Kirana Tantra Sanskrit Devanagari

Aus Yogawiki
Version vom 14. September 2026, 19:57 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Kirana Tantra Sanskrit Devanagari''' bietet den Sanskritwortlaut der Teilausgabe Kirana Tantra in Devanagari. Die fortlaufende Lektüre kann das Studium von Sanskrit und der śivaitischen Agama-Überlieferung begleiten. Die Ausgabe umfasst den Erkenntnisteil 1–12, den Ritualteil 1–2 (K1–K2) sowie den getrennten Block 60–61: 549 nummerierte Positionen und 53 Paratexte. Die übrigen Kapitel sind noch nicht transkribiert. Sie ergänzt…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Kirana Tantra Sanskrit Devanagari bietet den Sanskritwortlaut der Teilausgabe Kirana Tantra in Devanagari. Die fortlaufende Lektüre kann das Studium von Sanskrit und der śivaitischen Agama-Überlieferung begleiten. Die Ausgabe umfasst den Erkenntnisteil 1–12, den Ritualteil 1–2 (K1–K2) sowie den getrennten Block 60–61: 549 nummerierte Positionen und 53 Paratexte. Die übrigen Kapitel sind noch nicht transkribiert. Sie ergänzt das Studium von Yoga und Meditation.

Diese Schriftfassung wurde automatisch aus demselben IAST-Datensatz wie der Hauptartikel transliteriert. Sie ist keine eigenständige Handschriftenedition. Unsichere Lesungen und Textlücken bleiben erhalten. †…† kennzeichnet problematischen Wortlaut, […] eine Lücke. Die Ziffern im Sanskritteil stehen in Devanagari. Deutsche Übersetzungen finden sich in Kirana Tantra, Anregungen zum vertiefenden Studium in Kirana Tantra 108 Verse für die spirituelle Praxis.

Die fett gesetzten Zahlen bezeichnen die Kapitel. Im Ritualteil steht davor क्रियापादः; dort beginnt die Zählung erneut mit eins. Die zusätzlichen halben Schlussstrophen sind mit १/२ nach der vorausgehenden Verszahl gekennzeichnet. Innerhalb des Sanskritblocks stehen ausschließlich der aufgenommene Sanskritwortlaut und die zugehörigen Zahlen. Der anschließende Sprung zu Kapitel sechzig entspricht dem ausgewiesenen Umfang.

Sanskrittext

कैलासशिखरासीनं सोमं सोमार्धशेखरम्
हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः ॥ १.१ ॥

जयान्धकपृथुस्कन्धबन्धभेदविचक्षण
जय प्रवरवीरेशसंरुद्धपुरदाहक ॥ १.२ ॥

जयाखिलसुरेशानशिरश्छेदभयानक
जय प्रथितसामर्थ्यमन्मथस्थितिनाशन ॥ १.३ ॥

जयाच्युततनुध्वंसकालकूटबलापह
जयावर्तमहाटोपसरिद्वेगविधारण ॥ १.४ ॥

जय दारुवनोद्यानमुनिपत्नीविमोहक
जय नृत्तमहारम्भक्रीडाविक्षोभदारुण ॥ १.५ ॥

जयोग्ररूपसंरम्भत्रासितत्रिदशासुर
जय क्रूरजनेन्द्रास्यदर्शितासृक्सुनिर्झर ॥ १.६ ॥

जय वीरपरिस्पन्ददक्षयज्ञविनाशन
जयाद्भुतमहालिङ्गसंस्थानबलगर्वित ॥ १.७ ॥

जय श्वेतनिमित्तोग्रमृत्युदेहनिपातन
जयाशेषसुखावासकाममोहितशैलज ॥ १.८ ॥

जयोपमन्युसन्तापमोहजालतमोहर
जय पातालमूलोर्ध्वलोकालोकप्रदाहक ॥ १.९ ॥

भक्तस्य मम भीतस्य शिवज्ञानं परं वद
यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् ॥ १.१० ॥

एवमुक्तो हरः प्राह विस्फुरच्चन्द्रशेखरः
भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम् ॥ १.११ ॥

किरणाख्यं महातन्त्रं परामृतसुखप्रदम्
सर्वानुग्राहकं शुभ्रं पदार्थोद्द्योतकं स्फुटम् ॥ १.१२ ॥

पशुपाशपतिज्ञानविचारप्रतिपादकम्
क्रियाचर्यासमोपेतं योगभूतिभरावहम् ॥ १.१३ ॥

यद्येवं स पशुस्तावत्कीदृशो बध्यते कथम्
मुच्यते कथमाख्याहि संदेहविनिवृत्तये ॥ १.१४ ॥

पशुर्नित्यो ह्यमूर्तो ऽज्ञो निष्क्रियो निर्गुणो ऽप्रभुः
व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः ॥ १.१५ ॥

तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला
तयोद्बलितचैतन्यो विद्याख्यापितगोचरः ॥ १.१६ ॥

रागेण रञ्जितश्चापि प्रधानं च गुणात्मना
बुद्ध्यादिकरणानीकसम्बन्धाद्बध्यते पशुः ॥ १.१७ ॥

ततो नियतिसंश्लेषात् स्वार्जिते ऽपि नियम्यते
कालेन कालसंख्यानकार्यभोगविमोहितः ॥ १.१८ ॥

एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः
मायाभोगपरिष्वक्तस् तन्मयः सहजावृतः ॥ १.१९ ॥

ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः
समे कर्मणि सञ्जाते कालान्तरवशात्ततः ॥ १.२० ॥

तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः ॥ १.२१ ॥

शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा
एवं क्रमाद्विबद्धः सन् मुच्यते क्रमयोगतः ॥ १.२२ ॥

केवलः सकलः शुद्धस् त्र्यवस्थः पुरुषः स्मृतः
पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि ॥ १.२३ ॥

यो ऽसावात्मा त्वया प्रोक्तः किंचिज्ज्ञः सर्वविच्छिवः
निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः ॥ २.१ ॥

अनादिमलसम्बन्धात् किञ्चिज्ज्ञो ऽसौ मयोदितः
अनादिमलमुक्तत्वात् सर्वज्ञो ऽसौ ततः शिवः ॥ २.२ ॥

आदिमत्त्वं यदा सिद्धं निमित्तं कल्प्यते तदा
ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः ॥ २.३ ॥

विशुद्धः स्फटिकः कस्मात् कस्मात्ताम्रं सकालिकम्
यथास्मिन्न निमित्तं हि तथा नैव शिवात्मनोः ॥ २.४ ॥

किंनिमित्तं पुनर्बद्धो बन्धेनात्मा कलादिना
स मायान्तर्गतः प्रोक्तो व्यापकश्च त्वया विभो ॥ २.५ ॥

व्यापकत्वात्स सर्वत्र स्थितो मायोदरे कथम्
परस्परविरुद्धत्वात् कथमेतद्भविष्यति ॥ २.६ ॥

मुक्त्यर्थं स पशुर्बद्धो नान्यथा सास्य जायते
यावच्छरीरसंश्लेषो न सञ्जातो न भोगभुक् ॥ २.७ ॥

मायेयं तद्वपुस्तस्य तदभावान्न निर्वृतिः
तेन तेनास्वतन्त्रत्वान् मलिनो मलिनीकृतः ॥ २.८ ॥

यथा वस्त्रं सदोषत्वान् मलान्तःस्थं विशुद्ध्यति
अशुद्धः पुद्गलो ऽप्येवं मायोदरगतो ऽपि सन् ॥ २.९ ॥

मायोदरं हि यत्प्रोक्तं कलाद्यवनिलक्षितम्
तस्मिन्यश्च लयः प्रोक्तः सूक्ष्मदेहविवक्षया ॥ २.१० ॥

त्वयानादिर्मलः प्रोक्तो मायेयो ऽस्यात्मनो ऽपि वा
गुणस्तद्व्यतिरिक्तो वा मलो ब्रूहि किमात्मकः ॥ २.११ ॥

सहजः स्यान्मलो मायाकार्यमागामिको मलः
माया नो मोहिनी प्रोक्ता स्वतः कार्यात्प्रकाशिका ॥ २.१२ ॥

यतः स्वकार्यसंश्लेषाच् चैतन्यद्योतिकात्मनः
मलं विदार्य चिद्व्यक्तिम् एकदेशे करोत्यसौ ॥ २.१३ ॥

स्थिता प्रकाशिका कार्यान् मोहकत्वे न संस्थिता
प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः ॥ २.१४ ॥

व्यक्तिर्याणोर्मलः प्रोक्तः स्फुटं दीपान्धकारवत्
मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः ॥ २.१५ ॥

यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः
मायोत्थं बन्धनं तस्य सनिमित्तं प्रवर्तते ॥ २.१६ ॥

अनादिमलमुक्तस्य शिवस्यापि न किं भवेत्
तस्मान्माया मलो नैव व्यतिरिक्तः स युक्तितः ॥ २.१७ ॥

मायाकार्यं समस्तं स्यात् कुतो ऽन्यः सहजो मलः
आत्मस्थं तत्पशुत्वं स्यात् पशुरप्यध्वमध्यगः ॥ २.१८ ॥

प्रोक्तो येन मतस्तेन मलस्तद्भिन्नलक्षणः
मलो ऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः ॥ २.१९ ॥

अविद्या ह्यावृतिर्मूर्छा पर्यायास्तस्य चोदिताः
स चाविद्यादिपर्यायभेदैः सिद्धो मते मते ॥ २.२० ॥

तत्सद्भावात्पशुः पाश्यः शोध्यो बोध्यो मतस्त्विह
पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः ॥ २.२१ ॥

मले सति भवन्त्येता भोक्तृत्वं च न केवलम्
यद्येवं संस्थितः पाश्यो मलो ऽस्य पशुसंगतः ॥ २.२२ ॥

आत्मनः किं न धर्मो ऽसौ युक्तितः कल्प्यते मलः
आत्मनो ऽनादिसम्बन्धाद् धर्म इत्युपचर्यते ॥ २.२३ ॥

कथं तज्ज्ञानयुक्तत्वाद् अज्ञानगुणतां गतः
तस्य धर्मो न धर्मत्वे परिणामः स्फुटो भवेत् ॥ २.२४ ॥

चिद्धर्मे पुंसि नो धर्मो यदि स्यात्परिणामवान्
एकस्मिन्व्यज्यते ज्ञानम् अन्यस्मिंस्तत्तिरोहितम् ॥ २.२५ ॥

परिणामो ऽचेतनस्य चेतनस्य न युज्यते
तयोश्चानादिसम्बन्धाद् विश्लेषो न विभुत्वतः ॥ २.२६ ॥

सहजप्रक्षये प्राप्ते तस्य नाशो न किं भवेत्
विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः ॥ २.२७ ॥

उपायाच्छक्तिसंरोधः कथंचित्क्रियते मले
यथाग्नेर्दाहिका शक्तिर् मन्त्रेणाशु निरुद्ध्यते ॥ २.२८ ॥

तद्वत्तच्छक्तिसंरोधाद् विश्लिष्ट इति कथ्यते
कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ॥ २.२९ ॥

सहजा कालिका ताम्रे तत्क्षयान्न च तत्क्षयः
यद्वत्ताम्रे क्षयस्तद्वत् पुरुषस्य मलक्षयः ॥ २.३० ॥

यथा तण्डुलकम्बूके प्रक्षीणे ऽपि न तत्क्षयः
विषसम्बन्धिनी शक्तिर् यथा मन्त्रैर्निरुद्ध्यते ॥ २.३१ ॥

तथा न तद्विषं क्षीणम् एवं पुंसो मलक्षयः
फलं कतकवृक्षस्य क्षिप्तं सकलुषे जले ॥ २.३२ ॥

कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात्
शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् ॥ २.३३ ॥

भोक्तृत्वं मलतः प्रोक्तम् अभिलाषान्न किं भवेत्
स च रागाद्यतो रागो वक्तव्यो ऽत्र मलेन किम् ॥ ३.१ ॥

भोक्तृत्वं नाम यत्प्रोक्तम् अनादि मलकारणम्
अभिलाषस्तनौ सत्यां सा तनुः केन हेतुना ॥ ३.२ ॥

रागो ऽपि तन्निमित्तत्वात् प्रवृत्तः पुरुषस्य तु
चौर्यं हि बीजमापेक्ष्य यथा निगडबन्धनम् ॥ ३.३ ॥

एवं पशुत्वमापेक्ष्य रागतत्त्वं प्रवर्तते
एतस्मादस्य भोक्तृत्वं तनुर्भोगो ऽन्यहेतुजः ॥ ३.४ ॥

सुखदुःखादिको भोगः कर्मतः संस्थितः पशोः
नान्यथास्य विनिर्दिष्टं भोगभोक्तृत्वबन्धनम् ॥ ३.५ ॥

यदेतत्कर्म देवेश प्रोक्तं भोगनिबन्धनम्
कर्मार्जनं तनौ सत्यां सृष्टिकाले तनुः कुतः ॥ ३.६ ॥

यथानादिर्मलस्तस्य कर्माप्येवमनादिकम्
यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥ ३.७ ॥

तस्मादनादिकं कर्म मायाप्येवं भवस्तथा
तथानादिः शिवः कर्ता सर्वस्य जगतः स्थितः ॥ ३.८ ॥

शिवः कर्ता त्वया प्रोक्तः स कथं गम्यते प्रभो
वैकरण्यादमूर्तत्वात् कर्तृत्वं युज्यते कथम् ॥ ३.९ ॥

यथा कालो ह्यमूर्तो ऽपि दृश्यते फलसाधकः
एवं शिवो ह्यमूर्तो ऽपि कुरुते कार्यमिच्छया ॥ ३.१० ॥

इच्छैव करणं तस्य यथा सद्योगिनो मता

शल्याकृष्टिकरो दृष्टो ह्य् अक्षहीनो ऽपि कर्षकः

व्यापारो न च दृश्येत कार्यमिच्छा प्रतीयते ॥ ३.११ ॥

स्थूलं विचित्रकं कार्यं नान्यथा घटवद्भवेत्
अस्ति हेतुरतः कश्चित् कर्म चेत् न ह्यचेतनम् ॥ ३.१२ ॥

प्रोक्तः स निष्कलः स्थूलस् तथा सकलनिष्कलः
ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते ॥ ३.१३ ॥

निष्कलः स कथं ज्ञेयः सकलो ऽपि पुमांस्तदा
द्विस्वभावस्तथा यो ऽन्यो विरुद्धः स परस्परम् ॥ ३.१४ ॥

पशोः शक्तिनिपातेन मन्त्रशक्त्या च सर्वदा
निष्कलं लक्ष्यते शक्त्या सूक्ष्मं विषविकारवत् ॥ ३.१५ ॥

सकलो ऽपि पुमान्नैव मायावयववर्जनात्
निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः ॥ ३.१६ ॥

मन्त्रात्मिकाः कलास्तस्य ते च मन्त्राः शिवात्मिकाः
तैः प्रकल्प्य शरीरं स्वं शुद्धाक्षाध्यासितं महत् ॥ ३.१७ ॥

यावदेवं न कुरुते तावन्नो गुरुपद्धतिः
कुरुते ऽनुग्रहं देही सर्वेषामेव देहिनाम् ॥ ३.१८ ॥

यथैव योगिनः शक्तिर् ग्रहणे मोचने ऽपि हि
तद्वदेवात्र बोद्धव्यं ग्रहणं मोचनं विभोः ॥ ३.१९ ॥

मुद्रामण्डलमन्त्रैश्च त्रिधासिद्धिविचेष्टितैः
लक्ष्यते सकलं ध्यानात् सर्वज्ञानप्रवृत्तितः ॥ ३.२० ॥

द्विस्वभावगतो यो ऽन्यो देवः प्रोक्तो न निष्कलः
बृहच्छरीरमापेक्ष्य कलाहीन इति स्मृतः ॥ ३.२१ ॥

एवमीशः स्थितः साक्षाद् योगिनां योगकारणम्
योगो न लक्ष्यहीनत्वान् न नाडी न च धारणा ॥ ३.२२ ॥

पुंसामनुग्रहार्थं तु परो ऽप्यपरतां गतः
नादबिन्दुखमन्त्राणुशक्तिबीजकलान्तगः ॥ ३.२३ ॥

योगी यथोपकारज्ञः सर्वज्ञत्वात्फलप्रदः
इच्छानुग्रहकर्तृत्वाल् लयभोगाधिकारवान् ॥ ३.२४ ॥

त्रिविधः कृत्यभेदेन दर्शितो नामभेदतः
ईश्वरो ऽधःस्थविद्यानां पतीन्संप्रेरयत्यसौ ॥ ३.२५ ॥

तेन प्रेरितमात्रास्ते कुर्वते ऽधस्तनं जगत्
शुद्धे ऽध्वनि शिवः कर्ता प्रोक्तो ऽनन्तो ऽसिते प्रभुः ॥ ३.२६ ॥

यथा भूमण्डलेशेन नियुक्तः स्वसमप्रभुः

तथासौ कुरुते सर्वं तच्छक्तिप्रतिबोधितः

सर्वज्ञः शुद्धदेहश्च सर्वज्ञानप्रकाशकः ॥ ३.२७ ॥

शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यति
प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते ॥ ४.१ ॥

अन्येषां सन्निकृष्टापि बोधं सा कुरुते न किम्
योग्यानामुपकारी चेद् रागवान्स्याच्छिवस्तदा ॥ ४.२ ॥

यथार्करश्मिसम्पर्कात् पद्मबोधः समो न किम्
कानिचित्प्रतिबुध्यन्ति तथान्यानि न जातुचित् ॥ ४.३ ॥

रागद्वेषौ न चार्कस्य तथेशस्य न तौ यतः
अधिकारान्नियोगो ऽस्य न नियोगं विना स्थितिः ॥ ४.४ ॥

तत्सामर्थ्यादनन्तस्य सर्वज्ञत्वं भवेत्खग
सर्वज्ञत्वं तनौ सत्याम् अनन्तस्य न युज्यते ॥ ४.५ ॥

नियतानि यतो ऽक्षाणि नियतग्राहकाणि च
मायात्मकं शरीरं तच् छिष्टकर्मनिमित्तजम् ॥ ४.६ ॥

यदि नाम विशेषः स्यात् सुदूरश्रवणादिकः
शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् ॥ ४.७ ॥

तस्यैवं पाशमुक्तत्वाज् ज्ञानं केन निवार्यते
तत्स्थं सर्पं विषं यद्वत् तद्गतं न विबाधते ॥ ४.८ ॥

बाधते ऽनन्तमेवं न तद्गतः पाशसञ्चयः
छिन्ना छिन्नोद्भवा यद्वत् स्थानाश्रयवशाद्भवेत् ॥ ४.९ ॥

स्थानयोगेन मन्त्रेशे हठवत्तनुधारणम्
मन्त्रशक्त्या यथा देहो विधृतस्तिष्ठते चिरम् ॥ ४.१० ॥

प्राप्नोत्यभीप्सितं स्थानं कालदष्टो ऽपि शक्तितः
एवं तच्छक्तिसामर्थ्याद् आस्ते तस्य वपुर्यतः ॥ ४.११ ॥

अतः सुनिर्मलं ज्ञेयं बिसिनीपत्त्रवद्वपुः
तन्त्रैरुपकृतः कल्यो यथा देहगतो रसः ॥ ४.१२ ॥

स तिष्ठति शरीरे ऽस्मिंस् तद्वद्बोधो महाबलः
यथा भेषजसामर्थ्याद् अशक्तानां बलं परम् ॥ ४.१३ ॥

याति तच्छक्तिसामर्थ्याद् अनन्तस्य परे बलम्
तेन सामर्थ्ययोगेन योनिं प्रेरयते क्षणात् ॥ ४.१४ ॥

प्रेरको ऽधस्तने मार्गे मायायाः प्रेरकेण किम्
स्वत एव विकारेण जगत्यस्मिन्विकारिणी ॥ ४.१५ ॥

जगद्योनिर्यतः प्रोक्ता तद्विकाराः कलादयः
विकारात्सर्वनाशः स्याद् विकारो न जगत्कथम् ॥ ४.१६ ॥

अचेतनत्वात्प्रेर्या सा पुरुषार्थेन हेतुना
स्वतो न विकृतिस्तस्माद् अनन्तो ऽस्याः प्रचोदकः ॥ ४.१७ ॥

वायुवेगाद्यथोदन्वान् उपर्येव विकारभाक्
अक्षोभ्यत्वात्तथा माया सविकारा कलादिभिः ॥ ४.१८ ॥

नाक्षुब्धा कार्यकर्त्री चेत् क्षोभो ऽस्याः स्यात्तदीरणम्
सा शक्तिः प्रेरिता तेन नित्यं कार्यकरी भवेत् ॥ ४.१९ ॥

यथा मायाधिका व्याप्य न तत्कार्यगणो ऽध्वनि
भावान्कलादिकान्व्याप्य स्थिताक्षोभ्या ततःस्मृता ॥ ४.२० ॥

तत्कार्यकारिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी
स्थूलकार्यासु सूक्ष्मापि स्थिता न्यग्रोधबीजवत् ॥ ४.२१ ॥

कारणं तेन सा ज्ञेया स्थूलस्यास्य समन्ततः
तस्मात्कला तुटिः संस्था बोधिनी ह्यभिलाषकृत् ॥ ४.२२ ॥

तस्मादेकादशाक्षाणि पञ्च तन्मात्रकाणि च
तेभ्यो भूतानि जातानि सर्वमीशः सृजत्यधः ॥ ४.२३ ॥

सो ऽसृजद्भगवानीशः शिवशक्तिसमन्वितः
कृत्स्नं मायात्मकं कार्यं शुद्धाशुद्धविमिश्रितम् ॥ ४.२४ ॥

योनिजं बुद्धिभेदाच्च तदेकं चेद्द्विधा कथम्
दृष्टं खद्योतकादेस्तद् विरुद्धं चैकहेतुकम् ॥ ४.२५ ॥

एवं तद्भिन्नसंस्थानं शुद्धाशुद्धाङ्गसंयुतम्

ज्ञेयं कारणशक्त्युत्थं कार्यं बीजनिमित्तजम्

एवमेतत्समादिष्टं तत्कार्यं विग्रहाश्रयम् ॥ ४.२६ ॥

यद्यप्येतन्मिथः कार्यं विरुद्धमसितात्मकम्
तथाप्येतत्सुसंश्लिष्टम् एकस्मिन्वस्तुनि स्फुटम् ॥ ४.२७ ॥

नरार्थं साधयेद्भिन्नं नरस्य शकटाङ्गवत्
एवमेतदनन्तेन सृष्टं देहनिबन्धनम् ॥ ४.२८ ॥

न देहेन विना मुक्तिर् न भोगश्चित्क्रियागुरुः

एतच्च कुरुते शम्भुः स्वतन्त्रत्वात्प्रभुत्वतः

सर्वानुग्राहकः शान्तस् तद्वशादखिलं फलम् ॥ ४.२९ ॥

शक्तिपाताद्भवेद्दीक्षा निपातो न विभुत्वतः
शिवस्य समवेतत्वात् सर्वदैव स्थिता पशौ ॥ ५.१ ॥

स्थितत्वात्सर्वदा शक्तेर् भवोच्छित्तिर्न किं भवेत्
कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम् ॥ ५.२ ॥

उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते
यथा पुमान्विभुर्गन्ता नित्यो ऽप्युक्तो विनश्वरः ॥ ५.३ ॥

पाशच्छेदो यथा प्रोक्तो मन्त्रराड् भगवाञ्छिवः
एवं शक्तिनिपातो ऽपि प्रोच्यते सोपचारतः ॥ ५.४ ॥

निपातो भयदो यद्वद् वस्तुनः सहसा भवेत्
तद्वच्छक्तिनिपातो ऽपि प्रोक्तो भवभयप्रदः ॥ ५.५ ॥

तस्मादन्यत्र यात्येव तथात्मा देशिकं प्रति
गुरुर्यथाग्रतः शिष्यान् सुप्तान्दण्डेन बोधयेत् ॥ ५.६ ॥

शिवो ऽपि मोहनिद्रायां सुप्ताञ्छक्त्या प्रबोधयेत्
यदा स्वरूपविज्ञानं पतितेति तदोच्यते ॥ ५.७ ॥

तस्माच्छक्तिनिपातः स्यान् निपातश्चिह्नवाचकः
तन्निपातस्य सः कालः कर्मणां तुल्यतैव च ॥ ५.८ ॥

तुल्यत्वं कर्मणः कालः क्षीणं वा यदि वासमम्

समत्वं तत्कथं गम्यं न्यूनाधिकतुटिः कथम्

एवं सूक्ष्मं समानत्वं यस्मिन्काले तदैव सा ॥ ५.९ ॥

स्वरूपं द्योतयत्याशु बोधचिह्नबलेन वै
कर्मांशो यो ऽधिकः पूर्वं भोगदस्त्वितरः पुनः ॥ ५.१० ॥

समत्वे सति यो भोगः कथं तस्य प्रजायते
मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि ॥ ५.११ ॥

वक्तव्यश्चाधिकः कश्चिद् अन्यथा न सुखेतरम्
अधिकन्यूनसम्बन्धाद् व्याकुलत्वं न जायते ॥ ५.१२ ॥

अधिकन्यूनशून्यत्वात् तत्स्थानमभिगच्छति
स पात इति मन्तव्यस् तस्य भक्तिर्विलक्षणा ॥ ५.१३ ॥

काल एव स निष्णातः शक्तेरात्मपरिग्रहः
अनादिकर्मसम्बन्धाच् छिवः कालमपेक्षते ॥ ५.१४ ॥

कालच्छिद्रमिति प्रोक्तं तज्ज्ञश्च भगवाञ्छिवः
यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते ॥ ५.१५ ॥

तज्ज्ञो ऽपि स शिवस्तद्वत् समकालमपेक्षते
अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा ॥ ५.१६ ॥

नोपायसाधनापेक्षा क्रमो यदि स नेष्यते
प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं तुटेर्मतम् ॥ ५.१७ ॥

प्रभुत्वं ज्ञस्वभावत्वाद् अज्ञत्वान्न तुटिः प्रभुः
सति काले प्रभुत्वं स्यात् पद्मबोधे यथा रवेः ॥ ५.१८ ॥

न च कालादृते तत्र विकासः प्रतिपद्यते
तथापि भास्करः प्रोक्तो लोके ऽस्मिन्पद्मबोधकः ॥ ५.१९ ॥

कालो ऽपि योग्यता सा चेद् द्योतको ऽप्युपचारतः

एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः

तथापि प्रभुरत्रेशः शक्तिपातस्य संस्थितः ॥ ५.२० ॥

एका सती बहूनां सा कथं बोधं करोति चेत्
बहूनामप्यदोषः स्याद् विभुत्वान्न निवार्यते ॥ ५.२१ ॥

एवं शक्तिसमायोगः प्रोक्तः सूक्ष्मो ऽत्र शासने
एवं तच्छक्तिसंयोगाद् दीक्षा यदि च संस्थिता ॥ ५.२२ ॥

दीक्षितोत्तरकाले ऽपि तिरोभावः प्रदृश्यते
तिरोभावकरी शक्तिर् यदि तस्य न निर्वृतिः ॥ ५.२३ ॥

तथा करोतु स स्वामी यथासौ नान्यथा भवेत्
तिरोभावगतानां सा पुरुषाणां शिवेच्छया ॥ ५.२४ ॥

न तिरोभावकर्तृत्वाद् उच्यते सा तिरोहिका
तिरोभावाय पातो न यतो ऽनुग्रहधर्मिणी ॥ ५.२५ ॥

येनासन्नतमः कालस् तेनात्मानं प्रकाशयेत्
प्रकाश्य याति विद्युद्वत् सा शक्तिः पुंप्रबोधिनी ॥ ५.२६ ॥

यदि सर्वात्मना वायं दीक्षितो ऽपि तिरोहितः
द्विविधे ऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत् ॥ ५.२७ ॥

तत्र स्थितस्य तस्येह वासना सैव जायते
तद्युक्तस्य विमोक्षः स्याद् आत्मनो निर्विकल्पकः ॥ ५.२८ ॥

अनेन क्रमयोगेन तिरोभावगतो भवेत्
आनर्थक्यप्रसङ्गः स्याद् यदि मुक्तिर्न सा भवेत् ॥ ५.२९ ॥

मन्दा मन्दतरा शक्तिः कर्मसाम्यविवक्षया
न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी ॥ ५.३० ॥

यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा
द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम् ॥ ५.३१ ॥

सर्वानुग्राहकः प्रोक्तः शिवः परमकारणः
द्विजातयस्तु ये वर्णा न्यूनाधिकतया स्थिताः ॥ ६.१ ॥

संस्कारो ऽपि यदैवं स्यात् फलमेवं न किं भवेत्
संस्कारः सदृशस्तेषां न्यूनाधिकगतिः कथम् ॥ ६.२ ॥

न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः
यदि जातेस्तदेकस्मिन् दीक्षिते ऽखिलदीक्षणम् ॥ ६.३ ॥

तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः
चिद्रूपानुग्रहः प्रोक्तः सर्वानुग्राहकः शिवः ॥ ६.४ ॥

सर्वानुग्रहकर्तृत्वाद् बालबालिशभोगिनाम्
कर्तव्यो ऽनुग्रहो देव स च संस्कारपूर्वकः ॥ ६.५ ॥

संस्कारेणैव मुक्तिः स्यात् प्रोक्ता तन्त्रे यदा तदा
क्रियाज्ञानव्रतादीनाम् उपायानामहेतुता ॥ ६.६ ॥

ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत्
केचिच्चात्र क्रियायोग्यास् तेषां मुक्तिस्तथैव हि ॥ ६.७ ॥

ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे
एवं येषां यथा प्रोक्तो मोक्षस्तेनेशयोजनात् ॥ ६.८ ॥

ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते
दीक्षयैव न मोक्षः स्याद् उपायः स नियामकः ॥ ६.९ ॥

सर्वानुग्रहकर्तृत्वाद् उपायास्ते प्रकीर्तिताः
एकः कस्मादुपायो न प्रोक्तस्तेन यदन्यथा ॥ ६.१० ॥

समयांश्चाङ्गनादीनाम् अशक्तत्वाद्विशोधयेत्
अज्ञत्वान्न च दोषो ऽस्ति ज्ञत्वाद्दोषो महान्भवेत् ॥ ६.११ ॥

तेन तेषां विमुक्तिः स्याद् दीक्षया भक्तियोगतः
ये ऽत्र शक्ता न तेषां तु शोध्यास्तेषां प्रकाशयेत् ॥ ६.१२ ॥

एवं ज्ञानादिकं सर्वं तच्छक्तस्य प्रकाशयेत्
अन्यथा स्थितिभङ्गः स्यात् स्थितिश्चोक्ता शिवागमे ॥ ६.१३ ॥

तदभावे न किञ्चित्स्यात् तेनायं नियमः स्थितः
सर्वानुग्राहकत्वेन स्थित्युपायविवक्षया ॥ ६.१४ ॥

पाशविश्लेषणार्थं तु दीक्षापि क्रियते किल
विश्लेषो ऽपि न दृश्येत अदृष्टत्वात्कथं वद ॥ ६.१५ ॥

पाशस्तोभात्क्षयः सिद्धः संसिद्धैः सो ऽपि शम्बरैः
शम्बराणामचिन्त्यत्वाद् यथा मूर्तविषक्षयः ॥ ६.१६ ॥

नामसंकीर्तनादेव यथा कश्चित्प्रसाध्यते
दूरस्थो मन्त्रमुख्यैस्तु तद्वत्कर्मक्षयस्त्विह ॥ ६.१७ ॥

अशेषपाशविश्लेषो यदि देव स दीक्षया
जातायामर्थनिष्पत्तौ कथं स्याद्वपुषः स्थितिः ॥ ६.१८ ॥

जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् ॥ ६.१९ ॥

अनेकभविकं कर्म दग्धबीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ ६.२० ॥

देहपाते विमोक्षः स्यात् सद्योनिर्वाणदापि वा
कार्याणुभिः सदा सिद्धैस् तेन ते शिवयोजकाः ॥ ६.२१ ॥

पाशमुक्तस्य यच्चिह्नं स्वल्पमप्यत्र किं न तत्
दृश्यते भक्तिचिह्नेन न च चिह्नं क्वचित्स्फुटम् ॥ ६.२२ ॥

स्फुटं यत्र क्वचिद्दृष्टं तत्रापि व्यभिचारिता
प्रागुक्तं योजनं तस्य तद्युक्त्या ग्राहपूर्वकम् ॥ ६.२३ ॥

विभुत्वात्तस्य नो ग्राहस् तथामूर्ततयापि च
महानत्र विरोधः स्यात् कथमेतद्ब्रवीहि मे ॥ ६.२४ ॥

तच्चिह्नं वासनानिष्ठातत्कर्मण्यविकल्पना
तनुस्थं हि कथं चैतत् स्पन्देनाप्यनुमीयते ॥ ६.२५ ॥

विभुत्वे खं यथा शब्दाद् अमूर्तं हि विषं यथा

गृह्यते मन्त्रशक्त्यासौ वाच्यस्तच्छक्तिको गुणः

वाच्यवाचकयोगेन ज्ञेया मन्त्राणवः खग ॥ ६.२६ ॥

मन्त्रपटलः

गरुडः

मन्त्राणां किं शिवो वाच्यः शक्तिर्वाच्याणवोऽथवा
त्रयमेकत्र वाच्यं वा तन्त्रान्तरविरोधि †तत† ॥ ७.१ ॥

भगवान्

शिवो निमित्तभूतस्तु शक्त्यासौ †प्रेरयत्यनून्†
तृतीयं वाच्यमप्यत्र न ह्येकेन विनेतरम् ॥ ७.२ ॥

यथौदनं पचस्वेति केनाप्युक्तोऽन्य एव तत्
करोति पचनं सोऽपि काष्ठादिकरणैर्युतः ॥ ७.३ ॥

शिवस्य हेतुकर्तृत्वं करणत्वमथाणुषु
कारणत्वं तथा शक्तेरेवमेषामिह स्थितिः ॥ ७.४ ॥

यथा तन्त्रीगतं गेयं पौरुषं व्यज्यते स्फुटम्
शैवी †शक्तिस्तथानुस्था† व्यनक्ति सकलां क्रियाम् ॥ ७.५ ॥

गरुडः

यद्येवं संस्थितः सोऽणुः शिवो वाच्यत्वमागतः
शक्तेरप्यविनाभावात्कल्पितैरणुभिश्च किम् ॥ ७.६ ॥

मन्त्राणां छेदनं प्रोक्तं बन्धनं कीलनं वधः
ताडनं भेदनं तृप्तिः शोषणं निगलार्गलम् ॥ ७.७ ॥

एवमेतानि चान्यानि तेन तेषां किमात्मनः
शक्तिर्नियामिका तेषामणूनामतिबोधिनी ॥ ७.८ ॥

तस्मात्कस्याणवस्तार्क्ष्य मुक्त्वा शिवपरिग्रहम्

गरुडः

सर्व एवोदिता मन्त्रा यत्कृत्यमिह कुर्वते ॥ ७.९ ॥

कर्मापेक्ष्य प्रकुर्वन्ति नेति वा वद मे स्फुटम्

भगवान्

न हि तेषां निमित्तं तु निरपेक्ष्याणवो मताः ॥ ७.१० ॥

ज्ञानोक्त्याप्यनुमन्तव्या दष्टदेहविधारणात्
कर्मणश्छेदकाः प्रोक्ता दीक्षासमयसंस्थिताः ॥ ७.११ ॥

विषादिकृत्यकर्तारस्तेन ते निरपेक्षिणः
विधिमेकमपेक्षन्ते सम्पूर्णावयवं शिवम् ॥ ७.१२ ॥

गरुडः

एकस्योत्थापनं दृष्टं दष्टस्यान्यस्य नैव तत्
व्यभिचाराच्च मन्त्राणां स्थितं कर्म कथं न तत् ॥ ७.१३ ॥

भगवान्

मन्त्राणां नियता शक्तिर्विधानं नियतं यतः
कृत्स्नकर्मकरा येऽत्र वैकल्यान्न हि तत्फलम् ॥ ७.१४ ॥

सामग्रीविकलो यस्मिन्कुरुते कर्म साधकः
तत्रापि शक्तिमात्मीयां मन्त्राः प्रख्यापयन्ति हि ॥ ७.१५ ॥

तेन विद्यास्तु ते प्रोक्ता […]
सर्वज्ञा नित्यरूपास्तु इच्छारूपविधायिनः ॥ ७.१६ ॥

गरुडः

नित्यत्वं यदि मन्त्राणां रूपभेदः कथं स्थितः
रूपभेदो यदा तेषामनित्यत्वं प्रसज्यते ॥ ७.१७ ॥

भगवान्

कामदास्ते तथैवोक्ता रुचिरूपानुकारिणः
यादृशी साधकस्येच्छा तथात्मानं प्रकुर्वते ॥ ७.१८ ॥

या सा तेषां च चिच्छक्तिः सान्यथा नैव जायते
स्वभावोऽयं बहिर्दृष्टो मन्त्राणां नटवत्खग ॥ ७.१९ ॥

कृकलासो महान्यद्वद्दृष्टोऽस्ति बहुरूपधृक्
केनापि हेतुना तद्वच् न च शक्तिर्विनाशिता ॥ ७.२० ॥

एवं मन्त्रास्तु वाक्येन श्रद्धेयास्ते यथोदिताः
विचरन्ति शिवेच्छातश्चोदिता निखिलेऽध्वनि ॥ ७.२१ ॥

गरुडः

अध्वा मार्गः समाख्यातो व्यापकत्वाच्छिवस्य न
यद्यध्वा कल्प्यते तस्य व्यापकत्वं तदा हतम् ॥ ७.२२ ॥

भगवान्

येयं परिणतिर्योनेर्पशूनां बन्धकारणम्
विभूतिर्मोहिनी त्याज्या तदतीतः शिवो यतः ॥ ७.२३ ॥

सर्वगोऽपि यथा वृक्षस्कन्धादूर्ध्वं शिखी स्थितः
दृष्टोऽत्र तद्वदेवायं शुद्धत्वादत्र वा परः ॥ ७.२४ ॥

गुणाधिक्यात्परः प्रोक्ते विभुत्वेऽप्युपचर्यते
पृथिव्यादीनि तत्त्वानि भोगस्थानानि देहिनाम् ॥ ७.२५ ॥

भुवनैः सह शोध्यानि क्रमयुक्त्या यथा तथा
एकस्माद्यत्परं स्थानं तस्मादन्यत्परात्परम् ॥ ७.२६ ॥

यावत्तावच्छिवस्थानं लीयतेऽयं शिवे लयः
लये न गमनं पुंसः प्रोक्तं तस्य विभुत्वतः ॥ ७.२७ ॥

यथा शुल्बं सुवर्णत्वं गतं तद्व्यपदिश्यते
तद्वत्प्रत्यपदिश्येत तत्सोऽपि शिवतां गतः ॥ ७.२८ ॥

इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे मन्त्रपटलः सप्तमः

भुवनपटलः

गरुडः

अध्वा नः सूचितो देव न त्वयोक्तः स्फुटं मम
ब्रूहि तं येन विज्ञानं प्रक्रियातः परं भवेत् ॥ ८.१ ॥

भगवान्

अधः कालोऽन्तगो रुद्रो दशेशस्थानमध्यगः
पद्मश्चोर्ध्वमधोऽनन्तस्तथान्ये क्रमवर्तिनः ॥ ८.२ ॥

ईश्वरः पिङ्गलः कालः क्रोदेशो जलदो बलः
धनदः शंकरश्चैते रुद्रकोट्या समावृताः ॥ ८.३ ॥

यद्रूपो भगवान्कालस्तद्रूपा ऋद्धिसंयुताः
तद्रूपास्तीव्रतः तीक्ष्णाः कालोऽप्येवं विभूतिमान् ॥ ८.४ ॥

तद्गृहं कोटिसंख्यातं तज्ज्वला दशकोटयः
निरालम्बं तदूर्ध्वं तु पञ्चकोटिमितं तमः ॥ ८.५ ॥

तदूर्ध्वं नरका घोराः क्षीणजन्तुसमाश्रयाः
चत्वारिंशत्समधिकं शतं तेषां प्रचोदितम् ॥ ८.६ ॥

द्वात्रिंशत्तत्र राजानो राजराजेश्वरास्त्रयः
रौरवोऽपि रुरुश्चान्यस्तमः शीतोष्णतापनाः ॥ ८.७ ॥

सन्तापः कमलाख्यश्च कम्बलो नीलसूत्रकः
सूचीमुखः क्षुरश्चैव †खडड्गतालवणोऽपरः† ॥ ८.८ ॥

कुम्भीपाकोऽम्बरीशश्च तप्ताङ्गारः सुदाहकृत्
तप्तलाक्षारसो यश्च त्रपुलेपः पलाशनः ॥ ८.९ ॥

उच्छ्वासश्च निरुच्छ्वासस्तथा युग्ममहीधरः
शाल्मली क्षुत्पीपासाख्यः क्रिमीणां निचयोऽपरः ॥ ८.१० ॥

लोहस्तम्भश्च विष्पूर्णो घोरो वैतरणी नदी
अवीची चोर्ध्वतः सर्वे चतुभेदगतास्त्विमे ॥ ८.११ ॥

अष्टभेदास्त्रयो ज्ञेयाः कुम्भीपाकश्च रौरवः
अवीची चैव पिण्डस्थं चत्वारिंशच्छतं मतम् ॥ ८.१२ ॥

एकैकस्यान्तरं ज्ञेयं लक्षं नवतिसंख्यया
एकलक्षोच्छ्रयाः सर्वे प्राणिनां बाधनाश्रयाः ॥ ८.१३ ॥

तेभ्यस्त्रिंशत्सहस्राणि निरालम्बं स्थितं तमः
ऊर्ध्वे च नवनवतिलक्षं कुष्माण्डमन्दिरम् ॥ ८.१४ ॥

नवलक्षोच्छ्रितादूर्ध्वं कुष्माण्डस्तत्र तिष्ठति
दिव्यस्त्रीभिर्वृतो घोरै रुद्रैश्चातिबलोट्कतैः ॥ ८.१५ ॥

नवलक्षान्तरं गत्वा सप्तपातालकं भवेत्
त्रिखण्डं त्रिजनाकीर्णं हाठकाधिष्ठितं भवेत् ॥ ८.१६ ॥

आदावाभासतालाख्यं जम्बूनदमयं महत्
क्रूरा नागाः सुरास्तत्र निवसन्ति सुभोगिनः ॥ ८.१७ ॥

शङ्खकर्णो महानादो नमुचिश्चेति दानवाः
अनन्तः कुलिकश्चैव एलापत्रश्च भोगिनः ॥ ८.१८ ॥

नागकन्यासमायुक्तान्निवसन्ति न दुःखिताः
विकटः शूलदन्तश्च लोहिताक्षः पलाशनः ॥ ८.१९ ॥

प्राक्खण्डे दानवा नागा द्वितीये राक्षसाः परे
निवसन्ति जनाकीर्णा दिव्यस्त्रीभोगसंयुताः ॥ ८.२० ॥

दशलक्षोच्छ्रयं ज्ञेयं सहस्रदशविस्तृतम्
नवसहस्रकं तेषामन्तरालं सहस्रकम् ॥ ८.२१ ॥

वरतालं भवेदूर्ध्वं पद्मरागधरालयम्
तत्र प्रह्लादोऽनुह्लादो वह्निजिज्वश्च दानवाः ॥ ८.२२ ॥

असुरीभिः समायुक्ता मध्यतो नागनायकाः
वासुकिः शङ्खपालश्च धृतरष्ट्रो भुजंगमः ॥ ८.२३ ॥

दिव्यैश्वर्ययुता व्याला भीमास्तस्मिन्सुखाः स्थिताः
विद्युन्माली तटिजिह्वो हिरण्याक्षश्च ते मताः ॥ ८.२४ ॥

नितलं नाम पातालमिन्द्रनीलमयं ततः
शिशुपालोऽन्धकारश्च तारकाख्यश्च दानवाः ॥ ८.२५ ॥

अत्यन्तबलभोगाढ्याः सर्वे तस्मिन्तथा स्थिताः
कम्बलश्चेतरस्तत्र पद्मश्चान्यो भुजंगमः ॥ ८.२६ ॥

यमदंष्ट्रोग्रदंष्ट्रौ च विशालाक्षश्च भीषणः
तिष्ठन्ति भोगसम्पन्नाः स्त्रीसहस्रसमायुताः ॥ ८.२७ ॥

सुभगं त्रितलं नाम ततोऽन्यं पुष्पभूमिकम्
महिषः कालपृष्टश्च दैत्यो नाम मयोऽपरः ॥ ८.२८ ॥

कार्कोटपद्मनाभौ च घन्तानादः पलाशनः
महोदरो महाकायो महाबाहुर्बलोत्कटः ॥ ८.२९ ॥

तत्र तिष्ठन्ति निर्दुःखा निर्द्वन्द्वा निर्भया मताः
महातलं तु यन्नाम रूप्यभूमिमयं ततः ॥ ८.३० ॥

दुन्दुभिस्तारकाख्यश्च सुपर्णोऽथ बलान्वितः
धनंजयः सुमाली च भद्रो नाम हि नायकः ॥ ८.३१ ॥

ज्वालास्यो वामनेत्रश्च वसत्युग्रो रतिप्रियः
पातालं नाम यच्चान्यत्सर्वरत्नाञ्चितं भवेत् ॥ ८.३२ ॥

शङ्कोदरो बृहद्भोगो ज्वालामाली महासुरः
दुर्दर्शनो दुर्मुखश्च श्वेतभद्रो महोरगः ॥ ८.३३ ॥

मेघनादोऽट्टहासश्च भीमो भीमपराक्रमः
विचित्रैश्वर्यसंपन्नाः सुधान्नरससंयुताः ॥ ८.३४ ॥

अन्यद्रसातलं नाम सर्वेषामुपरि स्थितम्
मुक्ताफलमयी भूमिस्तस्मिन्भुवनभूषिता ॥ ८.३५ ॥

†दीर्घिकोद्यानपुष्पाढया† हेमप्राकारतोरणा
रसायनान्नस्त्रीयुक्ता सिद्धद्रव्यसमाकुला ॥ ८.३६ ॥

तत्रास्ते शबली बद्धो हरिणा वामनेन तु
तक्षको नागराजश्च रोहिताक्षश्च राक्षसः ॥ ८.३७ ॥

पातालकन्यकाश्चोर्ध्वमष्टलक्षमिताः स्थिताः
निहता दानवा यत्र पुनः प्रतियुगे युगे ॥ ८.३८ ॥

तास्तु तेभ्यः †समाक्षृय† स्थापिता हाथकाग्रतः
पातालकन्यकोर्ध्वे तु दशलक्षमितं तमः ॥ ८.३९ ॥

तस्योर्ध्वं नवलक्षैस्तु स्थितो वै हाठकेश्वरः
तद्गृहं हेमरत्नाढ्यं दिव्यस्त्रीभोगसंयुतम् ॥ ८.४० ॥

तद्ध्यानजपयुक्ता ये तद्भोगं प्राप्नुवन्ति ते
पातालद्वारपालित्वं तच्छिवेनास्य कीर्तितम् ॥ ८.४१ ॥

हठाद्भिनत्ति यन्त्राणि तेनायं हाठको मतः
पूर्वोदितप्रमाणेन स्थितः पातालसंग्रहः ॥ ८.४२ ॥

ततोऽष्टशीतिलक्षाणि द्वे च कोटी प्रमाणतः
भूपृष्ठं सकटाहेन कोटिमानेन तत्समम् ॥ ८.४३ ॥

एवमेकीकृतं सर्वं पञ्चाशत्कोटयः स्थिताः
भूलोकस्तत्र विख्यातः सप्तद्वीपार्णवान्वितः ॥ ८.४४ ॥

जम्बूः शाकः कुशः क्रौञ्चः शाल्मली च तथा परः
गोमेदः पुष्कराख्यश्च सप्तद्वीपाः प्रकीर्तिताः ॥ ८.४५ ॥

क्षारः क्षीरो दधिः सर्पिरिक्षुर्मद्यपयोनिधिः
ततः †स्वादूदकोदन्वान्तस्मादिद्वगुणतः† स्थिताः ॥ ८.४६ ॥

लक्षयोजनविस्तीर्णं जम्बूद्वीपं समन्ततः
नवखण्डं च तज्ज्ञेयं मेरुमध्यं सपर्वतम् ॥ ८.४७ ॥

स मेरुर्हेमसम्भूतिः शरावाकृतिमस्तकः
प्रविष्टः षोडशाधस्तात्सहस्राणि सवर्तुलः ॥ ८.४८ ॥

उच्छ्रयेण सहस्राणामशीतिश्चतुरन्यथा
त्रिभिः सृङ्गैः समायुक्तो रुक्मकाञ्चनरत्नजैः ॥ ८.४९ ॥

कृष्णस्य राजतं शृङ्गं सौवर्णं ब्रह्मणो मतम्
रत्नजं शांकरं स्थानं तदधोऽमरसंस्थितिः ॥ ८.५० ॥

स्थितामरवती पूर्वे पुरी चेन्द्रस्य हेमजा
तेजोवती स्थिताग्नेय्यां वह्नेः कमललोहिता ॥ ८.५१ ॥

वैवस्वती यमस्यापि दक्षिणेऽञ्जनसंनिभा
रक्षोवती च नैरृत्यां निरृतेः कृष्णलोहवत् ॥ ८.५२ ॥

वारुण्यां शुद्धवत्याख्या वरुणस्येन्दुसंनिभा
वायव्ये गन्धवत्याख्या वायोर्मरकतात्मिका ॥ ८.५३ ॥

उत्तरे सर्वरत्नाढ्या कुबेरस्य महोदया
यशोवती स्थिता शुक्ला हरस्येशानगोचरे ॥ ८.५४ ॥

मेरोश्चैव चतुर्दिक्षु स्थितास्त्वन्ये महानगाः
पूर्वस्मिन्मन्दरो नाम दक्षिणे गन्धमादनः ॥ ८.५५ ॥

विपुलः पश्चिमे ज्ञेयः सुपार्श्वश्चोत्तरे स्थितः
कदम्बो मन्दरे ज्ञेयो जम्बूः स्याद्गन्धमादने ॥ ८.५६ ॥

अश्वत्थो विपुले ज्ञेयः सुपार्श्वे च वटो मतः
सरांस्युपवनान्यत्र पूर्वतश्चारुणोदकम् ॥ ८.५७ ॥

मानसं दक्षिणे ज्ञेयं शीतोदं पश्चिमे ततः
महाह्रादमुत्तरतस्ततश्चैत्ररथं वनम् ॥ ८.५८ ॥

मन्दनं तु सवैभ्राजं धृतसंज्ञं क्रमात्स्थितम्
तत्र दक्षिणतो मेरोः स्थितमेतन्नगत्रयम् ॥ ८.५९ ॥

निषधो हेमकूटश्च हिमवानिति विश्रुतः
मेरोरुत्तरतोऽद्रीणां त्रितयं चापि संस्थितम् ॥ ८.६० ॥

नीलः श्वेतो गिरिश्चैव शृङ्गवान्नाम चापरः
सहस्रद्वयविस्तीर्णाः समुद्रावधयो मताः ॥ ८.६१ ॥

मल्यवान्पूर्वतो मेरोर्स्थितो योजनसंख्यया
सहस्रविस्तृतस्तार्क्ष्य गन्धाख्यः पश्चिमे ततः ॥ ८.६२ ॥

नगान्नगान्तरं यच्च तद्देशो वर्ष उच्यते
हिमवत्सिन्धुमध्यस्थं भारतं चापवत्स्थितम् ॥ ८.६३ ॥

सहस्रनवसंख्यातं वर्षं किंपुरुषं पुनः
तदवाग्घेमकूटस्योत्तरतो हिमवद्गिरेः ॥ ८.६४ ॥

दीर्घं तच्च समाख्यातं ततस्तु हरिसंज्ञकम्
उत्तरे हेमकूटस्य दक्षिणे निषधस्य च ॥ ८.६५ ॥

प्राक्प्रमाणं तु तन्मेरोः भद्राश्वं पूर्वतो भवेत्
अब्धिमाल्यवतोर्मध्ये द्वात्रिंशत्कसहस्रकम् ॥ ८.६६ ॥

मेरोः पश्चिमतो ज्ञेयं केतुमलं तु तादृशम्
गन्धाख्यस्य समुद्रस्य मध्ये मध्य इलावृतम् ॥ ८.६७ ॥

सुमेरोश्च चतुर्दिक्षु नवसहस्रविस्तृतम्
सुमेरोः पार्श्वतोऽत्राष्टौ सहस्राणि तथा पुनः ॥ ८.६८ ॥

सुमेरोरुत्तरे काम्यो नीलश्वेताद्रिमध्यगः
परं हिरण्यकं तस्माद्दीर्घं किंपुरुषं यथा ॥ ८.६९ ॥

शृङ्गाद्रिश्वेतयोर्मध्ये श्वेतादूर्ध्वं हिरण्यकम्
शृङ्गाद्रेरुत्तरे ज्ञेयो जलधेर्दक्षिणे कुरुः ॥ ८.७० ॥

चन्द्रार्धवच्च तज्ज्ञेयं भारतं कीर्तितं यथा
भारतं तत्पुनर्ज्ञेयं नवखण्डयुतं ततः ॥ ८.७१ ॥

इन्द्रसंज्ञः कशेरुश्च ताम्रवर्णो गभस्तिमान्
नागः सौम्यश्च गान्धर्वो वारुणश्च कुमारिका ॥ ८.७२ ॥

सुदीर्घे तत्र कन्याख्ये द्वीपे वर्णचतुष्टयम्
शेषाणि म्लेच्छयुक्तानि शतपञ्चायुतं च तत् ॥ ८.७३ ॥

तद्योजनसहस्राणि †संलेच्छानीतराणि† तु
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ ८.७४ ॥

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
अर्वाग् हिमवतः क्षारः शतानि नव तस्य हि ॥ ८.७५ ॥

अतिक्रम्य षडन्यानि द्वीपानि सुखदानि तु
अङ्गद्वीपं यमाख्यं च मलयं शङ्खसंज्ञकम् ॥ ८.७६ ॥

कुमुदं वराहसंज्ञां मलये मलयाचलः
तत्पादे हेमजा लङ्का पुरी क्रूरालया मता ॥ ८.७७ ॥

एवं समासतः प्रोक्तं जम्बूद्वीपमिदं खग
तस्यैव लक्षमात्रस्य क्षारोदस्तत्समो भवेत् ॥ ८.७८ ॥

†क्षारोदादिद्वगुणः† क्षीरः क्षीरोदाद्दधिसंज्ञकः
दध्नश्च सर्पिसंज्ञश्च तस्माच्च द्विगुणो रसः ॥ ८.७९ ॥

†रसात्तदिद्वगुनं† मद्यं तस्मात्स्वादूदकं तथा
जम्बूद्वीपात्तथा शाकः शाकाच्च कुशसंज्ञकः ॥ ८.८० ॥

कुशात्क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्तच्छाल्मलीति च
तस्माद्गोमेदसंज्ञश्च गोमेदात्पुष्करं पुनः ॥ ८.८१ ॥

ज्ञेयं स्वादूदकं तत्र ततो भूमिर्हिरण्मयी
दशकोटिमिता ज्ञेया क्रीडार्थं स्याद्दिवौकसाम् ॥ ८.८२ ॥

तस्यां चाद्रिः परो ज्ञेयो लोकालोक इति श्रुतः
सहस्रदशविस्तीर्णो देशानामाश्रयो भुवि ॥ ८.८३ ॥

अर्वाग्लोको न लोकोर्ध्वं लोकालोकस्ततस्तु सः
तस्यापि परतो ज्ञेयो गन्धोदस्तु समुद्ररात् ॥ ८.८४ ॥

यत्प्रमाणं तु सर्वेषां तत्प्रामाणं ततस्तमः
सप्तत्यर्धेन कोटीनां लक्षान्येकोनविंशतिः ॥ ८.८५ ॥

चत्वारिंशत्सहस्राणि कोटिस्थौल्यात्कटाहकम्
तिर्यद्मेदिनीपर्यन्तं शतकोट्यर्धविस्तृतम् ॥ ८.८६ ॥

भूर्भुवः स्वर्ध्रुवान्तं स्याल्लक्षपञ्चदशान्वितम्
पञ्चाशीतिश्च लक्षानं कोटिद्वयमहो भवेत् ॥ ८.८७ ॥

कोट्यष्टकं जनो ज्ञेयस्तपो द्वादशकोटिकम्
दशषट्कोटयः सत्यं तस्मादूर्ध्वं प्रतिष्ठितम् ॥ ८.८८ ॥

तस्मादूर्ध्वं भवेद्ब्रह्मा कोटित्रयमितः खग
त्रिभिश्च कोटिभिर्विष्णुश्चतुर्भिश्च हरः स्थितः ॥ ८.८९ ॥

ब्रह्माण्डमूर्ध्वतः कोटिः स्थौल्यत्वेन व्यवस्थितम्
एषु लोकेषु तिष्ठन्ति भास्कराद्या ग्रहाः शुभाः ॥ ८.९० ॥

निवसन्ति सुराः सिद्धा विमानस्था महौजसः
भूलोकाद्यावदण्डं तु पञ्चशत्कोटयो मताः ॥ ८.९१ ॥

कालाग्निमादितः कृत्वा तद्वत्संख्योर्ध्वतः स्थिता
ब्रह्माण्डधारका रुद्राः शतसंख्या विकल्पिताः ॥ ८.९२ ॥

एकैकस्मिन्दिशां भागे दशसंख्या स्थितास्त्विमे
कपालिशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः ॥ ८.९३ ॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः
इन्द्रवीर्यं समाक्रम्य संस्थिताश्च सुपूजिताः ॥ ८.९४ ॥

अग्नी रुद्रो हुताशी च पिङ्गलः खादको हरः
ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकौ ॥ ८.९५ ॥

अग्नेयां संस्थितास्त्वेते पूजितास्तेन रुद्रवत्
याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः ॥ ८.९६ ॥

संयोक्ता च वियोक्ता च कालो धर्मपतिः स्मृतः
यमस्य बलमाक्रम्य यमेनैव सुपूजिताः ॥ ८.९७ ॥

निरृतिर्मरणो हन्ता क्रूरदृष्टिर्भयानकः
ऊर्ध्वशेफो विरूपाक्षो धूम्रो लोहितदंष्ट्रवान् ॥ ८.९८ ॥

निरृतेर्बलमाक्रम्य स्थितास्तेनैव पूजिताः
बलश्चातिबलश्चैव पाशहस्तो महाबलः ॥ ८.९९ ॥

श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः
बडबामुखभीमौ च वरुणेन सुपूजिताः ॥ ८.१०० ॥

शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ॥ ८.१०१ ॥

वायोः प्रियाःसदा ह्येते दशरुद्रा महाबलाः
जटामकुटधारी च नानारत्नधरोऽपरः ॥ ८.१०२ ॥

निधीशो रूपवान्धन्यः सौम्यदेहः प्रसादकृत्
प्रकाशकोऽथ लक्ष्मीवान्प्रकाशः सोमदेवताः ॥ ८.१०३ ॥

विद्येशो ज्ञानवान्तज्ज्ञो वेदज्ञो मातृपिङ्गलः
भूतपालो बलिर्मित्रः सर्वविद्याधिपः सुधीः ॥ ८.१०४ ॥

दुःखहच्च ततो रुद्र ईशमित्रा इमे दश
अनन्तः पालको वीरः कपालीशो वृषध्वजः ॥ ८.१०५ ॥

सुधीश्चैवोग्रशर्वौ च शुभ्रो वै लोहितोऽपरः
विष्ण्विशान महात्मानः सुखिनो मृत्युवर्जिताः ॥ ८.१०६ ॥

शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः
संवाहश्च विवाहश्च नभो लिप्सुर्विचक्षणः ॥ ८.१०७ ॥

एवं ते दशसंख्योक्ता रुद्रा ब्रह्माधिदेवताः
ब्रह्माण्डं समतिक्रम्य जलं दशगुणं भवेत् ॥ ८.१०८ ॥

अमरेशं प्रभासं च नैमिशं पुष्करं तथा
आषाढिं चैव दिण्डिं च भारभूतिं च लकुलि ॥ ८.१०९ ॥

अतिगुह्याष्टकं ह्येतज्जलावरणसंस्थितम्
तेजस्तत्त्वं तदूर्ध्वं तु तेजोरूपजनाकुलम् ॥ ८.११० ॥

हरिश्चन्द्रं च श्रीशैलं †जल्पमम्रातिकेश्वरम्†
मध्यमं च महाकालं केदरं भैरवं तथा ॥ ८.१११ ॥

अतिगुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम्
वायुतत्त्वं स्थितं तस्माद्दशधावृत्य तैजसम् ॥ ८.११२ ॥

गया तथा कुरुक्षेत्रं नाखलं नखलं तथा
विमलं चाट्टहासं च महेन्द्रं भीममष्टमम् ॥ ८.११३ ॥

गुह्याद्गुह्यतरं ह्येतद्वाय्वावरणमास्थितम्
तदूर्ध्वं भवति व्योम पञ्चमं रूपवर्जितम् ॥ ८.११४ ॥

वस्त्रपादं रुद्रकोटिमविमुक्तं महालयम्
गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थानुसंज्ञकम् ॥ ८.११५ ॥

पवित्राष्टकमेतद्धि व्योमतत्त्वे प्रतिष्ठितम्
दशधा तदतिक्रम्य स्यादहंकारसंज्ञकम् ॥ ८.११६ ॥

छगलण्डं द्विरण्डं च मकोटं मण्डलेश्वरम्
कालाञ्जरं परं चैव शङ्खकर्णं स्थलेश्वरम् ॥ ८.११७ ॥

स्थूलेश्वरं च विख्यातमहंकारे प्रतिष्ठितम्
स्थान्वष्टकमिति ख्यातं तदूर्ध्वं बुद्धिसंज्ञकम् ॥ ८.११८ ॥

पैशाचं राक्षसं याक्षं गन्धर्वं चैन्द्रं सौम्यकम्
प्रजेशम्ब्राह्मसंज्ञं च देवयोन्यष्टकं मतम् ॥ ८.११९ ॥

बुद्धितत्त्वात्ततो गौणं तत्रादौ चाकृतं भवेत्
कृतं च भैरवं ब्राह्म्यं वैष्णवं च कुमारकम् ॥ ८.१२० ॥

औमं श्रीकण्ठसंज्ञं च गौणं योगाष्टकं मतम्
ततोऽव्यक्तं प्रधानं च महादेवाष्टकालयम् ॥ ८.१२१ ॥

क्रोधेशश्चण्डसंवर्तो ज्योतिः पिङ्गलसूरकौ
पञ्चान्तकैकवीरश्च शिखेदश्च स्थितास्त्विह ॥ ८.१२२ ॥

अव्यक्ताद्रागतत्त्वं तु शतधा व्याप्य संस्थितम्
महातेजो वामदेवो भवश्चोधव एव च ॥ ८.१२३ ॥

एकपिङ्गेक्षनेशानौ भुवनेश्वर एव च
अङ्गुष्ठमात्रसहिता रागस्था वीर्यसंयुताः ॥ ८.१२४ ॥

तत्रैव पुरुषो ज्ञेयः प्रधानगृहपालकः
रागतत्त्वात्तु विद्याख्यमशुद्धं पशुमोहकम् ॥ ८.१२५ ॥

वामदेवोऽथ भीमश्च उग्रश्च भवसंज्ञकः
सर्वेशानैकवीरश्च प्रचण्डश्चेश्वरः प्रभुः ॥ ८.१२६ ॥

उमाभर्ता ह्यजोऽनन्त एकश्चैव शिवः पुनः
विद्यातत्त्वे स्थिता ह्येते रुद्राश्चातिबलोत्कटाः ॥ ८.१२७ ॥

ततः कालनियत्याख्यौ संपुटौ व्याप्य लक्षधा
वामो हलाहलश्चैव क्रोधनो बडबामुखः ॥ ८.१२८ ॥

उच्छुष्मः शम्बरश्चण्डा मतङ्गो घोररूपिणाः
अधस्तात्संस्थिता ह्येते तेभ्यः स्थूलगणोऽपरः ॥ ८.१२९ ॥

वटरुद्रस्ततश्चान्यो हुलुलश्च ततोऽपरः
कालतत्त्वात्कला ज्ञेया लक्षायुतपरिच्छदा ॥ ८.१३० ॥

वामो ज्येष्ठश्च रुद्रश्च कालश्चैव कलस्तथा
बलविकरणश्चान्यो बलप्रमथनोऽपरः ॥ ८.१३१ ॥

दमनः सर्वभूतानां मनश्चोन्मन एव च
विग्रहेशसमायुक्ताः कलातत्त्वे व्यवस्थिताः ॥ ८.१३२ ॥

तदूर्ध्वं तु भवेन्माया कोटिम्व्याप्य स्थिता ह्यधः
गहनोऽसाध्यनामा च तथा हरिहरावुभौ ॥ ८.१३३ ॥

दशेशानश्च देवेशस्त्रिगलो गोपतिः पुनः
ते ह्यधः पुटसंस्थानादूर्ध्वं क्षेमीश उच्यते ॥ ८.१३४ ॥

ब्रह्मस्वामी च विद्येशो विश्वेशश्च शिवस्तथा
अनन्तसहिता ह्येते मायातत्त्वनिवासिनः ॥ ८.१३५ ॥

ततो विद्या च या शुद्धा कोट्ययुतगता मता
अनन्तश्च तथा सूक्ष्मः शिवश्चोत्तमसंज्ञकः ॥ ८.१३६ ॥

एकनेत्रैकरुद्रौ च त्रिमूर्तिरपरस्तथा
श्रीकण्ठश्च शिखण्डी च वामाद्या नवशक्तयः ॥ ८.१३७ ॥

धर्माद्याश्चरणास्तत्र ततश्चेश्वरसंजकः
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ ८.१३८ ॥

ईश्वरे तु स्थिता ह्येतास्ततस्तत्त्वं सदाशिवम्
तत्र ब्रह्माङ्गसंघातः पुनः †शक्तिद्ययं† भवेत् ॥ ८.१३९ ॥

ततस्तन्निष्कलं तत्त्वं निर्गुणं निर्मलं शिवम्
अतीन्द्रियं स्थितं शुद्धं व्यापकं शून्यलक्षणम् ॥ ८.१४० ॥

एवमध्वा समाख्यातः शिवान्तस्तार्क्ष्य ते मया ॥ ८.१४१ ॥

इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे भुवनपटलोऽष्टमः

शिवतत्त्वपटलः

गरुडः

शिवतत्त्वं कथं शून्यं यच्छून्यं नाक्षगोचरम्
प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किंचन ॥ ९.१ ॥

भगवान्

माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः
मायाधर्मैः शिवः शून्यः पशुमलवियोगतः ॥ ९.२ ॥

नाभावाच्छून्यमित्युक्तमन्यापेक्षतयात्र तु
गृहमीशादृते यद्वत्तथासौ सात्विकैर्गुणैः ॥ ९.३ ॥

बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः
चेतसः स्थितिहेत्वर्थं पुनर्नित्ये स्थिरं भवेत् ॥ ९.४ ॥

अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मशक्तिलयं गतः
ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥ ९.५ ॥

अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम्
अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृत् ॥ ९.६ ॥

गरुडः

अनुभावो विकल्पार्थे विकल्पो मनसः स च
समनस्कमतो ज्ञेयममनस्कमरूपकम् ॥ ९.७ ॥

अज्ञात्वा देशिकस्तत्त्वं कथं दीक्षां करोत्यसौ
ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ॥ ९.८ ॥

भगवान्

क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत्
वस्त्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥ ९.९ ॥

विकल्पो मनसः सूक्ष्मः शून्यशक्तिलयं गतः
तद्गतस्त्वन्यविच्छिन्नस्तेनोक्तश्चित्तवर्जितः ॥ ९.१० ॥

ज्ञानं चात्मेन्द्रियश्लेषात्कर्ता त्वात्मा मनः क्रिया
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ॥ ९.११ ॥

प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते
रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥ ९.१२ ॥

गृह्यते तत्त्वभावेन वस्तुभावविवर्जनात्
तद्युक्तस्य प्रभुतत्त्वं †भविष्यत्युदकैलवत्† ॥ ९.१३ ॥

शून्यमेवंविधं ज्ञेयं गुरुतः शास्त्रतः स्वतः

गरुडः

शास्त्रं च स कथं वक्ति निष्कलो वाग्विवर्जितः ॥ ९.१४ ॥

सकलो वक्ति वा तन्त्रं स्वरूपेन तदाबलः

भगवान्

निष्कलः किं न कल्पोऽसौ यद्यकल्पः कथं जगत् ॥ ९.१५ ॥

यथा तत्कुरुते शक्त्या तथा शास्त्रं न किं प्रभुः
किं नोपदेशदातृत्वात्सकलस्तेन स शिवः ॥ ९.१६ ॥

यद्येवं न भवेत्तार्क्ष्य तदा न स्याद्गुरुक्रमः
पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः ॥ ९.१७ ॥

बोध्यबोधकसम्बन्धाद्वक्ति तन्त्राण्यनेकधा ॥ ९.१८ ॥

इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे शिवतत्त्वपटलो नवमः

१०

तन्त्रावतारपटलः

गरुडः

किमर्थं तानि वक्तीशः कस्मिन्काले कियन्ति वा
के ते केषाम्ब्रवित्येवं सर्वमेतद्ब्रवीहि मे ॥ १०.१ ॥

भगवान्

तानि वक्ति स मुक्त्यर्थं न मुक्तिः साधनादृते
साधनं तत्र संसिद्धं तदर्थं तानि सोऽब्रवीत् ॥ १०.२ ॥

सृष्ट्यनन्तरमेवेशः शिवान्सृष्ट्वा दशात्मजान्
ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् ॥ १०.३ ॥

कामिकं प्रनवाख्यस्य सुधाख्यस्य च योगजम्
दीप्ताख्यस्याप्यचिन्त्यं तु कारणाख्यस्य कारणम् ॥ १०.४ ॥

अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम्
सूक्ष्मन्तु सूक्ष्मसंज्ञस्य कालस्यापि सहस्रकम् ॥ १०.५ ॥

सुप्रभं यद् दशेशस्य अंशुसंज्ञस्य चांशुमत्
एवं प्राथमिकः प्रोक्तः पुनरन्यो गुरुक्रमः ॥ १०.६ ॥

प्रणवात्त्रिकलः प्राप कामिकं त्रिकलाद्धरः
सुधाख्याद्योगजं तन्त्रं भस्मसंज्ञस्ततः प्रभुः ॥ १०.७ ॥

दीप्तरुद्रादचिन्त्यं तु गोपतिश्च ततोऽम्बिका
कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः ॥ १०.८ ॥

अजितं सुशिवात्प्राप्तमुमेशो ह्यच्युतस्ततः
ईशाद्दीप्तं त्रिमूर्तिस्तु ततः प्राप्तो हुताशनः ॥ १०.९ ॥

सूक्ष्मं सूक्ष्माद्भवः प्राप्तस्ततः प्राप्तः प्रभञ्जनः
कालसंज्ञात्सहस्राख्यं भीमो धर्मस्ततः खग ॥ १०.१० ॥

दशेशात्सुप्रभाख्यं तु विग्रहेशस्ततः शशी
अंशुमच्चांशुसंज्ञात्तु प्राप्तो ह्युग्रस्ततो रविः ॥ १०.११ ॥

एवमेते समाख्याताः शिवभेदा दशाद्य ते
दशाष्टसंख्यया रुद्रान्पूर्वमुत्पाद्य बुद्धिमान् ॥ १०.१२ ॥

शिवस्तत्संख्ययैवेह पुनस्तान्बोधयेत्खग
रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् ॥ १०.१३ ॥

पारमेशं महातन्त्रं †श्रीपूपस्य† प्रभाषितम्
निश्वासं यद्दशार्णस्य प्रोद्गीतं नाम शूलिनः ॥ १०.१४ ॥

मुखबिम्बं प्रशान्तस्य बिन्दोः सिद्धमतो मतम्
शिवनिष्ठस्य सन्तानं सिंहं सौम्येशचोदितम् ॥ १०.१५ ॥

चन्द्रभासमनन्तस्य भद्रं सर्वात्मनो मतम्
निधनस्य स्वयम्भूतं वीरजं तेजसः स्मृतम् ॥ १०.१६ ॥

रौरवं ब्रह्मणेशस्य शिवाख्यस्य च मकुटम्
इदं देवपितुः ख्यातं ललितं चालयस्य तु ॥ १०.१७ ॥

आग्नेयं यच्च †तद्व्योमनः† शिवस्यापि पुनः परम्
एते जाताः सह ज्ञानैः रुद्रभेदान्पुनः शृणु ॥ १०.१८ ॥

प्राप्तश्चानादिसंज्ञात्तु विजयं परमेश्वरः
श्रीरूपात्पारमेशं तु सम्प्राप्तो ह्युशना मुनिः ॥ १०.१९ ॥

दशाक्षराच्च निश्वासं संप्राप्ता शैलसंभवा
प्रोद्गीतं रुद्रसंज्ञात्तु कचाख्यो मुनिसत्तमः ॥ १०.२० ॥

प्रशान्तान्मुखबिम्बं तु दधीचो नाम यो मुनिः
बिन्दुसंज्ञात्तु यत्सिद्धं प्राप्तश्चण्डेश्वरो गणः ॥ १०.२१ ॥

शिवनिष्ठाच्च सन्तानं संप्राप्तः शंशपायनः
नारसिंहं तु यत्सौम्यान्नृसिंहः प्राप्तवान्महान् ॥ १०.२२ ॥

अनन्ताच्चन्द्रभासं तु प्राप्तो देवपुरोहितः
भद्रं सर्वात्मदेवाच्च वीरभद्रो गणो महान् ॥ १०.२३ ॥

स्वायम्भुवं तु निधनात्सम्प्राप्तः पद्मसंभवः
वीरजं तेजसः प्राप्तः प्रजारक्षणतत्परः ॥ १०.२४ ॥

रौरवं ब्रह्मणेशात्तु संप्राप्तो नन्दिकेश्वरः
ईशानान्मकुटं प्राप्तो महादेवो बिलाश्रयः ॥ १०.२५ ॥

किरणं देवपितृतः प्राप्तः संवर्तको मुनिः
आलयाल्ललितं प्राप्तो रुद्रो भैरवरूपवान् ॥ १०.२६ ॥

आग्नेयं व्योमसंज्ञात्तु संप्राप्तो हुतभुक्पुनः
शिवाख्यात्स महाकालः सौरभेयं पराह्वयम् ॥ १०.२७ ॥

तन्त्रभेदो मया प्रोक्तो द्विविधाक्षिप्तलक्षणः
एषु भेदेषु यो भेद उपभेदः स उच्यते ॥ १०.२८ ॥

अतिसंक्षिप्तविस्तीर्ण ऋषिदेवगणात्मकः

गरुडः

कस्मात्ख्यातोऽत्र भेदश्च भेदोऽयं चित्तभेदतः ॥ १०.२९ ॥

पुंप्रवृत्तेरयम्भेदः श्रोतॄणां तु विभेदतः

भगवान्

भेदोऽयमुपचारेण कल्पितः स यतस्ततः ॥ १०.३० ॥

फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते ॥ १०.३१ ॥

इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे तन्त्रावतारपटलो दशमः

११

मातृकोत्पत्तिपटलः

गरुडः

ज्ञानमेकं कथं भिन्नं न ज्ञातं तत्स्फुटं मया
एतद्ब्रूहि महादेव ज्ञानमूलं यतोऽखिलम् ॥ ११.१ ॥

एकं नादात्मकं ज्ञानमोमित्येव स्थितं परम्
सा शिखा बिन्दुवक्त्रस्य †गलाङ्गस्य† महात्मनः ॥ ११.२ ॥

प्रोक्तं श्रुतौ परं ब्रह्म चोदितोऽत्राक्षरालयः
स्थितोऽव्यक्तः स वाग्रूपः पुनर्भिन्नस्तु खण्डशः ॥ ११.३ ॥

नवखण्डयुतश्चाद्यः पुनः षोडशभिः स्वरैः
दशार्धाक्षरनिष्णाताः पञ्चखण्डा व्यवस्थिताः ॥ ११.४ ॥

खण्डद्वयं चतुर्वर्णं शेषं †कूताख्यया† स्थितम्
एवं ज्ञेयं शतार्धात्म वर्णशक्तिविभेदतः ॥ ११.५ ॥

मातेव मातृका सैव संख्याज्ञानादिभेदगा
तर्ककाव्येतिहासस्था सर्वं व्याप्य व्यवस्थिता ॥ ११.६ ॥

शिवज्ञानप्रभेदेन स्थितैका नामभेदतः
बिसिनी यद्यथा भिन्ना रुद्रभेदात्परा सती ॥ ११.७ ॥

तद्भेदाज्ज्ञानभेदोऽपि भाक्तः प्रोक्तोऽर्थतो नहि
गद्यपद्यादिकाव्या ये गेया देशानुगाश्च ये ॥ ११.८ ॥

बीजपिण्डकलाकूटमन्त्रशक्तिविनिर्गता
शक्तिर्वागीश्वरी तस्य वाङ्मयं व्याप्य संस्थिता ॥ ११.९ ॥

विज्ञेया मातृका सैव सर्वमन्त्रालया परा
एवमस्य विभेदोऽयं ज्ञानस्योक्तो मया तव ॥ ११.१० ॥

इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे मातृकोत्पत्तिपटल एकादशः

१२

यन्त्रोद्धारपटलः

गरुडः

मातृका यदि संसिद्धा सर्वमन्त्रालया परा
विहितास्त्वीश ये मन्त्रास्तेषां मे लक्षणं वद ॥ १२.१ ॥

समे मध्ये धराभागे सुगन्धकुसुमाकुले
क्रमाच्छक्तिं न्यसेत्तत्र नवखण्डविभागशः ॥ १२.२ ॥

शक्तिमुद्धृत्य तामेव पूज्य पुष्पैः सुगन्दिभिः
उद्धरेच्छम्बरान्पश्चादाचार्यो मन्त्रविग्रहः ॥ १२.३ ॥

षोडशाच्छदकं पद्मं सहस्रात्तदलं तु वा
कर्णिकायां न्यसेत्कूटं कालयुग्मान्तसंस्थितम् ॥ १२.४ ॥

रुद्रबीजसमायुक्तं खण्डचन्द्रसमन्वितम्
न्यसेत्कूटं च तन्मध्ये भुक्तिमुक्तिफलप्रदम् ॥ १२.५ ॥

न्यसेत्क्रमाद्दलेष्वेव स्वरषोडशकं पुनः
क्रमादग्रारकेष्वर्णान्व्यापकं तु न्यसेत्परि ॥ १२.६ ॥

एतच्छक्रं यजेद्यस्तु सततं मासि मासि वा
गन्धाद्यैर्भक्तितः सोऽपि कालमुक्तः शिवं व्रजेत् ॥ १२.७ ॥

द्वितीयेन चतुर्थेन षष्ठद्वादशकेन तु
षोडशेन विभिन्नोऽयम्भवेत्कूटोऽङ्गपञ्चकम् ॥ १२.८ ॥

ह्रस्वा ब्रह्माणि विज्ञेया द्वियुक्तास्तु गणेश्वराः
त्रियुक्ता लोकपालाः †स्युश्चतुर्थेऽष्ट्राणि† कल्पयेत् ॥ १२.९ ॥

विद्येशानां शृणुष्वान्यल्लक्षणं मातृकात्मकम्
व्यापकं रेफसंयुक्तं चतुर्थस्वरसंयुतम् ॥ १२.१० ॥

बिन्दुयुक्तमनन्तस्य वाचकत्वेन संस्थितम्
रेफवर्णयुतं शान्तं षष्ठस्वरसमन्वितम् ॥ १२.११ ॥

बिन्दुदेहसमायुक्तं सूक्ष्मदेवस्य वाचकम्
मकारं विभुसंयोगाद्विसर्गाच्च शिवोत्तमः ॥ १२.१२ ॥

शान्तवर्णान्तिमो वर्णो रेफयुक्तः सबिन्दुकः
षष्ठस्वरसमायुक्तः प्रोक्तो नेत्रैकनामनि ॥ १२.१३ ॥

शवर्णान्तान्तिमो वर्णो रान्तान्तेन समायुतः
द्वितीयस्वरसंयुक्त एकरुद्रः सबिन्दुकः ॥ १२.१४ ॥

भान्तान्ताधः स्थितो रान्तो द्वादशान्तेन भेदितः
बिन्दुना भूषितो मूर्ध्नि त्रिमूर्तेर्वाचको मतः ॥ १२.१५ ॥

षष्ठस्वरयुतः शान्तः सबिन्दुः सान्ततः स्थितः
श्रीकण्ठ एष विख्यातस्ततः शृणु शिखण्डिनः ॥ १२.१६ ॥

लान्तान्तिमश्चतुर्थेन भूषितो बिन्दुसंयुतः
समासेन मया तार्क्ष्य विद्येशाः परिकीर्तिताः ॥ १२.१७ ॥

कूटमीकारसंयुक्तं बिन्दुनादविभूषितम्
गयत्री चैव सावित्री किं तु रेफविशेषणम् ॥ १२.१८ ॥

ओंकारादिनमोन्तांश्च ज्ञात्वा मन्त्रान्प्रयोजयेत्
स्नात्वा शुद्धः पठेन्मन्त्रान्छुचिः प्राग्भोजनात्परः ॥ १२.१९ ॥

द्वयोरप्यन्यथा दोषो भवेदुच्छिष्टसंभवः ॥ १२.२० ॥

इति श्रीमत्किरणाख्ये महातन्त्रे विद्यापादे यन्त्रावतारो द्वादशः पटलः समाप्तः

विद्यापादः समाप्तः

क्रियापादः १

अथ क्रियापादः

स्नानविधिः

गरुडः

स्नानं कतिविधं प्रोक्तं कैर्मन्त्रैः कथमेव वा
एतद्ब्रूहि समासेन स्फुटार्थं त्रिपुरान्तक ॥ १.१ ॥

भगवान्

प्रथमं वारुणं स्नानं द्वितीयं भस्मसंज्ञिकम्
माहेन्द्रं च तृतीयं स्याच्चतुर्थं मारुतं भवेत् ॥ १.२ ॥

पञ्चमं मान्त्रमुद्दिष्टम् इदानीम् उच्यते क्रमात्
नदीनदतताकाब्धिखातादिषु च वारुणम् ॥ १.३ ॥

तत्र गत्वा शुचिस्थाने मृदं गृह्यात् प्रशोधिताम्
गृहीत्वा सद्यमन्त्रेण स्थापयेत्तां गुह्यकेन तु ॥ १.४ ॥

संशोध्याघोरमन्त्रेण प्रोक्षयेत् पुरुषेण तु
ईशेनोद्धृत्य खड्गेन सर्वं घृष्य च संप्लवेत् ॥ १.५ ॥

विधिस्नानं पुनः कार्यं मलस्नानादनन्तरम्
आचम्य तां पुनर्गृह्य कृत्वा भागत्रयं हृदा ॥ १.६ ॥

उत्तराभिमुखो भूत्वा जप्त्वाऽस्त्रं ब्रह्मणाऽम्बुभिः
आद्यं द्व्यंशकम् †अङ्गेन्यं† शेषं तीर्थे पुनः प्लवम् ॥ १.७ ॥

कृत्वा विधिवत्स्स्नानम् उत्तीर्याऽचम्य यत्नतः
प्रणवेनोदकं गृह्य त्रिः पीत्वा द्विः प्रमृज्य च ॥ १.८ ॥

†श्रोत्राराणि† सप्ताऽसौ क्रमान्नाभिं शिखां स्पृशेत्
भूयोऽप्याचम्य सन्ध्यां तु वन्देतात्सेकपूर्वकम् ॥ १.९ ॥

मार्जनं संहितामन्त्रैश्शिवेन सलिलोक्षणम्
कृष्णं ध्यात्वा क्षिपेत्तोयं घोरेण पुनराचमेत् ॥ १.१० ॥

न्यासं कृत्वाऽम्भसावेष्ट्य तर्प्यमन्त्रान् प्रतर्पयेत्
अपसव्याग्रमध्येन पितृदेवमुनिक्रिया ॥ १.११ ॥

स्वधा स्वाहा नमश्चेति क्रमात्तेषां प्रतर्पणम्
कृत्वा हृदाञ्जलिं बद्ध्वा त्रीन्वारान् उदकेन तु ॥ १.१२ ॥

कृत्वाऽञ्जलिं सुपुष्पाढ्यं रवेः पश्चाच्छिवं यजेत्
†ताराद्यावच्छतं† पूर्णं स्वशक्त्या वाऽथवा जपेत् ॥ १.१३ ॥

प्रदक्षिणं ततः कृत्वा त्रीन्वारान् वन्दयेत् रविम्
ततस्तीर्थं समाकृष्य कर्तव्यं हृदये हृदा ॥ १.१४ ॥

एवं तु वारुणं स्नानं भस्मस्नानमतश्शृणु
आरण्यगोमयं गृह्य सद्येनाऽपीड्य वामतः ॥ १.१५ ॥

घोरेण दीपनं †नागान्† नरेणाऽभ्युक्षणं भवेत्
ईशेनोद्धृत्य तैर्मन्त्रैश्स्थाप्य भूतिं नवे पुटे ॥ १.१६ ॥

कृत्वा स्नानं जलस्नानदुत्तरं वाऽथ †नोत्तरम्†
मलस्नानं पुराऽस्त्रेण क्रमादापादमस्तकम् ॥ १.१७ ॥

उद्धूलयित्वा शिवेनोर्ध्वं सेकः †कायस्समुदया†
परिवर्त्य सितंवासस्ततस्त्वाचम्य पूर्ववत् ॥ १.१८ ॥

माहेन्द्रं †वृष्टियोगस्याज्† जपेन्मन्त्रं तु पञ्चमम्
पदसप्तकमावृत्य वायव्यं गोखुरेण तु ॥ १.१९ ॥

रजसा नरमन्त्रेण मान्त्रं मन्त्रैरिहोदितम्
स्नानान्येवं विधान्यत्र पञ्च प्रोक्तानि सिद्धये ॥ १.२० ॥

स्नात्वा संपूज्यदेवं लिङ्गे वा स्थण्डिलेऽपि वा ॥ १.२० १/२ ॥

इति श्रीमत्किरणाख्ये महातन्त्रे क्रियापादे स्नानविधिपटलः प्रथमः

क्रियापादः २

अथ पूजाविधिः पटलः

गरुडः

पूजा संसूचिता देव सा कथं लिङ्गमाश्रिता
स्फुटं मे ब्रूहि देवेश स्थण्डिले वा कथं भवेत् ॥ २.१ ॥

भगवान्

स्थानं प्रविश्य शुद्धात्मा दक्षिणामूर्तिमाश्रितः
रुचिरासनसंस्थस्तु प्राणायामत्रयान्वितः ॥ २.२ ॥

तत्स्थं गृहीत्वा चाऽत्मानं रेचनाद्बिन्दुमध्यगम्
कृत्वा कायं दहेत्पश्चात् शैवास्त्रं चिन्त्य तैजसम् ॥ २.३ ॥

भस्मीभूतं प्रचिन्त्य स्वमानीय प्रणवेन तु
ध्यात्वा सितकणाभासं स्फुरन्तं स्वेन तेजसा ॥ २.४ ॥

सञ्चिन्त्य प्रणवं कुम्भं प्लाव्यमानं सुधाकणैः
तेनैव त्रितयं दद्यात् करन्यासादनन्तरम् ॥ २.५ ॥

अस्त्रशुद्धौ करौ कृत्वा ब्रह्माङ्गानि क्रमान्न्यसेत्
सावित्रीमथ गायत्रीं शिवं सङ्कल्प्य हस्तयोः ॥ २.६ ॥

कुर्यान्मन्त्रात्मकं कायमष्टत्रिंशत्कलात्मकम्
शिरांसि पञ्चभिः पञ्च शिवेशानैश्च कल्पयेत् ॥ २.७ ॥

चत्वारि वदनान्न्यस्य वक्त्रमन्त्रेण भावयेत्
पूर्वादितस्समारभ्य यावदुत्तरगोचरम् ॥ २.८ ॥

अष्टधा कल्पयेद्घोरं हृद्ग्रीवांसानुक्रमात्
नाभिं चैवोदरं पृष्ठे न्यसेद्वामं त्रयोदश ॥ २.९ ॥

गुह्यं लिङ्गं †तथाश्चोरू† जानुनी जङ्घिकाद्वयम्
स्फिचौ द्वे च कटी पार्श्वौ न्यसेत्सद्यं ततोऽष्टधा ॥ २.१० ॥

पादौ पाणी तथा नासां शिरो बाहू न्यसेत्क्रमात्
द्वयोस्तु पार्श्वयोः शक्तिं ततोऽस्मिन् व्यापकं न्यसेत् ॥ २.११ ॥

स्वस्थाने †गङ्गणं† न्यस्य ततोऽन्तःकरणं क्रमात्
पुष्पाद्यं मानसैः कृत्वा तिस्रस्तालाश्शिवासिना ॥ २.१२ ॥

दिग्बन्धं वर्मणा कृत्वा पात्रं खड्गेन शोधयेत्
कृत्वा तु तोयसंपूर्णं न्यसेन्मन्त्रं त्रयोदश ॥ २.१३ ॥

अमृताञ्चामृतीकृत्य प्रोक्षयेत्तेन तद्गतम्
दत्वा पुष्पं शिरस्येकं लिङ्गशुद्धिं समाचरेत् ॥ २.१४ ॥

परिपूतेन तोयेन पूर्णान् कृत्वा लघून् घटान्
घटिकोर्ध्वं तु संस्थाप्य पात्रार्घ्येणाऽर्पयेत्क्रमात् ॥ २.१५ ॥

पवित्राणि पुराऽवृत्य पूजापनयनं पुनः
लिङ्गे वैशेषिकेनोक्तो विसर्गोन विधिः स्थिरः ॥ २.१६ ॥

भवेत्सामान्यलिङ्गेऽपि क्षणमात्रं विसर्जनम्
न शून्यमस्तकं लिङ्गं कुर्यात्तत्र कदाचन ॥ २.१७ ॥

ऐशान्यां स्थापयेत्पूजां प्रत्यग्रामथवार्पिताम्
क्षाल्याऽस्त्रेण द्वयं पश्चाद्वेद्यां लिङ्गं च भक्तितः ॥ २.१८ ॥

कल्पनीयं ततः पीठमशेषाध्वविनिर्मितम्
चतुर्युगमहापादं पृथिवीतत्त्वकन्दकम् ॥ २.१९ ॥

कालतत्त्वान्तनालैकं पञ्चाशद्भावकण्टकम्
मायातत्त्वं भवेद्ग्रन्थिः शुद्धविद्याजशोभितम् ॥ २.२० ॥

विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम्
शिवशक्तिद्वयालब्धं कर्णिकाबीजलक्षितम् ॥ २.२१ ॥

पीठमेवंविधं कल्प्य मातृकाबीजसम्भवम्
नपुंसकांश्चतुष्कोणे धर्मादीन् परिकल्पयेत् ॥ २.२२ ॥

बिन्दुपृष्ठमनन्तस्य तत्पृष्ठं कमलं भवेत्
कर्णिकाऽनन्तचक्रेण शेषाः स्युर्नवशक्तयः ॥ २.२३ ॥

वामा ज्येष्ठा च रौद्री च काली कलविकरणी
बलविकरणी चैव बलप्रमथनी च ॥ २.२४ ॥

दमनी सर्वभूतानां नवमा च मनोन्मनी
विभुर्ज्ञानी क्रिया वाचा नागेशी ज्वलिनी तथा ॥ २.२५ ॥

वामा ज्येष्ठा च रौद्री च शक्तयः कीर्तिता नव
वामाद्याश्चानुलोमेन विभ्वाद्यास्तु विलोमतः ॥ २.२६ ॥

केसराणि चतुर्विंशत्कादिभान्तगतानि च
मान्तं पुद्गलस्यास्य †नरकं† बीजकल्पितम् ॥ २.२७ ॥

ब्रह्माक्षरेण मूर्तिं च कृत्वा दत्वा कलामयम्
सद्येनाऽवाहयेद्देवं स्थापयेद्गुह्यकेन तु ॥ २.२८ ॥

सान्निध्यं स्यादघोरेण वक्त्रेणार्घ्यादिकं भवेत्
ईशानेनाऽर्चयेल्लिङ्गं ततोऽङ्गानि यथाक्रमम् ॥ २.२९ ॥

दत्वा स्नानं †प्रकर्तव्यं† क्षीरेण दधिना पुनः
क्रमादाज्येन मधुना कृत्वावर्त्य पुनः पुनः ॥ २.३० ॥

स्नानगन्धविभूषान्तं पूजाञ्च ब्रह्मभिः क्रमात्
दत्वाऽथाऽवरणानिष्ट्वा साध्यानां पूजयेत्ततः ॥ २.३१ ॥

तदङ्गैरङ्गितं कृत्वा प्रणवे कमलासने
शिवस्य दक्षिणे भागे विभवेन तु पूजयेत् ॥ २.३२ ॥

संहितागर्भगो मन्त्रस्साध्यत्वेन यदा भवेत्
आवृत्तिद्वयमध्यस्थं संपूज्यं पूर्ववत् खग ॥ २.३३ ॥

दद्याद्दशाङ्गजं धूपं घृतमिश्रं हृदाऽनुना
तद्गतान् पूज्य देवांस्तु ततो लिङ्गं समर्चयेत् ॥ २.३४ ॥

मुद्रां बद्ध्वा प्रणम्येशं गृह्या मालां जपेच्छिवम्
मुक्तामणिमयैर्माला रुद्राक्षैर्वरसिद्धिदा ॥ २.३५ ॥

शङ्खस्फटिकपद्माक्षशङ्काक्षैर्मध्यसिद्धिदा
रीतिकात्रपुशीसाद्यैरधमा सिद्धिरिष्यते ॥ २.३६ ॥

पुत्रजीवकमाला स्यात्सर्वकामार्थसाधनी
कन्यासूत्रकृतां शुभ्रां समाक्षैर्ग्रथितां वराम् ॥ २.३७ ॥

मेरुमध्यनिविष्टां तां गन्धलिप्तां सुधूपिताम्
गृह्य हृन्मन्त्रजप्तां तामष्टोत्तरशतान्विताम् ॥ २.३८ ॥

तदर्धं वा प्रकुर्वीत तस्याप्यर्धमथाऽपि वा
मध्यमानामिकाङ्गुष्ठकर्षणात्सिद्धिरुत्तमा ॥ २.३९ ॥

अङ्गुष्ठतर्जनीयोगान्मध्यमा सिद्धिरिष्यते
कनिष्ठाङ्गुष्ठसंयोगात्सिद्धिरुक्ता कनीयसी ॥ २.४० ॥

पतितामुत्तरेत्सद्यश्शेषां उपहतां त्यजेत्
सिद्धार्थके तथा स्थाप्य ताम्रके वा करण्डके ॥ २.४१ ॥

जपेद्यावदनुद्विग्नो न द्रुतं न विलम्बितम्
नास्पष्टं न मनोभ्रान्तं जपं कुर्यात्समाहितः ॥ २.४२ ॥

त्रिविधः स विज्ञेयो मानसो मनसैव तु
उच्चायस्स्यात्स भाष्यो ज्ञेयोऽन्यश्श्रवणात्मकः ॥ २.४३ ॥

परिवर्त्याऽक्षमालां तां नागेन्द्रपरिवर्तवत्
एवं कृत्वा जपेन्मन्त्री ध्यायेद्देवम् कलातनुम् ॥ २.४४ ॥

त्र्यक्षं कमलमध्यस्थं खण्डेन्दुमकुटोज्ज्वलम्
सायुधं दशबाहुं च सालङ्कारं मनोहरम् ॥ २.४५ ॥

इच्छासिद्धिप्रदं ध्येयं वर्णरूपधरं हरम्
लिङ्गमध्यगतं ध्यात्वा देवदेवं सदाशिवम् ॥ २.४६ ॥

नैवेद्यं चोपसंहृत्य क्षिपेच्चण्डाय तत्पुनः
ऊर्ध्वाङ्गे तु यदा सिक्तस्ततः स्नानं विधीयते ॥ २.४७ ॥

अधोभागे यदा सिक्तस्तदा प्रक्षाल्य शुद्ध्यति
स्थण्डिलेऽपि च मन्त्राणां सिद्धिराशु प्रजायते ॥ २.४८ ॥

तामप्यपनयेत्पूजां त्रिभिर्गोमयगोलकैः
ततस्संप्रोक्ष्य तत्स्थानं †शिवमस्त्विवै† वदेत् ॥ २.४९ ॥

एवं पूजाविधानं तु प्रोक्तमेतत्समुद्रकम्
अग्निकार्यं ततः कृत्वा कुण्डे वा स्थण्डिलेऽपि वा ॥ २.५० ॥

अग्निस्थं योजयेल्लिङ्गे गुरोस्तच्च भवेत्फलम् ॥ २.५० १/२ ॥

इति श्रीमत्किरणाख्ये महातन्त्रे क्रियापादे पूजाविधिर्द्वितीयः पटलः

६०

गरुड उवाच

अन्तेष्टिः सूचितो देव नोक्तो विस्तरतो मम
कस्मिन् कार्या कथं ब्रूहि तत् पुनः क्रियते कथम् ॥ ६०.१ ॥

भगवान् उवाच

मृतो यो दीक्षितः पूर्वं दक्षद्वारेण नीयते
वोढारश् चतुरो ग्राह्याः कृतवामपवित्रकाः ॥ ६०.२ ॥

ततश् चोत्क्षिप्य तं नीत्वा चितिस्थानं समं शुचिः
शोधयित्वा तु तत् स्थानं काष्ठैः कृत्वा समां चितिम् ॥ ६०.३ ॥

तस्याप्य् उत्तरदिग्भागे स्थण्डिलं पद्मम् एव वा
कृत्वार्चनं यथापूर्वं वह्निकार्यं समारभेत् ॥ ६०.४ ॥

कृत्वा तं शवम् आनीय शोधयेद् गोमयादिभिः
शोधितं भस्मना गुण्ठ्य प्रागुक्तक्रमयोगतः ॥ ६०.५ ॥

कौपीनम् आदितः कृत्वा सर्वं तस्योपपादयेत्
दक्षिणाशागतस्यास्यदक्षिणामूर्तिगस्य तु ॥ ६०.६ ॥

प्रोक्षयेच् छिवतोयेन ध्यात्वा तद्धृदि केवलम्
शुद्धसूक्ष्मकणाकारं ध्यात्वा तन् मध्यसंस्थितम् ॥ ६०.७ ॥

सकलीकृत्य तं पश्चात् पूर्वोक्तेन क्रमेण तु
कल्प्य तत् प्रथमं वर्गं वह्निस्थं मातरां पुनः ॥ ६०.८ ॥

कल्प्य गन्धादिभिः पूज्य ग्रहो नादान्ततो भवेत्
योजनं तद्धृदा तस्य शिवेनाहुतयो दश ॥ ६०.९ ॥

दत्त्वा कृत्यासिना पाशान् पुनः पूर्णाहुतिं ददेत्
हृदोद्धृत्य पुनर् हृत्स्थं कृत्वा वर्गं पुनर् न्यसेत् ॥ ६०.१० ॥

एवं वर्गाष्टकं शोध्यम् †अथवा† तद् विलोमतः
पञ्चाहुतिप्रयोगेन शोधयेत् पूर्ववत् क्रमात् ॥ ६०.११ ॥

लयं कृत्वा शिवेनास्य खड्गेनास्तरणं कुशैः
शवं स्थाप्य चिताद् ऊर्ध्वम् ईशानेनोत्तराननम् ॥ ६०.१२ ॥

चन्दनागरुकर्पूरतिलान् ऊर्ध्वं क्षिपेत् पयः
ततस् तम् इन्धनेनाग्निं प्रशस्तेन नयेच् चितिं ॥ ६०.१३ ॥

प्रज्वाल्य तां पुनर् भ्राम्य करकं खड्गकल्पितम्
प्राग्दिक्तस् तत्तदन्तं तु सङ्क्षिपेत् स्कन्धतः पुनः ॥ ६०.१४ ॥

दीप्य विघ्नं न तस्यैव यावद् भस्मान्तिकं भवेत्
जलस्नानं ततो गच्छेत् कुर्यात् तस्योदकक्रियाम् ॥ ६०.१५ ॥

दूर्वाक्षतविमिश्रांस् तु दत्त्वास्याञ्जलयस् त्रयः
आचार्यः पूर्ववत् पश्चात् प्रायश्चित्तं पुनर् भजेत् ॥ ६०.१६ ॥

शतजापाद् अघोरस्य शावशुद्धिर् इहोदिता
एवं कृते सदा तस्य विधिना भोजनं पुनः ॥ ६०.१७ ॥

एवं ते मातृकाहोमाद् अन्तेष्तिस् तव चोदिता
लिङ्गोद्धारे च सर्पघ्न मातृकां परिशोधयेत् ॥ ६०.१८ ॥

मातृकां पूजयेद् यस् तु तस्य सिद्धिर् ध्रुवं भवेत् ॥ ६०.१९ ॥

इति किरणाख्ये महातन्त्रे षष्ठिपटलः

६१

गरुड उवाच

विधिना भोजनं पूर्वं सूचितं नोदितं मम
कस्मिन् †कले† कथं तच् च किम् अर्थं वद शङ्कर ॥ ६१.१ ॥

भगवान् उवाच

एकादशाहाद् आरभ्य मासं मासं समावधिम्
एकोद्दिष्टं तु तज् ज्ञेयं वर्षाद् वर्षं भवेत् पुनः ॥ ६१.२ ॥

श्राद्धं स्याद् एकवर्षोर्ध्वं श्राद्धपक्षे विशेषतः
आश्विने कृष्णपक्षे वा रवौ कन्यागते तथा ॥ ६१.३ ॥

अष्टम्यां वा चतुर्दश्यां चतुर्थ्यां वा मघाशशि
सप्तम्यां वा नवम्यां वा श्राद्धं पञ्चदशाह्निकम् ॥ ६१.४ ॥

साधकद्वितयं गृह्य देशिकत्रितयं पुनः
सामान्यं पितृदेवार्थं विशेषो ऽत्राभिधीयते ॥ ६१.५ ॥

ईशस् सदाशिवः शान्तो देशिकतृतयं भवेत्
साधकद्वितयं चान्यद् रुद्रानन्तम् इति स्थितम् ॥ ६१.६ ॥

तृप्तैस् तैर् निखिलं तृप्तं शिवान्तम् अभवत् खग
दीक्षितानां शिवश्राद्धं रुद्रांशानां तदात्मकम् ॥ ६१.७ ॥

तत्र चण्डमहाकालौ द्वौ गणौ द्वितये स्थितौ
रुद्रः स्कन्दो गणेशो ऽन्यत्त्रितये संस्थितास् त्व् इमे ॥ ६१.८ ॥

तपस्विभिर् द्विजैश् चात्र रुद्रश्राद्धं प्रकल्पयेत्
कुर्वन्ति ये नरा भक्त्या रुद्रलोकं व्रजन्ति ते ॥ ६१.९ ॥

लौकिकं ब्रह्मविष्ण्वीशसूर्यान्तकविकल्पितम्
पूर्ववत् त्रितयं कल्प्य द्वितयं च विशेषतः ॥ ६१.१० ॥

प्राग् उच्यते शिवश्राद्धं पवित्रं शिवमन्त्रजम्
साधकपुत्रकाभावाद् रुद्रभक्ता द्विजाथवा ॥ ६१.११ ॥

अद्विजा वा यदा भक्ता दीक्षिता गृह्य कल्पयेत्
पञ्चाभावे यदा तस्य तदा तद्द्वयकल्पना ॥ ६१.१२ ॥

कार्या विकल्पना सैव बाहुमूलांशयोर् द्वयोः
एकस्यैवं तथा न्यस्य बाहुमूलशिरस्य् अथ ॥ ६१.१३ ॥

त्रितयं कल्प्य विन्यासः कर्तव्यः पूर्ववत् क्रमात्
दक्षिणोत्तरसंस्थानं पूर्वे वृत्तद्वयं भवेत् ॥ ६१.१४ ॥

हस्तमात्रं चतुष्कोणं संस्कृतं गोमयेन तु
तिलदर्भयवाकीर्णं दक्षिणे पादशोधनम् ॥ ६१.१५ ॥

कृत्वाचम्यं द्वितीये तु वामेनेयं क्रिया मता
शुचीभूतांस् तु तान् स्थाप्य पूर्वास्यं यद् द्वयं पुरा ॥ ६१.१६ ॥

त्रितयं यद् उत्तरास्यं स्थापयेद् गुह्यकेन तु
सद्येन कुशकॢप्तिः स्यात् पुनश् चावाहनं भवेत् ॥ ६१.१७ ॥

आवाहनं स्वनामाङ्कं कार्यम् आवाहयेति च
वक्तव्यं तैर् इदं वाक्यं भक्तियुक्तैः समाहितैः ॥ ६१.१८ ॥

सव्यक्रिया त्रयस्योक्ता ह्य् अवसव्या द्वयस्य तु
यवान् आनीय पूर्वं तु द्वयस्य विकिरेत् परि ॥ ६१.१९ ॥

त्रयस्यापि तिलान् क्षिप्त्वा रक्षार्थं चोत्तरेन तु
कृत्वा पात्रं तु वामेन पुष्पवार्यक्षतान्वितम् ॥ ६१.२० ॥

दद्यात् तेषां तद् अर्घ्यं तु संनिध्यर्थं सकृत् सकृत्
त्रयस्येशेन तद् दद्याद् घोरेणापि द्वयस्य तु ॥ ६१.२१ ॥

जानुभ्याम् अवनौ स्थित्वा पादाद् आरभ्य मूर्ध्नतः
यावत् तदङ्गम् एकैकं क्रमाद् अर्च्य यवैस् तिलैः ॥ ६१.२२ ॥

द्वयस्य तृतयस्यापि घोरेणाजेन च क्रमात्
गन्धपुष्पं च वामेन धूपदीपं च वक्तृणा ॥ ६१.२३ ॥

पूर्णं भवतु वक्तव्यं ततो हस्तप्रशोधनम्
कृत्वा स्निग्धान्नम् आनीय भाजने तत् सकृत् सकृत् ॥ ६१.२४ ॥

तद् अग्नौकरणं नाम कर्म तत्पुरुषेण तु
†कृत्वैव पुनर्† अश्नीयाद् मौनम् आस्थाय कामतः ॥ ६१.२५ ॥

भाजने पायसं साज्यं सक्षौद्रं खण्डसंयुतम्
सुसंस्कृतं च भक्तं वा मांसं वा शशकात्मकम् ॥ ६१.२६ ॥

उत्तराभिमुखस् तिष्ठन् जपेन् मन्त्रं तु पञ्चमम्
ज्ञात्वा भुक्तांस् तु तान् पश्चात् तृप्तास् स्थेति पुनर् वदेत् ॥ ६१.२७ ॥

तृप्ताः स्म इति यद् वाक्यं वक्तव्यं तैः पुनः सकृत्
ततोदकं सकृद् ग्राह्य मण्डले दक्षिणाननः ॥ ६१.२८ ॥

सद्येनास्तरणं दत्त्वा गुह्यकेन तिलोदकम्
पिण्डत्रयं ततः कृत्वा सर्वान्नपरिकल्पितम् ॥ ६१.२९ ॥

†नरेणावदतो† दद्याद् अन्नपिण्डत्रयं क्रमात्
दत्त्वा वामेन गन्धं च तेनैवार्घ्यं प्रदापयेत् ॥ ६१.३० ॥

पुत्रार्थं वनिता शुद्धा मध्यमं पिण्डम् आप्नुयात्
तदा तस्यास् सुतो धीरो रुद्रांशः स्त्रीयुतो भवेत् ॥ ६१.३१ ॥

अथवा तं गवां दद्याद् अग्नौ वाप्सु विनिक्षिपेत्
पूर्वम् आचमनं दद्यात् त्रयस्याथ द्वयोः पुनः ॥ ६१.३२ ॥

†आचम्योत्थाय संकल्प्य† नमस्कृत्य क्षमापयेत्
दानं दद्याद् यथाशक्त्या भक्तितो ऽन्ते विसर्जयेत् ॥ ६१.३३ ॥

श्राद्धम् एवंविधं शैवं शिवसायोज्यदं परम्
रुद्रश्राद्धं स्वनामाङ्कं प्रणवादि नमोन्तिकम् ॥ ६१.३४ ॥

रुद्रसायोज्यदं चैव देवतानां स्वसंज्ञया
कृते ऽस्मिन् लौकिके श्राद्धे †नवमास्यं† स पश्यति ॥ ६१.३५ ॥

विप्राणां विहितं श्राद्धं वेदोक्तं स्मृतिकल्पितम्
ब्रह्मलोकम् अवाप्नोति तत्कर्ता द्विजसत्तमः ॥ ६१.३६ ॥

एकोद्दिष्टं यद् अत्रोक्तं कार्यम् आवाहनं विना
नवश्राद्धादिकं श्राद्धं प्रोक्तम् एतत् समासतः ॥ ६१.३७ ॥

शिवस्य परमात्मानः किं नाम क्रियते नरैः
क्रिया सम्पूर्णताम् एति तद् उद्दिश्य फलं महत् ॥ ६१.३८ ॥

कर्तव्यं तेन तत् तार्क्ष्य परोक्षे ऽपि यथोदितम्
निरृणत्वं कथं तेषां यावद् एव कृतं न हि ॥ ६१.३९ ॥

†श्राद्धं तावत् कथं कर्तुं फलम् इत्य् अभवद् अथ†
परोक्षे पि तथान्तेष्टिः क्रियते तद्वद् अत्र तु ॥ ६१.४० ॥

कर्तव्यं तेन तच् छ्राद्धं दीक्षा येन तदन्तिका
प्रोक्तं समासतः श्राद्धं पञ्चब्रह्ममयं शिवम् ॥ ६१.४१ ॥

इति किरणाख्ये महातन्त्रे एकषष्ठिपटलः

Textgrundlage und Quellen

Wenn ein Unsicherheitszeichen eine Schriftverbindung trennen würde, umfasst es die ganze betroffene Worteinheit. Die Buchstaben bleiben unverändert; die ursprünglichen Grenzen der Markierung sind dokumentiert.

Kapitel Originalpositionen Quelle und Seiten Textbestand
1 1.1–1.23 G, elektronische Originalkennungen 23 Vollstrophen
2 2.1–2.33 G, elektronische Originalkennungen 33 Vollstrophen
3 3.1–3.27 G, elektronische Originalkennungen 27 Vollstrophen
4 4.1–4.29 G, elektronische Originalkennungen 29 Vollstrophen
5 5.1–5.31 G, elektronische Originalkennungen 31 Vollstrophen
6 6.1–6.26 G, elektronische Originalkennungen 26 Vollstrophen
7 7.1–7.28 M, S. 19–22 27 Vollstrophen, 1 Fragment
8 8.1–8.141 M, S. 22–36 140 Vollstrophen, 1 Halbstrophe
9 9.1–9.18 M, S. 36–38 17 Vollstrophen, 1 Halbstrophe
10 10.1–10.31 M, S. 38–41 30 Vollstrophen, 1 Halbstrophe
11 11.1–11.10 M, S. 41–42 10 Vollstrophen
12 12.1–12.20 M, S. 42–44 19 Vollstrophen, 1 Halbstrophe
K1 K1.1–K1.20½ H, handschriftlich S. 174–181 20 Vollstrophen, 1 Halbstrophe
K2 K2.1–K2.50½ H, handschriftlich S. 182–198 50 Vollstrophen, 1 Halbstrophe
60 60.1–60.19 N, S. 232–235 18 Vollstrophen, 1 Halbstrophe
61 61.1–61.41 N, S. 236–242 41 Vollstrophen

G – Kapitel 1–6. Dominic Goodall (Hg.), Bhaṭṭa Rāmakaṇṭha’s Commentary on the Kiraṇatantra. Volume I: Chapters 1–6. Critical Edition and Annotated Translation, Pondicherry 1998, Publications du Département d’Indologie 86.1. Benutzt wurde die vom Herausgeber bereitgestellte elektronische Fassung bei GRETIL, in der Grundtext und Kommentar getrennt erfasst sind. Hier steht nur der identifizierte Kirana-Grundtext. Die elektronische Eingabe trägt einen Hinweis auf fehlende Korrekturlektüre; eine vollständige Kontrolle am gedruckten Editionsbild erfolgte nicht. Die GRETIL-Datei nennt CC BY-NC-SA 4.0; dieser Quellenhinweis wird mitgeführt, ohne damit einen neuen Lizenzstatus sämtlicher hier zusammengestellter Bestandteile zu behaupten.

M – Kapitel 7–12. Kiraṇāgama, Maharishi University of Management Vedic Literature Collection, 44-seitige Devanagari-Datei des Erkenntnisteils, zugänglich über den Sivaagama-Katalog (PDF). Benutzt wurden die Seiten 19–44. Es handelt sich hier nicht um eine mit Variantenapparat ausgewiesene kritische Edition. Die für diese Ausgabe benutzten Seiten wurden am Quellenbild eingesehen; mehrere fehlerhafte oder unsichere Lesungen bleiben markiert.

N – Kapitel 60–61. Nina Mirnig, Liberating the Liberated. Early Śaiva Tantric Death Rites, Verlag der Österreichischen Akademie der Wissenschaften, ISBN 978-3-7001-8331-0; der Verlagsdatensatz nennt als Erscheinungsjahr 2019. Sanskritedition in Anhang A, A.3.1–A.3.2: Kapitel 60, S. 232–235 (PDF-Seiten 16–19), Kapitel 61, S. 236–242 (PDF-Seiten 20–26). Diese elf Seiten wurden am Bild abgeglichen. Die benutzte nepalesische Handschrift NAK 5–893 / NGMPP A 40/3 bietet die Stellen auf Fol. 94r1–94v5 beziehungsweise 94v5–96v4. Die Devakottai-Druckausgabe zählt sie innerhalb des Yogateils als Kapitel 3 und 4; die Zuordnung beruht auf den Texten und Schlussformeln.

H – Leitquelle für Kriyāpāda 1–2 und ergänzende Vergleichsquelle. Dr. S. P. Sabharathnam, Kirana Agama, handschriftliche romanisierte Sanskritfassung mit englischer Übersetzung, Himalayan Academy, Copyrightvermerk 2006, bereitgestelltes PDF mit 761 Seiten. Die Herausgeberseite beschreibt die Romanisierung als Übertragung aus Grantha. Für die Erweiterung wurden PDF-Seiten 175–202 vollständig am Bild eingesehen: handschriftliche Seiten 174–199, mit zusätzlichen Copyright- und Titelblättern zwischen den fortlaufenden Seiten. K1 endet auf PDF-Seite 182 mit 20 Vollstrophen und einer zusätzlichen Halbstrophe; K2 endet auf PDF-Seite 201 mit 50 Vollstrophen und einer zusätzlichen Halbstrophe, die englische Erläuterung auf Seite 202. Sichtbare Korrekturen der Vorlage wurden berücksichtigt. Die Umschrift ist keine diplomatische Zeichenkopie oder unabhängig kollationierte kritische Edition. Problematische Lesungen sind dokumentiert; englische Erklärungen wurden nicht in Sanskrit zurückübersetzt.

Die Kennungen K1 und K2 unterscheiden die eigene Kapitelzählung des Ritualteils vom Erkenntnisteil. Die halben Schlussverse erscheinen als K1.20½ und K2.50½ entsprechend den Bereichsangaben der Vorlage. Bei Vergleichen mit anderen Editionen darf daraus keine ungeprüfte globale Kapitelnummer abgeleitet werden. Das Gesamt-PDF ist weiterhin nicht vollständig transkribiert. Seine übrigen Kapitel sind unbearbeitet, nicht verloren. Bei Vergleichen mit M werden abweichende Sanskritlesungen von H nicht stillschweigend eingesetzt.

Weitere Zugänge. Der Katalog der Agama Academy bietet eine Grantha-Druckfassung; die heruntergeladene Datei ließ sich teilweise nicht zuverlässig darstellen. Ein Muktabodha-Katalognachweis führte in dieser Bearbeitung nicht zu einem zugänglichen Volltext. Diese Zugänge sind keine Leitquellen des hier wiedergegebenen Wortlauts.

Redaktion und Übersetzung. Die deutsche Übersetzung wurde für diese Zusammenstellung aus dem erfassten Sanskrit erarbeitet. Die Kontrolle verbindet fortlaufende Textlektüre, Prüfung der nummerierten Einheiten und die ausdrücklich genannten Quellenbildabgleiche. Sie ist keine externe Fachbegutachtung. Der gesicherte Umfang der Übertragung ist von der Sicherheit einzelner Lesungen zu unterscheiden. Eine endgültig fehlerfreie kritische Neuedition wird nicht beansprucht.

Weiterführende Artikel und Seminare

Die weiterführende Beschäftigung mit Bewusstsein und Befreiung gewinnt durch sorgfältiges Lesen und beständige Praxis. Die folgenden Angebote dienen der heutigen Vertiefung; sie sind keine besonderen Einweihungen in das Kirana Tantra.

Indische Schriften

26.12.2026 - 02.01.2027 Indische Rituale Ausbildung

Du interessierst dich für indische Rituale? Du hast die einzigartige Gelegenheit, in dieser Rituale Ausbildung bei Yoga Vidya die kleine Puja, große P…
Sukadev Bretz, Shankari Winkelbauer
01.01.2027 - 10.01.2027 Yogalehrer Weiterbildung Intensiv A1 - Jnana Yoga und Vedanta

Kompakte, vielseitige Weiterbildung für Yogalehrer rund um Jnana Yoga und Vedanta.
Tauche tief ein ins Jnana Yoga und Vedanta, studiere die indischen S…
Vedamurti Dr Olaf Schönert

Sanskrit und Devanagari

06.01.2027 - 15.12.2027 Jahresgruppe Sanskrit - Lektüre der AMRITA SIDDHI 2 - online

Termine: 16x mittwochs: 06.01., 27.01., 17.02., 10.03., 31.03., 21.04., 12.05., 02.06., 23.06., 14.07., 08.09., 29.09., 20.10., 10.11., 01.12., 15.12.20…
Dr phil Oliver Hahn
09.04.2027 - 11.04.2027 Sanskrit Intensivwochenende

Du bist fasziniert vom Klang des Sanskrit und der tiefgehenden Wirkung der Wörter dieser uralten Sprache? Hast bereits Übersetzungen von Mantras oder …
Dr phil Oliver Hahn