Atma Bodha Sanskrit Text: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Zeile 12: Zeile 12:
* [https://shop.yoga-vidya.de/de/yoga-vidya-verlag/buecher/atma-bodha-aparoksha-anubhuti Atma Bodha und Aparoksha Anubhuti] als Buch kaufen
* [https://shop.yoga-vidya.de/de/yoga-vidya-verlag/buecher/atma-bodha-aparoksha-anubhuti Atma Bodha und Aparoksha Anubhuti] als Buch kaufen
* [https://www.yoga-vidya.de/yoga-buch/shankara/atma-bodha-aparoksha-anubhuti/ Atma Bodha auf deutsch] lesen
* [https://www.yoga-vidya.de/yoga-buch/shankara/atma-bodha-aparoksha-anubhuti/ Atma Bodha auf deutsch] lesen
==Atma Bodha Sanskrit Text in wissenschaftlicher Transkription (IAST)==
Hier der Sanskrit Text Atma Bodha [[IAST]], also wissenschaftliche Transkription mit diakritischen Zeichen. Damit fällt es den meisten westlichen Aspiranten am leichtesten, Atma Bodha zu rezitieren:


:॥ ātmabodhaḥ ॥
:॥ ātmabodhaḥ ॥
Zeile 223: Zeile 227:


:॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥
:॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥
==Devanagari Atma Bodha Sanskrit Text==
Hier der Atmabodha Sanskrit Text auf Devanagari, die Schrift, in der Sanskrit normalerweise geschrieben wird:
:॥ आत्मबोधः ॥
:तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् ।
:मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १॥
:बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
:पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ २॥
:अविरोधितया कर्म नाविद्यां विनिवर्तयेत् ।
:विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ॥ ३॥
:परिच्छन्न इवाज्ञानात्तन्नाशे सति केवलः । वर् अवच्छिन्न
:स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४॥
:अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् ।
:कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ ५॥
:संसारः स्वप्नतुल्यो हि रागद्वेषादिसङ्कुलः ।
:स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥ ६॥
:तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
:यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७॥
:उपादानेऽखिलाधारे जगन्ति परमेश्वरे ।
:सर्गस्थितिलयान् यान्ति बुद्बुदानीव वारिणि ॥ ८॥
:सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।
:व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ९॥
:यथाकाशो हृषीकेशो नानोपाधिगतो विभुः ।
:तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १०॥
:नानोपाधिवशादेव जातिवर्णाश्रमादयः । वर् जातिनामाश्रमादयः
:आत्मन्यारोपितास्तोये रसवर्णादि भेदवत् ॥ ११।
:पञ्चीकृतमहाभूतसम्भवं कर्मसञ्चितम् ।
:शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२॥
:पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।
:अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १३॥
:अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते ।
:उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४॥
:पञ्चकोशादियोगेन तत्तन्मय इव स्थितः ।
:शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५॥
:वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।
:आत्मानमन्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६॥
:वर् विद्यर्थ विविञ्च्यात्, आशीर्लिङ्ग बेनेदिच्तिवे विविच्यात्
:सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते ।
:बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७॥
:देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।
:तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८॥
:व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।
:दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९॥
:आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ।
:स्वक्रियार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः । २०॥
:देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि ।
:अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥ २१॥
:अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ।
:कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः । २२॥
:रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते ।
:सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३॥
:प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता ।
:स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४॥
:आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् ।
:संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५॥
:आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ।
:जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६॥
:रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।
:नाहं जीवः परात्मेति ज्ञातं चेन्निर्भयो भवेत् ॥ २७॥
:आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि ।
:दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८॥
:स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।
:न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९॥
:निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः ।
:विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३०॥
:आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् ।
:एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१॥
:देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः ।
:शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च ॥ ३२॥
:अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ।
:अप्राणो ह्यमनाः शुभ्र इत्यादि श्रुतिशासनात् ॥ ३३॥
:एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
:खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
:निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः ।
:निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥ ३४॥
:अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ।
:सदा सर्वसमः सिद्धो निःसङ्गो निर्मलोऽचलः ॥ ३५॥
:नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् ।
:सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६॥
:एवं निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना ।
:हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३७॥
:विविक्तदेश आसीनो विरागो विजितेन्द्रियः ।
:भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८॥
:आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।
:भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९॥
:रूपवर्णादिकं सर्व विहाय परमार्थवित् ।
:परिपुर्णञ्चिदानन्दस्वरूपेणावतिष्ठते ॥ ४०॥
:ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।
:चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥ ४१॥ वर् हि ॥
:एवमात्मारणौ ध्यानमथने सततं कृते ।
:उदितावगतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२॥
:अरुणेनेव बोधेन पूर्वं सन्तमसे हृते ।
:तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३॥
:आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।
:तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४॥
:स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता ।
:जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५॥
:तत्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा ।
:अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६॥
:सम्यग्विज्ञानवान् योगी स्वात्मन्येवाखिलं जगत् ।
:एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७॥
:आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते ।
:मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते ॥ ४८॥
:जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणान्स्त्यजेत् ।
:सच्चिदानन्दरूपत्वात् भवेद्भ्रमरकीटवत् ॥ ४९॥
:तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान् ।
:योगी शान्तिसमायुक्त आत्मारामो विराजते ॥ ५०॥
:बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।
:घटस्थदीपवत्स्वस्थं स्वान्तरेव प्रकाशते ॥ ५१॥
:वर् दीपवच्छश्वदन्तरेव, अल्सो वर् स्वस्थः
:उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।
:सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२॥
:उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः ।
:जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा ॥ ५३॥
:यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।
:यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४॥
:यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः ।
:यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५॥
:तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम् ।
:अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६॥
:अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽद्वयम् । वर् ऽव्ययम्
:अखण्डानन्दमेकं यत्ततद्ब्रह्मेत्यवधारयेत् ॥ ५७॥
:अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः ।
:ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः ॥ ५८॥
:तद्युक्तमखिलं वस्तु व्यवहारस्तदन्वितः ।
:वर् व्यवहारश्चिदन्वितः तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९॥
:अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् ।
:अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६०॥
:यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते ।
:येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥ ६१॥
:स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् ।
:ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत् ॥ ६२॥
:जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन ।
:ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३॥
:दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
:तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४॥
:सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।
:अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ ६५॥
:श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः ।
:जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम् ॥ ६६॥
:हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोऽपहृत् ।
:सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥ ६७॥
:वर् सर्वं प्रकाशते दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादिहृन्नित्यसुखं निरञ्जनम् ।
:यः स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८॥
:॥ इति शङ्कराचार्यविरचित आत्मबोधः समाप्तः ॥

Version vom 23. April 2016, 08:36 Uhr

Atma Bodha Sanskrit Text: Hier findest du den gesamten Sanskrit Text des Atma Bodha von Shankaracharya. Atma Bodha ist einer der wichtigsten Vedanta Texte. Atma Bodha ist eines der kürzeren Werke des große Advaita Gurus, Shri Shankaracharya. In 68 Versen zeigt Shankara, wie man zur Erkenntnis des Selbst, zu Atma Bodha kommen kann.

Verschiedene Schreibweisen von Atma Bodha Sanskrit Text

Hier findest du den vollen Text des Atma Bodha auf Sanskrit in verschiedenen Schreibweisen:

  • Wissenschaftliche Transkription mit diakritischen Zeichen (IAST) - damit kannst du den Text gut rezitieren
  • Devanagari - die Schrift, in der das Sanskrit normalerweise geschrieben wird
  • Vereinfachte Umschrift

Hier auch gleich ein paar Links zum Atma Bodha:

Atma Bodha Sanskrit Text in wissenschaftlicher Transkription (IAST)

Hier der Sanskrit Text Atma Bodha IAST, also wissenschaftliche Transkription mit diakritischen Zeichen. Damit fällt es den meisten westlichen Aspiranten am leichtesten, Atma Bodha zu rezitieren:

॥ ātmabodhaḥ ॥
tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥
bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥
avirodhitayā karma nāvidyāṃ vinivartayet ।
vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥
paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥
ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥
saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥
tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥
upādāne'khilādhāre jaganti parameśvare ।
sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥
saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥
yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥
nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।
pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥
pañcaprāṇamanobuddhidaśendriyasamanvitam ।
apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥
anādyavidyānirvācyā kāraṇopādhirucyate ।
upādhitritayādanyamātmānamavadhārayet ॥ 14॥
pañcakośādiyogena tattanmaya iva sthitaḥ ।
śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥
vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥
var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥
dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥
vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥
ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥
dehendriyaguṇānkarmāṇyamale saccidātmani ।
adhyasyantyavivekena gagane nīlatādivat ॥ 21॥
ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥
rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥
prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥
ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥
ātmano vikriyā nāsti buddherbodho na jātviti ।
jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥
rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥
ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥
svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥
niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥
āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥
dehānyatvānna me janmajarākārśyalayādayaḥ ।
śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥
amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥
ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥
nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥
evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥
viviktadeśa āsīno virāgo vijitendriyaḥ ।
bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥
ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥
rūpavarṇādikaṃ sarva vihāya paramārthavit ।
paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥
jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥
evamātmāraṇau dhyānamathane satataṃ kṛte ।
uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
aruṇeneva bodhena pūrvaṃ santamase hṛte ।
tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥
ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥
sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥
tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥
samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥
ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥
jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥
tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥
bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥
var dīpavacchaśvadantareva, also var svasthaḥ
upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥
upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥
yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥
yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥
atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥
akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥
tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥
anaṇvasthūlamahrasvamadīrghamajamavyayam ।
arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥
yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥
svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥
jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥
dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥
sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥
śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥
hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥
var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥
॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥

Devanagari Atma Bodha Sanskrit Text

Hier der Atmabodha Sanskrit Text auf Devanagari, die Schrift, in der Sanskrit normalerweise geschrieben wird:


॥ आत्मबोधः ॥
तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् ।
मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १॥
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ २॥
अविरोधितया कर्म नाविद्यां विनिवर्तयेत् ।
विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ॥ ३॥
परिच्छन्न इवाज्ञानात्तन्नाशे सति केवलः । वर् अवच्छिन्न
स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४॥
अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् ।
कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ ५॥
संसारः स्वप्नतुल्यो हि रागद्वेषादिसङ्कुलः ।
स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥ ६॥
तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७॥
उपादानेऽखिलाधारे जगन्ति परमेश्वरे ।
सर्गस्थितिलयान् यान्ति बुद्बुदानीव वारिणि ॥ ८॥
सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।
व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ९॥
यथाकाशो हृषीकेशो नानोपाधिगतो विभुः ।
तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १०॥
नानोपाधिवशादेव जातिवर्णाश्रमादयः । वर् जातिनामाश्रमादयः
आत्मन्यारोपितास्तोये रसवर्णादि भेदवत् ॥ ११।
पञ्चीकृतमहाभूतसम्भवं कर्मसञ्चितम् ।
शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२॥
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १३॥
अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते ।
उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४॥
पञ्चकोशादियोगेन तत्तन्मय इव स्थितः ।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५॥
वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।
आत्मानमन्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६॥
वर् विद्यर्थ विविञ्च्यात्, आशीर्लिङ्ग बेनेदिच्तिवे विविच्यात्
सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते ।
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७॥
देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।
तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८॥
व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९॥
आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ।
स्वक्रियार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः । २०॥
देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि ।
अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥ २१॥
अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ।
कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः । २२॥
रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते ।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३॥
प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता ।
स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४॥
आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् ।
संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५॥
आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ।
जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६॥
रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।
नाहं जीवः परात्मेति ज्ञातं चेन्निर्भयो भवेत् ॥ २७॥
आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि ।
दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८॥
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९॥
निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः ।
विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३०॥
आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् ।
एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१॥
देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः ।
शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च ॥ ३२॥
अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ।
अप्राणो ह्यमनाः शुभ्र इत्यादि श्रुतिशासनात् ॥ ३३॥
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः ।
निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥ ३४॥
अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ।
सदा सर्वसमः सिद्धो निःसङ्गो निर्मलोऽचलः ॥ ३५॥
नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् ।
सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६॥
एवं निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना ।
हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३७॥
विविक्तदेश आसीनो विरागो विजितेन्द्रियः ।
भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८॥
आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।
भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९॥
रूपवर्णादिकं सर्व विहाय परमार्थवित् ।
परिपुर्णञ्चिदानन्दस्वरूपेणावतिष्ठते ॥ ४०॥
ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।
चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥ ४१॥ वर् हि ॥
एवमात्मारणौ ध्यानमथने सततं कृते ।
उदितावगतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२॥
अरुणेनेव बोधेन पूर्वं सन्तमसे हृते ।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३॥
आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।
तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४॥
स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता ।
जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५॥
तत्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा ।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६॥
सम्यग्विज्ञानवान् योगी स्वात्मन्येवाखिलं जगत् ।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७॥
आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते ।
मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते ॥ ४८॥
जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणान्स्त्यजेत् ।
सच्चिदानन्दरूपत्वात् भवेद्भ्रमरकीटवत् ॥ ४९॥
तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान् ।
योगी शान्तिसमायुक्त आत्मारामो विराजते ॥ ५०॥
बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।
घटस्थदीपवत्स्वस्थं स्वान्तरेव प्रकाशते ॥ ५१॥
वर् दीपवच्छश्वदन्तरेव, अल्सो वर् स्वस्थः
उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।
सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२॥
उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः ।
जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा ॥ ५३॥
यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।
यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४॥
यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः ।
यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५॥
तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम् ।
अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६॥
अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽद्वयम् । वर् ऽव्ययम्
अखण्डानन्दमेकं यत्ततद्ब्रह्मेत्यवधारयेत् ॥ ५७॥
अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः ।
ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः ॥ ५८॥
तद्युक्तमखिलं वस्तु व्यवहारस्तदन्वितः ।
वर् व्यवहारश्चिदन्वितः तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९॥
अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् ।
अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६०॥
यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते ।
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥ ६१॥
स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् ।
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत् ॥ ६२॥
जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३॥
दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४॥
सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ ६५॥
श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः ।
जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम् ॥ ६६॥
हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोऽपहृत् ।
सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥ ६७॥
वर् सर्वं प्रकाशते दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादिहृन्नित्यसुखं निरञ्जनम् ।
यः स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८॥
॥ इति शङ्कराचार्यविरचित आत्मबोधः समाप्तः ॥