादार्द्धञ्च तदर्द्धकम् |
नामार्द्ध/ ययः पठेद्देवि न वन्ध्यदिवसन्न्यसेत् || १९० ||
पुस्तकम्पूजयेद्भक्त्या त्वरितम्फलसिद्धये |
न च मारीभयन्तत्र न चाग्निर्वायुसम्भवम् || १९१ ||
न भूतादिभयन्तत्र सर्वत्र सुखमेधते |
कुङ्कुमालक्तकेनैव रोचनागुरुयोगतः || १९२ ||
भूर्ज्जपत्रे लिखेत्पुस्तं सर्वकामार्त्थसिद्धये || १९३ ||
इति गदितमशेषङ्कालिकावर्णरूपम्प्रपठति यदि भक्त्या
सर्वसिद्धीश्वरः स्यात् ||
अभिनवसुखकामस्सर्वविद्याभिरामो भवति
सकलसिद्धिस्सर्ववीरासमृद्धिः || १९४ ||
इति सङ्क्षेपतः प्रोक्तङ्किमन्यच्छ्रोतुमिच्छसि || १९५ ||
इति कालीसहस्रनामस्तोत्रं सम्पूर्णम् ||
|| इति श्रीशाक्तप्रमोदे कालीतन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित
शाक्तप्रमोदान्तर्गतं
द्वितीयं
तारातन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
प्. ११९) श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
तारातन्त्रम्
अथ ताराध्यानम्
प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासापरा
खड्गेन्दीवरकर्त्त्रिखर्परभुजा हुङ्कारबीजोद्भवा |
खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता
जाड्यन्न्यस्य कपालकर्तृजगतां हन्त्युग्रतारा स्वयम् ||
प्. १२०) अथ यन्त्रोद्धारः
सयोनिञ्चन्दनेनाष्टदलम्पद्म/ ल्लिखेत्ततः ||
मृद्वासनं समासाद्य मायाम्पूर्वदले लिखेत् ||
बीजन्द्वितीय/ ययाम्ये फट् उत्तरे पश्चिमे तु ठम् ||
मध्ये बीज/ ल्लिखेत्तारम्भूतशुद्धिमथाचरेत् ||
अथ मन्त्रोद्धारः
वाग्बीजम्प्रथमम्प्रोच्य ओङ्कारन्तु ततः पठेत् ||
लज्जाबीजन्ततस्ताराबीजं हू/फट् ततः पठेत् ||
अथ मन्त्रः
ऐं ओं ह्रीं क्रीं हू/ फट् ||
अथ तारासपर्यासरणिः
कुशहस्तो मौनी मूलेनाचम्य,
ऽओं वज्रोदके हू/फट्ऽ इत्यनेन जलङ्गृहीत्वा, ऽओं ह्रींस्वाहाऽ
इत्यनेन पादौ प्रक्षाल्य, ऽओं
ह्रींस्वविशुद्धधर्मसर्वपापानि
शमयाशेषविकल्पानपनय स्वाहाऽ इत्यनेनाचम्य, ऽओं
मणिधरि वज्रिणि शिखरिणि सर्ववशङ्करि हू/फट्ऽ
इतिशिखाबन्धनङ्कृत्वा, ऽओं रक्षरक्षहू/फट्स्वाहाऽ इति
भूमिं संशोध्य, ऽओं पवित्रवज्रम्मेहू/स्वाहाऽ
इतिभूमिमभिमन्त्र्य ऽओं आसुरेश्वरि वज्ररेखे हू/स्वाहाऽ
इत्यनेन भूमिं स्पृष्ट्वा,
ऽआधारशक्तिकमलासनायनमःऽ इतिसम्पूज्य, तत आसनं
स्पृष्ट्वा पृथ्वीत्यादिमन्त्रम्पठेत् ||
प्. १२१) ततः सर्वविघ्नानुत्सार्य ततः ऽ
ओं अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ||
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञयाऽ
इत्यनेनाक्षतप्रक्षेपेण सर्वविघ्नानुत्सारयेत् ||
गन्धपुष्पाभ्यां करौ सम्मर्द्य,
तत्पुष्पमैशान्यान्नाराचमुद्रया प्रक्षिपेत् || तत्र मन्त्रः
ऽओं ते सर्वे विलय/ ययान्तु ये मां हिंसन्ति हिंसकाः ||
मृत्युरोगभयक्रोधाः पतन्तु रिपुमस्तके हू/फट्ऽ ||
ततस्सामान्यार्ग्घ्यस्थापनविधिः || तत्र ऽओं
आधारशक्तयेनमःऽ इत्यनेनाधारशक्तिमभिमन्त्र्य, तत्र
चतुरस्र/ ल्लिखित्वा, तदुपरि ऽओं ह्रः
सामान्यार्ग्घ्यस्थापयामिनमःऽ
इतिसामान्यार्ग्घ्यस्थापनङ्कृत्वा, तस्मिन्प्रणवेन
जलन्निधाय, तत्र ऽगङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्म्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिङ्कुरुऽ
इतिसूर्यमण्डलादङ्कुशमुद्रया तीर्थानि तत्रावाह्य,
पुष्पाक्षतैः ऽगङ्गादिसकलतीर्त्थेभ्यो नमःऽ इति तत्र
सम्पूज्य ऽहृदयादिषडङ्गदेवताभ्योनमऽ इतिसम्पूज्य ऽओं
आं अर्कमण्डलायद्वादशकलात्मनेनमःऽ इति, ऽओं
वह्निमण्डलायदशकलात्मनेनमऽ इति, ऽओं
डंसोममण्डलायषोडशकलात्मनेनमऽ इति-
अर्कवह्निचन्द्रमण्डलानि सम्पूज्य, वमिति
धेनुमुद्रयाऽमृतीकृत्य, हूमिति कवचेनावगुण्ठ्य
फडित्यस्त्रेण संरक्ष्य, तत्र प्रणवन्दशवारञ्जपेत् || इति
सामान्यार्ग्घ्यस्थापनविधिः ||
सामान्यार्ग्घ्यस्थजलेनात्मानम्पूजोपकरणानि
चाभिषिच्य, ततो विशेषार्ग्घ्यस्थापनविधिः || तद्यथा ऽओं
आसुरेखे वज्ररेखे हू/स्वाहाऽ इति मण्डल/व्विरच्य, ततः
नवमितिभुवं सम्मृज्य || तत्र त्रिकोणवृत्तभूगृहात्मकं
मण्डल/ व्विधाय, तत्र आधारशक्तिङ्कूर्मशेषौ च
सम्पूज्य, तत्राधारम् ऽह्रींफट्ऽ इति मन्त्रेण संस्थाप्य,
पूर्वोक्तवह्निमण्डलमन्त्रेण तत्तन्मण्डलमभ्यर्च्च्य, तत्र
शङ्खम् ऽहूंफट्ऽ इतिमन्त्रेण प्रक्षालितं संस्थाप्य,
मन्त्रचतुष्टयञ्जपञ्शङ्खमर्च्चयेत् || तद्यथा
ऽह्रा/ह्री/ह्रू/ कालीकपालायनमः,
प्. १२२) स्त्रा/स्त्री/स्त्रू/तारिणीकपालायनमः,
हा/ही/हू/नीलकपालायनमः,
ह्रा/स्त्री/हू/स्वर्गकपालायसर्वाधाराय सर्वोद्भवाय
सर्वशुद्धिमयाय सर्वासुररुधिरारुणाय शुभ्राय
सुराभाजनाय देवीकपालायनमःऽ इतिमन्त्रचतुष्टयम् ||
ततः पूर्वोक्तार्कमण्डलमन्त्रेण तन्मण्डलं सम्पूज्य,
ततो मूलमन्त्रेण शङ्खे जलन्निधाय, स्वधाबुद्ध्या, तत्र
गन्धपुष्पाक्षतान्क्षिपेत् || तत्र
त्रिखण्डाम्मुद्राम्प्रदर्श्श्य तत्र
पूर्वोक्तचन्द्रमण्डलमन्त्रेण तन्मण्डलं सम्पूज्य,
ऽऐंह्रींश्रींह्रों-ओंह्रींत्रींहू/फट् ह्सौ/ हू/
इत्यनेनाष्टकृत्वो जलमभिमन्त्र्य, ह्रीमितिमन्त्रेण
शङ्खमुद्रान्धेनुमुद्रा/ ययोनिमुद्रान्दर्शयित्वा,
मत्स्यमुद्रया आच्छाद्य, दशवारम्मूलमन्त्रञ्जपेत् || तत्र
वृत्ताष्टदलषट्कोणन्ध्यात्वा, देवीम्प्रविचिन्त्य, सम्पूज्य,
मूलेन चतुर्वारं सन्तर्प्प्य, ऽऐंह्रौंह्सौंनम
आनन्दभैरवन्तर्पयामिऽ इतिमन्त्रेण सन्तर्प्य,
तेनार्ग्घ्यतोयेन पूजासाधनानि प्रोक्षयेत् ||
इतिविशेषार्ग्घ्यस्थापनविधिः || ऽओं
यथागताभिषेकममाग्निमेहू/फत्ऽ इतिमन्त्रेण पुष्पं
संशोध्य, ओं आ/ह्रींस्वाहाऽ इति चित्तशोधनङ्कुर्यात् || तत
ऋष्यादिन्यासः || तद्यथा -
शिरसि वसिष्ठाय ऋषयेनमः ||
मुखे अनुष्टुप्छन्दसेनमः ||
हृदये त्र्यम्बकदेवतायनमः ||
ततो हृदयादिन्यासः ||
ह्रांहृदयायनमः ||
ह्रींशिरसेस्वाहा |
ह्रूंशिखायैवषट् |
ह्रैंकवचायहुम् |
ह्रौंनेत्रत्रयायवौषट् |
ह्रः अस्त्रायफट् |
ततः करन्यासः || यथा ||
ह्रां अङ्गुष्ठाभ्यान्नमः |
ह्रींतर्जनीभ्यांस्वाहा |
ह्रूंमध्यमाभ्यांवषट् |
ह्रैं अनामिकाभ्यांहूम् |
ह्रौंकनिष्ठिकाभ्यां वौषट् |
ह्रः करतलकरपृष्ठाभ्यांफट् ||
ततो मूलेन त्रिधाव्यापकन्यासङ्कुर्यात् || ततो मूलेन
स्वबीजेन वा प्राणायामत्रयङ्कुर्यात् | तद्यथा
चतुर्वारजपेन पूरकः, षोडशवारजपेन कुम्भकः,
अष्टवारजपेन रेचकः || तद्विपरीतो द्वितीयः ||
तद्विपरीतस्तृतीयः || ततः
षट्कोणाष्टदलभूपुरात्मकयन्त्रं विलिख्य,
प्. १२३) मध्ये ह्सौंबीज/ व्विलिख्य यन्त्रसंस्कारञ्च कृत्वा ||
तत्र मध्ये
मेधाप्रज्ञाविद्याधीधृतिस्मृतिबुद्धिविद्यैश्वर्यः
पूज्याः || ततः पुष्पङ्गृहीत्वा ऽह्सौंसरस्वतीयोगपीठाय
नमःऽ इति यन्त्रमध्ये पुष्पम्प्रक्षिपेत् || ततो देवीन्ध्यायेत् ||
तद्यथा -
ऽविश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मास्थितां
कर्त्त्रीं खड्गकपालनीलनलिनै राजत्करामिन्दुभाम् ||
काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरतामाप्तैर्न्न
अगवरैर्विभूषिततनूमारक्तनेत्रत्रयाम् || १ ||
पिङ्गोग्रैकजटा/
ल्लसत्स्वरसनान्दंष्ट्राकरालाननाञ्चर्मद्वैपिवरङ्कटौ
विदधतीं श्वेतास्थिपट्टालिकाम् || अक्षोभ्येण
विराजमानशिरसं स्मेराननाम्भोरुहान्तारां
शावहृदासनान्दृढकुचामम्बान्त्रिलोक्याः स्मरेत् ||ऽ इति
ध्यात्वा करकक्षपिकाम्बद्ध्वा तत्र पुष्पाक्षतङ्गृहीत्वा ||
ततो मूलाधारात् कुण्डलिनीमुत्थाप्य,
द्वितीयाम्मूर्त्तिन्निस्सार्य, तन्मुखे ऽसोहम्ऽ इति
प्रदीपकलिकाञ्जीवमूर्त्तिन्निःक्षिप्य तां
सहस्रदलपद्मस्थब्रह्मणा स/योज्य,
चन्द्रमण्डलस्थामृतेन सन्तोष्य कुण्डलिन्याजीवमूर्त्ति/
व्वियोज्य, दक्षिणनासापुटेन निस्सृतम्पुष्पाक्षत/ व्विभाव्य,
तत्पुष्पाक्षतषट्कोणाष्टदलभूगृहात्मकयन्त्रे निःक्षिप्य,
तत्र देवीमावाहयेत् || तद्यथा -
महापद्मवनान्तस्थे कारणानन्दविग्रहे ||
सर्वभूत हते मातरेह्येहि परमेश्वरि ||ऽ
इति पठित्वा मूलञ्च पठन् ऽअमुकदेवि इहागच्छ इह तिष्ठ
मम पूजाङ्गृहाणऽ ऽइह सन्निधेहि इह सन्निरुध्यस्व इह
सम्मुखीभवऽ इति तत्तन्मुद्राः प्रदर्श्य, एष पुष्पाञ्जलिः
मूलमन्त्रमुच्चार्य, ऽअमुकदेवि वज्रपुष्पम्प्रतीक्ष्य
हू/फट्स्वाहा अमुकदेव्यै नमःऽ इतिपठन्
पुष्पाञ्जलिपञ्चकङ्क्षिपेत् ||
इदम्पाद्यम्मूलमन्त्रमुच्चार्य ऽअमुकदेव्यै नमःऽ |
इदमाचमनीयम् मूलमन्त्रमुच्चार्य ऽअमुकदेव्यै नमःऽ इति
पठित्वा दद्यात् | एष मधुपर्कः मूलमन्त्रमुच्चार्य
ऽअमुकदेव्यैनमःऽ
प्. १२४) इति पठित्वा मधुपर्कन्दद्यात् | इदं
स्नानीयम्मूलमन्त्रमुच्चार्य ऽअमुकदेव्यै नमःऽ इति देवीं
स्नापयेत् | एवं वसनभूषणे दद्यात् | इमानि पुष्पाणि
मूलमन्त्रमुच्चार्य ऽवज्रपुष्पम्प्रतीक्ष्य हू/फट्स्वाहा
अमुकदेव्यै वौषट्ऽ इति पठित्वा पुष्पाणि दद्यात् | तत
आवरणपूजा, पूर्वे गणेशम्पूजयेत् || तद्यथा -
गणेश इहागच्छ इह तिष्ठेत्यादिना पूजयेत् |
पुष्पदाने विशेषमनुः ऽगंगणेश
वज्रपुष्पम्प्रतीक्ष्यफट्स्वाहाऽ इत्यनेन पुष्पन्दद्यात् |
एवम्बटुकन्दक्षिणे पूजयेत् | एवङ्क्षेत्रपालम्पश्चिमे
पूजयेत् | उत्तरे योगिनीम्पूजयेत् | ततो देव्या मस्तके
अक्षोभ्यम्पूजयेत् | ऽअक्षोभ्य/ व्वज्रपुष्पम्प्रतीक्ष्यस्वाहाऽ
इतिमन्त्रेणाक्षोभ्यम्पूजयेत् | ततष्षट्कोणेषु
षडङ्गम्पूजयेत् | तद्यथा ऽएकजटायैनमऽ इतिहृदयाय
ऽतारिण्यै नमऽ इतिशिरसि | ऽवज्रोदकायै नमऽ इतिशिखायाम् |
ऽउग्रतारायैनमऽ इतिकवचे | ऽमहापरिशरायैनमऽ इतिनेत्रे
ऽपिङ्गोग्रैकजटायैनमऽ इतिदिक्षु पूजयेत् | ततो दिग्दलेषु
ऽवैरोचनमसिताभम्पद्मनाभं शङ्खपाण्डुर/
व्वैरोचनवज्रपुष्पम्प्रतीक्ष्यस्वाहाऽ इत्यादिपुष्पदाने
मन्त्रः | नामकम्मामकम्पाण्डुरन्तारक/ व्विदिक्षु
पूजयेत् | पुष्पदाने मन्त्रः प्राग्वत् | ततो भूगृहस्य
चतुर्द्वारेषु पूर्वादितः पद्मान्तक-जन्मान्तक-
विघ्नान्तक-नरकान्तकान् पूजयेत् || पुष्पदाने मन्त्रः
प्राग्वत्ततस्तद्बाह्ये इन्द्रादीन् दिक्पालान् पूजयेत् || तद्बहिः
वज्रशक्तिदण्डखड्गपाशाङ्कुशगदाशूलचक्राणि
पूजयेत् || ततो धूपः साङ्गायै सायुधायै सपरिवारायै
सवाहनायै मूलम् अमुकदेवतायै नमः || एवन्दीपन्दद्यात्
| ततो नैवेद्यन्दद्यात् | तद्यथा स्वर्णादिभाजने
नैवेद्यम्परिवेष्य वायुबीजन्द्वादशवारञ्जपन्
तज्जातमरुतेन नैवेद्यं संशोध्य दक्षिणकरतले
वामकरतलं सन्न्यस्य तदुत्थेनाग्निना
अग्निबीजन्द्वादशवारञ्जपन्नखिलन्नैवेद्यदोषं सन्दह्य
पुनर्वामकरपृष्ठे दक्षिणहस्तङ्कृत्वा तत्र
प्. १२५) प्रदर्श्श्य वंबीजन्द्वादशवारञ्जपन्
तदुत्थयामृतधारया नैवेद्यमभिषिच्यः,
पुनर्मूलेनाभिषिच्य तत्स्पृष्ट्वाष्टशो मूलमन्त्रञ्जपेत्
धेनुमुद्राम्प्रदर्श्श्य गन्धपुष्पैस्तदर्च्चयेत् | ततो
नैवेद्यभाजन/ व्वामाङ्गुष्ठेन संस्पृश्य
दक्षिणहस्तेन जलन्धृत्वा मूलम्पठन् ऽइदन्नैवेद्यं
साङ्गायै सायुधायै सपरिवारायै सवाहनायै
सावरणायै अमुकदेव्यै नमऽ इतिनैवेद्यमुत्सृज्य
अङ्गुष्ठानामिकाभ्यान्नैवेद्यमुद्राम्प्रदर्श्श्य
सपुष्पकराभ्यान्त्रिः प्रोद्धरन् ग्रासमुद्रा/ वामहस्तेन
प्रदर्शयेत् || ततः प्राणादिमुद्रान्दर्शयेत् || ओं
प्राणायस्वाहा इतिपठन्कनिष्ठानामिकाङ्गुष्ठैः
प्राणमुद्रान्दर्शयेत् | तत ओं अपानायस्वाहा
इतिपठंस्तर्ज्जनीमध्यमाङ्गुष्ठैः अपानमुद्रान्दर्शयेत्
| तत ओं उदानायस्वाहा
इतिपठन्ननामामध्यमाङ्गुष्ठैरुदानमुद्रान्दर्शयेत् |
तत ओं व्यानायस्वाहा इति
पठन्तर्ज्जन्यनामामध्यमाङ्गुष्ठैर्व्यानमुद्रान्दर्शय
एत् | ततः ओं समानायस्वाहा इतिपठन्
सर्वाङ्गुलीभिस्समानमुद्राम्प्रदर्शयेत् || ततो देवीं
सन्तुष्टा/ व्विभाव्य पानीयन्दद्यात् | मूलमन्त्रमुच्चार्य
इदम्पानीयममुकदेव्यैनमः |
इदमाचमनीयममुकदेव्यैनमः | इदन्ताम्बूलञ्च
एषपुष्पाञ्ज्लिः || अथ जपविधिः || पूर्ववत्
ऋष्यादिन्यासकरन्यासषडङ्गन्यासान् ध्यानञ्च विधाय
ऽह्रींमाले महामाले सर्वतत्त्वस्वरूपिणि | चतुर्वर्गस्त्वयि
न्यस्तस्तस्मान्मे सिद्धिदा भवऽ इति पठन् मूलमन्त्रेण
मालां सम्पूज्य यथाशक्ति जपङ्कुर्यात् || जपान्ते पुनः
प्राणायामादिक/ व्विधाय देवीन्ध्यात्वा
ऽओंगुह्यातिगुह्यगोप्त्री त्वङ्गृहाणास्मत्कृतञ्जपम् |
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरिऽ इतिपठन्
तेजोमयञ्जलन्ध्यायन् देव्या वामहस्ते जपं समर्प्पयेत् ||
पुष्पाञ्जल्यष्टकन्दत्त्वा स्तोत्रकवचादिकम्पठेत् | ततः
प्रदक्षिणीकृत्य दण्डवत्प्रणिपत्य, ओं इतः पूर्व
प्राणवृद्धिदेहधर्माधिकारतो
जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा
हस्ताभ्याम्पद्भ्यामुदरेण
प्.१२६) शिश्ना यत्स्मृत/ ययदुक्तं ययत्कृतन्तत्सर्वं
ब्रह्मार्पणम्भवतु स्वाहा मदीयञ्च सकलन्देव्यै ते
समर्पयेत् || ततः पुष्पाञ्जलिङ्गृहीत्वा
ऽओंमन्त्रहीनङ्क्रियाहीन/ व्विधिहीनं सुरेश्वरि ||
यदर्चितम्मया देवि परिपूर्णन्तदस्तु मे ||
आवाहनञ्च पूजाञ्च तन्माहात्म्यञ्जपन्तथा ||
विसर्ज्जनन्न जानामि श्रीदेवि त्वङ्क्षमस्व मे ||
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकङ्कृतम् ||
विपरीतञ्च तत्सर्वं क्षमस्व परमेश्वरि ||ऽ
एष पुष्पाञ्जलिः अमुकदेव्यैनम इति क्षमाप्य, ततः ऽओं
गच्छ गच्छ परं स्थानं स्वस्थानम्परमेश्वरि |
पूजाराधनकाले च पुनरागमनाय चऽ इति संहारमुद्रया
पुष्पमेकङ्गृहीत्वा देवी/ विसृज्य तत्पुष्पम्
ऐशान्याम्पात्रान्तरे क्षिपेत् | तत्र पात्रे चण्डेश्वरीं
समभ्यर्च्च्य
ऽओंचण्डेश्वरि महादेवि निर्माल्यैश्चन्दनादिभिः |
लेह्यचोष्यान्नपानादि निर्माल्यं स्रग्विलेपनम् ||
निर्माल्यभोजनन्तुभ्यन्ददामि श्रीशिवाज्ञयाऽ
इदन्निर्माल्यं श्रीचण्डेश्वर्यैनमः
इतिपठन्निर्माल्यङ्क्षिपेत् || ततः किञ्चिद्देवीनैवेद्यम्
ऽउच्छिष्टचाण्डाल्यैनमऽ इतिपठंस्तस्यै दद्यात् || ततो
नैवेद्यं स्वयम्भुञ्जीत ||
अथ तारास्तोत्रम्
मातर्न्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मिताननाम्भोरुहे |
फुल्लेन्दीवरलोचने त्रिनयने कर्त्री कपालोत्पले
खङ्गञ्चादधती त्वमेव शरणन्त्वामीश्वरीमाश्रपे || १
||
वाचामीश्वरि भक्तकल्पलतिके सर्वार्त्थसिद्धीश्वरि
गद्यप्राकृतपद्यजातरचनासर्वार्त्थसिद्धिप्रदे |
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे
प्. १२७) सौभाग्यामृतवर्द्धनेन कृपया
सिञ्चत्वमस्मादृशम् || २ ||
खर्वे गर्वसमूहपूरिततनौ सर्पादिवेषोज्ज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते |
सद्यः कृत्तगलद्रजः परिमिलन्मुण्डद्वयीमूर्द्धज
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयन्नाशय || ३ ||
मायानङ्गविकाररूपललना बिन्द्वर्द्धचन्द्राम्बिके
हूंफट्कारमयि त्वमेव शरणम्मन्त्रात्मिके मादृशः |
मूर्त्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा
वेदानान्नहि गोचरा कथमपि प्राज्ञैर्न्नुतामाश्रये || ४ ||
त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतान्
तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः |
संसाराम्बुधिमज्जनेऽपटुतनुर्देवेन्द्रमुख्यान्सुरान्
मातस्त्वत्पदसेवने हि विमुखान् किम्मन्दधीस्सेवते || ५ ||
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते
देवा जयसङ्गरे विजयिनो निःशङ्कमङ्के गताः |
देवोहम्भुवने न मे सम इति स्पर्द्धा/ व्वहन्तः परास्
तत्तुल्यान्नियत/ ययथाशुचिरवी नाश/ व्व्रजन्ति स्वयम् || ६ ||
त्वन्नामस्मरणात्पलायनपरा द्रष्टुञ्च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः |
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो
डाकिन्यः कुपितान्तकश्च मनुजो मातः क्षणम्भूतले || ७ ||
लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा
वैरिणां
स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् |
मातस्त्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
क्लान्तः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः || ८ ||
ताराष्टकमिदम्पुण्यम्भक्तिमान् यः पठेन्नरः ||
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः || ९ ||
लभते कविता/ व्विद्यां सर्वशास्त्रार्त्थविद्भवेत् |
लक्ष्मीमनश्वराम्प्राप्य भुक्त्वा भोगान्यथेप्सितान् || १० ||
कीर्त्तिङ्कान्तिञ्च नैरुज्यम्प्राप्यान्ते मोक्षमाप्नुयात् || ११ ||
प्. १२८) इति नीलतन्त्रे तारास्तोत्रं समाप्तम् ||
अथ ताराकवचम्
ईश्वर उवाच
कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी |
दिव्यं हि कवचन्तस्याः शृणुष्व सर्वकामदम् || १ ||
ताराकवचस्याक्षोभ्यऋषिस्त्रिष्टुप्छन्दो भगवती
तारादेवता सर्वमन्त्रसिद्धये विनियोगः ||
ओं प्रणवो मे शिरः पातु ब्रह्मारूपा महेश्वरी |
ह्रींकारः पातु ललाटे बीजरूपा महेश्वरी || २ ||
स्त्रींकारः पातु वदने लज्जारूपा महेश्वरी |
हूकार/ पातु हृदये भवानीशक्तिरूपधृक् || ३ ||
फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा |
खर्वा माम्पातु देवेशी भ्रूमध्ये सर्वसिद्धिदा || ४ ||
नीला माम्पातु देवेशी गण्डयुग्मे भयापहा |
लम्बोदरी सदा पातु कर्णयुग्मम्भयापहा || ५ ||
व्याघ्रचर्मावृतकटिः पातु देवी शिवप्रिया |
पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी || ६ ||
रक्तवर्त्तुलनेत्रा च कटिदेशे सदावतु |
ललज्जिह्वा सदा पातु नाभौ माम्भुवनेश्वरी || ७ ||
करालास्या सदा पातु लिङ्गे देवी हरप्रिया |
पिङ्गोग्रैकजटा पातु जङ्घाया/ व्विघ्ननाशिनी || ८ ||
खड्गहस्ता महादेवी जानुचक्रे महेश्वरी |
नीलवर्णा सदा पातु जानुनी सर्वदा मम || ९ ||
नागकुण्डलधर्त्री च पातु पादयुगे ततः |
नागहारधरा देवी सर्वाङ्गम्पातु सर्वदा || १० ||
न गाङ्गदधरा देवी पातु पाण्डवदेशतः |
चतुर्भुजा सदा पातु गमने शत्रुनाशिनी || ११ ||
खड्गहस्ता महादेवी पातु मा/ व्विजयप्रदा |
नीलाम्बरधरा देवी पातु मा/ व्विघ्ननाशिनी || १२ ||
कर्तुहस्ता सदा पातु विवादे शत्रुमध्यतः |
ब्रह्मरूपधरा देवी सङ्ग्रामे पातु सर्वदा || १३ ||
नागकङ्कणधर्त्री च भोजने पातु सर्वदा |
शवकर्णा महादेवी शयने पातु सर्वदा || १४ ||
वीरासनधरा देवी निद्रायां पातु सर्वदा || १५ ||
धनुर्बाणधरा देवी पातु मा/ व्विघ्नसङ्कुले |
१२९) नागाञ्चितकटिः पातु देवी मां सर्वकर्मसु || १६ ||
छिन्नमुण्डधरा देवी कानने सर्वदाऽवतु |
चितामध्यस्थिता देवी मारणे पातु सर्वदा || १७ ||
द्वीपिचर्मधरा देवी पुत्रदारधनादिषु |
अलङ्कारान्विता देवी पातु मां हरवल्लभा || १८ ||
रक्ष रक्ष नदीकुञ्जे हू/हू/हू/फट्समन्विते |
बीजरूपा महादेवी पर्वते पातु सर्वदा || १९ ||
मणिधरि वज्रिणी देवी महाप्रतिसरे तथा |
रक्ष रक्ष सदा हू/हू/ ओं ह्रीं स्वाहा महेश्वरी || २० ||
पुष्पकेतुराजार्हते कानने पातु सर्वदा |
ओं वज्रपुष्पे हू/फट् च पाण्डवे पातु सर्वदा || २१ ||
पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी |
ओं स्वाहाशक्तिस/ययुक्ता दारान् रक्षतु सर्वदा || २२ ||
ओं पवित्रवज्रभूमे हू/फट् स्वाहासमन्विता |
पूरिका पातु मान्देवी सर्वविघ्नविनाशिनी || २३ ||
आसुरेखे वज्ररेखे हू/फट्स्वाहासमन्विता |
पाताले पातु मान्देवी नागिनी मानसञ्चिता || २४ ||
ह्रींकारी पातु पूर्वे मां शक्तिरूपा महेश्वरी |
स्त्रींकारी दक्षिणे पातु स्त्रीरूपा परमेश्वरी || २५ ||
हू/स्वरूपा महामाया पातु मां क्रोधरूपिणी |
कस्वरूपा महामाया पश्चिमे पातु सर्वदा || २६ ||
उत्तरे पातु मान्देवी ढस्वरूपा हरप्रिया |
मध्ये माम्पातु देवेशी हू/स्वरूपा नगात्मजा || २७ ||
नीलवर्णा सदा पातु सर्वत्र वाग्भवी सदा |
तारिणी पातु भवने सर्वैश्वर्यप्रदायिनी || २८ ||
विद्यादानरता देवी पातु वक्त्रे सरस्वती |
शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ || २९ ||
भीमरूपा सदा पातु श्मशाने भयनाशिनी |
भूतप्रेतालये घोरे दुर्गे माम्मीषणावतु || ३० ||
पातु नित्यम्महेशानी सर्वत्र शिवदूतिका |
कवचस्य च माहात्म्यन्नाह/ व्वर्षशतैरपि || ३१ ||
शक्नोमि कथितुन्देवि भवेत्तस्य फलन्तु यत् |
पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा || ३२ ||
न विद्यते भयन्तस्य नृपपूज्यो भवेच्च सः |
शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम् || ३३ ||
प्. १३०) प्रपठन् वा स्मरन्मर्त्त्यो दुःखशोकविवर्ज्जितः |
सर्वशास्त्रे महेशानि कविराड्भवति ध्रुवम् || ३४ ||
सर्ववागीश्वरो मर्त्त्यो लोकवश्यो धनेश्वरः |
रणे द्यूते विवादे च जयस्तस्य भवेद्ध्रुवम् || ३५ ||
पुत्रपौत्रान्वितो मर्त्त्यो विलासी सर्वयोषिताम् |
शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा || ३६ ||
गर्व्वी खर्वी भवत्येव वादी ज्वलति दर्शनात् |
मृत्युश्च वश्यता/ याति दासस्तस्यावनीश्वरः || ३७ ||
प्रसङ्गात्कथितं सर्वङ्कवचं सर्वकामदम् |
प्रपठन् वा स्मरन्मर्त्त्यः शापानुग्रहणे क्षमः || ३८ ||
आनन्दवृन्दसिन्धूनामधिपः कविराड्भवेत् |
सर्वयोगीश्वरो मर्त्त्यो लोकबन्धुस्सदा सुखी || ३९ ||
गुरोः प्रसादमासाद्य विद्याम्प्राप्य सुगोपिताम् |
तत्रापि कवचन्देवि दुर्ल्लभम्भुवनत्रये || ४० ||
गुरुर्देवो हरस्साक्षात् पत्नी तस्य हरप्रिया |
अभेदेन जयेद्यस्तु तस्य सिद्धिरदूरतः || ४१ ||
मन्त्राचारा महेशानि कथिताः पूर्वतः प्रिये |
नाभौ ज्योतिस्तथा वक्त्रे हृदये परिचिन्तयेत् || ४२ ||
ऐश्वर्यं सुकवित्वञ्च रुद्रश्च सिद्धिदायकः |
तन्दृष्ट्वा साधकन्देवि लज्जायुक्ता भवन्ति ते || ४३ ||
स्वर्गे मर्त्त्ये च पाताले ये देवास्सुरसत्तमाः |
प्रशंसन्ति सदा सर्वे तन्दृष्ट्वा साधकोत्तमम् || ४४ ||
विघ्नात्मानश्च ये देवाः स्वर्गे मर्त्त्ये रसातले |
प्रशंसन्ति सदा सर्वे तन्दृष्ट्वा साधकोत्तमम् || ४५ ||
इति ते कथितन्देवि मया सम्यक्प्रकीर्त्तितम् |
भुक्तिमुक्तिकरं साक्षात् कल्पवृक्षस्वरूपकम् || ४६ ||
आसाद्याद्य गुरुम्प्रसाद्य य
इदङ्कल्पद्रुमालम्बनम्मोहेनापि मदेन वा नहि जनो
जाडयेन वा मुह्यति ||
सिद्धोऽसौ भुवि सर्वदुःखविपदाम्पारम्प्रयात्यन्तके
मित्रन्तस्य नृपश्च देवि विपदो नश्यन्ति तस्याशु च || ४७ ||
तद्गात्रम्प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि |
तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद्ध्रुवम् || ४८ ||
प्. १३१) इदङ्कवचमज्ञात्वा तारा/ ययो भजते नरः |
अल्पायुर्न्निर्द्धनो मूर्खो भवत्येव न संशयः || ४९ ||
लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे |
तस्य सर्वार्त्थसिद्धिः स्याद्यद्यन्मनसि वर्त्तते || ५० ||
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा |
यावकैर्वा महेशानि लिखेन्मन्त्र/ व्विशेषतः || ५१ ||
अष्टम्याम्मङ्गलदिने चतु-ईश्यामथापि वा |
सन्ध्यायान्देवदेवेशि लिखेन्मन्त्रं समाहितः || ५२ ||
मघायां श्रवणाया/ व्वा रेवत्याञ्च विशेषतः |
सिंहराशौ गते चन्द्रे कर्क्कटस्थे दिवाकरे || ५३ ||
मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे |
लिखित्वा धारयेद्यस्तु साधको भक्तिभावतः ||
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा || ५४ ||
वादी मूकति दूषकः स्तवयति क्षोणीपतिर्दासति गर्वी खर्वति
सर्वविच्च जडति वैश्वानरः शीतति |
आचाराद्भवसिद्धिरूपमपरं सिद्धो भवेद्दुर्लभन्त्वा/
व्वन्दे भवभीतिभञ्जनकरीन्नीलाङ्गिरीशप्रियाम् || ५५ ||
इति नीलतन्त्रे परमरहस्यकमुग्रताराकवचं समाप्तम् ||
अथ श्रीताराहृदयम्
श्रीशिव उवाच
शृणु पार्वति भद्रन्ते लोकानां हितकारकम् |
कथ्यते सर्वदा गोप्यन्ताराहृदयमुत्तमम् || १ ||
श्रीपार्वत्युवाच
स्तोत्रङ्कथं समुत्पन्नङ्कृतङ्केन पुरा प्रभो |
कथ्यतां सर्वसद्वृत्तङ्कृपाङ्कृत्वा ममोपरि || २ ||
श्रीशिव उवाच
रणे देवासुरे पूर्वङ्कृतमिन्द्रेण सुप्रिये |
दुष्टशत्रुविनाशार्त्थम्बलवृद्धियशस्करम् || ३ ||
ओमस्य श्रीमदुग्रताराहृदयस्तोत्रमन्त्रस्य श्रीभैरव
ऋषिरनुष्टुप्छन्दः श्रीमदुग्रतारा देवता स्त्रींबीजं
हू/शक्तिः नमः कीलकं सकलशत्रुविनाशार्थे पाठे
विनियोगः ||
ओं स्त्रींहृदयायनमः | ओं ह्रींशिरसेस्वाहा | ओं
हू/शिखायैवषट् |
ओंत्रींकवचायहूम् |
प्. १३२) ओं ऐंनेत्रत्रयायवौषट् | ओं हंसः अस्त्रायफट् |
अथ ध्यानम्
ध्यायेत्कोटिदिवाकरद्युतिनिभान्बालेन्दुयुक्छेखरां
रक्ताङ्गीं रसनां सुरक्तवसनाम्पूर्णेन्दुबिम्बाननाम् |
पाशङ्कर्तृमहाङ्कुशादि दधतीन्दोर्भिश्रतुर्भिर्युतान्
नानाभूषणभूषिताम्भगवतीन्ताराञ्जगत्तारिणीम् ||
एवन्ध्यात्वा शुभान्तारान्ततस्तु हृदयम्पठेत् |
तारिणीतत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका |
रामाभिन्ना पराशक्तिश्शत्रुनाशङ्करोतु मे |
सर्वदा शत्रुसंरम्भे तारा मे कुरुताज्जयम् ||
स्त्रींत्रींस्वरूपिणी देवी त्रिषु लोकेषु विश्रुता |
तवस्नेहान्मयाख्यातन्न पशूनाम्प्रकाश्यताम् ||
शृणु देवि तव स्नेहात्तारानामानि तत्त्वतः |
वर्णयिष्यामि गुप्तानि दुर्ल्लभानि जगत्त्रये ||
तारिणी तरला तारा त्रिरूपा तरणिप्रभा |
सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ||
रमणीया रजोरूपा जगत्सृष्टिकरी परा |
तमोरूपा महामाया घोररावा भयानका ||
कालरूपा कालिकाख्या जगद्विध्वंसकारिका |
तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदानघा ||
रक्ताङ्गी रक्तवस्त्रा च रक्तमालाप्रशोभिता |
सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया ||
नामान्येतानि ये मर्त्त्यास्सर्वदैकाग्रमानसाः |
प्रपठन्ति प्रिये तेषाङ्किङ्करत्वङ्करोम्यहम् ||
तारान्तारपरान्देवीन्तारकेश्वरपूजिताम् |
तारिणीम्भवपाथोधेरुग्रताराम्भजाम्यहम् ||
स्त्रींहींहू/त्रींफण्मन्त्रेण जलञ्जप्त्वाऽभिषेचयेत् |
सर्वे रोगाः प्रणश्यन्ति सत्यं सत्य/ व्वदाम्यहम् ||
त्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः |
तिलकङ्कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये ||
स्त्रींह्रींत्रींस्वाहामन्त्रेण श्मशानम्भस्म मन्त्रयेत् |
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्ब्भविष्यति |
ह्रींहू/स्त्रीम्फडन्तमन्त्रैः पुष्पं संशोध्य सप्तधा |
उच्चाटनन्नयत्याशु रिपूणान्नैव संशयः |
स्त्रींत्रींह्रींमन्त्रवर्येण अक्षताश्चाभिमन्त्रिताः |
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी || (हंसः- ओं
ह्रीं स्त्रीं हूंहूंसः)
प्. १३३) इतिमन्त्रेण जप्तेन शोधितङ्कज्जलम्प्रिये |
तस्यैव तिलकं कृत्वा जगन्मोहं समाचरेत् ||
ताराया हृदयन्देवि सर्वपापप्रणाशनम् |
वाजपेयादियज्ञानाङ्कोटिकोटिगुणोत्तरम् ||
गङ्गादिसर्वतीर्थानाम्फलङ्कोटिगुणं स्मृतम् |
महादुःखे महारोगे सङ्कटे प्राणसंशये ||
महाभये महाघोरे पठेत्स्तोत्रम्महोत्तमम् |
सत्यं सत्यम्मयोक्तन्ते पार्वति प्राणवल्लभे ||
गोपनीयम्प्रयत्नेन न प्रकाश्यमिदङ्क्वचित् |
इति श्रीभैरवीतन्त्रे शिवपार्वतीस/व्वादे
श्रीमदुग्रताराहृदयं संपूर्णम् ||
अथ तारोपनिषत्
ओं
तत्सद्ब्रह्मतद्रूपम्प्रकृतिपरङ्गगनाभन्तत्परम्परमम्
महत्सत्यन्तदहंह्रींकारं
रक्तवर्णन्नान्नाभिस्त्रींकारम्पिङ्गलाभं हूङ्कार/
व्विशदाभम्मद्धृदयरूपं
भूमण्डलम्फट्कारधूम्रवर्णम्मत्खड्गमोङ्कारज्वल्
अद्रूपम्मन्मस्तक/ व्वेदा मद्धस्ताश्चन्द्रार्कानला
मन्नेत्रा दिवानक्तम्मत्पादौ सन्ध्या मत्कर्णौ स/व्वत्सरो
मदुदरो मद्दंष्ट्रा पङ्क्तौ मत्पार्श्वौ वारर्त्तवो
मदङ्गुल्यो विद्या मन्नखाः पावको
मन्मुखम्महीमद्रसना
द्यौर्मन्मुखङ्गगनम्मद्धृदयं भक्तिर्मम चर्म्म
रसम्मद्रुधिर/ व्वान्न/ व्वासांसि फलानि निरहङ्कारा
अस्थीनि सुधामन्मज्जा स्थावराणि मद्रोमाणि पातालादिलोकौ
मत्कुचौ ब्रह्मनादम्मन्नाड्यं ज्ञानम्मन्मनः
क्षमाबुद्धिःशून्यम्मदासनन्नक्षत्राणि मद्भूषणानि
|| एतद्वैराटकम्मद्वपुः मज्जलं सत्त्वं
बिन्दुस्वरूपम्महाकारस्वरूपञ्ज्योतिर्म्मय/ व्विद्धि शिरः
उग्रताराम्महोग्रान्नीलाङ्घनामेकजटाम्महामायाम्प्र
कृतिम्मा/ विदित्वा यो जपति मद्रूपाणि यो वेत्ति मन्मन्त्र/ ययो
जपति मद्रूपकल्पिता/ यो जपति भगम्भजति निर्विकल्पः
साधकः सदा मद्रूपो भवति || सर्वाणि कर्माणि साध्यानि
निर्ब्भयो भवति गुरुन्नत्वा स्तुत्वा वस्त्रभूषणानि दत्त्वा
इमामुपनिषद्विद्याम्प्राप्य मा/ ययो जपति स जीवन्मुक्तो
भवति ||
प्. १३४) इत्यथर्वणवेदे सौभाग्यकाण्डे तारोपनिषत्समाप्ता
||
अथ ताराशतनामस्तोत्रम्
श्रीशिव उवाच
तारणी तरला तन्वी तारा तरुणवल्लरी |
तीररूपातरी श्यामा तनुक्षीणपयोधरा || १ ||
तुरीया तरला तीव्रगमना नीलवाहिनी |
उग्रतारा जया चण्डी श्रीमदेकजटाशिरा || २ ||
तरुणी शाम्भवी छिन्नभाला च भद्रतारिणी |
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती || ३ ||
द्वितीया शोभना नित्या नवीना नित्यनूतना |
चण्डिका विजयाराध्या देवी गगनवाहिनी || ४ ||
अट्टहास्या करालास्या चरास्यादितिपूजिता |
सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता || ५ ||
रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता |
बलिप्रिया बलिरता दुर्द्धा बलवती बला || ६ ||
बलप्रिया बलरता बलरामप्रपूजिता |
अर्द्धकेशेश्वरी केशा केशवा सविभूषिता || ७ ||
पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी |
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता || ८ ||
वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता |
माहेश्वरी महादेवप्रिया पञ्चविभूषिता || ९ ||
इडा च पिङ्गला चैव सुषुम्नाप्राणरूपिणी |
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता || १० ||
तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी |
तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकानघा || ११ ||
ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी |
तालदानरता क्रूरतापिनी तरणिप्रभा || १२ ||
त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी |
तारुण्यभावसन्तुष्टा शक्तिभक्तानुरागिणी || १३ ||
शिवासक्ता शिवरतिः शिवभक्तिपरायणा |
ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी || १४ ||
बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी |
रामरूपा रामशक्ती रामरूपानुकारिणी || १५ ||
इत्येतत्कथितन्देवि रहस्यम्परमाद्भुतम् |
प्. १३५) श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः || १६ ||
य इदम्पठति स्तोत्रं तारास्तुतिरहस्यकम् |
सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले || १७ ||
तस्यैव मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा |
भवत्येव महामाये सत्यं सत्यन्न संशयः || १८ ||
मन्दे मङ्गलवारे च यः पठेन्निशि स/ययतः |
तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्य/ ल्लभेत सः || १९ ||
श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् |
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् || २० ||
सहस्रावर्त्तनाद्देवि पुरश्चर्याफल/ ल्लभेत् |
एवंसततयुक्ता ये ध्यायन्तस्त्वामुपासते ||
ते कृतार्त्था महेशानि मृत्युसंसारवर्त्मनः || २१ ||
इति स्वर्णमालातन्त्रे तारणीशतनामस्तोत्रं समाप्तम् ||
अथ श्रीतारातकारादिसहस्रनाम
वसिष्ठ उवाच
नाम्नां सहस्रन्ताराया मुखाम्भोजाद्विनिर्गतम् |
मन्त्रसिद्धिकरम्प्रोक्तन्तन्मे वद पितामह || १ ||
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् |
यस्योपदेशमात्रेण तव सिद्धिर्ब्भविष्यति || २ ||
महाप्रलयकालादौ नष्टे स्थावरजङ्गमे |
महाकारं समाकर्ण्य कृपया संहृतन्तनौ || ३ ||
नाम्ना तेन महातारा ख्याता सा ब्रह्मरूपिणी |
महाशूलत्रयङ्कृत्वा तत्र चैकाकिनी स्थिता || ४ ||
पुनः सृष्टेश्चिकीर्षाभूद्दिव्यसाम्राज्यसञ्ज्ञकम् |
नाम्नां सहस्रमस्यास्तु तकाराद्यम्मया स्मृतम् || ५ ||
तत्प्रभावेण ब्रह्माण्डन्निर्म्मितं सुदृढम्महत् |
आविर्भूता वयन्तत्र यन्त्रैस्तस्याः पुरा द्विज || ६ ||
स्वस्य कार्यार्त्थिनस्तत्र भ्रान्ता भूम्या/ ययथा वयम् |
तयोपदिष्टाः कृपया भवामस्सृष्टिकारकाः || ७ ||
तस्याः प्रसादाद्विप्रेन्द्र त्त्रयो ब्रह्माण्डनायकाः |
अन्ये सुरगणास्सर्वे तस्याः पादप्रसेवकाः || ८ ||
पठनाद्धारणात्सृष्टेः कर्त्ताहम्पालको हरिः |
तत्त्वाक्षरोपदेशेन संहर्त्ता शङ्करस्स्वयम् || ९ ||
प्. १३६) ऋषिच्छन्दादिकध्यानम्मूलवत्परिकीर्त्तितम् |
नियोगोमात्रसिद्धौ च पुरुषार्त्थचतुष्टये || १० ||
तारा तारादिपञ्चार्णा तारान्यावेदवीर्यजा |
तारातारहितावर्णा ताराद्या ताररूपिणी || ११ ||
तारारात्रिसमुत्पन्ना तारारात्रिवरोद्यता |
तारारात्रिजपासक्ता तारारात्रिस्वरूपिणी || १२ ||
ताराराज्ञीस्वसन्तुष्टा ताराराज्ञीवरप्रदा |
ताराराज्ञीस्वरूपा च ताराराज्ञीप्रसिद्धिदा || १३ ||
ताराहृत्पङ्कजागारा ताराहृत्पङ्कजापरा |
ताराहृत्पङ्कजाधारा ताराहृत्पङ्कजा तथा || १४ ||
तारेश्वरी च ताराभा तारागणस्वरूपिणी |
तारागणसमाकीर्णा तारागणनिषेविता || १५ ||
तारा तारान्विता तारा रत्नान्वितविभूषणा |
तारागणरणासन्ना ताराकृत्यप्रपूजिता || १६ ||
तारागणकृताहारा तारागणकृताश्रया |
तारागणकृतागारा तारागणनतत्परा || १७ ||
तारागुणगणाकीर्णा तारागुणगणप्रदा |
तारागुणगणासक्ता तारागुणगणालया || १८ ||
तारेश्वरी तारपूज्या ताराजप्या तु तारणा |
तारमुख्या तु ताराख्या तारदक्षा तु तारिणी || १९ ||
तारागम्या तु तारस्था तारामृततरङ्गिणी |
तारभव्या तु तारार्णा तारहव्या तु तारिणी || २० ||
तारका तारकान्तस्स्था तारकाराशिभूषणा |
तारकाहारशोभाढ्या तारकावेष्टिताङ्गणा || २१ ||
तारकाहंसकाकीर्णा तारकाकृतभूषणा |
तारकाङ्गदशोभाङ्गी तारकाश्रितकङ्कणा || २२ ||
तारकाञ्चितकाञ्ची च तारकान्वितभक्षणा |
तारकाचित्रवसना तारकासनमण्डला || २३ ||
तारकाकीर्णमुकुटा तारकाश्रितकुण्डला |
तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वला || २४ ||
तारकाश्रितपादाब्जा तारकावरदायिका |
तारकादत्तहृदया तारकाञ्चितसायका || २५ ||
तारकान्यासकुशला तारकान्यासविग्रहा |
तारकान्याससन्तुष्टा तारकान्याससिद्धिदा || २६ ||
तारकान्यासनिलया तारकान्यासपूजिता |
तारकान्याससंहृष्टा तारकान्याससिद्धिदा || २७ ||
प्. १३७) तारकान्याससंम्मग्ना तारकान्यासवासिनी |
तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिनी || २८ ||
तारकोपासकप्राणा तारकोपासकप्रिया |
तारकोपासकासाध्या तारकोपासकेष्टदा || २९ ||
तारकोपासकासक्ता तारकोपासकार्त्थिनी |
तारकोपासकाराध्या तारकोपासकाश्रया || ३० ||
तारकासुरसन्तुष्टा तारकासुरपूजिता |
तारकासुरनिर्माणकर्त्री तारकवन्दिता || ३१ ||
तारकासुरसम्मान्या तारकासुरमानदा |
तारकासुरसंसिद्धा तारकासुरदेवता || ३२ ||
तारकासुरदेहस्था तारकासुरस्वर्गदा |
तारकासुरसंसृष्टा तारकासुरगर्वदा || ३३ ||
तारकासुरसंहन्त्री तारकासुरमर्द्दिनी |
तारकासुरसङ्ग्रामनर्त्तकी तारकापहा || ३४ ||
तारकासुरसङ्ग्रामकारिणी तारकारिभृत् |
तारकासुरसङ्ग्रामकबन्धवृन्दवन्दिता || ३५ ||
तारकारिप्रसूतारिकारिमाता तु कारिका |
तारकारीमनोहारीवस्त्रभूषानुशासिका || ३६ ||
तारकारीविधात्री च तारकारिनिषेविता |
तारकारीवचस्तुष्टा तारकारीसुशिक्षिता || ३७ ||
तारकारीसुसन्तुष्टा तारकारिविभूषिता |
तारकारिकृतोत्सङ्गी तारकारिप्रहर्षदा || ३८ ||
तमः सम्पूर्णसर्वाङ्गी तमोलिप्तकलेबरा |
तमोव्याप्तस्थलासङ्गा तमः पटलसन्निभा || ३९ ||
तमोहन्त्री तमः कर्त्री तमःसञ्चारकारिणी |
तमोगात्री तमोदात्री तमः पात्री तमोपहा || ४० ||
तमोराशिपूर्णराशिस्तमोराशिविनाशिनी |
तमोराशिकृतध्वंसी तमोराशिभयङ्करी || ४१ ||
तमोगुणप्रसन्नास्या तमोगुणसुसिद्धिदा |
तमोगुणोक्तमार्गस्था तमोगुणविराजिता || ४२ ||
तमोगुणस्तुतिपरा तमोगुणविवर्धिनी |
तमोगुणाश्रितपरा तमोगुणविनाशिनी || ४३ ||
तमोगुणाक्षयकरी तमोगुणकलेवरा |
तमोगुणध्वंसतुष्टा तमः पारेप्रतिष्ठिता || ४४ ||
तमोभवभवप्रीता तमोभवभवप्रिया |
तमोभवभवाश्रद्धा तमोभवभवाश्रया || ४५ ||
तमोभवभवप्राणा तमोभवभवार्चिता |
प्. १३८) तमोभवभवप्रीत्यालीढकुम्भस्थलस्थिता || ४६ ||
तपस्विवृन्दसन्तुष्टा तपस्विवृन्दपुष्टिदा |
तपस्विवृन्दसंस्तुत्या तपस्विवृन्दवन्दिता || ४७ ||
तपस्विवृन्दसम्पन्ना तपस्विवृन्दहर्षदा |
तपस्विवृन्दसम्पूज्या तपस्विवृन्दभूषिता || ४८ ||
तपस्विचित्ततल्पस्था तपस्विचित्तमध्यगा |
तपस्विचित्तचित्तार्हा तपस्विचित्तहारिणी || ४९ ||
तपस्विकल्पवल्ल्याभा तपस्विकल्पपादपी |
तपस्विकामधेनुश्च तपस्विकामपूर्त्तिदा || ५० ||
तपस्वित्राणनिरता तपस्विगृहसंस्थिता |
तपस्विगृहराजश्रीस्तपस्विराज्यदायिका || ५१ ||
तपस्विमानसाराध्या तपस्विमानदायिका |
तपस्वितापसंहर्त्त्री तपस्वितापशान्तिकृत् || ५२ ||
तपस्विसिद्धिविद्या च तपस्विमन्त्रसिद्धिकृत् |
तपस्विमन्त्रतन्त्रेशी तपस्विमन्त्ररूपिणी || ५३ ||
तपस्विमन्त्रनिपुणा तपस्विकर्मकारिणी |
तपस्विकर्मसम्भूता तपस्विकर्मसाक्षिणी || ५४ ||
तपस्सेव्या तपोभव्या तपोभाव्या तपस्विनी |
तपोवश्या तपोगम्या तपोगेहनिवासिनी || ५५ ||
तपोधन्या तपोमान्या तपः कन्या तपोवृता |
तपस्तथ्या तपोगोप्या तपोजप्या तपोनृता || ५६ ||
तपस्साध्या तपोराध्या तपोवन्द्या तपोमयी |
तपस्सन्ध्या तपोवन्ध्या तपस्सान्निध्यकारिणी || ५७ ||
तपोध्येया तपोगेया तपस्तप्ता तपोबला |
तपोलेया तपोदेया तपस्तत्त्वफलप्रदा || ५८ ||
तपोविघ्नवरघ्नी च तपोविघ्नविनाशिनी |
तपोविघ्नचयध्वंसी तपोविघ्नभयङ्करी || ५९ ||
तपोभूमिवरप्राणा तपोभूमिपतिस्तुता |
तपोभूमिपतिध्येया तपोभूमिपतीष्टदा || ६० ||
तपोवनकुरङ्गस्था तपोवनविनाशिनी |
तपोवनगतिप्रीता तपोवनविहारिणी || ६१ ||
तपोवनफलासक्ता तपोवनफलप्रदा |
तपोवनसुसाध्या च तपोवनसुसिद्धिदा || ६२ ||
तपोवनसुसेव्या च तपोवननिवासिनी |
तपोधनसुसंसेव्या तपोधनसुसाधिता || ६३ ||
प्. १३९) तपोधनसुस/ल्लीना तपोधनमनोमयी |
तपोधननमस्कारा तपोधनविमुक्तिदा || ६४ ||
तपोधनधनासाध्या तपोधनधनात्मिका |
तपोधनधनाराध्या तपोधनफलप्रदा || ६५ ||
तपोधनधनाढ्या च तपोधनधनेश्वरी |
तपोधनधनप्रीता तपोधनधनालया || ६६ ||
तपोधनजनाकीर्णा तपोधनजनाश्रया |
तपोधनजनाराध्या तपोधनजनप्रसूः || ६७ ||
तपोधनजनप्राणा तपोधनजनेष्टदा |
तपोधनजनासाध्या तपोधनजनेश्वरी || ६८ ||
तरुणासृक्प्रपानार्ता तरुणासृक्प्रतर्पिता |
तरुणासृक्समुद्रस्था तरुणासृक्प्रहर्षदा || ६९ ||
तरुणासृक्सुसन्तुष्टा तरुणासृग्विलेपिता |
तरुणासृङ्नदीप्राणा तरुणासृग्विभूषणा || ७० ||
तरुणैणबलिप्रीता तरुणैणबलिप्रिया |
तरुणैणवलिप्राणा तरुणैणबलीष्टदा || ७१ ||
तरुणाजबलिप्रीता तरुणाजबलिप्रिया |
तरुणाजबलिघ्राणा तरुणाजबलिप्रभुक् || ७२ ||
तरुणादित्यसङ्काशा तरुणादित्यविग्रहा |
तरुणादित्यरुचिरा तरुणादित्यनिर्म्मला || ७३ ||
तरुणादित्यनिलया तरुणादित्यमण्डला |
तरुणादित्यललिता तरुणादित्यकुण्डला || ७४ ||
तरुणार्कसमज्योत्स्ना तरुणार्कसमप्रभा |
तरुणार्कप्रतीकारा तरुणार्कप्रवर्द्धिता || ७५ ||
तरुणा तरुणानेत्रा च तरुणा तरुणलोचना |
तरुणा तरुणनेत्रा च तरुणा तरुणभूषणा || ७६ ||
तरुणीदत्तसङ्केता तरुणीदत्तभूषणा |
तरुणीगणसन्तुष्टा तरुणीतरुणीमणिः || ७७ ||
तरुणीमणिसंसेव्या तरुणीमणिवन्दिता |
तरुणीमणिसन्तुष्टा तरुणीमणिपूजिता || ७८ ||
तरुणीवृन्दस/वाद्या तरुणीवृन्दवन्दिता |
तरुणीवृन्दसंस्तुत्या तरुणीवृन्दमानदा || ७९ ||
तरुणीवृन्दमध्यस्था तरुणीवृन्दवेष्टिता |
तरुणीवृन्दसम्प्रीता तरुणीवृन्दभूषिता || ८० ||
तरुणीजपसंसिद्धा तरुणीजपमोक्षदा |
तरुणीपूजकासक्ता तरुणीपूजकार्त्थिनी || ८१ ||
प्. १४०) तरुणीपूजकश्रीदा तरुणीपूजकार्त्तिहा |
तरुणीपूजकप्राणा तरुणीनिन्दकार्त्तिदा || ८२ ||
तरुणीकोटिनिलया तरुणीकोटिविग्रहा |
तरुणीकोटिमध्यस्था तरुणीकोटिवेष्टिता || ८३ ||
तरुणीकोटिदुस्साध्या तरुणीकोटिविग्रहा |
तरुणीकोटिरुचिरा तरुणीतरुणीश्वरी || ८४ ||
तरुणीमणिहाराढ्या तरुणीमणिकुण्डला |
तरुणीमणिसन्तुष्टा तरुणीमणिमण्डिता || ८५ ||
तरुणीसरणीप्रीता तरुणीसरणीरता |
तरुणीसरणीस्थाना तरुणीसरणीरता || ८६ ||
तरणीमण्डलश्रीदा तरणीमण्डलेश्वरी |
तरणीमण्डलश्रद्धा तरणीमण्डलस्थिता || ८७ ||
तरणीमण्डलार्ग्घाढ्या तरणीमण्डलार्चिता |
तरणीमण्डलध्येया तरणीभवसागरा || ८८ ||
तरणीकारणासक्ता तरणीतक्षकार्चिता |
तरणीतक्षकश्रीदा तरणीतक्षकार्त्थिनी || ८९ ||
तरणीतरणशीला च तरीतरणतारिणी |
तरीतरणस/व्वेद्या तरीतरणकारिणी || ९० ||
तरुरूपा तरूपस्था तरुस्तरुलतामयी |
तरुरूपा तरुस्था च तरुमध्यनिवासिनी || ९१ ||
तप्तकाञ्चनगेहस्था तप्तकाञ्चनभूमिका |
तप्तकाञ्चनप्राकारा तप्तकाञ्चनपादुका || ९२ ||
तप्तकाञ्चनदीप्ताङ्गी तप्तकाञ्चनसन्निभा |
तप्तकाञ्चनगौराङ्गी तप्तकाञ्चनमञ्चगा || ९३ ||
तप्तकाञ्चनवस्त्राढ्या तप्तकाञ्चनरूपिणी |
तप्तकाञ्चनमध्यस्था तप्तकाञ्चनकारिणी || ९४ ||
तप्तकाञ्चनमासार्च्च्या तप्तकाञ्चनपात्रभुक् |
तप्तकाञ्चनशैलस्था तप्तकाञ्चनकुण्डला || ९५ ||
तप्तकाञ्चनक्षत्त्राढ्या तप्तकाञ्चनदण्डधृक् |
तप्तकाञ्चनभूषाढ्या तप्तकाञ्चनदानदा || ९६ ||
तप्तकाञ्चनदेशेशी तप्तकाञ्चनचापधृक् |
तप्तकाञ्चनतूणाढ्या तप्तकाञ्चनबाणभृत् || ९७ ||
तलातलविधात्री च तलातलविधायिनी |
तलातलस्वरूपेशी तलातलविहारिणी || ९८ ||
तलातलजनासाध्या तलातलजनेश्वरी |
तलातलजनाराध्या तलातलजनार्थदा || ९९ ||
तलातलजयाभाक्षी तलातलजचञ्चला |
प्. १४१) तलातलजरत्नाढ्या तलातलजदेवता || १०० ||
तटिनीस्थानरसिका तटिनी तटवासिनी |
तटिनी तटिनीतीरगामिनी तटिनीप्रिया || १०१ ||
तटिनीप्लवनप्रीता तटिनीप्लवनोद्यता |
तटिनीप्लवनश्लाघ्या तटिनीप्लवनार्त्थदा || १०२ ||
तटलास्था तटस्थाना तटेशी तटवासिनी |
तटपूज्या तटाराध्या तटरोममुखार्त्थिनी || १०३ ||
तटजा तटरूपा च तटस्था तटचञ्चला |
तटसन्निधिगेहस्थासहिता तटशायिनी || १०४ ||
तरङ्गिणी तरङ्गाभा तरङ्गायतलोचना |
तरङ्गसमदुर्द्धर्षा तरङ्गसमचञ्चला || १०५ ||
तरङ्गसमदीर्घाङ्गी तरङ्गसमवर्द्धिता |
तरङ्गसमस/व्वृद्धिस्तरङ्गसमनिर्मला || १०६ ||
तडागमध्यनिलया तडागमध्यासम्भवा |
गडागरचनश्लाघ्या तडागरचनोद्यता || १०७ ||
तडागकुसुदामोदी तडागेशी तडागिनी |
तडागनीरसंस्नाता तडागनीरनिर्मला || १०८ ||
तडागकमलागारा तडागकमलालया |
तडागकमलान्तस्स्था तडागकमलोद्यता || १०९ ||
तडागकमलाङ्गी च तडागकमलानना |
तडागकमलप्राणा तडागकमलेक्षणा || ११० ||
तडागरक्तपद्मस्था तडागश्वेतपद्मगा |
तडागनीलपद्माभा तडागनीलपद्मभृत् || १११ ||
तनुस्तनुगता तन्वी तन्वङ्गी तनुधारिणी |
तनुरूपा तनुगता तनुधृक् तनुरूपिणी || ११२ ||
तनुस्था तनुमध्याङ्गी तनुकृत्तनुमङ्गला |
तनुसेव्या तु तनुजा तनुजातनुसम्भवा || ११३ ||
तनुभृत्तनुसम्भूता तनुदातनुकारिणी |
तनुभृत्तनुसंहन्त्री तनुसञ्चारकारिणी || ११४ ||
तथ्यवाक् तथ्यवचना तथ्यकृत् तथ्यवादिनी |
तथ्यभृत्तथ्यचरिता तथ्यधर्मानुवर्त्तिनी || ११५ ||
तथ्यभुक् तथ्यगमना तथ्यभक्तिवरप्रदा |
तथ्यनीचेश्वरी तथ्यचित्ताचाराशुसिद्धिदा || ११६ ||
तर्क्यातर्क्यस्वभावा च तर्कदाया तु तर्ककृत् |
तर्काध्यापनमध्यस्था तर्काध्यापनकारिणी || ११७ ||
तर्काध्यापनसन्तुष्टा तर्काध्यापनरूपिणी |
प्. १४२) तर्काध्यापनसंशीला तर्कार्त्थप्रतिपादिता || ११८ ||
तर्काध्यापनसन्तृप्ता तर्कार्त्थप्रतिपादिका |
तर्कवादाश्रितपदा तर्कवादविवर्द्धिनी || ११९ ||
तर्कवादैकनिपुणा तर्कवादप्रचारिणी |
तमालदलश्यामाङ्गी तमालदलमालिनी || १२० ||
तमालवनसङ्केता तमालपुष्पपूजिता |
तगरी तगराराद्ध्या तगरार्चितपादुका || १२१ ||
तगरस्रक्सुसन्तुष्टा तगरस्रग्विराजिता |
तगराहुतिसन्तुष्टा तगराहुतिकीर्तिदा || १२२ ||
तगराहुतिसंसिद्धा तगराहुतिमानदा |
तडित्तडिल्लताकारा तडिच्चञ्चललोचना || १२३ ||
तडिल्लता तडित्तन्वी तडिद्दीप्ता तडित्प्रभा |
तद्रूपा तत्स्वरूपेशी तन्मयी तत्त्वरूपिणी || १२४ ||
तत्स्थानदाननिरता तत्कर्मफलदायिनी |
तत्त्वकृत् तत्त्वदा तत्त्वा तत्त्ववित् तत्त्वतर्पिता || १२५ ||
तत्त्वार्च्च्या तत्त्वपूजा च तत्त्वार्ग्घ्या तत्त्वरूपिणी |
तत्त्वज्ञानप्रदानेशी तत्त्वज्ञानसुमोक्षदा || १२६ ||
त्वरिता त्वरितप्रीता त्वरितार्त्तिविनाशिनी |
त्वरितासवसन्तुष्टा त्वरितासवतर्पिता || १२७ ||
त्वग्वस्त्रा त्वक्परीधाना तरला तरलेक्षणा |
तरक्षुचर्मवसना तरक्षुत्वग्विभूषणा || १२८ ||
तरक्षुस्तरक्षुप्राणा तरक्षुपृष्ठगामिनी |
तरक्षुपृष्ठसंस्थाना तरक्षुपृष्ठवासिनी || १२९ ||
तर्पितोदैस्तर्पणाशा तर्पणासक्तमानसा |
तर्पणानन्दहृदया तर्पणाधिपतिस्ततिः || १३० ||
त्रयीमयी त्रयीसेव्या त्रयीपूज्या त्रयीकथा |
त्रयीभव्या त्रयीभाव्या त्रयीभाव्या त्रयीयुता || १३१ ||
त्र्यक्षरी त्र्यक्षरेशानी त्र्यक्षरीशीघ्रसिद्धिदा |
त्र्यक्षरेशी त्र्यक्षरीस्था त्र्यक्षरीपुरुषापदा || १३२ ||
तपना तपनेष्टा च तपस्तपनकन्यका |
तपनांशुसमासह्या तपनकोटिकान्तिकृत् || १३३ ||
तपनीया तल्पतल्पगता तल्पविधायिनी |
तल्पकृत्तल्पगा तल्पदात्री तल्पतलाश्रया || १३४ ||
तपनीयतलारात्री तपनीयांशुप्रार्त्थिनी |
प्. १४३) तपनीयप्रदातप्ता तपनीयाद्रिसंस्थिता || १३५ ||
तल्पेशी तल्पदा तल्पसंस्थिता तल्पवल्लभा |
तल्पप्रिया तल्परता तल्पनिर्माणकारिणी || १३६ ||
तरसापूजनासक्ता तरसावरदायिनी |
तरसासिद्धिसन्धात्री तरसामोक्षदायिनी || १३७ ||
तापसी तापसाराध्या तापसार्त्तिविनाशनी |
तापसार्त्ता तापसश्रीस्तापसप्रियवादिनी || १३८ ||
तापसानन्दहृदया तापसानन्ददायिनी |
तापसाश्रितपादाब्जा तापसक्तमानसा || १३९ ||
तामसी तामसीपूज्या तामसीप्रणयोत्सुका |
तामसी तामसीसीता तामसीशीघ्रसिद्धिदा || १४० ||
तालेशी तालभुक्तालदात्री तालोपमस्तनी |
तालवृक्षस्थिता तालवृक्षजा तालरूपिणी || १४१ ||
तार्क्क्षा तार्क्क्षसमारूढा तार्क्क्षेशी तार्क्क्षपूजिता |
तार्क्क्षेश्वरी तार्क्क्षमाता तार्क्क्षेशीवरदायिनी || १४२ ||
तापी तु तपिनी तापसंहन्त्री तापनाशिनी |
तापदात्री तापकर्त्री तापविध्वंसकारिणी || १४३ ||
त्रासकर्त्री त्रासदात्री त्रासहर्त्री च त्रासहा |
त्रासिता त्रासरहिता त्रासनिर्म्मूलकारिणी || १४४ ||
त्राणकृत्त्राणसंशीला तानेशी तानदायिनी |
तानगानरता तानकारिणी तानगायिनी || १४५ ||
तारुण्यामृतसम्पूर्णा तारुण्यामृतवारिधिः |
तारुण्यामृतसंतुष्टा तारुण्यामृततर्पिता || १४६ ||
तारुण्यामृतपूर्णाङ्गी तारुण्यामृतविग्रहा |
तारुण्यगुणसम्पन्ना तारुण्योक्तिविशारदा || १४७ ||
ताम्बूली ताम्बुलेशानी ताम्बूलचर्वणोद्यता |
ताम्बूलपूरितास्या च ताम्बूलारुणिताधरा || १४८ ||
ताटङ्करत्नविख्यातिस्ताटङ्करत्नभूषिणी |
ताटङ्करत्नमध्यस्था ताटङ्कद्वयभूषिता || १४९ ||
तिथीशा तिथिसम्पूज्या तिथिस्था तिथिरूपिणी |
त्रितिथिवासिनीसेव्या तिथीशवरदायिनी || १५० ||
तिलोत्तमादिकाराध्या तिलोत्तमादिकप्रभा |
तिलोत्तमा तिलप्रक्षा तिलाराध्या तिलार्च्चिता || १५१ ||
प्. १४४) तिलभुक् तिलसन्दात्री तिलतुष्टा तिलालया |
तलदा तिलसङ्काशा तिलतैलविधायिनी || १५२ ||
तिलतैलोपलिप्ताङ्गी तिलतैलसुगन्धिनी |
तिलाज्यहोमसन्तुष्टा तिलाज्यहोमसिद्धिदा || १५३ ||
तिलपुष्पाञ्जलिप्रीता तिलपुष्पाञ्जलिप्रिया |
तिलपुष्पाञ्जलिश्रेष्ठा तिलपुष्पाभनाशिनी || १५४ ||
तिलकाश्रितसिन्दूरा तिलकाङ्कितचन्दना |
तिलकाहृतकस्तूरी तिलकामोदमोहिनी || १५५ ||
त्रिगुणा रिगुणाकारा त्रिगुणान्वितविग्रहा |
त्रिगुणाकारविख्याता त्रिमूर्त्तिस्त्रिगुणात्मिका || १५६ ||
त्रिशिरा त्रिपुरेशानी त्रिपुरा त्रिपुरेश्वरी |
त्रिपुरेशी त्रिलोकस्था त्रिपुरी त्रिपुराम्बिका || १५७ ||
त्रिपुरारिसमाराध्या त्रिपुरारिवरप्रदा |
त्रिपुरारिशिरोभूषा त्रिपुरारिवरप्रदा || १५८ ||
त्रिपुरारीष्टसन्दात्री त्रिपुरारीष्टदेवता |
त्रिपुरारिकृतार्द्धाङ्गी त्रिपुरारिविलासिनी || १५९ ||
त्रिपुरासुरसंहन्त्री त्रिपुरासुरमर्द्दिनी |
त्रिपुरासुरसंसेव्या त्रिपुरासुरवर्यया || १६० ||
त्रिकुटा त्रिकुटाराध्या त्रिकूटार्च्चितविग्रहा |
त्रिकूटाचलमध्यथा त्रिकूटाचलवासिनी || १६१ ||
त्रिकूटाचलसञ्जाता त्रिकूटाचलनिर्ग्गता |
त्रिजटा त्रिजटेशानी त्रिजटावरदायिनी || १६२ ||
त्रिनेत्रेशी त्रिनेत्रा च त्रिनेत्रवरवर्णिनी |
त्रिवली त्रिवलीयुक्ता त्रिशूलवरधारिणी || १६३ ||
त्रिशूलेशी त्रिशूलीशी त्रिशूलभृत् त्रिशूलिनी |
त्रिमनुस्त्रिमनूपास्या त्रिमनूपासकेश्वरी || १६४ ||
त्रिमनुजपसन्तुष्टा त्रिमनुस्तूर्णसिद्धिदा |
त्रिमनुपूजनप्रीता त्रिमनुध्यानमोक्षदा || १६५ ||
त्रिविधा त्रिविधाभक्तिस्त्रिमता त्रिमतेश्वरी |
त्रिभावस्था त्रिभावेशी त्रिभावपरिपूरिता || १६६ ||
त्रितत्त्वात्मा त्रितत्त्वेशी त्रितत्त्वज्ञा त्रितत्त्वधृक् |
त्रितत्त्वाचमनप्रीता त्रितत्त्वाचमनेष्टदा || १६७ ||
त्रिकोणस्था त्रिकोणेशी त्रिकोणचक्रवासिनी |
त्रिकोणचक्रमध्यस्था त्रिकोणबिन्दुरूपिणी || १६८ ||
प्. १४५) त्रिकोणयन्त्रसंस्थाना त्रिकोणयन्त्ररूपिणी |
त्रिकोणयन्त्रसम्पूज्या त्रिकोणयन्त्रसिद्धिदा || १६९ ||
त्रिवर्णाढ्या त्रिवर्णेशी त्रिवर्णोपासिरूपिणी |
त्रिवर्णस्था त्रिवर्णाढ्या त्रिवर्णवरदायिनी || १७० ||
त्रिवर्णाद्या त्रिवर्णार्च्च्या त्रिवर्गफलदायिनी |
त्रिवर्गाढ्या त्रिवर्गेशी त्रिवर्गाद्यफलप्रदा || १७१ ||
त्रिसन्ध्यार्च्च्या त्रिसन्ध्येशी त्रिसन्ध्याराधनेष्टदा |
त्रिसन्ध्यार्च्चनसन्तुष्टा त्रिसन्ध्याजपमोक्षदा || १७२ ||
त्रिपदाराधितपदा त्रिपदा त्रिपदेश्वरी |
त्रिपदाप्रतिपाद्येशी त्रिपदा प्रतिपादिका || १७३ ||
त्रिशक्तिश्च त्रिशक्तेशी त्रिशक्तेष्टफलप्रदा |
त्रिशक्तेष्टा त्रिशक्तीष्टा त्रिशक्तिपरिवेष्टिता || १७४ ||
त्रिवेणी च त्रिवेणीस्त्री त्रिवेणीमाधवार्च्चिता |
त्रिवेणीजलसन्तुष्टा त्रिवेणीस्नानपुण्यदा || १७५ ||
त्रिवेणीजलसंस्नाता त्रिवेणीजलरूपिणी |
त्रिवेणीजलपूताङ्गी त्रिवेणीजलपूजिता || १७६ ||
त्रिनाडीस्था त्रिनाडीशी त्रिनाडीमध्यगामिनी |
त्रिनाडीसन्ध्यसञ्छ्रेया त्रिनाडी च त्रिकोटिनी || १७७ ||
त्रिपञ्चाशत्त्रिरेखा च त्रिशक्तिपथगामिनी |
त्रिपथस्था त्रिलोकेशी त्रिकोटिकुलमोक्षदा || १७८ ||
त्रिरामेशी त्रिरामार्च्च्या त्रिरामवरदायिनी |
त्रिदशाश्रितपादाब्जा त्रिदशालयचञ्चला || १७९ ||
त्रिदशा त्रिदशप्रार्त्थ्या त्रिदशाशुवरप्रदा |
त्रिदशैश्वर्यसम्पन्ना त्रिदशेश्वरसेविता || १८० ||
त्रियामार्च्च्या त्रियामेशी त्रियामानन्तसिद्धिदा |
त्रियामेशाधिकज्योत्स्ना त्रियामेशाधिकानना || १८१ ||
त्रियामानाथवत्सौम्या त्रियामानाथभूषणा |
त्रियामानाथलावण्या-रत्नकोटियुतानना || १८२ ||
त्रिकालस्था त्रिकालज्ञा त्रिकालज्ञत्वकारिणी |
त्रिकालेशी त्रिकालार्च्च्या त्रिकालज्ञत्वदायिनी || १८३ ||
तीरभुक् तीरगा तीरसरिता तीरवासिनी |
तीरभुग्देशसञ्जाता तीरभुग्देशसंस्थिता || १८४ ||
तिग्मातिग्मांशुसङ्काशा तिग्मांशुक्रोडसंस्थिता |
प्. १४६) तिग्मांशुकोटिदीप्ताङ्गी तिग्मांशुकोटिविग्रहा || १८५ ||
तीक्ष्णा तीक्ष्णतरा तीक्ष्णमहिषासुरमर्द्दिनी |
तीक्ष्णकर्त्रिलसत्पाणिस्तीक्ष्णासिवरधारिणी || १८६ ||
तीव्रा तीव्रगतिस्तीव्रासुरसङ्घविनाशिनी |
तीव्राष्टनागाभरणा तीव्रमुण्डविभूषणा || १८७ ||
तीर्त्थात्मिका तीर्त्थमयी तीर्त्थेशी तीर्त्थपूजिता |
तीर्त्थराजेश्वरी तीर्त्थफलदा तीर्त्थदानदा || १८८ ||
तुमुली तुमुलप्राज्ञी तुमुलासुरघातिनी |
तुमुलक्षतजप्रीता तुमुलाङ्गणवर्त्तकी || १८९ ||
तुरगी तुरगारूढा तुरङ्गपृष्ठगामिनी |
तुरङ्गगमनाह्लादा तुरङ्गवेगगामिनी || १९० ||
तुरीया तुलना तुल्या तुल्यवृत्तिस्तु तुल्यकृत् |
तुलनेशी तुलाराशिस्तुलाराशी त्वसूक्ष्मवित् || १९१ ||
तुम्बिका तुम्बिकापात्रभोजना तुम्बिकार्थिनी |
तुलसी तुलसीवर्या तुलजा तुलजेश्वरी || १९२ ||
तुषाग्निव्रतसन्तुष्टा तुषाग्निस्तुषराशिकृत् |
तुषारकरशीताङ्गी तुषारकरपूर्त्तिकृत् || १९३ ||
तुषाराद्रिस्तुषाराद्रिसुता तुहिनदीधितिः |
तुहिनाचलकन्या च तुहिनाचलवासिनी || १९४ ||
तूर्यवर्गेश्वरी तूर्यवर्गदा तूर्यवेददा |
तूर्यवर्यात्मिका तूर्यतूर्येश्वरस्वरूपिणी || १९५ ||
तुष्टिदा तुष्टिकृत् तुष्टिस्तूणीरद्वयपृष्ठधृक् |
तुम्बुराज्ञानसन्तुष्टा तुष्टसंसिद्धिदायिनी || १९६ ||
तूर्णराज्यप्रदा तूर्णगद्गदा तूर्णपद्यदा |
तूर्णपाण्डित्यसन्दात्री तूर्णापूर्णबलप्रदा || १९७ ||
तृतीया च तृतीयेशी तृतीयातिथिपूजिता |
तृतीयाचन्द्रचूडेशी तृतीयाचन्द्रभूषणा || १९८ ||
तृप्तिस्तृप्तिकरी तृप्ता तृष्णा तृष्णाविवर्द्धिनी |
तृष्णापूर्णकरी तृष्णानाशिनी तृषिता तृषा || १९९ ||
त्रेतासंसाधिता त्रेता त्रेतायुगफलप्रदा |
त्रैलोक्यपूजा त्रैलोक्यदात्री त्रैलोक्यसिद्धिदा || २०० ||
त्रैलोक्येश्वरतादात्री त्रैलोक्यपरमेश्वरी |
त्रैलोक्यमोहनेशानी त्रैलोक्यराज्यदायिनी || २०१ ||
तैत्रिशाखेश्वरी त्रैत्रीशाखा तैत्रविवेकदा |
प्. १४७) तोरणान्वितगेहस्था तोरणासक्तमानसा || २०२ ||
तोलकास्वर्णसन्दात्री तौलकास्वर्णकङ्कणा |
तोमरायुधरूपा च तोमरायुधधारिणी || २०३ ||
तौर्यत्रिकेश्वरी तौर्यन्त्रिकी तौर्यन्त्रिकोत्सुकी |
तन्त्रकृत्तन्त्रवत्सूक्ष्मा तन्त्रमन्त्रस्वरूपिणी || २०४ ||
तन्त्रकृत्तन्त्रसम्पूज्या तन्त्रेशी तन्त्रसम्मता |
तन्त्रज्ञा तन्त्रवित्तन्त्रसाध्या तन्त्रस्वरूपिणी || २०५ ||
तन्त्रस्था तन्त्रजा तन्त्री तन्त्रभृत्तन्त्रमन्त्रदा |
तन्त्राद्या तन्त्रगा तन्त्रा तन्त्रार्च्च्या तत्रसिद्धिदा || २०६ ||
इति ते कथितन्दिव्यङ्क्रतुकोटिफलप्रदम् |
नाम्नां सहस्रन्तारायास्तकाराद्यं सुगोपितम् || २०७ ||
दान/ ययज्ञस्तपस्तीर्त्थ/ व्रतञ्चानशनादिकम् |
एकैकनामजम्पुण्यं सन्ध्यातुर्गदितम्मया || २०८ ||
गुरौ देवे तथा मन्त्रे यस्य स्यान्निश्चला मतिः |
तस्यैव स्तोत्रपाठेऽस्मिन्सम्भवेदधिकारिता || २०९ ||
महाचीनक्रमाभिन्नषोढान्यस्तकलेवरः |
क्रमदीक्षान्वितो मन्त्री पठेदेतन्न चान्यथा || २१० ||
गन्धपुष्पादिभिर्द्द्रव्यैर्मकारैः पञ्चकैर्द्द्विजः |
सम्पूज्य तारा/ व्विधिवत्पठेदेतदनन्यधीः || २११ ||
अष्टम्याञ्च चतुर्द्दश्या सङ्क्रान्तौ रविवासरे |
शनिभौमदिने रात्रौ ग्रहणे चन्द्रसूर्ययोः || २१२ ||
तारारात्रौ कालरात्रौ मोहरात्रौ विशेषतः |
पठनान्मन्त्रसिद्धिः स्यात्सर्वज्ञत्वम्प्रजायते || २१३ ||
श्मशाने प्रान्तरे रम्ये शून्यागारे विशेषतः |
देवागारे गिरौ वापि स्तवपारायणञ्चरेत् || २१४ ||
ब्रह्महत्या सुरापानं स्तेयं स्त्रीगमनादिकम् |
गुरुतल्पे तथा चान्यत्पातकन्नश्यति ध्रुवम् || २१५ ||
लतामध्यगतो मन्त्री श्रद्धया चार्च्चयेद्यदि |
आकर्षयेत्तदा रम्भाम्मेनामपि तथोर्वशीम् || २१६ ||
संग्रामसमये वीरस्तारासाम्राज्यकीर्त्तनात् |
चतुरङ्गचयञ्जित्वा सर्वसाम्राज्यभाग्भवेत् || २१७ ||
निशार्द्धे पूजनान्ते च प्रतिनाम्ना प्रपूजयेत् |
एकैककरवीराद्यैर्मन्दौर्नीलवारिजैः || २१८ ||
प्. १४८) गद्यपद्यमयीवाणी भूभोज्या च प्रवर्त्तते |
पाण्डित्यं सर्वशास्त्रेषु वादी त्रस्यति दर्शनात् || २१९ ||
वह्निजायान्तकैरेतैस्ताराद्यैः प्रतिनामभिः |
राजन्यं सर्वराजेषु परकायप्रवेशनम् || २२० ||
अन्तर्द्धानङ्खेचरत्वम्बहुकायप्रकाशनम् |
गुटिका पादुका पद्मावती मधुमती तथा || २२१ ||
रसं रसायनाः सर्वाः सिद्धयः समुपस्थिताः |
कर्पूरागरुकस्तूरीचन्दनैः स/ययुतैर्ज्जलैः || २२२ ||
मूलं सम्पुटितेनैव प्रतिनाम्ना प्रपूजयेत् |
यक्षराक्षसगन्धर्वा विद्याधरमहोरगाः || २२३ ||
भूतप्रेतपिशाचाद्या डाकिनीशाकिनीगणाः |
दुष्टा भैरववेतालाः कूष्माण्डाः किन्नरीगणाः || २२४ ||
भयभीताः पलायन्ते तेजसा साधकस्य च |
मन्त्रज्ञाने समुत्पन्ने प्रतिनाम्ना विचारयेत् || २२५ ||
मन्त्रसम्पुटितेनैव तस्य शान्तिर्ब्भवेद्ध्रुवम् |
ललिता वशमायाति दास्यता/ ययान्ति पार्त्थिवाः || २२६ ||
अग्नयः शीतता/ ययान्ति जपाकस्य च भाषणात् |
एकावर्त्तनमात्रेण राजभीतिनिवारणम् || २२७ ||
वेलावर्तनमात्रेण पशुवृद्धिः प्रजायते |
दशावृत्या धनप्राप्तिर्विशत्या राज्यमाप्नुयात् || २२८ ||
शतावृत्या गृहे तस्य चञ्चला निश्चला भवेत् |
गङ्गाप्रवाहवद्वाणी प्रलापादपि जायते || २२९ ||
पुत्रपौत्रान्वितो मन्त्री चिरञ्जीवी तु देववत् |
शतद्वयावर्त्तनेन देववत्पूज्यते जनैः || १३० ||
शतपञ्चकमावर्त्त्य स भवेद्भैरवोपमः |
सहस्रावर्त्तनेनैव मन्त्रस्तस्य स्वसिद्धिदः || १३१ ||
तस्मिन्प्रवर्त्तते सर्वसिद्धिः सर्वार्थसाधिनी |
पादुकाञ्चनवेतालापातालगगनादिकम् || २३२ ||
विविधा यक्षिणीसिद्धिर्व्वाक्सिद्धिस्तस्य जायते |
शोषणं सागराणाञ्च धाराया भ्रमणन्तथा || २३३ ||
नवीनसृष्टिनिर्माणं सर्वङ्कर्त्तुङ्क्षमो भवेत् |
आयुतावर्त्तनेनैव ताराम्पश्यति चक्षुषा || २३४ ||
लक्षावर्त्तनमात्रेण तारापतिसमो भवेत् |
न किञ्चिद्दुर्ल्लभन्तस्य जीवन्मुक्तो हि भूतले || २३५ ||
प्. १४९) कल्पान्तेन तु तत्पश्चात्तारासायुज्यमाप्नुयात् |
यद्धि तारासमा विद्या नास्ति तारुण्यरूपिणी || २३६ ||
न चैतत्सदृशं स्तोत्रम्भवेद्ब्रह्माण्डमण्डले |
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || २३७ ||
न शक्यते फल/ व्वक्तुम्मया कल्पशतैरपि |
चुम्बके निन्दके दुष्टे पिशुने जीवहिंसके || २३८ ||
सङ्गोप्यं स्तोत्रमेतत्तद्दर्शनेनैव कुत्रचित् |
राज्यन्देयन्धनन्देयं शिरो देयमथापि वा || २३९ ||
न देयं स्तोत्रवर्यन्तु मन्त्रादपि महोद्यतम् |
अनुलोमविलोमाभ्याम्मूलसम्पुटितन्त्विदम् || २४० ||
लिखित्वा भूर्ज्जपत्रादौ गन्धाष्टकपुरस्सरैः |
धारयेद्दक्षिणे बाहौ कण्ठे वामभुजे तथा || २४१ ||
तस्य सर्वार्त्थसिद्धिस्स्याद्वह्निना नैव दह्यते |
तद्गात्रं शस्त्रसङ्घैश्च भिद्यते न कदाचन || २४२ ||
स भूमिवलये पुत्र विचरेद्भैरवोपमः |
वन्ध्यापि लभते पुत्रन्निर्द्धनो धनमाप्नुयात् ||
निर्विघ्नो लभते विद्यान्तर्कव्याकरणादिकाम् || २४३ ||
इति निगदितमस्यास्तादिनाम्नां सहस्र/
व्वरदमनुनिदानन्दिव्यसाम्राज्यसंज्ञम् |
विधिहरिगिरिशादौ शक्तिदानैकदक्षं
समविधिपठनीयङ्कालितारासमज्ञैः || २४४ ||
इतिश्रीब्रह्मयामले तारायास्तकारादिसहस्रनामस्तोत्र
सम्पूर्णम् ||
इति श्रीशाक्तप्रमोदे तारातन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
तृतीयं
षोडशीतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
प्. १५३) श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
षोडशीतन्त्रम्
अथ षोडशीध्यानम्
बालार्कमण्डलाभासां चतुर्बाहान्त्रिलोचनाम् |
पाशाङ्कुशशरांश्चापन्धारयन्तीं शिवाम्भजे ||
प्. १५४) अथ यन्त्रोद्धारः
बिन्दुत्रिकोणवसुकोणदशायुग्म/व्वस्वस्रनागदलसङ्गतषोडशारम् |
वृत्तत्रयञ्च धरणीसदनत्रयञ्च श्रीचक्रराजमुदितम्परदेवतायाः ||
अथ मन्त्रोद्धारः
आदौ लज्जां समुच्चार्य क-ए-ईल ततः परम् |
पुनश्च लज्जामुच्चार्य हसकहल तु तत्परम् || १ ||
तओ लज्जाम्पुनः प्रोच्य लज्जान्तं सकलन्ततः |
षोडशाक्षरमन्त्रोऽयं षोडश्यास्समुदाहृतः || २ ||
इयन्तु सुन्दरी विद्या देवानामपि दुर्ल्लभा |
गोपनीया प्रयत्नेन सर्वसम्पत्करी मता || ३ ||
अथ मन्त्रः
|| ह्रींक-ए-ईलह्रीं हसकहलह्रीं सकलह्रीं ||
अथ पूजाविधिः
ब्राह्मे मुहूर्ते उत्थाय शययायामेव स्थित्वा शिरसि
महासहस्रदलकमले श्रीगुरुन्ध्यायेत् -
द्विनेत्रन्द्विभुजं शान्तङ्गुरुम्पद्मासनस्थितम् ||
यथावर्णं सुखासीनम्मुक्तम्भास्वररूपिणम् ||
वराभयकरम्ब्रह्मविष्णुशङ्कररूपिणम् ||
वामेनोत्पलधारिण्या शक्त्या वामाङ्गस/ययुतमिति ध्यात्वा |
अखण्डमण्डलाकार/ व्याप्त/ ययेन चराचरम् ||
तत्पदन्दर्शित/ ययेन तस्मै श्रीगुरवे नमः ||
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ||
प्. १५५) चक्षुरुन्मीलित/ ययेन तस्मै श्रीगुरवे नमः ||
नमोस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ||
यस्य वागमृतं हन्ति विषसंसारसङ्कुलम् ||
अनन्तरात्मागुरुन्नमस्कृत्य अन्तर्ब्भावनाङ्कुर्यात् |
मूलमष्टोत्तरशतञ्जपेत् ||
समुद्रमेखले देवि पर्वतस्तनमण्डले ||
विष्णुपत्नि नमस्तुभ्यम्पादस्पर्शङ्क्षमस्व मे इति पठन्
वामपादपुरस्सरम्भूमिं स्पृशेत् || तत्र मन्त्रः | लसहह्रीं ए/क-
इक्लींस इतिस्मृत्वा | तत्र चासनमास्तीर्योपविश्य
मूलादिब्रह्मरन्ध्रान्तम्मूलविद्या/ विचिन्तयेत् |
उद्यतादित्यसङ्काशान्तडित्कोटिसमप्रभाम् ||
तत्प्रभापटलव्याप्तन्देहं सुपरिचिन्तयेत् ||
षट्चक्रभेदनङ्कुर्यात् || तद्यथा -
गुदलिङ्गान्तरे वंशंषंसं इतिचतुर्दलम्पीतवर्णम्मूलाधारम्
अत्र देवता डाकिनी गणेशश्चतुर्द्दन्तस्त्रिकोणविद्युद्वर्णन्तन्मध्ये
बिसतन्तुतनीसी शेषावर्तनिभां
सार्द्धत्रिवलान्विताम्प्रसुप्तभुजगाकारां
सोमसूर्याग्निरूपिणीङ्कुण्डलिनीं शक्तिं हूंकारेण
मनोमयदण्डेनाहत्योत्थाप्य ह/स-इति जप्त्वा || १ ||
लिङ्गमूले बंभंमंयंरंलमिति रक्तं स्वाधिष्ठानम् तत्र
डाकिनी देवी ब्रह्मा च || २ ||
नाभौ डं ढं णं तं थं दं धं नं पं फमिति
नीलं मणिपूरम् तत्र लाकिनी देवी विष्णुश्च || ३ ||
हृदये कंखंगंघंङंचंछंजंझंञंटंठमिति
द्वादशदलन्धूम्रमनाहतचक्रम् तत्र काकिनी देवी रुद्रश्च || ४ ||
कण्ठे अं-आं-इं-ईं-उं-ऊं-ऋं-ॠं-ऌं-ॡं-एं-ऐं-ओं-
औं-अं-अः इतिषोडशदलं पिङ्गलवर्णं विशुद्धचक्रम् तत्र शाकिनी
देवी शिवात्मा || ५ ||
भ्रूमध्ये हंलमिति द्विदलमाज्ञाचक्रम् तत्र हाकिनी देवी
परात्मा च || ६ ||
एवं षट्चक्रम्भित्त्वा सहस्रदलकमलकर्णिकान्तर्गतबिन्दुरूपे
परमशिवे स/ययोज्य लक्षाभयरमामृतेन कुण्डलिनीं सन्तर्प्य ||
पुनराज्ञाविशुद्धानाहतन्त्रिपुरस्वाधिष्ठानम्मूलाधारन्नयेत् || इति
भावना देवीन्ध्यात्वा मानसोपचारैस्सम्पूज्य जप्त्वा स्तुत्वा नत्वा
आवश्यकशौचादिकङ्कृत्वा दन्तधावनङ्गृहीत्वा
प्. १५६) क्लींसर्वजनप्रियायै रतिकामस्वरूपायै नम इतिमन्त्रेण
दन्तधावनङ्कुर्यात् | ततो मूलेन मुखप्रक्षालनङ्कृत्वा यथाकाले
जलाशयङ्गत्वा सूर्याभिमुखम्मुसलवदेकवारन्निमज्ज्य
पुरतश्चतुर्हस्तप्रमाणञ्चतुरस्रम्प्रकल्प्य तन्मध्ये त्रिकोण/ व्विलिख्य
सूर्यमण्डलादङ्कुशमुद्रया तीर्त्थमानयेत् |
ओं गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्म्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिङ्कुरु ||
वमिति धेनुमुद्राम्प्रदर्श्श्य मूलमष्टधा जपित्वा ||
कलशमुद्रया मूलेन सप्तधा शिरस्सिञ्चयेत् |
सप्तच्छिद्राणि निरुध्य त्रिधा निमज्जयेत् |
पापप्रोक्षणङ्कृत्वा सन्ध्याङ्कुर्यात् ||
प्राणायामत्रयङ्कृत्वा वमिति धेनुमुद्रया जलममृतीकृत्य त्रिभिः शिरो
मूलेनाभ्युक्ष्य नवधाऽचम्य तज्जलन्दक्षिणकरे कृत्वा
लंवंरंयंहमिति पाञ्चभौतिकमन्त्रमष्टधा जपित्वा
मूलन्दशधा जपेत् | वामहस्तानामिकाङ्गुष्ठाभ्याञ्छोटिकायोगेन
त्रिः शिरोभ्युक्ष्यावशिष्टजल/ व्वामहस्ते ईडया अन्तर्गतम्मत्वा तेनैव
निश्शेषकलुषन्दग्ध/ व्विचिन्त्य पिङ्गलायाम्बहिर्गत/ व्विभाव्य
तज्जलन्दक्षिणकरे कृत्वा तत्र पापपुरुष/ विचिन्त्य वामभागे भूमौ
वज्रशिलान्ध्यात्वा तत्र निःक्षिप्य
पापपुरुषञ्चूर्णितम्भावयेदित्यघमर्षणम् | ततो देवादीन् यथाविधि
सन्तर्प्य | ओंगणेशन्तर्पयामि, बटुकन्तर्पयामि, योगिनीन्तर्पयामि,
सर्वान्देवगणांस्तर्पयामि, सर्वान्पितृगणांस्तर्पयामि,
सर्वान्मातृगणांस्तर्पयामि, सर्वान्मनुष्यगणांस्तर्पयामि,
सर्वान्तर्ययामि मूलमुच्चार्य श्रीमहात्रिपुरसुन्दरीन्तर्पयामि नम
इतित्रिवारन्तर्पयित्वा ऐं आत्मतत्त्वंशोधयामि, क्लींविद्यातत्त्वं
शोधयामि, सौंशिवतत्त्वं शोधयामि, ऐं क्लीं सौंसर्वतत्त्वं
शोधयामि | ततो जलादुत्थाय धौतवाससी परिधाय मूलेन
तिलकङ्कृत्वा गन्धपुष्पाक्षतैरर्ग्घ्यं सम्पाद्य ओं-ऐं-
ह्रींश्रींकुलमार्तण्डभैरवाय
तिथिवारनक्षत्रयोगकरणप्रकाशशक्तिसहिताय एषोऽर्ग्घ्योनम
इतिमन्त्रेण सूर्यार्ग्घ्यन्दत्त्वा
प्. १५७) यथाशक्ति देवतागायत्रीञ्जपेत् |
ऽक्लींकामेश्वरीं व्विद्महे वागीश्वरीन्धीमहि तन्नः क्लिन्ना
प्रचोदयात् |ऽ
रात्रौ चन्द्रार्ग्घ्यन्दत्त्वा |
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ||
गृहाणार्ग्घ्यमिदन्देव रोहिण्या सहित प्रभो ||
इति चन्द्रार्ग्घ्यन्दद्यात् | एवं सन्ध्याकालत्रयेऽपि कुर्यात् | ततो
दिक्पतीन्नमस्कृत्य पूजागृहद्वारमागत्य हस्तौ पादौ प्रक्षाल्याचम्य
अस्त्रायफट्नम इतिद्वारं सम्प्रोक्ष्य पूजयेत् |
वामे शाखायां गंगणेशायनमः,
दक्षिणे क्षंक्षेत्रपालायनमः,
ऊर्द्ध्वे द्वांद्वारश्रियैनमः,
देहलीमध्ये देहल्यैनमः,
वामपार्श्वे क्लींकामदेवायनमः,
रंरत्यैनमः, वांवसन्तायनमः प्रींप्रीत्यैनमः
ओंशङ्खनिधयेनमः, दक्षपार्श्श्वे पद्मनिधये नमः
सरस्वत्यैनमः श्रियैनमः मायायैनमः दुर्गायैनमः
भद्रकाल्यैनमः स्वाहायैनमः शुभकर्यैनमः गौर्यैनमः
लोकधात्र्यैनमः वागीश्वर्यैनमः, दक्षपादपुरस्सरमङ्गानि
सङ्कोचयन् गृहान्तः प्रविशेत् | ततो गृहान्तर्पयेत् ||
ऐशान्याम्पूजयेत् || ओं वास्तुपुरुषायनमः ओंब्रह्मणेनमः ||
ततः अपसर्पन्तु ते भूता ये भूता भुवि स/स्थिताः ||
ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ||
इति तण्डुलांश्चतुर्द्दिक्षु विकिरेदिति भूतापसारणम् ||
ऊर्द्ध्वोर्द्ध्वतालत्रयन्दत्त्वा त्रिविघ्नान् वामपादत्रिघातादुत्सारयेत् ||
ततो व्याघ्राजिनरक्तकम्बलाद्यासनमास्तीर्यासनन्धृत्वा पठेत् ||
अस्यासनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलञ्छन्दः कूर्मो देवता
आसनोपवेशने विनियोगः ||
ओंपृथ्वि त्वया धृता लोका देवि त्वं व्विष्णुना धृता ||
त्वञ्च धारय मान्नित्यम्पवित्रङ्कुरु चासनम् ||
ततः पूजयेत् | कूंकूर्मासनायनमः,
आधारशक्तिकमलासनायनमः, ऐं ह्रीं श्रीं
सर्वशक्तिकमलासनायनमः, ओंपृथिव्यै नमः ||
ततस्स्वस्तिकाद्यासनेनोपविश्य ऐंह्रींश्रीं अमृतार्णवात्मकायनमः
इतिपादयोः, ऐंह्रींश्रींश्वेताम्बुजासनायनम इति जान्वोः,
प्. १५८) ऐंह्रींश्रींदेव्यासनायनम इतिपार्श्श्वयोः,
ऐंह्रींश्रींचक्रासनायनम इतिगुह्ये, आसनस्य चतुः कोणेषु पूजयेत् |
ओं गणपतयेनमः, दुर्गायैनमः, बटुकभैरवायनमः,
क्षेत्रपालायनमः, इति वायव्यादि नैरृत्यन्तम् | ततः ह्रींक-ए-ईलह्रीं
हसकहलह्रीं सकलह्रीं गंगणपतये नमः, पृष्ठे
क्षेत्रपालायनमः, सम्मुखे श्रीमहात्रिपुरसुन्दर्यैनमः || अथ
भूतशुद्धिः || स्वाङ्गे उत्तानौ हस्तौ कृत्वा सोहमिति मन्त्रेण
मूलाधारे यथोक्तरूपाङ्कुण्डलिनीं हू/कारेण
मनोमयदण्डेनाहत्योत्थाप्य
स्वाधीनमणिपूरानाहतप्रदीपकलिकाकारं जीवात्मानन्तया सह
विशुद्धाख्यचक्रम्भित्वा सहस्रदलकमलान्तर्गतबिन्दुरूपे परमशिवे
स/योज्य शरीरं शून्य/ व्विचिन्त्य कुक्षौ पापपुरुषन्ध्यायेत् ||
वामकुक्षौ स्थितम्पापपुरुषङ्कज्जलप्रभम् ||
ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ||
सुरापानहृदा युक्तङ्गुरुतल्पकटिद्वयम् ||
तत्स/योगिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ||
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ||
अचेतनमधोवक्त्रन्दग्धपादपसन्निभम् ||
खड्गचर्मधरङ्क्रूरम्पापङ्कुक्षौ विचिन्तयेत् ||
इति ध्यात्वा तेन सह शोषणादिकङ्कुर्यात् || वामनासापुटेन यमिति
वायुबीजन्धूम्रवर्णं षोडशवारञ्जपन् वायुमुत्तोल्य नाभौ
दशदले नियोज्य समस्तशरीरम्पापपुरुषेण संशोषयेत् | नासापुटौ
धृत्वा रमिति बीजं रक्तवर्णञ्चतुःषष्टिवारान् जपन् कुम्भकयोगेन
शरीरन्तेन सह भस्मीकुर्यात् | वायुमुत्तोल्य हृदि द्वादशदले नियोज्य
वमिति वरुणबीजं शुक्लवर्णन्द्वात्रिंशद्वारञ्जपन्
अमृतधाराम्पातयित्वा चमिति चन्द्रबीजञ्चतुःषष्टिवाराञ्जपन्
अमृतवृष्ट्या कुम्भकयोगेनाप्लाव्य लमिति
भूमिबीजम्पीतवर्णम्मूलाधारस्तम्भूमण्डले नियोज्य
समस्तशरीरम्पुनर्द्देवताराधनयोग्यं शरीरन्दृढीकुर्वन् हंस
इतिमन्त्रेण जीवात्मानं हृदयचक्रे नयेत् || कुण्डलिनीम्मूलचक्रन्नयेत् ||
इति भूतशुद्धिः ||
प्.१५९) ततो हृदि हस्तन्दत्त्वा प्राणप्रतिष्ठाङ्कुर्यात् |
अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः
ऋग्यजुःसामानि च्छन्दांसि चैतन्यशक्तिः परमात्मा देवता
प्राणप्रतिष्ठाया/ व्विनियोगः |
आ/ ह्रींक्रीं य/र/ल/व/श/ष/स/ह/ल/क्ष/ह/सः मम प्राणा इह
प्राणाः मम जीव इह स्थितः || १५ || ममेह सर्वेन्द्रियाणि || १५ || मम
वाङ्मनश्चक्षुःश्रोत्रघ्राणत्वग्रसनाप्राणा इहागत्य
सुखञ्चिरन्तिष्ठन्तु स्वाहा ||
अथ प्राणायामः ||
वामनासापुटन्धृत्वा क-ए-ई-ल-ह्रीमिति षोडशवारञ्जपन्
वायुना शनैः शनैः पूरयेदिति पूरकः | नासापुटौ धृत्वा
हसकहलह्रीं इतिचतुःष्षष्टिवारञ्जपन् वायुङ्कुम्भयेत् || इतिकुम्भकः
| सकलह्रीमिति बीजन्द्वात्रिंशद्वारञ्जपन् वायुन्दक्षनासापुटेन शनै
रेचयेत् || इतिरेचकः || एवम्प्राणायामत्रयङ्कुर्यात् | [अथमातृकान्यासः |]
अस्य श्रीमातृकान्यासमन्त्रस्य ब्रह्मर्षिर्गायत्रीछन्दो वर्णजननी
मातृकादेवता हलोबीजानि स्वराः शक्तयः कर्मसाद्गुण्ये विनियोगः ||
ब्रह्मर्षयेनमः शिरसि,
गायत्रीछन्दसेनमः मुखे,
वर्णजननीमातृकादेवतायैनमः हृदि,
हल्बीजेभ्योनमः गुह्ये,
स्वरेभ्यःशक्तिभ्योनमः गुदे,
कर्मसाद्गुण्ये विनियोगः पादयोः |
मातृकान्ध्यायेत् |
पञ्चाशल्लिपिभिर्विभक्तसुखदोष्काम्मध्यवक्षःस्थलां
भासन्मौलिनिबद्धचन्द्रसकलामापीनपिङ्गस्तनीम् ||
अद्रामक्षगुणं सुधाढ्यकलशं विद्यां सुहस्ताम्बुजे
बिभ्राणा/ व्विशदप्रभान्त्रिनयना/ व्वाग्देवतामाश्रये ||
अंनमः ललाटे | आंनमः मुखवृत्ते | इं नमः दक्षनेत्रे | ईं
नमः वामनेत्रे | उ/नमः दक्षकर्णे | ऊ/नमः वामकर्णे | ऋंनमः
दक्षनासापुटे | ॠंनमः वामनासापुटे | ऌंनमः दक्षगण्डे |
ॡंनमः वामगण्डे | एंनमः ओष्ठे | ऐंनमः अधरे | ओं नमः
ऊर्द्ध्वदन्तपङ्क्तौ | औंनमः अधोदन्तपङ्क्तौ | अ/नमः शिरसि |
अःनमः मुखे |
दक्षबाहुपञ्चसन्ध्यग्रेषु -
क/नमः ख/नमः ग/नमः घ/नमः ङ्/नमः |
प्. १६०) वामबाहुपञ्चसन्ध्यग्रेषु -
च/नमः छ/नमः ज/नमः झ/नमः ञ/नमः |
दक्षपादपञ्चसन्ध्यग्रेषु -
ट/नमः ठ/नमः ड/नमः ढ/नमः ण/नमः |
वामपादपञ्चसन्ध्यग्रेषु -
त/नमः थ/नमः द/नमः ध/नमः न/नमः |
दक्षपार्श्श्वे -
प/नमः फ/नमः |
वामपार्श्श्वे -
ब/नमः पृष्ठे | भ/नमः नाभौ | म/नमः उदरे | य/नमः
हृदये | र/नमः दक्षांसे | ल/नमः ककुदि | व/नमः वामांसे |
श/नमः हृदयादिदक्षहस्ते | ष/नमः हृदयादिवामहस्ते | स/नमः
हृदयादिदक्षपादे | ह/नमः हृदयादिवामपादे | ल/नमः हृदयादि
उदरे | क्ष/नमः हृदयादिमुखे | इति मातृकान्यासः ||
[अथान्तर्मातृकान्यासः] कण्ठे षोडशस्वरान् रक्तवर्णान् | हृदि कादि-
ठान्तान् सिन्दूरवर्णान् | नाभौ डादि-फान्तान्नीलवर्णान् | लिङ्गे बादि-
लान्तान्तडिद्वर्णान् | गुदे वादि-सान्तान् रक्तवर्णान् | भ्रूमध्ये
ह/क्ष/विमलवर्णान् | सहस्रारे सहस्रदले अकारादि -क्षकारान्ता/
ल्लाक्षारसवर्णान् पञ्चाशद्वर्णान् | एवङ्क्रमेण द्विरावृतौ
तृतीयावृत्तौ च विंशत्यावृत्तिपर्यन्तं सहस्रधा न्यसेत् |
मूलाधारमारभ्य सहस्रदलपर्यन्तं सर्वत्र सर्वदलेषु
मूलमन्त्रन्न्यसेत् | प्रतिदलम्प्रतिकमलम्प्रतिचक्रङ्कुण्डलिन्या
गतागतेन एकविंशतिशतं जपम्प्रतिश्वासान्भावयेदित्यजपा ||
अन्तर्मातृकान्यासश्च सदा सावधानेन कर्त्तव्यः ||
इत्यन्तर्मातृकान्यासः || [अथ कुलुकान्यासः |] ऐं क्लीं ह्रीं श्रीं
भगवतिमहात्रिपुरसुन्दरिस्वाहा || इति कुलुकां शिरसि ओंहृदि सेतुं
ह्रींमहासेतुं कण्ठे ह्रींमहासेतुं सहस्रारे ओंश्रीं-अ/-ए/-क्लीं-
सौं ऐं-अ/-आ/-इ/-ई/-उ/-ऊ/-ऋ/-ॠ/-ऌ/-ॡ/-ए/-ऐ/-ओ/-औ/-अ/-अः
क/ख/ग/घ/ङ/च/छ/ज/झ/ञ/ट/ठ/ड/ढ/ण/त/थ/द/ध/न/प/फ/ब/ब्
ह/म/य/र/ल/व/श/ष/स/ह/ल/क्ष/ इतिनिर्वाणनाभौ लिङ्गे कामबीजं
जिह्वायां मूलविद्या/ व्विचिन्त्य यथाशक्ति जपेत् | इतिकुलुकान्यासः || [अथ
पीठन्यासः] ललाटे अ/कामरूपपीठाय, नमः सर्वत्र |
प्. १६१) मुखवृत्ते आ/वाराणसीपीठाय, दक्षनेत्रे इ/नेपालपीठाय,
वामनेत्रे ईंपौण्ड्रवर्द्धनपीठाय, दक्षकर्णे उ/पुरस्तिरपीठाय,
वामकर्णे ऊ/कालिकुब्जिपीठाय, दक्षिणनासिकायां
ऋ/पूर्णशैलपीठाय, वामनासापुटे ऋ/-अर्बुदपीठाय, दक्षगण्डे ऌ/-
आम्रातकेश्वरपीठाय, वामगण्डे ॡ/-एकाम्रपीठाय, ओष्ठे
ए/त्रिस्रोतपीठाय, अधरे ऐंकामकोटपीठाय, ऊर्द्ध्वदन्तपङ्क्तौ
ओंकेदारपीठाय, अधोदन्तपङ्क्तौ, औंगुप्तनगरपीठाय, शिरसि
अ/चन्द्रपुरपीठाय, मुखे अः श्रीपीठाय, दक्षकरपञ्चसन्ध्यग्रेषु
क/-ओंकारपीठाय, ख/जालन्धरपीठाय, ग/मानपीठाय,
घ/भद्रकोटपीठाय, ङ/देवीकोटपीठाय ||
वामकरपञ्चसन्ध्यग्रेषु च/गोकर्णपीठाय, छ/मारुतेश्वरपीठाय,
ज/मङ्गलकोटपीठाय, झ/-अट्टहासपीठाय, ञ/विरजपीठाय ||
दक्षपादपञ्चसन्ध्यग्रेषु टंराजगृहपीठाय,
ठंमहापथपीठाय, डंकोणगिरिपीठाय, ढं-ऐलापुरपीठाय,
णंरामेश्वरपीठाय || वामपादपञ्चसन्ध्यग्रेषु
तंजपतीपीठाय, थं-उज्जयिनीपीठाय, दंचरित्रीपीठाय,
धंक्षीरिकापीठाय, नंहस्तिनापुरपीठाय || दक्षपार्श्श्वे पं-
उड्डीशपीठाय, वामपार्श्श्वे फ/प्रयागपीठाय, पृष्ठे
बंषष्ठीशपीठाय, नाभौ भंमायापुरपीठाय, उदरे
मंनिर्जनपीठाय, हृदये यंमलयपीठाय, दक्षांसे
रंश्रीशैलपीठाय, ककुदि लंमहामेरुपीठाय, वामांसे
वंगिरिपीठाय || हृदयादिदक्षहस्तपर्यन्ते शंमहेन्द्रपीठाय,
हृदयादिवामहस्तपर्यन्तं षंरसेनपीठाय ||
हृदयादिदक्षपादपर्यन्तं संबदरीपीठाय,
हृदयादिवामपादपर्यन्तं हंमहालक्ष्मीपुरपीठाय, हृदयादि-
उदरपर्यन्तं लं-उड्डीयानपुरपीठाय, हृदयादिमुखपर्यन्तं
क्षंसौम्यपीठाय नमः | ततो मूलाधारे ध्यानपीठायनमः
स्वाधिष्ठाने कामपीठाय नमः मणिपूरे ज्ञानपीठायनमः
अनाहते विदेहपीठायनमः विशुद्धौ नन्दिनीपीठाय० आज्ञायां
नन्दापीठाय० || ततः सहस्रदलेषु क्षीरनिधिपीठाय०
कल्पवनपीठाय० चिन्तामणिपीठाय०
प्. १६२) पर्यङ्कपीठाय० शिवासनपीठाय० मूर्त्तिमयपीठाय०
सर्वव्यापकपीठाय० || इतिपीठन्यासः || [अथ रहस्यन्यासः]
अस्य श्रीरहस्यन्यासमन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः
ऋग्यजुस्सामानि च्छन्दांसि चैतन्यशक्तिमहात्रिपुरसुन्दरी देवता
कृताकृतन्यासपूर्णतासिद्धये विनियोगः ||
ब्रह्मविष्णुमहेश्वरऋषिभ्योनमः शिरसि,
ऋग्यजुस्सामभ्यश्छन्दोभ्योनमः मुखे,
चैतन्यशक्तिमहात्रिपुरसुन्दर्यैदेवतायै नमः हृदये,
कृताकृतन्यासपूर्णतासिद्धये विनियोगः पादयोः | ऐंक्लींसौंक्लीं-
ऐं-श्रींह्रींहंसः सोहं सदाशिवासनायै महात्रिपुरसुन्दर्यै
नमः इति मूलाधारे || १ ||
ऐंक्लींसौंसौंक्लीं-ऐं-श्रींह्रींहंसः सोहं रतिप्रियायै
महात्रिपुरसुन्दर्यैनमः इतिस्वाधिष्ठाने || २ ||
ऐंक्लींसौंसौंक्लीं-ऐं-श्रींह्रींहंसः सोहं
ज्ञानस्वरूपायै महात्रिपुरसुन्दर्यैनमः इतिमणिपूरे || ३ ||
ऐंक्लींसौंसौंक्लीं-ऐं-श्रींह्रींहंसः
सोहंध्यानस्वरूपायै महात्रिपुरसुन्दर्यैनमः इति-अनाहते || ४ ||
ऐंक्लींसौंसौंक्लीं-ऐं-श्रींह्रींहंसः सोहं
विशुद्धस्वरूपायै महात्रिपुरसुन्दर्यैनमः इतिविशुद्धौ || ५ ||
ऐंक्लींसौंसौंक्लीं-ऐं-श्रींह्रींहंसः सोहं
स्वतन्त्रस्वरूपायै महात्रिपुरसुन्दर्यैनमः इत्याज्ञायाम् || ६ ||
ऐंक्लींसौंसौंक्लीं-ऐं-श्रींह्रींहंसःसोहं
आनन्दस्वरूपायै महासुन्दर्यैनमः इतिसहस्रारे न्यसेत् ||
इति रहस्यन्यासः || [अथ कामन्यासः ] ह्रींकामायनमः,
क्लींमन्मथाय०, ऐंकन्दर्पाय०, क्लूंमकरध्वजायनमः
स्त्रींमीनकेतवेनमः || तत ऐंहृदयायनमः, क्लींशिरसेस्वाहा, सौं
शिखायैवषट्, ऐंकवचायहुम्, क्लींनेत्रत्रयायवौषट्, सौं
अस्त्रायफट् | इतिद्विरावृत्य मन्त्रेण करयोर्विन्यसेत् || इतिकामन्यासः || [अथ
रत्यादिन्यासः ] लिङ्गे ऐंरत्यैनमः हृदि क्लींप्रीत्यैनमः भ्रूमध्ये
सौंमनोभवायै० भ्रूमध्ये सौं अमृताश्यै० हृदि क्लींयोगिन्यै०
लिङ्गे ऐं विश्वयोन्यैनमः || इतिरतिन्यासः || [अथ मनोभवन्यासः]
प्. १६३) शिरसि ह्सौं-ईशानाय मनोभवायनमः, मुखे
ह्सौंतत्पुरुषाय मकरध्वजायनमः, हृदि स्ह्रूं-अघोरकुमाराय
कन्दर्पाय०, गुह्ये ह्स्रींवामदेवायमन्मथाय०, पादयोः
ह्स्रूंसद्योजाताय कामदेवायनमः, ऊर्द्ध्वे वक्त्रे मस्तके ह्स्रौं-
ईशानाय मनोभवाय०, पूर्ववक्त्रे भाले ह्स्रौंतत्पुरुषाय
मकरध्वजाय०, दक्षिणवक्त्रे दक्षकर्णे ह्स्रूं-अघोरकुमाराय
कन्दर्पाय०, उत्तरवक्त्रे वामकर्णे ह्स्रींवामदेवाय मन्मथाय०,
पश्चिमवक्त्रे चूडाधः ह्स्रूंसद्योजाताय कामदेवायनमः ||
इतिमनोभवन्यासः || [अथ बाणन्यासः] ह्रा/क्षोभणबाणायनमः,
ह्रींद्रावणबाणाय०, क्लीं-आकर्षणबाणाय०,
क्लूंमोहनबाणाय०, सः उन्मादनबाणायनमः || इति
अङ्गुष्ठादिकनिष्ठान्तङ्करयोर्न्यसेत् || इतिबाणन्यासः || [अथ
स्वतन्त्रन्यासः] अस्य श्रीमहात्रिपुरसुन्दरीस्वतन्त्रन्यासस्य
आनन्दभैरवऋषिर्द्दैवी गायत्री छन्दः श्रीमहात्रिपुरसुन्दरी देवता
ऐंबीजं सौःशक्तिः क्लींकीलकं धर्मार्त्थकाममोक्षार्थे विनियोगः
||
आनन्दभैरवऋषयेनमः शिरसि, दैवीगायत्रीछन्दसेनमः मुखे,
श्रीमहात्रिपुरसुन्दरीदेवतायै नमः हृदये, ऐंबीजाय नमः नाभौ,
सौः शक्तयेनमः स्वाधिष्ठाने, क्लींकीलकायनमः मूलाधारे,
धर्मार्थकाममोक्षार्त्थे विनियोगः पादयोः || ऐंह्रींक्लीं-
अङ्गुष्ठाभ्यान्नमः क्लींश्रींसौःऐंतर्ज्जनीभ्यांस्वाहा, सौः
औंह्रींश्रींमध्यमाभ्यां व्वषट्, ऐं क ए लह्रीं हसकहल्ह्रीं
अनामिकाभ्यांहूम्, क्लींसकलह्रीं कनिष्ठिकाभ्यांवौषट्, सौ सौः
ऐं क्लीं ह्रीं श्रीं करतलपृष्ठाभ्याम्फट्, ऐं ह्रीं श्रीं ऐं क
ए ल ह्रीं सर्वज्ञायै महात्रिपुरसुन्दर्यै हृदयायनमः ऐं ह्रीं
श्रीं क्लीं सहकहल्ह्रीं नित्यतृप्तायै महात्रिपुरसुन्दर्यै शिरसे स्वाहा
ऐं ह्रीं श्रीं सौःसकलह्रीं अनादिबोधायै महात्रिपुरसुन्दर्यै
शिखायैवषट् ऐं ह्रीं श्रीं क ए लह्रीं स्वतन्त्रायै
महात्रिपुरसुन्दर्यै कवचायहुम् ऐं ह्रीं श्रीं क्लीं हसकहल्ह्रीं
नित्यमलुप्तशक्तये महात्रिपुरसुन्दर्यै नेत्रत्रयायवौषट्
प्. १६४) ऐंह्रींश्रींसौः सकलह्रीं अनन्तायै महात्रिपुरसुन्दर्यै
अस्त्रायफट् हः अस्त्रायफट् इतिदिग्बन्धः || इतिस्वतन्त्रन्यासः || [अथ
चतुर्द्दशारचक्रन्यासः] ऐंशिरसि, क्लींसौः भ्रुवोः, ऐंललाटे,
क्लींसौः श्रोत्रयोः, ऐंभ्रूमध्ये, क्लींसौः नेत्रयोः, ऐंशिरसि,
क्लींसौः नासिकयोः, ऐंचिबुके, क्लींसौः ओष्ठयोः, ऐं नासिकायाम्,
क्लिंसौः गण्डयोः, ऐंगले, क्लींसौः बाहुमूलयोः, ऐंकण्ठे,
क्लींसौः बाह्वोः, ऐंचिबुके, क्लींसौः स्तनयोः ऐंहृदये, क्लींसौः
पार्श्वयोः, ऐंनाभौ, क्लींसौः स्तनयोः, ऐंहृदये, क्लींसौः
करयोः, ऐंलिङ्गे, क्लींसौः त्रिकयोः, ऐं पृष्ठे, क्लींसौः नितम्बयोः,
ऐंक्लींसौः मूलञ्च सर्वाधारायनमः इति मूलाधारे || इति
चतुर्द्दशारन्यासः || [ततोऽङ्गदेवतान्यासः ||] अं आं इं ईं उं ऊं
ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
क्लींरसिनीवाग्देवतायैनमश्शिरसि, कंखंगंघंङं
क्लींकामेश्वरीवाग्देवतायैनमः ललाटे, चंछंजंझंञं
श्रींओदनीवाग्देवतायैनमः मुखे, टंठंडंढंणं
कुंविमलाननावाग्देवतायैनमः कण्ठे, तंथंदंधंनं
श्रीं-अव्ययावाग्देवतायैनमः हृदये, पंफंबंभंमं
श्रींजयिनीवाग्देवतायैनमः नाभौ, यंरंलंवं
क्ष्मींवाग्देवतायैनमः मूलाधारे,
शंषंसंहंलंसंक्षंहं क्ष्मींकौलिनीवाग्देवतायैनमः
इतिपादयोः || इत्यङ्गदेवतान्यासः || [अथ मन्त्रन्यासः] प्रथमबीजं
शिरसि | द्वितीय बीजं मुखे | तृतीयबीजं हृदये || ततः
समस्तमूलमन्त्रं शिरस्तः पादपर्यन्तन्न्यसेत् || इति मन्त्रन्यासङ्कृत्वा
पीठन्यासङ्कुर्यात् | प्रथमं हृदये ऐं
आधारशक्तिकमलासनायनमः ऐं-अनन्तायनमः ऐंपृथिव्यैनमः
ऐंरससमुद्रायनमः ऐंरत्नद्वीपायनमः ऐंकल्पवृक्षायनमः
ऐंरत्नमण्डपायनमः दक्षस्कन्धे धर्मायनमः वामस्कन्धे
ज्ञानायनमः दक्षोरौ वैरासनायनमः वामोरौ ऐश्वर्यायनमः
मुखे अधर्मायनमः दक्षपार्श्वे ज्ञानायनमः वामपार्श्वे
अनैश्वर्यायनमः नाभौ अवैराग्यायनमः
प्. १६५) हृदये अनन्तायनमः पद्मायनमः ओं-अर्कमण्डलायनमः
ओंसोममण्डलायनमः म/वह्निमण्डलायनमः स/सत्त्वायनमः
र/रजसेनमः त/तमसेनमः हैहेछींहसौः चक्रासनायनमः
सत्त्वमन्त्रासनायनमः साध्यसिद्धासनायनमः || ततो
हृत्पद्मचक्रन्ध्यात्वा तदुपरि वेदीङ्गन्धपुष्पाक्षतैः
करकच्छपमुद्राम्बद्ध्वा ध्यायेत् || सकुङ्कुममित्यादि |
बालार्कमण्डलाभासाञ्चतुर्बाहुन्त्रिलोचनाम् | पाशाङ्कुशौ
शरांश्चापन्धारयन्तीं शिवां श्रये || शिरसि पुष्पन्दत्त्वा०
गुरुभ्योनमः परमगुरुभ्योनमः परात्परगुरुभ्योनमः
परमेष्ठिगुरुभ्योनमः | मनसा देवीं सम्पूज्य आवाहनमुद्रा/
ययोनिमुद्राम्प्रदर्श्श्य ततोर्ग्घ्यस्थापनङ्कुर्यात् | सौः अस्त्रायफट् इति
शङ्खम्प्रक्षाल्य भूमौ त्रिकोणमण्डलङ्कृत्वा ओं
आधारशक्त्यैनमः कूर्मायनमः अनन्तायनमः पूजयेत् | तदुपरि
नम इति प्रक्षालितान्त्रिपदीन्निधाय तदुपरि शङ्खन्निधाय त्रिधा
मूलेनापूर्य दूर्वाक्षतादि निःक्षिप्य मंदशकलात्मने
सूर्यमण्डलाय नम इति त्रिपदीं सम्पूज्य अ/द्वादशकलात्मने
वह्निमण्डलायनम इतिजले पूजयेत् | उ/सोममण्डलाय
षोडशकलात्मनेनमः | ओंगङ्गे च यमुने चैव गोदावरि सरस्वति ||
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिङ्कुरु ||
इतिसूर्यमण्डलात्तीर्थमङ्कुशमुद्रयानीय
अवगुण्ठनमुद्रयावगुण्ठ्य मूलमष्टधा जप्त्वा
योनिमुद्राम्प्रदर्श्श्य अमृतीकृत्य धेनुमुद्रया पुनर्मूलमष्टधा
जपित्वा तेनोदकेनाभ्युक्ष्य स्थापयेदिति | ततो विशेषार्ग्घ्यस्थापनम् |
स्वपुरतः किञ्चिद्वामभागे सामान्यार्ग्घ्यस्य तोयेनाभ्युक्ष्य
त्रिकोणवृत्तगर्ब्भितवृत्तात्मकं षट्कोणवृत्तचतुरस्रमण्डलङ्कृत्वा
अग्न्यादिकोणचतुष्टये पूजयेत् | ओं
उड्डीयानश्रीपादुकाम्पूजयामिनमः
जांजालन्धरश्रीपादुकाम्पूजयामिनमः |
पूंपूर्णशैलश्रीपादुकाम्पूजयामिनमः
कांकामरूपश्रीपादुकाम्पूजयामिनमः | मूलेन नामोच्चार्य
प्. १६६) आधारमण्डलायनम इत्याधारं सम्पूज्य
सौःअस्त्रायफट्नम इतित्रिपदीं सम्पूज्य मण्डले स्थापयित्वा पूजयेत् |
म/वह्निमण्डलाय दशकलात्मने नमः | ततः सौः-अस्त्रायफट्नम
इतिशङ्खम्प्रक्षाल्य स्थापयित्वा अंसूर्यमण्डलाय
द्वादशकलात्मनेनमः श्रीमहात्रिपुरसुन्दर्यर्ग्घ्यपात्रायनम
इतिशङ्खे सम्पूज्य उंसोममण्डलाय षोडशकलात्मने
श्रीमहात्रिपुरसुन्दर्यार्ग्घ्यमृतायनम इतिजलेनापूर्य तत्र जले
दूर्वाक्षतादि दत्त्वा ओंगङ्गे च यमुने चैवेत्यादिना
सूर्यमण्डलादङ्कुशमुद्रया तीर्त्थमावाह्य धेनुमुद्रयामृतीकृत्य
योनिमुद्राम्प्रदर्श्श्य तदुपरि मूलमष्टधा जपित्वा दक्षाङ्गुष्ठेन
जलं स्पृष्ट्वा मूलं स्मृत्वा अर्ग्घ्यजलस्य आग्नेयकोणमारभ्य
विन्यसेत् | हृदयायनमः शिरसेस्वाहा शिखायैवौषट् अस्त्रायफट् ||
इतिचतुर्द्दिक्षु विन्यस्य ऽह्रींऽ इतिमन्त्रेण सम्पूज्य पञ्चरत्नानि विन्यसेत् |
ग्लूं श्लूं प्लूं म्लूं ज्लूमिति पञ्चरत्नानि
स्वर्गमर्त्यपातालगमनरत्नानि विन्यसेत् | मत्स्यमुद्रयाच्छाद्य
संरक्षणमुद्रया संरक्ष्य अवगुण्ठनमुद्रया अवगुण्ठ्य
अमृतीकरणमुद्रया अमृतीकृत्य प्रबोधनमुद्रया प्रबोध्य मूलं
स्मृत्वा | अकुलस्थामृताकरे सिद्धिज्ञानकरे परे | अमृतत्वनिधे त्वस्मिन्
वस्तुनि क्लिन्नरूपिणि || इतिजलमभिमन्त्र्य
तज्जलेनात्मानम्पूजोपकरणञ्चाभ्युक्ष्य पीठपूजामारभेत् |
ऐंह्रींनमः इतिकुशजलेन भूमिं शोधयित्वा त्रिपदीमारोप्य पूजयेत् |
ऐं-आधारशक्तिकमलासनायनमः कूर्मायनमः अनन्तायनमः
पृथिव्यै रसाम्बुधयेनमः रत्नद्वीपायनमः नन्दनोद्यानायनमः
रत्नमण्डपायनमः रत्नवेदिकायैनमः रत्नसिंहासनायनमः
श्रीचक्रायनमः | ततो ह्रमितिमन्त्रेण ताम्रपीठ/ व्विशोध्य श्रीयन्त्रं
स्थापयित्वा पीठस्य आग्नेयादिकोणचतुष्टयम्पूजयेत् | धर्मायनमः
ज्ञानायनमः वैराग्यायनमः ऐश्वर्यायनमः | ततः
पूर्वादिचतुर्द्दिक्षु | अधर्मायनमः अज्ञानायनमः
अवैराग्यायनमः |
प्. १६७) अनैश्वर्यायनमः | पीठस्योपरि-आनन्दकन्दायनमः
स/व्विन्नालायनमः सर्वतत्त्वानुकम्पायनमः |
पञ्चाशद्वर्णकर्णिकायैनमः विकारमयकेसरेभ्योनमः
प्रकृतिमयपत्रेभ्योनमः | मंवह्निमण्डलायनमः
ओंसूर्यमण्डलायनमः अ/सोममण्डलायनमः संसत्त्वायनमः
रंरजसेनमः तंतमसेनमः आंआत्मनेनमः अंअन्तरात्मनेनमः
पंपरमात्मनेनमः ह्रींज्ञानात्मनेनमः
ऐंकामरूपपीठायनमः || ऐंपूर्णगिरिपीठायनमः
ऐंजालन्धरपीठायनमः ऐं-उड्डीयानपीठायनमः || इतिसम्पूज्य
|| ऐंत्रिपुरेश्वरी मध्यमाभ्यान्ननमः | क्लींत्रिपुरेश्वरी
अनामिकाभ्यान्नमः | सौंत्रिपुरेश्वरी कनिष्ठाभ्यान्नमः |
ऐंत्रिपुरेश्वरी अङ्गुष्ठाभ्यान्नमः | क्लीं त्रिपुरेश्वरी
तर्ज्जनीभ्यान्नमः | सौः त्रिपुरेश्वरी करतलकरपृष्ठाभ्यान्नमः |
ह्रींक्लींसौः देव्यासनायनमः | चक्रासनायनमः
सर्वमन्त्रासनायनमः साध्यसिद्धासनायनमः | ऐंत्रिपुरेश्वरी
हृदयायनमः | क्लींत्रिपुरेश्वरी शिरसेस्वाहा | सौः त्रिपुरेश्वरी
शिखायैवषट् | ऐंत्रिपुरेश्वरी कवचायहूम् | क्लींत्रिपुरेश्वरी
नेत्रत्रयायवौषट् सौःत्रिपुरेश्वरी अस्त्रायफट् | ततो ध्यात्वा
पुष्पाञ्जलिना देवितेजः समानीय यन्त्रे कल्पितमूर्तौ आवाहनमुद्रया
आवाह्य स्थापनमुद्रया स/स्थाप्य त्रिखण्डमुद्राम्बद्ध्वा |
महापद्मवनान्तस्थे करुणामययविग्रहे || सर्वभूतहिते मातरेह्येहि
परमेश्वरि || अमृतीकरणपरमीकरणमुद्राम्प्रदर्श्य मूलमुच्चार्य
श्रीमहात्रिपुरसुन्दरी प्राणा इह सुप्रतिष्ठिता भवन्तु | मूलमुच्चार्य
पाद्यन्नमः मूलमर्ग्घ्योनमः मूलङ्गन्धोनमः |
मूलम्पुष्पन्नमः मूलन्धूपोनमः मूलन्दीपोनमः
मूलन्नैवेद्यन्नमः | लम्पृथिव्यात्मकङ्गन्धं समर्पयामिनमः
हं आकाशात्मकम्पुष्पंसमर्पयामिनमः
यंयवाव्वात्मकन्धूपंसमर्पयामिनमः
रंवह्न्यात्मकन्दीपंसमर्पयामिनमः वं
अंबात्मकममृतंसमर्पयामिनमः | इतिपञ्चोपचारान्निवेद्य |
श्रीमहात्रिपुरसुन्दरि
प्. १६८) तवाज्ञाम्प्राप्य परिवारानर्च्चयामि | आज्ञाम्प्राप्य पूजयेत् |
मध्ये ह्रींश्रींकामेश्वर्यैनमः भगमालिन्यैनमः क्लिन्नाय०
भेरुण्डायै० विन्ध्यवासिन्यै० महाविद्येश्वर्यै० शिवदूत्यै० त्वरितायै०
नित्यायै० नीलपताकायै० विजयायै० श्रीयै० सर्वमङ्गलायै०
ज्वालांशुमालिन्यै० ह्रींश्रींविचित्रायैनम इतिसम्पूज्य | पूर्वद्वारे
गङ्गणपतयेनमः | पश्चिमद्वारे बम्बटुकायनमः | उत्तरद्वारे
ह्रींदुर्ग्गायैनमः | दक्षिणद्वारे क्षंक्षेत्रपालायनमः |
बाह्यचतुरस्रस्य बाह्ये रेखायां पश्चिमादिद्वारचतुष्टये
ह्रींश्रीं-अणिमादिसिद्धिश्रीपादुकांपूजयामिनमः |
लघिमासिद्धिम्पूजयामिनमः | महिमासिद्धिम्पूजयामिनमः |
ईशसिद्धिम्पूजयामिनमः | बाह्यादिकोणचतुष्टये
वशित्वसिद्धिश्रीम्पूजयामिनमः | प्राकाश्यसिद्धिश्रीम्पूजयामिनमः
| भक्तिसिद्धिश्रीम्पूजयामिनमः | इच्छासिद्धिश्रीम्पूजयामिनमः |
अधस्थात्प्राप्तिसिद्धिश्रीम्पूजयामिनमः | ऊर्द्ध्वं
सर्वकामसिद्धिम्पूजयामिनमः | मध्यचतुरस्रस्य
पश्चिमादिद्वारचतुष्टये | ह्रींश्रीं-आं ब्राह्म्यैनमः |
ईंमाहेश्वर्यैनमः | उ/कौमारीश्रीपादुकाम्पूजयामिनमः |
ऋंवैष्णवीश्री० मध्यचतुरस्रस्य बाह्यादिकोणे
ह्रींश्रींॡंवाराहीश्री० ऐं-इन्द्राणीश्री० औंचामुण्डाश्री०
अःमहालक्ष्मीश्री० | अभ्यन्तरचतुरस्रस्य पश्चिमादिद्वारचतुष्टये |
त्रिखण्डाक्षमुद्राश्री० ह्रींसर्वसङ्क्षोभिणीमुद्राश्री०
ह्रींसर्वविद्राविणीमुद्राश्री० क्लींसर्वाकर्षिणीमुद्राश्री० |
अभ्यन्तरचतुरश्रस्य बाह्यादिकोणचतुष्टये
क्लुंसर्वावेशकरीमुद्राश्री० सर्वोन्मादकरीमुद्राश्री०
क्रौंमहाङ्कुशामुद्राश्रीपादु० क्लुंखेचरीमुद्राश्री० ततस्त्रिवलये
बीजमुद्राश्री० योनिमुद्राश्री० चार्वाकदर्शनायनमः | ततो
हस्तेनार्ग्घ्यजलङ्गृहीत्वा | अत्र त्रैलोक्यमोहनचतुरस्रचक्रे
श्रीमहात्रिपुरसुन्दरीसमधिष्ठिते एता ईशित्वाद्याः प्रकटयोगिन्यः
समुद्राः ससिद्धयः सायुधाः सवाहनाः सपरिवाराः
सर्वोपचारैस्सम्पूजितास्सन्तु इति मूलेनार्पयेत् |
प्.१६९) ततः षोडशदलेषु पश्चिमदलादारभ्य देव्याः
प्रदक्षिणाक्रमेण पूजयेत् | ह्रींश्रीं-अंकामाकर्षिणी नित्याकलाश्री०
आंबुद्ध्याकर्षिणी नित्याकलाश्री० इं-अहङ्काराकर्षिणी नित्याकलाश्री०
ईंशब्दाकर्षिणी नित्याकलाश्री० उंरूपाकर्षिणी नित्याकलाश्री० ऊं
स्पर्शाकर्षिणी नित्याकलाश्री० ऋंरसाकर्षिणी नित्याकलाश्री०
ऋंगन्धाकर्षिणी नित्याकलाश्री० ऌंचिन्ताकर्षिणी नित्याकलाश्री०
ॡंधैर्याकर्षिणी नित्याकलाश्री० एंस्मृत्याकर्षिणी नित्याकलाश्री०
ऐंनासाकर्षिणी नित्याकलाश्री० ओंबीजाकर्षिणी नित्याकलाश्री० अं-
अमृताकर्षिणी नित्याकलाश्री० अःशरीराकर्षिणी नित्याकलाश्री०
रेखायाम्बौद्धदर्शनायनमः | ततो हस्तेनार्ग्घ्यजलङ्गृहीत्वा | अत्र
सर्वाशापरिपूरके षोडशदलचक्रे श्रीमहात्रिपुरसुन्दरीसमधिष्ठिते
एताः कामाकर्षिण्याद्या गुप्तयोगिन्यः समुद्राः ससिद्धयः सायुधाः
सवाहनाः सपरिवाराः सर्वोपचारैः पूजितास्सन्तु | इतिमूलमन्त्रेण
देव्यै निवेदयेत् | ततोऽष्टदलचक्रे पूर्वदलेषु
ह्रींश्रींक/ख/ग/घ/ङ/-अनङ्गकुसुमादेवीश्री०
च/छ/ज/झ/ञ/-अनङ्गमेखलादेवीश्री०
ट/ठ/ड/ढ/ण/-अनङ्गमदनादेवीश्री०
त/थ/द/ध/न/-अनङ्गमदनातुरादेवीश्री०
प/फ/ब/भ/म/-अनङ्गरेखादेवीश्री०
य/र/ल/व/-अनङ्गवेगिनीदेवीश्री०
श/ष/स/ह/-अनङ्गकुशादेवीश्री०
ल/क्ष/-अनङ्गमालिनीदेवीश्रीपादुकाम्पूजयामिनमः | अत्र
सङ्क्षोभकरेऽष्टदलचक्रे श्रीमहात्रिपुरसुन्दरीसमधिष्ठिते एता
अनङ्गकुसुमाद्याः गुप्ततरा योगिन्यः समुद्रास्ससिद्धयः
सायुधास्सवाहनास्सपरिवारास्सर्वोपचारैः पूजितास्सन्तु
इत्यर्ग्घ्यजलेन देव्यै समर्पयेत् | ह्रींश्रींसर्वसङ्क्षोभिणीशक्तिश्री०
सर्वद्राविणिशक्तिश्रीपादुकाम्पूजयामिनमः
सर्वाकर्षिणीशक्तिश्रीपादुकाम्पूजयामिनमः सर्वाह्लादिनीशक्तिश्री०
सर्वमोहिनीशक्तिश्री० सर्वस्तम्भिनीशक्तिश्री० सर्वज्जृम्भणीशक्तिश्री०
प्. १७०) सर्ववशङ्करीशक्तिश्री० सर्वरञ्जिनीशक्तिश्री०
सर्वोन्मादिनीशक्तिश्री० सर्वार्त्थसाधनीशक्तिश्री०
सर्वाशापरिपूरणीशक्तिश्री० सर्वमन्त्रमयीशक्तिश्री०
सर्वद्वन्द्वक्षयङ्करीशक्तिश्री० वहिः
साङ्ख्यनैययायिकदर्शनेभ्योनमः | अत्र सौभाग्यदायके
चतुर्द्दशचक्रे श्रीमहात्रिपुरसुन्दरीसमधिष्ठिते
एतास्सङ्क्षोभिण्याद्याश्शक्तयः सम्प्रदाययोगिन्यः
समुद्रास्ससिद्धयः
सायुधास्सवाहनास्सपरिवारास्सर्वोपचारैस्सम्पूजितास्सन्तु |
इत्यर्ग्घ्यजलेन मूलन्देव्यै समर्पयेत् || ततो बहिर्द्दशारचक्रे
पश्चिमादिदशान्तं पूजयेत् | ह्रींश्रींसर्वसिद्धिप्रदादेवी श्री०
सर्वसम्पदादेवीश्री० सर्वप्रियङ्करीशङ्करीदेवीश्री०
सर्वमङ्गलकारिणीदेवीश्री० सर्वकामप्रदादेवीश्री०
सर्वदुःखविमोचनीदेवीश्री० सर्वाङ्गसुन्दरीदेवीश्री०
सर्वमृत्युविनाशिनीदेवीश्री० सर्वदुःखविनाशिनीदेवीश्री०
सर्वसौभाग्यदायिनीदेवीश्री० | अत्र सर्वाशापरिपूरके चक्रे
श्रीमहात्रिपुरसुन्दरीसमधिष्ठिते एतास्सर्वसिद्धिप्रदाद्या देव्यः
कुलकौलिनीयोगिन्यः
समुद्रास्ससिद्धयस्सायुधास्सवाहनास्सपरिवारास्सर्वोपचारैस्सम्पूजित्
आस्सन्तु | इत्यर्ग्घ्यजलेन मूलेन देव्यै समर्पयेत् |
ततोऽन्तर्द्दशारचक्राग्राद्दक्षिणान्त/ ययावत्पूजयेत् |
ह्रींश्रींसर्वज्ञादेवीश्री० सर्वशक्तिमयीदेवीश्री०
सर्वैश्वर्यप्रदादेवी श्री० सर्वज्ञानमयीदेवीश्री०
सर्वव्याधिविनाशिनीदेवीश्री० सर्वाशापरिपूरणीदेवीश्री०
सर्वपापहरादेवीश्री० सर्वानन्दमयीदेवीश्री०
सर्वान्तकामरूपिणीदेवीश्री० सर्वेप्सितफलप्रदादेवीश्री० | अत्र
सर्वरक्षाकरे अन्तर्द्दशारचक्रे
त्रिपुरमालिनीश्रीत्रिपुरसुन्दरीसमधिष्ठिते
एतास्सर्वज्ञाद्यानिर्ब्भययोगिन्यस्समुद्राः ससिद्धयः सायुधाः
सवाहनाः सपरिवाराः सर्वोपचारैस्सम्पूजिताः सन्तु | इत्यर्ग्घ्यजलेन
मूलेन देव्यै समर्पयेत् | ततोऽष्टारचक्रे चक्रात्पश्चिमादिदक्षिणान्तं
यावत्पूजयेत् |
प्. १७१) ह्रींश्रीं अ/ आ/ इ/ ई/ उ/ ऊ/ ऋ/ ॠ/ ऌ/ ॡ/ ए/ ऐ/ ओ/ औ/ अ/ अः
वशिनीवाग्देवताश्री० क/ ख/ ग/ घ/ ङ/ कामेश्वरीवाग्देवताश्री० च/
छ/ ज/ झ/ ञ/ मोदिनीवाग्देवताश्री० ट/ ठ/ ड/ ढ/ ण/
विमलावाग्देवताश्री० त/ थ/ द/ ध/ न/ अव्ययावाग्देवताश्री० प/ फ/ ब/
भ/ म/ जयिनीवाग्देवताश्री० य/ र/ ल/ व/ सर्वेश्वरीवाग्देवताश्री० श/
ष/ स/ ह/ क्ष/ कौलिनीवाग्देवताश्री० || अत्र सर्वरोगहरे अष्टारचक्रे
श्रीमहात्रिपुरसुन्दरीसमधिष्ठिते एता वशिन्याद्या रहस्ययोगिन्यः
समुद्राः ससिद्धयस्सायुधास्सवाहनाः सपरिवाराः सर्वोपचारैः
सम्पूजितास्सन्तु | इत्यर्ग्घ्यजलेन मूलेन देव्यै समर्पयेत् |
अभ्यन्तरकोणत्रये पुष्पाञ्जलि/ व्वारत्रयन्दद्यात् | चक्रमध्ये दक्षिणे
उत्तमबाणायनमः | वामे मोहधनुषेनमः | तदधः
कर्क्कशायनमः | दक्षिणे स्तम्भाङ्कुशायनमः | अग्रे क्लीं
कामेश्वर्यैनमः | आंचक्रिण्यैनमः | ऐंभगशालिन्यैनमः |
मूलेन श्रीमहात्रिपुरसुन्दर्यैनमः | ततः त्रिकोणमध्ये
कामकलामीकाररूपां ध्यायेत् | ततो
ब्रह्मविष्णुरुद्रेशानसदाशिवेभ्यः पञ्चप्रेतेभ्योनमः
नवग्रहेभ्योनम इत्यभ्यर्च्य मालाङ्गृहीत्वा यथाशक्ति जपेत् | ततः |
गुह्यातिगुह्यगोप्त्री त्वङ्गृहाणास्मत्कृतञ्जपम् | सिद्धिर्भवतु मे देवि
त्वत्प्रसादान्महेश्वरि || इति जलेन देव्या वामहस्ते समर्पयेत् | जपन्देव्या
गृहीतन्तेजोमय/ व्विभाव्य | विधिहीनङ्क्रियाहीनम्भक्तिहीनञ्च
यद्भवेत् | पूर्णं भवतु तत्सर्वं त्वत्प्रसादात्त्रिलोचने || इति यथाशक्ति
स्तुत्वा प्रदक्षिणन्त्रिः प्रणम्य कृतार्त्थमात्मानम्भावयेत् |
योनिमुद्राम्प्रदर्शयेत् | संहारमुद्रया विसर्ज्जयेत् | निर्माल्यङ्गृहीत्वा
ऐशान्यान्त्रिकोणमण्डलङ्कृत्वा ऐंच/चण्डेश्वर्यैनमः इत्यभ्यर्च्च्य
निर्माल्यं शिरसि धृत्वा यथासुख/ व्विहरेत् | श्रीविद्याज्ञानमात्रेण
सर्वसिद्धिः प्रजायते || अतो विद्या प्रदातव्या नाभक्ताय कदाचन || इति
पूजापद्धतिः ||
प्. १७२) अथ स्तोत्रम्
कल्याणवृष्टिभिरिवामृतपूरिताभिर्लक्ष्मीस्वय/व्वरणमङ्गलदीपिकाभ्
इः | सेवाभिरम्ब तव पादसरोजमूले नाकारि किम्मनसि
भक्तिमताञ्जनानाम् || १ ||
एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थसरोजनेत्रे |
सान्निध्यमुद्यदरुणाम्बुजसोदरस्य त्वद्विग्रहस्य सुधया परया
प्लुतस्य || २ ||
ईषत्प्रभावकलुषाः कति नाम सन्ति ब्रह्मादयः
प्रतिदिनम्प्रलयाभिभूताः | एकस्स एव जननि स्थिरसिद्धिरास्ते यः
पादयोस्तव सकृत्प्रणतिङ्करोति || ३ ||
लब्ध्वा सकृत्त्रिपुरसुन्दरि
तावकीनङ्कारुण्यकन्दलतिकान्तिभरङ्कटाक्षम् |
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः सम्मोहयन्ति
तरुणीम्भुवनत्रयेऽपि || ४ ||
ह्रीङ्कारमेव तव नाम गृणन्ति ये वा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे |
त्वत्संस्मृतौ यमभटाभिभव/ व्विहाय दिव्यन्ति नन्दनवने सह
लोकपालैः || ५ ||
हन्तुः पुरामधिगलत्परिपूर्णमानः क्रूरः कथन्न भविता गरलस्य
वेगः | नाश्वासनाय यदि मातरिदन्तवार्द्धदेहस्य
शश्वदमृताप्लुतशीतलस्य || ६ ||
सर्वज्ञतां सदसि वाक्पटुताम्प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः
प्रणामः | किञ्च स्फुरन्मुकटमुज्ज्वलमातपत्रन्द्वे चामरे च महती/
व्वसुधान्दधाति || ७ ||
कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब
भवत्कटाक्षैः | आलोकय त्रिपुरसुन्दरि मामनाथन्त्वययेव
भक्तिभरितन्त्वयि बद्धदृष्टिम् || ८ ||
हन्तेतरेष्वपि निधाय मनांसि चान्ये भक्ति/ व्वहन्ति किल सापरदैवतेषु |
त्वामेव देविमनसाऽहमनुस्मरामि त्वामेव नौमि शरणञ्जननि
त्वमेव || ९ ||
लक्षेषु सत्स्वपि तवाक्षिविलोकनानामालोकय त्रिपुरसुन्दरि माङ्कथञ्चित् |
नूनम्मया च सदृशङ्करुणैकपात्रञ्जातो जनिष्यति जनो न च जायते वा
|| १० ||
ह्रींह्रीमिति प्रतिदिनञ्जपतान्तवाख्याङ्किन्नाम दुर्ल्लभमिह
त्रिपुराभिधाने |
प्. १७३) मालाकिरीटमदवारणमाननीया/स्तान्सेवते मधुमती स्वयमेव
लक्ष्मीः || ११ ||
सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि |
त्वद्वन्दनानि दुरितोद्धरणोद्यतानि मामेव मातरनिशङ्कलयन्तु
नान्यम् || १२ ||
कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य
| पाशाङ्कुशैक्षवशरासनपुष्पबाणाः सा साक्षिणी विजयते तव
मूर्त्तिरेका || १३ ||
लग्नं सदा भवतु मातरिदन्त्वदीयन्तेजः
परम्बहुलकुङ्कुमपङ्कशोणम् |
भास्वत्किरीटममृतांशुकलावतंसं रूपं
त्रिकोणमुदितम्परमामृताक्तम् || १४ ||
ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्र/ ययः
प्रतिवासरन्तव पुरो मातर्जपेन्मन्त्रवित् | तस्य क्षोणिभुजो भजन्ति वशगा
लक्ष्मीश्चिरं स्थायिनी वाणी निर्मलसूक्तिभावभरिता जागर्ति दीर्ग्घ/
ययशः || १५ || इतिब्रह्मविरचितं षोडशीकल्याणीस्तोत्रं समाप्तम् ||
अथ कवचम्
देव्यु वाच
देवदेव महादेव भक्तानाम्प्रीतिदायक |
सुचिन्तयन्महादेव्याः कवचङ्कथयस्व मे || १ ||
श्रीमहादेव उवाच
शृणु देवि प्रवक्ष्यामि कवचन्देवदुर्ल्लभम् |
अप्रकाश्यम्परङ्गुह्यं साधकाभीष्टसिद्धिदम् || २ ||
कवचस्य ऋषिर्द्देवि दक्षिणामूर्त्तिरव्ययः |
छन्दः पङ्क्तिः समुद्दिष्टन्देवी त्रिपुरसुन्दरी || ३ ||
धर्मार्त्थकाममोक्षाणा/ व्विनियोगस्तु साधने |
वाग्भवङ्कामबीजञ्च शक्तिबीजं सुरेश्वरि || ४ ||
वाग्भवम्पातु शीर्षे माङ्कामबीजन्तथा हृदि |
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः || ५ ||
ए/क्ली/ सौंवदने पातु बाला मां सर्वसिद्धये |
हसोः सकलह्रीं पातु भैरवी कण्ठदेशतः || ६ ||
सुन्दरी नाभिदेशे च शीर्षे कामकला सदा |
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी || ७ ||
ललाटे सुभगा पातु भगामाङ्कण्ठदेशतः |
प्. १७४) भगोदया तु हृदये उदरे भगसर्पिणी || ८ ||
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा |
गुह्ये पातु महादेवी राजराजेश्वरी शिवा || ९ ||
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका |
नारायणी सर्वगात्रे सर्वकाये शुभङ्करी || १० ||
ब्रह्माणी पातु माम्पूर्वे दक्षिणे वैष्णवी तथा |
पश्चिमे पातु वाराही उत्तरे च महेश्वरी || ११ ||
आग्नेययाम्पातु कौमारी महालक्ष्मीस्तु नैरृते |
वायव्याम्पातु चामुण्डा इन्द्राणी पातु ईशके || १२ ||
जले पातु महामाया पृथिव्यां सर्वमङ्गला |
आकाशे पातु वरदा सर्वत्रिभुवनेश्वरी || १३ ||
इदन्तु कवचन्देव्या देवानामपि दुर्ल्लभम् |
यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः || १४ ||
नाधयो व्याधयस्तस्य न भयञ्च क्वचिद्भवेत् |
न तु मारीभयन्तस्य पातकानाम्भयन्तथा || १५ ||
न दारिद्र्यवशङ्गच्छेत्तिष्ठेन्मृत्युवशे न च |
गच्छेत्स्थिरपुरन्देवि सत्यं सत्य/ व्वदाम्यहम् || १६ ||
इदङ्कवचमज्ञात्वा श्रीविद्या/ ययो जपेत्प्रिये |
स नाप्नोति फलन्तस्य प्राप्नुयाच्छस्त्रघातनम् || १७ ||
इति सिद्धयामले श्रीषोडशीविद्या कवचं समाप्तम् ||
अथ हृदयम्
कैलासे करुणाक्रान्ता परोपकृतिमानसा |
पप्रच्छ करुणासिन्धुं सुप्रसन्नम्महेश्वरम् || १ ||
श्रीपार्वत्युवाच
आगामिनि कलौ ब्रह्मन् धर्मकर्मविवर्ज्जिताः |
भविष्यन्ति जनास्तेषाङ्कथं श्रेयो भविष्यति || २ ||
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि तव स्नेहान्महेश्वरि |
दुर्लभन्त्रिषु लोकेषु सुन्दरीहृदयस्तवम् || ३ ||
ये नरा दुःखसन्तप्ता दारिद्र्यहतमानसाः |
अस्यैव पाठमात्रेण तेषां श्रेयो भविष्यति || ४ ||
ओमस्य श्रीमहाषोडशीहृदयस्तोत्रमन्त्रस्य
आनन्दभैरवऋषिर्दैवीगायत्रीछन्दः श्रीमहात्रिसुन्दरीदेवता
ऐंबीजं
प्. १७५) सौःशक्तिः क्लींकीलकं धर्मार्त्थकाममोक्षार्त्थे विनियोगः ||
आनन्दभैरवऋषयेनमश्शिरसि || देवीगायत्रीछन्दसेनमः मुखे
|| श्रीमहात्रिपुरसुन्दरीदेवतायैनमः हृदये || ऐंबीजायनमः नाभौ
| सौः शक्तयेनमः स्वाधिष्ठाने || क्लींकीलकायनमः मूलाधारे |
धर्मार्त्थकाममोक्षार्त्थे विनियोगः पादयोः || अथ कराङ्गन्यासौ ||
ऐंह्रींक्लीं अङ्गुष्ठाभ्यान्नमः | क्लींश्रींसौः ऐं
तर्ज्जनीभ्यांस्वाहा | सौः ओंह्रींश्रीं मध्यमाभ्या/व्वषट् | ऐंक-
ए-ईलह्रींहसकहलह्रीं अनामिकाभ्या/हूम् |
क्लींसकलकनिष्ठाभ्या/व्वौषट् | सौः सौः ऐंक्लींह्रींश्रीं
करतलकरपृष्ठाभ्याम्फट् | एवमङ्गन्यासः || ध्यानम् |
बालव्यक्तविभाकरामितनिभाम्भव्यप्रदाम्भारतीमीषत्फुल्लमुखाम्
बुजस्मितकरैराशाभवान्धापहाम् |
पाश/ साभयमङ्कुशञ्च वरदं सम्बिभ्रतीम्भूतिदां
भ्राजन्तीञ्चतुरम्बुजाकृतिकरैर्ब्भक्त्या भजे षोडशीम् || ५ ||
सुन्दरी सकलकल्मषापहा कोटिकञ्जप्रियकाम्यकान्तिका |
कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा || ६ ||
शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयश्रिता |
सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता || ७ ||
या सुरासुररणे जवान्विता आजघान जगदम्बिकाऽजिता |
ताम्भजामि जगताञ्जनिञ्जया/ ययुद्धयुक्तदितिजान्सुदुर्ज्जयान् || ८ ||
योगिनां हृदयसङ्गतां शिवा/ योगयुक्तमनसा/ ययतात्मनाम् |
जाग्रतीञ्जगति यत्नतो द्विजा याञ्जपन्ति हृदि ताम्भाजाम्यहम् || ९ ||
कल्पकास्तु कलयन्ति कालिका/ ययत्कला कलिजनोपकारिका |
कौलिकालिकलिताङ्घ्रिकञ्जकान्ताम्भजामि कलिकल्मषापहाम् || १० ||
बालार्कानन्तशोर्चिर्न्निजतनुकिरणैर्द्दीपयन्ती दिगन्तान्
दीप्तैर्देदीप्यमानान्दनुजदलवनानल्पदावानलाभाम् |
दान्तोदन्तोग्रचित्तान्दलितदितिसुतान्दर्शनीयान्दुरन्तान्देवीन्दीनार्द्द्र्
अचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि || ११ ||
प्. १७६) धीरान्धन्यान्धरित्रीं
धवविधृतशिरोधूतधूल्यब्जपादान्धृष्टान्धाराधराधोविनिधृतच्
अपलाचारुचन्दत्प्रभाभाम् |
धर्मान्धूतोपहारान्धरणिसुरधवोद्धारिणी
ध्येयरूपान्धीमद्धन्यातिधन्यान्धनदधनवृतां
सुन्दरीञ्चिन्तयामि || १२ ||
जयतु जयतु जल्पा योगिनी योगयुक्ता जयतु जयतु सौम्या सुन्दरी
सुन्दरास्या | जयतु जयतु पद्मा पद्मिनी केशवस्य जयतु जयतु काली
कालिनी कालकान्ता || १३ ||
जयतु जयतु खर्वा षोडशी वेदहस्ता जयतु जयतु धात्री धर्मिणी
धातृशांतिः | जयतु जयतु वाणी ब्राह्मणा ब्रह्मवन्द्या जयतु जयतु
दुर्गा दारिणी देवशत्रोः || १४ ||
देवि त्त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा, रक्षाकाले
त्वमम्बा हरिहृदयधृता सात्त्विकी श्वेतरूपा | भूरिक्रोधा भवान्ते
भवभवनगता तामसी कृष्णरूपा, एताश्चान्यास्त्वमेव
क्षितिमनुजमता सुन्दरी केवलाद्या || १५ ||
सुमलसुमनमेतद्देवि गोप्यङ्गुणज्ञे ग्रहणमननयोग्यं
षोडशीयङ्खलघ्नम् | सुरतरुसमशीलं
सम्प्रदम्पाठकानाम्प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् || १६
||
इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् |
यः शृणोति नरः स्तोत्रं स सदा सुखमश्नुते || १७ ||
न शूद्राय प्रदातव्यं शठाय समलात्मने |
देयन्दान्ताय भक्ताय ब्राह्मणाय विशेषतः || १८ ||
इति श्रीत्रिपुरसुन्दरीतन्त्रे षोडशीहृदयस्तोत्रं समाप्तम् ||
अथोपनिषत्
ओं परमकारणभूता शक्तिः केन नवचक्ररूपो देहः
नवचक्रशक्तिमयं श्रीचक्र/ व्वाराही पितृरूपा कुरुकुल्लाचीलदेवता
मातापुरुषार्थाः सागराः देहो नवरत्ने द्वीपः आधारनवकमुद्राः
शक्तयः त्वगादिसप्तधातुभिरनेकैः स/युक्ताः सङ्कल्पाः कल्पतरवः
तेजः कल्पकोद्यानं रसनया भासमाना
मधुराम्लतिक्तकटुकषायलवणरसाः
प्. १७७) षड्रसाः क्रियाशक्तिपीठङ्कुण्डलिनीज्ञानशक्तिः अहम्
इच्छाशक्तिर्महात्रिपुरसुन्दरी ज्ञाता होता ज्ञानमर्ग्घ्य ज्ञेयं हविः
ज्ञातृज्ञानज्ञेया नमो भेदभावनं
श्रीचक्रपूजनन्नियतिसहितशृङ्गारादयो नव रसा अणिमादयः
कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया
ब्राह्म्याद्यष्टशक्तयः आधारं नवकमुद्राशक्तयः
पृथ्व्यप्तेजोवायवाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायु
उपस्थविकाराः षोडशशक्तयः
वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा
बुद्धयोऽनङ्गकुसुमादिशक्तयोष्टौ
अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी
गान्धारीपूषासरस्वती-इडापिङ्गलासुषुम्ना चेति चतुर्द्दशनाड्यः
सर्वसङ्क्षोभिण्यादिचतुर्द्दशारदेवताः
प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया
दश वायवः सर्वसिद्धिप्रदादिबहिर्द्दशारदेवताः एतद्वायुदशकं
ससर्गोपाधिभेदेन रेचकपूरकपोषकदाहकाल्पावकामृतमिति
प्राणसख्यत्वेन पञ्चविधोऽस्ति जाठराग्निर्मनुष्याणाम्मोहको
भक्ष्यभोज्यलेह्यचोष्यात्मकञ्चतुर्विधमन्नम्पाचयति || तदाकाशवान्
सकलाः सर्वज्ञत्वाद्यन्तर्द्दशारदेवताः
शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणादिवशिन्यादिशक्तयोऽष्टौ
शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणाः
मनेक्षुधनुर्वल्यो बाणो रागः पाशो
द्वेषोऽङ्कुशोऽव्यक्तमहत्तत्त्वाहङ्कारकामेश्वरी-
वज्रेश्वरीभगमालिन्योऽन्तस्त्रिकोणाग्रदेवताः पञ्चदशतिथिरूपेण
कालस्य परिणामावलोकनपञ्चदश नित्या शुद्धानुरूपाधिदेवता
निरुपाधिसार्वदेवकामेश्वरी सदानन्दपूर्णाः
स्वात्म्यैक्यरूपललिताकामेश्वरी सदानन्दघनपूर्णाः
स्वात्म्यैक्यरूपा देवता ललितामिति साहित्यकरणं सत्त्वं
कर्त्तव्यमकर्त्तव्यमिति भावनामुक्ता उपचारा अहन्त्वमस्ति नास्ति
कर्त्तव्याकर्त्तव्यमुपासितव्यानुपासितव्यमिति विकल्पनामनोविलापनं
होमः बाह्याभ्यन्तरकरणानां
प्. १७८) रूपग्रहणयोग्यतास्तीत्यावाहनम् तस्य
बाह्याभ्यन्तरकरणानामेकरूपविषयग्रहणमासनम्
रक्तशुक्लपदैकीकरणम्पाद्यम्
उज्ज्वलदामोदानन्दासानन्दनमर्ग्घ्यम्
स्वच्छास्वतःशक्तिरित्याचमनम् चिच्चन्द्रमयीस्मरणं स्नानम्
चिदग्निस्वरूपपरमानन्दशक्तिस्मरण/ व्वस्त्रम् प्रत्येकं
सप्तविंशतिधा भिन्नत्वेन इच्छाक्रियात्मकब्रह्मग्रन्थिमयी
सतन्तुब्रह्मनाडीब्रह्मसूत्रम् सव्यातिरिक्तवस्त्रसङ्गरहितस्मरण/
व्विभूषणम् स्वच्छन्दपरिपूर्णस्मरणङ्गन्धः
समस्तविषयाणाम्मनःस्थैर्येणानुसन्धानङ्कुसुमन्तेषामेव
सर्वदा स्वीकरणन्धूपः पवनाच्छिन्नोर्द्ध्वज्वला
सच्चिदाह्लादाकाशदेहो दीपः समस्तयातायातिवर्ज्जनन्नैवेद्यम्
अवस्थात्रयैकीकरणन्ताम्बूलम्
मूलाधारादाब्रह्मरन्ध्रपर्यन्तम्ब्रह्मरन्ध्रादामूलाधारपर्य
न्तङ्गतागतरूपेण प्रादक्षिण्यन्तुरीयावस्थानं
स/स्कारदेहशून्यप्रमादितावतिमज्जनम्बलिहरणं सत्त्वमस्ति
कर्त्तव्यमकर्त्तव्यमौदासीन्यमात्मविलापनं होमः
भावनाविषयाणामभेदभावना तर्पणम्
स्वयन्तत्पादुकानिमज्जनम्परिपूर्णध्यानम् एवम्मूर्त्तित्रयभावनया
युक्तो मुक्तो भवति तस्य देवतात्मैक्यसिद्धिः चितिकार्याण्यप्रयत्नेन
सिद्ध्यन्ति स एव शिवयोगीति कथ्यते || इति षोडश्युपनिषत् समाप्ता ||
अथ शतनाम
भृगुवाच
चतुर्वक्त्र जगन्नाथ स्तोत्र/ व्वद मयि प्रभो |
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् || १ ||
ब्रह्मोवाच
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् |
गुह्याद्गुह्यतरङ्गुह्यं सुन्दर्याः परिकीर्त्तितम् || २ ||
ओमस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिरनुष्टुप्-
छन्दः श्रीषोडशीदेवता धर्मार्थकाममोक्षसिद्धये विनियोगः ||
ओं त्रिपुरा षोडशीमाता त्र्यक्षरा त्रितया त्रयी |
सुन्दरी सुमुखी सेव्या सामवेदपरायणा || ३ ||
शारदा शब्दनिलया सागरा सरिताम्बरा |
प्. १७९) शुद्धाशुद्धतमुस्साध्वी शिवध्यानपरायणा || ४ ||
स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती |
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा || ५ ||
साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा |
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी || ६ ||
षड्वर्गभावरहिता षड्वर्गपरिचारिका |
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी || ७ ||
क्रतुरूपा क्रतुमती ऋभुक्षा क्रतुमण्डिता |
कवर्गादि-पवर्गान्ता अन्तस्थानन्तरूपिणी || ८ ||
अकाराकाररहिता कालमृत्युजरापहा |
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी || ९ ||
काली कराली कामेशी च्छाया सञ्ज्ञाप्यरुन्धती |
निर्विकल्पा महावेगा महोत्साहा महोदरी || १० ||
मेघा बालका विमला विमलज्ञानदायिनी |
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता || ११ ||
भगाङ्गा भगरूपा च भक्तिभावपरायणा |
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा || १२ ||
धर्मकर्मादिरहिता धर्मकर्मपरायणा |
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी || १३ ||
भैरवी भुवनामाताऽभयदा भवसुन्दरी |
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी || १४ ||
रोहिणी रेवती रम्या रम्भा रावणवन्दिता |
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा || १५ ||
शतचन्द्रानना देवी सहस्रादित्यसन्निभा |
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता || १६ ||
अर्द्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा |
इति ते कथितङ्गोप्यन्नाम्नामष्टोत्तरं शतम् || १७ ||
सुन्दर्याः सर्वदं सेव्यम्महापातकनाशनम् |
गोपनीयङ्गोपनीयङ्गोपनीयङ्कलौ युगे || १८ ||
सहस्रनामपाठस्य फल/ ययद्वै प्रकीर्त्तितम् |
तस्मात्कोटिगुणम्पुण्यं स्तवस्यास्य प्रकीर्तनात् || १९ ||
पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा |
प्रदोषकाले नवमीदिनेऽथवा लभेत् भोगान्परमाद्भुतान् प्रियान्
|| २० ||
प्. १८०) इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनामस्तोत्रं
समाप्तम् ||
अथ सहस्रनाम
कैलासशिखरे रम्ये नानारत्नोपशोभिते |
कल्पपादपमध्यस्थे नानापुष्पोपशोभिते |
मणिमण्डपमध्यस्थे मुनिगन्धर्वसेविते |
तङ्कश्चित्सुखमासीनम्भगवन्तञ्जगद्गुरुम् ||
कपालखट्वाङ्गधरञ्चन्द्रार्द्धकृतशेखरम् |
त्रिशूलडमरूहस्तम्महावृषभवाहनम् ||
जटाजूटधरन्देव/ व्वासुकीकण्ठभूषणम् |
विभूतिभूषणन्देवन्नीलकण्ठन्त्रिलोचनम् ||
द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् |
सहस्रादित्यसङ्काशङ्गिरिजार्द्धाङ्गभूषणम् ||
प्रणम्य शिरसा नाथङ्कारण/ व्विश्वरूपिणम् |
कृताञ्जलिपुटो भूत्वा प्राहैनं शिखिवाहनः ||
कार्त्तिकेय उवाच
देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक |
त्वमेव परमात्मा च त्वङ्गतिः सर्वदेहिनाम् ||
त्वं ग्गतिस्सर्वलोकानान्दीनानाञ्च त्वमेव हि |
त्वमेव जगदाधारस्त्वमेष विश्वकारणः ||
त्वमेव पूज्यस्सर्वेषान्त्वदन्यो नास्ति मे गतिः |
किङ्गुह्यम्परमं ल्लोके किमेकं सर्वसिद्धिदम् ||
किमेकम्परमं श्रेष्ठङ्कि/ययोगं स्वर्गमोक्षदम् |
विना तीर्त्थेन तपसा विना दानैर्विना मखैः ||
विना लयेन ध्यानेन नरः सिद्धिमवाप्नुयात् |
कस्मादुत्पद्यते सृष्टिः कस्मिंश्च प्रलयो भवेत् ||
कस्मादुत्तीर्यते देव संसारार्णवसङ्कटात् |
तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ||
ईश्वर उवाच
साधु साधु त्वया पृष्टम्पार्वतीप्रियनन्दन |
अस्ति गुह्यतमम्पुत्र कथयिष्याम्यसंशयम् ||
सत्त्वं रजस्तमश्चैव ये चान्ये महदादयः |
ये चान्ये बहवो भूताः सर्वप्रकृतिसम्भवाः ||
सैव देवी पराशक्तिर्महात्रिपुरसुन्दरी |
सैव प्रसूयते विश्व/ व्विश्वं सैव प्रयास्यति ||
सैव संहरते विश्वञ्जगदेतच्चराचरम् |
आधारस्सर्वभूतानां सैव रोगार्त्तिहारिणी ||
प्. १८१) इच्छाज्ञानक्रियाशक्तिर्बह्मविष्णुशिवादयः |
त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी |
सृज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते |
संहरेद्रुद्ररूपेण जगदेतच्चराचरम् ||
यस्या योनौ जगत्सर्वमद्यापि परिवर्त्तते |
यस्याम्प्रलीयते चान्ते यस्याञ्च जायते पुनः |
यां समाराध्य त्रैलोक्यं सम्प्राप्तम्पदमुत्तमम् |
तस्या नाम सहस्रन्तु कथयामि शृणुष्व तत् ||
ओं अस्य श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्य
श्रीभगवान्दक्षिणामूर्त्तिरृषिः जगतीच्छन्दः
समस्तप्रकटगुप्तसम्प्रदायकुलकौलोत्तीर्णनिर्गर्ब्भरहस्याचिन्त्यप्रभा
वती देवता ओंबीजम् || मायाशक्तिः कामराजबीजकीलकम् जीवो बीजम्
सुषुम्ना नाडी सरस्वती शक्तिर्धर्मार्त्थकाममोक्षार्त्थे जपे विनियोगः
|| आधारे तरुणार्कबिम्बरुचिरं
हेमप्रभम्वाग्भवम्बीजम्मन्मथमिन्द्रगोपसदृशं हृत्पङ्कजे
संस्थितम् || विष्णुब्रह्मपदस्थशक्तिकलितं सोमप्रभाभासुर/ यये
ध्यायन्ति पदत्रयन्तव शिवे ते यान्ति सौख्यम्पदम् ||
कल्याणी कमला काली कराली कामरूपिणी |
कामाख्या कामदा काम्या कामना कामचारिणी ||
कालरात्रिर्महारात्रिः कपाली कालरूपिणी |
कौमारी करुणामुक्तिः कलिकल्मषनाशिनी ||
कात्यायनी कराधारा कौमुदी कमलप्रिया |
कीर्त्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ||
माहेश्वरी महामाया महातेजा महेश्वरी |
महाजिह्वा महाघोरा महादंष्ट्रा महाभुजा ||
महामोहान्धकारघ्नी महामोक्षप्रदायिनी |
महादारिद्र्यनाशा च महाशत्रुविमर्द्दिनी ||
महामाया महावीर्या महापातकनाशिनी |
महामखा मन्त्रमयी मणिपूरकवासिनी ||
मानसी मानदा मान्या मनश्चक्षू रणेचरा |
गणमाता च गायत्री गणगन्धर्वसेविता ||
गिरिजा गिरिशा साध्वी गिरिस्था गिरिवल्लभा |
चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी ||
प्. १८२) चर्विका चर्चिकाकारा चण्डिका चारुरूपिणी |
यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ||
यज्ञमाता यज्ञभोक्त्री यज्ञेशी यज्ञसम्भवा |
सिद्धयज्ञक्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षिका ||
यज्ञक्रिया यज्ञरूपा यज्ञाङ्गी यज्ञरक्षिका |
यज्ञक्रिया च यज्ञा च यज्ञायज्ञक्रियालया ||
जालन्धरी जगन्माता जातवेदा जगत्प्रिया |
जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ||
गङ्गा गोदावरी चैव गोमती च शतद्रुका |
घर्ग्घरा वेदगर्ब्भा च रेचिका समवासिनी ||
सिन्धुर्म्मन्दाकिनी क्षिप्रा यमुना च सरस्वती |
भद्रा रागविपाशा च गण्डकी विन्ध्यवासिनी ||
नर्मदा सिन्धु कावेरी वेत्रवत्या सुकौशिकी |
महेन्द्रतनया चैव अहल्या चर्मकावती ||
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका |
पुरी द्वारावती तीर्त्था महाकिल्बिषनाशिनीइ ||
पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी |
पद्मवक्त्रा चकोराक्षी पद्मस्था पद्मसम्भवा ||
ह्रीङ्कारी कुण्डलीधारी हृत्पद्मस्था सुलोचना |
श्रीङ्कारीभूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी ||
हरिवक्त्रोद्भवा शान्ता हरिवक्त्रकृतालया |
हरिवक्त्रोद्भवा शान्ता हरिवक्षस्स्थलस्थिता ||
वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी |
विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला ||
विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी |
विश्वेश्वरी शिवाराध्या शिवनाथा शिवप्रिया ||
शिवमाता शिवाख्या च शिवदा शिवरूपिणी |
भवेश्वरी भवाराध्या भवेशी भवनायिका ||
भवमाता भवगम्या भवकण्टकनाशिनी |
भवप्रिया भवानन्दा भवानी भवमोहिनी ||
गायत्री चैव सावित्री ब्रह्माणी ब्रह्मरूपिणी |
ब्रह्मेशी ब्रह्मदा ब्रह्मा ब्रह्माणी ब्रह्मवादिनी ||
दुर्गस्था दुर्गरूपा च दुर्गा दुर्ग्गार्तिनाशिनी |
सुगमा दुर्गमा दान्ता दया दोग्ध्री दुरापहा ||
दुरितघ्नी दुराध्यक्षा दुरा दुष्कृतनाशिनी |
पञ्चास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी ||
प्. १८३) सत्त्वस्था सत्त्वरूपा च सत्त्वस्था सत्त्वसम्भवा |
रजस्स्था च रजोरूपा रजोगुणसमुद्भवा ||
तमस्स्था च तमोरूपा तामसी तामसप्रिया |
तमोगुणसमुद्भूता सात्त्विकी राजसी कला ||
काष्ठा मुहूर्ता निमिषा अनिमेषा ततः परम् |
अर्द्धमासा च मासा च स/व्वत्सरस्वरूपिणी ||
योगस्था योगरूपा च कल्पस्था कल्परूपिणी |
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ||
विश्वात्मिका विश्वमाता विश्वपाशविनाशिनी |
विश्वासकारिणी विश्वा विश्वशक्तिविचारणा ||
यवाकुसुमसङ्काशा दाडिमीकुसुमोपमा |
चतुरङ्गी चतुर्ब्बाहुश्चतुराचारवासिनी ||
सर्वेशी सर्वदा सर्वा सर्वदा सर्वदायिनी |
माहेश्वरी च सर्वाद्या शर्वाणी सर्वमङ्गला ||
नलिनी नन्दिनी नन्दा आनन्दा नन्दवर्द्धिनी |
व्यापिनी सर्वभूतेषु शवभारविनाशिनी ||
सर्वशृङ्गारवेषाढ्या पाशाङ्कुशकरोद्यता |
सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना ||
गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी |
दावाग्निकोटिनलिनी रुद्रकोट्युग्ररूपिणी ||
समुद्रकोटिगम्भीरा वायुकोटिमहाबला |
आकाशकोटिविस्तारा यमकोटिभयङ्करी ||
मेरुकोटिसमुच्छ्राया गणकोटिसमृद्धिदा |
निष्कस्तोका निराधारा निर्गुणा गुणवर्जिता ||
अशोका शोकरहिता तापत्रयविवर्जिता |
वसिष्ठा विश्वजननी विश्वाख्या विश्ववर्द्धिनी |
चित्रा विचित्रचित्राङ्गी हेतुगर्ब्भा कुलेश्वरी |
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता ||
शुचिः स्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया |
महासत्त्वमयी सत्त्वा पञ्चतत्त्वोपरिस्थिता ||
पार्वती हिमवत्पुत्री पारस्था पाररूपिणी |
जयन्ती भद्रकाली च अहल्या कुलनायिका ||
भूतधात्री च भूतेशी भूतस्था भूतभावना |
महाकुण्डलिनी शक्तिर्महाविभववर्द्धिनी ||
हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी |
प्. १८४) सोमसूर्याग्निमध्यस्था मणिमण्डलवासिनी ||
द्वादशारसरोजस्था सूर्यमण्डलवासिनी |
अकलङ्का शशाङ्काभा षोडशारनिवासिनी ||
डाकिनी राकिनी चैव लाकिनी काकिनी तथा |
शाकिनी हाकिनी चैव षट्चक्रेषु निवासिनी ||
सृष्टिस्थितिविनाशाय सृष्टिस्थित्यन्तकारिणी |
श्रीकण्ठप्रियहृत्कण्ठा नन्दाख्या बिन्दुमालिनी ||
चतुष्षष्टिकलाधारा देहदण्डसमाश्रिता |
माया काली धृतिर्मेधा क्षुधा तुष्टिर्महाद्युतिः ||
हिङ्गुला मङ्गला सीता सुषुम्नामध्यगामिनी |
परघोरा करालाक्षी विजया जयदायिनी ||
हृत्पद्मनिलया भीममहाभैरवनादिनी |
आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ||
महत्सूक्ष्मा च कङ्काली भीमरूपा महाबला |
मेनकागर्ब्भसम्भूता तप्तकाञ्चनसन्निभा ||
अन्तरस्था कूटबीजा त्रिकूटाचलवासिनी |
वर्णाख्या वर्णरहिता पञ्चाशद्वर्णभेदिनी ||
विद्याधरी लोकधात्री अप्सरा अप्सरः प्रिया |
दीक्षा दाक्षायणी दक्षा दक्षयज्ञविनाशिनी ||
यशः पूर्णा यशोदा च यशोदागर्ब्भसम्भवा |
देवकी देवमाता च राधिका कृष्णवल्लभा ||
अरुन्धती शचीन्द्राणी गान्धारी गन्धमालिनी |
ध्यानातीता ध्यानगम्या ध्यानज्ञा ध्यानधारिणी ||
लम्बोदरी च लम्बोष्ठी जाम्बवन्ती जलोदरी |
महोदरी मुक्तकेशी मुक्तकामार्त्थसिद्धिदा ||
तपस्विनी तपोनिष्ठा सुपर्णा धर्मवासिनी |
वाणचापधरा धीरा पाञ्चाली पञ्चमप्रिया ||
गुह्याङ्गी च सुभीमा च गुह्यतत्त्वा निरञ्जना |
अशरीरा शरीरस्था संसारार्णवतारिणी ||
अमृता निष्कला भद्रा सकला कृष्णपिङ्गला |
चक्रप्रिया च चक्राह्वा पञ्चचक्रादिदारिणी ||
पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा |
अधःस्था ऊर्द्ध्वरूपा च ऊर्द्ध्वपद्मनिवासिनी ||
कार्यकारण कर्त्तृत्वे शश्वद्रूपेषु संस्थिता |
रसज्ञा रसमध्यस्था गन्धस्था गन्धरूपिणी ||
प्. १८५) प्रब्रह्मस्वरूपा च परब्रह्मनिवासिनी |
शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्ज्जिता ||
सिद्धिर्ब्बुद्धिः पराबुद्धिः सन्दीप्तिर्मध्यसंस्थिता |
स्वगुह्या शाम्भवी-शक्तिस्तत्त्वस्था तत्त्वरूपिणी ||
शाश्वती भूतमाता च महाभूताधिपप्रिया |
शुचिप्रेता धर्मसिद्धिर्धर्मवृद्धिः पराजिता ||
कामसन्दीपिणी कामा सदा कौतूहलप्रिया |
जटाजूटधरा मुक्ता सूक्ष्मा शक्तिविभूषणा ||
द्वीपिचर्मपरीधाना चीरवल्कलधारिणी |
त्रिशूलडमरुधरा नरमालाविभूषणा ||
अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा |
त्रैलोक्यसाधिनी साध्या सिद्धिसाधकवत्सला ||
सर्वविद्यामयी सारा चासुराणा/ व्विनाशिनी |
दमनी दामनी दान्ता दया दोग्ध्री दुरापहा ||
अग्निजिह्वोपमा घोरा घोरघोरतरानना |
नारायणी नारसिंही नृसिंहहृदयेस्थिता ||
योगेश्वरी योगरूपा योगमाता च योगिनी |
खेचरी खचरी खेला निर्वाणपदसंश्रया ||
नागिनी नागकन्या च सुवेशा नागनायिका |
विषज्वालावती दीप्ता कलाशतविभूषणा ||
तीव्रवक्त्रा महावक्त्रा नागकोटित्वधारिणी |
महासत्त्वा च धर्मज्ञा धर्मातिसुखदायिनी ||
कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा वरानना |
सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी ||
सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता |
सर्वपीडोपशमनी सर्वारिष्टनिवारिणी ||
सर्वैश्वर्यसमुत्पन्ना सर्वग्रहविनाशिनी |
मातङ्गी मत्तमातङ्गी मातङ्गीप्रियमण्डला ||
अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता |
अमृतोदधिमध्यस्था प्रवालवसनाम्बुजा ||
मणिमण्डलमध्यस्था ईषत्प्रहसितानना |
कुमुदा ललिता लोला लाक्षा लोहितलोचना ||
दिग्वासा देवदूती च देवदेवाधिदेवता |
सिंहोपरिसमारूढा हिमाचलनिवासिनी ||
अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी |
अत्युग्ररक्तवस्त्राभा नागकेयूरमण्डिता ||
प्. १८६) मुक्ताहारलतोपेता तुङ्गपीनपयोधरा |
रक्तोत्पलदलाकारा मदाघूर्णितलोचना ||
समस्तदेवतामूर्त्तिः सुरारिक्षयकारिणी |
खड्गिनी शूलहस्ता च चक्रिणी चक्रमालिनी ||
शङ्खिनी चापिनी वाणी वज्रिणी वज्रदण्डिनी |
आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ||
नानाभरणदीप्ताङ्गा नानामणिविभूषिता |
जगदानन्दसम्भूता चिन्तामणिगुणान्विता ||
त्रैलोक्यनमिता तुर्या चिन्मयानन्दरूपिणी |
त्रैलोक्यनन्दिनी देवी दुःखसुस्स्वप्ननाशिनी ||
घोराग्निदाहशमनी राज्यदेवार्त्थसाधिनी |
महापराधराशिघ्नी महाचौरभयापहा ||
रागादिदोषरहिता जरामरणवर्ज्जिता |
चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा ||
सर्वदेवैः स्तुता देवी सर्वसिद्धैर्न्नमस्कृता |
अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी ||
अस्तिस्वस्तिमयी बाला मलयाचलवासिनी |
धात्री विधात्री संहारी रतिज्ञा रतिदायिनी ||
रुद्राणी रुद्ररूपा च रुद्ररौद्रार्त्तिनाशिनी |
सर्वज्ञा चैव धर्मज्ञा रसज्ञा दीनवत्सला ||
अनाहता त्रिनयना निर्ब्भारा निर्वृतिः परा |
पराघोरा करालाक्षी सुमती श्रेष्ठदायिनी ||
मन्त्रालिका मन्त्रगम्या मन्त्रमाला सुमन्त्रिणी |
श्रद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका ||
धरिणी धारिणी पृथ्वी धरा धात्री वसुन्धरा |
मेरुमन्दरमध्यस्थास्थितिः शङ्करवल्लभा ||
श्रीमती श्रीमयी श्रेष्ठा श्रीकरी भावभाविनी |
श्रीदा श्रीमा श्रीनिवासा श्रीमती श्रीमताङ्गतिः ||
उमा सारङ्गिणी कृष्णा कुटिला कुटिलालका |
त्रिलोचना त्रिलोकात्मा पुण्यपुण्या प्रकीर्त्तिता ||
अमृता सत्यसङ्कल्पा सासत्या ग्रन्थिभेदिनी |
परेशी परमा साध्या पराविद्या परात्परा ||
सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता |
प्रजा प्रजावती धन्या धनधान्यसमृद्धिदा ||
ईशानी भुवनेशानी भवानी भुवनेश्वरी |
प्. १८७) अनन्तानतमहिता जगत्सारा जगद्भवा ||
अचिन्त्यात्मा चिन्त्यशक्तिश्चिन्त्याचिन्त्यस्वरूपिणी |
ज्ञानगम्या ज्ञानमूर्त्तिर्ज्ज्ञानिनी ज्ञानशालिनी ||
असिता घोररूपा च सुधाधारा सुधावहा |
भास्करी भास्वती भीतिर्ब्भास्वदक्षानुशायिनी ||
अनसूया क्षमा लज्जा दुर्ल्लभा भरणात्मिका |
विश्वघ्नी विश्ववीरा च विश्वघ्नी विश्वसंस्थिता ||
शीलस्था शीलरूपा च शीला शीलप्रदायिनी |
बोधनी बोधकुशला रोधनी बोधनी तथा ||
विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा |
विश्वयोनिर्महायोनिः कर्मयोनिः प्रियात्मिका ||
रोहिणी रोगशमनी महारोगज्वरापहा |
रसदा पुष्टिदा पुष्टिर्मानदा मानवप्रिया ||
कृष्णाङ्गवाहिनी कृष्णा कृष्णाकृष्णसहोदरी |
शाम्भवी शम्भुरूपा च शम्भुस्था शम्भुसम्भवा ||
विश्वोदरी योगमाता योगमुद्राध्नयोगिनी |
वागीश्वरी योगनिद्रा योगिनीकोटिसेविता ||
कौलिका मन्दकन्या च शृङ्गारपीठवासिनी |
क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरी ||
धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा |
पिनाकी रुद्रवेताली महावेतालरूपिणी ||
तपिनी तापिनी दीक्षा विष्णुविद्यात्मनाश्रीता |
मन्थरा जठरा तीव्रा अग्निजिह्वा भयापहा ||
पशुघ्नी पशुरूपा च पशुहा पशुबाहिनी |
पीता माता च धीरा च पशुपाशविनाशिनी ||
चन्द्रप्रभा चन्द्ररेखा चन्द्रकान्तिविभूषिणी |
कुङ्कुमाङ्कितसर्वाङ्गी सुधासद्गुरुलोचना ||
शुक्लाम्बरधरा देवी वीणापुस्तकधारिणी |
ऐरावतपद्मधारा श्वेतपद्मासनस्थिता ||
रक्ताम्बरधरा देवी रक्तपद्मविलोचना |
दुस्तरा तारिणी तारा तरुणी ताररूपिणी ||
सुधाधारा च धर्मज्ञा धर्मसङ्गोपदेशिनी |
भगेश्वरी भगाराध्या भगिनी भगनायिका ||
भगबिम्बा भगक्लिन्ना भगयोनिर्ब्भगप्रदा |
भगेश्वरी भगाराध्या भगिनी भगनायका ||
भगेशी भगरूपा च भगगुह्या भगावहा |
प्. १८८) भगोदरी भगानन्दा भगस्था भगशालिनी ||
सर्वसङ्क्षोभिणी शक्तिस्सर्वविद्राविणी तथा |
मालिनी माधवी माध्वी मधुरूपा महोत्कटा ||
भरुण्डचन्द्रिका ज्योत्स्ना विश्वचक्षुस्तमोपहा |
सुप्रसन्ना महादूती यमदूती भयङ्करी ||
उन्मादिनी महारूपा दिव्यरूपा सुरार्च्चिता |
चैतन्यरूपिणी नित्या क्लिन्ना काममदोद्धता ||
मदिरानन्दकैवल्या मदिराक्षी मदालसा |
सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धसम्भवा ||
सिद्धर्द्धिः सिद्धमाता च सिद्धिस्सर्वार्त्थसिद्धिदा |
मनोमयी गुणातीता परञ्ज्योतिःस्वरूपिणी ||
परेशी परगा पारा परासिद्धिः परागतिः |
विमला मोहिनी आद्या मधुपानपरायणा ||
वेदवेदाङ्गजननी सर्वशास्त्रविशारदा |
सर्वदेवमयी विद्या सर्वशास्त्रमयी तथा ||
सर्वज्ञानमयी देवी सर्वधर्ममयीश्वरी |
सर्वयज्ञमयी यज्ञा सर्वमन्त्राधिकारिणी ||
सर्वसम्पत्प्रतिष्ठात्री सर्वविद्राविणी परा |
सर्वसङ्क्षोभिणी देवी सर्वमङ्गलकारिणी ||
त्रैलोक्याकर्षिणी देवी सर्वाह्लादनकारिणी |
सर्वसम्मोहिनी देवी सर्वस्तम्भनकारिणी ||
त्रैलोक्यजृम्भिणी देवी तथा सर्ववशङ्करी |
त्रैलोक्यरञ्जिनी देवी सर्वसम्पत्तिदायिनी |
सर्वमन्त्रमयी देवी सर्वद्वन्द्वक्षयङ्करी ||
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदायिनी |
सर्वप्रियकरी देवी सर्वमङ्गलकारिणी ||
सर्वकामप्रदा देवी सर्वदुःखविमोचिनी |
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ||
सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी |
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ||
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी |
सर्वाधारस्वरूपा च सर्वपापहरा तथा ||
सर्वानन्दमयी देवी सर्वेक्षायाःस्वरूपिणी |
सर्वलक्ष्मीमयी विद्या सर्वेप्सितफलप्रदा ||
सर्वारिष्टप्रशमनी परमानन्ददायिनी |
त्रिकोणनिलया त्रिस्था त्रिमात्रा त्रितनुस्थिता ||
प्.१८९) त्रिवेणी त्रिपथा त्रिस्था त्रिमूर्त्तिस्त्रिपुरेश्वरी |
त्रिधाम्नी त्रिदशाध्यक्षा त्रिवित्त्रिपुरवासिनी ||
त्रयीविद्या च त्रिशिरा त्रैलोक्या च त्रिपुष्करा |
त्रिकोटरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका ||
त्रिपुराश्री त्रिजननी त्रिपुरा त्रिपुरसुन्दरी |
इदन्त्रिपुरसुन्दर्याः स्तोत्रन्नाम सहस्रकम् ||
गुह्याद्गुह्यतरम्पुत्र तव प्रीत्यै प्रकीर्त्तितम् |
गोपनीयम्प्रयत्नेन पठनीयम्प्रयत्नतः ||
नातः परतरम्पुण्यन्नातः परतरन्तपः |
नातः परतरं स्तोत्रन्नातः परतरा गतिः ||
स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिर्गतम् |
यः पठेत्प्रयतो भक्त्या शृणुयाद्वा समाहितः ||
मोक्षार्त्थी लभते मोक्षं स्वर्गार्त्थी स्वर्गमाप्नुयात् |
कामांश्च प्राप्नुयात्कामी धनार्त्थी च लभेद्धनम् ||
विद्यार्त्थी लभते विद्या/ ययशोर्त्थी लभते यशः |
कन्यार्त्थी लभते कन्यां सुतार्त्थी लभते सुतम् ||
गुर्विणी जनयेत्पुत्रङ्कन्या विन्दति सत्पतिम् |
मूर्क्खोऽपि लभते शास्त्रं हीनोऽपि लभते गतिम् ||
सङ्क्रान्त्या/ व्वार्कामावस्यामष्टम्याञ्च विशेषतः |
पौर्णमास्याञ्चतुर्द्दश्यान्नवम्याम्भौमवासरे ||
पठेद्वा पाठयेद्वापि शृणुयाद्वा समाहितः |
स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् ||
लक्ष्मीवान्धर्मवांश्चैव वल्लभस्सर्वयोषिताम् |
तस्य वश्यम्भवेदाशु त्रैलोक्यं सचराचरम् ||
रुद्रन्दृष्ट्वा यथा देवा विष्णुन्दृष्ट्वा च दानवाः |
यथाहिर्गरुडन्दृष्ट्वा सिंहन्दृष्ट्वा यथा गजाः |
कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् |
अग्निचौरभयन्तस्य कदाचिन्नैव सम्भवेत् ||
पातका विविधाः शान्तिर्मेरुपर्वतसन्निभाः |
यस्मात्तच्छृणुयाद्विघ्नांस्तृण/ व्वह्निहुत/ ययथा ||
एकदा पठनादेव सर्वपापक्षयो भवेत् |
दशधा पठनादेव वाचा सिद्धिः प्रजायते ||
शतधा पठनाद्वापि खेचरो जायते नरः |
सहस्रदशसङ्ख्यात/ ययः पठेद्भक्तिमानसः ||
प्. १९०) मातास्य जगतान्धात्री प्रत्यक्षा भवति ध्रुवम् |
लक्षपूर्णे यथा पुत्र स्तोत्रराजम्पठेत्सुधीः ||
भवपाशविनिर्मुक्तो मम तुल्यो न संशयः |
सर्वतीर्त्थेषु यत्पुण्यं सकृज्जप्त्वा लभेन्नरः ||
सर्ववेदेषु यत्प्रोक्तन्तत्फलम्परिकीर्त्तितम् |
भूत्वा च बलवान्पुत्र धनवान्सर्वसम्पदः ||
देहान्ते परमं स्थान/ ययत्सुरैरपि दुर्ल्लभम् |
स यास्यति न सन्देहः स्तवराजस्य कीर्त्तनात् ||
इति श्रीवामकेश्वरतन्त्रे हरकुमारस/व्वादे महात्रिपुरसुन्दर्याः
षोडश्याः सहस्रनामस्तोत्रं समाप्तम् ||
इति श्रीशाक्तप्रमोदे त्रिपुरसुन्दरीषोडशीतन्त्रं समाप्तम् |
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
चतुर्थं
भुवनेश्वरीतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
शीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
भुवनेश्वरीतन्त्रम्
अथ भुवनेश्वरीध्यानम्
उद्यद्दिनद्युतिमिन्दुकिरीटान्तुङ्गकुचान्नयनत्रययुक्ताम् | स्मेरमुखी/
व्वरदाङ्कुशपाशाभीतिकराम्प्रभजे भुवनेशीम् ||
प्. १९४) अथ यन्त्रोद्धारः
पद्ममष्टदलम्बाह्ये वृत्तं षोडशभिर्द्दलैः |
विलिखेत्कर्णिकामध्ये षट्कोणमतिसुन्दरम् ||
चतुरस्रञ्चतुर्द्द्वारमेवम्मण्डलमालिखेत् ||
अथमन्त्रोद्धारः
नकुलीशोग्निमारूढो वामनेत्रार्द्धचन्द्रवत् |
बीजन्तस्याः समाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ||
अथ मन्त्रः | ह्री/
अथ पूजाप्रयोगः
प्रातः कृत्यादिपीठन्यासान्तङ्कर्म विधाय केसरेषु मध्ये च
पीठशक्तीन्न्यसेत् || ओंजयायैनमः एव/ व्विजयायै नमः अजितायै०
अपराजितायै० नित्यायै ० विलासिन्यै दोग्घ्र्यै० अघोरायै० मङ्गलायै०
कर्णिकायां ह्री/सर्वशक्तिकमलासनायनमः | ततः ऋष्यादिन्यासः |
अस्य भुवनेश्वरीमन्त्रस्य शक्ति ऋषिर्गायत्री छन्दो भुवनेश्वरी देवता
हकारो बीजम् ईकारः शक्तिः रेफः कीलकं चतुर्वर्गसिद्ध्यर्त्थे
विनियोगः | शिरसि शक्तयेऋषयेनमः | मुखे गायत्रीछन्दसेनमः | हृदि
भुवनेश्वर्यै देवतायैनमः | गुह्ये हकाराय बीजायनमः | पादयोः
ईकारायशक्तयेनमः | सर्वाङ्गे रकारायकीलकायनमः | ततो न्यासः
| शिरसि ओंहृल्लेखायै नमः
प्. १९५) वदने ए/गगनायैनमः हृदये ऊ/रक्तायैनमः गुह्ये
इ/करालिकायैनमः पादयोः अ/महोच्छुष्मायैनमः
ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु ता विन्यसेत् |
हृल्लेखाम्मूर्द्ध्निवदने गगनां हृदयाम्बुजे ||
रक्ताङ्करालिकाङ्गुह्ये महोच्छुष्माम्पदद्वये |
सत्यादिपञ्चह्रस्वाढ्या न्यस्तव्या भूतसप्रभाः || ततः
कराङ्गन्यासौ || ह्रां-अङ्गुष्ठाभ्यांनमः ह्रींतर्ज्जनीभ्यां
स्वा० ह्रूंमध्यमाभ्यां वषट् ह्रैं अनामिकाभ्यां हूम्
ह्रौंकनिष्ठिकाभ्या/व्वौषट् ह्रःकरतलकरपृष्ठाभ्याम्फट् || एव/
हृदयादिषु || षड्दीर्ग्घभाजा बीजेन कुर्यादङ्गक्रियाम्मनोः ||
स्वच्छन्दसङ्ग्रहे || स्वर/ व्विहाय बीजन्तु दीर्ग्घषट्केन योजयेत् |
षडङ्गानि विधेयानि सर्वत्राय/ व्विधिः स्मृतः || अङ्गुलीनियमस्तु
पूर्व एवोक्तः | कराङ्गन्यासे एवङ्क्रमः | ततः भाले
ओंगायत्रीसहितब्रह्मणेनमः | दक्षिणकपोले
ओंसावित्रीसहितविष्णवेनमः | वामकपोले
ओंवागीश्वरीसहितमहेश्वरायनमः | वामकर्णे
ओंश्रीसहितधनपतयेनमः | मुखे ओंरतिसहितस्मरायनमः |
दक्षिणकर्णोपरि ओंपुष्टिसहितगणपतयेनमः | इति न्यसेत् |
एवङ्कण्ठमूले
दक्षस्तनवामांसहृदयदक्षिणांसदक्षिणपार्श्ववामपार्श्वना
भिदेशेषु ब्राह्म्यादि न्यसेत् || वर्णाभिन्नन्यासो विश्वसारे ||
ओंकारादिनमोन्तञ्च विन्यसेत्तु यथास्थिति | विधिना विन्यसेत्सर्वं
शङ्करस्य मतेन च | एवं सर्वत्र | ततो ललाटे ओंब्राह्म्यैनमः |
वामांसे ओंमाहेश्वर्यैनमः | वामपार्श्वे ओंकौमार्यैनमः |
जठरे ओंवैष्णव्यैनमः | दक्षिणपार्श्वे ओंवाराह्यैनमः |
दक्षिणांसे ओं-इन्द्राण्यैनमः | ककुदि ओंचामुण्डायैनमः | हृदि
ओंमहालक्ष्म्यैनमः | इति विन्यस्य मूलेन व्यापकत्रयङ्कुर्यात् || ततो
ध्यानम् ||
उद्यद्दिनद्युतिमिन्दुकिरीटान्तुङ्गकुचान्नयनत्रययुक्ताम् |
स्मेरमुखी/ व्वरदाङ्कुशपाशाभीतिकराम्प्रभजे भुवनेशीम् || १ ||
एवन्ध्यात्वा मानसैः सम्पूज्य बहिः पूजामारभेत् ||
प्. १९६) पूजायन्त्रम् || पद्ममष्टदलम्बाह्ये वृत्तं षोडशभिर्द्दलैः
|| विलिखेत्कर्णिकामध्ये षट्कोणमतिसुन्दरम् ||
चतुरस्रञ्चतुर्द्द्वारमेवम्मण्डलमालिखेत् || ततो
दीक्षापद्धत्युक्तपीठपूजाङ्कृत्वा पीठशक्तीः पूजयेत् | तद्यथा |
पूर्वादिकेसरेषु जयायै० विजयायै० अजितायै० अपराजितायै० नित्यायै०
विलासिन्यै० दोग्घ्र्यै० अघोरायै० मध्ये मङ्गलायै०
प्रणवादिनमोन्तेन पूजयेत् | तदुपरि ह्रींसर्वशक्तिकमलासनायनमः
|| निबन्धे || ततस्सम्पूजयेत्पीठन्नानाशक्तिसमन्वितम् || जयाख्यां
विजयां पश्चादजितां चापराजिताम् || नित्या/
व्विलासिनीन्दोग्ध्रीमघोराम्मङ्गलामपि || बीजाद्यमासनन्दत्त्वा
मूर्त्तिन्तत्रैव कल्पयेत् || ततः पूर्ववद्ध्यात्वाऽवाहनादि
पञ्चपुष्पाञ्जलिदानपर्यन्त/ व्विधाय | केसरेषु ऐशान्यादिकोणे
मध्ये दिक्षु च | ततो ह्रींहृदयायनमः इत्यादिना षडङ्गेन
पूजयित्वा पञ्चपुष्पाञ्जलीन्दद्यात् || तत आवरणपूजा |
कर्णिकामध्ये ओंहृल्लेखायैनमः || पूर्वे ऐंगगनायै० | दक्षिणे
ऊंरक्तायै० | उत्तरे ईंकरालिकायै० | पश्चिमे हू/महोच्छुष्मायै० |
षट्कोणे पूर्वे ओंगायत्र्यैनमः ओंब्रह्मणेनमः | नैरृत्ये
ओंसावित्र्यैनमः ओंविष्णवेनमः || वायव्ये ओंसरस्वत्यैनमः
ओंरुद्रायनमः | वह्निकोणे ओंश्रियैनमः ओंधनपतयेनमः | पश्चिमे
ओंरत्यैनमः ओंस्मरायनमः | ऐशान्याम् ओंपुष्ट्यैनमः
ओंगणपतयेनमः | षट्कोणस्योभयपार्श्वयोः ओंशङ्खनिधयेनमः
ओंपद्मनिधयेनमः || केसरेषु अग्निनैरृतिवायवीशानाग्रेषु चतुर्द्दिक्षु
च ह्रा/हृदयायनम इत्यादिना षडङ्गेन पूजयेत् || तथा च निबन्धे |
केसरेष्वग्निकोणादि हृदयादीनि पूजयेत् ||
नेत्रमग्निदिशाद्यन्तन्ध्यातव्याश्चाङ्गदेवताः || एवं सर्वत्र ||
भैरव्यादौ तु विशेषो वक्तव्यः | अष्टदलेषु पूर्वादिक्रमेण | ओं-
अनङ्गकुसुमायैनमः एवमनङ्गकुसुमातुरायैनमः
प्. १९७) मनङ्गकुसुमातुरायैनमः अनङ्गमदनायै०
अनङ्गमदनातुरायै० भुवनपालायै० गगनवेगायै० शशिरेखायै०
|| षोडशदलेषु पूर्वादिदिक्षु ओंकरालिन्यै० एवं विकरालिन्यै० उमायै०
सरस्वत्यै० श्रियै० दुर्गायै० उषायै० लक्ष्म्यै० श्रुत्यै० स्मृत्यै०
धृत्यै० श्रद्धायै० मेधायै० मत्यै० कान्त्यै० आर्यायै० |
पद्माद्बहिः पूर्वादिदिक्षु अनङ्गरूपायै० अनङ्गमदनायै०
मदनातुरायै० भुवनवेगायै० भुवनपालिकायै० सर्वशिशिरायै०
अनङ्गवेदनायै० अनङ्गमेखलायै० प्रणवादिनमोन्तेन पूजयेत् |
तद्बहिर्गृहे पूर्वादि ओंलां इ द्राय देवाधिपतये सायुधायेत्यादि० रं
अग्नये तेजोधिपतये सायुधायेत्यादि० यं यमाय प्रेताधिपतये
सायुधायेत्यादि० क्षां निरृतये रक्षोधिपतये सायुधायेत्यादि० वं
वरुणाय जलाधिपतये सायुधायेत्यादि० वां वायवे प्राणाधिपतये
सायुधायेत्यादि० सं सोमाय ताराधिपतये सायुधायेत्यादि० हां
ईशानाय गणाधिपतये सायुधायेत्यादि० इन्द्रेशानयोर्म्मध्ये
आ/ब्रह्मणे प्रजाधिपतये सायु० निरृतिवरुणयोर्म्मध्ये ह्रीं अनन्ताय
नागाधिपतये सायु० | तथा च | लोकपाला बहिः पूज्याः
समस्ताश्चतुरस्रके || पुरुहूतेशयोर्म्मध्ये रक्षोवरुणयोस्तथा ||
ब्रह्मविष्णू सदा पूज्यौ दिगीशार्च्चा/ व्विदुर्बुधाः ||
इन्द्रादिलोकपालाना/ यये मन्त्रास्ते ध्रुवादिकाः || स्वस्वबीजान्विताः सर्वे
चतुर्थ्यन्तनमोन्तकाः || इति वचनात् | सर्वत्र प्रणवादि |
एतेषाम्बीजान्याहुः क्रियासारे |
पृथ्व्यग्निपवनाद्यन्तवरुणानिलसेश्वरैः ||
अनन्तबिन्दुस/युक्तैरर्च्च्याः पाशेन मायया || तथा च यामले | अन्ते
यज्ञे लोकपालान् मूलपारिदधान्वितान् || हेतिजात्यधिपोपेतान् दिक्षु
पूर्वादितो यजेत् || सवाहनायेति दीपिका | तद्बहिः पूर्वादि वज्राय
शक्तये दण्डाय खड्गाय पाशाय अङ्कुशाय गदायै शूलाय
पद्माय चक्राय प्रणवादि
प्.१९८) नमोऽन्तेन पूजयेत् | ततो धूपादिविसर्ज्जनान्तङ्कर्म समापयेत् |
अस्य पुरश्चरणन्द्वात्रिंशल्लक्षजपम्प्रजपेत्
मत्रन्द्वात्रिंशल्लक्षमानसः |
त्रिस्वादुयुक्तैर्ज्जुहुयादष्टद्रव्यैर्दशांशतः || अष्टद्रव्याणि यथा |
अश्वत्थोदुम्बर प्लक्ष-न्यग्रोध-समिधस्तिलाः | सिद्धर्त्थ-पायसाज्यानि
द्रव्याण्यष्टौ विदुर्ब्बुधाः || त्रिस्वाद्विति घृत-मधु-शर्करेति || इति
भुवनेश्वरीपूजापद्धतिः ||
अथ स्तोत्रम्
अथानन्दमयीं साक्षाच्छब्दब्रह्मस्वरूपिणीम् |
ईडे सकलसम्पत्त्यै जगत्कारणमम्बिकाम् || १ ||
विद्यामशेषजननीमरविन्दयोनेर्विष्णोः शिवस्य च वपुः
प्रतिपादयित्रीम् |
सृष्टिस्थितिक्षयकरीज्जगतान्त्रयाणां स्तुत्वा गिर/
व्विमलयाम्यहमम्बिके त्वाम् || २ ||
पृथ्व्या जलेन शिखिना मरुताम्बरेण होत्रेन्दुना दिनकरेण च
मूर्त्तिभाजः |
देवस्य मन्मथरिपोरपि शक्तिमत्ताहेतुस्त्वमेव खलु पर्वतराजपुत्रि || ३ ||
त्रिस्रोतसः सकलदेवसमर्च्चिताया वैशिष्ट्यकारणमवैमि तदेव मातः
|
त्वत्पादपङ्कजपरागपवित्रितासु सम्भोर्जटासु सततम्परिवर्त्तन/ ययत् ||
४ ||
आनन्दयेत्कुमुदिनीमधिपः कलानान्नान्यामिनः कमलिनीमथनेतरा/
व्वा |
एकस्य मोदनविधौ परमेकमीष्टे त्वन्तु प्रपञ्चमभिनन्दयसि
स्वदृष्ट्या || ५ ||
आद्याप्यशेषजगतान्नवयौवनासि शैलाधिराजतनयाप्यतिकोमलासि |
त्र्ययाः प्रसूरपि तया न समीक्षितासि ध्येयासि गौरि मनसो न पथि
स्थितासि || ६ ||
आसाद्य जन्म मनुजेषु चिराद्दुरापन्तत्रापि पाटवमवाप्य
निजेन्द्रियाणाम् |
नाभ्यर्चयन्ति जगताञ्जनयित्रि ये त्वान्निश्रेणिकाग्रमधिरुह्य पुनः
पतन्ति || ७ ||
कर्पूरचूर्णहिमवारिविलोडितेन ये चन्दनेन कुसुमैश्च सुताजगन्धैः |
आराधयन्ति हि भवानि समुत्सुकास्त्वान्ते
खल्वखण्डभुवनाधिभुवः प्रथन्ते || ८ ||
प्. १९९) आविश्य मध्यपदवीम्प्रथमे सरोजे सुप्ता हि राजसदृशी
विरचयय विश्वम् |
विद्युल्लतावलयविभ्रममुद्वहन्ती पद्मानि पञ्च विदलयय
समश्नुवाना || ९ ||
तन्निर्गतामृतरसैरभिषिच्य गात्रर्मार्गेण तेन विलयम्पुनरप्यवाप्ता |
येषां हृदि स्फुरसि जातु न ते भवेयुर्मातर्महेश्वरकुटुम्बिनि
गर्ब्भभाजः || १० ||
आलम्बिकुण्डलभरामभिरामवक्त्रामापीवरस्तनतटीन्तनुवृत्तमध्य
अम् |
चिन्ताक्षसूत्रकलशालिखिताढ्यहस्तामावर्त्तयामि मनसा तव गौरि
मूर्त्तिम् || ११ ||
आस्थाय योगमविजित्य च वैरिषट्कमाबध्य चेन्द्रियगणम्मनसि
प्रसन्ने |
षाशाङ्कुशाभयवराढ्यकरांशुवक्त्रामालोकयंति भुवनेश्वरि
योगिनस्त्वाम् || १२ ||
उत्तप्तहाटकनिभाङ्करिभिश्चतुर्ब्भिरावर्त्तितामृतघटैरभिषिच्यमान्
आ |
हस्तद्वयेन नलिने रुचिरे वहन्ती पद्मापि साभयकरा भवसि त्वमेव || १३
||
अष्टाभिरुग्रविविधायुधवाहिनीभिर्द्दोर्वल्लरीभिरधिरुह्य
मृगाधिवासम् |
दूर्वादलद्युतिरमर्त्यविपक्षपक्षान्न्यक्कुर्वती त्वमसि देवि भवानि
दुर्गे || १४ ||
आविर्न्निदाघजलशीकरशोभिवक्त्राङ्गुञ्जाफलेन
परिकल्पितहारयष्टिम् |
रत्नांशुकामसितकान्तिमलङ्कृतान्त्वामाद्याम्पुलिन्दतरुणीमसकृन्न्
अमामि || १५ ||
हंसैर्ग्गतिः क्वणितनू पुरदूरदृष्टे
मूर्त्तेरिवाप्तवचनैरनुगम्यमानौ |
पद्माविवोर्द्ध्वमुखरूढसुजातनालौ श्रीकण्ठपत्नि शिरसैव दधे
तवाङ्घ्री || १६ ||
द्वाभ्यां समीक्षितुमतृप्तिमतेव दृग्भ्यामुत्पाद्यता त्रिनयन/
व्वृषकेतनेन |
सान्द्रानुरागभवनेन निरीक्ष्यमाणे जङ्घे उभे अपि भवानि
तवानतोऽस्मि || १७ ||
ऊरू स्मरामि जितहस्तिकरावलेपौ स्थौल्येन मार्द्दवतया
परिभूतरम्भौ |
श्रोणीभरस्य सहनौ परिकल्प्य दत्तौ स्तम्भाविवाङ्गवयसा तव
मध्यमेन || १८ ||
श्रोण्यौ स्तनौ च युगपत्प्रथयिष्यतोच्चैर्बाल्यात्परेण वयसा
परिकृष्णसारः |
प्. २००) रोमावलीविलसितेन विभाव्यमूर्त्तिर्मध्यन्तव स्फुरतु मे
हृदयस्य मध्ये || १९ ||
सख्यास्स्मरस्य हरनेत्रहुताशभीरोर्ल्लावण्यवारिभरितन्नवयौवनेन
|
आपाद्यदत्तमिव पल्लवमप्रविष्टन्नाभिङ्कदापि तव देवि न विस्मरेयम्
|| २० ||
ईशोपि गेहपिशुनम्भसितन्दधाने काश्मीरकर्द्दममनुस्तनपङ्कजे ते
|
स्नानोत्थितस्य करिणः क्षणलक्षफेनौ सिन्दूरितौ स्मरयतः समदस्य
कुम्भौ || २१ ||
कण्ठातिरिक्तगलदुज्ज्वलकांतिधारा शोभौ भुजौ
निजरिपोर्मकरध्वजेन |
कण्ठग्रहाय रचितौ किल दीर्ग्घपाशौ मातर्म्मम स्मृतिपथन्न
विलज्जयेताम् || २२ ||
नात्यायतं रुचिरकम्बुविलासचौर्यं भूषाभरेण विविधेन
विराजमानम् |
कण्ठम्मनोहरगुणङ्गिरिराजकन्ये सञ्चिन्त्य तृप्तिमुपयामि कदापि
नाहम् || २३ ||
अत्यायताक्षमभिजातललाटपट्टम्मन्दस्मितेन दरफुल्लकपोलरेखम् |
बिम्बाधरं खलु समुन्नतदीर्ग्घनास/ ययत्ते स्मरत्यसकृदम्ब स एव
जातः || २४ ||
आविस्त्वयारकरलेखमनल्पगन्धपुष्पोपरिभ्रमदलिव्रजनिर्विशेषम् |
यश्चेतसा कलयते तव केशपाशन्तस्य स्वयङ्गलति देवि पुराणपाशः
|| २५ ||
श्रुतिसुरचितपाकन्धीमतां स्तोत्रमेतत् पठति य इह मर्त्त्यो
नित्यमार्द्द्रान्तरात्मा |
स भवति
पदमुच्चैस्सम्पदाम्पादनम्रक्षितिपमुकुटलक्ष्मीर्ल्लक्षणानाञ्चिरा
य || २६ ||
इति भुवनेश्वरीस्तोत्रं समाप्तम् ||
अथ कवचम्
देव्युवाच
भुवनेश्याश्च देवेश या या विद्याः प्रकाशिताः |
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् || १ ||
त्रैलोक्यमङ्गलन्नाम कवच/ ययत्पुरोदितम् |
ईश्वर उवाच
शृणु पार्वति वक्ष्यामि सावधानाऽवधारय || २ ||
त्रैलोक्यमङ्गलन्नाम कवचम्मन्त्रविग्रहम् |
सिद्धविद्यामयन्देवि सर्वैश्वर्यप्रदायकम् || ३ ||
पठनाद्धारणान्मर्त्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् || ४ ||
त्रैलोक्यमङ्गलस्यास्य कवचस्य ऋषिश्शिवः |
प्. २०१) छन्दोविराड् जगद्धात्री देवता भुवनेश्वरी || ५ ||
धर्मार्त्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः |
ह्रींबीजम्मे शिरः पातु भुवनेशी ललाटकम् || ६ ||
ऐंपातु दक्षनेत्रम्मे ह्रींपातु वामलोचनम् |
श्रींपातु दक्षकर्ण्णम्मे त्रिवर्णात्मा महेश्वरी || ७ ||
वामकर्ण सदा पातु ऐंघ्राणम्पातु मे सदा |
ह्रींपातु वदनन्देवी ऐंपातु रसनाम्मम || ८ ||
वाक्पुटा च त्रिवर्णात्मा कण्ठम्पातु पराम्बिका |
श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा || ९ ||
क्लीं करौ त्रिपुटेशानी त्रिपुटैश्वर्यदायिनी |
ओम्पातु हृदयं ह्रीं मे मध्यदेशं सदाऽवतु || १० ||
क्रौंपातु नाभिदेशं सा त्र्यक्षरी भुवनेश्वरी |
सर्वबीजप्रदा पृष्ठम्पातु सर्ववशङ्करी || ११ ||
ह्रीं पातु गुददेशम्मे नमो भगवती कटीम् |
माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् || १२ ||
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् |
सप्तदशाक्षरी पायादन्नपूर्णात्मिका पुरा || १३ ||
तारम्माया रमा कामः षोडशार्णा ततः परम् |
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा || १४ ||
तारदुर्गे युगं रक्षिणी स्वाहेति दशाक्षरी |
जय दुर्गा घनश्यामा पातु माम्पूर्वतो मुदा || १५ ||
मायावीजादिका चैषा दशार्णा परा तथा |
उत्तप्तकाञ्चनाभासा जयदुर्गाननेऽवतु || १६ ||
तारं ह्रीं दुन्दुर्गायै नमोष्टार्णात्मिका परा |
शङ्खचक्रधनुर्बाणधरामान्दक्षिणेऽवतु || १७ ||
महिषामर्द्दिनीस्वाहा वसुवर्णात्मिका परा |
नैरृत्यां सर्वदा पातु महिषासुरनाशिनी || १८ ||
मायापद्मावतीस्वाहा सप्तार्णा परिकीर्त्तिता |
पद्मावती पद्मस/स्था पश्चिमे मां सदावतु || १९ ||
पाशाङ्कुशपुटा माये हि परमेश्वरि स्वाहा |
त्रयोदशार्णा ताराद्या अश्वारूढाननेऽवतु || २० ||
सरस्वतीपञ्चशरे नित्यक्लिन्ने मदद्रवे |
स्वाहारव्यक्षरीविद्या मामुत्तरे सदावतु || २१ ||
प्. २०२) ताराम्माया तु कवचङ्खे रक्षेत्सतत/ व्वधूः |
हू/ क्षे ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा || २२ ||
त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम् |
ऐं क्लीं सौः सा ततो बाला मामूर्द्ध्वदेशतोऽवतु || २३ ||
विन्द्वन्ता भैरवी बाला भूमौ च मां सदावतु |
इति ते कथितम्पुण्यन्त्रैलोक्यमङ्गलम्परम् || २४ ||
सारं सारतरम्पुण्यम्महाविद्यौघविग्रहम् |
अस्यापि पठनात्सद्यः कुबेरोपि धरेश्वरः || २५ ||
इन्द्राद्याः सकला देवाः पठनाद्धारणाद्यतः |
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः || २६ ||
पुष्पाञ्जल्यष्टकन्दत्त्वा मूलेनैव पठेत्सकृत् |
स/व्वत्सरकृतायास्तु पूजायाः फलमाप्नुयात् || २७ ||
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे |
वाणी च निवसेद्वक्त्रे सत्यं सत्यन्न संशयः || २८ ||
यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् |
कवचम्परमम्पुण्यं सोऽपि पुण्यवता/ व्वरः || २९ ||
सर्वैश्बर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् |
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा || ३० ||
बहुपुत्रवती भूत्वा वन्ध्यापि लभते सुतम् |
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् || ३१ ||
एतत्कवचमज्ञात्वा यो जपेद्भुवनेश्वरीम् |
दारिद्र्यम्परमम्प्राप्य सोऽचिरान्मृत्युमाप्नुयात् || ३२ ||
इति रुद्रयामले देवीश्वरस/व्वादे त्रैलोक्यमङ्गलन्नाम
भुवनेश्वरीकवचं समाप्तम् ||
अथ हृदयम्
देव्युवाच
भगवन्ब्रूहि तत्स्तोत्रं सर्वकामप्रसाधनम् |
तस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते || १ ||
यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि |
तदिदङ्कथय ब्रह्मन् विमल/ ययन्महीतले || २ ||
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि सर्वकामप्रसाधनम् |
हृदयम्भुवनेश्वर्यास्स्तोत्रमस्ति यशोदयम् || ३ ||
ओं अस्य श्रीभुवनेश्वरीहृदयस्तोत्रमन्त्रस्य शक्तिऋषिर्गायत्रीच्छन्दो
प्. २०३) भुवनेश्वरी देवता हकारो बीजं ईकारः शक्ती रेफः कीलकं
सकलमनोवाञ्छितसिद्ध्यर्त्थे पाठे विनियोगः ||
अथाङ्गन्यासः
ओं ह्रीं हृदयायनमः
ओं श्रीं शिरसेस्वाहा
ओं ऐं शिखायैवषट्
ओं ह्रीं कवचायहूम्
ओं श्रींनेत्रत्रयायवौषट्
ओं ऐं-अस्त्रायफट्
एवङ्करन्यासः
अथ ध्यानम्
ध्यायेद्ब्रह्मादिकानाङ्कृतजनि जननी/ ययोगिनी/
ययोगयोनिन्देवनाञ्जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीम् |
शङ्खञ्चक्रञ्च बाणान्धनुरपि
दधतीन्दोश्चतुष्काम्बुजातैर्मायामाद्या/
व्विशिष्टाम्भवभवभुवनाम्भूभवाभारभूमिम् || ४ ||
यदाज्ञया यो जगदाद्यशेषं सृजत्यजश्श्रीपतिरौरस/ व्वा |
बिभर्त्ति संहन्ति भवस्तदन्ते भजामहे श्रीभुवनेश्वरीन्ताम् || ५ ||
जगज्जनानन्दकरीञ्जयाख्या/ ययशस्विनी/ ययन्त्रसुयज्ञयोनिम् |
जितामितामित्रकृतप्रपञ्चाम्भजामहे श्रीभुवनेश्वरीन्ताम् || ६ ||
हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा |
विधिस्ततोऽन्धे विदधारयत्पदम्भजामहे श्रीभुवनेश्वरीन्ताम् || ७ ||
न विद्यते क्वापि तु जन्म यस्या न वा स्थितिस्सान्ततिकीह यस्याः |
न वा निरोधेऽखिलकर्म यस्या भजामहे ० || ८ ||
कटाक्षमोक्षाचरणोग्रवित्ता निवेशितार्णाः करुणार्द्द्रचित्ता |
सुभक्तये एति समीप्सित/ यया भजामहे ० || ९ ||
यतो जगज्जन्म बभूव योनेस्तदेव मध्ये प्रतिपाति या/ व्वा |
तदत्ति यान्तेऽखिलमुग्रकाली भजामहे० || १० ||
सुषुप्तिकाले जनमध्ययन्त्या यया जनस्वप्नमवैति किञ्चित् |
प्रबुद्ध्यते जाग्रति जीव एष भजामहे ० || ११ ||
दयास्फुरत्कोरकटाक्षलाभान्न के त्रयस्याः प्रलभन्ति सिद्धाः |
कवित्वमीशित्वमपि स्वतन्त्रा भजामहे० || १२ ||
लसन्मुखाम्भोरुहमुत्फुरन्तं हृदि प्रणिध्याय दिशि स्फुरन्तः |
यस्याः कृपार्द्द्रम्प्रविकाशयन्ति भजामहे० || १३ ||
यदानुरागानुगतालिचित्राश्चिरन्तनप्रेमपरिप्लुताङ्गाः |
प्. २०४) सुनिर्ब्भयास्सन्ति प्रमुद्य यस्या भजामहे० || १४ ||
हरिर्विरञ्चिर्हर ईशितारः पुरोऽवतिष्ठन्ति परन्नताङ्गाः |
यस्यास्समिच्छन्ति सदानुकूल्यम्भजामहे ० || १५ ||
मनु/ ययदीयं हरमग्निस/स्थन्ततश्च वामश्रुतिचन्द्रशक्तम् |
जपन्ति ये स्युस्सुरवन्दितास्ते भजामहे ० || १६ ||
प्रसीदतु प्रेमरसार्द्द्रचित्ता सदा हि सा श्रीभुवनेश्वरी मे |
कृपाकटाक्षेण कुबेरकल्पा भवन्ति यस्याः पदभक्तिभाजः || १७ ||
मुदा सुपाठ्यम्भुवनेश्वरीयं सदा सतां स्तोत्रमिदं सुसेव्यम् |
सुखप्रदं स्यात्कलिकल्मषघ्नं सुशृण्वतां सम्पठताम्प्रशस्यम्
|| १८ ||
एतत्तु हृदयस्तोत्रम्पठेद्यस्तु समाहितः |
भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी || १९ ||
ददाति धनमायुष्यम्पुण्यम्पुण्यमतिन्तथा |
नैष्ठिकीन्देवभक्तिञ्च गुरुभक्ति/ व्विशेषतः || २० ||
पूर्णिमायाञ्चतुर्दश्याङ्कुजवारे विशेषतः |
पठनीयमिदं स्तोत्रन्देवसद्मनि यत्नतः || २१ ||
यत्र कुत्रापि पाठेन स्तोत्रस्यास्य फलम्भवेत् |
सर्वस्थानेषु देवेश्याः पूतदेहस्सदा पठेत् || २२ ||
इति नीलसरस्वतीतन्त्रे भुवनेश्वरीपटले श्रीदेवीश्वरस/व्वादे
श्रीभुवनेश्वरीहृदयस्तोत्रं समाप्तम् ||
अथ शतनाम
कैलासशिखरे रम्ये नानारत्नोपशोभिते |
नरनारीहितार्त्थाय शिवम्पप्रच्छ पार्वती || १ ||
देव्युवाच
भुवनेश्वरी महाविद्यानाम्नामष्टोत्तरं शतम् |
कथयस्व महादेव यद्यहन्तव वल्लभा || २ ||
ईश्वर उवाच
शृणु देवि महाभागे स्तवराजमिदं शुभम् |
सहस्रनाम्नामधिकं सिद्धिदम्मोक्षहेतुकम् || ३ ||
शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः |
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् || ४ ||
ओं अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रस्य शक्तिरृषिर्गायत्री
च्छन्दो भुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः ||
प्. २०५) महामाया महाविद्या महायोगा महोत्कटा |
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी || ५ ||
वागीश्वरी योगरूपा योगिनीकोटिसेविता |
जया च विजया चैव कौमारी सर्वमङ्गला || ६ ||
हिङ्गुला च विलासी च ज्वालिनी ज्वालरूपिणी |
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी || ७ ||
वैष्णवी सुभगाकारी सुकुल्या कुलपूजिता |
वामाङ्गा वामचारा च वामदेव प्रिया तथा || ८ ||
डाकिनीयोगिनीरूपा भूतेशी भूतनायिका |
पद्मावती पद्मनेत्राप्रबुद्धा च सरस्वती || ९ ||
भूचरी खेचरी माया मातङ्गी भुवनेश्वरी |
कांता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी || १० ||
उमा कुमारी लोकेशी सुकेशी पद्मरागिणी |
इन्द्राणी ब्रह्मचाण्डाली चण्डिका वायुवल्लभा || ११ ||
सर्वधातृमयीमूर्त्तिर्ज्जलरूपा जलोदरी |
आकाशी रणगा चैव नृकपालविभूषणा || १२ ||
नर्मदा मोक्षदा चैव कामधर्मार्त्थदायिनी |
गायत्री चाथ सावित्री त्रिसन्ध्या तीर्त्थगामिनी || १३ ||
अष्टमी नवमी चैव दशम्येकादशी तथा |
पौर्णमासी कुहूरूपा तिथिमूर्त्तिस्वरूपिणी || १४ ||
सुरारिनाशकारी च उग्ररूपा च वत्सला |
अनला अर्द्धमात्रा च अरुणा पीतलोचना || १५ ||
लज्जा सरस्वती विद्या भवानी पापनाशिनी |
नागपाशधरा मूर्त्तिरगाधा धृतकुण्डला || १६ ||
क्षत्ररूपीक्षयकरी तेजस्विनी शुचिस्मिता |
अव्यक्ताव्यक्तलोका च शम्भुरूपा मनस्विनी || १७ ||
मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा |
दैत्यहा चै वाराही सर्वशास्त्रमयी शुभा || १८ ||
य इदम्पठते भक्त्या शृणुयाद्वा समाहितः |
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान् भवेत् || १९ ||
मूर्खोपि लभते शास्त्रञ्चौरोपि लभते गतिम् |
वेदानाम्पाठको विप्रः क्षत्त्रियो विजयी भवेत् || २० ||
वैश्यस्तु धनवान्भूयाच्छूद्रस्तु सुखमेधते |
प्. २०६) अष्टम्याञ्च चतुर्द्दश्यान्नवम्याञ्चैकचेतसः || २१ ||
ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः |
एककालन्द्विकाल/ व्वा त्रिकाल/ व्वा चतुर्त्थकम् || २२ ||
ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः |
रुद्रन्दृष्ट्वा यथा देवाः पन्नगा गरुड/ ययथा || २३ ||
शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् |
इति श्रीरुद्रयामले देवीशङ्करस/व्वादे
भुवनेश्वर्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ||
अथ सहस्रनाम
ओमस्य श्रीभुवनेश्वरीसहस्रनाममन्त्रस्य सदाशिव ऋषिरनुष्टुप्
छन्दः भुवनेश्वरीदेवता लज्जाबीजम् कमलाशक्तिः
वाग्भवङ्कीलकम् सर्वार्त्थसाधने जपे विनियोगः ||
भुवनेशी भुवाराघ्या भवानी भयनाशिनी |
भवरूपा भवानन्दा भवसागरतारिणी || १ ||
भवोद्भवा भवरता भवभारनिवारिणी |
भव्याना भव्यनयना भव्यरूपा भवौषधिः || २ ||
भव्याङ्गना भव्यकेशी भवपाशविमोचिनी |
भव्यासना भव्यवस्त्रा भव्याभरणभूषिता || ३ ||
भगरूपा भगानन्दा भगेशी भगमालिनी |
भगविद्या भगवती भगक्लिन्ना भगावहा || ४ ||
भगाङ्कुरा भगक्रीडा भगाद्या भगमङ्गला |
भगलीला भगप्रीता भगसम्पद्भगेश्वरी || ५ ||
भगालया भगोत्साहा भगस्था भगपोषिणी |
भगोत्सवा भगविद्या भगमाता भगस्थिता || ६ ||
भगशक्तिर्ब्भगनिधिब्भगपूजा भगेषणा |
भगास्वपा भगाधीशा भगार्च्च्या भगसुन्दरी || ७ ||
भगरेखा भगस्नेहा भगस्नेहविवर्धिनी |
भगिनी भगबीजस्था भगभोगविलासिनी || ८ ||
भगाचारा भगाधारा भगाचारा भगाश्रया |
भगपुष्पा भगश्रीदा भगपुष्पनिवासिनी || ९ ||
भव्यरूपधरा भव्याभव्यपुष्पैरसंस्कृता |
भव्यलीला भव्यमाला भव्याङ्गी भव्यसुन्दरी || १० ||
भव्यशीला भव्यलीला भव्याक्षी भव्यनाशिनी |
प्. २०७) भव्याङ्गिका भव्यवाणी भव्यकान्तिर्ब्भगालिनी || ११ ||
भव्यत्रपा भव्यनदी भव्यभोगविहारिणी |
भव्यस्तनी भव्यमुखी भव्यगोष्ठी भयापहा || १२ ||
भक्तेश्वरी भक्तिकरी भक्तानुग्रहकारिणी |
भक्तिदा भक्तिजननी भक्तानन्दविवर्द्धिनी || १३ ||
भक्तिप्रिया भक्तिरता भक्तिभावविहारिणी |
भक्तिशीला भक्तिलीला भक्तेशी भक्तिपालिनी || १४ ||
भक्तिविद्या भक्तविद्या भक्तिर्भक्तिविनोदिनी |
भक्तिरीतिर्ब्भक्तिप्रीतिर्भक्तिसाधनसाधिनी || १५ ||
भक्तिसाध्या भक्तसाध्या भक्तिराली भवेश्वरी |
भटविद्या भटानन्दा भटस्था भटरूपिणी || १६ ||
भटमान्या भटस्थान्या भटस्थाननिवासिनी |
भटिनी भटरूपेशी भटरूपविवर्द्धिनी || १७ ||
भटवेशी भटेशी च भगभाग्भवसुन्दरी |
भटप्रीत्या भटरीत्या भटानुग्रहकारिणी || १८ ||
भटैराध्या भटबोध्या भटबोधविनोदिनी |
भटैस्सेव्या भटवरा भटार्च्च्या भटबोधिनी || १९ ||
भटकीर्त्त्या भटकला भटपा भटपालिनी |
भटैश्वर्या भटाधीशा भटेक्षा भटतोषिणी || २० ||
भटेशी भटजननी भटभाग्यविवर्द्धिनी |
भटमुक्तिर्भटयुक्तिर्ब्भटप्रीतिविवर्द्धिनी || २१ ||
भाग्येशी भाग्यजननी भाग्यस्था भाग्यरूपिणी |
भावनाभावकुशला भावदा भाववर्द्धिनी || २२ ||
भावरूपा भावरसा भावान्तरविहारिणी |
भावाङ्कुरा भावकला भावस्थाननिवासिनी || २३ ||
भावातुरा भावधृता भावमध्यव्यवस्थिता |
भावऋद्धिर्ब्भावसिद्धिर्ब्भावादिर्ब्भावभाविनी || २४ ||
भावालया भावपरा भावसाधनतत्परा |
भावेश्वरी भावगम्या भावस्था भावगर्विता || २५ ||
भाविनी भावरमणी भारती भारतेश्वरी |
भागीरथी भाग्यवती भाग्योदयकरीकला || २६ ||
भाग्याश्रया भाग्यमयी भाग्या भाग्यफलप्रदा |
भाग्यचारा भाग्यसारा भाग्यधारा च भग्यदा || २७ ||
प्. २०८) भाग्येश्वरी भाग्यनिधिर्भाग्या भाग्यसुमातृका |
भाग्येक्षा भाग्यना भाग्यभाग्यदा भाग्यमातृका || २८ ||
भाग्येक्षा भाग्यमनसा भाग्यादिर्भाग्यमध्यगा |
भ्रातेश्वरी भ्रातृवती भ्रात्र्यम्बा भ्रातृपालिनी || २९ ||
भ्रातृस्था भ्रातृकुशला भ्रामरी भ्रमराम्बिका |
भिल्लरूपा भिल्लवती भिल्लस्था भिल्लपालिनी || ३० ||
भिल्लमाता भिल्लधात्री भिल्लनी भिल्लकेश्वरी |
भिल्लकीर्त्तिर्ब्भिल्लकला भिल्लमन्दरवासिनी || ३१ ||
भिल्लक्रीडा भिल्ललीला भिल्लार्च्च्या भिल्लवल्लभा |
भिल्लस्नुषा भिल्लपुत्री भिल्लनी भिल्लपोषिणी || ३५ ||
भिल्लपौत्री भिल्लगोष्ठी भिल्लाचारनिवासिनी |
भिल्लपूज्या भिल्लवाणी भिल्लानी भिल्लभितिहा || ३३ ||
भीतस्था भीतजननी भीतिर्भीतिविनाशिनी |
भीतिदा भितिहा भीत्या भीत्याकारविहारिणी || ३४ ||
भीतेशी भीतिशमनी भीतस्थाननिवासिनी |
भीतिरीत्या भीतिकला भीतीक्षा भीतिहारिणी || ३५ ||
भीमेशी भीमजननी भीमा भीमनिवासिनी |
भीमेश्वरी भीमरता भीमाङ्गी भीमपालिनी || ३६ ||
भीमनादी भीमतन्त्री भीमैश्वर्यविवर्द्धिनी |
भीमगोष्ठी भीमधात्री भीमविद्याविनोदिनी || ३७ ||
भीमविक्रमदात्री च भीमविक्रमवासिनी |
भीमानन्दकरीदेवी भीमानन्दविहारिणी || ३८ ||
भीमोपदेशिनी नित्या भीमभाग्यप्रदायिनी |
भीमसिद्धिर्ब्भीमऋद्धिर्ब्भीमभक्तिविवर्द्धिनी || ३९ ||
भीमस्था भीमवरदा भीमधर्मोपदेशिनी |
भीष्मेश्वरी भीष्मभृती भीष्मबोधप्रबोधिनी || ४० ||
भीष्मश्रीर्ब्भीष्मजननी भीष्मज्ञानोपदेशिनी |
भीष्मस्था भीष्मतपसा भीष्मेशी भीष्मतारिणी || ४१ ||
भीष्मलीला भीष्मशीला भीष्मरोदिनिवासिनी |
भीष्माश्रया भीष्मवरा भीष्महर्षविवर्द्धिनी || ४२ ||
भुवना भुवनेशानी भुवनानन्दकारिणी |
भुविस्था भुविरूपा च भुविभारनिवारिणी || ४३ ||
प्. २०९) भुक्तिस्था भुक्तिदा भुक्तिर्ब्भुक्तेशी भुक्तिरूपिणी |
भुक्तेश्वरी भुक्तिदात्री भुक्तिराकाररूपिणी || ४४ ||
भुजङ्गस्था भुजङ्गेशी भुजङ्गाकाररूपिणी |
भुजङ्गी भुजगावासा भुजङ्गानन्ददायिनी || ४५ ||
भूतेशी भूतजननी भूतस्था भूतरूपिणी |
भूतेश्वरी भूतलीला भूतवेषकरी सदा || ४६ ||
भूतदात्री भूतकेशी भूतधात्री महेश्वरी |
भूतरीत्या भूतपत्नी भूतलोकनिवासिनी || ४७ ||
भूतसिद्धिर्ब्भूतऋद्धिर्भूतानन्दनिवासिनी |
भूतकीर्त्तिर्ब्भूतलक्ष्मीर्ब्भूतभाग्यविवर्द्धिनी || ४८ ||
भूतार्च्च्या भूतरमणी भूतविद्याविनोदिनी |
भूतपौत्री भूतपुत्री भूतभार्याविधेश्वरी || ४९ ||
भूपस्था भूपरमणी भूपेशी भूपपालिनी |
भूपमाता भूपनिभा भूपैश्वर्यप्रदायिनी || ५० ||
भूपचेष्टा भूपनेष्ठा भूपभावविवर्द्धिनी |
भूपभगिनी भूपभूरी भूपपौत्री तथा वधूः || ५१ ||
भूपकीर्त्तिर्ब्भूपनीतिर्ब्भूपभाग्यविवर्द्धिनी |
भूपक्रिया भूपक्रीडा भूपमन्दरवासिनी || ५२ ||
भूपार्च्च्या भूपस/राध्या भूपभोगविवर्द्धिनी |
भूपाश्रया भूपकाला भूपकौतुकदण्डिनी || ५३ ||
भूषणस्था भूषणेशी भूषा भूषणधारिणी |
भूषणाधारधर्मेशी भूषणाकाररूपिणी || ५४ ||
भूपताचारनिलया भूपताचारभूषिता |
भूपताचाररचना भूपताचारमण्डिता || ५५ ||
भूपताचारधर्मेशी भूपताचारकारिणी |
भूपताचारचरिता भूपताचारवर्ज्जिता || ५६ ||
भूपताचारवृद्धिस्था भूपताचारवृद्धिदा |
भूपताचारकरणा भूपताचारकर्मदा || ५७ ||
भूपताचारकर्म्मेशी भूपताचारकर्मदा |
भूपताचारदेहस्था भूपताचारकर्मिणी || ५८ ||
भूपताचारसिद्धिस्था भूपताचारसिद्धिदा |
भूपताचारधर्माणी भूपताचारधारिणी || ५९ ||
भूपतानन्दलहरी भूपतेश्वररूपिणी |
भूपतेर्न्नीतिनीतिस्था भूपतिस्थानवासिनी || ६० ||
भूपतिस्थानगीर्वाणी भूपतेर्वरधारिणी || ६१ ||
प्. २१०) भेषजानन्दलहरी भेषजानन्दरूपिणी |
भेषजानन्दमहिषी भेषजानन्दरूपिणी || ६२ ||
भेषजानन्दकर्मेशी भेषजानन्ददायिनी |
भैषजी भैषजाकन्दा भेषजस्थानवासिनी || ६३ ||
भेषजेश्वररूपा च भेषजेश्वरसिद्धिदा |
भेषजेश्वरधर्मेशी भेषजेश्वरकर्मदा || ६४ ||
भेषजेश्वरकर्मेशी भेषजेश्वरकर्मिणी |
भेषजाधीशजननी भेषजाधीशपालिनी || ६५ ||
भेषजाधीशरचना भेषजाधीशमङ्गला |
भेषजारण्यमध्यस्था भेषजारण्यरक्षिणी || ६६ ||
भैषज्यविद्या भैषज्या भैषज्येप्सितदायिनी |
भैषज्यस्था भैषजेशी भैषज्यानन्दवर्द्धिनी || ६७ ||
भैरवी भैरवीचारा भैरवाकाररूपिणी |
भैरवाचारचतुरा भैरवाचारमण्डिता || ६८ ||
भैरवा भैरवेशी च भैरवानन्ददायिनी |
भैरवानन्दरूपेशी भैरवानन्दरूपिणी || ६९ ||
भैरवानन्दनिपुणा भैरवानन्दमन्दिरा |
भैरवानन्दतत्त्वज्ञा भैरवानन्दतत्परा || ७० ||
भैरवानन्दकुशला भैरवानन्दनीतिदा |
भैरवानन्दप्रीतिस्था भैरवानन्दप्रीतिदा || ७१ ||
भैरवानन्दमहिषी भैरवानन्दमालिनी |
भैरवानन्दमतिदा भैरवानन्दमातृका || ७२ ||
भैरवाधारजननी भैरवाधाररक्षिणी |
भैरवाधाररूपेशी भैरवाधाररूपिणी || ७३ ||
भैरवाधारनिचया भैरवाधारनिश्चया |
भैरवाधारतत्त्वज्ञा भैरवाधारतत्त्वदा || ७४ ||
भैरवाश्रयतन्त्रेशी भैरवाश्रयमन्त्रिणी |
भैरवाश्रयरचना भैरवाश्रयरञ्जिता || ७५ ||
भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्ब्भरा |
भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्द्धरा || ७६ ||
भैरवानन्दबोधेशी भैरवानन्दबोधिनी |
भैरवानन्दबोधस्था भैरवानन्दबोधदा || ७७ ||
भैरव्यैश्वर्यवरदा भैरव्यैश्वर्यदायिनी |
भैरव्यैश्वर्यरचना भैरव्यैश्वर्यवर्द्धिनी || ७८ ||
भैरव्यैश्वर्यसिद्धिस्था भैरव्यैश्वर्यसिद्धिदा |
भैरव्यैश्वर्यसिद्धेशी भैरव्यैश्वर्यरूपिणी || ७९ ||
भैरव्यैश्वर्यसुपथा भैरव्यैश्वर्यसुप्रभा |
प्. २११) भैरव्यैश्वर्यवृद्धिस्था भैरव्यैश्वर्यवृद्धिदा || ८० ||
भैरव्यैश्वर्यकुशला भैरव्यैश्वर्यकामदा |
भैरव्यैश्वर्यसुलभा भैरव्यैश्वर्यसम्प्रदा || ८१ ||
भैरव्यैश्वर्यविशदा भैरव्यैश्वर्यविक्रिता |
भैरव्यैश्वर्यविनया भैरव्यैश्वर्यवेदिता || ८२ ||
भैरव्यैश्वर्यमहिमा भैरव्यैश्वर्यमानिनी |
भैरव्यैश्वर्यनिरता भैरव्यैश्वर्यनिर्मिता || ८३ ||
भोगेश्वरी भोगमाता भोगस्था भोगरक्षिणी |
भोगक्रीडा भोगलीला भोगेशी भोगवर्द्धिनी || ८४ ||
भोगाङ्गी भोगरमणी भोगाचारविचारिणी |
भोगाश्रया भोगवती भोगिनी भोगरूपिणी || ८५ ||
भोगाङ्कुरा भोगविधा भोगाधारनिवासिनी |
भोगाम्बिका भोगरता भोगसिद्धिविधायिनी || ८६ ||
भोजस्था भोजनिरता भोजनानन्ददायिनी |
भोजनानन्दलहरी भोजनान्तर्विहारिणी || ८७ ||
भोजनानन्दमहिमा भोजनानन्दभोग्यदा |
भोजनानन्दरचना भोजनानन्दहर्षिता || ८८ ||
भोजनाचारचतुरा भोजनाचारमण्डिता |
भोजनाचारचरिता भोजनाचारचर्च्चिता || ८९ ||
भोजनाचारसम्पन्ना भोजनाचारस/ययुता |
भोजनाचारचित्तस्था भोजनाचाररीतिदा || ९० ||
भोजनाचारविभवा भोजनाचारविस्तृता |
भोजनाचाररमणी भोजनाचाररक्षिणी || ९१ ||
भोजनाचारहरिणी भोजनाचारभक्षिणी |
भोजनाचारसुखदा भोजनाचारसुस्पृहा || ९२ ||
भोजनाहारसुरसा भोजनाहारसुन्दरी |
भोजनाहारचरिता भोजनाहारचञ्चला || ९३ ||
भोजनास्वादविभवा भोजनास्वादवल्लभा |
भोजनास्वादसन्तुष्टा भोजनास्वादसम्प्रदा || ९४ ||
भोजनास्वादसुपथा भोजनास्वादसंश्रया |
भोजनास्वादनिरता भोजनास्वादनिर्णिता || ९५ ||
भौक्षरा भौक्षरेशानी भौकाराक्षररूपिणी |
भौक्षरस्था भौक्षरादिर्ब्भौक्षरस्थानवासिनी || ९६ ||
प्. २१२) भङ्कारी भर्म्मिणी भर्मी भस्मेशी भस्मरूपिणी |
भङ्कारा भञ्चना भस्मा भस्मस्था भस्मवासिनी || ९७ ||
भक्षरी भक्षराकारा भक्षरस्थानवासिनी |
भक्षराढ्या भक्षरेशी भरूपा भस्वरूपिणी || ९८ ||
भूधरस्था भूधरेशी भूधरी भूधरेश्वरी |
भूधरानन्दरमणी भूधरानन्दपालिनी || ९९ ||
भूधरानन्दजननी भूधरानन्दवासिनी |
भूधरानन्दरमणी भूधरानन्दरक्षिता || १०० ||
भूधरानन्दमहिमा भूधरानन्दमन्दिरा |
भूधरानन्दसर्वेशी भूधरानन्दसर्वसूः || १०१ ||
भूधरानन्दमहिषी भूधरानन्ददायिनी |
भूधराधीशधर्मेशी भूधरानन्दधर्मिणी || १०२ ||
भूधराधीशधर्मेशी भूधराधीशसिद्धिदा |
भूधराधीशकर्मेशी भूधराधीशकामिनी || १०३ ||
भूधराधीशनिरता भूधराधीशनिर्णिता |
भूधराधीशनीतिस्था भूधराधीशनीतिदा || १०४ ||
भूधराधीशभाग्येशी भूधराधीशभामिनी |
भूधराधीशबुद्धिस्था भूधराधीशबुद्धिदा || १०५ ||
भूधराधीशवरदा भूधराधीशवन्दिता |
भूधराधीशाऽराध्या च भूधराधीशचर्च्चिता || १०६ ||
भङ्गेश्वरी भङ्गमयी भङ्गस्था भङ्गरूपिणी |
भङ्गाक्षता भङ्गरता भङ्गार्च्च्या भङ्गरक्षिणी || १० ७ ||
भङ्गावती भङ्गलीला भङ्गभोगविलासिनी |
भङ्गरङ्गप्रतीकाशा भङ्गरङ्गनिवासिनी || १०८ ||
भङ्गाशिनी भङ्गमूली भङ्गभोगविधायिनी |
भङ्गाश्रया भङ्गबीजा भङ्गबीजाङ्कुरेश्वरी || १०९ ||
भङ्गयन्त्रचमत्कारा भङ्गयन्त्रेश्वरी तथा |
भङ्गयन्त्रविमोहिस्था भङ्गयन्त्रविनोदिनी || ११० ||
भङ्गयन्त्रविचारस्था भङ्गयन्त्रविचारिणी |
भङ्गयन्त्ररसानन्दा भङ्गयन्त्ररसेश्वरी || १११ ||
भङ्गयन्त्ररसस्वादा भङ्गयन्त्ररसस्थिता |
भङ्गयन्त्ररसाधारा भङ्गयन्त्ररसाश्रया || ११२ ||
भूधरात्मजरूपेशी भूधरात्मजरूपिणी |
भूधरात्मजयोगेशी भूधरात्मजपालिनी || ११३ ||
भूधरात्मजमहिमा भूधरात्मजमालिनी |
प्. २१३) भूधरात्मजभूतेशी भूधरात्मजरूपिणी || ११४ ||
भूधरात्मजसिद्धिस्था भूधरात्मजसिद्धिदा |
भूधरात्मजभावेशी भूधरात्मजभाविनी || ११५ ||
भूधरात्मजभोगस्था भुधरात्मजभोगदा |
भूधरात्मजभोगेशी भूधरात्मजभोगिनी || ११६ ||
भव्या भव्यतरा भव्याभाविनी भववल्लभा |
भावातिभावा भावाख्या भातिभा भीतिभान्तिका || ११७ ||
भासान्तिभासा भासस्था भासाभा भास्करोपमा |
भास्करस्था भास्करेशी भास्करैश्वर्यवर्द्धिनी || ११८ ||
भास्करानन्दजननी भास्करानन्ददायिनी |
भास्करानन्दमहिमा भास्करानन्दमातृका || ११९ ||
भास्करानन्दनैश्वर्या भास्करानन्दनेश्वरा |
भास्करानन्दसुपथा भास्करानन्दसुप्रभा || १२० ||
भास्करानन्दनिचया भास्करानन्दनिर्मिता |
भास्करानन्दनीतिस्था भास्करानन्दनीतिदा || १२१ ||
भास्करोदयमध्यस्था भास्करोदयमध्यगा |
भास्करोदयतेजःस्था भास्करोदयतेजसा || १२२ ||
भास्कराचारचतुरा भास्कराचारचन्द्रिका |
भास्कराचारपरमा भास्कराचारचण्डिका || १२३ ||
भास्कराचारपरमा भास्कराचारपारदा |
भास्कराचारमुक्तिस्था भास्कराचारमुक्तिदा || १२४ ||
भास्कराचारसिद्धिस्था भास्कराचारसिद्धिदा |
भास्कराचरणाधारा भास्कराचरणाश्रिता || १२५ ||
भास्कराचारमन्त्रेशी भास्कराचारमन्त्रिणी |
भास्कराचारवित्तेशी भास्कराचारचित्रिणी || १२६ ||
भास्कराधारधर्मेशी भास्कराधारधारिणी |
भास्कराधाररचना भास्कराधाररक्षिता || १२७ ||
भास्कराधारकर्माणी भास्कराधारकर्मदा |
भास्कराधाररूपेशी भास्कराधाररूपिणी || १२८ ||
भास्कराधारकाम्येशी भास्काराधारकामिनी |
भास्कराधारसांशेशी भास्कराधारसांशिनी || १२९ ||
भास्कराधारधर्मेशी भास्कराधारधामिनी |
भास्कराधारचक्रस्था भास्कराधारचक्रिणी || १३० ||
प्. २१४) भास्करेश्वरक्षत्रेशी भास्करेश्वरक्षत्रिणी |
भास्करेश्वरजननी भास्करेश्वरपालिनी || १३१ ||
भास्करेश्वरसर्वेशी भास्करेश्वरशर्वरी |
भास्करेश्वरसद्भीमा भास्करेश्वरसन्निभा || १३२ ||
भास्करेश्वरसुपथा भास्करेश्वरसुप्रभा |
भास्करेश्वरयुवती भास्करेश्वरसुन्दरी || १३३ ||
भास्करेश्वरमूर्त्तेशी भास्करेश्वरमूर्त्तिनी |
भास्करेश्वरमित्रेशी भास्करेश्वरमन्त्रिणी || १३४ ||
भास्करेश्वरसानन्दा भास्करेश्वरसाश्रया |
भास्करेश्वरचित्रस्था भास्करेश्वरचित्रदा || १३५ ||
भास्करेश्वरचित्रेशी भास्करेश्वरचित्रिणी |
भास्करेश्वरभाग्यस्था भास्करेश्वरभाग्यदा || १३६ ||
भास्करेश्वरभाग्येशी भास्करेश्वरभाविनी |
भास्करेश्वरकीर्त्त्येशी भास्करेश्वरकीर्त्तिनी || १३७ ||
भास्करेश्वरकीर्त्तिस्था भास्करेश्वरकीर्त्तिदा |
भास्करेश्वरकरुणा भास्करेश्वरकारिणी || १३८ ||
भास्करेश्वरगीर्वाणी भास्करेश्वरगारुडी |
भास्करेश्वरदेहस्था भास्करेश्वरदेहदा || १३९ ||
भास्करेश्वरनादस्था भास्करेश्वरनादिनी |
भास्करेश्वरनादेशी भास्करेश्वरनादिनी || १४० ||
भास्करेश्वरकोशस्था भास्करेश्वरकोशदा |
भास्करेश्वरकोशेशी भास्करेश्वरकोशिनी || १४१ ||
भास्करेश्वरशक्तिस्था भास्करेश्वरशक्तिदा |
भास्करेश्वरतोषेशी भास्करेश्वरतोषिणी || १४२ ||
भास्करेश्वरक्षेत्रेशी भास्करेश्वरक्षेत्रिणी |
भास्करेश्वरयोगस्था भास्करेश्वरयोगदा || १४३ ||
भास्करेश्वरयोगेशी भास्करेश्वरयोगिनी |
भास्करेश्वरपद्मेशी भास्करेश्वरपद्मिनी || १४४ ||
भास्करेश्वरहृद्बीजा भास्करेश्वरहृद्वरा |
भास्करेश्वरहृद्योनि-र्भास्करेश्वरहृद्युतिः || १४५ ||
भास्करेश्वरबुद्धिस्था भास्करेश्वरसद्विधा |
भास्करेश्वरसद्वाणी भास्करेश्वरसद्वरा || १४६ ||
भास्करेश्वरराज्यस्था भास्करेश्वरराज्यदा |
भास्करेश्वरराज्येशी भास्करेश्वरपोषिणी || १४७ ||
भास्करेश्वरज्ञानस्था भास्करेश्वरज्ञानदा |
प्. २१५) भास्करेश्वरज्ञानेशी भास्करेश्वरगामिनी || १४८ ||
भास्करेश्वरलक्षेशी भास्करेश्वरक्षालिता |
भास्करेश्वरलक्षिता भास्करेश्वररक्षिता || १४९ ||
भास्करेश्वरखड्गस्था भास्करेश्वरखड्गदा |
भास्करेश्वरखड्गेशी भास्करेश्वरखड्गिनी || १५० ||
भास्करेश्वरकार्येशी भास्करेश्वरकामिनी |
भास्करेश्वरकायस्था भास्करेश्वरकायदा || १५१ ||
भास्करेश्वरचक्षुःस्था भास्करेश्वरचक्षुषा |
भास्करेश्वरसन्नाभा भास्करेश्वरसार्च्चिता || १५२ ||
भ्रूणहत्याप्रशमनी भ्रूणपापविनाशिनी |
भ्रूणदारिद्र्यशमनी भ्रूणरोगनिवाशिनी || १५३ ||
भ्रूणशोकप्रशमनी भ्रूणदोषनिवारिणी |
भ्रूणसन्तापशमनी भ्रूणविभ्रमनाशिनी || १५४ ||
भवाब्धिस्था भवाब्धीशा भवाब्धिभयनाशिनी |
भवाब्धिपारकरणी भवाब्धिसुखवर्द्धिनी || १५५ ||
भवाब्धिकार्यकरणी भवाब्धिकरुणानिधिः |
भवाब्धिकालशमनी भवाब्धिवरदायिनी || १५६ ||
भवाब्धिभजनस्थाना भवाब्धिभजनस्थिता |
भवाब्धिभजनाकारा भवाब्धिभजनक्रिया || १५७ ||
भवाब्धिभजनाचारा भवाब्धिभजनाङ्कुरा |
भवाब्धिभजनानन्दा भवाब्धिभजनाधिपा || १५८ ||
भवाब्धिभजनैश्वर्या भवाब्धिभजनेश्वरी |
भवाब्धिभजनासिद्धिर्ब्भवाब्धिभजनारतिः || १५९ ||
भवाब्धिभजनानित्या भवाब्धिभजनानिशा |
भवाब्धिभजनानिम्ना भवाब्धिभवभीतिहा || १६० ||
भवाब्धिभजनाकाम्या भवाब्धिभजनाकला |
भवाब्धिभजनाकीर्त्तिर्ब्भवाब्धिभजनाकृता || १६१ ||
भवाब्धिशुभदा नित्या भवाब्धिशुभदायिनी |
भवाब्धिसकलानन्दा भवाब्धिसकलाकला || १६२ ||
भवाब्धिसकलासिद्धिर्ब्भवाब्धिसकलानिधिः |
भवाब्धिसकलासारा भवाब्धिसकलार्त्थदा || १६३ ||
भवाब्धिभवनामूर्त्तिर्ब्भवाब्धिभवनाकृतिः |
भवाब्धिभवनाभव्या भवाब्धिभवनाम्भसा || १६४ ||
प्. २१६) भवाब्धिमदनारूपा भवाब्धिमदनातुरा |
भवाब्धिमदनेशानी भवाब्धिमदनेश्वरी || १६५ ||
भवाब्धिभाग्यरचना भवाब्धिभाग्यदा सदा |
भवाब्धिभाग्यदाकूला भवाब्धिभाग्यनिर्ब्भरा || १६६ ||
भवाब्धिभाग्यनिरता भवाब्धिभाग्यभाविता |
भवाब्धिभाग्यसञ्चारा भवाब्धिभाग्यसञ्चिता || १६७ ||
भवाब्धिभाग्यसुपथा भवाब्धिभाग्यसुप्रदा |
भवाब्धिभाग्यरीतिज्ञा भवाब्धिभाग्यनीतिदा || १६८ ||
भवाब्धिभाग्यरीत्येशी भवाब्धिभाग्यरीतिनी |
भवाब्धिभोगनिपुणा भवाब्धिभोगसम्प्रदा || १६९ ||
भवाब्धिभाग्यगहना भवाब्धिभोग्यगुम्फिता |
भवाब्धिभोगगान्धारी भवाब्धिभोगगुम्फिता || १७० ||
भवाब्धिभोगसुरसा भवाब्धिभोगसुस्पृहा |
भवाब्धिभोगग्रथिनी भवाब्धिभोगयोगिनी || १७१ ||
भवाब्धिभोगरसना भवाब्धिभोगराजिता |
भवाब्धिभोगविभवा भवाब्धिभोगविस्तृता || १७२ ||
भवाब्धिभोगवरदा भवाब्धिभोगवन्दिता |
भवाब्धिभोगकुशला भवाब्धिभोगशोभिता || १७३ ||
भवाब्धिभेदजननी भवाब्धिभेदपालिनी |
भवाब्धिभेदरचना भवाब्धिभेदरक्षिता || १७४ ||
भवाब्धिभेदनियता भवाब्धिभेदनिस्पृहा |
भवाब्धिभेदरचना भवाब्धिभेदरोषिता || १७५ ||
भवाब्धिभेदराशिघ्नी भवाब्धिभेदराशिनी |
भवाब्धिभेदकर्मेशी भवाब्धिभेदकर्मिणी || १७६ ||
भद्रेशी भद्रजननी भद्रा भद्रनिवासिनी |
भद्रेश्वरी भद्रवती भद्रस्था भद्रदायिनी || १७७ ||
भद्ररूपा भद्रमयी भद्रदा भद्रभाषिणी |
भद्रकर्णा भद्रवेशा भद्राम्बा भद्रमन्दिरा || १७८ ||
भद्रक्रिया भद्रकला भद्रिका भद्रवर्द्धिनी |
भद्रक्रीडा भद्रकला भद्रलीलाभिलाषिणी || १७९ ||
भद्राङ्कुरा भद्ररता भद्राङ्गी भद्रमन्त्रिणी |
भद्रविद्या भद्रविद्या भद्रवाग्भद्रवादिनी || १८० ||
भूपमङ्गलदा भूपा भूलता भूमिवाहिनी |
भूपभोगा भूपशोभा भूपाशा भूपरूपदा || १८१ ||
प्. २१७) भूपाकृतिर्ब्भूपतिर्ब्भूपश्रीर्ब्भूपश्रेयसी |
भूपनीतिर्ब्भूपरीतिर्ब्भूपभीतिर्ब्भयङ्करी || १८२ ||
भवदानन्दलहरी भवदानन्दसुन्दरी |
भवदानन्दकरणी भवदानन्दवर्द्धिनी || १८३ ||
भवदानन्दरमणी भवदानन्ददायिनी |
भवदानन्दजननी भवदानन्दरूपिणी || १८४ ||
य इदम्पठते स्तोत्रम्प्रत्यहम्भक्तिस/ययुतः |
गुरुभक्तियुतो भूत्वा गुरुसेवापरायणः || १८५ ||
सत्यवादी जितेन्द्री च ताम्बूलपूरिताननः |
दिवा रात्रौ च सन्ध्यायां स भवेत्परमेश्वरः || १८६ ||
स्तवमात्रस्य पाठेन राजा वश्यो भवेद्ध्रुवम् |
सर्वागमेषु विज्ञानी सर्वतन्त्रे स्वयं हरः || १८७ ||
गुरोर्मुखात्समभ्यस्य स्थित्वा च गुरुसन्निधौ |
शिवस्थानेषु सन्ध्यायां शून्यागारे चतुष्पथे | १८८ ||
यः पठेच्छृणुयाद्वाषि स योगी नात्र संशयः |
सर्वस्वन्दक्षिणान्दद्यात्स्त्रीपुत्रादिकमेव च || १८९ ||
स्वच्छन्दमानसो भूत्वा स्तवमेतत्समुद्धरेत् |
एतत्स्तोत्ररतो देवि हररूपो न संशयः || १९० ||
यः पठेच्छृणुयाद्वापि एकचित्तेन सर्वदा |
स दीर्ग्घायुः सुखी वाग्ग्मी वाणी तस्य न संशयः || १९१ ||
गुरुपादरतो भूत्वा कामिनीनाम्भवेत्प्रियः |
धनवान् गुणवाञ्श्रीमान् धीमानिव गुरुः प्रिये || १९२ ||
सर्वेषान्तु प्रियो भूत्वा पूजयेत्सर्वदा स्तवम् |
मन्त्रसिद्धिः करस्थैव तस्य देवि न संशयः || १९३ ||
कुबेरत्वम्भवेत्तस्य तस्याधीना हि सिद्धयः |
मृतपुत्रा च या नारी दौर्ब्भाग्यपरिपीडिता || १९४ ||
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना |
धनधान्यविहीना च रोगशोकाकुला च या || १९५ ||
ताभिरेतन्महादेवि भूर्ज्जपत्रे विलेखयेत् |
सव्ये भुजे च बध्नीयात्सर्वसौख्यवती भवेत् || १९६ ||
एवम्पुनः पुनः प्रायाद्दुःखेन परिपीडिता |
सभायां व्यसने व्वाणी विवादे शत्रुसङ्कटे || १९७ ||
प्. २१८) चतुरङ्गे तथा युद्धे सर्वत्रापदि पीडिते |
स्मरणादस्य कल्याणि संशय/ ययाति दूरतः || १९८ ||
न देयम्परशिष्याय नाभक्ताय च दुर्ज्जने |
दाम्भिकाय कुशीलाय कृपणाय सुरेश्वरि || १९९ ||
दद्याच्छिष्याय शान्ताय विनीताय जितात्मने |
भक्ताय शान्तियुक्ताय जपपूजारताय च || २०० ||
जन्मान्तरसहस्रैस्तु वर्णितुन्नैव शक्यते |
स्तवमात्रस्य माहात्म्य/ व्वक्त्रकोटिशतैरपि || २०१ ||
विष्णवे कथितम्पूर्वं ब्रह्मणापि प्रिय/व्वदे |
अधुनापि तव स्नेहात्कथितम्परमेश्वरि || २०२ ||
गोपितव्यम्पशुभ्यश्च सर्वथा च प्रकाशयेत् || २०३ ||
इति श्रीमहातन्त्रार्णवे ईश्वरपार्वतीस/व्वादे
भुवनेश्वरीभकारादिसहस्रनामस्तोत्रं समाप्तम् ||
इति शाक्तप्रमोदे भुवनेश्वरीतन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
पञ्चमं
छिन्नमस्तातन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
छिन्नमस्तातन्त्रम्
अथ छिन्नमस्ताध्यानम्
प्रत्यालीढपदां सदैव दधतीञ्छिन्नं
शिरःकर्तृकान्दिग्वस्त्रां
स्वकबन्धशोणितसुधाधाराम्पिबन्तीम्मुदा |
नागाबद्धशिरोमणिन्त्रिनयनां हृद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरिदृढान्ध्यायेज्जवासन्निभाम् ||
दक्षे चातिसिताविमुक्तचिकुराकर्त्रीन्तथा खप्परं हस्ताभ्यान्दधती
रजोगुणभवा नाम्नापि सा वर्णिनी |
देव्याश्छिन्नकबन्धतः पतद्सृग्धाराम्पिबन्ती मुदा
नागाबद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ||
प्रत्यालीढपदा कबन्धविगलद्रक्तम्पिबन्ती मुदा सैषा या प्रलये
समस्तभुवनं भोक्तुं क्षमा तामसी |
शक्तिः सापि परात्परा भगवती नाम्ना परा डाकिनी ध्येया
ध्यानपरैः सदा सविनयं भक्तेष्टभूतिप्रदा ||
प्. २२२) अथ यन्त्रोद्धारः
त्रिकोण/ व्विन्यसेदादौ तन्मध्ये मण्डलत्रयम् |
तन्मध्ये विन्यसेद्योनिन्द्वारत्रयसमन्विताम् ||
बहिरष्टदलम्पद्मम्भूबिम्बत्रितयम्पुनः |
कूर्च्चबीज/ ल्लिखेन्मध्ये त्रिकोणे फट्समन्वितम् ||
अथ मन्त्रोद्धारः
लक्ष्मीः प्रथमबीजेऽस्ति लज्जाबीजे मनोभवः ||
तृतीयेऽस्मिन्सदा देवी महापातकनाशिनी ||
चतुर्थे तु गुणातीता मुक्तिविद्याप्रदायिका |
वकारे वरुणः साक्षाज्जकारे तु सुराधिपः ||
रेफे हुताशनो देवो वकारे वसुधाधिपः |
ऐकारे त्रिपुरादेवी रेफे त्रिपुरसुन्दरी ||
त्रैलोक्यविजया देवी सदैवौकारसंस्थिता |
चक्रारे चन्द्रमा देवो नकारे हि विनायकः ||
ईकारे कमला साक्षाद्यकारे च सरस्वती |
मायायुग्मे सदा देवी प्रकृत्या सह सङ्गता ||
वैखरी चैव फट्कारे स्वाकारे कुसुमायुधः |
हाकारे च रतिस्तिष्ठेदेवं मन्त्रसमुच्चये ||
अथ मन्त्रः
|| श्रीं ह्रीं क्लीं ऐं वज्रवैरोचनीये हूं हूं फट् स्वाहा ||
प्. २२३) अथ पूजाविधिः
प्रातः कृत्यादिकङ्कृत्वा मन्त्राचमनङ्कुर्ययात् || यथा ||
लक्ष्मीमायाकूर्च्चबीजैस्त्रिभिः पीत्वाम्बुसाधकः ||
वाग्भवेनोष्ठौ सम्मृज्य मायाभ्यान्तु द्विरुन्मृजेत् ||
कूर्च्चेन क्षालयेत्पाणी एभिर्म्मन्त्रैश्च विन्यसेत् ||
श्रीमायाकूर्च्चवाक्कामत्रिपुटाभगवर्णकैः ||
कामकलाङ्कुशाभ्याञ्च वक्त्रनासाक्षिकर्णकान् ||
नाभिहृन्मस्तकञ्चांसौ स्पृष्ट्वा शम्भुर्ब्भवेत्क्षणात् ||
आचम्यैवञ्छिन्नमस्त/ व्वत्सरात्ताम्प्रपश्यति |
ततः प्राणायामान्त/ व्विधाय षोढान्यासङ्कुर्यात् ||
मन्त्रषोढान्ततः कुर्यात्त्रैलोक्यवशकारिणीम् ||
श्रीबालात्रिपुटायोनि प्रासादप्रणवैस्तथा ||
कालीवध्वङ्कुशैः कामकलाकूर्च्चास्त्रकैः क्रमात् ||
षोडशी मनुवर्णैश्च पृथगष्टादशाक्षरी ||
एभिर्बीजैर्मातृकार्णां स्वेषु स्थानेषु विन्यसेत् ||
एषा ब्रह्मस्वरूपा हि बीजषोढा प्रकीर्त्तिता ||
अस्याः संन्यसनात्सर्वे वज्रदेहा भवन्ति हि ||
सर्वैश्वर्ययुतास्ते हि जीवन्मुक्ता दशाब्दतः ||
ततः ऋष्यादिन्यासः ||
अस्य मन्त्रस्य भैरव ऋषिः सम्राट्छन्दः छिन्नमस्ता देवता
हूंकारद्वयं बीजं स्वाहा शक्तिरभीष्टार्थसिद्धये विनियोगः |
यथा ||
शिरसि भैरवऋषयेनमः |
मुखे सम्राट्छन्दसेनमः |
हृदि च्छिन्नमस्तादेवतायैनमः गुह्ये हूंहूंबीजायनमः
पादयोः स्वाहाशक्तयेनमः ||
ततः कराङ्गन्यासौ |
ओं आंखङ्गायहृदयायस्वाहा इति कनीयस्योः |
ओं-ईंसुखड्गायशिरसेस्वाहा इतिपवित्राङ्गुल्योः |
ओं-ऊ/सुवज्रायशिखायैस्वाहा इतिमध्यमयोः |
ओं-ऐंपाशायकवचायस्वाहा इतितर्ज्जन्योः |
ओं-औं-अङ्कुशायनेत्रत्रयायस्वाहा इत्यङ्गुष्ठयोः |
ओं-अः सुरक्षारक्षासुरक्षायास्त्रायफट् इतिकरतलकरपृष्ठयोः |
एवं हृदयादिषु ||
तदुक्तम्भैरवतन्त्रे ||
उच्चेरत्पूर्वमाकारम्बिन्दुलाञ्छितमस्तकम् ||
खड्गाय हृदयायेति स्वाहा युक्तङ्कनीयसि ||
प्. २२४) ईंकारञ्च ततो देवि चन्द्रकोटिसमप्रभम् ||
सुखङ्गाय ततो वाच्यं शिरसे तदनन्तरम् ||
स्वाहायुक्तन्ततो वाच्यम्पवित्राङ्गुलिस/ययुतम् ||
ओंकारञ्च ततो वाच्यम्बिन्दुलाञ्छितमस्तकम् ||
सुवज्राय ततो वाच्यं शिखायै तदनन्तरम् ||
स्वाहान्तम्मध्यमायाञ्च विन्यसेत्तदनन्तरम् ||
मात्रान्द्वादशिकान्देवीं व्विन्यसेच्च ततः परम् ||
पाशायेति समुच्चार्य प्रवदेत्कवचाय च ||
स्वाहान्त/ व्विन्यसेन्मन्त्रन्तर्ज्जन्यान्तदनन्तरम् ||
ओंकारञ्च ततो देवि चाङ्कुशन्तदनन्तरम् ||
नेत्रत्रयायस्वाहान्तमङ्गुष्ठे करयो द्वयोः ||
अकारञ्च विसर्गान्तं सुरक्षारक्षस/ययुतम् |
अःसुरक्षायस/ययुक्तमस्त्रायेति ततः परम् ||
षडक्षरसमायुक्त/ व्विन्यसेत्करयोर्द्वयोः ||
हृदि मूर्ध्नि शिखायाञ्च कवचे नेत्रमण्डले ||
यावदस्त्रञ्चतुर्द्दिक्षु विदिक्षु च यथाक्रमम् |
त्रिशक्तितन्त्रे भैरववाक्यम् ||
उच्चरेत्प्रणवम्पूर्वमाकारम्बिन्दुस/युतम् ||
इत्यादिवाक्यात् कराङ्गेषु प्रणवसंवलितो न्यासः ||
ततो मूलेन मस्तकादिपादपर्यन्तम्पादादिमस्तकपर्यन्त/
व्वारत्रयन्न्यसेत् ||
ततो ध्यानम्
स्वनाभौ नीरजन्ध्यायेदर्द्धं व्विकसितं सितम् |
तत्पद्मकोशमध्ये तु मण्डलञ्चण्डरोचिषः ||
जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् ||
रजःसत्त्वतमोरेखा योनिमण्डलमण्डितम् ||
मध्ये तु ताम्महादेवीं सूर्यकोटिसमप्रभाम् ||
छिन्नमस्ताङ्करे वामे धारयन्तीं स्वमस्तकम् ||
प्रसारितमुखीन्देवी/ ल्लेलिहानाग्रजिह्विकाम् ||
पिबन्तीं रौधिरीन्धारान्निजकण्ठविनिर्गताम् |
विकीर्णकेशपाशाञ्च नानापुष्पसमन्विताम् ||
दक्षिणे च करे कर्त्रीम्मुण्डमालाविभूषिताम् ||
दिगम्बराम्महाघोराम्प्रत्यालीढपदे स्थिताम् ||
अस्थिमालाधरान्देवीन्नागयज्ञोपवीतिनीम् ||
रतिकामोपरिष्ठाञ्च सदा ध्यायन्ति मन्त्रिणः ||
सदा षोडशवर्षीयाम्पीनोन्नतपयोधराम् ||
विपरीतरतासक्तौ ध्यायेद्रतिमनोभवौ ||
डाकिनीवर्णिनीयुक्त/ व्वामदक्षिणयोगतः ||
प्. २२५) देवीगलोच्छलद्रक्तधारापानम्प्रकुर्व्वतीम् ||
वर्णिनील्लोहितां सौम्याम्मुक्तकेशीन्दिगम्बराम् ||
कपालकर्तृकाहस्ता/ व्वामदक्षिणयोगतः ||
नागयज्ञोपवीताढ्याञ्ज्वलत्तेजोमयीमिव ||
प्रत्यालीडपदा/ व्विद्यान्नानालङ्कारभूषिताम् ||
सदा द्वादशवर्षीयामस्थिमालाविभूषिताम् ||
डाकिनी/ व्वामपार्श्वे तु कल्पसूर्यानलोपमाम् ||
विद्युज्जटान्त्रिनयनान्दन्तपङ्क्तिबलाकिनीम् ||
दंष्ट्राकरालवदनाम्पीनोन्नतपयोधराम् ||
महादेवीम्महाघोराम्मुक्तकेशीन्दिगम्बराम् ||
लेलिहानमहाजिह्वाम्मुण्डमालाविभूषिताम् ||
कपालकर्तृकाहस्ता/ व्वामदक्षिणयोगतः ||
देवीङ्गलोच्छलद्रक्तधारापानम्प्रकुर्वतीम् ||
करस्थितकपालेन भीषणेनातिभीषणाम् ||
आभ्यान्निषेवमाणान्तान्ध्यायेद्देवीं व्विचक्षणः ||
ध्यानस्यावश्यकत्वमाह तन्त्रे ||
प्रचण्डचण्डिकामेवमध्यात्वा यस्तु पूजयेत् ||
सद्यस्तस्य शिरश्छित्त्वा देवी पिबति शोणितम् ||
पिबति तेन मुखेनेति शेषः |
तथा च |
स्वमस्तकं सखर्परं रक्तधाराभिपूरितम् ||
ललज्जिह्वम्महाभीमन्धृत/ व्वामभुजे तथा ||
इति भैरवतन्त्रे || तत्रैव |
सितङ्कुर्याद्दलम्पूर्वमाग्नेयं रक्तवर्णकम् ||
याम्यङ्कृष्णमतः पीतं शुक्लं रक्तं सितासितम् ||
ततः पीताम्प्रकुर्वीत कर्णिकान्तस्य मध्यगाम् ||
तन्मध्ये तु प्रकुर्वीत मण्डलञ्चण्डरोचिषः ||
रजःसत्त्वतमोरेखा रक्ता शुक्लाऽसिता क्रमात् ||
मायायुग्मन्ततो न्यस्य षडक्षरसमन्वितम् ||
बाह्यन्तस्य च चक्रस्य कुर्यात्प्राकारवेष्टितम् ||
पूर्वं रक्तन्ततः कृष्णं सितम्पीत/ ययथाक्रमम् ||
चतुर्द्वारसमायुक्तङ्क्षेत्रपालैरधिष्ठितम् ||
इत्यस्याः पूजायन्त्रम् || यथा वा ||
त्रिकोण/ व्विन्यसेदादौ तन्मध्ये मण्डलत्रयम् ||
तन्मध्ये विन्यसेद्योनिन्द्वारत्रयसमन्विताम् ||
बहिरष्टदलम्पद्मम्भूबिम्बत्रितयम्पुनः ||
कूर्चबीज/ ल्लिखेन्मध्ये त्रिकोणे फट्समन्वितम् ||
यद्वा एतद्ध्यानोक्त/ ययन्त्रम् ||
प्. २२६) तथाच ||
अपरञ्च प्रवक्ष्यामि शृणु देवि यथाक्रमम् ||
स्वनाभौ नीरजं ध्यायेद्भानुमण्डलसन्निभम् ||
योनिचक्रसमायुक्तङ्गुणत्रितयसंज्ञितम् ||
तत्र मध्ये महादेवीञ्छिन्नमस्तां स्मरेद्यतिः ||
प्रदीपकलिकाकारामद्वितीयव्यवस्थिताम् ||
योनिमुद्रासमायुक्तां हृदयस्थितलोचनाम् ||
ध्येयमेतद्यतीनाञ्च गृहस्थान्नान्निशामय || यथा |
अन्तरे स्वशरीरस्य नाभिनीरजसङ्गताम् ||
निर्ल्लेपान्निर्गुणां सूक्ष्माम्बालचन्द्रसमप्रभाम् ||
समाधिमात्रगम्यां तु गुणत्रितयवेष्टिताम् ||
कलातीताङ्गुणातीताम्मुक्तिमात्रप्रदायिनी ||
एवन्ध्यात्वा मानसैः सम्पूज्य तारिणीवच्छङ्खस्थापनङ्कुर्यात् ||
ततः पीठपूजा ||
आधारशक्तयेनमः प्रकृतयेनमः कूर्माय० अनन्ताय० पृथिव्यै०
क्षीरसमुद्राय० रत्नद्वीपाय० कल्पवृक्षाय० | तदधः
स्वर्णसिंहासनाय० आनन्दकन्दाय० सम्बिल्वलाय०
सर्वतत्त्वात्मकपद्माय० संसत्त्वाय० रंरजसे० तंतमसे० आ/-
आत्मने० अं-अन्तरात्मने० पंपरात्मने० ह्रींज्ञानात्मनेनमः |
पद्ममध्ये रतिकामार्त्ता | भैरवमते तु | आधारशक्तिङ्कूर्मन्तु
नागराजमतः परम् || पद्मनालञ्च पद्मञ्च पूजयेन्मन्त्रविन्नरः
|| मण्डलञ्चतुरस्रन्तु रजस्सत्त्वन्तमस्तथा || रतिकामौ च सम्पूज्य
शक्तिपूजां समाचरेत् ||
रतिकामोपरि वज्रवैरोचनीये देहि २, एहि २, गृह्ण २, मम सिद्धिन्देहि २,
मम शत्रून् मारय २, करालिके हू/ फट्स्वाहा इति पीठमन्त्रस्सर्वत्र
प्रणवादिनमोन्तेन पूजयेत् || पुनर्ध्यात्वाऽवाहयेत्
सर्वसिद्धिवर्णनीये सर्वसिद्धिडाकिनीये वज्रवैरोचनीये इहावह-आवह ||
पुनस्तन्मन्त्रमुच्चार्य इहतिष्ठ २, इह सन्निधेहि, इह सन्निरुध्यस्व
इत्यनेनावाह्य ओं आ/ ह्रीं क्रों हं सः इत्यनेन प्राणप्रतिष्ठां
कृत्वा | ओं आंषडङ्गायहृदयायस्वाहा || इत्यादिना षडङ्ग/
व्विन्यस्य यथाशक्ति पूजाङ्कृत्वा बलिन्दद्यात् | तथा | वज्रवैरोचनीये
प्. २२७) देहि २, एहि २, गृह्ण २, बलिम्मम सिद्धिन्देहि २, मम शत्रून्मारय
मारय, करालिके हू/ फट् स्वाहा || २ इतिमन्त्रेण ततो देव्या दक्षिणे
ओंवर्णिन्यैनमः वामे ओं डाकिन्यै० || ततो देव्यङ्गे षडङ्गं
सम्पूज्य दक्षिणे ओंशङ्खनिधयेनमः, वामे ओंपद्मनिधयेनमः,
पूर्वादिदिक्षु लक्ष्मीं लजाम्माया/ व्वाणीञ्च पूजयेत् | विदिक्षु
ब्रह्मविष्णुरुद्रेश्वरान्, मध्ये सदाशिवं, सर्वत्र
प्रणवादिनमोन्तेन पूजयेत् | ततः पञ्चपुष्पाञ्जलीन्दत्वा
आवरणान्पूजयेत् || अग्नीशासुरवायुषु मध्ये दिक्षु च ओं
आ/खड्गायहृदयायस्वाहा इत्यादिना षडङ्गानि सम्पूज्य
अष्टपत्रेषु पूर्वादिक्रमेण ओंह्रींकाल्यैनमः एवं वर्णिन्यै०
डाकिन्यै० भैरव्यै० महाभैरव्यै० इन्द्राक्ष्यै० पिङ्गाक्ष्यै०
संहारिण्यै० | सर्वत्र प्रणवादिनमोन्तेन पूजयेत् | यथा
एकान्नामाभिधाङ्काली/ व्वर्णिनीण्डाकिनीन्तथा | भैरवीञ्च
महापूर्वाम्भैरवीन्तदनन्तरम् || इन्द्राक्षीञ्च सपिङ्गाक्षीन्ततः
संहारकारिणीम् || पूर्वादिके दले पूज्याः शक्तयश्च यथाक्रमम् ||
प्रणवादिनमोन्तेन लज्जाबीजं समुच्चरन् || पद्ममध्ये
हू/हू/फट्नमः स्वाहानमः देव्या दक्षिणे सम्राट्छन्दसेनमः,
देव्या उत्तरे सर्ववर्णेभ्योनमः, पुनर्द्दक्षिणे ओंबीजशक्तिभ्यान्नमः
| पद्माग्रेषु पूर्वादिक्रमेण ब्राह्म्यै० माहेश्वर्यै० वैष्णव्यै०
वाराह्यै० इन्द्राण्यै० चामुण्डायै० महालक्ष्म्यै० सर्वत्र
प्रणवादिनमोन्तेन पूजयेत् | ततश्चतुर्द्दिक्षु द्वारेषु ओंकरालायनमः
विकरालायनमः | एवं अतिकरालाय० महाकरालाय० || यथा भैरवीये
| पूर्वद्वारे करालञ्च विकरालञ्च दक्षिणे || पश्चिमेऽतिकरालञ्च
महाकरालमुत्तरे || ततो धूपादिविसर्ज्जनान्तङ्कर्म समापयेत् |
विसर्ज्जने त्वय/ व्विशेषः | संहारमुद्राम्प्रदर्श्य अञ्जलावारोप्य
वामनासापुटेन | योनिमुद्रासमारूढाम्प्रदीपकलिकोज्ज्वलाम् ||
कृष्णपक्षे विधुमिव क्रमेण क्षीणताङ्गताम् ||
प्. २२८) इमम्मन्त्रं समुच्चार्य चण्डरश्मिन्निवेशयेत् || उत्तरे शिखरे
इत्यादि | अस्य पुरश्चरणं लक्षजपः सिद्धविद्यात्वात् | बलिदाने तु
भैरवीये | रात्रौ बलिः प्रदातव्यो मत्स्यमांससुरादिभिः || अथवा
मधुपानाद्यैर्मधुरैर्विभवक्रमैः || मन्त्रस्तु |
उच्चरेत्प्रणवम्पूर्वं सर्वसिद्धिप्रदेऽन्वितम् ||
वर्णिनीये ततो वाच्यं सर्वसिद्धिप्रदे ततः ||
डाकिनीये ततो वाच्यन्देवीनाम ततः परम् ||
एह्येहीति ततो वाच्यमिमम्बलिमनन्तरम् ||
गृह्ण गृह्ण ततः प्रोक्त्वा मम सिद्धिमनन्तरम् ||
देहि देहीति माया च ततः फट्स्वाहया युतः ||
बलिमन्त्रः समाख्यातः पूजितोऽयं सुरेश्वरि || इति पूजा ||
अथ स्तोत्रम्
ईश्वर उवाच
स्तवराजमह/ व्वन्दे वैरोचन्याः शुभप्रदम् |
नाभौ शुभ्रारविन्दन्तदुपरि विलसन्मण्डलञ्चण्डरश्मेः
संसारस्येकसारान्त्रिभुवनजननीन्धर्मकामार्त्थदात्रीम् |
तस्मिन्मध्ये त्रिभागे त्रितयतनुधराञ्छिन्नमस्ताम्प्रशस्तान्ता/
व्वन्दे छिन्नमस्तां शमनभयहरा/ ययोगिनी/ ययोगमुद्राम् || १ ||
नाभु
शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणम्भास्वद्भास्करमण्डल
न्तदुदरे तद्योनिचक्रम्महत् |
तन्मध्ये
विपरीतमैथुनरतप्रद्युम्नसत्कामिनीपृष्ठस्थान्तरुणार्ककोटिविलसत्ते
जःस्वरूपाम्भजे || २ ||
वामे छिन्नशिरोधरान्तदितरे पाणौ
महत्कर्तृकाम्प्रत्यालीढपदान्दिगन्तवसनामुन्मुक्तकेशव्रजाम् |
छिन्नात्मीयशिरस्समुच्छलदसृग्धाराम्पिबन्तीम्पराम्बालादित्यसमप्र्
अकाशविलसन्नेत्रत्रयोद्भासिनीम् || ३ ||
वामादन्यत्र नालम्बहु
गहनगलद्रक्तधाराभिरुच्चैर्गायन्तीमस्थिभूषाङ्करकमललसत्कर्त्.
र्कामुग्ररूपाम् |
रक्तामारक्तकेशीमपगतवसना/
व्वर्णिनीमात्मशक्तिम्प्रत्यालीढोरुपादामरुणितनयना/ ययोगिनी/
योगनिद्राम् || ४ ||
प्. २२९)
दिग्वस्त्राम्मुक्तकेशीम्प्रलयघनघटाघोररूपाम्प्रचण्डान्दंष्ट्र्
आदुः प्रेक्ष्य वक्त्रोदरविवरलसल्लोलजिह्वाग्रभासाम् |
विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिनीम्भीममूर्त्तिं
सद्यश्छिन्नात्मकण्ठप्रगलितरुधिरैर्ड्डाकिनी/ व्वर्द्धयन्तीम् || ५ ||
ब्रह्मेशानाच्युताद्यैः शिरसि विनिहिता
मन्दपादारविन्दैराप्तर्योगीन्द्रमुख्यैः
प्रतिपदमनिशञ्चिन्तिताञ्चिन्त्यरूपाम् |
संसारे
सारभूतान्त्रिभुवनजननीञ्छिन्नमस्ताम्प्रशस्तामिष्टान्तामिष्टदात्
रीङ्कलिकलुषहराञ्चेतसा चिन्तयामि || ६ ||
उत्पत्तिस्थितिसंहृतीर्घटयितुन्धत्ते त्रिरूपान्तनुन्त्रैगुण्याज्जगतो
यदीयविकृतिर्ब्रह्माच्युतः शूलभृत् |
तामाद्याम्प्रकृतिं स्मरामि मनसा सर्वार्त्थसंसिद्धये यस्याः
स्मेरपदारविन्दयुगले लाभम्भजन्ते नराः || ७ ||
अभिलषितपरस्त्रीयोगपूजापरोऽहम्बहुविधजनभावारम्भसम्भावित्
ओऽहम् |
पशुजनविरतोऽहम्भैरवीसंस्थितोऽहङ्गुरुचरणपरोऽहम्भैरवोऽह.
म् शिवोऽहम् || ८ ||
इदं स्तोत्रम्महापुण्यम्ब्रह्मणा भाषितम्पुरा |
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् || ९ ||
यः पठेत्प्रातरुत्थाय देव्यास्सन्निहितोऽपि वा |
तस्य सिद्धिर्ब्भवेद्देवि वाञ्छितार्त्थप्रदायिनी || १० ||
धनन्धान्यं सुतञ्जायां हयं हस्तिनमेव च |
वसुन्धराम्महाविद्यामष्टसिद्धि/ल्लभेद्ध्रुवम् || ११ ||
वैयाघ्राजिनरञ्जितस्वजघनेऽरण्ये प्रलम्बोदरे
खर्वेऽनिर्वचनीयपर्वसुभगे मुण्डावलीमण्डिते |
कर्त्रीङ्कुन्दरुचि/ व्विचित्रवनिताञ्ज्ञाने दधाने पदे
मातर्ब्भक्तजनानुकम्पिनि महामायेऽस्तु तुभ्यन्नमः || १२ ||
इति छिन्नमस्तास्तोत्रं समाप्तम् ||
अथ कवचम्
श्रीदेव्युवाच
कथिताश्छिन्नमस्ताया या या विद्यास्सुगोपिताः |
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया || १ ||
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् |
त्रैलोक्यविजयन्नाम कवचङ्कथ्यताम्प्रभो || २ ||
प्. २३०) भैरव उवाच
शृणु वक्ष्यामि देवीशि सर्वदेवनमस्कृते |
त्रैलोक्यविजयन्नाम कवचं सर्वमोहनम् || ३ ||
सर्वविद्यामयं साक्षात्सुरासुरजयप्रदम् |
धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः || ४ ||
ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः |
कर्त्ता पाता च संहर्त्ता भुवनानां सुरेश्वरि || ५ ||
न देयं परशिष्येभ्य अभक्तेभ्यो विशेषतः |
देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च || ६ ||
देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः |
ऋषिर्विराट् च च्छन्दश्च देवता छिन्नमस्तका || ७ ||
त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्त्तितः |
ओंहू/कारो मे शिरः पातु च्छिन्नमस्ता बलप्रदा || ८ ||
ह्रीं ह्रीं ऐंत्र्यक्षरी पातु भालवक्त्रं दिगम्बरी |
श्रींह्रींहू/ऐं दृशौ पातु मुण्डङ्कर्तृधरापि सा || ९ ||
सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु |
वज्रवैरोचनीयेहू/फट्स्वाहा च भ्रुवादिकम् || १० ||
घ्राणम्पातु च्छिन्नमस्ता मुण्डकर्तृविधारिणी |
श्रीमायाकूर्च्चवाग्बीजैर्वज्रवैरोचनीये हूं || ११ ||
हूंफट्स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी |
स्वपार्श्वे बालिका चासृग्धाराम्पाययती मुदा || १२ ||
वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका |
मुण्डकर्तृधरारक्ता साधकाभीष्टदायिनी || १३ ||
वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु |
रामाद्या पातु जिह्वाञ्च लज्जाद्या पातु कण्ठकम् || १४ ||
कूर्च्चाद्या हृदयम्पातु वागाद्या स्तनयुग्मकम् |
रमया पुटिता विद्या पार्श्वे पातु सुरेश्वरी || १५ ||
मायया पुटिता विद्या नाभिदेशन्दिगम्बरी |
कूर्च्चेन पुटिता देवी पृष्ठदेशं सदावतु || १६ ||
वाग्बीजपुटिता तेषाम्मध्यम्पातु सशक्तिका |
ईश्वरीकूर्च्चवाग्बीजे वज्रवैरोचनीये हूं || १७ ||
हूंफट्स्वाहा महाविद्या सूर्यकोटिसमप्रभा |
छिन्नमस्ता सदा पायादूरुयुग्मं सशक्तिका || १८ ||
प्. २३१) ह्रींहूंवर्णिनी जानू श्रींह्रंह्रींह्रूं च डाकिनीपदम् |
सर्वविद्यास्थिता नित्या सर्वाङ्गम्मे सदावतु || १९ ||
प्राच्याम्पायादेकलिङ्गा योगिनी पावकेऽवतु |
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् || २० ||
नैरृत्यां सततम्पातु भैरवी पश्चिमेऽवतु |
इन्द्राणी पातु वायव्येऽसिताङ्गी पातु चोत्तरे || २१ ||
संहारिणी सदा पातु शिवकोणे सकर्तृका |
इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्तृकाः || २२ ||
क्रींक्रींक्रीं सा पातु पूर्वे हूंहूं माम्पातु पावके |
ह्रींह्रीं मान्दक्षिणे पातु दक्षिणे कालिकाऽवतु || २३ ||
क्रींक्रींक्रीं चैव नैरृत्यां ह्रीं ह्रीं माम्पश्चिमेऽवतु |
ह्रीं ह्रीं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे || २४ ||
महाकाली खड्गहस्ता शिवकोणे सदाऽवतु |
तारामायावधूः कूर्च्चं फट्कारो मां महामनुः || २५ ||
खड्गकर्तृधरा तारा चोर्द्ध्वदेशं सदाऽवतु |
ह्रींश्रींहूंफट् च पाताले मां पातु चैकजटा सती || २६ ||
तारा तु सहिता खेऽव्यान्महानीलसरस्वती |
इति ते कथितन्देव्याः कवचम्मन्त्रविग्रहम् || २७ ||
यद्धृत्वा पठनाद्भीमः क्रोधाख्यो भैरवः प्रभुः |
सुरासुरमुनीन्द्राणाङ्कर्त्ता हर्त्ता भवेत्स्वयम् || २८ ||
यस्याज्ञया मधुमती याति सा साधकालयम् |
भूतिन्याद्याश्च योगिन्यो यक्षिण्याद्याश्च खेचराः || २९ ||
आज्ञां गृह्णन्ति तास्तस्य कवचस्य प्रसादतः |
एतदेव परब्रह्म कवचम्मन्मुखोदितम् || ३० ||
देवीमभ्यर्च्च्य गन्धाद्यैर्म्मूलेनैव पठेत्सकृत् |
स/व्वत्सरकृतायाश्च पूजायाः फलमाप्नुयात् || ३१ ||
भूर्ज्जे विलिखितञ्चैव गुटिकाङ्काञ्चनीस्थिताम् |
धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः || ३२ ||
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्य/ व्वशमानयेत् |
तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाश्रमे || ३३ ||
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् |
इदङ्कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् |
सोऽपि शस्त्रप्रहारेण मृत्युमाप्नोति सत्वरम् || ३४ ||
प्. २३२) इतिश्रीभैरवतन्त्रे भैरवीभैरवस/व्वादे त्रैलोक्यविजयन्नाम
छिन्नमस्ताकवचं समाप्तम् ||
अथ हृदयम्
श्रीपार्वत्युवाच
श्रुतम्पूजादिकं सम्यग्भवद्वक्त्राब्जनिसृतम् |
हृदयञ्छिन्नमस्तायाश्श्रोतुमिच्छामि साम्प्रतम् ||
श्रीमहादेव उवाच
नाद्यावधि मया प्रोक्तङ्कस्यापि प्राणवल्लभे |
यत्त्वया परिपृष्टोह/ व्वक्ष्ये प्रीत्यै तव प्रिये ||
ओमस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरवऋषिस्सम्राट्-
छन्दश्छिन्नमस्ता देवता हूंबीजम् ओंशक्तिः ह्रींकीलकम्
शत्रुक्षयकरणार्त्थे पाठे विनियोगः ||
ओंहृदयायनमः ओंहूंशिरसेस्वाहा ओंह्रींशिखायैवषट्
ओंक्लींनेत्रत्रयायवौषट् ओं-ऐंकवचायहुम् ओंहूं-अस्त्रायफट् ||
एवङ्करन्यासः || अथ ध्यानम् || रक्ताभां
रक्तकेशीङ्करकमललसत्कर्तृकां कालकान्ति/
व्विच्छिन्नात्मीयमुण्डासृगरुणबहुलादग्रधाराम्पिबन्तीम् ||
विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः
पद्माक्षीञ्छिन्नमस्ताञ्छलकरदितिजच्छेदिनीं संस्मरामि || १ ||
वन्देऽहञ्छिन्नमस्तान्ताञ्छिन्नमुण्डधराम्पराम् |
छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् || १ ||
सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहाम् |
सेवे सकलसम्पत्त्यै छिन्नमस्तां शुभप्रदाम् || २ ||
यज्ञाना/ ययोगयज्ञाय यातु जाता युगे युगे |
दानवान्तकरी देवी छिन्नमस्ताम्भजामि ताम् || ३ ||
वैरोचनी/ व्वरारोहां वामदेवविवर्द्धिताम् |
कोटिसूर्यप्रभा/ व्वन्दे विद्युद्वर्णाक्षिमण्डिताम् || ४ ||
निजकण्ठोच्छलद्रक्तधारया या मुहुर्म्मुहुः |
योगिनीस्तर्पयन्त्युग्रा तस्याश्चरणमाश्रये || ५ ||
हूमित्येकाक्षरं मन्त्रं यदीय/ ययुक्तमानसः |
यो जपेत्तस्य विद्वेषी भस्मता/ ययाति ताम्भजे || ६ ||
हूंस्वाहेतिमनुं सम्यग्यः स्मरत्यार्तिमान्नरः |
छिनत्ति च्छिन्नमस्ता या तस्य बाधां नमामि ताम् || ७ ||
प्. २३३) यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् |
दूरतस्सम्पलायन्ते छिन्नमस्तां भजामि ताम् || ८ ||
क्षितितलपरिरक्षा क्षान्तरोषा सुदक्षा छलयुतखलकक्षा छेदने
क्षांतिलक्ष्या |
क्षितिदितिजसुपक्षा क्षोणिपाक्षययशिक्षा जयतु जयतु चाक्षा
छिन्नमस्तारिभक्षा || ९ ||
कलिकलुषकलानां कर्त्तने कर्तृहस्ता सुरकुवलयकाशा
मन्दभानुप्रकाशा |
असुरकुलकलापत्रासिका कालमूर्त्तिर्जयतु जयतु काली छिन्नमस्ता कराली
|| १० ||
भुवनभरणभूरिभ्राजमानानुभावा भवभवविभवानां
भारणोद्भातभूतिः |
द्विजकुलकमलानां भासिनी भानुमूर्त्तिर्ब्भवतु भवतु वाणी
छिन्नमस्ता भवानी || ११ ||
मम रिपुगणमाशु च्छेत्तुमुग्रङ्कृपाणं सपदि जननि
तीक्ष्णञ्छिन्नमुण्डङ्गृहाण |
भवतु तव यशोलञ्छिन्धि शत्रून्खलान्मे मम च परिदिशेष्टं
छिन्नमस्ते क्षमस्व || १२ ||
छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराक्षता |
क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादनक्षमा || १३ ||
वैरोचनी वरारोहा बलिदानप्रहर्षिता |
बलिपूजितपादाब्जा वासुदेवप्रपूजिता || १४ ||
इति द्वादशनामानि छिन्नमस्ताप्रियाणि यः |
स्मरेत्प्रातस्समुत्थाय तस्य नश्यन्ति शत्रवः || १५ ||
यां स्मृत्वा सन्ति सद्यस्सकलसुरगणास्सर्वदा सम्पदाढ्याः
शत्रूणां सङ्घमाहत्य विशदवदनास्स्वस्थचित्ताश्श्रयन्ति ||
तस्यास्सङ्कल्पवन्तस्सरसिजचरणं सन्ततं संश्रयन्ति साद्या
श्रीशादिसेव्या सुफलतु सुतरां छिन्नमस्ता प्रशस्ता || १६ ||
हृदयमिदमज्ञात्वा हन्तुमिच्छति यो द्विषम् |
कथं तस्याचिरं शत्रुर्न्नाशमेष्यति पार्वति || १७ ||
यदीच्छेन्नाशनं शत्रोश्शीघ्रमेतत्पठेन्नरः |
छिन्नमस्ता प्रसन्नापि ददाति फलमीप्सितम् || १८ ||
शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् |
आयुरारोग्यदञ्चैव पठतां पुण्यसाधनम् || १९ ||
इति श्रीनन्द्यावर्त्ते महादेवपार्वतीस/व्वादे
श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ||
प्. २३४) अथाष्टोत्तरशतनाम
श्रीपार्वत्युवाच
नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् |
कथितम्भवता शम्भो सद्यश्शत्रुनिकृन्तनम् || १ ||
पुनः पृच्छाम्यहन्देव कृपाङ्कुरु ममोपरि |
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् || २ ||
तेन किम्पठ्यते नाथ तन्मे ब्रूहि कृपामय |
श्रीसदाशिव उवाच
अष्टोत्तरशतन्नाम्नाम्पठ्यते तेन सर्वदा || ३ ||
सहस्रनामपाठस्य फलम्प्राप्नोति निश्चितम् |
ओं अस्य श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रस्य
सदाशिवऋषिरनुष्टुप्छन्दः || श्रीछिन्नमस्ता देवता मम
सकलसिद्धिप्राप्तये जपे विनियोगः ||
ओंछिन्नमस्ता महाविद्या महाभीमा महोदरी |
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी || ४ ||
महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी |
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला || ५ ||
कोपातुरा कोपयुता कोपसंहारकारिणी |
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी || ६ ||
डाकिनीकर्मनिरता डाकिनीकर्मपूजिता |
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता || ७ ||
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी |
प्रेताशना प्रेतयुता प्रेतसङ्गविहारिणी || ८ ||
छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी |
घोररूपा घोरदृष्टिर्घोररावा घनोदरी || ९ ||
योगिनी योगनिरता जपयज्ञपरायणा |
योनिचक्रमयीयोनिर्योनिचक्रप्रवर्त्तिनी || १० ||
योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी |
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता || ११ ||
कीर्त्या कपर्द्दिनी काली कङ्काली कलविकारिणी |
आरक्ता रक्तनयना रक्तपानपरायणा || १२ ||
भवानी भूतिदा भूतिर्ब्भूतिदात्री च भैरवी |
भैरवाचारनिरता भूतभैरवसेविता || १३ ||
भीमा भीमेश्वरीदेवी भीमनादपरायणा |
भवाराध्या भवनुता भवसागरतारिणी || १४ ||
प्. २३५) भद्रकाली भद्रतनुर्ब्भद्ररूपा च भद्रिका |
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी || १५ ||
सुभव्या भव्यवदना सुमुखी सिद्धसेविता |
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता || १६ ||
शुभदा शुभगा शुद्धा ऽसुद्धसत्त्वा शुभावहा |
श्रेष्ठादृष्टिमयीदेवी दृष्टिसंहारकारिणी || १७ ||
शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी |
शिवा शान्ता शान्तिरूपा मृडानी मदनातुरा || १८ ||
इति ते कथितन्देवि स्तोत्रम्परमदुर्ल्लभम् |
गुह्याद्गुह्यतरङ्गोप्यङ्गोपनीयम्प्रयत्नतः || १९ ||
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे |
मारणम्मोहनन्देवि ह्युच्चाटनमतः परम् || २० ||
स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च |
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः || २१ ||
महोत्तमं स्तोत्रमिद/ व्वरानने मयेरितन्नित्यमनन्यबुद्धयः |
पठन्ति ये भक्तियुता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः || २२ ||
इति श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रं समाप्तम् ||
अथ सहस्रनाम
श्रीदेव्युवाच
वद देव महादेव सर्वशास्त्रविदा/ व्वर |
कृपाङ्कुरु जगन्नाथ कथयस्व मम प्रभो ||
प्रचण्डचण्डिका देवी सर्वलोकहितैषिणी |
तस्याश्च कथितं सर्वं स्तवञ्च कवचादिकम् ||
इदानीञ्छिन्नमस्ताया नाम्नां साहस्रकं शुभम् |
मे प्रकाशय देवेश कृपया भक्तवत्सल ||
शिव उवाच
शृणु देवि प्रवक्ष्यामि च्छिनायास्सुमनोहरम् |
गोपनीयम्प्रयत्नेन यदीच्छेदात्मनो हितम् ||
न वक्तव्यञ्च कुत्रापि प्राणैः कण्ठगतैरपि |
तच्छृणुष्व महेशानि सर्वन्तत्कथयामि ते ||
विना पूजा/ व्विना ध्यान/ व्विना जाप्येन सिद्ध्यति |
विना ध्यानन्तथा देवि विना भूतादिशोधनम् ||
पठनादेव सिद्धिः स्यात्सत्यं सत्यम्वरानने |
पुरा कैलासशिखरे सर्वदेवसभालये ||
प्. २३६) परिपप्रच्छ कथितं यथा शृणु वरानने |
अस्य श्रीप्रचण्डचण्डिकासहस्रनामस्तोत्रस्य भैरवऋषिः
सम्म्राट्छन्दः प्रचण्डचण्डिका देवता धर्मार्थकाममोक्षार्थे
जपे विनियोगः ||
प्रचण्डचण्डिका चण्डा चण्डदेव्यविनाशिनी |
चामुण्डा च सुचण्डा च चपला चारुदेहिनी ||
ललज्जिह्वा चलद्रक्ता चारुचन्द्रनिभानना |
चकोराक्षी चण्डनादा चञ्चला च मनोन्मदा ||
चेतना चितिसंस्था च चित्कलाज्ञानरूपिणी |
महाभयङ्करीदेवी वरदाभयधारिणी ||
भयाढ्या भयरूपा च भवबन्धविमोचिनी |
भवानी भुवनेशी च भवसंसारतारिणी ||
भवाब्धिर्ब्भवमोक्षा च भवबन्धविघातिनी |
भागीरथी भगस्था च भाग्यभोग्यप्रदायिनी ||
कमला कामदा दुर्गा दुर्गबन्धविमोचिनी |
दुद्दर्श्शना दुर्गरूपा दुर्ज्ञेया दुर्गनाशिनी ||
दीनदुःखहरा नित्या नित्यशोकनिवाशिनी |
नित्यानन्दमयी देवी नित्यङ्कल्याणकारिणी ||
सर्वार्त्थसाधनकरी सर्वसिद्धिस्वरूपिणी |
सर्वक्षोभनशक्तिश्च सर्वविद्राविणी परा ||
सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी |
सर्वज्ञा सिद्धिदात्री च सिद्धिविद्यास्वरूपिणी ||
सकला निःकला सिद्धा कलातीता कलामयी |
कुलज्ञा कुलरूपा च चक्षुरानन्ददायिनी ||
कुलीना सामरूपा च कामरूपा मनोहरा |
कमलस्था कञ्जमुखी कुञ्जरेश्वरगामिनी ||
कुलरूपा कोटराक्षी कमलैश्वर्यदायिनी |
कुन्ती ककुद्मिनी कुल्ला कुरुकुल्ला करालिका ||
कामेश्वरी काममाता कामतापविमोचिनी |
कामरूपा कामसत्त्वा कामकौतुककारिणी ||
कारुण्यहृदया क्रींक्रींमन्त्ररूपा च कोटरा |
कौमोदकी कुमुदिनी कैवल्या कुलवासिनी ||
केशवी केशवाराध्या केशीदैत्यनिषूदिनी |
क्लेशहा क्लेशरहिता क्लेशसङ्घविनाशिनी ||
कराली च करालास्या करालासुरनाशिनी |
करालचर्मासिधरा करालकुलनाशिनी ||
प्. २३७) कङ्किनी कङ्कनिरता कपालवरधारिणी |
खड्गहस्ता त्रिनेत्रा च खण्डमुण्डासिधारिणी ||
खलहा खलहन्त्री च क्षरती खगती सदा |
गङ्गा गौतमपूज्या च गौरी गन्धर्ववासिनी ||
गन्धर्वा गगणाराध्या गणागन्धर्वसेविता |
गणत्कारगणा देवी निर्गुणा च गुणात्मिका ||
गुणता गुणदात्री च गुणगौरवदायिनी |
गणेशमाता गम्भीरा गगणाज्योतिकारिणी ||
गौराङ्गी च गयागम्या गौतमस्थानवासिनी |
गदाधरप्रिया ज्ञेया ज्ञानगम्या गुहेश्वरी ||
गायत्री च गुणवती गुणातीता गुणेश्वरी |
गणेशजननी देवी गणेशवरदायिनी ||
गणाध्यक्षनुता नित्या गणाध्यक्षप्रपूजिता |
गिरीशरमणी देवी गिरीशपरिवन्दिता ||
गतिदा गतिहा गीता गौतमीगुरुसेविता |
गुरुपूज्या गुरुयुता गुरुसेवनतत्परा ||
गन्धद्वारा च गन्धाढ्या गन्धात्मा गन्धकारिणी |
गीर्वाणपतिसम्पूज्या गीर्वाणपतितुष्टिदा ||
गीर्वाणाधीशरमणी गीर्वाणाधीशवन्दिता |
गीर्वाणाधीशसंसेव्या गीर्वाणाधीशहर्षदा ||
गानशक्तिर्गानगम्या गानशक्तिप्रदायिनी |
गानविद्या गानसिद्धा गानसन्तुष्टमानसा ||
गानातीता गानगीता गानहर्षंप्रपूरिता |
गन्धर्वपतिसंहृष्टा गन्धर्वगुणमण्डिता ||
गन्धर्वगणसंसेव्या गन्धर्वगणमध्यगा |
गन्धर्वगणकुशला गन्धर्वगणपूजिता ||
गन्धर्वगणनिरता गन्धर्वगणभूषिता |
घर्ग्घरा घोररूपा च घोरघुर्ग्घुरनादिनी ||
घर्मबिन्दुसमुद्भूता घर्मबिन्दुस्वरूपिणी |
घण्टारवा घनरवा घनरूपा घनोदरी ||
घोरसत्त्वा च घनदा घण्टानादविनोदिनी |
घोरचाण्डालिनी घोरा घोरचण्डविनाशिनी ||
घोरदानवदमनी घोरदानवनाशिनी |
घोरकर्मादिरहिता घोरकर्मनिषेविता ||
घोरतत्त्वमयी देवी घोरतत्त्वविमोचिनी |
घोरकर्मादिरहिता घोरकर्मादिपूरिता ||
घोरकर्मादिनिरता घोरकर्मप्रवर्द्धिनी |
प्. २३८) घोरभूतप्रमथनी घोरवेतालनाशिनी ||
घोरदावाग्निदमनी घोरशत्रुनिषूदिनी |
घोरमन्त्रयुता चैव घोरमन्त्रप्रपूजिता ||
घोरमन्त्रमनोऽभिज्ञा घोरमन्त्रफलप्रदा |
घोरमन्त्रनिधिश्चैव घोरमन्त्रकृतास्पदा ||
घोरमन्त्रेश्वरी देवी घोरमन्त्रार्त्थमानसा |
घोरमन्त्रार्त्थतत्त्वज्ञा घोरमन्त्रार्त्थपारगा ||
घोरमन्त्रार्त्थविभवा घोरमन्त्रार्त्थबोधिनी |
घोरमन्त्रार्थनिचया घोरमन्त्रार्त्थजन्मभूः ||
घोरमन्त्रजपरता घोरमन्त्रजपोद्यता |
ङकारवर्णनिलया ङकाराक्षरमण्डिता ||
ङकारापररूपा च ङकाराक्षररूपिणी |
चित्ररूपा चित्रनाडी चारुकेशी चयप्रभा ||
चञ्चला चञ्चलाकारा चारुरूपा च चण्डिका |
चतुर्वेदमयी चण्डा चाण्डालगणमण्डिता ||
चाण्डालच्छेदिनी चण्डतापनिर्मूलकारिणी |
चतुर्ब्भुजा चण्डरूपा चण्डमुण्डविनाशिनी ||
चन्द्रिका चन्द्रकीर्तिश्च चन्द्रकान्तिस्तथैव च |
चन्द्रास्या चन्द्ररूपा च चन्द्रमौलिस्वरूपिणी ||
चन्द्रमौलिप्रिया चन्द्रमौलिसन्तुष्टमानसा |
चकोरबन्धुरमणी चकोरबन्धुपूजिता ||
चक्ररूपा चक्रमयी चक्राकारस्वरूपिणी |
चक्रपाणिप्रिया चक्रपाणिप्रीतिप्रदायिनी ||
चक्रपाणिरसाभिज्ञा चक्रपाणिवरप्रदा |
चक्रपाणिवरोन्मत्ता चक्रपाणिस्वरूपिणी ||
चक्रपाणीश्वरी नित्यं चक्रपाणिनमस्कृता |
चक्रपाणिसमुद्भूता चक्रपाणिगुणास्पदा ||
चन्द्रावली चन्द्रवती चन्द्रकोटिसमप्रभा |
चन्दनार्च्चितपादाब्जा चन्दनान्वितमस्तका ||
चारुकीर्त्तिश्चारुनेत्रा चारुचन्द्रविभूषणा |
चारुभूषा चारुवेषा चारुवेषप्रदायिनी ||
चारुभूषाभूषिताङ्गी चतुर्वक्त्रवरप्रदा |
चतुर्वक्त्रसमाराध्या चतुर्वक्त्रसमाश्रिता ||
चतुर्वक्त्रा चतुर्बाहा चतुर्त्थी च चतुर्द्दशी |
चित्रा चर्मण्वती चैत्री चन्द्रभागा च चम्पका ||
चतुर्द्दशयमाकारा चतुर्द्दशयमानुगा |
चतुर्द्दशयमप्रीता चतुर्द्दशयमप्रिया ||
प्. २३९) छलस्था छिद्ररूपा च च्छद्मदा छद्मराजिका |
छिन्नमस्ता तथा छिन्ना छिन्नमुण्डविधारिणी ||
जयदा जयरूपा च जयन्ती जयमोहिनी |
जया जीवनसंस्था च जालन्धरनिवासिनी ||
ज्वालामुखी ज्वालदात्री जाज्वल्यदहनोपमा |
जगद्वन्द्या जगत्पूज्या जगत्त्राणपरायणा ||
जगती जगदाधारा जन्ममृत्युजरापहा |
जननी जन्मभूमिश्च जन्मदा जयशालिनी ||
ज्वररोगहरा ज्वाला ज्वालामालाप्रपूरिता |
जम्भारातीश्वरी जम्भारातिवैभवकारिणी ||
जम्भारातिस्तुता जम्भारातिशत्रुनिषूदिनी |
जयदुर्गा जयाराध्या जयकाली जयेश्वरी ||
जयतारा जयातीता जयशङ्करवल्लभा |
जलदा जह्नुतनया जलधित्रासकारिणी ||
जलधिव्याधिदमनी जलधिज्वरनाशिनी |
जङ्गमेशी जाड्यहरा जाड्यसङ्घनिवारिणी ||
जाड्यग्रस्तजनातीता जाड्यरोगनिवारिणी |
जन्मदात्री जन्महर्त्री जयघोषसमन्विता ||
जपयोगसमायुक्ता जपयोगविनोदिनी |
जपयोगप्रिया जाप्या जपातीता जयस्वना ||
जायाभावस्थिता जाया जायाभावप्रपूरिणी |
जपाकुसुमसङ्काशा जपाकुसुमपूजिता ||
जपाकुसुमसम्प्रीता जपाकुसुममण्डिता |
जपाकुसुमवद्भासा जपाकुसुमरूपिणी ||
जमदग्निस्वरूपा च जानकी जनकात्मजा |
झञ्झावातप्रमुक्ताङ्गी झोरझङ्कारवासिनी ||
झङ्कारकारिणी झञ्झावातरूपा च झङ्करी |
ञकाराणुस्वरूपा च टवट्टङ्कारनादिनी ||
टङ्कारी टकुवाणी च ठकाराक्षररूपिणी |
डिण्डिमा च तथा डिम्भा डिण्डुडिण्डिमनादिनी ||
ढक्कामयी ढिलमयी नृत्यशब्दाविलासिनी |
ढक्का ढक्केश्वरी ढक्काशब्दरूपा तथैव च ||
ढक्कानादप्रिया ढक्कानादसन्तुष्टमानसा |
णकारा णाक्षरमयी णाक्षरादिस्वरूपिणी ||
त्रिपुरा त्रिपुरमयी त्रिशक्तिस्त्रिगुणात्मिका |
तामसी च त्रिलोकेशी त्रिपुरा च त्रयीश्वरी ||
त्रिविद्या च त्रिरूपा च त्रिनेत्रा च त्रिरूपिणी |
प्. २४०) तारिणी तरला तारा तारकारिप्रपूजिता ||
तारकारिसमाराध्या तारकारिवरप्रदा |
तारकारिप्रसूस्तन्वी तरुणी तरलप्रभा ||
त्रिरूपा च त्रिपुरगा त्रिशूलवरधारिणी |
त्रिशूलिनी तन्त्रमयी तन्त्रशास्त्रविशारदा ||
तन्त्ररूपा तपोमूर्त्तिस्तन्त्रमन्त्रस्वरूपिणी |
तडित्तडिल्लताकारा तत्त्वज्ञानप्रदायिनी ||
तत्त्वज्ञानेश्वरी देवी तत्त्वज्ञानप्रमोदिनी |
त्रयीमयी त्रयीसेव्या त्र्यक्षरी त्र्यक्षरेश्वरी ||
तापविध्वंसिनी तापसङ्घनिर्मूलकारिणी |
त्रासकर्त्त्री त्रासहर्त्त्री त्रासदात्री च त्रासहा ||
तिथीशा तिथिरूपा च तिथिस्था तिथिपूजिता |
तिलोत्तमा च तिलदा तिलप्रीता तिलेश्वरी ||
त्रिगुणा त्रिगुणाकारा त्रिपुरी त्रिपुरात्मिका |
त्रिकुटा त्रिकुटाकारा त्रिकुटाचलमध्यगा ||
त्रिजटा च त्रिनेत्रा च त्रिनेत्रवरसुन्दरी |
तृतीया च त्रिवर्षा च त्रिविधा त्रिमतेश्वरी ||
त्रिकोणस्था त्रिकोणेशी त्रिकोणयन्त्रमध्यगा |
त्रिसन्ध्या च त्रिसन्ध्यार्च्च्या त्रिपदा त्रिपदास्पदा ||
स्थानस्थिता स्थलस्था च धन्यस्थलनिवासिनी |
थकाराक्षररूपा च स्थूलरूपा तथैव च ||
स्थूलहस्ता तथा स्थूला स्थैर्यरूपप्रकाशिनी |
दुर्गा दुर्ग्गार्त्तिहन्त्री च दुर्गबन्धविमोचिनी ||
देवी दानवसंहन्त्री दनुजेशनिषूदिनी |
दारापत्यप्रदा नित्या शङ्करार्द्धाङ्गधारिणी ||
दिव्याङ्गी देवमाता च देवदुष्टविनाशिनी |
दीनदुःखहरा दीनतापनिर्मूलकारिणी ||
दीनमाता दीनसेव्या दीनदम्भविनाशिनी |
दनुजध्वंसिनी देवी देवकी देववल्लभा ||
दानवारिप्रिया दीर्ग्घा दानवारिप्रपूजिता |
दीर्ग्घस्वरा दीर्ग्घतनुर्द्दीर्ग्घदुर्ग्गतिनाशिनी ||
दीर्ग्घनेत्रा दीर्ग्घचक्षुर्द्दीर्ग्घकेशी दिगम्बरी |
दिगम्बरप्रिया दान्ता दिगम्बरस्वरूपिणी ||
दुःखहीना दुःखहरा दुःखसागरतारिणी |
दुःखदारिद्र्यशमनी दुःखदारिद्र्यकारिणी ||
दुःखदा दुस्सहा दुष्टखण्डनैकस्वरूपिणी |
प्. २४१) देववामा देवसेव्या देवशक्तिप्रदायिनी ||
दामिनी दामिनीप्रीता दामिनीशतसुन्दरी |
दामिनीशतसंसेव्या दामिनीदामभूषिता ||
देवताभावसन्तुष्टा देवताशतमध्यगा |
दयार्द्द्रा च दयारूपा दयादानपरायणा ||
दयाशीला दयासारा दयासागरसंस्थिता |
दशविद्यात्मिका देवी दशविद्यास्वरूपिणी ||
धरणी धनदा धात्री धन्या धान्यपरा शिवा |
धर्मरूपा धनिष्ठा च धेया च धीरगोचरा ||
धर्मराजेश्वरी धर्मकर्मरूपा धनेश्वरी |
धनुर्विद्या धनुर्गम्या धनुर्द्धरवरप्रदा ||
धर्मशीला धर्मलीला धर्मकर्मविवर्जिता |
धर्मदा धर्मनिरता धर्मपाखण्डखण्डिनी ||
धर्मेशी धर्मरूपा च धर्मराजवरप्रदा |
धर्मिणी धर्मगेहस्था धर्माधर्मस्वरूपिणी ||
धनदा धनदप्रीता धनधान्यसमृद्धिदा |
धनधान्यसमृद्धिस्था धनधान्यविनाशिनी ||
धर्मनिष्ठा धर्मधीरा धर्ममार्गरता सदा |
धर्मबीजकृतस्थाना धर्मबीजसुरक्षिणी ||
धर्मबीजेश्वरी धर्मबीजरूप च धर्मगा |
धर्मबीजसमुद्भूता धर्मबीजसमाश्रिता ||
धराधरप्रतिप्राण-धराधरपतिस्तुता |
धराधरेन्द्रतनुजा धराधरेन्द्रवन्दिता ||
धराधरेन्द्रगेहस्था धराधरेन्द्रपालिनी |
धराधरेन्द्रसर्वार्तिनाशिनी धर्मपालिनी ||
नवीना निर्मला नित्या नगराजप्रपूजिता |
नागेश्वरी नागमाता नागकन्या च नग्निका ||
निर्ल्लेपा निर्विकल्पा च निर्ल्लोमा निरुपद्रवा |
निराहारा निराकारा निरञ्जनस्वरूपिणी ||
नागिनी नागविभवा नागराजपरिस्तुता |
नागराजगुणज्ञा च नागराजसुखप्रदा ||
नागलोकगता नित्यं नागलोकनिवासिनी |
नागलोकेश्वरी नागभगिनी नागपूजिता ||
नागमध्यस्थिता नागमोहसङ्क्षोभदायिनी |
नृत्यप्रिया नृत्यवती नृत्यगीतपरायणा ||
नृत्येश्वरी नर्त्तकी च नृत्यरूपा निराश्रया |
नारायणी नरेन्द्रस्था नरमुण्डास्थिमालिनी ||
प्. २४२) नरमांसप्रिया नित्या नररक्तप्रिया सदा |
नरराजेश्वरी नारीरूपा नारीस्वरूपिणी ||
नारीगणार्च्चिता नारीमध्यगा नूतनाम्बरा |
नर्मदा च नदीरूपा नदीसङ्गमसंस्थिता ||
नर्मदेश्वरसम्प्रीता नर्मदेश्वररूपिणी |
पद्मावती पद्ममुखी पद्मकिञ्जल्कवासिनी ||
पट्टवस्त्रपराधीना पद्मरागविभूषिता |
परमा प्रीतिदा नित्या प्रेतासननिवासिनी ||
परिपूर्णरसोन्मत्ता प्रेमविह्वलवल्लभा |
पवित्राशवनिःपूता प्रेयसी परमात्मिका ||
प्रियव्रतपरा नित्या परमप्रेमदायिनी |
पुष्पप्रिया पद्मकोशा पद्मधर्मनिवासिनी ||
फेत्कारिणीतन्त्ररूपा फेरुफेरवनादिनी |
वंशिनी वेशरूपा च बगलाकामरूपिणी ||
वाङ्मयी वसुधा धृष्या वाग्भवाख्यावरानरा |
बुद्धिदा बुद्धिरूपा च विद्या वादस्वरूपिणी ||
बाला वृद्धमयीरूपा वाणी वाक्यनिवासिनी |
वरुणा वाग्वती वीरा वीरभूषणभूषिता ||
वीरभद्रार्च्चितपदा वीरभद्रप्रसूरपि |
वेदमार्गरता वेदमन्त्ररूपा वषट्प्रिया ||
वीणावाद्यसमायुक्ता वीणावाद्यपरायणा |
वीणारवा तथा वीणाशब्दरूपा च वैष्णवी ||
वैष्णवाचारनिरता वैष्णवाचारतत्परा |
विष्णुसेव्या विष्णुपत्नी विष्णुरूपा वरानना ||
विश्वेश्वरी विश्वमाता विश्वनिर्माणकारिणी |
विश्वरूपा च विश्वेशी विश्वसंहारकारिणी ||
भैरवी भैरवाराध्या भूतभैरवसेविता |
भैरवेशी तथा भीमा भैरवेश्वरतुष्टिदा ||
भैरवाधीशरमणी भैरवाधीशपालिनी |
भीमेश्वरी भीममाता भीमशब्दपरायणा ||
भीमरूपा च भीमेशी भीमा भीमवरप्रदा |
भीमपूजितपादाब्जा भीमभैरवपालिनी ||
भीमासुरध्वंसकरी भीमदुष्टविनाशिनी |
भुवना भुवनाराध्या भवनी भूतिदा सदा ||
भयदा भयहन्त्री च अभयाभयरूपिणी |
भीमनादाविह्वला च भयभीतिविनाशिनी ||
मत्ता प्रमत्तरूपा च मदोन्मत्तस्वरूपिणी |
मान्यामनोज्ञा माना च मङ्गला च मनोहरा ||
प्. २४३) माननीया महापूज्या महिषीदुष्टमर्द्दिनी |
महिषासुरहन्त्री च मातङ्गी मयवासिनी ||
माध्वी मधुमयी मुद्रा मुद्रिकामन्त्ररूपिणी |
महाविश्वेश्वरीदूती मौलिचन्द्रप्रकाशिनी ||
यशःस्वरूपिणी देवी योगमार्गप्रदायिनी |
योगिनी योगगम्या च याम्येशी योगरूपिणी ||
यज्ञाङ्गी च योगमयी जपरूपा जपात्मिका |
युगाख्या च युगान्ता च योनिमण्डलवासिनी ||
अयोनिजा योगनिद्रा योगानन्दप्रदायिनी |
रमा रतिप्रिया नित्या रतिरागविवर्द्धिनी ||
रमणी राससम्भूता रम्या रासप्रिया रसा |
रणोत्कण्ठा रणस्था च वरारङ्गप्रदायिनी ||
रेवती रणजैत्री च रसोद्भूता रणोत्सवा |
लता लावण्यरूपा च लवणाब्धिस्वरूपिणी ||
लवङ्गकुसुमाराध्या लोलजिह्वा च लेलिहा |
वशिनी वनसंस्था च वनपुष्पप्रिया वरा ||
प्राणेश्वरी बुद्धिरूपा बुद्धिदात्री बुधात्मिका |
शमनी श्वेतवर्णा च शाङ्करी शिवभाषिणी ||
शाम्यरूपा शक्तिरूपा शक्तिबिन्दुनिवासिनी |
सर्वेश्वरी सर्वदात्री सर्वमाता च शर्वरी ||
शाम्भवी सिद्धिदा सिद्धा सुषुम्नास्वरभासिनी |
सहस्रदलमध्यस्था सहस्रदलवर्त्तिनी ||
हरप्रिया हरध्येया हूङ्कारबीजरूपिणी |
लङ्केश्वरी च तरला लोममांसप्रपूजिता ||
क्षेम्या क्षेमकरी क्षामा क्षीरबिन्दुस्वरूपिणी |
क्षिप्तचित्तप्रदा नित्या क्षौमवस्त्रविलासिनी |
छिन्ना च छिन्नरूपा च क्षुधा क्षौत्काररूपिणी |
सर्ववर्णमयी देवी सर्वसम्पत्प्रदायिनी ||
सर्वसम्पत्प्रदात्री च सम्पदापदभूषिता |
सत्त्वरूपा च सर्वार्त्था सर्वदेवप्रपूजिता ||
सर्वेश्वरी सर्वमाता सर्वज्ञा सुरसात्मिका |
सिन्धुर्मन्दाकिनी गङ्गा नदीसागररूपिणी ||
सुकेशी मुक्तकेशी च डाकिनी वरवर्णिनी |
ज्ञानदा ज्ञानगगना सोममण्डलवासिनी ||
आकाशनिलया नित्या परमाकाशरूपिणी |
प्. २४४) अन्नपूर्णा महानित्या महादेवरसोद्भवा ||
मङ्गला कालिका चण्डा चण्डनादातिभीषणा |
चण्डासुरस्य मथिनी चामुण्डा चपलात्मिका ||
चण्डी चामरकेशी च चलत्कुण्डलधारिणी |
मुण्डमालाधरा नित्या खण्डमुण्डविलासिनी ||
खङ्गहस्ता मुण्डहस्ता वरहस्ता वरप्रदा |
असिचर्मधरा नित्या पाशाङ्कुशधरा परा ||
शूलहस्ता शिवहस्ता घण्टानादविलासिनी |
धनुर्ब्बाणधरादित्या नागहस्ता नगात्मजा ||
महिषासुरहन्त्री च रक्तबीजविनाशिनी |
रक्तरूपा रक्तगात्रा रक्तहस्ता भयप्रदा ||
असिता च धर्मधरा पाशाङ्कुशधरा परा |
धनुर्बाणधरा नित्या धूम्रलोचननाशिनी ||
परस्था देवतामूर्त्तिः शर्वाणी शारदा परा |
नानावर्णविभूषाङ्गी नानारागसमापिनी ||
पशुवस्त्रपरिधाना पुष्पायुधधरा परा |
मुक्तरञ्जितमालाढ्या मुक्ताहारविलासिनी ||
स्वर्णकुण्डलभूषा च स्वर्णसिंहासनस्थिता |
सुन्दराङ्गी सुवर्णाभा शाम्भवी शकटात्मिका ||
सर्वलोकेशविद्या च मोहसम्मोहकारिणी |
श्रेयसी सृष्टिरूपा च च्छिन्नच्छद्ममयी च्छला ||
छिन्नमुण्डधरा नित्या नित्यानन्दविधायिनी |
नन्दा पूर्णा च रिक्ता च तिथयः पूर्णषोडशी ||
कुहूः संक्रांतिरूपा च पञ्चपर्वविलासिनी |
पञ्चबाणधरा नित्या पञ्चमप्रीतिदा परा ||
पञ्चपत्रमभीलाषा पञ्चामृतविलासिनी |
पाञ्चाली पञ्चमी देवी पञ्चरक्तप्रसारिणी ||
पञ्चबाणधरा नित्या नित्यदात्री दयापरा |
पललादिप्रिया नित्या पशुगम्या परेशिता ||
परा पररहस्या च परमप्रेमविह्वला |
कुलीना केशिमार्गस्था कुलमार्गप्रकाशिनी |
कुलाकुलस्वरूपा च कुलार्णवमयी कुला |
रुक्मा च कालरूपा च कालकम्पनकारिणी ||
विलासरूपिणी भद्रा कुलाकुलनमस्कृता |
कुबेरवित्तधात्री च कुमारजननी परा ||
कुमारीरूपसंस्था च कुमारीपूजनाम्बिका |
प्. २४५) कुरङ्गनयना देवी दिनेशास्यापराजिता ||
कुण्डली कदलीसेना कुमार्गरहिता वरा |
अनन्तरूपानन्तस्था आनन्दसिन्धुवासिनी ||
ईलास्वरूपिणी देवी इ-ईभेदभयङ्करी |
इङ्गला पिंगला नाडी इकाराक्षररूपिणी ||
उमा उत्पत्तिरूपा च उच्चभावविनाशिनी |
ऋग्वेदा च निराराध्या यजुर्वेदप्रपूजिता ||
सामवेदेन सङ्गीता अथर्ववेदभाषिणी |
ऋकाररूपिणी ऋक्षा निरक्षरस्वरूपिणी ||
अहिदुर्गासमाचारा इकारार्णस्वरूपिणी |
ओंकारा प्रणवस्था च ओंकारादिस्वरूपिणी ||
अनुलोमविलोमस्था थकारवर्णसम्भवा |
पञ्चाशद्वर्णबीजाढ्या पञ्चाशन्मुण्डमालिका ||
प्रत्येकादशसङ्ख्या च षोडशी छिन्नमस्तका |
षडङ्गयुवतीपूज्या षडङ्गरूपवर्जिता ||
षड्वक्त्रसंश्रिता नित्या विश्वेशी षड्गदालया |
मालामन्त्रमयी मन्त्रजपमाता मदालसा ||
सर्वविश्वेश्वरीशक्तिः सर्वानन्दप्रदायिनी |
इति श्रीछिन्नमस्तायाः सहस्रनाममुत्तमम् ||
पूजाक्रमेण कथितं साधकानां सुखावहम् |
गोपनीयङ्गोपनीयङ्गोपनीयं न संशयः ||
अर्द्धरात्रे मुक्तकेशो भक्तियुतो भवेन्नरः |
जपित्वा पूजयित्वा च पठेन्नामसहस्रकम् ||
विद्यासिद्धिर्ब्भवेत्तस्य षण्मासाभ्यासयोगतः |
येन केन प्रकारेण देवीभक्तिपरो भवेत् ||
अखिलां स्तम्भयेल्लोकान्नाजानमपि मोहयेत् |
आकर्षयेद्देवशक्तिम्मारयेद्देविविद्विषम् ||
शत्रवो दासता/ ययान्ति पापानि यान्ति सङ्क्षयम् |
मृत्युश्च क्षयता/ ययाति पठनाद्भाषणात्प्रिये ||
प्रशस्तायाः प्रसादेन किन्न सिद्ध्यति भूतले |
इदं रहस्यम्परमम्परं स्वस्त्ययनम्महत् ||
धृत्वा बाहौ महासिद्धिः प्राप्यते नात्र संशयः |
अनया सदृशी विद्या विद्यते न महेश्वरी |
वारमेकन्तु योऽधीते सर्वसिद्धीश्वरो भवेत् |
कुलवारे कुलाष्टम्याङ्कुहूसङ्क्रांतिपूर्णिमा ||
यश्चेमाम्पठते विद्यान्तस्य सम्यक् फलं शृणु |
अष्टोत्तरशतञ्जप्त्वा पठेन्नामसहस्रकम् ||
प्. २४६) भक्त्या स्तुत्वा महादेवीं सर्वपापात्प्रमुच्यते |
सर्वपापैर्विनिर्मुक्तः सर्वसिद्धीश्वरो भवेत् ||
अष्टम्या/ व्वा निशीथे च चतुष्पथगतो नरः |
माषभक्तबलिन्दत्वा पठेन्नामसहस्रकम् ||
सुदर्शवामवेद्यान्तु मासत्रयविधानतः |
दुर्ज्जयः कामरूपश्च महाबलपराक्रमः ||
कुमारीपूजनन्नाम-मन्त्रमात्रम्पठेन्नरः |
एतन्मन्त्रस्य पठनात्सर्वसिद्धीश्वरो भवेत् ||
इति ते कथितन्देवि सर्वसिद्धिपरन्नरः |
जप्त्वा स्तुत्वा महादेवीं सर्वपापैः प्रमुच्यते ||
न प्रकाश्यमिदन्देवि सर्वदेवनमस्कृतम् |
इदं रहस्यम्परमङ्गोप्तव्यम्पशुसङ्कटे ||
इति सकलविभूतिर्हेतुभूतम्प्रशस्तम्पठति य इह
मार्त्त्यश्छिन्नमस्तास्तवञ्च |
धनद इव धनाढ्यो माननीयो नृपाणां स भवति च
जनानामाश्रयः सिद्धिवेत्ता ||
इति श्री विश्वसारतन्त्रे शिवपार्वतीस/व्वादे
श्रीछिन्नमस्तासहस्रनामस्तोत्रं सम्पूर्णम् ||
इति शाक्तप्रमोदे छिन्नमस्तातन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतम्
षष्ठं
त्रिपुरभैरवीतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
अथ त्रिपुरभैरवीतन्त्रम्
अथ भैरवीध्यानम्
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधराञ्जपपटी/ व्विद्यामभीति/ व्वरम् |
हस्ताब्जैर्द्दधतीन्त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीम्बद्धहिमांशुरत्नमुकुटा/ व्वन्दे समन्दस्मिताम् ||
प्. २५०) अथ यन्त्रोद्धारः
पद्ममष्टदलोपेतन्नवयोन्याढ्यकर्णिकम् |
चतुर्द्वारसमायुक्तं भूगृह/ व्विलिखेत्ततः ||
अथ मन्त्रोद्धारः
ईशानोऽकारस/युक्तः पश्चात्सैमितियोजयेत् |
हसकरीमिति ततो हसैं पश्चात्समुच्चरेत् ||
अष्टाक्षरस्तु मन्त्रोऽयम्भैरव्यास्समुदाहृतः |
जपतो धारणाद्वापि सर्वसम्पत्प्रदायकः ||
अथ मन्त्रः
|| हसैंहसकरींहसैं ||
अथ पूजाविधिः
प्रातः कृत्यादिप्राणायामान्त/ व्विधाय पीठन्यासङ्कुर्यात् ||
पूर्वोक्तक्रमेणाधारशक्त्यादि ह्रींज्ञानात्मनेनम इत्यन्त/ व्विन्यस्य
हृत्पद्मस्य पूर्वादिकेसरेषु ओं इच्छायैनमः एवं ज्ञानायै नमः
क्रियायै० कामदायिन्यै० रत्यै० रतिप्रियायै० नन्दायै० मध्ये
ऐंपरायै० अपरायै० हसौंसदाशिवमहाप्रेतपद्मासनायनम
इत्यन्त/ व्विन्यस्य ऋष्यादिन्यासङ्कुर्यात् ||
प्. २५१) यथा - शिरसि दक्षिणामूर्तये नमः |
मुखे पङ्क्तिच्छन्दसेनमः हृदि | त्रिपुरभैरव्यैदेवतायैनमः |
गुह्ये बाग्भवबीजायनमः | पादयोः शक्तिकशक्तयेनमः |
सर्वाङ्गे कामराजायकीलकायनमः | तथा च
दक्षिणामूर्त्तिसंहितायाम् | ऋषिस्तु दक्षिणामूर्त्तिश्शिरसि विन्यसेत्क्रमात्
||
छन्दः पङ्क्तिस्तु विज्ञेयो मुखे विन्यस्य देवताम् |
हृदि मे त्रिपुरेशानी वाग्भवम्बीजमुच्यते ||
शक्तिबीजं शक्तिरेव कामराजञ्च कीलकम् |
ततो नाभ्यादिचरणपर्यन्तं हंसरेनमः ||
हृदादिनाभिपर्यन्तङ्कामबीजम्प्रविन्यसेत् |
सकलः रिंनमः शिरसि हृदयान्तं हंसरेनमः |
एवन्दक्षिणकरे आद्यबीजम् | वामकरे द्वितीयम् | उभयकरे तृतीयम् ||
यथा मूर्द्ध्नि मूलाधारे हृदि यथाशङ्खेन त्रीणि बीजानि विन्यसेत् ||
यथा निबन्धे ||
नाभेराचरणन्तद्वद्वाग्भवन्मन्त्रवित्तमः ||
हृदयान्नाभिपर्यन्तङ्कामबीजम्प्रविन्यसेत् ||
शिरसो हृत्प्रदेशान्तन्तत्त्रय/ व्विन्यसेत्ततः ||
आद्यन्द्वितीयङ्करयोस्ततस्त्रिरुभयोर्न्न्यसेत् ||
मूर्ध्न्याधारे च हृदये भूयो बीजत्रयङ्क्रमात् ||
ततो नवयोन्यात्मकविन्यासः ||
आद्यम्बीजन्दक्षकर्णे द्वितीयम्बीज/ व्वामकर्णे तृतीयम्बीजञ्चिबुके
एवं शङ्खयोर्वदने नेत्रयोर्न्नसि अंसयोर्जठरे कूर्परयोः कुक्षौ
जानुनोर्लिङ्गे पादयोर्गुह्ये पार्श्श्वयोर्हृदि स्तनयोः कण्ठे ||
यथा निबन्धे ||
नवयोन्यात्मकन्न्यासङ्कुर्याद्बीजैस्त्रिभिः क्रमात् ||
कर्णयोश्चिबुके भूयः शङ्खयोर्वदने पुनः ||
नेत्रयोरपि विन्यसेदंसयोर्ज्जठरे पुनः ||
ततः कूर्परयोः कुक्षौ जानुनोर्म्मूर्द्धमूर्द्धनि || पादयोर्गुह्यदेशे
च पार्श्वयोर्हृदयाम्बुजे ||
स्तनद्वये कण्ठदेशे रत्यादिमथ विन्यसेत् ||
अथ रत्यादिन्यासः ||
मूलाधारे ऐंरत्यैनमः, हृदि क्लींप्रीत्यैनमः, भ्रुवोर्म्मध्ये
मनोभवायै नमः, पुनः भ्रूमध्ये सौः अमृतेश्यैनमः,
प्. २५२) हृदि क्लींयोगेश्यैनमः, मूलाधारे ऐंविश्वयोन्यैनमः |
यथा निवन्धे |
मुखे रतिं हृदि प्रीतिम्भुवोर्मध्ये मनोभवाम् ||
बालाबीजैस्त्रिभिर्न्यस्य स्थानेष्वेषु विलोमतः ||
अमृतेशीञ्च योगेशीं विश्वयोनिं क्रमादिमाः ||
विलोमबीजैर्विन्यस्य मूर्त्तिन्यासं समाचरेत् ||
अथ मूर्त्तिन्यासः ||
मूर्ध्नि हसरों ईशानमनोभवायनमः |
वक्त्रे हसरें तत्पुरुषमकरध्वजायनमः |
हृदि हसरूं अघोरकन्दर्पकुमारायनमः |
गुह्ये हसरीं वामदेवमन्मथायनमः |
पादयोः हसरां सद्योजातकामदेवायनमः ||
एवम् ऊर्द्ध्वप्राग्दक्षिणोत्तरपश्चिमेषु मुखेषु
ईशानमनोभवादिपञ्चमूर्त्तीस्तत्तद्बीजादिपूर्वका न्यसेत् ||
यथा निबन्धे ||
स्वस्वपूजादिकं सर्वम्मूर्ध्नीशानमनोभवम् ||
न्यसेद्वक्त्रे तत्पुरुषमकरध्वजमेव च ||
हृद्यघोरकुमारादि कन्दर्पन्तदनन्तरम् ||
गुह्यदेशे प्रविन्यस्य वामदेवादिमन्मथम् ||
सद्योजातङ्कामदेवम्पादयोर्विन्यसेत्ततः ||
ऊर्द्ध्वप्राग्दक्षिणोत्तरपश्चिमेषु मुखेषु तान् ||
प्रविन्यसेद्यथापूर्वं भृगुर्व्योमाग्निसंस्थितः ||
सत्यादिपञ्चहृस्वाख्यम्बीजमेषाम्प्रकल्पितम् ||
ततः करयोरङ्गुलीषु पञ्चबाणान् पञ्चकामांश्च न्यसेत् ||
यथा-द्रांद्रविणेश्यैनमः अङ्गुष्ठयोः |
द्रींशोभिन्यैनमस्तर्ज्जन्योः | क्लींवशीकरिण्यैनमः मध्यमयोः |
प्लुं-आकर्षिण्यैनमः अनामिकयोः | स्त्रीं-उन्मादिन्यैनमः
कनिष्ठयोः || एवं ह्री/ कामायनमः क्लींमन्मथायनमः
ऐंकन्दर्प्पायनमः प्लुंमकरध्वजायनमः
स्त्रींमीनकेतनायनमः | यथा ज्ञानार्णवे ||
पञ्चबाणान् क्रमेणैव कराङ्गुलीषु विन्यसेत् ||
न्यासस्तु स्त्रीलिङ्गेनात्र प्रयोगः || तन्त्रे तथादर्शनात् ||
अङ्गुष्ठादिकनिष्ठान्तङ्क्रमेण परमेश्वरीम् ||
थान्तद्वयं समालिख्य वह्निस्थन्तङ्क्रमेण तु ||
मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् ||
बाणद्वयमिति प्रोक्तम्मादनम्भूमिसंस्थितम् ||
चतुर्त्थं स्वरविद्याढ्यन्नादरूप/ वरानने ||
कान्तवक्त्रेण स/ययुक्त/ व्वामकर्णविभूषितम् ||
प्. २५३) बिन्दुनादसमायुक्तं सर्वाङ्गश्चन्द्रमाः प्रिये ||
पञ्चबाणान्महेशानि नामानि शृणु पार्वति ||
क्षोभणो द्रावणो वश्यस्तथा कर्षणसञ्ज्ञकः ||
उन्मादश्च क्रमेणैव नामानि परमेश्वरि ||
कामस्तत्रैव विज्ञेयस्तेषाम्बीजानि त्वं शृणु ||
पराबीजम्मध्यबाण/ व्वाग्भवम्परमेश्वरि ||
तुर्यबाणन्ततश्चैव स्त्रीबीजन्तु क्रमात्प्रिये ||
त्रिपुरासारे ||
कपञ्चमं शुचिनयनान्तस/ययुतं सवामदृक्पवनगुणान्वितकराः |
रविश्चरो हरिहयः खबिन्दुनान्त/ यंन्नंन्तंस्थंलंङम्परान्वितो
भृगुः ||
पञ्चकामा इमे देवि नामानि शृणु वल्लभे ||
काम-मन्मथ-कन्दर्प-मकरध्वजसञ्ज्ञकाः ||
मीनकेतुर्महेशानि पञ्चमः परिकीर्त्तितः ||
पञ्च कामान्ततो देवि नामानि शृणु वल्लभे ||
काममन्मथकन्दर्पबाणस्थानेषु विन्यसेत् ||
एतानि विन्यसेदेव करन्यासस्ततः परम् ||
ततः कराङ्गन्यासौ ||
हसरां अङ्गुष्ठाभ्यां नमः |
स्वाहा हसरीं तर्जनीभ्यांनमः |
हसरूं मध्यमाभ्यांवषट् ||
हसरैं अनामिकाभ्यांहूम् ||
हसरौं कनिष्ठाभ्यांवौषट् ||
हसरः करतलकरपृष्ठाभ्यांफट् ||
एवं हृदयादि | यथा निबन्धे ||
षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता |
ततो बाणन्यासः ||
मूर्ध्नि द्रांद्राविण्यैनमः, गुह्ये क्लीं-आकर्षिण्यैनमः,
हृदिसम्मोहिन्यैनमः ||
यथा निबन्धे |
द्रामाद्यां द्राविणीं म्मूर्ध्नि द्रीमाद्याङ्क्षोभिणीम्मते ||
क्लींवशीकरणीं वक्त्रे गुह्ये क्लींबीजपूर्वकम् ||
आकर्षिणीं हृदि पुनः सर्गांलःभृगुस/ययुतः ||
सम्मोहिनी क्रमादेवं वाणन्यासोयमीरितः ||
एतेन उन्माद-सम्मोहनयोरेकपर्यायः, एषु स्थानेषु कामा/श्च विन्यस्य
| यथा श्रीक्रमे |
ललाटे वदने देवि हृदि नाभौ च गुह्यके ||
एषु कामा/श्च विन्यस्य ताराद्यास्सुभगादिकाः ||
न्यसेदिति शेषः | ततः सुभगादिन्यासः | भाले
ऐंक्लींलूंस्त्रींसुभगायैनमः, भ्रूमध्ये
औंक्लींब्रूंस्त्रींभगायैनमः | वदने भगसर्पिण्यैनमः,
प्. २५४) कण्ठिकायां भगमालिन्यैनमः, कण्ठे अनङ्गायैनमः, हृदि
५ अनङ्गकुसुमायैनमः, नाभौ ५ अनङ्गमेखलायैनमः लिङ्गमूले
५, अनङ्गमदनायैनमः हृदि ५ | यथा निबन्धे | भाले
भ्रूमध्यवदने कण्ठिकाकण्ठहृत्सु च ||
नाभ्यधिष्ठानयोः पञ्चताराद्याः सुभगादिकाः ||
न्यस्तव्या विधिना देवि मन्त्रिणा सुभगा भगा ||
भगसर्पिण्यथ परा भगमालिन्यनन्तरम् ||
अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला ||
अनङ्गमदनासर्पा मन्दविभ्रममन्थरा ||
वाक्कामबीजंक्लूंत्रींसस्तारा पञ्चोदितास्त्वमी ||
अथ भूषणन्यासः || शिरसि अंनमः, भाले आ/नमः, इंईं भ्रुवोः,
एवं कर्णयोः, उं-ऊं नेत्रयोः, ऋं ॠं नासिकायाम् गण्डयोः, ऌं
ॡं एं ओष्ठयोः, ऐं ओं दन्तपङ्क्तौ, औं अं आस्ये, अः चिबुके,
कंगले, खंकण्ठे गंपार्श्वयोः, घंङंस्तनद्वये,
चंछंदोर्मूलयोः, जंझंकूर्परयोः, जंझंपादयोः,
ञंचरणाङ्गुष्ठयोः, ञंटंपादयोः, ठंडंकरपृष्ठयोः,
ढंणंनाभौ, तंगुह्ये, थं ऊर्वोः, दंधंजान्वोः,
नंपंजङ्घयोः, फंबंग्रन्थिस्थानयोः, भंमंचरणयोः,
यञ्चरणाङ्गुष्ठयोः, रंकट्याम्, लंकण्ठे, वंग्रीवायाम्,
लंहृदि, शगुह्ये, क्षकर्णयोः, षंगण्डयोः, संमौलौ || हयस्था
निबन्धे || न्यसेत् शिरसि भाले भ्रूकर्णाक्षियुगले
वक्षगण्डयोरूरुपृष्ठयोः दन्तपङ्क्तौ आस्ये यस्येश्वरान् || चिबुकेथ
पार्श्वयोः स्तनयुग्मकेदोर्मूलयोः कूर्परयोः पृष्ठदेशे ततो नाभौ
गुह्ये पुनश्चोर्वोर्ज्जानुनोर्ज्जपयेस्ततः स्फिचोः षदतलयोः पश्चात्
चरणाङ्गुल्योर्द्वयोः || कादिवान्तान्न्यसेद्वर्णान् स्थानेष्वेषु समाहितः
|| कट्यां ग्रैवेयके पश्चात्कटितटे हृदि गुह्यके || कर्णयोर्गण्डयोर्मौलौ
बलवान् राक्षसासहौ || अस्यविमानान्प्रविन्यस्ये देवन्देशिकसत्तमः ||
ततस्त्रिखण्डाम्मुद्राम्बध्वा ध्यायेत् ||
उद्यद्भानुसहस्रकान्तिमरुणक्षौमांशिरोमालिकां
रक्तालिप्तपयोधराञ्जपपटी/ बिद्यामभीति/ व्वरम् |
प्. २५५)
हस्ताब्जैर्द्दधतीन्त्रिनेत्रविलसद्वक्त्रारविन्दश्रियन्देवीम्बद्धहिमांशुर्
अत्नमुकुटा/ व्वन्दे समन्दस्मिताम् || एवन्ध्यात्वा मानसैः
सम्पूज्यशङ्खस्थापनङ्कुर्यात् ||
आधारशक्त्यादिह्रींज्ञानात्मनेनम इत्येवं सम्पूज्य
पूर्वादिकेसरेषु मध्ये च | इच्छा ज्ञानक्रिया पश्चात् कामिनी
कामहाविनी || रती रतिप्रिया नन्दा नवमी च मनोन्मनी || एताः
प्रणवादिनमोऽन्तेन पूजयेत् , तदेवम् || परायै० अपरायै० परायै०
परावत्यै० सदाशिवमहाप्रेतपद्मासनायनमः इति सम्पूज्य
प्रायोस्थोनिरन्तराले श्रीविद्योक्तगुरुपङ्क्तिम्पूजयेत् | यथा निबन्धे |
वाग्भवं रोहितो वापि श्रीकण्ठो लोहितो नलः ||
दीर्ग्घवाण्यै परायै च पश्चादपरायै पुनः || सदाशिवम्महाप्रेतं
ङेन्तम्पद्मासनम्मम ||
अनेन मनुना दद्यादासनं श्रीगुरूत्तमम् ||
प्राङ्मध्ययोरन्तराले पूजयेत्कल्पयेत्ततः ||
पञ्चभिः प्रणवैः पूर्वन्तस्यामावाह्य देवताम् ||
तारो वाक्छक्तिकमलाहसखप्लैयशः स्मृताः ||
तदशक्तौ अ/गुरुभ्योनमः ओंगुरुपादुकाभ्यान्नमः
एवम्परमगुरुभ्योनमः परमगुरुपादुकाभ्यांनमः
ओंपरमेष्ठिगुरुभ्योनमः परमेष्ठिगुरुपादुकाभ्यान्नमः
आचार्येभ्यो आचार्यपादुकाभ्यो० || अस्य पूजायन्त्रन्निबन्धे ||
पद्ममष्टदलोपेतन्नवयोन्याढ्यकर्णिकम् ||
चतुर्द्वारसमायुक्तम्भूगृह/ व्विलिखेत्ततः || ऐंह्रींसहसषह
क्रेह्यैं इतिमन्त्रेण बिन्दुचक्रे मूर्त्तिसंकल्पन्त्रिखण्डमुद्रया
देवीन्ध्यात्वावाहयेत् || ओं देवेशि भद्रसुलभे परिवारसमन्विते ||
यावत्त्वाम्पूजयिष्यामि तावत्त्वं सुस्थिरा भव || इत्यावाह्य
प्रीत्यैनमः उग्रकोणे मनोभवायैनमः | ततः केसरेषु अग्न्यादिकोणेषु
मध्ये दिक्षु च पूर्वोक्ताङ्गमन्त्रेण पूजामारभेत् || अथ ज्ञानार्णवे
|| अग्नीशासुरवायुमध्ये दिग्बन्धम्पूजयेत् || ततः उत्तरे
द्रांद्राविण्यैनमः द्रींक्षोभिण्यैनमः दक्षिणे
क्लींवशीकरिण्यैनमः लोपाकर्षिण्यैनमः |
प्.२५६) आग्नेययाम् || सम्मोहिन्यैनमः || एवम् उत्तरे ह्रींकामायनमः
क्लींमन्मथायनमः || दक्षिणे ऐंकन्दर्पायनमः
प्लुंमकरध्वजायनमः || आग्नेययाम् स्त्रींमीनकेतनायनमः || यथा
ज्ञानार्णवे || उत्तरस्यान्द्वयन्दिशि आग्न्ये चैकङ्क्रमेणैव
पञ्चबाणान्क्रमाद्यजेत् || पञ्चबाणस्तथा देवबाणवत्परिपूजयेत् ||
बाणवत् || ततोऽष्टयोनिषु पूर्वादि ऐंक्लींस्त्रींसः सुभगायैनमः ||
एवं ऐं० ४ भगायैनमः, ऐं० भगसर्पिण्यैनमः , ऐं०
भगमालिन्यैनमः, ऐं० ४ अनङ्गायैनमः, एवं ऐं० ४
अनङ्गकुसुमायैनमः, ऐं० ४ अनङ्गमेखलायैनमः, ऐं ० ४
अनङ्गमदनायैनमः || ततोऽष्टपत्रेषु पूर्वादि ओं
असिताङ्गब्राह्मीभ्यांनमः, ओंउमामहेश्वराभ्यान्नमः,
ओंचण्डकौमारीभ्यान्नमः, ओंक्रोधवैष्णवीभ्यान्नमः, ओं-
उत्तरवाराहीभ्यान्नमः, ओंकापालीन्द्राणीभ्यान्नमः,
ओंभीषणचामुण्डाभ्यान्नमः, ओंसंहारमहालक्ष्मीभ्यान्नमः ||
यथा निबन्धे || अष्टमे षष्ठशक्तौ च पूजयेत्सुभगादिकाः || मातरो
भैरव्याद्याश्च मदविभ्रमविह्वलाः || अष्टपत्रेषु सम्पूज्य
यथावत्कुसुमावधि || तद्बहिरिन्द्रादीन्सम्पूज्य धूपादिविसर्ज्जनान्तं
कर्म समापयेत् || किन्तु नैवेद्यानन्तरं श्रीविद्योक्तबलिचतुष्टयन्देयमिति
|| अस्य पुरश्चरणं दशलक्षजपः, होमस्तुद्वादशसहस्रम् || यथा
निबन्धे || दीक्षाम्प्राप्य जपेन्मन्त्रन्तत्त्वलक्षञ्जितेन्द्रियः ||
पुष्पैर्भानुसहस्राणि जुहुयाद्क्षमक्षजैः || इति पूजा ||
अथ स्तोत्रम्
श्रीभैरव उवाच
ब्रह्मादयः स्तुतिशतैरपि सूक्ष्मरूपाञ्जानन्ति नैव
जगदादिमनादिमूर्त्तिम् |
तस्माद्वयङ्कुचनतान्नवकुङ्कुमाभां
स्थूलां स्तुमः सकलवाङ्मयमातृभूताम् || १ ||
सद्यः समुद्यतसहस्रदिवाकराभां
विद्याक्षसूत्रवरदाभयचिह्नहस्ताम् |
नेत्रोत्पलैस्त्रिभिरलंकृतवक्त्रपद्मां
त्वां हारभाररुचिरान्त्रिपुरे भजामः || २ ||
सिन्दूरपूररुचिरङ्कुचभारनम्रञ्जन्मान्तरेषु
कृतपुण्यफलैकगम्यम् |
प्. २५७) अन्योन्यभेदकलहाकुलमानभेदैर्जानन्ति किञ्जडधियस्तव
रूपमम्ब || ३ ||
स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति
सूक्ष्मां वदन्ति वचसामधिवासमन्ये |
त्वाम्मूलमाहुरपरे जगताम्भवानि
मन्यामहे वयमपारकृपाम्बुराशिम् || ४ ||
चन्द्रावतंसकलितां शरदिन्दुशुभ्राम्पञ्चाशदक्षरमयीं हृदि
भावयन्ति |
त्वाम्पुस्तकञ्जपपटीममृताम्भकुम्भां
व्याख्याञ्च हस्तकमलैर्दधतीं त्रिनेत्राम् || ५ ||
शम्भुस्त्वमद्रितनयाकलितार्द्धभागो
विष्णुस्त्वमम्ब कमलापरिणद्धदेहः |
पद्मोद्भवस्त्वमसि वागधिवासभूमिर्येषां क्रियाश्च जगति त्रिपुरे
त्वमेव || ६ ||
आश्रित्य वाग्भवभवांश्चतुरः परादीन्भावान्पदात्तु
विहितान्समुदीरयन्तीम् |
कालादिभिश्च करणैः परदेवतान्त्वां
स/व्विन्मयीं हृदि कदापि न विस्मरामि || ७ ||
आकुञ्च्य वायुमभिजित्य च वैरिषट्कमालोक्य निश्चलधिया
निजनासिकाग्रम् |
ध्यायन्ति मूर्द्ध्नि कलितेन्दुकलावतंसं
त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् || ८ ||
त्वम्प्राप्य मन्मथरिपोर्वपुरर्द्धभागं
सृष्टिं करोषि जगतामिति वेदवादः |
सत्यन्तदद्रितनये जगदेकमातर्नो चेदशेषजगतः स्थितिरेव न स्यात् || ९ ||
पूजा/ व्विधाय कुसुमैः सुरपादपानाम्पीठे तवाम्ब
कनकाचलकन्दरेषु |
गायन्ति सिद्धवनिताः सह किन्नरीभिरास्वादितामृतरसारुणपद्मनेत्राः
|| १० ||
विद्युद्विलासवपुषः श्रियमावहन्ती/ ययान्तीं
स्ववासभवनाच्छिवराजधानीम् |
सौषुम्नमार्गकमलानि विकासयन्तीन्देवीम्भजेत
परमामृतसिक्तगात्राम् || ११ ||
आनन्दजन्मभवनम्भवनं श्रुतीनाञ्चैतन्यमात्रतनुमम्ब
तवाश्रयामि |
ब्रह्मेशविष्णुभिरुपासितपादपद्मां
सौभाग्यजन्मवसतिन्त्रिपुरे यथावत् || १२ ||
सर्वार्त्थभावि भुवनं सृजतीन्दुरूपा
या तद्बिभर्त्ति पुनरर्कतनुः स्वशक्त्या |
ब्रह्मात्मिका हरति तं सकलं ययुगान्ते
तां शारदाम्मनसि जातु न विस्मरामि || १३ ||
प्. २५८) नारायणीति नरकार्णवतारिणीति
गौरीति खेदशमनीति सरस्वतीति |
ज्ञानप्रदेति नयनत्रयभूषितेति
त्वामद्रिराजतनये विबुधा वदन्ति || १४ ||
ये स्तुवन्ति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् |
त्वामनु प्राप्य वाक्सिद्धिम्प्राप्नुयुस्ते परां श्रियम् || १५ ||
इति ते कथितन्देवि पञ्चाङ्गम्भैरवीमयम् |
गुह्यङ्गोप्यतमङ्गोप्यङ्गोपनीयं स्वयोनिवत् || १६ ||
इति श्रीरुद्रयामले उमामहेश्वरस/व्वादे पञ्चाङ्गखण्डनिरूपणे
श्रीभैरवीस्तोत्रं सम्पूर्णम् ||
अथ कवचम्
श्रीपार्वत्युवाच
देवदेव महादेव सर्वशास्त्रविशारद |
कृपाङ्कुरु जगन्नाथ धर्मज्ञोसि महामते || १ ||
भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका |
तस्यास्तु कवचन्दिव्यम्मह्यङ्कथय तत्त्वतः || २ ||
तस्यास्तु वचनं श्रुत्वा जगाद जगदीश्वरः |
अद्भुतङ्कवचन्देव्या भैरव्या दिव्यरूपि वै || ३ ||
ईश्वर उवाच
कथयामि महाविद्याकवचं सर्वदुर्ल्लभम् |
शृणुष्व त्वञ्च विधिना श्रुत्वा गोप्प्यन्तवापि तत् || ४ ||
यस्याः प्रसादात्सकलं बिभर्म्मि भुवनत्रयम् |
यस्याः सर्वं समुत्पन्न/ ययस्यामद्यापि तिष्ठति || ५ ||
माता पिता जगद्धन्या जगद्ब्रह्मस्वरूपिणी |
सिद्धिदात्री च सिद्धास्स्यादसिद्धा दुष्टजन्तुषु || ६ ||
सर्वभूतहितकरी सर्वभूतस्वरूपिणी |
ककारी पातु मान्देवी कामिनी कामदायिनी || ७ ||
एकारी पातु मान्देवी मूलाधारस्वरूपिणी |
इकारी पातु मान्देवी भूरि सर्वसुखप्रदा || ८ ||
लकारी पातु मान्देवी इन्द्राणी वरवल्लभा |
ह्रींकारी पातु मान्देवी सर्वदा शम्भुसुन्दरी || ९ ||
एतैर्वर्णैर्महामाया शम्भवी पातु मस्तकम् |
ककारे पातु मान्देवी शर्वाणी हरगेहिनी || १० ||
मकारे पातु मान्देवी सर्वपापप्रणाशिनी |
प्.२५९) ककारे पातु मान्देवी कामरूपधरा सदा || ११ ||
ककारे पातु मान्देवी शम्बरारिप्रिया सदा |
पकारी पातु मान्देवी धराधरणिरूपधृक् || १२ ||
ह्रींकारी पातु मान्देवी आकारार्द्धशरीरिणी |
एतैर्वर्णैर्महामाया कामराहुप्रियाऽवतु || १३ ||
मकारः पातु मान्देवी सावित्री सर्वदायिनी |
ककारः पातु सर्वत्र कलाम्बरस्वरूपिणी || १४ ||
लकारः पातु मान्देवी लक्ष्मीः सर्वसुलक्षणा |
ह्रीं पातु मान्तु सर्वत्र देवी त्रिभुवनेश्वरी || १५ ||
एतैर्वर्णैर्महामाया पातु शक्तिस्वरूपिणी |
वाग्भवम्मस्तकमम्पातु वदनङ्कामराजिका || १६ ||
शक्तिस्वरूपिणी पातु हृदय/ ययन्त्रसिद्धिदा |
सुन्दरी सर्वदा पातु सुन्दरी परिरक्षति || १७ ||
रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी |
नानालङ्कारस/ययुक्ता सुन्दरी पातु सर्वदा || १८ ||
सर्वाङ्गसुन्दरी पातु सर्वत्र शिवदायिनी |
जगदाह्लादजननी शम्भुरूपा च मां सदा || १९ ||
सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिनी |
सर्वलक्ष्मीमयी देवी परमानन्ददायिनी || २० ||
पातु मां सर्वदा देवी नानाशङ्खनिधिः शिवा |
पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी || २१ ||
दक्षिणामूर्त्तिर्माम्पातु ऋषिः सर्वत्र मस्तके |
पङ्क्तिश्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी || २२ ||
गन्धाष्टकात्मिका पातु हृदयं शङ्करी सदा |
सर्वसम्मोहिनी पातु पातु सङ्क्षोभिणी सदा || २३ ||
सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी |
क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु || २४ ||
आकर्षिणी सदा पातु सम्मोहिनी सदावतु |
रतिर्देवी सदा पातु भगाङ्गा सर्वदावतु || २५ ||
महेश्वरी सदा पातु कौमारी सर्वदावतु |
सर्वाह्लादनकारी माम्पातु सर्ववशङ्करी || २६ ||
क्षेमङ्करी सदा पातु सर्वाङ्गसुन्दरी तथा |
सर्वाङ्गयुवतिः सर्वं सर्वसौभाग्यदायिनी || २७ ||
प्. २६०) वाग्देवी सर्वदा पातु वाणिनी सर्वदावतु |
वशिनी सर्वदा पातु महासिद्धिप्रदा सदा || २८ ||
सर्वविद्राविणी पातु गणनाथः सदावतु |
दुर्गा देवी सदा पातु बटुकः सर्वदावतु || २९ ||
क्षेत्रपालः सदा पातु पातु चावरिशान्तिका |
अनन्तः सर्वदा पातु वराहः सर्वदावतु || ३० ||
पृथिवी सर्वदा पातु स्वर्णसिंहासनन्तथा |
रक्तामृतञ्च सततम्पातु मां सर्वकालतः || ३१ ||
सुरार्णवः सदा पातु कल्पवृक्षः सदावतु |
श्वेतच्छत्रं सदा पातु रक्तदीपः सदावतु || ३२ ||
नन्दनोद्यानं सततम्पातु मां सर्वसिद्धये |
दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा || ३३ ||
वाहनानि सदा पान्तु अस्त्राणि पान्तु सर्वदा |
शस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा || ३४ ||
सिद्धाः पान्तु सदा देवी सर्वसिद्धिप्रदावतु |
सर्वाङ्गसुन्दरी देवी सर्वदावतु मान्तथा || ३५ ||
आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका |
सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी || ३६ ||
पृथग्देवालये घोरे सङ्कटे दुर्गमे गिरौ |
अरण्ये प्रान्तरे वापि पातु मां सुन्दरी सदा || ३७ ||
इदङ्कवचमित्युक्तम्मन्त्रोद्धारश्च पार्वति |
यः पठेत्प्रयतो भूत्वा त्रिसन्ध्यन्नियतः शुचिः || ३८ ||
तस्य सर्वार्त्थसिद्धिः स्याद्यद्यन्मनसि वर्त्तते |
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा || ३९ ||
स्वयम्भूकुसुमैः शुक्लैर्ब्भूमिपुत्रे शनौ सुरे |
श्मशाने प्रान्तरे वापि शून्यागारे शिवालये || ४० ||
स्वशक्त्या गुरुणा यन्त्रम्पूजयित्वा कुमारिकाः |
तन्मनुम्पूजयित्वा च गुरुपङ्क्तिन्तथैव च || ४१ ||
देव्यै बलिन्निवेद्याथ नरमार्जारसूकरैः |
नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः || ४२ ||
धृत्वा सुवर्णमध्यस्तङ्कण्ठे वा दक्षिणे भुजे |
सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा || ४३ ||
धारयित्वा च कवचं सर्वसिद्धि/ ल्लभेन्नरः |
कवचस्य च माहात्म्यन्नाह/ व्वर्षशतैरपि || ४४ ||
प्. २६१) शक्नोमि तु महेशानि वक्तुन्तस्य फलन्तु यत् |
न दुर्ब्भिक्षफलन्तत्र न चापि पीडनन्तथा || ४५ ||
सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् || ४६ ||
सर्वरक्षाकरञ्जन्तोश्चतुर्वर्गफलप्रदम् |
यत्र कुत्र न वक्तव्यन्न दातव्यङ्कदाचन || ४७ ||
मन्त्रम्प्राप्य विधानेन पूजयेत्सततं सुधीः |
तत्रापि दुर्ल्लभम्मन्ये कवचन्देवरूपिणम् || ४८ ||
गुरोः प्रसादमासाद्य विद्याम्प्राप्य सुगोपिताम् |
तत्रापि कवचन्दिव्यन्दुर्ल्लभम्भुवनत्रये || ४९ ||
श्लोक/ व्वा स्तवमेक/ व्वा यः पठेत्प्रयतः शुचिः |
तस्य सर्वार्त्थसिद्धिः स्याच्छङ्करेण प्रभाषितम् || ५० ||
गुरुर्द्देवो हरः साक्षात्पत्नी तस्य च पार्वती |
अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः || ५१ ||
इति श्रीरुद्रयामले भैरवभैरवीस/वादे श्रीभैरवीकवचं
सम्पूर्णम् ||
अथ हृदयम्
मेरौ गिरिवरेशानी शिवन्ध्यानपरायणम् |
पार्वती परिपप्रच्छ परानुग्रहवाञ्छया || १ ||
श्रीपार्वत्युवाच
भगवंस्त्वन्मुखाम्भोजाच्छ्रुता धर्मा अनेकशः |
पुनश्श्रोतुं समिच्छामि भैरवीस्तोत्रमुत्तमम् || २ ||
श्रीशङ्कर उवाच
शृणु देवि प्रवक्ष्यामि भैरवीहृदयाह्वयम् |
स्तोत्रन्तु परमम्पुण्यं सर्वकल्याणकारणम् || ३ ||
यस्य श्रवणमात्रेण मङ्गलम्भवति ध्रुवम् |
विना ध्यानादिना वापि भैरवी परितुष्यति || ४ ||
ओमस्य श्रीभैरवीहृदयमन्त्रस्य दक्षिणामूर्त्तिरृषिः पङ्क्तिश्छन्दो
भयविध्वंसिनी भैरवी देवता हकारो बीजं रींशक्ति रैःकीलकं
सर्वभयविध्वंसनार्त्थे पाठे विनियोगः ||
अथाङ्गन्यासः
ओंह्रींहृदयायनमः, ओंश्रींशिरसेस्वाहा, ओं-ऐंशिखायैवषट्,
ओंह्रींकवचायहुम्, ओंश्रींनेत्रत्रयायवौषट्, ओं-ऐं-अस्त्रायफट् ||
एवं करन्यासः || अथ ध्यानम् ||
प्. २६२) देवैर्द्ध्येयान्त्रिनेत्रामसुरदलघनारण्यरोराग्निरूपां
रौद्रीं रक्ताम्बराढ्यां रतिघटिघटितोरोजयुग्मोग्ररूपाम् |
चन्द्रार्द्धभ्राजिभव्याभरणकरलसद्भालबिम्बाम्भवानीं
सिन्दूरापूरिताङ्गीन्त्रिभुवनजननीम्भैरवीम्भावयामि || १ ||
भवभ्रमत्समस्तभूतवेदमार्गदायिनीन्दुरन्तदुःखदारिणी/
विदारिणीं सुरद्रुहाम् |
भवप्रदाम्भवान्धकारभेदनप्रभाकरामितप्रभाम्भवच्छिदाम्ब्
हजामि भैरवीं सदा || १ ||
उरः प्रलम्बिताहिमाल्यचन्द्रभालभूषणान्नवाम्बुदप्रभां
सरोजचारुलोचनत्रयाम् | सुपर्ववृन्दवंदितां
सुरापदन्तकारिकाम्भवानुभावभाविनीम्भजामि भैरवीं सदा || २ ||
अखण्डभूमिमण्डलैकभारधीरधारिणीं सुभक्तिभावितात्मना/
व्विभूतिभव्यदायिनीम् |
भवप्रपञ्चकारिणीं व्विहारिणीम्भवाम्बुधौ भवस्य
हृद्यभाविनीम्भजामि भैरवीं सदा || ३ ||
शरच्चमत्कृतार्च्च्यचन्द्रचंद्रिकाविरोधिकप्रभावतीमुखाब्जमञ्जुम
अधुरीमिलद्गिराम् ||
भुजङ्गमालया नृमुण्डमालया च मण्डितां
सुभक्तिमुक्तिभूतिदाम्भजामि भैरवीं सदा || ४ ||
सुधांशुसूर्यवह्निलोचनत्रयान्विताननान्नरान्तकान्तकप्रभूतिपर्वद्
अत्तदक्षिणाम् |
समुण्डचण्डखण्डनप्रचण्डचन्द्रहासिनीन्तमोमतिप्रकाशिनीम्भजा
मि भैरवीं सदा || ५ ||
त्रिशूलिनीन्त्रिपुण्ड्रिनीं
त्रिखण्डिनीन्त्रिदण्डिनीङ्गुणत्रयातिरक्तमत्यचिन्त्यचित्स्वरूपिणीम् |
सवासवादितेयवैरिवृन्दवंशभेदिनीम्भवप्रभावभाविनीम्भजामि
भैरवीं सदा || ६ ||
सुदीप्तकोटिबालभानुमण्डलप्रभाङ्गभादिगन्तदारितान्धकारभूरि
पुञ्जपद्धतिम् |
द्विजन्मनित्यधर्मनीतिवृद्धिलग्नमानसां सरोजरोचिराननाम्भजामि
भैरवीं सदा || ७ ||
चलत्सुवर्णकुण्डलप्रभोल्लसत्कपोलरुक्समाकुलाननाम्बुजस्थशुभ्रकीर
नासिकाम् |
सचन्द्रभालभैरवस्य दर्शनस्पृहच्चकोरनीलकञ्जदर्शनाम्भजामि
भैरवीं सदा || ८ ||
इमं हृदाख्यसङ्गतस्तवम्पठन्ति येऽनिशम्पतन्ति ते कदापि
नान्धकूपरूपवद्भवे |
प्. २६३) भवन्ति च प्रभूतिभक्तिमुक्तिमन्त उज्ज्वलास्ततः प्रसीदति
प्रमोदमानसा च भैरवी || ९ ||
यशोजगत्यजस्रमुज्ज्वलञ्जयत्यलं समे न तस्य जायते पराजयोञ्जसा
जगत्त्रये |
सदा स्तुतिं शुभामिमाम्पठत्यनन्यमानसो भवन्ति तस्य सम्पदोऽपि
सन्ततं सुखप्रदाः || १० ||
जपपूजादिकास्सर्वाः स्तोत्रपाठादिकाश्च याः |
भैरवीहृदयस्यास्य कलान्नार्हन्ति षोडशीम् || ११ ||
किमत्र बहुनोक्तेन शृणु देवि महेश्वरि |
नातः परतरङ्किञ्चित्पुण्यमस्ति जगत्त्रये || १२ ||
इति श्रीभैरवीकुलसर्वस्वे श्रीभैरवीहृदयस्तोत्रं समाप्तम् ||
अथ शतनाम
श्रीदेव्युवाच
कैलासवासिन्भगवन्प्राणेश्वर कृपानिधे |
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् || १ ||
न श्रुतन्देवदेवेश वद मान्दीनवत्सल |
श्रीशिव उवाच
शृणु प्रिये महागोप्यन्नाम्नामष्टोत्तरं शतम् || २ ||
भैरव्याः शुभदं सेव्यं सर्वसम्पत्प्रदायकम् |
यस्यानुष्ठानमात्रेण किन्न सिद्ध्यति भूतले || ३ ||
ओं भैरवी भैरवाराध्या भूतिदा भूतभावना |
आर्या ब्राह्मी कामधेनुः सर्वसम्पत्प्रदायिनी || ४ ||
त्रैलोक्यवन्दिता देवी महिषासुरमर्द्दिनी |
मोहघ्नी मालतीमाला महापातकनाशिनी || ५ ||
क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः |
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी || ६ ||
देवकी देवमाता च देवदुष्टविनाशिनी |
दामोदरप्रिया दीर्ग्घा दुर्गा दुर्गतिनाशिनी || ७ ||
लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा |
प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी || ८ ||
प्रभावती गुणवती गणमाता गुहेश्वरी |
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी || ९ ||
प्. २६४) महामारी महामोहा महाक्रोधा महानदी |
महापातकसंहन्त्री महामोहप्रदायिनी || १० ||
विकराला महाकाला कालरूपा कलावती |
कपालखट्वाङ्गधरा खड्गखर्परधारिणी || ११ ||
कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता |
कौमोदकी कुमुदिनी कीर्त्त्या कीर्त्तिप्रदायिनी || १२ ||
नवीना नीरदा नित्या नन्दिकेश्वरपालिनी |
घर्ग्घरा घर्ग्घरारावा घोरा घोरस्वरूपिणी || १३ ||
कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी |
किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी || १४ ||
महोन्मत्त महामत्ता महाविद्या महीमयी |
महायज्ञा महावाणी महामन्दरधारिणी || १५ ||
मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी |
अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी || १६ ||
दीर्घदंष्ट्रा दीर्ग्घमुखी दीर्ग्घघोणा च दीर्ग्घिका |
दनुजान्तकरी दुष्टा दुःखदारिद्र्यभञ्जिनी || १७ ||
दुराचारा च दोषघ्नी दमपत्नी दयापरा |
मनोभवा मनुमयी मनुवंशप्रवर्द्धिनी || १८ ||
श्यामा श्यामतनुः शोभा सौम्या शम्भुविलासिनी |
इति ते कथितन्दिव्यन्नाम्नामष्टोत्तरं शतम् || १९ ||
भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि |
अप्रकाश्यमिदङ्गोप्यम्पठनीयम्प्रयत्नतः || २० ||
देवीन्ध्यात्वा सुराम्पीत्वा मकारपञ्चकैः प्रिये |
पूजयेत्सततम्भक्त्या पठेत्स्तोत्रमिदं शुभम् || २१ ||
षण्मासाभ्यन्तरे सोऽपि गणनाथसमो भवेत् |
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे || २२ ||
सर्वञ्जानासि सर्वज्ञे पुनर्माम्परिपृच्छसि |
न देयम्परशिष्येभ्यो निन्दकेभ्यो विशेषतः || २३ ||
इति श्रीभैरव्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ||
अथ सहस्रनाम
महाकालभैरव उवाच
अथ वक्ष्ये महेशानि देव्या नामसहस्रकम् |
यत्प्रसादान्महादेवि चतुर्वर्गफल/ ल्लभेत् || १ ||
प्. २६५) सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् |
सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः || २ ||
नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् |
यस्यां सर्वं समुत्पन्न/ ययस्यामद्यापि तिष्ठति || ३ ||
लयमेष्यति तत्सर्वं लयकाले महेश्वरि |
नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् || ४ ||
सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् |
अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवानृषिः,
पङ्क्तिश्छन्दः, आद्या शक्तिः, भगवती त्रिपुरभैरवी देवता,
सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ||
त्रिपुरा परमेशानी योगसिद्धिनिवासिनी |
सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी ||
सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा |
योगिनी योगमाता च योगसिद्धिप्रवर्त्तिनी ||
योगिध्येया योगमयी योगयोगनिवासिनी |
हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी ||
कालमाता कालरात्रिः काली कामलवासिनी |
कमला कान्तिरूपा च कामराजेश्वरी क्रिया ||
कटुः कपटकेशा च कपटा कुलटाकृतिः |
कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा ||
घोराकारा घोरतरा धर्माधर्मप्रदा मतिः |
घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा ||
सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः |
अतिसत्या सत्यवती सत्यसङ्केतवासिनी ||
क्षमा भीमा तथा भीमा भीमनादप्रवर्त्तिनी |
भ्रमरूपा भयहरा भयदा भयनाशिनी ||
श्मशानवासिनी देवी श्मशानालयवासिनी |
शवासना शवाहारा शवदेहा शिवाशिवा ||
कण्ठदेशशवाहारा शवकङ्कणधारिणी |
दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी ||
सत्यदेहा सत्यहारा सत्यवादिनिवासिनी |
सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी ||
असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी |
मायामतिर्महामाया महामखविलासिनी ||
गलद्रुधिरधारा च मुखद्वयनिवासिनी |
प्. २६६) सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी ||
असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी |
सदासत्या महासत्या मांसपाशा सुमांसका ||
मांसाहारा मांसधरा मांसाशी मांसभक्षका |
रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा ||
रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी |
रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका ||
स्वयम्भूकुसुमस्था च स्वयम्भूकुसुमोत्सुका |
स्वयम्भूकुसुमाहारा स्वयम्भूनिन्दकासना ||
स्वम्भूपुष्पकप्रीता स्वयम्भूपुष्पसम्भवा |
स्वयम्भूपुष्पहाराढ्या स्वयम्भूनिन्दकान्तका ||
कुण्डगोलविलासी च कुण्डगोलसदामतिः |
कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा ||
शुक्रात्मिका शुक्रकरा सुशुक्रा च सुशुक्तिका |
शुक्रपूजकपूज्या च शुक्रनिन्दकनिन्दका ||
रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका |
रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका ||
मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया |
मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ||
केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी |
क्रूराङ्गी कुलिशाङ्गी च चक्राङ्गी चक्रसम्भवा ||
चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी |
निम्ननाभी भीतिहरा भयदा भयहारिका ||
भयप्रदा भयभीता अभीमा भीमनादिनी |
सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा ||
सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः |
रक्तारञ्जितनासा च सुनासा निम्ननासिका ||
खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा |
कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका ||
अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी |
चाण्डाली चण्डिका चण्डशब्दरूपा च चञ्चला ||
चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः |
जलदा जयदा योगा जगदानन्दकारिणी ||
जगद्वन्द्या जगन्माता जगती जगतक्षमा |
जन्या जयजनेत्री च जयिनी जयदा तथा ||
प्. २६७) जननी च जगद्धात्री जयाख्या जयरूपिणी |
जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी ||
जयिनी जयमाता च जया च विजया तथा |
खड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ||
खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा |
खड्गदा खड्गभावा च खड्गदेहसमुद्भवा ||
खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी |
शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः ||
वालिनी भिन्दिपाली च पाशी च अङ्कुशी शरी |
धनुषी चटकी चर्मा दन्ती च कर्णनालिकी ||
मुसली हलरूपा च तूणीरगणवासिनी |
तूणालया तूणहरा तूणसम्भवरूपिणी ||
सुतूणी तूणखेदा च तूणाङ्गी तूणवल्लभा |
नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा ||
लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी |
लाभहारा लाभकरा लाभिनी लाभरूपिणी ||
धरित्री धनदा धान्या धन्यरूपा धरा धनुः |
धुरशब्दा धुरामान्या धराङ्गी धननाशिनी ||
धनहा धनलाभा च धनलभ्या महाधनुः |
अशान्ता शान्तिरूपा च श्वासमार्गनिवासिनी ||
गगणागणसेव्या च गणाङ्गावागवल्लभा |
गणदा गणहा गम्या गमनागमसुन्दरी ||
गम्यदा गणनाशी च गदहा गदवर्द्धिनी |
स्थैर्या च स्थैर्यनाशा च स्थैर्यान्तकरणी कुला ||
दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी |
प्रियहा प्रियभव्या च प्रियप्रेमाङ्घ्रिपातनुः ||
प्रियजा प्रियभव्या च प्रियस्था भवनस्थिता |
सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्यबर्हिणी ||
चञ्चला चपला चोला चपलाङ्गनिवासिनी |
गौरी काली तथा छिन्ना माया मान्या हरप्रिया ||
सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी |
त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी ||
भैरवी भैरवस्था च भैरवस्य प्रिया तनुः |
भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा ||
प्.२६८) कालदा कालरात्रिश्च कामा कात्यायनी क्रिया |
क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा ||
क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः |
प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः ||
परमः पुरुषश्चैव माया नारायणी मतिः |
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ||
वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा |
भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना ||
राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा |
हाकिनी राकिनी भीता गन्धर्वा गन्धवाहिनी ||
केकरी कोटराक्षी च निर्मांसालूकमांसिका |
ललज्जिह्वा सुजिह्वा च बालदा बालदायिनी ||
चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा |
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ||
शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा |
पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा ||
सुकल्पा कल्पहस्ता च कल्पवृक्षकरी हनुः |
कल्पाख्या कल्पभव्या च कल्पानन्दकवन्दिता ||
सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी |
उग्रमुखी च सुमुखी काकास्या विकटानना ||
कृकलास्या च सन्ध्यास्या मुकुलीशा रमाकृतिः |
नानामुखी च नानास्या नानारूपप्रधारिणी ||
विश्वार्च्च्या विश्वमाता च विश्वाख्या विश्वभाविनी |
सूर्या सुर्यप्रभा शोभा सूर्यमण्डलसंस्थिता ||
सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना |
तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः ||
सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा |
युगदा योगहा योग्या योग्यहा योगवर्द्धिनी ||
वह्निमण्डलसंस्था च वह्निमण्डलमध्यगा |
वह्निमण्डलरूपा च वह्निमण्डलसञ्ज्ञका ||
वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी |
वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा ||
धूम्रार्च्चिषा उज्ज्वलिनी तथा च विस्फुलिङ्गिनी |
शूलिनी च सुरूपा च कपिला हव्यवाहिनी ||
प्. २६९) नाना तेजस्विनी देवी परब्रह्मकुटुम्बिनी |
ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी ||
परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी |
पुण्यदा पुण्यनाम्नी च पुण्यगन्धा प्रियातनुः ||
पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका |
पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका ||
पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा |
पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा ||
पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी |
पुरुषाङ्गी च पुरुषी पुरुषस्य कला सदा ||
सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा |
पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका ||
पुष्पहा पुष्पमाला च पुष्पनिन्दकनाशिनी |
नक्षत्रप्राणहन्त्री च नक्षत्रालक्षवन्दका ||
लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी |
नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया ||
महामाल्या महामान्या महती मातृपूजिता |
महामहाकनीया च महाकालेश्वरी महा ||
महास्या वन्दनीया च महाशब्दनिवासिनी |
महाशङ्खेश्वरी मीना मत्स्यगन्धा महोदरी ||
लम्बोदरी च लम्बोष्ठी लम्बनिम्नतनूदरी |
लम्बोष्ठी लम्बनासा च लम्बघोणा ललत्सुका ||
अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी |
लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका ||
चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा |
वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी ||
रमा रामा सुबाला च रमणीयस्वभाविनी |
सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा ||
कामप्रिया कामकरा कामाङ्गी रमणी रतिः |
रतिप्रिया रति रती रतिसेव्या रतिप्रिया ||
सुरभिः सुरभी शोभा दिक्शोभा शुभनाशिनी |
सुशोभा च महाशोभाऽतिशोभा प्रेततापिनी ||
लोभिनी च महालोभा सुलोभा लोभवर्द्धिनी |
लोभाङ्गी लोभवन्द्या च लोभाही लोभभासका ||
लोभप्रिया महालोभा लोभनिन्दकनिन्दका |
प्. २७०) लोभाङ्गवासिनी गन्धविगन्धा गन्धनाशिनी ||
गन्धाङ्गी गन्धपुष्टा च सुगन्धा प्रेमगन्धिका |
दुर्ग्गन्धा पूतिगन्धा च विगन्धा अतिगन्धिका ||
पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी |
पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ||
रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा |
रक्तोत्पलसुगन्धा च रक्तोत्पलनिवासिनी ||
रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा |
रक्तोत्पलसुनेत्रा च रक्तोत्पलस्वरूपधृक् ||
वैष्णवी विष्णुपूज्या च वैष्णवाङ्गनिवासिनी |
विष्णुपूजकपूज्या च वैष्णवे संस्थिता तनुः ||
नारायणस्य देहस्था नारायणमनोहरा |
नारायणस्वरूपा च नारायणमनःस्थिता ||
नारायणाङ्गसम्भूता नारायणप्रियातनुः |
नारी नारायणीगण्या नारायणगृहप्रिया ||
हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा |
संहारी हरदेहस्था हरपूजनतत्परा ||
हरदेहसमुद्भूता हराङ्गवासिनीकुहूः |
हरपूजकपूज्या च हरवन्दकतत्परा ||
हरदेहसमुत्पन्ना हरक्रीडासदागतिः |
सुगणासङ्गरहिता असङ्गासङ्गनाशिनी ||
निर्ज्जना विजना दुर्गा दुर्गक्लेशनिवारिणी |
दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका ||
प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा |
प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका ||
डाकिनी योगिनी कालरात्रिः कालप्रिया सदा |
कालरात्रिहरा काला कृष्णदेहा महातनुः ||
कृष्णाङ्गी कुटिलाङ्गी च वज्राङ्गी वज्ररूपधृक् |
नानादेहधरा धन्या षट्चक्रक्रमवासिनी ||
मूलाधारनिवासी च मूलाधारस्थिता सदा |
वायुरूपा महारूपा वायुमार्गनिवासिनी ||
वायुयुक्ता वायुकरा वायुपूरकपूरका |
वायुरूपधरा देवी सुषुम्नामार्गगामिनी ||
देहस्था देहरूपा च देहध्येया सुदेहिका |
नाडीरूपा महीरूपा नाडीस्थाननिवासिनी ||
इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी |
सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ||
अमृतेशी महाशाली शृङ्गाराङ्गनिवासिनी |
प्. २७१) उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी ||
महाप्रलययुक्ता च सृष्टिसंहारकारिणी |
स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा ||
हव्यस्था हव्यभक्षा च हव्यदेहसमुद्भवा |
हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा ||
सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा |
यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ||
अयोनिजा सती सत्या असती कुटिलातनुः |
अहल्या गौतमी गम्या विदेहा देहनाशिनी ||
गान्धारी द्रौपदी दूती शिवप्रिया त्रयोदशी |
पञ्चदशी पौर्णमासी चतुर्द्दशी च पञ्चमी ||
षष्ठी च नवमी चैव अष्टमी दशमी तथा |
एकादशी द्वादशी च द्वाररूपीभयप्रदा ||
सङ्क्रान्त्या सामरूपा च कुलीना कुलनाशिनी |
कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी ||
विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा |
नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका ||
आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी |
गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही ||
दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका |
तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी ||
वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका |
प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी ||
जया च विजया चैव महिषासुरघातिनी |
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ||
निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी |
काशी काशीनिवासी च मधुरा पार्वती परा ||
अपर्णा चण्डिका देवी मृडानी चाम्बिका कला |
शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः ||
रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम् |
अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात् ||
महापातकयुक्तोऽपि मुच्यते नात्र संशयः |
ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ||
महापातककोट्यस्तु तथा चैवोपपातकाः |
स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ||
प्. २७२) सर्व/ व्वा श्लोकमेक/ व्वा पठनात्स्मरणादपि |
पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ||
राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे |
प्रान्तरे पर्वते वापि नौकाया/ व्वा महेश्वरि ||
वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले |
पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ||
अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् |
सर्वशास्त्रपरो विप्रः सर्वयज्ञफल/ ल्लभेत् ||
अग्निवायुजलस्तम्भङ्गतिस्तम्भ/ विवस्वतः |
मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ||
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः |
गुरुणा वैष्णवैर्वापि सर्वयज्ञफल/ ल्लभेत् ||
वशीकरणमत्रैव जायन्ते सर्वसिद्धयः |
प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ||
पठेद्वा पाठयेद्वापि सर्वयज्ञफल/ ल्लभेत् |
वादी मूको भवेद्दुष्टो राजा च सेवको यथा ||
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि |
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ||
गुरुणा वैष्णवैर्वापि सर्वयज्ञफल/ ल्लभेत् |
धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ||
स्त्रीणा/ व्वामकरे धार्यम्पुमान्दक्षकरे तथा |
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ||
शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् |
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ||
शून्यागारे च देवेशि लिखेद्यत्नेन साधकः |
सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ||
मीनराशौ गुरुगते लिखेद्यत्नेन साधकः |
रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ||
सुगन्धिकुसुमैः शुक्रैः सुगन्धिगन्धचन्दनैः |
मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ||
लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः |
कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ||
पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः |
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ||
अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः |
सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ||
नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् |
प्. २७३) न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ||
सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः |
बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ||
स्वयम्भूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् |
पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ||
ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा |
अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ||
मासमेकम्पठेद्यस्तु त्रिसन्ध्य/ व्विधिनामुना |
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ||
सदा चानेन विधिना तथा मासत्रयेण च |
कृतकार्यं भवेद्देवि तथा मासचतुष्टये ||
दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् |
सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ||
सप्तमे खेचरत्वञ्च अष्टमे च वृहद्द्युतिः |
नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ||
एकादशे राजवश्यो द्वादशे तु पुरन्दरः |
वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ||
समग्रं श्लोकमेक/ व्वा यः पठेत्प्रयतः शुचिः |
स पूजाफलमाप्नोति भैरवेण च भाषितम् ||
आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः |
पञ्चम्याञ्च तथा षष्ठ्या/ ययत्र कुत्रापि तिष्ठति ||
शङ्का न विद्यते तत्र न च मायादिदूषणम् |
वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् ||
किमन्यद्बहुना देवि सर्वाभीष्टफल/ ल्लभेत् |
इति श्रीविश्वसारे महाभैरवविरचितं
श्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ||
इति शाक्तप्रमोदे त्रिपुरभैरवीतन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
सप्तमं
धूमावतीतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
श्रीगणेशाय नमः
अथ शाक्तप्रमोदः
धूमावतीतन्त्रम्
अथ धूमावतीध्यानम्
विवर्णा चञ्चला दुष्टा दीर्ग्घा च मलिनाम्बरा |
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा ||
काकध्वजरथारूढा विलम्बितपयोधरा |
शूर्पहस्तातिरूक्षाक्षा धूतहस्ता वरान्विता ||
प्रवृद्धघोणा तु भृशङ्कुटिला कुटिलेक्षणा |
क्षुत्पिपासार्द्दिता नित्यम्भयदा कलहास्पदा ||
प्. २७८) अथ यन्त्रोद्धारः
अनुक्तकल्पे यन्त्रन्तु लिखेत्पद्मन्दलाष्टकम् |
षट्कोणकर्णिकन्तत्र वेदद्वारोपशोभितम् ||
अथ मन्त्रोद्धारः
दान्तौ सर्वीशबिन्द्वन्तबीजे धूमावती द्विठः |
धूमावतीमनुः प्रोक्तो वैरिनिग्रहकारकः ||
अथ मन्त्रः
धू/धू/धूमावतीठः ठः
अथ पूजाविधिः
तत्र प्रथममृष्यादिन्यासङ्कुर्यात् || शिरसि पिप्पलादमुनये नमः,
मुखे निचृच्छन्दसेनमः, हृदि धूमावत्यै नमः ||
अथाङ्गन्यासः
ओं धा/हृदयायनमः, ओंधींशिरसेस्वाहा, ओंधू/शिखायैवषट्,
ओंधैंकवचायहूम्, ओंधौंनेत्रत्रयायवौषट्, ओंधः-अस्त्रायफट् |
ततः करन्यासः
ओं धा/ अङ्गुष्ठाभ्यान्नमः, ओं धीं तर्ज्जनीभ्यांस्वाहा,
ओं धू/मध्यमाभ्या/व्वषट्, ओं धैं अनामिकाभ्यांहूम्,
ओं धौंकनिष्ठाभ्या/व्वौषट् || ओं धः करतलकरपृष्ठाभ्याम्फट् ||
ततो ध्यानम्
विवर्णा चञ्चला कृष्णा दीर्ग्घा च मलिनाम्बरा |
विमुक्तकुन्तला रूक्षा विधवा विरलद्विजा || १ ||
काकध्वजरथारूढा विलम्बितपयोधरा |
प्. २७९) शूर्पहस्तातिरूक्षाक्षा धूतहस्ता वरान्विता || २ ||
प्रवृद्धघोणा तु भृशङ्कुटिला कुटिलेक्षणा |
क्षुत्पिपासार्द्दिता नित्यम्भयदा कलहास्पदा || ३ ||
इति ध्यात्वा प्राणादीन्प्रतिष्ठापयेत् || तद्यथा ||
आ/ ह्री/ क्रों य/ र/ ल/ व/ श/ ष/ स/ हों ओं क्ष/ स/ ह/ सः ह्री/ ओं ह/ स/ः
श्रीमद्धूमावत्याः प्राणा इह प्राणाः ||
आ/ ही/ क्रों य/ र/ ल/ व/ श/ ष/ स/ हों ओं क्ष/ स/ ह/ सः ह्रीं ओं ह/सः
श्रीमद्धूमावत्या जीव इह स्थितः |
ओं ह्रीं क्रों य/ र/ ल/ व/ श/ ष/ स/ हों ओं क्ष/ स/ ह/सः ह्रीं ओं ह/सः
श्रीमद्धूमावत्यास्सर्वेन्द्रियाणि इह स्थितानि |
आ/ ह्रीं क्रों य/ र/ ल/ व/ श/ ष/ स/ हों ओं क्ष/ स/ ह/सः
श्रीमद्धूमावत्या वाङ्मनश्चक्षुश्श्रोत्रघ्राणप्राणा इहागत्य
सुखञ्चिरन्तिष्ठन्तु स्वाहा ||
ततो देवतारूपमात्मानन्ध्यात्वा ||
प्राणायाममृष्यादिन्यासषडङ्गन्यासकरन्यासान्विधाय
मातृकन्यासमाचरेत् || तत्र ओमस्य मातृकामन्त्रस्य ब्रह्मा
ऋषिर्गायत्री छन्दो मातृकासरस्वतीदेवता हलो बीजानि
स्वराश्शक्तयस्तदुभयङ्कीलकमभीष्टसिद्ध्यर्त्थे विनियोगः |
शिरसि ब्रह्मणे ऋषये नमः | मुखे गायत्रीछन्दसे नमः |
हृदि मातृकासरस्वत्यै देवतायै नमः | लिङ्गे हल्भ्यो बीजेभ्यो नमः |
पादयोस्स्वरेभ्यश्शक्तिभ्योनमः | सर्वांगे तदुभयकीलकाय नमः |
अथ षडङ्गन्यासः
अ/ क/ ख/ ग/ घ/ ङ/ आ/ हृदयाय नमः,
इ/ च/ छ/ ज/ झ/ ञ/ ई/ शिरसे स्वाहा,
उ/ ट/ ठ/ ड/ ढ/ ण/ ऊ/ शिखायैवषट्,
ए/ त/ थ/ द/ ध/ न/ ऐं कवचायहुम्,
ओं प/ फ/ ब/ भ/ म/ औं नेत्रत्रयायवौषट्,
अ/ य/ र/ ल/ व/ श/ ष/ ह/ क्ष/ अः अस्त्रायफट् ||
एवङ्करन्यासो यथा
अ/ क/ ख/ ग/ घ/ ङ/ आ/ अङ्गुष्ठाभ्यान्नमः,
इ/ च/ छ/ ज/ झ/ ञ/ ई तर्ज्जनीभ्यां स्वाहा ,
उ/ ट/ ठ/ ड/ ढ/ ण/ ऊ/ मध्यमाभ्यांव्वषट्,
ए/ त/ थ/ द/ ध/ न/ ऐं अनामिकाभ्यांहूम्,
ओं प/ फ/ ब/ भ/ म/ औं कनिष्ठिकाभ्या/व्वौषट्,
अ/ य/ र/ ल/ व/ श/ ष/ स/ ह/ क्ष/ अः करतलकरपृष्ठाभ्याम्फट् ||
अथ मातृकान्यासः
ललाटे अ/नमः, मुखवृत्ते आ/नमः, दक्षनेत्रे इंनमः, वामनेत्रे
ईंनमः, दक्षकर्णे उ/नमः, वामकर्णे ऊ/नमः, दक्षनासायाम्
ऋ/नमः,
प्. २८०) वामनासायाम् ॠ/नमः, दक्षगण्डे ऌ/नमः, वामगण्डे
ॡ/नमः, ऊर्ध्वोष्ठे ए/नमः, अधरोष्ठे ऐ/नमः, ऊर्ध्वदन्तपङ्क्तौ
ओंनमः, अधोदन्तपङ्क्तौ औंनमः, शिरसि अ/नमः, मुखे अःनमः,
दक्षिणबाहुमूले क/नमः, कूर्परे ख/नमः, मणिबन्धे ग/नमः,
अङ्गुलीमूले घ/नमः, अङ्गुल्यग्रे ङ/नमः, वामबाहुमूले
च/नमः, कूर्परे छ/नमः, मणिबन्धे ज/नमः, अङ्गुलीमूले
झ/नमः, अङ्गुल्यग्रे ञ/नमः, दक्षिणोरुमूले ट/नमः, जानुनि
ठ/नमः, गुल्फे ड/नमः, अङ्गुलीमूले ढ/नमः, अङ्गुल्यग्रे
ण/नमः, वामोरुमूले त/नमः, जानुनि थ/नमः, गुल्फे द/नमः,
अङ्गुलीमूले ध/नमः, अङ्गुल्यग्रे न/नमः, दक्षपार्श्वे प/नमः,
वामपार्श्वे फ/नमः, पृष्ठे ब/नमः, नाभौ भ/नमः, उदरे
म/नमः, हृदये य/त्वगात्मनेनमः, दक्षांसे र/-असृगात्मनेनमः,
ककुदि ल/मांसात्मनेनमः, वामांसे व/मेद-आत्मनेनमः,
हृदयाद्दक्षभुजाग्रान्तं शमस्थ्यात्मनेनमः,
हृदयाद्वामभुजाग्रान्तं ष/मज्जात्मनेनमः,
हृदयाद्दक्षपादाग्रान्तं स/शुक्रात्मनेनमः,
हृदादिवामपादाग्रान्तं ह/-आत्मनेनमः,
हृदयान्मस्तकान्तं क्षंपरमात्मनेनमः ||
इतिबहिर्मातृकान्यासः || ततो मानसैरुपचौरर्द्देवीम्पूजयेत् || तत्र
प्रार्त्थयेदनेन मन्त्रेण || धूमावति स्वागतन्ते सन्निधौ भव
साम्प्रतम् || गृहाण मानसीम्पूजा/ ययथार्त्थपरिभाविताम् ||
ततोऽष्टोत्तरशतम्मूलमन्त्र/ व्वर्णमयया मालया जपेत् || इति मानसी
पूजाविधिः ||
अथ बहिः पूजा ||
तत्र प्राणायामषडङ्गन्यासादि विधाय
प्रथमञ्चतुःषोडशाष्टवारजप्तेन मूलमन्त्रेण
पूरककुम्भकरेचकाख्यम्प्राणायामत्रयङ्कृत्वा ततः
षडङ्गन्यासादि कुर्यात् | तद्यथा |
धांहृदयायनमः, धींशिरसेस्वाहा, धू/शिखायैवषट्,
धैंकवचायहूम्, धौंनेत्रत्रयायवौषट्, धः-अस्त्रायफट् || इति
छोटिकया दिग्बन्धनङ्कुर्यात् ||
एवङ्करन्यासः ||
धां-अङ्गुष्ठाभ्यान्नमः, धींतर्ज्जनीभ्यांस्वाहा,
धू/मध्यमाभ्यांव्वषट्,
प्. २८१) धैं-अनामिकाभ्यांहूम्, धौंकनिष्ठिकाभ्या/व्वौषट्,
धःकरतलकरपृष्ठाभ्याम्फट् ||
एवन्न्यासादि कृत्वा अर्ग्घ्यस्थापनङ्कुर्यात् || तद्यथा ||
त्रिकोणवृत्तषट्कोणचतुरस्रमण्डल/ व्विरच्य इमिति विलिख्य मूलमन्त्रेण
त्रिकोणं सम्पूज्य षडङ्गेषु षडङ्गं सम्पूज्य | चतुरस्रे
पूर्णगिरिपीठायनम इतिपूर्वे, ऊड्डीयानपीठायनम इतिदक्षिणे,
कामरूपपीठायनम इतिपश्चिमे, जालन्धरपीठायनम इत्युत्तरे || इति
सम्पूज्य || मध्ये ओं आधारशक्तयेनमः इति सम्पूज्य ||
त्रिकोणगर्ब्भषट्कोणभूषिता/ ययन्त्रिका/ मूलेन स/स्थाप्य नम इति
सामान्यार्ग्घ्यस्थजलेनाभ्युक्ष्य || गङ्गे च यमुने चैव गोदावरि
सरस्वति || नर्म्मदे सिन्धुकावेरि जलेस्मिन्सन्निधिङ्कुरु ||
ओंब्रह्माण्डोदरतीर्त्थानि करैस्स्पृष्टानि ते रवे || तेन सत्येन मे देव
तीर्त्थन्देहि दिवाकर ||
इत्यादिभिस्तीर्त्थान्यावाह्याङ्कुशमुद्रया वौषडिति पुष्पम् ||
वषडित्यनेन गालिनीमुद्राम्प्रदर्श्य, वमिति धेनुमुद्रयाऽमृतीकृत्य,
इष्टदेवतान्ध्यात्वा, सम्पूज्य सकलीकृत्य, शङ्खमुद्राम्प्रदर्श्य,
षट्कोणे षडङ्गञ्च सम्पूज्य, पूर्ववद्धूमावतीन्देवीन्ध्यात्वा
आवाहयेत् || तद्यथा || मूलमन्त्रम्पठन् ओं भगवति धूमावति
इहागच्छ इति प्रसारितसंहताङ्गुलीमूलपर्वणोरङ्गुष्ठौ निःक्षिप्य
आवाहयेत् मूलम्पठन् धूमावति देवि इह तिष्ठ इत्यधोमुख्या
मुद्रया स्थापयेत् || मूलम्पठन् || पद्ममुद्रया
पुष्पाद्यासनन्दद्यात् || ततः ओं-अस्मिन्वरासने देवि
सुखासीनेऽक्षरात्मिके || प्रतिष्ठिता भवेः सा त्वं प्रसीद परमेश्वरि
|| मूलञ्च पठन् इह प्रतिष्ठिता भवेति पूर्वोक्तया मुद्रया
प्रतिष्ठापयेत् || पूर्वोक्तप्राणप्रतिष्ठाविधिना प्राणान्प्रतिष्ठाप्य
ततो मूलमन्त्रेणार्ग्घ्योदकेन त्रिः प्रोक्षणम् || ततः पाद्यम् ||
मूलम्पठन् || इदम्पाद्यं श्रीधूमावत्यै निवेदयामि नम इति
पादयोर्द्दद्यात् || ततो मूलम्पठन् इदमाचमनीयं श्रीधूमावत्यै
निवेदयामि नम इति मुखेद द्यात् ||
प्. २८२) मूलम्पठन् साङ्गायै सायुधायै सवाहनायै सपरिवारायै
श्रीधूमावत्यै
इमम्मधुघृतशर्क्करादधिदुग्धसङ्घात्मकम्मधुपर्कन्निवेदया
मि नम इति मुखे दद्यात् ||
मूलम्पठन् इदम्पुनराचमनीयं साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नम इति मुखे दद्यात् ||
मूलम्पठन् इदमर्ग्घ्यं साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नम इति शिरसि दद्यात् ||
मूलम्पठन् इदं हरिद्राद्युद्वर्त्तनं साङ्गायै इत्यादि
श्रीधूमावत्यै निवेदयामि नमः ||
ओं परमानन्दबोधाब्धि नमग्ननिजमूर्त्तये |
साङ्गोपाङ्गमिदं स्नानङ्कल्पयाम्य हमीश्वरी ||
मूलञ्च पठन् इदं स्नानीयं साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नम इति शतकृत्वः सहस्रकृत्वो यथाशक्ति वा स्नापयेत् ||
मूलम्पठन् इद/ व्वासस्साङ्गायै इत्यादि श्रीधूमावत्यै निवेदयामि
नम इति वासो दद्यात् ||
मूलम्पठन् इदमुत्तरीयं साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नम इत्युत्तरीयन्दद्यात् ||
मूलम्पठन् इदञ्चन्दनं साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नमः ||
मूलम्पठन् एतान् अक्षतान् साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नमः ||
मूलम्पठन् एतानि पुष्पाणि साङ्गायै इत्यादि श्रीधूमावत्यै वौषट् ||
जयध्वनि मातः स्वाहेति घण्टां सम्पूज्य मूलम्पठन्
ओंवनस्पतिरसोपेतो गन्धाढ्यः सुमनोहरः ||
आघ्रेयः सर्वदेवानान्धूपोऽयम्प्रतिगृह्यताम् || एष
धूपस्साङ्गायै इत्यादि श्रीधूमावत्यै निवेदयामि नम इति
वामहस्तेन घण्टा/ व्वादयन् दक्षतर्ज्जन्यङ्गुष्ठयोगेन
धूपमुद्राम्प्रदर्श्शयन् देवतागुणान् कीर्त्तयन् नाभिदेशतो
धूपयेत् || मूलम्पठन् एष पुष्पाञ्जलिस्साङ्गायै इत्यादि
श्रीधूमावत्यै निवेदयामि नम इति पुष्पाञ्जलित्रयन्दद्यात् ||
ओं सुप्रकाशो महादीपः सर्वतस्तिमिरापहः
सबाह्याभ्यन्तरज्योतिर्दीपोऽयम्प्रतिगृह्यताम् ||
मूलञ्च पठन् मध्याङ्गुष्ठयोगेन दीपमुद्राम्प्रदर्श्शयन् नेत्र
प्रदेशे दीपन्दर्श्शयेत् ||
प्. २८३) घृतदीपो दक्षिणे तैलदीपो वामतः ||
ओंसत्पात्रसिद्धं सहविर्व्विविधानेकभक्षणम् |
निवेदयामि देवेशि कृपया त्वङ्गृहाण तत् ||
मूलञ्च पठन् ग्रासमुद्राम्प्रदर्श्य शङ्खोदकेन निवेदयेत् ||
ओंसमस्तं देवदेवेशि सर्वावाप्तिकरम्परम् ||
अखण्डानन्दसम्पूर्णे गृहाण जलमुत्तमम् ||
इति पानीयञ्च दत्त्वा चुलुक/ व्विधिवद्दद्यात् ||
ओं एलालवङ्गकर्प्पूरनागवल्लीदलैर्युतम् ||
पूगभागेरितन्देवि ताम्बूलम्प्रतिगृह्यताम् ||
मूलञ्च पठन् इदन्ताम्बूलं साङ्गायै इत्यादि श्रीधूमावत्यै
निवेदयामि नम इति मुखप्रदेशे तत्त्वमुद्रया दद्यात् || ततः
पुष्पाञ्जलित्रयन्दद्यात् || बलिदानप्रकारेण यथाशक्ति बलिमपि दद्यात्
|| इति श्रीमद्धूमावतीपूजाविधानं सम्पूर्णम् ||
अथ स्तोत्रम्
प्रातर्या स्यात्कुमारी कुसुमकलिकया जापमाला जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा निशायाम् |
सन्ध्यायां व्वृद्धरूपा गलितकुचयुगा मुण्डमाला/
व्वहन्ती सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान् || १ ||
बद्ध्वा खट्वाङ्गकोटौ कपिलवरजटामण्डलम्पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैस्स्रजमुरसि शिरश्शेखरन्तार्क्ष्यपक्षैः |
पूर्णं रक्तैस्सुराणा/ ययममहिषमहाशृङ्गमादाय पाणौ
पायाद्वो वन्द्यमानप्रलयमुदितया भैरवः कालरात्र्याम् || २ ||
चर्वन्तीमस्थिखण्डम्प्रकटकटकटाशब्दशङ्घातम्-
उग्रङ्कुर्वाणा प्रेतमध्ये कहहकहकहाहास्यमुग्रङ्कृशाङ्गी |
नित्यन्नित्यप्रसक्ता डमरुडिमडिमां स्फारयन्ती मुखाब्जम्-
पायान्नश्चण्डिकेयं झझमझमझमा जल्पमाना भ्रमन्ती || ३ ||
टण्टण्टण्टण्टटण्टाप्रकरटमटमानाटघण्टा/ व्वहन्ती
स्फेंस्फेंस्फेंस्कारकाराटकटकितहसा नादसङ्घट्टभीमा |
लोलम्मुण्डाग्रमाला ललहलहलहालोललोलाग्रवाचञ्चर्वन्ती
चण्डमुण्डं मटमटमटिते चर्वयन्ती पुनातु || ४ ||
प्. २८४) वामे कर्णे मृगाङ्कप्रलयपरिगतन्दक्षिणे सूर्यबिम्बङ्कण्ठे
नक्षत्रहार/ व्वरविकटजटाजूटके मुण्डमालाम् |
स्कन्धे कृत्वोरगेन्द्रध्वजनिकरयुतम्ब्रह्मकङ्कालभारं
संहारे धारयन्ती मम हरतु भयम्भद्रदा भद्रकाली || ५ ||
तैलाभ्यक्तैकवेणी त्रपुमयविलसत्कर्णिकाक्रान्तकर्णा
लौहेनैकेन कृत्वा चरणनलिनकामात्मनः पादशोभाम् |
दिग्वासा रासभेन ग्रसति जगदिद/ यया यवाकर्णपूरा
वर्षिण्यातिप्रबद्धा ध्वजविततभुजा सासि देवि त्वमेव || ६ ||
सङ्ग्रामे हेतिकृत्वैस्सरुधिरदशनैर्यद्भटानां
शिरोभिर्मालामावद्ध्य मूर्ध्नि ध्वजविततभुजा त्वं श्मशाने
प्रविष्टा |
दृष्टा भूतप्रभूतैः पृथुतरजघना वद्धनागेन्द्रकाञ्ची
शूलग्रव्यग्रहस्ता मधुरुधिरसदा ताम्रनेत्रा निशायाम् || ७ ||
दंष्ट्रा रौद्रे मुखेऽस्मिंस्तव विशति जगद्देवि सर्वं क्षणार्द्धात्
संसारस्यान्तकाले नररुधिरवशा सम्प्लवे भूमधूम्रे |
काली कापालिकी साशवशयनतरा योगिनी योगमुद्रा रक्तारुद्धिः
सभास्था भरणभयहरा त्वं शिवा चण्डघण्टा || ८ ||
धूमावत्यष्टकम्पुण्यं सर्वापद्विनिवारकम् |
यः पठेत्साधको भक्त्या सिद्धि/ व्विन्दन्ति वाञ्छिताम् || ९ ||
महापदि महाघोरे महारोगे महारणे |
शत्रूच्चाटे मारणादौ जन्तूनाम्मोहने तथा || १० ||
पठेत्स्तोत्रमिदन्देवि सर्वत्र सिद्धिभाग्भवेत् |
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः || ११ ||
सिंहव्याघ्रादिकास्सर्वे स्तोत्रस्मरणमात्रतः |
दूराद्दूरतर/ ययान्ति किम्पुनर्मानुषादयः || १२ ||
स्तोत्रेणानेन देवेशि किन्न सिद्ध्यति भूतले |
सर्वशान्तिर्ब्भवेद्देवि ह्यन्ते निर्वाणता/ व्व्रजेत् || १३ ||
इत्यूर्द्ध्वाम्नाये धूमावतीस्तोत्रं समाप्तम् ||
अथ कवचम्
श्रीपार्वत्युवाच
धूमावत्यर्च्चनं शम्भो श्रुत/ व्विस्तरतो मया |
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ||
श्रीभैरव उवाच
शृणु देवि परङ्गुह्यन्न प्रकाश्यङ्कलौ युगे |
कवचं धूमावत्याश्शत्रुनिग्रहकारकम् ||
ब्रह्माद्या देवि सतत/ ययद्वशादरिघातिनः |
योगिनोऽभवञ्छत्रुघ्ना यस्या ध्यानप्रभावतः ||
ओमस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिरनुष्टुब्छन्दः
श्रीधूमावती देवता धू/बीजं स्वाहा शक्तिः धूमावती कीलकं
शत्रुहनने पाठे विनियोगः ||
ओंधू/बीजं मे शिरः पातु धूं ललाटं सदाऽवतु |
धूमा नेत्रयुगम्पातु वती कर्णौ सदाऽवतु ||
दीर्ग्घा तूदरमध्ये तु नाभिम्मे मलिनाम्बरा |
शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ||
मुखम्मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् |
सर्वा विद्याऽवतु कण्ठ/ व्विवर्णा बाहुयुग्मकम् ||
चञ्चला हृदयम्पातु दुष्टा पार्श्श्वं सदाऽवतु |
धूमहस्ता सदा पातु पादौ पातु भयावहा ||
प्रवृद्धरोमा तु भृशङ्कुटिला कुटिलेक्षणा |
क्षुत्पिपासार्द्दिता देवी भयदा कलहप्रिया ||
सर्वाङ्गम्पातु मे देवी सर्वशत्रुविनाशिनी |
इति ते कवचम्पुण्यङ्कथितम्भुवि दुर्ल्लभम् ||
न प्रकाश्यन्न प्रकाश्यन्न प्रकाश्यङ्कलौ युगे |
पठनीयम्महादेवि त्रिसन्ध्यन्ध्यानतत्परैः ||
दुष्टाभिचारो देवेशि तद्गात्रन्नैव संस्पृशेत् |
इति भैरवीभैरवस/व्वादे धूमावतीतत्त्वे धूमावतीकवचं
सम्पूर्णम् ||
अथ हृदयम्
ओमस्य श्रीधूमावतीहृदयस्तोत्रमन्त्रस्य पिप्पलाद
ऋषिरनुष्टुब्छन्दश्श्रीधूमावती देवता धूम्बीजं ह्रींशक्तिः
क्लींकीलकं सर्वशत्रुसंहारणे पाठे विनियोगः ||
अथाङ्गन्यासः ||
ओंधा/हृदयायनमः, धीं शिरसेस्वाहा, धू/शिखायैवषट्,
धैंकवचायहुम्, धौंनेत्रत्रयायवौषट्, धः अस्त्रायफट्,
प्.२८६) एवङ्करन्यासो यथा ||
धां अङ्गुष्ठाभ्यान्नमः, धींतर्ज्जनीभ्यांस्वाहा,
धूंमध्यमाभ्या/व्वषट्, धैं-अनामिकाभ्यांहुम्,
धौंकनिष्ठाभ्या/व्वौषट्, धःकरतलकरपृष्ठाभ्याम्फट्,
अथ ध्यानम्
धूम्राभान्धूम्रवस्त्राम्प्रकटितदशनाम्मुक्तबालाम्बराढ्याऽऽ
न्काकाङ्कस्यंदनस्थान्धवलकरयुगां शूर्पहस्तातिरूक्षाम् |
नित्यङ्क्षुत्क्षान्तदेहाम्मुहुरतिकुटिला/ व्वारिवाञ्छाविचित्तां
ध्यायेद्धूमावती/व्वामनयनयुगलाम्भीतिदाम्भीषणास्याम् || १ ||
कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ |
कल्पान्ते त्रिजगत्सर्वं धूमावतीम्भजामि ताम् || २ ||
खट्वाङ्गधारिणी खर्वा खण्डिनी खलरक्षसाम् |
धारिणी खेटकस्यापि धूमावतीम्भजामि ताम् || ३ ||
गुणागारा गम्यगुणा या गुणा गुणवर्द्धिनी |
गीतावेदार्त्थतत्त्वज्ञैर्धूमावतीम्भजामि ताम् || ४ ||
घूर्णघूर्णकरा घोरा घूर्णिताक्षी घनस्वना |
घातिनी घातकाना/ यया धूमावतीम्भजामि ताम् || ५ ||
चर्वन्तीमस्थिखण्डानाञ्चण्डमुण्डविदारिणीम् |
चण्डाट्टहासिनीन्देवीम्भजे धूमावतीमहम् || ६ ||
छिन्नग्रीवाङ्क्षताच्छन्नाञ्च्छिन्नमस्तास्वरूपिणीम् |
छेदिनीन्दुष्टसङ्घानाम्भजे धूमावतीमहम् || ७ ||
जाता या याचिता देवैरसुरणा/ व्विघातिनीम् |
जल्पन्ती बहु गर्ज्जन्ती भजे तान्धूम्ररूपिणीम् || ८ ||
झङ्कारकारिणा झञ्झा-झञ्झमाझमवादिनीम् |
झटित्याकर्षिणीन्देवीम्भजे धूमावतीमहम् || ९ ||
टीपटङ्कारसंयुक्तान्धनुष्टङ्कारकारिणीम् |
घोरा घनघटाटोपा/ व्वन्दे धूमावतीमहम् || १० ||
ठण्ठण्ठण्ठम्मनुप्रीतिण्ठः ठःमन्त्रस्वरूपिणीम् |
ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् || ११ ||
डमरूडिण्डिमारावाण्डाकिनीगणमण्डिताम् |
डाकिनीभोगसन्तुष्टाम्भजे धूमावतीमहम् || १२ ||
ढक्कानादेन सन्तुष्टाण्ढक्कावादकसिद्धिदाम् |
ढक्कावादचलच्चित्ताम्भजे धूमावतीमहम् || १३ ||
प्. २८७) तत्त्ववार्त्ताप्रियप्राणाम्भवपाथोधितारिणीम् |
तारस्वरूपिणीन्ताराम्भजे धूमावतीमहम् || १४ ||
थांथींथूंथेंमन्त्ररूपां थैंथौंथंथः स्वरूपिणीम् |
थकारवर्णसर्वस्वाम्भजे धूमावतीमहम् || १५ ||
दूर्गास्वरूपिणीन्देवीन्दुष्टदानवदारिणीम् |
देवदैत्यकृतध्वंसा/ व्वन्दे धूमावतीमहम् || १६ ||
ध्वान्ताकारान्धकध्वंसाम्मुक्तधर्मालधारिणीम् |
धूमधाराप्रभान्धीराम्भजे धूमावतीमहम् || १७ ||
नर्त्तकीनटनप्रीतान्नाट्यकर्मविवर्द्धिनीम् |
नारसिंहीन्नराराध्यान्नौमि धूमावतीमहम् || १८ ||
पार्वतीपतिसम्पूज्याम्पर्वतोपरिवासिनीम् |
पद्मारूपाम्पद्मपूज्यान्नौमि धूमावतीमहम् || १९ ||
फूत्कारसहितश्वासाम्फट्मन्त्रफलदायिनीम् |
फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् || २० ||
बलिपूज्यां बलाराध्याम्बगलारूपिणी/ व्वराम् |
ब्रह्मादिवन्दिता/ व्विद्या/ व्वन्दे धूमावतीमहम् || २१ ||
भव्यरूपाम्भवाराध्याम्भुवनेशीस्वरूपिणीम् |
भक्तभव्यप्रदान्देवीम्भजे धूमावतीमहम् || २२ ||
मायाम्मधुमतीम्मान्याम्मकरध्वजमानिताम् |
मत्स्यमांसमदास्वादाम्मन्ये धूमावतीमहम् || २३ ||
योगयज्ञप्रसन्नास्या/ ययोगिनीपरिसेविताम् |
यशोदा/ ययज्ञफलदा/ ययजे धूमावतीमहम् || २४ ||
रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीम् |
रमेशरमणीपूज्यामहन्धूमावतीं श्रये || २५ ||
लक्षलीलाकलालक्ष्या/ ल्लोकवन्द्यपदाम्बुजाम् |
लम्बिताम्बीजकोशाढ्या/ व्वन्दे धूमावतीमहम् || २६ ||
बकपूज्यपदाम्भोजाम्बकध्यानपरायणाम् |
बालाम्बकारिसन्ध्येया/ व्वन्दे धूमावतीमहम् || २७ ||
शङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीम् |
शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् || २८ ||
षडाननारिसंहन्त्रीं षोडशीरूपधारिणीम् |
षड्रसास्वादिनीं सौम्यां सेवे धूमावतीमहम् || २९ ||
सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीम् |
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् || ३० ||
प्. २८८) हेरम्बजननी/ ययोग्यां हास्यलास्यविहारिणीम् |
हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् || ३१ ||
षीरोदतीरस/व्वासाङ्क्षीरपानप्रहर्षिताम् |
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् || ३२ ||
चतुस्त्रिंशद्वर्णकानाम्प्रतिवर्णादिनामभिः |
कृतन्तु हृदयस्तोत्रन्धूमावत्यास्सुसिद्धिदम् || ३३ ||
य इदम्पठति स्तोत्रम्पवित्रं पापनाशनम् |
स प्राप्नोति परां सिद्धिन्धूमावत्याः प्रसादतः || ३४ ||
पठन्नेकाग्रचित्तो यो यद्यदिच्छति मानवः |
तत्सर्वं समवाप्नोति सत्यं सत्य/ व्वदाम्यहम् || ३५ ||
इति धूमावतीहृदयं समाप्तम् ||
अथ शतनाम
ईश्वर उवाच
ओं धूमावती धूम्रवर्णा धूम्रपानपरायणा |
धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी || १ ||
अघोराचारसन्तुष्टा-अघोराचारमण्डिता |
अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता || २ ||
अट्टाट्टहासनिरता मलिनाम्बरधारिणी |
वृद्धा विरूपा विधवा विद्या च विरलद्विजा || ३ ||
प्रवृद्धघोणा कुमुखी कुटिला कुटिलेक्षणा |
कराली च करालास्या कङ्काली शूर्पधारिणी || ४ ||
काकध्वजारथारूढा केवला कठिना कुहूः |
क्षुत्पिपासार्द्दिता नित्या ललज्जिह्वा दिगम्बरी || ५ ||
दीर्ग्घोदरी दीर्ग्घरवा दिर्ग्घाङ्गी दीर्ग्घमस्तका |
विमुक्तकुन्तला कीर्त्त्या कैलासस्थानवासिनी || ६ ||
क्रूरा कालस्वरूपा च कालचक्रप्रवर्त्तिनी |
विवर्णा चञ्चला दुष्टा दुष्टविध्वंसकारिणी || ७ ||
चण्डी चण्डस्वरूपा च चामुण्डा चण्डनिस्स्वना |
चण्डवेगा चण्डगतिश्चण्डमुण्डविनाशिनी || ८ ||
चाण्डालिनी चित्ररेखा चित्राङ्गी चित्ररूपिणी |
कृष्णा कपर्द्दिनी कुल्ला कृष्णारूपा क्रियावती || ९ ||
कुम्भस्तनी महोन्मत्ता मदिरापानविह्वला |
चतुर्ब्भुजा ललजिह्वा शत्रुसंहारकारिणी || १० ||
प्. २८९) शवारूढा शवगता श्मशानस्थानवासिनी |
दुराराध्या दुराचारा दुर्ज्जनप्रीतिदायिनी || ११ ||
निर्मांसा च निराकारा धूतहस्ता वरान्विता |
कलहा च कलिप्रीता कलिकल्मषनाशिनी || १२ ||
महाकालस्वरूपा च महाकालप्रपूजिता |
महादेवप्रिया मेधा महासङ्कटनाशिनी || १३ ||
भक्तप्रिया भक्तगतिर्ब्भक्तशत्रुविनाशिनी |
भैरवी भुवना भीमा भारती भुवनात्मिका || १४ ||
भरुण्डा भीमनयना त्रिनेत्रा बहुरूपिणी |
त्रिलोकेशी त्रिकालज्ञा त्रिस्वरूपा त्रयीतनुः || १५ ||
त्रिमूर्त्तिश्च तथा तन्वी त्रिशक्तिश्च त्रिशूलिनी |
इति धूमा-महत्स्तोत्रन्नाम्नामष्टशतात्मकम् || १६ ||
मया ते कथितन्देवि शत्रुसङ्घविनाशनम् |
कारागारे रिपुग्रस्ते महोत्पाते महाभये || १७ ||
इदं स्तोत्रम्पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटैः |
गुह्याद्गुह्यतरं गुह्यङ्गोपनीयम्प्रयत्नतः || १८ ||
चतुष्पदार्त्थदन्नॄणां सर्वसम्पत्प्रदायकम् || १९ ||
इति धूमावत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ||
अथ सहस्रनाम
श्रीभैरव्युवाच
धूमावत्या धर्मरात्र्याः कथयस्व महेश्वर |
सहस्रनामस्तोत्रम्मे सर्वसिद्धिप्रदायकम् || १ ||
श्रीभैरव उवाच
शृणु देवि महामाये प्रिये प्राणस्वरूपिणि |
सहस्रनामस्तोत्रम्मे भवशत्रुविनाशम् || २ ||
ओमस्य श्रीधूमावतीसहस्रनामस्तोत्रस्य पिप्पलाद ऋषिः
पङ्क्तिश्छन्दो धूमावती देवता शत्रुविनिग्रहे पाठे विनियोगः ||
धुमा धूमवती धूमा धूमपानपरायणा |
धौता धौतगिरा धाम्नी धूमेश्वरनिवासिनी || ३ ||
अनन्ताऽनन्तरूपा च अकाराकाररूपिणी |
आद्या आनन्ददानन्दा इकारा इन्द्ररूपिणी || ४ ||
धनधान्यार्त्थवाणीदा यशोधर्मप्रियेष्टदा |
भाग्यसौभाग्यभक्तिस्था गृहपर्वतवासिनी || ५ ||
रामरावणसुग्रीवमोहदा हनुमत्प्रिया |
प्. २९०) वेदशास्त्रपुराणज्ञा ज्योतिश्छन्दःस्वरूपिणी || ६ ||
चातुर्यचारुरुचिरा रञ्जनप्रेमतोषदा |
कमलासनसुधावक्त्रा चन्द्रहासा स्मितानना || ७ ||
चतुरा चारुकेशी च चतुर्वर्गप्रदा मुदा |
कला कालधरा धीरा धारिणी वसुनीरदा || ८ ||
हीरा हीरकवर्णाभा हरिणायतलोचना |
दम्भमोहक्रोधलोभस्नेहद्वेषहरा परा || ९ ||
नारदेवकरी रामा रामानन्दमनोहरा |
योगभोगक्रोधलोभहरा हरनमस्कृता || १० ||
दानमानज्ञानमान-पानगानसुखप्रदा |
गजगोश्वपदागञ्जा भूतिदा भूतनाशिनी || ११ ||
भवभावा तथा बाला वरदा हरवल्लभा |
भगभङ्गभया माला मालती तालनाहृदा || १२ ||
जालवालहालकालकपालप्रियवादिनी |
करञ्जशीलगुञ्जाढ्या चूताङ्कुरनिवासिनी || १३ ||
पनसस्था पानसक्ता पनसेशकुटुम्बिनी |
पावनी पावनाधारा पूर्णा पूर्णमनोरथा || १४ ||
पूता पूतकला पौरा पुराणसुरसुन्दरी |
परेशी परदा पारा परात्मा परमोहिनी || १५ ||
जगन्माया जगत्कर्त्त्री जगत्कीर्त्तिर्जगन्मयी |
जननी जयिनी जाया जिता जिनजयप्रदा || १६ ||
कीर्त्तिर्ज्ञानध्यानमानदायिनी दानवेश्वरी |
काव्यव्याकरणज्ञाना प्रज्ञाप्रज्ञानदायिनी || १७ ||
विज्ञाज्ञा विज्ञजयदा विज्ञा विज्ञप्रपूजिता |
परावरेज्या वरदा पारदा शारदा दरा || १८ ||
दारिणी देवदूती च मदना मदनामदा |
परमज्ञानगम्या च षरेशी परगा परा || १९ ||
यज्ञा यज्ञप्रदा यज्ञज्ञानकार्यकरी शुभा |
शोभिनी शुभ्रमथिनी निशुम्भासुरमर्द्दिनी || २० ||
शाम्भवी शम्भुपत्नी च शम्भुजाया शुभानना |
शाङ्करी शङ्कराराध्या सन्ध्या सन्ध्यासुधर्मिणी || २१ ||
शत्रुघ्नी शत्रुहा शत्रुप्रदा शात्रवनाशिनी |
शैवी शिवलया शैला शैलराजप्रिया सदा || २२ ||
शर्वरी शवरी शम्भुः सुधाढ्या सौधवासिनी |
सगुणा गुणरूपा च गौरवी भैरवीरवा || २३ ||
प्. २९१) गौराङ्गी गौरदेहा च गौरी गुरुमती गुरुः |
गौर्ग्गौर्गव्यस्वरूपा च गुणानन्दस्वरूपिणी || २४ ||
गणेशगणदा गुण्या गुणा गौरववाञ्छिता |
गणमाता गणाराध्या गणकोटिविनाशिनी || २५ ||
दुर्गा दुर्ज्जनहन्त्री च दुर्ज्जनप्रीतिदायिनी |
स्वर्गापवर्गदा दात्री दीना दीनदयावती || २६ ||
दुर्न्निरीक्ष्या दुरादुःस्था दौःस्थभञ्जनकारिणी |
श्वेतपाण्डुरकृष्णाभा कालदा कालनाशिनी || २७ ||
कर्मनर्मकरी नर्मा धर्माधर्मविनाशिनी |
गौरी गौरवदा गोदा गणदा गायनप्रिया || २८ ||
गङ्गा भागीरथी भङ्गा भगा भाग्यविवर्द्धिनी |
भवानी भवहन्त्री च भैरवी भैरवीसमा || २९ ||
भीमा भीमरवा भैमी भीमानन्दप्रदायिनी |
शरण्या शरणा शम्या शशिनी शङ्खनाशिनी || ३० ||
गुणा गुणकरी गौणी प्रियाप्रीतिप्रदायिनी |
जनमोहनकर्त्त्री च जगदानन्ददायिनी || ३१ ||
जिता जाया च विजया विजया जयदायिनी |
कामा काली करालास्या खर्वा खञ्जा खरा गदा || ३२ ||
गर्वा गरुत्मती धर्मा घर्ग्घरा घोरनादिनी |
चराचरी चराराध्या छिना छिन्नमनोरथा || ३३ ||
छिन्नमस्ता जया जाप्या जगज्जाया च झर्ज्झरी |
झकारा झीष्कृतिष्टीका टङ्का टङ्कारनादिनी || ३४ ||
ठीका ठक्कुरठक्काङ्गी ठठठाङ्कारढुण्ढुरा |
ढुण्ढीताराजतीर्णा च तालस्थाभ्रमनाशिनी || ३५ ||
थकारा थकरा दात्री दीपा दीपविनाशिनी |
धन्या धना धनवती नर्मदा नर्ममोदिनी || ३६ ||
पद्मा पद्मावती पीता स्फान्ता फूत्कारकारिणी |
फुल्ला ब्रह्ममयी ब्राह्मी ब्रह्मानन्दप्रदायिनी || ३७ ||
भवाराध्या भवाध्यक्षा भगाली मन्दगामिनी |
मदिरा मदिरेक्षा च यशोदा यमपूजिता || ३८ ||
याम्या राम्या रामरूपा रमणी ललिता लता |
लङ्केश्वरी वाक्प्रदा वाच्या सदाश्रमवासिनी || ३९ ||
श्रान्ता शकाररूपा च षकारखरवाहना |
प्. २९२) सह्याद्रिरूपा सानन्दा हरिणी हरिरूपिणी || ४० ||
हराराध्या वालवाचलवङ्गप्रेमतोषिता |
क्षपा क्षयप्रदा क्षीरा अकारादिस्वरूपिणी || ४१ ||
कालिका कालमूर्त्तिश्च कलहा कलहप्रिया |
शिवा शन्दायिनी सौम्या शत्रुनिग्रहकारिणी || ४२ ||
भवानी भवमूर्त्तिश्च शर्वाणी सर्वमङ्गला |
शत्रुविद्द्राविणी शैवी शुम्भासुरविनाशिनी || ४३ ||
धकारमन्त्ररूपा च धूम्बीजपरितोषिता |
धनाध्यक्षस्तुता धीरा धरारूपा धरावती || ४४ ||
चर्विणी चन्द्रपूज्या च च्छन्दोरूपा छटावती |
छाया छायावती स्वच्छा छेदिनी मेदिनी क्षमा || ४५ ||
वल्गिनी वर्द्धिनी वन्द्या वेदमाता बुधस्तुता |
धारा धारावती धन्या धर्मदानपरायणा || ४६ ||
गर्विणी गुरुपूज्या च ज्ञानदात्री गुणान्विता |
धर्मिणी धर्मरूपा च घण्टानादपरायणा ||| ४७ ||
घण्टानिनादिनी घूर्णा घूर्णिता घोररूपिणी |
कलिघ्नी कलिदूती च कलिपूज्या कलिप्रिया || ४८ ||
कालनिर्णाशिनी काल्या काव्यदा कालरूपिणी |
वर्षिणी वृष्टिदा वृष्टिर्महावृष्टिनिवारिणी || ४९ ||
घातिनी घाटिनी घोण्टा घातकी घनरूपिणी |
धूम्बीजा धूञ्जपानन्दा धूम्बीजजपतोषिता || ५० ||
धून्धूम्बीजजपासक्ता धून्धूम्बीजपरायणा |
धूङ्कारहर्षिणी धूमा धनदा धनगर्विता || ५१ ||
पद्मावती पद्ममाला पद्मयोनिप्रपूजिता |
अपारा पूरणी पूर्णा पूर्णिमापरिवन्दिता || ५२ ||
फलदा फलभोक्त्री च फलिनी फलदायिनी |
फूत्कारिणी फलावाप्त्री फलभोक्त्री फलान्विता || ५३ ||
वारिणी वरणप्रीता वारिपाथोधिपारगा |
विवर्णा धूम्रनयना धूम्राक्षी धूम्ररूपिणी || ५४ ||
नीतिर्नीतिस्वरूपा च नीतिज्ञा नयकोविदा |
तारिणी ताररूपा च तत्त्वज्ञानपरायणा || ५५ ||
स्थूला स्थूलाधरा स्थात्री उत्तमस्थानवासिनी |
प्. २९३) स्थूला पद्मपदस्थाना स्थानभ्रष्टा स्थलस्थिता || ५६ ||
शोषिणी शोभिनी शीता शीतपानीयपायिनी |
शारिणी शाङ्खिनी शुद्धा शङ्खासुरविनाशिनी || ५७ ||
शर्वरी शर्वरीपूज्या शर्वरीशप्रपूजिता |
शर्वरीजाग्रिता योग्या योगिनी योगिवन्दिता || ५८ ||
योगिनीगणसंसेव्या योगिनी योगभाविता |
योगमार्गरतायुक्ता योगमार्गानुसारिणी || ५९ ||
योगभावा योगयुक्ता यामिनीपतिवन्दिता |
अयोग्या योघिनी योद्ध्री युद्धकर्मविशारदा || ६० ||
युद्धमार्गरतानान्ता युद्धस्थाननिवासिनी |
सिद्धा सिद्धेश्वरी सिद्धिः सिद्धिगेहनिवासिनी || ६१ ||
सिद्धरीतिस्सिद्धप्रीतिः सिद्धा सिद्धान्तकारिणी |
सिद्धगम्या सिद्धपूज्या सिद्धबन्द्या सुसिद्धिदा || ६२ ||
साधिनी साधनप्रीता साध्या साधनकारिणी |
साधनीया साध्यसाध्या साध्यसङ्घसुशोभिनी || ६३ ||
साध्वी साधुस्वभावा सा साधुसन्ततिदायिनी |
साधुपूज्या साधुवन्द्या साधुसन्दर्शनोद्यता || ६४ ||
साधुदृष्टा साधुपृष्ठा साधुपोषणतत्परा |
सात्त्विकी सत्त्वसंसिद्धा सत्त्वसेव्या सुखोदया || ६५ ||
सत्त्ववृद्धिकरी शान्ता सत्त्वसंहर्षमानसा |
सत्त्वज्ञाना सत्त्वविद्या सत्त्वसिद्धान्तकारिणी || ६६ ||
सत्त्ववृद्धिस्सत्त्वसिद्धिस्सत्त्वसम्पन्नमानसा |
चारुरूपा चारुदेहा चारुचञ्चललोचना || ६७ ||
छद्मिनी छद्मसङ्कल्पा छद्मवार्त्ता क्षमाप्रिया |
हठिनी हठसम्प्रीतिर्हठवार्त्ता हठोद्यमा || ६८ ||
हठकार्या हठधर्मा हठकर्मपरायणा |
हठसम्भोगनिरता हठात्काररतिप्रिया || ६९ ||
हठसम्भेदिनी हृद्या हृद्यवार्त्ता हरिप्रिया |
हरिणी हरिणीदृष्टिर्हरिणीमांसभक्षणा || ७० ||
हरिणाक्षी हरिणपा हरिणीगणहर्षदा |
हरिणीगणसंहर्त्री हरिणीपरिपोषिका || ७१ ||
हरिणीमृगयासक्ता हरिणीमानपुरस्सरा |
प्. २९४) दीना दीनाकृतिर्दूना द्राविणी द्रविणप्रदा || ७२ ||
द्रविणाचलसंव्वासा द्रविता द्रव्यस/ययुता |
दीर्ग्घा दीर्ग्घपदा दृश्या दर्शनीया दृढाकृतिः || ७३ ||
दृढा द्विष्टमतिर्द्दुष्टा द्वेषिणी द्वेषिभञ्जिनी |
दोषिणी दोषस/ययुक्ता दुष्टशत्रुविनाशिनी || ७४ ||
देवतार्त्तिहरा दुष्टदैत्यसङ्घविदारिणी |
दुष्टदानवहन्त्री च दुष्टदैत्यनिषूदिनी || ७५ ||
देवताप्राणदा देवी देवदुर्गतिनाशिनी |
नटनायकसंसेव्या नर्त्तकी नर्त्तकप्रिया || ७६ ||
नाट्यविद्या नाट्यकर्त्री नादिनी नादकारिणी |
नवीननूतना नव्या नवीनवस्त्रधारिणी || ७७ ||
नव्यभूषा नव्यमाल्या नव्यालङ्कारशोभिता |
नकारवादिनी नम्या नवभूषणभूषिता || ७८ ||
नीचमार्गा नीचभूमिर्नीचमार्गगतिर्गतिः |
नाथसेव्या नाथभक्ता नाथानन्दप्रदायिनी || ७९ ||
नम्रा नम्रगतिर्न्नेत्री निदानवाक्यवादिनी |
नारीमध्यस्थिता नारी नारीमध्यगताऽनघा || ८० ||
नारीप्रीति नराराध्या नरनामप्रकाशिनी |
रती रतिप्रिया रम्या रतिप्रेमा रतिप्रदा || ८१ ||
रतिस्थानस्थिताराध्या रतिहर्षप्रदायिनी |
रतिरूपा रतिध्याना रतिरीतिसुधारिणी || ८२ ||
रतिरासमहोल्लासा रतिरासविहारिणी |
रतिकान्तस्तुता राशी राशिरक्षणकारिणी || ८३ ||
अरूपा शुद्धरूपा च सुरूपा रूपगर्विता |
रूपयौवनसम्पन्ना रूपराशी रमावती || ८४ ||
रोधिनी रोषिणी रुष्टा रोषिरुद्धा रसप्रदा |
मादिनी मदनप्रीता मधुमत्ता मधुप्रदा || ८५ ||
मद्यपा मद्यपध्येया मद्यपप्राणरक्षिणी |
मद्यपानन्दसन्दात्री मद्यपप्रेमतोषिता || ८६ ||
मद्यपानरता मत्ता मद्यपानविहारिणी |
मदिरा मदिरारक्ता मदिरापानहर्षिणी || ८७ ||
मदिरापानसन्तुष्टा मदिरापानमोहिनी |
मदिरामानसामुग्धा माध्वीपा मदिराप्रदा || ८८ ||
माध्वीदानसदानन्दा माध्वीपानरता मदा |
प्. २९५) मोदिनी मोदसन्दात्री मुदिता मोदमानसा || ८९ ||
मोदकर्त्री मोददात्री मोदमङ्गलकारिणी |
मोदकादानसन्तुष्टा मोदकग्रहणक्षमा || ९० ||
मोदकालब्धिसङ्क्रुद्धा मोदकप्राप्तितोषिणी |
मांसादा मांससम्भक्षा मांसभक्षणहर्षिणी || ९१ ||
मांसपाकपरप्रेमा मांसपाकालयस्थिता |
मत्स्यमांसकृतास्वादा मकारपञ्चकान्विता || ९२ ||
मुद्रा मुद्रान्विता माता महामोहा मनस्विनी |
मुद्रिका मुद्रिकायुक्ता मुद्रिकाकृतलक्षणा || ९३ ||
मुद्रिकालङ्कृता माद्री मन्दराचलवासिनी |
मन्दराचलसंसेव्या मन्दराचलवासिनी || ९४ ||
मन्दरध्येयपादाब्जा मन्दरारण्यवासिनी |
मन्दुरावासिनी मन्दा मारिणी मारिकामिता || ९५ ||
महामारी महामारीशमिनी शवसंस्थिता |
शवमांसकृताहारा श्मशानालयवासिनी || ९६ ||
श्मशानसिद्धिसंहृष्टा श्मशानभवनस्थिता |
श्मशानशयनागारा श्मशानभस्मलेपिता || ९७ ||
श्मशानभस्मभीमाङ्गी श्मशानावासकारिणी |
शामिनी शमनाराध्या शमनस्तुतिवन्दिता || ९८ ||
शमनाचारसन्तुष्टा शमनागारवासिनी |
शमनस्वामिनी शान्तिः शान्तसज्जनपूजिता || ९९ ||
शान्तपूजापरा शान्ता शान्तागारप्रभोजिनी |
शान्तपूज्या शान्तवन्द्या शान्तग्रहसुधारिणी || १०० ||
शान्तरूपा शान्तियुक्ता शान्तचन्द्रप्रभाऽमला |
अमला विमला म्लाना मालती कुञ्जवासिनी || १०१ ||
मालतीपुष्पसम्प्रीता मालतीपुष्पपूजिता |
महोग्रा महती मध्या मध्यदेशनिवासिनी || १०२ ||
मध्यमध्वनिसम्प्रीता मध्यमध्वनिकारिणी |
मध्यमा मध्यमप्रीतिर्मध्यमप्रेमपूरिता || १०३ ||
मध्याङ्गचित्रवसना मध्यखिन्ना महोद्धता |
महेन्द्रकृतसम्पूजा महेन्द्रपरिवन्दिता || १०४ ||
महेन्द्रजालस/ययुक्ता महेन्द्रजालकारिणी |
महेन्द्रमानिताऽमाना मानिनीगणमध्यगा || १०५ ||
प्. २९६) मानिनीमानसम्प्रीता मानविध्वंसकारिणी |
मानिन्याकर्षिणी मुक्तिर्मुक्तिदात्री सुमुक्तिदा || १०६ ||
मुक्तिद्वेषकरी मूल्यकारिणी मूल्यहारिणी |
निर्मला मूलस/ययुक्ता मूलिनी मूलमन्त्रिणी || १०७ ||
मूलमन्त्रकृतार्हाद्या मूलमन्त्रार्ग्घ्यहर्षिणी |
मूलमन्त्रप्रतिष्ठात्री मूलमन्त्रप्रहर्षिणी || १०८ ||
मूलमन्त्रप्रसन्नास्या मूलमन्त्रप्रपूजिता |
मूलमन्त्रप्रणेत्री च मूलमन्त्रकृतार्च्चना || १०९ ||
मूलमन्त्रप्रहृष्टात्मा मूलविद्या मलापहा |
विद्याऽविद्या वटस्था च वटवृक्षनिवासिनी || ११० ||
वटवृक्षकृतस्थाना वटपूजापरायणा |
वटपूजापरिप्रीता वटदर्शनलालसा || १११ ||
वटपूजा कृता ह्लादा वटपूजाविवर्द्धिनी |
वशिनी विवशाराध्या वशीकरणमन्त्रिणी || ११२ ||
वशीकरणसम्प्रीता वशीकारकसिद्धिदा |
बटुका बटुकाराध्या बटुकाहारदायिनी || ११३ ||
बटुकार्च्चापरा पूज्या बटुकार्च्चाविवर्द्धिनी |
बटुकानन्दकर्त्त्री च बटुकप्राणरक्षिणी || ११४ ||
बटुकेज्याप्रदाऽपारा पारिणी पार्वतीप्रिया |
पर्वताग्रकृतावासा पर्वतेन्द्रप्रपूजिता || ११५ ||
पार्वतीपतिपूज्या च पार्वतीपतिहर्षदा |
पार्वतीपतिबुद्धिस्था पार्वतीपतिमोहिनी || ११६ ||
पार्वतीयद्द्विजाराध्या पर्वतस्था प्रतारिणी |
पद्मला पद्मिनी पद्मा पद्ममालाविभूषिता || ११७ ||
पद्मजेड्यपदा पद्ममालालङ्कृतमस्तका |
पद्मार्च्चितपदद्वन्द्वा पद्महस्तपयोधिजा || ११८ ||
पयोधिपारगन्त्री च पाथोधिपरिकीर्त्तिता |
पाथोधिपारगापूता पल्वलाम्बुप्रतर्पिता || ११९ ||
पल्वलान्तः पयोमग्ना पवमानगतिर्गतिः |
पयः पाना पयोदात्री पानीयपरिकाङ्क्षिणी || १२० ||
पयोजमालाभरणा मुण्डमालाविभूषणा |
मुण्डिनी मुण्डहन्त्री च मुण्डिता मुण्डशोभिता || १२१ ||
मणिभूषा मणिग्रीवा मणिमालाविराजिता |
प्. २९७) महामोहा महामर्षा महामाया महाहवा || १२२ ||
मानवी मानवीपूज्या मनुवंशविवर्द्धिनी |
मठिनी मठसंहन्त्री मठसम्पत्तिहारिणी || १२३ ||
महाक्रोधवती मूढा मूढशत्रुविनाशिनी |
पाठीनभोजिनी पूर्णा पूर्णहारविहारिणी || १२४ ||
प्रलयानलतुल्याभा प्रलयानलरूपिणी |
प्रलयार्णवसम्मग्ना प्रलयाब्धिविहारिणी || १२५ ||
महाप्रलयसम्भूता महाप्रलयकारिणी |
महाप्रलयसम्प्रीता महाप्रलयसाधिनी || १२६ ||
महामहाप्रलयेज्या महाप्रलयमोदिनी |
छेदिनी छिन्नमुण्डोग्रा छिन्ना छिन्नरुहार्त्थिनी || १२७ ||
शत्रुसञ्छेदिनी छन्ना क्षोदिनी क्षोदकारिणी |
लक्षिणी लक्षसम्पूज्या लक्षिता लक्षणान्विता || १२८ ||
लक्षशस्त्रसमायुक्ता लक्षबाणप्रमोचिनी |
लक्षपूजापराऽलक्ष्या लक्षकोदण्डखण्डिनी || १२९ ||
लक्षकोदण्डस/ययुक्ता लक्षकोदण्डधारिणी |
लक्षलीलालयालभ्या लाक्षागारनिवासिनी || १३० ||
लक्षलोभपरा लोला लक्षभक्तप्रपूजिता |
लोकिनी लोकसम्पूज्या लोकरक्षणकारिणी || १३१ ||
लोकवन्दितपादाब्जा लोकमोहनकारिणी |
ललिता लालितालीना लोकसंहारकारिणी || १३२ ||
लोकलीलाकरी लोक्यालोकसम्भवकारिणी |
भूतशुद्धिकरी भूतरक्षिणी भूततोषिणी || १३३ ||
भूतवेतालस/ययुक्ता भूतसेनासमावृता |
भूतप्रेतपिशाचादिस्वामिनी भूतपूजिता || १३४ ||
डाकिनी शाकिनी डेया डिण्डिमारावकारिणी |
डमरूवाद्यसन्तुष्टा डमरूवाद्यकारिणी || १३५ ||
हुङ्कारकारिणी होत्री हाविनी हावनार्त्थिनी |
हासिनी ह्वासिनी हास्यहर्षिणी हठवादिनी || १३६ ||
अट्टाट्टहासिनी टीका टीकानिर्माणकारिणी |
टङ्किनी टङ्किता टङ्का टङ्कमात्रसुवर्णदा || १३७ ||
टङ्कारिणी टकाराढ्या शत्रुत्रोटनकारिणी |
त्रुटिता त्रुटिरूपा च त्रुटिसन्देहकारिणी || १३८ ||
प्. २९८) तर्षिण तृट्परिक्लान्ता क्षुत्क्षामा क्षुत्परिप्लुता |
अक्षिणी तक्षिणी भिक्षाप्रार्त्थिनी शत्रुभक्षिणी || १३९ ||
काङ्क्षिणी कुट्टनी क्रूरा कुट्टनीवेश्मवासिनी |
कुट्टनीकोटिसम्पूज्या कुट्टनीकुलमार्गिणी || १४० ||
कुट्टनीकुलसंरक्षा कुट्टनीकुलरक्षिणी |
कालपाशावृता कन्या कुमारीपूजनप्रिया || १४१ ||
कौमुदी कौमुदीहृष्टा करुणादृष्टिस/ययुता |
कौतुकाचारनिपुणा कौतुकागारवासिनी || १४२ ||
काकपक्षधरा काकरक्षिणी काकस/व्वृता |
काकाङ्करथसंस्थाना काकाङ्कस्यन्दनास्थिता || १४३ ||
काकिनी काकदृष्टिश्च काकभक्षणदायिनी |
काकमाता काकयोनिः काकमण्डलमण्डिता || १४४ ||
काकदर्शनसंशीला काकसङ्कीर्णमन्दिरा |
काकध्यानस्थदेहादिध्यानगम्या धमावृता || १४५ ||
धनिनी धनिसंसेव्या धनच्छेदनकारिणी |
धुन्धुरा धुन्धुराकारा धूम्रलोचनघातिनी || १४६ ||
धूङ्कारिणी च धूम्मन्त्रपूजिता धर्मनाशिनी |
धूम्रवर्णिनी धूम्राक्षी धूम्राक्षासुरघातिनी || १४७ ||
धूम्बीजजपसन्तुष्टा धूम्बीजजपमानसा |
धूम्बीजजपपूजार्हा धूम्बीजजपकारिणी || १४८ ||
धूम्बीजाकर्षिता धृष्या धर्षिणी धृष्टमानसा |
धूलीप्रक्षेपिणी धूलीव्याप्तधम्मिल्लधारिणी || १४९ ||
धूम्बीजजपमालाढ्या धूम्बीजनिन्दकान्तका |
धर्मविद्वेषिणी धर्मरक्षिणी धर्मतोषिता || १५० ||
धारास्तम्भकरी धूर्ता धारावारिविलासिनी |
धांधींधूंधैम्मन्त्रवर्णा धौंधःस्वाहास्वरूपिणी || १५१ ||
धरित्रीपूजिता धूर्वा धान्यच्छेदनकारिणी |
धिक्कारिणी सुधीपूज्या धामोद्याननिवासिनी || १५२ ||
धामोद्यानपयोदात्री धामधूलीप्रधूलिता |
महाध्वनिमती धूप्या धूपामोदप्रहर्षिणी || १५३ ||
धूपादानमतिप्रीता धूपदानविनोदिनी |
धीवरीगणसम्पूज्या धीवरीवरदायिनी || १५४ ||
प्. २९९) धीवरीगणमध्यस्था धीवरीधामवासिनी |
धीवरीगणगोप्त्री च धीवरीगणतोषिता || १५५ ||
धीवरीधनदात्री च धीवरीप्राणरक्षिणी |
धात्रीशा धातृसम्पूज्या धात्रीवृक्षसमाश्रया || १५६ ||
धात्रीपूजनकर्त्री च धात्रीरोपणकारिणी |
धूम्रपानरतासक्ता धूम्रपानरतेष्टदा || १५७ ||
धूम्रपानकरानन्दा धूम्रवर्षणकारिणी |
धन्यशब्दश्रुतिप्रीता धुन्धुकारीजनच्छिदा || १५८ ||
धुन्धुकारीष्टसन्दात्री थुन्धुकारिसुमुक्तिदा |
धुन्धुकार्याराध्यरूपा धुन्धुकारिमनस्स्थिता || १५९ ||
धुन्धुकारिहिताकाङ्क्षा धुन्धुकारिहितैषिणी |
धिन्धिमाराविणी ध्यात्री ध्यानगम्या धनार्थिनी || १६० ||
धोरिणी धोरणप्रीता धारिणी घोररूपिणी |
धरित्रीरक्षिणी देवी धराप्रलयकारिणी || १६१ ||
धराधरसुताऽशेषधाराधरसमद्युतिः |
धनाध्यक्षा धनप्राप्तिर्द्धनधान्यविवर्द्धिनी || १६२ ||
धनाकर्षणकर्त्त्री च धनाहरणकारिणी |
धनच्छेदनकर्त्री च धनहीना धनप्रिया || १६३ ||
धनस/व्वृद्धिसम्पन्ना धनदानपरायणा || १६४ ||
धनहृष्टा धनपुष्टा दानाध्ययनकारिणी |
धनरक्षा धनप्राणा धनानन्दकरी सदा || १६५ ||
शत्रुहन्त्री शवारूढा शत्रुसंहारकारिणी |
शत्रुपक्षक्षतिप्रीता शत्रुपक्षनिषूदिनी || १६६ ||
शत्रुग्रीवाच्छिदाछाया शत्रुपद्धतिखण्डिनी |
शत्रुप्राणहराहार्या शत्रून्मूलनकारिणी || १६७ ||
शत्रुकार्यविहन्त्री च साङ्गशत्रुविनाशिनी |
साङ्गशत्रुकुलच्छेत्री शत्रुसद्मप्रदायिनी || १६८ ||
साङ्गसायुधसर्वारि-सर्वसम्पत्तिनाशिनी |
साङ्गसायुधसर्वारि-देहगेहप्रदाहिनी || १६९ ||
इतीदन्धूमरूपिण्यास्स्तोत्रन्नाम सहस्रकम् |
यः पठेच्छून्यभवने सध्वान्ते यतमानसः || १७० ||
मदिरामोदयुक्तो वै देवीध्यानपरायणः |
तस्य शत्रुः क्षयं याति यदि शक्रसमोऽपि वै || १७१ ||
भवपाशहरम्पुण्यन्धूमावत्याः प्रियम्महत् |
स्तोत्रं सहस्रनामाख्यम्मम वक्त्राद्विनिर्गतम् || १७२ ||
पठेद्वा शृणुयाद्वापि शत्रुघातकरो भवेत् |
न देयम्परशिष्यायाऽभक्ताय प्राणवल्लभे || १७३ ||
देयं शिष्याय भक्ताय देवीभक्तिपराय च |
इदं रहस्यम्परमन्दुर्ल्लभन्दुष्टचेतसाम् || १७४ ||
इति धूमावतीसहस्रनामस्तोत्रं सम्पूर्णम् ||
इति शाक्तप्रमोदे धूमावतीतन्त्रं समाप्तम् ||
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
अष्टमं
बगलामुखीतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये श्रीवेंकटेश्वर यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
श्रीगणेशाय नमः
शाक्तप्रमोदः
अथ बगलामुखीतन्त्रम्
अथ बगलामुखीध्यानम्
मध्येसुधाब्धिमणिमण्डपरत्नवेदीसैंहासनोपरिगताम्परिपीतवर्ण
अम् |
पीताम्बराभरणमाल्यविभूषिताङ्गीन्देवीन्नमामिधृतमुद्गरवैरिजिह्
वाम् || १ ||
जिह्वाग्रमादाय करेण देवी/ व्वामेन शत्रून्परिपीडयन्तीम् |
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यान्द्विभुजान्नमामि || २ ||
प्. ३०४) अथ यन्त्रोद्धारः
त्र्यस्रं षडस्रं वृत्तमष्टदलम्पद्मम्भूपुरान्वितम् |
अथ मन्त्रोद्धारः
प्रणवं स्थिरमायाञ्च ततश्च बगलामुखि ||
तदन्ते सर्वदुष्टानान्ततो वाचम्मुखम्पदम् ||
स्तम्भयेति ततो जिह्वाङ्कीलयेति पदद्वयम् ||
बुद्धिन्नाशय पश्चात्तु स्थिरमायां समालिखेत् ||
लिखेच्च पुनरोङ्कारं स्वाहेति पदमन्ततः ||
षट्त्रिंशदक्षरी विद्या सर्वसम्पत्करी मता ||
अथ मन्त्रः
ओं ह्लीं बगलामुखि सर्वदुष्टाना/ व्वाचम्मुखं स्तम्भय
जिह्वाङ्कीलय कीलय बुद्धिन्नाशय ह्लीं ओं स्वाहा ||
अथ पूजाविधिः
प्रातःकृत्यादि प्राणायामान्त/ व्विधाय ऋष्यादिन्यासङ्कुर्यात् |
यथा शिरसि नारदऋषयेनमः, मुखे त्रिष्टुप्छन्दसेनमः, हृदि
बगलामुख्यैदेवतायैनमः, गुह्ये ह्लींबीजायनमः, पादयोः
स्वाहाशक्तयेनमः || नारदोऽस्य ऋषिर्म्मूर्ध्नि त्रिष्टुब्छन्दश्च
तन्मुखे || श्रीबगलामुखीन्देवीं हृदये विन्यसेत्ततः ||
ह्लींबीजङ्गुह्यदेशे तु स्वाहाशक्तिस्तु पादयोः || ततः कराङ्गन्यासौ ||
ओं ह्लीं-अङ्गुष्ठाभ्यान्नमः,
प्. ३०५) बगलामुखीतर्ज्जनीभ्यां स्वाहा,
सर्वदुष्टानाम्मध्यमाभ्या/व्वषट्, वाचम्मुखंस्तम्भय
अनामिकाभ्यांहूम्, जिह्वाङ्कीलय कीलय कनिष्ठाभ्या/व्वौषट्,
बुद्धिन्नाशय ह्ली/ ओं स्वाहा करतलकरपृष्ठाभ्याम्फट् || एवं
हृदयादिषु || तथा च दिव्यतन्त्रे || युग्मबाणेषु सप्ताहिशेषार्णैश्च
मनूद्भवैः || करशाखासुतलयोः कराङ्गन्यासमाचरेत् || ततो
मूलान्ते आत्मतत्त्वव्यापिनीबगलामुखीश्रीपादुकाम्पूजयामि इति
मूलाधारे, मूलान्ते विद्यातत्त्वव्यापिनीबगलामुखी
श्रीपादुकाम्पूजयामि शिरसि, मूलान्ते शिवतत्त्वव्यापिनीबगलामुखी
श्रीपादुकाम्पूजयामि सर्वाङ्गे || ततश्च || मूर्ध्नि भाले दृशोः श्रोत्रे
गण्डयोर्न्नासयोः पुनः || ओष्ठयोर्म्मुखवृत्ते च दक्षिणांसे च
कूर्परे || मणिबन्धेऽङ्गुलेर्मूले गले च कुचयोर्हृदि || नाभौ
कट्याङ्गुह्यदेशे वामांसे कूर्परे तथा || मणिबन्धेऽङ्गुले मूले
ततश्च विन्यसेत्पुनः || दक्षवामे चोरुजान्वोर्ग्गुल्फयोरङ्गुलिमूलयोः ||
क्रमेण मन्त्रवर्णांस्तु न्यस्य ध्यायेद्यथाविधि || ततो ध्यानम् ||
मध्ये
सुराब्धिमणिमण्डपरत्नवेदीसिंहासनोपरिगताम्परिपीतवर्णाम् |
पीताम्बराभरणमाल्यविभूषिताङ्गीन्देवीं स्मरामि
धृतमुद्गरवैरिजिह्वाम् || जिह्वाग्रमादाय करेण देवीं वामेन
शत्रून्परिपीडयन्तीम् || गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यान्द्विभुजान्नमामि || एवन्ध्यात्वा मानसैः सम्पूज्य
बहिः पूआमारभेत् || तत्र प्रथमतोऽर्ग्घ्यस्थापनम् || यथा ||
अष्टाङ्गुलञ्चतुरस्र/ व्विधाय ऐशानादिकोणेषु पूर्वादिदिक्षु च
कुसुमाक्षतरक्तचन्दनैर्ग्लौगणपतयेनम इत्यनेन गजवदनं
सम्पूज्य तेन मधुना वा अर्ग्घ्यपात्रमापूरयेत् | ततो वारत्रयं
विद्यया सम्पूज्य अङ्गानि विन्यसेत् | ततो धेनुयोनिमुद्रे प्रदर्श्य
तेनोदकेन आत्मानम्पूजोपकरणञ्चाभ्युक्षयेत् | ततो मूलमुच्चार्य ओं
आधारशक्तिकमलासनायनमः | एवं शक्तिपद्मासनायनमः
पूर्ववद्ध्यात्वा पीठे आवाह्य षडङ्गानि न्यसेत् |
प्. ३०६) ततो मुद्राम्प्रदर्श्श्य पुरतः षडङ्गेन मण्डल/ ययजेत् | ततो
मूलेन मन्त्रयित्वा धेनुयोनिमुद्रे प्रदर्श्श्य
आत्मविद्याशिवैस्तत्त्वैर्बिन्दुत्रयम्मुखे क्षिप्त्वा तर्ज्जन्यङ्गुष्ठयोगेन
साङ्गावरणाम्बगलामुखीन्तर्पयेत् | ततो यथासम्भवोपचारैः
सम्पूज्य आवरणपूजामारभेत् | षट्कोणेषु पूर्वे ओंसुभगायै नमः,
एवमग्निकोणे भगसर्पिण्यै ० ईशाने भगवाहायै० पश्चिमे
भगसिद्धायै० नैरृत्ये भगपातिन्यै० वायौ भगमालिन्यै० |
ततोऽष्टदलपत्रेषु ब्राह्म्याद्याः पूज्याः | पत्राग्रेषु ओंजयायैनमः,
एव/ व्विजयायै० अजितायै० अपराजितायै० स्तम्भिन्यै० जम्भिन्यै० मोहिन्यै०
आकर्षिण्यै० | ततो द्वारेषु ओंभैरवायनमः, तद्बाह्ये
इन्द्रादीन्वज्रादीन्पूजयेत् | ततो मूलेन धूपादिकन्दत्वा यथाशक्ति जप/
व्विधाय त्रिशूलमुद्राम्प्रदर्श्य पुष्पाञ्जलित्रयन्दत्वा देव्यै
योनिमुद्राम्प्रदर्शयेत् | ततो भैरवाय बलिन्दद्यात् | ततो
विसर्जनान्तङ्कर्म समापयेत् | अस्य पुरश्चरण/ ल्लक्षजपः | तथा च |
पीताम्बरधरो भूत्वा पूर्वाशाभिमुखस्थितः ||
लक्षमेकञ्जपेन्मन्त्रं हरिद्राग्रन्थिमालया | ब्रह्मचर्यरतो
नित्यम्प्रयतो ध्यानतत्परः || प्रियङ्गुकुसुमेनापि पीतपुष्पैश्च होमयेत्
||
अथ स्तोत्रम्
ओं अस्य श्रीबगलामुखीस्तोत्रस्य नारदऋषिः श्रीबगलामुखी
देवता मम सन्निहिताना/ व्विरोधिना/ व्वाङ्मुखपदबुद्धीनां
स्तम्भनार्त्थे विनियोगः ||
मध्ये सुधाब्धिमणिमण्डपरत्नवेदीसिंहासनोपरिगतां
परिपीतवर्णाम् |
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीम्भजामि धृतमुद्गरवैरिजिह्वाम् || १ ||
जिह्वाग्रमादाय करेण देवी/ व्वामेन शत्रून्परिपीडयन्तीम् |
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यान्द्विभुजाम्भजामि || २ ||
चलत्कनककुण्डलोल्लसितचारुगण्डस्थला/
ल्लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् |
प्. ३०७) गदाहतविपक्षकाङ्कलितलोलजिह्वाञ्चलां स्मरामि बगलामुखी/
व्विमुखवाङ्मनस्स्तम्भिनीम् || ३ ||
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे
सत्सिंहासनमौलिपातितरिपुम्प्रेतासनाध्यासिनीम् |
स्वर्णाभाङ्करपीडितारिरसनाम्भ्राम्यद्गदा/
व्विभ्रमामित्थन्ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः || ४ ||
देवि त्वच्चरणाम्बुजार्च्चनकृते यः पीतपुष्पाञ्जलीन्भक्त्या वामकरे
निधाय च मनुम्मन्त्री मनोज्ञाक्षरम् |
पीठन्ध्यानपरोऽथ कुम्भकवशाद्बीजं
स्मरेत्पार्थिवस्तस्यामित्रमुखस्य वाचि हृदये जाड्यम्भवेत्तत्क्षणात् || ५
||
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति क्रोधी शाम्यति
दुर्ज्जनः सुजनति क्षिप्रानुगः खञ्जति |
गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणा यन्त्रितः श्रीनित्ये वगलामुखि
प्रतिदिनङ्कल्याणि तुभ्यन्नमः || ६ ||
मन्त्रस्तावदल/ व्विपक्षदलन/ स्तोत्रम्पवित्रञ्च ते यन्त्र/
व्वादिनियन्त्रणन्त्रिजगताञ्जैत्रञ्च चित्रञ्च ते |
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे त्वन्नामग्रहणेन
संसदि मुखस्तम्भो भवेद्वादिनाम् || ७ ||
दुष्टस्तम्भनमुग्रविघ्नशमनन्दारिद्र्यविद्रावणं
भूभृद्भीशभनञ्चलामृगादृशाञ्चेतस्समाकर्षणम् |
सौभाग्यैकनिकेतनं समदृशः
कारुण्यपूर्णामृतम्मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीय/
व्वपुः || ८ ||
मातर्ब्भञ्जय मे विपक्षवदनञ्जिह्वाञ्च सङ्कीलय ब्राह्मीम्मुद्रय
नाशयाशु धिषणामुग्राङ्गतिं स्तम्भय |
शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघम्बगले हर प्रणमताङ्कारुण्यपूर्णेक्षणे || ९ ||
मातर्ब्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये |
श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ||
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं शरणागतः
कारुणया विश्वेश्वरि त्राहि माम् || १० ||
संरम्भे चौरसङ्घे प्रहरणसमये बन्धने वारिमध्ये विद्यावादे
विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् |
प्. ३०८) वश्ये वा स्तम्भने वा रिपुवधसमये निर्ज्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकाल/ ययदि पठति शिवम्प्राप्नुयादाशु धीरः || ११ ||
नित्यं स्तोत्रमिदम्पवित्रमिह यो देव्याः पठत्यादराद्धृत्वा
यन्त्रमिदन्तथैव समरे वाहौ करे वा गले |
राजानोऽप्यरयो मदान्धकरिणस्सर्पा मृगेन्द्रादिकास्ते वै यान्ति
विमोहिता रिपुगणा लक्ष्मीः स्थिरास्सिद्धयः || १२ ||
त्व/ व्विद्या षरमा त्रिलोकजननी विघ्नौघसञ्च्छेदिनी
योषाकर्षणकारिणी त्रिजगतामानन्दस/वर्द्धिनी |
दुष्टोच्चाटनकारिणी जनमनस्सम्मोहसन्दायिनी | जिह्वाकीलनभैरवी
विजयते ब्रह्मादिमन्त्रो यथा || १३ ||
विद्या लक्ष्मीस्सर्वसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः
|
मानम्भोगो वश्यमारोग्यसौख्यम्प्राप्तन्तत्तद्भूतलेऽस्मिन्नरेण || १४
||
यतकृतञ्जपसन्नाहङ्गदितम्परमेश्वरि | दुष्टानां निग्रहार्त्थाय
तद्गृहाण नमोऽस्तु ते || १५ ||
ब्रह्मास्त्रमिति विख्यातन्त्रिषु लोकेषु विश्रुतम् |
गुरुभक्ताय दातव्यन्न देय/ ययस्य कस्यचित् || १६ ||
पीताम्बरान्द्विभुजाञ्च त्रिनेत्राङ्गात्रकोज्ज्वलाम् |
शिलामुद्गरहस्ताञ्च स्मरेत्ताम्बगलामुखीम् || १७ ||
इति रुद्रयामले बगलामुखीस्तोत्रं समाप्तम् ||
अथ कवचम्
कैलासाचलम्ध्यगम्पुरवहं शान्तन्त्रिनेत्रं शिवं वामस्था
कवचम्प्रणम्य गिरिजा भूतिप्रदम्पृच्छति ||
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्तमन्त्रसहितम्प्रीत्याऽधुना ब्रूहि माम् || १ ||
श्रीशङ्कर उवाच
देवी श्रीभववल्लभे शृणु महामन्त्र/ व्विभूतिप्रदन्देव्या
वर्म्मयुतं समस्तसुखदं साम्राज्यदम्मुक्तिदम् |
तारं रुद्रवधू/ व्विरञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते
श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति || २ ||
प्. ३०९) ऐश्वर्याणि पदञ्च देहि युगलं शीघ्रम्मनोवाञ्छितङ्कार्यं
साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः |
कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा कीलं श्रीमति
भैरवर्षिसहितञ्छन्दो विराट्स/ययुतम् || ३ ||
स्वेष्टार्त्थस्य परस्य वेत्ति नितराङ्कार्यस्य सम्प्राप्तये
नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये |
ध्यात्वा श्रीबगलाननाम्मनुवरञ्जप्त्वा सहस्राख्यकन्दीर्ग्घैः
षट्कयुतैश्च रुद्रमहिताबीजैर्विनश्याङ्गके || ध्यानम् ||
सौवर्णासनसंस्थितान्त्रिनयनाम्पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् |
हस्तैर्मुद्गरपाशबद्धरसनां
सम्बिभ्रतीम्भूषणव्याप्ताङ्गीम्बगलामुखीन्त्रिजगतां
संस्तम्भिनीञ्चिन्तये || ओं अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य
भैरव ऋषिर्विराट्छन्दः श्रीबगलामुखी देवता क्लींबीजम् ऐंशक्तिः
श्रींकीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोग ||
शिरसि भैरवऋषयेनमः, मुखे विराट्छन्दसे नमः, हृदि
बगलामुखीदेवतायैनमः, गुह्ये क्लींबीजायनमः, पादयोः
ऐंशक्तयेनमः, सर्वाङ्गे श्रींकीलकायनमः, ओं ह्रा/
अङ्गुष्ठाभ्यान्नमः, ओं ह्रीं तर्ज्जनीभ्यान्नमः, ओं ह्रू/
मध्यमाभ्यान्नमः, ओं ह्रैं अनामिकाभ्यान्नमः, ओं ह्रौं
कनिष्ठिकाभ्यान्नमः, ओं ह्रः करतलकरपृष्ठाभ्यान्नमः,
ओं ह्रा/ हृदयायनमः, ओं ह्रीं शिरसे स्वाहा, ओंह्रू/शिखायैवषट्,
ओं ह्रैंकवचायहुम्, ओं ह्रौंनेत्रत्रयायवौषट्, ओं ह्रः अस्त्राय फट् ||
मन्त्रोद्धारः - ओं ह्रा/ ऐं श्रीं क्ली/ श्रीबगलानने मम रिपून्नाशय
२, ममैश्वर्याणि देहि २, शीघ्रम्मनोवाञ्छितकार्यं साधयः २,
ह्रींस्वाहा ||
शिरो मे पातु ओंह्रीं ऐं श्रीं क्लींपातु ललाटकम् |
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने || १ ||
श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् |
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् || २ ||
देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्र/ व्वचो मम |
प्. ३१०) कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् || ३ ||
कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम |
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा || ४ ||
अष्टाधिकचत्त्वारिंशदण्डाढ्या बगलामुखी |
रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम || ५ ||
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु |
मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा || ६ ||
ओं ह्रीं पातु नाभिदेशम्मे कटिम्मे बगलावतु |
मुखी वर्णद्वयम्पातु लिङ्गम्मे मुष्कयुग्मकम् || ७ ||
जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् |
वाचम्मुखन्तथा पादं षड्वर्णा परमेश्वरी || ८ ||
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी |
स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयम्मम || ९ ||
जिह्वा/ व्वर्णद्वयम्पातु गुल्फौ मे कीलयेति च |
पादोर्द्ध्वं सर्वदा पातु बुद्धिं पादतले मम || १० ||
विनाशय पदम्पातु पादाङ्गुल्योर्न्नखानि मे |
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे || ११ ||
सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु |
ब्राह्मी पूर्वदले पातु चाग्नेयया/ विष्णुवल्लभा || १२ ||
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु |
कौमारी पश्चिमे पातु वायव्ये चापराजिता || १३ ||
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु |
ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु || १४ ||
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः |
राजद्वारे महादुर्ग्गे पातु माङ्गणनायकः || १५ ||
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु |
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः || १६ ||
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम |
इति ते कथितन्देवि कवचम्परमाद्भुतम् || १७ ||
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् |
अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् || १८ ||
निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः |
जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् || १९ ||
प्. ३११) पठेदिदं हि कवचन्निशायान्नियमात्तु यः |
यद्यत्कामयते कामं साध्यासाध्ये महीतले || २० ||
तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी |
गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः || २१ ||
कवच/ ययः पठेद्देवि तस्याऽसाध्यन्न किञ्चन |
यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् || २२ ||
त्रिरात्रेण वश/ ययाति मृत्युन्तन्नात्र संशयः |
लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया || २३ ||
लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् |
एकविशदिन/ ययावत्प्रत्यहञ्च सहस्रकम् || २४ ||
जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् |
संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा || २५ ||
विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् |
श्मशाने च भयन्नास्ति कवचस्य प्रभावतः || २६ ||
नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि |
वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः || २७ ||
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ |
पादोदकेन स्पृष्ट्वा च लिखेल्लौहशलाकया || २८ ||
भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् |
हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् || २९ ||
ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः |
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः || ३० ||
भूर्ज्जपत्रेष्विदं स्तोत्रमष्टगन्धेन स/ल्लिखेत् |
धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा || ३१ ||
सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् |
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् || ३२ ||
सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् |
वृहस्पतिसमो वापि विभवे धनदोपमः || ३३ ||
कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः |
कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् || ३४ ||
गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः |
एकादशशत/ ययावत्पुरश्चरणमुच्यते || ३५ ||
पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् |
न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः || ३६ ||
प्. ३१२) देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् |
इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ||
शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते || ३७ ||
दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परा/ व्विद्यां
श्रीविजयन्तथा सुनियतन्धारञ्च वीर/ व्वरम् || ब्रह्मास्त्राख्यमनु/
व्विलिख्य नितराम्भूर्ज्जेष्टगन्धेन वै धृत्वा राजपुर/ व्व्रजन्ति खलु ये
दासोऽस्ति तेषान्नृपः || ३८ ||
इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरस/व्वादे बगलामुखीकवचं
सम्पूर्णम् ||
अथ हृदयम्
ओं अस्य श्रीबगलामुखीहृदयमालामन्त्रस्य नारद
ऋषिरनुष्टुप्छन्दश्श्रीबगलामुखी देवता ह्लींबीजम् क्लींशक्तिः ऐ/
कीलकम् श्रीबगलामुखीप्रसादसिद्ध्यर्त्थे जपे विनियोगः ||
अथ न्यासः ||
ओं नारदऋषयेनमश्शिरसि, ओं अनुष्टुप्छन्दसेनमो मुखे, ओं
श्रीबगलामुख्यै देवतायै नमो हृदये, ओं ह्लींबीजायनमो गुह्ये,
ओं क्लींशक्तयेनमः पादयोः, ओं ऐंकीलकायनमस्सर्वाङ्गे |
अथ कराङ्गन्यासौ
ओं ह्लीं अङ्गुष्ठाभ्यान्नमः, ओं क्लीं तर्ज्जनीभ्यान्नमः,
ओं ऐंमध्यमाभ्यान्नमः, ओं ह्लीं अनामिकाभ्यान्नमः, |
ओं क्लींकनिष्ठिकाभ्यान्नमः, ओं ऐंकरतलकरपृष्ठाभ्यान्नमः ||
ओं ह्लीं हृदयायनमः, ओं क्लीं शिरसे स्वाहा, ओं ऐं शिखायै वषट् |
ओं ह्लींकवचाय हूम् , ओं क्लींनेत्रत्रयायवौषट्, ओं ऐं अस्त्रायफट्,
ओं ह्लीं क्लीं ऐं इति दिग्बन्धः ||
पीताम्बराम्पीतमाल्यां पीताभरणभूषिताम् |
पीतकञ्जपदद्वन्द्वाम्बगलाञ्चिन्तयेऽनिशम् ||
इति ध्यात्वा सम्पूज्य ||
पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते |
बगले मे वरन्देहि शत्रुसङ्घविदारिणी ||
इति सम्प्रात्थ्य ||
ओं ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै
स्वाहा ||
इति मन्त्रञ्जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासङ्कृत्वा
स्तोत्रम्पठेत् ||
प्. ३१३) तद्यथा ||
बन्देऽहम्बगलान्देवीम्पीतभूषणभूषिताम् |
तेजोरूपमयीन्देवीम्पीततेजस्स्वरूपिणीम् || १ ||
गदाभ्रमणाभिन्नाभ्राम्भ्रकुटीभीषणाननाम् |
भीषयन्तीम्भीमशत्रून्भजे भक्तस्य भव्यदाम् || २ ||
पूर्णचन्द्रसमानास्याम्पीतगन्धानुलेपनाम् |
पीताम्बरपरीधानाम्पवित्रामाश्रयाम्यहम् || ३ ||
पालयन्तीमनुपलम्प्रसमीक्ष्यावनीतले |
पीताचाररताम्भक्तांस्ताम्भवानीम्भजाम्यहम् || ४ ||
पीतपद्मपदद्वन्द्वाञ्चम्पकारण्यरोपिणीम् |
पीतावतंसाम्परमा/ व्वन्दे पद्मजवन्दिताम् || ५ ||
लसच्चारुसिञ्जत्सुमञ्जीरपादाञ्चलत्स्वर्णकर्णावतंसाञ्चितास्याम् |
वलत्पीतचन्द्राननाञ्चन्द्रवन्द्याम्भजे पद्मजादीड्यसत्पादपद्माम्
|| ६ ||
सुपीताभया मालया पूतमन्त्रम्परन्ते जपन्तो जयं स/ल्लभन्ते |
रणे रागरोषाप्लुतानां रिपूणा/ व्विवादे बलाद्वैरकृद्धातमातः || ७
||
भरत्पीतभास्वत्प्रभाहस्कराभाङ्गदागञ्जितामित्रगर्वां
गरिष्ठाम् |
गरीयो गुणागारगात्राङ्गुणाढ्याङ्गणेशादिगम्यां श्रये
निर्गुणाढ्याम् || ८ ||
जना ये जपन्त्युग्रबीजञ्जगत्सु परम्प्रत्यहन्ते स्मरन्तः स्वरूपम् |
भवेद्वादिना/ व्वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ||
९ ||
तव ध्याननिष्ठा प्रतिष्ठात्मप्रज्ञावताम्पादपद्मार्च्चने
प्रेमयुक्ताः |
प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिगा दासतुल्या भवन्ति ||
१० ||
नमामस्ते मातः कनककमनीयांघ्रिजलज/
व्वलद्विद्युद्वर्णाङ्घनतिमिरविध्वंसकरणम् |
भवाब्धौ मग्नात्मोत्तरणकरणं
सर्वशरणम्प्रपन्नानाम्मातर्ज्जगति बगले दुःखदमनम् || ११ ||
ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्क्यभवनं स्मरामस्ते धाम
स्मर-हर-हरीन्द्रेन्दुप्रमुखैः |
अहोरात्रम्प्रातः प्रणयनवनीयं सुविशदं
परम्पीताकारम्परिचितमणिद्वीपवसनम् || १२ ||
वदामस्ते मातश्श्रुतिसुखकरन्नाम ललित/ ल्लसन्मात्रावर्णाञ्जगति
बगलेति प्रचरितम् |
प्. ३१४) चलन्तस्तिष्ठन्तो वयमुपविशन्तोपि शयने न भेमो यच्छ्रेयो दिवि
दुरवलभ्यन्दिविषदाम् || १३ ||
पदार्च्चायाम्प्रीतिः प्रतिदिनमपूर्वा प्रभवतु यथा ते
प्रासन्न्यम्प्रतिपलमपेक्ष्यम्प्रणमताम् |
अनल्पन्तन्मातर्भवति भृतभक्त्या भवतु नो दिशातस्सद्भक्तिम्भुवि
भगवताम्भूरि भवदाम् || १४ ||
मम सकलरिपूणा/ व्वाङ्मुखे स्तम्भयाशु भगवति रिपुजिह्वाङ्कीलय
प्रस्थतुल्याम् |
व्यवसितखलबुद्धिन्नाशयाशु प्रगल्भां मम कुरु बहु कार्यं
सत्कृपेऽम्ब प्रसीद || १५ ||
व्रजतु मम रिपूणां सद्मनि प्रेतस/स्था करधृतगदया
तान्घातयित्वाशु रोषात् |
सधनवसनधान्यसद्म तेषाम्प्रदह्य पुनरपि बगला
स्वस्थानमायातु शीघ्रम् || १६ ||
करधृतरिपुजिह्वापीडनव्यग्रहस्ताम्पुनरपि गदया तांस्ताडयन्तीं
सुतन्त्राम् |
प्रणतसुरगणानाम्पालिकाम्पीतवस्त्रां
बहुबलबगलान्ताम्पीतवस्त्रान्नमामः || १७ ||
हृदयवचनकायैः कुर्वताम्भक्तिपुञ्जम्प्रकटितकरुणार्द्राम्प्रीणती
जल्पतीति |
धनमथ बहुधान्यम्पुत्रपौत्रादिवृद्धिः सकलमपि किमेभ्यो
देयमेवन्त्ववश्यम् || १८ ||
तव चरणसरोजं सर्वदा सेव्यमानन्द्रुहिण-हरि-
हराद्यैर्देववृन्दैश्शरण्यम् |
मृदुमपि शरणन्ते शर्मदं सूरिसेव्य/ व्ययमिह करवामो
मातरेतद्विधेयम् || १९ ||
बगलाहृदयस्तोत्रमिदम्भक्तिसमन्वितः |
पठेद्यो बगला तस्य प्रसन्ना पाठतो भवेत् || २० ||
पीतध्यानपरो भक्तो यश्शृणोत्यविकल्पतः |
निष्कल्मषो भवेन्मर्त्त्यो मृतो मोक्षमवाप्नुयात् || २१ ||
आश्विनस्य सिते पक्षे महाष्टम्यान्दिवानिशम् |
यस्त्विदम्पठते प्रेम्णा बगलाप्रीतिमेतिः सः || २२ ||
देव्यालये पठन्मर्त्त्यो बगलान्ध्यायतीश्वरीम् |
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः || २३ ||
पीताचाररतो नित्यम्पीतभूषा/ व्विचिन्तयन् |
बगला/ ययः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् || २४ ||
न किञ्चिद्दुर्ल्लभं तस्य दृश्यते जगतीतले |
प्. ३१५) शत्रवो ग्लानिमायांति तस्य दर्शनमात्रतः || २५ ||
इति सिद्धेश्वरतन्त्रे उत्तरखण्डे बगलापटले श्रीबगलाहृदयस्तोत्रं
समाप्तम् ||
अथ शतनाम
नारद उवाच
भगवन्देवदेवेश सृष्टिस्थितिलयात्मक |
शतमष्टोत्तरन्नाम्नाम्बगलाया वदाधुना || १ ||
श्रीभगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् |
पीताम्बर्या महादेव्याः स्तोत्रम्पापप्रणाशनम् || २ ||
यस्य प्रपठनात्सद्यो वादी मूको भवेत्क्षणात् |
रिपूणां स्तम्भन/ ययाति सत्यं सत्य/ व्वदाम्यहम् || ३ ||
ओं अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव
ऋइषिरनुष्टुष्छन्दश्श्रीपीताम्बरी देवता श्रीपीताम्बरीप्रीतये जपे
विनियोगः ||
ओं बगला विष्णुवनिता विष्णुशङ्करभामिनी |
बहुला वेदमाता च महाविष्णुप्रसूरपि || १ ||
महामत्स्या महाकूर्मा महावाराहरूपिणी |
नरसिंहप्रिया रम्या वामना बटुरूपिणी || २ ||
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता |
कृष्णा कपर्द्दिनी कृत्या कलहा कलविकारिणी || ३ ||
बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी |
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी || ४ ||
कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी |
केवला कठिना काली कला कैवल्यदायिनी || ५ ||
केशवी केशवाराध्या किशोरी केशवस्तुता |
रुद्ररूपा रुद्रमूर्त्ती रुद्राणी रुद्रदेवता || ६ ||
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता |
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता || ७ ||
नागिनी नागजननी नागराजप्रवन्दिता |
नागेश्वरी नागकन्या नागरी च नगात्मजा || ८ ||
नगाधिराजतनया नगराजप्रपूजिता |
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी || ९ ||
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी |
सुन्दरी सौभगा सौम्या स्वर्णभा स्वर्गतिप्रदा || १० ||
रिपुत्रासकरी रेखाशत्रुसंहारकारिणी |
प्. ३१६) भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा || ११ ||
रागद्वेषकरी रात्री रौरवध्वंसकारिणी |
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी || १२ ||
लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता |
लङ्कानाथकुलहरा महारावणहारिणी || १३ ||
देवदानवसिद्धौघ-पूजिता परमेश्वरी |
पराणुरूपा परमा परतन्त्रविनाशिनी || १४ ||
वरदा वरदाराध्या वरदानपरायणा |
वरदेशप्रिया वीरा वीरभूषणभूषिता || १५ ||
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना |
बलदा पीतवसना पीतभूषणभूषिता || १६ ||
पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी |
इति ते कथित/ व्विप्र नाम्नामष्टोत्तरशतम् || १७ ||
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः |
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः || १८ ||
प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् |
द्रुतम्भवेत्तस्य समस्तवृद्धिर्विनाशमायाति च तस्य शत्रुः || १९ ||
इति विष्णुयामले नारदविष्णुस/व्वादे श्रीबगलाष्टोत्तरशतनामस्तोत्रं
सम्पूर्णम् ||
अथ सहस्रनाम
सुरालयप्रधाने तु देवदेवम्महेश्वरम् |
शैलाधिराजतनया सङ्ग्रहे तमुवाच ह || १ ||
श्रीदेव्युवाच
परमेष्ठिन्परन्धाम प्रधान परमेश्वर |
नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ || २ ||
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् |
परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् || ३ ||
गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् |
अतिगुप्ततर/ व्विद्या सर्वतन्त्रेषु गोपिता || ४ ||
विशेषतः कलियुगे महासिद्ध्यौघदायिनी |
गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः || ५ ||
अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते |
रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् || ६ ||
प्. ३१७) स्तम्भिनी राजसैन्याना/ व्वादिनी परवादिनाम् |
पुरा चैकार्णवे घोरे काले परमभैरवः || ७ ||
सुन्दरीसहितो देवः केशवः क्लेशनाशनः |
उरगासनमासीनो योगनिद्रामुपागमत् || ८ ||
निद्राकाले च ते काले मया प्रोक्तः सनातनः |
महास्तम्भकरन्देवि स्तोत्र/ व्वा शतनामकम् || ९ ||
सहस्रनाम परम/ व्वद देवस्य कस्यचित् |
श्रीभगवानुवाच
शृणु शङ्कर देवेश परमातिरहस्यकम् || १० ||
अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः |
गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् || ११ ||
ओमस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान्सदाशिव
ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी पीताम्बरी देवता
सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ||
अथ ध्यानम्
पीताम्बरपरीधानां पीनोन्नतपयोधराम् |
जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् || १२ ||
शत्रोर्ज्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् |
सर्वागमपुराणेषु विख्याताम्भुवनत्रये || १३ ||
सृष्टिस्थितिविनाशानामादि भूताम्महेश्वरीम् |
गोप्या सर्वप्रयत्नेन शृणु ताङ्कथयामि ते || १४ ||
जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् |
तान्नमामि महामायाम्महदैश्चर्यदायिनीम् || १५ ||
प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् |
बगलामुखी सर्वेति दुष्टाना/ व्वाचमेव च || १६ ||
मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् |
विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् || १७ ||
वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः |
ब्रह्मास्त्रम्ब्रह्मविद्या च ब्रह्ममाता सनातनी || १८ ||
ब्रह्मेशी ब्रह्मकैवल्यबगला ब्रह्मचारिणी |
नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया || १९ ||
सन्धारिणी महामाया कटाक्षक्षेमकारिणी |
कमला विमला नीला रत्नकान्तिगुणाश्रिता || २० ||
कामप्रिया कामरता कामकामस्वरूपिणी |
मङ्गला विजया जाया सर्वमङ्गलकारिणी || २१ ||
प्. ३१८) कामिनी कामिनीकाम्या कामुका कामचारिणी |
कामप्रिया कामरता कामाकामस्वरूपिणी || २२ ||
कामाख्या कामबीजस्था कामपीठनिवासिनी |
कामदा कामहा काली कपाली च करालिका || २३ ||
कंसारिः कमला कामा कैलासेश्वरवल्लभा |
कात्यायनी केशवा च करुणा कामकेलिभुक् || २४ ||
क्रियाकीर्त्तिः कृत्तिका च काशिका मथुरा शिवा |
कालाक्षी कालिका काली धवलाननसुन्दरी || २५ ||
खेचरी च खमूर्त्तिश्च क्षुद्रा क्षुद्रक्षुधावरा |
खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया || २६ ||
गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी |
गोधरा गोकरा गोधा गन्धर्वपुरवासिनी || २७ ||
गन्धर्वा गन्धर्वकला गोपनी गरुडासना |
गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी || २८ ||
गौराङ्गी गोपिकामूर्त्तिर्गोपीगोष्ठनिवासिनी |
गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा || २९ ||
घोरघोरा घोररूपा घनश्रोणी घनप्रभा |
दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्स्वना || ३० ||
डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना |
उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी || ३१ ||
चामुण्डा मुण्डिता चण्डी चण्डदर्पहरेति च |
उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी || ३२ ||
चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी |
चतुर्ब्भुजा प्रचण्डा च चराचरनिवासिनी || ३३ ||
क्षत्रप्रायश्शिरोवाहा छला छलतरा छली |
क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी || ३४ ||
जया च जयदुर्गा च जयन्ती जयदा परा |
जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता || ३५ ||
जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी |
जितमृत्युर्जरातीता जाह्नवी जनकात्मजा || ३६ ||
झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी |
झखा झमेशा झङ्कारी योनिकल्याणदायिनी || ३७ ||
प्. ३१९) झञ्झरा झमुरी झारा झराझरतरा परा |
झञ्झा झमेता झङ्कारी झणाकल्याणदायिनी || ३८ ||
ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया |
टङ्कारी टिटिका टीका टङ्किनी च टवर्गगा || ३९ ||
टापा टोपा टटपतिष्टमनी टमनप्रिया |
ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया || ४० ||
ठेकठासा ठकरती ठामिनी ठमनप्रिया |
डारहा डाकिनी डारा डामरा डमरप्रिया || ४१ ||
डखिनी डडयुक्ता च डमरूकरवल्लभा |
ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी || ४२ ||
ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी |
अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी || ४३ ||
अमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता |
तारा तन्त्रावती तन्त्रतत्त्वरूपा तपस्विनी || ४४ ||
तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा |
तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी || ४५ ||
तन्त्रा यन्त्रार्च्चनपरा तलातलनिवासिनी |
तल्पदा त्वल्पदा काम्या स्थिरा स्थिरतरा स्थितिः || ४६ ||
स्थाणुप्रिया स्थपरा स्थिता स्थानप्रदायिनी |
दिगम्बरा दयारूपा दावाग्नि दमनीदमा || ४७ ||
दुर्गा दुर्गापरा देवी दुष्टदैत्यविनाशिनी |
दमनप्रमदा दैत्यदयादानपरायणा || ४८ ||
दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता |
दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी || ४९ ||
दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी |
दया धरा च दमनी दर्ब्भपत्रविलासिनी || ५० ||
धरिणी धारिणी धात्री धराधरधरप्रिया |
धराधरसुता देवी सुधर्मा धर्मचारिणी || ५१ ||
धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी |
धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी || ५२ ||
धन्वन्तरिधराधीरा ध्येया ध्यानस्वरूपिणी |
नारायणी नारसिंही नित्यानन्दनरोत्तमा || ५३ ||
नक्ता नक्तावती नित्या नीलजीमूतसन्निभा |
प्. ३२०) नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी || ५४ ||
सुनीलपुष्पखचिता नीलजम्बुसमप्रभा |
नित्याख्या षोडशी विद्या नित्या नित्यसुखावहा || ५५ ||
नर्मदा नन्दनानन्दा नन्दानन्दविवर्द्धिनी |
यशोदानन्दतनया नन्दनोद्यानवासिनी || ५६ ||
नागान्तका नागवृद्धा नागपत्नी च नागिनी |
नमिताशेषजनता नमस्कारवती नमः || ५७ ||
पीताम्बरा पार्वती च पीताम्बरविभूषिता |
पीतमील्याम्बरधरा पीताभा पिङ्गमूर्द्धजा || ५८ ||
पीतपुष्पार्च्चनरता पीतपुष्पसमर्च्चिता |
परप्रभा पितृपतिः परसैन्यविनाशिनी || ५९ ||
परमा परतन्त्रा च परमन्त्रा परात्परा |
पराविद्या परासिद्धिः परास्थानप्रदायिनी || ६० ||
पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता |
पुरातना पूर्वपरा परसिद्धिप्रदायिनी || ६१ ||
पीतानितम्बिनी पीता पीनोन्नतपयस्तनी |
प्रेमाप्रमध्यमाशेषा पद्मपत्रविलासिनी || ६२ ||
पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा |
पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी || ६३ ||
पावनी पालिका पात्री परदा वरदा शिवा |
प्रेतसंस्था परानन्दा परब्रह्मस्वरूपुणी || ६४ ||
जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया |
पशुमांसप्रिया पर्णा परामृतपरायणा || ६५ ||
पाशीनी पाशिका चापि पशुघ्नी पशुभाषिणी |
फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी || ६६ ||
परानन्दप्रदा वीणापशुपाशविनाशिनी |
फूत्कारा फुत्परा फेणी फुल्लेन्दीवरलोचना || ६७ ||
फट्मन्त्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी |
स्फाटिका घुटिका घोरा स्फटिकाद्रिस्वरूपिणी || ६८ ||
वराङ्गना वरधरा वाराही वासुकी वरा |
बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी || ६९ ||
विद्याधरी विशालाक्षी काशीवासिजनप्रिया |
वेदविद्या विरूपाक्षी विश्वयुग्बहुरूपिणी || ७० ||
प्. ३२१) ब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया |
वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी || ७१ ||
ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी |
भवप्रिया भवोद्भावा भवरूपा भवोत्तमा || ७२ ||
भवपारा भवधारा भाग्यवत्प्रियकारिणी |
भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी || ७३ ||
भवानी भैरवी भीमा भद्रकाली सुभद्रिका |
भगिनी भगरूपा च भगमाना भगोत्तमा || ७४ ||
भगप्रिया भगवती भगवासा भगाकरा |
भगसृष्टा भाग्यवती भगरूपा भगासिनी || ७५ ||
भगलिङ्गप्रिया देवी भगलिङ्गपरायणा |
भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी || ७६ ||
भगलिङ्गरता देवी भगलिङ्गनिवासिनी |
भगमाला भगकला भगाधारा भगाम्बरा || ७७ ||
भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी |
भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा || ७८ ||
भगलिङ्गसमाधुर्या भगलिङ्गनिवेशिता |
भगलिङ्गसुपूजा च भगलिङ्गसमन्विता || ७९ ||
भगलिङ्गविरक्ता च भगलिङ्गसमावृता |
माधवी माधवीमान्या मधुरा मधुमानिनी || ८० ||
मन्दहासा महामाया मोहिनी महदुत्तमा |
महामोहा महाविद्या महाघोरा महास्मृतिः || ८१ ||
मनस्विनी मानवती मोदिनी मधुरानना |
मेनिका मानिनी मान्या मणिरत्नविभूषणा || ८२ ||
मल्लिका मौलिका माला मालाधरमदोत्तमा |
मदनासुन्दरी मेधा मधुमत्ता मधुप्रिया || ८३ ||
मत्तहंसासमोन्नासा मत्तसिंहमहासनी |
महेन्द्रवल्लभा भीमा मौल्यञ्च मिथुनात्मजा || ८४ ||
महाकाल्या महाकाली महाबुद्धिर्महोत्कटा |
माहेश्वरी महामाया महिषासुरघातिनी || ८५ ||
मधुराकीर्त्तिमत्ता च मत्तमातङ्गगामिनी |
मदप्रिया मांसरता मत्तयुक्कामकारिणी || ८६ ||
मैथुन्यवल्लभा देवी महानन्दा मह्वोत्सवा |
मरीचिर्मारतिर्म्माया मनोबुद्धिप्रदायिनी || ८७ ||
मोहा मोक्षा महालक्ष्मीर्म्महत्पदप्रदायिनी |
प्. ३२२) यमरूपा च यमुना जयन्ती च जयप्रदा || ८८ ||
याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी |
रमा रामा रामपत्नी रत्नमाला रतिप्रिया || ८९ ||
रत्नसिंहासनस्था च रत्नाभरणमण्डिता |
रमणी रमणीया च रत्यारसपरायणा || ९० ||
रतानन्दा रतवती रधूणाङ्कुलवर्द्धिनी |
रमणारिपरिभ्राज्या रैधाराधिकरत्नजा || ९१ ||
रावी रसस्वरूपा च रात्रिराजसुखावहा |
ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया || ९२ ||
रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका |
लक्ष्मीर्ल्लज्जा लतिका च लीलालग्नानिताक्षिणी || ९३ ||
लीला लीलावती लोमाहर्षाह्लादनपट्टिका |
ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता || ९४ ||
ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी |
वेदाङ्गना वेदरूपा वनिता विनता वसा || ९५ ||
बाला च युवती वृद्धा ब्रह्मकर्मपरायणा |
विन्ध्यस्था विन्ध्यवासी च बिन्दुयुग्बिन्दुभूषणा || ९६ ||
विद्यावती वेदधारी व्यापिका बर्हिणी कला |
वामाचारप्रिया वह्निर्वामाचारपरायणा || ९७ ||
वामाचाररता देवी वामदेवप्रियोत्तमा |
बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी || ९८ ||
बन्धमोचनकर्त्री च वारुणा वरुणालया |
शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका || ९९ ||
शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा |
शुक्लस्था शुक्लिनी शुक्लरूपशुक्लपशुप्रिया || १०० ||
शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका |
षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी || १०१ ||
षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका |
षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी || १०२ ||
षडानना षड्रसा च षष्ठी षष्ठेश्वरीप्रिया |
षङ्गवादा षोडशी च षोढान्यासस्वरूपिणी || १०३ ||
षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी |
षोडशस्वररूपा च षण्मुखी षड्रदान्विता || १०४ ||
प्. ३२३) सनकादिस्वरूपा च शिवधर्मषरायणा |
सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा || १०५ ||
सिद्धविद्या सिधमाता सिद्धा सिद्धस्वरूपिणी |
हरा हरिप्रिया हारा हरिणी हारयुक् तथा || १०६ ||
हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया |
हेतुप्रिया हेतुरता हिताहितस्वरूपिणी || १०७ ||
क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा |
क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना || १०८ ||
अजानन्ता अपर्णा च अहल्याशेषशायिनी |
स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी || १०९ ||
अरूपा अमला चार्द्धा अनन्तगुणशालिनी |
स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना || ११० ||
अपराजिता जातवेदा अजपा अमरावती |
अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी || १११ ||
अष्टसिद्धिप्रदा देवी रूपलक्षणस/ययुता |
अरविन्दमुखा देवी भोगसौख्यप्रदायिनी || ११२ ||
आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी |
सीत्काररूपिणी देवी सर्वासनविभूषिता || ११३ ||
इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी |
इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा || ११४ ||
ईला कामनिवासा च ईश्वरीश्वरवल्लभा |
जननी चेश्वरी दीना भेदाचेश्वरकर्मकृत् || ११५ ||
उमा कात्यायनी ऊर्द्ध्वा मीना चोत्तरवासिनी |
उमापतिप्रिया देवी शिवा चोङ्काररूपिणी || ११६ ||
उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा |
उद्यानवासिनी माला प्रशस्तमणिभूषणा || ११७ ||
उर्द्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी |
उमासिद्धिप्रदा या च उरगासनसंस्थिता || ११८ ||
ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायिनी |
उत्सवोत्सवसीमन्ता कामिका च गुणान्विता || ११९ ||
एला एकारविद्या च एणीविद्याधरा तथा |
ओंकारवलयोपेता ओंकारपरमा कला || १२० ||
ओंवदवदवाणी च ओंकाराक्षरमण्डिता |
प्. ३२४) ऐन्द्री कुलिशहस्ता च ओंलोकपरवासिनी || १२१ ||
ओंकारमध्यबीजा च ओंनमोरूपधारिणी |
प्रब्रह्मस्वरूपा च अंशुकांशुकवल्लभा || १२२ ||
ओंकारा अःफड्मन्त्रा च अक्षाक्षरविभूषिता |
अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता || १२३ ||
प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः |
ह्रींकाररूपा ह्रींङ्कारी वाग्बीजाक्षरभूषणा || १२४ ||
हृल्लेखा सिद्धि योगा च हृत्पद्मासनस/स्थिता |
बीजाख्या नेत्रहृदया ह्रीम्बीजाभुवनेश्वरी || १२५ ||
क्लींकामराजा क्लिन्ना च चतुर्वर्गफलप्रदा |
क्लींक्लींक्लींरूपिका देवी क्रींक्रींक्रींनामधारिणी || १२६ ||
कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता |
श्रींश्रींकारा महाविद्या श्रद्धा श्रद्धावती तथा || १२७ ||
ओं ऐं क्लींह्रींश्रींपरा च क्लीङ्कारी परमा कला |
ह्रींक्लींश्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा || १२८ ||
सर्वाढ्या सर्वदेवी च सर्वसिद्धिप्रदा तथा |
सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी || १२९ ||
सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी |
गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी || १३० ||
सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी |
सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा || १३१ ||
सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी |
सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी || १३२ ||
मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता |
अकारादि-क्षकारान्ता दुर्गा दुर्गार्त्तिनाशिनी || १३३ ||
पद्मनेत्रा सुनेत्रा च स्वधास्वाहावषट्करी |
स्ववर्गा देववर्गा च तवर्गा च समन्विता || १३४ ||
अन्तस्स्था वेश्मरूपा च नवदुर्गा नरोत्तमा |
तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी || १३५ ||
नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च |
वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च || १३६ ||
मातङ्गी मधुमत्ता च अणिमा लघिमा तथा |
प्. ३२५) सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी || १३७ ||
रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता |
स्वल्पसिद्धिस्सुकल्पा च दिव्यचारणशुक्रभा || १३८ ||
सङ्क्रान्तिस्सर्वविद्या च सस्यवासरभूषिता |
प्रथमा च द्वितीया च तृतीया च चतुर्त्थिका || १३९ ||
पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा |
अष्टमी नवमी चैव दशम्येकादशी तथा || १४० ||
द्वादशी त्रयोदशी च चतुर्द्दश्यथ पूर्णिमा |
आमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा || १४१ ||
खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा |
भुशुण्डी चापिनी बाणा सर्वायुधविभूषणा || १४२ ||
कुलेश्वरी कुलवती कुलाचारपरायणा |
कुलकर्मसुरक्ता च कुलाचारप्रवर्द्धिनी || १४३ ||
कीर्तिश्श्रीश्च रमा रामा धर्मायै सततन्नमः |
क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी || १४४ ||
उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी |
साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च || १४५ ||
काली कराली काल्या च कलादैत्यविनाशिनी |
कौलिनी कालिकी चैव क-च-ट-त-पवर्णिका || १४६ ||
जयिनी जययुक्ता च जयदा जृम्भिनी तथा |
स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी || १४७ ||
ज्योतिर्ब्भूता च जयदा ज्वालामालासमाकुला |
भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी || १४८ ||
अश्विनी भरणी चैव नक्षत्रसम्भवानिला |
काश्यपी विनता ख्याता दितिजादितिरेव च || १४९ ||
कीर्त्तिः कामप्रिया देवी कीर्त्त्या कीर्तिविवर्द्धिनी |
सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा || १५० ||
दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च |
अग्निनैरृतिवायव्या ईशान्यादिक् तथा स्मृता || १५१ ||
ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका |
चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा || १५२ ||
चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा |
प्. ३२६) चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा || १५३ ||
धात्री विधात्री मिथुना नारी नायकवासिनी |
सुरामुदा मुदवती मोदिनी मेनकात्मजा || १५४ ||
ऊर्द्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा |
नील्या सरस्वती सात्वम्बगला छिन्नमस्तका || १५५ ||
सर्वेश्वरी सिद्धविद्या परा परमदेवता |
हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी || १५६ ||
हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा |
जाग्रती च जगन्माता जगदीश्वरवल्लभा || १५७ ||
जनार्द्दनप्रिया देवी जययुक्ता जयप्रदा |
जगदानन्दकरी च जगदाह्लादकारिणी || १५८ ||
ज्ञानदानकरी यज्ञा जानकी जनकप्रिया |
जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा || १५९ ||
विद्याधरा च बिम्बोष्ठी कैलासचलवासिनी |
विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा || १६० ||
मन्त्ररूपा परा देवी तथैव गुरुरूपिणी |
गया गङ्गा गोमती च प्रभासा पुष्करापि च || १६१ ||
विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी |
बहू बहुसुन्दरी च कंसासुरविनाशिनी || १६२ ||
शूलिनी शूलहस्ता च वज्रा वज्रहरापि च |
दूर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया || १६३ ||
सर्वलोकप्रणेत्री च सर्वरोगहरापि च |
मङ्गला शोभना शुद्धा निष्कला परमा कला || १६४ ||
विश्वेश्वरी विश्वमाता ललिता वसितानना |
सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा || १६५ ||
सर्वदेवमयी देवी सर्वागमभयापहा |
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी || १६६ ||
योगिनी योगमाता च योगीन्द्रहृदयस्थिता |
योगिजाया योगवती योगीन्द्रानन्दयोगिनी || १६७ ||
इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया |
विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी || १६८ ||
भववेषा कामिनी च भरुण्डा भयकारिणी |
बलभद्रप्रियाकारा संसारार्णवतारिणी || १६९ ||
प्. ३२७) पञ्चभूता सर्वभूता विभूतिर्ब्भूतिधारिणी |
सिंहवाहा महामोहा मोहपाशविनाशिनी || १७० ||
मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी |
सावित्री च महादेवी परप्रियनिनायिका || १७१ ||
यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा |
चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी || १७२ ||
चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी |
सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा || १७३ ||
महाभोगवती देवी महामोक्षप्रदायिनी |
विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी || १७४ ||
धात्री च सर्वलोकानां हितकारणकामिनी |
कमला सूक्ष्मदा देवी धात्री हरविनाशिनी || १७५ ||
सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च |
परारूपवती देवी त्रैलोक्याकर्षकारिणी || १७६ ||
इति ते कथितन्देवि पीतानाम सहस्रकम् |
पठेद्वा पाठयेद्वापि सर्वसिद्धिर्भवेत्प्रिये || १७७ ||
इति मे विष्णुना प्रोक्तम्महास्तम्भकरम्परम् |
प्रातः काले च मध्याह्ने सन्ध्याकाले च पार्वति || १७८ ||
एकचित्तः पठेदेतत्सर्वसिद्धिर्ब्भविष्यति |
एकवारम्पठेद्यस्तु सर्वपापक्षयो भवेत् || १७९ ||
द्विवारम्प्रपठेद्यस्तु विघ्नेश्वरसमो भवेत् |
त्रिवारम्पठनाद्देवि सर्वं सिद्ध्यति सर्वथा || १८० ||
स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते |
मोक्षार्त्थी लभते मोक्षन्धनार्थी लभते धनम् || १८१ ||
विद्यार्त्थी लभते विद्यान्तर्कव्याकरणान्विताम् |
महित्व/ व्वत्सरान्ताच्च शत्रुहानिः प्रजायते || १८२ ||
क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् |
यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये || १८३ ||
गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः |
गोपनीयम्प्रयत्नेन जननीजारवत्सदा || १८४ ||
हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् |
य इदम्पठते नित्यं शिवेन सदृशो भवेत् || १८५ ||
प्. ३२८) जीवन्धर्मार्त्थभोगी स्यान्मृतो मोक्षपतिर्ब्भवेत् |
सत्यं सत्यम्महादेवि सत्यं सत्यन्न संशयः || १८६ ||
स्तवस्यास्य प्रभावेण देवेन सह मोदते |
सुचित्ताश्च सुरास्सर्वे स्तवराजस्य कीर्त्तनात् || १८७ ||
पीताम्बरपरीधाना पीतगन्धानुलेपना |
परमोदयकीर्त्तिः स्यात्परतस्सुरसुन्दरि || १८८ ||
इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्रे
विष्णुशङ्करस/व्वादे पीताम्बरीसहस्रनामस्तोत्रं समाप्तम् ||
इति शाक्तप्रमोदे बगलामुखीतन्त्रं समाप्तम्
श्रीः
शिवहरराजधानीपतिश्रीराजादेवनन्दनसिंह-
बहादुरनराधिपसंगृहीतविरचित-
शाक्तप्रमोदान्तर्गतं
नवमं
मातङ्गीतन्त्रम्
उक्तराजगुरुवंश्यपण्डितश्रीरघुराजदुबेजीद्वारा
संशोधितम्
तदेतत्
श्रीकृष्णदासात्मज-खेमराजेन
स्वकीये ऽश्रीवेंकटेश्वरऽ यन्त्रालये
मुद्रयित्वा प्रकाशितम्
बोम्ब-ई
श्रीगणेशाय नमः
शाक्तप्रमोदः
अथ मातङ्गीतन्त्रम्
अथ मातङ्गीध्यानम्
श्यामाङ्गीं शशिशेखरान्त्रिनयनां रत्नसिंहासनस्थिताम् |
वेदैर्ब्बाहुदण्डैरसि-खेटक-पाशाङ्कुशधराम् ||
प्. ३३२) अथ यन्त्रोद्धारः
षट्कोणाष्टदलम्पद्म/ल्लिखेद्यन्त्रम्मनोरमम् |
तत्र पूजा प्रकर्त्तव्या जवापुष्पेण मन्त्रवित् ||
अथ मन्त्रोद्धारः
प्रणवञ्च ततो मायाङ्कामबीजञ्च कूर्च्चकम् ||
मातङ्गी ङेयुता चास्त्र/ व्वह्निजायावधिर्म्मनुः ||
अथ मन्त्रः
ओं ह्रीं क्लीं हू/ मातङ्ग्यै फट् स्वाहा ||
अथ पूजाविधिः
अथ वक्ष्ये महादेवीम्मातङ्गीं सर्वसिद्धिदाम् ||
अस्याः पूजनमात्रेण वाक्सिद्धि/ ल्लभते ध्रुवम् ||
प्रणवञ्च ततो मायाङ्कामबीजञ्च कूर्च्चकम् |
मातङ्गी ङेयुता चास्त्र/ वह्निजायावधिर्म्मनुः ||
ऋषिरस्य दक्षिणामूर्त्ति र्विराट् छन्दः प्रकीर्त्तितम् |
मातङ्गीदेवता देवी सर्वसिद्धिप्रदायिनी ||
अङ्गन्यास-करन्यासौ कुर्यान्मन्त्री समाहितः |
षड्दीर्ग्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ||
षट्कोणाष्टदलम्पद्म/ ल्लिखेद्यन्त्रम्मनोरमम् |
तत्र पूजा प्रकर्त्तव्या जवापुष्पेण मन्त्रवित् ||
अष्टशक्तीश्चाष्टदले पूजयेत्सुसमाहितः |
रतिः प्रीतिर्म्मनोभवा क्रिया शुद्धा च शक्तयः ||
अनङ्गकुसुमानङ्गमदना मदनालसा |
प्. ३३३) इत्यष्टशक्तीः सम्पूज्य उपहारसमन्वितः ||
ततो देवीम्परां ध्यायेत्साधकः स्थिरमानसः |
श्यामाङ्गीं शशिशेखरान्त्रिनयनां रत्नसिंहासनस्थिताम् ||
वेदैर्बाहुदण्डैरसिखेटकपाशाङ्कुशवराम् |
एवन्ध्यात्वा महादेवीङ्गन्धपुष्पैर्म्मनोरमैः ||
नैवेद्यन्तु महादेव्यै पायसं शर्करान्वितम् |
पुरश्चरणकाले तु षट्सहस्रं मनुञ्जपेत् ||
तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह |
ब्रह्मवृक्षोद्भवैः काष्ठैः साधकः शक्तिभिः सह ||
एवं पुरस्क्रियां कृत्वा प्रयोगविधिमाचरेत् |
चतुष्पथे श्मशाने वा कलामध्ये च मान्त्रिकः ||
मत्स्यम्मांसम्पायसञ्च दद्याद्धूपञ्च गुग्गुलुम् |
रात्रियोगेन कर्त्तव्यं सदा पूर्णश्च साधकः ||
एवम्प्रयोगमात्रेण कविता जायते ध्रुवम् |
अग्निस्तम्भञ्जलस्तम्भ/ व्वाक्स्तम्भङ्कारयेद्ध्रुवम् ||
मन्त्री जयति शत्रूंश्च तार्क्ष्यो भोगिकुल/ ययथा |
शास्त्रे वादे कवित्वे च बृहस्पतिरिवापरः ||
अनेनैव विधानेन मातङ्गी सिद्धिदायिनी |
नूनन्तद्गृहमागत्य कुबेरैर्दीयते वसु ||
विना मत्स्यैर्विना मांसैर्न्नार्च्चयेत्परदेवताम् ||
इति तन्त्रसारः ||
अथमातङ्गीस्तोत्रम्
ईश्वर उवाच
आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विस्तृतकीर्त्तिमापुः |
अन्ये पर/ वा विभवम्मुनीन्द्राः परां श्रियं भक्तिपरेण चान्ये || १ ||
नमामि देवीन्नवचन्द्रमौलेर्मातङ्गिनीञ्चन्द्रकलावतंसाम् |
आम्नायप्राप्तिप्रतिपादितार्त्थम्प्रबोधयन्तीम्प्रियमादरेण || २ ||
विनम्रदेवस्थिरमौलिरन्तैर्विराजितन्ते चरणारविन्दम् |
अकृत्रिमाणा/ व्वचसा/ विशुक्लम्पदाम्पदं शिक्षितनूपुराभ्याम् || ३ ||
कृतार्त्थयन्तीम्पदवीं पदाभ्यामास्फालयन्तीङ्कलवल्लकीन्ताम् |
मातङ्गिनीं स्द्धृदयान्धिनोमि लीलांशुकां शुद्धनितम्बबिम्बाम् ||
४ ||
तालीदलेनार्पितकर्णभूषाम्माध्वीमदोद्घूर्णितनेत्रपद्माम् |
प्. ३३४) घनस्तनीं शम्भुवधून्नमामि
तडिल्लताकान्तिमनर्ग्घ्यभूषाम् || ५ ||
चिरेण लक्ष्यान्नवलोमराज्यां स्मरामि भक्त्या जगतामधीशे |
बलित्रयाढ्यन्तव मध्यमम्ब नीलोत्पलांशुश्रियमावहन्तीम् || ६ ||
कान्त्या कटाक्षैः कमलाकराणाङ्कदम्बमालाञ्चितकेशपाशाम् |
मातङ्गकन्यां हृदि भावयामि ध्यायेयमारक्तकपोलबिम्बम् || ७ ||
बिम्बाधरन्यस्तललामवश्यमालोललीलालकमायताक्षम् |
मन्दस्मितन्ते वदनम्महेशि स्तुत्यानया शङ्करधर्मपत्नीम् || ८ ||
मातङ्गिनी/ व्वागधिदेवतान्तां स्तुवन्ति ये भक्तियुता मनुष्याः |
परां श्रियन्नित्यमुपाश्रयन्ति परत्र कैलासतले वसन्ति || ९ ||
इति रुद्रयामले मातङ्गीस्तोत्रं समाप्तम् ||
अथ मातङ्गीकवचम्
श्रीदेव्युवाच
साधु साधु महादेव कथयस्व सुरेश्वर |
मातङ्गीकवचन्दिव्यं सर्वसिद्धिकरन्नृणाम् || १ ||
श्री ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् |
गोपनीयम्महादेवि मौनी जापं समाचरेत् || २ ||
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्त्तिरृषिर्विराट् छन्दो मातङ्गी
देवता चतुर्वर्गसिद्धये विनियोगः ||
ओंशिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी |
तोडला कर्णयुगलन्त्रिपुरा वदनम्मम || ३ ||
पातु कण्ठे महामाया हृदि माहेश्वरी तथा |
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम || ४ ||
ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया |
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी || ५ ||
अङ्गम्प्रत्यङ्गकञ्चैव सदा रक्षतु वैष्णवी |
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता || ६ ||
ललाटे रक्षयेन्नित्यम्महापिशाचिनीति च |
नेत्राभ्यां सुमुखी रक्षेद्देवी रक्षतु नासिकाम् || ७ ||
महापिशाचिनी पायान्मुखे रक्षतु सर्वदा |
प्. ३३५) लज्जा रक्षतु मान्दन्ते चोष्ठौ सम्मार्ज्जनीकरी || ८ ||
चिबुके कण्ठदेशे तु चकारत्रितयम्पुनः |
सविसर्गम्महादेवी हृदयम्पातु सर्वदा || ९ ||
नाभिं रक्षतु मा लोला कालिकावतु लोचने |
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा || १० ||
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका |
भुजौ रक्षतु शर्वाणी हृदयञ्चण्डभूषणा || ११ ||
जिह्वायाम्मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका |
विजया दक्षिणे पातु मेधा रक्षतु वारुणे || १२ ||
नैरृत्यां सुदया रक्षेद्वायव्याम्पातु लक्ष्मणा |
ऐशान्या रक्षयेद्देवी मातङ्गी शुभकारिणी || १३ ||
रक्षेत्सुरेशा चाग्नेये बगला पातु चोत्तरे |
ऊर्द्ध्वम्पातु महादेवी देवानां हितकारिणी || १४ ||
पाताले पातु मा नित्य/ व्वशिनी विश्वरूपिणी |
प्रणवञ्च तता माया कामबीजञ्च कूर्च्चकम् || १५ ||
मातङ्गिनी ङेयुतास्त्र/ व्वह्निजायावधिर्म्मनुः |
सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा || १६ ||
इति ते कथितन्देवि गुह्याद्गुह्यतरम्परम् |
त्रैलोक्यमङ्गलन्नाम कवचन्देवदुर्ल्लभम् || १७ ||
य इदम्प्रपठेन्नित्यञ्जायते सम्पदालयम् |
परमैश्वर्यमतुलम्प्राप्नुयान्नात्र संशयः || १८ ||
गुरुमभ्यर्च्च्य विधिवत्कवचम्प्रपठेद्यदि |
ऐश्वर्यं सुकवित्वञ्च वाक्सिद्धि/ ल्लभते ध्रुवम् || १९ ||
नित्यन्तस्य तु मातङ्गी महिला मङ्गलञ्चरेत् |
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः || २० ||
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः |
तन्दृष्ट्वा साधकन्देवि लज्जायुक्ता भवन्ति ते || २१ ||
कवचन्धारयेद्यस्तु सर्वसिद्धि/ल्लभेद्ध्रुवम् |
राजानोऽपि च दासत्वं षट्कर्माणि च साधयेत् || २२ ||
सिद्धो भवति सर्वत्र किमन्यैर्बहु भाषितैः |
इदं कवचमज्ञात्वा मातङ्गी/ ययो भजेन्नरः || २३ ||
अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः |
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः || २४ ||
प्. ३३६) तस्मै मातङ्गिनी देवीं सर्वसिद्धिम्प्रयच्छति || २५ ||
इति नन्द्यावर्त्ते उत्तरखण्डे त्वरितफलदायिनीमातङ्गिनीकवचं
समाप्तम् ||
अथ हृदयम्
एकदा कौतुकाविष्टा भैरवं भूतसेवितम् |
भैरवी परिपप्रच्छ सर्वभूतहिते रता || १ ||
श्रीभैरव्युवाच
भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन |
अहं वेदितुमिच्छामि सर्वभूतोपकारकम् || २ ||
केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च |
सर्वथा श्रेयसाम्प्राप्तिर्ब्भूतानाम्भूतिमिच्छताम् || ३ ||
श्रीभैरव उवाच
शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये |
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् || ४ ||
पठतां शृण्वतान्नित्यं सर्वसम्पत्तिदायकम् |
विद्यैश्वर्यसुखावाप्ति-मङ्गलप्रदमुत्तमम् || ५ ||
मातङ्ग्या हृदयस्तोत्रं दुःखदारिद्र्यभञ्जनम् |
मङ्गलम्मङ्गलानाञ्च अस्तिसर्वसुखप्रदम् || ६ ||
ओं अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिर्विराट् छन्दो
मातङ्गी देवता ह्रींबीजं हू/शक्तिः क्लींकीलकं
सर्ववाञ्छितार्त्थसिद्धये पाठे विनियोगः ||
अथाङ्गन्यासः
ओं ह्रींहृदयायनमः, ओंक्लींशिरसेस्वाहा, ओंहू/शिखायैवषट्,
ओंह्रींनेत्रत्रयायवौषट्, ओंक्लींकवचायहूम्, ओंहू/अस्त्रायफट् ||
एवं करन्यासः
अथ ध्यानम्
श्यामां शुभ्रांशुभालान्त्रिकमलनयनां
रत्नसिंहासनस्थाम्भक्ताभीष्टप्रदात्रीं
सुरनिकरकरासेव्यकञ्जाङ्घ्रियुग्माम् |
नीलाम्भोजांशुकान्तिन्निशिचरनिकरारण्यदावाग्निरूपाम्पाशङ्ख.
द्गञ्चतुर्ब्भिर्वरकमलकरैः खेटकञ्चाङ्कुशञ्च ||
मातङ्गीमावहन्तीमभिमतफलदाम्मोदिनीञ्चिन्तयामि || ७ ||
नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमताम्परश्रेयोदायै
कमलचरणध्यानमनसाम् ||
सदा संसेव्यायै सदसि विबुधैर्द्दिव्यधिषणैर्द्दयार्द्रायै देव्यै
दुरितदलनोद्दण्डमनसे || ८ ||
प्. ३३७) परम्मातस्ते यो जपति मनुमेवोग्रहृदयः
कवित्वङ्कल्पानाङ्कलयति सुकल्पः प्रतिपदम् |
अपि प्रायोरम्यामृतमयपदा तस्य ललितानटीम्मन्या वाणी नटति
रसनायाञ्चपलिता || ९ ||
तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं सदा मन्त्रम्मातर्न्नहि
भवति तेषाम्परिभवः |
कदम्बानाम्माल्यैश्शिर अपि च युञ्जन्ति यदि ये भवन्ति प्रायस्ते
युवतिजनयूथस्ववशगाः || १० ||
सरोजैस्साहस्रैस्सरसिजपदद्वन्द्वमपि ये सहस्रन्नामोक्त्वा तदपि तव
ङेऽन्तम्मनुमितम् |
पृथङ्नाम्ना तेनायुतकलितमर्च्चन्ति प्रसुते सदा
देवव्रातप्रणमितपदाम्भोजयुगला || ११ ||
तव प्रीत्यै मातर्द्ददति बलिमाधाय बलिना समत्स्यम्मांस/ व्वा
सुरुचिरसितं राजरुचितम् |
सुपुण्या ये स्वान्तस्तव चरणप्रेमैकरसिका
अहोभाग्यन्तेषान्त्रिभुवनमलं वश्यमखिलम् || १२ ||
लसल्लोलश्रोत्राभरणकिरणक्रांतिकलितम्मितस्मित्यापन्नप्रतिभितममन्
नं विकरितम् |
मुखाम्भोजम्मातस्तव परिलुठद्भ्रूमधुकरं रमा ये ध्यायन्ति
त्यजति नहि तेषां सुभवनम् || १३ ||
परः श्रीमातङ्ग्या जपति हृदयाख्यस्सुमनसामयं
सेव्यस्सद्योभिमतफलदश्चातिललितः |
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनिशन्न तेषान्दुःप्राप्यञ्जगति
यदलभ्यन्दिविषदाम् || १४ ||
धनार्थी धनमाप्नोति दारार्त्थी सुन्दरीम्प्रियाम् |
सुतार्त्थी लभते पुत्रं स्तवस्यास्य प्रकीर्त्तनात् || १५ ||
विद्यार्त्थी लभते विद्या/ व्विविधा/ व्विभवप्रदाम् |
जयार्त्थीं पठनादस्य जयम्प्राप्नोति निश्चितम् || १६ ||
नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितम् |
कुबेरसमसम्पत्तिः स भवेद्धृदयम्पठन् || १७ ||
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः |
मातङ्गीहृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात् || १८ ||
इति श्रीदक्षिणामूर्त्तिसंहितायां श्रीमातङ्गीहृदयस्तोत्रं
समाप्तम् ||
प्. ३३८) अथ शतनामस्तोत्रम्
श्रीभैरव्युवाच
भगवञ्छ्रोतुमिच्छामि मातङ्ग्याः शतनामकम् |
यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् || १ ||
श्रीभैरव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् |
नाख्येय/ ययत्र कुत्रापि पठनीयम्परात्परम् || २ ||
यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः |
नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् || ३ ||
प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः |
सहस्रनामपठने यत्फलम्परिकीर्त्तितम् |
तत्कोटिगुणितन्देवी नामाष्टशतकं शुभम् |
अस्य श्रीमातंगीशतनाम्नाम्भगवान्मतङ्ग ऋषिरनुष्टुप्छन्दो
मातंगी देवता मातंगीप्रीतये जपे विनियोगः ||
महामत्तमातंगिनी सिद्धिरूपा तथा योगिनी भद्रकाली रमा च |
भवानी भयप्रीतिदा भूतियुक्ता भवाराधिता भूतिसम्पत्करी च ||
जनाधीशमाता घनागारदृष्टिर्द्धनेशार्च्चिता धीरवापी वरांगी |
प्रकृष्टा प्रभारूपिणी कामरूपा प्रहृष्टा महाकीर्त्तिदा कर्णनाली
||
काली भगाघोररूपा भगाङ्गी भगाह्वा भगप्रीतिदा भीमरूपा |
भवानी महाकौशिकी कोशपूर्णा किशोरी किशोरप्रियानन्द-ईहा ||
महाकारणा कारणा कर्मशीला कपाली प्रसिद्धा महासिद्धखण्डा
|
मकारप्रिया मानरूपा महेशी महोल्लासिनी लास्यलीलालयाङ्गी ||
क्षमा क्षेमशीला क्षपाकारिणी चाक्षयप्रीतिदा भूतियुक्ता भवानी |
भवाराधिता भूतिसत्यात्मिका च प्रभोद्भासिता भानुभास्वत्करा च
||
धराधीशमाता धनागारदृष्टिर्द्धनेशार्च्चिता धीवरा
धीवरांगी |
प्रकृष्टा प्रभारूपिणी प्राणरूपा प्रकृष्टस्वरूपा स्वरूपप्रिया च
||
चलत्कुण्डला कामिनी कान्तयुक्ता कपालाचला कालकोद्धारिणी च |
कदम्बप्रिया कोटरी कोटदेहा क्रमा कीर्त्तिदा कर्णरूपा च काक्ष्मी ||
क्षमांगी क्षयप्रेमरूपा क्षपा च क्षयाक्षा क्षयाह्वा
क्षयप्रान्तरा च |
क्षवत्कामिनी क्षारिणी क्षीरपूषा शिवांगी च शाकम्भरी
शाकदेहा ||
प्. ३३९) महाशाकयज्ञा फलप्राशका च शकाह्वा
शकाह्वाशकाख्या शका च |
शकाक्षान्तरोषा सुरोषा सुरेखा माहाशेषयज्ञोपवीतप्रिया च ||
जयन्ती जया जाग्रती योग्यरूपा जयाङ्गा जपध्यानसन्तुष्टसञ्ज्ञा |
जयप्राणरूपा जयस्वर्णदेहा जयज्वालिनी यामिनी याम्यरूपा ||
जगन्मातृरूपा जगद्रक्षणा च स्वधा वौषडन्ता विलम्बाविलम्बा |
षडङ्गा महालम्बरूपासिहस्तापदा हारिणी हारिणी हारिणी च ||
महामङ्गला मङ्गलप्रेमकीर्त्तिर्निशुम्भक्षिदा शुम्भदर्पत्वहा च
|
तथा नन्दबीजादिमुक्तस्वरूपा तथा चण्डमुण्डापदा मुख्यचण्डा
||
प्रचण्डाप्रचण्डा महाचण्डवेगा चलच्चामरा चामराचन्द्रकीर्तिः |
सुचामीकरा चित्रभूषोज्ज्वलाङ्गी सुसङ्गीतगीतञ्च पायादपायात् ||
इति ते कथितन्देवि नाम्नामष्टोत्तरं शतम् |
गोप्यञ्च सर्वतन्त्रेषु गोपनीयञ्च सर्वदा |
एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः |
त्रिसन्ध्यञ्च महाभक्त्या पठनीयं सुखोदयम् ||
न तस्य दुष्करङ्किञ्चिज्जायते स्पर्श्श्शतः क्षणात् |
स्वकृत/ ययत्तदेवाप्तन्तस्मादावर्त्तयेत्सदा ||
सदैव सन्निधौ तस्य देवी वसति सादरम् |
अयोगा ये तव एवाग्रे सुयोगाश्च भवन्ति वै ||
त एव मित्रभूताश्च भवंति तत्प्रसादतः |
विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ||
लूताविस्फोटकास्सर्वे शम/ ययांति च तत्क्षणात् |
जरापलितनिर्मुक्तः कल्पजीव भवेन्नरः ||
अपि किम्बहुनोक्तेन सान्निध्यम्फलमाप्नुयात् |
यावन्मया पुरा प्रोक्तम्फलं साहस्रनामकम् ||
तत्सर्वं ल्लभते मर्त्त्यो महामायाप्रसादतः |
इति श्रीरुद्रयामले मातङ्गीशतनामस्तोत्रं सम्पूर्णम् ||
अथ सहस्रनाम
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि साम्प्रतन्तत्त्वतः परम् |
प्. ३४०) नाम्नां सहस्रम्परमं सुमुख्याः सिद्धये हितम् ||
सहस्रनामपाठी यः सर्वत्र विजयी भवेत् |
पराभवो न तस्यास्ति सभाया/ व्वा महारणे ||
यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः |
तथा भवति देवेशि साधकः शिव एव सः ||
अश्वमेधसहस्राणि वाजपेयस्य कोटयः |
सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ||
मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता |
सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ||
एवन्ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः |
देवीं षोडशवार्षिकीं शवगताम्माध्वीरसाघूर्णितां
श्यामाङ्गीमरुणाम्बराम्पृथुकुचाङ्गुञ्जावलीशोभिताम् |
हस्ताभ्यान्दधतीङ्कपालममलन्तीक्ष्णान्तथा
कर्त्त्रिकान्ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ||
ओं सुमुखी शेमुषीसेव्या सुरसा शशिशेखरा |
समानास्या साधनी च समस्तसुरसन्मुखी ||
सर्वसम्पत्तिजननी सम्मदा सिन्धुसेविनी |
शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ||
सारङ्गा सवली वेलालावण्यवनमालिनी |
वनजाक्षी वनचरी वनी वनविनोदिनी ||
वेगिनी वेगदा वेगा बगलस्था बलाधिका |
काली कालप्रिया केली कमला कालकामिनी ||
कमला कमलस्था च कमलस्थाकलावती |
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ||
कीराकेलिकरा काली कपालिन्यपि कालिका |
केशिनी च कुशावर्त्ता कौशाम्भी केशवप्रिया ||
काली काशी महाकालसङ्काशा केशदायिनी |
कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ||
कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्द्धिनी |
कुण्डप्रिया कुण्डरुचिः कुरङ्गनयना कुला ||
कुन्दबिम्बालिनदनी कुसुम्भकुसुमाकरा |
काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ||
कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि |
कपर्द्दिनी कपटिनी कठिनी कलकण्डिनी ||
कीरहस्ता कुमारी च कुरूढकुसुमप्रिया |
प्. ३४१) कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ||
कुम्भीकाङ्गा करभोरूः कदली कुशशायिनी |
कुपिता कोटरस्था च कङ्काली कन्दलालया ||
कपालवासिनी केशी कम्पमानशिरोरुहा |
कदम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ||
कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया |
कात्यायनी कृत्तिका च कार्त्तिकी कुशवर्त्तिनी ||
कामपत्नी कामदात्री कामेशी कामवन्दिता |
कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ||
खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा |
खरगा खरनादा च खरस्था खेलनप्रिया ||
खरांशुः खेलनी खट्वाखराखट्वाङ्गधारिणी|
खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ||
खण्डप्रिया खण्डखाद्या खण्ढसिन्धुश्च खण्डिनी |
गङ्गा गोदावरी गौरी गोतम्यपि च गौतमी ||
गङ्गा गया गगनगा गारुडी गरुडध्वजा |
गीता गीतप्रिया गेया गुणप्रीतिर्ग्गुरुर्गिरी |
गौर्गौरी गण्डसदना गोकुला गोःप्रतारिणी |
गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ||
गजगा गोपिनी गोपी गोक्षाजयप्रिया गणा |
गिरिभूपालदुहिता गोगा गोकुलवासिनी ||
घनस्तनी घनरुचिर्ग्घनोरुग्घननिस्स्वना |
घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ||
घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी |
घोररूपा च घोरा च घृतप्रीतिर्ग्घृताञ्जनी ||
घृताची घृतवृष्टिश्च घण्टा घटघटावृता |
घटस्था घटना घातकरी घातनिवारिणी ||
चञ्चरीकी चकोरी च च चामुण्डा चीरधारिणी |
चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ||
चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः |
चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ||
चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया |
चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ||
चिरञ्जीविनी तच्चिन्ता चिञ्चामूलनिवासिनी |
छूरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ||
प्. ३४२) छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरनिभस्वना |
छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ||
छद्मिनी छान्दसी छाया छरू छन्दाकरीत्यपि |
जयदा जयदा जाती जायिनी जामला जतुः ||
जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया |
जवापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ||
जगज्जन्तुप्रधाना च जगज्जीवपराजवा |
जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ||
जन्या जनहिता जाया जन्मभूर्ज्जम्भसी जभूः |
जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ||
जपा च जपती जप्या जपाहा जायिनी जना |
जालन्धरमयीजानुर्ज्जालौका जाप्यभूषणा ||
जगज्जीवमयीजीवा जरत्कारुर्ज्जनप्रिया |
जगती जननिरता जगच्छोभाकरी जवा ||
जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी |
जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ||
जीमूतवाहनरुचिर्ज्जीमूता जीर्णवस्त्रकृत् |
जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ||
जगत्क्षोभकरी जातिर्ज्जगत्क्षोभविनाशिनी |
जनापवादा जीवा च जननीगृहवासिनी ||
जनानुरागा जानुस्था जलवासा जलार्त्तिकृत् |
जलजा जलवेला च जलचक्रनिवासिनी ||
जलमुक्ता जलारोहा जलजा जलजेक्षणा |
जलप्रिया जलौका च जलांशोभवती तथा ||
जलविस्फूर्ज्जितवपुर्ज्ज्वलत्पावकशोभिनी |
झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ||
झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी |
टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ||
टङ्कारोट्टकृतष्ठीवा डिण्डीरवसनावृता |
डाकिनी डामिरी चैव डिण्डिमध्वनिनादिनी ||
डकारनिस्स्वनरुचिस्तपिनी तापिनी तथा |
तरुणी तुन्दिला तुन्दा तामसी च तमः प्रिया ||
ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा |
तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ||
तुदिनी तुनिनी तुम्बा तुल्यकाला तुलाश्रया |
प्. ३४३) तुमुला तुलजा तुल्या तुलादानकरी तथा ||
तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी |
ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ||
त्वरिता ज्वरहा तीरा तारकेशी तमालिनी |
तमोदानवती तामतालस्थानवती तमी |
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा |
तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ||
तिलोत्तमा च तिलकृत्तारकाधीशशेखरा |
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ||
स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्द्धिनी |
स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ||
स्थूलस्थलवती स्थाली स्थलसङ्गविवर्द्धिनी |
दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ||
देवा देववधूर्द्दित्या दामिनी देवभूषणा |
दया दमवती दीनवत्सला दाडिमस्तनी ||
देवमूर्त्तिकरा दैत्यादारिणी देवतानता |
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ||
दशादीपस्थिता दोषादोषहा दोषकारिणी |
दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी |
दुर्गन्धनाशिनी दुस्स्था दुःखप्रशमकारिणी |
दुर्ग्गन्धा दुन्दुभीध्वान्ता दूरस्था दूरवासिनी ||
दरदामरदात्री च दुर्व्व्याधदयिता दमी |
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ||
धीरारवा धरित्री च धर्मदा धीरमानसा |
धनुर्द्धरा च धमनी धमनीधूर्त्तविग्रहा ||
धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी |
नन्दिनी नन्दिनीनन्दा नन्दिनीइनन्दबालिका ||
नवीना नर्मदा नर्मनेमिर्न्नियमनिस्स्वना |
निर्मला निगमाधारा निम्नगा नग्नकामिनी ||
नीला निरत्ना निर्वाणा निर्ल्लोभा निर्गुणा नतिः |
नीलग्रीवा निरीहा च निरञ्जनजमानवा ||
निर्गुण्डिका च निर्गुण्डा निर्न्नासा नासिकाभिधा |
पताकिनी पताका च पत्रप्रीतिः पयस्विनी ||
पीना पीनस्तनी पत्नी पवनाशी निशामयी |
परापरपराकाली पारकृत्यभुजप्रिया ||
प्. ३४४) पवनस्था च पवना पवनप्रीतिवर्द्धिनी |
पशुवृद्धिकरी पुष्पी पोषका पुष्टिवर्द्धिनी ||
पुष्पिणी पुस्तककरा पूर्णिमातलवासिनी |
पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ||
पटुः पराशा परशुधारिणी पाशिनी तथा |
पापघ्नी पतिपत्नी च पतिता पतितापती ||
पिशाची च पिशाचघ्नी पिशिताशनतोषिणी |
पानदा पानपात्री च पानदानकरोद्यता ||
पेयाप्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा |
पतङ्गाभा पतङ्गा च पौनःपुन्यपिबापरा ||
पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता |
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमाप्रिया ||
पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना |
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ||
प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा |
फलिनी फलदात्री च फलश्रीः फलभूषणा ||
फूत्कारकारिणी रफारी फुल्ला फुल्लाम्बुजानना |
स्फुलिंगहा स्फीतमतिः स्फीतकीर्त्तिकरी तथा ||
बालमाया बलारातिर्ब्बलिनी बलवर्द्धिनी |
वेणुवाद्या वनचरी विरञ्चिजनयत्यपि ||
विद्याप्रदा महाविद्या बोधिनी बोधदायिनी |
बुद्धमाता च बुद्धा च वनमालावती वरा ||
वरदा वारुणी वीणा वीणावादनतत्परा |
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ||
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता |
विद्यौघविह्वला वेला वित्तदा विगतज्वरा ||
विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला |
विन्ध्यस्था परवन्द्या च वीरस्थानवरा च वित् ||
वेदान्तवेद्या विजया विजयाविजयप्रदा |
विरोगी वन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ||
भगिनी भगमाला च भवानी भवनाशिनी |
भीमा भीमानना भीमाभङ्गुरा भीमदर्शना ||
भिल्ली भिल्लधरा भीरुर्ब्भरुण्डाभी भयावहा |
भगसर्पिण्यपि भगा भगरूपा भगालया ||
भगासना भवाभोगा भेरीझङ्काररञ्जिता |
प्. ३४५) भीषणा भीषणारावा वभगत्यहिभूषणा ||
भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा |
भूमिदाभूमिदात्री च भूपतिर्ब्भरदायिनी ||
भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता |
माता मनोहरा माया मानिनी मोहिनी मही ||
महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया |
मदोद्धता मतङ्गस्था माधवी मधुमर्द्दिनी ||
मोदा मोदकरी मेधा मेध्यामध्याधिपस्थिता |
मद्यपा मांसलोभस्था मोदिनी मैथुनोद्यता ||
मूर्द्धावती महामाया माया महिममन्दिरा |
महामाला महाविद्या महामारी महेश्वरी ||
महादेववधूमान्या मथुरा मेरुमण्डिता |
मेदस्विनी मिलिन्दाक्षी महिषासुरमर्द्दिनी ||
मण्डलस्था भगस्था च मदिरारागगर्विता |
मोक्षदा मुण्डमाला च माला मालाविलासिनी ||
मातङ्गिनी च मातङ्गी मातङ्गतनयापि च |
मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ||
यामिनी यामिनीनाथभूषा यावकरञ्जिता |
यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ||
यमघ्नी यमकल्पा च यजमानस्वरूपिणी |
यज्ञा यज्ञयजुर्यक्षी यशोनिः कम्पकाकारिणी ||
यक्षिणी यक्षजननी यशोदायासधारिणी |
यशस्सूत्रप्रदा यामा यज्ञकर्मकरीत्यपि ||
यशस्विनी यकारस्था भूयस्तम्भनिवासिनी |
रञ्जिता राजपत्नी च रमा रेखा रवी रणा ||
रजोवती रजश्चित्रा रञ्जनी रजनीपतिः |
रोगिणी रजनी राज्ञा राज्यदा राज्यवर्द्धिनी ||
राजन्वती राजनीतिस्तथा रजतवासिनी |
रमणीरमणीया च रामा रामावती रतिः |
रेतो रती रतोत्साहा रोगघ्नी रोगकारिणी |
रङ्गा रङ्गवती रागा रागा रागज्ञा रागकृद्दया ||
रामिका रजकी रेवा रजनी रङ्गलोचना |
रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ||
रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया |
रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ||
प्.३४६) रोधकृद्रोगहन्त्री च रूपभृद्रोगस्राविणी |
बन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ||
वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा |
विकोपा विकपाला च विङ्कस्था विङ्कवत्सला ||
वेदैर्विलग्नलग्ना च विधिविङ्ककरी विधा |
शङ्खिनी शङ्खवलया शङ्खमालावती शमी ||
शङ्खपात्रा शिनी शङ्खस्वनशङ्खगला शशी |
शबरी शम्बरी शम्भुः शम्भुकेशा शरासिनी ||
शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना |
श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ||
शमदा शमहन्त्री च शङ्खिनी शङ्खरोषरा |
शान्तिश्शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ||
शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी |
शापदा शापहा शापाशापपन्था सदाशिवा ||
शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी शिवा |
शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ||
शाविनी शवशिंशाश्रीः शवा च शमशायिनी |
शवकुण्डलिनी शैवाशीकरा शिशिराशिना ||
शवकाञ्ची शवश्रीका शबमाला शवाकृतिः |
सवन्ती सङ्कुचा शक्तिश्शन्तनुश्शवदायिनी ||
सिन्धुस्सरस्वती सिन्धुस्सुन्दरी सुन्दरानना |
साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ||
सन्ततिस्सम्पदा स/व्वच्छङ्किसम्पत्तिदायिनी |
सपत्नी सरसा सारा सारस्वतकरी सुधा ||
सुरासमांसाशना च समाराध्या समस्तदा |
समधीस्सामदा सीमा सम्मोहा समदर्शना ||
सामतिस्सामधा सीमा सावित्री सविधा सती |
सवना सवनासारा सवरा सावरा समी ||
सिमरा सतता साध्वी सध्रीची ससहायिनी |
हंसी हंसगतिहंसी हंसोज्ज्वलनिचोलयुक् ||
हलिनी हालिनी हाला हलश्रीर्हरवल्लभा |
हला हलवती ह्येषा हेला हर्षविवर्द्धिनी ||
हन्तिर्हन्ता हयाहाहाहताहन्तातिकारिणी |
हङ्कारी हंकृतिर्हङ्का हीहीहाहाहिताहिता ||
हीतिर्हेमप्रदा हाराराविणी हरिरसम्मता |
प्. ३४७) होरा होत्री होलिका च होमा होमहविर्हविः ||
हरिणी हरिणीनेत्रा हिमाचलनिवासिनी |
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ||
लीला लीलावती लोला ललना ललिता लता |
ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ||
लपत्नी लपती लम्पा लोपामुद्रा ललन्तिका |
लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ||
लघीयसी लघूदर्या लूता लूताविनाशिनी |
लोमशा लोमलम्बी च लुलन्ती च लुलुम्पती ||
लुलायस्था बलहरी लङ्कापुरपुरन्दरा |
लक्ष्मीर्ल्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ||
क्षणा क्षणक्षुक्षुक्षिणी क्षमाक्षान्तिः क्षमावती |
क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गणा ||
क्षया क्षायाकरी क्षीरा क्षीरदा क्षीरसागरा |
क्षेमङ्करी क्षयकरी क्षयकृत्क्षणदा क्षतिः ||
क्षुद्रिका क्षुद्रिकाक्षुद्रा क्षुत्क्षमा क्षीणपातका |
मातुः सहस्रनामेदं सुमुख्यास्सिद्धिदायकम् ||
यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः |
अनाचारात्पठेन्नित्यन्दरिद्रो धनवान्भवेत् ||
मूकस्स्याद्वाक्पतिर्देवि रोगी नीरोगता/ व्व्रजेत् |
पुत्रार्त्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ||
वन्ध्यापि सूयते पुत्र/ व्विदुषस्सदृशङ्गुरोः |
सत्यञ्च बहुधा भूयाद्गावश्च बहुदुग्धदाः ||
राजानः पादनम्रास्स्युस्तस्य हासा इव स्फुटाः |
अरयस्सङ्क्षय/ ययांति मानसा संस्मृता अपि ||
दर्शनादेव जायन्ते नरा नार्योपि तद्वशाः |
कर्त्ता हर्त्ता स्वय/ वीरो जायते नात्र संशयः ||
य/ ययङ्कामयते कामन्तन्तमाप्नोति निश्चितम् |
दुरितन्न च तस्यास्ति नास्ति शोकः कथञ्चन ||
चतुष्पथेऽर्द्धरात्रे च यः पठेत्साधकोत्तमः |
एकाकी निर्ब्भयो वीरो दशावर्त्तस्तवोत्तमम् ||
मनसा चिन्तितङ्कार्यं तस्य सिद्धिर्न्न संशयः |
विना सहस्रनाम्ना/ ययो जपेन्मन्त्रङ्कदाचन ||
न सिद्धिर्ज्जायते तस्य मन्त्रङ्कल्पशतैरपि |
प्. ३४८) कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ||
कृतकृत्यस्स जायेत कर्त्ता हर्त्ता नृणामिह |
रोगार्त्तोऽर्द्धनिशाया/ ययः पठेदासनसंस्थितः ||
सद्यो नीरोगतामेति यदि स्यान्निर्ब्भयस्तदा |
अर्द्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् |
अष्टोत्तरसहस्रन्तु दशवारञ्जपेत्ततः |
सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ||
महापवनरूपेण घोरगोमायुनादिनी |
ततो यदि न भीतिः स्यात्तदा देहीतिवाग्भवेत् ||
तदा पशुबलिन्दद्यात्स्वयं गृह्णाति चण्डिका |
यथेष्टञ्च वरन्दत्त्वा प्रयाति सुमुखी शिवा ||
रोचनागुरुकस्तूरीकर्प्पूरैश्च सचन्दनैः |
कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्ज्जपत्रके ||
शुभनक्षत्रयोगे च कृतमारुतसक्रियः |
कृत्वा सम्पातनविधिन्धारयेद्दक्षिणे करे ||
सहस्रनाम स्वर्णस्थङ्कण्ठे वा विजितेन्द्रियः |
तदायम्प्रणमेन्मन्त्री क्रुद्धस्स म्रियते नरः ||
दुष्टश्वापदजन्तूनान्न भीः कुत्रापि जायते |
बालकानामियं रक्षा गर्ब्भिणीनामपि प्रिये ||
मोहनस्तम्भनाकर्ष-मारणोच्चाटनानि च |
यन्त्रधारणतो नूनञ्जायन्ते साधकस्य तु ||
नीलवस्त्रे विलिखिते ध्वजाया/ ययदि तिष्ठति |
तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ||
एतज्जप्तम्महाभस्म ललाटे यदि धारयेत् |
तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ||
राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः |
एतज्जप्तम्पिबेत्तोयम्मासेन स्यान्महाकविः ||
पण्डितश्च महावादी जायते नात्र संशयः |
अयुतञ्च पठेत्स्तोत्रम्पुरश्चरणसिद्धये ||
दशांशङ्कमलैर्हुत्वा त्रिमध्वाक्तैर्विधानतः |
स्वयमायाति कमला वाण्या सह तदालये ||
मन्त्रो निःकीलतामेति सुमुखी सुमुखी भवेत् |
अनन्तञ्च भवेत्पुण्यमपुण्यञ्च क्षय/ व्व्रजेत् ||
पुष्करादिषु तीर्त्थेषु स्नानतो यत्फलम्भवेत् |
तत्फल/ ल्लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ||
प्. ३४९) एतदुक्तं रहस्यन्ते स्वसर्वस्व/ व्वरानने |
न प्रकाश्यन्त्वया देवि यदि सिद्धिञ्च विन्दसि ||
प्रकाशनादसिद्धिस्स्यात्कुपिता सुमुखी भवेत् |
नातः परतरो लोके सिद्धिदः प्राणिनामिह ||
वन्दे श्रीसुमुखीम्प्रसन्नवदनाम्पूर्णेन्दुबिम्बाननां
सिन्दूराङ्कितमस्तकाम्मधुमदोल्लोलाञ्च मुक्तावलीम् |
श्यामाङ्कञ्जलिकाकराङ्करगतञ्चाध्यापयन्तीं
शुकङ्गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ||
इति श्रीनन्द्यावर्त्ततन्त्रे उत्तरखण्डे मातङ्गीसहस्रनामस्तोत्रं
संपूर्णम् ||
इति शाक्तप्रमोदे मातङ्गीतन्त्रं समाप्तम् ||
Abschluss und Weiterführung
Mit Mātaṅgī endet dieser erste Devanagari-Teil. Die Fortsetzung beginnt in Teil 2 mit Kamalātmikā. Wer zwischen Schrift und Umschrift vergleichen möchte, findet die zugehörigen IAST-Passagen im Hauptartikel und in Shakta Pramoda Teil 2.
Eine ruhige Lektüre kann das Bewusstsein für die genaue Gestalt der Sanskritwörter vertiefen. Für die praktische Zuordnung von Rezitation und Handlung helfen die Kālī- und Tārā-Anleitungen sowie Mātaṅgīs Blütenverehrung.
Textausgabe: Hauptartikel: Kālī bis Chinnamastā · Textteil 2: Bhairavī bis Kamalā · Textteil 3: Kumārī bis Viṣṇu
Sanskrit in Devanagari: Devanagari 1: Kālī bis Mātaṅgī · Devanagari 2: Kamalā bis Viṣṇu
Praxisanleitungen: Rituale 1: Kālī und Tārā · Rituale 2: Kamalā und Mātaṅgī · Rituale 3: Gaṇeśa, Śiva und Durgā
Alle Artikel der Kategorie Shakti Pramoda
Textgrundlage
Grundlage der Textausgabe ist die elektronische Muktabodha-Fassung M00054 des Śāktapramoda. Das überlieferte Titelblatt nennt Rāja Devanandanasiṃha als Zusammensteller sowie Khemarāja Śrīkṛṣṇadāsa und die Śrīveṅkaṭeśvara Press in Bombay. Die Datumszeile lautet 1892, Saṃvat 1949; 1949 ist hier die Jahresangabe der Saṃvat-Zählung und kein ausgewiesenes christliches Nachdruckjahr. Die Sanskritfassungen bewahren die vorliegenden Lesungen einschließlich ihrer erkennbaren Textprobleme. Die Ritualartikel erläutern gesondert, wo sie Schreibungen für die Rezitation normalisieren oder den Ablauf kürzen.