Gim

Aus Yogawiki

Gim (IAST:- gīṃ; Devanagari:- गीं): Der Konsonant "ga" (ग) im Devanagari-Alphabet wird mit dem Vokal "i" und Anusvara-ṃ (d.h. IAST - īṃ; Devanagari - ईं) kombiniert, um Gim (gīṃ - गीं) zu bilden, ein Bija Mantra, das sowohl mit Ganapati als auch mit Mahaganapati, einer anderen Form von Ganesha, verbunden ist. Dieses Bija Mantra erscheint im Ganapati Mala Mantra und auch in Kapitel 4 der Vallabhesha Upanishad.



तत्त्वबोधः

श्रीशङ्करभगवत्पादाचार्यप्रणीतः INVOCATION वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥


साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः । १ SADHANA CHATUSHTAYA (The four-fold qualifications) साधनचतुष्टयं किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसम्पत्तिः । मुमुक्षुत्वं चेति । १.१ VIVEKA (Discrimination) नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः । १.२ VAIRAGYA (Dispassion) विरागः कः ? इहस्वर्गभोगेषु इच्छाराहित्यम् । १.३ SHATKA SAMPATTI शमादिसाधनसम्पत्तिः का ? शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति । १.३.१ SAMA शमः कः ? मनोनिग्रहः । १.३.२ DAMA दमः कः ? चक्षुरादिबाह्येन्द्रियनिग्रहः । १.३.३ UPARAMA OR UPARATI उपरमः कः ? स्वधर्मानुष्ठानमेव । १.३.४ TITIKSHA तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् । १.३.५ SHRADDHA श्रद्धा कीदृशी ? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा । १.३.६ SAMADHANA समाधानं किम् ? चित्तैकाग्रता । १.४ MUMUKSHUTVAM मुमुक्षुत्वं किम् ? मोक्षो मे भूयाद् इति इच्छा । एतत् साधनचतुष्टयम् । ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।

२ TATTVA VIVEKA (Enquiry into Truth) तत्त्वविवेकः कः ? आत्मा सत्यं तदन्यत् सर्वं मिथ्येति । आत्मा कः ? स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिष्ठति स आत्मा । २.१ THE FIVE SHEATHS (Pancha Kosa) २.२ SHARIRA TRAYA (The Three Bodies) २.३ AVASTHA TRAYA (The Three States) २.४ SATCHIDANANDA SVARUPA (Existence-Knowledge-Bliss)

३ STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya) ३.१ STHULA SHARIRA स्थूलशरीरं किम् ? पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत्स्थूलशरीरम् । ३.२ SUKSHMA SHARIRA सूक्ष्मशरीरं किम् ? अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् । ३.२.१ ~nANA INDRIYAS (Organs of Perception) श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि । श्रोत्रस्य दिग्देवता । त्वचो वायुः । चक्षुषः सूर्यः । रसनाया वरुणः । घ्राणस्य अश्विनौ । इति ज्ञानेन्द्रियदेवताः । श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुषो विषयः रूपग्रहणम् । रसनाया विषयः रसग्रहणम् । घ्राणस्य विषयः गन्धग्रहणम् इति । ३.२.२ KARMA INDRIYAS (Organs of Action) वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि । वाचो देवता वह्निः । हस्तयोरिन्द्रः । पादयोर्विष्णुः । पायोर्मृत्युः । उपस्थस्य प्रजापतिः । इति कर्मेन्द्रियदेवताः । वाचो विषयः भाषणम् । पाण्योर्विषयः वस्तुग्रहणम् । पादयोर्विषयः गमनम् । पायोर्विषयः मलत्यागः । उपस्थस्य विषयः आनन्द इति । ३.३ KARANA SHARIRA कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।

४ AVASTHA TRAYA (The Three States) अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः । ४.१ JAGRAT AVASTHAA (Waking State) जाग्रदवस्था का ? श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत् सा जाग्रदावस्था । स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते । ४.२ SVAPNA AVASTHA (Dream State) स्वप्नावस्था केति चेत् ? जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम् तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था । सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते । ४.३ SUSHUPTI AVASTHA (Deep-sleep State) अतः सुषुप्त्यवस्था का  ? अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्त्यवस्था । कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।

५ PANCHA KOSHAS पञ्च कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति । ५.१ ANNAMAYA KOSHA (Food Sheath) अन्नमयः कः ? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् । ५.२ PRANAMAYA KOSHA (Vital Air Sheath) प्राणमयः कः ? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः । ५.३ MANOMAYA KOSHA (Mental Sheath) मनोमयः कोशः कः ? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः । ५.४ VI~nANAMAYA KOSHA (Intellectual Sheath) विज्ञानमयः कः ? बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः । ५.५ ANANDAMAYA KOSHA (Bliss Sheath) आनन्दमयः कः ? एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः । एतत्कोशपञ्चकम् । ५.६ PANCHAKOSHATITA मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति ॥


Siehe auch