Paramarthasara Sanskrit Devanagari
Paramarthasara Sanskrit Devanagari enthält den vollständigen Grundtext von Abhinavaguptas Paramarthasara mit 105 Strophen, der vorangestellten Verehrung und dem Abschlussvermerk. Der zusammenhängende Text lädt dazu ein, Klang und Sinn der Schrift im Studium und in der Meditation zu vertiefen.
Die Devanagari-Fassung ist eine automatische Transliteration derselben revidierten Sanskritgrundlage wie im Hauptartikel. Die Strophenzählung steht in Devanagari-Ziffern. Die beiden unnummerierten Rahmentexte erhalten keine erfundenen Versnummern. Yogarajas Prosakommentar ist nicht Teil dieser Ausgabe.
Weitere Seiten zum Paramarthasara: Vollständiger Sanskrittext mit deutscher Übersetzung · 98 Verse für die spirituelle Praxis und Rezitationstexte.
Sanskrittext
ओं नमश्चिदात्मपरमार्थवपुषे ॥
परं परस्थं गहनादनादिमेकं निविष्टं बहुधा गुहासु ।
सर्वालयं सर्वचराचरस्थं त्वामेव शंभुं शरणं प्रपद्ये ॥ १ ॥
गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः ।
आधारं भगवन्तं शिष्यः पप्रच्छ परमार्थम् ॥ २ ॥
आधारकारिकाभिस्तं गुरुरभिभाषते स्म तत्सारम् ।
कथयत्यभिनवगुप्तः शिवशासनदृष्टियोगेन ॥ ३ ॥
निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन ।
शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ॥ ४ ॥
तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसंतानम् ।
भोक्ता च तत्र देही शिव एव गृहीतपशुभावः ॥ ५ ॥
नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः ।
सुरमानुषपशुपादपरूपत्वं तद्वदीशो ऽपि ॥ ६ ॥
गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति ।
तनुकरणभुवनवर्गे तथायमात्मा महेशानः ॥ ७ ॥
राहुरदृश्यो ऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् ।
सर्वगतो ऽप्ययमात्मा विषयाश्रयणेन धीमुकुरे ॥ ८ ॥
आदर्शे मलरहिते यद्वद्वदनं विभाति तद्वदयम् ।
शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः ॥ ९ ॥
भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् ।
इच्छासंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णम् ॥ १० ॥
सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् ।
यत्परतत्त्वं तस्मिन्विभाति षट्त्रिंशदात्म जगत् ॥ ११ ॥
दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि ।
भाति विभागेनैव च परस्परं दर्पणादपि च ॥ १२ ॥
विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि ।
अन्योन्यं च ततो ऽपि च विभक्तमाभाति जगदेतत् ॥ १३ ॥
शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् ।
शक्तीनां पञ्चानां विभक्तभावेन भासयति ॥ १४ ॥
परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य ।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ १५ ॥
मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति ।
कालकलानियतिवशाद्रागाविद्यावशेन संबद्धः ॥ १६ ॥
अधुनैव किञ्चिदेवेदमेव सर्वात्मनैव जानामि ।
मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥ १७ ॥
कम्बुकमिव तण्डुलकणविनिविष्टं भिन्नमप्यभिदा ।
भजते तत्तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन ॥ १८ ॥
सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच्च ।
प्रकृतिरथान्तःकरणं बुद्धिमनो ऽहङ्कृति क्रमशः ॥ १९ ॥
श्रोत्रं त्वगक्षि रसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ ।
वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः ॥ २० ॥
एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् ।
तन्मात्रपञ्चकं तच्छब्दः स्पर्शो महो रसो गन्धः ॥ २१ ॥
एतत्संसर्गवशात्स्थूलो विषयस्तु भूतपञ्चकताम् ।
अभ्येति नभः पवनस्तेजः सलिलं च पृथ्वी च ॥ २२ ॥
तुष इव तण्डुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः ।
पृथ्वीपर्यन्तो ऽयं चैतन्यं देहभावेन ॥ २३ ॥
परमावरणं मल इह सूक्ष्मं मायादिकञ्चुकं स्थूलम् ।
बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्यात्मा ॥ २४ ॥
अज्ञानतिमिरयोगादेकमपि स्वं स्वभावमात्मानम् ।
ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत ॥ २५ ॥
रसफाणितशर्करिकागुडखण्डाद्या यथेक्षुरस एव ।
तद्वदवस्थाभेदाः सर्वे परमात्मनः शंभोः ॥ २६ ॥
विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः ।
व्यवहारमात्रमेतत्परमार्थेन तु न सन्त्येव ॥ २७ ॥
रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् ।
भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम ॥ २८ ॥
तद्वद्धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् ।
वर्णाश्रमादि चात्मन्यसदपि विभ्रमबलाद्भवति ॥ २९ ॥
एतत्तदन्धकारं यद्भावेषु प्रकाशमानतया ।
आत्मानतिरिक्तेष्वपि भवत्यनात्माभिमानो ऽयम् ॥ ३० ॥
तिमिरादपि तिमिरमिदं गण्डस्योपरि महानयं स्फोटः ।
यदनात्मन्यपि देहप्राणादावात्ममानित्वम् ॥ ३१ ॥
देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन ।
आत्मानं वेष्टयते चित्रं जालेन जालकार इव ॥ ३२ ॥
स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन्निजात्मानम् ।
इति बन्धमोक्षचित्रां क्रीडां प्रतनोति परमशिवः ॥ ३३ ॥
सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तमिति तस्मिन् ।
भान्ति तुरीये धामनि तथापि तैर्नावृतं भाति ॥ ३४ ॥
जाग्रद्विश्वं भेदात्स्वप्नस्तेजः प्रकाशमाहात्म्यात् ।
प्राज्ञः सुप्तावस्था ज्ञानघनत्वात्ततः परं तुर्यम् ॥ ३५ ॥
जलधरधूमरजोभिर्मलिनीक्रियते यथा न गगनतलम् ।
तद्वन्मायाविकृतिभिरपरामृष्टः परः पुरुषः ॥ ३६ ॥
एकस्मिन्घटगगने रजसा व्याप्ते भवन्ति नान्यानि ।
मलिनानि तद्वदेते जीवाः सुखदुःखभेदजुषः ॥ ३७ ॥
शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति मूढः ।
तत्त्वगणे सति भगवान्न पुनः परमार्थतः स तथा ॥ ३८ ॥
यदनात्मन्यपि तद्रूपावभासनं तत्पुरा निराकृत्य ।
आत्मन्यनात्मरूपां भ्रान्तिं विदलयति परमात्मा ॥ ३९ ॥
इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य ।
कर्तव्यान्तरकलना न जातु परयोगिनो भवति ॥ ४० ॥
पृथिवी प्रकृतिर्माया त्रितयमिदं वेद्यरूपतापतितम् ।
अद्वैतभावनबलाद्भवति हि सन्मात्रपरिशेषम् ॥ ४१ ॥
रशनाकुण्डलकटकं भेदत्यागेन दृश्यते यथा हेम ।
तद्वद्भेदत्यागे सन्मात्रं सर्वमाभाति ॥ ४२ ॥
तद्ब्रह्म परं शुद्धं शान्तमभेदात्मकं समं सकलम् ।
अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् ॥ ४३ ॥
इष्यत इति वेद्यत इति संपाद्यत इति च भास्वरूपेण ।
अपरामृष्टं यदपि तु नभःप्रसूनत्वमभ्येति ॥ ४४ ॥
शक्तित्रिशूलपरिगमयोगेन समस्तमपि परमेशे ।
शिवनामनि परमार्थे विसृज्यते देवदेवेन ॥ ४५ ॥
पुनरपि च पञ्चशक्तिप्रसरणक्रमेण बहिरपि तत् ।
अण्डत्रयं विचित्रं सृष्टं बहिरात्मलाभेन ॥ ४६ ॥
इति शक्तिचक्रयन्त्रं क्रीडायोगेन वाहयन्देवः ।
अहमेव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः ॥ ४७ ॥
मय्येव भाति विश्वं दर्पण इव निर्मले घटादीनि ।
मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वमिव सुप्तात् ॥ ४८ ॥
अहमेव विश्वरूपः करचरणादिस्वभाव इव देहः ।
सर्वस्मिन्नहमेव स्फुरामि भावेषु भास्वरूपमिव ॥ ४९ ॥
द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितो ऽप्यकर्तापि ।
सिद्धान्तागमतर्कांश्चित्रानहमेव रचयामि ॥ ५० ॥
इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहनीं मायाम् ।
सलिले सलिलं क्षीरे क्षीरमिव ब्रह्मणि लयी स्यात् ॥ ५१ ॥
इत्थं तत्त्वसमूहे भावनया शिवमयत्वमभियाते ।
कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः ॥ ५२ ॥
कर्मफलं शुभमशुभं मिथ्याज्ञानेन संगमादेव ।
विषमो हि सङ्गदोषस्तस्करयोगो ऽप्यतस्करस्येव ॥ ५३ ॥
लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः ।
ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः ॥ ५४ ॥
अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि ।
चिरसंचितमिव तूलं नश्यति विज्ञानदीप्तिवशात् ॥ ५५ ॥
ज्ञानप्राप्तौ कृतमपि न फलाय ततो ऽस्य जन्म कथम् ।
गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः ॥ ५६ ॥
तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते ।
नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्यात्मा ॥ ५७ ॥
आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् ।
नैव च शोचति यस्मात्परमार्थे नाशिता नास्ति ॥ ५८ ॥
अतिगूढहृदयगञ्जप्ररूढपरमार्थरत्नसंचयतः ।
अहमेवेति महेश्वरभावे का दुर्गतिः कस्य ॥ ५९ ॥
मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमनमन्यत्र ।
अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः ॥ ६० ॥
भिन्नाज्ञानग्रन्थिर्गतसंदेहः पराकृतभ्रान्तिः ।
प्रक्षीणपुण्यपापो विग्रहयोगे ऽप्यसौ मुक्तः ॥ ६१ ॥
अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थतामेति ।
ज्ञानाग्निदग्धमेवं कर्म न जन्मप्रदं भवति ॥ ६२ ॥
परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया ।
सङ्कुचिता चितिरेतद्देहध्वंसे तथा भाति ॥ ६३ ॥
यदि पुनरमलं बोधं सर्वसमुत्तीर्णबोद्धृकर्तृमयम् ।
विततमनस्तमितोदितभारूपं सत्यसंकल्पम् ॥ ६४ ॥
दिक्कालकलनविकलं ध्रुवमव्ययमीश्वरं सुपरिपूर्णम् ।
बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् ॥ ६५ ॥
सृष्ट्यादिविधिसुवेधसमात्मानं शिवमयं विबुध्येत ।
कथमिव संसारी स्याद्विततस्य कुतः क्व वा सरणम् ॥ ६६ ॥
इति युक्तिभिरपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् ।
न ममेदमपि तु तस्येति दार्ढ्यतो नहि फलं लोके ॥ ६७ ॥
इत्थं सकलविकल्पान्प्रतिबुद्धो भावनासमीरणतः ।
आत्मज्योतिषि दीप्ते जुह्वज्ज्योतिर्मयो भवति ॥ ६८ ॥
अश्नन्यद्वा तद्वा संवीतो येन केनचिच्छान्तः ।
यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा ॥ ६९ ॥
हयमेधशतसहस्राण्यपि कुरुते ब्रह्मघातलक्षाणि ।
परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥ ७० ॥
मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी ।
निःस्तोत्रवषट्कारो जड इव विचरेदवादमतिः ॥ ७१ ॥
मदहर्षप्रभृतिरयं वर्गः प्रभवति विभेदसंमोहात् ।
अद्वैतात्मविबोधस्तेन कथं स्पृश्यतां नाम ॥ ७२ ॥
स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तमस्य किञ्चन च ।
स्तोत्रादिना स तुष्येन्मुक्तस्तन्निर्नमस्कृतिवषट्कः ॥ ७३ ॥
षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् ।
निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् ॥ ७४ ॥
तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् ।
आत्मामर्शनविमलद्रव्यैः परिपूजयन्नास्ते ॥ ७५ ॥
बहिरन्तरपरिकल्पनभेदमहाबीजनिचयमर्पयतः ।
तस्यातिदीप्तसंविज्ज्वलने यत्नाद्विना भवति होमः ॥ ७६ ॥
ध्यानमनस्तमितं पुनरेष हि भगवान्विचित्ररूपाणि ।
सृजति तदेव ध्यानं संकल्पालिखितसत्यरूपत्वम् ॥ ७७ ॥
भुवनावलीं समस्तां तत्त्वक्रमकल्पनामथाक्षगणम् ।
अन्तर्बोधे परिवर्तयति च यत्सो ऽस्य जप उदितः ॥ ७८ ॥
सर्वं समया दृष्ट्या यत्पश्यति यच्च संविदं मनुते ।
विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् ॥ ७९ ॥
विश्वरसासवपूर्णं निजकरगं वेद्यखण्डककपालम् ।
रसयति च यत्तदेतद्व्रतमस्य सुदुर्लभं च सुलभं च ॥ ८० ॥
इति जन्मनाशहीनं परमार्थमहेश्वराख्यमुपलभ्य ।
उपलब्धृताप्रकाशात्कृतकृत्यस्तिष्ठति यथेष्टम् ॥ ८१ ॥
व्यापिनमभिहितमित्थं सर्वात्मानं विधूतनानात्वम् ।
निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति ॥ ८२ ॥
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ ८३ ॥
पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः ।
पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ ८४ ॥
तुषकम्बुकसुपृथक्कृततण्डुलकणतुषदलान्तरक्षेपः ।
तण्डुलकणस्य कुरुते न पुनस्तद्रूपतादात्म्यम् ॥ ८५ ॥
तद्वत्कञ्चुकपटलीपृथक्कृता संविदत्र संस्कारात् ।
तिष्ठन्त्यपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति ॥ ८६ ॥
कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः ।
मलिनो ऽपि मणिरुपाधेर्विच्छेदे स्वच्छपरमार्थः ॥ ८७ ॥
एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः ।
मुक्तमप्युपाध्यन्तरशून्यमिवाभाति शिवरूपम् ॥ ८८ ॥
शास्त्रादिप्रामाण्यादविचलितश्रद्धयापि तन्मयताम् ।
प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् ॥ ८९ ॥
अन्त्यः क्षणस्तु तस्मिन्पुण्यां पापां च वा स्थितिं पुष्यन् ।
मूढानां सहकारीभावं गच्छति गतौ तु न स हेतुः ॥ ९० ॥
ये ऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् ।
ते ऽपि पुरातनसंबोधसंस्कृतास्तां गतिं यान्ति ॥ ९१ ॥
स्वर्गमयो निरयमयस्तदयं देहान्तरालगः पुरुषः ।
तद्भङ्गे स्वौचित्याद्देहान्तरयोगमभ्येति ॥ ९२ ॥
एवं ज्ञानावसरे स्वात्मा सकृदस्य यादृगवभातः ।
तादृश एव तदासौ न देहपाते ऽन्यथा भवति ॥ ९३ ॥
करणगणसंप्रमोषः स्मृतिनाशः श्वासकलिलता च्छेदः ।
मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः ॥ ९४ ॥
स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगे ऽपि ।
मरणावसरे ज्ञानी न च्यवते स्वात्मपरमार्थात् ॥ ९५ ॥
परमार्थमार्गमेनं झटिति यदा गुरुमुखात्समभ्येति ।
अतितीव्रशक्तिपातात्तदैव निर्विघ्नमेव शिवः ॥ ९६ ॥
सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः ।
परतत्त्वरूढिलाभे पर्यन्ते शिवमयीभावः ॥ ९७ ॥
तस्य तु परमार्थमयीं धारामगतस्य मध्यविश्रान्तेः ।
तत्पदलाभोत्सुकचेतसो ऽपि मरणं कदाचित्स्यात् ॥ ९८ ॥
योगभ्रष्टः शास्त्रे कथितो ऽसौ चित्रभोगभुवनपतिः ।
विश्रान्तिस्थानवशाद्भूत्वा जन्मान्तरे शिवीभवति ॥ ९९ ॥
परमार्थमार्गमेनं ह्यभ्यस्याप्राप्य योगमपि नाम ।
सुरलोकभोगभागी मुदितमना मोदते सुचिरम् ॥ १०० ॥
विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा ।
भुवनेषु सर्वदैवैर्योगभ्रष्टस्तथा पूज्यः ॥ १०१ ॥
महता कालेन पुनर्मानुष्यं प्राप्य योगमभ्यस्य ।
प्राप्नोति दिव्यममृतं यस्मादावर्तते न पुनः ॥ १०२ ॥
तस्मात्सन्मार्गे ऽस्मिन्निरतो यः कश्चिदेति स शिवत्वम् ।
इति मत्वा परमार्थे यथातथापि प्रयतनीयम् ॥ १०३ ॥
इदमभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म ।
अचिरादेव शिवत्वं निजहृदयावेशमभ्येति ॥ १०४ ॥
आर्याशतेन तदिदं संक्षिप्तं शास्त्रसारमतिगूढम् ।
अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन ॥ १०५ ॥
इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितः परमार्थसारः ॥
Textgrundlage und Zuordnung
Der Sanskritwortlaut folgt dem revidierten GRETIL-Text (Beitrag von Lyne Bansat-Boudon, Yves Codet und Judit Törzsök; Version 2020). Als Vergleich dienen Muktabodha M00041 und J. C. Chatterjis Ausgabe, KSTS 7, Srinagar 1916: vollständiges Digitalisat. In den Tabellen bezeichnet „Druck“ die gedruckte Seite dieser Ausgabe, „PDF“ die Seite des 216-seitigen Digitalisats. Die ausgewählte revidierte Fassung unterscheidet sich insbesondere in Vers 63 (bhāti) und 78 (ca) vom Haupttext des alten Drucks. GRETIL nennt CC BY-NC-SA 4.0 als Lizenz seines E-Textes, Muktabodha CC BY-NC 4.0.
Der fortlaufende Grundtext enthält 105 vollständige Strophen, keine Prosapassagen und keine Fragmente. Mit der Verehrung und dem Kolophon umfasst diese Seite genau denselben Sanskritbestand wie der Hauptartikel. Im Druck von 1916 verteilen sich die Strophen über die Seiten 2–198. Die beiden Rahmentexte stehen auf den Seiten 1 und 199.
Die Rücktransliteration wurde für alle Strophen und beide Rahmentexte technisch mit der IAST-Fassung abgeglichen. Eine solche Übereinstimmung prüft die Schriftumsetzung; sie ersetzt keinen Abgleich mit Handschriften. Die Druckbildprüfung umfasste 28 Strophen sowie beide Rahmentexte.
Die Druckzählungen 6 an der Stelle von Vers 3 und 86 an der Stelle von Vers 84 werden nach der gesicherten Folge berichtigt. Für 10–11 bleibt die Zuordnung der beiden zusammengehörigen Strophen eindeutig. Vers 48 hat mayyeva; die davon abweichende Schreibung der bereitgestellten Devanagari-Datei ist nicht übernommen. Weitere Hinweise und die genaue Zuordnung jeder einzelnen Strophe zu Druck- und PDF-Seiten finden sich unter Quellenseiten des Hauptartikels.
Weiterführendes Studium
Das Lesen des Sanskrit kann die Aufmerksamkeit auf die Sprache der Selbsterkenntnis lenken. Der Paramarthasara verbindet die Betrachtung des Bewusstseins mit der Verehrung Shivas. Die deutsche Übersetzung erschließt den Sinn; die Praxisauswahl lädt zum vertieften Nachdenken ein.
Weitere Seiten zum Paramarthasara: Vollständiger Sanskrittext mit deutscher Übersetzung · 98 Verse für die spirituelle Praxis und Rezitationstexte.