Kamika Agama Sanskrit Devanagari

Aus Yogawiki
Version vom 16. September 2026, 05:19 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Kamika Agama Sanskrit Devanagari''' bietet den Sanskrittext des Kamika Agama in Devanagari. Als bedeutende Schrift des Shaiva Siddhanta verbindet das Werk die Verehrung Shivas mit Mantra, Einweihung, Yoga und Meditation. Es beschreibt einen spirituellen Weg, auf dem äußere Handlung und innere Sammlung zusammenwirken: Der Tempel wird zum heiligen Raum, der Körper zum Träger göttlicher Kräfte und die Puja…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Kamika Agama Sanskrit Devanagari bietet den Sanskrittext des Kamika Agama in Devanagari. Als bedeutende Schrift des Shaiva Siddhanta verbindet das Werk die Verehrung Shivas mit Mantra, Einweihung, Yoga und Meditation. Es beschreibt einen spirituellen Weg, auf dem äußere Handlung und innere Sammlung zusammenwirken: Der Tempel wird zum heiligen Raum, der Körper zum Träger göttlicher Kräfte und die Puja zum Ausdruck bewusster Hingabe.

Die Lektüre des Sanskrittextes eröffnet einen unmittelbaren Zugang zur Sprache dieser Überlieferung. Gebete, Meditationsbeschreibungen und Ritualformeln lassen erkennen, wie eng Klang, Bedeutung und Vergegenwärtigung miteinander verbunden sind. Hinter den vielfältigen Einzelvorschriften steht das Streben, die Bindungen der Seele zu überwinden und durch Erkenntnis, Einweihung und Shivas Gnade Befreiung zu erlangen.

Dieser Artikel enthält den Pūrvapāda, den ersten Werkteil mit 75 Kapiteln. Er führt von der Offenbarung der Lehre über Mantras, Reinigung und tägliche Verehrung bis zur Gestaltung und Weihe von Tempeln und Götterbildern. Der Uttarapāda folgt unter Kamika Agama Sanskrit Devanagari Teil 2.

Die vollständige deutsche Übersetzung und eine Einführung in die Lehren des Werkes findest du unter Kamika Agama. Zum Lesen des Sanskrittextes in lateinischer Umschrift dient Kamika Agama Sanskrit IAST. Die Kamika Agama Kapitelübersicht erleichtert das Auffinden einzelner Themen; Kamika Agama 108 Verse und Mantras bietet ausgewählte Passagen zur vertiefenden Betrachtung.

Kamika Agama Sanskrit Devanagari

Abgeschlossene kapitelweise Arbeitsübersetzung, Stand 16. September 2026. Enthalten sind alle 75 Kapitel des Pūrvapāda und alle 81 Kapitel des Uttarapāda der beiden bereitgestellten Bände: 9.107 nummerierte Texteinheiten. Unsichere Lesarten und beschädigte Maßangaben sind gekennzeichnet. Dies ist keine neue kritische Sanskritedition; nicht jede schwierige Stelle konnte abschließend geklärt werden.

Diese Devanagari-Fassung ist automatisch aus der zugeordneten Sanskrit-Arbeitsumschrift erzeugt. Sie ist keine unabhängige Wiedergabe der gedruckten Devanagari-Lesarten. Die Schreibungen der Arbeitsumschrift einschließlich ungelöster Fehler werden übertragen. Die Quellen, ergänzten Nummern und Textlücken sind im Hauptartikel und in der Kamika Agama Kapitelübersicht erläutert.

Pūrvapāda – Kapitel 1: Die Herabkunft der Lehre

कैलासदक्षिणे शृङ्गे नानाश्चर्य समन्विते।
प्रवृद्ध वटवृक्षोत्थच्छयाच्छन्नेऽति विस्तृते ॥ १ ॥

व्याघ्रचर्म परीधाने पीठे रत्नोपशोभिते।
देवदानव गन्धर्व सिद्ध विद्याधरादिभिः ॥ २ ॥

सेव्यमानं महादेवं श्रीकण्ठं विश्वनायकम्।
कौशिकः काश्यपोऽगस्त्यो गौतमो नारदस्तथा ॥ ३ ॥

सनत्कुमारस्सनकस्सनातन सनन्दनौ।
भृगुश्चात्रि भरद्वाज वसिष्ठाद्या महर्षयः ॥ ४ ॥

जिज्ञासवः परं ज्ञानं शिवशक्त्युन्मुखीकृताः।
प्रणम्य चरणौ तस्य प्राहुरीशं उमापतिम् ॥ ५ ॥

भगवन् देवदेवेश पशुपाश विमोचक।
सृष्टिस्थिति तिरोभाव लयानुग्रह कारक ॥ ६ ॥

वियदादि महामायावृत्तेस्साक्षात्प्रवर्तक।
सहजानन्द सन्दोह स्वसम्विल्लक्षणात्मक ॥ ७ ॥

परसंवित्स्वरूपिण्या शक्त्या परमया युत।
दिग्देशकाल निर्मुक्त जगदाह्लाद कारण ॥ ८ ॥

वयं नियुक्ता देवेश त्वयेज्यायां शिवस्य तु।
तदर्थं सारभूतं तु शास्त्रं शिवमुखोद्भवम् ॥ ९ ॥

वक्तुमर्हसि देवेश भक्तानां अनुकम्पया।
इत्येवं ऋषिभिः पृष्टो भगवान् वृषभद्वजः ॥ १० ॥

प्राह गम्भीरया वाचा स्फुरच्चन्द्रार्ध शेखरः।
साधु पृष्टं हि युष्माभिश्शृणुध्वं संशितव्रताः ॥ ११ ॥

कामिकाख्यान् महातन्त्रादुद्धृतं शास्त्रमुत्तमम्।
अवतीर्णं इदं मेरौ प्रणवाद्यवतारकैः ॥ १२ ॥

क्रियाचर्या समोपेतं योगज्ञानान्वितं परम्।
इत्येवमुक्ता ऋषयः प्रणेमुर्दण्डवत्क्षितौ ॥ १३ ॥

तेषां आज्ञां शिवो दत्वा प्राह तन्त्रं अनुत्तमम्।
आदावभूद् द्विधा ज्ञानं अधिकार विभेदतः ॥ १४ ॥

परापरेण भेदेन पतिपश्वर्थ दर्शकम्।
शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ॥ १५ ॥

वेदाद्यं अपरं ज्ञानं पशुपाशार्थ दर्शकम्।
यथा विलक्षणं चक्षुः क्षपायां नृबिडालयोः ॥ १६ ॥

तथा विलक्षणं ज्ञानं एवमेतत्परापरम्।
लौकिकं वैदिकं चैव तथाऽध्यात्मिकं एव च ॥ १७ ॥

अतिमार्गं च मन्त्राख्यं तन्त्रमेतदनेकधा॥
सद्योवाम महाघोर पुरुषेशान मूर्तयः ॥ १८ ॥

प्रत्येकं पञ्चवक्त्रास्स्युः तैरुक्तं लौकिकादिकम्।
पञ्चविंशति भेदेन स्रोतोभेदः प्रकीर्तितः ॥ १९ ॥

एष्वेवान्तर्गतं वक्तुं वाङ्मयं वस्तुवाचकम्।
तेष्वेव मन्त्रतन्त्राख्यं सदाशिव मुखोद्गतम् ॥ २० ॥

सिद्धान्तं गारुडं वामं भूततन्त्रं च भैरवम्।
ऊर्ध्व पूर्व कुबेरास्य याम्यवक्त्राद्यथाक्रमम् ॥ २१ ॥

ईशानवक्त्रादूर्ध्वस्थाज्ज्ञानं यत्कामिकादिकम्।
दशाष्टादश भेदेन शिवरुद्रावतारकैः ॥ २२ ॥

षट्षष्टिभिः क्रमेणैव कथितं तु शिवाज्ञया।
तदेव युगभेदेन सद्योजातादि मूर्तिभिः ॥ २३ ॥

प्रकाशितं चतुर्भेदं मूर्तिसंख्यावशेन तु।
संख्यया गारुडं तद्वत् पूर्व वक्त्राद्विनिर्गतम् ॥ २४ ॥

सावित्र्याद्यं च सिद्ध्यर्थमुक्तं तदवतारकैः।
नयसूत्रादि भेदेन वामं वामाद्विनिर्गतम् ॥ २५ ॥

चतुर्विंशति संख्याकं अवतीर्णं शिवाज्ञया।
कौलादि विंशत्संख्यातं भूततन्त्रं तु सद्यतः ॥ २६ ॥

द्विविधं तन्त्रमुद्भूतं भैरवं दक्षिणास्यतः।
असिताङ्गादिभिर्भूमौ कथितं तदनेकधा ॥ २७ ॥

प्रत्येकं तन्त्रभेदोक्तौ जायते ग्रन्थ विस्तरः।
अथ सिद्धान्त तन्त्राणां अवतारो निगद्यते ॥ २८ ॥

तनोति विपुलानर्थांस्तत्त्वमन्त्र समाश्रितान्।
त्राणं च कुरुते यस्मात् तन्त्रमित्यभिधीयते ॥ २९ ॥

कामिकं प्रणवाक्यस्य परार्ध ग्रन्थ संख्यया।
प्रणवात्त्रिकलः प्राप्तः त्रिकलाच्च ततो हरः ॥ ३० ॥

त्रयश्चैवोपभेदास्स्युः वक्तारं भैरवोत्तरम्।
नारसिंहं च विप्रेन्द्राः कथ्यते कामिकत्रयम् ॥ ३१ ॥

योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसंख्यया।
सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् ॥ ३२ ॥

वीणाशिखोत्तरं तारं सन्तं सन्ततिरेव च।
आत्मयोगं च पञ्चैते योगतन्त्रस्य भेदकाः ॥ ३३ ॥

चिन्त्यं सुदीप्तसंज्ञस्य प्रोक्तं शतसहस्रकैः।
दीप्ताच्च गोपतिः प्राप्तस्ततः प्राप्ता तु चाम्बिका ॥ ३४ ॥

सुचिन्त्यं सुभगं वामं पापनाशं परोद्भवम्।
अमृतं चिन्त्यतन्त्रस्य षड्विधं तु प्रकीर्तितम् ॥ ३५ ॥

कारणं कारणाख्यस्य कोटिग्रन्थेन चोदितम्।
कारणाच्छर्वरुद्रस्तु शर्वात्प्राप्तः प्रजापतिः ॥ ३६ ॥

कारणं पावनं दौर्गं माहेन्द्रं भीममेव च।
ततस्तु मारणं द्वेष्टं सप्तधा कारणं तथा ॥ ३७ ॥

अजितं सुशिवाख्यस्य नियुत ग्रन्थ संख्यया।
सुशिवाख्याच्छिवः प्राप्तस्तच्छिवाद् अच्युतस्ततः ॥ ३८ ॥

प्रभूतं च परोद्भूतं पार्वती पद्मसंहिता।
चतुर्भेदं इदं तन्त्रं चास्मिन् तन्त्रे प्रकीर्तितम् ॥ ३९ ॥

दीप्तं ईशस्य विख्यातं नियुत ग्रन्थ संख्यया।
ईशानमूर्तिस्संप्राप्तस्ततः प्राप्तो हुताशनः ॥ ४० ॥

अमेयं शब्दमाच्छाद्यं असंख्यं अमितौजसम्।
आनन्दं माधवोद्भूतं अद्भुतं चाक्षतं तथा ॥ ४१ ॥

दीप्तं तु नवधा प्रोक्तं सूक्ष्मतन्त्रं निबोधत।
सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तद्ग्रन्थं पद्मसंख्यया ॥ ४२ ॥

सूक्ष्माद्वैश्रवणः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः।
तत्सूक्ष्मं एकभेदं स्यात् सूक्ष्ममित्यभिधीयते ॥ ४३ ॥

सहस्रं कालसंज्ञस्य प्रोक्तं वै शङ्ख संख्यया।
कालाद्भीमस्ततः प्राप्तो भिमाद्धर्मो यथा तथा ॥ ४४ ॥

अतीतं मङ्गलं शुद्धं अप्रमेयं तु जातिभाक्।
प्रबुद्धं विबुधं हस्तं अलङ्कारं सुबोधकम् ॥ ४५ ॥

एते सहस्र तन्त्रस्य दश संख्याः प्रकीर्तिताः।
अंशुमान् अंशुसंज्ञस्य पञ्चलक्षेण कीर्तितः ॥ ४६ ॥

अग्रश्चैवांशु संज्ञाच्च अग्रात्प्राप्तस्ततो रविः।
विद्यापुराण तन्त्रं च वासवं नीललोहितम् ॥ ४७ ॥

प्रकारणं भूततन्त्रं आत्मालङ्कारमेव च।
काश्यपं गौतमं चैन्द्रं ब्राह्मं वासिष्ठं एव च ॥ ४८ ॥

ऐशानं नामतः प्रोक्तं अंशुमान् द्वादश स्मृतः।
सुप्रभेदं महाशास्त्रं दशेशस्य प्रकीर्तितम् ॥ ४९ ॥

विघ्नेश्वरो दशेशाच्च शशी प्राप्तो गणेश्वरात्।
त्रिकोटि संख्यया प्रोक्तो भेदश्चात्र न विद्यते ॥ ५० ॥

क्रियादिज्ञानपर्यन्तं तन्त्रमत्रैव दृश्यते।
शिवभेदमिति प्रोक्तो रुद्रभेदस्तथोच्यते ॥ ५१ ॥

रुद्रस्यानादि संज्ञस्य विजयं तन्त्रं उत्तमम्।
परमेशस्ततः प्राप्तस्त्रिकोटि ग्रन्थ संख्यया ॥ ५२ ॥

विजयं चोद्भवं सौम्यं अघोरं मृत्युनाशनम्।
कुबेरं च महाघोरं विमलं विजयाष्टकम् ॥ ५३ ॥

निश्वासं तु दशार्णस्य प्रोक्तं तत्कोटि संख्यया।
दशार्णात् शैलजा प्राप्ता चाष्टभेदेन भेदितः ॥ ५४ ॥

निश्वासोत्तर निश्वासौ निश्वासस्य मुखोद्भवम्।
निश्वास नयनं चैव तथा निश्वास कारिका ॥ ५५ ॥

घोरसंज्ञं यमाख्यं च गुह्यं चाप्येवमष्टधा।
निधनस्य स्वयंभूतं त्रिकोट्यर्धेन कीर्तितम् ॥ ५६ ॥

निधनेशात् स्वयंभूतं शृतवान् नलिनोद्भवः।
प्रजापतिमतं पद्मं स्वायंभुवमिति त्रिधा ॥ ५७ ॥

आग्नेयं यच्च तद्व्योम्नो ग्रन्थसंख्यायुतत्रयात्।
आग्नेयं तन्त्रमेकं तु तस्मात्प्राप्तो हुताशनः ॥ ५८ ॥

तेजस्तु वीरं संप्राप्तो नियुत ग्रन्थ संख्यया।
प्रजापतिस्ततः प्राप्तस्त्रयोदश विभेदकम् ॥ ५९ ॥

प्रस्तारं फुल्लमल्लं च प्रबोधं बोधबोधकम्।
अमोहं मोहसमयं हाकटं शाकटाधिकम् ॥ ६० ॥

हलं विलेखनं भद्रं वीरं वीरे त्रयोदश।
रौरवं ब्राह्मणेशस्य चार्बुदाष्टक संख्यया ॥ ६१ ॥

नन्दिकेशस्ततः प्राप्तः षड्भेदं च विधीयते।
कालघ्नं च कलातीतं रौरवं रौरवोत्तरम् ॥ ६२ ॥

महाकाल मतं चैन्द्रं रौरवं षड्विधं मतम्।
मकुटं तु शिवाख्यस्य शतसाहस्र संख्यया ॥ ६३ ॥

महादेवस्ततः प्राप्तो भेदश्च द्विविधो भवेत्।
मकुटोत्तरं च मकुटं द्विविधेन विधीयते ॥ ६४ ॥

सर्वात्मकस्य विमलं त्रिलक्ष ग्रन्थ संख्यया।
वीरभद्रस्ततः प्राप्तो भेदाः षोडश संख्यया ॥ ६५ ॥

अनन्तं भोगमाक्रान्तं वृषपिङ्गं वृषोदरम्।
वृषाद्भुतं सुदन्तं च रौद्रं भद्रविधं तथा ॥ ६६ ॥

अरेवतं अतिक्रान्तं अट्टहासं अलङ्कृतम्।
अर्चितं धारणं तन्त्रं विमलं षोडशैव तु ॥ ६७ ॥

चन्द्रज्ञानं अनन्तस्य त्रिकोटि ग्रन्थ संख्यया।
बृहस्पतिस्ततः प्राप्तो भेदाश्चात्र चतुर्दश ॥ ६८ ॥

स्थिरं स्थाणुं महान्तं च वारुणं नन्दिकेश्वरम्।
एकपादपुराणं च शङ्करं नीलरुद्रकम् ॥ ६९ ॥

शिवभद्रं कल्पभेदं श्रीमुखं शिवशासनम्।
शिवशेखरमाख्याकं देव्या मतं तथैव च ॥ ७० ॥

चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधो भवेत्।
मुखबिम्बं प्रशान्तस्य शतसाहस्र संख्यया ॥ ७१ ॥

दधीचिस्तु ततः प्राप्तो भेदाः पञ्चदशैव तु।
चतुर्मुखमलायोगं संस्तोभं प्रतिबिम्बकम् ॥ ७२ ॥

आत्मालङ्कार वायव्ये तौटिकं तुटिनीरकम्।
कलात्ययं तुलायोगं कुट्टिमं पट्टशेखरम् ॥ ७३ ॥

महाविद्या महासौरं बिम्बं पञ्चदशैव तु।
प्रोद्गीतं शूलिनः प्रोक्तं लक्षत्रितय संख्यय्या ॥ ७४ ॥

कवचाख्यस्ततः प्राप्तो भेदाः षोडश संख्यया।
कवचं चैव वाराहं पिङ्गलामतमेव च ॥ ७५ ॥

पाशबन्धं दण्डधरं अङ्कुशं च धनुर्धरम्।
शिवज्ञानं च विज्ञानं श्रीकाल ज्ञानमेव च ॥ ७६ ॥

आयुर्वेदं धनुर्वेदं सर्पदंष्ट्री विभेदनम्।
गीतं भरतमातोद्यं प्रोद्गीतं षोडशैव तु ॥ ७७ ॥

ललितं चालयेशस्य प्रोक्तं अष्टसहस्रकम्।
आलयाल्ललितः प्राप्तो ललितं ललितोत्तरम् ॥ ७८ ॥

कौमारं चैव तद्भेदं त्रिविधं परिकीर्तितम्।
बिन्दोस्सिद्धं इदं तन्त्रं कोटिकोट्यर्ध संख्यया ॥ ७९ ॥

बिन्दु संज्ञात्तु सिद्धाख्यं प्राप्तश्चण्डेश्वरः परः।
सारोत्तरं अथान्यत्तु औशनोत्तरमेव च ॥ ८० ॥

शालाभेदं शशीखण्डं सिद्धं तन्त्रं चतुर्विधम्।
सन्तानं शिवनिष्ठस्य षट्सहस्रं तु संख्यया ॥ ८१ ॥

असंवायस्ततः प्राप्तो भेदस्सप्तविधो भवेत्।
लिङ्गाध्यक्षं सुराध्यक्षं शङ्करं त्वमलेश्वरम् ॥ ८२ ॥

असंख्यं अनिलं द्वन्द्वं सन्तानं सप्तधेरितम्।
सोमदेवस्य शर्वोक्तं द्विलक्षेणैव संख्यया ॥ ८३ ॥

नृसिंहः प्राप्तवान् सोमाद्भेदः पञ्चविधो भवेत्।
शिवधर्मोत्तरं चैव वायुप्रोक्तं तथैव च ॥ ८४ ॥

दिव्यप्रोक्तं अथैशानं शर्वोद्गीतं विधीयते।
श्रीदेव्यास्तु समाख्यातं पारमेश्वरं उत्तमम् ॥ ८५ ॥

ग्रन्थ द्वादश लक्षं तु सप्तधा प्रसृतं तु तत्।
उशनोमुनि संप्राप्तः श्रीदेव्याश्च यथाक्रमात् ॥ ८६ ॥

मतङ्गं यक्षिणीपद्मं पारमेश्वरमेव च।
पुष्करं सुप्रयोगं च हंसं सामान्यमेव हि ॥ ८७ ॥

किरणं देवविभवे कोटिपञ्चक संख्यया।
संवर्तकस्ततः प्राप्तो भेदास्तु नवसंख्यया ॥ ८८ ॥

गारुडं नरृतं नीलं रूक्षं भानुक धेनुके।
प्रबुद्धं बुद्धकालाख्ये नवधा किरणो भवेत् ॥ ८९ ॥

शिवस्य वातुलं प्रोक्तं ग्रन्थाः शतसहस्रकम्।
महाकालस्ततः प्राप्तो भेदा वै द्वादशैव तु ॥ ९० ॥

वातुलं चोत्तरं चैव कालज्ञानं प्ररोहितम्।
सर्वं धर्मात्मकं श्रेष्टं नित्यं शुद्धं महाननम् ॥ ९१ ॥

विश्वं विश्वात्मकं चैव वातुले द्वादश स्मृताः।
अष्टाविंशति तन्त्राणां मूलभेदाः प्रकीर्तिताः ॥ ९२ ॥

कामिकं पादयुग्मं स्याद्योगजं गुल्फमेव च।
चिन्त्यं पादाङ्गुलिः प्रोक्तः कारणं जङ्घिका भवेत् ॥ ९३ ॥

अजितं जानुदेशं स्याद् दीप्तेमूरुप्रदेशकम्।
सूक्ष्मं तु गुह्यमेवं स्यात्सहस्रं कटिदेशकम् ॥ ९४ ॥

अंशुमान् स्यात् पृष्ठतलं सुप्रभेदं तु नाभिकम्।
विजयं कुक्षिदेशं स्यान् निश्वासं हृदयं भवेत् ॥ ९५ ॥

स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च।
वीरं कण्ठप्रदेशस्तु रौरवं श्रोत्रमेव च ॥ ९६ ॥

मकुटं माकुटं तन्त्रं अङ्गप्रत्यङ्गमेव च।
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानं उरस्स्थलम् ॥ ९७ ॥

बिम्बतन्त्रं सुवदनं प्रोद्गीतं रसना भवेत्।
ललितं स्यात्कपोलं तु सिद्धं चैव ललाटकम् ॥ ९८ ॥

सन्तानं कुण्डलं विद्याच्छर्वोक्तं उपवीतकम्।
पारमेशान हारं तु किरणं रत्नभूषणम् ॥ ९९ ॥

वातुलं वसनं प्रोक्तं शिवधर्म त्रिपुण्ड्रके।
कल्पञ्चैव तु संयोगे शिवधर्मानुलेपने ॥ १०० ॥

बिम्बं पुष्पे च माल्ये च सिद्धान्तेन निवेदितम्।
तन्त्रात्मक शरीरेण मन्त्रमूर्तिमयेन तु ॥ १०१ ॥

एतेषामुपभेदैश्च सादाख्यं मूर्तिमत् स्थितम्।
शिवरुद्रात्मकं तन्त्रं अष्टाविंशति संख्यकम् ॥ १०२ ॥

चिन्तामणिरिव भ्राजि चैकधा बहुधा दिशेत्।
यद्यप्येको भवेद्वक्ता श्रोतृभेदादनेकधा ॥ १०३ ॥

कर्षणादि प्रतिष्ठान्तं मूलेनैव समाचरेत्।
कृतञ्चेदुपभेदेन कर्ता भर्ता विनश्यति ॥ १०४ ॥

केवलं यजनं प्रोक्तं उपभेदैर्विशेषतः।
प्रतिष्ठाद्यं तु मूलैश्चेत् अष्टाविंशतिभिर्वरम् ॥ १०५ ॥

येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम्।
तेन सर्वं प्रकर्तव्यं न कुर्यादन्य तन्त्रतः ॥ १०६ ॥

कारयेदन्य तन्त्रेण नोक्तं चेत्तु विशेषतः।
उक्तानि प्रतिषिद्धानि पुनस्संभाषितानि च ॥ १०७ ॥

सापेक्ष निरपेक्षाणि शिववाक्यान्यनेकधा।
चतुष्पादयुतान्येव भुक्तिमुक्त्यर्थ साधनम् ॥ १०८ ॥

एतान्येवाथ शृत्वा तु देवैर्मुनिवरादिभिः।
संक्षेपतोऽपि कथितं सर्वेषामनुकम्पया ॥ १०९ ॥

एषामध्ययनं कार्यं शिवविप्रैर्गुरुक्रमात्।
अध्यापनं च कर्तव्यं न कार्यं इतरैर्नरैः ॥ ११० ॥

शिवसिद्धान्त तन्त्रेण प्रारब्धं कर्षणादिकम्।
न कुर्यादन्यशास्त्रेण कुर्याच्चेत् तन्त्रसंकरः ॥ १११ ॥

तन्त्रसंकरदोषेण राजा राष्ट्रं च नश्यति।
गारुडं भूततन्त्रं च भैरवं वामतन्त्रकम् ॥ ११२ ॥

कापालं पाञ्चरात्रं च लाकुलं कुलशास्त्रकम्।
तन्त्रं पाशुपतं चान्यत् पुराणं धर्मशास्त्रकम् ॥ ११३ ॥

इतिहासं षडङ्गं च ऋग्यजुस्साम संज्ञकम्।
अथर्वणं तथा बौद्धं आर्हतं मतमेव च ॥ ११४ ॥

ऊर्ध्वस्रोतोऽक्षपाच्छास्त्रादपरं तदनुक्रमात्।
कामिकादि शिवज्ञानं मूर्धा भगवतस्सदा ॥ ११५ ॥

इतराणि महेशस्य हृत्कण्ठाद्यङ्गकानि वै।
पूर्वपक्षतया तानि कथितानीह शम्भुना ॥ ११६ ॥

हेयोपादेय वस्तूनां निर्णये परमार्थतः।
तत्सर्वं अधरीकृत्य शैवसिद्धान्त ईरितः ॥ ११७ ॥

सिद्धान्त शास्त्रनिष्ठैश्च शिवविप्रैर्यथाक्रमम्।
शास्त्रान्तरैस्तु संस्थाप्य लिङ्गं तदुभयार्थकम् ॥ ११८ ॥

पूजनीयं नृपग्राम यजमानाभिवृद्धये।
शैवस्सर्वाधिकारी स्यात्स्वकीये च परत्र च ॥ ११९ ॥

शैवास्सर्वेषु कुर्वन्ति ये गृहस्था द्विजोत्तमाः।
यामले मातृतन्त्रे च कापाले पाञ्चरात्रके ॥ १२० ॥

बौद्धे चार्हमते चैव लाकुले वैदिकेऽपि च।
अन्येष्वपि च मार्गेषु तत्तच्छास्त्रैः स्वशास्त्रतः ॥ १२१ ॥

शैवाः कुर्वन्ति दीक्षाद्यं तल्लिङ्गस्थापनादिकम्।
मुख्यत्वादिह शैवस्य मुखमाहात्म्यतोऽपि च ॥ १२२ ॥

अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने।
तस्मात्परार्थं आत्मार्तं स्थापनं यजनं तथा ॥ १२३ ॥

शिवविप्रेण कर्तव्यं अन्येषां स्वार्थमेव हि।
परार्थमपि कुर्याच्चेल्लोपेन नृपतेस्तथा ॥ १२४ ॥

तद्राष्ट्रस्य च नाशः स्यादचिरेण न संशयः ॥ १२५ ॥

Pūrvapāda – Kapitel 2: Die Bildung der Mantras

अथ संक्षेपतो वक्ष्ये मन्त्राणां उद्धृतिं क्रमात्।
मन्त्रं विना क्रिया नास्ति कर्षणाद्यर्चनान्तकम् ॥ १ ॥

मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः।
मननत्राण धर्मित्वान् मन्त्र इत्यभिधीयते ॥ २ ॥

मन्त्रो द्विरूपो विज्ञेयो वाच्य वाचक भेदतः।
वाग्रूपो वाचकः प्रोक्तो वाच्यस्त्वर्थात्मकः स्मृतः ॥ ३ ॥

वाच्य वाचकयोश्चैव तादात्म्यं क्वचिदिष्यते।
नादो मन्त्र इति प्रोक्तः स नादो जायते परात् ॥ ४ ॥

नादाद्बिन्दु समुद्भूतो बिन्दोराद्यस्स्वरो भवेत्।
तस्मात्स्वरद्वयं द्वौ द्वौ तेषां भेदस्त्रयोदश ॥ ५ ॥

स्वराः षोडश जीवाख्याः कादयो देहवन्मताः।
संख्यया ते चतुश्त्रिंशत् त एव व्यञ्जनानि तु ॥ ६ ॥

प्राणोपाधि भेदेन व्याप्तं तैरेव सर्वतः।
तैरेव रचितं शास्त्रं परापर विभेदितम् ॥ ७ ॥

नव खण्डं तु नादाख्यं पञ्चाशद्वर्ण भेदितम्।
विकारभूत भूताख्य वेद वेदेन्दु संख्यया ॥ ८ ॥

खण्डानां निर्णयो वर्णैः एवमेव नवात्मकः।
स नादः कथ्यते विप्राः पर्यायैश्शिवनामभिः ॥ ९ ॥

स्थूलस्सूक्ष्मः परश्चेति त्रिविधः परिपठ्यते।
शब्दबोधानुभूतात्मा सर्वप्राणिहृदिस्थितिः ॥ १० ॥

पञ्चाशद् रुद्रभेदेन पञ्चाशच्छक्ति भेदतः।
संस्थिता मातृका ज्ञेया साधकैस्तत्त्वदर्शिभिः ॥ ११ ॥

तद्व्यासो वक्ष्यते विप्राः पश्चाद्वर्णाध्व वर्णनैः।
भगवन् प्राणिनो लोके क्षीणसत्वाचिरायुषः ॥ १२ ॥

लोभमोह महामान रागद्वेषादिभिर्युताः।
तेषां योग्यमशक्तानां शक्तानां च यथा तथा ॥ १३ ॥

बहुधा मन्त्रसद्भावो वक्तव्यः करुणानिधे।
येन येन प्रकारेण सुखोपायो भवेन्नृणाम् ॥ १४ ॥

तेन तेन प्रकारेण कथयामि समासतः।
अकारस्सर्व दैवत्यं रक्तं सर्व वशीकरम्।
आकारस्तु पराशक्तिः श्वेतं आकर्षणं भवेत् ॥ १५ ॥

इकारो विष्णुदैवत्यं श्यामं रक्षाकरं भवेत्।
मायाशक्तिरितीकारः पीतं स्त्रीणां वशीकरम् ॥ १६ ॥

उकारो वास्तुदैवत्यं कृष्णं राजवशीकरम्।
ऊकारो भूमिदैवत्यं श्यामं लोकवशीकरम् ॥ १७ ॥

ऋकारो ब्रह्मणो ज्ञेयं पीतं ग्रह विनाशकम्॥
शिखण्डि रूपं ॠकारं ह्यञ्जनं ज्वरनाशकम् ॥ १८ ॥

अश्विनीभ्यां ऌलूश्चैव सितेरक्त ज्वरापहे।
एकारो वीरभद्रीयं पीतं सर्वार्थ सिद्धितम् ॥ १९ ॥

ऐकारं वाग्भवं विद्यात् स्फाटिकं ज्ञानसिद्धितम्।
ओकारं ईश्वरं विद्यात् ज्योतिस्सर्व फलप्रदम् ॥ २० ॥

औकारं आदिशक्तिस्यात् शुक्लं सर्वार्थ सिद्धितम्।
अंकारस्तु महेशस्स्याद् रक्तवर्णं सुखप्रदम् ॥ २१ ॥

अःकारः कालरुद्रश्च रक्तं पाशनिकृन्तनम्।
प्राजापत्यं ककारश्च पीतं वृष्टिकरं भवेत् ॥ २२ ॥

खकारं जाह्नवी ज्ञेयं क्षीराभं पापनाशनम्।
गकारो गणरूपञ्च रक्ताभं विघ्न नाशनम् ॥ २३ ॥

घकारो भैरवं ज्ञेयं मुक्ताभं शतृनाशनम्।
ङकारः कालबीजं च कालं सर्वजयं भवेत् ॥ २४ ॥

चकारश्चण्डरुद्रस्स्याद् अञ्जनं त्रिपुरापहम्।
छकारो भद्रकाली स्यात् राजावर्तं जयप्रदम् ॥ २५ ॥

जकारं जंभभित् ज्ञेयं रक्ताभं जयावहम्।
झकारस्त्वर्धनारी स्यात् श्यामं सर्व जयावहम् ॥ २६ ॥

ञकारः कोटिविज्ञेयं पीतं रोगविनाशनम्।
भृङ्गीशस्स्याट्टकारं तु रक्तं सर्वसुखावहम् ॥ २७ ॥

ठकारश्चन्द्रबीजं च सितं मृत्यु विनाशनम्।
डकारश्चैकनेत्रं च पीतं कालजयं भवेत् ॥ २८ ॥

ढकारो यमबीजं च नीलं मृत्यु विनाशनम्।
णकारो नन्दिबीजं च रक्ताभं चार्थसिद्धिदम् ॥ २९ ॥

तकारो वास्तुदैवत्यं श्वेतं सर्वजयं भवेत्।
थकारो धर्मिणो ज्ञेयं कुन्दाभं स्याज् जयप्रदम् ॥ ३० ॥

दुर्गाबीजं दकारश्च श्यामं सर्वार्थ सिद्धिदम्।
धकारो धनदः प्रोक्तः पीताभं चार्थसिद्धिदम् ॥ ३१ ॥

नकारश्चैव सावित्री स्फाटिकं पापनाशनम्।
पर्जन्यस्तु पकारस्स्याच्छुक्लाभं वृष्टिसिद्धिदम् ॥ ३२ ॥

फकारः पाशुपत्यं च श्वेतं पाशनिकृन्तनम्।
बकारस्तु त्रिमूर्तिस्स्यात् पीतं सर्वार्थ सिद्धिदम् ॥ ३३ ॥

भकारं भार्गवं विद्याद् रक्तं सर्वार्थ सिद्धिदम्।
मकारं मदनं विद्यात् श्यामं सर्वजयप्रदम् ॥ ३४ ॥

यकारो वायुदैवत्यं कृष्णं उच्चाटनं भवेत्।
रकारो वह्नि दैवत्यं रक्ताभं संहृतिर्भवेत् ॥ ३५ ॥

लकारः पृथवी तत्त्वं पीतञ्च स्तंभनं भवेत्।
वारुणं स्याद्वकारं तु शुक्लाभं रोगनाशनम् ॥ ३६ ॥

लक्ष्मी रूपं शकारश्च हेमाभं श्रीकरं भवेत्।
षकारो द्वादशादित्यो रक्तं सर्वार्थ सिद्धिदम् ॥ ३७ ॥

सकारश्शक्ति रूपं च रक्तं स्थितिकरं भवेत्।
हकारश्शिवबीजं च शुद्धस्फटिक सन्निभम् ॥ ३८ ॥

अणिमाद्यष्टसिद्धिं च भुक्तिमुक्ति प्रदायकम्।
विद्याबीजं क्षकारश्च क्षीराभं स्यात् सुखप्रदम् ॥ ३९ ॥

इत्येते ह्यधिदेवाश्च फलं वर्णक्रमेण तु।
अकारादि क्षकारान्तं समासात् परिकीर्तितम् ॥ ४० ॥

प्रत्येकं वर्णरूपं च देवतात्मक इष्यते।
देवानां बीजनामानि वर्णास्तत्र प्रकल्पिताः ॥ ४१ ॥

तस्माद्बीजानि चोक्तानि ज्ञात्वा मन्त्रान् समुद्धरेत्।
देवतास्स्थापने काले लिङ्गे वा कौतुकेऽपि वा ॥ ४२ ॥

दिक्षायां प्रोक्षणे काले सकलीकरणे तथा।
बीजानि विन्यसेद्धीमान् मूर्धादि क्रमशस्तथा ॥ ४३ ॥

एवमेवक्रमेणैव ज्ञात्वा वर्णान् विशेषतः।
तत्तद्वर्णाकृतिं ध्यात्वा जपेत्सर्वार्थ सिद्धिदम् ॥ ४४ ॥

मातृका सर्वमन्त्राणां मुख्यभूता भवेदिह।
ताश्शक्तिरुद्र संयुक्ताः केवलं वा समभ्यसेत् ॥ ४५ ॥

अनया साध्यते सर्वं तस्मादेतान् न्यसेज्जपेत् ॥ ४६ ॥

Pūrvapāda – Kapitel 3: Bäder und Reinigung

अथ स्नान विधिं वक्ष्ये परमेश प्रकाशितम्।
सर्वदोषहरं पुण्यं मनःप्रीतिकरं परम् ॥ १ ॥

वारुणञ्च तथाग्नेयं मान्त्र मानसमेव च।
वायव्यञ्च महेन्द्राख्यं स्नानं षड्विधमीरितम् ॥ २ ॥

ब्राह्मे मुहूर्ते चोत्थाय हृत्पङ्कजगतं शिवम्।
निष्कम्पं दीपिकाकारं प्रणवात्मकं अव्ययम् ॥ ३ ॥

ध्यायन् प्रभाते विमले दण्डपाणिस्सहायवान्।
गत्वा निकेतनाद्बाह्ये विजनं सजलाशयम् ॥ ४ ॥

स्नानं आवश्यकं तत्र कुर्याद्वै साधकोत्तमः।
मूत्रकण्टक कीटास्थि विष्ठादि प्रावृतं त्यजेत् ॥ ५ ॥

मार्गशष्प नदीगर्त तोय गोमय भस्मसु।
श्मशानाराम गोष्ठैकद्रुमशृङ्गाटकादिषु ॥ ६ ॥

आवश्यकं न कर्तव्यं स्त्रीगोविप्रार्क लिङ्गिनाम्।
चन्द्रस्य सम्मुखो भूत्वा भूतानां विकृतेस्तथा ॥ ७ ॥

दिवा वा सन्ध्ययोस्सौम्यवक्त्रः कर्णस्थसूत्रकः।
शिरोवकुण्ठनं कृत्वा त्यजेत्तदुभयन्नरः ॥ ८ ॥

रात्रौ दक्षिणवक्त्रस्तु तृणाद्यन्तरिते भुवि।
मौनी गुल्मादि सञ्चन्नो नासाग्राहित लोचनः ॥ ९ ॥

विष्ठावियत्प्रजनन दिक्षु दृष्टिं न च क्षिपेत्।
नासापीडन निष्ठीव ह्रस्वोद्गारादिकं त्यजेत् ॥ १० ॥

तृणलोष्ठादि मृत्खण्डैः मलङ्गुतगतं हरेत्।
काष्ठगोमय पाषाणकाथ्यादि परिवर्जयेत् ॥ ११ ॥

सवासा वामहस्तेन सङ्गृह्य जननन्नरः।
शुद्धामशर्करां मृद्वीं मृदं शौचार्थं आहरेत् ॥ १२ ॥

वृक्षाम्बुसेतु वल्मीक ग्राममध्योत्करस्थिताम्।
मृदमन्यावशिष्टाञ्च शौचार्थं परिवर्जयेत् ॥ १३ ॥

प्रक्षालिताम्बुतीरे तु विन्यसेत्स्वस्य दक्षिणे।
शौचं समाचरेदेकमृदा जनन शोधनम् ॥ १४ ॥

तथैव वाम्हस्तन्तु सप्तभिर्गुद शोधनम्।
दशभिर्वामहस्तं तु सप्तभिश्चोभयङ्करम् ॥ १५ ॥

पादौ पाणी च संशोध्य मृदा चैव सकृत्सकृत्।
आमली फलमात्रन्तु मृत्पिण्डं योजयेत्सकृत् ॥ १६ ॥

सोपवीतस्समुत्थाय तटेऽन्यत्राचमेद् बुधः।
गृहे मैत्रपदे वापि कृत्वा चावश्यक क्रियाम् ॥ १७ ॥

शौचं समाचरेत् स्नानं मन्दिरे प्राग्विधानतः।
संग्राह्य दन्तकाष्ठन्तु हरेद्दन्तगतं मलम् ॥ १८ ॥

वस्वर्काङ्गुल मानन्तु काष्ठं नैष्ठिकभोगिनोः।
सार्द्रं त्वगन्वितमृजुं समच्छेदमृजूद्वहम् ॥ १९ ॥

कनिष्ठाङ्गुलिनाहं तु कर्तव्यं उभयं नृणाम्।
करञ्जञ्चिरबिल्वञ्च खदिरञ्चार्जुनं तथा ॥ २० ॥

अपामार्गं च मुक्त्यर्थं जंब्वाम्रककुभादिकम्।
भुक्तये धवधात्री च माकुलीनिम्बसंभवम् ॥ २१ ॥

शिग्रश्लेष्मातकैरण्ड पिशाचतरुसंभवम्।
वर्जयेद्दन्तकाष्ठं तदन्यल्लोह विनिर्मितम् ॥ २२ ॥

नद्यास्समुद्रगाश्चैव तटाकाश्च नदास्तथा।
पल्वलाः प्लवनाश्चैव संगमाः पुण्यतीर्थकाः ॥ २३ ॥

श्रेष्टास्तु दीक्षितस्येह पुष्करिण्यान्तु मध्यमम्।
अधमा दीर्घिकाद्यासु कूपे चैवाधमाधमम् ॥ २४ ॥

विशुद्धमृत्स्नया कुर्याद्वारणन्तु चतुर्विधम्।
वस्वङ्गुलप्रमाणन्तु खात्वोद्धृत्यास्त्रमुच्चरन् ॥ २५ ॥

हृदयेन मृदं ग्राह्य तेन खातं प्रपूरयेत्।
निधाय जलतीरे तु संसिच्य शिरसैव तु ॥ २६ ॥

तृणादीन् शिखया शोध्य कवचेन त्रिधा भजेत्।
नाभेरधस्ताद्भागेन चान्येनास्त्रं समुच्चरन् ॥ २७ ॥

सप्तधा परतस्सर्वाण्यङ्गानि क्षालयेद्बुधः।
हस्ताभ्यां आस्यदृङ्नासाश्रोत्रादीनि पिधाय च ॥ २८ ॥

प्राणानायम्य हृद्यस्त्रन्निमज्यार्कद्युतिं स्मरेत्।
जले स्नात्वैवमुत्तीर्य दीक्षायुक्तस्त्रिवर्णकः ॥ २९ ॥

अविरक्तः पुरा ब्राह्मीं सन्ध्यां वन्देत साधकः।
भजेत्तदन्ते शैवीन्तु संक्षेप विधिमाश्रितः ॥ ३० ॥

सर्वकाम प्रसिद्ध्यर्थं मेलामन्त्रं जपेद् बुधः।
इतरस्तु विरागात्मा लौकिकार्थ पराङ्मुखः ॥ ३१ ॥

कुर्याद् ब्राह्मीं न वा कुर्याच्छैवीमेव नियोगतः।
दीक्षितो गणजातिश्चेदस्त्रसन्ध्यां उपासयेत् ॥ ३२ ॥

अवशिष्टमृदो भागं संग्राह्य जलमध्यतः।
स्थित्वा वामकरे कुर्यात् त्रिभागं उदगाननः ॥ ३३ ॥

चतुरङ्गैस्सकृद्दक्षं सप्तधा हेतिनेन्द्रगम्।
मूलेन दशधेन्दुस्थं भागमेवन्तु मन्त्रयेत् ॥ ३४ ॥

दिक्ष्वस्त्रजप्तं प्रक्षिप्य मूलजप्तं जले न्यसेत्।
कल्पयेच्छिवतीर्थन्तु बाहुभ्रमणमात्रतः ॥ ३५ ॥

लिप्त्वाङ्गजप्तभागेन सर्वाण्यङ्गानि मस्तकात्।
निमज्य पिहितद्वारो ध्यायेच्छिवं अनामयम् ॥ ३६ ॥

सूर्यसोमात्मकौ हस्तौ संयोज्य घटमुद्रया।
मूलमन्त्रादिकैर्मन्त्रैस्सेकः कार्यस्सकृत्सकृत् ॥ ३७ ॥

सुगन्धामलकाद्यैस्तु स्नायाद्राजोपचारतः।
राजवद्धेमपीठादि सुस्थितो हेमकुम्भकैः ॥ ३८ ॥

स्नात्वा निमज्जनार्थन्तु कुर्याच्छब्दैस्सुमङ्गलैः।
तीर्थे विन्यस्तमन्त्रांस्तु संहृत्य स्वहृदिन्यसेत् ॥ ३९ ॥

अथवा स्वगृहे शुद्ध वारिणा शीतलेन वा।
तप्तेन लिप्तभूमिस्थपीठस्थः स्नानमाचरेत् ॥ ४० ॥

नवाष्टपञ्चभिः कुम्भैश्शिवमन्त्र प्रकल्पितैः।
वाससा परिशुद्धेन धवलेन शरीरगम् ॥ ४१ ॥

उद्वर्त्यापनयेत्संयक् स्नानवारि शनैश्शनैः।
भुक्तिमुक्तिदं आग्नेयं कार्यं शुद्धेन भस्मना ॥ ४२ ॥

स्नानं चतुर्विधं भस्म भवेत्कल्पादि भेदतः।
कल्पञ्चैवानुकल्पञ्च उपकल्पं अकल्पकम् ॥ ४३ ॥

तेष्वाद्यं तत उत्कृष्टतममन्यदभावतः।
रोगादिरहिता या गौः कृष्णा वा कपिलाथवा ॥ ४४ ॥

तस्या गोमयमादाय खस्थं पद्मदलादिना।
सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत् ॥ ४५ ॥

विमले शोषयित्वा तु दहेद्घोराच्छिवाग्निना।
शुष्कं वनगतं यत्तु गोमयञ्चूर्णितं तथा ॥ ४६ ॥

निर्दग्धं अनुकल्पाख्यं आपगादिगतं तु यत्।
वस्त्रेणान्तरितं भस्म गोमूत्रैर्बद्ध पिण्डकम् ॥ ४७ ॥

दग्धं प्रागुक्त विधिना भवेद्भस्मोपकल्पकम्।
अन्यैरापादितं भस्म अकल्पकमिति स्मृतम् ॥ ४८ ॥

जात्यादिदोष निर्मुक्तं रोगादिरहितञ्च यत्।
तेन स्नानं प्रशस्तं स्यान्नान्येन मुनिसत्तमाः ॥ ४९ ॥

एष्वेकतमं आदाय पात्रेषु कलशादिषु।
त्रिसन्ध्यं आचरेत्स्नानं यथा संभवतोऽथवा ॥ ५० ॥

सन्ध्यायाः पूर्वतो ब्राह्मं कृत्वाऽऽकारं शिवद्विजः।
सन्ध्यां समाचरेत्पूर्वं शैवीं वाऽवश्यकं तथा ॥ ५१ ॥

जलस्नानं पुराकृत्वा प्रातराग्नेयं अभ्यसेत्।
सन्ध्यान्तरे तथाग्नेयं केवलं वा सवारुणम् ॥ ५२ ॥

शक्तानां विधिरेवं स्याद् अशक्तानां यथेच्छया।
आग्नेयं वारुणस्नानाद् असंख्येयफलावहम् ॥ ५३ ॥

तस्माद्वारुणं उत्सृज्य स्नानं आग्नेयं अभ्यसेत्।
शोधयेदनपेक्षस्तु शुद्ध्यै शोद्ध्यस्य वस्तुनः ॥ ५४ ॥

यथा गङ्गाजलं शुद्धं तथा भस्मापि पावनम्।
भासयत्येव यद्भस्म शुभं भासयते च यत् ॥ ५५ ॥

भक्षणात्सर्व पापानां भस्मेति परिगीयते।
श्रीकरञ्च पवित्रञ्च हारं आभरणं तथा ॥ ५६ ॥

लोकवश्यकरं पुण्यं भस्मस्नानं दिने दिने।
ज्वरापस्मार पैशाच ब्रहम्राक्षस पीडिताः ॥ ५७ ॥

भस्मलेपन मात्रेण स्वस्था मर्त्या भवन्ति च ॥ ५८ ॥

मद्यं पीत्वा गुरुदारांश्च गत्वा
स्तेयं कृत्वा ब्रह्महत्याश्च कृत्वा।
भस्मच्छन्नो भस्मशय्याशयानो
रुद्राध्यायी मुच्यते सर्वपापैः ॥ ५९ ॥

भस्मस्नानं जलस्नानात् कोटिपुण्यगुणं भवेत्।
यतिः उद्धूलनेनैव स्नायान्नित्यं उदङ्मुखः ॥ ६० ॥

गृही यथाङ्गमालभ्य तिलकैर्वा त्रिपुण्ड्रकैः।
संगृह्य मुष्टिमात्रं तु दक्षहस्तेन भस्मनः ॥ ६१ ॥

धारणाद्ध्यानयोगेन विशोध्य परमीकृतम्।
विधाय शोधयेन्मूल ब्रह्माङ्ग मनुभिस्तथा ॥ ६२ ॥

अग्निरित्यादिन भस्म स्थाप्य वामकरे तु यत्।
अस्त्रेण दक्षहस्तेन मलस्नानं तु मस्तकात् ॥ ६३ ॥

कृत्वा पुनर्विधिस्नानं साभिषेकं समाचरेत्।
ईशानेन कमुद्धूल्य मुखं तत्पुरुषेण तु ॥ ६४ ॥

हृदयं घोरमन्त्रेण गुह्यं वामेन मन्त्रतः।
सद्योजातेन सर्वाङ्गं षडङ्गैः हृदयादिकम् ॥ ६५ ॥

सव्यापसव्य हस्ताभ्यां शनैरुद्धूलयेत् तनुम्।
न च गुर्वग्नि देवानां सन्निधौ मार्ग एव च ॥ ६६ ॥

अशुद्ध भूतले चैव भस्मस्नानं नयेत्सुधीः।
क्वचित् शस्तं हि देवस्य सन्निधावग्नि सन्निधौ ॥ ६७ ॥

उद्धूलन विधिः प्रोक्तो विप्रस्य शिवशासने।
उद्धूलनेप्यशक्तेश्चेत् त्रिपुण्ड्रं वापि कारयेत् ॥ ६८ ॥

त्रिपुण्ड्रं विधिवत्कुर्याद् विप्राद्य गृहमेधिनः।
नृपविट्शूद्र जातीनां पट्टपुण्ड्रं ललाटके ॥ ६९ ॥

पञ्चकाष्ट द्विरष्टाष्ट सन्धिषु प्रविधीयते।
मूर्धा ललाट कर्णौ च चक्षुषी घ्राणकौ तथा ॥ ७० ॥

आस्यं ग्रीवा तु चांसौ च बाहू कूर्परकौ तथा।
मणिबन्धौ च हृन्नाभि मेढ्रं पायुस्तथैव च ॥ ७१ ॥

ऊरू च जानुनी चैव जङ्घे स्फीचौ तथैव च।
पादौ द्वात्रिंशदित्येते फट्यन्ते सन्धयः क्रमात्॥
प्रियञ्चैवाष्ट मूर्तीनां विघ्नेशानां तथैव च ॥ ७२ ॥

दिक्पालानां वसूनाञ्च मूर्धादि परिकल्पयेत्।
ललाट कर्णौ चांसौ च बाहू च मणिकूर्परौ ॥ ७३ ॥

हृदयं जटरञ्चैव नाभिपार्शौ तथैव च।
पृष्ठं च इति विज्ञेयाः सन्धयः षोडशः क्रमात् ॥ ७४ ॥

शिववह्न्यादि मूर्तीनां वामादीनां तथैव च।
अश्विन्यास्तु प्रियं ज्ञेयं मूर्धादि परिकल्पनम् ॥ ७५ ॥

शिरो ललाट कर्णौ च बाहू च हृदयं तथा।
नाभि पृष्ठ इति ज्ञेयास्वष्टौ वै सन्धयः क्रमात् ॥ ७६ ॥

क्रमेण ब्रह्मणश्चैवं ऋषीणां तु प्रियं भवेत्।
ललाट बाहु हृन्नाभि पञ्च सन्धिषु वा भवेत् ॥ ७७ ॥

शिवेश रुद्र कृष्णात्मभुवाञ्च प्रीतिसिद्धये।
मध्यतर्जन्यनामाभिस्त्रिपुण्ड्रं विधिवन्नयेत् ॥ ७८ ॥

षडण्गुल प्रमाणेन विप्राणां तु त्रिपुण्ड्रकम्।
नृपाणां चतुरङ्गुल्यं वैश्यानां द्व्यङ्गुलं भवेत् ॥ ७९ ॥

शूद्राणामपि सर्वेषां एकाङ्गुल्यं त्रिपुण्ड्रकम्।
स्थ्रीणां तथैव कुर्वीत अन्यजातिस्तु वर्जयेत् ॥ ८० ॥

स्त्रीणां तु तिलकं वापि पट्टाकारं अथापि वा।
अथ दीप समाकारं अर्धचन्द्रं ललामकम् ॥ ८१ ॥

पुंस्त्रीनपुंसकादीनां सर्वेषां प्रविधीयते।
पेषितं चन्दनेनैव वारिणा संयुतं तु वा ॥ ८२ ॥

केवलं वा विधातव्यं भस्मस्नानं दिनेदिने।
प्रातर्मध्याह्न सायाह्न मध्यरात्रेषु सर्वदा ॥ ८३ ॥

त्रिकालं वा द्विकालं वा चैककालं अथापि वा।
भस्मस्नानं यथा योग्यं यः कुर्यात्सकृदेव वा ॥ ८४ ॥

सर्वपाप विनिर्मुक्तस्साधयेद् ईप्सितं फलम्।
ताम्राब्ज नालिकेराश्म वैणवालाभुचर्मभिः ॥ ८५ ॥

स्वहस्तेनाचमेत्तैस्तु न तेनाप्रयतो भवेत्।
स्वप्रमाणजलैर्युक्तं प्रस्थयुग्मापि संग्रहेत् ॥ ८६ ॥

तालमुद्रां ततः कृत्वा कौपीनं परिवर्तयेत्।
वस्त्रं वातिसितं पीतं कषायं चोपवीतकम् ॥ ८७ ॥

एकद्विहस्त विस्तारं दीर्घं कौपीनं उच्यते।
त्रिगुणं कटिसूत्रं स्यात् द्विश्च ग्रन्थि नियन्त्रितम् ॥ ८८ ॥

कार्पास निर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम्।
सूत्रमेकं तु शूद्राणां वैश्यानां द्विसरं भवेत् ॥ ८९ ॥

त्रिसरं क्षत्रियाणां तु विप्राणां सप्तसंख्यकम्।
यद्वा पञ्चसरं तेषां नवसूत्रं अथापि वा ॥ ९० ॥

सोत्तरीयन्तु विप्राणां शूद्राणां केवलं तु तत्।
क्षत्रविट्छूद्र जातीनां यदुक्तम् चोपवीतकम् ॥ ९१ ॥

पूजादि मन्त्रकाले तु धार्यन्नो धार्यमेव वा।
अनुलोमादि वर्णानां युक्तायुक्तं विचार्य च ॥ ९२ ॥

जातिभेदोक्त विधिना न धार्यं धार्यमेव च।
चतुरङ्गुल मानेन त्रिगुणीकृत सूत्रकम् ॥ ९३ ॥

वस्वर्क संख्ययायेन सूत्रं तु त्रिगुणीकृतम्।
वर्तयेत्प्राङ्मुखो भूत्वा तोयसिक्तं समं शुभम् ॥ ९४ ॥

ततस्तत् त्रिगुणीकृत्य समं संवर्तिताग्रकम्।
वामेतर करादूर्ध्वम् भूगतौ परिवर्जयेत् ॥ ९५ ॥

निधाय तद् द्रुमादौ तु यथाग्रो भूमिमागतौ।
तद्भ्रमान्मुनितृप्तिस्स्यात् तृणं दत्वाऽथ शोधनम् ॥ ९६ ॥

तत्सर्वं हृदयेनैव मन्त्रेण हृदि कल्पयेत्।
आयुष्कामी त्वनेकञ्च द्वन्द्वसूत्रञ्च धारयेत् ॥ ९७ ॥

इतरार्थी त्वयुग्मञ्च स्वल्प सूत्रं तु धारयेत्।
पश्चादादाय सूत्रं तद् द्विगुणं कण्ठसंगतम् ॥ ९८ ॥

आत्मस्तनान्तमानीय तेनैव त्रिगुणीकृतम्।
ग्रन्थौ त्रिवेष्टनं कृत्वा सूत्रमेवं विधीयते ॥ ९९ ॥

यवाद्यवार्ध मानं स्यादुत्तरीयस्य विस्मृतम्।
तन्मानं उपवीतस्य सममेव विधीयते ॥ १०० ॥

पुरुषाघोर वामाजमन्त्रा विप्रदिततः क्रमात्।
स्वस्वजात्युक्त मन्त्रेण धार्यं तदुपवीतकम् ॥ १०१ ॥

वारुणं वा गृहस्तानां यतीनां भस्मना कृतम्।
स्नानान्तरं तयोरेव नैमित्तिकं उदाहृतम् ॥ १०२ ॥

ऐन्द्रचातपवृष्ट्या स्यात् प्राङ्मुखेनोर्ध्व पाणिना।
स्मरता मूर्धजं मन्त्रं गच्छता पदसप्तकम् ॥ १०३ ॥

कुर्यात् गोकुलसंचार धूलिबिर्वायुसम्भवैः।
पुरुषेणैव मन्त्रेण स्नानानां उत्तमोत्तमम् ॥ १०४ ॥

सद्यादि मन्त्रजप्तेन तोयेन परिमार्जनम्।
मान्त्रं तद्वारुणस्नान विधावपि विधीयते ॥ १०५ ॥

प्रणवस्मरणोपेतं प्राणायामेन मानसम्।
सर्वस्नानेषु कर्तव्यं केवलं वा विधीयते ॥ १०६ ॥

यावच्छरीर संशुद्धिः तावच्छुद्धिर्नपश्यताम्।
भावशुद्ध्या विशुद्धो यस्स शुद्धो नेतरस्सदा ॥ १०७ ॥

खरवायसगृघ्रान्त्य जनश्वाग्रामसूकरैः।
कुक्कुटप्रेतभूसङ्गशावसूतकषातकैः ॥ १०८ ॥

शाक्यनिर्घन्द निर्माल्यं भोजकैरन्य लिङ्गिभिः।
अन्यैश्च निन्दितैस्स्पृष्टो यदि स्नानं समाचरेत् ॥ १०९ ॥

भागद्वयेप्युपगते नाभितोयोर्ध्व सङ्गते।
प्रक्षालनादयः स्नानाद्विशुद्धिः स्यात्करादृते ॥ ११० ॥

छर्दितेऽभ्युदिते सूर्ये श्मशृ कर्मणि मैथुने।
दुःस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते ॥ १११ ॥

आजानुपादौ प्रक्षाल्य हस्तावामणिबन्धनात्।
कुक्कुटासनसंस्थस्तु जानुमध्यग पाणियुक् ॥ ११२ ॥

संयक् बद्धशिखो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः।
हस्तं गोकर्ण्वत्कृत्वा माषमग्नजलं पिबेत् ॥ ११३ ॥

अप्राणियुगफेनं च बुद्बुदादि विवर्जनात्।
ब्रह्मतीर्थेन मूलेन त्रिः पीथ्वा द्विः प्रमार्जयेत् ॥ ११४ ॥

ओष्ठाङ्गुष्ठमूलेनानामिकाङ्गुष्ठ योगतः।
चक्षुर्नासाशृती बाहू वक्षौ नाभि शिरः स्पृशेत् ॥ ११५ ॥

समन्त्राचमनं पश्चादात्मविद्या शिवाणुभिः।
स्वधान्तैस्सलिलं पीत्वा हेतिनोष्ठौ प्रमार्जयेत् ॥ ११६ ॥

हृन्मन्त्रेणाक्षि संस्पृशन् कुर्यात् सव्यापसव्यतः।
अथवान्य प्रकारेण कुर्यादाचमनं बुधः ॥ ११७ ॥

माषमग्न जलं ग्राह्यं निर्दोषं त्रिः पिबेत्पुनः।
आस्यं द्विः प्रमृजेदस्त्रात् सकृन्मृज्य मुखं शनैः ॥ ११८ ॥

पदावभ्युक्ष्य मूर्धानं अङ्गुष्ठानामिकेन तु।
सव्यात्तु चक्षुशी स्पृष्ट्वा तर्जन्याङ्गुष्ठकेन तु ॥ ११९ ॥

नासाद्वारावुभौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठ योगतः।
श्रोत्रे स्पृष्ट्वा जलोपेताङ्गुष्ठेन तु बाहुकौ ॥ १२० ॥

नाभिं अङ्गुष्ठकेनैव सर्वाङ्गुल्यग्र सन्धितः।
हृत्प्रदेशे तु संस्पृश्य सर्वाङ्गुल्या स्वमूर्धनि ॥ १२१ ॥

ऋग्यजुस्साम वेदानां त्रिः पानात्तृप्तिरिष्यते।
ओष्ठद्विमार्जनात्तत्र तथाथर्वेतिहासयोः ॥ १२२ ॥

आस्यसम्मार्जनात्तत्र गणेशस्य प्रियं भवेत्।
हृच्छिरोभ्युक्षणेनैव ऋषीणां तु प्रियं भवेत् ॥ १२३ ॥

चाक्षुषोः स्पर्श्नेनैव प्रियं स्यात्सोमसूर्ययोः।
नासिका स्पर्शनेनैन अश्विन्योस्तु प्रियं भवेत् ॥ १२४ ॥

श्रोत्र संस्पर्सनेनैव दिशां प्रीतिस्तथा भवेत्।
इन्द्रविष्ण्वनलानां च बाह्वोर्नाभेर्हृदस्तथा ॥ १२५ ॥

क्षुते च कफजाते च सद्य आचमनं नयेत्।
स्पर्शयित्वा ततः श्रोत्रं अङ्गुष्ठेनास्यकं मृजेत् ॥ १२६ ॥

तीर्थं कनिष्ठिका मूले प्राजापत्यं प्रतिष्ठितम्।
कराग्रे दैविकं तीर्थं तन्मूले ब्राह्ममुत्तमम् ॥ १२७ ॥

पैतृकं देशिनी मूले पर्वसन्धिषु चार्षकम्।
वामपाणितले सौम्यं आग्नेयं दक्षिणे तले ॥ १२८ ॥

सकलीकृतदेहस्तु ततस्सन्ध्यां उपासयेत्।
ब्राह्मीं ब्रह्मगुणोपेतां ब्रह्मकाले विचिन्तयेत् ॥ १२९ ॥

मध्याह्ने वैष्णवीं ध्यायेदशेषाच्युत लक्षणाम्।
साये रौद्रीं तु संध्यायेद् रुद्रलक्षण लक्षिताम् ॥ १३० ॥

नियामकां तिमूर्तीनां साक्षिणीं सर्वकर्मणाम्।
या शक्तिः परमेशस्य सा सन्ध्येति निगत्यते ॥ १३१ ॥

तद्दीप्तिमध्यगो भूत्वा प्रातः कर्मणी साधयेत्।
मेलामन्त्रक्रमेणैव शम्भुशक्तिं पुनर्यजेत् ॥ १३२ ॥

ततस्तद्वन्दनं कार्यं महास्त्र जप पूर्वकम्।
अभ्युक्षणात्परं कर्म कर्तव्यं तदनन्तरम् ॥ १३३ ॥

वामहस्ते जलं स्थाप्य स्रवच्छिरसि योजयेत्।
मूलाङ्गब्रह्मभिर्मन्त्रैर्दक्षहस्तेन नित्यशः ॥ १३४ ॥

भूयोपि दक्षहस्तस्थं शेषवारिरविद्युतिः।
आहृत्य पूरकेणैव दक्षनासापुटेन तु ॥ १३५ ॥

दक्षनासा समीपस्थं दक्षहस्तं तु सोदकम्।
तस्मात्तोयाच्च निर्दग्धं पापं देहेऽसितप्रभम् ॥ १३६ ॥

रेचकाद्दक्ष नासान्तन्निर्गच्छत्परिचिन्तयेत्।
तद्देहे दक्षहस्तस्थ जलक्षेपात् शिवास्त्रतः ॥ १३७ ॥

कृत्वैवं मार्जनाद्यं तु ततस्तर्पणं आरभेत्।
देवादीनां यथायोज्य द्रव्यैर्वारि विसर्जनम् ॥ १३८ ॥

हस्ताभ्यां तर्पणं प्रोक्तं त्रयाणां तर्पणं स्मृतम्।
मन्त्राश्च देवता वाणी दिशास्तत्पतयस्तथा ॥ १३९ ॥

मुनयोऽथ मनुष्याश्च सिद्धाश्चैव ग्रहास्तथा।
भूतानि पितरश्चान्ये ज्ञातयो गुरवस्तथा ॥ १४० ॥

तर्पणीया यथान्यायं साधकैस्सिद्धिकांक्षिभिः।
स्वाहया मन्त्रदेवानां सरस्वत्यास्तथैव च ॥ १४१ ॥

दिक्पतीनां मुनीनं तु नमोऽन्तं मनुजे वषट्।
सिद्धानां ग्रहसंघानां नमोऽन्तं परिकल्पयेत् ॥ १४२ ॥

भूतानां वौषडन्तं स्यात् पित्रादीनां स्वधान्तकम्।
सर्वं हृदयपूर्वं स्यात् कुसुमं देवतर्पणम् ॥ १४३ ॥

कुशो मुनीनां विहितः पित्रादीनां तिलं स्मृतम्।
शेषाणां अक्षतैः कुर्याद्यथायोग्योपवीतधृक् ॥ १४४ ॥

असव्यं सव्यकं सव्यं उपवीतं त्रयेण तु।
मन्त्रास्तु मूलब्रह्माङ्गहेतयो मुनिसत्तमाः ॥ १४५ ॥

शिवेशविष्णुरुद्राब्जभुवो देवाः प्रकीर्तिताः।
वाग्वादिनी भवेद्वाणी दिशाश्चेन्द्रादयस्स्मृताः ॥ १४६ ॥

इन्द्रादयस्तत्पतयो ब्रह्मानन्तावसानकाः।
अत्रिश्च विश्वामित्रश्च पुलस्त्यः पुलहः क्रतुः ॥ १४७ ॥

वसिष्ठश्च मरीचिश्च मुनयः परिकीर्तिताः।
ततो मनुष्यास्सनकस्सनन्दन सनातनौ ॥ १४८ ॥

सनत्कुमारः कपिलो भृगुः पञ्चशिखस्तथा।
शिवो रुद्रो भवानी च ब्रह्मविष्ण्वग्नि वायवः ॥ १४९ ॥

धर्मः सूर्यश्चन्द्रमाश्च सिद्धाश्चैते प्रकीर्तिताः।
आदित्य सोमावङ्गार बुधौ चैव बृहस्पतिः ॥ १५० ॥

शुक्रश्शनैश्चरो राहुः केतुश्चेति ग्रहास्स्मृताः।
भूतान्यसंख्य संख्यानि भूतेभ्य इति योजयेत् ॥ १५१ ॥

सोमश्च पितृमांश्चैव अङ्गिरा अर्यमा तथा।
अग्निश्च कव्यवाहाद्याः पितरः परिकीर्तिताः ॥ १५२ ॥

पितृपत्न्यादिकं सर्वं क्रमाद्बुध्वा समाचरेत्।
आचम्य दद्यात्सूर्यार्घ्यं त्र्यक्षरेण तु मन्त्रतः ॥ १५३ ॥

तद्विधिस्सूर्य पूजायां विस्तरेण विधास्यते।
ध्यात्वा सूर्यं यथान्यायं उपस्थानं षडङ्गतः ॥ १५४ ॥

मेलामन्त्रं ततो जप्त्वा शिवशक्ति विभागतः।
प्रातः स्थित्वा सायाह्ने तु समासिनो मुनीश्वराः ॥ १५५ ॥

आसीनो वा स्थितो वापि मध्याह्ने विधिमाचरेत्।
उपस्थानं ततो जप्त्वा व्योमव्यापिनमेव च ॥ १५६ ॥

उदुत्यं चित्रमन्त्रञ्च हंसश्शुचिषदो जपेत्।
प्रदक्षिणं ततः कृत्वा कुर्याद्दण्ड नमस्कृतिम् ॥ १५७ ॥

सन्ध्यां नित्यं उपासीत लोपे चोपवसेद्दिनम्।
अरोगी रोगयुक्तश्चेत् सद्योजातं शतं जपेत् ॥ १५८ ॥

क्षालितं स्नानवस्त्राद्यं दण्डे संवेष्ट्य यत्नतः।
गणेशरुद्र वागीशान् पूजयेत् हृदयेन तु ॥ १५९ ॥

विघ्नान्विरोच्य मार्गस्थान् अस्त्र रक्षित विग्रहः।
व्रजेद्देवकुलं वापि गृहमात्मीयं उत्तमम् ॥ १६० ॥

ततश्शुद्धिक्रमात् क्ष्मादीन्यधस्तत्त्वानि कल्पयेत्।
विद्यातत्त्वात्मकं गेहं सिद्धिमुक्ति फलप्रदम् ॥ १६१ ॥

तन्त्रमन्त्रान् समाधाय नागदन्तादिके शुभे।
प्रक्षाल्य पदो हस्तौ च तथाऽऽचम्य यथाविधि ॥ १६२ ॥

मन्त्रसन्नद्ध देहस्तु सामान्यार्घ्य करश्शुचिः।
त्यजञ्च्छेषाध्वनो भागं प्रासादं प्रविशेद् बुधः ॥ १६३ ॥

सर्वमन्त्रकलाधारं सर्वशक्ति प्रवर्तकम्।
एवं संक्षेपतः प्रोक्तं स्नानाद्यं मुनिसत्तमाः ॥ १६४ ॥

अनुक्तं अन्यतन्त्रेभ्यस्समाहृत्याचरेद् बुधः ॥ १६५ ॥

Pūrvapāda – Kapitel 4: Die Ordnung der Verehrung

अथार्चना विधिं वक्ष्ये भुक्तिमुक्ति फलप्रदम्।
परार्थं स्वार्थमित्येव द्विविधं तत्प्रकीर्तितम् ॥ १ ॥

दीक्षान्ते गुरुणा दत्ते लिङ्गे वा स्थण्डिलादिके।
यजनं स्वार्थमाख्यातं स्वस्येष्ट फलदं यतः ॥ २ ॥

ग्रामखेट पुरादौ वा नद्यां पर्वत एव वा।
अष्टषष्टिमहाक्षेत्रेष्वन्यत्र च मनोरमे ॥ ३ ॥

स्वयंभुदैव बाणार्ष लिङ्गयुक्ते शिवालये।
मनुजैः स्थापिते लिङ्गे परार्थ यजनं स्मृतम् ॥ ४ ॥

नृपतेरायुरारोग्य जय संपद्विवृद्धये।
ग्रामादीनां विवृद्ध्यर्थं परार्थेज्या प्रयुक्तताम् ॥ ५ ॥

परार्थ यजनं कार्यं शिवविप्रैस्तु नित्यशः।
धार्मिकः कुरुते नित्यं आदिशैवो द्विजोत्तमः ॥ ६ ॥

अन्ये तु स्वार्थकादन्यं कुर्युश्चेत् कर्तृनाशनम्।
शिवसृष्टिं विना ये तु जायन्ते ब्रह्मणो मुखात् ॥ ७ ॥

ते सामान्या न तेषां तु परार्थेज्याधिकारिता।
यदि मोहेन कुर्वीरन् राज्ञो राष्ट्रस्य नाशनम् ॥ ८ ॥

भृत्यर्थं ये शिवं विप्रास्सामान्यस्त्वर्चयन्ति चेत्।
षण्मासात्पतनं यान्ति तस्मात्तान् परिवर्जयेत् ॥ ९ ॥

शिवदीक्षाभिषिक्तस्य शिवविप्रस्य धीमतः।
शिवाज्ञा वशस्तस्य परार्थेज्या न दोषभाक् ॥ १० ॥

अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः।
शिवलिङ्गार्चनस्यैते कोट्यंशेनापि नो समाः ॥ ११ ॥

जातेनात्मदृहा येन नार्चितो भगवान् शिवः।
सुचिरं सञ्चरत्यस्मिन् संसारे दुःखसागरे ॥ १२ ॥

वरं प्राण परित्यागश्छेदनं शिरसोऽपि वा।
न त्वनभ्यर्च्य भुञ्जीयाद् भगवन्तं त्रिलोचनम् ॥ १३ ॥

इति ज्ञात्वा प्रयत्नेन पूजनीयस्सदाशिवः।
आजानु पादौ प्रक्षाल्य हस्तावामणिबन्धनात् ॥ १४ ॥

कार्यं त्रिविध विघ्नानां प्रासादादपसारणम्।
दिव्या नभोगताश्चैव भूगतास्त्रिविधाः स्मृताः ॥ १५ ॥

तत्त्व दृष्ट्या तु दिव्यांश्च पुष्पक्षेपान् नभोगतान्।
पार्ष्णिघातत्रयाद्भौमान् प्रासादादपसारयेत् ॥ १६ ॥

श्रेष्टं पश्चान्मुखं लिङ्गं अभावात् प्राङ्मुखं स्मृतम्।
याम्य कौबेर वक्त्रं तु न सिद्धाविष्यते बुधैः ॥ १७ ॥

अथवा शान्तिकर्मादौ सौम्याभिमुखमिष्यते।
एकद्वार विमानेऽयं नियमो निष्कलस्य तु ॥ १८ ॥

चतुर्द्वारे च मेर्वादौ लिङ्गे च चतुरानने।
चतुर्द्वारं प्रकर्तव्यं तत्रायं नियमो न हि ॥ १९ ॥

यस्यां दिशि भवेद्द्वारं तां प्राचीं परिकल्पयेत्।
लिङ्गस्याभिमुखं यत्तु द्वारं तत्पूर्वमिष्यते ॥ २० ॥

तत्र तत्पुरुषं वक्त्रं ऊर्ध्वञ्चाभिमुखं भवेत्।
बलिपीठं वृषं शूलं तद्वक्त्राभिमुखं भवेत् ॥ २१ ॥

गणपं भारतीमूर्ध्वे सव्ये गङ्गाञ्च नन्दिनम्।
यमुनाञ्च महाकालं वामशाखागतौ यजेत् ॥ २२ ॥

नन्दिकालौ तथा भृङ्गि विघ्नेशौ वृष षण्मुखौ।
देवी चण्डौ द्विपार्श्वस्थो द्वाराणां चतुरानने ॥ २३ ॥

एते पूज्या नमोन्तैश्च हृदयाद्यैर्यथाक्रमम्।
रूपसंस्थान भावैस्तु गन्ध पुष्पादिभिः क्रमात् ॥ २४ ॥

सामान्यर्घ्यं ततो दत्वा सव्य शाखां समाश्रितः।
प्रविशेद्दक्ष पादेन प्रासादाभ्यन्तरं गुरुः ॥ २५ ॥

निवारणार्थं विघ्नानां न्यस्य खड्गं उदुम्बरे।
संपूज्यात्मभुवं वास्तोष्पते ब्रह्मण इत्यपि ॥ २६ ॥

लिङ्गं प्रदक्षिणीकृत्य भक्त्या स्तुत्वा महेश्वरम्।
गन्धपुष्पादिकं सर्वं आनीतं परिचारकैः ॥ २७ ॥

संवीक्ष्य द्रव्य संघातं स्थापयेत् कलशान्सुधीः।
वीक्षितांस्तत्त्वदृष्ट्या चाभ्युक्षितान् अस्त्रमन्त्रतः ॥ २८ ॥

ताडितान् प्रोक्षितांश्चैव गृहीत्वा निस्सरेद्बहिः।
कलशान् सुशिरोनाहान् सुस्थिरान् छिद्रवर्जितान् ॥ २९ ॥

भवन्तं पूजयामीति प्रार्थयेत यथा तथा।
शिवतीर्थमनुप्राप्य षडङ्गेनाभिमन्त्रयेत् ॥ ३० ॥

कलशांस्तोयवस्त्रांश्च क्षालयित्वास्त्र मन्त्रतः।
पूरयेद् रुद्रगायत्र्या हृदा तोयैः पटसृतैः ॥ ३१ ॥

सम्पूर्ण कलशान् पश्चात्तद्वस्त्रेण प्रमार्जितान्।
द्वौ द्वौ योक्तृ नियुक्तांस्तान् एकैकेन तु पाणिना ॥ ३२ ॥

गृहीत्वा प्रापयेत् गर्भगृहाग्रे वाऽथ मण्डपे।
न स्पृशेदूरु पार्श्वस्थ द्वारशाखादिकं यथा ॥ ३३ ॥

च्योतते न जलं भूमौ तथा कुर्याद्विचक्षणः।
प्रलिप्तभूमावास्तीर्य कुशपुष्पादिकं हृदा ॥ ३४ ॥

स्थापयेत्कलशान् तत्र वर्धन्या वसुसंख्यया।
क्ष्मालोकपद पञ्चाशत्पञ्चपञ्च घटांस्तु वा ॥ ३५ ॥

विकार संख्यया वाऽथ तेषां द्विगुण संख्यया।
स्नपनोक्त्याऽथ संस्थाप्य कुर्यान्नित्याभिषेचनम् ॥ ३६ ॥

आत्मशुद्धिक्रिया पूर्वा स्थानशुद्धिर्द्वितीयका।
तृतीया द्रव्यशुस्द्धिस्स्याच्चतुर्थं मन्त्रशोधनम् ॥ ३७ ॥

पञ्चमो लिङ्गशुद्धिश्च कथ्यन्ते पञ्चशुद्धयः।
मार्जिते चोपलिप्ते च धामन्यन्यत्र वा बुधः ॥ ३८ ॥

कुशकॢप्ताशने बृस्यां अथ कृष्णमृगाजिने।
यथेष्टं आसनं बध्वा ऋजुकायोत्तराननः ॥ ३९ ॥

चन्दनालिप्त हस्तौ तौ शोधयेदस्त्रमन्त्रतः।
परस्परौ च संस्पृश्य तलकौ हस्तपृष्ठकौ ॥ ४० ॥

अमृतीकृत्य मूलेन वौषडन्तेन मन्त्रतः।
विद्याशरीरतां ध्यात्वा तयोश्शक्त्यन्तं उत्तमम् ॥ ४१ ॥

मूलेन शिवमावाह्य ब्रह्मण्यङ्गानि विन्यसेत्।
गृहस्थः सृष्टिमार्गेण करन्यासं तु कारयेत् ॥ ४२ ॥

वानप्रस्थ यतीनां च संहारन्यासं उच्यते।
अङ्गुष्ठादि कनिष्ठान्तं ईशात्सद्यावसानकम् ॥ ४३ ॥

सृष्टिन्यासमाख्यातस्सद्यादीशावसानकम्।
कनिष्ठाद्यङ्गुष्ठान्तं च संहारन्यासं उच्यते ॥ ४४ ॥

जगतः सृष्टिसंहारक्रम एवात्र च क्रमः।
नेत्रं हस्ततले न्यस्य पश्चाद्यङ्गानि विन्यसेत् ॥ ४५ ॥

अङ्गुष्ठादि कनिष्ठान्तं कनिष्ठाद्यङ्गुष्ठकावधि।
तर्जन्याङ्गुष्ठके न्यासस् सर्वास्वङ्गुष्ठतो भवेत् ॥ ४६ ॥

तर्जन्यन्तं न्यसेद्धीमान् तर्जन्या मस्तकं न्यसेत्।
यद्वास्त्रवर्मचूडाक हृदोऽङ्गुष्ठादितो न्यसेत् ॥ ४७ ॥

सृष्टौ प्रतीपको न्यासस्संहारो मोक्षकांक्षिणाम्।
मूर्धादिस्सृष्टिरित्युक्ता पादादिस्संहृतिर्भवेत् ॥ ४८ ॥

विद्येश्वराणां बीजानि चाङ्गुष्ठादि पुनर्न्यसेत्।
अमृतीकृत्य भावेन कवचेनावकुण्ठयेत् ॥ ४९ ॥

एवं शिवीकृतौ हस्तौ समर्थौ सर्वकर्मसु।
सकलीकरणे सन्ध्याकाले चाचमने तथा ॥ ५० ॥

करन्यासो विधातव्यस्तद्विशेष विधावपि।
संहारमुद्रया देहव्याप्तं चित्तं निरुध्य च ॥ ५१ ॥

हृत्पद्मगह्वराधारे शिवे वा व्योम्नि निर्मले।
हृत्कण्ठतालुभ्रूशंख रोधिन्यो ब्रह्मरन्ध्रकम् ॥ ५२ ॥

कुटिला व्यापिनी तन्वी समना उन्मना तथा।
तासामुपरि या शक्तिस्तस्यां वा योजयेन्नरः ॥ ५३ ॥

कृत्वाभिध्यानमादौ तु दहेद्देहं अनन्तरम्।
योजनं देशिकैः कार्यं रक्षार्थं भोग्यकर्मणाम् ॥ ५४ ॥

ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते क्षणात्।
मुक्तौ कर्मणि देवाज्ञावशतो नास्ति तल्लयः ॥ ५५ ॥

तिरोभावकरी शक्तिश्शिवस्य परमेष्ठिनः।
संसिद्धा जगतस्सृष्टि लयभोगादि हेतुका ॥ ५६ ॥

यथा मलसमोपेतं कनकं वह्नि शोधितम्।
प्रध्वस्ताशेष दोषोऽयं निर्मलश्चावशिष्यते ॥ ५७ ॥

धारणाभिस्तथा ध्वस्त पापौघो निर्मलः पुमान्।
अधिकारवशाद् भूयो देहित्वम् प्रतिपद्यते ॥ ५८ ॥

दीक्षितो यः पुमान् साक्षाज् जीवन्मुक्तस्स उच्यते।
कृत्वैवं योजनं पश्चात् ततस्तत्त्वानि भावयेत् ॥ ५९ ॥

त्रितत्त्वं पञ्चतत्त्वं वा नवतत्त्वं अथापि वा।
पञ्चविंशति षट्त्रिंशत् एकं वाऽध्यात्मिकं तु वा ॥ ६० ॥

दीक्षायामुदितं यत्तु तद्वदत्रापि कारयेत्।
पञ्चतत्त्वक्रमाद्वक्ष्ये शोधनं देहशुद्धये ॥ ६१ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी।
एताः कलास्ताभिरेव व्याप्तं सर्वमिदं जगत् ॥ ६२ ॥

मन्त्राः पदानि वर्णैश्च व्याप्तानीह समन्ततः।
वर्णास्तु भुवनैर्व्याप्तास्तत्त्वैर्व्याप्तानि तानि तु ॥ ६३ ॥

कलभिस्तानि तत्त्वानि व्याप्तानीह कलाः क्रमात्।
शोधनीया विभाव्यैवं पञ्चपञ्चाध्वगर्भिताः ॥ ६४ ॥

वर्णचिह्नाकृतिगुणैः मन्त्र मन्त्रेशपूर्वकैः।
यद्ध्यानं प्रतिपर्वं तु प्राणायाम समन्वितम् ॥ ६५ ॥

तदत्र धारणा प्रोक्ता विषनिर्हरणादिवत्।
पार्थिवं चतुरश्रं तु हेमाभं वज्रलाञ्चितम् ॥ ६६ ॥

लबीजं ब्रह्म दैवत्यं अजात हृदयात्मकम्।
निवृत्याख्य कलोपेतं ह्लामित्युद्घात पञ्चकम् ॥ ६७ ॥

आप्यं इन्दुसिताब्जाङ्कं विष्णुदैवं वबीजकम्।
वामशीर्ष समायुक्तम् प्रतिष्ठाकलयान्वितम् ॥ ६८ ॥

युक्तं चतुर्भिरुद्घातैर्ह्वीमित्युच्चार पूर्वकम्।
अग्नित्र्यश्रं सप्तशिखं रक्ताभं रुद्र दैवतम् ॥ ६९ ॥

रार्णाघोर शिखायुक्तं विद्याख्य कलयान्वितम्।
युक्तं तत्त्रिभिरुद्घातैह्रूमित्युच्चर संयुतम् ॥ ७० ॥

वायव्यं रसकोणं तु बिन्दुषट्कमथाऽसितम्।
ईशाधिपत्यं यार्णं तत्पुरुष कवचैर्युतम् ॥ ७१ ॥

शान्त्या युक्तं द्विरुद्घातैर्ह्यैमित्युच्चार पूर्वकम्।
आकाशं वर्तुलं त्यक्त लाञ्चनं धूम्रवर्णकम् ॥ ७२ ॥

सदेशाधिष्ठितं हार्णं ईशास्त्रातीत संयुतम्।
एकोद्घातेन हौमुक्त्वा यथास्थानं प्रयोजयेत् ॥ ७३ ॥

पार्थिवं हृदयस्थानं आप्यं कण्ठगतं भवेत्।
वाह्नेयं तालुमूले तु भ्रूमध्ये वायुसंभवम् ॥ ७४ ॥

ब्रह्मग्रन्थियुतं व्योमस्थानं यद्वान्यथा मतम्।
आजानु पृथ्वी ज्ञेया नाभेराप्यं निगद्यते ॥ ७५ ॥

अनलं कण्ठदेशात्तु वायुरामुख मण्डलात्।
तदूर्ध्वं गगनस्थानं धारणार्थं प्रकीर्तितम् ॥ ७६ ॥

प्राणायामं समासेन कथयामि विशेषतः।
रेचकं पूरकं चैव कुम्भकं च त्रिधाऽभ्यसेत् ॥ ७७ ॥

अकारोकारमकारास्त्वक्षराः परिकीर्तिताः।
ब्रह्मविष्णु हरास्तेषां अधिदेवाः प्रकीर्तिताः ॥ ७८ ॥

आत्म विद्या शिवाख्यानि तत्त्वानि स्युर्यथाक्रमम्।
मात्रा द्वादशभिर्हीनो द्विगुणैर्मध्यमो मतः ॥ ७९ ॥

त्रिगुणैरुत्तमः कालः प्रत्येकं रेचकादिषु।
रेचयेद्देहगं वायुं अशुद्धं व्योमसंस्थितम् ॥ ८० ॥

शुद्धं वायुं पूरकेण समाहृत्य शनैश्शनैः।
संपूर्णकुम्भवत्तिष्ठेद् रेचयेत्तदनन्तरम् ॥ ८१ ॥

घण्टिकां तालुना बध्वा फट्कारोच्चारयोगतः।
पाशुपतेन शस्त्रेण रेचयेद्बन्धमोचनात् ॥ ८२ ॥

ततो ग्रन्थिविभेदोपि भावनीयस्तदा तदा।
स्थानात्स्थानान्तर प्राप्तिर्जीवस्यास्य तदुत्क्रमात् ॥ ८३ ॥

सूक्ष्मप्राणायामं कृत्वा देहञ्चक्रवदाचरेत्।
शिवेन सहितं चान्तं चोद्घातग्रन्थि भेदतः ॥ ८४ ॥

ऊर्ध्वमूलं अधश्शाखं कल्प्य संसारपादपम्।
पूरकार्धेन पार्थिव्या हेयोपादेयवित्सुधीः ॥ ८५ ॥

आप्यायितं तद्वारुण्या पूरकापरभागतः।
पत्रपुष्पफलोपेतं स्निग्धं वैराग्यशस्त्रतः ॥ ८६ ॥

छेदयित्वा तदाग्नेय्या कुम्भकेन विशोष्य च।
ज्ञानानलेन निर्दग्धं पादाङ्गुष्ठादिकान्तकम् ॥ ८७ ॥

रेचकेनाथ वायव्या भस्मीभूतं दिशो दश।
प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् ॥ ८८ ॥

महामायाञ्च विक्षोभ्य शाक्तं देहं प्रकल्पयेत्।
आप्लाव्य चामृतेनैव विद्याङ्गं विन्यसेत्ततः ॥ ८९ ॥

इच्छाज्ञानक्रियाशक्ति लोचनं मातृकात्मकम्।
आवाह्य तत्र चात्मानं मुद्रया पुष्पमन्त्रयुक् ॥ ९० ॥

ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत्।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ९१ ॥

सद्योजातं न्यसेत्पादे तत्तन्मुद्रा समन्वितम्।
मूर्धादि पादपर्यन्तं मालाब्रह्माणि विन्यसेत् ॥ ९२ ॥

ऊर्द्वेन्द्र याम्य सौम्याप्य वक्त्रेष्वीशादितो न्यसेत्।
बीजब्रह्माणि वा विद्वान् अष्टत्त्रिंशत्कलां न्यसेत् ॥ ९३ ॥

ईशानस्सर्व विद्यानां नमोन्तं चोर्ध्व मूर्धनि।
ईश्वरस्सर्व भूतानां नमोन्तं पूर्व मूर्धनि ॥ ९४ ॥

ब्रह्मणोधिपतिर्ब्रह्म नमोन्तं याम्य मूर्धनि।
शिवो मेऽस्तु नमोन्तं च तथा कौबेर मूर्धनि ॥ ९५ ॥

सदाशिवोम् नमोन्तञ्च विन्यसेदाप्य मूर्धनि।
ईशानस्य कलाः पञ्च प्रणवादि प्रकल्पयेत् ॥ ९६ ॥

शशिनी चाङ्गदा इष्टा मरीचिर्ज्वालिनी तथा।
नामैशान कलानां स्यात्तन्नाम्ना केवलं तु वा ॥ ९७ ॥

प्रणवेनोर्ध्ववक्त्रे तु कलामादौ तु विन्यसेत्।
तत्पुरुषाय विद्महे नत्यन्तं पूर्ववक्त्रके ॥ ९८ ॥

महादेवाय धीमहि नत्यन्तं दक्षिणानने।
तन्नो रुद्र नमोन्तं च कल्पयेदुत्तरानने ॥ ९९ ॥

प्रचोदयान् नमोन्तं च कल्प्यं पश्चिम वक्त्रके।
कलाश्चतस्रो वक्त्रे स्युर्मूर्धिन्यव्यक्त कलाह् भवेत् ॥ १०० ॥

शान्ति विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलः।
अघोरेभ्योपि नत्यन्तं तमां हृदय गोचरे ॥ १०१ ॥

नत्यन्तं अथ घोरेभ्यो मोहां कण्ठे तु विन्यसेत्।
रक्षां घोरनमोन्तं च दक्षिणांसे तु विन्यसेत् ॥ १०२ ॥

निष्ठां घोरतरेभ्यश्च नमो वामांसके न्यसेत्।
मृत्युं च सर्वतमस्सर्व नमो नाभो तु विन्यसेत् ॥ १०३ ॥

शर्वेभ्यो नम इत्युक्त्वा मायां च जठरे न्यसेत्।
नमस्ते रुद्र नत्यन्तं अभयां पृष्ठके न्यसेत् ॥ १०४ ॥

जरामुरसि रूपेभ्यो नमः प्रणव पूर्वकम्।
बहुरूप कलाश्चाष्टौ विद्यादेहे प्रकल्पयेत् ॥ १०५ ॥

वामदेवाय नत्यन्तं रजां गुह्ये तु विन्यसेत्।
रक्षां ज्येष्ठाय नत्यन्तं लिङ्गे प्रण्वकं न्यसेत् ॥ १०६ ॥

रतिं रुद्राय नत्यन्तं दक्षिणोरुगतं न्यसेत्।
पाल्यां कालाय नत्यन्तं वामोरुगतमावहेत् ॥ १०७ ॥

कामां कल नमोन्ताञ्च दक्षजानुनि विन्यसेत्।
विकरणाय नमोन्तं च संयमीं वाम जानुनि ॥ १०८ ॥

क्रियां बल नमोन्तं च जङ्घायां दक्षिणे न्यसेत्।
बुद्धिं विकरणायेति नमोन्तं वाम जङ्घिके ॥ १०९ ॥

कार्यां बल नमोन्तं च दक्षिण स्फिचि विन्यसेत्।
धात्रीं प्रमथनायेति नमोन्तं वामतस्स्फिचि ॥ ११० ॥

नमोन्तं ब्राह्मणीं कट्यां न्यसेदोङ्कार पूर्वकम्।
सर्वभूतदमनाय पदमेकं प्रकल्पयेत् ॥ १११ ॥

नत्यन्तं मन इत्येवं मोहिनीं दक्ष पार्श्वके।
उन्मनायेति नत्यन्तं भवां पार्श्वे तु वामके ॥ ११२ ॥

त्रयोदश कलाश्चैवं वामदेवस्य कीर्तिताः।
सद्योजातं प्रपद्यामि सिद्धि दक्षिण पादके ॥ ११३ ॥

सद्योजाताय वै नमो ऋद्धिं वामाङ्घ्रिके न्यसेत्।
द्युतिं भवे नमोन्तं च न्यसेद्दक्षिण बाहुके ॥ ११४ ॥

अभवे नम इत्युक्त्वा लक्ष्मीं वामकरे न्यसेत्।
न्यसेन्नातिभवे मेघां नत्यन्तं नासिकाग्रतः ॥ ११५ ॥

भवस्वमां नमोन्तं च कान्ति शिरसि विन्यसेत्।
स्वधां भव नमोन्तं च न्यसेद्दक्षिण बाहुके ॥ ११६ ॥

उद्भवाय नमोन्तं च धृतिं बाहौ तु वामके।
सद्योजात कलाश्चाष्टौ न्यसेत्सर्वास्समुद्रया ॥ ११७ ॥

अष्टत्रिंशत्कलान्यासात् विद्यादेहं विधाय च।
मूलमन्त्रं समावाह्य पश्चादङ्गानि विन्यसेत् ॥ ११८ ॥

हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत्।
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ॥ ११९ ॥

हस्तयोर्हेति विन्यस्य लिपिन्यासं अथाचरेत्।
दीपकं वाग्भवं बिन्दुं श्रीकण्ठाय पदं ततः ॥ १२० ॥

पूर्णोदर्यै नमश्चेति न्यसेत्केशान्त देशकम्।
न्यसेत् ओं आं अनन्ताय विरजायै नतिः पुनः ॥ १२१ ॥

न्यसेल्ललाटे दीपाद्यं इं सूक्ष्माय पदं ततः।
शाल्मल्यै नम इत्येवं न्यसेद्दक्षिण चक्षुषि ॥ १२२ ॥

ओं ईं त्रिमूर्तये चेति लोलाक्ष्यै नम इत्यपि।
न्यसेद्वामाक्षि मध्ये तु ओमुङ्कारमनन्तरम् ॥ १२३ ॥

ततोऽमरेश्वरायेति वर्तुलाक्ष्यै नमः पुनः।
दक्षश्रोत्रे न्यसेदेतद् ओमूङ्कारं अनन्तरम् ॥ १२४ ॥

अर्घीशाय ततो दीर्घघोणायै नम इत्यपि।
वामकर्णे न्यसेदेतद् ओं ऋङ्कारं तु विन्यसेत् ॥ १२५ ॥

यद्भारभूतये चेति दीर्घमुख्यै नमः पुनः।
दक्षनासा पुटे न्यसेत् ओं ॠङ्कारं अनन्तरम् ॥ १२६ ॥

पदं यन्निधनेशाय गोमुख्यै नम इत्यपि।
वामनासा पुटे न्यस्येत् ओं ऌङ्कारं अनन्तरम् ॥ १२७ ॥

स्थाणवे दीर्घजिह्वायै नमो गण्डे तु दक्षिणे।
ओं ॡङ्कार पदं पुर्वं हरायेति पदं पुनः ॥ १२८ ॥

कुण्डोदर्यै नमश्चेति वाम गण्डे तु विन्यसेत्।
ओं एङ्कारपदं पूर्वं चण्डीशाय पदं पुनः ॥ १२९ ॥

ऊर्ध्वकेश्यै नमश्चेति विन्यसेदुत्तरोष्ठके।
ओं ऐङ्कारमथोद्धृत्य भौतिकाय पदं पुनः ॥ १३० ॥

पदं विकृतिमुख्यै स्यात् नत्यन्तं अधरोष्ठके।
ओं ओंकारमतोद्धृत्य सद्योजाताय यत्पदम् ॥ १३१ ॥

ज्वालामुख्यै नमश्चेति विन्यसेदूर्ध्व दन्तके।
ओं औं अनुग्रहेशाय उल्कामुख्यै नमः पुनः ॥ १३२ ॥

न्यसेदधोगते दन्तपङ्क्तिके साधकोत्तमः।
ओं अंकारं समुद्धृत्य क्रूराय च पदं पुनः ॥ १३३ ॥

श्रीमुख्यै नम इत्येतन्मूर्ध्नि विन्यस्य भावयेत्।
ओं अःकारं समुद्धृत्य महासेनाय यत्पदं ॥ १३४ ॥

विद्यायै नम इत्येवं आस्ये न्यस्येत्स्वरास्त्विमे।
ओं कंकारं समुद्धृत्य क्रोधीशाय पदं पुनः ॥ १३५ ॥

महाकाल्यै नमश्चेति न्यसेद्दक्षिण बाहुके।
ओं खंकारं समुद्धृत्य चण्डेशाय पदं पुनः ॥ १३६ ॥

सरस्वत्यै नमश्चेति न्यसेद्दक्षिण कूर्परे।
ओं गंकारं समुद्धृत्य पदं पञ्चान्तकाय च ॥ १३७ ॥

यत्सर्वसिद्धिगौर्यै स्यान्नमस्कारं अनन्तरम्।
दक्षिणे मणिबन्धे स्याद् ओं घंकारं अनन्तरम् ॥ १३८ ॥

पदं शिवोत्तमायेति समुद्धृत्य यथाविधि।
नतिस्त्रैलोक्यवन्द्यायै दक्षपाणितले न्यसेत् ॥ १३९ ॥

ओं ङंकारं समुद्धृत्य चैकरुद्राय यत्पदम्।
मन्त्रशक्त्यै नमश्चेति न्यसेद्दक्ष कराग्रतः ॥ १४० ॥

ओं चंकारं समुद्धृत्य कूर्मायेति पदं पुनः।
आत्मशक्त्यै नमश्चेति वामबाहौ तु विन्यसेत् ॥ १४१ ॥

ओं छंकारं समुद्धृत्य एकनेत्राय यत्पदम्।
भूतमात्रे नमश्चेति विन्यसेद्वाम कूर्परे ॥ १४२ ॥

ओं जं चतुर्मुखायेति लम्बोदर्यै नमोन्तकम्।
वामे तु मणिबन्धे स्याद् ओं झंकारं अनन्तरम् ॥ १४३ ॥

अजेशाय पदं पश्चाद् द्राविण्यै नम इत्यपि।
वामपाणितले न्यस्येद् ओं ञंकारं अनन्तरम् ॥ १४४ ॥

चन्द्राय च नगर्यै स्यान्नतिर्वामकराग्रतः।
ओं टंकारं समुद्धृत्य सोमेशाय पदं पुनः ॥ १४५ ॥

खेचर्यै नम इत्येतन्न्यसेद् दक्षोरु मूलके।
ओं ठंकारं समुद्धृत्य पदं लाङ्गलिने नमः ॥ १४६ ॥

मञ्जर्यै नम इत्येदद्विन्यसेद् दक्ष जानुनि।
ओं डंकारं समुद्धृत्य दारुकाय पदं पुनः ॥ १४७ ॥

रूपिण्यै नम इत्येवं दक्ष जङ्घाग्रके न्यसेत्।
ओं ढंकार पदं यत्तद् अर्धनारीश्वराय च ॥ १४८ ॥

वीरायै च नमश्चेति दक्षपादतले न्यसेत्।
ओं णंकारं समुद्धृत्य उमाकान्ताय यत्पदम् ॥ १४९ ॥

खादिर्यै नम इत्येवं दक्षपाद तलाग्रके।
ओं तंकारं समुद्धृत्य षडीशायेति यत्पदम् ॥ १५० ॥

पूतनायै नमश्चेति न्यसेद्वामोरु मूलके।
ओं थंकारं समुद्धृत्य डिण्डिने यत्पदं पुनः ॥ १५१ ॥

भद्रकाल्यै नमश्चेति विन्यसेद्वाम जानुनि।
ओं दंकारं समुद्धृत्य अत्रये यत्पदं पुनः ॥ १५२ ॥

गोमत्यै नम इत्येतद्वाम जङ्घाग्रके न्यसेत्।
ओं धंकारं समुद्धृत्य चेशानाय पदं पुनः ॥ १५३ ॥

शङ्खिन्यै नम इत्येतद् वामपादतले न्यसेत्।
ओं नंकारं समुद्धृत्य मेषाय पदं उद्धरेत् ॥ १५४ ॥

गर्जिन्यै नम इत्येतद् वामपाद तलाग्रके।
ओं पं लोहितायेति कालरात्र्यै नमः पदम् ॥ १५५ ॥

दक्षपार्श्वे न्यसेदों फं शिखिन्यै नम इत्यपि।
कुब्जिन्यै नम इत्येवं वामपार्श्वे तु विन्यसेत् ॥ १५६ ॥

ओं बंकारं समुद्धृत्य छगलण्डाय यत्पदम्।
कामिन्यै नम इत्येवं पृष्ठभागे तु विन्यसेत् ॥ १५७ ॥

ओं भंकारं समुद्धृत्य द्विरण्डायेति यत्पदम्।
वज्रायै नम इत्येवं नाभिदेशे तु विन्यसेत् ॥ १५८ ॥

ओं मं महाकालायेति जयायै नम इत्यपि।
हृद्देशे विन्यसेदों यं पदं यत्तत्त्वगात्मने ॥ १५९ ॥

पालिने सुमुखेश्वर्यै नमश्चेति त्वचि न्यसेत्।
ओं रं रक्तात्मने चेति भुजङ्गायेति यत्पदम् ॥ १६० ॥

रेवत्यै नम इत्येतत् पदं रुधिर गोचरे।
ओं लं वसात्मने चेति पदं यत्तत् पिनाकिने ॥ १६१ ॥

माधव्यै नम इत्येतत् पदं मांसगतं न्यसेत्।
ओं वं मेदोमयायेति खड्गीशाय पदं पुनः ॥ १६२ ॥

वारुण्यै नम इत्येतत्पदं मेदसि विन्यसेत्।
ओं शं अस्थ्यात्मने चेति बेकायेति समुद्धरेत् ॥ १६३ ॥

वायव्यै नम इत्येतत् पदं अस्थिनि विन्यसेत्।
ओं षं मज्जात्मने चेति श्वेताय पदं उद्धरेत् ॥ १६४ ॥

पदं रक्षोपधारिण्यै नमो मज्जगतं न्यसेत्।
ओं सं शुक्लात्मने चेति भृगवे पदमुद्धरेत् ॥ १६५ ॥

सहजायै नम्श्चेति पदं रेतसि विन्यसेत्।
ओं हं प्राणात्मने चेति लकुलीशाय यत्पदम् ॥ १६६ ॥

पदं लक्ष्यै नमश्चेति मन्त्रमेतद् हृदि न्यसेत्।
ओं लं लिङ्गात्मने चेति तमोरूपाय यत्पदम् ॥ १६७ ॥

व्यापिन्यै नम इत्येतल् लिङ्गमूले तु विन्यसेत्।
ओं क्षं क्रोधात्मने चेति वर्तकायेति यत्पदम् ॥ १६८ ॥

मायायै नम इत्येतत् पदं लिङ्गाग्रके न्यसेत्।
हृदादि स्थानगैर्वर्णैः मातृकाङ्गानि कल्पयेत् ॥ १६९ ॥

दीपलेखां हसौ पूर्वं भान्तकेशान्तिमं तथा।
कुचं चक्षुर्द्वयं कूटं हृदाद्यैर्जातिभिर्युतम्॥
षडङ्गमेतत्कथितं मातृकायास्तपोधनाः ॥ १७० ॥

आद्यं मध्यनियोज्यमाद्यमथवा मद्ये गतं योजयेत्
लोपं कीलमिति स्मृतं विचरतो यत् स्वस्य रूपं लिखेत्।
मन्त्रस्योच्चरणेऽखिलस्य च लिपौ संयोगतो युक्तितः
कीलं मन्त्रसुसिद्धये जपतु तत् संयोज्य संलोप्य च ॥ १७१ ॥

एतत्कीलप्रयोगेण ज्ञात्वा सर्वं समाचरेत्।
हृच्छिरश्चूलिका वर्म नेत्रास्त्राणि यथाक्रमम् ॥ १७२ ॥

नमस्स्वाहा वषट् हुं च वौषट् फट् चेति जातयः।
एवं कृत्वा लिपिन्यसं तत्त्वानां नवकं न्यसेत् ॥ १७३ ॥

चन्द्रबिम्बे च नादे च भ्रूमध्ये तालुरन्ध्रके।
कण्ठहृन्नाभि देशेषु शाश्वतस्थान एव च ॥ १७४ ॥

मूलस्थाने यथा न्यासं न्यसेत्कण्ठोक्त मन्त्रकम्।
त्र्यक्षरं मेलनायुक्तं नाभौ हृदि ललाटके ॥ १७५ ॥

व्योमव्यापि न्यसेत्पश्चात् मूर्धाङ्गुष्ठान्त सीमकम्।
एवं मन्त्रत्वं आपन्नो दिव्यदेहे यथाक्रमात् ॥ १७६ ॥

पूजाहोम समाधीनां स्थानानि परिकल्पयेत्।
हृदयेऽर्चा विधानं तु नाभौ होमं प्रकल्पयेत् ॥ १७७ ॥

ललाटे चेश्वरं ध्यायेद्वरदं सर्वतोमुखम्।
हृदये कल्पयेद्धाम ईश्वारावाहनक्रमे ॥ १७८ ॥

आसनं कल्पयेदत्र वक्ष्यमाण विधानतः।
आवाह्यदेवं गन्धाद्यैः मानसैश्शिवं अर्चयेत् ॥ १७९ ॥

नाभिकुण्डे स्वभावोत्थे तर्पयेत्परमामृतैः।
उद्दीप्य च निजं वह्निं संरुद्धापान वृत्तितः ॥ १८० ॥

स्थाणुस्थाने स्मरेल्लिङ्गं स्फटिकाभं महोज्ज्वलम्।
तन्मध्यगं शिवं ध्यत्वा तदेकीभावं आश्रितः ॥ १८१ ॥

इडया पूर्य पूजास्याद्धुनेत् पिङ्गलयाऽमृतम्।
आधारे प्राणं आवेश्य बध्वा ग्रन्थि समूलकम् ॥ १८२ ॥

देवनाड्या समापूर्य कोदण्डे ध्यानं अभ्यसेत्।
यद्वा विस्तरतः कुर्यान् मानसं यागमादरात् ॥ १८३ ॥

शिवाद्यवनि पर्यन्तं तत्त्वप्राणार्थकं स्वकम्।
देवं विचिन्त्य तत्रस्थं त्रिपक्षं उपकल्पयेत् ॥ १८४ ॥

आसनं मूर्तिपक्षं च शम्भुपक्षं तथैव च।
त्रिपक्षक्षयगं ध्यायेत् तत्त्वग्रामं चतुर्विधम् ॥ १८५ ॥

अस्मिन्देहे प्रवितते कल्प्य शक्त्याब्जमासनम्।
मूर्तिविद्यातनुं कल्प्य समावाह्य शिवं ततः ॥ १८६ ॥

कर्णिकायां यजेद्देवं ब्रह्माङ्गैश्च समावृतम्।
गणेशैः लोकपालैश्च हेतिभिर्वज्रपूर्वकैः ॥ १८७ ॥

त्रिभिरावरणैर्वापि एकेनावरणेन वा।
सप्तविंशत्यावरणैः यथाशक्ति समर्चयेत् ॥ १८८ ॥

मनसा कल्पितैर्द्रव्यैः मनःकॢप्ते तु मन्दिरे।
मनसा भावयन्नित्यं पूजयेत्परमेश्वरम् ॥ १८९ ॥

ध्यायन् गरुडतां यद्वद् गुरुर्निर्विषताफलम्।
प्राप्नोति तद्वदत्रापि फलमिष्टं अवाप्नुयात् ॥ १९० ॥

प्राणवृत्तिनिरोधेन यजनं कुरुते यथा।
प्राधर्मिकानां सर्वेषां प्रत्यावृत्ति विरेचयेत् ॥ १९१ ॥

शक्तिभिः पञ्चब्रह्माणि शिवाङ्गं मूर्तिमेव च।
महेशं सदाशिवं चैव शिवं इष्ट्वा तु रेचयेत् ॥ १९२ ॥

विद्येश्वरावृतो चैव गण्शावरणे तथा।
लोकपालास्त्रयोश्चैव रुद्रादीनां अथावृतौ ॥ १९३ ॥

रेचयित्वा तु भूयोऽपि यजेदावरणं प्रति।
चन्द्रार्कोदयतः पुजा वृथा क्लेशो भविष्यति ॥ १९४ ॥

चन्द्रार्क नाशने पूजा साधयेदीप्सितं फलम्।
सुषुम्ना मध्यगे प्राणे पूजयेत् सर्वदेवताः ॥ १९५ ॥

यद्वा षड्गुणदेहाय शक्तिदेहोऽथ साधकः।
पार्थिवाद्यष्ट पूजाख्य तत्त्वजातं समर्पयेत् ॥ १९६ ॥

पार्थिवं सकलं गन्धो भवत्यापोऽभिषेचनम्।
ता एव पान नैवेद्यं तैजसं दीपमालिका ॥ १९७ ॥

वायव्यं तालवृन्दाद्यं गानाद्यं व्योम सम्भवम्।
एवञ्चेतर तत्त्वानि यथा योग्यं निवेद्य च ॥ १९८ ॥

शिवेनैवोक्तवद् ध्यात्वा निर्द्वन्द्वोऽमृतं अश्नुते।
कृत्वैवं आत्मशुद्धिं तु स्थानशुद्धिं अथाचरेत् ॥ १९९ ॥

तालमुद्रा त्रयं कृत्वा प्राकारं हेतिना स्मरेत्।
तद्बहिः परिघां ध्यात्वा कवचेनैव मन्त्रतः ॥ २०० ॥

अस्त्रजालं तु तद्बाह्ये न्यसेद्विघ्नापनुत्तये।
दिव्यं धाम विचिन्त्याऽथ द्रव्यशुद्धिं प्रकल्पयेत् ॥ २०१ ॥

ततस्संपूर्य गन्धाम्बु वर्धन्यां अस्त्रमन्त्रतः।
प्रोक्षयेत्तेन तोयेन शुद्ध्यर्थं हेतिमन्त्रतः ॥ २०२ ॥

अर्घ्यपात्रं च शङ्खं च पाद्याचमन पात्रकम्।
यदन्यदुपयोग्यं तु हेतिना क्षालयेत्ततः ॥ २०३ ॥

हृदयेन निरीक्ष्याऽथ कवचेनावकुण्ठयेत्।
सौवर्णं राजतं ताम्रं केलिहारं च शङ्खजम् ॥ २०४ ॥

पलाश पद्म पत्रोत्थं दारवं मृत्तिकामयम्।
अन्यद्वा यन्त्रकादिस्थं पात्रमुक्तं शिवार्चने ॥ २०५ ॥

ततस्संपूर्य गन्धाम्बु वर्धन्यां अस्त्रमन्त्रतः।
गन्धपुष्पादिकं सर्वं आनीयं परिचारकैः ॥ २०६ ॥

पुण्याहं वाचयित्वाऽथ प्रोक्षयेद्धृदयेन तु।
प्रक्षाल्य पाद्यपात्रं तु गन्धतोयेन पूरयेत् ॥ २०७ ॥

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत्।
तद्वदाचमनीयार्थं तत्पात्रं परिकल्पयेत् ॥ २०८ ॥

पलत्रयं च कर्पूरं तृटीपत्रं च कुष्ठकम्।
आचमीये प्रयोक्तव्यं हृदयेन तु मन्त्रतः ॥ २०९ ॥

अर्घ्यपात्रे न्यसेत्पश्चादपरं गन्धतोयकम्।
आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्तिलाः ॥ २१० ॥

अर्घ्योऽष्टाङ्ग इति प्रोक्तो यवैसिद्धार्थकैस्सह।
कल्पयित्वा विशेषार्घ्यं तत्र मन्त्रगणान् न्यसेत् ॥ २११ ॥

सुधया परमीकृत्य वर्मणाच्छाद्य पुजयेत्।
तत्तोयैः कवचेनैव सकुशं प्रोक्षयेत्तथा ॥ २१२ ॥

गन्धं पुष्पं च धूपं च दीपमर्घ्यं निवेद्यकम्।
दधिक्षीर घृदादींश्च प्रोक्षयेद् हृदयेन तु ॥ २१३ ॥

पूजार्थं कल्पितं द्रव्यं प्रत्येकं अभिमन्त्रयेत् ॥ २१४ ॥

एलोशीरपलत्रयेण सहिताः कर्पूर सत्कुङ्कुमैः
श्रीखण्डागरुपत्रकैश्च कुसुमैः आमोदिभिस्संयुताः।
आपो मज्जनकर्मणि प्रणिहिताः शंभोर्यथा लाभतः
प्रोक्त द्रव्यगणेषु लब्धमिह यत्तद्ग्राह्यं आढ्येतरैः ॥ २१५ ॥

अर्घ्याम्भसो जललवं सपुष्पं हृदयेन तु।
स्नानकुम्भेषु सर्वेषु निक्षिपेत्तद्विशुद्धये ॥ २१६ ॥

हृदयेन पवित्रैर्वा यद्वाङ्गैस्तत्स्वभावकैः।
गन्धं वस्त्रं भूषणं च नैवेद्यं कुसुमं तथा ॥ २१७ ॥

सद्यवाम महाघोर नरेशैः अभिमन्त्रयेत्।
अवशिष्टं तु गायत्र्या मन्त्रयेद् द्रव्यशुद्धये ॥ २१८ ॥

पयोदधि घृतक्षौद्र शर्करा गन्धवारि च।
पवित्रैः हृदयाद्यैर्वा स्नानार्थं अभिमन्त्रयेत् ॥ २१९ ॥

विशुद्ध मन्त्रद्रव्याणि इष्ट्वा गन्धादिभिः क्रमात्।
मुद्रया चामृतीकृत्य भावयेदमृताख्यया ॥ २२० ॥

आत्मानं अर्चयेद् द्रव्यैः एवं भूतैः यथाक्रमम्।
तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ॥ २२१ ॥

संग्राह्य वाञ्चितं मौनं ततो मन्त्रान् विशोधयेत्।
मालाद्यैश्वर्य जालानि मन्त्राणां कीर्तितानि वै ॥ २२२ ॥

तेषां प्रबोधिनी शक्तिश्शिवाज्ञा ओं नमस्स्मृताः।
ओंकारादि नमोन्तांश्च पठेन्मन्त्रान् अशेषतः ॥ २२३ ॥

बद्ध पुष्पाञ्जलिर्भूत्वा शिवसद्भाव भावितः।
त्रिमात्रादि क्रमेणैव यावन्नादान्तिमं व्रजेत् ॥ २२४ ॥

मन्त्रशुद्धिर्भवेदेवं शुद्धतत्त्व समाश्रयात्।
योजयेत्पञ्चगव्यं तु तद्विधानं इहोच्यते ॥ २२५ ॥

मण्डपस्य शुभेभागे क्षेत्रे नवपदीवृते।
पञ्चतत्त्व कृतन्यासे पञ्चपात्राणि विन्यसेत् ॥ २२६ ॥

शिव सादाख्य विद्यायां काले पुंसि च देशिकः।
सुप्रतिष्ठं सुशान्तं च तेजोवदमृतात्मकम् ॥ २२७ ॥

रत्नोदकं च संकल्प्य क्षीरं दधिघृतं न्यसेत्।
गोमयश्चैव गोमूत्रं ईशानाद्यैस्तु मन्त्रितम् ॥ २२८ ॥

एकद्वित्रिचतुः पञ्चवारैः षोढा कुशोदकम्।
अमृतीकृत्य संपूज्य शिवेनैकत्वं आदिशेत् ॥ २२९ ॥

पयोदधिघृतक्षौद्र शर्करा गन्धवारि च।
पवित्रैः हृदयाद्यैर्वा स्नानार्थं अभिमन्त्रयेत् ॥ २३० ॥

नित्य नैमित्तिके वापि काम्ये वा कारयेत् प्रभोः।
सनपनं तु यथा न्यायं तच्चानेकविधं भवेत् ॥ २३१ ॥

अस्त्रेण शोधयेद् भूमिं वामदेवेन लेपयेत्।
सूत्रन्यासं अघोरेण तालमात्रान्तरं यथा ॥ २३२ ॥

त्रितालं कर्णीकामानं सर्वसामान्यं ईरितम्।
चतुर्दलं यथा पञ्च कलशस्थापनं दिशि ॥ २३३ ॥

विदिक्ष्वपि नवाख्यं स्यात् समन्तात् एकमावृतम्।
पञ्चविंशति संख्याकं तत्समन्तात् समावृतम् ॥ २३४ ॥

एकोनपञ्चाशत् ख्यातं अष्टोत्तरशतं द्विजाः।
पञ्चविंशति संख्याकान् कलशान् मध्यमस्थितान् ॥ २३५ ॥

परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गतः।
अष्टद्वार समायुक्तं बहिरावरणद्वयम् ॥ २३६ ॥

मध्यमे तिथि संख्यास्स्युर्नवकोणे व्यवस्थिताः।
मध्यमे तिथि संख्येतन् मध्यम त्रितयं त्यजेत् ॥ २३७ ॥

अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम्।
सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्यकम् ॥ २३८ ॥

सार्ध हस्तान्तरं हस्त मानान्तरं अथापि वा।
स्याच्चतुर्दश संख्याता वृतिर्बाह्ये भ्रमेण च ॥ २३९ ॥

अन्तर्मार्गं समावाह्य विधिश्शास्त्रे समीरिता।
मध्यव्यूहस्य परितः चतुष्कुण्डं तु वाष्टकम् ॥ २४० ॥

चत्वारिंशद् व्यूहकस्य पृथक्स्यात् पञ्चविंशतिः।
अष्टोत्तर सहस्रात्तु त्यजेद्बाह्यावृतिं गुरुः ॥ २४१ ॥

तत्राग्नेयादि कोणस्थ चतुर्व्यूहं समाचरेत्।
अन्यत्सर्वं समानं स्याद् अष्टपञ्चशतं भवेत् ॥ २४२ ॥

अष्टसंख्या समायुक्ते द्विशते मध्यमेष्टकम्।
बाह्ये षोडश संख्यातान् गृह्णीयाद्दिग्विदिग्गतम् ॥ २४३ ॥

अष्टव्यूहं तथा त्वेतत् उक्तसंख्यान्वितं भवेत्।
स्थण्डिलं पुरुषेणस्याच्चतुःप्रस्थमितं परम् ॥ २४४ ॥

आरभ्य द्विगुणं चैकवृद्ध्या दशगुणावधि।
मानं च शिवकुम्भे स्यात् तदर्धं करके मतम् ॥ २४५ ॥

चतुस्त्रिद्व्येक संख्याताः प्रस्थमानं प्रपूरिते।
कलशे वेष्टनं द्वित्रिव्योमसूत्रैः क्रमेण तु ॥ २४६ ॥

वराळ तृटिकर्पूर न्यग्रोधोशीर जातयः।
एभिर्युक्तं शिवाम्बस्स्यात् शिवमन्त्राभिमन्त्रितम् ॥ २४७ ॥

तेनैव पूरयेत् कुम्भं वर्धनी कलशानपि।
षट् त्रिंशत्तत्त्व पर्यन्तान् कुशान् त्र्यादीन् अथ न्यसेत् ॥ २४८ ॥

कूर्चान्यैशेन मन्त्रेण द्रव्यमूलेन विन्यसेत्।
वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ॥ २४९ ॥

नव पञ्चात्मकं रत्नं शिवेशक्तौ च विन्यसेत्।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं चतुर्दिशि ॥ २५० ॥

कुशोदकं ततः क्षीरं दधिकोणे घृतं भवेत्।
द्वितीयस्थापनं प्रोक्तं तृतीयं च निगद्यते ॥ २५१ ॥

मधु लाजं सक्तु चूर्णं लाजचूर्णं हरिद्रका।
भूतीक्षुसार कदली तिल सर्षप पानसाः ॥ २५२ ॥

नारिकेलञ्च नारङ्गद्वयं स्यान्मातुलङ्गकम्।
पञ्चविंशति मध्ये तु संत्यजेदन्तरावृतम् ॥ २५३ ॥

एवं कृते भवेदत्र कलशानां तु षोडश।
चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकं ईरितम् ॥ २५४ ॥

अन्तराले तु मध्यादि वसुसंख्याकं ईरितम्।
प्रागुक्त त्रितयञ्चैतद् विशेषान्नित्यकर्मणी ॥ २५५ ॥

पञ्चविंशति संख्यातं अपिनित्ये प्रशंसितम्।
उत्तमोत्तम पूजायां अष्टोत्तरशतावधि ॥ २५६ ॥

नैमित्तिकं तदूर्ध्वस्थ पूर्वोक्तमपि शंसितम्।
द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ॥ २५७ ॥

पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा।
दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ॥ २५८ ॥

आसनं संप्रकल्प्यास्मिन् कुम्भे मूर्तिमनुस्मरेत्।
ब्रह्माभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ॥ २५९ ॥

न्यस्त विद्यातनुं तत्तद्रूपं ध्यात्वा शिवं न्यसेत्।
स्थापनादि च पाद्यादि कृत्वा दत्वा हृदा गुरुः ॥ २६० ॥

गन्धं पुष्पं च धूपं च दीपं अर्घ्यं विधाय च।
प्रदर्श्य लिङ्गमुद्रां तु कवचेनावकुण्ठयेत् ॥ २६१ ॥

इष्ट्वा गौरीं च वर्धन्यां योनिमुद्रां प्रदर्श्य च।
पञ्चकॢप्तौ तु ब्रह्माणि हित्वेशानं द्विजोत्तमाः ॥ २६२ ॥

विद्येशा नवकॢप्तौ स्युर्बाह्ये मूर्तीश्वरा दिशि।
अन्तरे वामदेवाद्याः पञ्चविंशति संख्यके ॥ २६३ ॥

अष्टौ गणेश्वरा बाह्ये चाङ्गुष्ठ प्रमुखास्तथा।
क्रोधाद्या वसुसंख्याता शतरुद्रादिकास्तु वा ॥ २६४ ॥

एकोनेन तु पञ्चाशत्स्नपने देवता मताः।
मध्ये विद्येश्वराः पूज्याः शतरुद्रा बहिर्मताः ॥ २६५ ॥

अष्टोत्तरशताख्ये च स्नपने देवता मताः।
विद्येशा मध्यमे देवास्वन्यत्र शिव एव हि ॥ २६६ ॥

स च नाम्नां सहस्रैस्तु पठ्यते तद्विशेषतः।
अष्टोत्तरसहस्राख्य स्नपने देवता मताः ॥ २६७ ॥

कूटाक्षरादि संयुक्तं चतुर्थ्यन्त समन्वितम्।
स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ॥ २६८ ॥

पठित्वा पूजयेदीशं शिवनामाथ केवलम्।
लिङ्गशुद्धि क्रमात्प्राप्ता यथावदभिधीयते ॥ २६९ ॥

लिङ्गं त्रिविधं आख्यातं व्यक्ताव्यक्तोभयात्मकम्।
स्वयम्भू देवबाणार्ष पौरुषाद्यं अनेकधा ॥ २७० ॥

स्थिरलिङ्गं चरं वापि त्रिविधं मण्डलं तथा।
पटं वा भित्तिचित्रं वा पीठं वा मन्त्रसंस्कृतम् ॥ २७१ ॥

वह्न्यम्बु गुरुवृक्षाद्यं विद्यापीठं अथापि वा।
विशेषतस्स्वयं सिद्धं पाषाणं रत्नं एव वा ॥ २७२ ॥

अन्यद्वा लिङ्गकल्पोक्तं सैकताद्यं विशेषतः।
एतत्सर्वं शिवेज्यार्थं यथायोग्यं प्रकल्पयेत् ॥ २७३ ॥

सामान्यर्घ्यं च संग्राह्य द्वाराग्रे वृषभं यजेत्।
लोहजं संयजेद्द्वारे परिवारे तु शैलजम् ॥ २७४ ॥

सप्तवर्गाच्चतुर्थं तु सप्तस्वर विभूषितम्।
बिन्दुनाद समायुक्तं आदौ प्रणवपूर्वकम् ॥ २७५ ॥

वृषभाय नमश्चान्ते तस्मिन्ब्रह्माङ्ग कल्पना।
द्वारं अस्त्रेण संप्रोक्ष्य द्वारपानर्चयेत् क्रमात् ॥ २७६ ॥

गणपं भारतीं ऊर्ध्वे नन्दिनं जाह्नवीयुतम्।
महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् ॥ २७७ ॥

विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत्।
एते पूज्या नमोन्तैश्च हृदयाद्यैर्यथाक्रमम् ॥ २७८ ॥

रूपसंस्थानभावैस्तु गन्धपुष्पादिभिः क्रमात्।
कार्यं त्रिविध विघ्नानां न्यस्य खड्गं उदुम्बरे ॥ २७९ ॥

द्वारपूजावसाने तु स्नानान्ते च निवेद्यके।
सन्ध्यावसाने निक्षेप्यं प्रच्छन्नपटमुत्तमम् ॥ २८० ॥

संपूज्यात्मभुवं वास्तोष्पते ब्रह्मण इत्यपि।
लिङ्गमध्यगतां पूजां पूर्वकाले प्रकल्पिताम् ॥ २८१ ॥

गायत्र्या पूजयित्वा तु सामान्यर्घ्यं तु दापयेत्।
उच्चार्य पञ्चब्रह्माणि पूजां लिङ्गाद्विसृज्य च ॥ २८२ ॥

हृन्मन्त्रेणेशदिग्भागे पीठकादौ यथा विधि।
चण्डेशायेति निक्षिप्य पिण्डिकां अस्त्रयोगतः ॥ २८३ ॥

विशोध्य दक्षहस्तेन शिवलिङ्गं तु शोधयेत्।
अस्त्राम्बुनैव संशोध्य शिवलिङ्गं सवेदिकम् ॥ २८४ ॥

सामान्यार्घ्य जलैः पश्चाद् अभिषेचनं आचरेत्।
आवाहनासनं पद्मं अनन्तं स्नानकर्मणि ॥ २८५ ॥

विमलं चार्चने विद्यान् नैवेद्ये योगं आसनम्।
वस्त्रादीन्यन्यकर्माणि सिंहासने प्रकल्पयेत् ॥ २८६ ॥

इत्यात्मस्थान द्रव्याणि लिङ्गशुद्धौ कृते सति।
अर्चनं शैविकं कार्यं अन्यथा न विधीयते ॥ २८७ ॥

गणेशं पीठवायव्यां गन्धपुष्पादिभिर्यजेत्।
ऐशान्यां गुरुपङ्क्तीश्च पूजयेद् हृदयेन तु ॥ २८८ ॥

आसनासनि सद्भावं ज्ञात्वा यजनं आरभेत्।
आसनं द्विविधं प्रोक्तं देहजीव विभेदतः ॥ २८९ ॥

शुद्धविद्यान्ततोऽनन्ताद्यासनं परिकीर्तितम्।
महामायावसानं तु दिव्यदेहं विचिन्तयेत् ॥ २९० ॥

जीवोऽस्मिन् शिव एव स्यादेवं त्रिविध कल्पनात्।
यल्लघु व्यापकं तद्धि व्याप्तं हि तदधिष्ठितम् ॥ २९१ ॥

तृणवद्वायुना दृश्यं धार्यते जायते यया।
साऽधारशक्तिर्न्यस्तव्या पूर्वं कूर्मशिलासने ॥ २९२ ॥

चन्द्रांशु निर्मला सौम्या चतुर्वक्त्रा चतुर्भुजा।
दुग्धाब्धि सदृशाकारा कल्पिता हृदयार्णगा ॥ २९३ ॥

अनन्तं नीलसंकाशं अनेकफणमण्डितम्।
हृदयेऽञ्जलि संयुक्तं एकवक्त्रं चतुर्भुजम् ॥ २९४ ॥

क्षीराब्धितस्समुत्पन्न सरोरुह समाकृतिम्।
तत्राधारे हृदा मन्त्री विन्यसेदासनात्मकम् ॥ २९५ ॥

तद्वीर्यभूता धर्माद्याः चतुष्कोणस्थ पादुकाः।
सिंहाकार सितार्कांशु पीतकृष्ण निभाः शुभाः ॥ २९६ ॥

अन्योन्य वीक्षणैस्सिंहैरनेकैः परिवारिताः।
अदर्माज्ञानावैराग्यानैश्वर्याख्यानि तानि तु ॥ २९७ ॥

चित्रवर्ण स्वरूपाणि दिक्षु गात्राणि कल्पयेत्।
अधश्छदनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥ २९८ ॥

बन्धमोचन हेत्वादि शक्तिद्वयमयं द्वयम्।
नैऋत्यादीशदिग्भागे मेखलाधोर्ध्वसङ्गतम् ॥ २९९ ॥

पद्मं अष्टदलोपेतं सिद्ध्यष्टक समन्वितम्।
शक्तिकेसरसंभिन्नं कर्णिका शक्तिसंयुतम् ॥ ३०० ॥

बिल्वपत्रैः हृदा कल्प्यं लिङ्गमूले विशेषतः।
वामा ज्येष्ठा च रौद्री च कली चैव ततः परम् ॥ ३०१ ॥

कलविकरणी देवी बलविकरणी तथा।
बलप्रमथिनी चैव सर्वभूतदमन्यपि ॥ ३०२ ॥

पूर्वादीशान पर्यन्तं केसरेषु दलेषु च।
मनोन्मनीं कर्णिकायां विन्यसेद्धृदयेन तु ॥ ३०३ ॥

वामाद्याश्शक्तयोः रक्ताः श्वेताभास्यान्मनोन्मनी।
मण्डलत्रयमर्केन्दु वह्न्याख्यं स्वस्वरूपतः ॥ ३०४ ॥

दलान्तं केसरान्तं च कर्णिकान्तं प्रकल्पयेत्।
ब्रह्मा विष्णुश्च रुद्रश्च मण्डलत्रय देवताः ॥ ३०५ ॥

ब्रह्माणं सचतुर्वक्त्रं चतुर्बाहु विभूषितम्।
कमण्डलुधरं रक्तं दण्डहस्तं प्रजापतिम् ॥ ३०६ ॥

अक्षमालाधरं दिव्यं पद्महस्तं सुलोचनम्।
ध्यात्वा पत्रेषु विन्यस्य सर्वकिल्बष नाशनम् ॥ ३०७ ॥

अतसी पुष्पसंकाशं शङ्खचक्र गदाधरम्।
पीताम्बरधरं दिव्यं वनमाला विभूषितम् ॥ ३०८ ॥

स्फुरन्मकुट माणिक्य किंकिणीजालमण्डितम्।
ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् ॥ ३०९ ॥

शङ्खकुन्देन्दु धवलं शूलहस्तं त्रिलोचनम्।
सिंहचर्म परीधानं शशाङ्खकृत शेखरम् ॥ ३१० ॥

नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा विशेषतः।
कर्णिकायां निवेश्यैनं महापातक नाशनम् ॥ ३११ ॥

तत्रैवात्मत्रयं न्यस्य गुणत्रयं अतःपरम्।
वह्नित्रयं च तत्रैव विन्यसेत् प्रविभागशः ॥ ३१२ ॥

एवं पृथ्व्यादि तत्त्वानां शुद्धविद्यावसानकम्।
व्याप्तं संचिन्त्य तन्मध्ये शक्तिं भूयोपि विन्यसेत् ॥ ३१३ ॥

एवें शक्त्यादि शक्त्यन्तं आसनं परमेष्ठिनः।
अनन्तः कर्तृरूपेण पीठात्मा त्वत्र तिष्ठति ॥ ३१४ ॥

एवं संक्षेपतो विप्राः पीठकॢप्तिरिहोच्यते।
धर्मो ज्ञानं च वैराग्यं त्वैश्वर्यं च चतुष्टयम् ॥ ३१५ ॥

अनन्तश्शक्तिरित्येवं षडङ्गान्यासनस्य च।
षडध्वमासनं शम्भोः पूजा स्याद्धृदयेन तु ॥ ३१६ ॥

अथवाऽन्य प्रकारेण कथ्यते पीठकल्पना।
सर्वाध्व निर्मितं पीठं चतुर्युग महाङ्घ्रिकम् ॥ ३१७ ॥

पृथ्वीकन्दं तथा कालान्तस्थ तत्त्वोर्ध्व नालकम्।
पञ्चाशद्भाव संभिन्न कण्टकैरुपशोभितम् ॥ ३१८ ॥

मायातत्त्वं बृहद्ग्रन्थि शुद्धविद्योरुपङ्कजम्।
विद्येश्वरदलं शक्ति केसरैरुपशोभितम् ॥ ३१९ ॥

शिवशक्ति द्वयारब्ध कर्णिका बीज राजितम्।
पीठं एवं विधं ध्यायेन् मातृकाक्षर सम्भवम् ॥ ३२० ॥

नपुंसकाक्षरैरेव धर्मादीन् परिकल्पयेत्।
अनन्तम् सृष्टिपूर्वेण तत्पूर्वेण महाम्बुजम् ॥ ३२१ ॥

कर्णिकान्तं स्वरान्तेन कल्पयेत् कल्पवित्तमः।
ओंकाराद्या अकारान्ताः त्यक्तषण्ड नवस्वराः ॥ ३२२ ॥

वामाज्येष्ठादि शक्तीनां क्रमादुत्क्रमतो नव।
केसराणां चतुर्विंशत् कादिभान्त गतानि च ॥ ३२३ ॥

मकारादि हकारान्तैर्नवबीजानि कल्पयेत्।
मण्डलत्रयं अत्रैव पूर्ववत् परिकल्पयेत् ॥ ३२४ ॥

मातृकासम्भवं पीठं एवमापाद्य पूजयेत्।
मण्डलत्रितयेप्युत्थां अनलस्तम्भ सन्निभाम् ॥ ३२५ ॥

मूर्तिं ईश्वर तत्त्वान्तां लिङ्गनाहे तु विन्यसेत्।
हृत्सम्पुटं अजातं वै मूर्तिमन्त्रमुदाहृतम् ॥ ३२६ ॥

तथैव मूल एवायं सादाख्यं मन्त्रमुच्यते।
विन्यसेन् मूर्ध्निमध्ये तु विद्यादेहं सदाशिवम् ॥ ३२७ ॥

आरोहे शिवलिङ्गस्य शुद्धस्थानमयं प्रभुम्।
अष्टत्रिंशत्कलोपेतं ब्रह्माङ्गकृत विग्रहम् ॥ ३२८ ॥

सदाशिवस्य रूपं तु ध्यानार्थं इह कथ्यते।
ध्यानं वै सर्वसिद्ध्यर्थं पटादौ वापि निर्मितम् ॥ ३२९ ॥

पञ्चास्यं दशदोर्दण्डं स्फटिखाभं त्रिलोचनम्।
शान्तं चन्द्रकलाचूडं सर्पसन्नद्ध सज्जटम् ॥ ३३० ॥

मन्त्रसिंहसनासीनं श्वेतपद्मोपरिस्थितम्।
कुण्डलैः कर्णिकैर्हारैः कटिसूत्रोदरबन्धनैः ॥ ३३१ ॥

केयूरैः कटकैश्चैव छन्नवीरैश्च संयुतम्।
षोडशाब्दयुतं कान्तं सुप्रसन्नं स्मिताननम् ॥ ३३२ ॥

शूलं परशु खड्गं च वज्रं वह्निम् च दक्षिणे।
अभयं पाशमन्यं च घण्टां नागाङ्कुशौ तथा ॥ ३३३ ॥

वामहस्तगतं ध्यायेद् अन्यथा च निगद्यते।
प्रासादाभय खड्वाङ्ग शक्तिशूलस्तु सव्यतः ॥ ३३४ ॥

वामे डमरु सर्पाक्षमालेन्दीवर पूरकैः।
इच्छ ज्ञाना क्रियाशक्तित्रयनेत्रयुतं स्मरेत् ॥ ३३५ ॥

चन्द्रः सर्वज्ञतारूपः दशहस्ताः दिशो दश।
त्रिशूलं त्रिगुणं प्रोक्तं सत्ता परशुरुच्यते ॥ ३३६ ॥

खड्गमीशप्रतापः स्याद्वज्रं दुर्भेद्यता भवेत्।
वह्निस्संहारिणी शक्तिः पाशानां भस्मसात्करी ॥ ३३७ ॥

प्रकाशिका पदार्थानां महामायोर्ध्व वर्तिनाम्।
नागोपधृष्टता शक्तिस्सर्वेषां च विधायिका ॥ ३३८ ॥

पाशं पाशत्रयं विद्यान्मायाकर्म मलात्मकम्।
घण्टा नादात्मकं रूपं मन्त्रविग्रहबोधकम् ॥ ३३९ ॥

अभयं सर्वलोकानां शक्तिर्वै परिपालिनी।
यद्भोग्येह्यात्मनः प्राप्तिस्त्वत्रैव नियमोऽङ्कुशम् ॥ ३४० ॥

एवं भूतस्वरूपाणि स्मर्यन्ते चायुधानि वै।
ईशस्स्फटिकवन्मध्ये पूर्वे कुङ्कुमवन्नरः ॥ ३४१ ॥

दक्षिणेऽञ्जनवद्घोरः सौम्ये वामः कुसुम्भवत्।
चन्द्रांशुनिर्मलं सद्यं वक्त्रं पश्चिम दिग्गतम् ॥ ३४२ ॥

सिंहनादमुखं पूर्वे ललाटे नयनं शुभम्।
भॄहीनं तुङ्गनासं च सुकपोलस्स्मिताधरम् ॥ ३४३ ॥

दक्षिणं भीषणाकारं दंष्ट्रादन्तुर कर्कशम्।
विवृतास्यं महाघ्राणं वृत्ताक्षं लेलिहानकम् ॥ ३४४ ॥

नागाभरण संयुक्तं कपालकृतशेखरम्।
ज्वालाकृति जटाव्यालभोगिबद्धोर्ध्व चूडकम् ॥ ३४५ ॥

पीतमाप्यं प्रसन्नं च सुनासं सुललाटकम्।
त्र्यक्षं मकुटयुक्तं च कुण्डलालङ्कृतं शुभम् ॥ ३४६ ॥

भृङ्गाकार कचाव्रातं काञ्चनाभणान्वितम्।
ललाट तिलकोपेतं दर्पणासक्त तेजसम् ॥ ३४७ ॥

अलकावतंस संयुक्तं सौम्यं कान्तवपुर्युतम्।
तत्रैशानं स्थितोत्तानो मूर्धस्थस्त्वतिभीषणः ॥ ३४८ ॥

कुण्डलालङ्कृतस्त्र्यक्षो मौलीन्दुतरुणः स्मृतः।
एवं वक्त्राणि संभाव्य रूपं सादाशिवं यजेत् ॥ ३४९ ॥

यथा देहे तथा देवे मन्त्रन्यासं प्रकल्पयेत्।
एवं शाक्तं वपुः कल्प्य तस्मिन् परमकारणम् ॥ ३५० ॥

शिवं वै शाश्वतं सत्यं ज्ञानान्दसुखात्मकम्।
व्यापकं सर्वतत्त्वानां अप्रमेयं अनूपमम् ॥ ३५१ ॥

वाच्यवाचक रहितं वाङ्मनोऽतीतगोचरम्।
व्यक्तं कुर्याद्विशेषेण निष्कलं सकलात्मनि ॥ ३५२ ॥

इत्यावाहन पूर्वैस्तु मूलमन्त्रैर्नियन्त्रणात्।
यथा काष्ठगतो वह्निर्व्यज्यते मथनादिभिः॥
तथा मन्त्रप्रभावेन भक्त्याऽभिव्यज्यते शिवः ॥ ३५३ ॥

कृत्वा हृद्गतमञ्जलिं सकुसुमं प्रासादमन्त्रं पठन्
भक्त्या निष्कलगोवरं समरसीभावं गतस्साधकः।
ध्ययेदुत्क्रमतस्स्वशक्तिभवने नादे तथा बिन्दुके
निष्क्रान्तं क्रमतः स्वशक्तिकिरणैः स्यादेवमावाहनम् ॥ ३५४ ॥

सर्वगस्य शिवस्येह कथं आवाहनं प्रभो।
यद्यावाहनं इष्टं स्यात् सर्वगत्वं विहन्यते ॥ ३५५ ॥

आमूलाग्रस्थितस्याग्नेः अभिव्यक्ति यथा तरौ।
तद्वदेकत्र चिद्व्यक्तिर्व्यापकस्य न बाध्यते ॥ ३५६ ॥

यथात्मनस्तनुद्वारा स्यातामिह गमागमौ।
तद्वन्मन्त्रतनुद्वारा शिवस्येष्टौ गमागमौ ॥ ३५७ ॥

अचिन्त्यशक्तियुक्तत्वाद् व्यापकोऽव्यापकश्च सः।
सतनुस्तनुहीनो वा सर्वकृत्सर्वगश्शिवः ॥ ३५८ ॥

एवं बिन्दुगतं त्वीशं हस्तपुष्पगतं स्मरेत्।
तच्च प्राणपथा कार्यं नाड्या ज्योतिस्स्वरूपया ॥ ३५९ ॥

तस्मादादाय लिङ्गस्थं स्थापिन्या विन्यसेत्तनौ।
येन सामर्थ्यतश्शम्भोस्स्वस्य स्वस्वामिता भवेत् ॥ ३६० ॥

तच्छक्ति प्रकटीभावः सन्निधानं स्वमुद्रया।
सन्निधेरपरित्यागे योऽर्चकालावसानकः ॥ ३६१ ॥

सन्निरोधो रोधिन्या विभोरपि विभाव्यते।
लोके सुखात्मकं वस्तु गोपनीयं यथा तथा ॥ ३६२ ॥

तस्यावकुण्ठनं कार्यं अवकुण्ठन मुद्रया।
यथानल तरण्याद्याः समर्थाः स्वस्वदीप्तिभिः ॥ ३६३ ॥

तद्वदङ्गैः स्वभावोत्थैः अधृष्योऽखिलकृच्छिवः।
अस्तित्वं हृदयं तस्य शिरश्चोर्ध्वं शिखास्थितिः ॥ ३६४ ॥

शिखा स्वतन्त्रता तस्य कवचं गोप्तृता भवेत्।
निरस्यति यया शक्त्या भावमस्त्रं तदस्य हि ॥ ३६५ ॥

नेत्रं सर्वज्ञताशक्तिः समस्तार्थ प्रकाशिका।
एवें षाड्गुण्यं अत्रोक्तं जगत्कर्तुः शिवस्य तु ॥ ३६६ ॥

एतानि हृदयादीनि षडङ्गानि स्वमन्त्रतः।
हृच्छिरस्चूलिका गात्र नेत्रहस्तेषु विन्यसेत् ॥ ३६७ ॥

अङ्गाङ्गिनोरभिन्नत्व प्रतिपत्तिर्विभिन्नयोः।
अमृतीकरणं प्रोक्तं प्रभोरमृतमुद्रया ॥ ३६८ ॥

प्ररोचनं भवेत्तस्य रुचिराङ्गप्रवर्धनम्।
तन्महामुद्रया कुर्यान् मोदन द्रावणार्थया ॥ ३६९ ॥

षडध्वविग्रहं देवं सम्मुखं शक्तिसंयुतम्।
परमानन्द सन्दोह धवलीकृत दिङ्मुखम् ॥ ३७० ॥

ध्यात्वा पाद्यं पदे दद्यान्मुखेष्वाचमनं ततः।
अर्घ्यं मूर्धसु दातव्यं दूर्वापुष्पाक्षतं तथा ॥ ३७१ ॥

नत्यन्तेन हृदा पाद्यं आचमनं स्यात् स्वधान्ततः।
स्वाहान्तेन हृदा चार्घ्यं दूर्वाद्यं वौषडन्ततः॥
कृत्वैवं दशसंस्कारान् उपचारैश्च पूजयेत् ॥ ३७२ ॥

पूजोपचारैर्विभवानुसारैः
स्नानादिभिः स्वल्पतरैर्महद्भिः।
विधीयते नित्यविधौ समस्तैः
स्रगादिभिः काम्य विधाववश्यम् ॥ ३७३ ॥

स्नानं वस्त्र विलेपनं च कुसुमं धूपोऽथ दीपो हवि
स्ताम्बूलं मुखवासगन्ध सहितं गीतं च नृत्तं महत्।
होमो भूतबलिप्रदान सहितो नित्योत्सवो वा बलिः
सङ्गीतं च समस्तमेतद् उदितं शम्भोर्विभूतौ सति ॥ ३७४ ॥

गन्धं पुष्पं च धूपं च दीपं नैवेद्यं एव च।
पञ्चोपचारा एते स्युर्दीपान्तं वाऽपि सम्मतम् ॥ ३७५ ॥

स्नानयोग्याः स्नापनीयाः चित्राद्यास्स्तद्विवर्जिताः।
कृपाण दर्पणादौ वा मणौ वा प्रतिबिम्बिते ॥ ३७६ ॥

दीपान्तं अर्चनं प्रोक्तं नैवेद्यान्तं तु पूजनम्।
बल्यन्तं शान्तिकं प्रोक्तं पूजा हि त्रिविधोच्यते ॥ ३७७ ॥

सायं प्रातस्तथाभ्यर्च्य मध्याह्ने तु निवेदनम्।
प्रस्थद्वयं तु तत्काले पाचयित्वा निवेदयेत् ॥ ३७८ ॥

एको दीपो द्विकालेऽपि रात्रौ दीपद्वयं त्विह।
एवं उक्तप्रकारेण अधमाधमं आचरेत् ॥ ३७९ ॥

प्रातःकाले च मध्याह्ने द्विःप्रस्थं तण्डुलं हविः।
सायं प्रातः समभ्यर्च्य दीपाश्चत्वार एव हि ॥ ३८० ॥

प्रस्थद्वयं त्रिकाले तु प्रत्येकं अथ निर्दिशेत्।
दीपश्चत्वार एव स्युस्साये तु द्विगुणास्ततः ॥ ३८१ ॥

अधमत्रितये धीमान् वाद्यध्वनि समन्वितम्।
मध्यमस्याधमश्चैव मध्याह्ने चाढकं हविः ॥ ३८२ ॥

प्रातः साये च द्विःप्रस्थं दीपैर्द्वादशभिर्युतम्।
त्रिकालं पुष्पलिङ्गेन बलिदानं नयेद् द्विजाः ॥ ३८३ ॥

मध्यमान्मध्यमं चैव त्रिकाले चाढकं हविः।
अर्धयामे तदर्धं च चतुर्विंशति दीपकम् ॥ ३८४ ॥

त्रिकालं बलिसंयुक्तं पुष्पेणार्घ्यं बलिक्रमात्।
वाद्यध्वनि समायुक्तं शङ्ख काहल संयुतम् ॥ ३८५ ॥

मध्याह्ने नित्यहोमं च शिवमन्त्रेण संयुतम्।
मध्यमस्योत्तमे चैव त्रिकालेष्वाढकद्वयम् ॥ ३८६ ॥

आढकश्चार्धयामे तु दीपस्सप्तति संयुअतम्।
त्रिकालं बलिदानं स्यात् त्रिकालं होमं आचरेत् ॥ ३८७ ॥

सर्ववाद्य समायुक्तं षट्काले च सुघोषयेत्।
षड्विधं यत्रकुर्वीत कालसंख्या न विद्यते ॥ ३८८ ॥

उत्तमस्याधमं यत्र द्रोणेनैव त्रिसन्धिषु।
द्रोणार्धं अर्धयामे तु दीपास्त्वष्टशतं भवेत् ॥ ३८९ ॥

त्रिकालं बलिदानं स्यात् त्रिकालं होमं आचरेत्।
वाद्यकानां चतुर्विंशत् सर्ववाद्य समन्वितम् ॥ ३९० ॥

गणिकास्तु चौतुस्त्रिंशत् चतुर्विंशति वा दश।
रूपयौवन संपन्नाअस्त्रिकालं नृत्तं आचरेत् ॥ ३९१ ॥

पञ्चाचार्य समायुक्तं कालं याम समन्वितम्।
उत्तमं मध्यमं यत्र त्रिकालेषु चतुर्हविः ॥ ३९२ ॥

पायसादीनि विधिना प्रत्येकं द्रोण तण्डुलैः।
द्रोणं शुद्धोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ॥ ३९३ ॥

द्रोणं तु चार्धयामे तु दीपश्चैव शतद्वयम्।
त्रिकालं बलिहोमं च शीतारि दीपं उच्यते ॥ ३९४ ॥

वाद्यकानां चतुश्त्रिंशत् पञ्चाशद्गणिकान्वितम्।
कालं यामद्वयं प्रोक्तं नृत्तं कुर्यात्त्रिसन्धिषु ॥ ३९५ ॥

उत्तमोत्तमं उद्दिश्य हविष्यक्रमं उच्यते।
पायसादीनि पक्वानि पञ्चद्रोणेन वै पृथक् ॥ ३९६ ॥

तदर्धमर्धरात्रे तु दीपाः पञ्चशतं उच्यते।
त्रिकालं बलिहोमं च पञ्चाशद्वाद्य संयुतम् ॥ ३९७ ॥

षोडशद्विशतैश्चैव गणिकाभिस्समन्वितम्।
नृत्तं कुर्यात् त्रिसन्ध्ययां कालो यामयुतो भवेत् ॥ ३९८ ॥

पञ्चवर्ण हवींष्यत्र पायसादीनि च क्रमात्।
द्रोण तण्दुलसिद्धानि तदर्धेन तदर्धतः ॥ ३९९ ॥

एषां एकद्वयं वापि त्रयं वा सर्वमेव वा।
हविर्दद्याद्विशेषेण एककालोऽथवा पुनः ॥ ४०० ॥

शुद्धान्नं द्विगुणं प्रोक्तं एतत्सामान्यं ईरितम्।
एवं नवविधं प्रोक्तं प्रत्येकं तु विधीयते ॥ ४०१ ॥

स्नानोद भाण्डं संपूज्य स्नानाम्बो गन्धवासितम्।
संहितामन्त्र संज्ञप्तं सपुष्पं धूपितं शुभम् ॥ ४०२ ॥

तैलेन हस्तयन्त्राद्यैस्साधितेन नवेन च।
पक्वेन वासितेनाथ शुद्धगव्येन सर्पिषा ॥ ४०३ ॥

सपीठं लिङ्गमभ्यर्च्य धूपयेत् तदनन्तरम्।
शुभेन शालिपिष्टेन हरिद्रा संयुतेन च ॥ ४०४ ॥

उद्वर्त्य माषचूर्णेन निमज्जनं अथाचरेत्।
सुगन्धामलकाद्यैस्तु स्नानं तत्र विधीयते ॥ ४०५ ॥

वर्णभूत शरावैस्तु वज्राद्यैर्गोमयोद्भवैः।
पैष्टिकैर्वा सुरचितैः राजिका लवणेन च ॥ ४०६ ॥

कोष्णाम्बुभिर्गन्धतोयैः कषायैरभिषेचयेत्।
पयोधति घृतक्षौद्र शर्कराद्यैः स्वशक्तितः ॥ ४०७ ॥

कुडुपाद्याढकान्तैश्च कुडुपाद्वर्धितैरपि।
खण्डाभावादिक्षुसारो मध्वभावे घृतं भवेत् ॥ ४०८ ॥

जलधूपान्तरैः कार्योऽभिषेको विभवे सति।
नालिकेर फलाम्बोभिः अन्यैर्वा रसवद्रसैः ॥ ४०९ ॥

पुष्पाद्यैर्हेमतोयैश्च रत्नोदैर्गन्धतोयकैः।
अभिषेकं ततः कुर्यान् न कुर्याच्छुन्यमस्तकम् ॥ ४१० ॥

तर्जन्यङ्गुष्ठयोगेन पुष्पाण्यादाय हेतिना।
तेन मूर्ध्निगतं पुष्पं त्यक्त्वाऽन्यत्तत्र योजयेत् ॥ ४११ ॥

अष्टपुष्पं त्रिगन्धं च सप्तवारि नियोजयेत्।
आवाहनार्घ्यपाद्येषु स्नाने धूपविलेपने ॥ ४१२ ॥

नैवेद्ये च विसर्गे च पुष्पं अष्टसु योजयेत्।
अर्घ्ये विलेपने स्नाने त्रिषु गन्धं प्रकल्पयेत् ॥ ४१३ ॥

पुष्पदानार्घ्यपाद्येषु स्नाने चाचमनं तथा।
क्षालने प्रोक्षणे चैव वारि सप्तसु योजयेत् ॥ ४१४ ॥

धूपं सर्वत्र दातव्यं शेषं ज्ञात्वा प्रयोजयेत्।
द्वारपूजावसाने तु स्नानान्ते च निवेद्यके ॥ ४१५ ॥

सन्ध्यावसाने निक्षिप्य प्रच्छन्नपटं उत्तमम्।
स्थापितैः कलशैः पश्चाद् अभिषेकं समाचरेत् ॥ ४१६ ॥

वामहस्ततले कृत्वा गड्डुकं लिङ्गमस्तकात्।
कुसुमं पूर्वविन्यासं तदस्त्रेणापनीय च ॥ ४१७ ॥

धौतपाणीस्समन्त्रेण शङ्खमुद्रा परिप्लुतैः।
जलैरनुच्चलद्भिश्च स्नापयेदीशमस्तके ॥ ४१८ ॥

नोपरि भ्रामयेद्धस्तं न मुद्रां बन्धयेदधः।
अद्भिरुच्चलिताभिस्तु तद्द्रव्याणि न सेचयेत् ॥ ४१९ ॥

जयशब्द समोपेतं शिवकुम्भं च वर्धनीम्।
उद्धृत्य नीत्वा देवाग्रे यन्त्रिकोपरि विन्यसेत् ॥ ४२० ॥

दत्वा घटस्थ देवाय देव्यै पाद्यादिकं त्रयम्।
गन्धं पुष्पं च धूपं च दीपमर्घ्यं विधाय च ॥ ४२१ ॥

अपनीय विधानं तद्दक्षहस्तेन देशिकः।
कूर्चं सपुष्पं तोयाभ्यां शिवमन्त्रमनुस्मरन् ॥ ४२२ ॥

संगृह्य तत्त्ववित्तस्तु लिङ्गमूर्ध्नि मनुं न्यसेत्।
देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ॥ ४२३ ॥

शिवमन्त्रं स्मरन् कुम्भतोयेन स्नापयेच्छिवम्।
पिण्डिकारूपिणीं देवीं स्नापयेत्तदनन्तरम् ॥ ४२४ ॥

सुगन्धामलकाद्यैस्तु स्नानं तत्र विधीयते।
गन्धाम्बुना ऽभिषेकं तु कृत्वा लिङ्गं सपीठकम् ॥ ४२५ ॥

वक्त्रेष्वाचमनं दत्वा मार्जयेच्छुद्धवाससा।
गन्धद्रव्यैर्समालिप्य शिवलिङ्गं सवेदिकम् ॥ ४२६ ॥

वस्त्रैर्नानाविधैर्द्रव्यैः देवमाच्छाद्य निर्मलैः।
दत्वाष्टपुष्पं देवाय दत्यान्मन्त्रहविस्ततः ॥ ४२७ ॥

मुद्गान्नं वाऽथ शुद्धान्नं उपदंशादि संयुतम्।
शुद्धाभिः पुष्पमालाभिः पत्रच्छेदैरथार्चयेत् ॥ ४२८ ॥

हेमपट्टैश्च मकुटैः पर्णैः हेमविनिमितैः।
हेमदूर्वाङ्कुरैः हेम लक्ष्मीपुष्पैः अनेकशः ॥ ४२९ ॥

भूषयेच्चन्द्र खण्डेन हेमपुष्पैरनेकशः।
त्रिसरेणोत्तरीयेण कटिसूत्रेण साधकः ॥ ४३० ॥

हैमेन कृत्तिवासेन हैमवस्त्रेण चैव हि।
अन्यैर्मकुटपुष्पाद्यैः गोलकैर्हेमनिर्मितैः ॥ ४३१ ॥

भूषयेच्च यथा न्यायं रत्नैर्नानविधैरपि।
माणिक्यं अर्कवारे स्याच्चन्द्रवारे तु मौक्तिकम् ॥ ४३२ ॥

कुजवारे प्रवालं स्याद् बुधे मरकतं भवेत्।
गुरौ तु पुष्परागं स्याच्छुक्रे वज्रमिति स्मृतम् ॥ ४३३ ॥

इन्द्रनीलं च सौरे स्यात् सर्वाण्येतानि यानि च।
सर्ववारेषु योग्यानि भूषाणानां विधिर्मतः ॥ ४३४ ॥

दत्वाऽजातेन पाद्यं तु पादयोस्तन्मुखेषु च।
आचमान्ते च मूर्धाद्यैः शिरस्यर्घ्यं प्रदापयेत् ॥ ४३५ ॥

पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम्।
उपस्नान समायुक्तं धूपं वा विनिवेदयेत् ॥ ४३६ ॥

अवश्यं आवृतान्ते स्याद् उपस्नानं सधूपकम्।
गापयेन्मन्त्रगानं वा वीणानादं अथापि वा ॥ ४३७ ॥

वेदाध्ययनं अन्यच्च शास्त्रपाठादिकं च यत्।
तदूर्ध्वं गौडभाषाद्यैः गानं धूपान्तं आचरेत् ॥ ४३८ ॥

ऊर्ध्वं द्राविडभाषाङ्गं गानं नृत्तयुतं तु वा।
संस्कृतादनपभ्रंशं नानास्वर समन्वितम् ॥ ४३९ ॥

यदष्टादश भाषोत्थं गानं वा परिकल्पयेत्।
नानादेश प्रसूतं च नर्तनं परिकल्प्य च ॥ ४४० ॥

पुष्पप्रतिसराद्यैश्च समन्ताल्लम्बयेदधः।
निर्धूमज्वलदङ्गार पूर्णपात्रोदरे भृशम् ॥ ४४१ ॥

दह्यमानेन धूपेन धूपयेत्तदनन्तरम्।
सुरूपां धीरनिर्घोषां घण्टां वामेन पाणिना ॥ ४४२ ॥

वादयन् सर्वदा धूपं उत्क्षिपेत्दस्त्रचोदितम्।
कपिलाघृत संपूर्णैः कर्पूरागरु वर्तिभिः ॥ ४४३ ॥

अनिर्वाण प्रदीपैश्च चक्रतोरण दीपकैः।
त्रिशूल दीपिकाभिश्च दीपमालाभिरेव च ॥ ४४४ ॥

अन्यैर्नानाविधैर्दीपैः ज्वालयेत्तु समन्ततः।
गोदानं तिलदानं च स्वर्णदानं तथैव च ॥ ४४५ ॥

गवां तृणादि दानं च कुर्याल्लोकोपचारतः।
प्रभूतैस्स्नेहसंपूर्णैः ज्वलद्भिर्दीपिकैस्थिरैः ॥ ४४६ ॥

कुर्यादारात्रिकं पश्चात् सद्वर्त्या प्रतिबोधितैः।
यथाङ्गं भस्मनाऽऽलभ्य तिलकैर्वा त्रिपुण्ड्रकैः ॥ ४४७ ॥

धूपे दीपेऽथ नैवेद्ये बलावभ्यन्तरेपि च।
सकृदाचमनं दत्वा कर्तव्यं कर्म चोत्तरम् ॥ ४४८ ॥

प्रणम्यअध्येष्य लब्धाज्ञो बहिरावरणं यजेत्।
ईशानं कर्णिकायां तु पूजयेत् कुसुमादिभिः ॥ ४४९ ॥

पुरुषं पूर्वपत्रे तु अघोरं दक्षिणे यजेत्।
वामं उत्तरपत्रे तु सद्यं पश्चिम पत्रतः ॥ ४५० ॥

विन्यसेत्पञ्चपत्राणि पञ्चवक्त्रयुतानि च।
बाहुभिर्दशभिश्चैव शशाङ्कमकुटैस्सह ॥ ४५१ ॥

ध्यातव्यानि स्वरूपाणि वरायुध धराणि च।
अग्नीशरक्षो वायव्य चतुर्दिक्षुगतं यजेत् ॥ ४५२ ॥

हृच्छिरश्चूलिकावर्म नेत्रमस्त्रं यथाक्रमम्।
हृदयं चन्द्रवर्णाभं शिरो गोरोचन प्रभम् ॥ ४५३ ॥

तटिज्वलन संकाशं शिखां सम्यग्विचिन्तयेत्।
आधूम्रं कवचं न्यस्येदस्त्रं कपिलवर्णकम् ॥ ४५४ ॥

ज्योतीरूप प्रकाशं च नेत्रं मध्यगतं स्मरेत्।
पञ्चवक्त्रयुताः सर्वे दशबाह्विन्दु भूषिताः ॥ ४५५ ॥

नानाभरण् संयुक्ताः नानास्रग्गन्ध भूषिताः।
द्विरष्टवत्सराकारास्सुरूपाः स्थिरयौवनाः ॥ ४५६ ॥

प्रसन्नवदनास्सौम्याः त्रिणेत्राः स्वस्तिकासनाः।
मूर्धादिभ्यो हृदादिभ्यस्त्वानेतव्याः प्रभोरिमे ॥ ४५७ ॥

ईशानं नेत्रमैशान्यां अथवा साधको यजेत्।
गर्भावरणं एवं तु पूजयेदभितो हरम् ॥ ४५८ ॥

स्थानेऽस्मिन्नथवा पूज्या वामाद्याश्शक्तयो नव।
अङ्कारूढाः प्रभोः पूज्या आदिशक्तिर्मनोन्मनी ॥ ४५९ ॥

आवाहनादीन्येतानि स्वमन्त्रैः क्रमशोऽर्चयेत्।
नावकुण्ठनं एतेषां अमृतीकरणं विना ॥ ४६० ॥

संस्काराष्टकं एवैतत्प्रत्येकं विहितं बुधैः।
स्नपनं दीपकॢप्तिश्च न पृथक् चाङ्गभावतः ॥ ४६१ ॥

विद्येश्वरो द्वितीये तु अनन्ताद्या यथाक्रमम्।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तमैकनेत्रकौ ॥ ४६२ ॥

एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः।
एते देवाश्चतुर्वक्त्रा हरवद्दशबाहवः ॥ ४६३ ॥

खण्डेन्दु मौलयस्सौम्याः पद्मस्था विविधायुधाः।
खड्गखेट धनुर्बाण कमण्डल्वक्ष सूत्रिणः ॥ ४६४ ॥

वराभय करोपेताः शूलपङ्कज पाणयः।
युगान्तादित्य संकाशास्संसृष्टौ शिवचोदिताः ॥ ४६५ ॥

अनन्तः पूर्वतः पूज्यः सूक्ष्मं दक्षिणतो यजेत्।
शिवोत्तमं तु वारुण्यां एकनेत्रं तथोत्तरे ॥ ४६६ ॥

एकरुद्रं तथैशान्यां त्रिमूर्तिं चाग्निगोचरे।
श्रीकण्ठं चैव नैऋत्यां वायव्यां तु शिखण्डिनम् ॥ ४६७ ॥

गणेश्वरास्तृतीये तु कुबेराशादितः क्रमात्।
सिंहारूढाम्बिका त्र्यक्षा पीताभा दर्पणोद्वहा ॥ ४६८ ॥

ऐशान्यां संस्थितः चण्डः शुद्धवैडूर्य सप्रभः।
वैयाघ्रवसनस्त्र्यक्षः शूलदण्ड कुठारभृत् ॥ ४६९ ॥

वराभयकरश्चण्डः चन्द्रखण्डाहि भूषितः।
नन्दिनं पूर्वदिग्भागे पद्मराग समप्रभम् ॥ ४७० ॥

त्रिणेत्रं शूलहस्तं च सौम्यं नागोपवीतिनम्।
हरिताभं महाकालं शूलहस्तं त्रिलोचनम् ॥ ४७१ ॥

नागोपवीतिनं रौद्रं आग्नेय्यां दिशि पूजयेत्।
गणेशो वामनाकारो गजवक्त्रस्वदन्तभृत् ॥ ४७२ ॥

मौलिकुम्भश्शूर्पकर्णः त्रितालकरपल्लवः।
सलड्डुक कुठाराक्षमालाहस्तस्त्रिलोचनः ॥ ४७३ ॥

बिसिनीपत्र संकाशः पूज्यो वै यमदिक्स्थितः।
वृषो वृषाकृतिस्त्र्यक्षः कुन्देन्दु तुहिनद्युतिः ॥ ४७४ ॥

आधारभूतो धर्मात्मा पूज्यो निऋतिगोवरः।
निर्मांसविग्रहो भृङ्गी श्वेतो वारुणदिग्गतः ॥ ४७५ ॥

षड्वक्त्रो बालवेषश्च द्वादशाक्षस्तथा भुजः।
शक्तिखद्ग पताकाब्ज प्रास कुक्कुट दण्डभृत् ॥ ४७६ ॥

वराभय धनुर्बाण महापरशुमानपि।
चतुर्भुजो द्विबाहुर्वा भवत्येकाननः श्रियै ॥ ४७७ ॥

शक्तिकुक्कुट हस्तस्तु वराभय समन्वितः।
वायव्यां विदृमाभासः पूजनीयः फलार्थिभिः ॥ ४७८ ॥

अथवाऽन्य प्रकारेण पूजनीया गणेश्वराः।
देवी चैव तु चण्डेशो महाकालो वृषस्तथा ॥ ४७९ ॥

नन्दीशश्च गणाध्यक्षो भृङ्गी च स्कन्द एव च।
ध्यायेदेताननुद्विग्नः पद्मराग समप्रभान् ॥ ४८० ॥

लोकपालाश्चतुर्थे तु क्रमशः स्वस्वदिग्गतान्।
द्विरदेन्द्र समारूढं पीतवर्णं तु वज्रिणम् ॥ ४८१ ॥

सहस्राक्षं यजेदिन्द्रं पूर्वभागे व्यवस्थितम्।
ज्वालामालावृतं शक्तिधरं अग्निं अजासनम् ॥ ४८२ ॥

महिषस्थं यमं कृष्णं दक्षिणे दण्डपाणिनम्।
नैरृत्यां निरृतिं नीलं गदाहस्तं नराशनम् ॥ ४८३ ॥

वारुणे वरुणं श्वेतं झषस्थं पाशहस्तकम्।
शबलं ध्वजहस्तं च मृगस्थं अनिलेऽनिलम् ॥ ४८४ ॥

खद्गहस्तं निधानस्थं कुबेरं पीतमुत्तरे।
कपिलं शूलहस्तं च वृषारूढं त्रिलोचनम् ॥ ४८५ ॥

प्रसन्नवदनं हृष्टं ईशानं शाङ्करे यजेत्।
विष्णुं त्वधोगतं कृष्णं तार्क्ष्यस्थं चक्रपाणिनम् ॥ ४८६ ॥

ब्रह्माणं अरुणाभं च हंसस्थं पद्महस्तकम्।
ऊर्ध्वगं संयजेत् प्राज्ञः स्वस्वनामादिकाक्षरैः ॥ ४८७ ॥

पञ्चमे त्वस्त्रसंघातं पूजनीयं यथोदितम्।
पूर्वभागे यजेद्वज्रं पीतवर्णं षडश्रकम् ॥ ४८८ ॥

अग्नौ शक्तिं सुरक्ताभां कृष्णं दण्डं तु दक्षिणे।
निरृतौ नीलखड्गं च श्वेतं पाशं तु वारुणे ॥ ४८९ ॥

चित्रध्वजं तु वायव्यां हेमाभां उत्तरे गदाम्।
ऐशान्यां ज्वलितं शूलं चक्रं अर्कसमप्रभम् ॥ ४९० ॥

अधस्थं संयजेदब्जं श्वेतं ऊर्ध्वे विचक्षणः।
पञ्चावरण पूजैवं समासात्परिकीर्तिता ॥ ४९१ ॥

एकावरण पूजा स्यादङ्गैर्ब्रह्मभिरेव च।
अथवा केवलैरङ्गैः केवलैर्ब्रह्मभिस्तु वा ॥ ४९२ ॥

ब्रह्माङ्गैर्लोकपैरस्त्रैः भवेदावरणत्रयम्।
हेतिभिस्सहितान् लोकपालानभ्यर्चयेत्तु वा ॥ ४९३ ॥

अथ ब्रह्माङ्ग विद्येश मूर्त्यैकादश रुद्रकान्।
यजेद्गन्धादिभिश्चैवं अन्तरावरणक्रमात् ॥ ४९४ ॥

बाह्यावरण पूजा च परिवार विधौ विदुः।
एवमावरणं पूज्य दद्यान्नैवेद्यं उत्तमम् ॥ ४९५ ॥

पञ्चवक्त्रेषु नैवेद्यं ऊर्ध्ववक्त्रेऽथवा पुनः।
अङ्गानामपि सर्वेषां पृतङ्नैवेद्यमर्धतः ॥ ४९६ ॥

चरुपाकः प्रकर्तव्यः पृथक्पात्रेषु संभवे।
पूतेष्वितरथैकस्मिन् हविष्यं मन्त्रसंस्कृतम् ॥ ४९७ ॥

बाह्यावरण देवानां द्वराध्यक्ष पुरस्सरम्।
यजनं गन्ध पुष्पाद्यैः प्रत्येकं प्रविधीयते ॥ ४९८ ॥

भूतादिभ्यो बलिं दद्यादथ मन्त्र निवेद्यके।
तदन्ते नित्यहोमो वा प्रविश्याभ्यन्तरं पुनः ॥ ४९९ ॥

तृप्तावाचमनं दद्याद् हस्तोद्वर्तन पूर्वकम्।
मुखवासं च ताम्बूलं देवयोग्यं प्रदापयेत् ॥ ५०० ॥

श्रीमत् पञ्चमहाशब्द् दर्पणच्छत्रचामरैः।
गेयनृत्तजपस्तोत्रैस्तदा तमभिनन्दयेत् ॥ ५०१ ॥

हृष्ट देव्या समासीनं सदेशं शक्तिविग्रहम्।
ध्यात्वा तच्छिरसि न्यसेत् पवित्रं कर्मपूर्वकम् ॥ ५०२ ॥

प्रत्यहं वाङ्मनः काय व्यापार जनितादलम्।
पतनात्त्रायते यस्मात् तस्मादेव पवित्रकम् ॥ ५०३ ॥

प्रकृतौ परमीभावं संपूर्त्यर्थं अनन्तरम्।
परमान्तिकमुच्चार्य प्रासादं पूर्ववन्नयेत् ॥ ५०४ ॥

प्ररोचनं तु कर्तव्यं मुद्रया प्रागुपात्तया।
प्रार्थयित्वा जपं कुर्याद् अक्षसूत्रेण बुद्धिमान् ॥ ५०५ ॥

अक्षाणां अक्षकल्पानां संयमो यत्प्रसूयते।
दृष्टादृष्टफलावाप्तेरक्षसूत्रं तदुच्यते ॥ ५०६ ॥

अष्टोत्तरशतेनाऽथ तदर्धेन तदर्धतः।
जपमाला प्रकर्तव्या संस्कृता शर्वशम्बरैः ॥ ५०७ ॥

मध्यमानामिकाङ्गुष्ठ कर्षणात्सिद्धिरुत्तमा।
अङ्गुष्ठ तर्जनी योगान् मध्यमा सिद्धिरिष्यते ॥ ५०८ ॥

कनिष्ठाङ्गुष्ठ संयोगात् सिद्धिरुक्ता कनीयसी।
मूलाद्दशांशो ब्रह्माङ्गजपः कार्योऽत्र धीमता ॥ ५०९ ॥

न विलम्बितं अस्पष्टं न चास्वीकृतमदृतम्।
असंख्यातं मनोभ्रान्त्या जपं कुर्याद्विचक्षणः ॥ ५१० ॥

नित्यादि कर्मभेदोक्तं जपं कृत्वा निवेदयेत्।
साधकः सास्ध्यसिद्ध्यर्थं विरामायेतरो जनः ॥ ५११ ॥

चुलुकोदकत्रयेणैव कुशपुष्पादिभिस्सह।
ओं गुह्यादिगुह्य गोप्ता त्वं गृहाणास्मत् कृतं जपम् ॥ ५१२ ॥

सिद्धिर्भवतु मे येन त्वत्प्रसादात्त्वयि स्थिते।
यत्किञ्चित्कर्म हे देव सदा सुकृत दुष्कृतम् ॥ ५१३ ॥

तन्मे शिवपदस्थस्य भुङ्क्ष्व क्षपय शङ्कर।
शिवो दाता शिवो भोक्ता शिवस्सर्वं इदं जगत् ॥ ५१४ ॥

शिवो यजति सर्वत्र यश्शिवस्सोऽहमेव तु।
निवेद्यैवं स्वात्मानं जपं पूजां च भक्तितः ॥ ५१५ ॥

ध्यायन् तिष्ठेच्छिवं पश्चाद्यथापूर्वं उदाहृतम्।
स्तुत्वाऽनेकविधैः स्तोत्रैः प्रणिपत्य पुनः पुनः ॥ ५१६ ॥

नित्याग्निकार्यं कुर्वीत नित्याग्नौ होममन्दिरे।
पचनालय वह्न्याशा कुण्डे वह्निविधिक्रमात् ॥ ५१७ ॥

नित्योत्सवं च कुर्वीत ताण्डवं तदनन्तरम्।
ततो लिङ्गं समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ ५१८ ॥

दद्यात्पराङ्मुखार्घ्यं च महामुद्रां प्रदर्शयेत्।
संहारमुद्रयाऽस्त्रेण देवान् आवरणस्थितान् ॥ ५१९ ॥

उत्थाप्य मूर्तिमन्त्रेण योजयेन्मूर्तिसंगतान्।
हृन्मन्त्रानुगतं मूलं उच्चर्य करणोज्झितम् ॥ ५२० ॥

सकलोपाधि निर्मुक्तं यथा निष्कलतां गतम्।
शिवतत्त्व विभागेन चिन्तयेद् हृत्स्थितेन च ॥ ५२१ ॥

निरपेक्षो विसर्गोऽयं लिङ्गे साधारणो मतः।
परिगृहीतलिङ्गे तु सापेक्षः प्राक् प्रदर्शितः ॥ ५२२ ॥

चललिङ्गेऽपि सापेक्षो नापेक्षस्स्थण्डिले सदा।
सर्वत्राप्यनपेक्षस्तु प्रत्यहं तु विधीयते ॥ ५२३ ॥

ऐशान्यां पूजयेच्चण्डं गन्धपुष्पादिभिः क्रमात्।
तस्मै समर्पयेत्सर्वं निर्माल्यं तत्प्रकीर्तितम् ॥ ५२४ ॥

लिङ्गमूर्धस्थितमित्येके पिण्डिकायां अथापरे।
ऐशान्यां पीठकस्थं वा बाह्ये चण्डगृहेऽथवा ॥ ५२५ ॥

क्रोधांशः परमेशस्य चण्डेश इति कीर्तितः।
नैवेद्यं गन्धपुष्पाद्यं द्रव्यं यज्जायते चिरात् ॥ ५२६ ॥

यन्माल्यं उपभुक्तं तन्निर्माल्यं अभिधीयते।
रजस्स्थण्डिल लिङ्गस्थं शिवभुक्तोज्झितं हि यत् ॥ ५२७ ॥

चण्डभोज्यं दुराधर्षं वर्जनीयं प्रयत्नतः।
वितानच्छत्रमाल्यादि वस्त्रभूषण वाहनम् ॥ ५२८ ॥

गोभूहिरण्यवासादि देवद्रव्यं तदुच्यते।
तस्मादन्यदपि द्रव्यं शिवाय विनिवेदयेत् ॥ ५२९ ॥

देवस्वं चण्डभोज्यं वा नात्मभोगाय कल्पयेत्।
वितानदाम संस्पर्शः धूपामोदो न दूष्यते ॥ ५३० ॥

शिवस्य दीपजालोकप्रेक्षादि रचना तथा।
निरपेक्षं विसृज्येशं लिङ्गं संशोध्य पूर्ववत् ॥ ५३१ ॥

प्रणवे योगपीठे तु मूर्तिं न्यस्य तदात्मिकाम्।
पवित्रैस्सकलीकृत्य गायत्र्या पर्युपासयेत् ॥ ५३२ ॥

अलङ्कृत्य ततश्शक्त्या भोगार्थं कुसुमादिभिः।
वेदिका सहितं लिङ्गं क्षमस्वेति च वै वदेत् ॥ ५३३ ॥

प्रक्षाल्यार्घ्यादि पात्राणि विन्यसेत् फलकादिके।
प्रासादगर्भं उन्मृज्य त्रिभिर्गोमयगोलकैः ॥ ५३४ ॥

चण्डभोज्यं बहिस्तस्मात् क्षिपेदुच्छिष्टभाजने।
स्नानपानीय दुग्धाद्यैः यदि सिक्तो भवेत्तदा ॥ ५३५ ॥

स्नायात्प्रक्षालयेद्वाथ नाभेरूर्ध्वं अधस्तथा।
आचम्य प्रयतो भूत्वा देवदेवं प्रणम्य च ॥ ५३६ ॥

च्युतस्खलित शुद्ध्यर्थं अभ्यसेन्मन्त्रसंहिताम्।
चललिङ्गेऽप्ययं न्यायो विहितो यज्ञमन्दिरे ॥ ५३७ ॥

स्तण्डिले संहरेत्पूजां त्रिभिर्गोमयगोलकैः।
पाणिपादौ च प्रक्षाल्याप्याचम्य विधिना ततः॥
प्रणम्य दण्डवद्भूमौ क्षमस्वेति च वै वदेत् ॥ ५३८ ॥

Pūrvapāda – Kapitel 5: Die Bestandteile der Verehrung

अर्चनाङ्गविधिं वक्ष्ये सन्ध्या लक्षण पूर्वकम्।
भास्करोदयं आरभ्य यावद्वै भास्करोदयः ॥ १ ॥

सप्तार्ध घटिकामानो यामोऽयं सन्धिरुच्यते।
षष्ट्युच्छ्वासो भवेत्प्राणष्षट्प्राणो घटिका भवेत् ॥ २ ॥

घटिका षष्ट्यहोरात्रं अष्टसन्ध्यं तदुच्यते।
अष्टसन्ध्यासु या पूजा सा भवेद् उत्तमोत्तमा ॥ ३ ॥

सप्तषड्भूतवेदाग्नि युग्मेन्दु प्रहरेषु च।
यामार्धकाल संवृत्ता पूजा नवविधा भवेत् ॥ ४ ॥

पूजारम्भात्तु नृत्तान्तं कुर्यात्सन्ध्यावसानकम्।
संध्यातिक्रमणाद्दोषो न्यूनायां तु न दोषभाक् ॥ ५ ॥

गुरूपचार पूजायां विधिरेषः प्रकीर्तितः।
घटिकाद्वितयं स्नाने घटिकैकार्चने भवेत् ॥ ६ ॥

घटिकार्धं निवेद्यार्थं बलिदानं तु तत्समम्।
नित्याग्नि कार्यं अर्धं च नित्योत्सवे द्विनाडिका ॥ ७ ॥

घटिकैका तु नृत्तार्थं काल एषः प्रकीर्तितः।
एवं कालविधिः प्रोक्तो महासन्ध्या त्रयस्य च ॥ ८ ॥

लघूपचारे सन्ध्यायां हीनं चेत्तु न दूषकम्।
यथा सम्भव काले तु यथा सम्भव नाडिका ॥ ९ ॥

आत्मार्थ यजनं कुर्याद्यथाशक्त्यनुरोधतः।
अरुणोदय वेलायां प्रागेव प्रहरार्धतः ॥ १० ॥

कुर्यात्पञ्चमहाशब्दं सर्वप्राणि तमोपहम्।
तत्काले पूजयेद्देवं सर्वकामार्थ सिद्धये ॥ ११ ॥

सायङ्कालेऽर्चनान्ते स्याद्यजनं चार्धयामके।
भूरिभिर्गन्ध कुसुमैः गन्धैः परिमलैरपि ॥ १२ ॥

धूपैरामोद बहुलैः नैवद्यैर्लौकिकादिभिः।
खट्वा रूढां उमां देवीं अलङ्कृत्य विशेषतः ॥ १३ ॥

नृत्तैर्गेयैश्च विविधैः देवपार्श्वं प्रवेशयेत्।
पुत्रपौत्र विवृद्ध्यर्थं पूजयेच्छङ्करं ततः ॥ १४ ॥

वौषडन्तैश्च मध्याह्ने सन्ध्यन्ते शिवं अर्चयेत्।
नृपतेरायुरारोग्य सिद्धये विजयाय च ॥ १५ ॥

एवं प्रतिदिनं पूजा कर्तव्या विभवे सति।
पूजकस्सन्धिपूर्वे तु कुर्यात्स्नानादिकं विधिम् ॥ १६ ॥

स्नानान्ते शुद्धवस्त्राद्यैः पर्यष्टि परिचारकैः।
यजनार्थं तु सम्भाराः सम्भ्रियन्तां जलादयः ॥ १७ ॥

गङ्गादि सिन्धु सम्भूतं पुष्करिण्यादि सम्भवम्।
सुस्वादु वासितं पुष्पैः नवमृत्कुम्भपूरितम् ॥ १८ ॥

शुद्धवस्त्रसृतं शुद्धं एलाद्यामोद संयुतम् ॥ १९ ॥

एलोशीरफलत्रयेण सहिताः कर्पूरसत्कुङ्कुमैः
श्रीखण्डागरुपत्रकैश्च कुसुमैरामोदिभिस्संयुताः।
आपो मज्जनकर्मणि प्रणिहिताश्शम्भोर्यथालाभतः
प्रोक्तद्रव्यगणेषु लब्धमिह यत्तद्ग्राह्यं आढ्येतरैः ॥ २० ॥

कल्पयेदभिषेकार्थं वारि सम्सारवारि यत्।
भारादि नवभारान्तं नवलिङ्गेऽधमाधमे ॥ २१ ॥

एकभार विवृद्ध्या तु भेदोऽत्र नवसंख्यया।
अष्टद्रोणैरथाद्भिर्वा द्विगुणैस्त्रिगुणैस्तु वा ॥ २२ ॥

स्वायम्भु बाण लिङ्गादौ प्रोक्तेषूक्तं हि वाञ्चितम्।
स्नानोदक प्रमाणं स्यादात्मार्थे हि यथेच्छया ॥ २३ ॥

पञ्चामृतं पञ्चगव्यं कुशाम्बु कलशोदकम्।
स्नपनार्थाय कथित प्रमाणेन प्रकल्पयेत् ॥ २४ ॥

सौवर्णम् ऊर्णसूत्रोत्थं कार्पोसोऽथ दुकूलकम्।
देवालङ्कार योग्येन प्रमाणेन समन्वितम् ॥ २५ ॥

देवांसुं उत्तमं प्रोक्तं मध्यमं क्षौमं उच्यते।
कार्पास तन्तुजं वस्त्रं अधमं परिकीर्तितम् ॥ २६ ॥

अर्कहस्तायतं वाऽत्र विस्तारं स्याद् द्विहस्तकम्।
मनोरमं तु सुश्लक्ष्णं विशिष्टं वस्त्रं उच्यते ॥ २७ ॥

विस्ताराष्ट गुणायामं सदशं तु सलक्षणम्।
आखुदष्टाग्निदग्धं च केशविद्धं च वर्जयेत् ॥ २८ ॥

वस्त्रमेवं विधं तच्च गृह्णीयाद् उपयोगि यत्।
कुङ्कुमं चन्दनं दूर्वा सिद्धार्थोशीरकं तथा ॥ २९ ॥

तिलेनैव समायुक्तं पाद्यं यद्वोत्तमं भवेत्।
सिद्धार्थोशीरकं दूर्वायुक्तं मध्यमं उच्यते ॥ ३० ॥

उशीरं चन्दनोपेतं अधमं पाद्यं उच्यते।
एलालवङ्ग कर्पूर वराल फलसंयुतम् ॥ ३१ ॥

आप आचमनीयार्थं उशीरमयचन्दनैः।
फलत्रयं च कपूरं तृटीपत्रं द्विजोत्तमाः ॥ ३२ ॥

आचामे तु प्रयोक्तव्यं एलोशीरयुतं तु वा।
आपः क्षीरकुशाग्राणि यवसिद्धार्थ तण्डुलैः ॥ ३३ ॥

तिलैर्व्रीहि समायुक्तं अर्घ्यमष्टाङ्गं उच्यते।
आपः क्षीरकुशाग्राणि तण्डुलास्सुमनस्तिलाः ॥ ३४ ॥

अर्घ्येऽष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह।
तण्डुलव्रीहि सिद्धार्थ तिलोदकं अथापि वा ॥ ३५ ॥

अर्घ्यं पुष्पजलोपेतं अथवा समुदाहृतम्।
चन्दनं चागरुञ्चैव कुङ्कुमं गन्ध उच्यते ॥ ३६ ॥

एकं द्वयं त्रयं वापि कर्पूरेण चतुष्टयम्।
काश्मीर गन्ध कर्पूर चन्दनैर्वा प्रकल्पयेत् ॥ ३७ ॥

प्रत्येकं निष्कमात्रं वा तदर्धं वा तदर्धकम्।
उत्तमोत्तम लिङ्गादा वा फलादि फलावधि ॥ ३८ ॥

अतीव बलहीनानां यथालाभं प्रमाणतः।
एवं पाद्यादि वस्तूनां प्रमाणं परिकीर्तितम् ॥ ३९ ॥

पुष्पाणां लक्षणं वक्ष्ये समासान्मुनिपुङ्गवाः।
श्वेतपद्मं च पुन्नागं शङ्खपुष्पं च मल्लिका ॥ ४० ॥

नन्द्यावर्तं श्रियावर्तं मन्दारं बहुकर्णिका।
द्विकर्णी कुरवं जाती लक्ष्मीश्च वकुलं तथा ॥ ४१ ॥

श्वेतार्कं मालती द्रोणं अतसी श्वेतलोध्रकम्।
विषका सीसकुसुमं भद्रा च महती च सा ॥ ४२ ॥

व्याघ्री चम्पकपुष्पं च करवीरं अशोकजम्।
हालिका शतपत्रं च उन्मत्तं कुशपुष्पकम् ॥ ४३ ॥

एतानि श्वेतपुष्पाणि मुख्यामुख्यत्वभाञ्जि हि।
रक्तपद्मं पलाशं च रक्तोत्पलं च पाटली ॥ ४४ ॥

मौसली चैव धुत्तूरं बृहती करवीरजम्।
व्याघ्री च रक्तमन्दारः पट्टिका वैजिका तथा ॥ ४५ ॥

मुनिपुष्पं च तद्रक्तं रक्तान्येतानि निर्दिशेत्।
शोनक्यं कर्णिकारं च चम्पकं हेमधुत्तरम् ॥ ४६ ॥

आरग्वधं च कोरण्डं शैरीषं गिरिकर्णिका।
एतानि पीत पुष्पाणि कृष्णे नीलोत्पलं वरम् ॥ ४७ ॥

बिल्वपत्रं तपस्वी च महाभद्रा च धातकी।
अपामार्गं कुशा दूर्वाः पञ्चबिल्वाः शमी तथा ॥ ४८ ॥

तुलसी चन्द्रपो दान्तः जम्बुको नागनन्दिका।
एकपत्रारविन्दं च विष्णुक्रान्तिस्तथैव च ॥ ४९ ॥

सहकारस्तथा कृष्णतुलसी गन्धपत्रिका।
एवमादीनि पत्राणि पुत्रवृद्धिकराणि च ॥ ५० ॥

उशीर ह्रीबेरादि कुलानि शुभदानि हि।
अर्कपुष्प सहस्रेभ्यो बकपुष्पं विशिष्यते ॥ ५१ ॥

बकपुष्प सहस्रेभ्यो हेमधुत्तूरकं वरम्।
धुत्तूरक सहस्रेभ्यः शमी पुष्पं विशिष्यते ॥ ५२ ॥

सर्वासां पुष्पजातीनां श्रीमन्नीलोत्पलं वरम्।
करवीर समा ज्ञेया जाती विजय पाटली ॥ ५३ ॥

श्वेतमन्दार कुसुमं शतपत्रं च तत्समम्।
नागचम्पक पुन्नागा धुत्तुरक समाः स्मृताः ॥ ५४ ॥

केतकी चातिमुक्तं च यूथी च नवमल्लिका।
शिरीष सर्ज बन्धूक कुसुमानि विवर्जयेत् ॥ ५५ ॥

अङ्कोलपत्र कुसुमं त्यजेन्नृपतरूद्भवम्।
वैभीतकानि पत्राणि कुसुमानि विवर्जयेत् ॥ ५६ ॥

निर्गन्धान्युग्रगन्धानि कुसुमानि विवर्जयेत्।
गन्धवन्त्यपवित्राणि कुसुमानि विवर्जयेत् ॥ ५७ ॥

गन्धहीनामपि ग्राह्यं पवित्रं यत्कुसुमादिकम्।
कनकानि कदम्बानि रात्रौ देयानि शङ्करे ॥ ५८ ॥

दिवाशेष पुष्पाणि दिवारात्रौ च मल्लिका।
प्रहरार्धे स्मृता जाती करवीरं अहर्निशम् ॥ ५९ ॥

केशकीटापविद्धानि शीर्णपर्युषितानि च।
स्वयं पतित पुष्पाणि त्यजेदुपहतानि च ॥ ६० ॥

मुकुलैर्नार्चयेद्देवं अपक्वं न निवेदयेत्।
अलाभेऽपीह पुष्पाणां पत्राण्यपि निवेदयेत् ॥ ६१ ॥

पत्राणामप्यलाभे तु फलान्यपि निवेदयेत्।
फलानामप्यलाभे तु तृणगुल्मौषधीरपि ॥ ६२ ॥

ओषधीनामलाभे तु भक्त्या भवति पूजितः।
प्रत्येकमुक्त पुष्पाणां दश सौवर्णकं फलम् ॥ ६३ ॥

स्वर्णाद्दशगुणं रत्नं माणिक्यादि नवोद्भवम्।
स्रग्ग्रन्थितेषु तेष्वेव द्विगुणं फलमश्नुते ॥ ६४ ॥

आत्मारामोद्भवैः पुष्पैः अथवा वनसंभवैः।
द्रव्यक्रीतैः प्रसूनाद्यैः अर्चयेद् अन्यथा न च ॥ ६५ ॥

कृष्णागरुर्भवेदेको निर्यासो द्विगुणो भवेत्।
त्रिगुणं चन्दनं प्रोक्तं ईषत्कर्पूरमिश्रितम् ॥ ६६ ॥

शीतारिर्नाम धूपोऽयं विख्यातो मधुसंप्लुतः।
एकद्वित्रिचतुष्पञ्च नखचन्दन पायसैः ॥ ६७ ॥

तुरुष्क संहितञ्चैव क्रमेण परिवर्धितम्।
शीतारि धूपं एवं स्यान् मधुना च परिप्लुतम् ॥ ६८ ॥

यद्वा तुरुष्क कर्पूर नागरागरु चन्दनैः।
मुरामांसिसितामिश्रं धूपं दद्यान् मधुप्लुतम् ॥ ६९ ॥

उशीर चन्दनोपेतं लघुयुक्त मधुप्लुतम्।
मध्यमं धूपं आख्यातं उशीरादि शिवप्रियम् ॥ ७० ॥

गुग्गुलुर्घृतसंयुक्तस्त्वधमो धूप उच्यते।
केवलं चागरुर्वापि धूपार्थं महिषाक्षि वा ॥ ७१ ॥

एकादि दश पर्यन्तं दीपास्युरधमाधमाः।
शतादिः स्युस्सहस्रान्ता अयुतं लक्षसीमकाः ॥ ७२ ॥

प्रयुताः कोटिसंख्याताश्चायुताद्यर्भुदान्तकाः।
दीपाः स्युरेक संख्यायां रात्रौ तद्द्विगुणं भवेत् ॥ ७३ ॥

अनिर्वाण प्रदीपास्स्युस्तदर्धाः स्युस्तदर्धकाः।
एवं संख्या प्रदीपादौ संख्येषा परिकीर्तिता ॥ ७४ ॥

कपिला गोघृतेनाऽथ दीपः सात्विक उच्यते।
राजसं तिलतैलेन मिश्रमाएजेन सर्पिषा ॥ ७५ ॥

एकद्वित्र्यङ्गुला ज्वालाः श्रेष्टमध्याधमाः स्मृताः।
तामसस्तु भवेद्दिपो माहिषेण तु सर्पिषा ॥ ७६ ॥

वृक्षबीजोद्भवैः स्नेहैर्दीपः पैशाच उच्यते।
तामसश्चापि पैशाचो दीपो योग्येतरः स्मृतः ॥ ७७ ॥

हविष्य विधिसंसिद्ध नैवेद्यं बहुधा स्मृतम्।
होमस्तद्विधिसंसिद्धिर्द्रव्यैर्भूतबलिस्तथा ॥ ७८ ॥

नित्योत्सवं तथा नित्यविधिना संप्रकल्पयेत्।
ताण्डवं ताण्डवाध्याये नृत्तगेयादि लक्षणैः ॥ ७९ ॥

वक्ष्यामि तत्प्रभेदं तु तदा त्वेवावधार्यते ॥ ८० ॥

इत्थं भूतार्चनाङ्गैश्शिवयजन विधिं देहभृद्यः करोति
श्रद्धायुक्तस्त्रिलोक्यां सुरवरमहितस्स्वामितो द्योतिताशः।
यास्यत्यन्ते यथावच्छिवपुरं अखिलोत्पत्ति संसारहेतु
ज्ञानान्दस्वभावो दृढतर मलमायादि बन्धैर्विमुक्तः ॥ ८१ ॥

Pūrvapāda – Kapitel 6: Die Speisedarbringung

अथातः संप्रवक्ष्यामि नैवेद्य विधिमुत्तमम्।
भक्त्या वित्तानुसारेण नैवेद्यं तु प्रकल्पयेत् ॥ १ ॥

पत्रं पुष्पं फलं तोयं अन्नपानाद्यं औषधम्।
अनिवेद्य न भुञ्जीत भगवन्तं सदाशिवम् ॥ २ ॥

अपूपकाद्यं यद्द्रव्यं भोज्यं दत्वा शिवस्य तु।
वर्धते तस्य तद्धान्यं फलपुष्पादयस्तथा ॥ ३ ॥

अदत्वा तु हरस्याथ भुक्तं तत्क्षीयते धनम्।
अल्पे महति वा तुल्यं फलमाढ्य दरिद्रयोः ॥ ४ ॥

यथाशक्ति प्रकर्तव्यं भक्तिरेवात्र कारणम्।
दत्वा शिवस्य नैवेद्यं कल्याणं कारयेद्बुधः ॥ ५ ॥

अदत्वा तु कृतं यत्तु कल्याणं अशुभाय वै।
कल्याणं देवकल्याणो कृतं चापि विनश्यति ॥ ६ ॥

तस्मान्महोत्सवे सूत्रारोपणे स्थापनादिके।
कल्याणं वर्जयेद् धीमान् चूडोद्वाहादिकं स्वकम् ॥ ७ ॥

शालीनां तण्डुलं श्रेष्टं यव वैणवादि मध्यमम्।
व्रीहीणां अवशिष्टानां तण्डुलन्त्वधमं भवेत् ॥ ८ ॥

सिततण्डुलका ये च ते सर्वे शालयः स्मृताः।
इथरे व्रीहयः प्रोक्ताः फलं तेषां पृथक् पृथक् ॥ ९ ॥

हेमशाली महाशाली रत्नशाली तथैव च।
सितशाल्यतिरक्ता च सौगन्धिश्चोत्तमा मता ॥ १० ॥

वैणवश्च तथा शेषशालयश्चैव माधुरी।
कुसुंबेरश्च नीवारो मध्यमाश्चेति कीर्तिताः ॥ ११ ॥

बिडाल व्रीहि सामान्यं ईषत्कृष्णक षाष्टयः
तथा वै सूकरी व्रीहिर्ह्रस्ववक्त्री च कन्यसा ॥ १२ ॥

एतेषां तण्डुला श्रेष्ठा नैवेद्याय प्रभोर्मताः।
यावन्तस्तण्डुलास्तत्र नैवेद्य परिकल्पने ॥ १३ ॥

तावद्वर्ष सहस्राणि शिवलोके महीयते।
विशोष्य सूर्यकिरणर्व्रीह्यादीन् शुद्धभूतले ॥ १४ ॥

संप्रोक्ष्योलूखले व्रीहीन् निक्षिपेदस्त्रमन्त्रतः।
मुसलं हृदयेनैव हन्यात्संगृह्य साधकः ॥ १५ ॥

त्रिधा च कुट्टनं कुर्यात् पञ्चधा नवधाऽथवा।
चातुर्वर्णोद्भवस्त्रीभिः पुरुषैर्वाऽथ घातयेत् ॥ १६ ॥

शूर्पादि करणैस्तेषां तुषकम्ब्वादि वर्जयेत्।
द्विशतैः पञ्चविंशत्या व्रीभिः पूरितं तु यत् ॥ १७ ॥

शुक्तिमात्रं इति ज्ञेयं मानं तेनैव कल्पयेत्।
शुक्तिस्तलं प्रकूर्चं च प्रसृतिः कुडुपं तथा ॥ १८ ॥

तथा स्यादञ्जलिः प्रस्थः पात्रं चाढक शैवकौ।
द्रोणं खारी क्रमात्प्रोक्तं मानमेवं प्रकीर्तितम् ॥ १९ ॥

द्विगुञ्जं माषकं विद्याद्धारणं माष विंशतिः।
धारणाष्टौ पलं चैव पलं मुष्टिरिहोच्यते ॥ २० ॥

तच्चतुर्गुणितं प्रस्थं भवेत्पात्रादि पूर्ववत्।
भारं खारित्रयं प्रोक्तं मानमेवं प्रकीर्तितम् ॥ २१ ॥

नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं भवेत्।
अष्टाङ्गेषु चतुर्वह्निकरेन्दु द्रोणनिर्मितं ॥ २२ ॥

शिवाढक प्रमाणं तु नित्ये तु नवधा हविः।
तण्डुलैराढकाद्धीनैर्नैवेद्यं न प्रकल्पयेत् ॥ २३ ॥

चरुः प्रस्थद्वयं प्रोक्तं हविराढकं उच्यते।
प्रस्थं कुडुपसंयुक्तं पैशाचाशनं उच्यते ॥ २४ ॥

सकलानां तु नैवेद्यं भवेत्प्रस्थद्वयाधिकम्।
आढकद्वयं आरभ्य तद्वृद्ध्या नवसंख्यया ॥ २५ ॥

नैमित्तिकं हविर्मानं लिङ्गेषु त्रिविधेषु च।
यावत्प्रार्थित मानं तु तावत्काम्यहविर्भवेत् ॥ २६ ॥

स्थाली प्रतिदिनं शुद्धा पक्षमासावसानिका।
श्रेष्टमध्याधमास्तद्वद्विधिनाऽद्य विधीयते ॥ २७ ॥

सुवर्णतारताम्रादि पात्रं शुद्धलयान्तिकम्।
नवमृद् भाण्डकं वाऽपि प्रतिसन्ध्यं प्रकल्पयेत् ॥ २८ ॥

प्रागुक्त विधिना पूर्वं स्नात्वाऽथ परिचारकाः।
शुक्लवस्रधराश्चैव शुक्लयज्ञोपवीतिनः ॥ २९ ॥

पवित्रपाणयः कुर्युश्चरुपाकं यथा तथा।
वस्त्रपूतैश्च तोयैश्च जलद्रोणीं प्रपूरयेत् ॥ ३० ॥

पात्रशुद्धिं ततः कृत्वा क्षालयेत्तण्डुलान् हृदा।
जलेनैव षट्कृत्वा निष्पीड्य च मुहुर्मुहुः ॥ ३१ ॥

षडङ्गैः क्षालनं कृत्वा सद्येन प्रक्षिपेज्जले।
ज्ञात्वा तु युक्तितः संयक् अध्यर्धं जलमेव वा ॥ ३२ ॥

स्थालीं मध्यमयीं ध्यात्वा दर्भान् कण्ठे तु बन्धयेत्।
प्रलिप्ते गोमयाद्यैस्तु प्रोक्षितेऽत्र महानसे ॥ ३३ ॥

धर्माधर्म भुजां चुल्लीं तण्डुलनार्चयेद् हृदा।
उद्धृत्य वामदेवेन रोपयेद् हृदयेन तु ॥ ३४ ॥

विन्यस्याग्निं अघोरेण अस्त्रेणाग्निं प्रदीपयेत्।
पिपीलिकादि संजुष्टैः कोटरकृमि संयुतैः ॥ ३५ ॥

विस्फुलिङ्गयुतैश्चापि काष्ठैरग्निं न दीपयेत्।
धूमगन्धं अतिक्लिन्नं अतिपक्वञ्च शीतलम् ॥ ३६ ॥

केशकीटापविद्धं च त्यजेत् पर्युषितं तथा।
एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते ॥ ३७ ॥

तण्डुलाद् द्विगुणं क्षीरं मुद्गं स्यात्तण्डुलार्धकम्।
अलाभेऽर्धं तदर्धं वा शेषं तोयैः प्रपूरयेत् ॥ ३८ ॥

पाचितं पायसं प्रोक्तं गुलान्नं अधुनोच्यते।
पायसं पूर्ववत् कृत्वा चतुर्भागं गुलं क्षिपेत् ॥ ३९ ॥

गुलार्धं प्रक्षिपेदाज्यं तस्यार्धं वा तदर्धकम्।
कदलीफल संयुक्तं गुलान्नं इति कीर्तितम् ॥ ४० ॥

तण्डुलार्धं तिलं ज्ञेयं कृसरान्नं प्रशस्यते।
अलाभेऽर्धं तदर्धं वा मुद्गान्नं अधुनोच्यते ॥ ४१ ॥

तण्डुलार्धं तदर्धं वा मुद्गं मुद्गान्नं उच्यते।
एतेषामपि सर्वेषां यथालाभं अथापि वा ॥ ४२ ॥

मरीचं रजनीयुक्तं जीरकं सर्षपं तथा।
आलोड्य पाचितं ह्येतत् हरिद्रान्नं प्रकीर्तितम् ॥ ४३ ॥

हविषां लक्षणं प्रोक्तं प्रवक्ष्यामुपदंशकान्।
मुद्गमाष कुलुत्थांश्च शिम्बा निष्पावमेव च ॥ ४४ ॥

राज आषाढकीं चैव वितुषं सतुषं तथा।
कूश्माण्डं पनसालाबु कालिङ्गं बृहतीद्वयम् ॥ ४५ ॥

त्रपुषं कर्करीं चैव सतुषं वितुषं तथा।
कदली कारवी व्याघ्री आम्रं उर्वारुकं तथा ॥ ४६ ॥

वल्लीमूलं तथा कन्धं मूलं अन्यत्र संयुतम्।
एकैकं उपदंशानां प्रस्थस्यैक पलं भवेत् ॥ ४७ ॥

प्रत्यग्राणि पवित्राणि सर्वदोषोज्झितानि हि।
घृष्टं घृतेन संयुक्तं नालिकेर फलादिभिः ॥ ४८ ॥

मरीच जीरकाद्यैस्तु संस्कृतं तत्प्रशस्यते।
लवणाज्य युतानि स्युरुपदंशानि तानि हि ॥ ४९ ॥

आम्लसंस्कार युक्तानि मरीचादि युतानि च।
विंशत्पलं स्याल्लवणं प्रस्थं प्रस्थं समीरितम् ॥ ५० ॥

त्रिचतुर्थांश मानेन मरिचः प्रकीर्तितः।
सर्पिषो द्विगुणं मानं मरीचात्तु प्रशस्यते ॥ ५१ ॥

कलांशो मुद्गभिन्नास्तु तदर्धं वा तु तण्डुलान्।
मुद्गभिन्नं समं प्रोक्तं अधिकं गुणमेव वा ॥ ५२ ॥

कल्कसंस्कारयुक्तानि मरीचादि युतानि च।
सिद्धार्थ कल्कयुक्तानि रसवन्ति च पाचयेत् ॥ ५३ ॥

तान्येवापूपखण्डैश्च संस्कृतानि च कानिचित्।
कुलुत्थधान्य चूर्णं च मरीचं पेषितं क्रमात् ॥ ५४ ॥

निक्षिप्य मथिते श्लक्ष्णं पाचयेन्मृदुवह्निना।
गुलेनसह संयोज्य रसवन्ति च फलानि च ॥ ५५ ॥

एवं तु पाचयेत् सूपं अन्यदेव विधं तु यत्।
विविधानि च पूपानि योग्यद्रव्यैः कृतानि च ॥ ५६ ॥

शङ्खध्वनि समायुक्तं छत्र दीपादि संयुतम्।
नैवेद्यं उपदंशाद्यं सुसिद्धं अवतारयेत् ॥ ५७ ॥

प्रलिप्ते भूतले शुद्धे पञ्चचूर्णैरलङ्कृते।
तप्ताभिघारमाज्येन पवित्रैः परिकल्पयेत् ॥ ५८ ॥

शीताभिघारं अङ्गैस्तु घृतेनैवाहुति त्रयम्।
पात्राणि शोधयेत् तोयैस्त्रिपुण्ड्रं परिकल्पयेत् ॥ ५९ ॥

त्रिपाद्युपरि विन्यस्य शुद्धवस्त्रावृतानि च।
शङ्खध्वनि समायुक्तं छत्रदीपादि संयुतम् ॥ ६० ॥

निरुद्धावृतकक्ष्यास्थ जने मार्गेऽम्भसा क्षिपेत्।
पात्राण्युद्धृत्य सर्वाणि विन्यसेन्मुखमण्डपे ॥ ६१ ॥

पानीयमप्यनेनैव स्थानात् संग्राहयेत् क्रमात्।
करणाध्याय संसिद्ध लक्षणैर्लक्षितेषु च ॥ ६२ ॥

स्थलिकादिषु वा शुद्ध कदली पत्रकादिषु।
न्यस्तेषु शुद्धवस्रोर्ध्वे द्रव्या लक्षण्युक्तया ॥ ६३ ॥

न्यसेत् संपूर्णचन्द्राभं ओमिति त्र्यक्षरं जपेत्।
उपदंशानि सर्वाणि नैवेद्योपरि विन्यसेत् ॥ ६४ ॥

प्रत्यग्र गोघृतं खण्ड शर्करा रसवत्फलम्।
बालचूतफलं चापि दध्यादिकं अनिन्दितम् ॥ ६५ ॥

शिवाग्रे मण्डपे शुद्धे शुभ्रवस्त्रादि विस्तृते।
त्रिपाद्युपरि विन्यस्य स्थालिकादिगतं हविः ॥ ६६ ॥

पेयं लेह्यं च शोष्यं च युक्तियुक्तं तु विन्यसेत् ॥ ६७ ॥

संप्रोक्ष्य हृदयेनैव शोधयित्वा तु हेतिना।
अमृतीकृत्य गोस्तन्या नैवेद्यं कुसुमं न्यसेत् ॥ ६८ ॥

निवेद्य दक्षिणे हस्ते दद्यात् पानीयं उत्तमम्।
अन्तरावृति संस्थानां देवानां तु पृथक् पृथक् ॥ ६९ ॥

कृत्वा हविश्चतुर्थांशं ऊर्ध्वांशं तु शिवाय च।
तदधस्त्वग्निकार्यार्थं अधताद्बलिकर्मणे ॥ ७० ॥

यदंशं पात्रसंश्लिष्टं पूजकाय प्रदापयेत्।
अग्निकार्यावशिष्टं च बलिशिष्टं च यद्धविः ॥ ७१ ॥

तत्सर्वं पूजकायैव प्रोक्तमत्र यथाऽधुना।
नैवेद्यं तु प्रदातव्यं मनसा तदसम्भवे ॥ ७२ ॥

ब्रह्मावरण देवानां नैवेद्यं स्यात् पृथक् पृथक्।
अभावे बलिदानं स्याद् द्वाराध्यक्ष पुरस्सरम् ॥ ७३ ॥

तद्बाह्ये भूतपीठेषु दिग्विदिक्स्थापितेषु च।
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ॥ ७४ ॥

गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे बलिम्।
ग्रहेभ्यश्च तथैशान्यां असुरेभ्योऽग्निगोचरे ॥ ७५ ॥

पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुगोचरे।
नक्षत्र राशि वर्गेभ्यस्तथा विश्वगणाय च ॥ ७६ ॥

ऐशान्यां बलिदानं स्यात् तत्रैव क्षेत्रपालिने।
वायुवारुण दिग्भागे क्षेत्रपालबलिं क्षिपेत् ॥ ७७ ॥

एतेष्वष्टसु पीठेषु दिक्पालानां बलिं तु वा।
प्रथमं द्वारपालानां भूतानां स्याद् द्वितीयकम् ॥ ७८ ॥

वृषादि बलिपीठान्तं दद्यादावरणक्रमात्।
अष्ट द्विषट् द्विरष्टौ हि द्वात्रिंशत्परिवारकाः ॥ ७९ ॥

अन्तर्हारादि शालस्था दद्यात् तेषां पृथक् पृथक्।
गणेशं तत्र संपूज्य सोपचारं विशेषतः ॥ ८० ॥

सम्भवे सति सर्वेषां उपचारार्चनं भवेत्।
ततः पूर्वस्थिते पीठे बलिं दद्याद् विशेषतः ॥ ८१ ॥

यक्ष राक्षस पैशाच भूत गन्धर्व किन्नराः।
पितृ दानव नागाश्च ब्रह्माद्यैशानमन्तकम् ॥ ८२ ॥

प्रणवादि चतुर्थ्यन्तं स्वनाम पदमध्यगम्।
स्वाहान्तं बलि निर्देशं सर्वेभ्य इति योजयेत् ॥ ८३ ॥

बलिदान समायुक्तं दद्याद्भूतबलिं ततः।
सर्वदिग्द्वार संपन्ने त्रिद्व्येका सावकाशके ॥ ८४ ॥

इन्द्रादीशान पर्यन्तं बलिं दद्यात् स्वकर्मसु।
ततो गर्भगृहं गत्वा दद्यादाचमनीयकम् ॥ ८५ ॥

निर्माल्यं तु समानीय चण्डेशाय निवेदयेत्।
येन निर्मलतां याति निर्माल्यं इति कीर्त्यते ॥ ८६ ॥

चण्डस्याचमनं दद्यान् निर्माल्यं तु विसर्जयेत्।
अगाधेऽम्बसि वाऽग्नौ वा गवां वाऽपि निवेदयेत् ॥ ८७ ॥

कायस्य मलबन्धत्वान् निर्माल्यं तु न भोजयेत्।
अग्निकार्यं ततः कुर्यात् कुण्डसंस्कार पूर्वकम् ॥ ८८ ॥

Pūrvapāda – Kapitel 7: Die Feuerstätte

अथाऽग्निकार्य सिद्ध्यर्थं कुण्ड्लक्षणं उच्यते।
कुण्डं वा स्थण्डिलं वाऽपि वह्नेरायतनं द्विधा ॥ १ ॥

सूत्रं पूर्वापरं पूर्वं न्यसेद् दिक्साधन क्रमात्।
तेनैव साधयेत् सूत्रं दक्षिणोत्तरगं क्रमात् ॥ २ ॥

ततः क्षेत्रार्ध मानानां दिक्सूत्राद्विदिशं गृहाः।
चतुरश्रं भवेत् कुण्डं वृत्तं वा हस्त निर्मितम् ॥ ३ ॥

नित्य नैमित्तिके चैव काम्ये कल्प प्रचोदितम्।
इष्टकाभिः सुपक्वाभिः अपक्वाभिरसम्भवे ॥ ४ ॥

कुर्यात् कुण्डं तु शास्त्रोक्तं मन्त्र होमानुरूपतः।
मन्त्राणां वारुणानां कुम्भाकारं विधीयते ॥ ५ ॥

वायव्यानां पताकेव माहेन्द्राणां तु वज्रकम्।
सप्तजिह्वाकृति प्रोक्तं आग्नेयानां गुरूत्तमैः ॥ ६ ॥

मध्यमोत्तम वीर्याणां चतुरश्रं फलप्रदम्।
त्रिकोणं अल्पवीर्याणां स्त्रीरूपाणां भगाकृतिः ॥ ७ ॥

अर्धचन्द्रं तु रौद्राणां सौम्यानां वृत्तमेव हि।
पञ्चकोणं तु मूर्तानां किन्नराणां तथैव च ॥ ८ ॥

विद्या विद्येश्वराणां तु पद्माकारं इहोच्यते।
ऐन्द्र्यां स्तम्भे चतुष्कोणं अग्नौ तापे भगाकृतिः ॥ ९ ॥

चन्द्रार्धं मारणे याम्ये निऋतो द्व्यष्टकोणकम्।
वारुण्यां शान्तिके वृत्तं षडश्रोच्चाटनेऽनिले ॥ १० ॥

उदीच्यां पौष्टिके पद्मं रौद्र्यां अष्टाश्रं उक्तिदम्।
शतार्ध शतहोमे तु विस्तारं द्विगुणं क्रमात् ॥ ११ ॥

सहस्रायुत होमे तु हस्त हस्तद्वयं क्रमात्।
भवेल्लक्षयुते होमे चतुर्हस्तं च षट्करम् ॥ १२ ॥

कोटिहोमेऽष्टहस्तं स्यात् तस्मादूर्ध्वमधो न हि।
हस्तमात्रं भवेत्कुण्डं लिङ्गे कन्यसके न्यसेत् ॥ १३ ॥

द्व्यङ्गुलार्धं तयोर्वृद्धिः प्रान्ते द्वित्र्यंशतः क्रमात्।
पञ्चमांशे पुरे त्यक्त्वा कोणवेदांश मानतः ॥ १४ ॥

भ्रमादश्वत्थ पत्राभं कुण्डमाग्नेयं उच्यते।
चतुरश्रे गृहे भक्ते त्यक्त्वाऽद्यन्ते तदंशके ॥ १५ ॥

मध्य सप्तांश मानेन कुण्डं खण्डेन्दुवद् भ्रमात्।
इष्टदिक्षु न्यसेत्पश्चादुत्तरे सूत्र पातनम् ॥ १६ ॥

त्रिभाग वृद्धितो मत्स्यैस्त्रिभिर्नैशाचरं भवेत्।
कण्ठार्धांश सन्त्यागात् वृत्तकुण्डं इहोदितम् ॥ १७ ॥

षड्भाग वृद्धितो मत्स्यैश्चतुर्भिस्स्यात् षडश्रकम्।
चतुरश्रेऽष्ट भागे तु कर्णिका स्याद्द्विभागतः ॥ १८ ॥

तद्बहिस्त्वेक भागेन केसराणि प्रकल्पयेत्।
तृतीये दलमध्यानि तुरीये दलकोटयः ॥ १९ ॥

भ्रमणात्पद्मकुण्डं स्याद् दलाग्रं दर्शयेद्बहिः।
वृत्तकुण्डसमं चान्यद् अथवान्य प्रकारतः ॥ २० ॥

वृत्तकुण्डं पुरा कृत्वा चतुर्धा मेकलां भजेत्।
उत्सेधं च तथा वृत्वा कर्णिका सार्धतो भवेत् ॥ २१ ॥

अवशिष्टं दलं वेददलमष्टदलं तु वा।
क्षेत्रार्ध दशमं भागं चतुर्दिक्षु तदुत्तरे ॥ २२ ॥

विन्यसेत्तत्प्रमाणेन चतुरुआश्रं अपरं नयेत्।
तस्य कर्णप्रमाणेन तद्भुजांशापि लाञ्चयेत् ॥ २३ ॥

तत्राष्ट सूत्र संयोगादष्टाश्रं कुण्डं उच्यते।
विस्तार सदृशः खातो मेखलाशेष एव वा ॥ २४ ॥

कण्ठोऽङ्गुष्ठमितो हस्तो यववृद्ध्या द्विहस्ततः।
कण्ठमानं इदं प्रोक्तं मेकला शृणुत द्विजाः ॥ २५ ॥

मुष्टिमात्रस्य कुण्डस्य मेकला ह्यङ्गुलद्वया।
मेकला द्वितयं कार्यं अङ्गुलार्धाङ्गुल क्रमात् ॥ २६ ॥

रत्निमात्रस्य कुण्डस्य नेमिस्स्यादङ्गुलैस्त्रिभिः।
अन्यनेमिद्वयं तस्य तृतीयाङ्गुला मता ॥ २७ ॥

हस्तमात्रस्य कुण्डस्य नेमिस्स्याच्चतुरङ्गुला।
कर्तव्या मेकला चान्या त्रिद्व्यङ्गुल क्रमात्तथा ॥ २८ ॥

कुण्डस्य द्विकरस्य स्यात्पूर्वनेमिष्षडङ्गुला।
अन्याङ्गुल चतुष्का स्यात् तृतीया त्वङ्गुलैस्त्रिभिः ॥ २९ ॥

चतुर्हस्तस्य कुण्डस्य नेमिः पूर्वाङ्गुलाष्टका।
षड्भिरन्याङ्गुलैः कार्या चतुर्भिरपराङ्गुलैः ॥ ३० ॥

कर्तव्या मेकला पूर्वा षड् हस्तस्य दशाङ्गुलैः।
अङ्गुलैरष्टभिश्चान्या तृतीया षड्भिरङ्गुलैः ॥ ३१ ॥

अष्टहस्तय या पूर्वा मेकला द्वादशाङ्गुला।
दशाङ्गुला द्वितीया तु तृतीयाष्टाङ्गुला मता ॥ ३२ ॥

कुण्डश्य यादृशं रूपं मेकलानां तु तादृशम्।
अथवान्यप्रकारेण मेकलामानं उच्यते ॥ ३३ ॥

चतुर्विंशति भागं तु विभजेत्कुण्डमानकम्।
तदेकभागमात्रं स्यात्तेन द्वित्रिचतुर्गुणैः ॥ ३४ ॥

विस्तारोत्सेध मानाभ्यां भवन्तीह च मेकला।
षडङ्गुल विशालोच्चा मेकलैका भवेद्यदि ॥ ३५ ॥

कुण्डबिम्बार्ध मानेन नाभिस्त्र्यंशेन वा मता।
मेकला मध्यगा योनिर्द्व्यङ्गुलोच्छ्राय संयुता ॥ ३६ ॥

मुष्टिरत्न्येक हस्तेषु योनिमानं उदीरितम्।
द्विहस्तादिषु कुण्डेषु विस्तारे द्व्यङ्गुलाधिका ॥ ३७ ॥

अग्न्यङ्गुलाधिका दैर्घ्यादुत्सेधस्स्वभुजात्ततः।
सा योनिस्सर्व कुण्डानां स्वार्धमानेन निर्मिता ॥ ३८ ॥

अश्वत्थपत्रवद्वाथ गजोष्ठ सदृशाऽथवा।
प्रणालेन समायुक्ता कुण्डमान युतेन तु ॥ ३९ ॥

योनेरारभ्य नाभ्यन्तं गोनन्देन सुशोभिना।
नाभिस्स्यात्कुण्डमध्ये तु स्वार्ध मानेन निर्मिता ॥ ४० ॥

तच्चतुर्थांशकोत्तुङ्ग पद्माकारा यथा भवेत्।
एकाशीतिपदा वेदी मण्डपेन बहिर्भवेत् ॥ ४१ ॥

तद्बाह्ये त्रिषुभागेषु मध्ये कुण्डानि कल्पयेत्।
चतुर्धा वेदिकां कृत्वा वेदिका कुण्डमध्यमे ॥ ४२ ॥

यथैकांशं भवेत्कुण्डजालं वा परिकल्पयेत्।
प्रधान वायुसोमेश कुण्डेषु प्राङ्मुखो यथा ॥ ४३ ॥

पूर्वमुत्तर वक्त्रं स्याच्छेषं प्रागुत्तरामुखम् ॥ ४४ ॥

Pūrvapāda – Kapitel 8: Die Feuerhandlung

अतःपरं प्रवक्ष्यामि अग्निकार्य विधिक्रमम्।
वैदिकं मिश्रकं शैवं अग्निकार्यं त्रिधा स्मृता ॥ १ ॥

केवलैर्वैदिकैर्मन्त्रैर्विहितो वैदिको भवेत्।
मन्त्रैश्च वैदिकैश्शैवैः विहितो मिश्र उच्यते ॥ २ ॥

केवलैश्शिवमन्त्रैस्तु विहितश्शैव उच्यते।
उत्पादने क्रमस्त्वेवं विहितश्शिवशासने ॥ ३ ॥

त्रिभिः परिधिभिश्चोर्ध्व समिद्भ्यां संयुतस्तु यः।
वैदिकाग्निस्समुद्दिष्टो मिश्राग्निस्तूभयात्मकः ॥ ४ ॥

चतुष्परिधिभिश्शैवश्शास्त्रेऽस्मिन् संप्रकीर्तितः।
प्रणीता ब्रह्मकूर्चेन संयुक्तो वैदिकस्स्मृतः ॥ ५ ॥

तथैव मिश्रवह्निस्तु शैवाग्निस्तद्युतो हि वा।
मिश्रवैदिकयोरग्न्योः स्वरूपं शृणुत द्विजाः ॥ ६ ॥

एकविग्रह संयुक्तो द्विवक्त्रश्च द्विनासिकः।
षडक्षो मेकलायुक्तः पादत्रय समन्वितः ॥ ७ ॥

चतुश्शृङ्ग समायुक्तो द्विशिरा जटिलो मतः।
उपवीती च मौञ्जीवान् सप्तहस्तस्समायुतः ॥ ८ ॥

सप्तजिह्वा समायुक्तो वृषवाहन संयुतः।
हिरण्या कनका रक्ता कृष्णा जिह्वा च दक्षिणे ॥ ९ ॥

सुप्रभा चातिरक्ता च बहुरूपा च वामके।
एवं जिह्वास्समुद्दिष्टा मिश्राग्नौ वैदिकानले ॥ १० ॥

हिरण्या वारुणी जिह्वा कनका मध्यमे स्थिता।
रक्ता चोत्तरजिह्वा स्यात् कृष्णा याम्यां दिशिस्स्थिता ॥ ११ ॥

सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्नि दिक्स्थिता।
बहुरूपैश जिह्वा स्याज्जिह्वास्थानं प्रकीर्तिताः ॥ १२ ॥

शैवाग्निः कथ्यते विप्राः शृणुताथ समाहिताः।
पञ्चवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् ॥ १३ ॥

दशहस्तं त्रिणेत्रं च सर्वाभरण भूषितम्।
रक्तवस्त्र परीधानं पङ्कजोपरि संस्थितम् ॥ १४ ॥

बद्धपद्मासनासीनं दशायुध समन्वितम्।
कनका बहुरूपा चाप्यतिरक्ता ततः परम् ॥ १५ ॥

सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी।
ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादितः स्थिताः ॥ १६ ॥

शैवाग्नि ध्यानमुद्दिष्टं त्रिविधोऽग्निः प्रकीर्तितः।
वैदिकोऽपि त्रिधा गार्हपत्यस्स्याद् दक्षिणोऽनलः ॥ १७ ॥

ततस्त्वाहवनीयस्तु तेषामत्र प्रयोजनम्।
कारयेद् देशिको धीमान् शैव मिश्रानलोद्भवे ॥ १८ ॥

अनुकल्पं समानीय शैवं संपादयेद् गुरुः।
मिश्रं वा साधयेत् तत्र नियमोऽपि विधीयते ॥ १९ ॥

गार्हपत्यो गृहस्तानां पितॄणां दक्षिणानलः।
दैवस्त्वावहनीयस्तु चान्येषामपि शंसितः ॥ २० ॥

बालो युवा च वृद्धश्च क्रमेण परिकीर्तितः।
प्रतिष्ठार्थं शिवाग्नेस्तु सम्पदर्थं समाहरेत् ॥ २१ ॥

बालाग्निं उत्सवार्थं तु यौवनं परिकल्पयेत्।
नित्याग्नौ योजयेद् वृद्धं अन्यत्राऽपि योजयेत् ॥ २२ ॥

अनुकल्प शिवाग्नेस्तु चोत्पादार्थं क्रमो मतः।
शिवाग्निमुत्पाद होमस्तु श्रेष्टस्संपरिकीर्तितः ॥ २३ ॥

मिश्राग्निमुत्पाद होमस्तु मध्यमः परिकीर्तितः।
वैदिके केवलाग्नौ वा शिवमन्त्रान् न योजयेत् ॥ २४ ॥

शिवाग्नौ वैदिका मन्त्राश्चान्ये वा संप्रकीर्तिताः।
तथैव मिश्र वह्निस्तु वैदिकाग्निस्तु कथ्यते ॥ २५ ॥

ब्रह्मा विष्णुश्च लोकेशा देवाश्चान्ये च ये स्थिताः।
व्यासो बोधायनश्चापस्तम्बश्चैवाश्वलायनः ॥ २६ ॥

सत्याषाढश्च ते चान्ये मत्तो वेदास्तु सार्थकान्।
शास्त्राण्यन्यानि श्रोतारः पुराणं च स्मृता तथा ॥ २७ ॥

सूत्रैस्तु नियमार्थं तु व्यास संक्षेपकारिणः।
तन्मतेन कृतो योऽग्निः वैदिकः परिपठ्यते ॥ २८ ॥

अदीक्षिताश्च विप्राद्या वैदिकाग्नौ तु केवलम्।
अधिकारिण इत्युक्ता दीक्षितास्सर्वयोग्यकाः ॥ २९ ॥

उभयाश्रयिणो ये तु कृत्वादौ वैदिकं पृथक्।
कुण्डसंस्कारपूर्वं तु शैवाग्निं साधयेत्ततः ॥ ३० ॥

मिश्राग्निमेवं उद्दिष्टस्तूभयाश्रम योग्यकः।
अथवा वैदिके होमे निर्वृत्ते तदनन्तरम् ॥ ३१ ॥

शैवोक्त कुण्डसंस्कारान् कृत्वा चाग्निं च तत्पुरा।
नाभिस्थेऽग्नावपानेन विश्राम्योदानवृत्तिना ॥ ३२ ॥

तद्बीजेन क्रमात् सद्यवामाघोर नरेश्वरान्।
नित्याग्निं वेशयेद् भूयश्शिवाग्निमपि कुण्डके ॥ ३३ ॥

एवें मिश्रं तु संपाद्य जुहुयात्सर्वमन्त्रकैः।
विहितेऽन्त्येष्टि कर्मादौ उभयोस्सङ्करार्थकम् ॥ ३४ ॥

आदौ वा कुण्ड संस्कारं कुर्याद्वैदिक शैवकम्।
वैदिकाग्न्यवसाने तु शैवं सम्पाद्य वानलम् ॥ ३५ ॥

कृत्वा शिवाग्निं अन्यत्र तेन संयोजनं नयेत्।
एवं अन्त्येष्टि कर्मादौ साङ्कर्यं सम्मतं त्विह ॥ ३६ ॥

अथोऽन्यत्र पृथक् कार्यः श्रद्धावित्तानुसारतः।
शैवाग्निं संप्रवक्ष्यामि कुण्डलक्षण पूर्वकम् ॥ ३७ ॥

तथा कुण्डं चतुष्कोणं वृत्ताभं वाथ वारिजम्।
सर्वकामप्रदं नित्ये हस्तमात्र विनिर्मितम् ॥ ३८ ॥

चतुस्त्रिद्व्यङ्गुलास्तिस्रो मैखलैका षडङ्गुला।
गजोष्ठ सदृशा योनिर्मध्ये स्याद् द्वादशाङ्गुला ॥ ३९ ॥

कण्ठोऽङ्गुष्ठ प्रमाणेन गर्भश्वभ्रोपरि स्थितः।
स्थण्डिले तदभावे वा संस्कृतेऽग्निं निवेशयेत् ॥ ४० ॥

असंस्कृते तु वै कुण्डे शिवाग्निर्नैव सिद्ध्यति।
अनिष्पन्ने शिवाग्नौ तु हुतं भवति निष्फलम् ॥ ४१ ॥

वीक्षणं शिवमन्त्रेण प्रोक्षणं चास्त्र मन्त्रतः।
वर्मणाभ्युक्षणं कार्यं ताडनं चास्त्र मन्त्रतः ॥ ४२ ॥

उल्लेखनावकिरण पूरणं सेचनं तथा।
कुट्टनं च ततः कुर्यात् सम्मार्जनं अतःपरम् ॥ ४३ ॥

उपलेपः कुण्डकॢप्तिः कुण्डस्य परिधानकम्।
कुण्डार्चनं च परिधिविष्ठरन्यास एव च ॥ ४४ ॥

रेखाचतुष्टयं वज्रकॢप्तिः शृङ्गाटकल्पना।
एतत्सर्वं तु मतिमान् अस्त्रमन्त्रेण कारयेत् ॥ ४५ ॥

आसनं तत्र संकल्प्य देवीं वागीश्वरीं न्यसेत्।
तद्वद्वागीश्वरं चापि यद्वाकाशतनुं शिवम् ॥ ४६ ॥

ध्यात्वा रिरंसुमैशान्यां सङ्गमय्य यथाविधि।
कल्पमन्थानुसम्पातं समिधश्चैतयोस्ततः ॥ ४७ ॥

शुद्धात्मतत्त्ववद्वह्निं अरणेर्जनितं क्षिपेत्।
सूर्यकान्ताद् द्विजावासात् प्रसूतं अथवाऽनलम् ॥ ४८ ॥

अनुकल्पविधानेन मन्त्रपूतं नियोजयेत्।
अयस्कान्तादितोऽकल्पं अथवानीय कल्पवित् ॥ ४९ ॥

ताम्रपात्रे शरावे वा विक्षणाद्यैर्विशोधयेत्।
क्रव्यादंशं परित्यज्य प्रोक्षयेदस्त्रवारिणा ॥ ५० ॥

कवचेनावकुण्ठ्याथ ऐमुनायेति विन्यसेत्।
वह्निबीजं षडङ्गैश्च वह्नेस्संयोजनम् न्यसेत् ॥ ५१ ॥

मूलेन वौषडन्तेन धेनुमुद्रायुतेन च।
अमृतीकृत्य संपूज्य कुण्डस्यैव प्रदक्षिणम् ॥ ५२ ॥

त्रिधा कृत्वाऽथ जानुभ्यां विन्यसेदवनिं गतः।
वागीशी गर्भनाड्यां तु स्वात्मनस्सम्मुखं यथा ॥ ५३ ॥

मूलमन्त्रेण निक्षिप्य स्वात्मानं शिववत् स्मरेत्।
तोयबिन्दुं ततो दत्वा छादयेत्तु सदिन्दनैः ॥ ५४ ॥

दर्भकङ्कणं अस्त्रेण जप्तं गर्भस्य रक्षणे।
देवीहस्ते हृदा बद्ध्वागर्भाधान निमित्तकम् ॥ ५५ ॥

सद्योजातं समावाह्य हृदयेनाहुति त्रयम्।
तिलैर्दत्वा पुंसवननिमित्तं वामं अर्चयेत् ॥ ५६ ॥

शिरसैवाहुतिम् तद्वत् सीमन्तोन्नयने पुनः।
अघोरेण समभ्यर्च्य शिखयैवाहुति त्रयम् ॥ ५७ ॥

दत्वा दर्भेण शिखयां वक्त्राङ्गानां च कल्पनम्।
निष्कृतिं च तदा कृत्वा जातकर्म ततो नयेत् ॥ ५८ ॥

पुरुषेणार्चनं कृत्वा कवचेनाहुति त्रयम्।
तिलेनैव तदा कुर्यात् सूतकस्य निवृत्तये ॥ ५९ ॥

कुण्डं अर्घ्याम्बसा प्रोक्ष्य प्रागग्रान् उदगाग्रकान्।
दर्भानास्तीर्य कुण्डस्य समन्तादस्त्रमन्त्रतः ॥ ६० ॥

रक्षार्थं शिववह्नेस्तु वक्त्राण्युद्घाटयेत्तदा।
आहुतित्रितयेनाथ वक्त्राणां पुष्टयेपि वा ॥ ६१ ॥

लालापनोदनार्थं च सदिध्मान् पञ्च होमयेत्।
चतुर्विंशति संख्याकान् षोडशाङ्गुल दैर्घ्यकान् ॥ ६२ ॥

ईशानं नामकरणे त्वावाह्यास्त्रेण होमयेत्।
शिवाग्निस्त्वमिति ब्रूयात् मूलमन्त्र पुरस्सरम् ॥ ६३ ॥

पित्रोर्विसर्जनं कुर्यान् मेखलासु च पूजयेत्।
इन्द्रादीन् लोकपालांश्च पूजयेत्परिधिष्वपि ॥ ६४ ॥

विष्टरे च क्रमेणैव ब्रह्माणं रुद्रमेव च।
विष्णुमीश्वरं अभ्यर्च्य प्रागादि चतसृष्वपि ॥ ६५ ॥

गृहीत्वा स्रुक्स्रुवास्त्रेण ह्यभ्युक्ष्य कवचेन तु।
अवकुण्ठ्य प्रताप्याग्नौ वा भ्राम्य च तदग्रतः ॥ ६६ ॥

दर्भाग्रेणैव संस्पृश्य भ्राम्य मध्यं तु मध्यतः।
पुनराभ्राम्य मूलेन मूलं संपृश्य तद्द्वयोः ॥ ६७ ॥

तद्वक्त्र पञ्चकं न्यस्य स्रुचि शक्तिं च विन्यसेत्।
स्रुवे शम्भुं समभ्यर्च्य स्वात्मनो दक्षिणे न्यसेत् ॥ ६८ ॥

दर्भाणामुपरिष्टात्तु पूजयेद् हृदयेन तु।
आज्यं अस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठ्य च ॥ ६९ ॥

प्रताप्यग्नौ शिवास्त्रेएणोद्वास्य तत्कवचेन तु।
कुण्डस्यैवोपरिष्टात्तु त्रिः प्रदक्षिणं आनयेत् ॥ ७० ॥

योन्यां संस्थाप्य संग्राह्य दर्भाग्रद्वय निर्मितम्।
प्रादेशिक पवित्रञ्चाङ्गुष्ठानामिक मध्यमम् ॥ ७१ ॥

त्रिराज्योत्प्लवनं कृत्वा कवचेनाग्नि सम्मुखम्।
तद्वत् संप्लवनं कृत्वा हृदयेनात्म सम्मुखम् ॥ ७२ ॥

वह्नौ पवित्रं निक्षिप्य अस्त्रेणोद्योत्य तद्घृतम्।
निरीक्ष्याज्यं ततो धीमान् नीराजनं अथाचरेत् ॥ ७३ ॥

उल्कामग्नौ विनिक्षिप्य प्रोक्ष्याङ्गैरभिमन्त्रयेत्।
अमृतीकृत्य मूलेन धेनुमुद्रायुतेन च ॥ ७४ ॥

संपूज्य मूलमन्त्रेण दर्भं प्रादेश निर्मितम्।
ओंकारेणात्र विन्यस्य नाडीनां कल्पयेत् त्रयम् ॥ ७५ ॥

मध्यादाज्यं समानीय सवाहा प्रणव संयुतम्।
अग्नये वामतस्सोमायेति मन्त्रेण होमयेत् ॥ ७६ ॥

अग्नीषोम समायुक्तं मध्ये होमं समाचरेत्।
चतुर्थीमग्नये स्विष्टकृते स्वाहाऽहुतिं चरेत् ॥ ७७ ॥

तत्सर्पिषो लवक्षेपात् सर्पिषोऽन्यानि शोधयेत्।
अयं विभागश्शुक्ले स्यात् कृष्णे सूर्याहुतिं चरेत् ॥ ७८ ॥

आज्याहुति त्रयेणाग्नेः कुर्याद्वक्त्राभिघारणम्।
स्वैर्स्वैर्मन्त्रैस्समोपेतं सद्यं वामेन योजयेत् ॥ ७९ ॥

वामं घोरेण संयोज्य तं च तत्पुरुषेण तु।
तं चेशाने तु संयोज्य तं शिवेनैव योजयेत् ॥ ८० ॥

कृत्वैवं वक्त्रसन्धानं एकीकरणमेव च।
स्वस्वमन्त्रसमोपेतं सद्योजातादितो नयेत् ॥ ८१ ॥

यथाभिलषितं वक्त्रं कुण्डमानं प्रकल्पयेत्।
अन्नप्राशन चूडादि संस्काराणां प्रसिद्धये ॥ ८२ ॥

जिह्वायां मध्यमस्थायां पूर्णाहुतिं अथाचरेत्।
वौषडन्तेन मूलेन स्रुक् स्रुवाभ्यां विशेषतः ॥ ८३ ॥

चर्वर्थं धूपदीपार्थं ओदनार्थं च कुण्डतः।
ग्राहयेत्तु पृथग्भागं वह्निमुद्धृत्य यत्नतः ॥ ८४ ॥

प्राच्यां चरुपुरोडशाः पञ्चसंस्कार संस्कृते।
अनाहुते शिवे वह्नौ होमस्त्वावाहिते शिवे ॥ ८५ ॥

अग्ने त्वं ऐश्वरं तेजः पावनं परमं यतः।
तस्मात् त्वदीयहृत्पद्मे स्थाप्य सन्तर्पयाम्यहम् ॥ ८६ ॥

प्रार्थयित्वेत्यतस्तस्य योगपीठं हृदम्बुजे।
विन्यस्य कल्पयेन्मूर्तिं भास्वरां सुवरां पराम् ॥ ८७ ॥

आवाहनादिभिस्तस्यां सन्निधीकृत्य कारणम्।
पूजयित्वा बहिस्तस्या भोगाङ्गानि प्रकल्पयेत् ॥ ८८ ॥

आश्रयोपायतो ध्यात्वा भास्वराणि पृथक् पृथक्।
प्ररोच्य परमीकृत्य शिववक्त्राग्निवक्त्रयोः ॥ ८९ ॥

कृत्वा सन्धानमग्नेस्तु ज्योतिर्नासा विनिर्गतम्।
यागस्थाने शिवेनैकीभूतं संयग्विचिन्तयेत् ॥ ९० ॥

नाडीसन्धानकं कृत्वा प्रार्थ्याज्ञां तर्पयेच्छिवम्।
शिवाद्दशांशतोऽङ्गानि तर्पयेत्तु द्विजोत्तमाः ॥ ९१ ॥

शतं अर्धं तदर्धं वा विंशतिर्वा दशा तथा।
आत्मार्थे वा परार्थे वा प्रत्यहं होममाचरेत् ॥ ९२ ॥

एककालं द्विकालं वा त्रिकालं होममाचरेत्।
आज्याभावात् तिलैर्होमः कर्तव्यः कृष्णवर्चसः ॥ ९३ ॥

व्रीहिभिर्वा समिद्भिर्वा दध्ना वापि यवैस्तथा।
त्रिफलैः बिल्वपत्रैर्वा पुष्पैर्वा याज्ञिकैश्शुभैः ॥ ९४ ॥

अन्यैर्होमो विधातव्यः श्रद्धावित्तानुसारतः।
मृगीं वाराह मुद्रां वा शङ्खिनीं वा विधाय च ॥ ९५ ॥

जुहुयाद्वा पृथग्द्रव्यं मात्राख्याभिर्यथा तथा।
सुस्नेहमधुदुग्धानां आहुतिस्स्यात्स्रुवात्मिका ॥ ९६ ॥

निकुञ्जेनाहुतिर्दध्ना भक्ष्यपायासयोः फलात्।
पर्यायात्सर्वभक्ष्याणि पञ्चाङ्गुलिभिस्तिलान् ॥ ९७ ॥

मुष्टिभिर्होमयेल्लाजान् स्वरूपेण फलानि तु।
हस्तपिण्दमितं शाकं स्वाष्टांशं कन्दजातयः ॥ ९८ ॥

तिक्तपिण्याक जातीनां अभिचारविधिं विना।
त्रिखण्डानि तु मूलानि द्व्यङ्गुला वल्लिजातयः ॥ ९९ ॥

लाजावमिश्रितं धान्यं सर्वान्नं ग्राससम्मितम्।
हविष्यान्नं ततश्चान्ते ताम्बूलं विनिवेदयेत् ॥ १०० ॥

प्रदक्षिणं नमस्कृत्वा स्तुत्वा वा भक्तितस्ततः।
पूजयित्वार्पयित्वा च प्ररोच्य च विसर्जयेत् ॥ १०१ ॥

शिवं व्याहृतिभिः पश्चात् सन्तर्प्य शिवपावकम्।
रोचयित्वा तु तत्रैव रक्षयेत् प्रतिवासरम् ॥ १०२ ॥

कुण्डे तु भावयेदग्निं त्रिविधं विधिना त्रिधा।
संपूज्य तत्र देवेशं अविसृज्याङ्गं आलभेत् ॥ १०३ ॥

चण्डभस्म भवेत्पश्चाद्यदा देवो विसर्जितः।
यद्वा विसर्जयेत्कुण्डे वह्निं अन्यत्र रक्षयेत् ॥ १०४ ॥

रक्षितेऽग्नौ तु निर्वाणे जपेद्घोरं उपोषितः।
जपेद्वा जुहुयाद्वाथ बहुरूपं प्रशान्तये ॥ १०५ ॥

तत्रैवान्तर्बलिं दद्यात्कृत्वा मण्डलकं भुवि।
संस्कृते फलके वाथ गन्धपुष्पादि संस्कृते ॥ १०६ ॥

रुद्रेभ्यः पूर्वतो दद्यान् मातृभ्यो दक्षिणे तथा।
गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे बलिम् ॥ १०७ ॥

ग्रहेभ्यश्च तथैशान्यां असुरेभ्यो ऽग्निगोचरे।
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुगोचरे ॥ १०८ ॥

नक्षत्र राशि वर्गेभ्यस्तथा विश्वगणाय च।
मण्डलाभ्यन्तरे देया बलिस्तेभ्यः प्रकामतः ॥ १०९ ॥

वायुवारुण दिग्भागे क्षेत्रपालबलिं क्षिपेत्।
आत्मार्थेऽप्येवमादिष्टं गृहादौ देवसद्मनि ॥ ११० ॥

नन्द्यादि परिवाराणां बलिं दद्यात् पृथक् पृथक्।
अग्निकार्य बलिञ्चान्ते एवमेव समाचरेत् ॥ १११ ॥

समाचम्य शुचिर्भूतो सकलीकृत विग्रहः।
ततो लिङ्गान्तिकं गत्वा प्रतर्प्यानन्तरक्रियाम् ॥ ११२ ॥

गीताद्यैरुपचारैश्च भूयस्सन्तोषयेच्छिवम्।
नित्योत्सवं ततः कुर्याच्छुद्धाख्यं नृत्तमन्तिमे ॥ ११३ ॥

कारयेद्देशिको धीमान् परार्थे देवसद्मनि।
उत्सवं शुद्धनृत्तं च गृहाग्रे न समाचरेत् ॥ ११४ ॥

गानं च कारयेदन्ते यथा तुष्टो महेश्वरः।
गन्धैः पुष्पैश्च संपूज्य दत्वार्घ्यं च पराङ्मुखम् ॥ ११५ ॥

दर्शयित्वा परां मुद्रां उत्थाप्याङ्गानि हेतिना।
संहारिणं शिवं ध्यात्वा मूर्तौ मूर्तिं नियोजयेत् ॥ ११६ ॥

अर्चयित्वा शिवं भूय उच्चार्य हृदयानुगम्।
प्रासादं कारणत्यागाद्यावन्निष्कलतां गतम् ॥ ११७ ॥

परतत्त्वाविभागेन भावयेदथवात्मना।
हृत्सरोजे स्थितेनैक्यं कल्पयेन्मुद्रया तया ॥ ११८ ॥

एवं विसर्जयेद्देवं सापेक्ष निरपेक्षकम्।
बिन्द्वाद्यं नादपर्यन्तं अन्ते चण्डेश्वरं यजेत् ॥ ११९ ॥

बाणे लोहे चले सिद्धे न चण्डेशस्स्वयंभुवि।
प्रतिमानां च सर्वासां अन्ते च स्थण्डिले न हि ॥ १२० ॥

प्रासाद बाह्यतश्चण्डं ऐशान्यां दिशि मन्दिरे।
देवाय दत्तं यद्द्रव्यं चण्डेशायेति कल्पितम् ॥ १२१ ॥

चण्डभोज्यं दुराधर्षं नात्मभोगाय कल्पयेत्।
निर्माल्य लङ्घनं दानं भक्षणं च विसर्जयेत् ॥ १२२ ॥

गुरुपुस्तक नागानां वह्न्योगि गणस्य च।
पार्वती यक्ष मातॄणां न निर्माल्यं शिवे यथा ॥ १२३ ॥

रत्नहेमादि लिङ्गेषु चले लिङ्गे प्रतिक्षणे।
गुरुष्वपि न निर्माल्यं व्याख्यासु प्रतिमासु च ॥ १२४ ॥

स्वेष्टलिङ्गे च यद्दत्तं चरुवत्तन्न संशयः।
नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापयेत् ॥ १२५ ॥

स्नानपानीय दुग्धाद्यैर्यदि सिक्तो भवेत्तदा।
स्नायात्प्रक्षालयेद्वाथ नाभेरूर्ध्वं अधस्तथा ॥ १२६ ॥

आचम्य प्रयतो भूत्वा देवदेवं प्रणम्य च।
च्युतस्खलित शुद्ध्यर्थं अभ्यसेन्मन्त्रसंहिताम् ॥ १२७ ॥

निर्गच्छेदालयाद्वाम पादेनास्पृष्ट देहली ॥ १२८ ॥

Pūrvapāda – Kapitel 9: Die Wahl der Zeit

अथ कालं प्रवक्ष्यामि सर्वेषां तु सुखावहम्।
माघमासं विना शास्तं भानोरयनं उत्तरम् ॥ १ ॥

दक्षिणे त्वरिते मासौ कार्तिकाश्वयुजावपि।
श्रावणश्च विधीयन्ते तदन्ये निन्दिता मताः ॥ २ ॥

शुक्लपक्षश्शुभोऽन्यश्च सप्तम्यन्तोऽसितो मतः।
शुक्ले वाद्यतृतीयांशं कृष्णे चान्त्यं तु वा त्यजेत् ॥ ३ ॥

मध्यमौ मध्यगौ भागौ श्रेष्टावन्यौ प्रकीतितौ।
नवमी पञ्चदश्यौ च हित्वा युग्मेतरं तिथिम् ॥ ४ ॥

आद्यामपि च युग्मासु द्वितीयां दशमी तथा।
कृष्णे षष्टिं च याश्शिष्टास्तास्सर्वा अनिन्दितास्त्विह ॥ ५ ॥

रोहिणी चोत्तरास्तिस्रो हस्तं स्वाती पुनर्वसू।
अनूराधाश्वयुक् सौम्यं वैष्णवं वारुणं मघा ॥ ६ ॥

चित्राश्रविष्ठापौष्णाश्च मनुजेषु प्रशंसिताः।
पूज्याश्शतभिषक् चैव विशाखा पूर्वजैस्सह ॥ ७ ॥

देवेषु कथितं रौद्रं सर्वमेतच्छिवे मतम्।
मानुषे पौष्य पौष्णाश्च तदन्ये निन्दितास्त्विह ॥ ८ ॥

वारौ कुजार्कौ हित्वा च देववारः प्रशंसितः।
मनुष्यैरपि वारं च वर्जयेत्त सितापरम् ॥ ९ ॥

तललक्षगते भानौ वेश्मारम्भं विवर्जयेत्।
शुभकर्म न कर्तव्यं जीवे चास्तं गते बुधैः ॥ १० ॥

शुक्रस्यास्तमये वाऽपि प्रतिष्ठाद्यं न कारयेत्।
दिवा गर्भ प्रतिष्ठा च शर्वर्यां वास्तुकर्म च ॥ ११ ॥

सर्वदोषकरं प्रोक्तं रात्रावावेशनं भवेत्।
रात्रौ वास्तुबलिं ग्रामे नाग्नौ कुर्यात् कथञ्चन ॥ १२ ॥

उत्तमः स्थिरराशिस्स्यान् मध्यमस्तूभयात्मकः।
विवर्ज्यश्चरराशिस्तु सजीवश्चेच्छुभप्रदः ॥ १३ ॥

गुरुभार्गवचान्द्रीणां उदयस्संप्रशस्यते।
गुरूदयस्तु विप्राणां भूपतीनां भृगूदयः ॥ १४ ॥

विशां बुधोदयश्श्रेष्ठश्शूद्रे चैवं विधीयते।
त्रिषडेकादशस्थाने पापास्तु निशि शोभनाः ॥ १५ ॥

व्ययं हित्वा शुभास्सर्वे सर्वत्र शुभदा मताः।
चतुरश्रे शुभाः पापा वर्जनीया विशेषतः ॥ १६ ॥

उभयस्थं हिमांशुं च षट्सप्तमगतं शुभम्।
वर्जयेद्देशिको धीमान् पञ्चगोचर संस्थितः ॥ १७ ॥

कण्टकं ब्रह्मदण्डं च स्थूणमुक्तं ग्रहेण च।
युक्तं च काङ्क्षितञ्चोडुं सन्त्यजेद्देशिकोत्तमः ॥ १८ ॥

वेधितर्क्षं व्यतीपातं वज्रं शूलं तथैव च।
विष्कम्भं परिघं चैव गण्डं वैधृतिहर्षणे ॥ १९ ॥

तथाऽतिगण्डमन्दर्क्षं षडशीतिमुखं तथा।
माससून्यं ग्रहैर्भिन्नं दग्धवारं तथैव च ॥ २० ॥

ग्रहदोषसमाविष्ट ज्वालानक्षत्रकादि यत्।
तिथिनक्षत्र मासाब्दायनान्तं च वर्जयेत् ॥ २१ ॥

अधिमासं त्यजेद्धीमान् देशिकस्तु विशेषतः।
यजमानानुकूलर्क्षे स्वल्पदोषे गुणाधिके ॥ २२ ॥

पूर्वाह्ने वाथ मध्याह्ने लग्ने ग्रहबलान्विते।
कारयेद्वास्तुकर्मैतत् सर्वसम्पत्समृद्धये ॥ २३ ॥

Pūrvapāda – Kapitel 10: Die Prüfung der Vorzeichen

आदौ कालं परीक्ष्यान्ते शुभकर्म समाचरेत्।
निमित्त शकुनानादौ ज्ञात्वा कर्म समाचरेत् ॥ १ ॥

वास्तुविद्देशिकश्शिल्पी दैवज्ञो यजमानकः।
शुचिश्शुक्लाम्बरो भूत्वा भूषणैस्समलङ्कृतः ॥ २ ॥

प्रस्थाने निर्गमे चैव वास्तुदेश प्रवेशने।
निमित्तान् शकुनानेतान् पश्येद्ध्यात्वा सदाशिवम् ॥ ३ ॥

विद्वांसो ब्राह्मणो वापि पत्नीपुत्रयुतो बली।
भूषिता वा सुपुत्रा वा हर्षिता च विशेषतः ॥ ४ ॥

रूपिणि गर्भिणी कन्या क्रीडन्तश्च विशेषतः।
भक्ष्यं भोज्यं च पानं च मांसं दीपं तथैव च ॥ ५ ॥

अनुलेपनमालादि गन्धद्रव्यं घृतं दधि।
श्रीवत्सं पूर्णकुम्भं च शङ्खं गोरोचनं तथा ॥ ६ ॥

आदर्शनं ध्वजं चैव सिद्धार्थं च पयः पुनः।
यान्यन्यानि प्रशस्तानि शुभं तेषां तु दर्शनम् ॥ ७ ॥

चुचुन्दरी शिवा गौली सूकरश्चापि पिङ्गलः।
कोकिलं वामतश्शस्तं प्रस्थाने सर्वकर्मणि ॥ ८ ॥

आसन्न निम्नगाश्शीघ्रं दूरादुन्नत दूरगाः।
हर्म्यप्रासाद माङ्गल्य मनोज्ञस्थान संश्रिताः ॥ ९ ॥

श्रेष्ठा मधुरसक्षीर फलपुष्प द्रुमेषु च।
न ग्रामेऽरण्यगौर्ग्राह्यो नारण्ये ग्रामसंस्थितः ॥ १० ॥

दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा।
द्वन्द्वगौ चार्थितौ ग्राह्यौ काकोलस्त्विष्टकाङ्क्षिणः ॥ ११ ॥

आपगान्तरिता मत्ता न ग्राह्यश्शकुनाः क्वचित्।
क्षुतं सर्वत्र नेष्टं स्याद् गोक्षुतं मरणं दिशेत् ॥ १२ ॥

गुलास्थि कृष्णधान्यानि कार्पासाङ्गारगोचरः।
नियतेरिन्धनानां च दर्शनं शोकदं भृशम् ॥ १३ ॥

चर्मकृन्मुक्तकेशादि रणक्षुत्क्षाम मुण्डिनाम्।
मलिनामभक्त नग्नादेर्दर्शनं दुःखदं भवेत् ॥ १४ ॥

आक्रोशं रोधनं चैव कलहश्शोखदः पुनः।
वराहमहिषोष्ट्रादेर्दर्शनं च तथा भवेत् ॥ १५ ॥

प्रतिकूले निमित्ते च सर्वकर्म विवर्जयेत्।
एकधा द्वित्रिधा कृत्वा निमित्तत्रय दोषकृत् ॥ १६ ॥

वर्जयेद्देशिको धीमान् पञ्चगोचर संयुतः ॥ १७ ॥

Pūrvapāda – Kapitel 11: Die Prüfung des Bodens

शुभे निमित्ते लब्धे च भूपरीक्षां समाचरेत्।
शैवं ब्राह्मं तथा वास्तु वैष्णवञ्चैन्द्रमेव च ॥ १ ॥

औक्षञ्च भौतिकञ्चैव आसुरञ्च पिशाचकम्।
राक्षसं चैव वायव्यं वारुणाग्नेयकौ तथा ॥ २ ॥

जानीयाल्लक्षणैरेतैः भूगुणं देशिकोत्तमः।
कर्णिकारार्जुनाश्वत्थ कपित्थाशोक धातकी ॥ ३ ॥

स्थलारविन्द तुलसी दूर्वाभिर्वा तता मही।
विष्णुक्रान्ताखुकर्णाभ्यां शाल्मली गिरिशारिबा ॥ ४ ॥

कपोत शुकहंसैश्च शैवी सा शुभदा मही।
बिल्वैः पलाशैर्दर्भैश्च कुशैश्च हरिणैस्तथा ॥ ५ ॥

होमद्रव्यैस्सुगन्धैश्च भू ब्राह्मी शुभदा मता।
तिन्दुकैस्तिन्त्रिणीभिश्च करजैर्वेणुभिस्तथा ॥ ६ ॥

कार्पासार्कजपाभिश्च हंसैः पक्षिमृगैस्तथा।
निष्कण्ठकैस्तथावृक्षैर्या भूमिस्सहिता भवेत् ॥ ७ ॥

वैष्णवी भूस्समाख्याता शौर्यवीर्यप्रदा नृणाम्।
कदली पनसाम्रैश्च पुन्नागैर्वकुलैस्तथा ॥ ८ ॥

पाटलैस्सिन्धुवारैश्च तथा चामलकैः पुनः।
इन्दीवरैश्च वैश्यैश्च शूद्रैरैन्द्री मही मता ॥ ९ ॥

पाटल्यगरुगन्धाढ्या धनधान्य समृद्धिदा।
अङ्कोलैश्च तथा वृक्षैर्मार्जालैर्नकुलैस्तथा ॥ १० ॥

शशगोधाचकोरैश्च वृकैरौक्षमही मता।
शौर्यवीर्यकरी सा स्यात् प्रजासंपत्समृद्धिदा ॥ ११ ॥

निर्गुण्डी माधवी दूर्वा त्वङ्कोलैः किंशुकैस्तथा।
मल्लिका करवीरैश्च मधूकैर्भौतिकी मता ॥ १२ ॥

अन्नदा पुष्टिदा नॄणां भस्मगन्ध समन्विता।
भल्लातकैर्महावृक्षैः दुष्टसत्त्वैः पलाण्डुभिः ॥ १३ ॥

किरातैः ककुभैर्गृद्ध्रैः धूतैस्सर्वैस्समन्विता।
आसुरी युद्धदा भूमिः पूतिगन्ध समन्विता ॥ १४ ॥

शाल्मलीभिस्तथा भूमिः वकुलैश्च विभीतकैः।
श्लेष्मातकैः खरैरुष्ट्रैस्सृगालैस्सूकरैः पुनः ॥ १५ ॥

चण्डालैश्च पुलिन्दैश्च पूतिगन्धोषरा च सा।
पैशाची च स्मृता शास्त्रैस्सर्वनाश समन्विता ॥ १६ ॥

चण्डाल विषचोरैश्च शिरो रोगादिभिस्तथा।
मरीच गुलगन्धाढ्या राक्षसी सा क्षयप्रदा ॥ १७ ॥

गोमायु गणसङ्कीर्णा झिल्लिका शर्करान्विता।
या वायव्येति सा प्रोक्ता दुःखनैर्धन्यदायिका ॥ १८ ॥

या पूगैरावृता भूमिः वारुणी सर्वसिद्धिदा।
स्नुहिश्लेष्मातकाद्यैश्च संयुक्ता क्षुद्रशर्करैः ॥ १९ ॥

ऊषरा तोयहीना च आग्नेयी सर्वनाशिनी।
शैवे शैवी समाख्याता वैष्णवी विष्णुदेशके ॥ २० ॥

ब्राह्मी स्याद् ब्रह्मदेशे तु शैवी विप्रादि योग्यका।
शैवी विप्रविशिष्टा च ब्राह्मी स्याद्वैष्णवी च भूः ॥ २१ ॥

भूभृतां स्याद्विशामौक्षी शूद्राणां भौतिकी स्मृता।
पैशाची त्वासुरी भूमी राक्षसी या च भूर्मता ॥ २२ ॥

अन्त्यजानां इह प्रोक्ता शतशः कर्षिता च या।
सा च गोभिश्चिरं भित्वा भूर्ग्राह्या वत्सरोर्ध्वतः ॥ २३ ॥

क्षेत्रस्थितिवशादुर्वी कथिता त्वनुलोमिनाम्।
अनूपा जाङ्गला चेति वास्तुयोग्या द्विधा धरा ॥ २४ ॥

स्थिरं गुरुतरं भूरिशर्करं क्षारवारिणा।
युक्तमल्पीयसात्यन्तं खातेऽगाघेऽपि जाङ्गलम् ॥ २५ ॥

कशेरुकैरवाकीर्णं रूढ सौगन्धिकोत्पलम्।
सूक्ष्मवालुकमानूपं कृषिकृत्युच्चलज्जलम् ॥ २६ ॥

जाङ्गलानूप सम्मिश्रगुणं साधारणं स्मृतम्।
जाङ्गलं कदली ताल पनसादि तरूद्भवम् ॥ २७ ॥

सर्वसस्योचितं पुष्पफलवृक्ष सुखोदयम्।
सर्वर्तु सुखदं सर्वहितमानूपं इष्यते ॥ २८ ॥

तयोस्सम्पर्क संयुक्तं साधारणं उदाहृतम्।
पद्मकं भद्रकं धूम्रं पूर्णञ्चेति चतुर्विधम् ॥ २९ ॥

समसंस्पर्शनं स्निग्धं सुगन्धं सुस्वरं स्थिरम्।
करोदाञ्जलि मात्रोद्यदुदकं वास्तु पद्मकम् ॥ ३० ॥

प्राच्युदीच्युदकं सस्यं दक्षिणेशं पुरोवनम्।
सौम्यं सारतरं तत्तु प्रागुदग्वीरणान्वितम् ॥ ३१ ॥

सुद्रव्यं रमणीयं सज्जनस्थानं तु भद्रकम्।
पूर्णकं धूम्रकं नित्यं अनिलानल दिक्प्लवम् ॥ ३२ ॥

उत्तमं मध्यमं नीचं नित्यं चेति चतुर्विधम्।
दशदण्ड प्रमाणं तु षण्मात्रावनतं तु यत् ॥ ३३ ॥

उत्तमं स्याद्वितस्त्या तु मध्यं हस्तेन चाधमम्।
तन्मन्दमध्यत्वरित जलावह समन्वितम् ॥ ३४ ॥

हस्तादधिक निम्नं तु निन्दितं वास्तु कीर्तितम्।
चतुरश्रं समं यत्तु देवानाञ्च द्विजन्मनाम् ॥ ३५ ॥

अष्टषट्चतुरश्रं यद्युक्तं तु नृपवैश्ययोः।
शूद्रस्यापि यथा संख्यं कल्पयेद् देशिकोत्तमः ॥ ३६ ॥

श्रेष्टं पूर्वायतं वास्तु मध्यमं दक्षिणोत्तरम्।
श्वेतं रक्तं च पीतञ्च कृष्णं विप्रादितः क्रमात् ॥ ३७ ॥

मृदङ्गवेणु वीणादि दुन्दुभि ध्वनि संयुतम्।
पुन्नाग जातिपुष्पाब्ज धान्य पाटल गन्धकैः ॥ ३८ ॥

पशुगन्ध समं श्रेष्टं सर्वबीज प्ररोहणम्।
एकवर्णं घनं स्निग्धं सुखसंस्पर्शनान्वितम् ॥ ३९ ॥

कुब्जाङ्गमुक्तमाकाशं नीचच्छन्नं परं सुखम्।
तिक्तं च कटुकं चैव कषाय मधुराम्लकम् ॥ ४० ॥

लवणं षड्रसैर्युक्तं युक्तं सर्वसुखावहम्।
प्रदक्षिणोदकोपेतं करमात्रोच्चलज्जलम् ॥ ४१ ॥

निष्कपालं निरुपलं क्रिमिवल्मीक वर्जितम्।
सुषिरास्थि विहीनं तु तनुवालुक संयुतम् ॥ ४२ ॥

अङ्गारतुषहीनं तु वृक्षमूल विवर्जितम्।
पङ्कशेषोत्थितं श्वभ्रदरीलोष्ट विवर्जितम् ॥ ४३ ॥

शर्करा भस्महीनं तु सभाचैत्य समीपगम्।
दुष्टप्राणि समीपस्थं नृपमन्दिर संश्रितम् ॥ ४४ ॥

देवालय समीपस्थं कण्टकद्रुमसंयुतम्।
चण्डाल वास्तुकं चैव कर्मकारालयाश्रितम् ॥ ४५ ॥

एकद्वित्रिचतुर्मार्गावृतं अव्यक्त मार्गकम्।
शङ्कराराम संयुक्तं तस्य क्षेत्रं तु वर्जयेत् ॥ ४६ ॥

अन्यदेवं विधं वास्तुसर्वदोषकरं भवेत्।
यत्कर्म विहितं मोहादेवं भूते तु वास्तुनि ॥ ४७ ॥

तन्महादोषदं यस्मात् सर्वथा तद्विवर्जयेत्।
हीनजातेस्समुद्दिष्टं उत्कृष्टानां विधीयते ॥ ४८ ॥

उत्कृष्टोक्तं न हीनस्य सर्वदेवेषु योग्यकम्।
मिश्रवर्णयुतं वास्तु श्रेष्ठं तद्वर्णजन्मनाम् ॥ ४९ ॥

पूर्यमाणे महीं खात्वा गर्ते स्वैरेव पांसुभिः।
अधिकन्यूनतुल्येषु पांसुष्वेतादृशं फलम् ॥ ५० ॥

तत्पांसु धारणे षष्टिशतं फलविवेकतः।
सपुष्पकुम्भतोयेन पूर्यमाणेऽवटे यदि ॥ ५१ ॥

शस्तंप्रदक्षिणावर्तं उदकं शान्तबुद्बुदम्।
उत्तान पुष्पकं श्रेष्ठं न त्वधोमुख पुष्पकम् ॥ ५२ ॥

सर्षपाणां तिलानां वाचोप्तानामङ्कुरा भुवि।
त्रिरात्रेण प्रजायन्ते यस्यां सा स्याच्छुभा मही ॥ ५३ ॥

पूर्वोत्तरप्लवा श्रेष्ठा मध्यमा सर्वतः प्लवा।
सापि ग्राह्या गृहादौ तु सा चोल्बण गुणान्विता ॥ ५४ ॥

कुमार राजधानी वा न्यायाप्ता सा मही मता।
एवं परीक्ष्य गृह्णीयान्महीं बहुगुणान्विताम् ॥ ५५ ॥

वेतालादेः पुनस्संयक् प्रवेशबलिं आहरेत् ॥ ५६ ॥

Pūrvapāda – Kapitel 12: Die Gabe beim Betreten des Landes

ग्रामादीनां च सर्वेषां प्रासादानां च सद्मनाम्।
अन्येषामपि सर्वेषां प्रवेशबलिरुच्यते ॥ १ ॥

शुभे मुहूर्ते नक्षत्रे रात्रौ दोष विवर्जिते।
आदिशैव कुलोद्भूतः पञ्चगोचर संस्थितः ॥ २ ॥

पञ्चाङ्ग भूषणोपेतः सोष्णीषस्सोत्तरीयकः।
सितानुलेपनाढ्यश्च प्रवेशबलिं आरभेत् ॥ ३ ॥

ब्राह्मणान् भोजयेत्पूर्वं पुण्याहं वाचयेत्ततः।
नवभागं धरां कृत्वा ब्रह्मस्थानादितः क्रमात् ॥ ४ ॥

नवदिक्षु बलिंदद्यान् मन्त्रेणानेन वास्तुवित्।
इमे भूमौ वसन्तोऽत्र भूत पैशाच राक्षसाः ॥ ५ ॥

स्वेच्छं गच्छन्त्विमां भूमिं आशु गृह्णामि वास्तुने।
दध्यापूप संयुक्तैरन्नैस्तेषां बलिं क्षिपेत् ॥ ६ ॥

गीतवाद्यादि घोषैर्वेदघोषैश्च घोषयेत्।
आचार्यं पूजयेत्पूर्वं सर्वान् संपूजयेत्ततः ॥ ७ ॥

Pūrvapāda – Kapitel 13: Die Annahme des Landes

ततः प्रभाते स्वीकारं कुर्यात्स्नातो विभूषितः।
वसानो नूतनं वस्त्रं उत्तरीय समन्वितः ॥ १ ॥

सूपलिप्त मही मध्ये सर्वधान्योपरि स्थितम्।
सितचन्दन लिप्ताङ्गं चूताश्वत्थ दलान्वितम् ॥ २ ॥

सर्वरत्नोषधीगर्भ निम्नगाम्भः प्रपूरितम्।
सद्वस्त्र वसनं कुम्भं सितसूत्र विभूषितम् ॥ ३ ॥

सासनेन सदेहेन शिवेन समधिष्ठितम्।
पूजयित्वा विधानेन गन्धपुष्पाक्षतैर्गुरुः ॥ ४ ॥

ततः कुम्भं समुत्क्षिप्य विप्रमूर्ध्न्यधिरोपयेत्।
वेदातोद्य कुलस्त्रीणां प्रशस्त ध्वनिभिस्तथा ॥ ५ ॥

ततः करकनिर्गच्छदच्छिन्न जलधारया।
ध्यायन् प्रजाहितं क्षिप्रं परिषिञ्चेत्प्रदक्षिणम् ॥ ६ ॥

नयेत्तत् पूर्वसीमान्तं किञ्चित्तत्र विलम्ब्य च।
तस्मादग्नेः पलाशस्य पवेशानयोस्ततः ॥ ७ ॥

दिक्षु नीत्वा ततः प्राचीं नयेद् भूमि परिग्रहे।
आचार्यादीन् अथाभ्यर्च्य कर्ता दद्याच्च दक्षिणम् ॥ ८ ॥

प्रवेशार्थं बलिं चैव भूपरीक्षा परिग्रहौ।
ग्रामाङ्ग भूत देवादौ पृथङ्नेष्टो विचक्षणः ॥ ९ ॥

तत्रादौ कर्षणं कुर्यात् स्वतन्त्रैस्सर्वं आचरेत्।
सर्वं स्वतन्त्रतः कुर्याच्छ्रद्धावित्तानुसारतः ॥ १० ॥

तत्र दुर्गानिवेशे तु विशेषः किञ्चिदिष्यते।
हस्तमानावटं खात्वा भूमिमध्ये शुभेदिने ॥ ११ ॥

चन्दनोषित तोयेन सायं गर्तं प्रपूरयेत्।
दर्भास्तरान्तिके तस्य पयः पीत्वा गुरुः स्वपेत् ॥ १२ ॥

अस्मिन् वास्तुनि वर्धस्व धनधान्येन मेदिनि।
उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ॥ १३ ॥

इत्युत्तवोपोष्य शुद्धाङ्गः श्वभ्रं प्रातः परीक्षयेत्।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसंपदे ॥ १४ ॥

क्लिन्ने वास्तुविनाशाय शुष्के धान्यधनक्षयः।
अह्नि वा पूरणं कृत्वा परीक्षां तु समाचरेत् ॥ १५ ॥

गत्वा शतपदं चान्तः प्रत्यावृत्य निरीक्षयेत्।
अन्यूनं चेज्जलं तत्स्थं उत्तमा भुः प्रशस्यते ॥ १६ ॥

अङ्गुलेन तु हीनं चेन्मध्यमेति प्रकीर्तिता।
ततो हीनं तु हीना स्यादतिहीना विपत्करी ॥ १७ ॥

इयं परीक्षा कर्तव्या प्रवेशार्थबलेः पुरा।
सर्वेषामपि वास्तूनां सा तु साधरणी मता ॥ १८ ॥

एवं परिग्रहं कृत्वा ततः कर्षणं आरभेत् ॥ १९ ॥

Pūrvapāda – Kapitel 14: Das Pflügen

अतःपरं प्रवक्ष्यामि ग्रामादीनां च कर्षणम्।
सुश्वेतौ वृषभौ दान्तौ युवानौ बलसंयुतौ ॥ १ ॥

अप्रोतनासिकौ साण्डौ शुभलक्षण संयुतौ।
ककुदं च तथा वालखुरशृङ्गाणि भूषयेत् ॥ २ ॥

तदाकृतिकृतैर्हेम भूषणैर्गन्धपुष्पकैः।
उक्तलक्षण वर्णाढ्यं गृहीत्वा गोवृषद्वयम् ॥ ३ ॥

तर्पयित्वा गुलैः क्षीरैस्ततः कर्षणं आरभेत्।
तस्योपकरणं द्रव्यं खादिरं देवविप्रयोः ॥ ४ ॥

नृपाणां खादिरो राजतरुस्स्याद्वैश्य शूद्रयोः।
निम्बश्च वकुलश्चापि गवाक्षी कट्फलस्तथा ॥ ५ ॥

तिन्दुकः करवर्णश्च सर्वेषां तु महीरुहाम्।
हलश्च लाङ्गलो मुष्टिर्युगमस्य प्रकीर्तितः ॥ ६ ॥

चतुर्वितस्ति दीर्घं स्याद्धलं तन्मूलनाहकम्।
द्विवितस्ति षडङ्गुल्यं लाङ्गलेषु प्रपठ्यते ॥ ७ ॥

त्रिगुणो हलदैर्घ्येण मूलोऽष्टाङ्गुल नाहकः।
अग्रे तु चतुरङ्गुल्यं लाङ्गलेषु प्रशस्यते ॥ ८ ॥

हलदीर्घस्समुद्दिष्टस्त्रिद्व्यङ्गुल घनान्वितः।
घनद्विगुण विस्तारा पताका ध्वज यष्टिवत् ॥ ९ ॥

चतुर्हस्तायतश्चाग्रे वितस्ति परिणाहकः।
मध्ये त्रिसप्त मात्रेण नाभेर्वृत्तिनिभो युगः ॥ १० ॥

चतुर्वितस्ति दीर्घस्स्यादेकाङ्गुल विशालकः।
शम्यश्शम्यान्ततरस्सम्यक् वितस्तितिरिह कथ्यते ॥ ११ ॥

मध्ये कीलो द्विमात्रस्स्यान्मध्य वामे तु षड्यवः।
शम्यान्तरस्समं शम्यालम्बनं स्याद्युगादयः ॥ १२ ॥

पांसुगर्भं च तत्तुल्यमयोमयमिहेष्यते।
हिरण्मयं पांसुगर्भं देवानां प्रविधीयते ॥ १३ ॥

राजतं द्विजभूपानां लोहितं वैश्य शूद्रयोः।
यद्वा हलादिकं यत्तु तदर्धे वसुभाजिते ॥ १४ ॥

एकभागं समारभ्य चतुर्भाग वसानकम्।
न्यूनं वाप्यधिकं वापि कारयेत्कर्तुरिच्छया ॥ १५ ॥

रज्जुर्गोचर्मजा वापि मौञ्जी तालज वल्कलाः।
नालिकेरकृता वापि रज्जुस्सर्वत्र शंसिता ॥ १६ ॥

पलाशोदुम्बराश्वत्थ वटप्लक्षोद्भवास्तथा।
हलाद्यस्सुरादीनां सर्वे सर्वत्र वा मताः ॥ १७ ॥

एवं सर्वं च सम्पाद्य देशिकश्शिवविप्रजः।
कृतमन्त्र तनुर्भूत्वा सोष्णीषश्चोत्तरीयकः ॥ १८ ॥

प्राप्त पञ्चाङ्ग भूषस्तु वृषभौ संप्रपूजयेत्।
वृषं त्र्यम्बक मन्त्रेण हलं चास्त्रेण पूजयेत् ॥ १९ ॥

कर्षकं तु समाहूय वस्त्रं दत्वा द्विजोत्तमः।
आत्मानमिव तं ध्यात्वा प्रेषयेत्कृषिकर्मणी ॥ २० ॥

स्वयं चादौ तु संपृश्य कर्षयेद्देशिकोत्तमः।
द्वात्रिंशद्वारमित्युक्तं देवाग्रज महीभृताम् ॥ २१ ॥

दशपञ्चाधिकं ख्यातं वैश्ये शूद्रे तु सप्तकम्।
सर्वेषां सप्तवारं वा पञ्चवारमथापि वा ॥ २२ ॥

प्राङ्मुखोदङ्मुखो वापि कृषिकर्म समारभेत्।
एवं कृष्ट्वा समीकृत्य षण्मात्रावर्तितं क्रमात् ॥ २३ ॥

तिलसर्षप मुद्गांश्च माषव्रीहिमनुक्रमात्।
पयसा क्षालयित्वा तु वपेन्नेत्रमनुस्मरन् ॥ २४ ॥

आचार्य दक्षिणां दद्यात्काञ्चनं पञ्चनिष्ककम्।
सर्वोपकरणोपेतं दद्यात्तस्मै च गोवृषौ ॥ २५ ॥

वृषौ पृष्ठवनीतौ च तयोश्चैवातिधावनम्।
शयनं दुष्कृतं चान्यत् प्रजानां सर्वदोषकृत् ॥ २६ ॥

हलादिभङ्गे तद्वत्स्याद्रज्जुच्छेदे तथैव हि।
प्रायश्चित्तं तदा कुर्याच्छन्तिहोमं शिवद्विजः ॥ २७ ॥

तथात्र कर्षकस्यापि पतने चैवमेव हि।
तत्रस्थानां च सस्यानां वर्धितानां च कर्षणात् ॥ २८ ॥

भक्षणं गोकुलैर्धीमान् कारयेद्देशिकोत्तमः।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तु वासयेत् ॥ २९ ॥

गवां सवृषवत्सानां पुरीषप्रस्रवोक्षणैः।
खुरसंघट्टनाघ्राण परिभ्रमणगोष्पदैः ॥ ३० ॥

रोमन्थोद्गारपातैश्च फेनैर्वत्साननच्युतैः।
पवित्रीकृत भूमध्ये ग्रामाद्यं परिगृह्यताम् ॥ ३१ ॥

Pūrvapāda – Kapitel 15: Die Aufstellung des Schattenstabes

देवाङम् ब्राह्मणादीनाम् वर्णानाम् अनुलोमिनाम्।
गृह ग्रम्ऽदि कर्तॄणाम् शिवदीक्ष्न्वितात्मनाम् ॥ १ ॥

अदीक्षितानाम् अन्येषाम् शिवभक्यन्वितात्मनाम्।
शङ्कुस्थापनम् वक्ष्ये ग्रामादीनाम् श्भावहम् ॥ २ ॥

ब्रह्मस्थ्ऽअनस्य नैरृत्याम् शङ्कुस्थानम् प्रकल्पयेत्।
अन्यत्र स्थापितम् शङ्कुर् गृआमाद्यम् नाशयिष्यति ॥ ३ ॥

दण्डप्रमाण विस्तारम् ष्डङ्गुल समुन्नतम्।
शन्क्वर्थम् मण्डल्म् कुर्याद् देवानाम् च सनातनम् ॥ ४ ॥

युक्ताष्ट षट्चतुर्मात्रम् द्विमात्रोच्चम् मनोहरम्।
निर्दरम् निर्जरम् स्निग्धम् सुस्पृश्यम् सुसमम् शुभम् ॥ ५ ॥

त्रिहस्तार्धम् त्रिहस्तम् च द्विहस्तार्धम् द्विहस्तकम्।
द्विजादीनाम् यथा सङ्ख्यम् योजनीयम् विचक्षणैह् ॥ ६ ॥

आपूर्य सलिलम् तत्र वम्शकीलान् महोदयान्।
खातयेत् तान् बहून् सम्यक् समान् समतरान्तरान् ॥ ७ ॥

तत्र फुल्लमृदा सूक्ष्मा वालुकेन सगोमयम्।
दध्याज्यक्षीर सम्मिश्रम् सवल्मीकमृद दृढम् ॥ ८ ॥

समम् सम्पातयेत् सूत्रम् सूत्र यन्त्रेण मण्डलम्।
अजर्जरम् अनीचोच्चम् सुस्निग्धम् दर्पणोपमम् ॥ ९ ॥

दन्दश्च चन्दनो देव महीदेव समीरितह्।
खादिरस्तिनिशो राज्ञाम् वणिजाम् शाक खादिरौ ॥ १० ॥

शाकश्च तिन्दुकह् कृष्ण सारस्याच्छूद्र जन्मनाम्।
क्षीर वृक्ष शमी सालास् सर्वे योग्यास् समीरिताह् ॥ ११ ॥

शङ्कुष्षडङ्गुलो नाहस् त्वायामो द्वादशाङ्गुलह्।
अग्रेत्वेकाङ्गुलो वास्तु सर्व वर्णेषु योग्यतह् ॥ १२ ॥

चदुर्दशाङ्गुलयामस् तावान् स्यान् मूलङ्हकह्।
अग्रे त्र्यङ्गुल विस्तारश् शङ्कुर्वा सर्व वास्तुषु ॥ १३ ॥

हस्तार्धायामनाहोग्र नाहस्तत्पादपादयुक्।
एकाङ्गुल क्षयादायो मूलनाहो विधीयते ॥ १४ ॥

ब्राह्मणादि चतुर्वर्ण क्रमेण परिकल्पयेत्।
देवादीनाम् शिरोग्रम् स्याद् द्विजादीनाम् छत्र सन्निभम् ॥ १५ ॥

कुश कीचक पत्राभम् भूपानाम् वैश्य जन्मनाम्।
कदलीमुकुलाग्रम् स्याच् छूद्राणाम् मण्दलाग्रकम् ॥ १६ ॥

बैल्वम् कीलम् सुराणाम् स्यात् खादिरम् सालमाग्रजम्।
आसनम् वाकुलम् राज्ञाम् तैन्तुकञ्चापि खादिरम् ॥ १७ ॥

कीलम् विशाम् च शूद्राणाम् सर्व सामान्यमेव वा।
योजयेद् देशिको धीमान् ख्यात शङ्कौ पुरातने ॥ १८ ॥

द्रुमरेभिह् प्रकर्तव्यो गृमादिर्भ्रम वर्जितह्।
मध्यान्तस्थितैह् कीलैर् मन्डलैर् नवभिर्युतैह् ॥ १९ ॥

वितस्त्यन्तस्थितैस् तावत् कीलम् सूचि सम्न्वितम्।
ग्राम केदार शैले स्यात् सूचिरेकाङ्गुलयता ॥ २० ॥

यवोदर मुखाम् हेम रूप्य ताम्र मयीम् तथा।
पञ्चगव्येन सम्शोध्य भूयश् शुद्धोदकेन वा ॥ २१ ॥

हृदयेन तु मन्त्रेण अस्त्राभिर् प्रोक्षयेत् तदा।
गन्धादिभिस् समभ्यर्छ्य वास्तुवृद्धिमनुस्मरन् ॥ २२ ॥

मण्टपे वेदिकामध्ये पञ्चहस्त विनिर्मिते।
शङ्कुस्थापनोत्तर गते क्रियामेनाम् समाचरेत् ॥ २३ ॥

आहताभ्याम् सुवासोभ्याम् सर्वतह् परिवेष्टिताम्।
कृत कौतुक बन्धस्तु स्थण्डिलस्थम् समर्चयेत् ॥ २४ ॥

पूर्वस्थ वास्तुहोमम् च स्थण्डिले सम्यगाचरेत्।
ततह् प्रभाते विमले सुवारे शुभेदिने ॥ २५ ॥

शङ्कुम् प्रक्षाल्य तोयेन गन्धाद्यैह् पूजयेद् हृदा।
दिग्देवताश्च सम्पूज्य गन्धाद्यैश्च स्वनामभिह् ॥ २६ ॥

भूषणोपेत पञ्चाङ्गस् सोष्णीषस्सोत्तरीयकह्।
सम्प्राप्त दक्षिणैर् विप्रैश्शिल्पिना च समन्वितह् ॥ २७ ॥

शङ्कुस्थानम् तु सम्प्राप्य पुण्याहम् वाचयेत् ततह्।
इन्द्रादीन् परितश्चेष्ट्वा शङ्कुस्थापनम् आरभेत् ॥ २८ ॥

शङ्कुप्रमाणया रज्वा शङ्कुव्यासार्ध युक्तया।
वृत्तम् सम्भ्राम्य तन्मध्ये स्थापयेत्तम् इनोदये ॥ २९ ॥

पूर्वापराह्णयोश्शङ्कोश्छाय रेख गतायथा।
तद्बिन्दु द्वयगम् सूत्रम् पूर्वापर दिगिष्यते ॥ ३० ॥

यवस्य तु तुरीयाम्शम् पुर्वापराह्णयोर् गता।
बिन्दु द्वयान्तरम् भ्रान्तश्शम्बरनन पुच्छकम् ॥ ३१ ॥

दक्षिणोत्तरम् इत्युक्तम् अन्यथा वा पि कथ्यते।
ध्रुव वेदेन वोदीचीम् प्राचीम् वा ध्रुव तारया ॥ ३२ ॥

पुष्येण श्रवणेनाथ साधयेद् विषुवोदयात्।
मितक्षेत्रार्ध मानेन चतुरश्रम् तु साधयेत् ॥ ३३ ॥

कर्णाभ्याम् भुज साम्यम् तु कम्पनेनार्जवे स्थिते।
जलेन तलसाम्यम् स्यन् मध्यमे वा थ कर्णिके ॥ ३४ ॥

धाम्निप्राच्यथवा साध्य निश्चितान् पूर्व वास्तुनह्।
प्राचीतरम् तु यत्स्थानम् सर्वदोषकरम् भवेत् ॥ ३५ ॥

Pūrvapāda – Kapitel 16: Die Messgeräte

मानोपकरणम् वक्ष्ये सर्वेषाम् च विशेषतह्।
परमाणुक्रमाद्वृद्ध्या मानाङ्गुलम् इति स्मृतम् ॥ १ ॥

परमाणुरितिख्यातो योगिनाम् दृष्टि गोचरम्।
रथ रेणुश्च वालाग्रम् लिक्षा यूको यवस्तथा ॥ २ ॥

क्रमशो ष्टगुणाह् प्रोक्ता यवैश्शड्भिश्च सप्तभिह्।
अष्टाभिश्च क्र्मेणैव कन्यसादि विभेदतह् ॥ ३ ॥

अङ्गुल्यस्त्रिविधा प्रोक्ता यावत्यश्शिव शासने।
शालिभिश्च त्रिभिस्सार्धैश् चतुर्भ्हिश्च तथायतैह् ॥ ४ ॥

शाल्युद्भवास् समाख्यातास् त्वङ्गुलास्त्रिविधास्त्विह।
सार्धैष्षड्भिर्यवै र्वाथ सार्धैस्सप्तभिरेव वा ॥ ५ ॥

अङ्गुलास्त्रिविधाह् प्रोक्तास् सार्धैरष्टभिरेव वा।
मध्यमाङ्गुलि मध्यस्थ पर्व दीर्घम् तु यद्भवेत् ॥ ६ ॥

श्रेष्टम् मात्राङ्गुलम् प्रोक्तम् पादहीनम् तु मध्यमम्।
अर्धोनम् अधमम् प्रोक्तम् माताङ्गुल विभेदतह् ॥ ७ ॥

नवधा मानमुद्दिष्टम् नराद्यङ्गुष्ठतो पि वा।
एवम् मात्राङ्गुलम् प्रोक्तम् यगदीनाम् प्रशस्यते ॥ ८ ॥

अङ्गुलैस्सूर्य सङ्ख्यतैर् वितस्तिरिह कथ्यते।
तद् द्वयम् हस्तमुद्दिष्टम् स किष्कुरिह सम्मतह् ॥ ९ ॥

पञ्च विम्षति मात्रम् तु प्राजापत्य इति स्मृतह्।
मात्रैस्तु षड्विम्शतिभिर् धनुर्मुष्टि प्रकीर्तितह् ॥ १० ॥

सप्तविम्शतिभिर् मात्रैर् धनुर्ग्रह उदाहृतह्।
मानाङ्गुलोत्थ हस्तास्तु शास्त्रे स्मिन् सम्प्रकीर्तितह् ॥ ११ ॥

पौरुषह् पुरुषाज् जातस् त्वङ्गुष्ठाद्दक्षिणादिह।
तलम् प्रसार्य चाङ्गुष्ठ सहितैश्चतुरङ्गुलैह् ॥ १२ ॥

कनिष्ठाद्यैह् क्रमेणैव यवगोकर्ण सज्ञकैह्।
वितस्तिह् कथितश्चैवम् प्रादेशस् तदनन्तरम् ॥ १३ ॥

एवम् विविध उद्दिष्टो हस्तस् सर्वेषु वास्तुषु।
प्राजापत्य मानेन मण्टपे विग्रहे पि च ॥ १४ ॥

मालिकायाम् सभायाञ्च विशालायाञ्च योजयेत्।
राजधायादिकम् राजभवनम् च तटाककम् ॥ १५ ॥

दुर्गञ्चैव धनुर्मुष्टि करणैश्चैव कारयेत्।
धनुर्ग्रहेण कुर्यात्तु रथ्याध्वानम् विशेषतह् ॥ १६ ॥

प्राकारम् किष्कु मानेन यानञ्च शयनम् नयेत्।
किष्कुमानेन वै सर्वम् आपन्नस्तु समाचरेत् ॥ १७ ॥

वितस्तिना विधातव्यम् यनञ्च शयनम् तथा।
लिङ्गञ्च प्रतिमाञ्चैव द्वारस्तम्भञ्च चूलिकम् ॥ १८ ॥

यदस्य चोपकरणम् तत्सर्वम् चाङ्गुलेन तु।
अत्यल्पम् तु यवेनैव माप्नुयात् मान वित्तमैह् ॥ १९ ॥

आयादि लक्षणम् चैवम् एभिरेव तु सम्मतम्।
हस्तैश्चतुर्भिरुद्दिष्टो दण्डो रज्जुस्तदष्टभिह् ॥ २० ॥

दण्देन मापयेत् ग्रामम् नगरम् पत्तनादिकम्।
अध्वानम् रज्जुना बध्वा क्षेत्रम् चैव तु मानयेत् ॥ २१ ॥

रज्जुम् कुर्यात्तु कार्पास पट्ट सूत्रादिभिर् बुधैह्।
न्यक्रोध वल्कलेनाथ तालकेतक वल्कलैह् ॥ २२ ॥

कनिष्टाङ्गुलिनाहा च त्रिवृता ग्रन्थि वर्जिता।
देवविप्र महीपानाम् वैश्य शूद्रैर् विवर्जिता ॥ २३ ॥

तलश्च केतकी चैव न्यग्रोधो धतकि तथा।
शणकम्च क्रमेणैव देवादीनाम् प्रशम्सिताह् ॥ २४ ॥

नालिकेरोत्थ रज्जुश्च सर्वेषामपि शम्सितह्।
नालिकेरस्य पत्रस्य मापनम् सर्व सिद्धिदम् ॥ २५ ॥

दलनम् द्विविध्म् प्रोक्तम् ओजयुग्म क्रमेण तु।
पुर्वोत्तर मुखेनाथ प्रारम्भे दलनम् भवेत् ॥ २६ ॥

तेनैव मापनम् कुर्यात् प्रतिमदौ विशेषतह्।
तत्पत्र सिरयावापि क्षुद्रस्कन्धेन मापयेत् ॥ २७ ॥

सारदारूद्भवो हस्त दण्डो ग्रन्थ्या विवर्जितह्।
स्वायतो दीर्घ सम्युक्तस् त्वर्धमात्र प्रविस्तरह् ॥ २८ ॥

त्रिपाद विस्तरो वास्यात् एकाङ्गुल सुविस्तरह्।
ततदर्ध घनोपेतो विस्तारेण समो थवा ॥ २९ ॥

चतुरश्रो भवेद्यस्तु दण्डो मानुष ईरितह्।
मूले स्वायम्भुवम् रूपम् मध्ये लक्ष्मीस्वरुपकम् ॥ ३० ॥

विश्वकर्म रूपम् तदग्रे तु परिकल्पयेत्।
अयम् देवेषु योग्यस् स्याद् दण्डो द्व्यङ्गुल विस्तरह् ॥ ३१ ॥

सपादोवाथ सार्धो वा सुवृत्तश्चित्रितो नु वा।
हेम्नावा राजतेनाथ ताम्रेणैवायसाथ वा॥
मूलाग्र वलयोपेतो दण्डो मान विनिर्णये ॥ ३२ ॥

Pūrvapāda – Kapitel 17: Die Anordnung der Felder

अथ वक्ष्ये विश्ष्ण पदविन्यास लक्ष्णम्।
सकलम् पदमेकम् स्यात् पेचकम् तु द्विदीयकम् ॥ १ ॥

पदम् पीठम् तृतीयम् स्यान् महापीठम् अतह् परम्।
उपपीठम् ततह्पश्चाद् उग्र पीठम् अथह् परम् ॥ २ ॥

स्थण्डिलम् सप्तमम् विद्यान् मण्डूकाख्यम् तथाष्टकम्।
परमीशपदञ्चापि नवमम् परिकीर्तितम् ॥ ३ ॥

दशमम् चासनम् चैकादशम् स्थानीयमुच्यते।
देशीयम् द्वादशम् प्रोक्तम् पदन्तूभय चण्डिकम् ॥ ४ ॥

चतुर्दशपदम् भद्रम् महासनम् इति स्मृतम्।
पद्मगर्भपदम् पञ्च दशमम् परिकीर्तितम् ॥ ५ ॥

षोडशम् त्रियुतम् सप्त दशमम् वृत्त भोगकम्
अष्टादशपदम् चात्र कर्णाष्टकम् इति स्मृतम् ॥ ६ ॥

एकोनविम्शति पदम् ज्ञेयम् गणितपादकम्।
स्यद्विम्शति पदम् सूर्यविशालम् नामतह् पदम् ॥ ७ ॥

स्यादेकविम्शै पदम् सुसम्हित समाह्वयम् ।
द्वाविम्शति पदम् चात्र पदम् सुप्रतिकान्तकम् ॥ ८ ॥

स्यात् त्रयोविम्शति प्रोक्तम् विशालम् नामतह् पदम्।
स्याच्चतुर्विम्शति पदम् विप्रगर्भम् इति स्मृतम् ॥ ९ ॥

पञ्चविम्शमिह प्रोक्तम् विश्वेशाख्यम् पदम् बुदहिह्।
यत्तु षड्विम्शति तमम् तत्स्यद् विपुलभोगकम् ॥ १० ॥

स्यात्सप्तविम्शति तमम् पदम् विप्रतिकान्तकम्।
यत्वष्टविम्शति पदम् विशलाक्षपदम् स्मृतम् ॥ ११ ॥

विप्रभुक्तिक स्मज्ञेयम् एकोन त्रिम्शकम् पदम्।
पदम् त्रिम्शत्तमम् प्रोक्तम् विश्वसारम् पुरातनम् ॥ १२ ॥

एकत्रिम्शत् पदम् यत्तु भवेदीश्वर कान्तकम्।
इन्द्रकान्त पदम् यत्तु द्वात्रिम्शत् कथितम् त्विह ॥ १३ ॥

सकले मध्यमे ब्र्ह्मा पूज्यह् प्रागादि सूत्रके।
इन्द्रम् यमम् च वरुणम् सोमम् गन्धादिनार्चयेत् ॥ १४ ॥

अस्मिन् देवादयह् पूज्याच्चाग्निकारयम् च भोजनम्।
कुर्यात्तु पेचकपदे कर्णसूत्र द्वयान्विते ॥ १५ ॥

अष्ट सूत्रगता लोकपाला मध्ये प्रजापतिह्।
तन्मध्ये निष्कलम् बेरम् स्थापयेद् देशिकोत्तमह् ॥ १६ ॥

सर्वमङ्गल कार्यम् च क्षुद्रग्राम गृहादिकम्।
कर्ण सूत्रद्वयेनैव सम्युक्तम् पीठम् इष्यते ॥ १७ ॥

पूर्वोक्तस्तु सुरा ये तु पदस्थास्ते प्रकीर्तिताह्।
एतत्पदम् मठादीनाम् तच्च ग्रामादि योग्यकम् ॥ १८ ॥

क्षुद्र ग्रामादिके चेष्टम् पेचकम् तु तथैव हि।
कर्ण सूत्र द्वयोपेतम् महापीठम् तु कारयेत् ॥ १९ ॥

मध्ये चतुष्पदम् ब्रह्मा भुङ्क्ते त्र मुनिसत्तमाह्।
ईशो जयन्त आदित्यो भृशोग्निर् वितथो यमह् ॥ २० ॥

भृगुश्च पितृ सुग्रीवो वरुणह् शेष मारुतौ।
मुख्यस् सोमो दितिश्चेति सूत्रस्था बाह्य देवताह् ॥ २१ ॥

महापीठ पदम् प्रोक्तम् क्षुद्र ग्रामादि योग्यकम्।
उपपीठ पदे चैकम् भुङ्क्ते मध्ये पितामहह् ॥ २२ ॥

अर्यमाश्च विवस्वाम्श्च मित्रञ्च पृथिवीधरह्।
चतुर्दिक्षुगता देवा एकैक पद भोगिनह् ॥ २३ ॥

सावित्रश्चेन्द्रजश्चैव रुद्रजस् त्वापजस् तथा।
आग्नेयादि चतुर् दिक्षु भुञ्जते देवताह् पदम् ॥ २४ ॥

ईशश्च सत्यक्ष्चैव महेन्द्रादित्य वह्नयह्।
गन्धर्वष्च तथा देवो गृहक्षत यमौ तथा ॥ २५ ॥

पितरश्चासुरश्चैव पुष्पदन्त जलेश्वरौ।
वयुश्चापि गजश्चैव भल्लाटस् सोम एव च ॥ २६ ॥

भुञ्जते पदमेकैकम् कर्णसूत्र द्वयान्वितम्।
उपपीठ पदम् नाम्ना ग्रामादीनाम् शुभावहम् ॥ २७ ॥

उग्रपीठम् इदम् मध्ये कर्णसूत्र द्वयान्वितम्।
मध्ये चतुष्पदम् ब्राह्मम् अन्तरावरणे ततह् ॥ २८ ॥

अर्यमश्च विवस्वाम्श्च मित्रञ्च पृथिवीधरह्।
प्रागादि भुञ्जते देवा द्विपदम् कोणवर्जितम् ॥ २९ ॥

सविताच तथेन्द्रश्च रुद्रश्चापस्तथैव च।
आग्नेय कोण्मारभ्य भुञ्जते देवताह् पदम् ॥ ३० ॥

बहिरावरणम् वक्ष्ये पावकादि चतुर्ष्वपि।
कोणेषु भुञ्जते देवाह् पदाम् अर्धकम् क्रमात् ॥ ३१ ॥

आग्नेयस्तु पूर्वार्धे भृशो वह्निस्तु पश्चिमे।
नैरृतस्य पूर्वार्धे गृहस्यात् पश्चिमे स्वयम् ॥ ३२ ॥

पश्चिमार्धे तु वायव्याम् शेषो वायुस्तु पूर्वगह्।
ईशान पश्चिमार्धे तु दितिरीशस्तु पूर्वगह् ॥ ३३ ॥

प्राच्याम् उत्तरम् आरभ्य प्रादक्षिण्य क्रमेणतु।
जयन्तेशो महेन्द्रश्च आदित्यस् सत्यकस् तथा ॥ ३४ ॥

दक्षिणे वितथश्चैव गृहक्षत यमौ तथा।
गन्धर्वश्च तथ देवाश्चत्वारह् पदभगिनह् ॥ ३५ ॥

पश्चिमे चैव सुग्रीवह् पुष्पदन्तो जलेश्वरह्।
असुरश्च तथा देवाश्चत्वरश्चोत्तरे मताह् ॥ ३६ ॥

मुख्यो भल्लाट्कस् सोमो भृगुरित् यधि देवताह्।
उग्रपीठम् इदम् नाम ग्रामादीनाम् शुभावहम् ॥ ३७ ॥

स्थण्डिलम् सप्तसप्ताम्शम् कर्म.सूत्रद्वयान्वितम्।
मध्ये नवपदम् ब्राह्मम् अन्तरावरणे ततह् ॥ ३८ ॥

अर्यमश्च विवस्वम्श्च मित्रश्च पृथिवीधरह्।
पूर्वादिक्रम योगेन त्रिपदम् भुञ्जते सुराह् ॥ ३९ ॥

आग्नेयादि कोणेषु सावित्राद्याश्च देवताह्।
सावित्रश्चेन्दरजश्चैव रुद्रजश्चपजस् तथा ॥ ४० ॥

ईशानपदमारभ्य बहिरावरणे सुराह्।
ईशानश्च जयन्तश्च महेन्द्रादित्य सत्यकाह् ॥ ४१ ॥

भृशो वह्निरिति प्रोक्तह् पूर्वस्याम् दिशि देवताह्।
वितथो गृहक्षतश्चैव यमो गन्धर्व एव च ॥ ४२ ॥

भृङ्गराजो थ निरृतिर् दक्षिणस्याम् तु देवताह्।
सुग्रीव पुष्पदन्तौ च वरुणसुर शेषकाह् ॥ ४३ ॥

वायुरित्युच्यते तस्मिन् पश्चिमे देवतामतह्।
मुख्यो भल्लाट्कस् सोमो ऋभुर्ह्यदितिरेव च ॥ ४४ ॥

उत्तरस्याम् दिशि प्रोक्ता देवताबलि योग्यकाह्।
स्थण्डिलाख्यम् पदम्चैतद् गृहारामादि पूजितम् ॥ ४५ ॥

मण्डूकाख्यम् चतुष्षष्टि पदम् कर्णद्वयान्वितम्।
मध्ये चतुष्पदम् ब्रह्मा तन्मुखस्थाश्चतुस् सुराह् ॥ ४६ ॥

त्रिप्दाश्चापवत्साद्याश्षोडशम्शार्ध भोगिनह्।
चतुर्दिशि स्थिता बाह्ये षोडश द्विपदेश्वराह् ॥ ४७ ॥

तत्पर्श्वयोर् द्वयोश्चाष्टा वेकैक पद भोगिनह्।
अग्रहारादि योग्यम् तन् मण्डूकाख्य पदम् त्विह ॥ ४८ ॥

परमेशपदम् त्वेतद् एकाशीति पदान्वितम्।
कर्णसूत्रद्व्योपेतम् कल्पनीयम् विचक्षणैह् ॥ ४९ ॥

मध्ये नवपदम् ब्रह्मा भुङ्क्ते तस्य चतुर्मुखह्।
चतश्रो देवताष्षट् षट् पदभाग पराह् स्मृताह् ॥ ५० ॥

द्विपदह् कोणगाश्चष्टौ बाह्ये त्वेकपरायणाह्।
मण्डूके त्र समा देवाह् कथ्यन्ते च यथाक्रमम् ॥ ५१ ॥

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकह्।
आदित्यस् सत्यक भ्रम्श वन्तरिक्षश्च पूर्वगाह् ॥ ५२ ॥

वह्निह् पूषा च वितथो गृहक्षत यमौ तथा।
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥ ५३ ॥

निरृतिर् दौवारिकश्चैव सुग्रीवह् पुष्पदन्तकह्।
वरुनश्चासुरश्चैव शेषो रोगस्तु पश्चिमे ॥ ५४ ॥

वायुर् नगस्तथा मुख्यो भल्लाटस् सोम एव च।
गजश्चाप्यदितिश्चैव दितिश्चैव तथोत्तरे ॥ ५५ ॥

बाह्यदेवा इमे प्रोक्तास् त्वन्तरावरणेपुनह्।
अर्यमाश्च विवस्वाम्श्च मित्रश्च पृथिवीधरह् ॥ ५६ ॥

चतुर्दिक्षु गता देवा ईशानादौ च कोणके।
आपश्चैवापवत्सश्च सवितापि सावित्रकह् ॥ ५७ ॥

इन्द्रश्चेन्द्रजयश्चैव रुद्रो रुद्रजयस् तथा।
मध्ये ब्रह्मा स्थितह् प्रोक्तो मण्डूके चापि तत्परे ॥ ५८ ॥

चरकी च विदारी च पूतना पापराक्षसी।
ईशानादिषु कोणेषु शूलस्थाह् पदवर्जिताह् ॥ ५९ ॥

स्कन्धो र्यमा च जम्भश्च पिलिपिञ्छो द्विजोत्तमाह्।
पूर्वादितस् समारभ्य चतुर्दिक्षु व्यवस्थिताह् ॥ ६० ॥

ग्रामाग्रहार वेश्मादि योग्यम् परमशायिकम्।
आसनम् कर्ण सूत्राभ्याम् युक्तम् तु परिकल्पयेत् ॥ ६१ ॥

ब्रह्मा षोडश भागस्थो तन्मुकस्थाष्ट भागिनह्।
आदित्यश्च यमश्चैव वरुणस् सोम एव च ॥ ६२ ॥

द्विपदाश्चापवत्साद्या द्विपदा एव किर्तिताह्।
क्षेत्रम् शतपदम् दुर्ग पुराट्टालक भूमिषु ॥ ६३ ॥

नगरी खेटक ग्राम वेश्मादिषु च कथ्यते।
स्थानीयम् कर्ण सूत्राभ्याम् युक्तम् तु परिकल्पयेत् ॥ ६४ ॥

मध्ये ब्रह्मा पदानाम् तु भजते पञ्च विम्शतिम्।
कोणेशादि पदे बाह्ये त्वीशाग्नि पितृवायवह् ॥ ६५ ॥

अन्ये त्वेकपदे ज्ञेयाह् पर्जन्याद्या यथाक्रमम्।
चत्वारस् त्वर्यमाद्यास्तु पूर्वादि दश भागिनह् ॥ ६६ ॥

आपवत्सादयह् कोण्ष्वष्टौ द्विपद भागिनह्।
यथास्थनाश् चर्क्याद्याश् चाष्टौ बाह्य प्रकीर्तिताह् ॥ ६७ ॥

ग्रामादि योग्यम् विज्ञेयम् स्थानीयाख्यम् इदम् पदम्।
देशीयाख्यम् पदम् कर्ण सूत्राभ्याम् परिकल्पयेत् ॥ ६८ ॥

षट्त्रिम्शद् भागभुक् ब्रह्मा मुखस्था द्वादशम्शिनह्।
आदित्यश्च यमश्चैव वरुणस् सोम एव च ॥ ६९ ॥

द्विपदा बाह्य वीथिस्थाश् चरक्याद्यास्तु पूर्ववत्।
देशीयाख्य पदम् चैदमग्रहारादि पूजितम् ॥ ७० ॥

चण्डितम् तूभयाख्यम् तु कर्णसूत्रद्वयान्वितम्।
पदान्येकोन पञ्चाशन् मद्ये ब्रह्माधितिष्ठति ॥ ७१ ॥

बहिरावरणे प्राच्याम् आदित्याद्यास् त्रिभागिनह्।
कोणस्थास् त्रिपदा ज्ञेय इशाग्नि पितृ वायवह् ॥ ७२ ॥

चत्वारस् त्वर्यमाद्यास्तु चतुर्दश पदे स्थिताह्।
पूर्ववच् चापवत्साद्या बाह्य्स्थाह् परिकीर्तिताह् ॥ ७३ ॥

अग्रहारादि योग्यम् तत् पदम् तूभयचण्डिकम्।
प्राक् च पञ्चदशोदक् च सूत्राणि परिकल्पयेत् ॥ ७४ ॥

कर्णसूत्र द्व्योपेतम् प्रग्वद् भुक्तिम् प्रकल्पयेत्।
अग्रहारादि योग्यम् स्याद् भद्रासनम् इदम् पदम् ॥ ७५ ॥

पद्मगर्भम् इदम् चान्यत् कर्णसूत्रद्वयान्वितम् ।
एकाशीति पदम् मध्ये भुङ्क्ते लोकपितामहह् ॥ ७६ ॥

आदित्याद्यास् त्रिभागास्युह् कोणेशाह् पञ्चनायकाह्।
अष्टादशाम्श भागस्थाश् चार्यमाद्याह् प्रकीर्तिताह् ॥ ७७ ॥

शेषम् पूर्ववद् उद्दिष्टम् अग्रहारादि पूजितम्।
प्राञ्चि सप्तदशोदञ्चि सूत्राणि परिकल्पयेत् ॥ ७८ ॥

कर्णसूत्र द्वयोपेतम् पदभुक्तिम् च पूर्ववत्।
अग्रहारादि योग्यम् स्यात् त्रियुतम् परिकीर्तितम् ॥ ७९ ॥

वृत्तभोग पदञ्चान्यत् कर्णसूत्र द्वयान्वितम्।
एकविम्शच्छत पदम् ब्रह्मा भुङ्क्ते तु मध्यमे ॥ ८० ॥

इन्द्रादि लोकपालाश्च त्वष्टौ पञ्च पदेश्वराह्।
द्वात्रिम्शद् भोगिनो देवा मुखस्थाह् परिकीर्तिताह् ॥ ८१ ॥

आपवत्सादयो ष्टौ हि द्विपदास्तु प्रकीर्तिताह्।
वृत्तभोगम् इदम् प्रोक्तम् ग्रामादौ सम्प्रयोजयेत् ॥ ८२ ॥

एकोनविम्शति प्राञ्चि तावन्तिस्यु रुदञ्चति।
कर्णाष्टकम् इदन् विद्यात् अग्रहारादि पूजितम् ॥ ८३ ॥

गणिताख्यम् पदम् कर्ण सूत्राभ्याम् सम्युतम् भवेत्।
एकोन सप्तति पदम् तन्मध्ये ब्राह्मकम् भवेत् ॥ ८४ ॥

षट्त्रिम्शति पदे देवा मुख्य्स्थाह् परिकीर्तिताह्।
त्रिपदालोकपालास्युह् अन्तस्था द्विभागिनह् ॥ ८५ ॥

आपवत्सादयश्चाष्टौ पार्श्व देवाह् प्रकीर्तिताह्।
प्रोक्तम् गनितपदम् तु ग्रामादौ परिकल्पयेत् ॥ ८६ ॥

ततस् सूर्यविशालम् स्यत् पूर्ववत् परिकल्पयेत्।
सुसम्हितम् पदम् कर्ण सूत्रयुक्तम् प्रकल्पयेत् ॥ ८७ ॥

मध्ये पदानि धातुश्च द्विशतम् पञ्च विम्शति।
अर्यमादि चतुष्कस्य त्रिम्शत् त्रिम्शत् पदानि च ॥ ८८ ॥

ईशादि कोण सम्स्थानाम् चतुर्णाम् पद पञ्चकम्।
आदित्यादि चतुर्णाम् तु त्रिपदम् परिकीर्तितम् ॥ ८९ ॥

द्वे द्वे पदे च प्रत्येकम् पर्जन्यादौ प्रकल्पयेत्।
पूर्ववच् चापवत्सादे रष्टकस्य द्वयम् द्वयम् ॥ ९० ॥

चरक्याद्यष्टकम् तद्वद् बाह्ये तु परिकीर्तितम्।
एतत् सुसम्हितम् नाम पदम् ग्रामादि पूजितम् ॥ ९१ ॥

पदम् सुप्रतिकान्ताख्यम् कर्ण सूत्र द्व्यान्वितम्।
पूर्वोक्त प्रकारेण पदम् ग्रामादि पूजितम् ॥ ९२ ॥

विशालम् कर्न सम्युक्तम् पण्डितेशैह् प्रकल्पयेत्।
द्विशतम् च नवाशीति मध्ये ब्रह्म पदानि च ॥ ९३ ॥

अर्यमादि चतुष्कस्य चतुस्त्रिम्शत् पृथक् पृथक्।
पञ्चाशल् लोकपालास्युह् अन्यत् सर्वम् समानकम् ॥ ९४ ॥

विशालाख्यम् इदम् प्रोक्तम् अग्रहारादि पूजितम्।
विप्रगर्भम् यथापूर्वम् अग्रहारादि पूजितम् ॥ ९५ ॥

विश्वेशाख्यम् पदम् कर्ण युक्तम् तु परिकल्पयेत्।
त्रिशतञ्चैक षष्टिञ्च म्ध्ये ब्रह्म पदानि च ॥ ९६ ॥

अर्य्माद्या यथापूर्वम् बाह्ये देवास्त्रिभगिनह्।
अग्रहारादि योग्यम् स्याद् विश्वेशाख्यम् इदम् पदम् ॥ ९७ ॥

भोगम् विपुलपूर्वम् यद् अग्रहारादि पूजितम्।
पदम् विप्रतिकान्तम् च कर्णसूत्र द्वयान्वितम् ॥ ९८ ॥

चत्वरिम्शत् तथैकम् च पदान्यत्र चतुश्शतम्।
ब्र्ह्मा भुङ्क्ते र्यमाद्यास्तु पूर्ववत् परिकल्पयेत् ॥ ९९ ॥

कोणस्थह् पञ्च भागास्स्युह् अन्ये त्रिपद भागिनह्।
इदम् विप्रतिकान्ताख्यम् अग्रहारादि पूजितम् ॥ १०० ॥

विशालाक्षम् कर्णयुक्तम् पूर्ववत् परिकल्पयेत्।
त्रिम्शत् प्राञ्चि तथोदञ्चि सूत्राणि परिकल्पयेत् ॥ १०१ ॥

मध्ये पञ्चशतम् ब्रह्मा भुङ्क्ते नव च विम्शतिम्।
चतुर्णाम् अर्यमादीनाम् षट्चत्वारिम्शदम्शकम् ॥ १०२ ॥

पञ्चासल् लोकपालास्युह् पर्जन्याद्यास्त्रिभागिनह्।
विप्रभुक्तिरिति ज्ञेयम् पदम् ग्रामादि योग्यकम् ॥ १०३ ॥

विस्वसारम् यथापूर्वम् एतद् ग्रामादि पूजितम्।
पदमीश्वरकान्तम् तु कर्णसूत्र द्वयान्वितम् ॥ १०४ ॥

ब्रह्मणष्षट्शतम् मध्ये पञ्च विम्शति सम्युतम्।
अर्यमादि चतुष्कस्य पञ्चाशत् प्रति वेदितम् ॥ १०५ ॥

अष्टानाम् लोक्पालानाम् त्रयो भागाह् पृथक् पृथक्।
पर्जन्यादेस्तु चत्वारो भागाह् प्रत्येकम् ईरिताह् ॥ १०६ ॥

एतदिश्वरकान्ताख्यम् अग्रहारादि पूजितम्।
इन्द्रकान्तम् यथापूर्वम् अग्रहारादि पूजितम् ॥ १०७ ॥

एवमूर्ध्वम् च विज्ञेयम् यावत्यस्तु परर्धकम्।
चतुष्षष्ति पदम् दैवम् मानुषम् पारमेश्वरम् ॥ १०८ ॥

परमेश पदम् योज्यम् चतुर्णामपि वर्णिनाम्।
त्रैवर्णिकानाम् वा कुर्यात् अग्रहारादि वास्तुषु ॥ १०९ ॥

चतुष्षष्टिपदम् विप्रभुपयोश्च विशेषतह्।
विट्छूद्रयोस् तथैकोन पञ्चशत् पदम् ईरितम् ॥ ११० ॥

सर्वम् सर्वत्र चेष्टम् वा शास्त्रेस्मिन् सम्प्रकीर्तितम्।
चतुष्षष्ट्येकाशीत्याख्यम् आसनम् च त्रिधा मतम् ॥ १११ ॥

सकलादिषु सर्वेषु पदेष्वेव पदत्रयम्।
वास्तुकर्माणि शस्तम् स्यद् ग्रामादौ च गृहादिषु ॥ ११२ ॥

अथव न्य प्रकारेण सकलादिषु विधीयते।
कर्ण सूत्र विहीनम् वा मध्ये कर्ण द्वयान्वितम् ॥ ११३ ॥

अथवा नेक कर्णस्थ सूत्रैरन्वितम् एव वा।
पदम् सर्वम् विधेयम् स्यद् एवम् बुद्ध्या प्रकल्पयेत् ॥ ११४ ॥

अथ वृत्त पद न्यासम् प्रवक्ष्यामि यथा विधि।
चक्रव्त् पञ्च सूत्राणि सान्तराणि समानि च ॥ ११५ ॥

द्वात्रिम्शच्च चतुर्विम्शद् द्विरष्टाष्टैक भगिनह्।
एकाशीति पदम् ह्येतत्ज् ज्ञेयम् विषम सम्स्थितिह् ॥ ११६ ॥

अष्टाविम्शत् तथा विम्शत्द् द्वादशाष्टार्ध भागिनह्।
चतुष्षष्टि पदम् चैतच् चतुर्वृत्ते प्रकल्पयेत् ॥ ११७ ॥

कुम्भकस्य तु विन्यासम् सम्मिश्रम् उभयोर् न्यसेत्।
चतुष्षष्टिपदम् वास्तु परमैशन्तु वास्तुकम् ॥ ११८ ॥

ग्रामादि चोपवास्तु स्याद् वास्तव्यम् स्याद् गृहादिकम्।
स्त्रीपुम्सोरिव सम्योगस् तथा योज्यम् विचक्षणैह् ॥ ११९ ॥

जयन्तो मेष सम्स्थानम् अर्यम्णि वृषभस्थितिह्।
भृशम्शे मिथुनम् विद्यात् कुलीरो वितथे भवेत् ॥ १२० ॥

व्यञ्जके केसरी भृङ्गे कन्या सुग्रीवके तुला।
मित्रे तु वृश्चिकश्शेषे ध्नुर्मुख्ये झषस्थितिह् ॥ १२१ ॥

पृथिवीधरके कुम्भस् त्वदितौ मीन उच्यते।
चराचरोभया ज्ञेयस् तत्तद् देवाम्शके न्यसेत् ॥ १२२ ॥

अश्विन्यादीनि सर्वाणि नक्षत्राणि यथाक्रमम्।
प्रदक्षिणगतान्येव मेषादिषु विभागतह् ॥ १२३ ॥

आदित्ये सूर्यवारस्स्याद् अग्नावङ्गारको मतह्।
यमे तु गुरुवारस्स्यान् नैरृतौ बुध वारकम् ॥ १२४ ॥

वरुणे तु भवेच्छुक्रो वायव्ये चार्कजस् तथा।
सोमे तु सोमवारस्स्याद् ईशाने राहु सम्स्थितिह्॥
मध्ये केतुर्भवेद् वास्तु शास्त्रेस्मिन् कामिकाह्वये ॥ १२५ ॥

तद्वशाद् विहितम् सर्वम् सर्वसिद्धि फलप्रदम्॥
स्त्रीलिङ्गम् विषमम् ज्ञेयम् समम् फुल्लिङ्गकम् भवेत् ॥ १२६ ॥

Pūrvapāda – Kapitel 18: Die Anlage der Richtschnüre

अतह् परम् प्रव्क्ष्यामि सूत्र निर्माणकम् द्विजाह्।
प्रथमम् ब्रह्मणस्थानात् प्राक् सूत्रम् सबलिम् न्यसेत् ॥ १ ॥

द्वितीयम् स्यात् उदग्सूत्रम् तस्मिन्नपि बलिम् न्यसेत्।
चतुरश्रायताश्रस्थ पर्यन्तम् स्या तृतीयकम् ॥ २ ॥

कर्णसूत्रम् चतुर्थम् स्यात् पञ्चमम् चार्ध पञ्चकम्।
षष्ठम् स्यातदनन्तर्यम् सप्तमम् मध्य कर्णिकम् ॥ ३ ॥

अष्टमम् चार्धकर्णम् स्यान् नवमम् कर्ण्कान्तरम्।
एवमन्यस्तु विज्ञेयम् यव्ऽअद् द्वाद्रिम्शकम् पदम् ॥ ४ ॥

पर्यन्त सूत्रम् आद्यम् स्यात् ततो विन्यास सूत्रकम्।
प्रमाण सूत्रम् अन्य त्स्यात् एवम् सूत्रत्रयम् भवेत् ॥ ५ ॥

यदुपानादि मानम् तत् कूट कोष्ठावसानकम्।
पर्यन्त सूत्र मानम् तत् सूत्रम् प्रामाणिकम् परम् ॥ ६ ॥

गर्भ भित्यादि मानार्थम् सूत्रम् देवपदोचितम्।
तद्धि विन्यास सूत्रम् स्यात् ज्ञातव्या सूत्रकल्पना ॥ ७ ॥

अथ क्षेत्रम् तु विभजेत् षष्ट्युत्तर शतत्रयम्।
तेष्वेक भागम् सूत्रस्य मानम् तत् प्राण उच्यते ॥ ८ ॥

सूत्राणि प्राञ्चि कार्याणि अनुकार्याण्युदञ्चि हि।
प्राणवायु प्रमाणेन शास्त्रे अस्मिन् कीर्तितानि हि ॥ ९ ॥

तानि पुम्स्त्रीस्वरूपाणि कीर्तितानि क्रमेण तु।
प्राणवायु प्रमाणेन द्विगुणाश्वानु वम्शकाह् ॥ १० ॥

वास्तु मध्ये महावम्श पार्श्वगास्तु प्रकीर्तिताह्।
त्रिगुणश्च महावम्शो वास्तु मध्ये प्रकीर्तिताह् ॥ ११ ॥

प्राणे द्विइगुन.काश्चानु सिराह् कर्ण्गता मताह्।
महासिराश्च तत्रस्था मध्ये कर्णगतामताह् ॥ १२ ॥

प्राण्वायु प्रमाणेन त्रिगुणास्ताह् प्रकीर्तिताह्।
महासिराश्चानुसिरस् सम्ज्ञेयास्तु नपुम्सकाह् ॥ १३ ॥

वास्तु मध्ते तु केतुस्स्यान् महामर्म तदुच्यते।
महासिरा महामर्म पर्यन्ते सन्धिरिष्यते ॥ १४ ॥

वम्शसूत्र सिरासङ्गाच् छूलमित्यभिधीयते।
महाशूलम् चतुष्प्राणम् त्रिगुणम् चानुशूलकम् ॥ १५ ॥

शुद्धम् पदम् तु मर्मस्याल् लाङ्गलम् कोण्सङ्गतम्।
चतुष्कम् तु चतुस्सूत्रैष्षट्कम् षट्सूत्र योगतह् ॥ १६ ॥

अष्टकम् चाष्ट सूतृणाम् योगेन परिकीर्तितम्।
पदस्य चाष्ट्माम्शेन मर्म मानम् प्रकीर्तितम् ॥ १७ ॥

पदाष्ट नवदिग्भागे भगवान् सूत्रवित् स्मृतिह्।
त्रिहस्त निर्मिते क्षेत्रे यवमानम् तु सूत्रकम् ॥ १८ ॥

अन्येषाम् रोम मात्रेण प्रति हस्तम् प्रबन्धयेत्।
हृदये वम्शके शूले सूत्र सन्धौ च मर्मके ॥ १९ ॥

सिरायाम् अष्टके षट्के चतुष्के लङ्गले अपि च।
देवालयादिकम् नोक्तम् कृतञ्चेत्कुल नाशनम् ॥ २० ॥

एषाम् स्वरुपकाष्टाम्शम् नवाम्शम् परिहृत्य च।
भित्तिस्तम्भ गृहादीनि कारयेद् देश्कोत्तमह् ॥ २१ ॥

गृह पीढा न कर्तव्या पद सूत्रेण धीमता।
यदङ्गम् वास्तु मर्त्यस्य बाध्यते सर्व कर्मणि॥
तदङ्गे तु तदीयस्य बाधा परिहरेत् ततह् ॥ २२ ॥

Pūrvapāda – Kapitel 19: Bali für die Vāstu-Gottheiten

अथ वक्ष्ये विशेषेण वास्तुदेव बलिक्रियाम्।
रात्रौ कुर्यात् बलिम् विद्वान् अह्नि ग्रामादि वास्तुषु ॥ १ ॥

रात्रौ वाथ दिवावाथ गृह देवालयादिषु।
आदि शैव कुले जातो दिवोपोष्य प्रसन्न धीह् ॥ २ ॥

सुस्नातो नव वस्त्रस्तु सोष्णीषस् सोत्तरीयकह्।
पञ्चाङ्ग भूषण्पेतश् चन्दनाद्यनुलेपकह् ॥ ३ ॥

तादृशेन च तत्कर्त्रा युक्तह् कर्मेदम् आचरेत्।
ब्राह्मणान् भ्जयित्वातु पुण्याहम् वाचयेत् ततह् ॥ ४ ॥

तद्देशे मण्डलम् कृत्वा गोमयेन च बुद्धिमान्।
तत्र कूर्चम् विनिक्षिप्य सम्बुद्ध्यन्तम् स्वनाम च ॥ ५ ॥

उक्त्वा त्वाहयामीति चावाह्यार्चनम् आचरेत्।
चतुर्थ्यन्तम् स्वनामोक्त्वा नमस्कारान्त सम्युतम् ॥ ६ ॥

पाद्यादि निखिलान् दत्वा स्वस्वोक्तम् तु बलिम् क्षिपेत्।
ब्रह्माणम् पुजयेत् पूर्वम् सघृतम् पायसम् क्षिपेत् ॥ ७ ॥

फलायर्मणे दद्यात् तिल मषोदनम् तथा।
दद्याद् विवस्वते आपूपम् दधि मित्राय दापयेत् ॥ ८ ॥

पृथ्विधराय सद्गन्धान् दापयेत् सुसमाहितह्।
नवनीतम् अतो दद्यात् पर्जन्याय विशेष्तह् ॥ ९ ॥

जयन्ताय घृतम् दद्यान् महेन्द्रह् कुष्ठभाग् भवेत्।
मधुपर्कम् तथा दद्यात् आदित्याय विशेषतह् ॥ १० ॥

सत्यकाय बदर्यास्तु फलम् मधु समन्वितम्।
भ्रम्शाय चूर्णम् माषस्य रजनीभक्त सम्युतम् ॥ ११ ॥

दापयेत् अन्तरिक्षाय तपनम् दुग्ध सर्पिषा।
अग्नये दुग्ध सम्युक्तम् ओदनम् शिव सम्युतम् ॥ १२ ॥

पूष्णेच वितते दद्यात् पक्वन्नम् सुसमाहितह्।
गृहक्षताय शिम्बान्नम् दद्यान् मधु समन्वितम् ॥ १३ ॥

यमाय पायसम् दद्याद् गन्धर्वे गन्धमुच्यते।
सामुद्रम् भृङ्गराजाय मत्स्यम् मत्स्योदनम् मृगे ॥ १४ ॥

दद्यान्निरृतये तैलम् पिण्याकान्नम् च बुद्धिमान्।
दौवारिके दधि प्रोक्तम् सुग्रीवे तु यवान्नकम् ॥ १५ ॥

पिष्टानि पुष्पदन्ताय पुष्पाणि सजलानि च।
जलेश्वराय दातव्यम् पायसम् घृतमिश्रितम् ॥ १६ ॥

वाराहम् तु बलौ माम्सम् असुराय प्रदापयेत्।
दद्यात् समाहितस् सम्यक् शोषाय तिल तण्डुलौ ॥ १७ ॥

रोगाय शुष्क मत्स्यान् वै ध्वजम् पीतञ्च वायवे।
नागाय मधु मुख्याय लाजान् सम्यक् प्रदापयेत् ॥ १८ ॥

भल्लाटाय गुलान्नम् वै सम्यक् दद्यात् बलिप्रदह्।
सोमाय पायसम् धूपम् दीपम् दद्याद् विशेषतह् ॥ १९ ॥

गजाय शर्करापूपम् अदित्यै मोदकम् विदुह्।
दितये तु बलिम् दद्यात् बाह्यदेव बलिक्रमे ॥ २० ॥

पायसम् घृत सम्मिश्रम् ईशानाय निवेदयेत्।
दद्यात् सवित्रे लाजाम्स्तु सावित्रे गन्धवारि वै ॥ २१ ॥

इन्द्राय माषम्मन्नम् वै मुद्गान्नम् चेन्द्र सूनवे।
रुद्राय माम्सम् अन्नम् स्यात् फेनम् रुद्रात्मजाय च ॥ २२ ॥

आपाय मत्स्यम् माम्सम् च चापवत्साय दापयेत्।
घृतम् माम्सम् चरक्यै च शूलस्थायै शिवाश्रिताह् ॥ २३ ॥

विदारिकायै दातव्यम् लवण्म् धीमता भृशम्।
तिलपिण्डमतो दद्यात् पूतनायै विशेषतह् ॥ २४ ॥

कुल्माषम् पापराक्षस्यै माम्सान्नम् स्यद्ग्रहेषु च।
विशेषबलिरेवम् स्यात् सामान्यम् तु घृतोदनम् ॥ २५ ॥

सर्वेषामपि दातव्यो बलिर्दध्ना समन्वितह्।
उत्कृष्ट बलिरेवम् स्यात् ग्रामादौ च विशेषतह् ॥ २६ ॥

गृह देवालयादौ च मध्यमह् कथ्यते अधुना।
दध्याज्य गुलसम्मिश्रम् शुद्धान्नम् ब्रह्मणे बलिह् ॥ २७ ॥

अर्यमादि चतुर्णाम् तु पायसम् बलिरुच्यते।
विदिक्ष्वापादि देवानाम् अष्टानाम् कृसरम् बलिह् ॥ २८ ॥

ईशानाद्यष्ट देवानाम् मुद्गान्नम् बलिरुच्यते।
हुताशनादि देवानाम् गुलान्नम् बलिरिष्यते ॥ २९ ॥

पश्चिमाशा स्थितानाम् तु घृतान्नम् बलिरुच्यते।
वायव्याद्युक्त देवानाम् दध्यन्नम् बलिरुच्यते ॥ ३० ॥

अष्टानाम् बाह्य देवानाम् माम्सान्नम् बलिरुच्यते।
अलाभे प्रोक्त वस्तूनाम् दध्याज्या फल सम्युतम् ॥ ३१ ॥

शुद्धमन्नम् प्रदातव्यम् गन्ध पुष्प पुरस्सरम्।
हविष्यम् देव भवने माम्सान्नम् राज मन्दिरे ॥ ३२ ॥

मद्यम् शूद्रग्रहे प्रोक्तम् अन्यत्र मधु कल्पयेत्।
मत्स्यार्थम् चैव माम्सार्थम् पिष्टम् वापि प्रकल्पयेत् ॥ ३३ ॥

ग्रामादौ वा बलिस्सोपि सुद्धद्रव्यैर् विधीयताम्।
त्वरिते त्वक्षतम् वास्याद् गन्धपुष्प समन्वितम् ॥ ३४ ॥

महावास्तुनि विप्रेन्द्र देशिका बहवो मताह्।
पञ्चगोचर सम्भुतश् शिवविप्राह् प्रकीर्तितह् ॥ ३५ ॥

अभावादादिशैवानाम् तत्र ब्रह्मश् शिवद्विजाह्।
देवालये च ग्रामादौ शिवविप्रो विशिष्यते ॥ ३६ ॥

स्वगृहेत्वनुशैवास्तु महावान्तर शैवकाह्।
वास्तु होमम् चतुर्दिक्षु देशिको मूर्तिपैस् सह ॥ ३७ ॥

एकत्र वा अत कर्तव्यो देशिकेन च धीमता।
समिदाच्ज्य चरूपेतम् तिलतण्डुल सम्युतम् ॥ ३८ ॥

मण्डपे वा प्रपायाम् वा वास्तु होमम् समाचरेत्।
पञ्चादि दश हस्तान्तम् मण्डपम् परिकल्पयेत् ॥ ३९ ॥

हस्तमात्र मितम् कुण्डम् रत्निमात्रमथापि वा।
वास्तु सीमनि वा ब्रह्मस्थाने वा मण्डपम् नयेत् ॥ ४० ॥

पलाशोदुम्बराश्वत्थ वटाह् पूर्वादितह् क्रमात्।
समिधह् कथिताश्शास्त्रे चैकत्रेष्टम् प्रगृह्यताम् ॥ ४१ ॥

कुम्भे वोदुम्बरे वापि वास्तुदेवान् प्रपूजयेत्।
हेमवस्त्र समायुक्ते सकूर्चे सापिधानके ॥ ४२ ॥

कृतस्तण्डिलकाधारस् सोष्णीषस् सोत्तरीयकह्।
कृत पञ्चाङ्ग भूषस्तु मूर्तिपैश्च तथाविधैह् ॥ ४३ ॥

उष्णीष रहितैस् सार्धम् वेदध्वनि समन्वितम्।
स्तोत्रध्वनि समायुक्तम् तहा मन्त्र जपान्वितम् ॥ ४४ ॥

सम्प्राप्त दक्षिण्श्सान्तो मनस्तुष्टि समन्वितह्।
सर्वमङ्गल कार्ये च मण्डलादि विशोधने ॥ ४५ ॥

पर्यग्निकरण्पेतम् वास्तुहोमम् नियामकम्।
बलिम् चैव विशेषेण शिवविप्रस् समाचरेत् ॥ ४६ ॥

वास्तुपूजाविहीनम् तु वास्तु वास्तु विनश्यति।
प्रतिसम्वत्सरम् कुर्यात् सर्वदोषापनुत्तये ॥ ४७ ॥

ग्रामादि गृह शालासु देववेश्मनि देशिकह् ॥ ४८ ॥

Pūrvapāda – Kapitel 20: Merkmale von Siedlungen

वक्ष्यामि लक्षणम् ग्राम नगर्यादेस् समाहितह्।
यथावद् विहितम् वास्तु न त्यजन्ति हि देवताह् ॥ १ ॥

पिषाच प्रेत रक्षाम्सि पीढाम् कर्तुम् न शक्नुयुह्।
तत्र काल परीक्षादि प्रागुक्त विधिनाचरेत् ॥ २ ॥

विप्रैर् विद्वद्भिराभोग्यम् मङ्गलम् चेति कीर्तितम्।
अग्रहारस् तदेवोक्तम् विप्रेन्द्राह् कमिकाह्वये ॥ ३ ॥

विप्रैरथायैर् वर्णैर्वा भोग्यो ग्राम उदाहृतह्।
एकोग्रामणिको यत्र सभृत्य परिचारकह् ॥ ४ ॥

कुटिकम् तद्विजानीयात् एकभोगस् स एव तु।
जनैह् परिवृतम् द्रव्य क्रयविक्र्यकादिभिह् ॥ ५ ॥

अनेक जाति सम्युक्तम् कर्मकारैस् समन्वितम्।
सर्व दैवत सम्युक्तम् नगरम् चाभिधीयते ॥ ६ ॥

वङिजामपि भोग्यम् तु तद्वदेव समीरितम्।
यत्स्थानम् ब्रह्मणानाम् तु खर्वटम् पुरवासिनम् ॥ ७ ॥

तेषामेव वनस्थानम् तद्वदेव समीरितम्।
क्रयविक्रय सम्युक्तम् अब्धितीर समाश्रितम् ॥ ८ ॥

देशान्तरागत जनैर् नाना जातिभिरन्वितम्।
पट्टणम् तत्समाख्यातम् वैश्यैरध्युषितम् तु यत् ॥ ९ ॥

नगर्यवर्तनम् यत्तत् ख्र्वटम् तदुदहृतम्।
वने जन पदे चैव केवले शूद्र सेवितह् ॥ १० ॥

कर्णकह् खेटको ग्रामह् क्रमात् त्रिविधम् ईरितह्।
सामन्तानाम् समृद्धानाम् यत्स्थानम् शिबिरम् स्मृतम् ॥ ११ ॥

गजवाजि समायुक्तम् सेनास्थानम् तदेव हि।
राजवेश्म समायुक्तम् सर्वजाति समन्वितम् ॥ १२ ॥

गुह्यप्रदेश सम्युक्तम् सेनामुखम् इहोच्यते।
आगन्तुकानाम् सर्वेषाम् नैष्ठिकानाम् निवास भूह् ॥ १३ ॥

अन्न पानीय सम्युक्तह् केवलो वा मठो मतह्।
विद्यास्तह्ऽनम् तु तद्वद्स्यात् बहुसेना समन्वितम् ॥ १४ ॥

राजवेश्म समायुक्ता राजधानीति कथ्यते।
ग्रामादीनाम् समीपम् यत् स्थानम् कुब्जम् इति स्मृतम् ॥ १५ ॥

तदेव चेरिका प्रोक्ता नगरी तन्तुवायभू।
सर्वेषामपि चैतेषाम् ग्रामादीनाम् समीरितम् ॥ १६ ॥

विस्तारायाम मानम् तु सर्वेषाम् तु सनातनम्।
शास्त्रे अस्मिन् प्रोच्यते तच्च क्रमेण परिपठ्यते ॥ १७ ॥

Pūrvapāda – Kapitel 21: Breite und Länge

विस्तारायाम मानम् तु ग्रामादीनाम् इहोच्यते।
पञ्च दण्डम् समारभ्य दण्डाभ्याम् वर्धयेत् क्रमात् ॥ १ ॥

एको न त्रिसहस्रान्तम् तदूर्ध्वम् नेष्यते बुधैह्।
अधमे तु तदूर्ध्वम् तु तत्समम् चोत्तमम् भवेत् ॥ २ ॥

एवम् विस्तारम् आख्यातम् ग्रामादीनाम् समासतह्।
कुटुम्ब भूमि मानम् तु वाटक्षेत्रे विवर्जितम् ॥ ३ ॥

प्रमाणम् कथितम् शास्त्रे तद्बाह्ये वाटभूर् मता।
चतुरश्रार्ध भागम् वा चतुर्भागम् अथापि वा ॥ ४ ॥

त्रिपादम् वा द्विपादम् वा त्रिद्व्याम्शा वा विशालतह्।
पञ्च षट्सप्त मूर्त्यम्श पङ्क्ति भागम् अथापि वा ॥ ५ ॥

चतुर्दण्दात् समारभ्त दण्दाभ्याम् वर्दयेत् क्रमात्।
त्रिगुणान्त प्रमाणेन चायामम् परिकल्पयेत् ॥ ६ ॥

ब्राह्मणानाम् समम् शस्तम् अन्येषाम् आयताश्रकम्।
सर्वम् देव च विप्रे च सामान्यम् इह कीर्तितम् ॥ ७ ॥

Pūrvapāda – Kapitel 22: Die Āya-Maßberechnungen

अतह्परम् प्रवक्ष्यामि आयादीनाम् तु लक्षणम्
विस्तारेणाभ्यसेद् दैर्घ्यम् त्रिगुणम् चाष्टभिर् हतम् ॥ १ ॥

शेषम् ध्वजादिकम् शास्त्रे योन्यष्टकम् उदाहृतम्
ध्वजो धूमाश्व सिम्हौच वृषह् खरगजोत्तमौ ॥ २ ॥

ध्वङ्क्षेण योनयश्चाष्टौ ध्वजसिम्ह वृषो गजह्
शतास्युर् निन्दिताश्चान्ये धूमाद्या योनयस्त्विह ॥ ३ ॥

तमेवाष्टगुणम् कृत्वा सप्तविम्शतिभिर् भजेत्
शिष्टम् अश्वयुजाद्यम् तु नक्षत्रम् इह कीर्तितम् ॥ ४ ॥

कर्तुह् जन्मर्क्षम् आरभ्य त्रिदिनम् पञ्च सप्तकम्
त्रयोदश दिनम् त्याज्यम् तथापञ्चदशोडुकम् ॥ ५ ॥

दिनम् सप्तदशम् चाष्टादश द्वाविम्शकम् दिनम्
सप्तविम्षति नक्षत्रम् त्याज्यम् अन्यच्छुभम् स्मृतम् ॥ ६ ॥

रज्ञाम् ग्रामश्य कर्तुश्च जन्मर्क्षेणा अविरोधि यत्
तदेव चात्र सङ्ग्राह्यम् विपरीतम् परित्यजेत् ॥ ७ ॥

जन्मर्क्षेण युतम् वापि कारयेत् वास्तुशास्त्रवित्
नाम जन्मर्क्षयोरानुकूल्यश्चोत्तमो भवेत् ॥ ८ ॥

एकोनम् मध्यमम् प्रोक्तम् विपरीतम् परित्यजेत्
नक्षत्रस्य फलम् यत्तु वयस्तस्य परिकीर्तितम् ॥ ९ ॥

ध्वजादीनाम् वशेनाथ वयस् तत्र प्रकल्प्यते
सकलञ्चाष्टभिर् हन्य दायस्सो अप्यन्यता भवेत् ॥ १० ॥

सकलञ्चाष्टभिर् भक्त्वा भजेद् द्वादशभिर् गुरुह्
शिष्तस्त्वायस् समाख्यातो व्ययस् तत्र प्रकिर्त्यते ॥ ११ ॥

सम्स्थाप्य लब्ध नक्षत्रम् अष्टभिर् भजेद् बुधह्
व्ययश्शिष्ट इह प्रोक्तस् त्वन्यथा अपि कथ्यते ॥ १२ ॥

सकलम् त्रिगुणिकृत्य मानसूत्रैर् भजेद् व्ययम्
आयाधिक्यम् तु शुभदम् समम् हीनम् च विवर्जयेत् ॥ १३ ॥

विस्तारायाम राशिम् तु वसुभिर् गणयेद् बुधह्
त्रिशद्भिर् बजेच्छिष्टम् तिथिनागवटैस्तु वा ॥ १४ ॥

त्रिगुणम् सकलम् कृत्वा मिनिना वार उच्यते
पर्य्न्तावटकेनाथ वारम् सङ्कापयेद् बुधह् ॥ १५ ॥

राश्यश्चाम्शका ये तु नक्षत्र वशगा मताह्
अष्ट द्वादश्को वर्ज्यो शेषाश्श्रेष्टाश्च राशयह् ॥ १६ ॥

शुभग्रहाम्शकश् शस्तास् त्वितरास्त्विह निन्दिताह्
विस्तारेणाभ्यसेद् दैर्घ्यम् तादृशीम् अथवा पुनह् ॥ १७ ॥

विस्तारायाम सम्युक्तम् राशिम् वाथ निरीक्षयेत्
चतुरश्रायताश्राणाम् सकलेनैव योजयेत् ॥ १८ ॥

अन्यासाम् आकृतीनाम् तु नाहायाम विशालकैह्
कुम्भकस्य विशालार्धम् नाहार्धेन न्यसेद् बुधह्
सकलम् कुम्भकम् प्रोक्तम् तेन चायादिकम् न्यसेत् ॥ १९ ॥

Pūrvapāda – Kapitel 23: Das Mondhaus-Rad

नक्षत्र चक्रम् प्रवक्ष्यामि नाम नक्षत्र सिद्धये
आदौ शतपदम् कृत्वा पर्यन्तेशान कोष्टके ॥ १ ॥

आरभ्य दक्ष मार्गेण न्यसेद् वर्णान् अनुक्रमात्
पञ्च तत्त्वम् तथाग्नेय कोणात् पश्चिम मार्गतह् ॥ २ ॥

पितुरुत्तर मार्गेण वायोह् पूर्व मुखेन च
वर्णान् विम्शति सङ्ख्याकान् क्रमेणैवम् तु विन्यसेत् ॥ ३ ॥

अ प ह क ट इत्येवम् अ व ट प र एव च
नय् अ म ज ख वर्णश्च ग ज द च ल एव च ॥ ४ ॥

ईशान मण्डले कुर्यात् पञ्च विम्शति कोष्ट्के
पश्चिमाभिमुखम् पूर्वम् लिखितानाम् त्रितीयकम् ॥ ५ ॥

पञ्चमम् नाम नक्षत्रम् स्वेनयुक्तान् स्वरान् न्यसेत्
एकादश न्यसेत् पश्चत् प्रान्ते न्यसेत् त्रयोदश ॥ ६ ॥

अकारश्च इकारश्च उश्च एकार एव च
कृत्तिका कथिता तावदो वा वीपू चतुष्टयम् ॥ ७ ॥

रोहिणीकथिता शास्त्रे वे वो का की तथैव च
चन्द्रभम् कुश्च आर्द्रा स्यात् पञ्चविम्शति मध्यमे ॥ ८ ॥

के च को च तथा हा च हीकारश्च पुनर्वसुह्
हश्च हेश्च तथा होश्च डश्च पुस्ह्यह् प्रकीर्तितह् ॥ ९ ॥

अवशिष्टैरथाश्लेषान् नामधेयम् प्रकल्पयेत्
अनेन क्रमयोगेन सर्वमत्र समाचरेत् ॥ १० ॥

आर्द्रायुक्ते कु कोष्टे च घङ्च्छान् अनुकल्पयेत्
हस्तयुक्ते च कोष्टे च पू ष णा ठान् परिकल्पयेत् ॥ ११ ॥

पूर्वाषाढाम् बु कोष्टेच ध फा ढान् विन्यसेद् गुरुह्
भेचोत्तर भाद्रपदे दू थाझा ञान् तथानयेत् ॥ १२ ॥

नकार ग्रहणेनैव ञकारह् स्वीकृतास्त्विह
अकार ग्रहणेनैव आकारह् स्विकृतास्त्विह ॥ १३ ॥

इकार ग्रहणेनैव ईकारह् स्विकृतास्त्विह
उकारह् ग्रहणेनैव ऊकारह् स्विकृतास्त्विह ॥ १४ ॥

एकार ग्रहणेनैकाराद्यह् पञ्च समाहृताह्
एवमन्यत्र चोन्नेयम् नामनक्षत्र कल्पनात् ॥ १५ ॥

ग्रामे क्षत्रियसेवायाम् युद्धे च व्यवहारके
नमर्क्षम् योजयेद् विद्वान् नमान्तर परिग्रहात् ॥ १६ ॥

अन्यस्मिन् जन्म नक्षत्रम् वा वास्तुकर्मण्युभावपि
एवम् नक्षत्र चक्रम् च युष्माकम् कथितम् मया ॥ १७ ॥

अनेनैवानुकूल्यम् च विज्ञेयम् स्याद्विचक्ष्णैह्
विपदि प्रत्यरे चैव वधे चैव यथाक्रमात् ॥ १८ ॥

प्रथमाम्श तृतीयाम्शदृते देषास्तु शोभनाह्
तृतीये चापि पर्याये चोत्तमम् परिपठ्यते ॥ १९ ॥

द्वितीये मध्यमे चैव प्रथमम् कन्यसम् स्मृतम्
गणञ्चासुर मानुष्यम् वर्जयेच्छुभम् अन्यथा
एवम् जन्मर्क्षके नाम नक्षत्रे च परिकल्पयेत् ॥ २० ॥

Pūrvapāda – Kapitel 24: Daṇḍikā und weitere Glieder

दण्दिकादि विधिम् वक्ष्ये शृणुत ज्ञान कङ्क्षिणह्।
दण्डिकम् स्वस्तिकम् चान्यत् प्रस्तरम् च प्रकीर्णकम् ॥ १ ॥

सम्पत्करम् पराकम् च पद्मकम् श्रीप्रतिष्ठितम्।
श्रीवत्सम् वैदिकम् चैव नन्द्यावर्तम् च कुम्भकम् ॥ २ ॥

एवम् द्वादशधा प्रोक्ता ग्रामादेराकृतिस्त्विह।
कुम्भकम् वैदिकम् चैव दण्दिकम् च विशेषतह् ॥ ३ ॥

जानीयात् पत्तनादौ तु श्भमेतन् न सम्शयह्।
पूर्वाग्रम् उत्तराग्रम् वा वीथिम् कृत्वोभयोर् बुधह् ॥ ४ ॥

गृहाणि पार्श्वयोह् कुर्यात् एकस्मिन् पार्श्वकेपि वा।
एकवीथि समायुक्तम् वीथिद्वय समायुतम् ॥ ५ ॥

वीथीत्रय समायुक्तम् पूर्वाग्रम् चोत्तरग्ऽरकम्।
कर्तरीकृत दण्डाभम् वाथ कुर्यात्तु दण्डिकम् ॥ ६ ॥

पूर्वाग्रम् उत्तराग्रम् च कृत्वा वीथि द्वयम् द्वयम्।
उदग्रैर् नवान्यैश्च मार्गैर्युक्तम् तु तद्भवेत् ॥ ७ ॥

दक्षिणाभिमुखो भूत्वा पूर्व वीथ्यास्तु निर्गमह्।
पश्चिमाभिमुखश्चैव दक्षिणस्याम् तु निर्गमह् ॥ ८ ॥

उत्तराभिमुखो भूत्वा पशिमयाम् विनिर्गमह्।
प्राङ्मुखस्तु ततो भूत्वा सौम्य वीथ्यास्तु निर्गमह् ॥ ९ ॥

एवम् हि यत्क्रूतम् वास्तु स्वस्तिकम् त्वभिधीयते।
एवमेवतु सर्वेषाम् ग्रामादीनाम् तु निर्गमह् ॥ १० ॥

त्र्यादि पञ्चदशान्ताभिह् उदिचीनाभिरन्वितम्।
तिसृभिह् प्रङ्मुखभिस्तु प्रस्तरम् त्विह कथ्यते ॥ ११ ॥

चतुर्वीथि समारभ्य सप्तदश समावधि।
उदीचिभिस्समायुक्तम् प्रङ्मुखभिश्चतुर्भिह् ॥ १२ ॥

एतत् प्रकीर्णकम् प्रोक्तम् उदीचीनैस्तु पञ्चभिह्।
एकविम्षति सम्ख्यातैह् प्राङ्मुखाभिश्च पञ्चभिह् ॥ १३ ॥

सम्पत्करम् इहोद्दिष्टम् परकञ्च वदाम्यहम्।
षड्वीथिकाम् समारभ्य त्रयोविम्शतिकावधि ॥ १४ ॥

एकैक वीथि वृद्ध्यातु उदीचीनाभिरन्वितम्।
षड्भिश्च प्राङ्मुखाभिश्च पराअकम् त्विति कीर्त्यते ॥ १५ ॥

सप्तवीथि समारभ्य चैकोन त्र्यम्शकावधि।
उदङ्मुखभिर् वीथिभिर् युक्तम् प्रङ्मुख मार्गगैह् ॥ १६ ॥

सप्तभिह् पद्मकम् प्रोक्तम् एष्विष्टम् परिगृह्यताम्।
अष्टभिर्प्राङ्मुखैर् मार्गैह् उदीच्ऽनैस्तदादिभिह् ॥ १७ ॥

षट् त्रिम्शदम्श सम्ख्यातैह् प्राङ्मुखैरष्टभिर्युतम्।
श्रीप्रतिष्ट् हितम् इत्युक्तम् तस्मिन् इष्टम् परिगृह्यताम् ॥ १८ ॥

प्रागग्रैरुदगगरिश्च मार्गैरिष्टैस् समन्वितम्।
श्रीवत्सम् इति निर्दिष्टम् सर्व वास्तुषु योग्यकम् ॥ १९ ॥

चतुरश्रायताश्रम् वा कृत्वा कोणेषु मध्यमे।
पुष्पदन्तादिके वापि यथेष्टम् द्वार सम्मितम् ॥ २० ॥

उभयोह् पार्श्वयोर् वापि एकपार्श्वो थवा पुनह्।
गृह वीथि समायुक्तम् चैतद्वैदिकम् उच्यते ॥ २१ ॥

तदेव विप्रभूपाल वैश्य शुद्र गृहावृतम्।
प्रधानम् वा अप्रधानम् वा सर्वत्र विहितम् त्विह ॥ २२ ॥

क्षेत्रावृतम् तु वाकुर्याम् आरामाद्यावृतम् तु वा।
एतच्चा वैदिकम् प्रोक्तम् अन्तर्बाह्य विभागतह् ॥ २३ ॥

अनेकावलि सम्युक्तम् चापि वैदिकम् उच्यते।
परितोपि समम् कृत्वा मार्गैह् पूर्वोत्तराननैह् ॥ २४ ॥

एकानेकैर् यथेष्टैस्तु प्रागुक्तैस् तच्च वैदिकम्।
विधाय वीथिम् नाभ्याख्याम् निर्गमैश्च समन्वितम् ॥ २५ ॥

स्वस्त्याकारैर् बहिस्तस्याम् महावीथि समन्विताम्।
नभौ विनिर्मितास् तिस्रह् पञ्च सप्त नवाथ वा ॥ २६ ॥

युग्माभिरेव कर्तव्यम् नन्द्यावर्तम् इति स्मृतम्।
वृत्ताकारैस्तु मार्गैश्च एकानेकैस् समन्वितम् ॥ २७ ॥

प्रागुत्तर मुखैर् मार्गैह् अनेकैर् मध्यमैर्युतम्।
कुम्भकञ्चेति निर्दिष्टम् अनेकैर् कोण्कैर्युतम् ॥ २८ ॥

अष्टाग्रैर्वा बहिर्मार्गैह् युक्तम् कुम्भकम् उच्यते।
नगरीपत्तनादौ तु विहितम् त्विह कामिके ॥ २९ ॥

Pūrvapāda – Kapitel 25: Straßen, Tore und ihre Maße

वीथिद्वारादि मानम् तु प्रवक्ष्यम्यनुपूर्वशह्।
ब्रह्मभागावृतावीथिह् नाभिवीथीति कथ्यते ॥ १ ॥

राजवीथीति विख्याता ग्रामादेर्बहिर्वृताह्।
सैव मङ्गल वीथीति रथवीथीति चोच्यते ॥ २ ॥

प्राङ्मुखा वीथयस् सर्वा नराचाख्या इति स्मृताह्।
ताएव जनवीथ्यस्स्युह् क्षुद्रस् तिर्यग् गता मताह् ॥ ३ ॥

पाददण्डम् समारभ्य पादपाद विवर्धितम्।
स्यादेकादश दण्डान्तम् वीथिमानम् इहागमे ॥ ४ ॥

मार्गमानम् च तावत्स्यान् न द्वारम् वीथिकाग्रके।
हित्वामङ्गल वीथ्यग्रम् नाभिम् न प्रोतयेत् क्वचित् ॥ ५ ॥

भल्लाटे पुष्पदन्ते च महेन्द्रे च ग्रहक्षते।
चतुर्द्वारम् प्रकर्तव्यम् सर्वेषामपि वास्तुनाम् ॥ ६ ॥

महेन्द्रे सत्यके चैव पदे प्राग्द्वारम् उत्तमम्।
ग्रूहक्षत पदे चैव गन्धर्वे दक्षिणम् शुभम् ॥ ७ ॥

असुरे पुष्पदन्ते च पश्चिम द्वार उच्यते।
मृग भल्लाटयोर् स्थाने चोत्तर द्वारमुच्यते ॥ ८ ॥

पर्जन्ये च भृशे पूष्णि भृङ्गराजे जलेशके।
शेषे नागे अदितौ स्थानम् उदग्द्वारेषु कीर्तितम् ॥ ९ ॥

दण्डत्रयम् समारभ्य चैक दण्ड विवर्धनम्।
तिथि दण्डावसानम् तु गृहक्षेत्र विशालता ॥ १० ॥

तत्रैव हस्त मानेन गेहम् कुर्यत् विचक्षणह्।
अथव दण्ड मानेन गृहविस्तार उच्यते ॥ ११ ॥

पञ्चहस्तम् समरभ्य द्विद्विहस्त विवर्धनात्।
एकषष्टि विशालम् तु गृहक्षेत्र विशालता ॥ १२ ॥

आयामम् ग्राम दण्डेन हस्तच्छेद विवर्जितम्।
चतुश्शाल गृहम् श्रेष्ठम् त्रिशालम् मध्यमम् भवेत्॥
द्विशालम् अधमम् प्रोक्तम् हीनम् स्यादेकशालकम् ॥ १३ ॥

Pūrvapāda – Kapitel 26: Götterplätze in Siedlungen

ग्रामादि देवता स्थानम् वक्ष्ये सर्वम् सनातनम्।
ब्रह्मस्थानस्य वायव्याम् विष्णुस्थानम् प्रकीर्तितम् ॥ १ ॥

वारुङ्याम् वास्तुनो ब्रह्म सूत्रस्योत्तर देशके।
ग्राम मध्ये तदीशान्याम् अष्टदिक्षु शिवो मतह् ॥ २ ॥

हरिहरयुतम् वास्तु केवलेन हरेण वा।
अन्यत्सर्वम् यथेष्टम् स्यात् तेषाम् स्थानम् इहोच्यते ॥ ३ ॥

वारुण्याम् इन्द्र काष्ठायाम् इन्द्रेषानान्तरे अथ वा।
रविस्थानम् भवेत् तत्र स्थानम् वापि शचीपतेह् ॥ ४ ॥

वायव्याम् इन्द्रकाष्ठायाम् याम्यकग्नेय नैरृते।
सुग्रीवे वारुणे वापि षण्मुखस्थानमीरितम् ॥ ५ ॥

वारुण्याम् नैरृताविन्द्रे शास्तृ स्थानम् प्रकीर्तितम्।
वारुण्याम् वाथ नैरृत्याम् वायुसोमान्तरे अथवा ॥ ६ ॥

अन्यत्र गणेशस्य स्थानमुक्तम् इहागमे।
यमे वानैरृते भागे वायव्याम् इन्द्र मध्यमे ॥ ७ ॥

नैरृत्यन्तकयोर्वापि दुर्गास्थानम् प्रकीर्तितम्।
वारुण्याम् श्रीसरस्वत्योह् स्थानम् उक्तम् शिवाश्रिताह् ॥ ८ ॥

ऐशान्याम् सोमभागे वा तयोर्मध्ये तु मातरह्।
आग्नेय्याम् मोटिकास्थानम् कामदेवस्य तत्र वै ॥ ९ ॥

ज्येष्ठा पुष्करणीतिरे स्थाप्यन्यत्र बहिस्तु वा।
काम भास्करयोर् वास्तु षण्मुखस्थानम् उच्यते ॥ १० ॥

षण्मुखस्यतु मातॄणाम् स्थानम् अन्यत् यथेप्सितम्।
सहस्राधिक विप्रे मध्ये विष्णु गृहम् तु वा ॥ ११ ॥

शिवपूजायुतम् वास्तु नान्यच्छास्त्रस्य निश्चयह्।
श्रीपतेह् पूजया नित्यम् प्रजावृद्धिर् भविष्यति ॥ १२ ॥

सूर्यस्य पूजया नित्यम् ग्रह पीडा विनश्यति।
इन्द्रपूजा मनुष्याणाम् प्रभावम् सम्प्रयच्छति ॥ १३ ॥

सुब्रह्मण्यार्चनम् नित्यम् बालानाम् हितकृद्भवेत्।
शास्तृपूजा स्वकृत्येषु नियुन्क्ते वास्तु वासिनह् ॥ १४ ॥

कामस्य पूजा कुरुते सौन्दर्यम् वास्तु वासिनाम्।
उमापूजा विशेषेण विजयम् सम्प्रयच्छति ॥ १५ ॥

पूजिताचेन् महामोटी बालरोग विनाश्नी।
सर्वसिद्धिरविघ्नेन विघ्नेशस्य सप्र्यया ॥ १६ ॥

ज्येष्ठापूजा विशेषेण रोगघ्नी वास्तु वासिनाम्।
लक्ष्मीपूजा श्रियम् दद्यदलक्ष्मीम् च व्यपोहति ॥ १७ ॥

वाग्विभूतिम् सरस्वत्याह् पुजा नित्यम् प्रयच्छति।
मातृपूजा सदासर्व सम्पदम् कुरुते द्विजाह् ॥ १८ ॥

सर्वेषाम् पूजया यत्तत् फलम् दद्यान् महेश्वरह्।
तस्मान् महेश्वरो नित्यम् पूजनीयह् फलार्थिभिह् ॥ १९ ॥

ऐश्ऽन्याम् स्थापितम् लिङ्गम् उत्तमम् त्विति कीर्तितम्।
अन्यत्र मध्यमम् प्रोक्तम् लिङ्गम् सम्स्थापितम् द्विजाह् ॥ २० ॥

ग्राम मध्ये हरेह् स्थानम् उत्तमम् परिकीर्तितम्।
पश्चिमे मध्यमम् विद्यात् अधमम् चान्य देशके ॥ २१ ॥

ईशविष्ण्वोस्तु मूर्तिस्याद् द्विविधा परिकीर्तिता।
उग्रा शान्ता च तत्राद्या उग्रकर्म रतामता ॥ २२ ॥

शान्तकर्म रता शान्ता मूर्ती रौद्री तु बाह्यगा।
शान्ता तु मध्यगा प्रोक्ता ग्रामादौ सर्व वास्तुनि ॥ २३ ॥

करिकाम पुरारिस्तु कालारित्वेवमादयह्।
उग्रास्तु मूर्तयह् प्रोक्ताश् शेषाश्शान्ता उदाहृताह् ॥ २४ ॥

विश्वरूपम् नृसिम्हम् च वटशायिनम् एव च।
जामदग्न्यम् च जानीयात् उग्रम् वैष्ण्व विग्रहम् ॥ २५ ॥

ग्रामादेर् बाह्य देशे तु काननादौ प्रकीर्तितह्।
रौद्राणाम् इह देवानाम् स्थापने फलम् उच्यते ॥ २६ ॥

पूर्वे चेत् ग्राम नाशम् स्यात् वह्ने दुश्शीलगास्त्रियह्।
नाशस्तु याम्य देशे तु प्रेत दैत्यदिभिर् भृशह् ॥ २७ ॥

रोगस्तु नैरृते नाशम् शोकस्याद्वारुणाम्शके।
दुस्स्थितिम् पावने विद्यात् राष्त्र सम्स्थाम् तु सौम्यके ॥ २८ ॥

सर्वसम्पत्तिरैशान्याम् पुत्रपौत्र विवर्धनम्।
ग्रामेत्वेवम् समाख्यातम् सर्वत्रान्येषु वा मता ॥ २९ ॥

ग्रामकुड्यान्तरस्थानेष्वष्टदिक्ष्वपि शस्यते।
न मध्ये स्थापयेत् रुद्रमूर्तिम् ग्रामे विशेषतह् ॥ ३० ॥

रुद्रमूर्तिस्स्थिता चेत्तु गामदौ तु तदग्रके।
शान्तमूर्ति प्रतिष्ठाम् तु कारयेद् देशिकोत्तमह् ॥ ३१ ॥

तटाकम् करयेद्वापि तेन शान्तिर् विधीयते।
अग्रहाराद्विनान्येषु स्थानीयादिषु वास्तुषु ॥ ३२ ॥

प्रागादिषु चतुर्दिक्षु वायावीसे शिवालयह्।
तथैव शेषदेशे च पर्जन्याम्शे जयन्तके ॥ ३३ ॥

वामनेत्रेक्षणम् तत्र सर्वसम्पत् सम्र्द्धिदम्।
ईक्षणम् सकलानाम् तु ऐहिकामुष्मिकावहम् ॥ ३४ ॥

पादपादम् तदर्थम् वा त्रिपादम् पादमेव वा।
एकदण्डम् समारभ्य पञ्चदण्डावशनकम् ॥ ३५ ॥

नीत्वा तु स्थापयेद् बाह्ये रुद्रमूर्ति निकेतने।
एवम् ति कथितम् रुद्र मूर्तीनाम् स्थापने फलम् ॥ ३६ ॥

शान्तमूर्ति प्रतिष्ठायाम् फलमद्ये निगद्यते।
ब्रह्मस्थाने स्थितम् लिङ्गम् विप्रक्षत्रिय शोभनम् ॥ ३७ ॥

ऐन्द्रम् सर्वप्रदम् लिङ्गम् याम्ये वृद्धिस्तथायुषह्।
आरोग्यम् वारुणम् लिङ्गम् सौम्यम् वित्तप्रदम् भवेत् ॥ ३८ ॥

वह्निदेशे सुखम् दद्यात् विजयम् नैरृतौ शिवह्।
वायव्ये सम्पदौ दद्यात् सर्वम् ईशान गोचरे ॥ ३९ ॥

अन्तरालेषु सर्वेषु फलमेवम् विनिर्दिशेत्।
सोमे चैशानके वापि सोमेशानान्तरालके ॥ ४०क ॥

इन्द्रेशनान्तराले च शिवलिङ्गम् स्थितम् यदि।
ग्रामादेरभिवृद्धिस्यद् राज्ञो राष्ट्रस्य चैव हि॥
सौभाग्यमायुरारोग्यम् भवत्येव न सम्शयह् ॥ ४०ख ॥

Pūrvapāda – Kapitel 27: Die Anzahl der Zweimalgeborenen

द्विजादीनाम् च सङ्ख्येह वक्ष्यते शृणत द्विज।
ज्येष्ठ मध्यम कनिष्ठाश्च क्षुद्राश्चेति चतुर्विधह् ॥ १ ॥

प्रत्येकम् नवधा प्रोक्ता वक्ष्यमाण प्रमाणतह्।
चतुर्दश सहस्रात्तु षद्सहस्र द्विजान्तकम् ॥ २ ॥

सहस्र हीनम् नवकम् चतुष्केषूत्तमम् द्विजाह्।
ततह् पञ्च सहस्रात्तु सहस्रान्तम् यथाक्रमम् ॥ ३ ॥

हीनम् पञ्च शतेनैव मध्यमम् नवकम् बुधाह्।
शतहीन सहस्रात्तु यावत् पञ्च शतान्तकम् ॥ ४ ॥

शतार्धेन क्रमेणैव कनीय क्षुद्रयोर् मतम्।
अथवान्य प्रकारेण वक्ष्यते शृणुत द्विजाह् ॥ ५ ॥

अष्तोत्तरशतम् चान्यद् वर्धयेद् दश सङ्ख्यया।
लक्षान्तम् सङ्गृहीतव्यम् तेषु शक्त्यैकम् आचरेत् ॥ ६ ॥

अशक्तश्चेद् दशाद्यष्ट शतान्तम् पञ्च सङ्ख्यया।
वर्धयेद् अतिहीनम् चेत् एकस्मादेव वर्धनात् ॥ ७ ॥

दशन्तम् वाथ कर्तव्यम् तेषु चेष्टम् समाचरेत्।
द्वात्रिम्शद्वा चतुर्विम्शत् षोडश द्वादशैव वा ॥ ८ ॥

चतुरुत्तर पञ्चाशत् सङ्ख्याका वा प्रकीर्तिताह् ॥ ९ ॥

Pūrvapāda – Kapitel 28: Die Anlage von Siedlungen

विन्यासस्य विशेषोयम् ग्रामादीनाम् इहोच्यते।
ग्रामश् शरीरम् अङ्गम् स्याद् देवमर्त्य परिग्रहह् ॥ १ ॥

उपाङ्गम् इति बोद्धव्यम् विमान भवनादिकम्।
पदप्रस्ताअर सूत्रे वा मध्यसूत्र द्वये पि च ॥ २ ॥

कर्णसूत्र द्वये चापि उपाङ्गम् नैव कारयेत्।
वीथ्यन्तरे गृहश्श्रेण्याम् सीम्नि वा सूत्रवर्धनम् ॥ ३ ॥

यथाभवेत् तथाकार्यम् न कार्यम् सूत्र पीडनम्।
दण्डच्छेदो न कर्तव्यो ग्रामे वापि गृहायतौ ॥ ४ ॥

उपाङ्गायाम विस्तारे दण्डच्छेदो पि योज्यते।
अन्यत्र दण्डम् न छिद्यच् छरिरे तु विशेषतह् ॥ ५ ॥

बाह्य श्रेणीषु वृद्धिश्च दण्डच्छेदश्च वीथिषु।
पदशेषयुतम् वेश्म छिन्न दण्डम् गृहादिकम् ॥ ६ ॥

इष्टमानम् च वीथीनाम् वास्तुकर्मणि शस्यते।
श्रेण्यन्तरेषु तत्रैव पदशेषम् समापयेत् ॥ ७ ॥

चण्डालानाम् प्रवेशाय निर्गमाय मलस्य च।
जलस्य निर्गमार्थम् तु क्षुद्रमार्गाह् प्रशम्सिताह् ॥ ८ ॥

ग्रामेषु यत्कृतो दोषो राज्ञो ग्रामस्य सर्वतह्।
अङ्गेषु यत्कृतो दोषो ग्रामस्य हि जनस्य तु ॥ ९ ॥

प्रत्यङ्गे यत्कृतो दोषस् तत्रस्थानाम् विशेषतह्।
वास्तुनस् सर्व मर्मादि त्यक्त्वन्यत्र वसेन् नरह् ॥ १० ॥

त्रिशूले गर्भनाशम् स्याच् चतुष्के प्रेष्य नाशनम्।
मरणम् मर्मणि ज्ञेयम् सन्धु मित्रार्थ नाशनम् ॥ ११ ॥

चतुष्के नित्यरोगस् स्यल् लाङ्गले मित्र नाशनम्।
मरणम् ब्रह्म सूत्रे तु कर्णसूत्रे अर्थ नाशनम् ॥ १२ ॥

पदप्रस्तार सूत्रे च पुरनाशो भवेद् धृवम्।
युग्मायुग्म विभागेन विन्यासो विविधो मतह् ॥ १३ ॥

युग्म मार्गस्तु सूत्रस्था अयुग्मे पद मध्यगाह्।
अन्योन्य सङ्करो यस्मात् अशुभम् स्याज् जनेषु च ॥ १४ ॥

अयम् विभागह् कथितो वास्तौ दण्डक सम्ज्ञके।
ब्रह्मस्थाने सभादीनि कल्पयेद् विधिनाबुधह् ॥ १५ ॥

सोमेशानन्तरे सूत्रम् याम्य नैरृत मध्यमे।
तन्मुक्त्वा पार्श्वयोह् कार्यम् सभास्थान समृद्धये ॥ १६ ॥

व्यपोह्य मध्यमम् भागम् वापी कूपञ्च मण्टपम्।
वायव्ये नैरृते चैशे कुर्याद्वै देवतालयम् ॥ १७ ॥

ऐशम् चेदीशभागेतु चान्यस्मिन् वैष्णवम् भवेत्।
ब्राह्मम् वा मध्यमे भागे पीठम् वा परिकल्पयेत् ॥ १८ ॥

ग्रामादेर् ब्रह्म सूत्रस्य पश्चिमायाम् विशेषतह्।
उत्तरे मानुषे भागे विष्णुम् सम्स्थापयेद् बुधह् ॥ १९ ॥

यमस्य पूर्व सूत्रेस्यान् मानुषे स्कन्द एव च।
इन्द्र सूत्रादुदीच्याम् तु सूर्यम् सम्स्थापयेत् सुधीह् ॥ २० ॥

सोमसूत्रम् ततह् पूर्वे मानुषे च विनायकम्।
दुर्गावा तत्र कर्तव्या स्कन्दपार्श्वे अथवा भवेत् ॥ २१ ॥

बहिर्मङ्गल वीथ्यास्तु पैशाचे वा प्रकल्पयेत् ॥ २२ ॥

Pūrvapāda – Kapitel 29: Brahma-, Deva- und weitere Felder

अतह्परम् प्रवक्ष्यामि ब्रह्मदेव पदादिकम्।
ग्रामाद् दश नवाम्शम् वा अष्टसप्ताम्शमेव वा ॥ १ ॥

कृत्वाबहिश्च पैशाचम् अन्तर्मानुषम् उच्यते।
तदन्तर् दैविकम् प्रोक्तम् शिष्टम् ब्रह्मम् इति स्मृतम् ॥ २ ॥

ग्राम भूतम् तुरीयाम्शम् वस्वग्नि मुनिभागिकम्।
कृत्वा तेश्वेकभागम् तु परितो वर्धयेद् गुरुह् ॥ ३ ॥

बहिर्मार्गम् इति ज्ञेयम् बाह्यम् पैशाचम् एव हि।
दैव मानुष भागे तु वर्णानाम् वास इष्यते ॥ ४ ॥

ब्रह्म पैशाच भागे तु देवतागारम् इष्यते।
पैशाचे न कर्तव्यो वासह् कर्मोपजीविनाम् ॥ ५ ॥

अथवान्य प्रकारेण कथ्यते पण्डितोत्तमह्।
वर्णानाम् वास इत्युक्ते ब्रह्म पैशाचिकाम्शके ॥ ६ ॥

पदे पैशाचिके कुर्याद् दैवज्ञ भिषजाम् गृहम्।
अन्येषाम् कर्मिणाम् गेहम् वास्तु पैषाचिके मतम् ॥ ७ ॥

चिकित्सिकानाम् वेशम्स्याद् ग्राम मध्ये बहिस्तु वा।
देवालयस्य पार्श्वे तु पूजकानाम् गृहम् भवेत् ॥ ८ ॥

बाह्ये पैशाचिके शास्ता र्य्द्रो मोटी मातरह्।
अन्येषाम् वास्तु देवानाम् पद पैशाचिके मतम् ॥ ९ ॥

बाह्येवाप्यन्तरे वापि गणेश स्कन्दयोर् गृहम् ॥ १० ॥

Pūrvapāda – Kapitel 30: Die Verteilung der Siedlungsteile

इदानीम् सम्प्रवक्ष्यामि स्थानान्यङ्गोप जीविनाम्।
दैवज्ञो गण्को वैद्यस्त्वम्बष्ठो भेषजप्रदह् ॥ १ ॥

विषापह् कर्मकारो दैवो ग्रमाङ्गमष्टधा।
वणिजश्च कुलालश्च नापिताह् पुष्पजीविनह् ॥ २ ॥

वादित्रजीविनह् प्राणिजिवनश्चक्र जिविनह्।
वैदेहकास् तन्तु वायाह् कर्मका रजका अपि ॥ ३ ॥

चण्डाला अपि चेत्येते द्वादशाङ्गोप जीविनह्।
वारुण्याम् वङिजाम् स्थानम् इन्द्रदिश्यथवा भवेत् ॥ ४ ॥

कुलालस्थानमैशान्याम् सौम्ये चेन्द्रस्य वादिशि।
नापितानाम् द्वयेपि स्याद् अग्नेरिन्द्रस्य वादिशि ॥ ५ ॥

ऐशान्यम् इष्यते पुष्पजीविनाम् स्थानमत्र तु।
वादित्र जिविनाम् स्थानम् सोमदेशे च कल्पितम् ॥ ६ ॥

वारुण्याम् अथ वायव्याम् नैरृत्याम् प्राणि जीविनाम्।
याम्यायाम् दिशि सौम्यायाम् चक्रिणाम् स्थानमिष्यते ॥ ७ ॥

वैदेहकानाम् वायव्याम् स्थानम् प्रोक्तम् शिवागमे।
प्रोक्तम् तु तन्तुवायानाम् स्थानम् याम्य दिशि स्थितम् ॥ ८ ॥

जात्युत्कर्ष वशेनैव स्थानम् युक्त्याप्रकल्पयेत्।
उत्कृष्टानाम् समीपे स्यान् निकृष्टानाम् तु दूरतह् ॥ ९ ॥

आग्नेय्याम् अथ वायव्याम् शतदण्डम् व्यपोह्य तु।
कर्मकाणाम् निवासस्याद् रजकानाम् ततो बहिह् ॥ १० ॥

चण्डालानाम् तु कर्तव्यम् पूर्वस्याम् विदिशासु च।
चण्डालानाम् कुटीराणि क्रोशबाह्ये प्रकल्पयेत् ॥ ११ ॥

ऐशान्याम् अथ वायव्याम् श्मशानम् प्राचिवोत्तरे।
नद्यादौ विद्यमाने तु श्मशानम् तीर देशके ॥ १२ ॥

प्राच्याम् प्रतीच्याम् वायव्याम् ऐशान्याम् सोमदिश्यथ।
तटाकम् कारयेत् कूपम् अन्यदिक्षु विवर्जयेत् ॥ १३ ॥

गोशाला दक्षिणे देशे पुष्पवाटी तथोत्तरे।
अथवासर्वकाष्ठासु वापीकूप तटाककाह् ॥ १४ ॥

वैश्यानाम् परितो वासश्शूद्राणाम् पितृके भवेत्।
चण्डाल कर्म काराणाम् श्मशनोदक्प्रदेशयोह् ॥ १५ ॥

हीनत्व परिवृत्तिष्च ग्रामाङ्गानम् विशेषतह्।
देव वेश्म गृहादीनाम् मार्गस्य च विशेषतह् ॥ १६ ॥

शोध्यानाम् सम्शय मार्गे निक्षिपेच् छून्य देशके।
श्लेष्मातकम् वटञ्चापि कट्कञ्चाप्युदुम्बरम् ॥ १७ ॥

आरग्वतम् तथाश्वत्थम् निम्बम् प्लक्षम् च विवर्दयेत्।
प्रदक्षिण क्रमादेतान् ईशानाद्यष्ट दिक्ष्वपि ॥ १८ ॥

वृक्षा स्थाप्या बहिर्वास्तौ चैत्य वृक्षा भवन्त्यमी।
एते दोषहरा प्रोक्ता ग्रामादीनाम् विशेषतह् ॥ १९ ॥

सहस्रादतिके विप्रे विप्रशक्त्या न दोषयुक्।
बहिर् मङ्गल वीथ्याम् तु पाद पादार्ध वर्धनात् ॥ २० ॥

वर्णान्तर गृहादीनामन्तरितामर मन्दिरम्।
चतुरादि चतुष्पञ्च दण्डार्धार्ध पदम् पुनह् ॥ २१ ॥

नीत्वा गृहवशात्कार्यम् सप्रकारम् सुरालयम्।
एवम् तु रौद्र देवानाम् विमानम् परिकल्पयेत् ॥ २२ ॥

Pūrvapāda – Kapitel 31: Die Gründungsdeponierung

गर्भन्यास विधिम् वक्ष्ये ग्रामादीनाम् च सद्मनाम्।
सगर्भम् सर्व सम्पत्यै विगर्भम् नाशनम् भवेत् ॥ १ ॥

तस्मात्सर्व प्रयत्नेन गर्भम् सम्स्थापयेत् सुधीह्।
देवतास्थापनात् पूर्वम् स्थापनम् चोत्तमम् भवेत् ॥ २ ॥

देवता स्थापनस्यान्ते स्थापनम् मध्यमम् बह्वेत्।
ग्राम विन्यासमारभ्य चैकाब्दादूर्ध्व कालके ॥ ३ ॥

स्थापनम् कन्यसम् प्रोक्तम् ग्रामादीनाम् इति स्मृतम्।
पूर्वोक्ते तु सीवे काले सित पक्षे विशेषतह् ॥ ४ ॥

ग्रामादीनाम् तु रात्रौ स्यात् सद्मनस्तु दिवापि वा।
नागयोगे दिवा वापि ग्राम गर्भम् तु विन्यसेत् ॥ ५ ॥

नक्तम् न्यसेन् नराणाम् तु देवानाम् तु दिवापि वा।
गृहीणीम् गर्भिणी कर्तुम् यदि गर्भम् न निक्षिपेत् ॥ ६ ॥

हेमाकारेण ताम्रेण फेलाम् वा कारयेद् बुधह्।
चतुरङ्गुलमारभ्य चैकाङ्गुल विवर्धनात् ॥ ७ ॥

चतुर्विम्शतिकायाम विस्तारम् परिकीर्तितह्।
तदर्धम् स्यात्समुत्सेधम् त्रिपादम् वाथ तत्समम् ॥ ८ ॥

फेलोत्सेधम्स्त्रिपादम् स्यात् पिधानस्य समुच्छ्रयह्।
सभागम् वा त्रिभागम् वा बाणभागे त्रिभागकम् ॥ ९ ॥

यवमेकम् समारभ्य यवार्धेन तु विवर्धयेत्।
घनम् पञ्च यवार्धम् तु भित्तीनाम् परिकल्पयेत् ॥ १० ॥

कोष्ठ वृत्तिस्तदर्धम् स्यात् त्र्यम्शकम् सर्वमेव वा।
पादा अष्टाम्शका वापि चोछ्रयेण घनेन च ॥ ११ ॥

फेला पञ्चाङ्गुला प्रोक्ता गृहाणाम् नाधिका भवेत्।
सपञ्च पञ्च कोष्टम् वा नवकोष्टयुतम् तु वा ॥ १२ ॥

वृत्तम् वा चतुरश्रम् वा कल्पयेद् देशिकोत्तमह्।
शिलामयम् तु वा पात्रम् यवार्धेनान्गुलानि च ॥ १३ ॥

घनार्धम् कल्पयेद् धीमान् शङ्के वाथ करण्डके।
रत्नानि धातुकादीनि स्वल्पविस्तार भाजने ॥ १४ ॥

तद्देवस्थान भावज्ञस् तानि तानि निवेशयेत्।
एवम् ज्ञात्वा तु मतिमान् गर्भस्थापनम् आरभेत् ॥ १५ ॥

घृष्ट्वा मलम् सम्शोध्य प्रक्षाल्याम्लेन वारिना।
पञ्च गव्येन सम्प्रोक्ष्य पुण्याहम् वाचयेत् ततह् ॥ १६ ॥

मङ्गलान्कुर कार्यम् तु विधिना कारयेद् बुधह्।
गर्भस्थाने गृहे वापि ग्रामे गर्भाधिवासनम् ॥ १७ ॥

विमानस्योत्तरे चैन्द्रे चान्येषाम् अधिवासनम्।
दशरन्ध्राब्धि हस्तैर् वा विस्तृतम् मण्टपम् नयेत् ॥ १८ ॥

तन्मध्ये वेदिकाम् कुर्यात् तत्रिभगैक भागतह्।
तालमात्र समुत्सेधम् तस्याम् दिक्षु चतसृषु ॥ १९ ॥

चतुरश्राणि कुण्डानि प्रत्येकम् हस्तिकानि तु।
सयोन्यश्राणि कुण्डानि चैकम् वापूर्वतह् स्थितम् ॥ २० ॥

वितान ध्वज सम्युक्तम् दर्भमालाभिरावृतम्।
पुष्पमाला समायुक्तम् द्वारतोरण सम्युतम् ॥ २१ ॥

मङ्गाङ्कुर सम्युक्तम् पद्मेन महतावृतम्।
मण्डपम् भूषयित्वैवम् पुनह् पुण्याहम् आचरेत् ॥ २२ ॥

ब्राह्मणान् भोजयेत्तत्र तद्दिनात् प्राग्दिनत्रयम्।
शालिभिश्च दश द्रोणैस् स्थण्डिलम् तण्डुलैस्तिलैह् ॥ २३ ॥

कृत्वालिक्याष्ट दिक्पत्रम् कर्णिकाकेसरिर्युतम्।
दर्भैरपि परिस्तीर्य स्थण्डिलम् पूजयेद् गुरुह् ॥ २४ ॥

वेद्याह् पश्चिम भागे तु गोमयालेपिते शुभे।
चित्रिते शालिपिष्टैश्च चतुरश्राम् समन्ततह् ॥ २५ ॥

सप्तद्वीप समायुक्ताम् सप्ताम्भोधि समन्विताम्।
भूधरैर् दिग्गजैर् युक्ताम् धात्रीम् नागफण स्थिताम् ॥ २६ ॥

आलिक्य सितफेनैश्च भुवनाध्व क्रमान्वितम्।
फेलाम् प्रक्षाल्य गव्यैश्च स्थाप्य चित्रे तु मण्डले ॥ २७ ॥

देशिकह् समलङ्कृत्य वस्त्रैह् पञ्चाङ्ग भूषणैह्।
सकलीकृत देहस्तु गन्धैह् पुष्पैर् विभूषितह् ॥ २८ ॥

प्राङ्मुखह् प्रयतो भूत्वा विन्यसेद् अक्षराणि तु।
मध्य कोष्ठे न्यसेत् कूटम् बिन्दुनाद समन्वितम् ॥ २९ ॥

पूर्वाद्यष्टसु कोणेषु यादिहान्ताश्च विन्यसेत्।
अकारादि विसर्गान्तान् बाह्य कोणेषु विन्यसेत् ॥ ३० ॥

त्रिलोचनम् चतुर्भाहुम् वरदाभय पाणिनम्।
शूलटङ्कधरम् सौम्यम् जटा चन्द्रेन्दु भूषितम् ॥ ३१ ॥

एवम् तु भाजनम् ध्यात्वा पश्चाद् द्रव्याणि विन्यसेत्।
प्राङ्मुखोदङ्मुखो भूत्वा मृदादीनि विन्यसेत् ॥ ३२ ॥

अन्तरावरणे प्राच्याम् सामुद्रीम् विन्यसेन् मृदम्।
नादेयीम् अथ ताटाकीम् दर्भमूल गतामपि ॥ ३३ ॥

कुलीरावृतकाम् चापि वल्मीक वृषशृङ्गजाम्।
गजदन्तगताम् चापि क्रमदेता मृदा न्यसेत् ॥ ३४ ॥

पूर्वादिक्रम योगेन चाष्टौ चाष्ट दिशासु च।
सम्योज्य ता मृदश्चाष्टौ सर्वा ब्राह्म पदे न्यसेत् ॥ ३५ ॥

अथ पञ्च मृदो वापि विन्यसेदनु पूर्वशह्।
वृष शृङ्गे हस्तिदन्ते दर्भमूले जलान्तरे ॥ ३६ ॥

नद्यास्तीरे च पञ्चैता मध्ये दिक्षु मृदो न्यसेत्।
पङ्कजोत्पल कल्हार कन्दाश्च कुमुदस्य वै ॥ ३७ ॥

रक्तोत्पलस्य श्वेतस्य पद्मस्य कशेरुणह्।
तथा कुवलयस्यापि तत्रैवावरणे पुनह् ॥ ३८ ॥

सर्वाम्श्च मध्यमे कन्दान् सर्वलोकेश मण्डले।
विन्यसेदानुपूर्व्येण तद्बाह्ये चाष्ट मङ्गलम् ॥ ३९ ॥

श्रीवत्सम् पूर्णकुम्भम् च भेरीम् दर्पणमेव च।
मत्स्ययुग्माङ्कुशौ चैव शङ्क केसरिणो तथा ॥ ४० ॥

इन्द्रादिषु क्रमेणैव न्यसेदिन्द्रादि मन्त्रकैह्।
वज्र प्र्वाल नीलेन्द्र नील मौक्तिक पुष्यकम् ॥ ४१ ॥

प्रोक्ताब्जराग वैडूर्य दीप्तशक्तिम् स्मरन् न्यसेत्।
अथवा पञ्च रत्नानि विन्यसेदानु पूर्वशह् ॥ ४२ ॥

माणिक्यम् चेन्द्रनीलम् च वैडूर्यम् च प्रवालकम्।
मुक्ताम् मध्ये चतुर्दिक्षु पञ्चब्रह्माण्यनुस्मरन् ॥ ४३ ॥

हरिताल शिलाकाङ्क्षि तालसूतानि गैरिकम्।
धातून् सुगन्ध शृङ्गाख्यान् धृति वीर्यात्मकान् न्यसेत् ॥ ४४ ॥

हेमारुणानमेयाङ्काह्लाद तारध्वनि पन्नगान्।
प्रोक्तम् मध्ये अखिलान्येव देहशक्तिम् स्मरन् न्यसेत् ॥ ४५ ॥

बाह्येत्वावरणे दिक्षु चान्तराले तु षोडश।
बीजानि व्रीहि गोधूम तिल माषान् प्रदक्षिणम् ॥ ४६ ॥

मुद्गम् च यव नीवार श्यामकानन्तरे अखिलान्।
न्यसेत्तृप्त्यात्मकानेतान् मन्त्रैर् लोकेश वाचकैह् ॥ ४७ ॥

सौवर्ण शालिकम् रौप्य व्रीहिम् चापि सकोद्रवम्।
त्रपुणा कङ्कुसीसेन माम्स पुष्पायसाम्स्तिलाम् ॥ ४८ ॥

मुद्गम् चायोमयम् ताम्रम् निमित्तम्च कुलुत्थकम्।
विष्णुक्रातिम् त्रिशूलाश्रीह् ल्हापूर्वाम् च भृङ्गकम् ॥ ४९ ॥

अपमार्गैक पत्राब्जम् ओषधीह् प्राक्क्रमान् न्यसेत्।
चन्दनागरु कर्पूर लवङ्गैला लताफलम् ॥ ५० ॥

तक्कोलेनाष्ट गन्धाम्स्तु न्यसेत् पूर्वादिष् क्रमात्।
सर्वेषामपि सामान्यम् ततच्चिह्नैस्तु वक्ष्यते ॥ ५१ ॥

कपाल शूल कट्वाङ्गान् परशुम् वृषभम् तथा।
पिनाकम् हरिणम् पाशम् हैमम् शैवे तु विन्यसेत् ॥ ५२ ॥

यस्य देवस्य यच्चास्त्रम् तदस्त्रम् मध्यमे न्यसेत्।
भुसुराणाम् हितार्थाय यज्ञ सूत्रम् कमण्डलुम् ॥ ५३ ॥

स्रुवम् च प्रणवाकारम् सौवर्णम् मध्यमे न्यसेत्।
रथम् गजम् हयम् चैव शार्दूलम् चापमेव च ॥ ५४ ॥

क्षुरिकाम् च सुवर्णेन विन्यसेन् नृपदेशके।
तुलाम् च मानपात्रम् च महिषम् गोवृष द्वयम् ॥ ५५ ॥

सौवर्णम् मध्यमे कोष्ठे विन्यसेद्वैश्य भागके।
वृषम् हलयुगम् चैव युग्म मत्स्यम् तु शालिकम् ॥ ५६ ॥

सौवर्णम् मध्यमे देशे शूद्रस्थाने प्रकल्पयेत्।
स्थालीम् तदुपधानम् च दर्वीकम् तण्डुलम् घटम् ॥ ५७ ॥

गलाख्यम् दण्ड कष्ठम् च कृष्णलोहे महानसे।
दक्षिणे भवने कुम्भम् सुशाल्युदक पूरितम् ॥ ५८ ॥

धनसद्मनि गर्भस्तु सार्गला कुञ्चिका भवेत्।
पर्यङ्क दीपशयने गर्भम् विद्यात् सुखालये ॥ ५९ ॥

माषमानम् समारभ्य पलान्तम् द्रव्य मानकम्।
चतुष्पदाश्च देवाश्च सम्स्थाप्याभ्यन्तराननाह् ॥ ६० ॥

पदाङ्गुलम् समारभ्य पादाङ्गुल विवर्धनात्।
अष्टाङ्गुल प्रमाणेन बिम्बोत्सेधाह् प्रकीर्तिताह् ॥ ६१ ॥

तदर्धा वाहनोत्सेधास् त्वासीना वा स्थितास्तु वा।
एवम् द्रव्याणि विन्यस्य पिधायैशान मन्त्रतह् ॥ ६२ ॥

वस्त्रयुग्मेन सम्वेष्ट्य कुशैश्चावेष्ट्य पूजयेत्।
गन्ध पुष्पाक्षतैर् धुपैर् दीप नैवेद्य्कादिभिह् ॥ ६३ ॥

फेलातुदृत्य हस्ताभ्याम् विन्यसेत् स्थण्डिलोपरि।
आचार्यो मूर्तिपैस् सार्धम् होमकर्म समाचरेत् ॥ ६४ ॥

वस्त्र हेमाङ्गुलीयादि भूष्तैस् सोत्तरीयकैह्।
विधिनाग्निमुखम् कृत्वा ततो द्रव्याणि होमयेत् ॥ ६५ ॥

पलशोदुम्बराश्वत्थ न्यग्रोधाह् प्राग्दिगादिभिह्।
समिदाज्य चरून् लाजान् सर्षपम्श्च यवाम् तिलान् ॥ ६६ ॥

प्रत्येकम् शिवमन्त्रेण शतमर्धम् तदर्धकम्।
शिवाद्दशाम्शतो अङ्गानि तर्पयित्वा यथाविधि ॥ ६७ ॥

पूर्णाहुतिम् ततो हुत्वा वौषडन्तम् शिवाणुना।
सेश्वराणि त्रितत्त्वानि मूर्तिमूर्तीश्वरान् न्यसेत् ॥ ६८ ॥

फेलायाम् पुष्पगन्धाद्यैह् पूजयेत् तर्पयेत् ततह्।
सम्पदाम् सम्स्कृतम् कृत्वा दशधामूलमन्त्रतह् ॥ ६९ ॥

द्रव्यन्यासम् समारभ्य गर्भ सम्स्थापनान्तकम्।
ऋगाद्यध्ययनम् कार्यम् कोणेष्वस्त्रजपो भवेत् ॥ ७० ॥

ग्रामादि सर्व वास्तूनाम् गर्भस्थानन्यमूनि हि।
ब्रह्मण्यर्यम भागे तु विवस्वति यमे तथा ॥ ७१ ॥

इन्द्रे च वरुणे चैव सोमे च पृथिवीधरे।
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ॥ ७२ ॥

सौम्यदेव गृहे चापि ग्रामादौ स्थपयेत्सुधीह्।
कृत्वावटम् तु तत्रैव नयेदञ्जलि मात्रतह् ॥ ७३ ॥

शिरोन्तम् वाथ कर्णान्तम् हृदयान्तम् प्रकल्पयेत्।
षडङ्गुल प्रमाणम् तु चतुर्विम्शाङ्गुलान्तकम् ॥ ७४ ॥

भाजनस्य समन्तात्तु सावकाश समन्वितम्।
तथाश्मना चेष्ट्कया फेलाकारम् तु गर्तकम् ॥ ७५ ॥

गोमयालेपनम् कृत्वा पुण्याहम् वाचयेत् ततह्।
पञ्चगव्येन सम्प्रोक्ष्य तन्मध्ये अष्ट्मृदम् न्यसेत् ॥ ७६ ॥

शेष नागोर्ध्व भूमीषु सप्तद्वीपार्ण्वाम् भुवम्।
दिग्गजैर् भूधरैर्युक्ताम् गन्ध पुष्पदिभिर् यजेत् ॥ ७७ ॥

आचार्यम् पूजयेत्तत्र वस्त्र हेमाङ्गुलीयकैह्।
अधमा पञ्च निष्कम् तु द्विगुणा मध्यमम् बह्वेत्॥78 ॥ ७८ ॥

त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा।
गोभूमि दाश धान्यादि गृहोपकरणानि च ॥ ७९ ॥

दापयित्वा विशेषेण देशिकम् तोषयेत् ततह्।
अध्येतृ मूर्तिपाम्श्चैव दैवज्ञम् पूजयेत् ततह् ॥ ८० ॥

सम्पूज्य स्थपतिम् तत्र वस्राभरणकैरपि।
ध्यात्वा सदाशिवम् रूपम् मूलमन्त्रम् समुच्चरेत् ॥ ८१ ॥

फेलायाह् प्राङ्मुखो भूत्वा स्थापयेदादिशैवकह्।
पाम्शुना पूरयेद् गर्तम् सुस्निग्धम् सुदृढम् नयेत् ॥ ८२ ॥

सभाम् वा कल्पयेदूर्ध्वम् बिम्बम् वोपरि कल्पयेत्।
शिवादीनाम् च देवानाम् देवीनाम् द्वार दक्षिणे ॥ ८३ ॥

स्तम्भमूले यथा योगे गर्ते गर्भम् निधापयेत्।
होमस्तम्भवती स्तम्भे पादकूर्चावृतेरधह् ॥ ८४ ॥

तस्मादत्युन्नतो निम्नो गर्भस् सम्पद्विनाशकृत्।
अथ व ब्रह्म गर्भम् तु ब्रह्मस्थाने निधापयेत् ॥ ८५ ॥

सभाप्रपा मण्डपानाम् कर्णपादे प्रदक्षिणे।
द्वितीय स्तम्भके द्वार दक्षिणाङ्घ्रौ तु विन्यसेत् ॥ ८६ ॥

गर्भम् नाट्यसभायाम् चेत् प्रक्षिपेत्कुटिकामुखे।
मण्डित स्तम्भमूले तु गर्भम् सम्स्थापयेत् सुधीह् ॥ ८७ ॥

गेह गर्भ सभा भागे द्वारस्तम्भो विधीयते।
चूलिकाकार पादे वा तस्या गर्भो विधीयते ॥ ८८ ॥

तुलाभाराभिषेकार्थम् मण्डपो अपि तथा भवेत्।
सर्वेषाम् मण्डपानाम् च गर्भस्थानम् प्रकथ्यते ॥ ८९ ॥

द्वार दक्षिण पादे वा वामस्तम्भो अथ्वाङ्कणे।
पूर्वोक्त कर्णपादे वा द्वार दक्षिण योगके ॥ ९० ॥

मण्डप्स्तम्भमूले तु प्रथमावरणे न्यसेत्।
पादबन्ध विमाने तु गेहगर्भोपरि न्यसेत् ॥ ९१ ॥

प्रतिबन्ध विमाने तु वृतेरुपरि न्यसेत्।
वृतेरुपरि विप्राणाम् कुमुदोपरि भूभृताम् ॥ ९२ ॥

जगत्युपरि वैश्यानाम् शूद्राणाम् पादुकोपरि।
सर्वेषाम् भूगतम् कार्यम् सर्वसिद्धिकराय च ॥ ९३ ॥

पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते।
दक्षिणे नेत्रेभित्तौ तु सौम्यादौ तु चतुर्गृहे ॥ ९४ ॥

द्वार प्रदक्षिणस्तम्भयोगे वापि विधीयते।
परिवारालयानाम् तु मूलवत् कर्म चाचरेत् ॥ ९५ ॥

शालानाम् तु चतुष्कोणेष्विष्ट्देशे प्रगृह्यताम्।
मालिकायुक्त शालाम् चेत् कोणस्तम्भे द्वितीयके ॥ ९६ ॥

प्रथमावरणे वापि द्वितीयावरणे न्यसेत्।
स्थित्वा बहिर्बहिह् प्रेक्ष्य वामावामे विकल्प्य च ॥ ९७ ॥

अन्तर्बहिर्मुखम् गर्भम् वास्तुमध्ये प्रयोजयेत्।
आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ॥ ९८ ॥

गोपुराणम् च सर्वेषाम् प्रवेशस्य प्रदक्षिणे।
स्वात्याख्य रन्गहीनानम् शालानाम् नेत्रभित्तिके ॥ ९९ ॥

तद्युक्तानाम् च सर्वेषाम् पादमूले निवेशयेत्।
अथवा मध्यभित्तौ स्यद् द्वार सव्ये अथ मध्यमे॥100 ॥ १०० ॥

वासस्य पञ्च स्थानानि शालासु च गृहेषु च।
वापीकूप तटाकादौ दीर्घिका सेतुबन्धने ॥ १०१ ॥

गर्भम् चेत् तदुदग्भागे पूर्वस्याम् वाथ विन्यसेत्।
वास्तुपूजा च होमम् च गर्भन्यासे विधीयते ॥ १०२ ॥

गोपुरम् परिवारम् च मूलवास्तु निरीक्षणम्।
मण्डपानाम् मुखम् शास्त्रे सर्वस्मिन् प्रकीर्तितम् ॥ १०३ ॥

भित्तिव्यासेन चाष्टाम्शे बहिरम्श चतुष्टयम्।
अन्तस्त्रीनन्तरम् नीत्वा गर्भम् सम्यग् विनिक्षिपेत् ॥ १०४ ॥

Pūrvapāda – Kapitel 32: Das vorläufige Heiligtum

अथ वक्ष्ये विशेषेण बालगेहस्य लक्षणम्।
बालस्थानम् विनाविद्वान् मूलस्थानम् न कारयेत् ॥ १ ॥

बाललिङ्गादि हीनम् तु मूललिङ्गादिकम् न हि।
अयम् विभागो ग्रामस्य प्रारम्भे अन्यत्र चान्यथा ॥ २ ॥

बाललिङ्गादिहीनम् वा तद्युक्तम् व समाचरेत्।
मूलस्थानस्य चैशान्यम् उत्तरे पूर्व याम्ययोह् ॥ ३ ॥

आग्नेय्याम् इष्टदेशे वा कुर्याद्बालगृहम् गुरुह्।
नवदण्डम् व्यपोह्यैव कुर्याद्धाम महान्तरम् ॥ ४ ॥

त्रियुगेन्द्रिय षड्ढस्तैस् सप्तहस्तेन व गृहम्।
यद्वा करद्वयेनैव मूलस्थानम् प्रकल्पयेत् ॥ ५ ॥

बालस्थानमथार्धेन गर्भगेहात्तथा भवेत्।
मूलभाग विशालेन भित्तिर् द्विगुणा मता ॥ ६ ॥

शेषम् गर्भगेहस्य मण्डपम् वा सभाकृति।
तस्य गर्भ गृहार्धम् तु हीनमध्यार्धकम् तु यत् ॥ ७ ॥

उत्कृष्ट मध्यमाष्टाम्शे नन्दमानम् प्रकीर्तितम्।
लिङ्गायामम् सुवृत्तम् स्यान् नाहायामौ समौ मतौ ॥ ८ ॥

चितृआहिशिरोपेतम् सूत्रहीनम् तु कारयेत्।
नवाङ्गुलम् समारभ्य द्विद्व्यङ्गुल वर्धनात् ॥ ९ ॥

त्रयस्त्रिशाङ्गुलम् यावद् बाललिङ्गम् तु वा भवेत्।
तल्लिङ्गम् त्रिचतुर्भाग मानेन तु निवेशयेत् ॥ १० ॥

मूलोदय समम् श्रेष्टम् मध्यहीनम् अधोन्तरम्।
वसुधाभाजिते तत्र नवलिङ्गोच्छ्रया मताह् ॥ ११ ॥

सप्ताङ्गुलम् समारभ्य द्विद्व्यङ्गुल विवर्धनात्।
तरुणप्रतिमानाम् तु नवधामानमीरितम् ॥ १२ ॥

सकले सकलम् कुर्यान् निष्कले चैव निष्कलम्।
मूलबिम्बार्ध मानम् तु श्रेष्टम् वेदाम्श मानतह् ॥ १३ ॥

हीनमष्टाम्शके मध्ये नवमानम् तु बेरकम्।
निष्कलस्य विशालेन चासनम् चोत्तमम् भवेत् ॥ १४ ॥

हीनम् स्याच् चतुरम्शेन मध्यमे नवमानकम्।
लिङ्ग मानवशेनापि पीठम् तु परिकल्पयेत् ॥ १५ ॥

लोहोपलकुचैर्बाल लिङ्गबेरम् विधीयते।
क्षीरवृक्षैर् पलाशैर् वा वटोदुम्बर पिप्पलैह् ॥ १६ ॥

मधूक पनस प्लक्षैस् साल चन्दन खादिरैह्।
सरलामर वृक्षाभ्याम् लिङ्गबेरम् समाचरेत् ॥ १७ ॥

हर्म्यारम्भे च जीर्णे च भिन्ने च विकलाङ्गके।
स्फोटनादिषु दोषेषु बालस्थानम् तु कारयेत् ॥ १८ ॥

प्रागेव द्वादशाब्दात्तु चालनम् लिङ्गबेरयोह्।
तदूर्ध्वम् नेष्टम् अन्यत्र तत्रैव स्थापयेत् सुधीह् ॥ १९ ॥

बालालयाग्रे कर्तव्यम् मण्डपम् चतुरश्रकम्।
तत्समम् वा तदर्धम् व त्रिपादम् वाग्रमण्डपम् ॥ २० ॥

पक्वेष्टका शिलाद्याभिर् दृढम् कुर्याद्यथाविधि।
विस्तारसम तुङ्गाढ्यम् दण्डिकाचूलिकान्वितम् ॥ २१ ॥

मूलहर्म्यम् यथाद्वारम् तथैव तरुणालये।
तुर्याश्रम् अष्टवृत्तम् वा त्रिधा पीठाकृतिर् भवेत् ॥ २२ ॥

लिङ्गनाहम् तु विस्तारम् पीठम् वार्धोन्नतिर् मता।
इष्ट्काभिस् सुपक्वाभिह् लिङ्गम् स्यात्सुधयामृता ॥ २३ ॥

रत्न न्यासो न कर्तव्यह् पाद शैलादिकम् न हि।
प्रागेव कुर्यात् तद्धीमान् विधिना चाङ्कुरार्पणम् ॥ २४ ॥

बालालयाग्रे कर्तव्यम् मन्डपम् चतुरश्रकम्।
दश रन्ध्राष्ट हस्तैर् वा मण्तपस्सप्त हस्ततह् ॥ २५ ॥

विस्तार स्तम्भ सम्युक्तम् भानुस्तम्भयुतम् तु वा।
पङ्तित्रय समायुक्तम् चतुरश्रम् सतोरणम् ॥ २६ ॥

दर्भमाला समायुक्तम् वितानाद्यैस् समन्वितम्।
मध्याम्शे वेदिकाम् कुर्यात् तचतुर्थाम्शकोन्नतम् ॥ २७ ॥

वस्वङ्गुलम् तु विस्तारम् उत्सेधश्चतुरङ्गुलम्।
तस्याश्च परितश्चाष्ट दिक्षु कुण्डानि कल्पयेत् ॥ २८ ॥

दिशासु चतुरश्राणि कोणेष्वब्जानि कल्पयेत्।
ईशान चक्रयोर् मध्ये प्रधानम् वृत्तकुण्डकम् ॥ २९ ॥

अथवा पञ्च कुण्डानि चैकम् वा पूर्वतस्स्थितह्।
मण्डपस्योत्तरे पार्श्वे स्नानश्वभ्रम् प्रकल्पयेत् ॥ ३० ॥

पश्चच्छिल्पिनम् उद्वास्य पुण्याहम् वाचयेत्ततह्।
जलमध्ये प्रपाम् कुर्यात् सर्व लक्षण सम्युतम् ॥ ३१ ॥

प्रक्षाल्य पञ्च गव्येन लिङ्गम् चास्त्रेण देशिकह्।
शुद्धतोयेन गन्धाद्यैस् सम्स्नाप्य च हृदार्चयेत् ॥ ३२ ॥

वस्त्रयुग्मेन सम्वेष्ट्य लम्ब कूर्च समन्वितम्।
जेले तु शाययेल्लिङ्गम् सद्येनैव कुशोपरि ॥ ३३ ॥

त्रिरात्रम् द्व्येक रात्रम् वा वेदयामावसानकम्।
प्रभूत पञ्चगव्येन स्नपनम् वासमाचरेत् ॥ ३४ ॥

परितह् कलशान् अष्टौ लोकपालाधिदैवतम्।
सवस्त्राम् च हिरण्याम् च ससूत्रान् सापिधानकान् ॥ ३५ ॥

ब्राह्मणान् भोजयेत्तत्र मण्डपे समलङ्कृते।
वास्तु होमम् ततह् कुर्यात् प्रासादे मण्डपे अपि वा ॥ ३६ ॥

पर्यग्निकरणम् कृत्वा वास्तुहोमस्थ वह्निना।
जलादानीय लिङ्गम् तु स्नानश्वभ्रोपरि न्यसेत् ॥ ३७ ॥

वस्त्रम् विसृज्य लिङ्गे तु पूर्ववच् छुद्धिमाचरेत्।
कौतुकम् बन्धयेद् धीमान् हृदयेन तु मन्त्रतह् ॥ ३८ ॥

वस्त्रेण वेष्टयेल्लिङ्गम् वामदेवेन देशिकह्।
शालिभिर् वेदिकामध्ये अष्ट्द्रोणार्ध निर्मितैह् ॥ ३९ ॥

तण्डुलैश्च तिलैर्दर्भैह् पुष्पैश्च सुपरिस्तरेत्।
शयनम् कल्पयेन् मध्ये चर्मजाद्यैरनुक्रमात् ॥ ४० ॥

सर्वातोदय् समायुक्तम् स्तोत्रमङ्गल वाचकैह्।
सर्वलक्षण्सम्युक्तस्त् वादिशैवस् सशिषयकह् ॥ ४१ ॥

दिव्यगन्धानु लिप्ताङ्गह् पुष्पमाला विभूषितह्।
शुक्लवस्त्रश्च सोष्णीषश् शुक्लवस्त्रोत्तरियकह् ॥ ४२ ॥

पञ्चाङ्गभूषणोपेतस् सकलीकृत विग्रहह्।
ईदृशैर्लक्षणैर्युक्तस्त् वाचार्यश्चोत्तराननह् ॥ ४३ ॥

वेद्यूर्ध्वे शाययेल् लिङ्गम् प्राक्सिरस्कम् अधोमुखम्।
अभ्यर्च्य हृदयेनैव गन्धाद्यैरुपचारकैह् ॥ ४४ ॥

द्रोणाम्भु पूरितम् सूत्र वेष्टितम् कूर्च सम्युतम्।
पञ्चरत्न समायुक्तम् सापिधानम् सवस्त्रकम् ॥ ४५ ॥

शिवकुम्भम् न्यसेत् तस्य मूर्ध्निदेशे तु वर्मणा।
वर्धनीम् वामतह् स्थाप्य सूत्रकादिभिरन्विताम् ॥ ४६ ॥

शिवमन्त्रम् न्यसेद् ध्यात्वा देवदेवम् सदाशिवम्।
अष्टत्रिम्शत् कलोपेतम् पूजयेन् मूलमन्त्रतह् ॥ ४७ ॥

पूजयेत्तु शिवमन्त्रेण वर्धनीम् तु मनोन्मनीम्।
मुकुलीम् पद्ममुद्राम् च लिङ्गमुद्राम् प्रदर्शयेत् ॥ ४८ ॥

अभितस्तु घटानष्टौ द्रोणार्धोदक पूरितान्।
सूत्रादिभिस्समोपेतान् हेमटङ्क समायुतान् ॥ ४९ ॥

इन्द्रादिषु क्रमेणैव स्थापयेद् देशिकोत्तमह्।
अनन्तादि शिखण्ड्यन्तान् स्वस्वमन्त्रैर् घटेषु च ॥ ५० ॥

विन्यस्य गन्धपुष्पाद्यैर् नैवेद्यान्तम् हृदार्चयेत्।
परिवार घटानष्टौ चोपवेद्युपरि न्यसेत् ॥ ५१ ॥

ऋगाद्यध्ययनम् कुर्युस् सम्स्कृतावेदवित्तमाह्।
एकम् वा सर्व वेदम्श्च पठेत् स्वस्वदिशिस्थितह् ॥ ५२ ॥

तदभावेत् वजादाद्या जप्तव्या मूर्तिभिस्सह।
सद्योजातस्तु ऋग्वेदो वामदेवो यजुस्स्मृतह् ॥ ५३ ॥

अघोरस् सामवेदस्तु अथर्वह् पुरुषह् स्मृतह्।
अष्टोत्तर सहस्रम् वा तदर्धम् वा तदर्धकम् ॥ ५४ ॥

अष्टोत्तरशतम् वापि जपेद्वैदिक सिद्धये।
मूर्तिधाराद्यलाभे तु देशिकस् सर्वम् आचरेत् ॥ ५५ ॥

अग्न्याधानादिकम् सर्वम् अग्निकार्योक्तम् आचरेत्।
खादिरश्चाश्वत्थ बिल्वाश्च उदुम्बर वटौ तथा ॥ ५६ ॥

मधूकार्क पलाशाश्च समिधह् सम्प्रकीर्तिताह्।
पलाशस्तु प्रधानम् च सर्वेषामिध्मम् उच्यते ॥ ५७ ॥

समिदाज्यान्न लाजैश्च तिलैर्होमम् समाचरेत्।
सहस्रम् वा तदर्धम् वा शतमष्टोत्तरम् तु वा ॥ ५८ ॥

पूर्णाहुतिम् ततह् कुर्याद् वौषडन्तेन मूलतह्।
शिवाद्दशाम्शतो अन्येषाम् दिक्षु ब्रह्माणि कल्पयेत् ॥ ५९ ॥

विदिक्षु हृदयादीनि मूलार्धम् सममेव वा।
पूर्णाहुतिम् ततह् कुर्याद् वौषडन्तेन मूलतह् ॥ ६० ॥

आत्मतत्त्वादिकान् न्यस्य मूर्ति मूर्तीश्वरान् अपि।
सर्वान् लिङ्गे तु विन्यस्य वह्नावावाह्य होमयेत् ॥ ६१ ॥

पूर्णाहुतिम् ततो दद्यन् नयेद्रात्रिम् च मङ्गलैह्।
अपरे दिवसे धीमान् सुस्नातो मूर्तिपैस् सह ॥ ६२ ॥

सकलीकृत देहस्तु द्वार द्वाराधिपान् यजेत्।
सम्पूज्य देवकुम्भाग्नीन् कुण्डम् अस्तेर्ण चार्चयेत् ॥ ६३ ॥

सम्स्कृत्य स्रुक्स्रुवाभ्याम् तु ब्रह्मादिन् परिधौ यजेत्।
पूर्णाहुतिम् ततो दत्वा मन्त्रानावाह्य तर्पयेत् ॥ ६४ ॥

प्रायश्चित्तास्त्र मन्त्रैस्तु होमम् सम्यक् समाचरेत्।
अघोरेण शतम् हुत्वा जयाद्यै दुरित क्षये ॥ ६५ ॥

पूर्णाहुतिम् ततह् कुर्याद् देशिको मूर्तिपैस् सह।
आचार्यम् पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैह् ॥ ६६ ॥

अधमा पञ्च निष्कम् वा द्विगुणा मध्यमम् भवेत्।
त्रिगुणा चोत्तमम् प्रोक्तात् वधमत्र्य कल्पने ॥ ६७ ॥

द्विगुणा मध्यमे कल्पे त्रिगुणा चोत्तमे भवेत्।
दशभागैक भागम् तु मूर्तिधारक दक्षिणा ॥ ६८ ॥

तदर्धम् मन्त्र जप्तॄणाम् वैदिकानाम् तु तत्समम्।
दैवज्ञे तत्समम् विद्याद् द्विगुणम् वास्तु होमिनह् ॥ ६९ ॥

आचार्यस्य चतुर्थाशाच् छिल्पिने दक्षिणा मता।
मुहूर्त नाडिकापूर्वम् लिङ्गस्थापनम् आरभेत् ॥ ७० ॥

उत्थाप्य शयनाल् लिङ्गम् बालस्थानम् प्रवेशयेत्।
स्थापयेत् पीठ मध्ये तु शिवमन्त्रमुदीरयन् ॥ ७१ ॥

मन्त्रयित्वा त्रिबन्धेन हृदयम् मन्त्रम् उच्चरन्।
मुहूर्तम् समनुप्राप्ये गुरवे सन्निवेदयेत् ॥ ७२ ॥

शङ्ख दुन्दुभि निर्घोषैर् गीत नृत्त समायुतम्।
ब्रह्म घोष समायुक्तम् नानाभक्त जनैर्युतम् ॥ ७३ ॥

छत्रध्वज वितानैश्च धूप दीपैस् समाकुलम्।
वर्धन्यास्राव सहितम् मङ्गलाङ्कुर शोभितम् ॥ ७४ ॥

कुम्भानुद्धृत्य शिरसा धृत्वा धाम प्रदक्षिणम्।
कृत्वा गर्भगृहे चैव स्थापयेत् स्थण्डिलोपरि ॥ ७५ ॥

आसनम् कल्पयेत् तत्र पूर्वोक्त विधिना सह।
मूर्ध्नि न्यस्य पवित्राणि नेत्रमन्त्रम् विन्यसेत् ॥ ७६ ॥

अष्टत्रिम्शत्कलान्यासम् लिङ्गे तु परिकल्पयेत्।
ध्यात्वा सदाशिवम् तत्र विद्यादेहेन पूजयेत् ॥ ७७ ॥

कुम्भाद्बीजम् समादाय लिङ्गमूर्ध्नि शिवम् स्मरन्।
पिण्डिकायाम् न्यसेद्बीजम् शक्तेर्लिङ्गस्य सौम्यके ॥ ७८ ॥

सम्स्नाप्य कुम्भवर्धन्या सतोयैर् लिङ्गम् च पीटकम्।
अष्ट्विद्येश्वराम्स्तत्र पीठे पूर्वादिषु न्यसेत् ॥ ७९ ॥

अर्चनोक्तम् समभ्यर्च्य शेषम् युक्त्य समाचरेत्।
परिवारस्य बीजानि स्वस्वस्थानेषु विन्यसेत् ॥ ८० ॥

स्नपनम् कारयृएत् तोयैह् प्रभूतम् तु हविर् ददेत्।
नित्योत्सवादिकान् सर्वान् बालस्थाने अपि कारयेत् ॥ ८१ ॥

अन्येषामपि देवानाम् बालस्थानस्य निर्णयम्।
बेरमानम् च हर्म्याद्यम् कुर्यद् द्वारेण वर्त्मना ॥ ८२ ॥

नयनोन्मीलनम् गव्याभिषेकम् शयनम् तथा।
कुम्भस्थापनम् पूजा होमम् च स्थापनादिकम् ॥ ८३ ॥

ध्यानमात्रम् च नित्यार्चा निर्मलैह् कुसुमादिभिह्।
तत्तद् देवप्रतिष्टोक्त मार्गेणैव समाचरेत् ॥ ८४ ॥

एतत्सामान्यमुद्दिष्टम् विषेषह् किञ्चिदस्ति हि।
द्वितीये स्थापनार्हस्तु पूर्व रात्रौ मुनीश्वराह् ॥ ८५ ॥

मूलगेहाग्रके तत्र पूर्ववत् स्तण्डिलोपरि।
कुम्भम् तु स्थाप्य पूर्वोक्त विधिना देशिकाधिपह् ॥ ८६ ॥

मूललिङ्गम् तु सम्पूज्य गन्धाद्यैर् हविषा सह।
प्रणम्य देवदेवेशम् कर्ता कर्मविचक्षणह् ॥ ८७ ॥

एकवत्सरम् आरभ्य यावत्स्याद् द्वादशाब्दकम्।
तेष्वन्तरे नवीकृत्य पुनस् सम्स्थापयाम्यहम् ॥ ८८ ॥

इति विज्ञाप्य तत्कर्ता देशिकेन सहैव तु।
लिङ्गाद् देवम् समावाह्य कुम्भमध्ये न्यसेद् गुरुह् ॥ ८९ ॥

पीठाद् देवीम् समावाह्य वर्धन्य मध्यमे न्यसेत्।
तदग्रे स्थण्डिलम् कृत्वा प्राग्वदग्नि मुखम् नयेत् ॥ ९० ॥

समिदाज्यान्न लाजैश्च तिलैरष्टोत्तरम् शतम्।
मूलेन होमयेद् विद्वान् अङ्गानाम् च दशाम्शतह् ॥ ९१ ॥

त्रिर्मधुप्लुत दूर्वाभिर् मृत्युजिन् मन्त्रमुच्चरन्।
सहस्रम् वा तदर्धम् वा शतमष्टोत्तरम् तु वा ॥ ९२ ॥

एवम् हुत्वा तदन्ते तु क्षण होमम् समाचरेत्।
वारैश्च रवि पूर्वैश्च नक्षत्रैस् तुरगादिभिह् ॥ ९३ ॥

मेषादि मासकैश्चैच तिथिभिह् प्रथमादिभिह्।
जुहुयादेकयाहुत्या प्रतिवत्सरम् आचरेत् ॥ ९४ ॥

वत्सरे वत्सरे कार्यम् अथवान्ते समाचरेत्।
पूर्णाहुतिम् ततो दत्वा देवे सर्वम् समर्पयेत् ॥ ९५ ॥

कुम्भानुद्धृत्य वेद्याम् तु स्थापयेत् सर्व मङ्गलैह्।
सकलानाम् तु सर्वेषाम् कर्तव्यम् बालबिम्बकम् ॥ ९६ ॥

प्रतिमायाम् तु कुम्भे वा पीठे वाचेष्ट्कामये।
परिवारे अपि चैवम् स्याद् बालबिम्बम् प्रकल्पयेत् ॥ ९७ ॥

अन्यत् सर्वम् समानम् स्यात् पूर्वेणैव समाहितह् ॥ ९८ ॥

Pūrvapāda – Kapitel 33: Die Anlage von Dorfhäusern

गृमादीनाम् तु विन्यासह् निवेशद्यम् च कथ्यते।
अदौ काल परीक्षास्याद् द्वितीयम् देशनिर्णयम् ॥ १ ॥

तृतीयह् भूपरीक्षास्यात् प्रवेशार्थ बलिस्ततह्।
स्वीकारह् पञ्चमो भूमेष्षष्टह् कर्षणमुच्यते ॥ २ ॥

शङ्कुस्थापनम् पश्चात् अष्ट्मह् पदनिर्णयह्।
नवमस् सूत्र विन्यासो दशमो देवताबलिह् ॥ ३ ॥

गृहवीथ्यादि भेदस्स्यात् एकादश उदाहृतह्।
द्वादशो गर्भविन्यासस् ततो देव निवेशनम् ॥ ४ ॥

द्वादशान्ते द्विजादीनाम् प्रवेशस् तदनन्तरम्।
तदन्ते भूसुराणाम् तु निरीक्षणम् उदाहृतम् ॥ ५ ॥

ततो भूमि विभागस्स्यात् एवम् बुध्वा समाचरेत्।
गृहारम्बात्पुरैवम् स्यात् अमरवास निर्णयह् ॥ ६ ॥

पूर्वम् देवान् प्रतिष्टाप्य पश्चाद्विप्रान् निवेशयेत्।
मूलबालालयोक्तेन विधिनालय निर्णयह् ॥ ७ ॥

देवानाम् स्यन् मनुष्याणाम् कुर्याच् छाला विधानतह्।
उत्कृष्टे मध्यमे हीने देव वेश्म तथामतम् ॥ ८ ॥

उत्कृष्टे देववेश्मस्याद् धीनम् यदि तदा नरह्।
हीनभावम् तु यत्नेन समम् वोत्कृष्ट्माचरेत् ॥ ९ ॥

एतत् सर्वम् तु पूर्वोक्त क्रमेणैव समाचरेत्।
ग्रामादीनाम् गृहादीनाम् मालिकानाम् विशेषतह् ॥ १० ॥

मण्ट्पादेह् प्रक्ष्यामि प्रवेशम् तु महानसे।
अन्येषामपि वस्तूनाम् यजमान प्रवेशनम् ॥ ११ ॥

सदा सुमनसो दान्तान् दयायुक्तान् दृडव्रतान्।
पत्नीपुत्र समायुक्तान् सर्वोपस्कार सम्युतान् ॥ १२ ॥

ग्रामानुकूल नक्षत्रान् देवाग्नि गुरुपूजकान्।
वेदवेदान्ग तत्त्वज्ञान् श्रोत्रियान् प्रियदर्शनान् ॥ १३ ॥

अधीत शिवशास्त्राम्श्च दारिद्र दोषवर्जितान्।
उत्कृष्टकर्म निरतान् अनुष्ठान परायणान् ॥ १४ ॥

विप्रानाहूय निश्चित्य दशाङ्गम् लेखतेत् तदा।
राष्ट्रग्रामौ गोत सूत्रे सव्यदक्षिण लाञ्चने ॥ १५ ॥

विद्याकुलम् पितुर्नाम स्वच्छाङ्गम् दस व मता।
मूलकोशे लिखित्वैवम् ताम्रपात्रे विनिर्मिते ॥ १६ ॥

शिलादौ वा तदा वस्तु श्रद्धयोदक पूर्वकम्।
प्रदद्याद् भूमि पूर्वाणि गृहोपकरणानि तु ॥ १७ ॥

स्तृईणाम् आभरणम् धान्यम् वस्त्रम् गाम् च पयस्विनीम्।
दासी दासाम् च विप्रेभ्यो दद्यच्छ्रद्धान्वितो नृपह् ॥ १८ ॥

ब्राह्मणेभ्यो महीम् दद्यात् पुण्यकाले तु सोदकम्।
अन्येषाम् इष्टकाले तु दद्यात् केवलयागिरा ॥ १९ ॥

शेषम् सर्वम् तु सामान्यम् सर्ववास्तु निवेशने।
नास्तिकान् पिशूनान् कृऊरान् देवाग्नि गुरुनिन्दकान् ॥ २० ॥

बलापहृत ब्रह्मस्वान् नृपद्रोहादि सम्युतान्।
वर्जयेदीदृशान् विप्रान् नृपस्तद् दान कर्मणि ॥ २१ ॥

पूर्णकुम्भ प्रदीपाम्श्च पुरस्कृत्य शुभे दिने।
स्वस्तिवाचन सम्युक्तम् वेशयेद् ब्राह्मणान् वरान् ॥ २२ ॥

चतुर्विम्शतिकान् मध्यान् षट्त्रिम्शत् सङ्ख्यकान् वरान्।
कल्पे चैकम् द्वयम् चापि त्रयम् वा सन्निवेशयेत् ॥ २३ ॥

स्थापयेच्च यथापूर्वम् विप्रान् पूर्वोद्धृतानपि।
पत्नीपुत्र समायुक्तान् देवाग्नि सहिताम् स्तथा ॥ २४ ॥

एतेषाम् च प्रवेशेपि वास्तु सम्पूज्य होमयेत्।
अकवटमनाच्छाद्यम् अदत्त बलि भोजनम् ॥ २५ ॥

गृहम् विशन् व्रजत्येव विपदाम् पदमादरात्।
स्वशक्तितोपि विप्राम्स्तु स्वे स्वे गेहे निवेशयेत् ॥ २६ ॥

दैविक मानुषे भागे गेहे पूर्वम् निवेशयेत्।
यजमानानुकूलर्क्षे राशौ वा तन्निवेशयेत् ॥ २७ ॥

गृह मण्ट्प कूटादौ शालासु च महानसे।
अनेनैव प्रकारेण तत्कर्तारम् निवेशयेत् ॥ २८ ॥

देवालादौ देवेशम् देवीम् स्कन्द समन्विताम्।
अथवा केवलम् देवीम् देवेशम् चाथ मण्टपम् ॥ २९ ॥

देवाङ्गभूत कूटादौ वेशयेत्पूर्व मार्गतह्।
राजानाम् मालिकादौ तु प्रधान महिषीयुतम् ॥ ३० ॥

प्रधान मन्त्रि सम्युक्तम् अमात्यादिभिरावृतम्।
अङ्कुरार्पण पूर्वम् वा रहितम् वा निवेशयेत् ॥ ३१ ॥

गृह मण्टप कूटादौ शालासु च महानसे।
ब्राह्मणादि चतुर्वर्णान् मार्गेणानेन वेशयेत् ॥ ३२ ॥

Pūrvapāda – Kapitel 34: Die Befriedung des Bauplatzes

वास्तु शान्ति विधिम् वक्ष्ये ग्र.म.दीनाम् शुभावहम्।
वास्तूपशमनम् नाम सर्व दोष विनाशनम् ॥ १ ॥

जीर्णोद्धारे नवीकारे छेदे भेदे तथैव च।
वाय्वग्निजल सम्बधे नृपचोरादि बाधके ॥ २ ॥

दक्षिणपर वृद्धौ च प्रागुदग् छेदने अपि च।
न्यूनातिरेके मानस्य द्वारनिर्गम भेदने ॥ ३ ॥

प्राकार परिघा भेदे देवतालय कल्पने।
यजमानान्तरे चैव हीन लक्ष्ण वास्तुके ॥ ४ ॥

त्यक्ते शून्ये तथा नष्टे प्रातिलोम्ये तथैव च।
आभिचारकृते दोषे व्याधि मारी भये अपि च ॥ ५ ॥

उत्पाते दुर्निमित्ते च सर्वदोषापनुत्तये।
वास्तूपशमनम् कुर्यात् सद्य एव विचक्षणह् ॥ ६ ॥

वक्र रथ्यान्विते वापि विन्यासाद्य विवर्जिते।
अन्येष्वशुभ युक्तेषु गृहदेवालयेषु च ॥ ७ ॥

महाद्भुत च सम्प्राप्ते त्रिविधे चोत्तमादिके।
प्रायश्चित्तम् विशेषेण वक्ष्यमाणम् इदम् नयेत् ॥ ८ ॥

ततो गुरुह् कृतस्स्नानश् शिवविप्रह् प्रसन्नधीह्।
अहताभ्याम् सुवासोभ्याम् सम्युक्तस् सोत्तरीयकह् ॥ ९ ॥

वास्त्वङ्ग देवतास् सर्वास् ततच्छास्त्रोक्त मार्गतह्।
पूजयित्वा विधानेन देवानन्यान् तथैव च ॥ १० ॥

वास्तुमध्ये प्रपाम् कुर्याच् चान्यस्मिन् वा मनोरमे।
दर्भमालादिभिर् युक्ताम् सर्वालङ्कार सम्युताम् ॥ ११ ॥

वारुण्याम् इन्द्र काष्ठायाम् दक्षिणे चोत्तरेपि वा।
तन्मध्ये दण्ड मात्रेण वेदीम् पञ्चाञ्गुलोच्छ्रिताम् ॥ १२ ॥

तस्याम् पिष्टाक्त सूत्रेण पदानि परिकल्पयेत्।
चतुर्णव विकाराश्च पञ्चविम्शत् पदन्तु वा ॥ १३ ॥

षट्त्रिम्शदम्शकैश्चापि चत्वारिम्शन्नवादिकम्।
अष्टाष्टक पदम् वापि सूत्र्वर्ग पदन्तु वा ॥ १४ ॥

एतेष्वन्यतमम् योग्यम् विन्यसेद् वास्तु वित्तमह्।
शालिभिस्स्तण्डिलम् कृत्वा तण्डुलैस्तिलमिश्रकैह् ॥ १५ ॥

लाजदर्भ समायुक्तम् पुष्पैश्चैव समन्वितम्।
चरुम् च तत्र सम्स्थाप्य घृतेनैवाभिघार्य च ॥ १६ ॥

सम्प्रोक्ष्य हृदयेनैव वस्त्रेणाच्छाद्य सत्कुशैह्।
वेद्यास्तु पश्चिमे देशे कुन्द्.अम् कृत्वा त्रिमेखलम् ॥ १७ ॥

चतुरश्रम् हस्तमानम् नवाङ्गुल समुच्छ्रितम्।
तत्र वह्निम् समाधाय वह्निकार्योक्त मार्गतह् ॥ १८ ॥

समिदाज्य हविर्भिश्च यवकृष्ङ तिलैरपि।
मध्वाज्य क्षीर सम्युक्त दूर्वया होममाचरेत् ॥ १९ ॥

पञ्चब्रह्म शिवाङ्गैश्च विद्याङ्गैश्शिव पूर्वकैह्।
अघोरेण शतम् वार्धम् द्रव्यैह् पूर्वैस्तु पञ्चभिह् ॥ २० ॥

अष्टोत्तरशतम् दूर्वाहोमो मृत्युजितो भवेत्।
पूर्णाहुतिम् ततो हुत्वा वातुदेवान् समर्चयेत् ॥ २१ ॥

पदेषु कूर्चम् निक्षिप्य कुर्यादावाहनादिकम्।
ब्रह्माणम् प्रथमम् चेष्ट्वा ततस्सर्वाश्च पूजयेत् ॥ २२ ॥

द्वादशाब्द सुसम्पूर्णाम् विप्रजाति समुद्भवाम्।
सर्वलक्षण सम्पूर्णाम् नानाभरण भुषिताम् ॥ २३ ॥

शुक्लाम्बरधराम् कन्याम् शुक्लपुष्पैरलङ्कृताम्।
शुक्लवस्त्रोत्तरीयाम् ताम् सम्पूज्यान्नादिभिस्सुखम् ॥ २४ ॥

तस्यश्च दत्वा ताम्बूलम् बलिद्रव्य समन्वितम्।
दत्यातस्याश्च हस्ते तु बलिपात्रम् गुरुस् तदा ॥ २५ ॥

पञ्चाङ्ग भूषणोपेतस् सोष्णीषस्सोत्तरीयकह्।
नव वस्त्रधरश्शैव विप्रो दद्यद्बलिम् स्मरेत् ॥ २६ ॥

मध्वाज्य दधि सम्युक्तम् शुद्धमन्नम् तु वा ददेत्।
सर्वद्रव्य समायुक्तम् अथवैनम् समाचरेत् ॥ २७ ॥

रात्रौ ग्रामबलिम् दद्यात् प्रासादौ यथेष्टतह्।
चतुष्कुण्दे तु वा वास्तु देवानाम् तर्पणम् भवेत् ॥ २८ ॥

दक्षिणाम् दापयेत् पश्चाद् आचार्यादिष्वनुक्रमात्।
अध्मा पञ्च निष्कम् स्याद् द्विगुणा मध्यमा भवेत् ॥ २९ ॥

त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा।
अग्रहारादिके देवागारे रज्ञाम् द्विजन्मनाम् ॥ ३० ॥

वैश्यानाम् शूद्रजातीनाम् आवासे मण्टपादिषु।
चण्डालाद्युषिते चैव तज्जन्म मरणेपि च ॥ ३१ ॥

दूषितेस्वसुराद्यैश्च विधिमेनम् समाचरेत्।
कूपे वा पुष्करिण्यादौ जलम् सर्वम् बहिह् क्षिपेत् ॥ ३२ ॥

सहस्र कुम्भ तोयम् वा शतकुम्भोदकम् तु वा।
पञ्चगव्यम् तु निक्षिप्य शान्तिहोमम् तु कारयेत् ॥ ३३ ॥

Pūrvapāda – Kapitel 35: Hallen und Gebäudetypen

अथातस् सम्प्रवक्ष्यामि शालानाम् लक्षणम् परम्।
देवानाम् ब्राह्मणानाम् च क्षत्रियाणाम् विशेषतह् ॥ १ ॥

वैश्यानम् शूद्र जातिनाम् वसयोग्यास्तु तास्मृतह्।
एक द्वित्रिचतुस्सप्त दश शालाह् प्रकिर्तिताह् ॥ २ ॥

तदूर्ध्वम् त्रित्रिवृध्या तु यावदिष्टम् प्र्गृह्यताम्।
ता एव मालिकाह् प्रोक्ताह् मालावत् क्रियते यतह् ॥ ३ ॥

मानन्तावद् द्विविधा ख्यातम् हस्त भक्ति वशेन तु।
सार्ध हस्तम् समारभ्य त्रित्र्यङ्गुल विवर्धनात् ॥ ४ ॥

अष्टोत्तरशतम् यावद्धस्तानाम् विस्तरो मतह्।
विस्तारादर्ध हस्तम् स्यात् त्रिगुणान्तम् समायतिह् ॥ ५ ॥

एवम् हत प्रमाणम् स्याद् भक्तिमान वशात् ततह्।
एक हस्तम् समारभ्य त्रित्र्यङ्गुल विवर्धनात् ॥ ६ ॥

विस्ताराद् द्वयङ्गुआर्धाद् द्विगुण.न्ता समायतिह्।
एकभक्ति विशालात् तु चार्धभक्ति विवर्धनात् ॥ ७ ॥

त्रिगुण.न्त प्रमाणेन विस्तारादायतिर् मता।
विस्तारे चायते चैव विन्यस्ता भक्तयश्च तह् ॥ ८ ॥

प्रमाणेन सम्स्ताश्चेद् विषमा वा यथेष्टतह्।
विस्तारे चायते चैव युगा ओजाश्च भक्तयह् ॥ ९ ॥

भक्त्यभन्तर मानम् वा भति बाह्यम् अथापि वा।
भक्ति मध्य प्रमाणम् वा तत्स्थापदात् तथापि वा ॥ १० ॥

चतुरश्रम् तु देवानाम् द्विजानाम् अपि सत्तमाह्।
क्षत्रियाणम् तथाप्रोक्तम् अन्ययोरायताश्रकम् ॥ ११ ॥

हीनोक्तम् श्रेष्ट जातीनाम् हितम् नोक्तम् विपर्ययात्।
विस्तारसम उत्सेधस् सपादो वा सार्धकह् ॥ १२ ॥

पादोन द्विगुणो वापि द्विगुणोवायतिस् समा।
पादायामैस्तु वा कुर्याद् वक्ष्यमाणैर् यथाक्रमम् ॥ १३ ॥

आयादि सम्पदर्धम् तु विस्तारे चायतौ तथा।
उत्सेधे चैव हस्तानाम् सम्यक् सम्पूर्णताम् नयेत् ॥ १४ ॥

विस्तारात् केवलम् वाथवायामादुन्नते तथा।
विस्तारायाम सम्सर्गाद् आयाद्यम् परिगृह्यताम् ॥ १५ ॥

अष्टत्रित्र्यष्टभिर्हत्वा अष्टमन्वर्गभैर् भजेत्।
आयो व्ययश्च योनिश्च नक्षत्रम् शेषतो भवेत् ॥ १६ ॥

त्रिम्शदाप्नोतु पर्यन्तम् तिथिर्वारम् तु सप्तभिह्।
अथवान्य प्रकारेण चायाद्यम् परिगृह्यताम् ॥ १७ ॥

दैर्घ्यम् दैर्घ्यस्य विस्तारम् दैर्घ्य नाहम् च नाहकम्।
अष्ट नन्दाग्नि वसुभिर् गणयेन् नन्द नन्दनाह् ॥ १८ ॥

अर्कदिग् वसुभैस्सप्त नवभिश्च क्रमाद् भजेत्।
आयाद्यम् पूर्ववत् प्रोक्तम् आयाधिक्यम् शुभप्रदम् ॥ १९ ॥

यजमानस्य जन्म नक्षत्रेणानुकूलम् यथा भवेत्।
तथा परीक्ष्य कर्तव्यम् नाम नक्षत्र्कम् तु वा ॥ २० ॥

परीक्ष्य बहुधा कुर्याद् उभयम् वा परीक्षयेत्।
सर्वानुकूल्यम् सर्वत्र वास्तु यस्मान् न लभ्यते ॥ २१ ॥

तस्मास् गुणाधिकम् ग्राह्यम् अल्पदोषम् यथा भवेत्।
अधिष्ठानम् च पादम् च प्रस्तरम् कर्ण एव च ॥ २२ ॥

शिखरम् स्थूपिका चैव शाऌअङ्गम् इति कथ्यते।
यजमानस्य जान्वन्तम् नाभ्यन्तम् हृदयावधि ॥ २३ ॥

गऌआवति शिरोन्तम् च पादार्धम् वा त्रिभागिकम्।
त्र्यादि षोड्श भागानाम् अधिकम् वोक्त मानतह् ॥ २४ ॥

अधिष्ठानस्य मानम् स्यात् तत्पादस्याथ कथ्यते।
सार्ध हस्तम् समारभ्य त्रित्र्यङ्गुल विवर्धनात् ॥ २५ ॥

नवहस्त प्रमाणान्ताह् स्तम्भोत्सेधाह् प्रकीर्तिताह्।
अङ्गुलत्रयम् आरभ्य चार्धाङ्गुल विवर्धनात् ॥ २६ ॥

त्रिम्शन्मात्रावसानास्तु विस्ताराह् प्रकीर्तिताह्।
चतुरम्शम् समारभ्य षोडशाम्शम् यथा विधि ॥ २७ ॥

भागान्कृत्वैक भागेन न्यूनम् स्यादग्र विस्तरह्।
एवम् ऊर्ध्वोर्ध्व पादानाम् तारायामौ प्रकल्पयेत् ॥ २८ ॥

प्रस्तरम् पाद दैर्घ्यस्य चार्ध मानेन कारयेत्।
तन्मानम् नवधा कृत्वा चैकाद्या चतुरम्शकैह् ॥ २९ ॥

न्यूनम् वाप्यधिकम् वापि प्रस्तरम् कारयेद् बुधह्।
प्रस्तरोक्त प्रमाणम् तु सर्वम् कण्ठे विधीयते ॥ ३० ॥

पादोक्तम् सर्वमानम् तु शिखरेपि विधीयते।
धृवा विधान रीत्या व शिकरम् परिकल्पयेत् ॥ ३१ ॥

कण्ठोक्तम् सर्व मानम् तु स्तूप्युत्सेधह् प्रकीरितितह्।
पाद विष्कम्भ मानेन द्विगुणदि नवान्तकम् ॥ ३२ ॥

भित्ति विष्कम्भ उद्दिष्टो द्व्यङ्गुलेनआथवा नयेत्।
अष्टाङ्गुलम् समारभ्य द्विद्व्यङ्गुल विवर्धनात् ॥ ३३ ॥

त्रिहस्तान्तम् तु विस्तारो भित्तीनाम् परिकीर्तिताह्।
मूलभित्तिरिदम् मानम् ऊर्ध्वे पादार्ध हीनकम् ॥ ३४ ॥

अन्योन्यम् अधिका वापि न्यूना वा भित्तयस् समाह्।
शालैका दण्दखण्डाभा द्विशालातद् द्वयेन तु ॥ ३५ ॥

तत् त्रयेण त्रिशाला स्याच् चतुश्शाला चतुष्टयी।
सप्तभिस् सप्त शालास्याद् एवम् अन्यास्तु कीर्तिताह् ॥ ३६ ॥

विस्तारे चैक भक्त्यादि पञ्चाशत् भक्तिकावधि।
आयामे पि तथवृद्ध्या शतान्तम् परिकल्पयेत् ॥ ३७ ॥

आसामग्रे त्वलिन्दास्स्युह् प्रधाने वा विशेषतह्।
एक द्वि त्रि चतुष्पञ्च षट्सप्तालिन्द सम्युताह् ॥ ३८ ॥

पृष्ठे पार्श्वे तथैवस्युरिष्ट देशे अथवा पुनह्।
पृथु द्वारम् च द्वारम् च एवमेव प्रकल्पयेत् ॥ ३९ ॥

मध्ये तु प्राङ्गणम् कार्यम् विशालेनैक पङ्क्तिकम्।
अर्ध पङ्क्ति वृद्ध्या तु त्रिशत्पङ्क्त्यन्तम् इष्यते ॥ ४० ॥

आयामे चैक पङ्क्त्यादि त्रिगुणान्तम् विशालता।
एवम् ब्रह्माङ्कणम् कार्यम् जलपातयुतम् न वा ॥ ४१ ॥

मिश्रम् वापि प्रकर्तव्यम् भ्रमणसृव वारियुक्।
बाह्यवारियुतम् वापि विवरम् वा प्रकल्पयेत् ॥ ४२ ॥

एकपङ्क्ति विशालादि पादपाद विवृद्धितह्।
पञ्चभागावसानान्तम् शालाविस्तर इष्यते ॥ ४३ ॥

पृथुद्वार विशालम् तु चैवमेव प्रकल्पयेत्।
अलिन्दह् पृथुद्वारेण समो वा चार्धमानतह् ॥ ४४ ॥

द्वारमानम् तथैवम् स्याद् दण्डिका द्वारमर्धतह्।
गर्भाधान क्रमणकम् कभित्ति मुख्य धामनि ॥ ४५ ॥

दक्षिणे नेत्र भित्तौ वा गर्भाधानम् प्रकीर्तितम्।
अथवा ब्रह्मभित्तौ वा गर्भाधानम् विधीयते ॥ ४६ ॥

कभित्तिर् दक्षिणे भागे स्वाम्यावासह् प्रशस्यते।
उत्तरे रन्गभित्युक्तम् तद् गृहिण्या गृहम् भवेत् ॥ ४७ ॥

कभित्यग्रभृते द्वारद्वयम् कुर्याद्विशेषतह्।
नवभागे गृहे तत्र दक्षिणे पञ्च भगकम् ॥ ४८ ॥

वामभागे त्रयम् त्यक्त्वा मध्ये द्वारम् विधीयते।
अलिन्दे द्वारमेवम् स्यात् अन्यत्राप्येवेमेव तु ॥ ४९ ॥

कम्पद्वारम् तु वा कुर्यान् मध्यपार्श्व द्वयोस्तथा।
भित्तिव्यासे अर्कभागम् तु बाह्ये बाह्य शराम्शकम् ॥ ५० ॥

योगस्य मध्यमह् पाद मध्यमश्च विधीयते।
भित्ति मध्यम् तयोर् मध्यम् पादमध्यम् तु वा समम् ॥ ५१ ॥

कोणम् च मध्यमम् स्थानम् त्यक्त्वा वारिवहो भवेत्।
कोणात् तृतीय भागे तु जलनिर्गम इष्यते ॥ ५२ ॥

गृहक्षते महेन्द्रे च पुष्पदन्ते विधीयते।
भल्लाटे चैव मध्ये च द्वारमासु विधीयते ॥ ५३ ॥

हस्तस्तम्भ तुलादीनि नराणाम् युग्म सङ्ख्यया।
देवानाम् उभयम् ग्राह्यम् मध्यद्वारम् तु वै तले ॥ ५४ ॥

अन्नागारादि मध्यम् तु वास्तुमध्यात् प्रदक्षिणे।
आदित्यान् नन्दपादान्ते पञ्चाङ्गुल गतिक्रमात् ॥ ५५ ॥

वास्तुमध्यदुदक् पूर्वम् दक्षिणापरतह् क्रमात्।
धर्म नन्दाष्ट धात्वम्शाह् पूर्व भागादि पादकाह् ॥ ५६ ॥

एकैकाम्श गतास् तत्र स्तम्भस्थापन कर्मणि।
गृहाङ्घ्रि मध्ययोर् मध्यम् भित्ति मध्यम् इति स्मृतम् ॥ ५७ ॥

एवम् चतुर्गृहम् प्रोक्तम् शालायाम् कल्पयेन् नव।
एतत्सर्वम् तु शालानाम् सामान्यम् इति कीर्त्यते ॥ ५८ ॥

तैतिलानाम् द्विजातीनाम् पाषण्डाश्रमिणाम् अपि।
हस्त्यश्व रथ योधानाम् याग होमादि कर्मसु ॥ ५९ ॥

देवानाम् भूपतीनाम् नृत्तगीतादि कर्मसु।
एकशाला प्रशस्ता स्यात् स्त्रीणाम् रन्गोपजीविनाम् ॥ ६० ॥

लाङ्गलम् गणिकादीनाम् शूर्पम् उग्रोप जीविनाम्।
शालाविरहित स्थाने कुद्ये द्वारम् प्रयोजयेत् ॥ ६१ ॥

ऊर्द्व भूमिम् समारभ्य रचना कथ्यते अधुना।
प्रधान शाला यत्रैव रन्गस्थानम् विधीयते ॥ ६२ ॥

स्वाम्यावासस्य विन्यासम् मण्टपाकार सम्युतम्।
चूलीहर्म्ययुतम् चोर्ध्वे चाग्रद्वार समन्वितम् ॥ ६३ ॥

वास्तुद्वारयुतम् चैव कभित्तेश्च विशेषतह्।
सर्वतह् कुण्ड सम्युक्तम् गृहद्वार समन्वितम् ॥ ६४ ॥

रङ्गभित्ति समायुक्तम् धामसोपान सम्युतम्।
सोर्ध्व वास्तव्य सम्युक्तम् चूलिहर्म्ययुतम् तु वा ॥ ६५ ॥

अग्रकर्म समायुक्तम् कर्णकूट द्वयान्वितम्।
कर्णकूट विहीनम् वा चान्यत् सर्वम् तु वास्तुषु ॥ ६६ ॥

मध्यमम् चाङ्कण स्थानम् मण्टपेन युतम् तु वा।
सभाकारयुतम् वापि केवलम् वा जलस्थलम् ॥ ६७ ॥

ऊर्ध्व भूमिरितिख्यात सान्यथा च निगद्यते।
प्रधान मण्त्.अपागारम् चूलीहर्म्य विवर्जितम् ॥ ६८ ॥

स्वामिवासम् व्धायैवम् रन्गम् कुर्यात्तु तत्समम्।
लूपारोहक्रिय युक्तम् अन्यत्पूर्वोक्त वर्त्मना ॥ ६९ ॥

अथवा सर्व शालायाम् लूपारोहणम् एव व।
ऊर्द्वभूमिरितिख्याता द्वितीयम् शृउणुत द्विजाह् ॥ ७० ॥

चतुश्शाला प्रवेशे तु तदधोभूमिरुच्यते।
सा भूमि मण्टपाग्ऽअर चुलीहर्मुअ विभूषिता ॥ ७१ ॥

तदधस्तात् समन्तात्तु पृथुद्वारयुता तथा।
भागद्वयेन तत्रैव विन्यासह् परिपठ्यते ॥ ७२ ॥

चतुष्कोणे चतुष्कूटम् तद्विस्तारेण निर्मितम्।
चतुर्भाग द्विभागेन प्रष्ठावास सभाम् नयेत् ॥ ७३ ॥

अग्रकूट द्वयोर् मध्ये शालाह् पृष्ठ सभ यथा।
पार्श्वयोरुभयोश्चैव चतुर्भागान्त विस्तरम् ॥ ७४ ॥

पञ्जर द्वितयम् कार्यम् कर्णकूट समोदयम्।
प्रधानवास नेत्रस्थ नेत्रकूटद्वयम् नयेत् ॥ ७५ ॥

तयोरूर्ध्वम् पर्याप्ति रूर्ध्वतो द्वितलान्तिका।
पृष्ठावास सभा तद्वत् अन्यत्सर्वम् अधस्स्थले ॥ ७६ ॥

अवसान समयुक्तम् त्रितलञ्चैतदीरितम्।
अलिन्दस्य समन्तात्तु भागेनैकेन वारकम् ॥ ७७ ॥

पर्श्वयोरुभयोश्चैव चाग्रशालानुसारतह्।
तथा प्रधान शालायास्त्वनुसारेण पार्श्वयोह् ॥ ७८ ॥

अलिन्दस्यानुसारेण पूर्व भागे विशेषतह्।
भागद्वय विनिष्क्रामो भागद्वय विशालतह् ॥ ७९ ॥

सद्वारनेत्र शालानाम् षट्कम् चालिन्दतो बहिह्।
चतुश्शालावसानान्ताम् ऊर्ध्वाधह् परिकल्पयेत् ॥ ८० ॥

तदधो भूप्रवेशे तु तद्द्वारस्यावसानकम्।
षण्णाम् वै नेत्र शालानाम् अन्तराले च वास्स्थलम् ॥ ८१ ॥

चतुर्भागायतम् भागद्वय विस्तार सम्युतम्।
दक्षिणे चोत्तरे चैव पूर्वे चैव विशेषतह् ॥ ८२ ॥

अग्रकोणे द्वयोश्चैव पञ्चस्थाने प्रकल्पयेत्।
अथवा नरृते वायौ देवभाग समन्वितम् ॥ ८३ ॥

वासस्स्थलम् वा विधातव्यम् ऊर्ध्वतष्षट्स्थलोपरि।
तदधो भूद्व्य युक्त रज्जु सूत्र कपोतयुक् ॥ ८४ ॥

एतत् सप्ततलम् प्रोक्तम् रज्ञाम् आवास योग्यकम्।
तदधस्तात् समन्तात्तु भागेनैकेन वारकम् ॥ ८५ ॥

एतद् दशतलम् प्रोक्तम् रज्जुसूत्रम् अधस्स्थलम्।
तदधस्तात्तलम् चैका दश द्वादश भूमिकम् ॥ ८६ ॥

एवमेव प्रकारेण कुर्यदाषोढशक्ष्मकम्।
आद्यम् तु सर्वतोभद्रम् द्वितीयम् वर्धमानकम् ॥ ८७ ॥

तृतीयम् स्वस्तिकम् प्रोक्तम् नन्द्यावर्तम् चतुर्थकम्।
चरुकम् पञ्चमम् विद्याच् छालानाम् अपिधानकम् ॥ ८८ ॥

सर्वतोभद्रम् अष्टास्यम् वेदास्यम् वर्धमानकम्।
दक्षिणे चोत्तरे चैव षण्नेत्रम् स्वस्तिकम् मतम् ॥ ८९ ॥

पार्श्वयोह् पुरतश्चैव चतुर्नेत्र समायुतम्।
नन्द्यावर्तम् स्मृतम् पूर्वे दक्षिणे पश्चिमे तथा ॥ ९० ॥

उत्तरे सौम्य सालादि शालानाम् आस्यमीरितम्।
निष्पटम् चरुकम् विद्यात् सर्वत्रैव विशेषतह् ॥ ९१ ॥

आद्यम् चतुष्ट्यम् यत्तु सर्वेषामपि शम्सितम्।
विशेषाद् भूभृताम् शस्तम् चरुकम् देवयोग्यकम् ॥ ९२ ॥

द्विजानाम् विहितम् चैव पाषण्डाश्रमिणाम् अपि।
शालाभागे त्वलिन्दे वा पृथु वराम्शके अपि ॥ ९३ ॥

विन्यसस्त्विष्ट् आख्यातो मण्डपे उक्त भूमिके।
एतासाम् मालिकानाम् तु कुर्याद् अग्रे तु मण्डपम् ॥ ९४ ॥

एकभागम् समारभ्य वासव्यास समावधि।
आयामस्त्वम्श वृद्ध्या तु विस्तारो वासतस्समह् ॥ ९५ ॥

एकैक भक्ति हन्या तु त्रिभक्त्यन्तस्तु विस्तरह्।
एकद्वित्रितलोपेतम् चतुष्पञ्चतलम् तु वा ॥ ९६ ॥

मण्डपम् तु विधातव्यम् शालानाम् अग्रदेशके।
एवम् भूतस्य वासस्य समन्तान् मण्डपम् नयेत् ॥ ९७ ॥

एकभागम् समारभ्य पादभाग विवृद्धितह्।
पञ्चभाग वसानान्तम् कुर्यद् आवृत मण्डपम् ॥ ९८ ॥

हस्तमानेन वा कुर्यात् त्रिहस्तादर्ध वृद्धितह्।
पञ्चदश करान्तम् तु कुर्यद् आवृत मण्डपम् ॥ ९९ ॥

मण्डपेन विना वापि तेन मानेन पीठिका।
विभद्रावा सभद्रा वा कर्तव्या मालिका बुधैह् ॥ १०० ॥

शालानाम् तु चतुर्दिक्षु चैक भागादितह् क्रमात्।
पादभाग विवृद्ध्या तु चाष्टभागावसानकम् ॥ १०१ ॥

विनिर्गतस्य चायामो तद्वृद्ध्या तस्य विस्तरह्।
द्विगुणान्तो विधेयस्स्यात् एवम् स्यन्मध्य वारणम् ॥ १०२ ॥

मध्यवारण युक्तम् व तद्विहीनम् तु वा द्विजाह्।
एवम् भूतस्य वासस्य समन्तात्स्यात् खलूरिका ॥ १०३ ॥

वासव्यासम् चतुर्भागम् कृत्वा चैकादि भागतह्।
वृद्ध्याम् वासस्य बाह्ये तु षोडशावधि भागकम्॥104 ॥ १०४ ॥

व्यपोह्य परितह् कुर्यात् प्रथमावरणादितह्।
खलूरिकास्तु चैकादि सप्तभागवसानकाह् ॥ १०५ ॥

मुखे च पार्श्वयोह् पृष्ठे पत्तयस्स्युर् यथेष्टतह्।
ओजोयुग्म प्रमाणेन न्यूनावाप्यधिका तु वा ॥ १०६ ॥

सभद्रा व विभद्रा वा खलूरीस्यद्यथेष्टतह्।
एतासाम् अन्तरालम् तु समम् वा विषमम् तु वा ॥ १०७ ॥

खलूरी धाम मध्यम् तु तद्वदेव विधीयते।
अन्तराले बहिर् वापि अधिकम् न्यूनम् एव वा ॥ १०८ ॥

एकपार्श्वो अधिकम् वापि पृष्ठे वाप्यधिकम् यथा।
मुकायाममुखे वापि पार्श्वयोह् पृष्ठतस् तथा ॥ १०९ ॥

शालायाम् उक्त मानेन भक्तिर्हस्तवशेन वा।
तत्सर्वम् अत्र सम्ग्राह्यम् शालामात्रम् तु वा भवेत् ॥ ११० ॥

एकभक्त्यादि भक्त्यर्ध वृद्ध्यादिग्भक्तिकान्तिकम्।
खलूरिका विधौ प्रोक्तम् सालम् तत्रोभयत्र तु ॥ १११ ॥

खलूरिका विशालाम्स्तु त्रिचतुष्पञ्च भागकम्।
षट्सप्त भागम् वा कृत्वा बहिरेवम् व्यपोह्य च ॥ ११२ ॥

अन्तरे शेषभागाम्स्तु हित्वा मध्ये तु सालकम्।
एकानेकतलोपेत मूलायामेन भूमिकाम् ॥ ११३ ॥

सभाकार शिरोयुक्तम् शालाकारम् अथापि वा।
अथवा मण्डपोर्ध्वे तु चूलीहर्म्य विभूषिताम् ॥ ११४ ॥

तलाधिष्ठान पदेभ्यह् किञ्चिदु;न प्रमाणकाम्।
तद्वर्धितोप पीठम् वा तद्वर्धित मसूरकाम् ॥ ११५ ॥

पादायाम समोत्तुङ्ग मसूरकयुतम् तु वा।
मूलधाम समोत्तुङ्गाधिष्ठान तल सम्युताम् ॥ ११६ ॥

तद्विहीन तलाम् वापि समस्थल युताम् तु वा।
एताम् खलूरिका कुर्यात् प्रासादादिषु बुद्धिमान् ॥ ११७ ॥

देवानाम् मनुजानाम् च विशेषाद् राज धामनि।
पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ॥ ११८ ॥

उपमध्ये अथवा द्वारम् उपद्वारम् तु वा नयेत्।
खलूरिकायुतम् चैव गोपुरम् विधिनाचरेत् ॥ ११९ ॥

एवम् शालाम् यथा शाला प्रमाणेन समाचरेत्।
गर्भागारयुतम् वापि मध्ये भक्तियुतम् तु वा ॥ १२० ॥

खलूरिका विधानोक्तम् बाह्यन्तर् मार्ग सम्युतम्।
चतुरम्शादि भान्वन्त भागान् कृत्वैक भागकम् ॥ १२१ ॥

हित्वा मूलतलाद्यम् तु कुर्याच् छेषेण बुद्धिमान्।
अधिष्ठानादि शड्वर्गम् तन्मानम् उपपीठके ॥ १२२ ॥

द्वारोत्सेधाय दातव्यम् समम् वाप्यधिकम् तु वा।
खलूरिकातलम् यद्वत् तद्वदत्र विधीयते ॥ १२३ ॥

मूलधाम तलात् किञ्चिदूनम् वापि समाचरेत्।
सालगोपुरयोस्तुङ्गस्त्वधिकश्चापि मूलतह् ॥ १२४ ॥

गोपुरस्याप्यलङ्कारम् शालालङ्कारवन् नयेत्।
सभाकार शिरोयुक्तम् शालाकार शिरह् क्रियम् ॥ १२५ ॥

मण्डपाकार सम्युक्तम् चूलीहर्म्य विभूषितम्।
अग्रतो अलिन्दकोपेतम् अट्टालम् सालकान्तरे ॥ १२६ ॥

गोपुरस्यतु विस्तार त्रिभागादेक भागिकम्।
चतुर्भागैक भागस्तु पञ्च भागैक भागिकह् ॥ १२७ ॥

निर्गमो गोपुराणाम् तु प्राकाराद् बाह्यतो भवेत्।
गोपुरम् च खलूरी च मूलवास्तु निरीक्षणम् ॥ १२८ ॥

अन्तरे राजदेवीनाम् गृहाण्यन्तर्मुखानि च।
प्रधान महिषी गेहम् वामभागे समाचरेत् ॥ १२९ ॥

अन्यासामपि तद्बाह्ये गृहस्यावृत्य कारयेत्।
अन्येषामपि तद्बाह्ये कर्तुरिच्छा वसेन तु ॥ १३० ॥

प्रागङ्कणम् प्रधानस्यत् प्रागवागङ्कणे ज्वरह्।
दक्षिणे जयदम् राज्ञाम् नरृते रिपुवर्धनम् ॥ १३१ ॥

प्रतीच्याम् पुत्रमित्रर्धिह् पश्चिमोत्तरतो मृतिह्।
उदीच्याम् कोशवृद्धिस्स्यद् ईशाने मरणम् धृवम् ॥ १३२ ॥

समन्तात् परिघाम् कुर्याद् राजधाम्नीदमीरितम्।
देवानाम् अन्य जातीनाम् अपि योग्यम् सनातनम् ॥ १३३ ॥

आरम्भकालेत्वेतेषाम् पृथपृथग् इहोच्यते।
कुम्भस्थे मकरस्थे अर्के पूर्वगेहम् अथारभेत् ॥ १३४ ॥

मेषस् थे वृषभे दाक्ष्यमाप्यम् सिम्ह कुलीरके।
तुलायाम् वृश्चिके सौम्यम् नेश्टम्नयच् चतुष्टयम् ॥ १३५ ॥

भास्करस्य दिशि वेश्म नेष्टम् चान्तर्मुखम् सदा।
यदि कुर्याद् गृहम् तत्तु वत्सरे तु विनश्यति ॥ १३६ ॥

सूर्यस्थाने कृतम् वेश्म तद्गृहम् पीड्यते धृवम्।
भौमस्थे तु गृहम् क्ष्त्रम् स्थापितम् नाश्तम् बह्वेत् ॥ १३७ ॥

शनैश्चरे तु सम्प्राप्ते क्षुद्भयम् तत्र वासिनाम्।
जीवस्थाने गृह क्षेत्रम् सर्वसम्पत्करम् भवेत् ॥ १३८ ॥

शुक्र क्षेत्रे कृतम् वेश्म नित्यम् कल्याणम् आदिशेत्।
बुधस्य परमम् सौख्यम् चन्द्रह् पुरुष दैन्यकृत् ॥ १३९ ॥

कुर्यात् स्त्रिभ्यस् सुखम् वापि चैवम् राशौ फलम् भवेत्।
अम्शकादिषु विज्ञेयम् एवम् ज्ञत्वा समाचरेत् ॥ १४० ॥

एवमेव प्रकारेण स्थापयेत् प्रथमेष्ट्काम्।
छायायाम् विहितम् वेश्म गिरेर् देवालयस्य वा ॥ १४१ ॥

बाधितम् च नदी स्रोत सा च शोकापहम् भवेत्।
छिन्ने भिन्ने तथा नष्टे नमिते अभिमते गृहे ॥ १४२ ॥

अगस्त्यह् करवीरश्च नन्द्यावर्तञ्च किम्शुकह्।
अर्कह् कार्पसकश्चैव षडेते गृह नाशनह् ॥ १४३ ॥

पलाशह् खदिरश्चैव प्लक्षश्चिन्तवटस् तथा।
गृहे न वर्धनीयास्स्युर् ग्रामादौ शुभदा मताह् ॥ १४४ ॥

सभायाममितम् वास्तु पद दैर्घ्य समम् यदि।
युक्तव्यायादिकम् तस्मात् तदा गृहम् अशोभनम् ॥ १४५ ॥

प्रत्यङ्मुखम् तु शयनम् दोषदम् दक्षिणामुखम्।
द्वारे पादम् तु नेष्टम् स्यात् नोदक्प्रत्यक्छिरो भवेत् ॥ १४६ ॥

भोजनम् नानुवम्शम् स्याच् छयनम् च तथैव च।
अनुवम्शा गृहद्वारम् नैव कार्यम् शुभार्थिभिह् ॥ १४७ ॥

एक शाला गृहम् कुर्वन् याम्ये कुर्यत् प्रयत्नतह्।
द्वे द्वे वारुण याम्ये ते शाले कार्ये त्वतन्द्रितह् ॥ १४८ ॥

कोण शालाम् तु कृत्वा तु वसन्नाशु विनश्यति।
द्विज गेहस्य वम्शम् तु पूर्वाग्रम् परिकल्पयेत् ॥ १४९ ॥

याम्याग्रम् क्षत्रियाणाम् तु पश्चिमाग्रम् विशाम् भवेत्।
शूद्राणाम् उत्तरस्यम् स्यात् एष वम्शाग्रको विधिह् ॥ १५० ॥

द्विज क्षत्रिय वैश्यानाम् युग्म पदाह् प्रकीर्तिताह्।
शूद्राणाम् अन्य जातीनाम् अयुग्म स्तम्भ इष्यते ॥ १५१ ॥

खदिरम् खादिरम् चैव शमी स्याद् द्विज राजयोह्।
सिलिन्द्रह् पिशितम् चैव मधूको वैश्य पादपाह् ॥ १५२ ॥

राजादनम् च निम्बश्च सिलिन्द्रह् पिशितम् तु वा।
शूद्राणाम् स्तम्भ योग्यम् स्यात् त्वक्साराह् सर्व योग्यकाह् ॥ १५३ ॥

गेहागारम् चतुर्भागम् पञ्चभागान्तरम् तु वा।
पाद व्यास इति प्रोक्तो गेहव्यास करात्तु वा ॥ १५४ ॥

यावन्तो विपुला हस्तास् तावदङ्गुलि सम्ख्यया।
सर्वेषामपि गेहानाम् स्तम्भ विस्तार इष्यते ॥ १५५ ॥

उत्तरे विप्र गेहम् स्यात् पूर्वे नृप गृहम् मतम्।
दक्षिणे वैश्यगेहम् स्यात् पश्चिमे शूद्र जातये ॥ १५६ ॥

गृह मध्यम भित्तिश्च पदमध्य विवर्जिता।
तामाश्रित्य तु कुल्याभम् द्वारद्वयम् इहेष्यते ॥ १५७ ॥

सर्वथा भिन्न शालासु सन्धिकर्म न कारयेत्।
देवतास्थापनम् पिण्डम् शालासु न विधीयते ॥ १५८ ॥

एकैकान्तरिताह् पादा नीरन्ध्रा वा निवेशिताह्।
अन्यागारादिषु द्वौ द्वौ पञ्च वा स्युर्यथेच्छया ॥ १५९ ॥

धनक्षयो मन्द वेधे तीव्रस्स्याद् ऋण बन्धनम्।
त्रिचूली वैश्य शूद्राणाम् पञ्च सप्त महिभृताम्॥160 ॥ १६० ॥

ब्राह्मणानाम् तथैवस्स्युह् एकादश तु वेदिकाह्।
पाषण्डाश्रमिणाम् युग्म सम्ख्या चूली विधीयते ॥ १६१ ॥

शिलास्तम्भम् शिला कुड्यम् नरावासे न कारयेत्।
तृणद्यैर्मृण्मयाच्छाद्यम् लोष्टाच्छाद्यम् च मृण्मयम् ॥ १६२ ॥

कुर्यादानन हृन्नाभिरुत्सेधाह् क्रमेणन तु।
अधिष्ठानम् च याम्यादि चतुर्गृह विधौ भवेत् ॥ १६३ ॥

द्वारस्यान्तस्तु निम्नश्चेद् वृद्धिर् वेश्माधिपस्य तु।
उन्नतिश्च बहिर् ज्ञेया द्वारस्य रिपु वर्धनी ॥ १६४ ॥

भल्लाटे द्वारम् इष्टम् स्याद् ब्राह्मणानाम् विशेषतह्।
माहेन्द्रम् भ्य्ऽभुजाम् विद्यद् वणिजामपि राक्षसम् ॥ १६५ ॥

पुष्पदन्त पदद्वारम् शूद्राणामेव भाषितम्।
तद्दिगीशान् समाश्रित्य द्वारम् विधिवद् आचरेत् ॥ १६६ ॥

मध्यसूत्रस्य वामे वा द्वारम् विधिवद् आचरेत्।
जलद्वारम् पुनस्तेषाम् प्र्वक्ष्यामि निवेशनम् ॥ १६७ ॥

जयन्ते तु महेन्द्रे च रक्षसे वितथे भृशे।
पुष्पदन्ते च सुग्रीवे भल्लाटे गृह मुख्यके ॥ १६८ ॥

ब्रह्मणो अभिमुखम् ब्रह्म परावृद्धिर् निषिद्ध्यते।
एकत्रिपञ्चक सप्ताम्शे ध्वज सिम्ह वृषद्विपाह् ॥ १६९ ॥

पूर्वाद्यास्तु शुभाह्येते आयाद्यास्त्वनुलोमतह्।
द्विचतुष्श्ड्वसुस्थानाम् धूमश्व खर वायसह् ॥ १७० ॥

आग्नेयादि विदिक्ष्वन्ते वर्जनीया बुभुक्ष्भिह्।
ध्वजस् सिम्हो वृषो हस्ति यस्य तद्वेश्मनो मुखम् ॥ १७१ ॥

तस्य प्रत्यगुदक् प्राचीम् दक्षिण. स्वामिनो गृहम्।
ध्वजो याति हरिस्थानम् गजस्थानम् च खेचरी ॥ १७२ ॥

सर्वेपुक्षपदम् यान्ति न चोक्षो यान्ति कुत्रचित्।
उक्षे द्वारम् न कर्तव्यम् उप्मध्ये अथवा भवेत् ॥ १७३ ॥

ब्राह्मणानाम् उदग्द्वारम् प्राग्द्वारम् क्षत्रियस्य तु।
वैश्यस्य दक्षिणद्वारम् श्रेष्टम् शूद्रस्य पश्चिमम् ॥ १७४ ॥

शालाद्वारम् इदम् प्रोक्तम् चतुर्गृह विधावपि।
याम्यालय बहिर्द्वारम् भल्लाटे परिकल्पयेत् ॥ १७५ ॥

माहेन्द्रम् पश्चिमे भागे गान्धर्वम् सौम्य गेहके।
पुष्पदन्त पदद्वारम् पूर्वगेहे विधीयते ॥ १७६ ॥

ऐशान्याम् पचनस्थानम् ब्राह्मणानाम् विधीयते।
आग्नेय्याम् पचनस्थानम् क्षत्रियाणाम् प्रशस्यते ॥ १७७ ॥

नरृत्याम् पचनस्थानम् वैश्यानाम् तु प्रशस्यते।
वायव्याम् पचनस्थानम् शूद्राणाम् सम्प्रशस्यते ॥ १७८ ॥

पूर्वस्याम् भोजनस्थानम् आग्नेय्याम् महानसम्।
याम्यायाम् शयनस्थानम् नरृत्याम् आयुधालयह् ॥ १७९ ॥

मैत्रस्थनम् तु वा तत्र वारुण्याम् उदकालयह्।
गोष्ठागारम् च वायव्याम् उत्तरस्याम् धनालयह् ॥ १८० ॥

नित्य नैमित्तिकार्थम् स्याद् ऐशान्याम् यागमण्डपम्।
काञ्ची लवणयोर् पात्रम् प्रागुदग्दिशि विन्यसेत् ॥ १८१ ॥

अन्तरिक्षे अपि वा चुल्ली लूखलि सवितर्यपि।
अन्नप्राशनम् अर्याम्शे चेन्द्रानाम् च सवित्रके ॥ १८२ ॥

विवस्वदम्शे श्रवणम् विवाहो मैत्र देशके।
क्षौद्रम् इन्द्रजये विद्यास् वायौ सोमे च वा भवेत् ॥ १८३ ॥

विततोपनयश्चैव पितृ दौवारिक पदे।
सुग्रीवे पुष्पदन्ते च प्रसूति गृहम् इष्यते ॥ १८४ ॥

आपवत्से तु कोशस्स्यात् कुण्डम् आपे विधीयते।
अङ्कणम् च महेन्द्राम्शे पेषणी च महीधरे ॥ १८५ ॥

भृङ्गराजनि सुग्रीवे पितृ दौवारिके पदे।
अरिष्टागारम् इष्टम् स्यात् तत्रोपस्कार भूमिकम् ॥ १८६ ॥

वाहनम् द्वार याम्ये स्यात् स्नान शाला च वारुणे।
असुरे धान्यवासस्स्याम् आयुधादीन्द्रराजके ॥ १८७ ॥

मित्रवासस् तथा मित्रे रोऽगे वोलूखलम् मतम्।
भूधरे कोशगेहम् स्यान् नागाम्स्र् घृतम् औषधम्॥188 ॥ १८८ ॥

जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात्।
विषप्रत्यौषधम् चैव कूपे देवगृहम् भवेत् ॥ १८९ ॥

सवित्रायन्तरिक्षान्तम् सव्यञ्जन महानसम्।
वितते पूष्णि सावित्रे भोजनागार एव वा ॥ १९० ॥

ऋक्ष भल्लाट सोमेषु भवेदास्थान मण्डपम्।
मुख्ये वोलूखलम् कुर्याद् गणिकाश्च प्रशम्सिताह् ॥ १९१ ॥

वाहनात्पुरतो वामे कीर्तिदा वा विशेषतह्।
मध्य मण्डप सम्युक्तम् चतुर्गृहम् उदाहृतम् ॥ १९२ ॥

पर्यन्त भित्ति शिरसि जलपाथह् कुलक्षयह्।
तीव्र सम्क्रमणम् तस्मिन् गृहस्यास्य न शोभनम् ॥ १९३ ॥

एतत् सर्वम् तु सामान्यम् शालासु च गृहेषु च ॥ १९४ ॥

Pūrvapāda – Kapitel 36: Besondere Hallenformen

विशेष लक्षणम् वक्ष्ये शालानाम् शृणुत द्विजाह्। त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् ॥ १ ॥

चतुर्विम्शत्यरत्न्यन्ता रुद्रसम्ख्या समीरिता। एकशाला द्विशालास्यात् कथ्यते द्वित्रिशालके ॥ २ ॥

सप्ताष्ट रत्निमारभ्य द्विद्विहस्तेन विवर्धयेत्। एकोनविम्शत् रत्न्यन्तास् सप्तधा द्वित्रिशालके ॥ ३ ॥

एवम् विस्तार आख्याता आयामस्त्विह कथ्यते। पादादिकमथाध्यर्धम् पादोन द्विगुणम् तथा ॥ ४ ॥

द्विगुणम् वा तदर्धम् च त्रिपादद्विगुणोपरि। त्रिगुणान्त प्रमाणेन आयामस्त्वष्टधा मतह् ॥ ५ ॥

सर्वदैर्घ्यम् सुराणाम् स्याद् द्विगुणन्तम् नृणाम् मतम्। द्विगुणद्यायतास् सर्वे विहाराश्रम वासिनाम् ॥ ६ ॥

सर्वस्मिन् सङ्गमोपेते द्विगुणस्यायतिर् मता। विस्तार सम उत्सेधस् साङ्घ्रिस्सार्धस्त्रिपादयुक् ॥ ७ ॥

द्विगुणह् पञ्चधोत्सेधश्शालानाम् परिकीर्तितम्। शान्तिदह् पुष्टिदह् पश्चाज् जयदो धनदो भवेत् ॥ ८ ॥

अद्भुदप्रदम् इत्येवम् उत्सेध फलम् ईरितम्। दक्षिणे पश्चिमे चैव शला वैशेषिकी नृणाम् ॥ ९ ॥

याम्य पश्चिम हीने तु लाङ्गले मरणम् भवेत्। तद्युक्ते लाङ्गले गेही श्रीह् पुष्टिश्च प्रकीर्तिताह् ॥ १० ॥

याम्य पश्चिम हीनायाम् शालायाम् सर्वदोषदा। एका व सद्विशाला वा त्रिशाला वा द्विसन्धिका ॥ ११ ॥

पाषण्डकानाम् मर्त्यानाम् विप्रानाम् धरणी भृताम्। वैश्यानाम् अपि शूद्रानाम् अन्यद्व्यन्तर जन्मनाम् ॥ १२ ॥

शालैका दण्डखण्डाभा द्विनेत्र मुखधारिणी। तथैव द्वित्रिशाले च सर्वग्रामादिके मते ॥ १३ ॥

त्रिचतुर्दश हस्तात्तु द्विद्विहस्तेन वर्धयेत्। षट्सप्त षष्टि हस्ताश्च चतुश्शाला विशालता ॥ १४ ॥

हीनम् निकृष्टम् मध्यञ्चोत्कृष्टम् सा च पृथक् पृथक्। अष्टाविम्शति मानानि चतुश्शाला विशालके ॥ १५ ॥

तस्मत्त्रिम्शत्करैर्वृद्धिच्छत्र शाला विशालके। तस्मात्तस्माद् द्विहस्ताभ्याम् षट्सप्त करपूर्वका ॥ १६ ॥

नवत्यरत्निरुद्दिष्टा त्रिपञ्चाष्ट समाहृता। तत आरभ्य हस्ताभ्याम् बन्धयेच्छत रत्निकम् ॥ १७ ॥

षट्सप्त रत्नि सम्युक्तम् दश शालम् तु मानतह्। सर्वत्र चित्रम् इत्युक्तम् सम्ख्यया त्वष्टषट् भवेत् ॥ १८ ॥

हीनम् जातिरितिप्रोक्त निकृष्टम् छन्द उच्यते। मध्यमम् स्यद्विकल्पम् तु श्रेष्ठम् आभास नामभाक् ॥ १९ ॥

एतन्नाम्ना चतुस्सप्त दश शालम् क्रमेण तु। तुरङ्गावधि मेधाख्या लभते दीर्घ हीनकम् ॥ २० ॥

अत्राप्युत्सेध दीर्घे च पूर्ववत् परिकल्पयेत्। समम् तु चतुरश्रम् तु दैवमानुषमीरितम् ॥ २१ ॥

पाषण्ड देव विप्रादि यागयोग्यम् इतिस्मृतम्। दण्डकम् मौलिकम् स्वस्तिभद्रम् चैव चतुर्मुखम् ॥ २२ ॥

देवादीनाम् तु सामान्यम् चतुर्विधम् उडहृतम्। विन्यासम् दण्ड्कादीनाम् प्रव्क्ष्यामि यथा क्रमम् ॥ २३ ॥

भागत्रयम् तु विस्तारे त्वायामे चतुरम्शकम्। द्विभागो गेह विस्तार अग्रे वारस्तथैकतह् ॥ २४ ॥

द्विनेत्रम् खण्ड दण्डाभम् सर्वेषाम् वास योग्यकम्। एतद् दण्डकम् उद्दिष्टम् शालानाम् स्युह् षडम्शकाह् ॥ २५ ॥

विस्तारे चतुरम्शास्युरायामे स्यात् षडम्शकम्। गेहतारो द्विभागस्यद् द्व्यम्शम् क्रमणम् भवेत् ॥ २६ ॥

शेषम् पूर्ववद् उद्दिष्टम् द्वितीयम् दण्डकम् मतम्। त्रिभागो गेह विस्तारो द्विगुणम् दैर्घ्यम् इष्यते ॥ २७ ॥

भागम् च क्रमणम् कुर्यात् ब्रह्म भित्ति समन्वितम्। कुल्याभ द्वार सम्युक्तम् शेषम् सर्वम् तु पूर्ववत् ॥ २८ ॥

वम्श मूले ति वासस्याद् वम्शाग्रे रङ्गम् इष्यते। सर्वत्र परितह् कुड्यम् रन्गम् पाद समन्वितम् ॥ २९ ॥

पुरतह् पृष्टतो वापि पार्श्वतोवाप्यलिन्दकम्। प्रासादवत् अलङ्कुर्यात् तृतीयम् दण्ड्कम् मतम् ॥ ३० ॥

तदेव मध्यमम् रङ्गम् वासो वम्शाग्र मूलयोह्। शेषम् पूर्ववद् उद्दिष्टम् चतुर्थम् दण्ड्कम् मतम् ॥ ३१ ॥

षडम्शो गेहविस्तारस्त् वायामो द्वादशाम्शकह्। भागेन परितो अलिन्दश् शालाव्यासो द्विभागतह् ॥ ३२ ॥

तत्समम् पुरतो अलिन्द युक्तान्तस् स्तम्भ सम्युतम्। पार्श्वयोर् द्वित्रि भागेन तारायामौ विवासकौ ॥ ३३ ॥

द्विचतुर्भाग विस्तारम् धामध्ये तु रङ्गकम्। पञ्चमम् दण्डकम् प्रोक्तम् पूर्ववच् छेषम् आचरेत् ॥ ३४ ॥

व्यासे अग्निभूत पाताल नन्दाम्शैक द्विकत्रिकैह्। चतुर्भिह् पुरतो अलिन्दम् स्याद् एक द्वित्रिशालके ॥ ३५ ॥

एतदेव सभाकारम् शिखरम् मौलिकम् मतम्। तदेव पुरतो भद्रम् चतुर्द्वियम्शे तु सम्मतम् ॥ ३६ ॥

आयामेन विशालेन पुरतह् पार्श्वयोर् द्वयोह्। अम्शके अलिन्दकम् कुर्याद् व्यासे नेत्र त्रयान्वितम् ॥ ३७ ॥

एतत्स्वस्तिकम् इत्युक्तम् चतुर्मुखम् अथोच्यते। तदेव पृष्ठतो भद्रयुक्तम् यद्वत् पुरो भवेत् ॥ ३८ ॥

कर्करिवम्श शालाग्रे चतुर्नेत्र समन्वितम्। अधिष्ठानादि वर्गाढ्यम् प्रासादवत् अलङ्कृतम् ॥ ३९ ॥

नासिका तोरणाद्यङ्गैर् युक्तम् वातायनादिभिह्। चतुर्मुखम् इदम् नाम्न क्रमाज् जात्यादि नाम भाक् ॥ ४० ॥

एकादि पञ्च भूम्यन्तम् दण्ड्कादि चतुष्ट्यम्। स्वामिचित्तवसान् न्यस्तम् स्थान विन्यास सम्युतम् ॥ ४१ ॥

हस्त्यश्व वृषभादीनाम् प्रत्येकम् व सपङ्क्तिकम्। यद्द्विचूलि त्रिचूल्यङ्गम् सुग्रीवम् सवितल्पकम् ॥ ४२ ॥

सपाद सार्धमुत्सेधस् तत्समो वापि कल्पयेत्। दण्डकम् मौलिकम् वापि यथेष्ट्दिशि वारणम् ॥ ४३ ॥

एकशालम् इदम् प्रोक्तम् अधिष्ठानादि शोभितम् ॥ ४४ ॥

Pūrvapāda – Kapitel 37: Zwei- und dreiflügelige Anlagen

द्विशाले चतुरश्रे तु दश भाग विभाजिते।
बहिर्मार्गेन वारस्याद् द्व्यम्श शाला विशालतह् ॥ १ ॥

प्राङ्मुखे वारम् एकाम्शम् मण्डपो नवभाग भाक्।
तदावृत्यैककालिन्दम् शेषम् च क्रमणम् भवेत् ॥ २ ॥

मुख्यगेहम् बहिर्द्वारम् लाङ्गलाभम् यथा तथा।
चतुर्मुख समायुक्तम् द्विशालम् इह कीर्तितम् ॥ ३ ॥

पौरमण्डल हीनम् वा मण्डपेन विनापि वा।
अलिन्देनान्वितम् वापि द्विशालम् परिकल्पयेत् ॥ ४ ॥

तदेव पञ्चभागान्तम् एकशाला मुखायतम्।
द्वारम् पूर्ववद् उद्दिष्टम् सर्वालङ्कार शोभितम् ॥ ५ ॥

मण्डपाद् बाह्यतो अलिन्दम् सायतम् प्रविधीयते।
नेत्रत्रय समायुक्तम् स्वस्तिकम्त्वभिधीयते ॥ ६ ॥

तदेव द्विमुखोपेतम् दण्डवक्त्रम् इति स्मृतम्।
सावकाशान्तरोपेतम् मण्डपेन विनापि वा ॥ ७ ॥

अलिन्देनान्वितम् वापि द्विशालम् परिकल्पयेत्।
सवारम् वा विवारम् वा एकानेक तलान्वितम् ॥ ८ ॥

द्विभागे त्वेकभागम् वा त्रिभागे तु द्वयम् तु वा।
चतुरम्शे त्रिभागम् वा द्व्यम्शम् पञ्चत्रिभागिकम् ॥ ९ ॥

द्विभागम् वैकभागम् वा षड्भागम् पञ्च भागकम्।
सप्ताम्शे पञ्च भागादि द्विभागान्तम् अथापि वा ॥ १० ॥

नवाम्शे सप्तभागादि द्विभागान्तम् अथापि वा।
रुद्रभागाद् द्विभागान्तम् भागान् कृत्वा त्रिभागतह् ॥ ११ ॥

नवभागावसानान्तम् शालाव्यासम् प्रकल्पयेत्।
एहद्वित्रिचतुश्शाला सामान्यम् इदम् ईरितम् ॥ १२ ॥

यथा समीक्ष्य तत्रैव युक्तम् कुर्यात्तु देशिकह्।
मौलिकस्य तु विस्तारम् वसुभागैर् विभाजयेत् ॥ १३ ॥

अङ्कणम् तु द्विभागस्यात् त्रिपार्श्वे अलिन्दम् एकतह्।
शालाव्यासो द्विभागेन प्रासादवदलङ्कृतम् ॥ १४ ॥

षडानन सम्पेतम् प्रच्छन्नम् अपि जाङ्कणम्।
एकानेक तलोपेतम् अधिष्ठानादि शोभितम् ॥ १५ ॥

अङ्कणेन विहीनम् वा वारहीनम् तु वा नयेत्।
मेरुकान्तम् इति प्रोक्तम् सर्वेषामपि योग्यकम् ॥ १६ ॥

व्यासे पङ्क्त्यर्क भागे तु पार्श्वयोह् पश्चिमे मतम्।
वारम् एकाम्शतह् कुर्याद् द्व्यम्शस्तु गृह विस्तरह् ॥ १७ ॥

प्राङ्मुखो वारम् एकाम्शम् परितो मार्ग एकतह्।
द्व्यङ्कणम् वारम् एकाम्शम् अर्काम्शे परिकल्पयेत् ॥ १८ ॥

पार्श्वयोर्वा परे मुख्य वासस्स्याद् द्विललाट्कम्।
मौलिभद्रम् इदम् नाम्ना शेषम् पूर्ववद् ईरितम् ॥ १९ ॥

सावकाशान्तरोपेतम् अङ्कणम् स्यात् त्रिशालके।
सालिन्दम् अनलिन्दम् वा त्रिशालम् परिकल्पयेत् ॥ २० ॥

शालाविरहितस्थाने कुड्यद्वारम् प्रयोजयेत् ॥ २१ ॥

Pūrvapāda – Kapitel 38: Vierflügelige Anlagen

चतुश्शालादि शालानाम् अलङ्करो अथ उच्यते।
अष्टादि द्वादशान्तम् तु नीचे तु परिकल्पयेत् ॥ १ ॥

दशार्क मनुभागाम्स्तु निकृष्टे सम्प्रकल्पयेत्।
आदित्यमन्वोरेकाम्शम् भागम् मध्ये तु कल्पयेत् ॥ २ ॥

चतुर्दश द्विरष्टाष्टा दशाम्शश् श्रेष्ट वर्त्मनि।
बीजभागस् समाख्यातो जातिर् द्वयम्शाधिका यतह् ॥ ३ ॥

चतुरम्शाधिकाश्चात्र विकल्पम् स्याद्रसादिकम्।
अष्टाम्शाधिकम् आभासम् सर्वतोभद्र सम्ज्ञके ॥ ४ ॥

बीजम् तु चतुरश्रम् स्याज् जात्या द्वन्द्वादि वृद्धितह्।
बीज जात्यादि सम्भूता सम्ख्या षष्टिरिति स्मृता ॥ ५ ॥

निकृष्टे सर्वतोभद्रे द्विभागम् मध्यमाङ्कणम्।
समन्तान् मार्ग एकाम्शो द्विभागो गेह विस्तरह् ॥ ६ ॥

अष्ट्नेत्र सम्ऽयुक्तम् चतुर्दिग् भद्र सम्युतम्।
भद्र मद्ये सभास्यम् स्याच् चतुष्कम् कर्ण कूटकम् ॥ ७ ॥

मध्यमे वार सम्युक्तम् कूटे शङ्खम् युगान्वितम्।
पूर्वस्मिन् अपरस्मिन् वा स्वाम्यावासह् प्रशस्यते ॥ ८ ॥

सर्वतह् कुड्य सम्युक्तम् कुड्याभद्वार सम्युतम्।
बहिर्जालक कुड्याड्यम् अन्तरम् लूत पादकम् ॥ ९ ॥

पक्षशालाम्शके द्वारम् पूर्वस्मिन् वा प्रशम्स्यते।
समस्तम्भम् समद्वारम् समवम्शम् तु कारयेत् ॥ १० ॥

दण्डिका द्वार सम्युक्तम् शिखरम् दिग्प्रदीपकम्।
ककरी वम्श जालाग्रम् कूटहीनम् तु वा नयेत् ॥ ११ ॥

अन्तर्द्वारम् परित्यज्य बहिर्द्वारयुतम् तु वा।
सालिन्दम् वा अनलिन्दम् वा सावकाशान्तरम् तु वा ॥ १२ ॥

अङ्कणम् तु प्र्कर्तव्यम् सर्वालङ्कार सम्युतम्।
जात्याख्यम् सर्वतोभद्रम् भूपतीनाम् इहोदितम् ॥ १३ ॥

तदेव परितो द्वयम्शम् महावार समन्वितम्।
कर्करी वम्शजालाग्रम् कूटहीनम् तु वा नयेत् ॥ १४ ॥

अष्टास्योर्ध्व तलग्रीव सस्थूपि समवम्शकम्।
अष्टास्य मुखपट्यङ्ग नीव्रङ्गक समावृतम् ॥ १५ ॥

भद्रोर्ध्वम् मुख्यकूटाङ्गम् सर्वलङ्कार सम्युतम्।
चित्रम् तु सर्वतोभद्रम् भूपतीनाम् प्रशस्यते ॥ १६ ॥

तदेव पुरतो द्वयम्शम् महावार समन्वितम्।
चतसृणाम् तु शालानाम् शिख्रम् तु सभाकृति ॥ १७ ॥

विकल्पम् सर्वतोभद्रम् गृहप्रासाद सम्युतम्।
एकद्वित्रितलोपेतम् सर्वालङ्कार शोभितम् ॥ १८ ॥

विहीन कर्ण शिखरम् हर्म्याङ्गम् स्वामिवासकम्।
शिखरस्थूपिका नासा वेदिक जालकान्वितम् ॥ १९ ॥

उच्छशाला समायुक्तम् नीव्रकूटम् अथापि वा।
उभयम् विपरीतम् वा हर्म्यम् स्यान् मध्य मण्टपम् ॥ २० ॥

जात्यादीनाम् तु सम्योगाद् आभासम् गृहमालिकम्।
निकृष्टम् सर्वतोभद्रम् चतुर्विधम् उदाहृतम् ॥ २१ ॥

नीचे तु सर्वतोभद्रे द्विभागम् मध्यमेण्कणम्।
समन्तादम्शतह् पन्था द्वयम्शशाला विशालके ॥ २२ ॥

परितोम्शेन बाह्ये तु वारम् स्यद्विश्वभक्तिकम्।
मसूरिकाङ्घ्रिकोच्चे तु प्रस्तरोर्ध्व गङान्वितम् ॥ २३ ॥

शिखरस्थूपिका नासा वेदिका जालकान्वितम्।
तदेवम् चाङ्कणम् कुर्यात् अन्तर्वार समन्वितम् ॥ २४ ॥

भद्रादिकम् तु पूर्वोक्तम् त्विदम् भूपति योग्यकम्।
तदेव च बहिर्द्वयम्श वारद्वय समन्वितम् ॥ २५ ॥

कर्तव्यम् वा महावारम् कूट्कोष्टाद्यलिन्दयुक्।
सुचित्रम् इति निर्दिष्टम् निष्क्रान्तादि पुरोक्तवत् ॥ २६ ॥

देवद्विज नरेन्द्राणाम् एतद्भवनम् ईरितम्।
यथेष्टदिशि वारस्याद् यथेष्ट दिशि भद्रकम् ॥ २७ ॥

वारमार्गम् अलिन्दम् च स्वामि वञ्चावसान् नयेत्।
विकल्पम् इति निर्दिष्टम् आभासम् सर्वयोगतह् ॥ २८ ॥

मुण्डप्रासाद सम्ज्ञम् तु हर्म्यप्रासाद सम्ज्ञकम्।
आभासम् सर्वतोभद्रम् देवद्विज महीभृताम् ॥ २९ ॥

नीचम् तु सर्वतोभद्रम् चतुर्विधम् उदाहृतम्।
मध्यमम् सर्वतोभद्रम् चतुरम्शाङ्कणान्वितम् ॥ ३० ॥

एकाम्शावृत मार्गस्याच् छालाम्शे द्विगुणो भवेत्।
बहिस्त्वलिन्दम् एकाम्शम् प्राग्वदेव प्रकल्पयेत् ॥ ३१ ॥

सर्वतोभद्र जातिस्स्यात् तदेवाम्शेन बाह्यके।
वारयुक्तम् द्विभागेन पृथुवारयुतम् तु वा ॥ ३२ ॥

प्राग्वद् भद्रसमोपेतम् देवद्विज महीभृताम्।
द्विभागम् अङ्कणञ्चान्तर् वारहीनम् तु वा नयेत् ॥ ३३ ॥

तदम्शतो बहिर्द्वारम् महावारम् तु वा नयेत्।
षोडशाम्श विशालम् तु विकल्पम् इति निर्दिशेत् ॥ ३४ ॥

तत्राङ्कणम् षडम्शस्स्यात् परितो मार्ग एकतह्।
द्वयम्शश्शाला विभागस्स्यात् अन्तर्वारम् तु चैकतह् ॥ ३५ ॥

भागैकेन बहिर्द्वारम् प्राग्वच् छेषम् प्रकल्पयेत्।
विकल्पम् इति निर्दिष्टम् आभासम् तत्र मिश्रितम् ॥ ३६ ॥

मुण्डप्रासाद हर्म्याङ्गम् मालिकाभासम् इष्यते।
उत्कृष्टम् सर्वतोभद्रम् चतुरम्शाङ्कणान्वितम् ॥ ३७ ॥

भागेन परितो मार्गश् चान्तर्वारम् अथैकतह्।
शालाव्यासो द्विभागस्स्याद् बाह्यालिन्दम् अथैकतह् ॥ ३८ ॥

नासिकाजाल सम्युक्तम् तोरङाद्यैस्तु समन्वितम्।
अन्तर्वारम् परित्यज्य बाह्ये वा तत्र कल्पयेत् ॥ ३९ ॥

अङ्कणम् तु द्विभागम् वा मुख्यवारस्त्वलिन्दभाक्।
सभद्रम् वा विभद्रम् वाप्यङ्कणाम्शेन वारणम् ॥ ४० ॥

एष जातिक्रमह् प्रोक्तो रज्ञाम् आवासयोग्यकह्।
तमेव परितो मार्गयुक्तो वा पृथुवारकह् ॥ ४१ ॥

छन्दम् हि सर्वतोभद्रम् अनुक्तम् चात्र पूर्ववत्।
तदेव परितोम्शेन बहिर्वारम् तु कल्पयेत् ॥ ४२ ॥

विकल्पम् सर्वतोभद्रम् भूमीन्द्राणाम् इहोदितम्।
जातिश्छन्द विकल्पानाम् मिश्रमाभास नामभाक् ॥ ४३ ॥

हर्म्याङ्गम् मालिकाङ्गम् च मुण्डप्रासाद सम्ज्ञकम्।
एतदाभासमाख्यातम् राज्ञाम् आवास योग्यकम् ॥ ४४ ॥

स्वामि पञ्चाङ्ग विन्यासम् अनुक्तम् चात्र पूर्ववत्।
उत्कृष्टम् सर्वतोभद्रम् चतुर्विधम् उदाहृतम् ॥ ४५ ॥

एवम् विकारभेदम् तु सर्वतोभद्रम् इष्यते ॥ ४६ ॥

Pūrvapāda – Kapitel 39: Die Vardhamāna-Anlage

शालातु वर्धमानाख्या षडष्ट दश भागिका।
निकृष्ट भागिनी चाष्ट दशद्वादश भागिका ॥ १ ॥

दशद्वादशमन्वम्शा मध्यमाह् परिकीर्तिताह्।
द्विषट्सप्ताष्ट भागे तु श्रेष्टा तु परिकीर्तिताह् ॥ २ ॥

मूलम् एवम् समाख्यातम् जातिर्द्वयम्शाधिका तथा।
छन्दादयस्तथाद्वयम्श वर्धितायाम सम्युताह् ॥ ३ ॥

नीचादयस्त्रयो अप्यत्र नवभेद समन्विताह्।
जात्याद्याभासकान्ता या उक्ता मूल समन्विता ॥ ४ ॥

सम्ख्यया पञ्चचत्वारिम्शद् अन्तावधि भवादिभिह्।
उत्कृष्टा चात्र या जातिर् विकल्पद्यन्त दीर्घिका ॥ ५ ॥

द्वादशात्र मिलित्वा तु सप्तपञ्चाशदीरिता।
निकृष्टे वर्धमाने तु द्विभागम् मध्यमाङ्कणम् ॥ ६ ॥

शालाव्यासो द्विभागेन मध्यभागोह्यलिन्दभक्।
मध्यभित्ति समाश्लिष्ट कुल्याभद्वार सम्युतम् ॥ ७ ॥

अपरे दीर्घ शालास्याद् द्विनेत्रा तुन्ग सम्युता।
अल्पनिम्ना भवेत् प्राची शालदीर्घा द्विनेत्रका ॥ ८ ॥

पक्षके द्वे तु शाले तु वम्शनिम्नो द्विनेत्रके।
बाह्ये भित्ति समायुक्तम् अन्तह् पादैह् समन्वितम् ॥ ९ ॥

सर्वतह् कुड्य सम्युक्तम् मध्यगेहम् विधीयते।
द्विभागकृत निष्क्रान्तम् चतुर्दिङ् मध्यवारणम् ॥ १० ॥

कर्णे द्वयम्श विशालम् तु सोपानम् वम्शसङ्गमे।
मुख्यगेहस्य मूले तु स्नानगेहम् द्विभगतह् ॥ ११ ॥

तस्यापरे तु सम्श्लिष्टम् प्रच्छन्नम् मैत्र गेहकम्।
वास्तूनाम् तु चतुर्मध्ये चतुस्सूत्रम् प्रयोजयेत् ॥ १२ ॥

प्रादक्षिणम् तु तद्वारम् तदन्ते जलनिस्रवह्।
नासिकातोरण स्तम्भ जालकादि विचित्रितम् ॥ १३ ॥

प्रासादवत् अलङ्कुर्याद् विभद्रम् व सभद्रकम्।
निकृष्टम् वर्धमानम् स्याद् राज्ञाम् आवास योग्यकम् ॥ १४ ॥

तदेव परितोम्शेन द्वारम् तु परिकल्पयेत्।
यथेष्ट्दिशि भद्राङ्गम् यथेष्ट्दिशि वासकम् ॥ १५ ॥

यथेष्टद्वार सम्युक्तम् छन्दम् इत्यभिधीयते।
तदेव पृथुवारम् तु दण्डिकवार सम्युतम् ॥ १६ ॥

सभद्रम् वा विभद्रम् वा विकल्पम् इति कीर्तितम्।
जात्यादित्रय सम्युक्ताम् आभासम् इति कीर्तितम् ॥ १७ ॥

नीचमानाम्शके द्वयम्शे नाङ्कणम् परिकल्पयेत्।
अम्शेन परितो अलिन्दम् शालाव्यासो द्विभागतह् ॥ १८ ॥

उच्छ्रितम् मुख्यगेहम् स्याच् छालाश्शेष समा मताह्।
प्रगुक्तवद् अलङ्कुर्यान् नीचे जतिज् प्रकीर्तिताह् ॥ १९ ॥

तदेव परितो अलिन्दम् एकाम्शेन प्रकल्पयेत्।
छन्द नाम्ना समुद्दिष्टम् विश्वम् अन्यत्पुरोक्तवत् ॥ २० ॥

तदेव परितोम्शेन वारम् वा पृथुवारकम्।
कर्करीमुख वम्शाग्रम् मुखपट्टि समायुतम् ॥ २१ ॥

उत्तुङ्गम् स्वामि वासाङ्गम् इतरद्विवृताङ्घ्रिककम्।
विकल्पम् इति निर्दिष्टम् आभासम् तत्र मिश्रितम् ॥ २२ ॥

मध्यमम् वर्धमानम् तु भागम् द्विमध्यमाङ्कणम्।
समन्तान् मार्ग एकाम्शश् शालाव्यासो द्विभागतह् ॥ २३ ॥

एकाम्शावृत वारम् स्याद् अष्ट्नेत्र समन्वितम्।
दण्डिकावार सम्युक्तम् सर्वालङ्कार सम्युतम् ॥ २४ ॥

चतुष्षडङ्ग दीर्घम् तु मध्ये शाला चतुष्ट्यम्।
मुखपट्यङ्ग नेत्राङ्गम् विस्तारे चायतौ क्रमात् ॥ २५ ॥

जात्याख्यम् वर्धमानम् स्याच् छन्दम् स्यात् पृथुवारयुक्।
विकल्पम् पृथु वारेण बाह्यवारेण सम्युतम् ॥ २६ ॥

दण्ड्कावार सम्युक्तम् आभासम् सर्वमिश्रितम्।
उत्तम व्यासभागे तु द्विभागम् मध्यमाङ्कणम् ॥ २७ ॥

अम्शेन परितोवारम् मण्टपाकारम् ऊर्ध्वतह्।
शालाव्यासे द्विभागेन परितो अलिन्दवारके ॥ २८ ॥

अन्तर्वारम् परित्यज्य बहिर्वारम् यथेष्टतह्।
पूर्ववद् भद्र सम्युक्तम् पूर्ववत् कर्करिकृतम् ॥ २९ ॥

मद्यशालोच्च युकतम् च सर्वालङ्कार सम्युतम्।
जात्यख्यम् वर्धमानम् स्याद् विप्रभूमीन्द्र योग्यकम् ॥ ३० ॥

तदेवैकाम्शतो वारविशेषम् परिकल्पयेत्।
छन्दम् स्यात् परितोमार्गयुक्तम् वैकल्प सम्ज्ञ्कम् ॥ ३१ ॥

जात्यादीनाम् तु सम्योगाद् आभासम् इति कीर्तितम्।
विशिष्टम् वर्धमानाख्यम् सालङ्कारम् अथोच्यते ॥ ३२ ॥

विस्तारे षोडशाम्शास्युह् आयामे द्वादशाम्शकाह्।
ब्रह्माङ्कणम् द्विभागस्स्याद् आयामे चतुरम्शकम् ॥ ३३ ॥

शालाव्यासो द्विभागेन मुख्यगेहम् अलिन्दभाक्।
भागद्वयेन तद्बाह्ये अलिन्दम् परिकल्पयेत् ॥ ३४ ॥

तद्बहिर्वारम् एकाम्शम् पृथुवारम् द्विभागतह्।
विहाय पृष्ट्देशे तु रचना मिश्रदेशके ॥ ३५ ॥

तृतीये वास्स्थलम् पञ्चप्रदेशे तु प्रकल्पयेत्।
मध्यसूत्रानुसारेण पूर्वस्मिन् पार्श्वयोर् द्वयोह् ॥ ३६ ॥

आग्नेयैशानयोश्चैव क्षेत्रप्रान्ते प्रकल्पयेत्।
त्रितले वास्स्थलम् चान्तर् नेत्रशाला चतुस्स्थले ॥ ३७ ॥

षण्णिर्गम समायुक्ता सवारा प्रान्त भागता।
स्वामि वासाग्र शालानुश्रेणोभय पार्श्वयोह् ॥ ३८ ॥

चतस्रह् पूर्वदेशे तु द्वे चालिन्दानुसारतह्।
अलिन्दस्य चतुष्कोणे कर्णकूट चतुष्टयम् ॥ ३९ ॥

कुर्यात् पञ्चतलप्रान्ते तन्मध्ये पूर्व भागतह्।
चतुर्भाग समायामा द्विभागम् विस्तृतान्विता ॥ ४० ॥

कर्णकूट समोपेत सवार मुखपट्टिका।
अलिन्द पार्श्वयोह् कर्णकूटानाम् मध्य देशतह् ॥ ४१ ॥

पञ्जरद्वितयम् कुर्यात् कूट्द्वय समोदयम्।
पार्श्वम् वास्स्थल सम्युक्तम् वारयुक्त द्विभागिकम् ॥ ४२ ॥

कर्णकूट द्वयोर्मध्ये परवेदद्विभागतह्।
पृष्टवार सभाम् कुर्यात् षट्तले तु द्विजोत्तमाह् ॥ ४३ ॥

पार्श्वयोर् नेत्रकूटे द्वे मुखायामस्तु षट्तले।
अङ्कणम् मण्टपाकारम् सभाकारम् अथापि वा ॥ ४४ ॥

वामदक्षिण सम्स्थम् यच्चूली हर्म्य विभूषितम्।
वामसोपान सम्युकतम् नेत्रयुग्द्वार सम्युतम् ॥ ४५ ॥

मुखचङ्क्रमण्पेतम् गुह्यसोपान सम्युतम्।
वास्स्थलम् च विशिष्टम् स्यात् सप्तभौमम् इदम् स्मृतम् ॥ ४६ ॥

वर्धमानम् इदम् रज्ञाम् सर्वकामफलप्रदम्।
अथ्वा त्वष्टभागेन पृष्टभद्रयुतम् भवेत् ॥ ४७ ॥

नैरृते वायुदेशे तु वास्स्थलम् वा विधीयताम्।
मध्यशाला समायुक्तम् कोटिहीनम् तु वा भवेत् ॥ ४८ ॥

नेत्रशाला समायुक्तम् वाथकुर्याद् यथाविधि।
एवम् षोडशधा प्रोक्तम् वर्धमानम् इहागमे ॥ ४९ ॥

Pūrvapāda – Kapitel 40: Die Nandyāvarta-Anlage

नन्द्यावर्तम् प्रवक्ष्यामि षडष्ट्दश भागिकम्। निकृष्टम् वसुदिग्भानु भागम् नीचम् इति स्मृतम् ॥ १ ॥

दशद्वादशमन्वम्शम् मध्यमम् चेति कीर्तितम्। आदित्यमन्वोरेकाम्शम् भागम् ज्येष्टम् इति स्मृतम् ॥ २ ॥

मूलमेवम् विनिर्दिष्टम् जातयो द्वयम्श वर्धिताह्। छन्दास्स्युर्वेदभागाढ्या विकल्पष्षड् विवर्धिताह् ॥ ३ ॥

अष्टाम्श वृद्ध्या त्वाभासा हीनाद्या मिलिता यदा। चत्वारिम्सद् भव्त्यत्र सम्ख्या पञ्चसमन्विता ॥ ४ ॥

निकृष्टास्स्युस्त्रयो दीर्घास्तृतीयेन समन्विताह्। मिलिते सप्तपञ्चाशत् सम्ख्यात्र परिकीर्तिता ॥ ५ ॥

निकृष्टे षट्कृते द्वयम्शम् अङ्कणम् मध्यमम् भवेत्। द्वयम्श शाला विशाला स्यात् सर्वालङ्कार सम्युता ॥ ६ ॥

नन्द्यावर्तम् चतुष्पट्टम् मूलेनात्र विहीनकम्। द्वारम् चतुष्टयम् वापि यथेष्टदिशि वा भवेत् ॥ ७ ॥

जालकश्च कवाटश्च बाह्ये बाह्ये प्रकल्पयेत्। सर्वतह् कुड्य सम्युक्तम् मुख्यधामात्र कीर्तितम् ॥ ८ ॥

अन्तर्विवृत पादम् च बाह्ये कुड्यम् प्रकीर्तितम्। चतुर्दिक्षु विनिष्क्रान्तम् अर्धकूटम् प्रयोजयेत् ॥ ९ ॥

दण्डिकावार सम्युक्तम् जातिरूपम् इदम् मतम्। तदेवाम्शावृतालिन्दम् चतुर्णाम् छन्दम् इष्यते ॥ १० ॥

तदेव स्याद्विवारम् वा पृथुवारयुतम् तु वा। विकल्पम् बहुभौमम् स्याद् आभासम् तत्र मिश्रितम् ॥ ११ ॥

हर्म्याङ्गम् मालिकाङ्गम् च नैकैक तलसम्युतम्। नीचैस्स्याद् अङ्कणम् द्वयम्शम् वारम् एकाम्शम् इष्यते ॥ १२ ॥

शालाव्यासो द्विभागेन दण्डिकावार सम्युतम्। सर्वालङ्कार सम्युक्तम् भद्रकर्म यथेष्टतह् ॥ १३ ॥

यथेष्ट्दिसी सम्युक्त द्वारजाल विभूषितम्। बहिरभ्यन्तरे कुड्यम् मुख्यगेहम् विधीयते ॥ १४ ॥

शेषाम्शम् परितह् कुड्यम् अम्शम् तदपि पादकम्। जातिरूपम् इदम् विप्रा भूभुजामेव भावितम् ॥ १५ ॥

विहीनपश्चिम द्वारम् छन्दम् अत्र विधीयते। द्विभागम् अङ्कणम् मध्ये मार्गम् अम्शेन कल्पयेत् ॥ १६ ॥

शालाव्यासो द्विभागेन द्वारम् अम्शेन बाह्यके। चतुष्ट्यानाम् शालानाम् मध्यमध्योर्ध्व मस्तकम् ॥ १७ ॥

पुरे पुरे भवेत्कूटम् पक्षशालाननान्वितम्। चतुर्नेत्र समायुक्तम् छन्दमानम् प्रकीर्तितम् ॥ १८ ॥

तदेव व्रतवारम् वा पृथुवारयुतम् तु वा। सालिन्द चूलिहर्म्यम् वा यथाशक्ति यथारुचि ॥ १९ ॥

सवारमुखभद्रम् च साधिष्ठानाङ्घ्रि भूषितम्। ऊर्ध्वोर्ध्वम् अङ्कणम् कार्यम् पक्षशाला समोपरि ॥ २० ॥

सभा वा मण्टपो वाथ मालिकावाङ्कणक्रिया। चतुर्णाम् उदितम् धाम विशेषाद्राज योग्यकम् ॥ २१ ॥

विकल्पम् तत्त्रयाणाम् तु यथा सम्मिश्रितम् भवेत्। मुण्डप्रासाद सम्युक्तम् हर्म्याङ्गम् मालिकम् भवेत् ॥ २२ ॥

चतुर्णाम् उदितम् नन्द्यावर्ताख्यम् मध्यमेम्शके। अङ्कणम् तु द्विभगम् स्यान् मार्गम् एकेन कारयेत् ॥ २३ ॥

अन्तर्वारम् तु चाम्शेन शालाव्यासो द्विभागतह्। दण्डिकावार सम्युक्तम् चतुरानन सम्युतम् ॥ २४ ॥

ऊर्ध्वे शालस्तथाष्टौस्युह् अधस्ताच् चतुराननम्। द्वादशास्य समायुक्तम् ऊर्द्वाधस्ताद् द्वितीयतह् ॥ २५ ॥

चतुर्दिग्भद्र सम्युक्तम् द्वारजालक शोभितम्। जातिरूपम् इदम् नन्द्यावर्तम् क्षोण्भृताम् गृहम् ॥ २६ ॥

तदेव परितोम्शेन वारयुक् छन्दम् इष्यते। तद्बाह्ये वारम् एकम् वा पृथुवारयुतम् तु वा ॥ २७ ॥

नन्द्यावताननाश्श्शालाश् चत्श्रस्तास्स्वम्शकाह्। तस्योपरिगताश्शालाश् चतुष्क शिखरान्वितह् ॥ २८ ॥

नन्द्यावर्तम् तु वैकल्पम् नृपादीनाम् निवेशनम्। ततद्विनिश्चितम् कुर्यान् मुण्डप्रासाद सम्ज्ञकम् ॥ २९ ॥

मालिकाङ्गम् च हर्म्याङ्गम् एकानेक तलान्वितम्। आभासम् नन्दिकावर्तम् चतुर्णामपि कीर्तितम् ॥ ३० ॥

उत्कृष्टे मध्यमे द्वयम्शम् अङ्कणम् चैकमार्गकम्। अन्तर्वारम् अथैकाम्शम् शालाव्यासो द्विभागतह् ॥ ३१ ॥

अम्शेनावृत वारम् तु सर्वालङ्कार शोभितम्। मध्यशाला शिरस्तम्भश्चैव निम्नास्तथोपरि ॥ ३२ ॥

द्वादशानन सम्युक्ता जातिर्भूपति योग्यकम्। जातिस्तु परितो द्वयम्शम् महावार समन्वितम् ॥ ३३ ॥

वारद्वय समायुक्तम् छन्दम् एतत् प्रकीर्तितम्। सालिन्दम् खण्डहर्म्यम् वाकूट्कोष्टक भारकम् ॥ ३४ ॥

चतुश्शालाश्शिरश्चैव सभामुख शिरोन्वितम्। नन्द्यावर्तम् विकल्पम् स्यात् प्रासादवद् अलङ्कृतम् ॥ ३५ ॥

तेषाम् तेषाम् तु सम्मिश्रम् प्रासादाङ्ग समन्वितम्। हर्म्याङ्गम् मालिकाङ्गम् व एकानेक तलान्वितम् ॥ ३६ ॥

ऊहप्रत्यूह सम्युक्तम् यथायुक्ति यथारुचि। आभासम् नन्दिकावर्तम् चतुर्णामपि कीर्तितम् ॥ ३७ ॥

एवम् षोडशधा प्रोक्तम् नन्द्यावर्तम् द्विजोत्तमाह् ॥ ३८ ॥

Pūrvapāda – Kapitel 41: Die Svastika-Anlage

निकृस्टम् स्वस्तिकम् तत्र षडष्ट दश भागिकम्।
वसुदिग्द्वादशान्तम् तु नीचम् वै स्वस्तिकम् भवेत् ॥ १ ॥

दशद्वादशमन्वम्शा मध्यमम् सव्स्तिकम् मतम्।
आदित्यमन्वोरेकाम्शम् उत्तमम् भागम् इष्यते ॥ २ ॥

मूलम् तु चतुरश्रम् स्यात् तद्विभागाधिकायतम्।
जातिरूपम् भवेच्छन्दम् चतुरम्शाधिकायतम् ॥ ३ ॥

षड्भागाधिक दैर्घ्यम् तु विकल्पम् इति कीर्तितम्।
आभासम् अष्टवृत्तम् यच्चत्वारिम्शत्तु पञ्चयुक् ॥ ४ ॥

हीनाद्यैस्त्रित्रिभागे तु सम्ख्यैषाम् परिकीर्तिताह्।
त्रित्रि दीर्घानि नीचास्युह् पञ्चाशत्सप्त सम्ख्यया ॥ ५ ॥

निकृष्टाद्यैष्षडम्शे तु द्व्यम्शम् अङ्कणम् इष्यते।
शालाव्यासो द्विभागेन सर्वालङ्कार सम्युतह् ॥ ६ ॥

पृष्ठे तु दीर्घकोष्टम् स्यात् पूर्वकोष्टम् तथा भवेत्।
बाह्यशालाद्वयम् नेत्रम् युक्तम् तु कर्करीयुतम् ॥ ७ ॥

एवम् जातिस्वरुपम् तु प्रोक्तम् भूमीन्द्रवैश्ययोह्।
तदेवाम्शावृतालिन्दम् छन्दम् शास्त्रे प्रकीर्तितम् ॥ ८ ॥

पृष्ठे नेत्रहीनम् स्यात् सम्युक्तम् पृष्ठशालया।
दण्डिकावार सम्युक्तम् भद्राङ्गम् प्रकीर्तितम् ॥ ९ ॥

तदेवावृतवारम् वा पृथुवारयुतम् तु वा।
विकल्पम् स्वस्तिकम् ज्ञेयम् आभासम् तत्र मिश्रितम् ॥ १० ॥

मुण्डप्रासाद शोभाङ्गम्म् हर्म्याङ्गम् मालिकाङ्गकम्।
अनेकभूमि सम्युक्तम् प्रासादवदलङ्कृतम् ॥ ११ ॥

आभासम् स्वस्तिकम् प्रोक्तम् नृपाणाम् वणिजामपि।
हीने द्व्यम्शाङ्कणम् मध्ये मार्गस्तु परितोम्शतह् ॥ १२ ॥

शालाव्यासो द्विभागेन षण्णेत्र समवम्शकम्।
तत्र मध्ये चतुश्शालाश् चोर्ध्वगानेक सम्युताह् ॥ १३ ॥

मनुसम्ख्यात नेत्रम् तु सर्वत्र परिकीर्तितम्।
स्थूपिकादि समायुक्तम् सभा भद्राननान्विता ॥ १४ ॥

अङ्कणम् मण्टपाकारम् ऊर्ध्वोर्ध्वोपरि कल्पयेत्।
दण्डिकावार सम्युक्तम् सव्स्तिकम् जाति रूपकम् ॥ १५ ॥

तदेवाम्शावृतालिन्दम् छन्दम् स्वस्तिकम् इष्यते।
अम्शेनावृतवारम् वा पृथुवारयुतम् तु वा ॥ १६ ॥

चूलिहर्म्ययुतम् वापि विकल्पम् स्वस्तिकम् मतम्।
जात्यादीनाम् तु सम्योगात् आभासम् इति कीर्तितम् ॥ १७ ॥

मुण्डप्रासाद हर्म्याङ्गम् मालिकाभासम् ईरितम्।
मध्यमे त्वङ्कणम् प्राग्वन् मार्गम् एकाम्शतो भवेत् ॥ १८ ॥

अन्तर्वारम् अथैकाम्शम् शालाव्यासो द्विभागतह्।
दण्डिकावार सम्युक्तम् षण्णेत्र समवम्शकम् ॥ १९ ॥

वम्शोपरिगतश्शालाश्चतस्रो अष्टनान्विताह्।
ऊर्धोर्ध्व मण्टपाकार हर्म्यस्थलम् अथाङ्कणम् ॥ २० ॥

चतुर्दिग् भद्र सम्युक्तम् सभाङ्गम् स्वस्तिकम् भवेत्।
तदेवाम्शाभितो द्वारम् छन्दम् इत्यभिधीयते ॥ २१ ॥

तद्द्व्यम्शम् पृथुवारम् यद् विकल्पम् इति कीर्तिअम्।
आभासम् तत्र मिश्रम् यन् मुण्डप्रासाद शोभितम् ॥ २२ ॥

हर्म्यागम् मालिकाङ्गम् च मध्यमम् चेति कीर्तितम्।
उत्कृष्टे त्वङ्कणम् द्व्यम्शम् मार्गस्तु परितोम्शतह् ॥ २३ ॥

अन्तर्वारम् अथैकेन शालाव्यासो द्विभागतह्।
अम्शेन परितो अलिन्दम् नीव्रवारह् शिरह् क्रिया ॥ २४ ॥

अर्कनेत्र समायुक्तम् चतुर्दिग् भद्र सम्युतम्।
जालकस्तम्भ कुड्याङ्ग नासिका तोरणान्वितम् ॥ २५ ॥

प्रस्तर क्षुद्र सोपानम् सोपानादि समन्वितम्।
पादोत्तरम् तुलाद्यङ्गम् भित्ति सम्श्लिष्ट विष्टरम् ॥ २६ ॥

प्रासादव्द् अलङ्कुर्याज् जातिरूपम् इदम् मतम्।
तदेव परितो मार्गम् वारभद्र सभा मुखम् ॥ २७ ॥

पार्श्व शाले तु सभाकारे पूर्वे पृष्ठे सकोष्ट्कम्।
एतच्छन्दम् इति प्रोक्तम् पृथुवारम् विकल्पकम् ॥ २८ ॥

महावारान्वितम् वापि मुण्डहर्म्यम् अथापि वा।
आभासम् तत्र मिश्रम् स्यान् मुण्ड प्रासाद शोभितम् ॥ २९ ॥

हर्म्याङ्गम् मालिकाङ्गम् वा स्वस्तिकम् चैतद् ईरितम्।
भूमीन्द्र वैश्ययोरेव भाषितम् स्यादिहागमे ॥ ३० ॥

Pūrvapāda – Kapitel 42: Weitere vierflügelige Anlagen

सर्वतोभद्रकाख्याच पूर्वोक्तायाम सम्युता।
निकृष्टा रुचका ज्ञेया देवपाषण्ड योग्यका ॥ १ ॥

सर्वतोभद्रकाख्या च प्रागत्र कथिताश्च या।
अन्तर्वारम् च मार्गम् च परित्यज्य बहिस्तु वा ॥ २ ॥

बाह्ये बाह्यान्तरम् योज्यम् यजमानेच्छया क्रमात्।
तथैव पृथुवारम् तु योजनीयम् विचक्षणैह् ॥ ३ ॥

दीर्घहीना तु या शाला दैवे पाषण्डके द्विजे।
दानादौ योजनीया सा पञ्चाम्शादि नवाम्शकम् ॥ ४ ॥

कृत्वा गेहम् द्विभागेन चैक भागेन कारयेत्।
शालाव्यासम् तु शेषेण वारमङ्कणम् इष्यते ॥ ५ ॥

चतुशालम् इदम् प्रोक्तम् सर्वसामान्यम् इष्यते।
भित्तिमध्यम् तु वा मानम् पादम् मध्यम् अथापि वा ॥ ६ ॥

ग्रामादि वास्तुमानम् तु त्यक्तभक्तिकम् इष्यते।
प्रासाद मालिकायान प्रभृतीनाम् तु मानकम् ॥ ७ ॥

पादम् मध्यम् तु वा बाह्य व्यासायाम प्रमाणकम्।
पिण्डहीनम् चतुश्शालम् सर्व वर्णेषु योग्यकम् ॥ ८ ॥

मुक्ताङ्कणम् च सामान्याङ्कणम् कोणाङ्कणम् च यत्।
गेहम् तु सर्व वर्णानाम् अनिष्टम् इति च स्मृतम् ॥ ९ ॥

Pūrvapāda – Kapitel 43: Fünfflügelige Anlagen

अथ वक्ष्य विशेषेण पञ्चशालादि लक्षणम्।
पञ्चशालाम् प्रव्क्ष्यामि यथावदनुपूर्वशह् ॥ १ ॥

रविभागम् गृहम् कृत्वा चतुश्शाला समन्ततह्।
द्विभागेन तथा मध्ये चाङ्कणद्वय सम्युतम् ॥ २ ॥

प्रस्तराग्रे तथा ग्रीव विभक्ति शिखराङ्गनि।
मध्यमे द्व्यम्शविस्तारष् षडम्शायाम सम्युतह् ॥ ३ ॥

सर्वतोभद्र शालादि नेत्रयुक्तम् समन्ततह्।
मूलशालादि सम्युक्ता पञ्चशाला दिवौकसाम् ॥ ४ ॥

षट्शाले मध्यमे द्व्यम्शम् अङ्कणम् परिकल्पयेत्।
तत्पार्श्वयोस्तु शाला द्वे द्विद्विभागे विशालके ॥ ५ ॥

जात्याद्यायाम सम्युक्ताम् षट्शालाम् परिकल्पयेत्।
सप्तशाला समश्रम् तु नवधा परिकल्पयेत् ॥ ६ ॥

एकेन मध्यशाला स्याद् अङ्कणम् पार्श्वयोस् समम्।
तत्पार्श्वयोस्तथा शाला पार्श्वयोर् अन्कणम् भवेत् ॥ ७ ॥

समन्तद् एकभागेन शालानाम् स्याच् चतुष्टयम्।
एवम् तु सप्तशालम् स्याद् देवद्विज महीभृताम् ॥ ८ ॥

जात्याद्यायाम सम्युक्तम् सप्तशालम् तथा भवेत्।
विस्तारे पञ्चभागास्स्युर् आयामे रुद्र सम्ख्यया ॥ ९ ॥

अङ्कणम् गृहविस्तारम् पूर्ववत् परिकल्पयेत्।
किन्त्वङ्कणम् तु भागेन वर्धितायाम सम्युतम् ॥ १० ॥

विस्तारे सप्तभागास्स्युर् आयामे द्वादशाम्शकह्।
द्विभागेन समन्ताच्च मध्ये शालाम् प्रकल्पयेत् ॥ ११ ॥

अङ्कणम् तु त्रिभागम् स्याद् विस्तारे चायतावपि।
विस्तारे त्वष्ट्भागास्स्युर् आयामे स्युश्चतुर्दश ॥ १२ ॥

समन्तान् मध्यमे चैव शालाव्यासो द्विभागतह्।
अङ्कणम् द्वितयम् कार्यम् पञ्चभिस्सप्तभिह् बुधैह् ॥ १३ ॥

षण्नेत्रम् अष्टनेत्रम् वा दशास्यम् वाथ कल्पयेत्।
सप्तशालम् इदम् प्रोक्तम् अष्ट्शालम् अथोच्यते ॥ १४ ॥

विस्तारे रुद्रभागास्स्युर् आयामे च तथैव च।
समन्ताद् एकभागेन चतुश्शालाम् प्रकल्पयेत् ॥ १५ ॥

एकभागाङ्कणम् कुर्यान् मध्ये शाला चतुष्ट्यम्।
अष्ट्नेत्रयुतम् वापि षोडशाम्श युतम् तु वा ॥ १६ ॥

विशिष्टप्र्स्तारार्धम्शाम् अष्ट्शालाम् प्रकल्पयेत्।
देवानाम् भूसुराणाम् स्याद् अष्ट्शाला द्विजोत्तमाह् ॥ १७ ॥

विस्तारे रुद्रभागास्स्युर् आयामे स्युस्त्रयोदश।
समन्ताद् एकभागेन चतुश्शाला प्रकल्पयेत् ॥ १८ ॥

मध्यमे पञ्च शालास्स्युर् एकभाग विनिर्मितह्।
अङ्कणानाम् चतुष्कम् तु मध्यभागद्वयेन तु ॥ १९ ॥

एकभागाकृतम् शेषम् द्व्यङ्कनम् परिकल्पयेत्।
भवन्ति विपुले सप्तदशदैर्घ्य द्वयाधिकम् ॥ २० ॥

एकभाग मिता दिक्षु चतुश्शाला प्रकीर्तिताह्।
शालानाम् पञकम् मध्ये चतुश्शालाह् प्रकीर्तिताह् ॥ २१ ॥

भागद्वयम् इदम् तासाम् षडङ्गणम् उदाहृतम्।
एकोनविम्शदम्शास्स्युर् विस्तारे दैर्घ्यके पुनह् ॥ २२ ॥

एकविम्शति भागास्स्युर् द्विभागेन समन्ततह्।
मध्यमे पञ्चशालास्स्युर् भागद्वय विनिर्मिताह् ॥ २३ ॥

एकभागेन मध्ये तु अङ्कणानाम् तु षट्ककम्।
नवशालम् इदम् प्रोक्तम् दशशालम् इहोच्यते ॥ २४ ॥

पञादि नवभागान्तम् विस्तारेम्शम् प्रकल्पयेत्।
आयामे द्विगुणम् कुर्यात् अथवायाम उच्यते ॥ २५ ॥

अष्ट्दिग्भागमन्वम्शम् विकाराम्शाह् क्रमेण तु।
अथवायाम क्लुप्तिस्तु पञ्चादीनाम् क्रमेण तु ॥ २६ ॥

आदित्यमन्वोरेकाम्शात् अष्टादाशाम्शाश्च विम्शतिह्।
य्थायुक्ति गृहाणाम् च अङ्कणम् तत्र कल्पयेत् ॥ २७ ॥

दशशालम् इदम् प्रोक्तम् सर्वेषामपि योग्यकम्।
विहारशाला कर्तव्या चैकशाला विशालका ॥ २८ ॥

एकविम्शद्गुण.नाम् तु शालाव्यासेन वर्धयेत्।
द्विगुणाद्याय सम्युक्तम् मानम् विम्शति सम्ख्यकम् ॥ २९ ॥

कूटकोष्टादि सम्युक्तम् पुरतो भद्र सम्युतम्।
पुरतह् पृष्ठतो वापि वारालिन्दयुतम् न वा ॥ ३० ॥

नेत्रद्वय समायुक्तम् अग्रनासा विभूषितम्।
एकद्वित्रितलोपेतम् कूटकोष्ट्युतम् न वा ॥ ३१ ॥

विहारशाला चैवोक्तम् सर्वालङ्कार सम्युतम्।
बौद्धार्हतादि पाषण्द योग्यमेतद् उदीरितम् ॥ ३२ ॥

सकलक्ष्तिपेन्द्राणाम् एकादशतलम् मतम्।
नवभूमिर् द्विजानाम् स्यान् नृपाणाम् सप्तभूर्मता ॥ ३३ ॥

षट्तलम् मण्डलीकस्य पञ्चकम् युवराजके।
वैश्यानाम् चतुर्भूमिर् योधसेनेशयोरपि ॥ ३४ ॥

एकस्मादत्रितलान्तम् तु शूद्राणाम् प्रविधीयते।
सामन्त प्रमुखानाम् तु पञ्चभूमिर् विधीयते ॥ ३५ ॥

युग्मम् वायुग्म सम्ख्यम् वा सर्वभूमीन्द्र मन्दिरम्।
राज्ञाम् स्त्रीणाम् च देविनाम् युग्मम् वायुग्म सम्ख्यकम् ॥ ३६ ॥

सदण्डिकम् लुपारोऽहम् द्विनेत्रम् प्रस्तरान्वितम्।
मृण्मयम् तु तृणाछाद्यम् एकद्वित्रितलान्वितम् ॥ ३७ ॥

स्थूपिवर्ण लुपासीनम् प्रशस्तम् सर्व जातिषु ॥ ३८ ॥

Pūrvapāda – Kapitel 44: Hastaśālā und verwandte Formen

अथ वक्ष्ये विशेषेण हस्तिशाला विधिक्रमम्। त्रिकरम् तु समरभ्य करार्धेन तु वर्धतेत् ॥ १ ॥

यावत्पञ्चकरम् भित्तिमानम् पञ्चविधम् भवेत्। हस्तिशाला विधाये तु भित्तिमानेन धीमता ॥ २ ॥

विस्तारे भक्तयष्षष्ट चायामे नवभक्तयह्। चतुर्भक्ति विशाला वा सप्तभित्त्या अथापि वा ॥ ३ ॥

त्रिपञ्चभक्तयो वास्स्युर् विस्तारे चायतापि वा । मुखशालैक भित्तिस्स्यत् सार्धा व त्रिगुणापि वा ॥ ४ ॥

विस्तारे चायते वापि निर्गमागम योग्यकाह्। दक्षिणे शयनस्थानम् चेष्ट भक्त्या विधीयते ॥ ५ ॥

राजदनो मधूकश्च कदिरह् खादिरह् पुनह्। तिन्त्रिणी चार्जुनह् प्रोक्ताह् स्तबकह् पिहितह् शमी ॥ ६ ॥

क्षीरिणीपद्मकाद्यास्ते सालास्तम्भा गजस्य च। नवष्टसप्त हस्तोच्चाह् काकमानम् विहाय च ॥ ७ ॥

विस्तारे स्यात् षडङ्गुल्यम् एकाङ्गुल विवर्धनात्। द्वादशाङ्गुल मानम् तदवगाहो यथा बलम् ॥ ८ ॥

सालास्तम्भो इमे प्रोक्ता विटपाङ्ग शिखान्विताह्। आलानस्य विशालास्याद् द्वादशाङ्गुल मानतह् ॥ ९ ॥

एकाङ्गुल विवृद्ध्या तु पञ्चविम्शाङ्गुलान्तकम्। छत्रभाग्रम् सुविस्तारम् अष्टाम्शम् पीन सम्युतम् ॥ १० ॥

पञ्चधा तु कृते शाला व्यासे पृष्ठे त्रिभागिकम्। नीत्वारेष्षोडशाम्शम् तु वामे अष्टाम्शम् व्यपोह्य तु ॥ ११ ॥

स्थापयेत् कूटमालानम् पूर्वोक्तोच्च समन्वितम्। अनुवातस्समन्तात्स्युस् तत्र भित्तिम् प्रकल्पयेत् ॥ १२ ॥

तदर्धम् पादहीअम् वाष्टाम्शेनम् अथापि वा। तदुर्ध्वे छादनम् कुर्यात् कूटाद्यैस्तु समन्ततह् ॥ १३ ॥

गोस्तनम् स्याद्वितस्त्या तु बहिरानन सम्युतम्। फलकाप्रस्तरम् कार्यम् दृधदारुभिरेव वा ॥ १४ ॥

शिलाभिश्चेष्टकाभिश्च प्रस्तरम् नैव योजयेत्। मूत्र्द्वार समोपेतम् स्थ्ऽऊलद्वारम् प्रकल्पयेत् ॥ १५ ॥

गजराशिम् समारभ्य चाष्टमम् द्वादशम् तथा। परिहृत्य विधेया स्याद् गजशाला विचक्षणैह् ॥ १६ ॥

एवम् तु गजशाला स्याद् अश्वशाल विधीयते। नगरे राजवेश्मादौ कुर्याद् देवालयादिषु ॥ १७ ॥

अश्वानामपि पूर्वोक्त भक्त्या शालाम् प्रकल्पयेत्। द्विहस्तम् तु समारभ्य विस्तारेणापि विवर्धयेत् ॥ १८ ॥

नवहस्त प्रमाणान्तम् भित्तिमानम् अथापि वा। एतद्विस्तारम् आख्यातम् त्वायामस्त्वधुनोच्यते ॥ १९ ॥

पादाधिकम् अथाध्यर्धम् पादेन द्विगुणम् तु वा। द्विगुणम् वाथ विस्तारात् अयामम् परिकल्पयेत् ॥ २० ॥

एकभक्त्या द्विभक्त्या वा त्रिभक्त्या वाथ वाजिनह्। स्थानम् प्रकल्पयेच् छ्रेण्या पृथु वा कर्तृ वाञ्चया ॥ २१ ॥

समन्तात्कुड्य युक्तम् वा यथेष्ट दिशि वारणम्। अत्रानुक्तम् तु सामान्य शालामानोक्तम् आचरेत् ॥ २२ ॥

पञ्चान्गुलम् समारभ्य वृद्ध्या चैकाङ्गुलेन तु। द्वादशाङ्गुल पर्यन्तम् स्तम्भमानम् इहोदितम् ॥ २३ ॥

आजानुद्वय विस्तीर्णम् फलका प्रस्तरान्वितम्। मूत्रद्वार समायुक्तम् सारदारुमयम् दृढम् ॥ २४ ॥

सारदारुमयम् कीलम् द्विसप्ताङ्गुल दैर्घ्यकम्। विस्तारम् त्र्यङ्गुलम् प्रोक्तम् सूचिकाग्र समन्वितम् ॥ २५ ॥

पश्चाद्वन्धे अग्रवन्धे योजतेद् दृढघातवत्। अष्टमम् द्वादशम् राशिम् परिहृत्यानुकूल्यतह् ॥ २६ ॥

अश्वानामधिपस्यापि स्थानम् सम्यक् समाचरेत्। उष्ट्रादीनाम् अनेनैव प्रमाणेन समाचरेत् ॥ २७ ॥

अश्वशाला समाख्याता गोशाला प्रविधीयते। अश्वशालोक्त भक्यातु गोशाला परिकल्प्पयेत् ॥ २८ ॥

एकशाला द्विशालावा त्रिशाला वाथ कल्पयेत्। चतुश्शाला समावापि आयामेन युतापि वा ॥ २९ ॥

ब्रह्माङ्कणम् वृषोपेतम् वियुक्तम् वा प्रकल्पयेत्। गोराशेरविरोधेन स्थानम् तासाम् प्रकल्पयेत् ॥ ३० ॥

गवाम् रक्षा प्रकर्तव्या धान्येन तृण्राशिभिह्। पललैरोदनाद्यैश्च निर्मालयैर्वापि पोषयेत् ॥ ३१ ॥

निर्माल्य बक्षणम् तासाम् न दोषाय प्रकल्पितम्। आयादिसम्पत् सम्युक्तम् गजादि स्थानम् ईरितम् ॥ ३२ ॥

Pūrvapāda – Kapitel 45: Umlaufende Hallen

अथ वक्ष्य विशेषेण मालिका लक्षणम् द्विजाह्।
चतुर्धा मालिका शाला सभा मुण्ड्क सौघजे ॥ १ ॥

शालायामपि शालाङ्गा निष्क्रान्तानन शोभिता।
सा शाला मालिका ज्ञेया शास्त्रेस्मिन् कामिकाह्वये ॥ २ ॥

सभावद्विहिता बाह्ये प्रासादव्दलङ्कृताह्।
ऊहप्रत्यूह सम्युक्ता सभा सा च मालिका ॥ ३ ॥

यथेष्टदिशि सम्युक्ता भोगभु.मि समन्विता।
प्रासाद व्यास दीर्घोच्चा प्रोक्ता प्रासाद मालिका ॥ ४ ॥

मण्डप प्रोक्त विस्तारायामतुङ्ग विभूषिणी।
सर्वत्र मुण्डाकारत्वात् कथिता मुण्डमालिका ॥ ५ ॥

प्रत्येकम् त्रिविधम् प्रोक्तम् सञ्चितम् चाप्यचञ्चितम्।
उप्सञ्चितमित्येवम् नागरम् द्रामिडम् तथा ॥ ६ ॥

वेसरम् च तथा जातिच्छन्दो वैकल्पमेव च।
शुद्धम् मिश्रम् च सङ्कीर्णम् बीजमूलम् तथाङ्कुरम् ॥ ७ ॥

अलिन्द सहितम् वापि षड्वर्गसहितम् च यत्।
अर्पितम् सम्चितम् प्रोक्तम् पुम्लिङ्गम् तद्धनीकृतम् ॥ ८ ॥

देवानाम् असुराणाम् च सिद्धविद्याधरेष्वपि।
रक्षोगन्धर्व यक्षाणाम् प्रशस्तानाम् च जन्मिनाम् ॥ ९ ॥

सर्वत्र भोगभूम्यङ्गम् अलिन्द परिशोभितम्।
सर्व वर्ग समायुक्तम् मनह् प्रीति समन्वितम् ॥ १० ॥

चतुर्णाम् अनुलोमानाम् योग्यम् स्त्रीलिङ्गम् इष्यते।
पञ्चवर्गयुतम् मिश्रम् अर्पितानर्पैताङ्गकम् ॥ ११ ॥

पाषण्डानाम् इदम् शस्तम् नपुम्शक समन्वितम्।
स्वविस्तारवशाच्छन्न हस्तपूर्णायतान्वितम् ॥ १२ ॥

युग्मायुग्म विभागेन नागरम् स्यात्समीकृतम्।
अन्तरप्रस्तरोपेतम् ऊहप्रत्यूह समन्वितम्॥
नीव्रसन्धारसम्स्तम्भ व्रतैह् परिदृढैश्शुभैह् ॥ १३ ॥

द्रामिडम् वक्ष्यते अथातस्तथा विस्तारदैर्घ्यकम् ॥ १४ ॥

रक्तच्छन्न प्रतिक्षेपायुग्मायुग्म विशेषतह्।
हित्वा तत्र समीभूतम् भद्रालन्कार सम्युतम् ॥ १५ ॥

अनेकवार सम्युक्तम् षड्वर्गम् द्रामिडम् स्मृतम्।
लब्दव्यासायतम् यत्तु नातिरिक्तम् नहीनकम् ॥ १६ ॥

बहुवर्गयुतम् वापि दण्डिकावार शोभितम्।
महीवारम् विमानोर्ध्वे निर्व्यूहानन सम्युतम् ॥ १७ ॥

स्वक्षेत्रोपेत मध्याङ्घ्रियुक्तम् तद्वेसरम् मतम्।
यतिनाम् गण्कानाम् च जीविनाम् क्रूर कर्मिणाम् ॥ १८ ॥

प्रशस्तम् वेसरम् तेषाम् अन्येषाम् इतरे शुभे।
कर्णमध्ये अन्तरे कूट कोष्टे पञ्जर सम्युतम् ॥ १९ ॥

षड्वर्ग समायुक्तम् जातिर्येषाम् ह्यनर्पितम्।
कर्णे शाला सभामध्ये छन्दम् स्यच्छन्द्मेव तु ॥ २० ॥

त्यक्त मध्याम्शके कोष्टे यस्य स्यात् तद्विकल्पकम्।
द्रुमेणाष्टकया वापि दृषदाद्यैरथापि वा ॥ २१ ॥

एतेन सहितम् गेहम् शुद्धमित्यभिधीयते।
द्रव्यम् द्वययुतम् मिश्रम् सङ्कीर्णम् बहुभिर्युतम् ॥ २२ ॥

देवानाम् एव सङ्कीर्णम् अन्येषाम् अन्यदिष्यते।
विस्तारे चतुरम्शम् स्याद् आयामे तु षडम्शकाह् ॥ २३ ॥

परितो वारम् एकाम्शम् शालाव्यासो द्विभागतह्।
आयामम् चतुरश्रम् स्याच् छालानाम् च विशेषतह् ॥ २४ ॥

मध्यागार विनिष्क्रान्त निर्गमेन समन्विता।
निर्गमस्तु द्विभागेन विस्तारो द्व्यम्श मानतह् ॥ २५ ॥

कोष्टानन समायुक्तम् तदग्रे मण्डपम् नयेत्।
विस्तारे निर्गमे चैव विभागो मण्डपस्य तु ॥ २६ ॥

बहिर्वार समायुक्तम् व्यासह् पार्श्व द्वयोरपि।
प्र्ष्टे च मण्डपस्यापि पार्श्वयोरग्र देशके ॥ २७ ॥

एकभागम् विनिष्क्रान्तम् द्व्यम्श विस्तार सम्युतम्।
सम्श्लिष्ट वार सम्युक्तम् षट्सु चार्ध सभामुखम् ॥ २८ ॥

शालाशिखर सम्युक्तम् नाम्नासिन्धुकम् इष्यते।
एतदेव सभाकारशिखरम् मन्त्र पूर्वकम् ॥ २९ ॥

सम्त्यक्त शिखरग्रीव चूलीहर्म्य समायुतम्।
सम्पूर्णम् इति विख्यातम् अन्यत् सर्वम् तु पूर्ववत् ॥ ३० ॥

पूर्वोक्त सिन्धुकम् वारवृक्षस्थल समन्वितम्।
मुखवत् पृष्ट शोभाढ्यम् सर्वालङ्कार सम्युतम् ॥ ३१ ॥

मेरुकूटम् इदम् नाम्न चान्यत् पूर्वोक्तवद् भवेत्।
एतदेव सभाकार शिखरम् क्षेमम् उच्यते ॥ ३२ ॥

क्षेमम् एव पूर्वोक्तम् पूर्व भद्र विहीनकम्।
अग्रभक्ति स्मायुक्तम् शालापृष्टे च पार्श्वयोह् ॥ ३३ ॥

भद्रपार्श्वयोरग्रे षड्भागान् परिवर्जयेत्।
तत्रैव शाला पृष्टे च नेत्रयोरुभयोरपि ॥ ३४ ॥

शालाननम् प्रकर्तव्यम् एकद्व्यम्श विनिर्मितम्।
तत्तदग्रे प्रकर्तव्यम् वारे भद्रस्य पश्चिमे ॥ ३५ ॥

द्विभागम् चतुरश्रस्य भद्रस्यैव पार्श्वयोह्।
अग्रे च वास्थलम् कुर्याद् द्वित्रयम्शयाम विस्तरम् ॥ ३६ ॥

पार्श्वयोस्स्थल पूर्वे च द्वार मण्डप पार्श्वयोह्।
कर्ण्कूट्द्वयम् कुर्याच्च्चतुर्भाग विनिर्मितम् ॥ ३७ ॥

अग्रे च पार्श्वयोश्चैव कुर्यादेकाम्श वारकम्।
चतुर्मध्ये चतुष्कोङे सभाकारम् प्रकल्पयेत् ॥ ३८ ॥

शिवमेतत् समाख्यातम् अन्यत्सर्वम् तु पूर्ववत्।
एतदेव च कर्णे तु कर्करिकृत कूटकम् ॥ ३९ ॥

मध्ये शाला सुदृष्टाख्या अन्यत्सर्वम् तु पूर्ववत्।
एतत् एव सभाकारशिखरम् हर्म्यम् इष्यते ॥ ४० ॥

अन्ते तु प्रस्तरोपेतम् एतत्सौम्यम् तु कथ्यते।
सर्वमङ्गम् सभाकारम् कर्णकूट विवर्जितम् ॥ ४१ ॥

सभाव्यावृत वाराङ्गम् विशालम् इति कथ्यते।
विशाले षट् तु भागम् स्यादायामे दश भागकम् ॥ ४२ ॥

षड्द्व्यम्शायाम विस्तारा मध्य शाला विधीयते।
तद्बहिर् वारम् एकाम्शम् तद्बाह्ये तु वृषस्थलम् ॥ ४३ ॥

तद्बहिश्च चतुर्दिक्षु द्व्यम्शाम्शम् वारनिष्क्रमह्।
चतस्रस्तु सभाकार्याह् कोणकूट चतुष्टयम् ॥ ४४ ॥

लाङ्गलाकार सम्युक्तम् वार्स्थलस्य बहिर्गतम्।
नेत्रयोरुभयोश्चैव वार्स्थलाम्शे सभे मते ॥ ४५ ॥

द्व्यम्शम् वास समायुक्तम् वारस्यैव बहिस्थितह्।
चतुष्षडम्श विस्तार दैर्घ्यभद्रम् मुखे मुखे ॥ ४६ ॥

तन्मध्ये चतुरम्शेन सभाम् कुर्यात् समन्ततह्।
वार्स्थलम् पञ्च भागेन पार्श्वयोरुभयोरपि ॥ ४७ ॥

चतुष्कोणे चतुष्कूटम् एकभाग विनिर्मितम्।
शालामध्ये च कर्तव्या द्विभागेनैक भागतह् ॥ ४८ ॥

अन्तरे वार्स्थलम् कुर्याद् विजयम् नामतो भवेत्।
एतदेव च पृष्ठे तु भद्रयुक्तम् भवेद्यदि ॥ ४९ ॥

सर्वकल्याणम् इत्युक्तम् अन्यत्सर्वम् तु पूर्ववत्।
पूर्वोक्तम् एव विजयम् भद्रयोरग्र पृष्ठयोह् ॥ ५० ॥

परित्यक्त सभकारम् मण्डपाकार सम्युतम्।
सभाकार शिरोयुक्तम् प्रधानागारम् ईरितम् ॥ ५१ ॥

भद्र नाम्ना सम्ऽख्यातम् अन्यत् पूर्वोक्तवद् भवेत्।
एतदेव मुखम् भद्रम् सभाकार शिरोयुतम् ॥ ५२ ॥

एतद्रङ्गमुखम् प्रोक्तम् अन्यत्सर्वम् तु पूर्ववत्।
पूर्वोक्तम् एव विजयम् भद्रयोरग्र कूट्योह् ॥ ५३ ॥

एतदेव तु शालास्यान् मध्ये भद्रन् बह्वेद्यदि।
नाम्ना चाल्पम् इति प्रोक्तम् अन्यत्पूर्वोक्तवन् नयेत् ॥ ५४ ॥

आयामे दशभागास्स्युर् विस्तारे रस भागकाह्।
वासो मध्ये तु षड्द्व्यम्शे व;रम् बाह्य्र् तु कारयेत् ॥ ५५ ॥

तद्बाह्ये वार्स्थलम् चैक भागेनैव प्रकल्पयेत्।
वार्स्थले तु चतुष्कर्णे कूटम् एकेन कारयेत् ॥ ५६ ॥

तत्रैव न्मध्य भागे तु चैकद्व्यम्शेन मण्डपम्।
वासाद्व्यम्श विनिष्क्रान्त शालामुख समन्वितम् ॥ ५७ ॥

हर्म्यस्थलस्य बाह्ये तु द्व्यम्शैकाम्श सभामुखम्।
पृष्ठे तु तद्वदिष्टम् स्यान् नाम्न्र्दम् कोण सम्ज्ञकम् ॥ ५८ ॥

एतदेव सभाकारशिरो नाहम् इति स्मृतम्।
अग्रतह् पृष्ठतह् शालामुखागतम् इति स्मृतम् ॥ ५९ ॥

नेत्रयोह् पृष्ठकास्यम् चेद् गेयम् नाम्ना समीरितम्।
शालामुखम् तु कर्णे स्यात् शरम् नाम्ना प्रकीर्तितम् ॥ ६० ॥

तदग्रे चैव पृष्ठे च द्विचतुर्भाग सम्युतम्।
पारावृतस्य शालास्यम् पुष्करम् त्विति कथ्यते ॥ ६१ ॥

उभयम् च दशास्यम् चेद् अद्भुतम् चेति कीर्तितम्।
मध्ये शालाननोपेतम् बाहुकोष्टाननान्वितम् ॥ ६२ ॥

अन्यत्र सम्ज्ञय चैतत् सन्कीर्णम् परिपठ्यते।
भद्रद्वयम् च सम्त्यक्तम् शिखरम् मण्डपम् तु चेत् ॥ ६३ ॥

नाम्ना पुष्करम् इत्युक्तम् अन्यत्पूर्वोक्त वर्त्मन।
एतदेव च सर्वत्र सभागम् दण्डम् उच्यते ॥ ६४ ॥

Pūrvapāda – Kapitel 46: Die Lāṅgala-Mālikā

मालिकाम् लाङ्गलाख्यम् तु प्रवक्ष्यामि विशेषतह्।
विस्तारे अष्टाम्शकम् कुर्याद् आयामे द्वासशाम्शकह् ॥ १ ॥

परितो वारम् एकाम्शम् शालाव्यासो द्विभागतह्।
शेषम् हर्म्यस्थलम् कुर्यान् मध्ये वारण सम्युतम् ॥ २ ॥

चतुर्द्व्यम्शेन विस्तारम् युक्तम् एतदिहोदितम्।
कर्णे स्याल् लाङ्गलाकार कूतानिर्गम सम्युतम् ॥ ३ ॥

नेत्रद्वय समायुक्तम् गोमेचम् इति कथ्यते।
तदेव वेदनेत्रम् चेद् विश्वम् इत्यभिधीयते ॥ ४ ॥

हर्म्यद्वयस्य मध्ये तु कर्णकूट द्वयान्वितम्।
आदेयम् इति विख्यातम् लाङ्गलम् त्रिविधम् भवेत् ॥ ५ ॥

Pūrvapāda – Kapitel 47: Die Maulikā-Mālikā

अथ वक्ष्ये विशेषेण मालिका मौलिकाह्वयम्।
विस्तारे दशभागास्स्युह् आयामे द्वादशाम्शकम् ॥ १ ॥

समन्ताद्वारम् एकाम्शम् शालाव्यासो द्विभागतह्।
वेदनेत्र समायुक्तम् अन्यत् स्यात् सलिलस्थलम् ॥ २ ॥

कर्णकूट द्विभागेन मण्डपम् मध्यमम् भवेत्।
कूटम् च मण्डपा चैव निष्क्रमेण समन्वितम् ॥ ३ ॥

युग्मनाभम् इति प्रोक्तम् मध्य मण्डप मध्यमे।
चतुरश्र समायुक्तम् ध्नम् इत्यभिधीयते ॥ ४ ॥

तदेव कूटकम् चेत्तु सुखम् इत्यभिधीयते।
बहिश्शालाननोपेतम् यदिस्याद् रौद्रम् उच्यते ॥ ५ ॥

षड्भिर्नेत्रैस् समायुक्तम् षण्णेत्रम् इति कथ्यते।
एवम् पञ्च विधम् प्रोक्तम् त्रिशाला मौलिकम् तु तत् ॥ ६ ॥

Pūrvapāda – Kapitel 48: Die Padma-Mālikā

अथ वक्ष्ये विशेषेण मालिकाम् पद्मकाह्वयम्। अष्टाम्श व्यास सम्युक्तम् दशाम्शयाम सम्युतम् ॥ १ ॥

समन्तात् परितोम्शेन वारम् तु परिकल्पयेत्। अन्तश्शाला द्विभागेन मध्याङ्कण समन्विता ॥ २ ॥

द्विभाग विस्तृतम् वेदभागायाम समन्वितम्। शालाकारम् सभाकारम् मन्,टपम् वाङ्कणम् भवेत् ॥ ३ ॥

एकभाग विनिष्क्रामम् भागद्वय विशालतह्। पार्श्वयोर् भद्र सम्युक्तम् अङ्कणस्योरुह्त रूपवत् ॥ ४ ॥

मुख्यावार समाश्लिष्टम् कुर्याच्चङ्क्रमणत्रयम्। नेत्राणि चार्ध कूटानि कर्णाश्लिष्टानि चाष्ट च ॥ ५ ॥

शालाभ शिकरम् मुख्यधाम कुर्यात्तदुउधृतम्। मण्टपाग्रजशाला स्यार् पक्षशाला तु वार्स्थले ॥ ६ ॥

बाह्यवारे चतुष्कोणे सभास्स्याद् द्व्यम्श निर्गमा। मध्ये शाला सभा वा स्यान्मध्ये वारणम् इष्यते ॥ ७ ॥

कूटशालान्तरे कुर्याद्धस्ति पृष्ठाभ नासिका। शालाग्र पृष्ठ पार्श्वेषु द्विभागेनैक भागतह् ॥ ८ ॥

शालास्स्युर्वा सभा वास्युरन्तरान्तर देशके। हारालङ्कालङ्कृतम् कुर्याच्छ्रीवर्धनम् ईरितम् ॥ ९ ॥

एतत्सौभद्रम् इत्युक्तम् त्यक्तमस्तकम् एव च। शिखरम् तु सभाकारम् मुखे शालास्यम् एव च ॥ १० ॥

पूर्वोक्तम् अन्यत्सर्वम् स्यात् श्रीभद्रम् नामतो भवेत्। विस्तारे दश भागास्स्युरायामे द्वादशाम्शकह् ॥ ११ ॥

ब्रह्माङ्कणम् द्विभागम् स्याद्विस्तारे द्विगुणायतम्। अन्तर्वारम् बहिर्वारम् शालायास्त्वेक भागतह् ॥ १२ ॥

शालाव्यासो द्विभागेन पार्श्वयोरुभयोरपि। चतस्रो अर्ध सभायास्तास् सक्तावार विशेषतह् ॥ १३ ॥

पूर्वे च पश्चिमे भागे द्व्यम्शाम्शम् व्यास निर्गमे। शालास्ये वा सभास्ये वा भद्रे वारान्तरे स्थिरे ॥ १४ ॥

पार्श्वयोरुभयोर् द्व्यम्श व्यासे वेदाम्श दैर्घ्यके। मध्यम् वारण्के कल्प्यम् सवारे वास्य बाह्यतह् ॥ १५ ॥

मुखशाला विशालास्यान् मुख वासात्तु मन्,टपह्। शेषम् हर्यस्थलम् कार्यम् अङ्कणम् तु विशेषतह् ॥ १६ ॥

भद्रसुन्दरम् एतत्स्यात् कल्पयेत् कल्प वित्तमह्। एतदेव सभाकारम् शिरश्चेन् मुख्यवासकम् ॥ १७ ॥

मेरुकातम् इति प्रोक्तम् सर्वालङ्कार शोभितम्। विस्तारे द्वादशाम्शस्स्याद् आयामे नवभागकम् ॥ १८ ॥

वेदभाग सभायाम भागद्व्य सुविस्तरम्। अङ्कणम् बाह्यतो वारम् एकशाला द्विभागतह् ॥ १९ ॥

अङ्कणम् मण्टपम् मुख्यवारम् तत्तद् भवेद् इह। अग्रशाला च तद्वत्स्याच् छेषम् सर्वम् तु वार्स्थलम् ॥ २० ॥

स्वायामार्ध प्रमाणेन चोद्धृतम् मुख्य वासकम्। हराङ्ग शोभितम् तच्च मण्टपम् प्रविधीयते ॥ २१ ॥

वासबाह्येम्शतो वारम् तत्राष्टौ स्युस्सभामुखे। कर्करिबन्ध युक्तास्तु वासाश्लिष्टस्त्विमे मताह् ॥ २२ ॥

प्रधाने चाग्रशालायाम् अन्तह् पार्श्वद्वयोरपि। बहुशालानुसारेण सभा शालानने मते ॥ २३ ॥

तद्बाह्ये चावृतम् वारम् एकभागेन कल्पयेत्। तद्बाह्ये च चतुर्दिक्षु पञ्चभाग विनिर्गमात् ॥ २४ ॥

दशभाग विशालेन कुर्याद् भद्र चतुष्टयम्। तत्रैव च चतुर्दिक्षु वेदभाग विशालतह् ॥ २५ ॥

भागद्वय विदिङ्मार्गम् मध्यवारणम् इष्यते। तत्पार्श्वयोर् द्वयोश्चैवान्तर;ल; द्व्यम्श विस्तराह् ॥ २६ ॥

एकभाग विनिष्क्रान्ताश्चाष्टौ स्युस्ते सभमुखाह्। मध्यवारण बाह्ये तु पार्श्वयोर् द्व्यम्श विस्तरे ॥ २७ ॥

चतुरम्शययुक्ते चैकान्तराल समन्विते। द्वे शाले च प्रकर्तव्ये दक्षिणे चोत्तरे अपि च ॥ २८ ॥

तत्पार्श्वयोर् द्व्यम्शम् त्रयम्शे च विपुलास्तथा। विपरीताय सम्युक्ताश्चैक भागान्तरालकाह् ॥ २९ ॥

सालाश्चतस्रह् कर्तव्याह् पार्श्वयोरुभयोरपि। पुरतह् पृष्ठतो वापि मध्यवारण पूर्वकम् ॥ ३० ॥

चतुरम्शेन कूटम् स्याद् एकभागान्तरालकम्। अथवा चतुरम्शेन शाला पूर्वदीरिता ॥ ३१ ॥

तत्पार्श्वयोर् द्वयोश्चैव कर्णकूट्द्वयम् भवेत्। भागद्वयन्तरालम् तु दक्षिण्त्तर कूटयोह् ॥ ३२ ॥

कूटार्ध सभयोरेवम् पश्चिमे अप्येवमेव च। अन्यत्सर्वम् समानोक्तम् नाम्ना चैतत् सुमङ्गलम् ॥ ३३ ॥

पञ्चाषट्सप्त भौमान्तम् भूपालानाम् प्रकीर्तितम्। तदैव चाङ्कणम् मुख्यम् वासशालाख्यम् ईरितम् ॥ ३४ ॥

कर्णकूट द्वयम् चाग्रशालाम्शे वेदभागतह्। अहन्यनेतदुद्दिष्टम् अन्यत्सर्वम् तु पूर्ववत् ॥ ३५ ॥

सभाग्रम् अङ्कणम् मुख्यागारम् चेत्कान्तिवर्धनम्। विस्तारायामतोर्काम्साम् मन्वम्शेन समायुतम् ॥ ३६ ॥

अङ्कणम् स्यच्चतुर्भागम् विस्तारे चायतेपि च। शालाव्यासो द्विभागेन सर्वत्र परिकीर्तितह् ॥ ३७ ॥

मुख्यधाम्न समन्तात्तु वारम् एकाम्शतो भवेत्। मुख्यधाम्नो मुखे पृष्ठे शालास्य;न्नासिकाद्वयम् ॥ ३८ ॥

शालाख्य मुख्यधाम स्यात् कभित्त्य च समन्वितम्। अग्रशालाम्शके कोणे कूटेद्व्यम्शेन निर्मिते ॥ ३९ ॥

शेषम् हर्म्यस्थलम् चान्तश्शिष्टम् कुड्य समन्वितम्। बहिरावृत वारम् स्यात् पताका कुड्य सम्युतम् ॥ ४० ॥

बहिर्वारे द्विभागैक भागविस्तार निर्गमे। शालासभामुखे पूर्वे पूर्वकार्याग्र शालके ॥ ४१ ॥

तद्बहिह् करयेद्वर्षस्थलम् भागद्वयेन तु। खण्डहर्म्य समायुक्तम् समन्तात्परिकल्पय्र्त् ॥ ४२ ॥

स्वव्यासार्धम् तदर्धम् वा कर्णकूटस्य निर्गमह्। शालायाम विशालेन पञ्चभाग विनिष्क्रमात् ॥ ४३ ॥

बाह्ये तु खण्ढर्मुअम् स्याच् चतुर्भद्रम् प्रयोजयेत्। दक्षिणे चोत्तरे वापि भद्रयोश्च द्वयोरपि ॥ ४४ ॥

खण्डहर्म्यस्य पर्श्वे तु वार्स्थलम् चैकभागतह्। तदग्रे मण्टपे मध्ये वेदभागेन निर्मितम् ॥ ४५ ॥

तत्कर्णयोर् द्वयोश्चैव कर्ण्कूट् द्वयम् भवेत्। पार्श्वयोर् मण्टपम् वेद भागेनैव वार्स्थलम् ॥ ४६ ॥

पार्श्वयोर्द्व्येकभागेन तवदेव च वार्स्थलम्। तत्पार्श्वयोर्द्वयोर् वेद द्व्यम्शेनैव निर्मिते ॥ ४७ ॥

प्रतिलोमायते शाले कार्ये मध्ये तु वार्स्थलम्। उभयोह् पार्श्वयोर् वारे कार्या सार्ध सभामुखा ॥ ४८ ॥

भागद्वय विशालास्तु चैकभाग विनिर्गमाह्। पृष्ठतह् पुरतो भद्रद्वये त्वेवम् समाचरेत् ॥ ४९ ॥

खण्डहर्म्यस्य बाह्ये तु वार्स्थले चैक भागतह्। तदग्रे मण्ट्पम् वेदभागेनैव तु निर्मितम् ॥ ५० ॥

तत्कर्ण कूटयोश्चैव कर्णकूटद्वयम् भवेत्। पार्श्वयोर् मण्टपस्यैव वेदभागेन वार्स्थलम् ॥ ५१ ॥

तदग्रे वार्स्थलम् चैक भागेनैव ति निर्मितम्। तदग्रे वारमेकाम्शम् कुड्यम् चापि प्रयोजयेत् ॥ ५२ ॥

तदग्रे द्व्यम्श विस्ताराच् चैकभाग विनिष्क्रमात्। मुखशाला प्रकर्तव्या विशेषेण् विमानवत् ॥ ५३ ॥

पूर्व पश्चिम भद्रम् तु सवारम् वाक्षिपक्ष्मवत्। एतत्तदर्धमानम् स्याद् भूपालानाम् प्रशम्सितम् ॥ ५४ ॥

तदेव च शिरिहीनम् शुकपञ्जर सम्युतम्। मनोरम्यम् इति ख्यातम् द्विजादीनाम् प्रशम्सितम् ॥ ५५ ॥

तदेव मुख्यधामैवम् सभाशिखर सम्युतम्। अङ्कणम् तु सभारम् स्यात् श्रीकरम् चैतदीरितम् ॥ ५६ ॥

विस्तारे द्वादशाम्शास्स्युरायामे मनुभागतह्। अङ्कणम् वेदभागम् स्याच् छालाव्यासो द्विभागतह् ॥ ५७ ॥

मुखागारे अग्रशालायाम् स्याच्चङ्क्रमणम् एकतह्। अङ्कणम् तु सभारम् स्यान् मुख्यागारम् तु कोष्ट्कम् ॥ ५८ ॥

तत्सम्श्लिष्ट द्विभागैक भागविस्तार निर्गमम्। शालावक्त्र समायुक्तम् तद्भद्रम् च क्रमोज्झितम् ॥ ५९ ॥

तस्य पश्चिम भागे तु तद्वदेव विधीयताम्। वार्स्थले बाहुशाले द्वे मुख्यगारस्य पार्श्वयोह् ॥ ६० ॥

मण्टप द्वितयम् कुर्यद् वासकम् वापि मण्टपम्। परोतिद् वारम् एकाम्शम् सभारम् स्याज् जलस्थलम् ॥ ६१ ॥

पार्श्वयोर् मुखशालायाह् कुर्यद् अर्ध सभामुखे। पार्श्वयोरुभयोश्चैव शाले कार्ये विचक्षणैह् ॥ ६२ ॥

बहिर्भाग द्वयेनेष्टम् वार्स्थलम् खण्डहर्ययुक्। कर्णकूट् चतुष्कम् तु तत्र कोणेषु कारयेत् ॥ ६३ ॥

सद्वारम् स्याच् चतुर्दिक्षु विभागेन निर्मितम्। चतुर्भाग समायामम् सवारम् मुख पार्श्वके ॥ ६४ ॥

शाला चतुष्ट्यम् कुर्याद् उत्तरे कूट कोष्टयोह्। नीडाष्टकम् प्रकर्तव्यम् दिशामुखम् इदम् मतम् ॥ ६५ ॥

एतदेव शिरोहीनम् मुखागारम् सभारकम्। अङ्कणम् मण्टपाकारम् नाम्ना विपुलम् उच्यते ॥ ६६ ॥

मुख्यागारम् सभागारम् शालास्याच्चाङ्कणक्रिया। मण्टपम् चाग्रशालास्थद्वयम् हित्वा तु कूट्कम् ॥ ६७ ॥

द्वयम् तत्र प्रकर्तव्यम् सूर्यकान्तम् इदम् मतम्। विस्तारे दशभागास्स्यु रायामे द्वादशाम्शकम् ॥ ६८ ॥

द्व्यम्शेनायत दीर्घे तु विभागो विस्तरह् पुनह्। अङ्कणस्य पुरह् पृष्ठ वारम् एकाम्शतो भवेत् ॥ ६९ ॥

शालाव्यासो द्विभागेन सर्वत्र परिकीर्तितह्। बहिर्वर्षस्थलम् चैक भागम् भागेन वारकम् ॥ ७० ॥

व्यासायाम विशालेन तदर्धेन च निर्गमम्। बहिर्वर्स्:अस्थलद् भद्रद्वयम् भद्रान्वितम् भवेत् ॥ ७१ ॥

प्रतिलोमायते शाले द्विचतुर् व्यास दईर्घ्यके। तयोर्मध्ये अनुलोमेन शालायामम् इहेष्यते ॥ ७२ ॥

बहिष्ठ द्व्येक भागेन पार्श्वाभ्याम् निर्गमम् भवेत्। एकभागान्तरालेन सर्वाश्शालाह् निवेशिताह् ॥ ७३ ॥

पूर्वस्मिन् पृष्ठ देशे तु विभागेनैव निर्गमम्। मध्ये वाराणम् इष्टम् स्याद् उच्छ्रितम् स्वमिवासकम् ॥ ७४ ॥

अग्रहारम् तु तद्वत् स्यात् तत्तत्सम्श्लिष्टे तु बाह्यके। जालकैस्तोरणैश्चैव नासिकाद्यैरलङ्कृतम् ॥ ७५ ॥

श्रीकान्तम् एतद् आख्यातम् योग्यम् ऐश्वर्यभोगिनाम्। तदेव मुख्यागारस्य शिखरम् तु सभाकृति ॥ ७६ ॥

वारणैश्चावृतम् ब्रह्माङ्कणस्थानम् सभाकृति। पूर्व शालाग्र मूलस्थम् कर्ण्कूट द्वयम् भवेत् ॥ ७७ ॥

शेषम् तु वार्स्थलोपेतम् रुद्रकान्तम् इदम् मतम्। मुख्यागारम् तु गोष्ठाभम् कोष्टाग्रम् त्वङ्कणम् भवेत् ॥ ७८ ॥

अग्रशालाङ्गके पार्श्वे कर्तव्ये कोष्टकानने। तत्रैव पूर्वभागे तु कोष्ट्कस्य द्विभागतह् ॥ ७९ ॥

विस्तारान्निर्गमाद् एकभागम् षण्मुखम् ईरितम्। षण्णेत्रम् स्यादिति ब्रह्माङ्कनम् कोष्टानने अपि च ॥ ८० ॥

सम्त्यक्त शिखरम् सर्व मण्टपाकारम् इष्यते। जयन्तम् नामतह् प्रोक्तम् सर्वालङ्कार सम्युतम् ॥ ८१ ॥

विस्तारे मनुभागास्स्युरायामे षोडशाम्शकाह्। अङ्कणम् तु चतुर्भागम् शालाद्व्यम्शेन बाह्यतह् ॥ ८२ ॥

तद्बहिर्वारम् एकाम्शम् खण्डहर्म्यम् तु बाह्यतह्। खण्डहर्म्याङ्गके बाह्ये वेदभागेन निर्मितम् ॥ ८३ ॥

चतुष्कूटम् चतुष्कोणे चतुर्नासि समन्वितम्। तयोर्मध्ये चतुर्द्व्यम्शे चतुश्शालाह् प्रकीर्तिताह् ॥ ८४ ॥

कर्करी शिखरोपेता अग्रवारान्विता नव। हारबन्धम् यथास्थानम् कामाङ्कणम् उदीरितम् ॥ ८५ ॥

एतदेवाङ्कणम् भागत्रयेन्,अयाम सम्युतम्। तेन वारम् प्रकर्तव्यम् मुख्यागारस्य चाग्रतह् ॥ ८६ ॥

उत्तुङ्ग शिखर ग्रीवम् मुख्यागारम् प्रकीर्तितम्। शालास्यम् अङ्कणम् च स्यात् कर्करीकृत वक्त्रकम् ॥ ८७ ॥

शेषम् तु वार्स्थलम् कुर्याद् वारबन्धान्त मौलिकम्। भद्रेण भद्र सम्युक्तम् सुखदम् स्वस्तिकम् मतम् ॥ ८८ ॥

विस्तारे चायते चैव पूर्ववद् भाग सम्युतम्। द्विचतुर्भाग सम्युक्तम् अङ्कणम् तस्य बाह्यतह् ॥ ८९ ॥

वारम् एकेन कर्तव्यम् शालाव्यासो द्व्बिभागतह्। बहिर्वारम् अलिन्दम् च खण्डहर्म्यम् च भागशह् ॥ ९० ॥

शलाभागे चतुष्कोणे चुत्ष्कूटम् तु कारयेत्। चतुर्णामपि मध्ये तु कुर्याच्छाल चतुष्ट्यम् ॥ ९१ ॥

अङ्कणम् मण्टपाकारम् शालातुङ्गाधिकोन्नतम्। अन्तर्विन्यासवत् खण्डहर्म्यम् तु परिकल्पयेत् ॥ ९२ ॥

शालासमध्याननोपेतम् चतुर्दिक्षु प्रकल्पयेत्। अन्तरे पञ्जरान् कुर्यात् खण्डहर्म्य्र् विशेषतह् ॥ ९३ ॥

गुह्ये गुह्ये क्रियोपेतम् विश्वभद्रम् बह्वेद् इदम्। द्विचतुर्भाग विस्तार दैर्घ्यम् अङ्कणम् इष्यते ॥ ९४ ॥

अङ्कणावृत वारम् तु नन्दिच्छन्दम् प्रदक्षिणम्। नन्द्यावर्ताननोपेतम् कुर्याच्छाला चुत्ष्टयम्॥ समवम्शम् यथा कार्यम् खण्डहर्म्यम् तु कोणके ॥ ९५ ॥

एकाङ्ग निर्गतच्छन्दम् छन्दाकाराननान्वितम्। शालाचतुष्टयम् कुर्याच् छाला व्यासार्ध निर्गमम् ॥ ९६ ॥

द्विगुणायाम् सम्युक्तम् मध्यवारणम् इष्यते। प्रासादवद् अलङ्कुर्यान् नन्द्यावर्तम् द्विजोत्तमाह् ॥ ९७ ॥

शालाचतुष्टयम् कुर्यात् सभाकार शिरो यथा। अङ्कणे मण्टपम् कुर्यादुच्छ्रितम् ततम् ईरितम् ॥ ९८ ॥

सौमुख्यम् इदम् आख्यातम् सर्वेषाम् तु सुखावहम्। सर्वम् तु मण्ट्पाकारम् शालानाम् पतिकीर्तितम् ॥ ९९ ॥

शुकपञ्जर सम्युक्तम् बाह्ये वारादि पूर्ववत्। रुचकम् चेदम् आख्यातम् अन्यत्सर्वम् तु पूर्ववत् ॥ १०० ॥

विस्तारायाम मानेन समम् स्याद् वारम् अङ्कणम्। शालाव्यासोपि तद्वत् स्याद्वारादि त्रितयम् यतह् ॥ १०१ ॥

मण्टपम् तु चतुर्दिक्षु कोणे वेद सभान्वितम्। शेषम् तु वार्स्थलम् कुर्यात् सुप्रतिष्टितम् ईरितम् ॥ १०२ ॥

मुख्यागारम् तु शालास्यम् अङ्कणम् च यथा भवेत्। अन्यद्वर्षस्थलम् सर्वम् नामतो जयमङ्गलम् ॥ १०३ ॥

अङ्कणम् तु सभाकारम् मुख्यागारम् तु हर्म्यवत्। कूट्गारम् चतुर्दिक्षु मण्टपम् परिकल्पयेत् ॥ १०४ ॥

अन्यत्सर्वम् तु पूर्वोक्तम् एतद् अद्भ्तम् इष्यते। विस्तारे षोडशाम्शास्स्यु रायामे अष्टदशम्शकाह् ॥ १०५ ॥

मध्यमे द्विचतुर्भागैरङ्कणम् परिकल्पयेत्। तद्बाह्ये वारम् एकाम्शम् शालाव्यासो द्विभागतह् ॥ १०६ ॥

समन्ताद् वारम् एकाम्शम् बाह्ये वारम् तथैव च। अलिन्दम् चैक भागेन खङ्डहर्म्यम् तु चैकतह् ॥ १०७ ॥

मुख्याशालाग्र शाले च नेत्रहीने प्रकल्पयेत्। बाहुशाला द्वयम् कार्यम् तत्सम् श्लिष्टम् तथाभवेत् ॥ १०८ ॥

मुख्यागारापरस्स्थाने स्थाने मूले तु वर्चसा। मध्यवारम् च भद्रैश्च खण्डहर्म्यैश्च मण्डितम् ॥ १०९ ॥

कर्णद्व्यम्शेन सोपानम् अग्रशालाम्शके नयेत्। अग्रे शाला समायुक्तम् त्रिशिरो मण्टपम् तु वा ॥ ११० ॥

वासस्थानम् च भोगम् च स्वामिवाञ्चा वशान्नयेत्। एतत्पद्मकम् इत्युक्तम् अन्यत् सर्वम् तु पूर्ववत् ॥ १११ ॥

Pūrvapāda – Kapitel 49: Nāgara und weitere Bautypen

नागरादि विभेदम् तु प्रवक्ष्यामि विशेषतह्। विन्ध्यातम् चैव कृष्णान्तम् कन्यान्तम् तु हिमाचलम् ॥ १ ॥

तस्मात्तस्मात् त्रिध धात्री युक्त सत्त्व तमो रजाह्। नागरम् द्रामिडम् चैव वेसरम् सार्वदेशिकम् ॥ २ ॥

कालिङ्गम् च वराटम् च षड्विधम् त्विह कीर्तितम्। नागरम् सात्विके क्षेत्रे वेसरम् स्या तमो अधिके ॥ ३ ॥

राजसे द्रामिडम् सार्वदेश्यम् सर्वत्र सम्मतम्। कालिङ्गम् च वराटम् च ग्राह्यम् सत्वरजोधिके ॥ ४ ॥

मूलम् मसूरकम् जन्घा कपोतम् शिखरन् गलम्। ऊर्ध्वे चामलसारेणाष्ट वर्गाह् कुम्भ शूलयुक् ॥ ५ ॥

अन्यैरुपरि निक्षिप्तम् प्रोक्तम् वर्गाष्ट्कम् तु यत्। रथैह् प्रतिरथैह् कोणैरन्योन्याधिक भद्रकैह् ॥ ६ ॥

त्रिभिर्वा पञ्चभिभागैह् नवभिर् वाथ सप्तभिह्। सोष्ट्र भावादिभिर्नीड युक्तोपान्तैश्चरण्ड्कैह् ॥ ७ ॥

सर्वाकृति विचित्रङ्गैस् सन्तार प्रतरक्रियम्। ऊहप्रत्यूह सम्युक्तम् ओजानोजाम्श मुण्डयुक् ॥ ८ ॥

सगर्भाकर्मजम् यत्तु मण्ड्लामल सारकम्। शुकनासिकयोपेतम् पार्श्वयोह् प्रमुखे मुखे ॥ ९ ॥

मुण्ड्मण्ड्प सम्युक्तम् अङ्गप्रत्यङ्ग कल्पितम्। यथायुक्ति यथाशोभम् विधातव्यम् हि नागरम् ॥ १० ॥

बहिरभ्यन्तरस्तम्भ भित्ति तुल्य क्रियान्वितम्। प्रकृत्युपरि जन्मोर्ध्वे सोपपीठे मसूरकम् ॥ ११ ॥

समस्तम्भान्तरम् यत्तु सभारम् अविभागभाक्। जन्मोप पीठाधिष्ठान स्तम्भ प्रस्तर कन्धरैह् ॥ १२ ॥

शिख्र स्थूपिकाभ्याम् च षड्वर्ग सहितम् नयेत्। मानसूत्राद्बहिस्तिर्यक् समसूत्राङ्ग भद्रकम् ॥ १३ ॥

समस्तम्भान्तरस्योर्ध्वे प्रस्तरान्तर बन्धनम्। नालिकाम् धारिकाधार हारोरस्यापि मण्द्.अनम् ॥ १४ ॥

कपोत शालया ब्रह्मद्वारयुक्तम् पताकया। शुकनासिकयोपेतम् युक्तम् प्रमुख मण्टपम् ॥ १५ ॥

श्रेष्टम् त्रयोदशाम्शम् तु द्वादशान्तम् इति स्मृतम्। तथा षट् सप्त भौमम् त्रिह् पञ्चत्रिस्सप्त भाग भक् ॥ १६ ॥

तथ चाष्ट तलम् प्रोक्तम् नवभुमम् निकेतनम्। सप्त दश द्विरष्टाम्श नवाष्ट् दश्काम्शकम् ॥ १७ ॥

षड्विधाकृति विन्यास्म् सर्वाङ्ग परिमण्डनम्। मध्यकर्ण विनिर्गच्छत् प्रमाण भवनान्वितम् ॥ १८ ॥

एवमादि विशेष्ङ्गम् विमानम् द्रामिडम् मतम्। युक्तम् द्रामिड विन्यासम् नागर क्रिययान्वितम् ॥ १९ ॥

नागरम् द्रामिडोद्दिष्त विशेषेण विभूषितम्। सखण्डाखण्ड हर्म्यम् तु खण्ड हर्म्योभयात्मकम् ॥ २० ॥

उत्तरोत्तर निर्व्यूह युक्तान्तर तलक्रियम्। एवमादि विचित्राङ्गम् विमानम् नाम वेसरम् ॥ २१ ॥

मूलादूर्ध्वेर्ध सन्धेया धारिकोपरि मण्डनम्। तदुपर्युचित ग्रीव शिखरस्थूपिकान्वितम् ॥ २२ ॥

भद्रोपभद्र चित्राङ्गम् आप्तान्तर तलक्रियम्। साधारण तलासक्त कायस्तम्भ निवेशनम् ॥ २३ ॥

श्रेण्याकार क्रियोपेतच् छाया प्रस्तर बन्धनम्। एवमाद्यङ्ग वैचित्र्यम् वराटम् धाम सम्मतम् ॥ २४ ॥

विनान्धारिकयोरस्य पताका बाह्य मण्डनम्। उत्तराध उपारोह क्रियान्धारिकयान्वितम् ॥ २५ ॥

उन्नतावनतस्याङ्गैस् सर्वाङ्गैह् परिमण्डनम्। चतुरश्राष्ट वृत्ताभम् ग्रीवाशिखर सौरभम् ॥ २६ ॥

ईदृग्भूताङ्ग सङ्कल्पम् कालिन्गम् सद्म सम्मतम्। नालिकान्धारिकाधार हारोरयापि मण्डनम् ॥ २७ ॥

कपोत शालयायुक्तम् ब्रह्मद्वार पताकया। षड्विधाकृतियुक्सद्म सम्मतम् सार्वदेशिकम् ॥ २८ ॥

प्रत्येकम् त्रिविधम् प्रोक्तम् द्रामिडम् त्वधुनोच्यते। हस्तच्छेद परीहार न्यूनाधिक समीकृतम् ॥ २९ ॥

स्वाय सम्पत्समुत्पन्नऐर् नागरम् तत्समाङ्गकम्। हस्तच्छेद परिहृत्यै हृत्वा धाम विधानवत् ॥ ३० ॥

भद्रालङ्कार सम्युक्तम् द्रामिडम् चेति कीर्तितम्। लब्ध मात्रा विहीनम् तु नातिरिक्तम् सवक्त्रकम् ॥ ३१ ॥

उत्तरोत्तर निर्व्यूह सङ्गतम् वेसरम् मतम्। त्रिपञ्च सप्त द्विचतुष् षड्बहक्त्यैक तलक्रमात् ॥ ३२ ॥

नागारादिषु षड्भेद हीनमुक्तम् च मद्यमम्। साक्षाद् द्वित्रिचतुष्पञ्च तलमष्ट नवाम्शकम् ॥ ३३ ॥

कनिष्ठम् मध्यमम् ज्ञेयम् दशाम्शैक दशाम्शकम्। श्रेष्ठम् त्रयोदशाम्शम् तु द्वादशाम्शम् इति स्मृतम् ॥ ३४ ॥

तथा षट्सप्तभौमम् त्रिह् पञ्चद्विस्सप्तभाग भाक्। तथाचाष्ट तलम् प्रोक्तम् नवभौमम् निकेतनम् ॥ ३५ ॥

सप्तदश द्विरष्टाम्शम् नवाष्टादि दशाम्शकम्। विमानम् दश भौमम् तु द्वात्रिम्शद् सप्तभागयुक् ॥ ३६ ॥

एकादशतलम् द्वित्रि भागयुग् विशदम्शकम्। तथा द्वादश भौमम् तु चतुष्षट् पञ्च भाग भाक् ॥ ३७ ॥

शुद्धयुक्तिरियम् प्रोक्ता त्वन्यथा च निगत्यते। सप्तत्रिद्व्यम्शकादम्शाद् दशाष्ट दशभागिकम् ॥ ३८ ॥

युग्मायुग्म त्रिभूयादि व्यासाद् द्विद्व्यम्श विवर्धनात्। दश द्वादश भूम्यन्ता सम्ख्या ख्याता क्रमागता ॥ ३९ ॥

कनिष्ठ मध्य्मा श्रेष्ठा नागरादिषु पञ्चसु। अविरिधेन विन्यास भूषणम् सावदेशिकम् ॥ ४० ॥

असमानागरे भागा द्रामिडे वै समासमाह्। द्विविधा भक्तयो ग्राह्या वेसरे सार्वदेशिके ॥ ४१ ॥

अनन्योन्याधिक क्षीणम् क्षीणम् नागर धामनि। द्रामिडे स्वाङ्ग विश्लेषे क्षेत्रभ्गोचितम् क्षणात् ॥ ४२ ॥

ईषदुनाधिका वा स्युर् वेसरादिषु भक्तयह्। त्रिचतुह्पञ्च मत्राभिह् कपोतैस्स्थल निश्चयह् ॥ ४३ ॥

एवम् भक्तिविभागस्स्याद् गर्भगेहम् अधुनोच्यते। सैकत्रिपञ्च भक्त्यम्श षण्णवैकादशाम्शभाक् ॥ ४४ ॥

नागरस्यैक भौमस्य प्रासादस्यैक नालिका। श्रेष्ठ मध्यम हीनस्य बहिश्शेषेण भित्तिका ॥ ४५ ॥

गर्बष्षडष्ट दसासु त्रिचतुह्पञ्च भाग भाक्। द्वितले नागरस्योक्ता नालिगेह विशालता ॥ ४६ ॥

षोडशाम्शे तु षड्भागे गर्भ सप्त दशाम्शके। अष्टादशाम्शे सप्ताम्शस् त्रितले नागरस्य तु ॥ ४७ ॥

द्रामिडे त्रिचतुह्पञ्च भागैर् नालि विशालता। पञ्चसप्त नवाशैश्च बहिश्शेषास्तु भित्तयह् ॥ ४८ ॥

एवम् एकतले प्रोक्तम् उत्तन्मादि विभेदतह्। सप्त्त्र्येकादशाम्शे च चतुष्पञ्च षडम्शकम् ॥ ४९ ॥

द्वितले द्रामिडस्योक्ता नालीगृह विशालता। गर्भे नवदशाम्शे तु बहिश्शेषस्तु भित्तयह् ॥ ५० ॥

एवम् एव नवाम्शस्तु त्रितले द्रामिडे मतह्। त्रिपञ्च सप्तभिर् नाली षडष्टादशभाजिते ॥ ५१ ॥

वेसरस्यैक भौमस्य श्रेष्ट्मध्याधमह् क्रमात्। नवैकादशविश्वेषु चतुष्पञ्च षडम्शकह्॥ वेसरे द्वितलस्योक्ता नालीगृह विशालता ॥ ५२ ॥

द्वित्रिवेदाम्शके विम्शत्यम्शे नवदिगम्शकह्। वेसरे गर्भगेहस्स्यात् त्रितले तु द्विजोत्तमाह् ॥ ५३ ॥

एकद्वित्रितलानाम् तु गर्भस्वेवम् उदाहृतह्। नागरोक्तम् विराटे स्य;त् कालिङ्गे द्रामिडोचितम् ॥ ५४ ॥

वेसरोक्तम् तु यत्सर्वम् तद्योग्यम् सार्वदेशिके। यथाक्रमम् वा तद्बाह्यम् सर्वम् वा सार्वदेशिके ॥ ५५ ॥

अष्टत्रित्रिदशत्र्यम्श गर्भस्स्यात् त्रितालादिषु। नागरादिषु सामान्य विशेषालङ्कृतिस्थितिह् ॥ ५६ ॥

श्रेयसी श्रेयसी नार्ध श्रेयसीश्रेयसि मता। एवम् गर्भ गृहम् प्रोक्तम् भद्रस्य विधिरुच्यते ॥ ५७ ॥

सैकत्रिपञ्च पन्क्त्यम्श पञ्च षट् सप्त विस्तराह्। तत्तारैकाम्श निष्क्रान्ता मध्ये भूषा कनीयसी ॥ ५८ ॥

कनिष्ठे नवपञाम्शा सप्त त्र्यम्शा च मध्यमे। मूले द्विपञ्चाष्ट् सप्त चतुष्पञ्च षडम्शिका ॥ ५९ ॥

मध्यमे मध्यमा भुषा सर्व व्यासार्ध निष्क्रमा। षोडशाम्शे षडाम्शष्टादश सप्ताम्श विस्तराह् ॥ ६० ॥

पञ्चादश षडम्शस्स्यान् मध्ये भूषा कनीयसौ। कनिष्ठे नवपञ्चाशास् सप्तत्र्यम्शाश्च मध्यमे ॥ ६१ ॥

त्र्यम्शकैकाम्शके षट्सु नागरादिष्वनुक्रमात्। निष्क्रान्तिरासाम् पूर्वोक्त रित्यैवम् परिकल्पयेत् ॥ ६२ ॥

शान्तिकाद्याह् कामदान्ताह् पञ्चाशद् द्रामिडोचिताह्। व्यासाद्द्विगुण उत्सेधाह् कामदाद्यास्तु नागरे ॥ ६३ ॥

एकद्वित्रिचतुह् पञ्च भागैस्तु द्विगुणाधिकाह्। अष्टाम्शेषु विशालेषु उत्सेधाह् शान्तिकादिकाह् ॥ ६४ ॥

वराटे चापि कालिङ्गे वेसरे नागरोक्तवत्। नागरे समहस्तास्स्युह् द्रामिडादिषु पूर्ववत् ॥ ६५ ॥

स्वायम्भुवादि लिन्गान्गानाम् पूजाम्श परिणाहके। पञ्चादशाम्शके पञ्च भागोत्सेधम् तु शान्तिकम् ॥ ६६ ॥

नागरम् समलिङ्गम् तन्नाहे सप्त दशाम्श्के। नागरम् पौष्टिकम् नाम सप्तम्शोच्चम् शिवाधिक ॥ ६७ ॥

एकोनविम्शदम्शात्तु नवाम्शम् वर्धमानकम्। जयदम् नागरम् तस्माद् दशाम्शाधिक तुङ्गकम् ॥ ६८ ॥

अद्भुतम् चाभिवारम् च तदर्धम् सार्वदेशिकम्। एवम् नागरलिङ्गे तु सौधमोजह् पदेन तु ॥ ६९ ॥

परिणहे विकाराम्शे भूत कैश्क धातुभिह्। उदयम् द्रामिडम् प्रोक्तम् शान्ति पुष्ट् जयावहम् ॥ ७० ॥

ततदर्धाम्शकाधिक्यम् हीनद्व्यन्तर मानकम्। अद्भुतम् चाभिचारम् च सार्वकामिकम् उच्यते ॥ ७१ ॥

नाहे तु भास्करे भागे त्रिचतुह्पञ्च भागिकम्। पौष्टिकम् तुन्गजयदम् जयदम् वेसरम् मतम् ॥ ७२ ॥

पूर्वोक्त विधिना ज्ञेया अद्भुताद्यास्त्रयह् त्रयह्। द्रामिडे वेसरे लिङ्गे समभाग प्रमाणतह् ॥ ७३ ॥

प्रासादम् योजयेद् विद्वान् यथाशास्त्रम् द्विजोत्तमह्। मानवे लब्ध दैर्घ्यम् यत् तद्विरष्टाम्शके कृते ॥ ७४ ॥

भुतवेदगुणव्यासम् नागरम् शान्तिकादिकम्। अर्धार्धाधिक हीनम् तु द्व्यन्तरम् तु विशालकम् ॥ ७५ ॥

अद्भुतम् चाभिचारम् च नागरम् सार्वकामिकम्। अष्टादशाम्शके तुङ्गे कौशिकेन्द्रिय वेदिकम् ॥ ७६ ॥

द्रामिडम् शान्तिकादि स्याद् अद्भ्ताद्यथ पूर्ववत्। वेसरे विम्शदम्शे तु वसुभानु रसाम्शकम् ॥ ७७ ॥

शान्तिकादि क्रमेणैवम् अद्भुतद्यथ पूर्ववत्। लिङ्गायाम समो व्यासह् पूजाम्शोच्च द्वयेन तु ॥ ७८ ॥

तदन्तरे अष्टभागे तु नवैते पीठ विस्तराह्। व्यासार्धम् उच्छ्रयम् कुर्याद् द्वात्रिम्शद् द्व्यम्शम् एव वा ॥ ७९ ॥

तदन्तरे नवभागे तु नवैते पीठकोच्छ्रयाह्। लिङ्गायामे नवाम्शैस्तु सप्तभागैस्तु कन्यसह्॥ उत्तमो नवभिर् भागैर् द्रामिडे पीठ विस्तरह् ॥ ८० ॥

तदन्तरे अष्टभागे तु नवधा पीठ विस्तराह्। तस्य चोच्चे अष्ट भागे तु त्यक्त्वैकम् द्वित्रिभागिकम् ॥ ८१ ॥

शेषम् पूर्वोच्छ्रयम् पूजा भागम् अर्वाक् स्थलोपरि। द्रामिडे विहितम् ह्येवम् वेसरम् तु निगद्यते ॥ ८२ ॥

वेसरे परिणाहे तु विकाराम्शे तु विस्तरह्। पीठस्य सप्त नन्दाम्शैरधमोत्तमम् इष्यते ॥ ८३ ॥

तदन्तरे अष्टभागे तु पूर्ववत् परिकल्पयेत्। विष्ङुभाग समुत्सेधश्शेषम् भूगतम् इष्यते ॥ ८४ ॥

विष्णुभागे तुरीयम्शेनाधिकावाथ पीठिका। विष्कम्भ त्रिगुणो व्यासो अधस्ताद् ब्रह्मशिलाम् न्यसेत् ॥ ८५ ॥

व्यासत्रिभाग उत्सेधश् चतुरम्शैक एव वा। यस्य लिङ्गस्य विष्कम्भश्चाष्ट् भागैकम् एव वा ॥ ८६ ॥

नवभागैक भागम् वा गाम्भीर्यम् अवटस्य तु। एषा नागर लिङ्गे तु ब्रह्माख्या कथिता शिला ॥ ८७ ॥

गर्भकर्ण तुरीयाम्शा व्यासात् तत्त्र्यम्शकोदया। लिङ्गव्यासाष्ट्भागैकरवाता द्रामिडभू शिला ॥ ८८ ॥

गर्भदर्ध चतुर्भाग हीनविस्तार सम्युता। तत्पादाम्शकयोपेता शिला वा वेसरे स्थिता ॥ ८९ ॥

लिङ्गपीठ शिलायाम सजातीया ससम्पदे। विपरीते विपत्यै स्यात् कर्तुह् कारयितुस् तथा ॥ ९० ॥

अयम् विभागे लिङ्गे तु नेष्यते सार्वदेशिके। प्रासादे अपि तथा लिङ्गे नियमो नेष्यते द्विजाह् ॥ ९१ ॥

एवम् पीठ शिलायाम् च नियमो नेष्यते अत्र तु। मुख्यत्वात्सर्वलिङ्गेभ्यस् सर्वत्रापि सम्मतम् ॥ ९२ ॥

तथा प्रासाद एवस्यात् पीठस्यापि तथैव च। शान्तिकम् पौष्टि जयदम् अद्भुतम् सार्वकामिकम् ॥ ९३ ॥

शान्तिकश्चोच्छ्रय अष्टाम्शो भागोच्छ्राय विनिर्मितम्। द्विभागश्चरणोत्सेधह् प्रस्तरो अष्टाम्श हीनकह् ॥ ९४ ॥

त्रिभागम् गलम् इत्युक्तम् अर्धाम्शम् शिखरोदयम्। स्थूपिकाष्टाम्श हीना स्याद् द्रामिडम् चैकभूमिकम् ॥ ९५ ॥

नवाम्शे अष्टाम्शयुग्भागम् मसूरम् द्विगुणम् भवेत्। तारोच्च प्रस्तरो भागो गलम् भाग विनिर्मितम् ॥ ९६ ॥

त्रिभाग शिखरोत्सेधम् शेषेण स्थूपिका भवेत्। द्रामिडम् पौष्टिकम् प्रोक्तम् दशाम्शे तु सपादकम् ॥ ९७ ॥

मसूरद्विगुणह् पादो भागह् प्रस्तर उच्यते। पादमानम् गलम् प्रोक्तम् सर्वात्म्यम्शम् शिरो भवेत् ॥ ९८ ॥

भागेन स्थूपिका जय्यम् द्रामिडम् परिकीर्तितम्। द्वादशाम्शे सपादाम्शम् मसूरश्च त्रिभाग भाक् ॥ ९९ ॥

द्विपादह् पाद इत्युक्तस् सपाद प्रस्तरोदयह्। एकाम्शम् गलम् इत्युक्तम् चतुरर्धम् शिरो भवेत् ॥ १०० ॥

सपाद भागम् स्थूयुच्चम् अद्भुतम् द्रामिडम् भवेत्। त्रयादशाम्शो सार्धाम्शम् मसूरम् वा त्रिभागतह्॥ सपदह् प्रस्तरह् प्रोक्तस् त्वेकेन गलम् इष्यते ॥ १०१ ॥

पञाम्शम् शिखरम् ज्ञेयम् सपदह् स्थूपिका भवेत्। सार्वकामिक सम्ज्ञम् तु द्रामिडम् परिकीर्तितम् ॥ १०२ ॥

सभद्रम् वा विभद्रम् वा कर्ण्कूट्युतम् तु वा। निष्कर्णकूटम् वा कार्यम् सनीडम् व सतोरणम् ॥ १०३ ॥

एवम् लक्षण सम्युक्तम् विधेयम् चैक भूमिकम्। गर्भान्तर्गलवेशस्तु यदिस्यान् मरणम् भवेत् ॥ १०४ ॥

नागरे सार्वदेश्ये च कालिङ्गे द्रामिडे अपि वा। वराटे न प्रवेशम् तु वेसरे परिकल्पयेत् ॥ १०५ ॥

विष्नुर्ब्रह्मा हरश्चेति विरराजन्य वैश्यकाह्। नागरे द्रामिडे धाम्नि वेसरे त्वधिपा मताह् ॥ १०६ ॥

उपाननात् स्थूपि पर्यन्तम् युगाश्रम् नागरम् भवेत्। कण्ठात् प्रभृति वृत्तम् यद् वेसरम् परिकीर्तितम् ॥ १०७ ॥

कण्ठात् प्रभृति वस्वश्रम् द्रामिडम् परिकीर्तितम्। सार्वदेशिक धाम्न्येतन् नागराद्यम् प्रकीर्तितम् ॥ १०८ ॥

चतुरश्रायाश्रम् तन् नागरम् परिकीर्तितम्। अष्टाश्रम् च षडश्रम् च तत्तदायामम् एव च ॥ १०९ ॥

सौधम् द्रामिडम् इत्युक्तम् वेसरम् तु प्रकथ्यते। वृत्तम् वृत्तायतम् चाश्रम् वृत्तम् चान्यत् प्रकीर्तितम् ॥ ११० ॥

द्रामिडाख्य विमानेपि नागरादि प्रभेदितम्। लिङ्गाद्यम् कथितम् पूर्वम् वपुस् तत्रापि कथ्यते ॥ १११ ॥

नागरम् लक्षणम् पूजाभागे षोडश भाजिते। ऊर्ध्वे षड्भूत वेदाम्शम् त्यक्त्वाधो लक्ष्म कारयेत् ॥ ११२ ॥

विष्ण्वम्शाभिमुखे सूत्रे पार्श्वयोर् द्वे अवल्म्बयेत्। पृष्ठे तयोर्यूतिहीने वेदाग्नि नयनान्यथ ॥ ११३ ॥

विहाय मध्यमे भूतवेदाग्नि नयनानि च। ज्येष्ठे षट्पञ्च वेदाग्नि पादभागान्यधस्त्यजेत् ॥ ११४ ॥

त्रिभागम् त्वेकभागम् तु द्व्यम्शम् सुत्रन्तरम् मतम्। तदर्धम् पादसूत्राग्रम् तारम् प्रोक्तम् मुनीश्वराह् ॥ ११५ ॥

यवमानम् भवेत् सूत्र गाम्भीर्यम् विस्तरेण च। हीने हीने भवेद्यष्टयवैह् श्रेष्टोत्तमे द्विजाह् ॥ ११६ ॥

एवम् नागरलिङ्गेषु लक्षणम् द्विज सत्तमाह्। द्रामिडे शिवभागे तु त्रिपञ्चाम्शे कृते क्रमात् ॥ ११७ ॥

नवभागैर् दशाम्शेन ह्येकादश विभागकैह् ॥ ११८ ॥

हीनमध्योत्तमाख्यम् तु लक्षणोद्धारकम् भवेत्। सप्ताष्टनवभागेभ्यस् सूत्रे सम्लम्बयेत् क्रमात् ॥ ११९ ॥

त्रिचतुर्द्व्यम्शके हीने यूतिस्स्यात्पक्षसूत्रयोह्। मध्यमे भूतवेदाग्नि यूकैश्चापि युतिर् भवेत् ॥ १२० ॥

षड्भूत वेद वह्न्यम्शैश् श्रेष्टे पृष्ठे तयोर् युतिह्। स्वभागात् सूत्रविस्तारह् पक्ष सूत्रम् पुरोक्तवत् ॥ १२१ ॥

षोडशाम्शे शिवायामे सूत्रायमो दशाम्शकह्। चतुर्भागम् तदूर्ध्वे अथ पृष्ठे द्व्यम्शम् विहाय च ॥ १२२ ॥

मुकुलाकारम् आरभ्य सम्युतह् पार्श्व सूत्रयोह्। अथवाथ त्रयाम्शम् तु त्यक्त्वोर्ध्वे रुद्र भागतह् ॥ १२३ ॥

नालायामस् समुद्दिष्टश् शेषम् पूर्ववदेव हि। एवम् द्रामिड लिङ्गस्य ब्र्ह्म सूत्रम् प्रकल्पितम् ॥ १२४ ॥

वेसरस्यर्चनाशोच्चे त्रिपञ्चाम्शे दशाम्शतह्। नालायाम समुद्दिष्टस् वष्टभागात् प्रभृत्यधह् ॥ १२५ ॥

भूत वेद गुणाम्शेषु सन्गमह् पक्ष सूत्रयोह्। द्वादशम्शर्चना भागे षोडशद्व्यम्शमुर्ध्वतह् ॥ १२६ ॥

नालायामो नवाम्शस्स्यात् सङ्गमह् पूर्ववद् भवेत्। व्यासे द्विरष्ट भागे तु भागस्स्यात् सूत्र विस्तरह् ॥ १२७ ॥

तदूर्ध्वम् पक्षसूत्रम् स्यद् अन्तरम् शेष पूर्ववत्। एवम् वेसरलिङ्गस्य ब्रह्मसूत्रम् उदाहृतम् ॥ १२८ ॥

सार्वदेशिक लिङ्गे तु विभागोयम् न कीर्तितह्। तथा पीठे तु पीठस्य नागराद्यम् विधीयते ॥ १२९ ॥

अभद्रम् द्राइडे पीठम् भद्रम् भद्रोपभद्रकम्। नागरे वेसरम् योग्यम् कालिङ्गेपि वराटके ॥ १३० ॥

सामान्यम् पीठम् उद्दिष्टम् प्रतिमाप्यधुनोच्यते। गर्भे धिष्ण्ये मसूरे च द्वारे स्तम्भे च मस्तके ॥ १३१ ॥

स्थूपिकोच्चे दशाम्शोच्चे सप्ताम्शा प्रतिमा वरा। चतुर्थ्यम्शोदया हीना षड्विम्शत्यन्तरे अन्तरम् ॥ १३२ ॥

नक्षत्र सम्ख्या तुङ्गानि प्रतिमाया भवन्ति हि। नागरे त्रित्रिसम्ख्यानि द्रामिडे नवसम्ख्ययाह् ॥ १३३ ॥

वेसराणि तथान्यानि श्रेष्ठमध्याधम क्रमात्। सात्त्विकम् राजसन् चैव तामसम् च क्रमात् त्रिधा ॥ १३४ ॥

सात्त्विकम् स्थानके योग्यम् राजसम् नृत्तरूपके। तामसम् चान्य रूपे तु योजनीयम् विचक्षणैह् ॥ १३५ ॥

सार्वदेशिक लिङ्गे तु विधानम् नेष्यते बुधैह्। धाम्वास्त्वमराणाम् तु नागराद्यम् परम् मतम् ॥ १३६ ॥

ग्रमे वा नगरे वापि पत्तने राजधानिके। खेटादौ परमेशस्य ब्रह्मस्थाने अष्ट्दिक्षु वा ॥ १३७ ॥

बहिर्वाष्टासु कष्ठासु कुड्यान्तर्व बहिष्कृतम्। एतेषाम् अन्तराले वा प्रासादम् कर्तुम् आरभेत् ॥ १३८ ॥

उत्तरे नागरम् कुर्याद् वायौ वैशान देशके। दक्षिणे द्रामिडम् कुर्याद् वह्नौ वा नैरृते अपि वा ॥ १३९ ॥

पूर्वस्मिन् पश्चिमे वापि वेसरम् हर्म्यम् आचरेत्। सोमपार्श्व द्वये तद्वद् यमपार्श्वे यमोक्तिवत् ॥ १४० ॥

इन्द्रस्य पार्श्वयोस्तद्वद् वारुण्भयतस्तथा। धामान्येतानि सर्वाणि द्रामिडानि भवन्ति हि ॥ १४१ ॥

सार्वदेशिके हर्म्ये चेत् सर्वत्राणि समचरेत्। एतेषाम् इष्ट्काम् आद्याम् इष्टदेशे समाचरेत् ॥ १४२ ॥

बाह्ये चेदग्निकोणस्थ कोष्ठस्स्याद्वापणस्य च। नैरृतेप्येक देशस्थम् सभाया वाविरिधतह् ॥ १४३ ॥

धामान्येतानि कार्याणि वम्श सूत्राविरोधतह्। पार्वती भवनम् सार्वदेशे शर्वोक्तवन् नयेत् ॥ १४४ ॥

वलभ्याकारकोपेतम् द्रामिडाकारम् एव वा। विग्नेश्वरस्य मध्ये वा पूर्वोक्ते वा यथा शिवे ॥ १४५ ॥

हस्त्पृष्ठ शिरह् कार्यम् साधारण शिरस्तु वा। सेनानी भवनम् कार्यम् यथा सर्वस्य सम्मतम् ॥ १४६ ॥

पूर्वोक्त देशे कर्तव्यम् नागरम् विष्णु मन्दिरम्। मध्यमे च चतुर्दिक्षु नैरृते अन्यत्र् ब्रह्मणह् ॥ १४७ ॥

वेसरम् धाम कर्तव्यम् चतुर्भद्र समन्वितम्। वारुण्याम् वाथ याम्याग्नि मध्ये वा ग्राम मध्यमे ॥ १४८ ॥

श्रीधाम वैष्ण्वम् कुर्याद् याम्ये नैरृत मध्यमे। ग्रामादि मध्यमे अन्यत्र यथा वा ब्रह्म मन्दिरम् ॥ १४९ ॥

तथाविधे वा चाग्नेय्याम् सूर्यस्य शिववन् मतम्। अष्ट्दिक्ष्विष्ट देशेषु क्षेत्रेशे द्रामिडम् ततह् ॥ १५० ॥

पार्वती भवनम् यद्वत् पूर्वोक्त स्थानकम् द्विजाह्। जेष्ठा धाम यथा वाचस्त् विन्द्र पावक मध्यमे ॥ १५१ ॥

पूर्वोक्त देशे वा कार्यम् वह्नौ सोमेश मध्यमे। शास्तुर् धाम विधातव्यम् यथा विघ्नेश मन्दिरम् ॥ १५२ ॥

सोमस्य सोमदिग्भागे नैरृते वाथ तद्गृहम्। नागरम् सोम वायव्ये वातुवैश्रवणम् गृहम् ॥ १५३ ॥

सोम मन्दिरवत् कार्यम् वह्नौ सोमेश मध्यमे। काम धाम यथा विष्णोरथवान्यत्र देशतह् ॥ १५४ ॥

अनुक्तानाम् च सर्वेषाम् देवानाम् योषिताम् अपि। प्रागुक्तानाम् च देवानम् देविनाम् सार्व देशिकम् ॥ १५५ ॥

अथवा कारयेद् धाम ततद्वाहन सम्युतम्। सर्वदेशिक सम्ज्ञस्य प्रासादस्य च लक्षणम् ॥ १५६ ॥

लिङ्गस्य लक्षणम् विप्रास् तद्वत् पीठस्य लक्षणम्। लक्षणम् ब्रह्मशैलस्य तद्वद् बेरादि लक्षणम् ॥ १५७ ॥

तत्तदध्याय सम्सिद्धम् सम्ग्राह्यम् देशिकोत्तमैह् ॥ १५८ ॥

Pūrvapāda – Kapitel 50: Geschosse und Höhenverhältnisse

अथ वक्ष्ये विशेषेण भूलम्ब विधिक्रमम्। चतुरम्शादि सम्स्थानम् भूमिलम्बम् इति स्मृतम् ॥ १ ॥

अथवा क्षयवृद्धिर् वा हस्तानाम् परिकीर्तितम्। हस्तानाम् सप्तविस्तारे शतम् तुङ्गे प्रकीर्तितम् ॥ २ ॥

एकोनम् वा प्रकर्तव्यम् तलम् द्वादश सम्ज्ञितम्। त्रिषष्टि विस्तृतम् तत्र नवत्युन्नतम् ईरितम् ॥ ३ ॥

एकादशतलम् सप्तपञ्चाशद्विस्तृतम् भवेत्। चतुर्हस्तमशीत्युच्चम् दश भौमम् द्विजोत्तमाह् ॥ ४ ॥

एकयुकतम् तु पञ्चाशत्करम् तारे तु तुङ्गके। पञ्च सप्तति सम्ख्यातम् नवभौमम् प्रकीर्तितम् ॥ ५ ॥

पञ्चहस्त समायुक्तम् चत्वारिम्शत्करान्वितम्। षष्ट्युन्नत समायुक्तम् अष्टभौमम् प्रकीर्तितम् ॥ ६ ॥

नवत्रिम्शत्करोपेतम् सप्तपञ्च शदुन्नतम्। एतत्सप्त इति प्रोक्तम् एकविम्शति सम्युतम् ॥ ७ ॥

त्रिशस्धस्त समुत्सेधम् चतुस्थलम् उदाहृतम्। तिथिहस्त विशालम् यदेकविम्शति तुन्गकम् ॥ ८ ॥

एतत्त्रितलम् आख्यातम् शास्त्रेस्मिन् कामिकाह्वये। सप्तत्यन्तम् द्विरष्टादि विस्तारे व प्रकल्प्यताम् ॥ ९ ॥

एतदुत्तम मानम् स्याज् जात्याख्यस्य द्विजोत्तमाह्। विस्तारे चापि चोत्सेधे द्वित्रिहस्त क्षयेण तु ॥ १० ॥

मद्यमम् चाधमम् ज्ञेयम् सप्तविम्शति भेदकम्। महतस्त्रितलस्येष्ट त्रिभेदो नैव विद्यते ॥ ११ ॥

अष्टाविम्शति हस्तम् तु जात्याख्यम् इह कीर्तितम्। एकादेकादशान्तानाम् हस्तानाम् अन्तर क्षयात् ॥ १२ ॥

द्व्यादिद्वादशसीम्नाम् तु षण्णामप्यन्तर क्षयात्। सप्तविम्शति माने तु षट्त्रिशत्सम्ख्यकम् मतम् ॥ १३ ॥

छन्दम् विकल्पम् आभासम् एकैके तु द्विसम्ख्यकम्। नवादि रुद्रभागान्त धाम्नायुक्तम् प्रमाणतह् ॥ १४ ॥

यत्तु षोडश भूम्यन्तम् विमानम् मानवम् द्विजाह्। एतदन्तरमानम् स्याज् क्षुद्रमानम् अथोच्यते ॥ १५ ॥

त्रिचतुर्हस्तम् आरभ्य द्विद्विहस्त विवर्धनात्। एकभूमि प्रमाणम् तु चतुर्विधम् उदाहृतम् ॥ १६ ॥

पञ्चषद् हस्तमारभ्य द्विद्वि हस्त विवर्धनात्। द्वितले तु चतुर्भागम् रुद्रभानु करान्तकम् ॥ १७ ॥

सप्ताष्ट् हस्तम् आरभ्य द्विद्वि हस्त विवर्धनात्। त्रितले तु चतुर्मानम् मनुविश्व करान्तकम् ॥ १८ ॥

नवदिक्करम् आरभ्य द्विद्वि हस्त विवर्धनात्। पक्ष षोडश हस्तानाम् चतुष्पञ्च तलम् भवेत् ॥ १९ ॥

एकहस्तम् द्विहस्तम् वा क्ष्द्रम् एकतलम् मतम्। युग्मायुग्म करम् मानम् पादार्ध कर सम्युतम् ॥ २० ॥

व्योमहस्तम् समारभ्य व्योमहस्त विवर्धनात्। विमानम् योजितव्यम् स्यात् सर्वेषाम् अपि शम्सितम् ॥ २१ ॥

आयामे द्विगुणान्तम् स्याद्वेदान्त मण्टपे मताह्। तथा भक्त्या विधेयास्स्युरायामे द्विज सत्तमाह् ॥ २२ ॥

देवभूसुरभूमीन्द्र विट्छूद्राणाम् समानकम्। विस्तारे सप्तषट्पञ्च चतुस्त्र्यम्शेधिकम् त्रिभिह् ॥ २३ ॥

शान्तिकम् पुष्ट् जयदम् अद्भुतम् सार्वकामिकम्। उत्सेधे द्विगुणो व्यासह् पादाधिक्यम् च सम्मतम् ॥ २४ ॥

विस्तार द्विगुणदष्टाम्शाधिकम् वाधियोजयेत्। क्ष्द्राणाम् एवम् उद्दिष्टम् कनिष्ठानाम् अथोच्यते ॥ २५ ॥

सप्ताशे तु कृते व्यासे सप्ताम्शम् व षडम्शकम्। विस्तारदधिकस्तुन्गो मध्यमानम् अथोच्यते ॥ २६ ॥

विस्तारम् पूर्ववत् कृत्वा चतुह् पञ्चाधिकम् तु यत्। मध्यमानम् इदम् प्रोक्तम् उत्तमानाम् त्रयाम्शकम् ॥ २७ ॥

पूर्वमुद्देशमानम् स्यादेतन्निर्देश मानकम्। एकद्वित्रिकरैर्युक्तम् मानहीनम् तु चाधिकम् ॥ २८ ॥

उत्सेधम् कल्पयेद् धीमान् सर्वेषामपि सद्मनाम्। देवानाम् सार्वभौमानाम् आद्वादशतलम् विदुह् ॥ २९ ॥

रक्षोगन्धर्व यक्षाणाम् एकादशतलम् मतम्। द्विजानाम् नवभुमम् स्याद् दशभौमम् तु धाम वा ॥ ३० ॥

युवराजस्य रज्ञाम्श्च पञ्चमस्यैव पञ्चभूह्। नन्दादेकादशतलम् षण्णाम् वै चक्रवर्तिनाम् ॥ ३१ ॥

त्रिभुमम् च चतुर्भौमम् वैश्यानाम् शूद्रजन्मनाम्। राज्ञाम् पञ्चतलम् वापि मतम् पट्टभृताम् तु यत् ॥ ३२ ॥

सप्तहस्त समुत्सेधादूर्ध्वम् सप्तति विस्तरम्। नेष्यतेधिक मानम् तु सर्वथा तद्विचक्षणैह् ॥ ३३ ॥

शिवस्य षोडशक्ष्मादि सर्वभूमिर् विधीयते। प्राशद वशतो लिङ्गम् लिङ्गात् प्रासाद एव वा ॥ ३४ ॥

परिक्ष्य मतिमान् कुर्याद् यथा शास्त्रम् तदुच्यते। स्वयम्भुवम् बाणलिङ्गम् दैविकम् चार्षकम् त्विति ॥ ३५ ॥

गाणवम् मानुषम् लिङ्गम् षट्प्रकारम् प्रकीर्तितम्। स्वेनैवोद्भूत लिङ्गम् तु स्वायम्भुवम् उदाहृतम् ॥ ३६ ॥

शिवेन सम्स्कृतम् यत्तु बाणलिङ्गम् इति स्मृतम्। देवैस्सम्स्थापितम् दैवम् आर्षम् ऋषिहितम् स्मृतम् ॥ ३७ ॥

गणैस्सम्स्थापितम् लिन्गम् गाण्वम् तदुहऋतम्। मानुषम् मनुजैश्शिष्टैह् शिष्टम् षष्टम् इहोदितम् ॥ ३८ ॥

मानुषे लिङ्गमानम् तु प्रासाद वशतो भवेत्। अन्येषाम् चैव सर्वेषाम् लिङ्गात् प्रासाद इष्यते ॥ ३९ ॥

प्रासाद गर्भ मानेन लिङ्गम् ज्येष्ठादि भेदतह्। मुख्यतस् सिद्धये प्रोक्तम् मुक्त्यर्थम् अनुषङ्गतह् ॥ ४० ॥

हस्तादि लिङ्गमानानि यानि तानि विमुक्तये। भुक्तये चनुषङ्गेण भवन्ति विधि योगतह् ॥ ४१ ॥

स्वयम्भुवादि लिङ्गानाम् दृश्यभागादधस्तनम्। दर्शयेद्यदिमोहेन सर्वदोषकरम् नृणाम् ॥ ४२ ॥

नाहतारो तथाथूलदेशे सम्गृह्य कल्पयेत्। मानवे लिङ्गमानम् तु शिरिमानम् विनोदयम् ॥ ४३ ॥

स्वायम्भुवादि लिङ्गानाम् शिरसासह मानकम्। कल्पयेदर्चना भागम् तेन पीठम् प्रकल्पयेत् ॥ ४४ ॥

लिङ्गविष्कभ मानेन भवेद् द्वित्रिचतुर्गुणह्। तथा पञ्चगुणो वापि पीठ विस्तार इष्यते ॥ ४५ ॥

एतेषामपि सर्वेषाम् कर्णमानेन वा भवेत्। कृत्वाष्टधा व नवकम् एकद्वुअम्श त्रयाम्शकम् ॥ ४६ ॥

चतुरम्शम् तु वा हीनम् अधिकम् वा प्रकल्पयेत्। पीठद्विगुणतानोवा त्रिगुणो वा चतुर्गुणह् ॥ ४७ ॥

पञ्चषड्गुणतो वापि गर्भगेहस्य विस्तरह्। गर्भगेह त्रयाम्शम् तु भित्ति विष्कम्भ इष्यते ॥ ४८ ॥

अर्धो वा सदृशह् पीठाद् द्विगुणस्त्रिगुणोपि वा। एतेषाम् कर्णमानो वा भित्ति विष्कम्भ इष्यते ॥ ४९ ॥

अनेनैव प्रकारेण सन्धाने अपि प्रकल्प्यताम्। पीठव्यासेन हर्म्यस्थ नालीगेहम् अयुग्मकम् ॥ ५० ॥

यदितद्बाह्यभागम् च युग्मम् एव समाचरेत्। युग्मम् चेद्युग्मभागम् स्यात् सम्मिश्रम् नैव कारयेत् ॥ ५१ ॥

यत्र लिङ्गेन यन्मानम् युग्मम् वायुग्म हस्तकम्। यदि तत्र करच्छेदो हीनोवाप्यधिको भवेत् ॥ ५२ ॥

मानसम्पूर्णकम् कुर्यात् तत्र दोषो न विद्यते। अङ्गुलैर् गर्भमाने तु विभक्ते लिङ्ग दैर्घ्यके ॥ ५३ ॥

लिङ्गम् चेदङ्गुलम् छिन्नम् तत्र सम्पूर्णताम् नयेत्। आयादि सम्पदर्थम् च एकद्वित्रिभिरङ्गुलैह् ॥ ५४ ॥

क्षीणम् वाप्यधिकम् वापि कर्तव्यम् सम्पदिच्छया। त्रिस्सप्तभाग तारे तु भागम् कृत्वा षडम्शकम् ॥ ५५ ॥

लिङ्गमध्यत्तदेकाम्शम् दक्षिणेन व्यपोहति। प्रासाद मध्यम् इष्टम् स्यात् पश्चिमे अपि तथैव च ॥ ५६ ॥

पूर्वद्वारम् प्रशस्तम् स्यात् पश्चिमास्ये विपर्ययह्। एवम् आदौ परीक्ष्यैव प्रासादम् परिकल्पयेत् ॥ ५७ ॥

एतेषामपि सर्वेषाम् आयादि विधिरुच्यते। विस्तारम् द्विगुणम् कृत्वा वसुभिर् भाजिते सति ॥ ५८ ॥

शिष्टम् योनिरिह प्रोक्ता तदभावे तु शोधकह्। उदये वसुभिस्सप्तविम्शद्भिर् भम् इहोदितम् ॥ ५९ ॥

परिधौ नन्दगुणिते सप्तभूर्द्वारम् उच्यते। सकलम् त्रिगुणम् कृत्वा त्रिम्शद्भिर् भाजिता तिथिह् ॥ ६० ॥

उदयम् वसुभिर् भक्त्वा सूर्यैरायस्तु शेषतह्। पुनरप्युदयम् नन्दवसुभिर्व्यय उच्यते ॥ ६१ ॥

पूर्वोक्तेन प्रकारेणायनेन विधिनापि वा। परीक्ष्यायादि षट्कम् तु प्रासादम् परिकल्पयेत् ॥ ६२ ॥

पादादिकम् तु यच्छिष्टम् तत्सर्वम् सकलम् भवेत्। पूर्ववद् गुणितम् कृत्वा भागम् तारम् च तत्समम् ॥ ६३ ॥

कृत्वा तेनैव विभजेत् यल्लाभादिकम् भवेत्। युग्म हस्तैह् स्वरोद्भूतैश् शिखिभिर् योनिरुच्यते ॥ ६४ ॥

अथवन्य प्रकारेण आयादि विधिरुच्यते। नागैस्सूत्राग्निरन्ध्रैर्हत दिनदशवस्वब्धि शिष्टम् तु तत्स्या दायोनौ योनिवारम् वसुहत मुहुभिर्भक्त शिष्टम् तु ऋक्षम्। हत्वा भक्त्वाथ सूत्रैर् भुवनम् अथ फलम् शिष्टमम्शम् वसुघ्नम्
त्रिम्शद्भक्तम् तिथिस्स्याद् गृहतिथि योगादयो योनोभेदाह् ॥ ६५ ॥

अथवान्य प्रकारेण चायादीन् परिकल्पयेत्। नागनन्द गुणनाग नददृक् भानु नाडि वसुभम् मुनिर् नव ॥ ६६ ॥

अयम् अन्यतर योनिऋक्षकम् वरम् अम्शक गुणक्षय क्रमात्। इदम् लिङ्गे च सकले द्वारे स्तम्भादिके मतम् ॥ ६७ ॥

इदम् आयादिकम् चार्ध मण्टपे शिष्ट मण्टपे। परिवारालये तुङ्ग हर्म्येस्मिन् प्रकल्पयेत् ॥ ६८ ॥

एवम् परीक्ष्य बहुधा प्रासादम् परिकल्पयेत्। त्र्यम्शैकाम्शो भवेद्गर्भह् पञ्चाम्शात् त्र्यम्शम् एव वा ॥ ६९ ॥

सप्ताम्शे चतुरम्शो वा नवाम्शे पञ्च भागतह्। रुद्रभागे षडम्शस्स्याद् विश्वम्शे सप्त भागकह् ॥ ७० ॥

तिथ्यम्शे वसुभिस्सप्त दशाम्शे तु नवाम्शकह्। विस्तारार्ध प्रमाणम् तु गर्भ विस्तार इष्यते ॥ ७१ ॥

एकद्वित्रितलानाम् स्याद् गर्भगेहे प्रमाणकम्। प्रासादस्य नवाष्टाम्शह् दशाम्शह् कूट्विस्तरह् ॥ ७२ ॥

शालाव्यासो मतो द्वित्रि गुणायम समन्वितह्। पञ्जरश्चार्ध भागो वा त्रिपादो वाथ भागिकह् ॥ ७३ ॥

अलिन्दान्धारिकान्धार हारा भागेन कल्पिताह्। भागार्ध द्वित्रिभागम् वा पञ्च त्रिम्शम् अथापि वा ॥ ७४ ॥

अलिन्दम् कल्पयेच्छेषम् गृहविन्यासके मतम्। महताम् च विमानानाम् रचनात्र विधीयते ॥ ७५ ॥

नवभागो त्रिभागो व व्यासनाली गृहान्वितह्। बहिरान्धरिकान्धार हारभागेन विस्तृतह् ॥ ७६ ॥

हारप्रमाणम् बाह्ये तु रचनार्थम् प्रकल्पयेत्। भित्यन्तस्थम् प्रमाणम् स्याद् भित्ति बाह्ये त्वबाह्यतह् ॥ ७७ ॥

रचना क्षेत्रमानम् तु हित्वा मानम् प्रकल्पयेत्। एवम् अन्तस्थ विन्यासो बाह्यविन्यास उच्यते ॥ ७८ ॥

सप्तविम्शति भागे तु प्रासादस्य तु विस्तरे। एकैकभाग वेशात्तु कूटशालादिकम् नयेत् ॥ ७९ ॥

आदौ भागद्वयेनाथ कूटम् एकेन वा भवेत्। तलम् एकम् भवेद्ग्रासम् कह्ण्डहर्म्यम् त्रिभूमिके ॥ ८० ॥

अथवान्य प्रकारेण चान्तर्विन्यास उच्यते। सप्तविम्शति भागे तु प्रासादस्याय उच्यते ॥ ८१ ॥

त्रिभागेन भ्वेद्गर्भम् समन्ताद्भित्तिरिष्यते। पञ्चालिन्दम् सषड्कुड्यम् बहिरान्धरिकावृतम् ॥ ८२ ॥

त्रिनवाम्शम् इदम् जाति विमानम् द्वादश क्ष्मकम्। एतन्मणिमये लिङ्गे बाणादौ वा प्रकल्पयेत् ॥ ८३ ॥

दशादिपञ्चहस्त्यर्थम् यदा प्रासाद इष्यते। पञ्चाशत्कर पर्यन्तम् नवलिङ्गेष्वनुक्रमात् ॥ ८४ ॥

तदायामाय विस्तारे हस्तराशौ कराहते। लिङ्गवत् पीठम् अन्येन सैकेन त्रयमन्तरम् ॥ ८५ ॥

द्वयधिकेन बहिर् भित्तिश् शेषम् प्राग्वत् प्रकीर्तितम्। लिङ्गे शिलासु च क्रोधे भित्ति पञाम्श वर्जिताह् ॥ ८६ ॥

किञ्चिन्मूलम् अलिन्दम् वा शेषम् कुड्येषु योजयेत्। तलस्तम्भोत्तरास्सर्व सामान्याह् परिकीर्तिताह् ॥ ८७ ॥

प्राग्वम्शैरन्य वम्शैश्च नालिकेर दलादिभिह्। आच्छादिता प्रपा नाम प्रस्तरम् चात्र मण्टपह् ॥ ८८ ॥

प्रभूतशिखरोपेतम् हर्म्यम् नाम्ना प्रकीर्तितम्। अनेकभूमि युक्ता तु मालाकारा तु मालिका ॥ ८९ ॥

वम्शादि वम्श सहिता शिखरस्थूपिकान्विता। नासिका मुख्य पट्यम्शा शालेति परिकीर्तिताह् ॥ ९० ॥

षड्वर्ग सहितम् यत्तु गर्भगेह समन्वितम्। अन्धार्यान्धारि हारोक्त खण्डहर्म्य विशेषितम् ॥ ९१ ॥

कूट्शालान्व्तम् यत्तु पञ्जरैश्च समन्वितम्। हस्तिपृष्ठयुतम् चेन्द्र शालाभिश्च समन्वितम् ॥ ९२ ॥

तिलकक्षुद्र नास्योक्त तोरणैश्च समन्वितम्। ब्रह्मद्वार पताकाद्यै रङ्गैर्युक्तम् विमानकम् ॥ ९३ ॥

मण्टपे मण्टपम् यत्तु रन्गम् इत्यभिधीयते। मूलकूट्समायुक्ता बालकूट समन्विता ॥ ९४ ॥

कचगृह समायुक्ता सभेति परिकीर्तिता। विविधम् वस्तु मुख्यम् स्यद् गौणम् अन्यत् प्रकीर्तितम् ॥ ९५ ॥

यथोक्तम् मुख्यम् एवम् स्यात् तदभावे तु गौणकम् ॥ ९६ ॥

Pūrvapāda – Kapitel 51: Die Einsetzung der ersten Ziegel

आद्येष्टकाविधानम् तु वक्ष्ये हर्म्यादिकम् क्रमात्।
ऐन्द्रे वा चोत्तरे देशे कूटम् वा मण्टपम् प्रपा ॥ १ ॥

भूतादि विश्व हस्तान्तम् विमानाद्यैर् अलङ्कृतम्।
दर्भमाला समायुक्तम् दिगजैश्च समन्वितम् ॥ २ ॥

तन्मध्ये वेदिकाम् कुर्यात् तत्त्रिभगैक भागतह्।
एक हस्तम् द्विहस्तम् वा मुष्टिमात्र समन्वितम् ॥ ३ ॥

कुण्डानि कारयेद्दिक्षु विधिक्ष्वष्टौ प्रधानकम्।
पञ्च वचैक कुण्डम् वा वृत्तम् वा चतुरश्रकम् ॥ ४ ॥

विसृज्य शिल्पिनम् पश्चाद् गोमयेन तु लेपयेत्।
पञ्चगव्येन सम्प्रोक्ष्य हृदयेनानुमन्त्रतह् ॥ ५ ॥

त्र्यङ्गुलम् तु समारभ्य चैकाङ्गुल वर्धनात्।
अष्टत्रिम्शाङ्गुलान्तास्तु वेष्टक विस्तरा मता ॥ ६ ॥

एकादि द्वादशान्तानाम् तलानाम् स्यात्त्रयम् त्रयम्।
अथवा विस्तरास्तासम् पादव्यासम् महालये ॥ ७ ॥

सपादार्ध त्रिपादा वा द्विगुना वा सपादकाह्।
इष्ट्काया इह प्रोक्तम् विस्तारार्धम् त्रिपादकम् ॥ ८ ॥

पादम् वा पञ्चभागे तु त्रिद्व्यम्शम् वा घनम् भवेत्।
आचार्य आदिशैवस्तु शिवदीक्षासमन्वितह् ॥ ९ ॥

सुस्नातस्तु सुचिर्भूत्वा सकलीकृत विग्रहह्।
सुशुक्लवस्त्रस् सोष्णीषस् सोत्तरियस् सुभूषितह् ॥ १० ॥

पञाङ्गभूषणोपेतस् सशिष्य परिचारकह्।
इष्ट्काह् पञ्चगव्यैश्च क्षालयेद् वर्मणा गुरुह् ॥ ११ ॥

हेमकौतुक सूत्रेण कार्पसोत्थेन बन्धयेत्।
स्थण्डिलम् कारयेद् विद्वान् अष्टद्रोणैश्च शालिभिह् ॥ १२ ॥

तदर्धम् तण्डिलोपेतम् तण्डुलार्ध तिलान्वितम्।
तिलार्धम् लाजसम्युक्तम् दर्भैश्चैव समन्वितम् ॥ १३ ॥

इदम् उत्तम कल्पम् स्यात्तदर्धम् मध्यम् इष्यते।
तदर्धम् अधमम् ज्ञेयम् सर्वत्रैव विनिर्मितम् ॥ १४ ॥

लिखित्वाष्टदलम् पद्मम् कर्णिका केसरान्वितम्।
स्तण्डिलम् पञ्चगव्येन सम्प्रोक्ष्य हृदयेन तु ॥ १५ ॥

स्वस्वदिक्स्थापनार्थम् च लेखयेदिष्ट्कान्तरे।
पूर्वभगे त्वकारम् तु याम्ये त्वाकरम् एव च ॥ १६ ॥

इकारम् पश्चिमे देशे त्वीकारम् चोत्तरे न्यसेत्।
उकारम् ऊर्द्व भागे तु वस्त्रैराच्छाद्य पूजयेत् ॥ १७ ॥

ऋग्यजुस्सामाथर्वाणि शिवशस्त्रम् यथाक्रमम्।
अधिदेवाह् इह प्रोक्तह् पूर्वादीनाम् यथाक्रमम् ॥ १८ ॥

तन्तुनावेष्टितान् कुम्भान् गन्धाम्बु परिपूरितान्।
पिधानान् सितवस्त्राढ्यान् हेमयुक्तान् सकूर्चकान् ॥ १९ ॥

पुष्पाम्र पल्लवोपेतान् इन्द्राद्यष्ट दिशासु वै।
लोकपालाधिपानष्त शिवकुम्भ समायुतान् ॥ २० ॥

इन्द्रेशानान्तराले तु सम्स्थाप्यार्चयेद् बुधह्।
ततो होमह् प्रकर्तव्यस् त्वग्निकार्योक्त मार्गतह् ॥ २१ ॥

पलाशोदुम्बराश्वत्थ न्यग्रोधाह् प्राग्दिगादितह्।
वह्न्यपामार्ग खदिर वटस्त्वग्न्यादि कोणतह् ॥ २२ ॥

प्रधानस्य पलाशस्स्स्यात् समिदाज्य चरुम् तिलम्।
तण्डुलेन समायुक्तम् मूलब्रह्माङ्ग सम्युतम् ॥ २३ ॥

प्रत्येकम् होमयेद् धीमान् मध्ये दिक्षु विदिक्ष्वपि।
सहस्रम् वा तदर्धम् वा शतम् तस्यार्धम् एव वा ॥ २४ ॥

विन्यसेन् मूर्तिपान् तत्त्व तत्त्वेश्वर समन्वितान्।
तेषाम् होमम् विधातव्यम् पूर्णाहुतिम् अथाचरेत् ॥ २५ ॥

पभाते विधिना स्नात्वा देशिको मूर्तिपैस्सह।
सम्पूज्य चेष्ट्कान् कुम्भान् पूर्णाहुतिम् अथाचरेत् ॥ २६ ॥

प्रायश्चित्तम् ततो हुत्वा पुनह् पूर्णाहुतिम् चरेत्।
गर्भविन्यास मार्गोक्त स्थाने तान् विन्यसेत् क्रमात् ॥ २७ ॥

हृदौअम् चैव शिखा चैव कवचम् च शिरस् तथा।
मूलम् चैव क्रमेणैव पठेन्नेताम्श्च विन्यसेत् ॥ २८ ॥

अग्रम् अग्रम् तथैशान्यम् पृष्ठम् पृष्ठम् च नैरृते।
पृष्ठाग्रे त्वनले वायौ ज्ञात्वा कर्म समाचरेत् ॥ २९ ॥

मानुषे प्रागुदग् दीर्घा दिव्ये प्रत्यगायता।
इष्ट्का प्रागवागेका प्रक्षिप्यादौ क्रमेण तु ॥ ३० ॥

नन्द्यावर्ताकृति स्थाप्यम् इष्ट्कानाम् चतुष्टयम्।
पञ्चमीत्वीश वदना शैवी प्राग्वदना सुरे ॥ ३१ ॥

कौबेर वदनन् नॄणाम् एवम् ज्ञात्वा तु विन्यसेत्।
आचार्यम् प्राक् प्रपूज्याथ तेनैतत्कारयेत् सुधीह् ॥ ३२ ॥

निष्कादि नवनिष्कान्तम् काञ्चनम् देशिकस्य तु।
रत्नादीन् विन्यसेन् मध्ये त्ववटेशु च विन्यसेत् ॥ ३३ ॥

एकवर्गम् द्विवर्गम् वा त्रिवर्गम् सर्वम् एव वा।
गर्भन्यासोक्त मार्गेण विन्यसेद् देशिकोत्तमह् ॥ ३४ ॥

आदौ जलेव सम्पूर्य शिवकुम्भस्थितेन तु।
पुष्पम् निक्षिप्य तत्रैव पश्चाद् रत्नानि विन्यसेत् ॥ ३५ ॥

शुभ्रम् प्रदक्षिणावर्तो वामावर्तस्त्वशोभनम्।
वामावर्ते तु सम्जाते शान्तिहोमम् समाचरेत् ॥ ३६ ॥

मन्दिरे मण्टपे चैव प्राकारे गोपुरे गृहे।
परिवारालये पीठे शालायाम् च सभाविधौ ॥ ३७ ॥

पुष्कर्ण्याम् च कुल्यायाम् कुपे सेतोश्च बन्धने।
अनेनैव प्रकारेण कर्म चैतत् समाचरेत् ॥ ३८ ॥

अत्रानुक्तम् तु यत्सर्वम् गर्भन्यासोक्तम् आचरेत् ॥ ३९ ॥

Pūrvapāda – Kapitel 52: Untersockel und Sockel

उपपीठ विधिम् वक्श्ये अधिष्ठान समन्वितम्।
एकहस्तम् द्विहस्तम् वा त्रिहस्तम् परितोधिकम् ॥ १ ॥

विमानादि विशालात्त खातयेत् परितोधिकम्।
तत्र चिक्कण पाषाण मुष्टिमृद्वलुकादिभिह् ॥ २ ॥

अधिष्ठान षडष्टाम्श हीनम् तु परिपुरयेत्।
पञ्चाम्श द्व्यम्श त्र्यम्शम् वा हीनम् व परिकल्पयेत् ॥ ३ ॥

मुद्गरैर् गजपादैश्च काष्ठतुण्दैर् घनीकृते।
जलेन पूरिते तत्स्थम् निरुनमुदकम् यदि ॥ ४ ॥

तद्व्यपोह्य समुद्धृत्य दण्डमानम् तु शैलके।
पतिते भारमात्रे तु न निम्नम् च भवेद्यदि ॥ ५ ॥

तत आरभ्य शैलैर् वा त्विष्ट्काभिश्च बन्धयेत्।
आदौ प्रकृति भूमिस्स्यात् त्रिप्रकार तु सा स्मृता ॥ ६ ॥

प्रकृतिर् हस्तमात्रेण चोत्तमे तु प्रशस्यते।
अष्टादशाङ्गुल मध्ये हीने स्याद्द्वादशाङ्गुलम् ॥ ७ ॥

जलस्य निस्रवार्थम् तु प्रतिशालम् प्रकल्पयेत्।
षड्ङ्गुल क्षयेणादौ चतुरर्धम् द्वितीयके ॥ ८ ॥

पक्षयोस्त्रयङ्गुलम् हीनम् प्रकृत्युपरि जन्मभूह्।
तदुपानम् इति प्रोक्ता सैव भौमा प्रकीर्तिता ॥ ९ ॥

तदूर्ध्वस्थम् अधिष्ठानम् केवल्म् तु विधीयते।
पादविस्तार मानेन साध्याएर्ध द्वित्रि दण्डकम् ॥ १० ॥

निर्गतम् बाह्यदेशे तु तदर्धबहुलान्वितम्।
उपानोपरि पद्मम् वा सोपानम् तु तदूर्ध्वतह् ॥ ११ ॥

यथा शोभाम्शमानेन भूतवेदाग्नि भाजिते।
उन्नतार्थम् च शोभार्थम् रक्षार्थम् च बलार्थकम् ॥ १२ ॥

सभद्रम् वा विभद्रम् वा जन्मपभ्रुति मध्यमे।
उपपीठम् विधातव्यम् अदिष्ठानोदयार्धतह् ॥ १३ ॥

पादेन च त्रिपादेन समेन त्रिगुणेन वा।
पञ्चाम्शे तु त्रयम्शेन वह्न्यम्शे त्वेकभागतह् ॥ १४ ॥

तदुच्चार्धम् त्रिपादम् वा पादम् वाष्टाम्शहीनकम्।
द्विदण्डम् वा त्रिदण्डम् वा निर्गमम् पादबाह्यतह् ॥ १५ ॥

पादुकाच्च बहिर्वाधो उपानस्तम्भ बाह्यकम्।
नवपङ्क्त्याम्शकम् कृत्वा त्र्यम्शोच्चोपानम् इष्यते ॥ १६ ॥

द्व्यम्शम् पद्मम् तदूर्ध्वम् तु कम्पम् एकाम्शम् इष्यते।
षडम्शह् कर्णम् इष्टम् स्याच् छेषम् प्राग्वद् ईरितम् ॥ १७ ॥

कम्पस्त्वम्शेन कर्तव्यम् अष्टाम्शम् उप्पीठकम्।
तदेवोर्ध्वम् अधस्ताच्चेत् अम्बुजेन विहीनकम् ॥ १८ ॥

षडम्शम् उपपीठम् स्याच् चतुर्विम्शति भाजिते।
तदर्धम् करणम् प्राग्वद् अम्शेनोत्तरम् इष्यते ॥ १९ ॥

रुद्राम्शेन त्रिभागेन कपोतम् इहसम्मतम्।
अलिन्दान्तरितम् द्व्यम्शम् प्रत्युत्सेधम् ते तत्समम् ॥ २० ॥

वाजनम् त्वेकभागम् स्यात् कर्णस्त्वष्टाम्श इष्यते।
उत्तरे चैकभागम् स्याद् रुद्रभागेन कीर्तिता ॥ २१ ॥

कपोतकम् त्रिभागेन भागेनालिन्दम् इष्यते।
अन्तरीतम् तु भागेन भागाभ्याम् प्रति इष्यते ॥ २२ ॥

प्रतिवाजनम् एकाम्शम् सर्वालङ्कार सम्युतम्।
त्रिसप्ताम्शत उत्सेधो द्वाभ्याम् जन्म तथाम्बुजम् ॥ २३ ॥

गलमर्धेन चार्धेन पद्मम् द्व्यम्शेन वाजनम्।
अर्धेनाब्जम् तथा कम्पम् अष्टाम्शम् कर्णम् ईरितम् ॥ २४ ॥

अम्शेनोत्तरम् अर्धेन पद्मम् चोपानकम् त्रिभिह्।
भागार्धम् ऊर्ध्वकम्पस्स्यात् त्रिस्सप्तम्शे तदुन्नते ॥ २५ ॥

जन्म द्व्यम्शेन त्र्यम्शेन पद्मम् अम्शेन कन्धरम्।
बाह्यवाजनम् एकेन कम्पम् अष्टाम्शकैर् गलम् ॥ २६ ॥

अम्शेनोत्तरम् अम्शाभ्याम् वाजनम् कम्पम् अम्शकम्।
सिम्हेभ मकरैर् व्यालैर् भूतैह् पत्रैरलङ्कृतम् ॥ २७ ॥

प्रतिवक्त्रम् चषालम् स्याद् बालेनारूढ मस्तकम्।
अर्पिते नार्पिते मत्स्यैस् सर्वत्र परिकल्पयेत् ॥ २८ ॥

अङ्गमङ्गम् विशेषेण वृद्धिम् हानिम् च कारयेत्।
चतुह् पञ्च षडम्शम् वा सप्ताष्टाम्शम् अथापि वा ॥ २९ ॥

अम्शद्वयम् त्रयाम्शम् वा परिगृह्यावशेषतह्।
परिलोप्य विधातव्यम् आद्यङ्गत्वोप पीठकम् ॥ ३० ॥

अनेनैव प्रकारेण ह्यधिष्ठानम् च कारयेत्।
द्विविधम् तदिह प्रोक्तम् प्रत्यन्गम् पत्तिकन्गकम् ॥ ३१ ॥

चतुर्विम्शति भागम् तु कृत्वाधिष्ठान तुङ्गकम्।
जगत्यष्टाम्शकेनोक्ता कुमुदक् तत्समानकम् ॥ ३२ ॥

अष्ट्पादम् तदुद्दिष्टम् कम्पम् अम्शत्रिभागभाक्।
कर्णत्वम्शेन कम्पम् स्यात् त्र्यम्शम् वाजनम् इष्यते ॥ ३३ ॥

जगती प्राग्वदुद्दिष्टा सप्ताम्शम् कुमुदम् भवेत्।
पद्मम् अम्शेन कर्तव्यम् शेषम् पूर्ववदाचरेत् ॥ ३४ ॥

सप्ताम्शा जगतीप्रोक्ता षडम्शम् कुमुदम् भवेत्।
पद्मम् अम्शेन कर्तव्यम् कम्पम् एकाम्शतो भवेत् ॥ ३५ ॥

त्र्यम्शम् गलम् इत्युक्तम् एकाम्शम् चोर्ध्वकम्पकम्।
पद्मम् एकाम्शतो ज्ञेयम् वाजनम् द्व्यम्शम् इष्यते ॥ ३६ ॥

ऊर्ध्वपद्मम् तदैकाम्शम् उप्कम्पम् तथैव च।
पञ्चाम्शा जगती प्रोक्ता पद्मम् एकाम्शतो भवेत् ॥ ३७ ॥

दृगम्शेनाम्शतह् पद्मम् कुमुदम् चतुरम्शकम्।
शेषम् प्राग्वत्समुद्दिष्टम् कम्पस्तम्भोदयाश्रेइतम् ॥ ३८ ॥

भागेनैकेन जन्म स्यात् त्रिभागम् गलम् उच्यते।
कम्पम् एकाम्शतो ज्ञेयम् षडम्शम् जगतिर् भवेत् ॥ ३९ ॥

एकेन पद्मम् अम्शेन गलम् एकेन पद्मकम्।
त्रिभागम् कुमुदम् पद्मम् एकाम्शम् परिकीतितम् ॥ ४० ॥

एकेन कम्पम् द्व्यम्शेन गलम् अम्शेन कम्पकम्।
दलम् अम्शेन कर्तव्यम् वाजनम् द्व्यम्शम् ईरितम् ॥ ४१ ॥

एकाम्शम् जलजम् प्रोक्तम् कम्पम् अम्शेन कीर्तितम्।
एक भागेन जन्मस्यात् पञ्चाम्शा जगतिर् भवेत् ॥ ४२ ॥

प्रकर्तव्ये तथान्येषाम् सर्वम् एतत् प्रकल्पयेत्।
आत्ताधिष्ठान तुन्गेन द्विगुणापात तुन्गता ॥ ४३ ॥

अथवात्ताम्शमानेन तम् भेदैह् परिकल्पयेत्।
एकम्शम् जलजम् प्रोक्तम् गलम् अर्धाशतो भवेत् ॥ ४४ ॥

ऊर्ध्वपद्मम् तथार्धाम्शम् चतुर्भिह् कुमुदम् भवेत्।
अर्धेन पद्मम् अर्धेन कम्पम्द्व्यर्धाम्शकैर् गलम् ॥ ४५ ॥

अम्शेन कम्पम् अर्धेन पद्मम् द्व्यम्शेन वाजनम्।
अर्धेन पद्मम् एकेन कम्पम् अर्धेन पद्मकम् ॥ ४६ ॥

एकेन जन्म द्वाभ्याम् तु पद्मम् एकेन कम्पकम्।
षडम्शा जगती वेदभागम् च कुमुदम् भवेत् ॥ ४७ ॥

एकाम्शम् कम्पकर्णौ दृग्भागम् भागेन निर्मितम्।
कम्पम् एकेन कर्तव्यम् वाजनम् द्व्यम्शम् इष्यते ॥ ४८ ॥

एकाम्शम् कम्पकम् पद्मम् सार्धेनार्धेन कम्पकम्।
षड्विम्शत्यम्शकम् प्रोक्तम् सर्वस्मिन् धाम्नि योजयेत् ॥ ४९ ॥

द्विभगम् जन्म सम्प्रोक्तम् एकाम्शम् पद्मम् इष्यते।
एकेन कम्पकम् पञ्चभागेन जगती भवेत् ॥ ५० ॥

कुमुदम् चतुरम्शम् स्याद् एकम् पद्मम् तु भागतह्।
कम्पकर्णौ द्विभागेन एकम् कम्पम् तथाब्जकम् ॥ ५१ ॥

वाजनम् तु द्विभागम् स्यात् कम्पम् अम्शेन कीर्तितम्।
एवम् स्यात् पादबन्धम् तु छेदनीयम् यथोचितम् ॥ ५२ ॥

देवानाम् च द्विजातीनाम् चतुर्णामपि योग्यकम्।
प्रतिबन्धम् प्रवक्ष्यामि त्रयोविम्शति भाजिते ॥ ५३ ॥

अष्टाम्शा जगट् प्रोक्ता कुमुदम् तत्समनकम्।
आलिङ्गम् अर्धभागम् स्याद् द्वाविम्शत्यम्शके कृते ॥ ५४ ॥

तदेवम् कुमुदम् प्रोक्तम् वाजनम् स्यात्कपोतकम् ॥ ५५ ॥

प्रत्युत्सेधम् त्रिभागेन साब्जकम् पञ्चभागतह्।
देवद्विज नरेन्द्राणाम् प्रशस्तम् नान्य जातिषु ॥ ५६ ॥

अष्टाम्शम् अम्बुजम् प्रोक्तम् कण्ठभागे च भागतह्।
अम्बुजम् कुमुदम् भूतैरेकाम्शम् पद्मम् इष्यते ॥ ५७ ॥

आलिङ्गस्य द्विभागम् स्यात् तथैवान्तरितम् मतम्।
प्रत्युत्सेधम् त्रिभागेन साब्जक्षेपणम् अम्शुकम् ॥ ५८ ॥

तृतीयम् विम्शतिभागैह् कल्पयेत् कल्पवित्तमह्।
अष्टभागम् महापद्मम् रन्ध्रकेनाम्शतो अम्बुजम् ॥ ५९ ॥

वृत्तम् तु पञ्चभागेन भागेनोर्ध्वाम्बुजम् भवेत्।
कम्पम् एकेन कर्णस्तु त्रिभिरम्शेन वाजनम् ॥ ६० ॥

इन्द्राम्शेअ कपोतस्तु सार्धद्व्यम्शेन कल्पितम्।
आलिङ्गान्तरिते द्वाभ्याम् प्रतिभाग द्वयेन तु ॥ ६१ ॥

अर्धाम्शेनोर्ध्व कम्पम् तु भागेन त्रिम्शदम्शके।
एकविम्शति भागे तु जन्मभागेन कीर्तितम् ॥ ६२ ॥

सार्धेन पद्मम् अर्धेन कम्पम् स्यात्सप्त भागतह्।
जगती कुमुदम् षड्भिर् एकेनालिङ्गगम् अम्शके ॥ ६३ ॥

प्रोक्तम् अन्तरितम् द्वाभ्याम् प्रतिसाब्जम् तु वाजनम्।
एकभागेन कर्तव्यम् लतापत्रादि शोभितम् ॥ ६४ ॥

द्वात्रिम्शद् भजिते तुङ्गे जन्म द्वाभ्याम् अथैकतह्।
वाजनम् स्यान् महापद्मम् सप्तभागेन कीर्तितम् ॥ ६५ ॥

कर्णस्त्वम्शेन पद्मम् स्यादेकम् वेदेन वृत्तकम्।
अब्जम् एकेन कम्पम् स्यादम्शम् अग्न्यम्शकैर् गलम् ॥ ६६ ॥

कम्पम् एकेन तद्वत्स्यात् पद्मम् वेदैह् कपोतकम्।
आलिङ्गान्तरिते द्वाभ्याम् प्रतिभग द्वयेन तु ॥ ६७ ॥

सपद्मकम्पम् एकेन सर्वालङ्कार शोभितम्।
एकेन जन्म षड्भागैर् जगती शरभागकम् ॥ ६८ ॥

कुमुदम् भागवेत्रम् स्यात् त्रिभिह् कण्ठह् प्रकीर्तितह्।
एकेन कम्पम् अम्शेन गलम् त्र्यम्शैह् कपोतकम् ॥ ६९ ॥

एकम् कम्पम् भवेदुच्चैह् कृते द्वाविम्शकाम्शके।
ततदेव भवेदूर्ध्वम् भागेनान्तरितम् भवेत् ॥ ७० ॥

द्वाभ्याम् प्रत्रथाम्शेन गल त्र्यम्शैह् कपोतकम्।
सार्धजम् वार्धजम् कम्पम् महापद्मम् शराम्शकम् ॥ ७१ ॥

गलम् अम्शेन भागेन गलवृत्तम् त्रिभागिकम्।
पद्मम् अम्शम् भवेत्कम्पम् अम्शेन परिकीर्तितम् ॥ ७२ ॥

अम्शेनान्तरितम् द्वाभ्याम् प्रत्रम्शेन वाजनम्।
द्वाभ्याम् जन्माम्शतह् पद्मम् कम्पम् एकेन कीर्तितम् ॥ ७३ ॥

जगती पञ्चभगेन वेदाम्शैह् कुमुदम् भवेत्।
एकाम्शम् पद्मम् एकेन पद्मम् कण्ठो द्विभागतह् ॥ ७४ ॥

कम्पम् अम्शेन भागेन पद्मम् द्वाभ्याम् कपोतकम्।
एकेन कम्पम् अम्शेन त्र्यम्शम् द्वाभ्याम् प्रतिर्बह्वेत् ॥ ७५ ॥

अम्शेन वाजनम् तुन्गे कृते षड्विम्शकाम्शके।
त्रयम्शम् प्रतिश्च कम्पम् च त्यक्त्वान्यैरन्यदिष्यते ॥ ७६ ॥

एकेन जन्म बागाभ्याम् पद्मम् अम्शेन कम्पकम्।
जगती चतुरम्शेन कम्पम् पद्मम् द्विभागकम् ॥ ७७ ॥

कम्पम् अम्शेन भागेन पद्मम् वृत्तम् त्रिभिर् भवेत्।
एकाम्शम् पद्मम् आलिङ्गम् अम्शम् अन्तरितम् तथा ॥ ७८ ॥

द्वाभ्याम् प्रतिश्च भागेन वाजनम् पञ्चविम्शके।
यवम् एकम् समारभ्य चैकैक विवर्धनात् ॥ ७९ ॥

पञ्चमात्रान्तकम् वृद्धिम् आधिक्यम् वा प्रकल्पयेत्।
मसूरकम् अदिष्ठानम् वस्त्वाधारम् धरातलम् ॥ ८० ॥

तलम् कुट्टिमम् आद्यङ्गम् पर्याय वचनानि हि।
जगत्या निष्क्रमो यावत् तावदेव च कैरवे ॥ ८१ ॥

अम्बुजानाम् च सर्वेषाम् स्वे स्वे यो न् इष्क्रमो मतह्।
वेत्रणाम् अपि सर्वेषाम् चतुर्भागैक निर्गमह् ॥ ८२ ॥

स्वसमो वा त्रिभागो वा महावाजन निर्गमह्।
एवेम् निवृत्तम् एवम् स्यात् शोभाबल वशेन वा ॥ ८३ ॥

प्रवेश निर्गमो कार्यो सर्वाङ्गानाम् मसूरके।
प्रतिच्छेदो न कर्तव्यो सर्वत्रैव विचक्षणैह् ॥ ८४ ॥

द्वारार्थम् यह् परिच्छेदस् सम्पद्द्वारम् च नेत्यलम्।
स्वायम्भुवादि लिङ्गेषु प्रतिच्छेदो न दोषकृत् ॥ ८५ ॥

पादबन्धम् अधिष्ठानम् छेदनीयम् यथोचितम्।
जन्मादि पञ्च वर्गेषु ततदम्शे अवसानके ॥ ८६ ॥

पट्टिकाङ्गे त्वधिष्ठनैरन्यस्मिन्नैवम् ऊह्यताम्।
तदधिष्ठानमानम् च श्रूयताम् मुनिपुङ्गवाह् ॥ ८७ ॥

देवानाम् स्याच्चतुर्हस्तम् द्विजानाम् तत्समो भवेत्।
नृपाणाम् त्रिकरम् सार्धम् द्विहस्तम् यौवराजकम् ॥ ८८ ॥

द्विहस्तम् वाणिजतेक हस्तम् शूद्रस्य कीर्तितम्।
एतज् जातिवशाद् भूमिवशादत्रैव कथ्यते ॥ ८९ ॥

दण्डात् षण्मात्र हत्यात्तु द्वादशाद्यात् त्रिभूमिकम्।
त्रितलोत्तमस्येष्टम् पादोनोनम् द्विहस्तकम् ॥ ९० ॥

महत्तराणाम् क्षुद्राणाम् मानम् एवात्र चानयेत्।
मसूरकोन्नतम् पञ्च हस्तैर्द्वात्रिम्शद् अङ्गुलम् ॥ ९१ ॥

त्रिम्शदङ्गुल मूलम् वा द्विद्व्यङ्गुल विवर्धनात्।
अष्टत्रिम्शाङ्गुलम् चान्ये त्रयोदश विशालतह् ॥ ९२ ॥

षडादीनाम् तु पञ्क्त्यानाम् एकत्रिम्शङ्गुलदितह्।
नवत्रिम्शाङ्गुलम् तस्याच् चतुर्दश करस्य तु ॥ ९३ ॥

त्रिचतुर् हस्तयोर् धाम्नोस् तन्नीत्यैव विनिश्चयह्।
आत्तोत्सेधाम्श मानम् वाधिष्ठानस्य विधीयते ॥ ९४ ॥

तत्तत्पादोदयार्धेन षडष्टाम्शोन मानतह्।
अधिष्ठनोच्छ्रयो वा स्यात् पादतुङ्गोनम् एव वा ॥ ९५ ॥

त्रिभागाद्रवि भागान्तम् त्यक्त्वाधिष्ठान तुङ्गकम्।
भागेन वा प्रकर्तव्यम् अङ्गुलैर् वा यवैस्तु वा ॥ ९६ ॥

न्यूनम् वाप्यधिकम् वापि कारयेत् कर्तुरिच्छया।
अदिष्ठानादि षड्वर्गेप् येवमेव समाचरेत् ॥ ९७ ॥

Pūrvapāda – Kapitel 53: Säulenmaße

अतह् परम् प्रवक्ष्यामि पादमानम् विचक्षणा।
पादश्च द्विविधो होमस्तम्भस्स्यात् प्रतिपादकह् ॥ १ ॥

अधिष्ठानोपगुढस्तु निघातस्तम्भ इष्यते।
प्रतिस्तम्भव्र्र्तेरूर्ध्वे चोत्तरान्त समायतिह् ॥ २ ॥

सवितस्त्यष्ठस्तोच्चह् प्र्तिस्तम्भोदयो मतह्।
अयम् द्वादशभुमेस्स्यात् तलम् प्रति तलम् प्रति ॥ ३ ॥

वितस्त्याह् क्षपयेदेक भूमौ त्रिकर इष्यते।
अनेनैव क्रमान्नेयम् षोडशक्ष्मान्तम् एव हि ॥ ४ ॥

द्व्यन्तराणम् च षड्वेदाङ्गुलेन क्ष्य इष्यते।
जातीतराणाम् क्षपणम् द्वाभ्याम् वा त्र्यङ्गुलेन वा ॥ ५ ॥

रविभौमस्य विसृतिरष्टाविम्शति मात्रकम्।
द्व्यङ्गुलेन क्षयौ भूमौ भूमावेव षडङ्गुला ॥ ६ ॥

एकभूस्तम्भ विस्तारस् तलोपरि तले मतम्।
द्व्यन्तराणाम् च सर्वेषाम् द्वाभ्याम् व त्रिभिरङ्गुलैह् ॥ ७ ॥

ऊनाधिक्ये प्रकर्तव्ये तथान्येषाम् प्रकल्पयेत्।
आत्ताधिष्ठान तुन्गेन द्विगुणह् पाद तुङ्गतह् ॥ ८ ॥

अथवात्ताम्श मानेन स्तम्भ दैर्घ्यम् प्रकल्प्यताम्।
आत्तोत्सेध मानम् तु षड्सप्ताष्ट नवाम्श्कम् ॥ ९ ॥

हीनम् वाप्यधिकम् वापि स्तम्भोत्सेधम् प्रकल्पयेत्।
अथवा स्तम्भतुङ्गे तु वसुनन्द दशाम्शके ॥ १० ॥

विस्स्तारस्त्वेक भागस्स्यात् सर्वे य्द्दारु पादके।
तद्व्य्सार्धम् च पादेन त्रिद्व्यम्शम् व प्रकल्पयेत् ॥ ११ ॥

भित्तिस्तम्भ विशालम् यत्तेन द्वित्रिगुणम् मतम्।
शिलास्तम्भ विशालम् स्याद् यथेष्टम् वा प्रकल्पयेत् ॥ १२ ॥

षडम्शम् तु समारभ्य द्वादशाम्श समावधि।
भागम् कृत्वैक भागेन वोर्ध्वोर्ध्वम् स्तम्भ तुन्गकम् ॥ १३ ॥

मूलादग्रम् यथाप्रोक्तम् कुड्यम् चापि तथा मतम्।
द्वित्रिवेद चतुर् दण्डह् कुड्य विस्तार इष्यते ॥ १४ ॥

पञ्चषड्गुणितो वापि स्तम्भालङ्कार इष्यते।
उच्यते चतुरश्रम् च वृत्तम् वा तत्प्रकीर्तितम् ॥ १५ ॥

सर्वम् तच्चतुरश्रम् तु कुम्भमण्डी समन्वितम्।
ब्रह्मकान्तम् विजानीयाद् व्यास त्रिगुण मानतह् ॥ १६ ॥

मध्ये अष्टाश्रम् पोतिकान्तम् मद्याष्टाश्रम् प्रकल्पयेत्।
सर्वत्राश्टाश्र सम्युक्तम् कुम्भमण्ड्यादि सम्युतम् ॥ १७ ॥

विष्णुकान्तम् स्वयम् नाम्ना कौमारम् स्यात्षडश्रकम्।
भानुकान्तम् तदग्रम् स्यात् कलाश्रम् चन्द्रकान्तकम् ॥ १८ ॥

मूले कर्णप्रमाणेन चतुरश्रस्तदूर्ध्वतह्।
पूर्वोक्ताकृति सम्युक्ताह् पूर्वाश्रा ननु कीर्तिताह् ॥ १९ ॥

सर्वत्र वृत्तसम्युक्तम् ईशकान्तम् इति स्मृतम्।
समत्रिभग मानेन चतुरष्टाश्र वृत्तकम् ॥ २० ॥

कुम्भमण्ड्यादि सहितो रुद्रकान्तस्तु कीर्तितह्।
शुक्लभेद समयुक्त ईशकान्तह् प्रकीर्तितह् ॥ २१ ॥

पिण्डपाद इतिप्रोक्तो मूले विपुलमानतह्।
चतुरश्रस् तदूर्ध्वे तु षोडशाश्रादि सम्युतह् ॥ २२ ॥

स्यान्मूल चतुरश्रो असौ स्तम्भ व्यासो द्वयेन च।
विस्तृतम् तु तदूर्ध्वोच्चम् मूले पद्मासनम् भवेत् ॥ २३ ॥

यथेष्टाकृति शेषम् तु मूलपद्मासनम् भवेत्।
द्वित्रिदण्ड विशालोच्चो लूखलो यदि मूलतह् ॥ २४ ॥

तदूर्ध्वे अष्टाश्र सम्युक्तस् स्यादुलूखल पादतह्।
उदयम् तु चतुर्भागस् सिम्हव्यालेभ भूतकैह् ॥ २५ ॥

नरनारीयुतो मूले यतेष्टाकार सम्युतह्।
उपरिष्टाच्च तन्नाम्ना पदाश्च बहवो मताह् ॥ २६ ॥

स्तम्भार्ध निष्क्रमह् कुड्यादष्टाश्राणाम् विधीयते।
त्रिभाकैकम् च वृत्तानाम् वेदाश्राणाम् तु पादतह् ॥ २७ ॥

कुम्भह् चतुर्विधह् प्रोक्तह् सपादस्सार्ध एव च।
पादोनद्विगुणश्चैव द्विगुणस्तून्नति क्रमात् ॥ २८ ॥

श्रीकान्त ब्रह्मकान्तादि चन्द्रकान्ताह् प्रकीर्तिताह्।
भानुकान्त इति प्रोक्तस् तदुच्चे तु नवाम्शके ॥ २९ ॥

अम्शेन दृग्चतुर्भागह् कलशह् कण्ठ एकतह्।
आस्यम् अम्शम् अथाम्शेन पद्मम् अर्धेन वृत्तकम् ॥ ३० ॥

अर्धेन हीनको कार्यौ स्तम्भ द्विगुण मानतह्।
कुम्भविस्तार उद्दिष्टश् चाध्यर्धम् चास्यम् ईरितम् ॥ ३१ ॥

मूलपाद विशालम् तु हीनको पादविस्तरौ।
दृक्कण्ठो च विधातव्यो पादविस्तार मानतह् ॥ ३२ ॥

तद्विस्तार समायुक्तम् ततो द्विगुण मुलतह्।
किञ्चितग्रम् विहीनम् स्यात् कमलम् तदधो भवेत् ॥ ३३ ॥

अष्टाम्शाधिकाद् व्यासम् अर्धपादेन तुन्गकम्।
मूलस्थान अधस्तात् सुआद् दण्डमानम् अथोच्यते ॥ ३४ ॥

त्रिगुणार्धयुता सा च चतुरश्रा समायता।
मण्डिता पञ्चधा कृत्वा सार्धेन फलकासनम् ॥ ३५ ॥

तत्समम् वेत्रम् इत्युक्तम् मुण्डी शेषेण कल्प्यताम्।
दण्डाकारस्तु वेत्रान्तम् पदाकार समो भवेत् ॥ ३६ ॥

पालिकाभा च पद्माग्रा तथा नागतलाकृतिह्।
त्रिधा मण्डी समाख्याता पादोर्ध्वे पोतिका भवेत् ॥ ३७ ॥

नागवृत्ता पत्रचित्रा समुद्रोर्मिरिति त्रिधा।
स्तम्भत्रिगुण माना सा दण्डोदय समायुता ॥ ३८ ॥

छाया क्षेपण सम्युक्ता नागवृत्तेति कीर्तिता।
चतुर्दण्ड समायामा त्रिपादोदय सम्युता ॥ ३९ ॥

छायाक्षेपण पत्रैश्च युक्ता पत्र विचित्रिता।
पञ्चदण्ड समायामा दण्डमान समोदया ॥ ४० ॥

चतुर्भागैकतानेन युक्ता युग्मैस्तरङ्गकैह्।
यथेष्टैह् पार्श्वयोश्चैव समुद्रोर्मिरिति स्मृता ॥ ४१ ॥

पोतिकानाम् च सर्वानाम् विस्तारह् पादतस्समह्।
तदुच्चस्त्रित्रिभागेन तस्यास्त्वग्रे तु पट्टिका ॥ ४२ ॥

तदर्धार्धेन कर्तव्यम् तदधह् क्षेपणम् द्विजाह्।
छायायामम् तदुच्चार्धम् त्रिद्व्यम्शम् वाथ कल्पयेत् ॥ ४३ ॥

स्वव्यासार्धम् त्रिभागम् वा त्वग्रमण्डनम् इष्यते।
सनालिकम् समतलम् सिम्हव्यालादि मण्डितम् ॥ ४४ ॥

मुष्ट्बन्धिपरि क्षिप्तम् व्यालाद्यैर् भूषितम् तु वा।
पूर्वाश्र चतुरश्राणाम् नागवृत्ता प्रकीर्तिताह् ॥ ४५ ॥

सर्वेषु चातिहारेषु पत्रचित्रा प्रकीर्तिता।
समुद्रोर्मिस्तथान्येषाम् पादानाम् फलका मता ॥ ४६ ॥

विस्तारे त्रिचतुर्भागे चैकाम्शेन शिखा भवेत्।
हस्तादि पञ्च हस्तान्तम् षड्षडङ्गुल वर्धनात् ॥ ४७ ॥

स्तम्भान्तरम् प्रयोक्तव्यम् ओजम् वा युग्मम् एव वा।
समास्स्तम्भान्तरास्सर्वे प्रासादे सार्वदेशिके ॥ ४८ ॥

विषमस्तम्भ भागम् तु वास्तु चाशु विनश्यति।
सायम् चापि च तत्सर्वम् तत्प्रकारेण कारयेत् ॥ ४९ ॥

शिलामयस्तु देवानाम् अन्येषाम् नैव कीर्तितह्।
इष्टकाभिर् दृमैस् सर्वे स्तम्भह् कार्या विचक्षणैह् ॥ ५० ॥

युग्मायुग्मास्तु देवानाम् अयुग्मास्तु नृणाम् मताह्।
अन्तस्स्तम्भा बहिस्स्तम्भा ऋजुस्तम्भास्समा मताह् ॥ ५१ ॥

अधिष्ठानम् च पादम् च भित्तिरुत्तर सम्ज्ञकम्।
तुला जयन्ती चाख्याता छायाख्यम् इति कीर्तितम् ॥ ५२ ॥

एभ्यो विशिष्टम् यद्वस्तु तनुकायम् इति स्मृतम् ॥ ५३ ॥

Pūrvapāda – Kapitel 54: Das Gebälk

अथ वक्ष्ये विशेषेण प्रस्तर्स्य विधिक्रमम्।
उत्तरम् वाजनम् चैव मुष्टिबन्धम् मृणालिकम् ॥ १ ॥

दण्डिका वलयक्षुद्र गोपानाच्छादनानि च।
आलिङ्गान्तरिता चैव प्रत्यङ्गम् वाजनम् क्रमात् ॥ २ ॥

त्रयम्शैकाम्शाम्श पञ्चैक द्वित्रिभागैक भागकैह्।
त्रिभागेनैक भागेन उपर्युपरि योजयेत् ॥ ३ ॥

एतानि प्रस्तराङ्गानि त्रिविधम् चोत्तरम् भवेत्।
खण्दोत्तरम् पत्रबन्धम् रूपोत्तरम् इह द्विजाह् ॥ ४ ॥

पादविस्तार विस्तारम् समोदय समन्वितम्।
खण्डोत्तरम् इति ज्ञेयम् पादेनोत्सेध सम्युतम् ॥ ५ ॥

पादविस्तार सम्युक्तम् पत्रबन्धम् इति स्मृतम्।
अर्धोच्चम् पादविस्तारम् रूपोत्तरम् इहोदितम् ॥ ६ ॥

त्रिभागम् वा त्रित्रिभागोनम् अर्धम् वा कर्णनिर्गमम्।
स्वस्तिकम् वार्धमानम् च नन्द्यावर्त समाकृति ॥ ७ ॥

सर्वतोभद्र वृत्तम् वा प्रत्युत्त्र निवेशनम्।
प्रागुक्तोत्सेध सम्युक्तम् तत्पादादथ विस्तरम् ॥ ८ ॥

छन्दह् पादाग्र सम्युक्तम् अथवा परिकल्पयेत्।
तदुच्च त्रिचतुर्भाग निर्गमोद्गम सम्युतम् ॥ ९ ॥

वाजनम् चतुरश्रम् वा पञ्चाश्रम् चोत्तरोपरि।
आयतम् त्रिचौर्पञ्च दण्डैरर्धम् त्रिपादिकम् ॥ १० ॥

विस्तारम् तत्समोत्सेधम् पोतिकालङ्कृतिक्रियाम्।
सनालिक विधीनम् स्यान् मृणालिकम् अथोपरि ॥ ११ ॥

तुलावलीकयोर्मध्ये क्षोणी वाजनम् एवे वा।
स्तम्भ व्यासी त्रिपादोच्चा त्वर्धपादेन विस्तरा ॥ १२ ॥

महाभारतुला कार्या वलीकोर्ध्वे विशेषतह्।
तुलावितार तारोच्चा जयन्ति स्यात्तुलोपरि ॥ १३ ॥

अर्धदण्डघनोपेत मध्यर्धोच्चम् समोदरम्।
स्थानमार्गम् जयन्त्यूर्ध्वे पार्श्वगम् तूत्तरम् भवेत् ॥ १४ ॥

वाजनाश्च तुलाद्वारानुगास्सर्वत्र कीर्तिताह्।
जयन्तीवम्शका ज्ञेया तुलावदनुमार्गकम् ॥ १५ ॥

प्रस्तरह् पादविष्कम्भस् त्रिदण्डम् चार्ध दण्डकम्।
तुलावलीकयोर् मध्ये द्विदण्डम् अथवापुनह् ॥ १६ ॥

एकदण्डान्तरम् वापि जयन्त्युत्तरम् एव च।
पादात्पाद विवृद्ध्या तु त्रिदण्डान्तम् प्रकल्पयेत् ॥ १७ ॥

तथिव चानुमार्गाणाम् अन्तरम् प्रविधीयते।
अनुमार्गयुतम् वापि रहितम् वापि कारयेत् ॥ १८ ॥

यथा बलम् यह्ता शोभम् आच्छाद्यम् तदुपर्यथ।
दारुभिर्वेष्टकाभिर् वा यथाबल घ्नान्वितम् ॥ १९ ॥

हम्स भूतबलिर्वाथ निद्रा वा दण्डमानतह्।
त्रिपादोदय युक्ता वा विधेया वाजनोपरि ॥ २० ॥

बहिह् कपोतकरणम् वाजनोपरि कल्पयेत्।
अध्यर्थद्वित्रिदण्डो वा निर्गमश्चोद्गमो भवेत् ॥ २१ ॥

अर्धत्रिपाद दण्डम् वा कपोतालम्बनम् भवेत्।
उत्तरोप्रि सम्स्थाप्य वाजनस्य तदूर्ध्वकम् ॥ २२ ॥

पोतिकान्तावलम्बम् वा तुलान्तरितमन्तरम्।
दण्डार्धात् पादवृद्ध्या तु त्रिद्ण्डान्तम् तदुच्यते ॥ २३ ॥

तदर्धार्ध त्रिभागैकम् सोपान घनम् इष्यते।
पादाष्टाम्श षडम्शैक फलकैश् छादयेत् परि ॥ २४ ॥

कम्पास्तदुपरि क्षेप्या यथेष्टाकृति विस्तरैह्।
छादयेल् लोहलोष्टैर् वा मृल्लोष्टैर् व द्विजोत्तमह् ॥ २५ ॥

सोपान निगमाद्येन दण्डिका निर्गमो भवेत्।
दण्डिका पादतारार्धम् तदर्धम् हि निर्गमो भवेत् ॥ २६ ॥

दण्डिकाविपुलोपेतम् तदर्धम् च गलान्वितम्।
सनालिकम् तु मण्ड्यङ्गम् दण्ड निष्क्रम सम्युतम् ॥ २७ ॥

मुष्टिबन्धम् पृथक् कुर्याद् वाजनोपरि बुद्धिमान्।
तुलाच्छेदेन वा कुर्यात् स्तम्भाग्र विपुलान्वितम् ॥ २८ ॥

तदर्धम् निष्क्रमोपेतम् स्वाग्र पट्टिकयान्वितम्।
कायापादम् नयेद् धीमान् दण्द्;इका वाजनान्तरे ॥ २९ ॥

कायापादान्तरम् छाद्यम् फलकैस् सारदारुजैह्।
दण्डिका मुष्ट्बन्धान्तस् समाद्याय समन्वितम् ॥ ३० ॥

दण्डत्रिपाद विसृतम् तदर्धार्ध घनान्वितम्।
हस्तिमुण्डक सम्स्थानम् कुम्भमण्डी समायुतम् ॥ ३१ ॥

ऊर्ध्वाधस्ताच्छिरोपेतम् नानाकम्प समायुतम्।
मण्डनम् त्वन्तरे कार्यम् दण्डिकामुष्ट्बन्धयोह् ॥ ३२ ॥

व्यालनालक सिम्हाद्यम् मध्ये व परिकल्पयेत्।
मुष्टिबन्ध समाकारम् चतुरश्र समाकृति ॥ ३३ ॥

यतेष्ट् विपुलोत्तुङ्गम् तुङ्गार्ध समवेशनम्।
दण्डिकोर्ध्वे तु वलयम् गोपनम् स्यात्तदूर्ध्वतह् ॥ ३४ ॥

हित्वावशिष्ट्मानम् तु गोपनम् चार्पयेद्बुधह्।
वसन्तकम् वालिन्दकम् वा विधेयम् वाजनोपरि ॥ ३५ ॥

त्रिपादोच्चम् तदूर्ध्वम् स्यात् कपोतोच्चम् तु पूर्ववत्।
एवम् स्याद् दृढकल्पम् तु शिलायेष्ट्कया दृमैह् ॥ ३६ ॥

यथाप्रयोगस्थैर्यम् तु तथा योज्यम् विचक्षणैह्।
कपोतोच्च त्रिपादम् वा पादम् वा क्षुद्र निर्गमम् ॥ ३७ ॥

कपोत नासिका क्षुद्र नीव्रोर्ध्वे स्थित कर्णिका।
सपाद दण्दा वाध्यर्ध द्विदण्डा विस्तृतान्विता ॥ ३८ ॥

सिम्हश्रोत्रशिखालिङ्गम् पट्टिकान्तस्य पट्टिका।
विधेया स्वस्तिकाकृत्या नासिकोर्ध्वेन नासिका ॥ ३९ ॥

कुक्षिकादि शिलामानम् यथाशोभनम् एव वा।
वाताहत चलच्चारु लतावत् कर्णिका क्रिया ॥ ४० ॥

प्रतिवाजनकोस्योर्ध्वे नेष्यते नासिकोच्छ्रयह्।
पादपाद घनोपेतम् पादात्पाद विनिर्गमह् ॥ ४१ ॥

आलिङ्गम् स्यात्तदूर्ध्वस्थम् तदूर्ध्वान्तरितम् मतम्।
पादार्धविपुलम् त्वर्धनिवृत्याश्राग्र पट्टिका ॥ ४२ ॥

पादे पादान्तरे त्वन्तह् प्रविष्टम् पदबाह्यकम्।
पादाकारम् त्रिपादार्ध सदृशोदय सम्युता ॥ ४३ ॥

प्रतिम् निवेशयेत्तस्य त्रित्रिभागैक भागतह्।
पादेन वाजनम् कुर्यात् तदनन्तरम् उच्यते ॥ ४४ ॥

तच्चोन्निम्नोन्नतम् सर्वम् देवानाम् कुलनाशनम्।
विकारस्यात्तु देवानम् द्विजानाम् भूभृतामपि ॥ ४५ ॥

अन्यश्चार्ध चन्द्राभा प्रतिह् कार्या द्विजोत्तमाह्।
दण्डम् सपादम् सार्धम् वा प्रतिनिर्गमनम् नयेत् ॥ ४६ ॥

एकद्वित्रि चतुर्मात्रैर् यवैर् वा परिकल्पयेत्।
हीनाधिक्यम् तु चाङ्गानाम् प्रस्तरस्य द्विजोत्तमाह् ॥ ४७ ॥

पादाङ्गानाम् तथा कुर्याद् गलाङ्गे च मसूरके ॥ ४८ ॥

Pūrvapāda – Kapitel 55: Die Ausschmückung des Heiligtums

प्रासाद भूषणम् वक्ष्ये श्रूयताम् मुनिसत्तमाह्।
स्यात्पादप्रस्तरम् ग्रीवावर्गे मूले तु वेदिका ॥ १ ॥

अध्यर्धाद्यम् त्रिदण्डेन भित्तिमात्र विसारिणी।
षट्सप्ताष्टदशोत्सेधा तत्समम् दीर्घिका भवेत् ॥ २ ॥

प्रत्युच्च द्विगुणोत्सेधा वेदिका प्रस्तरोत्तरे।
ग्रीवोत्सेधत्रिभागाच्च ग्रीवोधस्तात् स्थिरा भवेत् ॥ ३ ॥

पञ्चसप्ताम्शके द्वित्रिभागोच्चम् वाग्रबन्धनम्।
शेषोधस्ताम्भखण्डस्स्याद् भित्तिह् पादविशालभाक् ॥ ४ ॥

तत्पादह् पादनिर्वेशष्षट्सप्ताम्श एव वा।
चतुर्धा बन्धनम् कृत्वा कम्पम् एकेन कारयेत् ॥ ५ ॥

तदुर्ध्वे तु द्विभागेन निद्रा त्वेकेन वाजनम्।
पादम् वा पञ्चभागे तु त्रिद्व्यम्शम् वाजनन् भवेत् ॥ ६ ॥

कम्पमर्धेन निद्रास्यादध्यर्धेननार्धतह् कजम्।
अर्धेन कम्पम् अम्शेन वाजनम् परिकल्पयेत् ॥ ७ ॥

द्वाविम्शत्यम्शके तुङ्गे कर्णो द्वादश भागिकह्।
नेत्राम्शेन तथा निद्रा कपोतम् चतुरम्शकम् ॥ ८ ॥

तदूर्ध्वे वाजनम् चैकम् तद्वत्कर्णो द्विभागतह्।
निद्र कार्या तदूर्ध्वस्था पट्टषट्क समन्विता ॥ ९ ॥

द्वाविम्शत्यम्शके तुङ्गे कर्णो द्वादशभिर् भवेत्।
वाजनम् चैक भागेन निद्रैका वाजनम् त्रिभिह् ॥ १० ॥

पद्मकम्प गलाब्जानि तद्वत्कर्णो द्विभागतह्।
षोडशाम्शे तदुत्सेधे नवाम्शम् गलम् इष्यते ॥ ११ ॥

वाजनम् चैक भागेन तथानिद्र त्रिभागतह्।
पट्टपद्मम् अथैकाम्शम् पद्मम् एकेन कीर्तितम् ॥ १२ ॥

वेदिका जालकार्थम् तु नैवम् छेद्याद् द्विजोत्तमाह्।
द्वारार्थम् देववेश्मार्थम् छेदनीयम् यथोचितम् ॥ १३ ॥

वेदिका नियमो धाम्नि नेष्यते सार्वदेशिके।
एवम् वेदिस्समाख्याता द्वारम् तु श्रूयतम् द्विजाह् ॥ १४ ॥

स्तम्भदेशे नवाष्टाम्शे सप्ताम्शे त्वैकभाग भाक्।
द्वारतुङ्गम् तदर्धम् स्याद् विस्तारो देवसद्मनि ॥ १५ ॥

नालीगेहम् त्रिभागैकम् अर्धम् वा नवपञ्चभाक्।
पञ्चत्रिम्शद्भवेत् तुङ्गम् इदम् वाशेषिकम् बह्वेत् ॥ १६ ॥

विस्तारह् प्राग्वदुत्तिष्टस् त्वथवा तत्प्रकीर्त्यते।
त्रिवितस्ति विशालम् स्याद् दैर्घ्यम् सप्त वितस्तिकम् ॥ १७ ॥

विस्तारायमतस्तस्मात् षद् द्वादश कराग्रकैह्।
वृद्ध्या त्रिपञ्चमानादि षद्वितस्त्यन्तकानि हि ॥ १८ ॥

पञ्चविम्शति मानानि द्वारतारोदयानि हि।
तदात्यम् शयनीयस्य गृहस्य द्वादशैव हि ॥ १९ ॥

समावृत खलूरीणाम् तान्येवोक्तानि पण्डिताह्।
नगर ग्राम दुर्गाणाम् शेषाण्युक्तानि वेश्मनाम् ॥ २० ॥

विस्तारो द्विगुणोत्सेधष्षण्मात्रम् अधिकम् भवेत्।
नवमात्राधिकम् वापि सर्वेषाम् समुदीरितम् ॥ २१ ॥

सषण्मात्रम् द्वितालम् च सत्रिमात्रम् द्वितालकम्।
द्वितालम् क्षुद्रमानम् तु सार्धतालम् तु योजयेत् ॥ २२ ॥

स्वव्यासाद् द्विगुणोत्सेधात् षण्मात्रम् वा त्रिमात्रकम्।
न्यूनम् ति शुभदम् वारम् विप्रादीनाम् गृहम् मतम् ॥ २३ ॥

स्तम्भायामे अष्टभागम् तु षडर्धम् द्वार दैर्घ्यकम्।
तदर्धे नवभागे तु सार्धाष्टाम्शात् समुन्नतिह् ॥ २४ ॥

त्रिव्यास द्विगुण्त्तुङ्गम् नेष्टम् वारम् नृणाम् गृहे।
पादोत्तुङ्गवशाद् भूमौ भूमवेवम् विधीयताम् ॥ २५ ॥

उक्तोसेध त्रिपञ्चैकम् अङ्गुलेनाधिकम् तु वा।
विपुलो अपि तथैवम् स्यात् सप्ताष्टाम्शकैस्तु वा ॥ २६ ॥

द्वारस्योभय पार्श्वे तु मण्डितस्तम्भ युग्मकम्।
भूषणम् तु बहिह् कार्यम् सर्वेषाम् अपि सद्मनाम् ॥ २७ ॥

मानम् लब्धोदयम् यत्स्याद् भक्त्वा मातैर् विशेषतह्।
परिहृत्याङ्गुलेच्छेदम् आयाद्यम् परिकल्पयेत् ॥ २८ ॥

अष्टनन्दाग्निभिश्चैव वसुनन्द चतुष्टयैह्।
गुणत्वरविदिङ्मूर्ति ऋक्षसप्त नवाम्शकैह् ॥ २९ ॥

हृतमानम् व्ययम् चैव यो विस्तारस्तु वारकह्।
अम्शकाश्चावशिष्टास्तु कल्पनीयास्तु देशिकैह् ॥ ३० ॥

वास्तुनह् पार्श्वयोर्मध्ये स्तम्भास्सम्यङ् निधापयेत्।
कभित्ति विस्तृतार्थम् तु त्यक्त्वातत्पार्श्वयोर् द्वयोह् ॥ ३१ ॥

मुख्यद्वारम् तु तद्वामे कम्पद्वारम् तदन्यके।
कम्पद्वारम् च मध्ये तु योगार्थम् बहुलान्वितम् ॥ ३२ ॥

कम्पम् समान्तरम् कुर्याद् यथा शोभनम् अथापि वा।
मूलवास्तु त्रिपार्श्वेषु कम्पद्वारम् यथोचितम् ॥ ३३ ॥

कम्पद्वारम् समुद्दिश्य भित्त्यन्तस्स्तम्भ सम्युतम्।
न त्यजेद्यदितत्स्वामी मरणाय भविष्यति ॥ ३४ ॥

सपादपाद विस्तारस् सार्धो वा योगविस्तरह्।
स्तम्भ व्यास समो वापि तदर्धम् बहुलम् मतम् ॥ ३५ ॥

त्रिपादम् वोत्तराधस्तात् प्रतीकम् तत्स्ववाजनम्।
द्वारोदयाय शेषम् तु त्रिध वा पञ्चधा कृते ॥ ३६ ॥

एकाम्शम् वा द्व्यम्शकम् स्यादधोभूषणम् ऊर्ध्वतह्।
शेषेण भूषणम् कुर्याच् छुद्धद्वारम् तु मध्यमम् ॥ ३७ ॥

अष्टमङ्गलयोकस्योर्ध्वे लताद्या परितो मताह्।
त्रिचतुह् पञ्चषट्भाग भागेन स्तम्भ वैपुले ॥ ३८ ॥

कवाट बहुलम् प्रोक्तम् दण्दार्धम् वा घनम् भवेत्।
अयुग्म फलका ग्राह्या मध्यसन्धि विवर्जिता ॥ ३९ ॥

तल्पस्य भूषणोर्ध्वे वा बाह्ये वा परिकीर्तिता।
मध्यम् त्यक्त्वा प्रयोक्तव्या यथा बल समन्विता ॥ ४० ॥

अस्य तल्प घनस्यार्ध घन द्विगुण विस्तरा।
दण्डास्त्रिपञ्चसप्तैव नविकादश सम्ख्यया ॥ ४१ ॥

अश्वगन्ध खुराभा वाश्वत्थपत्र समा अपि।
युग्मे महत् तल्पे च दक्षिणस्थे कवाटके ॥ ४२ ॥

विस्तारे त्वायतौ चैव त्र्यम्श पञ्चाम्शक कृते।
उपरिष्टात् त्र्याम्शम् तु त्यक्त्वाधोम्शम् द्विपार्स्वयोह् ॥ ४३ ॥

तेषाम् मध्ये तु यद्द्वारम् मणिद्वारम् इहोच्यते।
यथाबलम् यथा शोभ मयह् पट्तैह् दृडीकृते ॥ ४४ ॥

श्रीमुख्यैर् वामदण्डैश्च क्षेपणैस् सन्धिपत्रकैह्।
अर्धचन्द्रैस् तथा शृङ्गैह् पुष्पैर्नानाविधैरपि ॥ ४५ ॥

योगसम्भन्द कीलैश्च दैवताद्यैरलङ्कृतम्।
ऊर्ध्वाधश्शिखराश्लिष्ट मूलबन्धाग्र बन्धनम् ॥ ४६ ॥

गुल्पे ललाटसन्धौ च पट्टैर् हेमादि निर्मितैह्।
बध्नीयात् सर्वदेशे वा यथा शोभम् यथाबलम्॥
एवम् एवम् विधेयम् स्यात् तथा भुवि विशिष्यते ॥ ४७ ॥

Pūrvapāda – Kapitel 56: Der Halsbereich des Aufbaus

कण्ठस्य लक्षणम् वक्ष्ये समासाच्छृणुत द्विजाह्।
तन्मूले वेदिका कार्या कण्ठोत्सेधात् त्रिभगतह् ॥ १ ॥

गर्भभित्ति त्रिभागैकम् अङ्घ्रेर्वेद्यङ्घ्रि वेशनम्।
चतुष्पन्:च षडम्शे तु समावेशाधिवेदिका ॥ २ ॥

ग्रीवावेशस्ततस् तावत् सप्ताष्टाम्से तथिव च।
समम् वाध्यर्धकम् वापि द्विगुणम् त्रिगुणम् तु वा ॥ ३ ॥

वेदिकोत्सेध मानेन ग्रीवोच्चम् परिकल्पयेत्।
उत्तरम् वाजनम् चैव मुष्ट्बन्धम् मृणालिकम् ॥ ४ ॥

दण्ड्कावलयम् चैव गलभूषणम् इष्यते।
दण्डिकान्तम् गलम् प्रोक्तम् तदूर्ध्वे शिखरम् भवेत् ॥ ५ ॥

प्रस्तरोर्ध्वे वृषम् स्थाप्य शिवधाम्नि विशेषतह्।
ऊर्द्वेन स्थापितास्ते च धाम्नोधस्तात् समन्ततह् ॥ ६ ॥

अन्तर्मण्डल देशे तु स्थापनीयास् सपीठकाह्।
अन्येषाम् अपि देवानाम् धाम्नि तद्वाहनान् न्यसेत् ॥ ७ ॥

देवीनाम् च तथा प्रोक्तम् गलदेवाम्स्तु विन्यसेत्।
एकपादयुतम् ब्रह्मविष्णुसम्युक्तम् एव वा ॥ ८ ॥

ईदृग्रूप समायुक्तम् हहेशम् वापि विन्यसेत्।
पूर्वोक्त विधिना वापि पादवर्गे अथवा न्यसेत् ॥ ९ ॥

ग्रीवायाम् तु चतुर्दिक्षु नासि पादाम्श्च विन्यसेत्।
तत्रैव कारयेद् वृत्तम् स्पटिकम् च समन्ततह् ॥ १० ॥

एवम् कण्ठस् समाख्यातस् तदुर्ध्वे शिखरम् बह्वेत् ॥ ११ ॥

Pūrvapāda – Kapitel 57: Die Dachbekrönung

अथ वक्स्ह्ये विशेषेण शिकरस्य तु लक्षणम्।
शिखरोत्सेध मानाम्श भागमान वशेन वा ॥ १ ॥

दण्डिकावधि तारेण पञ्चाम्शकम् द्व्यम्शकम् तु वा।
सप्तनन्द शिवाम्शेषु त्रयोदश तिथौ तथा ॥ २ ॥

सप्त दशाम्शके बन्ध वेदपञ्च षडम्शकम्।
सप्ताष्टाम्शम् तु तारार्धम् इत्यष्टौ शिखरोदयाह् ॥ ३ ॥

पाञ्चालम् चापि वैदेहम् मागधम् चापि कौरवम्।
कोशलम् सौरसेनम् च गान्धारम् पत्रिकम् तथा ॥ ४ ॥

यथा क्रमेण नामानि ज्ञातव्यानि विचक्षणैह्।
जघनादूर्ध्वम् एवैते भागास् सर्वे समीरिताह् ॥ ५ ॥

सर्वे तु तैतिलानाम् स्युरर्धाधस्तात्तु मानतह्।
एकादशात्सप्तदश भागादेकाम्शवधनात् ॥ ६ ॥

अवन्तिकाप्रभृत्यूर्ध्वम् अर्धाविष्ट लुपोदयह्।
व्यामिश्रश्च कलिङ्गश्च तथा कौशिकम् एव वा ॥ ७ ॥

वराटम् द्रामिडन् चैव बर्बरम् कोल्लुकम् पुनह्।
तथा शौण्डिकम् इत्येवम् व्यामिश्रादि लुपोदयह् ॥ ८ ॥

देवानाम् प्रथिता ह्येते तापसाश्रमिणाम् अपि।
चतुरशरम् च वृत्तम् च षडश्राष्टाश्रम् एव वा ॥ ९ ॥

द्वादशम् च द्विरष्टाश्रम् पद्मकुड्मल सन्निभम्।
तथामलक पक्वाभम् दीर्घवृत्तम् च कोमलम् ॥ १० ॥

अष्टाद्यष्टाष्ट धाराणि हर्म्यदीनाम् शिराम्सि च।
षडाद्य षषटि कर्णान्तास् सम्मतम् शिखराकृथे ॥ ११ ॥

पञाद्येक दशान्ताश्च चतुराद्या दशान्तकाह्।
चतुर्विधा लुपासङ्ख्या देवे देव्या निकेतने ॥ १२ ॥

पूर्वोक्त द्व्यन्तरोच्चम् तु व्यामिश्रम् नाम पुष्करम्।
ऊर्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्ध मानतह् ॥ १३ ॥

अर्धमारभ्य सम्वर्ध्य पश्चदुच्च;र्ध भाजि हि।
आरोहाण्यवरोहाणि गृह्यमेतत्द् उदाहृतम् ॥ १४ ॥

दण्डिकावधि तारार्धम् चतुरश्रीकृतम् समम्।
कोष्णीषासित सीमाख्यम् सूत्रम् युक्तम् घनम् नयेत् ॥ १५ ॥

दण्ड्कोत्तर बाहुल्यम् सूत्रयेदासनानधह्।
आसने चतुरम्शादि न्यसेद् बिन्दु दशाम्शकम् ॥ १६ ॥

कोष्णीष सन्धेस् तद्बिन्दु सीमान्तोच्चम् समाहरेत्।
अवाक्वाथोच्च मानानि कम् मुलादासनम् न्यसेत् ॥ १७ ॥

तान्येव दण्डिकादीनाम् पर्यन्तानि भवन्ति हि।
कोष्णीष सङ्गात्पर्यन्त बिन्द्वन्तम् तल्लुपायनम् ॥ १८ ॥

तत्तत् पर्यन्त विस्तारम् कसूत्रम् विन्यसेत् पुय्नह्।
विन्यसेद् आसने वापि तन्मानम् स्याल् लुपावधि ॥ १९ ॥

एवम् मध्य लुपासीम्ना वर्धते वर्ण सम्ख्यया।
एवम् आवर्त्य तत्पश्चाद् आरोहे वावरुह्य च ॥ २० ॥

तत्तत् कोष्टेषु सम्जातम् तत्तन् मल्लयुतम् भवेत्।
समध्यम् वा विमध्यम् वा लुपान्यासो द्विधा मतह् ॥ २१ ॥

मध्यम् च मध्यकर्णम् च व्याकर्णम् अनुकोटिकम्।
कोटिरित्येवम् उच्येत पञ्चवर्ण लुपाह् क्रमात् ॥ २२ ॥

तत्तत्सूत्रादधह् पृष्ठवम्श निद्राणि सूत्रयेत्।
शयितस्थिति सूत्रान्तम् कीलम् तत्कूटमूर्धनि ॥ २३ ॥

निधायार्धेन्दुवत् सर्वाश् चूलिका विलिखेत् समाह्।
लुपाविलुप मध्यान्तर्गत; स; चूलिकाकृतिह् ॥ २४ ॥

एवम् स्याद् ऋजुकायम् तु चान्यदप्येवम् ऊह्यताम्।
बालकूटस्य विस्तारस्थितिसूत्र स्तनान्तरह् ॥ २५ ॥

लुपातारस्तु दण्डो वा सपादस् सार्ध एव वा।
यथाभिमत मानो वा विस्ताराद् बहुलादपि ॥ २६ ॥

विस्तारस्त्रिचतुर्पञ्च भागैकाम्शम् तु तद्घनम्।
जानुव्यासस्तूत्तरार्ध चूलिका वार्ध एव वा ॥ २७ ॥

दण्डिका विपुलम् तावत् त्रिपादार्धम् तु तद्घनम्।
वलयम् जानु नीव्रम् च दण्डिका विपुलार्धतह् ॥ २८ ॥

मल्लमधादथालीन तालमानम् च यद्घनम्।
पर्यन्ताज् जानुकान्तम् च चूलिका भाग एव वा ॥ २९ ॥

सयनात्तावदेअस्यान् नीव्रालम्बन सूत्रकम्।
कुठारिका ललाटम् च जघनम् चैव सम्मतम् ॥ ३० ॥

पादविष्कम्भ कण्ठे वा विष्कम्भ द्विगुणे तथा।
कूटव्यासो लुपामध्यम् द्विकर्णो द्विगुणो यथा ॥ ३१ ॥

तदर्धम् नालिकालम्बम् ऊर्ध्व्र् मल्लाग्र सङ्गतिह्।
छिद्रम् तन्नीव्रमात्रम् वा मल्लानाम् तु प्रवेशनम् ॥ ३२ ॥

जानुकान्तम् लुपामध्ये ऊर्ध्वाधह् पृष्ठ वम्शकम्।
समम् स्यन्नीव्र ताराभ्यश् चूल्यम्शो वा लुपाम्शकम् ॥ ३३ ॥

लुपा वा सुघनम् वापि वलयो वम्श विस्तरह्।
तदर्ध वेशनान्नीव्रम् वलयस्य विधीयते ॥ ३४ ॥

लूपोर्ध्वे फलन्यासे पादबन्ध समार्धतह्।
आलिप्य च धनुर्वम्शम् निक्षिप्य तदूर्ध्वतह् ॥ ३५ ॥

छादयेल् लोहलोष्टैश्च बन्धयेद् अष्टबन्धनैह्।
लुपामध्यादथ चिद्रम् च वलय्स्य विधीयते ॥ ३६ ॥

क्रियायाह् परिरेखास्तु कल्प्याष्षोडश सम्ख्यया।
कुक्षिव्यासाष्टभागैकम् मानमात्रम् इति स्मृतम् ॥ ३७ ॥

तेन मात्रेण सप्तार्धान्यर्धभाग विवर्धनात्।
आपञ्चदश सम्ख्याताह् परिलेख्यास्त् षोडश ॥ ३८ ॥

लुपान्तोर्ध्वान्त बिन्द्वादिम् अथो विन्यस्य तद्विधम्।
तद्बिन्द्वादि विलेख्याथ रूपलेखा विचक्षणैह् ॥ ३९ ॥

प्राशदाम् इमाह् प्रोक्त गृहादीनाम् तु षोडश।
लुपागमाद्याद् द्विगुणम् यन्मानम् तेन बुद्धिमान् ॥ ४० ॥

कोष्णीषासन सीमाभ्याम् अधश्सफरम् आलिखेत्।
तस्मादुपरि मल्लस्य लेखयेत् तद्विचक्षणह् ॥ ४१ ॥

मल्लायताद् अर्धभागे त्रिपञ्चाशीकृते क्रमात्।
तत्तदम्शावसानम् तु तत्तन्मध्ये समलिखेत् ॥ ४२ ॥

सर्वासाम् परिलेखानाम् क्रमोयम् परिकीर्तितह्।
पाञ्चालादि लुपानम् तु प्रत्येकम् प्रोच्यते द्विजाह् ॥ ४३ ॥

ऋजुकाययुता मल्लाद्या रेखसनकाग्रयोह्।
मध्ये कृता क्रियारेखा परिलेखा तु सा स्मृता ॥ ४४ ॥

लुपाघन प्रमाणेन घटिकाम् चतुरश्रिकाम्।
वितस्त्यायामिनीम् ऋज्वीम् कृतमध्यम सूत्रकाम् ॥ ४५ ॥

चूलिकान्तर् वर्णलुपा तिर्यक्सूत्रस्य मध्यमाम्।
विन्यस्य घटिकाम् पश्चाच् छिन्नाम् शयन सूत्रवत् ॥ ४६ ॥

प्रत्वर्णे तु घटिकाम् तद्वर्णे ताम् निधापयेत्।
क्षिप्त सूत्रस्य शेषाम्शाच् छिन्ने वर्ण लुपोदरे ॥ ४७ ॥

दण्डिकोत्तर वलय स्थिरसूत्र समम् लिखेत्।
उदरायाम मध्ये तु लिखिते करकम् भवेत् ॥ ४८ ॥

घटिका ललाट मध्यस्थम् करकम् च समम् यथा।
तथ निधान घटिकाम् लुपोदर वशायताम् ॥ ४९ ॥

तल्ललाटाकृतिश्छेद्या वलयाद्या लुपोदयाह्।
इष्टपार्श्वे क्षिपेच्छायाम् छिद्रे च वलयस्य तु ॥ ५० ॥

तत्तद् घटिकय तत्तन् मध्यसम्हित मध्यया।
तल्लल्लाट गतच्छाया तासाम् तासाम् तु वा भवेत् ॥ ५१ ॥

दण्डिक वलय छिद्र स्तन जानूत्तरादिषु।
घटिका मध्यमायाम छिद्राणि वलयस्य तु ॥ ५२ ॥

शिरोमध्ये अर्धमध्ये च न्यसेन्मुण्डम् तुलोपरि।
सुवर्णा मध्यबन्धाश्च खर्जूरदल सन्निभा ॥ ५३ ॥

सवलर्क्षा विधातव्या लुपा शिखरकान्तरे।
शिखरोच्च चतुष्पञ्च भागस् स्यात् पद्म तुङ्गकम् ॥ ५४ ॥

वेदी विस्तार तुल्यम् स्याच् छिकरस्य तु नीव्रकम्।
शिखरस्य त्रिभागे तु नासिका विस्तरो भवेत् ॥ ५५ ॥

समत्रिपादो ह्यर्धो वामहानासी विनिर्गमह्।
तद्वत्सत्रिचतुर्भाग हीनस्कन्धाङ्ग तुङ्गकम् ॥ ५६ ॥

शक्तिध्वजस् तदर्धो वा त्रिपादो वाथ तुङ्गकम्।
सार्धदण्डो द्विदण्डो वा क्षुद्रनासा विशालता ॥ ५७ ॥

विस्तारे मुखपट्यश्च दण्डो वाध्यर्ध एव वा।
सपदो वा त्रिपादो वा तद्घनम् स्याद्यथेष्टतह् ॥ ५८ ॥

शक्तिध्वजस्य मूले तु विपुलम् दण्ड मानतह्।
मुख्गपट्युक्त मानो वा तावत्तत् कन्धरादयह् ॥ ५९ ॥

ग्रीवान्तराग्र पत्रम् तु स्तम्भव्यासार्ध मानकम्।
ग्रीवोपरि कपोलम् तद् द्विगुणम् सार्धम् एव वा ॥ ६० ॥

त्रिदण्डम् वा प्र्कर्तव्यम् गलस्त्वर्धेन व भवेत्।
तावच्छक्ति ध्वजान्तम् स्यात् सपत्रम् वा सशूलकम् ॥ ६१ ॥

नेत्र सम्श्लिष्ट मल्लम् तु चूलिका स्तन मण्डितम्।
शयितस्थिति पट्टाभ्याम् अङ्गुलाद्यैर् विभूषितम् ॥ ६२ ॥

श्लिष्टकर्णोर्ध्व पट्टोर्ध्व प्रत्यूर्ध्वे मुष्टिबन्धनम्।
यथा शोभन निष्क्रान्तम् त्रिमुखम् स्यात् तदूर्ध्वतह् ॥ ६३ ॥

यत्र यत्र विचित्रम् तु प्रासादे परिकल्पयेत् ॥ ६४ ॥

Pūrvapāda – Kapitel 58: Die Dachaufsätze

स्थूपिका लक्षणम् वक्ष्ये प्रासादादेस् सनातनम्। पद्मोच्चम् वार्धभागो वा तदुर्ध्वे स्थूपिकायति ॥ १ ॥

अल्पीयसी शिरोर्धा वा भागोच्चम् वा त्रिभागिके। लोहजम् दारुजम् वापि स्थूपिका कीलम् इष्यते ॥ २ ॥

ऊर्द्वभूमेस्तु पादोच्चम् विस्तारम् पादतस् समम्। अग्रमङ्गुल विस्तारम् आनुपूर्वात् कृशम् नयेत् ॥ ३ ॥

चतुरश्रम् समम् कुर्यात् त्रिभागैकम् अधस्ततह्। वृत्तम् ऊर्ध्वमधह् कुर्याच् छिकापादान् न्यसेद् अधह् ॥ ४ ॥

विस्तारम् त्रिगुणायामम् व्यासोच्चम् पादतस् समम्। आयामम् तु यथा शोभम् तथा कुर्याद् विचक्षणह् ॥ ५ ॥

अथवा तच्छिकायाम द्विगुणम् कील दैर्घ्यकम्। स्तम्भ व्यासार्ध विस्तारम् त्रिचतुर्भाग एव वा ॥ ६ ॥

अग्रम् अर्धाङ्गुलम् व्यासो शिखिपादम् यथा सुखम्। शिखराकृतिवत् कीलम् लिङ्गच्छन्दम् अथापि वा ॥ ७ ॥

द्वात्रिम्शत्यम्शके दैर्घ्ये पद्मम् सार्धाम्शम् ईरितम्। सप्तामश विस्तरस्तस्यास् तदूर्ध्वे च तु वाजनम् ॥ ८ ॥

विस्तारम् द्वित्रिभागेन वेत्रम् अर्धोच्चम् ईरितम्। त्रिभागो विस्तरम् चोर्ध्वे वाजनम् चोर्ध्वम् उच्यते ॥ ९ ॥

त्रिभागम् विस्तरम् चोर्ध्वे पद्मम् अम्श विनिर्मितम्। पञ्चाम्शो विस्तर स्तम्भह् कुम्भम् पञ्चाम्शम् ईरितम् ॥ १० ॥

विस्तारो नवभागस्स्याद् ऊर्ध्वे पद्मम् अथाम्शतह्। पञ्चाम्शो विस्तरस् तस्य वेत्रम् अर्ध विनिर्मितम् ॥ ११ ॥

त्रिभागो विस्तरस् तस्य कर्णस्त्वम्श विनिर्मितह्। विस्तारेण द्विभागस्स्याद् ऊर्ध्वम् वाजनम् अर्धततह् ॥ १२ ॥

विस्तारेण त्रिभागस्स्याद् वेत्रम् अम्श विनिर्मितम्। विस्तारम् चतुरम्शस्स्यात् कम्पकर्णन्तु कम्पकम् ॥ १३ ॥

पूर्ववत् पद्मम् अर्धम् स्याद् विस्तारम् पञ्चभागिकम्। वाजनम् चैकभागेन षडम्शो विस्तरो भवेत् ॥ १४ ॥

ऊर्ध्वपद्मम् अधो यद्वत् तदूर्ध्वे वेत्रम् अम्शतह्। विस्तारस्स्यात्त्रिभागेन तदूर्ध्वे पद्म कुड्मलम् ॥ १५ ॥

वेदाम्शे त्र्यम्श विस्तारो मूलतह् परिकल्पयेत्। चतुरश्र द्विरष्टाश्रम् साधारम् वर्तुलम् तु वा ॥ १६ ॥

अथ्वान्य प्रकारेण स्थूपिका भूषणम् नयेत्। पद्मकम् पञ्चकर्णम् तु पञ्चकम् पद्मतुङ्गकम् ॥ १७ ॥

पद्मकुम्भम् च पूर्वोक्त मानेनौव समाचरेत्। वेदाम्शैह् कर्णम् इत्युक्तस् तदूर्ध्वे पूर्ववन् नयेत् ॥ १८ ॥

द्वाविम्शत्यम्शकास् तत्र पूर्ववत् परिकल्पितम्। ईदृग्लक्षण सम्युक्तम् विमानम् सम्पदाम् पदम् ॥ १९ ॥

विपरीते विपत्यैस् स्यात् कर्तुह् कारयितुस् तथा। एवम् आदौ तु शास्त्रार्थम् आलोच्यालोक्य बुद्धिमान् ॥ २० ॥

स्थापिते सम्यगुद्दिश्य सामान्यम् तेन कारयेत्। प्रारम्भ काले सम्चिन्त्य सर्व वस्तु समाचरेत् ॥ २१ ॥

कृतस्य विपरीतत्वम् अनर्थाय भवेदिह। प्रमाण सहितम् चैवम् अथ्वानादिकम् तु वा ॥ २२ ॥

उक्तस्थाने विधातव्यम् सप्रमाणम् यथा भवेत्। कामिकाद्यागमोक्तेन प्रमाणेन समाचरेत् ॥ २३ ॥

तत्राप्येकेन कर्तव्यम् नोक्तम् चेत्यन्य शास्त्रतह्। सिद्धान्ते नोदितम् चेत्तु गारुडाद्यम् प्रगृह्यताम् ॥ २४ ॥

तत्रापि नोदितम् चेत्तु वास्त्शास्त्रम् समाचरेत्। वक्त्रैक्यम् उत्तमम् प्रोक्तम् तन्त्रैक्यम् मध्यमम् भवेत् ॥ २५ ॥

अधमम् स्रोत्रसाम् ऐक्यम् स्रोतोमिश्रम् तु नीचकम्। तदभावान् निकृष्टम् स्याद् एवेम् बुद्ध्वा समाचरेत् ॥ २६ ॥

कामिकाख्यम् शिवज्ञानम् सर्व सामान्यम् ईरितम्। मुख्यत्वात् सर्व शास्त्रेभ्यस् सर्वत्र परिकीर्तितम् ॥ २७ ॥

Pūrvapāda – Kapitel 59: Die Einsetzung der Ableitungsröhre

स्थापनम् न;लयोगाङ्घ्रेस् स्रवदूर्ध्वोपलस्य च। स्थूपिका स्थापनम् चैव वक्ष्ये तच्छृणुत द्विजाह् ॥ १ ॥

अयने चोत्तरे वापि दक्षिणे प्राप्त देशके। अविलम्बेन कर्तव्यम् सुमुहूर्ते शुभे दिने ॥ २ ॥

प्राशदस्याग्रतह् कुर्याद् उत्तरे वेश देशके। मण्टपम् नवहस्तादि पञ्चहस्तान्तम् एव वा ॥ ३ ॥

मध्यमे वेदिकाम् कुर्यान् नवभागैक भागतह्। कुण्डानि परितह् कुर्याद् भूतवेदैक सम्ख्यया ॥ ४ ॥

वृत्ताभम् चतुरश्रम् वा सर्वकुण्डम् समाचरेत्। मङ्गलाङ्कुर कार्यम् तु पूर्वमेव समाचरेत् ॥ ५ ॥

अथवा तद्विहीनम् तु स्थापनञ्चैतदाचरेत्। मण्टपम् समलङ्कृत्य पुण्याहम् वाचयेत् ततह् ॥ ६ ॥

अस्त्राम्बुनाथवा प्रोक्ष्य नालाद्यम् स्थापयेत् ततह्। पञ्चम्र्त् पञ्च गव्यैश्च शुद्धोदक समन्वितम् ॥ ७ ॥

आलिप्य चन्दनाद्यैस्तु पुष्पमालाभिरावृतम्। कृतकौतुक बन्धस्तु वस्त्रैरावेष्ट्य देशिकह् ॥ ८ ॥

स्थण्डिलम् वेदिकोर्ध्वम् वा भूतले वा समाचरेत्। अष्टद्रोणेन शालीनाम् अर्धेनार्धेन वा भवेत् ॥ ९ ॥

तदर्धम् तण्डुलोपेतम् तदर्धम् तिल लाजकम्। वस्त्रैर्दर्भैस् समाच्छाद्य हृदयेन तु मन्त्रतह् ॥ १० ॥

पुजयेत् परितस्सर्वान् वस्त्रेणाच्छादयेत् पुनह्। स्थापयेत् परितह् कुम्भान् अष्टौ वस्त्रादि सम्युतान् ॥ ११ ॥

ससूत्रान् उदसम्पूर्णान् इन्द्राद्यधिप सम्युतान्। गन्धाद्यैरर्चनाम् कुर्याद् हृदयेन विशेषतह् ॥ १२ ॥

मूर्धेष्टका प्रतिष्टा चेद् अकारम् पूर्व शैलके। इकारम् दक्षिणे न्यस्त्वा उकारम् पश्चिमे न्यसेत् ॥ १३ ॥

एकारम् सौम्यदेशे तु पृथग् वस्त्रेण वेष्टयेत्। नन्दाम् भद्राम् जयाम् पूर्णाम् क्रमेणाभ्यर्चयेत् सुधीह् ॥ १४ ॥

ततो होमह् प्रकर्तव्यह् वह्निकार्योक्त मार्गतह्। समिदाज्य चरूअश्चैव तिलम् वै होमयेत् सुधीह् ॥ १५ ॥

पलाशोदुम्बराश्वत्थ वटाह् पूर्वादि देशके। प्रधाअस्य पलाशस्स्याद् एकम् वा सर्व कुण्डके ॥ १६ ॥

शतसम्ख्यम् तदर्धम् वा शिवमन्त्रेण होमयेत्। शिवाद्दशाम्शतो अङ्गानि तर्पयित्वा समाहितह् ॥ १७ ॥

आत्मादि तत्त्वम् विन्यस्य ब्रह्माद्यधिपान् न्यसेत्। मूर्ति मूर्तीश्वरान् न्यस्त्वा तत्त्व तत्त्वेश्वरान् न्यसेत् ॥ १८ ॥

पूर्णाहुतिम् ततो हुत्वा वौषडन्तेन मूलतह्। नालाद्यम् स्थापयेत् पश्चाद् अधिवासयुतम् तु वा ॥ १९ ॥

मूले तु नवरत्नम् वा पञ्चरत्नम् अथापि वा। तदालाभे हिरण्यम् वा न्यस्त्वा सम्स्थापयेत् हृदा ॥ २० ॥

मूर्धेष्टका विधानम् चेद् आद्योपल विधानतह्। स्थापयित्वा तदूर्ध्वे तु स्थूपि कीलम् तु विन्यसेत् ॥ २१ ॥

अनेक स्थूपिकाकीलेप्येवम् एव समाचरेत्। दारु निर्मित हर्म्यम् चेद् वम्शे वा मूलकूटके ॥ २२ ॥

स्थूपिकीलम् न्यसेद् धीमान् इष्टका स्थापनम् विना। स्तम्भ सम्स्थापनम् चेत्तु गर्भस्थानम् तु विन्यसेत् ॥ २३ ॥

नालानाम् स्थापनम् चेत्तु किञ्चिदीशाश्रितम् न्यसेत्। लुपानाम् रोहणम् चेत्तु मूलधाम्नस्तु दक्षिणे ॥ २४ ॥

पश्चिमे विन्यसेत् पादान् पश्चात् सर्वम् च विन्यसेत्। द्वारे ति गर्भगेहस्य स्थापयेद् योग्यम् आदितह् ॥ २५ ॥

आचार्य मूर्त्पाम्श्चैव दैवज्ञम् स्थपतिम् पुनह् ॥ २६ ॥

पूजयेद् वस्त्रहेमाद्यैर् दद्यात्तेभ्यश्च दक्षिणान्॥ एवम् तु विहितम् धाम सर्वसम्पत् सुखावहम् ॥ २७ ॥

Pūrvapāda – Kapitel 60: Ein- und mehrgeschossige Heiligtümer

लक्ष्णम् एकभूयादेर् विशेषेण निगद्यते। हर्म्यतार त्रिभागैक भूताम्शेषु गुणाम्शकम् ॥ १ ॥

धातुभागे युगाम्शम् तु बाणाम्शम् नव भागके। रुद्राम्शे रस भागम् तु विश्वाम्शे सप्तभागकम् ॥ २ ॥

तिथ्यम्शे वसुभागम् तु सप्तादश नवाम्शकम्। विस्तारार्धम् तत्सर्वम् नालीगृहम् इति स्मृतम् ॥ ३ ॥

एक द्वित्रिचतुष्पञ्च षडम्शस्त्वेक भूमिकम्। त्रिचतुष्पञ्चमात्रम् तु पादविष्कम्भ इष्यते ॥ ४ ॥

एकभागम् अधिष्ठानम् पाद दैर्घ्यम् द्विभागतह्। प्रस्तरश्चैह भागस्स्यात् कण्ठस्त्वेकेन कीर्तितम् ॥ ५ ॥

शिखरस्य द्विभागेन स्थूपिरेकेन कीर्तितह्। वृत्तकण्ठ शिरोयुकतम् विजयम् नामतो भवेत् ॥ ६ ॥

कर्ण्कूटयुतम् तत्तु श्रीभोगम् इति स्मृतम्। मध्ये भद्रयुतम् चेत्तु श्रीविशालम् प्रकीर्तितम् ॥ ७ ॥

वस्वस्र शिखरग्रीवम् स्वसित्बन्धनम् इष्यते। वेदाश्र शिखर ग्रीवम् श्रीकरम्स्याद् द्विजोत्तमाह् ॥ ८ ॥

द्व्यश्र वृत्त शिखरग्रीवम् हस्तिपृष्ठम् इति स्मृतम्। षडश्र शिखरग्रीवम् स्कन्दकान्तम् इति स्मृतम् ॥ ९ ॥

मध्ये भद्रयुतम् कर्णकूटयुक्तम् तु मस्तके। कोष्टकम् भद्रनास्यङ्गम् वृत्तम् वा गलमस्तकम् ॥ १० ॥

केसरम् नामतह् प्रोक्तम् युगाश्रम् वा गलम् शिरह्। पञ्चसप्तर्तु भागे तु त्रिद्व्यम्शे मध्य भद्रकम् ॥ ११ ॥

एक भौमम् इदम् प्रोक्तम् द्वितलम् तु विधीयते। तारे सप्तत्रिभागे तु सौष्टिकम् विस्तरम् स्मृतम् ॥ १२ ॥

द्विभागम् कोष्टका यामम् शेषम् हारम् सपञ्जरम्। विमानोच्चम् तु विभजेत् अष्टाविम्शति सम्ख्यया ॥ १३ ॥

अधिष्ठानम् त्रिभागस्स्यात् पादाषड्भाग ईरिताह्। त्रिभागह् प्रस्तरह् पञ्च भागस्स्याद् ऊर्ध्व भागतह् ॥ १४ ॥

द्विभागह् प्रस्तरह् कर्णस्त्रिभागह् परिकीर्तितह्। सार्धवेदैश्शिरस्थूपिरध्यर्धेन विनिर्मितह् ॥ १५ ॥

चतुरश्रमधिष्ठानम् तद्वत्कन्धर मस्तकम्। चतुष्कूट् समायुक्तम् चतुष्कोष्ठ समन्वितम् ॥ १६ ॥

क्षुद्रनीडम् उपर्यष्टौ नाम्नैतत् स्वस्तिकम् बह्वेत्। तदेव सौष्ट्कम् निम्नमुन्नतम् कोष्ठकम् यदि ॥ १७ ॥

अन्तरप्रस्तरोपेतम् एतद्विपुल सुन्दरम् । अमम्श त्रयम् सत्रिपादाम्शम् साङ्घ्रोभागिकम् ॥ १८ ॥

भागत्रय वितस्त्यन्तङ्घ्रि प्रस्तरम् ग्रीव मस्तकम्। पादोदये दशाम्शे तु द्वितलादि विमानके ॥ १९ ॥

अन्तर प्रस्तरोपेतम् कूटशालान्तरम् ईरितम्। तदेव कोष्ठकम् निम्नमुन्नतम् सौष्टिकम् भवेत् ॥ २० ॥

अन्तप्रस्तरोपेतम् एतत्कैलासम् उच्यते। तदेव वर्तुलम् वेदि कन्धरम् शिखरम् भवेत् ॥ २१ ॥

वसुकूटम् चतुश्शालोपेतम् पञ्जर भूषितम्। कोष्ठकम् निर्गमम् मध्ये द्वित्रिदण्डेन सौष्टिकम् ॥ २२ ॥

समग्रीव शिरोयुक्तम् कूटकोष्ठक सम्युतम्। नानाधिष्ठान सम्युक्तम् नाम्नैतत् पर्वतो भवेत् ॥ २३ ॥

तदेव शिकरम् दिक्षु चार्ध कोष्ठक सम्युतम्। चतुरश्र शिरोयुक्तम् चतुष्कूट् समन्वितम् ॥ २४ ॥

नानाधिष्ठान सम्युक्तम् नानैतत् स्वस्तिकम् भवेत्। तदेव सौष्टिकम् कोष्ठम् अन्तरप्रस्तरान्वितम् ॥ २५ ॥

हारपञ्जर सम्यिक्तम् नाम्ना कल्याणम् इष्यते। तदेव शिखरम् सार्ध्कोष्ठकम् रहितम् यदि ॥ २६ ॥

चतुर्णासि समायुक्तम् एतत् पाञ्जालम् इष्यते। तदेवाष्टाश्रकम् वेदि कन्धरम् शिखरम् घटम् ॥ २७ ॥

शिखराष्ट महानासियुक्तम् स्याद्विष्णुकान्तकम्। तदेव कूट्शालानाम् अन्तरप्रस्तरम् विना ॥ २८ ॥

तच्चतुर्भाग मानेन चायतम् चतुरश्रकम्। आयतम् च तथा वेदि कन्धर्म् शिखरम् भवेत् ॥ २९ ॥

स्थूपित्रय समायुक्तम् तन्नानैतत् सुमङ्गलम्। तदेवायत वृत्तम् चेद् वेदिका कन्धरम् शिरह् ॥ ३० ॥

सर्वावयव सम्युक्तमेतद्गान्धारम् इष्यते। तारादर्धाधिकायाम सम्युक्तम् चतुरश्रकम् ॥ ३१ ॥

द्व्यश्र वृत्त शिरोयुक्तम् नेत्रशाला मुखान्वितम्। हस्तिपृष्ठम् इदम् द्व्यश्रम् वृत्तम् वापि मसूरकम् ॥ ३२ ॥

चतुरश्रम् अधिष्ठानम् वृत्तम् स्याद् गर्भगेहकम्। सर्वालङ्कार सम्युक्तम् नाम्नैतत्स्यान् मनोहरम् ॥ ३३ ॥

तदेव जन्माद्याकुम्भअद् वृत्तम् चेत्तु बहिर्बहिह्। शेषम् पूरवद् उद्दिष्टम् प्रोक्तम् ईश्वर कान्तकम् ॥ ३४ ॥

द्विभूमिरेवम् आख्याता त्रिभूमिरधुनोच्यते। प्रासादस्य तु विस्तारे सप्ताष्टाम्शैर् विभाजिते ॥ ३५ ॥

भागेन कूटविस्तारम् कोष्ठाद् द्विगुणायतम्। लम्ब पञ्जरम् अर्धाम्शम् हारभागम् तु तत्समम् ॥ ३६ ॥

ऊर्ध्वक्ष्म तारे षड्भागे भागह् कूटस्य विस्तरह्। कोष्ठकम् द्विगुणायामम् हारम् भागेन कल्पयेत् ॥ ३७ ॥

ऊर्ध्वभूमेर् द्विभागेन मध्यभद्रम् विधीयते। दण्डस्सार्ध द्विदण्डो वा हर्म्य निर्गम इष्यते ॥ ३८ ॥

विमानोच्चम् तु विभजेच् चतुर्विम्शति सम्ख्यया। ध्रातलम् द्विभागेन चतुर्भिह् पाद ईरितह् ॥ ३९ ॥

द्विभागक् पस्तरह् पादस् सत्रिपाद गुणाम्शकैह्। प्रस्तरस् सार्ध भागस्स्याद् भागस्सार्ध त्रिभागकह् ॥ ४० ॥

सपाद भागो मञ्चस्स्यात् सार्धकम् कण्ठम् ईरितम्। शिखरम् सार्धबन्धम् स्याद् एकेन स्थूपिकाभवेत् ॥ ४१ ॥

कूटम् कोष्ठम् च नीडम् च वसु सम्ख्या समीरितम्। जन्मादि स्थूपिकान्तम् तु वेदाश्रकम् इति स्मृतम् ॥ ४२ ॥

द्वितीय च तृतीये च चक्र नीडास्तु षोडश। यथाशोभम् तथा नास्यस् सर्वत्र परिकीर्तितह् ॥ ४३ ॥

शिखरे ति महानास्यश् चतश्रह् परिकीर्तितह्। कोष्ठकम् चोन्नतम् कूटम् निम्नम् अन्तर पञ्चकम् ॥ ४४ ॥

विमानाकृतिकम् नाम्ना सर्वालङ्कार सम्युतम्। चतुर्भागधिकायामम् विस्तारम् परिकल्पयेत् ॥ ४५ ॥

विस्तारे चतुर्भागास्स्युरायामे द्वादशाम्शकम्। तद्विस्तारोर्ध्व मानेन वर्तुलम् वर्तनीयकम् ॥ ४६ ॥

मसूरिकाच्छिखरोन्तम् तु द्व्यम्श वृत्तम् तु कारयेत्। अथ्वा शिखरम् कण्ठम् द्व्यश्रवृत्तम् नयेद् द्विजाह् ॥ ४७ ॥

तदधश्चतुरश्रम् स्यान् मूलतो द्व्यश्र वृत्तके। अग्रात् पार्श्वद्वयोह् पृष्ठे कुर्याद् वृत्तद्व्याश्रकम् ॥ ४८ ॥

कूट कोष्ठक नीडानाम् विस्तारो भाग इष्यते। कोष्ठकम् द्विगुणयामम् हारा भागेन कीर्तिताह् ॥ ४९ ॥

शिखरे तु महानास्यश् चतश्रह् परिकीर्तिताह्। कोष्ठतश्चोन्नतम् कूटम् निम्नमन्तर मञ्चकम् ॥ ५० ॥

स्वस्तिकम् तत्त्रिभौमम् स्याच् छिवप्रीतिकरम् भवेत्। तारे सप्तनवाम्शे तु भागस्सौष्टिक विस्तरह् ॥ ५१ ॥

शालायामस् तथा द्व्यम्शो हारम् भागेन कल्पयेत्। अष्टकूटम् तु तत्कोष्ठम् द्वादशैव विधीयते ॥ ५२ ॥

अष्ट्नीडानि नाड्यस्स्युर् नीडम् शोभावशेन तु। अष्टाश्र मस्तकम् वेदि कन्धरम् चाष्ट्नासिकम् ॥ ५३ ॥

विमलाकृतिकम् नाम्ना सर्वालङ्कार सम्युतम्। चतुर्भागाधिकम् यामम् विस्तारात् परिकल्पयेत् ॥ ५४ ॥

विस्तारे वसुभागास्स्युरायामे द्वादशाम्शकह्। तद्विस्तारार्धमानेन वर्तुलम् वर्तनीयकम् ॥ ५५ ॥

मसूरिकाच्छिरोन्तम् तु द्व्यश्रम् वृत्तम् तु कारयेत्। अथवा शिकरम् कण्ठम् द्व्यश्र वृत्तम् नयेद् द्विजाह् ॥ ५६ ॥

तदधश्चतुरश्रम् स्यान् मूलतो द्व्यश्र वृत्तके। अग्रात्पार्श्वद्वयोह् पृष्ठे कुर्यादर्क द्वयाम्शकम् ॥ ५७ ॥

कूट कोष्ठक नीडाम्श विस्तारो भाग इष्यते। कोष्ठकम् द्विगुणायामम् हारम् भागेन कीर्तितम् ॥ ५८ ॥

षड्भागास्स्युस्तदूर्ध्वे तु पृष्ठतस्तस्य पार्श्वयोह्। कृत्वर्कद्विगुणाम्शम् तु कूट कोष्ठादि पूर्ववत् ॥ ५९ ॥

ऊर्ध्व भौमम् चतुर्भागम् यथायुक्ति वशान्नयेत्। मस्तके पुरतो नेत्रम् शालावक्त्र समन्वितम् ॥ ६० ॥

गर्भ कूटोप सम्युक्तम् क्षुद्रनासि विभूषितम्। कूट कोष्ठयुतम् वाथ तद्विहीनम् तु वा नयेत् ॥ ६१ ॥

शिखरे दभ्रनास्यस्स्युस् तिस्रह् पादसमन्विताह्। अष्टकूटम् तु तत्कोष्ठम् नीडम् द्वादश एव च ॥ ६२ ॥

हारायाम् क्षुद्र नीडम् स्याद् अर्कद्विगुण सम्ख्यया। एकादि रविभूम्यन्तम् वर्तनायुक्तम् एव वा ॥ ६३ ॥

हस्तिपृष्ठम् इदम् नाम्ना सर्वालङ्कार सम्युतम्। विस्तारास्त्वष्ट भागास्स्युर् आयामो दशभागिकह् ॥ ६४ ॥

कूटम् कोष्ठम् च नीडम् च भागेन परिकल्पयेत्। हारभागम् तु भागेन षडम्शञ्चोर्ध्व भूमिके ॥ ६५ ॥

तदुर्ध्वे तु चतुर्भाग आयामो अष्टाम्श अधिकह्। सायतम् द्व्यश्र वृत्तम् स्याद् वेदिका गलमस्तकम् ॥ ६६ ॥

कूट कोष्ठादि सर्वाङ्गम् पूर्ववत् परिकल्पयेत्। एतद्धस्ताधिकम् सौधम् गजपृष्ठम् पुरातनम् ॥ ६७ ॥

नवधा भाजिते तारे गर्भगेहम् त्रिभागतह्। भागतो गृहपिण्ड्ट् स्यत् कन्धरम् वाम्शतो भवेत् ॥ ६८ ॥

अम्शेनान्धारिका क्ञेया सौष्टिकम् वाम्शतो भवेत्। त्रिभागह् कोस्:ठकायामस् सार्धतो नीड विस्तरह् ॥ ६९ ॥

कोष्ठमध्ये त्रिदण्डेन नाडीनिर्गमनान्वितह्। ऊर्ध्वक्ष्मेपि षडम्शाम्शम् कूटम् तद्द्विगुणायतम् ॥ ७० ॥

कोष्ठभाग गतो हारह् पञ्जरैरञ्जितो भवेत्। ऊर्ध्वभूमौ त्रिभागेन मध्ये दण्डेन निर्गतह् ॥ ७१ ॥

आदौतलम् चतुष्कर्णे कूटम् वेदाश्रमस्तके। अष्टाश्रम् ऊर्ध्वभूमौ तु सौष्टिकानाम् तु मस्तकम् ॥ ७२ ॥

चतुरश्रम् अधिष्ठानम् वस्वश्रगल मस्तकम्। अष्टकूटम् तथा कोष्ठम् नीडकम् च तथा भवेत् ॥ ७३ ॥

क्षुद्रनीडम् तथाप्यष्टौ चाष्तौस्युर् गलनासिकह्। भद्रकोष्ठम् इदम् नाम्ना सर्वालङ्कार सम्युतम् ॥ ७४ ॥

तदेव वर्तुलम् कर्णकूट्मूर्ध्वोर्ध्व भूमिके। मस्तकम् तस्य वृत्तम् स्याच् चतुर्णासि समन्वितम् ॥ ७५ ॥

वृत्तकूटम् इदम् नाम्ना सर्वावयव सम्युतम्। तदेवाष्टाम्श दैर्घ्येण सायतम् चतुरश्रकम् ॥ ७६ ॥

कर्णकूटम् च वेदाश्रम् सायतम् वृत्त मस्तकम्। कोष्ठभद्र विहि;नम् वा शेषम् पूर्ववदाचरेत् ॥ ७७ ॥

स्थूपित्रय समायुक्तम् नाम्नैतत् स्यात् सुमङ्गलम्। पञ्चादशकरम् व्यासम् दशभागेन योजयेत् ॥ ७८ ॥

गर्भगेहम् चतुर्भागम् गान्धार्यम्शेन कीर्तिताह्। अलिन्द्रमम्शमम्शेन खण्डहर्म्यम् बहिष्क्रमात् ॥ ७९ ॥

कर्णमध्ये अन्तरम् कुर्यात् कूटकोष्ठक पञ्जरम्। भागेन कोष्ठका यामम् द्विगुणम् सम्मतम् बुधाह् ॥ ८० ॥

ऊर्ध्वभूमौ रसाम्शे तु भागस्सौष्टिक विस्तरह्। कोष्ठकम् द्विगुणायामम् हारम् भागेन योजयेत् ॥ ८१ ॥

तदूर्ध्वे च चतुर्भागे भागे मध्येन निर्गमह्। दण्डेनाध्यर्ध दण्डेन द्विदण्डेनाथवा भवेत् ॥ ८२ ॥

चतुरश्रम् अधिष्ठानम् तद्वत् कन्धर मस्तकम्। वसु कूटम् तथा नीडम् कोष्ठकम् च तथैव च ॥ ८३ ॥

ऊर्ध्वे अष्टौ लम्बनीडास्स्युर् जलस्थल समन्वितम्। नासिकाद्यङ्ग सम्युक्तम् सर्वावयव सम्युतम् ॥ ८४ ॥

उन्नतौ कूटकोष्टौ चेद् अन्तरप्रस्तरान्वितौ। एवम् गान्धारम् अत्रोक्तम् अष्टाश्रम् वागलम् शिरह् ॥ ८५ ॥

तदेव वर्तुलम् वेदि कन्धरम् शिखरम् यदि। शेषम् पूर्ववदुत्तिष्टम् नाम्ना श्रीभोगम् इष्यते ॥ ८६ ॥

वृत्तम् वृत्तायतम् द्व्यश्रम् वृत्तमष्ट षडश्रकम्। कूटकोष्टक नीडैश्च मण्डितम् हर्म्यखण्डके ॥ ८७ ॥

ऋजुभागविशालात्तु द्व्यश्र वृत्ते अथ वर्तुले। भागह् कश्चिद्भवेन् न्यूनो भागस् सर्वसमस्तु वा ॥ ८८ ॥

अष्टम्शेन दशाम्शेन चोर्ध्वाम्शस्योदयाम्शकम्। यथाशोभबलव्याप्तिस् तथ युञ्जीत बुद्धिमान् ॥ ८९ ॥

वक्ष्ये अथ मुनय्श्श्रेष्टाश् चतुर्भौम निकेतनम्। त्रिचतुष्पञ्च हस्तादिर् द्विद्व्यङ्गुल विवर्धनात् ॥ ९० ॥

एकविम्शति हसान्तो व्यासतुङ्गस्तु पूर्ववत्। त्रयोदशकर व्यासम् अष्टधा विभजेत् ततह् ॥ ९१ ॥

एकाम्शह् कूट विस्तारह् शालायामो द्विभागतह्। भागह् पञ्जर विस्तारो भवेद्य्र्ध्वम् अथो अष्टधा ॥ ९२ ॥

प्राग्वदेव सभाशाला पञ्जराणाम् तु कल्पनम्। ऊर्ध्व्र् षडम्श भागेन कूटविस्तार ईरितह् ॥ ९३ ॥

द्विभागक् कोष्ट्कायामो नीडम् भागोर्ध्वमिष्यते। ऊर्ध्वे गुणाम्श भागेन भद्रो दण्डेन मध्यमे ॥ ९४ ॥

उच्चम् यद्विभजेद्धाम्नो नवत्रिम्शति सम्ख्यया। सार्धद्व्यम्शम् अधिष्ठानम् पञ्चाम्शह् पाददैर्घ्यतह् ॥ ९५ ॥

तस्यार्ध प्रस्तरोत्सेधस् सत्रिपाद युगाम्शकैह्। ऊर्ध्वभूम्यङ्घ्रिकोत्सेधस् सपाद द्व्यम्श्मम्शकम् ॥ ९६ ॥

जङ्घ च द्विगुणम् चोर्ध्वे द्व्यम्शेन प्रस्तरोदयह्। भागाधिक चतुर्भाग उपरिष्टत्स्वतुङ्गता ॥ ९७ ॥

स्यात्सत्रिभाग भागेन प्रस्तरो वेदिकाम्शतह्। गलोच्चम् अश्विनी भागम् सार्धवेदैश्शिरो भवेत् ॥ ९८ ॥

शेषभागैश्शिखामानम् हर्म्यान्तम् चतुरश्रकम्। रविसम्ख्या भवेत्सौष्ट् कोष्ठम् तद्वत् सपञ्जरम् ॥ ९९ ॥

शिखरे वेदनासास्स्युरल्पनास्यस् तथैव च। सर्वालङ्कार सम्युक्तम् एतद्धर्म्यम् सुभद्रकम् ॥ १०० ॥

तदेव कूट कोष्ठादि मध्ये मध्ये द्विजोत्तमाह्। मस्तकम् मण्डलाभम् स्याद् वृत्ताभम् स्यात्तथा शिरह् ॥ १०१ ॥

विस्तारार्ध प्रमाणेन गर्भगेह समन्वितम्। शेषम् द्व्यम्शावृता पिण्डी तद्वदन्धार हारके ॥ १०२ ॥

नानामसूरकाद्यङ्गम् नाम्नेदम् श्रीविशालकम्। पञ्चादशकर व्यासे नव्धा भाजिते सति ॥ १०३ ॥

गर्भगेहम् त्रिभिर्भागैर् गृहपिण्डस्तदम्शतह्। अलिन्दम् परितो अम्शेन खण्डहर्म्यम् अथाम्शतह् ॥ १०४ ॥

कूट्कोष्ठक नीडानाम् भागेनैकेन विस्तरह्। विस्तार द्विगुणयामह् स्वव्यास समनिर्गमह् ॥ १०५ ॥

शालाम्ध्ये हहानासी भागमध्य विनिर्गमह्। भद्र कोष्ठक नीडानाम् अन्तरार्धेन भारकम् ॥ १०६ ॥

तदूर्ध्व्र् वसुभागे तु भागमट्टस्य विस्तरम्। कोष्ठकस्य तु विस्तारस् तथैव परिकीर्तितह् ॥ १०७ ॥

आयामस्तु द्विभागेन तन्मध्ये नीडम् अम्शतह्। तदूर्ध्व्र् रसभागे तु कूटम् अम्शेन कोष्ठकम् ॥ १०८ ॥

विस्तार द्विगुणायामस् तन्मध्ये अर्धेन पञ्जरम्। ऊर्ध्वभूमिश्चतुर्भागो मध्ये दण्डेन निर्गमह् ॥ १०९ ॥

अष्टाश्रम् कर्णकूटम्स्यात् कोष्ठकम् कर्तरीकृतम्। महशिखरम् अष्टाश्रम् अष्टनास्या विभूषितम् ॥ ११० ॥

कूट कोष्ठक नीड्नाम् सम्ख्या पूर्वद् ईरिता। अस्याप्युत्सेध भागम् तु पूर्ववत् परिकल्पयेत् ॥ १११ ॥

भद्र कोष्ठम् इदम् नाम्ना वेदभौमम् दिवौकसाम्। सप्तादशकर व्यासम् दशभागैर् विभाजयेत् ॥ ११२ ॥

नालिगेहम् चतुर्भागम् भागेनान्धारिकाम् नयेत्। परितो अलिन्दम् अम्शेन परितह् खण्डहर्म्यकम् ॥ ११३ ॥

कूट कोष्ठक नीडाश्च भागेन परिकल्पयेत्। शालायामो द्विभागस्स्याद् हारह् शेषेण कीर्तिता ॥ ११४ ॥

जलम् विहाय चोर्ध्वे च वसुभागैर् विभाजिते। भागेन सौष्टि भागाभ्याम् शलाभागेन पञ्जरम् ॥ ११५ ॥

तदूर्ध्वे रसभागे तु भागस् सौष्टिक विस्तरह्। द्विगुणह् कोष्ठकायामो हाराया म्षुद्रपञ्जरम् ॥ ११६ ॥

तदूर्ध्व्र् तु त्रिभागे तु मध्याद् दण्डेन निर्गमह्। चतुरश्रम् अधिष्ठानम् अष्टाश्रम् मस्तकम् गलम् ॥ ११७ ॥

रवि कोष्ठम् तथा शाला पञ्जराणाम् अथाष्टकम्। लम्बपञ्जरम् अष्टौ हि क्षुद्रनीडम् द्विरष्टकम् ॥ ११८ ॥

गलनासाष्ट सम्युक्तम् कोष्ठकम् किञ्चिद् उन्नतम्। नानामसूरकस्तम्भ वेदिजालादि मण्डितम् ॥ ११९ ॥

सोपपीठम् अधिष्ठानम् केवलम् वा मसूरकम्। स्वस्तिकाकार सम्युक्तम् नासिकाभिश्च सम्युतम् ॥ १२० ॥

पूर्ववत् तुङ्गभागम् स्याद् एतन्नाम्ना जलावहम्। नवपङ्क्तिकर व्यासे दशभाग विभाजिते ॥ १२१ ॥

गर्भवासश् चतुर्भागो भागेन गृहपिण्डिका। कन्धरम् परितो अम्शेन परितह् खण्डहर्म्यकम् ॥ १२२ ॥

कूटकोष्ठक नीडानाम् विस्तारो भाग एव हि। द्व्यम्शेन कोष्ठकायामो हारा भागेन सम्मतम् ॥ १२३ ॥

कूटकोष्ठकम् च नीडम् चावान्तरप्रस्तरान्वितम्। जलस्थलम् विहायोर्ध्वे चाष्टाम्शम् सौष्टिकम् भवेत् ॥ १२४ ॥

तथाद्विगुण शाला स्यात् तयोर्मध्ये तु पञ्जरम्। तदूर्ध्वे रसभागे तु कूट कोष्ठादि पूर्ववत् ॥ १२५ ॥

विजयस्य तथा प्रोक्तम् शेषम् ऊर्ध्वे तु योजयेत्। कूट कोष्ठादि सर्वाङ्गम् पूर्ववत् सम्ख्यया विदुह् ॥ १२६ ॥

महानीडम् द्विरष्टास्स्युर् नाम्नैतद् भद्रकूट्कम्। तदेवान्यदलङ्कारम् कोष्ठमध्ये तु भद्रकम् ॥ १२७ ॥

प्रतिग्रीव शिरोयुक्तम् एतन्नाम्ना मनोहरम्। तदेवान्यदलङ्कारम् वेदाश्रम् कन्धरम् शिरह् ॥ १२८ ॥

नाम्नावन्तिकम् इत्युक्तम् शम्भोर्मन्दिरम् उत्तमम्। त्रिसप्तहस्त विस्तारे दशभाग विभाजिते ॥ १२९ ॥

वेदाम्शे गर्भगेहम् स्यादम्शेन गृहपिण्डिका। अन्धाराम्शेन भागेन मङ्गलाङ्गम् प्रकल्पयेत् ॥ १३० ॥

कूट् कोष्ठक नीडम् च पूर्ववत् परिकल्पयेत्। मण्डितम् वेदिका शाला तोरणप्रमिखैरपि ॥ १३१ ॥

जलस्थलम् विहायोर्ध्वे वसुभागैर् विभाजिते। शाला सौष्टिक नीडाद्यम् पूर्ववत् परिकल्पयेत् ॥ १३२ ॥

ऊर्ध्वभूमिष्षडम्शा स्याद् भागस् सौष्टिक विस्तरह्। शालायामो द्विभागेन नीड तारोर्ध्व भागतह् ॥ १३३ ॥

ऊर्ध्वभूमि द्विभागेन् मध्यभद्रो विधीयते। दण्डेन निर्गमस् तस्य सार्ध दण्ड द्वयेन तु ॥ १३४ ॥

ग्रीवनाडी विशाला स्याद् वृत्तवेदि समन्वितम्। वृत्ताभ शिखरग्रीव महानासी चतुष्टयम् ॥ १३५ ॥

अल्पाष्ट नासिकोपेतम् अस्यमूल तले द्विजाह्। समम् चोत्तुङ्ग शिखरम् कूट कोष्ठक नीडकम् ॥ १३६ ॥

उत्तुङ्ग शाला द्वितलम् मु;ले त्वधिक कूटकम्। चतुरश्राष्ट वृत्ताभाह् कर्णकूटास्तु मूलतह् ॥ १३७ ॥

नानामसूरकस्तम्भ वेदिकाजाल तोरणम्। नानासुखावहम् प्रोक्तम् देवानाम् आस्पदम् मतम् ॥ १३८ ॥

पञ्चभुअमम् अहम् वक्श्ये शृऊयताम् मुनिपुङ्गवाह्। तुङ्गे षष्टाष्टभागे तु सत्रिभागम् द्विभागिकह् ॥ १३९ ॥

मसूरकोच्चम् आख्यातम् पादस्सार्ध शरैर् भवेत्। सार्धद्विभागैर् बिम्बस्स्यात् सान्घ्रिभूतैश्च पादकह् ॥ १४० ॥

भागद्वयेन सार्धेन प्रस्तरह् परिकीर्तितह्। पञ्चभागेन पादस्स्यान् मञ्चस्याङ्घ्रि द्विपादकम् ॥ १४१ ॥

त्रिपादवेदैस्तलिपो द्विभागह् प्रस्तरो भवेत्। सार्धवेअदैह् पुनह् पादस् सत्रिपादाम्शकेन च ॥ १४२ ॥

प्रस्तरोदय इष्टस्स्याद् विदर्दिश्चैक भागतह्। द्विभागह् कन्धरह् प्रोक्तस् साङ्घ्रि वेदैश् शिरो भवेत् ॥ १४३ ॥

त्रिभागह् कुम्भ इत्युक्तो भागश्चैवम् प्रकीर्तितह्। रसादि रुद्रभागेन पञ्चभौमम् प्रकल्पयेत् ॥ १४४ ॥

षड्तलाद्यम् क्रमाद्वक्ष्ये पञ्चभूयम्शकैस्सह। पञ्चभौमस्य धाम्नह् स्यान् मूलधामोर्ध्वतह् क्रमात् ॥ १४५ ॥

प्रस्तरस् तधिष्ठानम् मानेनैव प्रकीर्तितम्। रसभागेन पादस्स्याद् अधिष्ठान त्रिभागतह् ॥ १४६ ॥

षड्भौमम् एवमाह्यातम् तारो विस्तरभागयुक्। तदधस्सार्ध सप्ताम्शैस् सपाद गुणभागकैह् ॥ १४७ ॥

स्तम्भम् मसूरकम् कुर्यात् तारे रुद्रार्क भाजिते। सप्तभौमम् इदम् ख्यातम् विमानम् सार्वदेशिकम् ॥ १४८ ॥

तदधो मुनिभिस्सार्धम् गुणाम्शैह् पादकुट्टिमौ। धर्म रुद्रार्क भागैस्तु त्रयोदश विभागकैह् ॥ १४९ ॥

अष्ट्भौमम् इदम् प्रोक्तम् एवम् प्राज्ञैह् मिनीश्वराह्। तदधस्सारध सप्ताम्शैस् सत्रिभागग्नि भागिके ॥ १५० ॥

स्तम्भम् च तलिपम् कुर्यात् तारोम्शाह् प्रगुदीरिताह्। एवम् नवतलम् प्रोक्तम् दशभौमम् इहोच्यते ॥ १५१ ॥

तदधो अष्टयुगाम्शैस्तु पादोधिष्ठानम् इष्यते। तारे पूर्वोक्त भागास्स्युर् मनुभागम् तु वा मतम् ॥ १५२ ॥

तदधस् सार्धवस्वम्शैस् सपाद युग भागिके। पादम् मसूरकम् कुर्याद् भागानष्टदशान्तकान् ॥ १५३ ॥

पूर्वोक्तम् कल्पयेदेवम् एकादशतलम् मतम्। तदधो गृहनन्दार्दहिह् पादाम्श तलकम् भवेत् ॥ १५४ ॥

तारे षोडश भाग्ऽदि यावदर्क द्व्याम्शकम्। सङ्कल्प्य तत्र कूटादीन् योजयेद् देशिकोत्तमह् ॥ १५५ ॥

द्वित्रिवेदेषु षड्भागैह् प्रागुक्ताम्शैस्तु वा गृहम्। गृहपिण्ड्यलिन्द्र ताराम्श्च गर्भ भागाद् बहिर् नयेत् ॥ १५६ ॥

प्रासादस्य तु विस्तारम् कृत्वा षोडश भागिकम्। वेदभागैर् गृहम् प्रोक्तम् पिण्डी भागेन निर्मितम् ॥ १५७ ॥

पञ्चालिन्द्रम् च षड्कुड्यम् प्रत्येकम् चार्ध भागतह्। अथवायाम विस्तारे चतुर्विम्शति भाजिते ॥ १५८ ॥

गर्भगेहो द्विभागेन गृहपिण्डस्तु भागतह्। पञ्चालिन्द्रम् तथा कुड्यम् योजयेद् भागतो बहिह् ॥ १५९ ॥

कूटकोष्ठादि सर्वाङ्गम् पूर्ववत् परिकल्पयेत्। प्रासादस्य तु विस्तारम् कृत्वा त्रिनव भागिकम् ॥ १६० ॥

पञ्चभिर् गर्भगेहम् स्याच् छेषम् पूर्ववदीरितम्। अन्येष्वपि च भागेषु समूह्येवम् प्रकल्पयेत् ॥ १६१ ॥

एवम् द्वादश भौमम् स्यात् तदूर्ध्वम् अधुनोच्यते। पूर्वमानाद् अधिष्ठाने पादमानम् अथार्धकम् ॥ १६२ ॥

स्तम्भ मने तु युक्त्यैव योजयेद् अधिकम् गुरुह्। आषोडशतलम् सम्यग् आरभ्य द्वादशक्ष्मकम् ॥ १६३ ॥

अम्शाद्विम्शति भागदीन् एकत्रिम्शाम्शकवधि। कल्पयेद् यजमानेच्छावशेनैव विशेषतह् ॥ १६४ ॥

भागार्धेनाथवालिन्दम् शेषम् कुड्येषु योजयेत्। युग्मायुग्म करैर्वाथ कारयेद् एवमेव तु ॥ १६५ ॥

युग्माम्शे तु विभागे वा कूटव्यासा द्विरायता। शाला तु चतुरम्शैर् वा युग्मायुग्माम्शकैस् तथा ॥ १६६ ॥

तलमेकम् भवेद्ग्रासम् खण्डहर्म्यम् चतुस्तले। द्वितलम् पञ्च षट्सप्त भूमौ ग्रासम् भ्वेद् द्विजाह् ॥ १६७ ॥

त्रितलम् चाष्टभौमे तु नवपङ्ति तले तथा। चतुष्पञ्च तलव्यासो रुद्रादित्य तले भवेत् ॥ १६८ ॥

षट्तलम् वसु भौमे च चतुर्दश तले तथा। सप्तभौमम् समाख्यातम् षोडशाष्टैक भूमिकम् ॥ १६९ ॥

मूलतह् कूट कोष्ठादि कर्तुम् सम्यङ् महीतले। तले गृहे तु कूटादीन् यथायुक्त्या प्रयोजयेत् ॥ १७० ॥

कूटशालादिभिर् भेदैह् पूर्वमाख्या यथोदिता। धामस्थैभेदकैर्युक्त्य व्याख्या पूर्ववद् ईरिता ॥ १७१ ॥

Pūrvapāda – Kapitel 61: Die obersten Ziegel

विमानानाम् अथो वक्ष्ये ऊर्ध्वाश्म स्थाअपनम् परम्। यद्द्रव्येणावसानम्स्यात् तन्मया चेष्टका मता ॥ १ ॥

आद्येष्टकोक्त मानास्स्युरष्टाम्शेनास्तु वा मता। स्थापनम् वक्ष्यमाणेन मार्गेणैव समाचरेत् ॥ २ ॥

अङ्कुरार्पण कार्यम् तु प्रागेव विधिना चरेत्। मण्टपस्य विमानस्य सौम्यायाम् पूर्वतो दिशि ॥ ३ ॥

पञ्चैक कुण्ड युक्तो वा तत्सम्ख्यास्थण्डिलान्वितह्। मध्यमे वेदिका युक्तो दर्भमालाभि शोभितह् ॥ ४ ॥

पश्चाच्छिल्पिनम् उद्वास्य गोमयेनोपलेपयेत्। भोजनम् भूसुराणाम् च पुण्याहम् प्रोक्षणम् तथा ॥ ५ ॥

वास्तुहोमम् पुरकृत्वा स्थण्डिलम् कारयेत् ततह्। अष्टद्रोणैस्तदर्धैर् वा शालिभिश्च तदर्धकैह् ॥ ६ ॥

तण्डुलैश्च तिलैर्लाजैह् दर्भैह् पुष्पैर् हृदा गुरुह्। शय्याम् च कल्पयित्वाथ पञ्चमृत् पञ्च गव्यकैह् ॥ ७ ॥

प्रक्षाल्य चेष्टकाम् स्थूपिम् यजेद् गन्धादिभिर् हृदा। स्वराद्यम् वेदवर्णम् तु पूर्वादि क्रमशो लिखेत् ॥ ८ ॥

इष्ट्कासु हृदा मन्त्री श्वेतचन्दन चर्चितह्। शय्ययाम् स्थापयित्वा तु तद्वामे स्थूपिकाम् न्यसेत् ॥ ९ ॥

कौतुकम् बन्धयित्वा तु वस्त्रेणाच्छाद्य देशिकह्। परितोष्टौ घटान् न्यस्त्वा लोकेशाशासु तान् हृदा ॥ १० ॥

सम्पूज्य गन्धपुष्पाद्यैर् मूर्ति मूर्त्यधिपान् न्यसेत्। नन्दाम् भद्राम् जयाम् रिक्ताम् पूर्णाम् चैवेष्टकासु च ॥ ११ ॥

न्यसेत्स्थूपिम् एकदेशम् च होमकर्म समाचरेत्। कृत्वा कुण्डादि सम्स्कारम् अग्निकार्योक्त मार्गतह् ॥ १२ ॥

समिदाज्यान्न लाजैश्च तिलाद्यैश्च क्र्माद्धुनेत्। पलाशोदुम्बराश्वत्थ वटाह् पूर्वादि दिक्षु च ॥ १३ ॥

प्रधाने अपि पलासस्स्यात् स च सर्वत्र वा मतह्। शिवब्रह्माङ्ग मन्त्रैश्च शतसम्ख्याम् तु होमयेत् ॥ १४ ॥

प्रभाते तु गुरुस्नातह् कृतमन्त्रादि विग्रहह्। इष्ट्वेष्टकाभिह् स्थूपिम् च कुम्भान् कुण्डम् च पालकान् ॥ १५ ॥

कृत्वा च निष्कृतिम् पूर्णाम् पूजाम् सम्तुष्ट मानसह्। पञ्च निष्कादि सम्प्राप्त दक्षिणैर् मूर्तिधारकैह् ॥ १६ ॥

दैवज्ञाद्यैस्त्रिभिस्सार्धम् शिल्पिना च गुरूत्तमह्। गृहीत्वा चेष्टकाम् स्थूप्म् कृतधाम प्रदक्षिणह् ॥ १७ ॥

आरुह्य शिखरम् मूर्ध्नि विन्यसेद् इष्टकाह् क्रमात्। आद्येष्टकोक्त मार्गेण मध्ये रत्नादि विन्यसेत् ॥ १८ ॥

तदूर्ध्वे स्थापयेत् स्थूपिम् मूलमन्त्रेण देशिकह्। तन्मूलम् कुम्भतोयैश्च प्रोक्षयेत् स्वस्वमन्त्रतह् ॥ १९ ॥

स्थूपिकाम्शम् विहायाधो बन्धयेद् इष्टकादिभिह्। एवम् यह् कारयेन्मर्त्यस् स पुण्याम् गतिमाप्नुयात् ॥ २० ॥

Pūrvapāda – Kapitel 62: Die Merkmale des Liṅga

लिङ्गस्य लक्षणम् वक्ष्ये श्रूयताम् द्विजसत्तमाह्।
मृद्दृमोपल लोहोत्थम् रत्नबाणादि सम्भवम् ॥ १ ॥

द्विविधम् मृण्मयम् लिङ्गम् पक्वम् चापक्वम् एव च।
आभिचाराय पक्वम् तु द्विहस्तादुपरि स्थितम् ॥ २ ॥

श्वेताद्याम् मृदमादाय पयस्तैलादिभिर् वृताम्।
यव गोधूम चूर्णन्तु पयावृक्षत्वचान्वितम् ॥ ३ ॥

पिच्छिलेन सुगन्धेन चूर्णेनालोड्य सन्मृदम्।
श्रीवेष्टकम् सर्जरसम् तथ गुग्गुलु शर्करा ॥ ४ ॥

पञ्च निर्यास सम्युक्ताम् अथ लोकप्रसिद्धितह्।
एतेषाम् सम्ख्यया तुल्याम् मृदम् गृह्णीत देशिकह् ॥ ५ ॥

गिरौ गिरिसमीपे वा वनेषूपवनेषु च।
नदी तीरे दृमे शैले लिङ्गार्थम् द्रव्यम् आहरेत् ॥ ६ ॥

यास्सुवर्णा घनास्निग्धा निमग्ना नगसन्धिषु।
सरित्सलिल निर्धूत पवित्रान्तर् जलोषिताह् ॥ ७ ॥

वृक्षच्छायोपगूढाश्च तीर्थाश्रम समाश्रयाह्।
आयाम व्यास्नाहाढ्या रक्ताह् पीतास्सितासिताह् ॥ ८ ॥

मनोरमाश्शिला ग्राह्या यौवनाश्श्रेयसे मताह्।
वातातपानलालीढा मृद्वीक्षरोदकाश्रिताह् ॥ ९ ॥

कर्मान्तर गृहिता वा अत्यन्तोपहताश्च याह्।
अन्त्यजानीत सेव्या या नदीशैले तटे स्थिताह् ॥ १० ॥

रूक्षा वृत्तादि बालाश्च वर्जनीयाश्शिला द्रुमाह्।
खादिरश्चन्दनस् सालो मधूकस् सरलो असनह् ॥ ११ ॥

बिल्वह् कदम्बह् खदिरो देवदारुश्च शिम्शुपह्।
पनसार्जुनावशोकश्च क्षीरिणो रक्तचन्दनह् ॥ १२ ॥

स्निग्ध वर्णा महाकायश् शुभदाश्शुभदेशजाह्।
द्रव्य सन्ग्रहणम् कुर्याद् वक्ष्यमाणम् विशेषतह् ॥ १३ ॥

तच्छैलम् नवहस्तान्तम् पार्थिवम् वा तथा मतम्।
त्र्यम्शेन दारुजम् लोहम् अस्यार्धेनोत्तमम् मतम् ॥ १४ ॥

षड्षडङ्गुल हान्यन्तम् मध्यमम् मानम् उच्यते।
तदलाभे तु तन्मध्ये त्वैकाङ्गुल हानितह् ॥ १५ ॥

मानम् शतम् च नवति हस्तयुक्त प्रमाणतह्।
धामगर्भ प्रमाणेन अधमम् लिङ्गम् उच्यते ॥ १६ ॥

गर्भार्धम् मध्यमम् ज्ञेयम् पञ्चत्र्यम्शम् परम् भवेत्।
मध्यमे अष्टविभागेन नवलिङ्गोदयानि च ॥ १७ ॥

ज्येष्ठे ज्येष्ठात् समारभ्य पादह्रासाद् द्विजोत्तमाह्।
मानानि च त्रयस्त्रिम्शल् लिङ्गानाम् कीर्तितानि तु ॥ १८ ॥

अथवान्य प्रकारेण गर्भमानम् विधीयते।
अधमम् गर्भपादम् स्यात् त्रिपादम् ज्येष्ठ मानकम् ॥ १९ ॥

पूर्ववन् मध्यमम् कृत्वा त्र्यस्त्रिम्शत् प्रमाणकम्।
आयादिशुद्धि सिद्ध्यर्थम् भजेन् मानाङ्गुलेन तु ॥ २० ॥

भागम् वा विभजेत्तेषाम् शुद्ध्यर्थम् तदिहोच्यते।
षोडशाम्शम् समारभ्य चतुर्विम्शति सम्युतम् ॥ २१ ॥

शताम्शम् विभजेत्तत्र चैकाम्शम् योजयेद् गुरुह्।
आयादि शुभसम्युक्तम् षडम्शम् वा पुरा मया ॥ २२ ॥

भूमिलम्बे समादिष्टम् नोक्तम् विस्तरभीरुणा।
लिङ्गायामो विकराम्शे चतुर्भूतम् रसैह् क्रमात् ॥ २३ ॥

सत्रिभागैस् त्रिरम्शैस्तु सुरेड्यानाढ्यके द्विजाह्।
आढ्यम् सर्वसम लिङ्गम् विशिष्टम् परिकीर्तितम् ॥ २४ ॥

तेषाम् तन्मध्यमे अष्टाम्शे प्रत्येकम् नवधा भजेत्।
लिङ्गायामे दिनाम्शे तु सप्ताष्ट नव भागतह् ॥ २५ ॥

ब्रह्म विष्ण्वीश भागानाम् उत्सेधाह् सम्प्रकीर्तिताह्।
सर्वेषाम् अपि सामान्यम् लिङ्गम् एतत्द् उदाहृतम् ॥ २६ ॥

समखण्डम् वर्धमानम् शैवाधिक्यम् त्रिभागिकम्।
वर्णानम् ब्राह्मणदीनाम् क्रमेण परिकल्पयेत् ॥ २७ ॥

वर्धमान शिवाधिक्ये सर्वजात्यर्हके मते।
लिङ्गायामम् त्रिधा कृत्वा ब्रह्माम्शस्त्वेक भागतह् ॥ २८ ॥

विष्ण्वम्शस्तद्वदेवम् स्याद् रुद्रम्शो भाग एव वा।
एकाम्श सदृशस्तारस् समखण्डो अयमीरितह् ॥ २९ ॥

चतुष्पञ्च षडम्शम् तु पञ्च षट् सप्तभागिकम्।
षट्सप्ताष्टाम्शकम् सप्त भागाष्ट नव भागिकम् ॥ ३० ॥

वर्धमानम् इदम् प्रोक्तम् विप्रादीनाम् अनुक्रमात्।
सप्त सप्ताष्ट भागम् तु पञ्च पञ्च षडम्शकम् ॥ ३१ ॥

वेद वेद शराम्शम् तु गुणानल युगाम्शकम्।
एवम् शिवाधिकम् प्रोक्तम् द्विजादीनाम् अनुक्रमात् ॥ ३२ ॥

कृत्वा नवाम्शम् लिङ्गोच्चम् बन्ध बन्ध गुणाम्शकम्।
षट्सप्ताष्टक नाहम् तु वृत्तेष्टाश्रे युगाश्रके ॥ ३३ ॥

त्रैराशिकम् इदम् शास्त्रे स्वस्तिकम् त्वधुनोच्यते।
नवधा लिङ्गमानेन द्व्यम्शम् मध्ये गुणाम्शकम् ॥ ३४ ॥

वृत्ते युगाम्शकम् दैर्घ्यम् शूद्रेप्येतच्च शस्यते।
त्रैराशिकम् तु सर्वेषाम् सर्वकामप्रदम् मतम् ॥ ३५ ॥

आढ्यानाढ्य सुरेढ्यम् च धारालिङ्गम् सहस्रकम्।
सर्वेषाम् ब्राह्मणादीनाम् अपि सामान्यम् ईरितम् ॥ ३६ ॥

एकादि धारया वृद्धम् शतधारावसानकम्।
धारालिङ्गम् प्रशस्तम् स्यात् सहस्रम् अधुनोच्यते ॥ ३७ ॥

समखण्डे शिवायामे रुद्रभाग विनिर्मिते।
एकाधिकम् नवत्यम्शम्शे विषमाम्श निवेश्तम् ॥ ३८ ॥

सैकसाहस्र लिङ्गानाम् नवभागोच्चम् एव वा।
मुखलिङ्गम् अथो वक्ष्ये भुक्तिमुक्ति फलप्रदम् ॥ ३९ ॥

चतुर्मुखम् तत्त्रिमुखम् एकवक्त्रयुतम् भवेत्।
योच्चतारा द्विभक्ता वा गुणत्यागादधो शिरह् ॥ ४० ॥

ललाटम् नासिका वक्त्रम् चिबुकोष्ठम् च वर्तयेत्।
ग्रीवाभुजोप निष्क्रान्तिरिदानीम् प्रोच्यते बुधाह् ॥ ४१ ॥

लिङ्गायामे विकाराम्शे लिङ्गविष्कम्भतो बहिह्।
चतुर्दिक्षु चतुर्वक्त्रम् निर्गमाय प्रकल्पयेत् ॥ ४२ ॥

शेषम् लिङ्गाकृतिह् कार्या विष्णुभागानुसारतह्।
जानौ प्रतिष्ठा ग्रीवा स्याच् चतुरङ्गुल मानतह् ॥ ४३ ॥

तद्वद्दीर्घ समायुक्तम् शेषम् यत् प्रतिमोक्तवत्।
नन्दमात्रादिकम् भक्त्वा षट्तालम् तु चतुर्विधम् ॥ ४४ ॥

निर्गमार्थम् चतुर्दिक्षु वेष्टनम् परिकल्पयेत्।
पादोन सप्तमात्रम् तु विस्तारेण प्रकल्पयेत् ॥ ४५ ॥

त्रिमुखम् वा तदुच्चाम्शम् ऋतुवद् भाजयेत् समम्।
भागार्धेन भुजस्कन्धौ षडङ्गुल विनिस्सृतौ ॥ ४६ ॥

त्रिभागेन भवेद् ग्रीवा मकुटम् स्याद् द्विभागतह्।
चतुर्धा विभजेच्छेषम् भागमात्र प्रमाणतह् ॥ ४७ ॥

शिरो ललाट नासाश्च वक्त्रम् चिबुक सम्युतम्।
विष्ण्वम्शम् तारसदृशम् मकुटम् च विवर्तयेत् ॥ ४८ ॥

निर्गमाम्श मुखानाम्स्युह् प्रत्येकम् वसुमात्रकैह्।
एकवक्त्रे त्रयोच्चाम्शो सार्धेन मुखदैर्घ्यकम् ॥ ४९ ॥

मकुटञ्चैकभागम् स्याद् अवशिष्टे द्विधाकृते।
ग्रीवस्कन्धौ क्रमेणैव वर्धयेद् देशिकोत्तमह् ॥ ५० ॥

मुखस्य निर्गमम् कुर्यान् नवमात्र प्रमाणतह्।
अष्टाधिकशतेलिङ्ग दैर्घ्ये दैघ्याम्श इष्यते ॥ ५१ ॥

शिरोवर्तनम् एतेषाम् वक्ष्ये तद्बहुधा मतम्।
पुण्डरीकविशालाख्यम् श्रीवत्सम् शत्रु वर्धनम् ॥ ५२ ॥

काश्ठाम्शके चतुर्भक्ते भागभागम् विवर्धनात्।
भवन्ति पुण्डरीकादि भेदा भिन्नफलाप्तये ॥ ५३ ॥

पुण्डरीकाद् यशह् प्राप्त्र् विशालाद् विपुलाम् श्रियम्।
प्राप्नोति सर्वान् श्रीवत्साद् विजयम् शत्रुमर्दनात् ॥ ५४ ॥

कुक्कुटाण्ड शिरोमूर्ति चतुर्थाम्श विवर्धनात्।
प्रजावृत्तिकरम् यस्मात् प्रजालाभह् प्रजापतिह् ॥ ५५ ॥

त्रिभागवर्धनाद् अर्धचन्द्रम् चन्द्रसमो यतह्।
प्राप्तमायुह् परम् प्राप्तलोकम् सौभाग्यम् उत्तमम् ॥ ५६ ॥

षड्भागवर्धनाद् भूति निमित्तम् त्रपुषाक्र्तिह्।
साध्यास्सिद्धाश्च मरुतो यस्माद् भूतिम् पराम् गतह् ॥ ५७ ॥

अथवान्य प्रकारेण शिरोवर्धनम् उच्यते।
अष्टधा विभजेत् तारम् अध्यर्धेन विवर्धनात् ॥ ५८ ॥

छत्रशीर्षम् इतिप्रोक्तम् त्रपुषाभम् निगद्यते।
षडम्शैस्त्रपुषम् वा स्यत् सार्ध द्व्यम्शेन वर्तनम् ॥ ५९ ॥

कुकुटाण्ड शिरह् प्रोक्त विस्तारार्ध प्रवर्तितम्।
चन्द्रखण्डनिभम् प्रोक्तम् विस्तारात् त्र्यम्श वर्तितम् ॥ ६० ॥

बुद्बुधाभम् शिरस्सार्ध त्र्यम्शेनाष्ट विभाजिते।
एतानि सर्वलिङ्गानाम् सनातन शिराम्शि च ॥ ६१ ॥

आयादि शुभसम्युक्तम् लिङ्गम् सर्वार्थ साधकम्।
अशुभे त्वशुभम् विद्यात् तदर्थम् उपरिन्यसेत् ॥ ६२ ॥

एकहस्ते अङ्गुलम् स्याच्च द्वित्रिहस्ते त्रिमात्रकम्।
चतुष्पञ्चकरे पञ्च षट्सप्तसु च सप्तकम् ॥ ६३ ॥

वसुनन्दकरे नन्द मात्रमानाधिकम् मतम्।
शिरोवर्तन भागे तु चतुर्थे वा षडम्शके ॥ ६४ ॥

एकम् द्वयम् त्रयम् दद्याद् ब्रह्मभागात् क्रमेण तु।
शिरोवर्तन भागस्य त्र्यम्शम् पूजाम्शकोप्रि ॥ ६५ ॥

लिङ्गायामे अथवारोप्य षड्भागे तु तदुच्छ्रये।
एकाम्शम् योजयेद् धीमान् लिङ्गे द्व्यम्शम् तु मध्यमे ॥ ६६ ॥

त्रिभागम् उत्तमे लिङ्गे योजयेद् वा द्विजोत्तमाह्।
केवलम् वा शिरोमानम् अधिरोप्य विवर्तयेत् ॥ ६७ ॥

शिरसा मिश्रितम् भागम् पार्श्वयोरवलम्ब्य च।
वृत्तद्वयम् तु तन्मानाद् उभयोह् पार्श्वयोर्न्यसेत् ॥ ६८ ॥

ऊर्ध्वदेशे शिरोमध्ये तृतीयम् मण्डलम् न्यसेत्।
मण्डलैश्च त्रिभिर् मत्स्यद्वयम् अत्रोप जायते ॥ ६९ ॥

तन्मत्स्यानन पुच्छस्य सुत्रयोर् यत्र सम्गतिह्।
तत्र स्थित्वा त्रिभिर्वास्य वर्तनीयम् शिरश्शुभम् ॥ ७० ॥

जातिलिङ्ग विभेदेन शिरश्च द्विविधम् मतम्।
छत्राकारम् तु विप्राणाम् कुक्कुताण्डनिभम् नृपे ॥ ७१ ॥

वैश्यानाम् अर्ध्चन्द्राभम् शूद्राणाम् त्रपुषम् भवेत्।
अपरम् चन्द्रमप्यन्य लिङ्गभेदेन कथ्यते ॥ ७२ ॥

लिङ्गव्यासे विकाराम्शे व्योम द्वित्र्यब्धिभिह् क्रमात्।
चतुर्विधम् स्याच्छत्राभम् तत्राद्ये समलिङ्गके ॥ ७३ ॥

शैवाधिक्ये तृतीयम् स्याच्चतुर्थम् वर्धमानके।
अन्या अन्यसङ्करस्त्वेषाम् अशुभाय प्रकल्पितह् ॥ ७४ ॥

स्वायम्भुवादि लिङ्गानाम् लक्षणम् नेष्यते द्विजाह्।
किन्तु तेषाम् विभागम् तु प्रसिद्धोक्त्या समाचरेत्॥
सर्वलक्षण सम्युक्तम् लिङ्गम् सर्वार्थ साधकम् ॥ ७५ ॥

Pūrvapāda – Kapitel 63: Die Keimaussaat

अथातस् सम्प्रव्क्ष्यामि अङ्कुरार्पण लक्षणम्।
सर्व मङ्गल कार्यादौ कर्तव्यम् मङ्गलाङ्कुरम् ॥ १ ॥

उत्तमो मध्यमो नीचस्त्रिविधह् परिकीर्तितह्।
नवाहे वाथ सप्ताहे पञ्चाहे त्रिदिनेपि वा ॥ २ ॥

सद्यो अङ्कुरार्पणम् वापि शिवम् सम्पूज्य चारभेत्।
सायादि दिनमारभ्य देवानाम् अङ्कुरार्पणम् ॥ ३ ॥

तद्दिने तु मनुष्याणाम् देवानाम् अपि सम्मतम्।
बीजानाम् अधिपस् सोमो तस्मद् रात्रौ तु निर्वपेत् ॥ ४ ॥

दिवाकाले न कर्तव्यम् कृतम् चेत् कर्तृ नाशनम्।
सदनस्याग्रके देशे वामे वाप्यग्र दक्षिणे ॥ ५ ॥

त्रिहस्तम् तु समारभ्य कुर्याद् रुद्र करान्तकम्।
मण्टपम् तत्र कर्तव्यम् पूर्व सम्कल्पिते अथवा ॥ ६ ॥

ऐशे वा यागशालायाम् कुर्यात् तीर्थाङ्कुरार्पणम्।
वितान ध्व्ज सम्युक्त द्वार तोरण सम्युते ॥ ७ ॥

दर्भमाला समायुक्ते मुक्तादाम समन्विते।
पुण्याह प्रोक्षणम् कुर्यादथवास्त्रेण शोधयेत् ॥ ८ ॥

शरावह् पालिकाश्चैव घटिकास्च त्रिधाह् स्मृताह्।
सर्वैह् क्र्;तम् यदुत्कृष्टम् वर्गाभ्याम् मध्यमम् भवेत् ॥ ९ ॥

कनिष्ठिकम् चैकवर्गैस् तेषाम् लक्षणम् उच्यते।
सौवर्णम् राजतम् ताम्रम् निर्मितम् मृण्मयम् स्मृतम् ॥ १० ॥

पालिकानन विस्तारो मन्वङ्गुलम् उदाहृतम्।
एकैकाङ्ग हीअम् स्यान् मध्यमे कन्यसे क्रमात् ॥ ११ ॥

विस्तारे सममुत्सेधह् पादतारस् तदर्धतह्।
विस्तात्रे कौशिकाम्शेन परितश् शेष उच्यते ॥ १२ ॥

विस्तारस्य त्रिभागैक वर्तितम् बिलम् उच्यते।
विस्तार युग भागैको दण्ड विस्तार इष्यते ॥ १३ ॥

घटिका कलशाकारा दण्डपादौ तु पूर्ववत्।
विद्येश्वराङ्गुलह् कुन्भविस्तारह् पञ्चवक्त्रयुक् ॥ १४ ॥

पालिकार्ध प्रमाणेन त्रिपादो वा शरावकम्।
यथासम्भव मानम्वा पालिकादि प्रकीर्तितम् ॥ १५ ॥

भिन्नम् कृष्णञ्च सुषिरम् दुर्गन्धम् च पुराणकम्।
छिन्नलिङ्गादि सम्युक्तम् वर्जयेद् अङ्कुरार्पणे ॥ १६ ॥

शरावम् ब्रह्म दैवत्यम् पालिका विष्णु देवता।
घटिकैशान सम्युक्ता तेषुतानर्चयेद् गुरुह् ॥ १७ ॥

पृथक् षोडश सम्ख्यातम् उत्तमम् परिकीर्तितम्।
मध्यमम् मनुसम्ख्यातम् दशतह् कन्यसम् भवेत् ॥ १८ ॥

उत्तमक्रमम् एवम् स्याद् अष्टषड्वेद सम्ख्यया।
मध्यमक्रमम् उद्दिष्टम् त्रिद्व्येकैह् कन्यसम् भवेत् ॥ १९ ॥

सर्वेषाम् स्थापनम् वक्ष्ये श्रूयताम् द्विजसत्तमाह्।
गोमयालेपनम् कृत्वा पिष्टचूर्णैर् विचित्रयेत् ॥ २० ॥

पञ्चगव्येन सम्प्रोक्ष्य सूत्रपातनम् अथाचरेत्।
सूत्रव्याप्तिर् दश प्राच्याम् दशोदीच्याम् तथिव च ॥ २१ ॥

नवम् मध्ये च सम्गृह्य परितस्:स्:ओडशम् त्यजेत्।
चतुर्दिक्षु च चत्वारि द्वाराणि द्विपदानि च ॥ २२ ॥

कोणे द्वादश सम्ख्यानि तेष् स्युह् पालिकादयह्।
मध्ये नवपदम् ब्रह्मम् पालिकाम् कोण्देशके ॥ २३ ॥

घटिका द्वार वामे स्युह् शरावा द्वार दक्षिणे।
एवम् द्वारेषु चान्येषु कल्पयेद् देशिकोत्तमह् ॥ २४ ॥

प्राक्सूत्रम् वसु सम्ख्यतम् उदक्सूत्रम् तथैव च।
मध्ये व्योम पदम् हित्वा परितो अष्टपदम् त्यजेत् ॥ २५ ॥

मध्यमे सोमकुम्भस्स्यात् पूर्व पङ्क्ति द्वये पुनह्।
पालिका मनु सम्ख्याता पश्चिमे घटिका मताह् ॥ २६ ॥

तदन्तराल षड्के च दक्षे दश शरावकाह्।
कुम्भ पार्श्वे दशम् प्रोक्तम् पूरस्मिन् पश्चिमे द्विजाह् ॥ २७ ॥

श्रेष्ट मध्यमम् एवम् स्याद् उत्तमाधमम् उच्यते।
प्राक्सूत्रम् मुनि सम्ख्यातम् उदह्सूत्रम् तथैव च ॥ २८ ॥

मध्ये वेद पदम् मुक्त्वा तत्र कुम्भम् निवेशयेत्।
ईशान कोणादारभ्य पालिका बाह्य पङ्क्तिके ॥ २९ ॥

राक्षस्याम्दिशि कोणान्तम् शरावाह् परिकीर्तिताह्।
अन्तर्दिशासु द्वौ द्वौ वा वायावीशे परा मताह् ॥ ३० ॥

चतुर्दिक्षु च कोणेषु स्थापयेत् पालिका बहिह्।
कुम्भ बाह्ये च घटिकाह् स्वान्तरे अष्टौ प्रकीर्तिताह् ॥ ३१ ॥

उत्कृष्ट कन्यसम् प्रोक्तम् मध्यमोत्तमम् उच्यते।
पञ्चपञ्च पदम् कृत्वा मध्यमे स्थापयेद् घटम् ॥ ३२ ॥

शरावम् स्थापयेद् बाह्ये पालिकानाम् अथान्तरे।
मध्यमे ज्येष्ठम् आख्यातम् मध्यमध्यमथोच्यते ॥ ३३ ॥

षोढा प्रागग्र सूत्राणि तथैवोत्तराणि च।
मध्ये नवपदम् कृत्वा ईशानम् नैरृतम् विना ॥ ३४ ॥

पालिकाह् पञ्च पूर्वस्थाह् पश्चिमस्थाह् शरावकाह्।
दक्षिणे त्रितये वामे घटिकाह् षड् व्यवस्थिताह् ॥ ३५ ॥

अन्तरीशान देशे तु पालिकैका व्यवस्थिता।
तथैव नरृते देशे शरावस् सुव्यवस्थितह् ॥ ३६ ॥

षोडशाम्शह् थत् कृत्वा मध्ये वेदैर् व्यवस्थिताह्।
पालिका घटिका चैव शरावश्च यथाक्रमम् ॥ ३७ ॥

ईशान कोणादारभ्य वह्न्यन्तस् समुदीरिताह्।
अनेनैव क्रमेणैव वह्न्यादिषु च विन्यसेत् ॥ ३८ ॥

कृत्वा नवपदम् मध्ये सोमकुम्भो व्यवस्थितह्।
पूर्ववत् पालिकाद्यम् तु सर्वम् आरभ्य विन्यसेत् ॥ ३९ ॥

अवशिष्टम् बहिस्सोमे कन्यशद्यम् प्रकीर्तितम्।
प्राग्वन् नवपदम् कृत्वा द्वारे पूर्वत्र पश्चिमे ॥ ४० ॥

ईशान कोणादारभ्य पालिकाद्यम् तु विन्यसेत्।
एतत् कन्यस मध्यम् स्यात् ततह् कन्यस कन्यसह् ॥ ४१ ॥

कृत्वा नवपदम् चापि त्यजेत् कोण चतुष्टयम्।
मध्ये कुम्भम् च पूर्वादि पालिकादीम्श्च विन्यसेत् ॥ ४२ ॥

एवम् न्यासक्रमम् प्रोक्तम् तत्क्रिया कथ्यते अधुना।
स्थण्डिलम् कारयेद् विद्वान् अष्टद्रोणेन शालिका ॥ ४३ ॥

तदर्धम् मध्यमम् प्रोक्तम् तदर्धम् अधमम् भवेत्।
शिवकुम्भोक्तवत् कुम्भे प्रस्थम् वा प्रति पालिका ॥ ४४ ॥

तन्मध्ये विलिखत् पद्मम् साष्टपत्रम् सकर्णिकम्।
तदर्धम् तण्डुलोपेतम् तिल लाज समन्वितम् ॥ ४५ ॥

दर्भैह् पुष्पैह् परिस्तीर्य तन्मध्ये स्थापयेद् घटम्।
द्रोणेनार्धेन वा पूर्णम् कुम्भ सम्ख्य समन्वितम् ॥ ४६ ॥

स सूत्रम् सपिधानम् च सकूर्चम् वारिसम्युतम्।
सौवर्णे चन्द्रबिम्बम् स्यात् सद्वस्त्र वदनान्वितम् ॥ ४७ ॥

तन्मध्ये विम्यसेदिन्दुम् तन्मन्त्रेण शिवद्विजाह्।
पायसम् दापयेद् विद्वान् ताम्बूलम् दापयेत् ततह् ॥ ४८ ॥

ईशानेन तु मन्त्रेण पालिकादीनि विन्यसेत्।
दर्भैह् कुशैह् पलाशैर् वा निश्छिद्रम् सुषिरम् नयेत् ॥ ४९ ॥

शुद्धदेशोत्थ मृद्भिस्तु पालिकादीनि पूरयेत्।
द्रव्याणि वापयेत् पश्चात् पयसा भावितानि वै ॥ ५० ॥

तिल सर्षप मुद्गाम्श्च माषशिम्बाढकानि च।
कुलुत्थम् सप्त बीजानि वापयेद् उत्तमस्य तु ॥ ५१ ॥

मुद्ग माषा कुलुत्थम् च तिलम् च सर्षपम् तथा।
एवम् तु मध्यमम् प्रोक्तम् कन्यसम् तिल सर्षपम् ॥ ५२ ॥

अधमम् त्वेवमाख्यातम् अथ्वान्यम् इहोच्यते।
तिल सर्षप मुद्गाम्श्च माष शिम्बु कुलुत्थकम् ॥ ५३ ॥

शालि प्रियङ्वपामार्ग यवश्यामम् इहोच्यते।
अथवान्य प्रकारेण द्रव्यलक्षणम् उच्यते ॥ ५४ ॥

तिल सर्षप मुद्गाम्श्च ततो माष कुलुत्थकम्।
निष्पावशाल्यपामार्ग शिम्बाव्रिह्याढकास् स्मृताह् ॥ ५५ ॥

श्याम गोधूम सस्येन्द्र वैण्वाह् परिकीर्तिताह्।
पयसा भावितान्यत्र निर्वपेद् हृदयेन तु ॥ ५६ ॥

अङ्कुरावर्धनीयास्स्युर् यथा शोभावहाह् द्विजाह्।
वापयेद् बीजमुख्येन प्राङ्मुखोवाप्युदङ्मुखह् ॥ ५७ ॥

तत्कुम्भस्थ जलेनैव पालिकादीनि विन्यसेत्।
कुम्भाम्भश्शोषणात् पूर्वम् गन्ध तोयेन पूरयेत् ॥ ५८ ॥

नित्यम् सम्पूज्य हविषा दापयेत् तद्दिनान्तकम्।
निदिष्ट दिवसे प्राप्ते सोमम् उद्वासयेत् सुधीह् ॥ ५९ ॥

निर्वापान्ते विधायैव स्मृत्या गुप्तम् निधापयेत्।
अङ्कुरास्तु सितश्शस्ताह् कोमला ऊर्ध्व गामिनह् ॥ ६० ॥

कृष्णम् च धूम्र वर्णम् च पिङ्गलम् श्यामलम् तथा।
तिर्यग् गतम् च कुब्जम् च वर्जयेच् छुद्ध कर्मणि ॥ ६१ ॥

शान्तिहोमम् ततह् कुर्यात् तन्निवृत्यर्थम् एव हि।
तीर्थाङ्कुरस्य कर्तव्यम् ग्रामादीनाम् प्रदक्षिणम् ॥ ६२ ॥

गृहीत मृत्समोपेतम् पालिकादि समन्वितम्।
त्रिशूलेन समोपेतम् कुन्दाल्या च समन्वितम् ॥ ६३ ॥

चण्डेश्वर समोपेतम् सर्वालङ्कार सम्युतम्।
अन्येषाम् अपि सर्वेषाम् वर्जयेद् व प्रदक्षिणम् ॥ ६४ ॥

मृत्सङ्ग्रहादौ कुर्याद् वा न कुर्याद् भ्रमण क्रियाम्।
नदीतीरे तटाके वा वने पुष्पवने अपि वा ॥ ६५ ॥

दीर्घिका सेतुबन्धादौ विधिना मृदम् आहरेत्।
प्रोक्षयेद् भूतलम् सम्यक् शिवतोयेन बुद्धिमान् ॥ ६६ ॥

आवाहयेत् ततो भूमिम् गन्धाद्यैर् अर्चयेद् हृदा।
परितो लोकपानिष्ट्वा शस्त्रमन्त्रेण पूजयेत् ॥ ६७ ॥

शस्त्रेण निखनेद् भूमिम् त्रिह् खात्वा चोत्तरामुखह्।
मृदम् सम्गृह्य वामेन पूरयेत् स्थलिकान्तरम् ॥ ६८ ॥

गन्धादिभिस् समभ्यर्च्य परिवार जनैस्तु वा।
वाहयित्वा मृदम् पश्चात् प्रासादाग्रम् प्रवेशयेत् ॥ ६९ ॥

पालिकाद्यैस् त्रिभिश्श्रेष्टम् द्वाभ्यो मध्यमम् उच्यते।
अधमम् चैकवर्गेण कर्तव्या चाङ्कुरक्रिया ॥ ७० ॥

उक्तालाभे तदासन्ने काले सद्यो अङ्कुरार्पणम्।
प्रसूनम् नालिकेरस्य दूर्वापुष्पाक्षतान्वितम् ॥ ७१ ॥

प्रक्षिपेत् पालिका मध्ये बीजमन्त्रम् अनुस्मरन्।
घटिकासु शरावेषु त्रिषु वा चाङ्कुरार्पणम् ॥ ७२ ॥

Pūrvapāda – Kapitel 64: Die Weihe des Liṅga

अथेदानीम् प्रतिष्ठाम् तु लिङ्गस्य शृणुत द्विजाह्।
पूर्वोक्त विधिना कालम् कल्पयेत् स्थापनादिके ॥ १ ॥

यमाश्लेषाग्नि शूर्पाणि श्रविष्टाम् चैव वारुणम्।
ज्येष्ठाम् च त्रिणि पूर्वाणि वर्जयेत् स्थापनादिके ॥ २ ॥

चतुर्थी चाष्टमी भूत पञ्चदश्यशुभा मता।
नेष्टौ कुज शनी ज्ञेयौ शुभयुक्तौ शुभप्रदौ ॥ ३ ॥

रासयश् चरवर्ज्यास्स्युश्शेषम् पूर्ववदीरितम्।
अङ्कुरार्पण कार्याम् तु प्रागेव विधिन चरेत् ॥ ४ ॥

हर्म्यादौ मण्टपम् कुर्याद् यागर्थम् वाग्र पार्श्वयोह्।
उत्तरे चैव हस्तादित्रयस्याष्टाङ्ग दिक्करैह् ॥ ५ ॥

यववृद्ध्यातदन्येषाम् तस्मादर्कादितोपि वा।
त्रिभगेन तथिव स्याद् उत्तरे स्नानमण्टपम् ॥ ६ ॥

वेदिकासमानम् वा स्नानयोग्यम् यथा भवेत्।
तथामेखलायुक्तम् श्वभ्रयुक् शोभितम् भवेत् ॥ ७ ॥

अष्टाङ्गुलोच्छ्रिता वेदी मध्यभागे चतुष्करा।
हस्तादिके हस्तवृद्ध्या तदन्येषाम् प्रकल्पयेत् ॥ ८ ॥

हस्तद्वय विशाला वा वेदिकाहस्त निर्मिता।
वेदिमानेन कूटम् स्यात् प्रपा वा तस्य बाह्यतह् ॥ ९ ॥

अथवा सर्वदेशे तु प्रपास्याद् अतिविस्तरा।
सर्वतो वाथ कूटम् स्यादल्पे शोभाबलम् यथा ॥ १० ॥

योग्या हस्तमिता वेदी लिङ्गे स्यात् कन्यसत्रये।
द्वादश्स्तम्भ सम्युक्ता स्याल्लिङ्गे मध्यम त्रये ॥ ११ ॥

गात्रैर् विम्शतिभिर्युक्ता वेदीस्याद् उत्तमत्रये।
तत्तद्भक्ति प्रमाणेनबाह्यपङ्क्तिह् प्रकल्पयेत् ॥ १२ ॥

एवम् पङ्क्तियुता चाद्ये ततह् कुण्डाष्टकम् भवेत्।
द्विभक्तिर् मध्यमे ज्ञेया चतुर्विम्शति कुण्डके ॥ १३ ॥

त्रिभक्ति सम्युताप्यष्ट चत्वरिम्शच्च कुण्डकम्।
ज्येष्ठलिन्गत्रयम् वा स्यात् द्वात्रिम्शत्कुण्ड्सम्युतम् ॥ १४ ॥

भ्रमन्ति बाह्यतह् कुर्याद् यथाशोभाम्श मनतह्।
प्राधानिकम् तदन्यत् स्याच्चक्रे चानन्तरे मतम् ॥ १५ ॥

सर्वत्र नवकुण्डम् वा लिङ्ग कन्यस कन्यसे।
पञ्चकुण्डम् अथैकम् वा चललिङ्गेपि कथ्यते ॥ १६ ॥

वेदिभाग शशाङ्कार्ध त्र्य्श्रवृत्तानि पञ्चसु।
षडश्राष्टाब्ज कोणानि विदिक्ष्वन्यासु निवेशयेत् ॥ १७ ॥

वृत्तम् प्रधानम् एवम् स्याच् चतुरश्रम् तु वा भवेत्।
अन्तरावरणे त्वेवम् बाह्ये तु चतुरश्रकम् ॥ १८ ॥

वृत्तम् वापि प्रकर्तव्यम् सर्वत्रैकम् अथापि वा।
प्रागुक्त विधिना सर्वम् अत्रानुक्तम् समाचरेत् ॥ १९ ॥

चतुर्द्वार सम्ऽयुक्तश् चतुस्तोरण भूषितह्।
मङ्गलाष्टक सम्युक्तो मङ्गलाङ्कुर शोभितह् ॥ २० ॥

नवध्वज समायुक्तो दर्भमालादि भूषितह्।
अयम् तु मण्टपो लिङ्गे प्रतिमायाम् विशेषतह् ॥ २१ ॥

सर्वकर्मसु शस्तम् स्याद् उत्सवादौ विशेषतह्।
अस्य प्रागुक्त देशे तु लक्षणोद्धार मण्टपम् ॥ २२ ॥

कृत्वा तत्र नयेल्लक्ष्म शुद्धदेशे अथ्वा भवेत्।
शिलावालुक तोयाद्यैर् घर्षयेल् लिङ्गपिण्डिके ॥ २३ ॥

तथा चाकार शुद्धिम् च कुर्याल् लिङ्गस्य देशिकह्।
मृद्भिह् कषाय वर्गेण गोमूत्रेणोदकैस्तथा ॥ २४ ॥

गोमयेन ततो अम्भोभिर् गन्धवद्भिस्सुपावनैह्।
प्रणवेनास्त्र मन्त्रेण हुम्फट् प्रणति योगिना ॥ २५ ॥

ततस् सामान्य मन्त्रेण पूज्येत् स्थाणुनापि व।
लिङ्गपिण्डिम् समावेष्ट्य कुशवस्त्र स्रगादिभिह् ॥ २६ ॥

मण्टपे स्थण्डिलम् कुर्याद् अष्टद्रोणेन शालिना।
तिल तण्डुल लाजैश्च दर्भैह् पुष्पैह् परिस्तरेत् ॥ २७ ॥

स्थण्डिले शाययेल् लिङ्गम् सपीठम् पूर्व मस्तकम्।
रक्तवस्त्रेण सम्छाद्य यजेद् गन्धादिभिर् हृदा ॥ २८ ॥

रुद्रभाग समायामम् चतुष्षष्ट्यम्शकम् भजेत्।
एकाम्श सूत्र विस्तारस् तथा गम्भीर इष्यते ॥ २९ ॥

तदर्धेनाधमो ज्ञेयस् तत्तारे अष्टाम्शके कृते।
नवधा सूत्रविस्तारस् सर्वलिङ्गषु कीर्तितह् ॥ ३० ॥

कुङ्कुमाक्तेन सूत्रेण नवधा च विभज्य च।
षड्भिस्तु लक्षणोद्धारस् त्वधोभागे यथा भवेत् ॥ ३१ ॥

मुखनासा ललाटानाम् भेदे ग्रीवोर्ध्वतो भवेत्।
तत्र नेष्टस्तु यस्तस्माद् अधो लक्ष्म विलक्ष्यते ॥ ३२ ॥

लिङ्गायामे दिनाम्शे तु लक्ष्मविस्तृतिरम्शतह्।
पृथ्वी निम्ना च तद्रेखा विस्तृतेर् नवाम्शतह् ॥ ३३ ॥

लक्ष्म सूत्रार्ध मानम् तु पक्षसूत्रावतारणम्।
तत्खात समवैपुल्यम् कर्तव्यम् शोभनम् यथा ॥ ३४ ॥

पक्षक्षेत्रे वसुच्छिन्ने षड्भाग परिवर्तनात्।
नवभाग मुनीनाम् हि दत्वा भगद्वयम् त्वधह् ॥ ३५ ॥

भागद्वयेन सार्धेन वह्निभक्तेर् विवर्धनम्।
विकारभक्ते अधस्ताद्वा त्यक्त्वा भागद्वयम् तथा ॥ ३६ ॥

नवभिर् भानुभिर् भक्ते पक्षे वाग्निक्रमेण वा।
अथ्वान्यल् लक्ष्म तस्याम् नवभागान् कृतम् समम् ॥ ३७ ॥

भगम् षष्टम् गुणीकृत्य भागत्यागे त्रिधा त्वयम्।
यवार्धकम् द्विभागे तु वर्तयेल् लक्ष्म शोभनम् ॥ ३८ ॥

कर्णकूटादधश्चैकाम् ब्रह्मरेखाम् नयेत्क्रमात्।
यावत्त वैष्णवो भागस् सूत्रमूले गजाक्षके ॥ ३९ ॥

अधो द्वितीय भागो वा यवार्धाकार लक्षणम्।
पक्षसूत्र विनिर्मुक्तम् उभयम् त्विह कीर्तितम् ॥ ४० ॥

रेखात्रयम् तु कर्तव्यम् सर्वासाम् अनुकूलतह्।
षोडशाम्शे चतुर्भागम् त्यक्त्वोर्ध्वे द्वादशाम्शकम् ॥ ४१ ॥

सपद्म कुड्मलम् नालम् अधोभागद्वयम् विना।
रुद्राम्शोच्चम् त्रिधाकृत्वा चोर्ध्व भागम् त्यजेत् क्रमात् ॥ ४२ ॥

पक्षाम्शम् दशधा कृत्वा व्योमाम्शम् मुकुलम् भवेत्।
विस्तारस्तत्समो ज्ञेयो नालम् तु वसु भागिकम् ॥ ४३ ॥

मुकुलात्तु समारभ्य पक्षरेखे विवर्धयेत्।
मणिरेखे तु विज्ञेये तयोह् पृष्ठे तु सम्गतिह् ॥ ४४ ॥

रुद्राम्शे रुद्रभागे तु गुण.म्शम् उपरिन्यसेत्।
एकेन मुकुली नालम् सप्ताम्शम् इति कीर्तितम् ॥ ४५ ॥

रुद्राम्शम् नवधा कृत्वा चोर्ध्वे भागद्वयम् त्यजेत्।
मुकुलम् चैक भागेन नालम् पञ्चाम्शतो भवेत् ॥ ४६ ॥

षोडशाम्शे पुनस्तस्मिन् त्यजेदूर्ध्वम् चतुष्टयम्।
मुकुलम् चैक भागेन दशाम्शम् नालम् इष्यते ॥ ४७ ॥

द्वादशाम्शे तु पूजाम्शम् त्यक्त्वोर्ध्वे अम्शद्वयम् ततह्।
एकाम्शम् मुकुलम् ज्ञेयम् वस्वम्शम् नालम् इष्यते ॥ ४८ ॥

नालायाममधस्तिर्यक् कृत्वा मुकुल मूलतह्।
पार्श्वयोरुभयोस् सूत्रम् यथा ऋजु बवेद् द्विजाह् ॥ ४९ ॥

अधश्चोर्ध्व द्वयोह् पार्श्वे चतुरश्र द्वयम् तथा।
निष्पाद्य बहिरूर्ध्वस्थम् कोणे हस्तम् विधाय च ॥ ५० ॥

पद्मकुड्मलम् आरभ्य नालान्तम् भ्रामयेद् बहिह्।
नालायामम् तु नवधा कृत्वा चैकैक वर्धनम् ॥ ५१ ॥

तस्मान्नव प्रमाणेन नवधा वर्धनम् भवेत्।
नालान्तरे अष्टध भक्ते भागार्धाद् अर्ध वर्धितम् ॥ ५२ ॥

चतुर्मानम् भ्वेल्लक्ष्म पक्षसूत्रान्तरे द्विजाह्।
पक्षसूत्रम् च कर्तव्यम् सूत्रम् मुकुल मूलतह् ॥ ५३ ॥

कुड्मलम् वा गजाक्षम् वा लिङ्गाग्रम् पद्मसन्निभम्।
कदलीमुकुलाकारम् शूलाग्राश्वत्थ पत्रकम् ॥ ५४ ॥

लोकपालायुधास्त्राग्रम् शिवास्त्राग्रम् तु वा भवेत्।
सार्वदेशिक लिङ्गस्य लक्ष्मेत्थम् कीर्तितम् द्विजाह् ॥ ५५ ॥

नैतद्रत्न मयेलिङ्गेन लोहेपि च लोहितम्।
न बाणलिन्गे लौहे वा नदीप्रस्रवणोद्भवे ॥ ५६ ॥

स्वाकारलक्ष्मातीतेषु तेजोरत्नेषु भास्वरम्।
रत्नजे लोहजे लक्ष्म विधेयम् वन् अ वा भवेत् ॥ ५७ ॥

रन्ध्रमध्ये भगाकारमूर्ध्वाग्रम् लक्ष्म पीठकम्।
एवेम् लक्ष्म लिखेद् विद्वान् गुरुर् हेम शलाकया ॥ ५८ ॥

अक्षिलोह समोपेतम् अस्त्रमन्त्रम् अनुस्मरन्।
शिल्पशास्त्रान्तराभ्याम् तु ताभ्याम् बा लक्ष्म वा लिखेत् ॥ ५९ ॥

तत्तस्मादेव शास्त्रेण सममेव विवर्तयेत्।
रेखा हीनाधिका हन्याद् यजमानम् सशिल्पिनम् ॥ ६० ॥

राजानम् राष्त्रसहितम् समम् तस्माद् विवर्तयेत्।
आचार्यो मन्त्रयोग्यस्तु स्थपतिह् कर्म कारयेत् ॥ ६१ ॥

Pūrvapāda – Kapitel 65: Die Merkmale der Bildgestalten

प्रतिमा लक्षणम् वक्ष्ये शृऊयताम् मुनिपुङ्गवाह्।
लिङ्गतारोच्चनाहैर्वा तैश्च द्वित्रिगुणैस्तु वा ॥ १ ॥

अङ्गुलैस्त्रिविधैर्वापि मानमात्र तनूद्भवैह्।
प्रासाद गर्भ द्वाराभ्याम् पादाधिष्ठान मानतह् ॥ २ ॥

यवेन हस्तमानेन प्रतिमोच्चम् विधीयते।
अङ्गुलत्रितयम् हस्तम् यवमानम् विहाय च ॥ ३ ॥

शेषमान समानम् वा षोडशाम्शे कृते अथ वा।
तन्मध्ये च विकाराम्शे त्रिभागदेक व्र्द्धितह् ॥ ४ ॥

रुद्रान्तम् वाधिकम् हीनम् पूर्वमानात् प्रकल्पयेत्।
पूजाम्शो लिङ्गशब्देन कथितो द्विजसत्तमाह् ॥ ५ ॥

अङ्गुलत्रयम् आरभ्य मात्राद्वय विवर्धनम्।
पञ्चविम्शति सम्युक्त शतमात्रान्तम् ईरितम् ॥ ६ ॥

यवसप्तकम् आरभ्य यवद्वय विवर्धनात्।
सहस्रयव पर्यन्तम् यवमानम् प्रकीर्तितम् ॥ ७ ॥

मात्राङ्गुलैर् गृहाद् वा स्युर्यवैह् क्षुद्रम् विधीयते।
अष्टषषष्ट्यर्क पङ्क्त्यूर्ध्वे वेद द्वियुग षड्विधम् ॥ ८ ॥

भागम् कृत्वैक भागेन युक्तम् जात्यङ्गकान्वितम्।
वसुभिर्गुणिते तस्मिन् सप्तविम्शतिभिर् हृते ॥ ९ ॥

ब्राह्मणादि दिनम् प्रोक्तम् तेषाम् एतच्छुभावहम्।
त्रिष्वङ्गुल प्रमाणेषु जात्यम्शकम् न रोपयेत् ॥ १० ॥

शुभमानम् न युक्तम् चेद् राज्ग्रामादि वास्तुषु।
उत्सेधम् पङ्क्ति पङ्क्त्यादि भजेत् पञ्च शडम्शकम् ॥ ११ ॥

व्योमभागस् सदायोज्यो यावानस्य शुभोदयह्।
आयाम्शश्चैव नेश्टस्स्यात् त्रिविधेष्वङ्गुलेषु च ॥ १२ ॥

यवमाने अपि जात्यम्शम् आयाम्शम् नैव रोपयेत्।
वसुभिर्गुणितेष्वर्क हृते वायम् विनिर्दिशेत् ॥ १३ ॥

अष्टपञ्च दिनम् प्रोक्तम् पञ्चविम्शतिभिर् हृते।
नवभिर्गुणिते सप्तहृते वारम् तु निर्दिशेत् ॥ १४ ॥

नन्दसम्गुणिते दिग्भिर् भाजिते व्ययम् आदिशेत्।
गुणघ्ने वसुभिन्ने तु योनिरित्यभिधीयते ॥ १५ ॥

वेदसम्गुण्ते नन्द हृते त्वम्शक इष्यते।
द्वयोर् ऋक्षफलम् प्रोक्तम् राशिरम्शश्च ऋक्षतह् ॥ १६ ॥

त्रिम्शद्भिन्ने तिथिह् प्रोक्ता योगोवारक्षयो भवेत्।
जात्यम्शम् योजिते वैभिर्युक्तम् चेत् तत्प्रगृह्यताम् ॥ १७ ॥

नो चेदायाम्श युक्ते तु सशुभम् तु समारभेत्।
गृहीत प्रतिम्प्त्तुङ्ग मानमात्रेण वा भवेत् ॥ १८ ॥

शैलम् वार्क्षम् च लोहम् च मृण्मयम् रत्नजम् भवेत्।
धातुजम् दन्तजम् बेरम् एवम् सप्तविधम् भवेत् ॥ १९ ॥

मुहूर्ते समनुप्राप्ते गृहीतायाम मानतह्।
प्रतिमाम् कारयेद् विद्वान् शिल्पिना हृदयम् जपेत् ॥ २० ॥

बिम्बम् सम्पूजयेत् पश्चाद् गन्ध पुषादिभिर् हृदा।
आचार्यम् सम्पूजयेत् पश्चाद् वस्त्र हेमाङ्गुलीयकैह् ॥ २१ ॥

तथैव पूजयेत् पश्चाच् छास्त्रज्ञम् शिल्पवित्तमम्।
सदाशिवाद्यम् बेरम् तु दशतालोत्तमेन तु ॥ २२ ॥

आदौ सदाशिवह् प्रोक्तह् नृत्तमूर्तिरतह् परम्।
उमोमास्कन्द सहितस् स्थितस्यादिन्दु शेखरह् ॥ २३ ॥

त्रिपुरघ्नह् ततह् प्रोक्तो लिङ्गोद्भूतस्त्वनन्तरम्।
ततस्स्याद् दक्षिणामूर्तिर् गेयमूर्तिरतह् परम् ॥ २४ ॥

चण्डेशाधिपतिह् पश्चात् कालकामादि नाशकह्।
सुखासनस्ततह् प्रोक्तह् ततह् कलिअणसुन्दरह् ॥ २५ ॥

उमाविष्ण्वर्ध रूपम् च ब्रह्मविष्णु समन्वितह्।
वृषारूढस् ततह् प्रोक्तह् गङ्गायुतपरस् तथा ॥ २६ ॥

ततह् कङ्कालमूर्तिस्स्याद् बलिभर्ता त्वनन्तरम्।
नन्दीश्वर प्रसादश्च ऊर्ध्वपाद समन्व्तह् ॥ २७ ॥

एवमादीनि चान्यानि प्रोक्त तालेन कारयेत्।
मनोन्मनीम् च गौरीम् च विघ्नेशस्कन्दनन्दिनह् ॥ २८ ॥

चण्डेश्वरम् तथा मध्ये दशतालेन कारयेत्।
ब्रह्माणम् च हरिम् लक्ष्मीम् मोटीम् वागीश्वरीम् अपि ॥ २९ ॥

दुर्गार्क सप्तमातश्च दशतालाधमेन तु।
ज्येष्ठा सवितृ ऋक्षेन्द्रानश्विनीम् च महीम् ऋषीन् ॥ ३० ॥

ज्येष्ठेन नवतालेन कुर्यात् क्ष्त्रेश्वरम् त्विति।
लोकपालान् वसूनष्टौ मूर्ति मध्येन कारयेत् ॥ ३१ ॥

यक्षानप्सरसो मध्याञ् छस्त्रमूर्ति मरुद्गणान्।
विद्येश्वरान् कनिष्ठेन नवतालेन कारयेत् ॥ ३२ ॥

राक्षसान् यातुधानाम्श्च गन्धर्वान् सिद्धचारणान्।
असुराम्श्च पितृम्श्चैव तथैव हि समाचरेत् ॥ ३३ ॥

अष्टतालेन मनुजान् पिशाचान् सप्ततालतह्।
कुब्जकान् रसतालेन दशतालोत्तमेन तु ॥ ३४ ॥

विग्नेशम् कारयेत् तत्र मध्यमेनाधमेन वा।
भूतान्तराणि कार्याणि चतुस्तालेन सालकान् ॥ ३५ ॥

किन्नरान् पुरुषान् अन्यान् त्रितालेन द्वितालतह्।
कबन्धकान् एकतालेन द्विभगेनैवम् आचरेत् ॥ ३६ ॥

मानहीन महाव्याधिह् अधिके शत्रुवर्धनम्।
नाहहीने विनाशस्स्याद् अधिके च क्षयाय च ॥ ३७ ॥

प्रमाणहीने दारिद्र्यम् अधिके दारनाशनम्।
लम्बमान हीने तु राजराष्ट्रस्य नाशकृत् ॥ ३८ ॥

उपमान विहीने तु शिल्पिनम् हन्ति देशिकम्।
सर्वलक्षण सम्युक्तम् एतत् सर्व प्रदायकम् ॥ ३९ ॥

Pūrvapāda – Kapitel 66: Die Einsetzung des Bildgerüstes

त्रिशूलस्थापनं वक्ष्ये तल्लक्ष्मस्यादनेकधा। चन्दनश्च मधूकश्च खदिरस्सरलस्तथा ॥ १ ॥

शमीतिनिशतापिञ्चस्तलको देवदारुकः। क्रमुकस्सप्तपर्णश्च वकुलः कुन्दचन्दनौ ॥ २ ॥

पिण्डिकस्तिमिशो रक्तचन्दनः पनसस्तथा। श्रीपर्णी खदिरस्सार तिन्तृणी सालबिल्वकौ ॥ ३ ॥

कदम्बश्शिम्शुपाह्वश्च धन्विनश्शूलिनः कुजाः। पनसो देवदारुश्च पद्मतिन्दुक संज्ञकौ ॥ ४ ॥

तिलकस्सप्तपर्णश्च विष्णोश्शूलार्थ ईरिताः। वकुलः कुटजाह्वश्च पिण्डितस्तिनिशः पुनः ॥ ५ ॥

धन्विनश्चार्जुनाश्वत्थौ ब्रह्मणः पादपा मताः। यस्य देवस्य या देवी तस्यास्तद्वृक्ष एव हि ॥ ६ ॥

वैकङ्कतश्चखादिर्यश्शमी दुर्गाकुजा मताः। ज्येष्ठायाः पाटली प्रोक्ता शिवाख्यस्सप्त मातृषु ॥ ७ ॥

वकुलश्चण्ड वृक्षस्स्याद्दिक्पाले राजवृक्षकः। खादिरस्सर्व देवानां क्षीरिणी खादिरस्तथा ॥ ८ ॥

सर्वासां देवतानां च श्रीवृक्षस्संप्रकीर्तिताः। गणपस्कन्द शास्तॄणां मातॄणां शिवपादपाः ॥ ९ ॥

सर्वे सर्वत्र वा कर्त्रा कृत्यनाहानुसारिणः। ताम्रारकूट रौप्यैर् वा शातकुंभेन वा मताः ॥ १० ॥

एकस्य चैकवृक्क्षस्स्याद् बहुवृक्षस्तु नेष्यते। द्रव्यसंग्रहणं कुर्यात् तद्विधान प्रकारतः ॥ ११ ॥

केशाङ्गुल्यादि मानार्थं मानार्धं दारुवन्नयेत्। ब्रह्मदण्डस्य विस्तारः पञ्चाङ्गुलमिति स्मृतम् ॥ १२ ॥

मेढ्रादि नाभिपर्यन्तं चतुरश्राकृतिर्भवेत्। नाभेर्हिक्कान्तकं चैव वस्वश्रः परिभाषितः ॥ १३ ॥

तस्योर्ध्वे वर्तुलं कुर्यात् पक्षदण्डस्य विस्तरः। सप्ताङ्गुल इति ज्ञेया तद्घने तु कला भवेत् ॥ १४ ॥

उभयोरग्रयोस्तस्य द्विमात्रे च शिखायतिः। व्योममात्र प्रमाणेन शिखा विस्तार इष्यते ॥ १५ ॥

एकद्वित्रिचतुश्शङ्ख्याश्शिकान्ताश्च प्रकीर्तिताः। रन्ध्रं विष्ण्वंश तारेण वक्षोदण्डस्य मध्यमे ॥ १६ ॥

हिक्कासूत्राद्धस्तात्तु वक्षोदण्डस्य संस्थितिः। कटिदण्डस्य विस्तारस्सप्ताङ्गुलं उदाहृतः ॥ १७ ॥

कला ज्ञेया घने तस्य पार्श्वयोरुभयोरपि। अग्न्यङ्गुल प्रमाणेन शिखा तिर्यङ्मुखा भवेत् ॥ १८ ॥

ब्रह्मभागस्य तारेण तन्मध्ये सुषिरं नयेत्। चतुरश्रस्य तारेण मानार्धं द्व्यङ्गुलं न्यसेत् ॥ १९ ॥

द्विमात्रं नाभ्यधस्तात्तु हित्वात्र कटिदण्डकम्। योजयेद्ब्रह्मदण्डे तु सुस्निग्धं सुदृडं नयेत् ॥ २० ॥

ऊरुदण्डाग्र विस्तारः कोरकेति च संमतम्। तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ २१ ॥

तस्याग्रे तु शिखां कुर्यात् पक्षमात्रप्रमाणतः। कटिदण्डे शिखायां च ऊरुदण्डं च योजयेत् ॥ २२ ॥

जङ्घायामेन संग्राह्यं चतुर्मात्र समन्वितम्। जङ्घमूलस्य विस्तारस्त्र्यङ्गुलस्समुदाहृतः ॥ २३ ॥

तस्य चाग्रे तु विस्तारस्सार्ध मात्र इतिस्मृतः। तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ २४ ॥

वक्षोदण्डशिखायां तु बाहुदण्डं तु योजयेत्। योजयेत् ऊरुदण्डं तु जानुमण्डलकं बुधः ॥ २५ ॥

जानुमण्डल विस्तारो युगाङ्गुलमुदाहृतः। आयामस्तत्समो ज्ञेयो जङ्घातत्र तदर्धतः ॥ २६ ॥

तलदण्डस्य विस्तारश्चतुर्मात्रमुदाहृतः। बाहुमूलस्य विस्तारो गुणाङ्गुअलमुदाहृतम् ॥ २७ ॥

तस्याग्रस्य च विस्तारस्सार्धपक्षाङ्गुलो मतः। सप्तमात्र प्रमाणेन तन्मूले सुषिरं नयेत् ॥ २८ ॥

वक्षोदण्डशिखायां तु बाहुमूलं तु योजयेत्। प्रकोष्ठ मूलविस्तारस्त्रिमात्रस्समुदाहृतः ॥ २९ ॥

तस्याग्रस्य च विस्तारस्सार्धाङ्गुलं उदाहृतः। तन्मूलेन द्विमात्रेण सुषिरं कारयेत्ततः ॥ ३० ॥

बाहुग्रस्तशिखाश्चैव प्रकोष्ठेनैव योजयेत्। वक्षोदण्डात्समारभ्य कटिदण्डान्तरक्रमात् ॥ ३१ ॥

पार्श्व दण्डायतम् ज्ञेयं तत्तारं कोलकं भवेत्। तत्घनं तत्समं ज्ञेयं पार्श्वदण्डस्य चोपरि ॥ ३२ ॥

अधश्च सुषिरं कार्यं एकाङ्गुलप्रमाणतः। वक्षोदण्ड कटीदण्डे योजयेत् पार्श्वदण्डकं ॥ ३३ ॥

पार्श्वजं दण्डयोर्मध्ये अग्रे च ऋषिमातकं। स्त्रीणां चैव विशेषेण वर्जयेत्पार्श्वदण्डके ॥ ३४ ॥

एतेषां दण्डमाने तु मांसमानं त्यजेद् बुधः। पादाङ्गुलं समारभ्य पादाङ्गुल विवर्धनात् ॥ ३५ ॥

द्विमात्रान्ते विधेयस्याद्धानिर्वृत्त्श्च युक्तितः। ब्रह्मदण्डेऽन्त्यदण्डेषु द्वात्रिंशद् गृह्यतां द्विजाः ॥ ३६ ॥

शिरः करतलं कर्णमम्बरं चरणादिकम्। स्वमानादर्धमात्रं तु हीनं युक्त्यैव कारयेत् ॥ ३७ ॥

स्थानकस्यैवमाख्यातं विशेषः कश्चिदासने। ब्रह्मदण्डस्य मूले तु योजयेएत्तु युगाङ्गुलम् ॥ ३८ ॥

जङ्घामूल प्रदेशस्तु अध्यर्धाङ्गुल हीनयुक्। शूललक्षणमाख्यातं तत्स्थापनं इहोच्यते ॥ ३९ ॥

कालोऽपि पूर्ववन्नेयस्त्वङ्कुरार्पणमेव च। मण्डपः कुण्डकॢप्तिस्तु नवपञ्चैक संख्यया ॥ ४० ॥

चतुरश्राणि कुण्डानि तद्दिक्कुण्डानि वा तथा। शिल्पिनं च विसृज्याथ पुण्याहं वाचयेततः ॥ ४१ ॥

वास्तुहोमं च कृत्वान्ते स्थण्डिलं कारयेद्द्विजाः। सङ्कल्प्य शयनं तत्र ज्ञात्वा ब्रह्मादि दण्डकान् ॥ ४२ ॥

पञ्चगव्येन संप्रोक्ष्य ततः पञ्चामृतादिभिः। संस्नाप्य शुद्धतोयेन वस्त्रेणाच्छाद्य पूजयेत् ॥ ४३ ॥

आसनं कल्पयित्वा तु शय्यायां आसनाणुभिः। मूर्तिभूतं तु तच्छूलं हृदयेन निवेशयेत् ॥ ४४ ॥

कौतुकं बन्धयित्वा तु तत्समन्ताद् घटान् न्यसेत्। सकूर्चान् हेमसंयुक्तान् सवस्त्रानुदपूरितान् ॥ ४५ ॥

तत्तन्मूर्ति मनुं मध्ये लोकेशान् परितो यजेत्। तत्त्व तत्त्वश्वरोपेतान् मूर्ति मूर्तीश्वरान् न्यसेत् ॥ ४६ ॥

ब्रह्मभिस्सकलीकृत्य मूर्तिं तत्र निवशयेत्। गन्धपुष्पादिनाभ्यर्च्य मूर्तिमन्त्र मनुस्स्मरन् ॥ ४७ ॥

पायसं सन्निवेद्याथ होमकर्म समाचरेत्। कृत्वा कुण्डादि संस्कारं मूर्तिमावाह्य तर्पयेत् ॥ ४८ ॥

समिदन्नाज्य लाजैश्च तिलसर्षप संयुतम्। पालाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च ॥ ४९ ॥

शम्यपामार्ग माधूक श्रीवृक्षास्त्वग्नि कोणतः। प्रधानस्य पलाशस्स्याच्छतसंख्या प्रधानके ॥ ५० ॥

दशंशो ब्रह्मभिर्होमस्तथा नेत्रेण संमतः। तत्त्वतत्त्वेश्वराद्यैश्च प्रत्येकं त्रितयं क्रमात् ॥ ५१ ॥

ततः पूर्णाहुतिं कृत्वा प्रभाते मूर्तिपैर्गुरुः। स्नात्वा देवं घटं मन्त्री संपूज्याग्निं समीपतः ॥ ५२ ॥

स्थित्वा छिद्रं निरस्याथ पूर्णां मूर्त्या प्रदापयेत्। सुमुहूर्ते सुलग्ने तु प्राप्तपूजो गुरूत्तमः ॥ ५३ ॥

संगृह्य मूलधाम्नस्तु प्रदक्षिणमनुव्रजन्। प्रविश्य गर्भगेहं तु ज्ञात्वा ब्रह्मादि भागकान् ॥ ५४ ॥

स्थानकादि विभागेन कृवा स्नानं घटीकृतम्। इष्टकांशादिकास्तत्र न्यसेदाधार संज्ञकम् ॥ ५५ ॥

स्थानकासन सुप्ताश्च यानगा गमनोन्मुखा। नाट्योत्सुकाश्च षोढा स्यात् स्थानकाधार संज्ञतः ॥ ५६ ॥

तथैव नृत्तसक्ता च गमनाभिरता हि च। यानगोच्चादि संस्था स्यादासनस्थास्तु पीठगाः ॥ ५७ ॥

शय्यासत्ता तु सुप्ता स्यात् सा च प्रायोऽस्य नेष्यते। विष्ण्वादि प्रतिमा सा स्यादाधारं त्वधुनोच्यते ॥ ५८ ॥

शूलमूल विशालेनाध्यर्धमाधार मानकम्। तद्बेराङ्गुल मानेन एकाङ्गुल विवर्धनात् ॥ ५९ ॥

चतुरङ्गुल मानं स्यात्समं स्याच्छतुरश्रकम्। तद्घनं त्रिविधं प्रोक्तं तस्मादेकैक वर्धनात् ॥ ६० ॥

चतुर्मात्रान्तमानं स्यात् क्रियामानानुसारतः। सुवर्णतार ताम्राद्यैः पादपाद्यैस्तु वा भवेत् ॥ ६१ ॥

पादानि नव तन्मध्ये कृत्वा कूटयुतानि वा। रत्नाद्यं विन्यसेत्तत्र प्रागुक्त विधिना गुरुः ॥ ६२ ॥

तत्र संस्तापयेद्वाग्मी तत्र मूर्ति मनुस्मरन्। ब्रह्मदण्डेऽन्यदण्डाम्श्च योजयेदुक्तवर्त्मना ॥ ६३ ॥

अथवा पीठकोत्सेधं ब्रह्मदण्डस्य मूलतः। शूलदैघ्यान्वितम् कृत्वा इष्टमानान्वितं तु वा ॥ ६४ ॥

कृत्वा तदवधिस्थाने स्थाप्यं वाधार संज्ञकम्। स्थिराद्यं पीठबन्धाद्यैर्बन्धयेत् सुषिरं यथा ॥ ६५ ॥

मूर्तिनिर्गत शूलैश्च सुस्थिरैस्सारदारुजैः। इष्टनाहा समायुक्तैः इष्टसंख्या समन्वितैः ॥ ६६ ॥

ब्रह्मदण्डादि दण्डे तु योजयित्वा गुरूत्तमः। स्थैर्यं संपादयेदत्र क्रियामाणानुसारतः ॥ ६७ ॥

ऋजुभिर्लोहपट्टैश्च लोहकीलैरनेकधा। बन्धयित्वा यथा कर्म आर्द्रं वा वस्त्रवेष्टनम् ॥ ६८ ॥

कल्कचिक्कणकाद्यैस्तु संपूर्णाङ्गं यथा नयेत्। वर्णैर्नानाविधैश्चित्रं कारयेत् प्रतिमोक्तवत् ॥ ६९ ॥

चतुर्वर्णानुलोमाद्यैश्शिल्पिभिश्चित्रवित्तमैः। नयनोन्मीलनं कुर्याच्चित्रकर्मावसानके ॥ ७० ॥

नयनोन्मीलनात्पूर्वं द्रव्यमात्रं तु तद्भवेत्। तत्र छेदादिकं चेष्टं तदूर्ध्वं नेष्यते द्विजाः ॥ ७१ ॥

तत्र प्रतिष्ठा कर्तव्या स्थापनोक्त विधानतः। स्थानायैव तलव्यास मानेनाधार संज्ञिकम् ॥ ७२ ॥

जङ्घोरू प्रतिमा दण्डात् स्थापयित्वा तदूर्ध्वतः। कटिदण्डं च संयोज्य ब्र्हमदण्डे नियोजयेत् ॥ ७३ ॥

सर्वदण्डादि संयुक्तं कृत्वा च प्रतिमादिकम्। पट्टाद्यैर्बन्धयित्वा तु तां शय्यायां निधाय च ॥ ७४ ॥

तत्त्वमूर्त्यादि विन्यासं कृत्वा तां स्थापयेत्तु वा। शैली चेत्प्रतिमा शैलं कुर्यादाधार संज्ञकम् ॥ ७५ ॥

अन्यत्सर्वं समानं स्यात् किन्तु पादशिलादयः। कृत्वा कूर्चं क्रमात् क्षीणं बलानुगत मानकम् ॥ ७६ ॥

सुषिरे पीठ मध्ये तु यथास्निग्धं नियोजयेत्। कृत्वासनं तु तन्मन्त्रैर्बाहुभिस्सकलीकृतः ॥ ७७ ॥

मूर्तिमन्त्रान्न्न्यसेत्कुम्भं तोयगं प्रतिमाहृदि। तदम्बसा तु संस्नाप्य लोकपान् परितो न्यसेत् ॥ ७८ ॥

तच्छैलं सुधालेप्य वस्त्रेणावेष्ट्य चित्रयेत्। शूलस्थापन काले तु मूर्तिमन्त्र मनुन्यसेत् ॥ ७९ ॥

Pūrvapāda – Kapitel 67: Die Aufstellung der Gottheiten

देवतास्थापनं स्थानं वक्ष्येऽथ मुनिपुङ्गवाः।
ग्रामे वा नगरे वापि पत्तने राजधानिके ॥ १ ॥

आदौ नद्यास्तटे पुण्ये देवतायतनेषु च।
समुद्रतीरे सेतौ च पुष्करिण्यास्तटेषु च ॥ २ ॥

महाजल समीपे वा महाजन समीपगमे।
उद्याने पुण्यदेशे वा निष्कलं सकलं तु वा ॥ ३ ॥

शैलं वा लोहजं वार्क्षं रत्नजं मृण्मयं तु वा।
सौधजं वार्धचित्रं वा आभासं वाथ पीठकम् ॥ ४ ॥

स्थापयेद्देशिको धीमान् ब्रह्मदेवादि भागवत्।
आरभ्य पञ्चपञ्चाम्शमेकैक पदवर्धनात् ॥ ५ ॥

द्वात्रिम्शत्पदपर्यन्तं कृत्वा गर्भगृहं ततः।
एकं वापि द्वयं वापि त्रयं वा ब्रह्ममन्दिरे ॥ ६ ॥

तदन्तरं तथा कृत्वा दैविकं वार्षकं तथा।
पदं पैशाचिकं प्रोक्तं ब्रह्मभागे प्रकल्पयेत् ॥ ७ ॥

इदं ब्रह्मादिकद्यं तु ग्रामादौ वा वियोजयेत्।
निष्कलं ब्रह्मभागे तु सकलं दैविकांशके ॥ ८ ॥

ग्रामादीनां निवेशे तु ब्रह्मांशे दैर्घिकांशके।
स्थापयेन्मानुषं वापि मातुः केचिदिदं भवेत् ॥ ९ ॥

चित्रयुक्तं तु तद्बेरं बाह्ये पैशाचिके अपि।
रक्षोगन्धर्व यक्षाद्याः पिशाचाद्याश्च मूर्तिपैः ॥ १० ॥

मानुषे वाथ पैशाचे द्विजानां वास इष्यते।
ईशानादि चतुष्कोणे सभाद्यं तत्र कल्पयेत् ॥ ११ ॥

ब्रहम्भागं चतुर्भागं कृत्वैशाने सभां नयेत्।
वापीं चाग्नेयदेशे तु गोवासं कूपसंयुतम् ॥ १२ ॥

नैरृते वापणस्थानं देवालययुतं तु वा।
वायौ देवालयं कुर्याद्व्यत्यासे व्यसनं भवेत् ॥ १३ ॥

क्षुद्रवास्तौ तु तत्सर्वं नेष्यते ब्रह्मभागिके।
द्विजावासस्तु तत्सर्वं शर्वे वाथ विधीयते ॥ १४ ॥

वरुणे विष्णुवासस्स्यात् केशवं शर्व एव वा।
पञ्चपञ्चांशतो न्यूनात् तदूर्ध्वं दिजसत्तमाः ॥ १५ ॥

चतुर्विंशत्सहस्रान्त पदं पैशाचिकं क्रमात्।
सूर्यस्कन्द गणेशानां दुर्गाद्या वास्तुदेवताः ॥ १६ ॥

वास्तुपैशाचिके मोटी मदनस्सप्तमातरः।
मोटी शास्तृ विहीना वा सप्तदेवास्तथा मताः ॥ १७ ॥

सहस्रविप्रादूर्ध्वं तु सभाद्यम् ब्राह्मणादिकं।
कल्पना न्यूनविप्रे तु त्यजेत्कोष्ठमथाङ्गणम् ॥ १८ ॥

तदूर्ध्वं तु सहस्रान्ते गौरीव कमलालया।
ब्रह्मा वैश्रवणस्सौम्यः कन्दर्पोऽन्तर्व्यवस्थिताः ॥ १९ ॥

बाह्ये क्षेत्राधिपज्येष्ठाः पूर्वोक्तं स्मृतदेवताः।
तदूर्ध्वं सर्वदेवाश्च शंसिताः फलदायकाः ॥ २० ॥

एतेष्वन्यतमार्थं तु शिवो गौरी विनायकः।
स्कन्दस्तत्र विधेयो वा ब्रह्मभागादि भागके ॥ २१ ॥

शास्ता वान्तर्बहिस्थाप्यो बाह्ये रौद्राः प्रकीर्तिताः।
वास्तुविन्यास तुष्टास्तु प्रागत्र स्थापिताः सुराः ॥ २२ ॥

उक्तदेशेऽन्यदेशे वा न ते वास्त्वङ्गभाजिनः।
विना प्रतिष्ठां देवानां वास्तुन्यासं पृथग्भवेत् ॥ २३ ॥

तस्मात्सर्वप्रयत्नेन देवानां च प्रकल्पयेत्।
विन्यसेद्रुद्रदेवांश्च शैवं सम्पादयेद्गुरुः ॥ २४ ॥

सन्त्यक्तमार्षस्थानाद्यथा देवालयास्त्विह।
पुरातनात्वथालोच्य वास्तुन्यासं समाचरेत् ॥ २५ ॥

वास्तुन्यासिदिकं सर्वं प्रागेव प्रतिपादितम्।
तथापि पुनरद्यापि विशेषस्तत्र कथ्यते ॥ २६ ॥

पदं पैशाचिकान्तं तु ग्रामानां विधीयते।
गृहश्रेणिषु वृद्धिर्वा हानिर्बाह्यान्तरेऽपि वा ॥ २७ ॥

आयामे विस्तरे वापि वैषम्यं तेषु मानतः।
इष्यते क्षुद्रमार्गो वा क्षुद्रे महति वास्तुनि ॥ २८ ॥

बाह्यन्तरविधौ चैव वैषम्यं वा परस्परम्।
वास्तुपैशाच वैषम्यं इष्यते वास्तुनिर्मितौ ॥ २९ ॥

तथैव मार्गो मानेषु यथा देवालयेषु च।
स्थानादीनां यथा षोडा न स्यात्सर्वं तथा नयेत् ॥ ३० ॥

ब्रह्मदैविकभागादिस्थिता षोडा न दोषदा।
तस्मादुक्तेषु देशेषु मर्माद्यं परिगृह्य च ॥ ३१ ॥

नागरादि प्रभेदेन दिग्भेदेन विशेषतः।
प्रतिपादित हर्म्येषु शिवाद्यान् स्थापयेत्ततः ॥ ३२ ॥

Pūrvapāda – Kapitel 68: Die Weihe des Götterbildes

प्रतिमानां प्रतिष्ठां तु प्रवक्ष्यामि समासतः।
द्रव्यसंग्रहणं पूर्वं बिम्बनिर्माणं एव च ॥ १ ॥

पश्चान्मण्डप निर्माणं रत्नन्यासं अतः परम्।
नयनोन्मीलनं पश्चाद्बेरशुद्धिरनन्तरम् ॥ २ ॥

ग्राम प्रदक्षिणं पश्चाज्जलवेशोऽष्टमं भवेत्।
मण्डपालङ्कृतिः पश्चाद्वास्तुहोमं अतः परम् ॥ ३ ॥

शय्याकॢप्तिस्ततः प्रोक्ता प्रतिमास्थापनं ततः।
ततः कौतुकबन्धस्स्याच्छयनारोहणं पुनः ॥ ४ ॥

कुम्भसंस्थापनं पश्चादर्पणं तदनन्तरम्।
ततो मूर्त्यादि विन्यासो होमकार्यमनन्तरम् ॥ ५ ॥

दक्षिणादानमन्ते स्यान्मन्त्रन्यासं अतः परम्।
अतः परं च स्नपनं अर्चनं स्यादतः परम् ॥ ६ ॥

द्वाविंशतिः क्रिया प्रोक्तास्तासां लक्षणं उच्यते।
शिलामृल्लोहसद्वृक्ष रत्नधातु सुधा पटाः ॥ ७ ॥

दन्तबेरकनिर्माणे तस्य संग्रहमुच्यते।
सुमुहूर्ते सुलग्ने तु नक्षत्र करणान्विते ॥ ८ ॥

शिलादिस्थानमासाद्य स्थण्डिले पूजितेश्वरः।
हुताग्नि पूजिताश्चाथ दत्तभूतबलिश्शुचिः ॥ ९ ॥

शिलाद्यं प्रोक्ष्य वस्त्रेण वर्मणावेष्ट्य पूजयेत्।
हृदि वस्त्रेण संवेष्ट्य टङ्काद्यं मधुसर्पिषा ॥ १० ॥

आप्लाव्य त्रिः प्रहारेण स्फोटयेदस्त्रमन्त्रतः।
गुरोरनुज्ञया शिल्पी तथैवास्फोटयेत्पुनः ॥ ११ ॥

संपूज्य वस्त्रहेमाद्यैराचार्यं स्थपतिं तथा।
तस्मात्संगृह्य तद्द्रव्यं नयेत्कर्मकुटीं पुनः ॥ १२ ॥

आदौ सिक्तं द्रवीभूतं अस्त्रेणास्राव्य वारिणा।
मण्डपे स्थण्डिलं कृत्वा सिक्तं तत्रैव निक्षिपेत् ॥ १३ ॥

संपूज्य गन्धपुष्पाद्यैर्हृदा वस्त्रेण वेष्टयेत्।
तद्द्रव्यं शिल्पिने दत्वा कारयेल्लक्षणान्वितम् ॥ १४ ॥

तस्य निर्माण काले तु उत्तराभिमुखो गुरुः।
प्रतिमा मूलमन्त्रं तु जपेदष्टोत्तरं शतम् ॥ १५ ॥

तस्याश्चोत्तर दिग्भागे शान्तिहोमं तु कारयेत्।
देशिकं शिल्पिनं चैव पूजयेत्काञ्चनादिभिः ॥ १६ ॥

वृक्ष संग्रहणे वृक्षं संपूज्यैवं वदेद्गुरुः।
श्रीनिकेत नमस्तुभ्यं देवजुष्ट वनस्पते ॥ १७ ॥

सङ्क्रामस्स्यादितिस्थानं गुणवद्यन्मनोरमम्।
विसृज्यानेन मन्त्रेण छदात्मानं निरुच्यते ॥ १८ ॥

घृताक्तेन कुठारेण छिन्द्यान्मृत्युञ्जयं स्मरन्।
यक्षेन्द्रशिवकाष्ठासु पतितं सर्वकामदम् ॥ १९ ॥

तापमृत्युमहारोग गुल्मोच्चाटनमग्नितः।
द्रव्यसंग्रहणं चैवं निर्माणं पूर्वमेव तु ॥ २० ॥

प्रतिमालक्षणं प्रोक्तं मण्डपं त्वधुनोच्यते।
प्रासादस्य चतुर्दिक्षु मण्डपं चाग्रपार्श्वयोह् ॥ २१ ॥

त्रिहस्तं तु समारभ्य चैकैक करवृद्धितः।
पञ्चादशकरान्तं तु कुर्याल्लक्षण संयुतम् ॥ २२ ॥

अत्रानुक्तं तु यत्किञ्चित्तत्सर्वं पूर्ववन्नयेत्।
नवपञ्चैक कुण्डानि पूर्ववत् परिकल्पयेत् ॥ २३ ॥

चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत्।
शक्तीनां च सर्वासां योन्याकाराणि कल्पयेत् ॥ २४ ॥

मण्डपं समलङ्कृत्वा पीठं तत्र विनिक्षिपेत्।
नवपट्ट समायुक्तं पञ्चपट्टयुतं तु वा ॥ २५ ॥

एकपट्टयुतं वापि पूजयेच्चन्दनादिभिः।
आधाराख्यं अनन्तं च मध्यमे विन्यसेद्गुरुः ॥ २६ ॥

लोकपालांश्च चतुरः रत्नानि विविधानि च।
माणिक्यमिन्द्रनीलं च वैडूर्यं च प्रवालकम् ॥ २७ ॥

मुक्ता वज्रं तथा पुष्यरागं गोमेदकं तथा।
मरकतं चैव रत्नानि नवरत्नादि पञ्चकम् ॥ २८ ॥

पञ्चरत्नमिति प्रोक्तं माणिक्कं चैकमेव वा।
वज्रं वा मध्यमे प्रोक्तं महावेशमिति स्मृतम् ॥ २९ ॥

स्वस्वलोकप मन्त्रैश्च मध्यादि क्रमतो न्यसेत्।
देवं रत्नोपरि न्यस्त्वा सुस्निग्धं कारयेद्दृढम् ॥ ३० ॥

शैलं चेत्स्थापने काले रत्नाद्यं विधिवन्न्यसेत्।
शूलस्थापने काले तु न्यसेद्रत्नानि मृण्मये ॥ ३१ ॥

अन्येषां रत्नविन्यासं वर्जयेत्तु विशेषतः।
नेत्रद्वययुतर्क्षे तु कारयेन्नेत्र मोक्षणम् ॥ ३२ ॥

सुगुप्ते मण्डपे रम्ये गोमयेनानुलेपिते।
प्रच्छन्नपट संयुक्ते सर्वालङ्कार संयुते ॥ ३३ ॥

स्थण्डिलं तत्र कर्तव्यं अष्टद्रोणादि व्रीहिभिः।
तिलतण्डुल संयुक्तम् लाजपुष्प समन्वितम् ॥ ३४ ॥

तस्य मध्ये न्यसेद्बिम्बं प्राङ्मुखं देशिकोत्तमः।
हेमसूचिप्रहाराभ्यां नेत्रमन्त्रमनुस्मरन् ॥ ३५ ॥

प्रथमं दक्षिणं नेत्रं द्वितीयं वाम नेत्रकम्।
ललाटस्थं तृतीयं तु लेखयेत्पूजयेद्गुरुः ॥ ३६ ॥

पक्ष्मरेखां पुराकृत्वा ततो वै दृष्टिमण्डलम्।
ज्योतिर्मण्डलमालिख्य नेत्रमोचनमाचरेत् ॥ ३७ ॥

तथैवोन्मीलनं शिल्पी वज्रकाञ्चनसूचितः।
पुष्पायोनिर्मितेनैव टङ्केनैव त्रिलोचने ॥ ३८ ॥

नासिका कर्णवक्त्राणि लिङ्गं पायुं च मोचयेत्।
तत्तद्देवाङ्ग भूतानां नयनोन्मीलनं नयेत् ॥ ३९ ॥

चित्राभासादि देवानां तत्तद्वर्णैस्समाचरेत्।
तदाक्षिमोचनं कुर्याद्धेमतूलिकया गुरुः ॥ ४० ॥

उद्वास्य शिल्पिनं पश्चात् तस्याग्रे स्थण्डिलं नयेत्।
बिम्बं तस्योपरि न्यस्त्वा हृदयेन तु मन्त्रतः ॥ ४१ ॥

ससूत्रान् सपिधानांश्च कलशानष्ट दिक्षु च।
सवस्त्रान् वारिसंयुक्तान् सकूर्चान् पल्लवैर्युतान् ॥ ४२ ॥

स्वमन्त्रैरभितो न्यस्त्वा लोकेशांस्तत्र पूजयेत्।
क्षुद्रेऽष्टकलशान् हित्वा चान्यत्सर्वं समाचरेत् ॥ ४३ ॥

स्वर्णया दूर्वया नेत्रं मध्वाज्याभ्यां तु तर्पयेत्।
हृदा वा नेत्रमन्त्रेण मन्त्रिताभ्यां गुरूत्तमः ॥ ४४ ॥

लोहजे शैलजे वार्क्षे रत्नजेप्येवमाचरेत्।
अन्येषामपि सर्वेषां भावयेत् तर्पणक्रियाम् ॥ ४५ ॥

तर्जन्यनामिका मध्ये सूर्यसोमाग्निलोचने।
हिरण्यनखसंप्रोतैर्न्यसेत्तद्बीज संयुतम् ॥ ४६ ॥

सौवर्णे राजते ताम्रे कांस्ये वाथ शरावके।
घृतेन मधुना चैव प्रत्येकं प्रस्थपूरितम् ॥ ४७ ॥

तदर्धेनार्धपादेन पूरितं वा पृतक् पृतक्।
घृतं प्रदर्शयेन्मन्त्री नेत्रमन्त्रमनुस्मरन् ॥ ४८ ॥

दर्शयेन् मधुपात्रं तु मृत्युजिन्मन्त्रमुच्चरन्।
हृदयेन तु मन्त्रज्ञः तद्वत्साङ्गं प्रदर्शयेत् ॥ ४९ ॥

बीजमुख्येन मन्त्रेण धान्यराशिं प्रदर्शयेत्।
शिवादिदशभागान्तं तेषां मानं प्रकीर्तितम् ॥ ५० ॥

ब्राह्मणान् दर्शयेत्पश्चात् पवमानमनुस्मरन्।
तेनैव दर्शयेत्कन्यां भूषितां सर्वभूषणैः ॥ ५१ ॥

प्रच्छन्नपटमावर्ज्य जनसंघान् प्रदर्शयेत्।
मृद्भस्मकुशागोमूत्र गोमयैः पञ्चगव्यकैः ॥ ५२ ॥

त्वक्सारैः प्रतिमाशुद्धिं चित्रादौ दर्पणे नयेत्।
रजन्यामल पिष्टाद्यैश्शुद्धियुक्तं प्रकल्पयेत् ॥ ५३ ॥

वस्त्रैर्गन्धैश्च मालाभिर्भूषयेद् भूषणार्हकैः।
ग्राम प्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ५४ ॥

ग्रामप्रदक्षिणं वापि चित्रादौ परिवर्जयेत्।
महत्तरे वा तत्त्याज्यं प्रापयेत्तु जलं ततः ॥ ५५ ॥

जलमध्ये प्रपां कृत्वा चतुर्गात्र समन्वितम्।
मण्डितान् दर्भमालाद्यैस्तीरे समतले पुनः ॥ ५६ ॥

स्थण्डिलं स्थापयित्वा तु गन्धाद्यैरर्चयेद्गुरुः।
तस्याग्रे स्थण्डिलं कृत्वा कलशानष्ट विन्यसेत् ॥ ५७ ॥

लोकपालाधिपांस्तत्र हेमाढ्यान् पूजयेद्गुरुः।
व्यपोह्य भूषणार्हं तु वस्त्रेणाच्छद्य वर्मणा ॥ ५८ ॥

लम्बकूर्चेन संयुक्तं द्वात्रिंशत्सम्मितेन तु।
पीठे वा फलकादौ वा शाययेज्जलमध्यमे ॥ ५९ ॥

गङ्गातीर्थमावाह्य परितः कलशान् न्यसेत्।
एकादि नवरात्रान्तं वेदत्रिद्व्येकयामकम् ॥ ६० ॥

जलादिवासनं कुर्याच्चित्रादौ दर्पणे न वा।
मण्दपं भूषयेत्पश्चात् पटेन महतावृतम् ॥ ६१ ॥

ब्राह्मणान् भोजयेत्तत्र सहस्रान्तान् दशादिकान्।
पुण्याहं वाचयित्वा तु वास्तुहोमं तु कारयेत् ॥ ६२ ॥

पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु शिवाम्बसा।
पुण्याहं वाचयेत्पश्चात् स्थण्डिले वेदिकोपरि ॥ ६३ ॥

अष्टद्रोणैर्तदर्धैर्वा तदर्धैश्शालिभिर्मतम्।
तिलैर्लाजैश्च दर्भैश्च पुष्पैस्सम्यक् प्रकल्पयेत् ॥ ६४ ॥

शयनं कल्पयेदूर्ध्वे चर्मजाद्यैरनुक्रमात्।
चित्रादौ कल्पयेच्छय्यां तत्तत्पादप्रदेशके ॥ ६५ ॥

मोक्षयेत् पुरुषेणैव हृदा गन्धादिभिरर्चयेत्।
जलादुत्तीर्य बेरं तु स्नानश्वभ्रे ति विन्यसेत् ॥ ६६ ॥

व्यपोह्य वस्त्रकूर्चाद्यं स्नपनं पूर्ववन्नयेत्।
वस्त्रेणैव तु संवेष्ट्य पूजयेद्धृदयेन तु ॥ ६७ ॥

कौतुकं बन्धयेत्पश्चाद्धृदा दक्षिणहस्तके।
शक्तीनां चैव सर्वासां वामे वा दक्षिणेऽपि वा ॥ ६८ ॥

कुम्भान् संस्थापयेत्पश्चात् सर्वलक्षण संयुतान्।
ससूत्रान् सहिरण्यांश्च सकूर्चान् वस्त्र संयुतान् ॥ ६९ ॥

गन्धोदकेन सम्पूर्णान् फलपल्ल्व शोभितान्।
विन्यस्य परितस्सर्वान् गन्धपुष्पादिभिरर्चयेत् ॥ ७० ॥

मूर्तिन्यासं ततः कुर्याल्लिङ्गस्थापन मार्गतः।
आत्मविद्यां शिवाख्यं च जानुकर्ण शिरोवधि ॥ ७१ ॥

होमकर्म तदन्ते स्यात् प्रागुक्तविधिना सह।
पलाशोदुम्बराश्वत्थ वटाः पूर्वादिषु क्रमात् ॥ ७२ ॥

शम्यपामार्गश्रीवृक्ष पिप्पलैश्चाग्नि कोणतः।
प्रधानस्य पलाशस्स्यात् समिधस्संप्रकीर्तिताः ॥ ७३ ॥

समिदाज्य चरू लाज सर्षपाश्चैव वैणवाः।
यवप्रियङ्गुशाल्यश्च मुद्गमाष कुलुत्थकाः ॥ ७४ ॥

मधु क्षीर गुले सक्तु फलादावुदकास्स्मृताः।
त्रिपञ्चसप्तनवभिः रुद्रैर्विश्वैश्च पक्षकैः ॥ ७५ ॥

द्रव्यैर्वा सप्तदशभिस्समस्तैर्होममाचरेत्।
ब्रह्मादि दिक्षु ख्यातानि विदिक्षु हृदयादयः ॥ ७६ ॥

प्रधाने मूलमन्त्रस्स्याद् अङ्गब्रह्म समायुतः।
पञ्चाग्न्यातनं चेत्तु हॄदयादीनि वर्जयेत् ॥ ७७ ॥

एकाग्न्यातनम् चेत्तु द्रव्यैरेकत्र होमयेत्।
सहस्रमर्धं तस्यार्धं शतं वार्धशतं तु वा ॥ ७८ ॥

एवमर्धं च दशभिर्मूलमन्त्रेण होमयेत्।
मूलाद्दशांशतोऽङ्गैस्तु सर्वैर्ब्रह्मादि होमयेत् ॥ ७९ ॥

तत्त्व तत्त्वेश्वराद्यैश्च होमं पूर्ववदाचरेत्।
द्रव्यान्ते व्याहृतिं कुर्याद्धोमान्ते पूर्णया युतम् ॥ ८० ॥

स्पर्शनं पूर्ववत्कुर्याच्छन्त्यम्बः प्रोक्षणं ततः।
अत्रानुक्तं तु यत्सर्वं लिङ्गस्थापनवन्नयेत् ॥ ८१ ॥

आगमाध्ययनं दिक्षु कोणे मन्त्रजपं नयेत्।
आगमाध्ययनं कुर्यादीशाने दीक्षितास्त्विह ॥ ८२ ॥

नृत्तगेय समायुक्तं स्तोत्रमङ्गल वाचकैः।
रात्रिशेषमपोह्याथ प्रभाते विमले ततः ॥ ८३ ॥

देशिको मूर्तिपैस्सार्धं कुर्यात्स्नानं तु पूर्ववत्।
मन्त्रसन्नद्धकायस्तु प्रविश्य मखमण्डपम् ॥ ८४ ॥

उद्धृत्य प्रतिमां पूर्वं मुखे मूर्तिपसन्निभः।
व्यपोह्य वस्त्रकूर्चादीन् यजेद्गन्धादिभिर्हृदा ॥ ८५ ॥

कुम्भान्संपूजयेत्पश्चाद्वह्निकुण्डेषु पूजयेत्।
अघोराष्टशतं हुत्वा प्रायश्चित्तार्थमेव वा ॥ ८६ ॥

वौषडन्तं हरेणैव पूर्णाहुतिमथाचरेत्।
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ८७ ॥

पञ्चनिष्कं समारभ्य पञ्चनिष्क विवर्धनात्।
दक्षिणा नवधा प्रोक्ता प्रतिमानां निवेशने ॥ ८८ ॥

अथवा च दारिद्रस्तु निष्काद्यं पञ्चनिष्ककान्।
दक्षिणा तु गुरोः प्रोक्ता ततो हीनं विवर्जयेत् ॥ ८९ ॥

अन्येषां चैव सर्वेषां पूर्ववद्दक्षिणा भवेत्।
मुहूर्तनाडिकास् सर्वे स्थापनं तु समाचरेत् ॥ ९० ॥

शिवकुम्भं समुद्धृत्य वर्धन्या सह देशिकः।
परिवारघटैर्युक्तं सर्वालङ्कार संयुतम् ॥ ९१ ॥

हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रे नयेद्घटान्।
कुम्भाद्बीजं समादाय प्रतिमाहृदि विन्यसेत् ॥ ९२ ॥

तत्कुम्भस्थ जलेनैव स्नापयेत् परमेश्वरम्।
वर्धन्या बीजमादाय तत्पीठे विन्यसेद्गुरुः ॥ ९३ ॥

देवेन सह चेद्देवी तस्यास्तु हृदि विन्यसेत्।
विभिन्न पीठा देवी चेत्पृथक्स्थापनं आरभेत् ॥ ९४ ॥

मृण्मये त्वर्धपीठे वा आभासे च पटे तथा।
सौधे कश्चिद्विशेषोऽस्ति तेषामेवाथ सन्निधौ ॥ ९५ ॥

दर्पणं स्थापयित्वा तु स्नापनं तत्र कारयेत्।
कर्माचार्यास्तु पीठे वा कूर्चे वा स्नापनं स्थले ॥ ९६ ॥

अर्चनोक्तं समभ्यर्च्य वस्त्राभरण पुष्पकैः।
प्रभूतं तु हविर्दद्यात् ताम्बूलादि समन्वितम् ॥ ९७ ॥

स्नपनं कल्पयेद्वा चेदुत्सवेन युतं तु वा।
अत्रानुक्तं यत्सर्वं लिङ्गस्थापनवन्नयेत् ॥ ९८ ॥

स्वप्रधाने पराङ्गे च स्थापनं चैवमीरितम्।
परिवार समायुक्तं स्वप्रधानमिति स्मृतम् ॥ ९९ ॥

इतरं तद्विहीनं स्यात्तच्च द्विविधमुच्यते।
अन्तरङ्गं च बाह्यङ्गमाद्यधामान्तरस्थितम् ॥ १०० ॥

चलं तदचलं वापि धामगर्भ गृहादिके।
भित्त्याश्लिष्टं चित्रयुक्तं शैलं वा ग्रामसंस्थितम् ॥ १०१ ॥

परिवारालयस्थं यदन्तरङ्गम् इति स्मृतम्।
प्रासादे मण्डपे साले गोपुरे बलिपीठके ॥ १०२ ॥

तोरणादिषु सुस्थं यद्बहिरङ्गं इति स्मृतम्।
बहिरङ्गे विशेषोऽस्ति तच्छृणुध्वं शिवद्विजाः ॥ १०३ ॥

जलाधिवासनं रत्नवासं धाम प्रदक्षिणम्।
शय्याकॢप्तं विना वापि सर्वं पूर्ववदाचरेत् ॥ १०४ ॥

एतासामपि सर्वासां कर्षणं प्रथमेष्टकम्।
धाम्नः कॢप्तिं च नित्येष्टिमुत्सवं स्नपनं तथा ॥ १०५ ॥

मासपूजा विधानं च प्रायश्चित्त विधिक्रमम्।
जीर्णोद्धारं बालगृहं तत्र संस्थापनं तथा॥
अद्भुते शान्तिमन्यच्च प्रकृत्युक्तं समाचरेत् ॥ १०६ ॥

Pūrvapāda – Kapitel 69: Die Weihe des Heiligtums

विमानस्थापनं वक्ष्ये वाञ्चितार्थफलप्रदम्।
धिष्ण्यावसाने पूर्वोक्ते काले च त्वङ्कुरार्पणम् ॥ १ ॥

प्रासादस्याग्रतः कुर्यान्मण्डपं वेदिकान्वितम्।
नवकुण्डसमायुक्तं पञ्चकुण्डयुतं तु वा ॥ २ ॥

मण्डपं मण्डयित्वा तु कुर्याच्छिल्प विसर्जनम्।
ब्राह्मणान् भोजयेत् तत्र तद्दिनात्प्राग्दिनत्रये ॥ ३ ॥

तदा प्रासाददेहस्त्थे बेराणां दृष्टिमोचनम्।
मध्वाज्यधान्यगोविप्र कन्यानां दर्शनं द्विजाः ॥ ४ ॥

तत्तद् हृदयमन्त्रेण कृत्वा संप्रोक्ष्य गव्यतः।
संपूज्य गन्धपुष्पाद्यैः प्रासादं प्रोक्षयेत्ततः ॥ ५ ॥

जङ्घायुगल चूडान्तं तत्त्वतत्त्वेश्वरान् न्यसेत्।
मूर्ति मूर्तीश्वरान् न्यस्त्वा बेरेष्वपि तथाचरेत् ॥ ६ ॥

वस्र्त्रैराच्छद्य सर्वं तु पुष्पैर्दर्भैः परिस्तरेत्।
मण्डपं संप्रविश्याथ पुण्याहं वाचयेत्ततः ॥ ७ ॥

स्थण्डिले वेदिकायां तु वसुद्रोणैश्च शालिभिः।
तदर्ध तण्डुलैश्शुद्धैस्तिलैर्लाजैस्तदर्धकैः ॥ ८ ॥

मध्यमे शिवकुम्भं तु वर्धनी सहितं न्यसेत्।
दिङ्मूर्ति संख्यया कुम्भास्तद्बहिः परितो न्यसेत् ॥ ९ ॥

ससूत्रान् सपिधानांश्च सवस्त्रान् हेमसंयुतान्।
चन्दनोदक संपूर्णान् सकूर्चान् पल्लवान्वितान् ॥ १० ॥

गन्धादिभिस्समभ्यर्च्य नैवेद्यान्तैस्समन्ततः।
कृत्वा तथाग्निसंस्कारं अग्निकार्योक्त मार्गतः ॥ ११ ॥

प्रधानकुण्डे हर्म्यस्य शिवाङ्ग ब्रह्मशम्बरैः।
पूर्वस्मिन् पूर्वदिग्देवमन्त्रैर्दक्षे तु विन्यसेत् ॥ १२ ॥

पश्चिमे वरुणस्थैश्च सोमे सोमदिशि स्थितैः।
विदिक्षु हृदयाद्यैश्च जुहुयाच्छतसंख्यया ॥ १३ ॥

पञ्चहोमाङ्गहीनैश्च मन्त्रैर्होमं समाचरेत्।
समिदाज्यचरू लाजतिलसस्येन्दु वैणवाः ॥ १४ ॥

उदुम्बरवटाश्वत्थ न्यक्रोधा दिक्षु संस्थिताः।
शम्यपामार्ग खदिर बिल्वाः कोणेषु संस्थिताः ॥ १५ ॥

प्रधानस्य पलाशस्स्याद् एवं ज्ञात्वा समाचरेत्।
तत्त्व तत्त्वेश्वराद्यैश्च हुत्वा पूर्णां समाचरेत् ॥ १६ ॥

प्रभाते तु गुरु स्नात्वा विशुद्धो मूर्तिपैस्सह।
नववस्त्रस्रगुष्णीषस् सोत्तरीयस्समालकः ॥ १७ ॥

पञ्चाङ्ग भूषणोपेतो दश निष्कादि दक्षिणः।
नववस्त्रादि संयुक्त मूर्तिपैश्च समन्वितः ॥ १८ ॥

प्रासादान्तस्स्थितान् देवान् इष्ट्वा कुम्भांश्च पावकान्।
प्रायश्चित्तं च पूर्णं च हुत्वा मूर्तिधरैस्सह ॥ १९ ॥

कुम्भान् संगृह्य हर्म्यस्य प्रदक्षिणमथाचरेत्।
प्रासाद दक्षिणे देशे स्थण्डिले विन्यसेद् घटान् ॥ २० ॥

प्रासादं पूजयित्वा तु वस्त्वाधारे शिवासनम्।
मूर्ति विद्या तनुं देहे अष्टत्रिंशत्कलान्वितम् ॥ २१ ॥

विन्यस्य सावधानस्सन् कुम्भादादाय सम्बरम्।
न्यसेद् प्रासाद देहे तु वस्त्वाधारे मनोन्मनीम् ॥ २२ ॥

तत्तज्जलेन संप्रोक्ष्य ततो दिङ्मूर्तिषु न्यसेत्।
अर्चयेदथ गन्धाद्यैर्नैवेद्यान्तं पृथक् पृथक् ॥ २३ ॥

एवं यः कुरुते मर्त्यो भुक्त्वा भोगान् शिवं व्रजेत् ॥ २४ ॥

Pūrvapāda – Kapitel 70: Die Weihe des Pavillons

लक्षणं मण्डपानां तु वक्ष्यते विप्रसत्तमाः।
उक्तानामपि सर्वेषां धाम्नामग्रेऽग्रमण्डपम् ॥ १ ॥

तन्मान सममानं तु श्रेष्ठमित्यभिधीयते।
मण्डपं सममानं चेत् सान्तरालं सवेशकम् ॥ २ ॥

युग्मस्तम्भ समायुक्तं युक्त्या सर्वाङ्ग शोभितम्।
सार्धहस्तं द्विहस्तं वा प्रासादार्धमथापि वा ॥ ३ ॥

अन्तरालस्य दीर्घं स्यादन्यत्सन्धिगतं तु यत्।
तन्मध्यमं इति प्रोक्तं त्रिगुणं चोत्तमं भवेत् ॥ ४ ॥

एकदण्डं द्विदण्दं वा त्रिदण्डं तस्य वेशनम्।
सावकाशान्तरालं चेत् तस्माद् द्वित्रिगुणं भवेत् ॥ ५ ॥

पार्श्व सोपान संयुक्तं मूलसोपान भित्तिकम्।
तदर्धं भित्तियुक्तं वा तदष्टांशेन भित्तिकम् ॥ ६ ॥

प्रासादं अष्टधा कृत्वा ह्रासयेदष्टभागतः।
यावद्द्विभागमानं तु भवेद् द्वादश मानकम् ॥ ७ ॥

मूलधाम्नो भवेच्छुद्धिर्मण्डपं चेद्द्विपार्श्वयोः॥
अन्तरालप्रदेशोक्तं वेशयुक्तं प्रकीर्तितम् ॥ ८ ॥

अग्रमण्डपं ईदृक्स्यात् प्रासाद समतुङ्गकम्।
स्वायंभुवादि लिङ्गे तु न्यूनं वाप्यधिकं तु वा ॥ ९ ॥

तद्वत्तस्य तलं चाथ भित्तिहीनं तु वा मतम्।
विवृतस्तम्भ संयुक्तं न चेद्द्वारं तदग्रके ॥ १० ॥

द्वारलक्षण मार्गेण तत्पार्श्वे द्वारपौ मतौ।
विवृतस्तम्भ युक्तं चेन्मूलधाम प्रवेशकौ ॥ ११ ॥

हित्वा तु मण्डपं तत्र शुकाग्रं वा विधीयते।
शुद्ध नागर धाम्नैतद् गर्भमानार्ध निष्क्रमः ॥ १२ ॥

शिखरार्ध समुत्सेधश्शुकनासा विभूषितः।
अन्तरालं तदग्रे स्यात् पार्श्वदेश प्रमाणकम् ॥ १३ ॥

सनिष्क्रमान्तरालं वा मण्डपं वा विधीयते।
पार्श्वद्वार समोपेतं निर्द्वारं वाथ तद्भवेत् ॥ १४ ॥

तदग्रे मण्डपं कुर्यात् प्रतिमा स्थापनार्थकम्।
स्नपनार्थं तदग्रे स्यात् तदग्रे नृत्त मण्डपम् ॥ १५ ॥

एतेषामपि सर्वषां अधिष्ठानादि मानकम्।
मूलधाम समं श्रेष्ठं स्वाष्टांशेनाधिकं तु वा ॥ १६ ॥

चतुष्षोडश भागोनं अधिकं वा प्रकीर्तितम्।
मानवे मानवं ह्येतत् सामान्यं समुदाहृतम् ॥ १७ ॥

मण्डपं वा सभा वापि कूटमेषां समाकृतिः।
एतेषामपि सर्वेषां प्रमाणं अधुनोच्यते ॥ १८ ॥

त्रिकरं तु समारभ्य करपाद विवृद्धितः।
शरहस्तावसानस्तु भवेन्मण्डप विस्तरः ॥ १९ ॥

प्रासादोक्ताय संयुक्तं इष्टपार्श्वग भित्तियुक्।
नानाजालक संयुक्तं नानाद्वार समायुतम् ॥ २० ॥

पृथगाद्येष्टकोपेतं आयादि शुभसंयुतम्।
विस्तारमष्ट वह्न्यह्नि वसुघ्नं रविणा भजेत् ॥ २१ ॥

मन्वष्टघ्नैस्तु यच्छिष्टं भवेद्घनमृणं द्विजाः।
योनिस्तारा च पर्यन्ते त्रिंशन्मुनिहते सति ॥ २२ ॥

तिथिवारक्रमेणैव मण्डपायादयो मताः।
न चायं विहिततस्त्वग्र मण्डपे चान्तरालके ॥ २३ ॥

आद्येष्टकादयोऽप्यत्र नविधेयाः पृथग्विधाः।
अन्येषामपि सर्वेषां मूलोक्तं सर्वमाचरेत् ॥ २४ ॥

सार्ध हस्तं समारभ्य त्रित्र्यङ्गुल विवर्धनात्।
पञ्चहस्तान्त मानं तु भित्तिमानं च मण्डपे ॥ २५ ॥

तथैव स्तम्भमानं स्यात् किं तु पङ्क्तिकरान्तकम्।
पञ्चाङ्गुलं समारभ्य व्योममात्र विवृद्धितः ॥ २६ ॥

त्रिंशदङ्गुलपर्यन्तं स्तम्भतारं प्रकीर्तितम्।
व्योमपङ्क्ति समारभ्य व्योमपङ्क्ति विवृद्धितः ॥ २७ ॥

पञ्चाशत्पङ्क्ति पर्यन्तं मण्डपे पङ्क्तयो मताः।
भद्रोपभद्र संयुक्तं मध्यस्तम्भ प्रभासनम् ॥ २८ ॥

लाङ्गलाकार कुड्याढ्यं नानालङ्कार शोभितम्।
ब्रह्माङ्कण समायुक्तं अथवा तद्विवर्जितम् ॥ २९ ॥

द्वारतालतलोपेतं कूट कोष्ठादि शोभितम् ॥ ३० ॥

एतदेव सभामानं इति प्रोक्तं द्विजेश्वराः।
आस्थान मण्डपं कुर्याद्धाम्नो दिक्षु विदिक्षु च ॥ ३१ ॥

प्रागुक्त प्रमाणेन मण्डपं कूटमेव वा।
सभा वा तत्र कर्तव्या चाष्टदिङ्मुख संयुतम् ॥ ३२ ॥

समाश्रं आयताश्रं वा मुखे भद्रयुतं तु वा।
एकानेक तलोपेतं पार्श्व सोपान संयुतम् ॥ ३३ ॥

संपद्यैवं तदग्रे तु सभाद्यं परिकीर्तितम्।
पञ्चहस्तं समारभ्य व्योमहस्त विवृद्धितः ॥ ३४ ॥

एकत्रिंशत्करान्तं तु विस्तारस्तस्य संमतः।
विस्तारपाद वृद्ध्या तु यावद्वेदगुणं भवेत् ॥ ३५ ॥

आयामं कल्पयेत् तस्य विस्तारे भित्तिरुच्यते।
वह्निभित्तिं समारभ्य व्योमभित्ति विवर्धनात् ॥ ३६ ॥

विश्वभित्त्यवसानं तु विस्तारे भित्तयो मताः।
विस्तारभित्ति वसुधां कृत्वार्धार्ध विवर्धनात् ॥ ३७ ॥

युग्मभित्तिषु मध्यस्थ पादानामोज विस्तरः ॥ ३८ ॥

तन्मानं वर्धयेन्मध्ये पार्श्व भित्तिषु ह्रासयेत्।
ओजभित्तिषु मध्यस्थ पदश्रेणिद्वयं तु वा ॥ ३९ ॥

त्यजेत्तस्य समन्तात्तु द्वारं कुर्याद्यथाविधि।
मूलभित्तिप्रमाणेन पादं वार्ध त्रिपादकम् ॥ ४० ॥

द्वारमानं समाख्यातं तत्पादान् युक्तितो नयेत्।
मूलपादाच्च द्वारस्थाः पादा ये संस्थितास्त्विह ॥ ४१ ॥

तत्तत्पादविशालेन बहिरन्तर्निवेशिताः।
स्वस्वस्थानगता वापि विधातव्या विचक्षणैः ॥ ४२ ॥

सभादिमध्यगं रङ्गस्थानं देवासनं तु वा।
एतेषामपि सर्वेषां प्रोक्षणं त्वधुनोच्यते ॥ ४३ ॥

कृत्वाङ्कुरार्पणं पूर्वं पुण्याहप्रोक्षणं तथा।
ब्राह्मणान् भोजयित्वादौ तदुच्छिष्टं विवर्जयेत् ॥ ४४ ॥

पुण्याहं च पुनः कृत्वा पञ्चगव्येन सेचयेत्।
वास्तुहोमं ततः कृत्वा पर्यग्निकरणं नयेत् ॥ ४५ ॥

मण्डपं भूषयित्वा तु गन्धाद्यैरर्चयेद्गुरुः।
निवृत्यादि कलान् न्यस्त्वा मध्यस्तम्भ चतुष्टये ॥ ४६ ॥

कौतुकं बन्धयेदग्निकोणभागेऽथ बन्धयेत्।
वस्त्रैरस्त्रेण चावेष्ट्य मालाद्यैर्भूषयेत्ततः ॥ ४७ ॥

गन्धाद्यैः पुनरभ्यर्च्य तत्त्व तत्त्वेश्वरान्वितान्।
मूर्ति मूर्तीश्वरान् न्यस्त्वा मध्यमे मण्डपस्य तु ॥ ४८ ॥

स्थण्डिलं शालिभिः कृत्वा वसुद्रोणादि मानतः।
तण्डुलैस्तिल लाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ४९ ॥

मध्यमे शिवकुम्भं तु निवृत्यादि कलान्वितम्।
तद्वामे वर्धनी तस्यां देवीमावाह्य भक्तितः ॥ ५० ॥

चतुष्कुम्भं तु संस्थाप्य हेमवस्त्रादि संयुतम्।
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं तेषु वह्नितः ॥ ५१ ॥

पूजयेद्गन्ध पुष्पाद्यैः नैवेद्यान्तैः पृथक् पृथक्।
ततः शिवाग्निं संस्थाप्य समिदाज्यान्न लाजकैः ॥ ५२ ॥

शतसंख्यं तदर्धं वा शिवाद्यैः होममाचरेत्।
प्रधानेन शिवेनाङ्गैः पूर्वदिक्स्थण्डिले मताः ॥ ५३ ॥

धर्माद्यैर्हृदयाद्यैर्वा होमस्स्यादग्निकोणतः।
तत्त्वाद्यैश्च ततो हुत्वा पूर्णाहुतिं अथाचरेत् ॥ ५४ ॥

प्रभातेऽथ गुरुस्नात्वा मूर्तिपैश्च समन्वितः।
नववस्त्रधृगुष्णीषी सोत्तरीयस्समालकः ॥ ५५ ॥

संप्राप्त दक्षिणो मूर्तिधारदैवज्ञ शिल्पिभिः।
सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं समारभेत् ॥ ५६ ॥

मण्डपं वेदगात्रं च कुम्भानग्निं च योजयेत्।
प्रायश्चित्तं अघोरेण कृत्वा पूर्णां समाचरेत् ॥ ५७ ॥

शिवमण्डप देहे तु वस्त्वाधारे मनोन्मनीम्।
न्यस्त्वा तदद्भिस्संप्रोक्ष्य गन्धपुष्पादिभिरर्चयेत् ॥ ५८ ॥

नैवेद्यान्ते गुरुर्मन्त्री हृदयेन तु मन्त्रतः।
एवमेव सभादीनां विधेयं प्रोक्षणं बुधाः ॥ ५९ ॥

एवम् यः कुरुते मर्त्यस्सोऽनिष्टैर्विप्रयुज्यते ॥ ६० ॥

Pūrvapāda – Kapitel 71: Die Umfassungsanlagen

अथ वक्ष्ये विशेषेण प्राकाराणां तु लक्षणम्।
प्रासादस्य विशालार्धं दण्डमित्यभिधीयते ॥ १ ॥

एकद्वित्रिचतुष्पञ्च दण्डैर्मध्यात् समन्ततः।
एकप्राकारकॢप्तिस्तु पञ्चधा परिकीर्तिता ॥ २ ॥

मूलालय विशाले तु त्रिधा भक्ते पदं भवेत्।
तेन भागेन तद्बाह्ये द्विगुणं त्रिगुणं तु वा ॥ ३ ॥

त्रिचतुर्गुण्कं चापि चतुष्पञ्चगुणं तु वा।
पञ्चषड्गुणमिष्टं च प्राकारद्वय कल्पनम् ॥ ४ ॥

एवं चतुर्विधं प्रोक्तं त्रिप्राकारस्तु कथ्यते।
प्रासादस्य चतुर्भागे यस्तु दण्डमिहोच्यते ॥ ५ ॥

तस्य द्वित्रिचतुर्भागैः त्रिचतुष्पञ्चभिस्तथा।
चतुष्पञ्च षडंशैस्तु पञ्चषट्सप्तभिस्तथा ॥ ६ ॥

षट्सप्ताष्टभिरुद्दिष्टं त्रिप्राकार प्रमाणकम्।
पञ्चधा कथितं वेद प्राकारं शृणुत द्विजाः ॥ ७ ॥

त्रिप्राकारस्य बाह्ये तु एकैकाङ्गुल वर्धनात्।
नवभागावसानं तु समन्तात्परिवर्धयेत् ॥ ८ ॥

एवं पञ्चविधं प्रोक्तं चतुष्प्राकार मानकम्।
एवं चतुष्प्राकारोऽपि प्रासादस्य विशालकम् ॥ ९ ॥

समस्तं चार्धमानं च त्रिचतुर्भाग मानकम्।
दण्डार्धं योजयेद्धीमान् हस्तमानेन चोच्यते ॥ १० ॥

द्विहस्तादेकवृद्ध्या तु नवहस्तावसानकम्।
एक प्राकारमानं तु क्षुद्राणां अष्टधा मतम् ॥ ११ ॥

द्विहस्तं च त्रिहस्तं च त्रिचतुर्हस्तमेव वा।
चतुष्पञ्चकरं चैव पञ्चषट्करमेव च ॥ १२ ॥

षट्सप्ताष्टकरं चैव अष्टनन्दं तथैव च।
नन्द दीर्घाष्टकं चैव द्विप्राकार प्रमाणकम् ॥ १३ ॥

अस्मादेक करर्द्ध्या तु रुद्र हस्तान्तमेव च । त्रिप्राकार प्रमाणं तु वेद प्राकारकं तथा ॥ १४ ॥

एकैक हस्त वृद्ध्य तु रविहस्तावसानकम्।
चतुष्प्राकार मानं तु क्षुद्रादीनां प्रकीर्तितम् ॥ १५ ॥

जातिच्छन्द विकल्पाभासादीनां तु समीरितम्।
नियमो विद्यते नैव प्रासादं सार्वदेशिके ॥ १६ ॥

जातौ जातिकराणां तु अन्यस्यापि च सद्मनः।
अर्धत्र्यंश चतुर्भागैः द्विभागैश्च क्रमेण तु ॥ १७ ॥

सममार्गानुमार्गाभ्यां नागरादौ नियुज्यते।
प्रासादस्य विशालेन सपादेन समेन च ॥ १८ ॥

पादोनेन विशालेन महामार्गार्हकं तु वा।
कल्पयेद्धस्तमानेऽपि प्रागुक्त विधिना सह ॥ १९ ॥

अयं विभागो नास्त्येव प्रासादे सार्वदेशिके।
पञ्चषण्मुनिसालेऽपि चाष्टनन्द वृतौ तथा ॥ २० ॥

हस्तैः पादैः समन्तात्तु वर्धयेत्पूर्व मानतः।
समं तु चतुरश्रं तत्पूर्वं कृत्वा ततः परम् ॥ २१ ॥

कल्पयेत्तु मुखायामं देवस्याभिमुखं यथा।
पृष्ठे वा कल्पयेत्पार्श्वे पुरातन विमानके ॥ २२ ॥

नूतने वा प्रकर्तव्यं स्थानसंकट संयुते।
एकहस्तं समारभ्य हस्तैकैक विवृद्धितः ॥ २३ ॥

एकादश करान्तं तु प्रागुक्तात्तु विशालकम्।
वर्धयेद्ध्रासयेत्वापि यावदिष्टप्रपूरणम् ॥ २४ ॥

पृष्ठे वापि मुखे वापि पार्श्वयोरुभयोस्तु वा।
एकपार्श्वेऽथवा कुर्यान् मुखायामे प्रकल्पयेत् ॥ २५ ॥

पादाधिकं अथाध्यर्धं पादोनद्विगुणं तु वा।
द्विगुणं द्विगुणार्धं वा त्रिगुणं च चतुर्गुणम् ॥ २६ ॥

द्विहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात्।
यावत्पञ्चगुणं तारं मुखायामं प्रकल्पयेत् ॥ २७ ॥

भित्त्यन्तराल मानं वा भित्तिबाह्यं अथापि वा।
भित्तिमध्यं तु वा कुर्यात् प्राकाराणां प्रमाणकम् ॥ २८ ॥

आयादिषट्क सिद्ध्यर्थं वृद्धिं हानिं च हस्तकैः।
कल्पयेत्पादमार्गेण प्राकारस्य प्रकल्पने ॥ २९ ॥

सच्छिन्नहस्तप्रासादे छिन्नहस्तस्य लोपनम्।
पूरणं वा प्रकर्तव्यं हस्तमानवशेऽपि च ॥ ३० ॥

देवानां एतदुक्तं तु नराणां स्यात्खलूरिका।
तदुक्तमात्रं संग्राह्य मात्रोक्तं तत्र योजयेत् ॥ ३१ ॥

आयं वसुगुणं कृत्वा सप्तविंशतिभिर्हरेत्।
शेषं ऋक्षं तु विस्तारात् सकलाद्वाथ कल्पयेत् ॥ ३२ ॥

उक्तादेकमथवाष्ट गुणितं भानुभिर्भजेत्।
आयं त्रिगुणितं दिग्भिर्मनुभिर्विभजेत् ततः ॥ ३३ ॥

व्ययस्तु कथितश्शास्त्रैः द्विगुणं वसुभिर्हरेत्।
ध्वजादि योनयः प्रोक्ताः पर्यन्त त्रिंशतो भजेत् ॥ ३४ ॥

तिथिश्च कथिता वारो मुनिभिर्भाजितो भवेत्।
मूलप्रासाद हस्तैर्वा चान्यैर्वाथ निरीक्षयेत् ॥ ३५ ॥

एकहस्तं समारभ्य चैकाङ्गुल विवर्धनात्।
द्विहस्तान्तस्समुद्दिष्टस् सालानां चैव विस्तरः ॥ ३६ ॥

तद्विस्तार प्रमाणेन यावत्त्रिंशद्गुणं भवेत्।
त्रिगुणं तु समारभ्य क्षुद्रे महति मन्दिरे ॥ ३७ ॥

प्राकारोत्सेध उद्दिष्टो मूलादूनं तदग्रतः।
षडंशं तु समारभ्य यावत् षोडश भागिकम् ॥ ३८ ॥

तावत्कृत्वा समूलं तु चैकांशेन तदग्रकम्।
अधिष्ठानादि वर्गाढ्यं खण्डहर्म्यादि मण्डितम् ॥ ३९ ॥

ऋजुभक्तियुतं वापि प्राकारं तु प्रकल्पयेत्।
छत्रादि शिखरोपेतं ऊर्ध्वस्थ वृषभान्वितम् ॥ ४० ॥

तस्य दण्डप्रमाणेन चार्धेनाथ त्रिपादतः।
सपादेनाथ सार्धेन पादोन द्विगुणेन वा ॥ ४१ ॥

द्विगुणेन च मूले तु भित्तिश्चैव विनिर्गमः।
उपानं कथितं तस्योपरिष्टात्तेन मानतः ॥ ४२ ॥

अर्धादि पादवृद्ध्यादि द्विगुणान्तं हि पादकम्।
तस्योपरिष्टात्कम्पं तु तच्चतुर्थांश मानतः ॥ ४३ ॥

तस्यार्धेन त्रिपादेन सपादेन च सार्धतः।
पादोन द्विगुणं वापि द्विगुणान्तं प्रकल्पयेत् ॥ ४४ ॥

कम्पमेकं द्वयं वापि ऊर्ध्वोपानं तु वा भवेत्।
अन्तस्सालाङ्कणं निम्नं बाह्य सालाङ्कणं भवेत् ॥ ४५ ॥

सालानां अन्तरे व्यासं बाह्ये सालाङ्कणं भवेत्।
अङ्गुलद्वयमारभ्य चैकाङ्गुल वर्धनात् ॥ ४६ ॥

नवमात्रान्तकं यावत् प्रतिसालं तु निम्नकम्।
षट्पञ्चवेदरुद्राक्षद्व्यङ्गुलैः परिकल्पयेत् ॥ ४७ ॥

जातिच्छन्द विकल्पाभासानां क्षुद्रस्य चैव हि।
सार्वदेशिक हर्म्ये तु न चायं विधिरिष्यते ॥ ४८ ॥

स्वायंभुवादि लिङ्गानां अन्तर्निम्न समं तु वा।
बाह्यनिम्नं तु वा कार्यं सालानां अङ्कणं बुधैः ॥ ४९ ॥

सालानामन्तरेऽपि स्यान् मालिका मण्डपाकृतिः।
सभाकृतिर्वा कर्तव्या चैकद्वित्रिक भित्तिभिः ॥ ५० ॥

चतुर्भित्तियुता वापि एकानेक तलान्विता।
उपानात्तु समारभ्य मूलप्रासाद तुङ्गकम् ॥ ५१ ॥

उत्तरान्तं विभज्याथ सप्तधा तु मसूरकम्।
द्विपादं पाददैर्घ्यं तु शेषेण परिकल्पयेत् ॥ ५२ ॥

मूलधाम्नस्तु पादं तु भजेद्वा नवसंख्यया।
अधिष्ठान द्विभागेन पादं शेषेण कल्पयेत् ॥ ५३ ॥

द्विहस्तम् तु समारभ्य चैकाङ्गुल विवर्धनात्।
सप्तहस्तान्त उत्सेधस्स्तम्भानां परिकीर्तितः ॥ ५४ ॥

भित्तिमानं तथैव स्यात् क्षुद्रे क्षुद्र विमानके।
पक्षाङ्गुलं समारभ्य चार्धाङ्गुल विवर्धनात् ॥ ५५ ॥

चतुर्विंशति मात्रान्तं स्तम्भविस्तार इष्यते।
पादोच्चार्धं अधिष्ठान सप्तमाष्ट नवांशकम् ॥ ५६ ॥

हीनं वाप्यधिकं वापि पादोच्चेऽप्येवमेव हि।
पादोच्चे त्रिचतुर्भागेनाथवापि मसूरकम् ॥ ५७ ॥

पादबन्धं सजातीयं अधिष्ठानं नियोजयेत्।
प्रस्तरादि प्रमाणं च प्रासादोक्तवदाचरेत् ॥ ५८ ॥

आग्नेये नैरृते कोणे वायव्ये चाथ वैशके।
चतुष्कोणेऽपि वा कुर्याद् गर्भं च प्रथमेष्टकाम् ॥ ५९ ॥

अभ्यन्तरमुखाश्चैव प्राकाराः परिकीर्तिताः।
स्वस्य दक्षिणकेऽम्शे तु द्वारकोणान्तरेऽपि वा ॥ ६० ॥

गृहक्षते महेन्द्रे वा भल्लाटे पुष्पदन्तके।
स्थानं गर्भस्य निर्दिष्टं तत्रस्था प्रथमेष्टका ॥ ६१ ॥

मूर्धेष्टकोर्ध्व कीलाढ्यं मूलात्तत्परिकल्पयेत्।
भित्त्यूर्ध्वस्थ चतुष्कोणेष्वेकस्मिन्निष्टकां न्यसेत् ॥ ६२ ॥

अन्तर्मण्डलमाद्यं स्यादन्तर्हारा द्वितीयका।
तृतीया मद्यहारा स्यान् मर्यादाख्या चतुर्थका ॥ ६३ ॥

महामर्यादिकाख्या च पञ्चमी परिकीर्तिता।
परिवारामरान् सर्वांस्तत्र संस्थापयेद्गुरुः ॥ ६४ ॥

परिवार विधानाय तच्च लेशान् निगत्यते।
परिवार विमानां मानं गर्भार्धमेव वा ॥ ६५ ॥

मूलवास्तु त्रिभागैकमर्धं वा पादबाह्यकम्।
एकहस्तं समारभ्य रुद्रहस्तान्तमेव हि ॥ ६६ ॥

प्रासादस्य तु विस्तारो हुत्सेधः प्राग्वदेव हि।
अङ्गलिङ्गालयाकाराः परिवारालया मताः ॥ ६७ ॥

भित्त्याश्रिता विशिष्टा वा परिवारालया मताः।
संत्यक्त पादरूपांश्च मूलदेश मुखान्विताः ॥ ६८ ॥

पूर्वस्थाः पश्चिमास्यास्स्युः पूर्वास्याः पश्चिमस्थिताः।
दक्षस्थास्सौम्यवक्त्रास्स्युः दक्षस्यास्सौम्यदिग्गताः ॥ ६९ ॥

क्षेत्रेशो दक्षवक्त्रो वा चण्डेशश्च तथैव च।
नागराडीश देशे स्यादगस्त्यश्च तथैव च ॥ ७० ॥

धनदोऽपि तथा प्रोक्तस्तथा चण्डेश्वरो मतः।
वसवो ऋषयश्चार्का रुद्रा एकादशैव हि ॥ ७१ ॥

अश्विनौ वास्तुदेवाश्च बहिर्वान्तर्व्यवस्थिताः।
सर्वेषु परिवारेषु सामान्योऽयं प्रकीर्तितः ॥ ७२ ॥

देवाग्रे स्थापयेदुक्षं देवस्याभिमुखं तु वा।
मण्डपं तु चतुर्द्वारं कारयेद् वृषभस्य तु ॥ ७३ ॥

आदितः परिवारोऽयं त्रिशूलेन समाहितः।
द्वितीयः परिवारस्स्यात् सचण्डेशस्तृतीयकः ॥ ७४ ॥

विघ्नेश्वर समायुक्तश्चतुर्थः परिकीर्तितः।
ततस्सप्तार्चिषा युक्तः पञ्चमोऽद्य समीरितः ॥ ७५ ॥

स्कन्दज्येष्ठा समायुक्तौ वीरौ द्वौ षष्ठसप्तमे।
अष्टमः परिवारस्स्यात् संयुक्तस्सप्तमातृभिः ॥ ७६ ॥

सकलादि पदे देवान् स्थापयेद्युक्तितो बहिः।
परिवाराष्टकैर्हीनं विमाने परिकल्पयेत् ॥ ७७ ॥

वृषोऽग्निमातरौ विघ्नस्कन्दौ ज्येष्ठा च चण्डिका।
आदित्यश्च क्रमेण स्यागणविद्येश्वरास्तु वा ॥ ७८ ॥

मातॄणां उत्तरे दक्षे चण्डिकां वा मुनीश्वराः।
पद्मजं स्थापयेद्विष्णुं तद्विहीनमथापि वा ॥ ७९ ॥

दुर्गां हित्वाथ विष्णुं वा कुबेरं सोममेव वा।
चण्डेशमीशदिग्भागे क्षेत्रपालं च तत्र वै ॥ ८० ॥

विघ्नेशस्कन्दयोर्मध्ये वारुणे वा श्रियं न्यसेत्।
विघ्ने सरस्वती युक्ता तृतीयां वा पृथङ्न्यसेत् ॥ ८१ ॥

अथवा लोकपालास्स्युर्यमो मातृयुतो न वा।
अष्टदिक्षु विशालास्स्युस्सपीठाः केवलास्तु वा ॥ ८२ ॥

विघ्नेशस्सर्वदेशस्थो गौरीस्कन्दौ तथैव च।
द्वादशस्युर्द्विरष्टौ च चतुर्विंशति संख्यका ॥ ८३ ॥

द्वात्रिंशत्परिवारास्स्युरन्तर्मध्यमहारयोः।
द्विरष्ट परिवारोऽयं तेषु सौम्यं निगत्यते ॥ ८४ ॥

उपपीठपदं कृत्वा स्थापयेद्रविदेशतः।
आदित्यं सुप्रजं वह्निं किन्नरं मातरं तथा ॥ ८५ ॥

विबुधं विघ्नराजं च श्रियं च वरुणं तथा।
स्कन्दं ज्येष्ठा च दुर्गा च विष्णुं चण्डेश्वरं तथा ॥ ८६ ॥

क्षेत्रज्ञं गीतजं पश्चात् स्थाप्यन्तां मुनिपुङ्गवाः।
अस्मिन्नेव पदे चान्तर्विद्येशो द्वारपास्तु वा ॥ ८७ ॥

द्विरष्टपरिवारास्स्युर्द्वात्रिंशद् अधुनोच्यते।
स्थण्डिले तु पदे स्थाप्य द्वात्रिंशद्रविभागतः ॥ ८८ ॥

आदित्यं चोदकं गङ्गां वह्निं नागं अगस्त्यकम्।
यमं सुशान्तं भूतेशं विघ्नेशं भारतीमपि ॥ ८९ ॥

श्रियं जलेशं स्कन्दं च दुर्गां ज्येष्ठां मनोन्मनीम्।
ब्रह्माणं विष्णुमन्ते च काश्यपं नन्दिनं तथा ॥ ९० ॥

क्षेत्रज्ञं विमलं चान्ते गजेन्द्रं स्थापयेद्बहिः।
अन्तर्विद्येश्वरान् वापि ऋषीन् वा विन्यसेद्वसून् ॥ ९१ ॥

अथाष्टपरिवारान् वा विन्यसेद्देशिकोत्तमः।
एकसालादि सालेषु युक्त्या सर्वत्र योजयेत् ॥ ९२ ॥

पीठस्था वाथ बिम्बस्थाः परिवारामरा मताः।
वृषं शूलं च चण्डेशं महापीठं गणाधिपम् ॥ ९३ ॥

नागराजानं इत्येतान् सर्वत्र परिकल्पयेत्।
एषां मध्यादथेष्टान्वा न्यसेत्पञ्चादिसालके ॥ ९४ ॥

चतुर्दिक्षु चतुष्पीठे चाग्रपृष्ठे द्वयं तु वा।
पृष्ठं विहाय त्रितयं एकमग्रेऽथवा भवेत् ॥ ९५ ॥

कोणद्वारे भवेत्पीठं कोणस्थं दिग्गतं तु वा।
प्रतिसालं तु पीठं वा पैशाचं तु बहिर्भवेत् ॥ ९६ ॥

पञ्चाङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात्।
पञ्चविंशति मात्रान्तो विस्तारादग्रपीठके ॥ ९७ ॥

पादमर्धं त्रिपादं वा समं वोच्चविशालतः।
द्वित्रिवेदेषु षट्सप्तभागान् कृत्वैक भागतः।
एकद्वित्रिचतस्रस्स्युः मेखलायास्तथोपरि ॥ ९८ ॥

सकर्णिकं तु पद्मं स्यात्केवला कर्णिकापि वा।
मेखलाद्विगुणं पद्मं त्रिगुणं वा चतुर्गुणम् ॥ ९९ ॥

पद्मोच्चं कीर्तितो वेशो मेखला सदृशो भवेत्।
त्रिपादं वा द्विपादं वा पादं वा परिकल्पयेत् ॥ १०० ॥

कर्णिका मेखलोच्चा वा पद्मार्धेनाथ पादतः।
त्रिपादेन विधेया वा यथा शोभबलेन वा ॥ १०१ ॥

वृत्तं वा चतुरश्रं वा क्षुद्रपीठं तदीरितम्।
महतां पीठकानां च लक्षणं शृणुतोत्तमाः ॥ १०२ ॥

पद्मगर्भ समो वापि तदधः पाद एव वा।
तदन्तरेऽष्टभागे तु नवधा विस्तरो भवेत् ॥ १०३ ॥

रुद्रमात्रं समारभ्य द्वित्र्यङ्गुल विवर्धनात्।
नवहस्त प्रमाणान्तो महापीठस्य विस्तरः ॥ १०४ ॥

विस्तार सम उत्सेधस्सपादस्सार्ध एव वा।
त्रिपादो ह्यर्धमानो वा तत्तदन्तरजोऽपि वा ॥ १०५ ॥

पीठोच्चष्षोडशांशो वा एकभागेन कीर्तितः।
पीठतार समो वा स्यादेकद्वित्र्यङ्गुलोन्नतः ॥ १०६ ॥

जगती चतुरंशस्स्यात् त्रिपादं कुमुदो भवेत्।
पादेन कम्पः कर्णस्तु त्रिपादेन प्रकीर्तितः ॥ १०७ ॥

भागेनोपरि कम्पस्स्याद्वाजनं तु द्विभागतः।
भागेन वाजनं चोर्ध्वे तदूर्ध्वे पद्ममिष्यते ॥ १०८ ॥

पीठाकार समो वा स्यादेकद्वित्र्यङ्गुलोन्नतः।
षोडशाष्टांश हीनो वा पत्रविस्तार इष्यते ॥ १०९ ॥

तदर्धो वा त्रिपादो वा स्वव्यासादुच्चमिष्यते।
तयोरन्तरमानं तु नवधोच्चं भवेद्द्विजाः ॥ ११० ॥

पद्मतार त्रिभागैका कर्णिकार्धेन वा मता।
पादमानान्तराष्टांशे नवमानं प्रकीर्तितम् ॥ १११ ॥

कर्णिका विस्तरः प्रोक्तस्तत्त्रिपादस्समोऽपि वा।
अर्धमानान्तरोपेतः कर्णिकोच्छ्राय इष्यते ॥ ११२ ॥

पादाष्टांश विहीनस्स्याद् अग्रस्थूलस्य विस्तरः।
अधिष्ठानोपपीठोक्ताकृतिं वोपरि कल्पयेत् ॥ ११३ ॥

धामाकृतिर्वा कर्तव्या प्रस्तरान्ता गुरूत्तमाः।
मध्यभद्रयुतं वापि नानाचामर संयुतम् ॥ ११४ ॥

नानाभूत समायुक्तं कोणस्थर्क्ष समन्वितम्।
अनेक नासिका जालं सोपपीठं तु केवलम् ॥ ११५ ॥

वृत्तं वा चतुरश्रं वा त्र्यश्रं वस्वश्रमेव वा।
प्रासादपोतमध्यात्तु पादमध्य विवर्जितम् ॥ ११६ ॥

मूलधाम्नः समारभ्य वह्निदण्डं व्यपोह्य च।
तत्र संस्थापयेत्पीठं तत आरभ्य वर्धयेत् ॥ ११७ ॥

अर्धदण्डेन पञ्चाशद्दण्डान्तं देशिकोत्तमः।
पीठायामान्तरा ह्येतद् वृषपृष्ठेऽथवा भवेत् ॥ ११८ ॥

सालानां मध्यदेशे वा ग्राम मार्गान्तरेऽपि वा।
ग्राम मध्येऽथवा कुर्याद् धामेशानेऽथवा भवेत् ॥ ११९ ॥

आयाद्यं धामजात्युक्तवर्त्मनैव परीक्षयेत्।
कुर्यादाद्येष्टका मध्ये पूर्वोक्त विधिना गुरुः ॥ १२० ॥

दक्षिणे पश्चिमे वास्य सोपानं परिकल्पयेत्।
संश्लिष्टं वाथ विश्लिष्टं सोपानं तदपीरितम् ॥ १२१ ॥

पश्चिमद्वार संयुक्तं वृषभं शूलमेव च।
महापीठध्वजाद्यं च पश्चिमे परिकल्पयेत् ॥ १२२ ॥

दक्षद्वारे च कौबेरेऽप्येवमेव समाचरेत्।
चतुर्द्वारयुते द्वारं प्रत्यक्षं वा सशूलकम् ॥ १२३ ॥

महापीठमथैकत्र स्थापयेद्वा ध्वजादिकम्।
प्रतोली पूर्वदेशे स्यात्पश्चिमे वा चतुर्दिशि ॥ १२४ ॥

आग्नेय्यां तु धनस्थानं नैरृत्यां आयुधालयः।
वायव्या शयनस्थानं ऐशान्यां कूपमिष्यते ॥ १२५ ॥

सदाशिवाद्यास्सर्वत्र स्थापनीयास्समन्ततः।
इन्द्र पावकयोर्मध्ये धनस्थानं तु वा भवेत् ॥ १२६ ॥

आग्नेय्यां पचनस्थानं यागशाला च तत्र च।
अग्निकुण्डं च तत्र स्याद्यमपावक मध्यमे ॥ १२७ ॥

पुष्पमज्जन शाला स्यात् पानीयस्थानमेव च।
कामिकादि शिवज्ञानस्थानं याम्यदिशि स्थितम् ॥ १२८ ॥

यम राक्षस मध्ये तु गन्धादि स्थानं इष्यते।
निरृतौ पुष्पसंस्थानं तद्वामे वाथ कल्पयेत् ॥ १२९ ॥

धर्मसंकीर्तनं वात्र वारुणे वा प्रकल्पयेत्।
वायव्ये दक्षिणे वाथ ज्ञानकोशं प्रकल्पयेत् ॥ १३० ॥

तत्र वा शयनस्थानं सोम वाय्वन्तरेऽपि वा।
कूपस्थानं कुबेरे वा तत्पूर्वे वैशदेशके ॥ १३१ ॥

यागमण्डपं इष्टं स्यात्तद्दक्षे वाद्यमिष्यते।
ऐशान्यां शयनस्थानं अथवा परिकल्पयेत् ॥ १३२ ॥

तद्दक्षिणे वा तत्स्थानं सोमे वा परिकल्पयेत्।
कूपं च शयनस्थानं पुष्पमज्जन मण्डपे ॥ १३३ ॥

मद्भक्तस्थानकं विद्यास्थानं वस्त्र सुवर्णयोः।
देवोपकरणस्थानं नोक्तं विस्तार भीरुणा ॥ १३४ ॥

तत्सर्वं यजमानेच्छवशेन परिकल्पयेत्।
देवोपजीविनां स्थानं तथैव परिकल्पयेत् ॥ १३५ ॥

देवालय समीपे तु देशिकस्यालयो भवेत्।
पूजकानां गृहं तत्र परिचारक संस्थितिः ॥ १३६ ॥

पुष्पारामादिकानां तु स्थानं सर्वत्र कल्पयेत्।
आस्थान मण्डपं सर्वदेशोऽपि विविधं नयेत् ॥ १३७ ॥

अन्यद् ग्रामोक्त रीत्या तु स्थानं संकल्प्यतां बुधाः ॥ १३८ ॥

Pūrvapāda – Kapitel 72: Die Begleitgottheiten

स्थापनं परिवाराणां संक्षेपाच्छृणुत द्विजाः।
त्रिहस्तं तु समारभ्य करस्यैकस्य वर्धनात् ॥ १ ॥

मण्डपस्यास्य विस्तारो नवहस्तान्तं एव हि।
तन्मध्ये वेदिकोपेतं षोडशस्तम्भ संयुतम् ॥ २ ॥

रविस्तम्भयुतं वापि चतुस्स्तम्भयुतं तु वा।
कुण्डं वा स्थण्डिलं वापि शरवेदैक संख्यया ॥ ३ ॥

वृत्तं वा चतुरश्रं वा कुण्डं कुर्याद्दिगश्रकम्।
मातॄणां नवकुण्डं वा चैककुण्डमथापि वा ॥ ४ ॥

योग्यानां रत्नविन्यासं नेत्रोन्मीलनं एव च।
पञ्चगव्यादिभिस्तेषां शुचिं तोयाधिवासनम् ॥ ५ ॥

ततो मण्डप संस्कारं ततो बिम्बादि शोधनम्।
कौतुकं शयनारोहं कुम्भविन्यासं एव च ॥ ६ ॥

कृत्वा तु पूर्ववत्सर्वं स्वनामाद्यक्षरेण तु।
तत्तद्वर्णादि संस्थाने यजेत्सम्यक् शिवद्विजाः ॥ ७ ॥

तेषां मूर्त्यादि विन्यासं कृत्वा होमं समाचरेत्।
पलाशोदुम्बराश्वत्थ वटैः पूर्वादि दिक्षु च ॥ ८ ॥

समिदाज्य चरून् लाजान् तितलं च जुहुयात्क्रमात्।
ततः प्रभाते बिम्बाद्यं कुम्भानग्निम्श्च पूजयेत् ॥ ९ ॥

दक्षिणां दापयेत्पश्चादाचार्यादेर्विधानतः।
निष्कादि दशनिष्कान्ता गुरावन्येषु पूर्ववत् ॥ १० ॥

मुहूर्तनाडिका पूर्वं मन्त्रन्यासं समारभेत्।
कुम्भाद्बीजं समादाय विन्यसेत् स्वस्वदेशके ॥ ११ ॥

प्रासादतारपादं वा तदर्धं वा त्रिपादकम्।
समं सपादं सार्धं वा सजगत् पादुका बहिः ॥ १२ ॥

न्यस्त्वा संस्थापयेत् पीठान् अथवादौ विधाय तान्।
प्रतिष्ठां कारयेन् मुक्तारत्नन्यासं प्रदक्षिणम् ॥ १३ ॥

जलाधिवासनं कुर्यादन्यत्कर्म समारभेत्।
महापीठ प्रतिष्ठाया विधानं अधुनोच्यते ॥ १४ ॥

पूर्व पश्चिम सोमेषु मण्डपं पूर्ववन्नयेत्।
वेदैक संख्यया कुण्डं वेदाश्रं स्थण्डिलं तु वा ॥ १५ ॥

पञ्चगव्यादिभिः पीठशुद्धिं कृत्वा च कौतुकम्।
स्थण्डिले वेदिकायां तु कुम्भन्यासं तु कारयेत् ॥ १६ ॥

मध्यपूर्व यमाप्येन्दु शङ्करस्थ घटेष्वथ।
अविघ्नं च तथामोदं प्रमोदं प्रमुखं तथा ॥ १७ ॥

दुर्मुखं विघ्नकर्तारं न्यस्त्वा वर्णांस्तु भावयेत्।
अविघ्नं विद्रुमप्रख्यं आमोदं श्यामवर्णकम् ॥ १८ ॥

प्रमोदं कृष्णवर्णं च प्रमुखं स्फटिकप्रभम्।
दुर्मुखं कुङ्कुमाभं च ध्यात्वैवं पूजयेद्गुरुः ॥ १९ ॥

पीठे तत्त्वेश मूर्त्यादि न्यासं होमं समाचरेत्।
जङ्घागलकपद्मान्तं आत्मतत्त्वादिकं न्यसेत् ॥ २० ॥

समिदाज्यचरून् लाजान् सर्षपं च यवं तिलम्।
क्रमेण जुहुयाद्धीमान् पलाशोदुम्बरा वटम् ॥ २१ ॥

अश्वत्थं प्राग्दिगारभ्य पूर्ववद्धोमं आचरेत्।
संपूज्य पीठं कुम्भांश्च प्रभाते पावकं तथा ॥ २२ ॥

दक्षिणां पूर्ववद्दत्वा मन्त्रन्यासं समारभेत्।
अविघ्नं कर्णिका मध्ये विन्यसेत् कुम्भमध्यगम् ॥ २३ ॥

आमोदादीन् न्यसेद्धीमान् चतुर्दिक्ष्वीश कोणके।
तत्तत्कुम्भोदकेनैव स्नापयेत्पीठमादरात् ॥ २४ ॥

एवं स्याद्भूतपीठस्य पैशाचेऽप्येवमाचरेत्।
किन्तु मध्यम कुम्भस्य मध्यमे नीललोहितम् ॥ २५ ॥

नक्षत्रं पूर्वदिग्भागे राशिं चैव तु दक्षिणे।
पश्चिमे क्षेत्रपालं च सोमे विश्वगणान् न्यसेत् ॥ २६ ॥

रुद्रांश्च पूर्वदिक्कुम्भे याम्ये मातृगणान् न्यसेत्।
गणान् पश्चिमदिग्भागे यक्षानुत्तर दिग्गते ॥ २७ ॥

ग्रहानीशान दिग्भागे वह्नावसुर संज्ञकान्।
राक्षसान् पितृदेशे तु वायौ नागगणान् न्यसेत् ॥ २८ ॥

तद्बाह्ये कलशान् स्थाप्य लोकपालाधिदैवतान्।
संपूज्य गन्ध पुष्पाद्यैः नैवेद्यान्तं हि देशिकः ॥ २९ ॥

एतदेव विशेषं स्यादन्यत्सर्वं समानकम्।
कर्णिकायां न्यसेत्पञ्च गणानष्टौ दलेषु च ॥ ३० ॥

दलबाह्ये न्यसेद्धीमान् लोकेशान् स्वस्वदिग्गतान्।
मन्त्रन्यास विशेषोऽयं पिशाचबलिपीठके ॥ ३१ ॥

अनुक्तं यन्नयेत्सर्वं प्रतिमा स्थापनोक्तवत् ॥ ३२ ॥

Pūrvapāda – Kapitel 73: Die Verehrung der Begleitgottheiten

परिवारार्चनं वक्ष्ये श्रूयतां मुनिपुङ्गवाः।
आदौ प्रणवयुक्स्वस्ववर्णो विष्णु समन्वितः ॥ १ ॥

बिन्दुनाद समायुक्तश्चतुर्थ्यन्तस् सनामकः।
नमस्कारादि संयुक्तः परिवारार्चने मनुः ॥ २ ॥

पूर्वाह्ने वाथ मध्याह्ने रात्रावभ्यर्चयेत्तु तान्।
अथवा एककालं वा अन्यत्सर्वं समर्चयेत् ॥ ३ ॥

बलिं त्रिद्व्येककालं वा दापयेत्तु क्रमेण तु।
तेषां पूजा नमोन्तेन स्वाहान्त मनुना बलिः ॥ ४ ॥

गन्धपुष्पान्न धूपैश्च दीपवाद्यादि संयुतम्।
द्वारादि बलिपीठान्तं बलिं दद्याद्विशेषतः ॥ ५ ॥

पूर्वोत्तरमुखो भूत्वा धृतवस्त्रोत्तरीयकः।
कुक्कुटाण्डप्रमाणेन तदर्धेन तदर्धतः ॥ ६ ॥

नन्दिने प्रथमं दद्यान् महाकालाय पूर्वतः।
चतुर्द्वार समोपेतं भृङ्गिणे च विनायके ॥ ७ ॥

दक्षिणे पश्चिमे देशे वृषस्कन्दबलिं न्यसेत्।
देव्यै चण्डाय सोमे तु पश्चादुक्षबलिम् ददेत् ॥ ८ ॥

ततोऽष्टपरिवारादि बलिं दद्यात्क्रमेण तु।
दत्वोदकं पुनर्गन्धं पुष्पं धूपं सदीपकम् ॥ ९ ॥

दद्याद्धविष्यं पानीयसहितं बलिकर्मणि।
देवदक्षिण देशस्थः तस्माद्गच्छेत्प्रदक्षिणम् ॥ १० ॥

बलिपीठं ततो गत्वा बलिं दद्यात्तु तत्र वै।
कर्णिकायां अविघ्नस्य आमोदे पूर्वदिग्दले ॥ ११ ॥

प्रमोदे प्रमुखे चैव दुर्मुखे विघ्नकर्तरि।
दक्षिणाप्योत्तरेशेषु बलिं दद्यात्स्वनामभिः ॥ १२ ॥

सतिपैशाचिके पीठे तत्रापि बलिमाचरेत्।
एकत्र वा बलिं दद्यात् पैशाचे वाथ भौतिके ॥ १३ ॥

कर्णिका मध्यमे नीलरुद्राय बलिरीरितः।
पूर्व दक्षाप्य सौम्येषु ऋक्षादिभ्यो बलिं क्षिपेत् ॥ १४ ॥

रुद्रेभ्यः पूर्वतो दद्द्यान् मातृभ्यो दक्षिणे तथा।
गणेभ्यः पश्चिमे भागे यक्षेभ्यस्सोमदिग्दले ॥ १५ ॥

गृहेभ्यश्च तथैशान्यां असुरेभ्योऽग्निगोचरे।
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुदिग्दले ॥ १६ ॥

दलबाह्ये बलिं दद्याद्दिक्पालानां स्वनामतः ॥ १७ ॥

Pūrvapāda – Kapitel 74: Die Aufstellung des Stieres

वृषभस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम्।
अन्तर्द्वारस्य पूर्वस्मिन् कल्पयेत्प्रथमं वृषम् ॥ १ ॥

द्वितीयं मण्डपाग्रे तु पीठात्पूर्वे तृतीयकम्।
पीठे पीठे विशेषेण पश्चिमे वृषभस्थितिः ॥ २ ॥

पीठार्धं वा समं तत्र द्विगुणं त्रिगुणं तु वा।
त्यक्त्वा चतुर्गुणं वापि तस्याग्रे स्थापयेद् वृषम् ॥ ३ ॥

पूजाभाग समं श्रेष्ठं तदर्धं मध्यमं भवेत्।
तदर्धं अधमं ज्ञेयं चतुस्त्रिद्विगुणं तु वा ॥ ४ ॥

तत्तदन्तरमानं वा लोहजे वृषभं मतम्।
गर्भं कृत्वा नवांशं तु नवधा शैलजे मतम् ॥ ५ ॥

द्वारोच्चं अष्टधा कृत्वा चैकैकांश विवर्धनात्।
चतुर्गुणान्तमानं तु मृण्मये वृषभे मतम् ॥ ६ ॥

लोहजं संयजेद्द्वारे परिवारे तु शैलजम्।
पीठाग्रे मृण्मयं प्रोक्तम् शैलं वा तत्र संमतम् ॥ ७ ॥

लोहजं तु प्रकर्तव्यं स्थितं वा शयितं तु वा।
शैलं सुधामयं कार्यं शयितं तु विशेषतः ॥ ८ ॥

स्थितं वापि प्रकर्तव्यं ऋषभं देशिकोत्तमाः।
अथ सामान्य लिङ्गस्य पुरस्ताद्वृषभो मतः ॥ ९ ॥

स्वयंभुबाणलौहाख्यं रौद्रलोके प्रपूजितम्।
लोकपालाङ्कितं सिद्धं शतसाहस्रलिङ्गकम् ॥ १० ॥

मुखलिङ्गं च बेरं च विशिष्टं लिङ्गमीरितम्।
तदन्यत्र वृषः प्रोक्तस्तत्रापि कथितस्तु वा ॥ ११ ॥

ध्वजयष्टिस्तथा प्रोक्ता तल्लक्षणमिहोच्यते।
लिङ्गत्र्यंशाय संयुक्तो लंबसूत्रार्थ दृग्युतः ॥ १२ ॥

पीठोच्च पृष्ठ संयुक्तो लम्बकूर्चाग्र मस्तकः।
भक्त्वा चतुरशीत्यन्तं तेन मानं विधीयते ॥ १३ ॥

शृङ्गप्रदेश विस्तारष्षोडशाङ्गुल उच्यते।
तावदेव च दैर्घ्यं स्याद्वक्त्र तारस्तु षट्कलः ॥ १४ ॥

सृक्विणी प्रोथयोर्मध्ये दशाङ्गुअल् विनिर्मिता।
नेत्रं नेत्रसमं दैर्घ्यात्तदर्धं विस्तरेण च ॥ १५ ॥

तत्त्रिभागेन तारं स्याज्ज्योतिस्तत्पञ्चमांशतः।
नेत्रार्धान्तं भृवोस्स्थौल्यं तद्दैर्घ्यं स्याद्द्विमात्रकम् ॥ १६ ॥

नासा स्याद् द्व्यङ्गुला प्रोक्तस्तन्मध्ये वेदमात्रकः।
नासाप्रदेश विस्तारो वक्त्रं स्याद् द्वादशाङ्गुलम् ॥ १७ ॥

तदूर्ध्वे दशमात्रं स्यात्तदूर्ध्वेऽष्टादशाङ्गुलम्।
नेत्रान्तरं चतुर्मात्रं त्रिकोणे तु कपोलके ॥ १८ ॥

चतुर्नेत्रावुभौ पार्श्वौ वक्त्रसंध्योस्तु कर्णकौ।
कर्णमूलाच्च नेत्रान्तं पञ्चवक्त्रं प्रकीर्तितम् ॥ १९ ॥

कर्णमूलात्तु कर्णान्तं प्रोक्तं मन्वङ्गुलं भवेत्।
कर्णमूलौ द्विमात्रौ तु तद्वदुच्च समन्वितौ ॥ २० ॥

तत्रैव वर्तुले कार्ये दशाङ्गुल सुनाहके।
कर्णौ पञ्चाङ्गुलायामौ कलावृत्त समुद्भवौ ॥ २१ ॥

पञ्चाङ्गुल पृथूमध्ये परितः परतः कृशौ।
षडङ्गुलावृतौ मूले ऋजुरेखा विभूषितौ ॥ २२ ॥

शृङ्गमूलं चतुर्मात्रं षडङ्गुल समुच्छ्रयम्।
अर्धाङ्गुलाग्र विस्तारो मनाग्वक्र समन्वितः ॥ २३ ॥

शृङ्गमूलस्थितं पिण्डं हित्वा भागान्तरे मतम्।
पिण्डमङ्गुलमानं स्यादुच्छ्रितं शृङ्गमूलयोः ॥ २४ ॥

शृङ्गाग्रादवटं यावत् षण्णेत्रं चान्तरं मतम्।
अष्टनेत्रायता ग्रीवा ककुद्दैर्घ्यं त्रिणेत्रतः ॥ २५ ॥

त्रिणेत्रमुच्छ्रयादुक्तं मानं वक्त्रं च मूर्धनि।
ककुदोऽधोष्टनेत्रस्तु जङ्घा पञ्चदृगायता ॥ २६ ॥

सन्धिरेकाङ्गुला प्रोक्ता चतुर्नेत्रोपजङ्घिका।
सार्धनेत्रं ततो गुल्पे द्विनेत्रो खुरकौ पुनः ॥ २७ ॥

गुल्पाधः खुरिके कांस्ये नेत्रपादे समे यथा।
जङ्घामूलावृतिस्सप्त दशमात्रा प्रकीर्तिताः ॥ २८ ॥

जङ्घाग्रे तिथिमात्रं स्यान् मनुमात्राङ्गुलक्रमात्।
मूलाग्रे चोपजङ्घाया वेष्टनं परिकीर्तितम् ॥ २९ ॥

खुरयोरष्टमात्रं स्यात् हित्वा वेष्टनमात्रकम्।
ककुदः पृष्ठमानं तु षट् त्रिंशन्मानमीरितम् ॥ ३० ॥

तत्र त्रिकटमात्रं तु षडङ्गुलमिति स्मृतम्।
त्रिकटा नतिमानं तु द्वादशाङ्गुअमीरितम् ॥ ३१ ॥

तस्माच्च परतः पुच्छसन्ततिस्तु प्रकीर्तिता।
पुच्छमूलं चतुर्मात्रं अग्रेऽङ्गुल विनिर्मितम् ॥ ३२ ॥

त्रिंशदङ्गुल मानेन पुच्छदैर्घ्यं प्रकीर्तितम्।
षडङ्गुल प्रमाणेन तस्मात्स्यात्केशसन्ततिः ॥ ३३ ॥

पृष्ठे त्रिकटि देशे च तारो विंशति मात्रकः।
विस्तार देहमध्ये तु षोडशाङ्गुल उच्यते ॥ ३४ ॥

ककुत्सन्धि प्रदेशे तु विस्तारं मनुमात्रकम्।
ग्रिवाधस्ताच्चतुर्मात्रं सास्नालम्बः प्रकीर्तितम् ॥ ३५ ॥

सा चाष्टादश मात्रा स्याज् जङ्घान्तायति संयुता।
अशीत्यङ्गुल विस्तारा कुक्षिर्नाभेः प्रकीर्तिता ॥ ३६ ॥

मध्यपाच्चाग्रदेशे तु षष्ट्यङ्गुलमिति स्मृतम्।
नाभिर्नेत्रद्वयेन स्याद् द्विनेत्रौ वृषणौ मतौ ॥ ३७ ॥

विस्तारायाम मानेन परजङ्घा दशाङ्गुला।
सन्धिर्द्विमात्रष्षण्णेत्रा चोपजङ्घा प्रकीर्तिता ॥ ३८ ॥

द्विनेत्रौ गुल्पकौ ज्ञेयौ खुरौ पञ्चाङ्गुलौ मतौ।
खुरके द्व्यङ्गुले कार्ये द्वाविंशत्यङ्गुलेन तु ॥ ३९ ॥

जङ्घा मध्यमनाहस्स्यात् सन्धिदेशे पुनस्त्रयः।
वेष्टनं चोपजङ्घायाष्षोडशाङ्गुलमुच्यते ॥ ४० ॥

द्व्यङ्गुल पृष्ठदैर्घ्यं स्याद् अधस्त्वष्टाङ्गुलो मतः।
एषा वृषक्रिया शक्तिपर्यन्त व्याप्ति संयुता ॥ ४१ ॥

अथवान्यप्रकारेण वृषलक्षणं उच्यते।
भक्त्वा पञ्चांशमुत्सेधं त्रिमात्रं खुरमुच्यते ॥ ४२ ॥

मूलव्यासश्चतुर्मात्र शृङ्गाग्रं स्यात् द्विमात्रकम्।
नवमात्रं ललाटस्स्यान् मुखव्यासस्स्वराङ्गुलः ॥ ४३ ॥

उत्सेधश्च समस्तेन नेत्रायामं द्विमात्रकम्।
सार्धाङ्गुलं तदुच्चं स्यान् नेत्रमध्या मुखाकृतिः ॥ ४४ ॥

चतुर्नेत्राङ्गुलं पृष्ठं ग्रीवायास्तु षडङ्गुलः।
पक्षपञ्चांशमुत्सेधं तेन मानं प्रकीर्तितम् ॥ ४५ ॥

पञ्चषाङ्गुलमायामे प्रोक्तं तु मुनिसत्तमाः।
आरभ्य मूर्ध्नः कण्ठाधो दशाङ्गुल इति स्मृतः ॥ ४६ ॥

ग्रीवोच्चं वसुमात्र स्यात्तयोर्दैर्घ्यं षडङ्गुलम्।
अनुत्सेधं तु षण्मात्रं जानुमात्रं द्विमात्रकम् ॥ ४७ ॥

जङ्घा द्वित्र्यङ्गुला दैर्घ्यात् त्रिमात्रं खुरमुच्यते।
शृङ्गान्तरं द्विमात्रं स्यात् तयोर्दैर्घ्यं षडङ्गुलम् ॥ ४८ ॥

मूलव्यासं चतुर्मात्रं ललाटोच्चं मुनीश्वराः।
नेत्रकर्णान्तरं तद्वत् कर्णायामश्शराङ्गुलः ॥ ४९ ॥

त्रिमात्रं उत्तरोष्ठोच्चं अधरोष्ठं द्विमात्रकम्।
मूलायामोच्च विस्तारो द्विमात्रैकत्रिमात्रकैः ॥ ५० ॥

पञ्चनेत्राङ्गुलं कर्णव्यासो मूलोक्तमात्रकम्।
पञ्चाशद् ग्रीवविस्तारो मूलविस्तार एव च ॥ ५१ ॥

षड्वस्वङ्गुल इत्युकतः क्रमेण द्विजपुङ्गवाः।
ककुत् षडङ्गुलव्यास उत्सेधो द्विमात्रकः ॥ ५२ ॥

कर्णस्याग्रविशालं तु द्विमात्रं युक्तितो न्यसेत्।
ककुदस्तु शरीरोच्चं प्रोक्तं अष्टादशाङ्गुलम् ॥ ५३ ॥

द्विसप्तमात्रं पृष्ठे स्याद् विस्तारो द्वादशाङ्गुलः।
अन्योन्य मूलमध्याग्र व्यासो वेदाङ्गुलेन च ॥ ५४ ॥

अष्टाङ्गुलेन दिङ्मात्रैः क्रमेणैव भवेद्द्विजाः।
पञ्चाङ्गुलं तथायामो जानुदेशं द्विमात्रकम् ॥ ५५ ॥

जङ्घा पञ्चाङ्गुलोत्सेधा त्र्यङ्गुला स्याद्विशालतः।
खुरोत्सेधं द्विमात्रं स्यात् तथास्यात्पुच्छमूलकम् ॥ ५६ ॥

सार्धाङ्गुलं तु पुच्छाग्रं जङ्घान्तं तस्य लम्बनम्।
मुष्कायाम विशाले तु द्विमात्रे च यथाक्रमम् ॥ ५७ ॥

जङ्घायामं त्रिमात्रं स्याद् उदराङ्गुलमायतम्।
शेषायामं त्रिमात्रं स्याद् गुदं मायाङ्गुअलं भवेत् ॥ ५८ ॥

ऊरुमूलाग्र विस्तारो वेदाङ्गुलमिति स्मृतम्।
जङ्घाग्रं तु त्रिमात्रं स्याच्छेषं युक्तिबलान्नयेत् ॥ ५९ ॥

घनं वाप्यघनं वापि लोहजं परिकल्पयेत्।
वेणुवस्त्रादि वेत्रेण सदनं परिकल्पयेत् ॥ ६० ॥

सकलस्य तु यन्मानं तन्मानं वा वृषोदये।
उक्तेऽध्यर्धयवाद्यष्ट उच्छायस्य यवाङ्गुअलम् ॥ ६१ ॥

हीनं वाप्यधिकं कार्यं कर्तुरिच्छवशेन तु।
नाना भूषण संयुक्तं घण्टाजाल समन्वितम् ॥ ६२ ॥

प्रतिमोक्ताय जात्यंशं तद्वदायादि शोभनम्।
एवं लक्षणं आख्यातं स्थापनं श्रूयतां द्विजाः ॥ ६३ ॥

कालोऽपि पूर्ववत् ज्ञेयः तद्वदेवाङ्कुरार्पणम्।
मण्डपं परिवारोक्त मार्गेणैव समाचरेत् ॥ ६४ ॥

पञ्चैक कुण्डे होमं स्यात्तथैव स्थण्डिलेऽपि वा।
रत्नन्यासं प्रकर्तव्यं शैलजे लोहजेऽप्यथ ॥ ६५ ॥

रत्नार्थं हेमपद्मं वा मृण्मयादौ विवर्जयेत्।
ततोऽक्षिमोचनं शुद्धिः ग्रामादीनां प्रदक्षिणम् ॥ ६६ ॥

तोयाधिवासनं प्राप्य ततो मण्डप संस्कृतिः।
द्विजसंभोजनं पुण्यतोयसेचनं एव च ॥ ६७ ॥

वास्तुहोमं तथा शय्या स्नपनं कौतुकं तथा।
वृषस्य दक्षिणे शृङ्गे कौतुकं बन्धयेद्गुरुः ॥ ६८ ॥

शयनारोहणं कुम्भस्थापनं पूर्ववन्नयेत्।
सप्तवर्गाच्चतुर्थान्तं सप्तस्वर विभूषितम् ॥ ६९ ॥

बिन्दुनाद समायुक्तं आदौ प्रणव संयुतम्।
वृषभाय नमश्चान्ते तस्मिन् ब्रह्माङ्ग कल्पना ॥ ७० ॥

मध्यकुम्भे वृषः प्रोक्तः परितोऽष्टसु लोकपाः।
अथ विद्येश्वरान् वापि वृषस्य परितो न्यसेत् ॥ ७१ ॥

उक्षा च गोपतिश्चापि शङ्कुकर्णस्तथैव च।
तीक्ष्णशृङ्गस्तथा नन्दी विषाणी पशुभृत्तथा ॥ ७२ ॥

महोदरोऽष्टमश्चैतान् स्वस्वबीजेन विन्यसेत्।
संपूज्य गन्धपुष्पाद्यैः मुद्गान्नं तु निवेदयेत् ॥ ७३ ॥

चरुकल्पे तथैव स्यात् तत्त्वमूर्त्यादिकं न्यसेत्।
अग्निकार्यं ततः कुर्यात् प्रागुक्त विधिना सह ॥ ७४ ॥

समिदाज्य चरून् लाजान् मुद्गमाषान् क्रमाद्धुनेत्।
प्रभाते देशिकः शुद्धः पूजाहोमं च कारयेत् ॥ ७५ ॥

आचार्य पूजा स्यादन्ते होतृभ्यश्चापि दक्षिणाः।
सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् ॥ ७६ ॥

चलं चेद्वृषभस्थानं वेद्यन्ते च स्वदेशके।
मूलमन्त्रेण संस्थाप्य गन्धपुष्पादिभिर्यजेत् ॥ ७७ ॥

ततः कुम्भान् समाहृत्य वृषाग्रे स्थण्डिले न्यसेत्।
कुम्भाद्बीजं समादाय वृषस्य हृदये न्यसेत् ॥ ७८ ॥

अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत्।
ततः कुम्भोदकेनैव स्नापयेद्वृषमादरात् ॥ ७९ ॥

ध्वजस्यारोपणेऽप्येवं किन्तु तद्दण्डमूलके।
कुम्भाभिषेकः कर्तव्यस्तत्र प्रोक्षणं एव च ॥ ८० ॥

Pūrvapāda – Kapitel 75: Die Aufstellung des Torbaus

स्थापनं गोपुराणां च वक्ष्ये लक्षण पूर्वकम्।
मूलप्रासाद विस्तारे सप्ताष्ट नवभागिके ॥ १ ॥

दशैकादश भागे तु तत्तदेकोन भागतः।
द्वारशोभादि मानं स्याद् गोपुरान्तं विशालतः ॥ २ ॥

क्षुद्रेऽल्पे च तदुद्दिष्टं मध्यमानं विधीयते।
धाम्नि तारे चतुष्पञ्च षड्भागेन विभाजिते ॥ ३ ॥

सप्ताष्टधा कृते तेभ्यो विभागो गोपुरान्तकः।
द्वारशोभादि विस्तारः पञ्चधा परिकीर्तितः ॥ ४ ॥

त्रिभागैकमथार्धं च त्रिभागे तु द्विभागकम्।
चतुर्भागे त्रिभागं च पञ्चांशे चतुरंशकम् ॥ ५ ॥

ज्येष्ठधाम्नां विशालं स्याद् गोपुरान्तं क्रमेण तु।
द्विहस्तादि द्विरष्टान्तं व्योमारत्नि विवृद्धितः ॥ ६ ॥

प्रत्येकं त्रित्रिमानं स्याद् गोपुरान्तं विशालतः।
एकविंशत्करान्तं तु त्रिहस्ताद् द्विकवर्धनात् ॥ ७ ॥

पूर्ववत्तिथिसंख्याता मानशोभादि विस्तरे।
आरभ्य नन्दहस्तं तु द्विद्विहस्त विवर्धनात् ॥ ८ ॥

सप्तत्रिंशत्करान्तं तु गोपुरान्त विशालता।
त्रिपञ्चदशसप्तात्तु एकहस्त विवर्धनात् ॥ ९ ॥

पञ्चमानं द्विरष्टाभ्यां पञ्चस्वेकस्य सम्मतम्।
अन्यथा हस्तमानेन विस्तारः प्रविधीयते ॥ १० ॥

पञ्चादि विश्वहस्तान्तं चैकैककर वृद्धितः।
प्रथमावरणे द्वारशोभा विस्तार इष्यते ॥ ११ ॥

तिथिहस्तात्त्रयोविंशत्यन्तास्स्युर्द्वार शालके।
पञ्चविंशति हस्तात्तु त्रयस्त्रिंशत्करान्तकः ॥ १२ ॥

द्वारप्रासाद विस्तारः पञ्चमः परिकीर्तितः।
पञ्चविंशत्समारभ्य त्रिचत्वारिंशदन्ततः ॥ १३ ॥

द्वारहर्म्य विशालस्यान् नवपञ्च करादितः।
त्रिपञ्चाशत्करान्तं तु विशालो गोपुरस्य तु ॥ १४ ॥

एकद्वितिचतुष्पञ्च हस्तैर्न्यूनं तु वाधिकम्।
नगरग्रामवेशादौ मानं गोपुरविस्तरे ॥ १५ ॥

सार्धद्विपादत्रिगुण त्र्यंशैकद्व्यंशमायते।
कल्पयेद् द्वारशोभादौ सप्तांश दशभागिकम् ॥ १६ ॥

चतुरंश षडंशं तु सप्तांशे चतुरंशकम्।
नन्दांशे भूतभागं च द्विगुणं च प्रकल्पयेत् ॥ १७ ॥

द्वारायतन तुङ्गार्थं खलूरी गोपुरादिकम्।
मानमप्यथ संग्राह्यं निर्गमं चापि तत्समम् ॥ १८ ॥

गोपुरस्य विशालं तु कृत्वा विंशति भागिकम्।
एकाद्यष्ट दशांशान्तं गोपुराणां गुरूत्तमाः ॥ १९ ॥

निर्गमं सालबाह्याद्वा तदन्तर्वा समाचरेत्।
सार्ध हस्तात्तु पादोन द्विहस्ताद् द्विकरात्क्रमात् ॥ २० ॥

षण्णन्द रविमात्रैस्तु वर्धयेद्देशिकोत्तमः।
पञ्चसप्तनवान्तस्तु द्वारतारः पृथग्भवेत् ॥ २१ ॥

तिथिसंख्या च हीने स्यान् मध्ये श्रेष्ठं तु सम्मतम्।
पञ्चांशे द्वारविस्तारे सप्तांशे रविभाजिते ॥ २२ ॥

दशांशो द्विगुणः पादाद् अधिकः पञ्चधोच्छ्रयः।
मूलधाम्नि मसूरादि तुङ्गाद्वेदांशकादिकः ॥ २३ ॥

रविभागावसानं तु कृत्वैकांशं विहाय च।
कृत्वा मसूरपादं च तच्छेषेणैव पीठकम् ॥ २४ ॥

योजयेद्गोपुरद्वारं तुङ्गवृद्ध्यार्धमेव च।
अथ प्रागुक्त भागे तु वर्धितं सममेव वा ॥ २५ ॥

धामाङ्गोक्ताखिलं मानं गोपुराङ्गेषु वा मतः।
छेदयेत्तधिष्ठानं सोपपीठे तु केवलम् ॥ २६ ॥

उत्तरान्त समुत्सेधं तदर्धं विस्तृतान्वितम्।
गोपुरद्वार तुङ्गं वा कारयेद्वास्तुशास्त्रवित् ॥ २७ ॥

एकद्वित्रितलं कुर्याच्छोभायामेक वृद्धितः।
तलादिकमथो कुर्यात् पञ्चषट्सप्त भूमिकम् ॥ २८ ॥

गोपुरं तु विधेयं स्यान् मध्यमेऽप्येवमूह्यताम्।
द्वार शोभा द्वार शाला द्वारप्रासाद हर्म्यके ॥ २९ ॥

गोपुरेणैव पञ्चान्तं मण्डलादिषु संस्थिताः।
मसूरस्थम्भ मानं तु प्रागेव प्रदिपादितम् ॥ ३० ॥

तदूर्ध्व प्रस्तरात्स्थूपि पर्यन्ते मानमुच्यते।
षोढा विभज्य तत्तुङ्गं प्रस्तरैस्साङ्घ्रि भागकैः ॥ ३१ ॥

तद्वत्कण्ठशिरोध्यर्ध भागेन स्थूपिकांशकः।
एवं एकतलं प्रोक्तं द्वितलं च विधीयते ॥ ३२ ॥

तदुच्चं नवधा कृत्वा साङ्घ्र्येक प्रस्तरोदयः।
एकांशं गलमित्युक्तं सार्धद्व्यंशं शिरो भवेत् ॥ ३३ ॥

शेषश्शिरोद्धृतः प्रोक्तः द्वितलं त्वेतदीरितम्।
द्वादशांशं त्रिभूम्युच्चैः कपोतं साङ्घ्रिभाग भाग् ॥ ३४ ॥

सार्धद्व्यंशं च पादोच्चं प्रस्तरो भाग एव हि।
द्विपागः पाददैर्घ्यं स्यादष्टांशेनांशमानतः ॥ ३५ ॥

तदुच्चं चांशो ग्रीवोच्चं सार्धद्व्यंशश्शिरो भवेत्।
शेषेण स्थूपिकोत्सेधस्त्रितलं चैवमीरितम् ॥ ३६ ॥

उत्तरादि शिखान्तं यन्मानं अष्टादशांशकम्।
त्रिभागसहितं भागमन्तोच्चं प्रविधीयते ॥ ३७ ॥

सार्धद्व्यंशं तु पादोच्चं साङ्घ्र्येक प्रस्तरोदयः।
भागेन गलमानं स्यात् त्रिभागैश्शिखरोदयः ॥ ३८ ॥

शेषेण स्थूपिका प्रोक्ता पञ्चभौमं अतः परम्।
उत्तरादि शिखान्तं चाप्येकोनत्रिंशदंशकम् ॥ ३९ ॥

भगार्धं प्रस्तरं कुर्यात् पादोच्चं चतुरंशकम्।
पादोनद्व्यंशकं मञ्च सार्धद्व्यंशं तु पादपः ॥ ४० ॥

त्रिपादांशैककं मञ्चं त्रिभागात्पादपायतिः।
सपादांश कपोतोच्चं ऊर्ध्वभागाद् द्विभागतः ॥ ४१ ॥

प्रस्तरोच्चं द्विभागेन कन्धरोच्च समोभवेत्।
सार्धद्व्यंशश्शिरस्तुङ्गः शेषेण स्याच्छिरोदयः ॥ ४२ ॥

एवं तु षट् तलं प्रोक्तं सप्तभौमं अथोच्यते।
उत्तरादि शिखान्तं यन्मानं षट् त्रिंशदंशकम् ॥ ४३ ॥

साङ्घ्रि द्व्यंशं कपोतं स्यात् सार्धवेदांशतोऽधिकम्।
द्विभागः प्रस्तरोसेधः पादोच्चं वेदभागतः ॥ ४४ ॥

सत्रिपादांशकं मञ्चं सार्धद्व्यंशस्तु पादपः।
मञ्चं पादोनभागाभ्यां त्रिपादः पादवैधृतिः ॥ ४५ ॥

सार्धांशं प्रस्तरोच्चं स्यात् द्व्यंशस्त्वन्त तलायतिः।
सपादभागं मञ्चोच्चं सार्धभागद्विभागकम् ॥ ४६ ॥

कपोतोच्चं तु भागेन कन्धरं तत्स्मं भवेत्।
सद्विपादद्विभागेन शिरश्शिष्टाः शिखा मताः ॥ ४७ ॥

सप्तभौमं इदं श्रेष्टं तदूर्ध्वे पूर्वमानभाक्।
स्तम्भप्रस्तर भागाभ्यां कल्पिताभ्यां अधस्तले ॥ ४८ ॥

रविभौमान्तमिष्टं स्याद् गोपुराणामिहागमे।
उक्तानि गोपुराङ्गानि विभजेच्चतुरंशकम् ॥ ४९ ॥

आरभ्याष्टदशांशं तेष्वेकांशं तु नवांशकम्।
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुःपञ्च षडङ्गुलम् ॥ ५० ॥

वर्धयेद्ध्रासयेद्वापि युक्त्या प्रागुक्त मानतः।
पञ्चभागे विशाले तु त्रिभागे गर्भ विस्तरः ॥ ५१ ॥

शेषेण भित्तिरत्रोक्ता व्योमभूमौ मुनीश्वराः।
व्यासस्सप्तांश वेदांशो गर्भकूटस्तु भागभाक् ॥ ५२ ॥

कोष्ठस्यात्मग विस्तार दैर्घ्यं पञ्चांशमिष्यते।
कूट कोष्ठान्तराले तु पञ्जरादि विभूषितम् ॥ ५३ ॥

एवं विशालं आख्यातं त्रितलं चाधुनोच्यते।
तारे नवांशे गर्भस्स्यात् त्रिभागस्तद्बहिः क्रमात् ॥ ५४ ॥

गृहपिण्डस्यलिन्द हारांश्च क्रमेण परिकल्पयेत्।
कूट कोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥ ५५ ॥

विशाले पङ्क्तिभागे तु गर्भगेहे त्रिभागतः।
सार्धांशो भित्तिविष्कम्भ एकभागं अलिन्दकम् ॥ ५६ ॥

खण्डहर्म्यं तु भागेन कूट कोष्ठादि पूर्ववत्।
मुखे पृष्ठे महाशाला पञ्चांशो वा षडंशकः ॥ ५७ ॥

चतुर्भौमं इदं ख्यातं सर्वावयव सुन्दरम्।
विस्तारे रुद्रभागे तु नालीगेहं त्रिभागतः ॥ ५८ ॥

द्विभागो भित्तिविष्कम्भो व्योमांशस्स्यादलिन्दकः।
एकांशं खण्डहर्म्यं स्यादन्यत्सर्वं समानकम् ॥ ५९ ॥

पञ्चभौमं समाख्यातं षड्भौमं अधुनोच्यते।
विस्तारे रविभागे तु नालीगेहं युगांशकम् ॥ ६० ॥

द्विभागो भित्ति विस्तारो द्वारांशेन प्रकीर्तितः।
भागेन खण्डहर्म्यं स्यादन्यत्सर्वं समानकम् ॥ ६१ ॥

षष्टभौमं इदं प्रोक्तं सप्तमं त्वधुनोच्यते।
त्रयोदशांशे विस्तारे गर्भस्स्यादंशभागभाक् ॥ ६२ ॥

सार्ध द्व्यंशं तु भित्तिस्स्याद् एकेनालिन्दमिष्यते।
खण्डहर्म्यमिहैकांशं कूटशालादि पूर्ववत् ॥ ६३ ॥

पृष्ठे मुखे महाशाला षड्भागेन प्रकीर्तिता।
पञ्चांशे हस्तिपृष्ठे च पक्षशालादिभिर्युतः ॥ ६४ ॥

नानामसूरकस्तम्भ वेदिकाजाल तोरणम्।
सप्तभौमं इदं प्रोक्तं गोपुरं सार्वदेशिकम् ॥ ६५ ॥

मूलभूद्वार विस्तार पञ्चांशेन विशालभाक्।
चतुरंशोनकं वा स्यादूर्ध्वद्वारं तु विस्तरात् ॥ ६६ ॥

उपर्युपरि द्वारं स्यान् मध्याधमोत्तमान्वितम्।
सोपानगर्भगेहे तु तलं प्रति समाचरेत् ॥ ६७ ॥

उपपीठे चतुष्खण्ठे सोपानं प्रविधीयते।
मण्डपाभं भवेद् द्वारं शोभायै पण्डितेश्वराः ॥ ६८ ॥

दण्डशाला समाकारा द्वारशाला प्रकीर्तिताः।
प्रासादाकृतिवद् द्वारप्रासादं परिपठ्यते ॥ ६९ ॥

मालिकाकृतिवद् द्वारहर्म्यं स्यान्मुनिसत्तमाः।
शालाकार समं कुर्याद् द्वारगोपुरं अन्तिमम् ॥ ७० ॥

सर्वत्र गोपुरं कुर्याद्यथाशक्ति विशेषतः।
पञ्चभागादि भागं वा चैकत्रिंशत्समावधि ॥ ७१ ॥

भागान्कृत्वा विशालांस्तु गोपुरस्य द्विभागतः।
वृद्ध्या भागोऽर्धमानेन तिथ्यंशान्तं प्रकल्पयेत् ॥ ७२ ॥

गर्भगेह विशालं स्याच्छोभादीनां मुनीश्वराः।
तेनविस्तार भागेन व्योमांश द्विगुणावधि ॥ ७३ ॥

सायतं वा समं वापि गर्भगेहं प्रकल्पयेत्।
तस्मादूर्ध्वं तु दैर्घ्यं स्यादधिकं द्वारतारकम् ॥ ७४ ॥

यथा भवेत्तथा कुर्याद् गोपुरं मुनिपुङ्गवाः।
गर्भगेहात्समन्तात्तु गर्भार्धात्पादवृद्धितः ॥ ७५ ॥

त्रिभागावधि कुड्यं च व्योमादि बहुसंख्यकः।
तथालिन्दं च हारं च कल्पयेत्कल्पवित्तमः ॥ ७६ ॥

अंशमानेन वा द्वारतारं वा गोपुरं भवेत्।
त्रिभागं तु समारभ्य अर्धांशात्तिथिसंख्यया ॥ ७७ ॥

यावद्द्वार विशालार्थं अंशानत्र प्रयोजयेत्।
प्रासादालङ्कृतिं चैव शालायालङ्कृतिं तु वा ॥ ७८ ॥

सर्वं वा गोपुरे कुर्यात्सञ्चितादि विभेदतः।
नानामसूरकोपेतं नानास्तम्भ समन्वितम् ॥ ७९ ॥

नानाप्रस्तर संयुक्तं वेदाश्र गलसंयुतम्।
वलभ्यादि शिरोयुक्तं बहुस्थूपि समन्वितम् ॥ ८० ॥

कूटशालैकतुण्डैश्च पञ्जरैः पक्षशालया।
आयामांशाधिकैर्वापि समांशैः परिकल्पयेत् ॥ ८१ ॥

नानाद्वार समायुक्तं वृषस्थल समन्वितम्।
धाम्नां समस्तभूषाभिः अन्याभिस्समलङ्कृतम् ॥ ८२ ॥

मूलधामोनभौमं वा समभौमं तु वाधिकम्।
खलूरिका विधानोक्तरीत्या चैतत्समाचरेत् ॥ ८३ ॥

दिग्विदिक्षु तदिष्टं स्यात् पूर्ववत्प्रथमेष्टकाम्।
मूर्धेष्टक विधानं च धामोक्त विधिनाचरेत् ॥ ८४ ॥

किञ्चिन्मध्ये द्वयोर्वापि चैकं स्यात्स्थूपिकासु वा।
कृत्वोर्ध्वशैलं प्रत्येकं चतुस्संख्यं निवेश्य च ॥ ८५ ॥

तदूर्ध्वं स्थूपिकां स्थाप्य स्थूपिकोक्त विधानतः।
किञ्चैतदधिदेवांश्च ज्ञानाख्य क्रियया सह ॥ ८६ ॥

त्रिषुचेत्स्युस्त्रितत्त्वानि चतसृषु कलाः स्मृताः।
निवृत्तिं च विना ब्रह्मरहिताः कारणं तु वा ॥ ८७ ॥

सद्योजातादिका वापि निवृत्त्याद्यास्तु पञ्चसु।
अण्डान्तर्वर्तिनष्षट्सु कलान्यासाः प्रकीर्तिताः ॥ ८८ ॥

कलाद्यास्सप्त विज्ञेया विद्येशा वसुकल्पने।
वामाद्या नवकल्पे स्युर्लोकपाला दशाख्यके ॥ ८९ ॥

रुद्रसंख्ये तु रुद्रास्स्युरादित्याश्चार्क संख्यके।
विश्वेरुद्राश्विनी प्रोक्ताश्चतुष्पञ्चदशान्विते ॥ ९० ॥

तिथयो भुवनान्युक्ता दक्षादारभ्य पश्चिमे।
तत्तत्स्वनाम मन्त्रेण न्यसेत्तद्धाम्नि निर्मिते ॥ ९१ ॥

गोपुरस्थापनं कुर्यात् तदग्रे मण्टपे कृते।
पूर्वोक्त विधिना युक्त कुण्डे वा स्थण्डिलेऽपि च ॥ ९२ ॥

नवकुण्डैक संख्ये वा पुण्याह प्रोक्षणान्विते।
स्थण्डिले वेदिकोर्ध्वे च अष्टौ च स्थापयेद्घटान् ॥ ९३ ॥

मध्यमे महादिक्षु शान्त्यादीन् तत्र पूजयेत्।
शतसंख्यैस्तदर्धैर्वा तन्मन्त्रैस्समिदादिभिः ॥ ९४ ॥

पूर्णां दत्वेष्टिसन्तुष्टे गुरुः पञ्च घटोदके।
शान्त्यादीन् आदितो न्यस्त्वा तन्मनूनभिषेचयेत् ॥ ९५ ॥

क्रियैषा प्रचुरा कार्या प्रधाना देशिकोत्तमाः।
अन्यत्राप्यनुकल्पं स्यात् प्रचुरा वा प्रकीर्तिता ॥ ९६ ॥

गोपुरं प्रतियोज्यास्स्युः नन्द्याद्याश्च द्विपार्श्वयोः।
निष्कले पश्चिमद्वारं सकले दक्षिणं हितम् ॥ ९७ ॥

Uttara Pada (Teil 2)

Hier geht es zum zweiten Teil vom Devanagari Sanskrit Text Kamika Agama

Textgrundlage und Zählung

Alle 156 Kapitel und 9.107 Einheiten sind enthalten. 40क/40ख beziehungsweise 40a/40b in P 26 unterscheiden die doppelte Drucknummer 40. […] bezeichnet eine erkennbare, nicht ergänzte Textlücke. Redaktionell zugeordnete Nummern sind in den Arbeitsdaten einzeln markiert. Satz- und Strophengrenzen müssen nicht mit den deutschen Absätzen zusammenfallen.

Siehe auch