Der Tantrasara von Abhinavagupta erschließt das Verhältnis von Bewusstsein, Shakti und Befreiung in einer zusammenhängenden Lehre des Kashmir Shaivismus, besonders des Trika. Diese Seite bietet den gesamten aufgenommenen Verfassertext der Ausgabe von 1918 in Devanagari: 22 Āhnikas, Druck S. 1–207, sowie den Verfasserschluss und das Kolophon auf S. 207–208. Fortlaufende Sanskritprosa, Strophen und mittelindische Schlussstrophen bleiben in ihrer Reihenfolge erhalten.
Die Devanagari-Fassung des Tantrasara wurde aus derselben geprüften Textgrundlage wie die IAST-Ausgabe mit deutscher Übersetzung abgeleitet; die mittelindischen Blöcke wurden zusätzlich direkt vom Druckbild in Devanagari erfasst. Es handelt sich um eine Umschrift und Lesefassung, nicht um eine neue Handschriftenedition. Unsichere Druckformen und Punkte in verkürzten Zitaten bleiben stehen. Redaktionelle Kennungen werden mit Devanagari-Ziffern angezeigt: etwa TSAR-A०१-P००१ für die intern verwendete Kennung TSAR-A01-P001. Diese Kennungen sind keine ursprünglichen Versnummern.
Weitere Fassungen: Tantrasara · Tantrasara 108 Textstellen für die spirituelle Praxis
Sanskrittext in Devanagari
TSAR-PAR-I००१
ॐ तत्सत्स्वात्मसंविद्वपुषे शंभवे नमः ।
TSAR-PAR-U००१
अथ
TSAR-PAR-U००२
तन्त्रसारः ।
TSAR-PAR-U००३
श्रीमन्महामाहेश्वराचार्यवर्य श्रीमदभिनवगुप्तविरचितः ।
TSAR-A०१-H००१
प्रथममाह्निकम् ।
TSAR-A०१-V००१
विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥१॥
TSAR-A०१-V००२
विततस्तन्त्रालोको विगाहितुं नैव शक्यते सर्वैः ।
ऋजुवचनविरचितमिदं तु तन्त्रसारं ततः शृणुत ॥२॥
TSAR-A०१-V००३
श्रीशंभुनाथभास्करचरणनिपातप्रभापगतसंकोचम् ।
अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥३॥
TSAR-A०१-P००१
इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात् द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च तत्र बुद्धिगतम् अनिश्चयस्वभावं विपरीतनिश्चयात्मकं च । पौरुषं तु विकल्पस्वभावं संकुचितप्रथात्मकं तदेव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये । तत्र पौरुषं अज्ञानं दीक्षादिना निवर्तेतापि किं तु दीक्षापि बुद्धिगते अनध्यवसायात्मके अज्ञाने सति न संभवति हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धिशिवयोजनारूपाया दीक्षाया इति । तत्र अध्यवसायात्मकं बुद्धिनिष्ठमेव ज्ञानं प्रधानम् तदेव च अभ्यस्यमानं पौरुषमपि अज्ञानं निहन्ति विकल्पसंविदभ्यासस्य अविकल्पान्ततापर्यवसानात् । विकल्पासंकुचितसंवित्प्रकाशरूपो हि आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्निश्चयात्मकं ज्ञानमुपादेयम् । तच्च शास्त्रपूर्वकम् । शास्त्रं च परमेश्वरभाषितमेव प्रमाणम् । अपरशास्त्रोक्तानामर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच्च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतो (मयं) दशाष्टादशवस्वष्टभेदभिन्नम् । ततोऽपि सर्वस्मात् सारं षडर्धशास्त्राणि । तेभ्योऽपि मालिनीविजयम् । तदन्तर्गतश्चार्थः संकलय्याशक्यो निरूपयितुम् । न च अनिरूपितवस्तुतत्त्वस्य मुक्तत्वं मोचकत्वं वा शुद्धस्य ज्ञानस्यैव तथारूपत्वात् इति । स्वभ्यस्तज्ञानमूलत्वात् परपुरुषार्थस्य तत्सिद्धये इदम् आरभ्यते
TSAR-A०१-V००४
अज्ञानं किल बन्धहेतुरुदितः शास्त्रे मलं
तत्स्मृतं
पूर्णज्ञानकलोदये तदखिलं निर्मूलतां गच्छति ।
ध्वस्ताशेषमलात्मसंविदुदये मोक्षश्च तेनामुना
शास्त्रेण प्रकटीकरोमि निखिलं यज्ज्ञेयतत्त्वं भवेत् ॥
TSAR-A०१-U००१
उपोद्घातः
TSAR-A०१-P००२
तत्र इह स्वभाव एव परमोपादेयः स च सर्वभावानां प्रकाशरूप एव अप्रकाशस्य स्वभावतानुपपत्तेः स च नानेकः प्रकाशस्य तदितरस्वभावानुप्रवेशायोगे स्वभावभेदाभावात् देशकालावपि च अस्य न भेदकौ तयोरपि तत्प्रकाशस्वभावत्वात् इति एक एव प्रकाशः स एव च संवित् अर्थप्रकाशरूपा हि संवित् इति सर्वेषामत्र अविवाद एव । स च प्रकाशो न परतन्त्रः प्रकाश्यतैव हि पारतन्त्र्यम् प्रकाश्यता च प्रकाशान्तरापेक्षितैव न च प्रकाशान्तरं किंचित् अस्ति इति स्वतन्त्र एकः प्रकाशः स्वातन्त्र्यादेव च देशकालाकारावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभावः तस्य च स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कार इच्छाशक्तिः प्रकाशरूपता चिच्छक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इत्येवं मुख्याभिः शक्तिभिः युक्तोऽपि वस्तुत इच्छाज्ञानक्रियाशक्तियुक्तः अनवच्छिन्नः प्रकाशो निजानन्दविश्रान्तः शिवरूपः स एव स्वातन्त्र्यात् आत्मानं संकुचितम् अवभासयन् अणुरिति उच्यते । पुनरपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति येन अनवच्छिन्नप्रकाशशिवरूपतयैव प्रकाशते । तत्रापि स्वातन्त्र्यवशात् अनुपायमेव स्वात्मानं प्रकाशयति सोपायं वा सोपायत्वेऽपि इच्छा वा ज्ञानं वा क्रिया वा अभ्युपाय इति त्रैविध्यं शाम्भवशाक्ताणवभेदेन समावेशस्य तत्र चतुर्विधमपि एतद्रूपं क्रमेण अत्र उपदिश्यते ।
TSAR-A०१-V००५
आत्मा प्रकाशवपुरेष शिवः स्वतन्त्रः
स्वातन्त्र्यनर्मरभसेन निजं स्वरूपम् ।
संच्छाद्य यत्पुनरपि प्रथयेत पूर्णं
तच्च क्रमाक्रमवशादथवा त्रिभेदात् ॥५॥
TSAR-A०१-M००१
एहु पआसऊउ अत्ताणत
सच्छन्दउ ढक्कइ णिअऊउ ।
पूणु पअढइ झढि अह कमवस्व
एहत परमर्थिण शिवरसु ॥
TSAR-A०१-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे विज्ञानभेदप्रकाशनं नाम प्रथममाह्निकम् ॥१॥
TSAR-A०२-H००१
अथ द्वितीयमाह्निकम् ।
TSAR-A०२-P००१
अथ अनुपायमेव तावत् व्याख्यास्यामः । यदा खलु दृढशक्तिपाताविद्धः स्वयमेव इत्थं विवेचयति सकृदेव गुरुवचनम् अवधार्य तदा पुनरुपायविरहितो नित्योदितः अस्य समावेशः । अत्र च तर्क एव योगाङ्गम् इति कथं विवेचयति इति चेत् ? उच्यते - योऽयं परमेश्वरः स्वप्रकाशरूपः स्वात्मा तत्र किम् उपायेन क्रियते न स्वरूपलाभो नित्यत्वात् न ज्ञप्तिः स्वयंप्रकाशमानत्वात् न आवरणविगमः आवरणस्य कस्यचिदपि असंभवात् न तदनुप्रवेशः अनुप्रवेष्टुः व्यतिरिक्तस्य अभावात् । कश्चात्र उपायः तस्यापि व्यतिरिक्तस्य अनुपपत्तेः तस्मात् समस्तमिदमेकं चिन्मात्रतत्त्वं कालेन अकलितं देशेन अपरिच्छिन्नम् उपाधिभिरम्लानम् आकृतिभिरनियन्त्रितं शब्दैरसंदिष्टं प्रमाणैरप्रपञ्चितं कालादेः प्रमाणपर्यन्तस्य स्वेच्छयैव स्वरूपलाभनिमित्तं च स्वतन्त्रम् आनन्दघनं तत्त्वं तदेव च अहम् तत्रैव अन्तर्मयि विश्वं प्रतिबिम्बितम् एवं दृढं विविञ्चानस्य शश्वदेव पारमेश्वरः समावेशो निरुपायक एव तस्य च न मन्त्र पूजा ध्यान चर्यादिनियन्त्रणा काचित् ।
TSAR-A०२-V००१
उपायजालं न शिवं प्रकाशयेद्
घटेन किं भाति सहस्रदीधितिः ।
विवेचयन्नित्थमुदारदर्शनः
स्वयंप्रकाशं शिवमाविशेत्क्षणात् ॥६॥
TSAR-A०२-M००१
जहि जहि फुरण फुरइ सो सअलउ
परमेसरु भासइ मइ अमलउ ।
अत्ता नत सो श्चिव परमत्थिण
इअ जानअ कज्ज परमत्थि ण ॥
TSAR-A०२-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे अनुपायप्रकाशनं नाम द्वितीयमाह्निकम् ॥२॥
TSAR-A०३-H००१
अथ तृतीयमाह्निकम् ।
TSAR-A०३-U००१
अथ शाम्भवोपायः ।
TSAR-A०३-P००१
यदेतत् प्रकाशरूपं शिवतत्त्वम् उक्तम् तत्र अखण्डमण्डले यदा प्रवेष्टुं न शक्नोति तदा स्वातन्त्र्यशक्तिमेव अधिकां पश्यन् निर्विकल्पमेव भैरवसमावेशम् अनुभवति अयं च अस्य उपदेशः सर्वमिदं भावजातं बोधगगने प्रतिबिम्बमात्रं प्रतिबिम्बलक्षणोपेतत्वात् इदं हि प्रतिबिम्बस्य लक्षणं यत् भेदेन भासितम् अशक्तम् अन्यव्यामिश्रत्वेनैव भाति तत् प्रतिबिम्बम् मुखरूपमिव दर्पणे रस इव दन्तोदके गन्ध इव घ्राणे मिथुनस्पर्श इव आनन्देन्द्रिये शूलकुन्तादिस्पर्शो वा अन्तःस्पर्शनेन्द्रिये प्रतिश्रुत्केव व्योम्नि । न हि स रसो मुख्यः तत्कार्यव्याधिशमनाद्यदृष्टेः । नापि गन्धस्पर्शौ मुख्यौ गुणिनः तत्र अभावे तयोरयोगात् कार्यपरम्परानारम्भात् च । न च तौ न स्तः देहोद्धूलनविसर्गादिदर्शनात् । शब्दोऽपि न मुख्यः कोऽपि वक्ति इति आगच्छन्त्या इव प्रतिश्रुत्कायाः श्रवणात् । एवं यथा एतत् प्रतिबिम्बितं भाति तथैव विश्वं परमेश्वरप्रकाशे । ननु अत्र बिम्बं किं स्यात्? माभूत् किंचित् । ननु किम् अकारणकं तत् ? हन्त तर्हि हेतुप्रश्नः तत् किं बिम्बवाचोयुक्त्या हेतुश्च परमेश्वरशक्तिरेव स्वातन्त्र्यापरपर्याया भविष्यति विश्वप्रतिबिम्बधारित्वाच्च विश्वात्मकत्वं भगवतः संविन्मयं हि विश्वं चैतन्यस्य व्यक्तिस्थानम् इति तदेव हि विश्वम् अत्र प्रतीपम् इति प्रतिबिम्बधारित्वम् अस्य तच्च तावत् विश्वात्मकत्वं परमेश्वरस्य स्वरूपं न अनामृष्टं भवति चित्स्वभावस्य स्वरूपानामर्शनानुपपत्तेः । स्वरूपानामर्शने हि वस्तुतो जडतैव स्यात् आमर्शश्च अयं न सांकेतिकः अपि तु चित्स्वभावतामात्रनान्तरीयकः परनादगर्भ उक्तः स च यावान् विश्वव्यवस्थापकः परमेश्वरस्य शक्तिकलापः तावन्तम् आमृशति ।
TSAR-A०३-P००२
तत्र मुख्यास्तावत् तिस्रः परमेश्वरस्य शक्तयः अनुत्तरः इच्छा उन्मेष इति तदेव परामर्शत्रयम् अ-इ-उ इति एतस्मादेव त्रितयात् सर्वः शक्तिप्रपञ्चः चर्च्यते अनुत्तर एव हि विश्रान्तिरानन्दः इच्छायामेव विश्रान्तिः ईशनम् उन्मेष एव हि विश्रान्तिरूर्मिः यः क्रियाशक्तेः प्रारम्भः तदेव परामर्शत्रयम् आ ई ऊ इति । अत्र प्राच्यं परामर्शत्रयं प्रकाशभागसारत्वात् सूर्यात्मकं चरमं परामर्शत्रयं विश्रान्तिस्वभावाह्लादप्राधान्यात् सोमात्मकम् इयति यावत्कर्मांशस्य अनुप्रवेशो नास्ति । यदा तु इच्छायाम् ईशने च कर्म अनुप्रविशति यत् तत् इष्यमाणम् ईश्यमाणम् इति च उच्यते तदा अस्य द्वौ भेदौ प्रकाशमात्रेण रश्रुतिः विश्रान्त्या लश्रुतिः रलयोः प्रकाशस्तम्भस्वभावत्वात् इष्यमाणं च न बाह्यवत् स्फुटम् स्फुटरूपत्वे तदेव निर्माणं स्यात् न इच्छा ईशनं वा अतः अस्फुटत्वात् एव श्रुतिमात्रं रलयोः न व्यञ्जनवत् स्थितिः । तदेतद्वर्णचतुष्टयं उभयच्छायाधारित्वात् नपुंसकम् ऋ ॠ ऌ ॡ इति । अनुत्तरानन्दयोः इच्छादिषु यदा प्रसरः तदा वर्णद्वयम् ए ओ इति । तत्रापि पुनरनुत्तरानन्दसंघट्टात् वर्णद्वयम् ऐ औ इति । सा इयं क्रियाशक्तिः तदेव च वर्णचतुष्टयम् ए ऐ ओ औ इति । ततः पुनः क्रियाशक्त्यन्ते सर्वं कार्यभूतं यावत् अनुत्तरे प्रवेक्ष्यति तावदेव पूर्वं संवेदनसारतया प्रकाशमात्रत्वेन बिन्दुतया आस्ते अमिति । ततस्तत्रैव अनुत्तरस्य विसर्गो जायते अः इति । एवं षोडशकं परामर्शानां बीजस्वरूपम् उच्यते । तदुत्थं व्यञ्जनात्मकं योनिरूपम् । तत्र अनुत्तरात् कवर्गः श्रद्धायाः इच्छायाः चवर्गः सकर्मिकाया इच्छाया द्वौ टवर्गस्तवर्गश्च उन्मेषात् पवर्गः शक्तिपञ्चकयोगात् पञ्चकत्वम् ।
TSAR-A०३-P००३
इच्छाया एव त्रिविधाया य र लाः उन्मेषात् वकारः इच्छाया एव त्रिविधायाः श ष साः विसर्गात् हकारः योनिसंयोगजः क्षकारः । इत्येवम् एष भगवान् अनुत्तर एव कुलेश्वररूपः । तस्य च एकैव कौलिकी विसर्गशक्तिः यया आनन्दरूपात् प्रभृति इयता बहिःसृष्टिपर्यन्तेन प्रस्पन्दतः वर्गादिपरामर्शा एव बहिस्तत्त्वरूपतां प्राप्ताः । स च एष विसर्गस्त्रिधा आणवः चित्तविश्रान्तिरूपः शाक्तः चित्तसंबोधलक्षणः शांभवः चित्तप्रलयरूपः इति । एवं विसर्ग एव विश्वजनने भगवतः शक्तिः । इत्येवम् इयतो यदा निर्विभागतया एव परामर्शः तदा एक एव भगवान् बीजयोनितया भागशः परामर्शे शक्तिमान् शक्तिश्च । पृथक् अष्टकपरामर्शे चक्रेश्वरसाहित्येन नववर्गः एकैकपरामर्शप्राधान्ये पञ्चाशदात्मकता । तत्रापि संभवद्भागभेदपरामर्शने एकाशीतिरूपत्वम् । वस्तुतस्तु षट् एव परामर्शाः प्रसरणप्रतिसंचरणयोगेन द्वादश भवन्तः परमेश्वरस्य विश्वशक्तिपूर्णत्वं पुष्णन्ति । ता एव एताः परामर्शरूपत्वात् शक्तयो भगवत्यः श्रीकालिका इति निरुक्ताः । एते च शक्तिरूपा एव शुद्धाः परामर्शाः शुद्धविद्यायां परापररूपत्वेन मायोन्मेषमात्रसंकोचात् विद्याविद्येश्वररूपतां भजन्ते । मायायां पुनः स्फुटीभूतभेदविभागा मायीयवर्णतां भजन्ते ये पश्यन्तीमध्यमावैखरीषु व्यावहारिकत्वम् आसाद्य बहीरूपतत्त्वस्वभावतापत्तिपर्यन्ताः ते च मायीया अपि शरीरकल्पत्वेन यदा दृश्यन्ते यदा च तेषाम् उक्तनयैरेतैः जीवितस्थानीयैः शुद्धैः परामर्शैः प्रत्युज्जीवनं क्रियते तदा ते सवीर्या भवन्ति ते च तादृशा भोगमोक्षप्रदाः इत्येवं सकलपरामर्शविश्रान्तिमात्ररूपं प्रतिबिम्बितसमस्ततत्त्वभूतभुवनभेदम् आत्मानं पश्यतो निर्विकल्पतया शांभवेन समावेशेन जीवन्मुक्तता । अत्रापि पूर्ववत् न मन्त्रादियन्त्रणा काचिदिति ।
TSAR-A०३-V००१
अन्तर्बिभाति सकलं जगदात्मनीह
यद्वद्विचित्ररचना मुकुरान्तराले ।
बोधः परं निजविमर्शरसानुवृत्त्या
विश्वं परामृशति नो मुकुरस्तथा तु ॥
TSAR-A०३-M००१
संवेअण णिम्मल दप्पणस्मि
सअलं फुरत्त णिअसारं ।
आमरिसण रस सरहस
विमट्टरूअं सइं भाइ ॥
TSAR-A०३-M००२
इअ सुणअ विमलमेणं
णिअ अप्पाणं समत्थवत्थमअम् ।
जो जोअय सो परभैरइ
बोव्व परणिव्वइं लहइ ॥
TSAR-A०३-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे शांभवोपायप्रकाशनं नाम तृतीयमाह्निकम् ॥३॥
TSAR-A०४-H००१
चतुर्थमाह्निकम् ।
TSAR-A०४-U००१
अथ शाक्तोपायः ।
TSAR-A०४-P००१
तत्र यदा विकल्पं क्रमेण संस्कुरुते समनन्तरोक्तस्वरूपप्रवेशाय तदा भावनाक्रमस्य सत्तर्कसदागमसद्गुरूपदेशपूर्वकस्य अस्ति उपयोगः । तथाहि विकल्पबलात् एव जन्तवो बद्धम् आत्मानम् अभिमन्यन्ते स अभिमानः संसारप्रतिबन्धहेतुः अतः प्रतिद्वन्द्विरूपो विकल्प उदितः संसारहेतुं विकल्पं दलयति इति अभ्युदयहेतुः । स च एवं रूपः समस्तेभ्यः परिच्छिन्नस्वभावेभ्यः शिवान्तेभ्यः तत्त्वेभ्यो यत् उत्तीर्णम् अपरिच्छिन्नसंविन्मात्ररूपं तदेव च परमार्थः तत् वस्तुव्यवस्थास्थानं तत् विश्वस्य ओजः तेन प्राणिति विश्वम् तदेव च अहम् अतो विश्वोत्तीर्णो विश्वात्मा च अहम् इति । स च अयं मायान्धानां न उत्पद्यते सत्तर्कादीनाम् अभावात् । वैष्णवाद्या हि तावन्मात्र एव आगमे रागतत्त्वेन नियमिता इति न ऊर्ध्वदर्शनेऽपि तदुन्मुखतां भजन्ते ततः सत्तर्कसदागमसद्गुरूपदेशद्वेषिण एव । यथोक्तं पारमेश्वरे
TSAR-A०४-V००१
वैष्णवाद्याः समस्तास्ते विद्यारागेण रञ्जिताः ।
न विन्दन्ति परं तत्त्वं सर्वज्ञज्ञानवर्जिताः ॥
TSAR-A०४-P००२
इति तस्मात् शांभवदृढशक्तिपाताविद्धा एव सदागमादिक्रमेण विकल्पं संस्कृत्य परं स्वरूपं प्रविशन्ति । ननु इत्थं परं तत्त्वं विकल्प्यरूपं स्यात् ? मैवम् विकल्पस्य द्वैताधिवासभङ्गमात्रे चरितार्थत्वात् परं तत्त्वं तु सर्वत्र सर्वरूपतया स्वप्रकाशमेव इति न तत्र विकल्पः कस्यैचित् उपक्रियायै खण्डनायै वा । तत्र अतिदृढशक्तिपाताविद्धस्य स्वयमेव सांसिद्धिकतया सत्तर्क उदेति योऽसौ देवीभिः दीक्षित इति उच्यते । अन्यस्य आगमक्रमेण इत्यादि सविस्तरं शक्तिपातप्रकाशने वक्ष्यामः । किं तु गुरोरागमनिरूपणे व्यापारः आगमस्य च निःशङ्कसजातीयतत्प्रबन्धप्रसवनिबन्धनसमुचितविकल्पोदये व्यापारः तथाविधविकल्पप्रबन्ध एव सत्तर्क इति उक्तः स एव च भावना भण्यते अस्फुटत्वात् भूतमपि अर्थम् अभूतमिव स्फुटत्वापादनेन भाव्यते यया इति । न च अत्र सत्तर्कात् शुद्धविद्याप्रकाशरूपात् ऋते अन्यत् योगाङ्गं साक्षात् उपायः तपःप्रभृतेः नियमवर्गस्य अहिंसादेश्च यमप्रकारस्य पूरकादेः प्राणायामवर्गस्य वेद्यमात्रनिष्ठत्वेन क इव संविदि व्यापारः । प्रत्याहारोऽपि करणभूमिमेव सातिशयां कुर्यात् ध्यानधारणासमाधयोऽपि यथोत्तरम् अभ्यासक्रमेण निर्वर्त्यमाना ध्येयवस्तुतादात्म्यं ध्यातुः वितरेयुः । अभ्यासश्च परे तत्त्वे शिवात्मनि स्वस्वभावे न संभवत्येव । संविद्रूढस्य प्राणबुद्धिदेहनिष्ठीकरणरूपो हि अभ्यासः भारोद्वहनशास्त्रार्थबोधनृत्ताभ्यासवत् संविद्रूपे तु न किंचित् आदातव्यं न अपसरणीयम् इति कथम् अभ्यासः । किं तर्केणापि इति चेत् उक्तमत्र द्वैताधिवासनिरासप्रकार एव अयं न तु अन्यत् किंचिदिति ।
TSAR-A०४-P००३
लौकिकेऽपि वा अभ्यासे चिदात्मत्वेन सर्वरूपस्य तस्य तस्य देहादेः अभिमतरूपताप्रकटीकरणं तदितररूपन्यग्भावनं च इति एष एव अभ्यासार्थः । परतत्त्वे तु न किंचित् अपास्यम् इति उक्तम् । द्वैताधिवासोऽपि नाम न कश्चन पृथक् वस्तुभूतः अपि तु स्वरूपाख्यातिमात्रं तत् अतो द्वैतापासनं विकल्पेन क्रियत इत्युक्तेः । अयं परमार्थः स्वरूपं प्रकाशमानम् अख्यातिरूपत्वं स्वयं स्वातन्त्र्यात् गृहीतं क्रमेण प्रोज्झ्य विकासोन्मुखम् अथ विकसत् अथ विकसितम् इत्यनेन क्रमेण प्रकाशते तथा प्रकाशनमपि परमेश्वरस्य स्वरूपमेव तस्मात् न अत्र योगाङ्गानि साक्षात् उपायः । तर्कं तु अनुगृह्णीयुरपि सत्तर्क एव साक्षात् तत्र उपायः स एव च शुद्धविद्या स च बहुप्रकारतया संस्कृतो भवति तद्यथा यागो होमो जपो व्रतं योग इति तत्र भावानां सर्वेषां परमेश्वर एव स्थितिः नान्यत् व्यतिरिक्तम् अस्ति इति विकल्परूढिसिद्धये परमेश्वर एव सर्वभावार्पणं यागः स च हृद्यत्वात् ये संविदनुप्रवेशं स्वयमेव भजन्ते तेषां सुशकं परमेश्वरे अर्पणम् इत्यभिप्रायेण हृद्यानां कुसुमतर्पणगन्धादीनां बहिरुपयोग उक्तः । सर्वे भावाः परमेश्वरतेजोमया इति रूढविकल्पप्राप्त्यै परमेशसंविदनलतेजसि समस्तभावग्रासरसिकताभिमते तत्तेजोमात्रावशेषत्वसहसमस्तभावविलापनं होमः तथा उभयात्मकपरामर्शोदयार्थं बाह्याभ्यन्तरादिप्रमेयरूपभिन्नभावानपेक्षयैव एवं विधं तत् परं तत्त्वं स्वस्वभावभूतम् इति अन्तः परामर्शनं जपः सर्वत्र सर्वदा निरुपायपरमेश्वराभिमानलाभाय परमेश्वरसमताभिमानेन देहस्यापि घटादेरपि अवलोकनं व्रतम् । यथोक्तं श्रीनन्दिशिखायाम्
TSAR-A०४-F००१
…………….. सर्वसाम्यं परं व्रतम् ।
TSAR-A०४-P००४
इति । इत्थं विचित्रैः शुद्धविद्यांशरूपैः विकल्पैः यत् अनपेक्षितविकल्पं स्वाभाविकं परमार्थतत्त्वं प्रकाशते तस्यैव सनातनतथाविधप्रकाशमात्रतारूढये तत्स्वरूपानुसंधानात्मा विकल्पविशेषो योगः । तत्र परमेश्वरः पूर्णसंवित्स्वभावः पूर्णतैव अस्य शक्तिः कुलं सामर्थ्यं ऊर्मिः हृदयं सारं स्पन्दः विभूतिः त्रीशिका काली कर्षणी चण्डी वाणी भोगो दृक् नित्या इत्यादिभिः आगमभाषाभिः तत्तदन्वर्थप्रवृत्ताभिः अभिधीयते तेन तेन रूपेण ध्यायिनां हृदि आस्ताम् इति । सा च समग्रशक्तितादर्शनेन पूर्णतासंवित् प्रकाशते । शक्तयश्च अस्य असंख्येयाः । किं बहुना यत् विश्वं ता अस्य शक्तयः ताः कथम् उपदेष्टुं शक्याः इति । तिसृषु तावत् विश्वं समाप्यते यया इदं शिवादिधरण्यन्तम् अविकल्प्यसंविन्मात्ररूपतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सा अस्य श्रीपराशक्तिः । यया च दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा अस्य श्रीपरापराशक्तिः । यया परस्परविविक्तात्मना भेदेनैव सा अस्य श्रीमदपराशक्तिः । एतत् त्रिविधं यया धारणम् आत्मन्येव क्रोडीकारेण अनुसन्धानात्मना ग्रसते सा अस्य भगवती श्रीपरैव श्रीमन्मातृसद्भावकालकर्षिण्यादिशब्दान्तरनिरुक्ता । ता एताः चतस्रः शक्तयः स्वातन्त्र्यात् प्रत्येकं त्रिधैव वर्तन्ते । सृष्टौ स्थितौ संहारे च इति द्वादश भवन्ति । तथाहि- १ संवित् पूर्वम् अन्तरेव भावं कलयति २ ततो बहिरपि स्फुटतया कलयति ३ तत्रैव रक्तिमयतां गृहीत्वा ततः तमेव भावम् अन्तरुपसंजिहीर्षया कलयति ४ ततश्च तदुपसंहारविघ्नभूतां शङ्कां निर्मिणोति च ग्रसते च ५ ग्रस्तशङ्कांशं भावभागम् आत्मनि उपसंहारेण कलयति ६ तत उपसंहर्तृत्वं ममेदं रूपमित्यपि स्वभावमेव कलयति ७ तत उपसंहर्तृस्वभावकलने कस्यचिद्भावस्य वासनात्मना अवस्थितिं कस्यचित् तु संविन्मात्रावशेषतां कलयति ८ ततः स्वरूपकलनानान्तरीयकत्वेनैव करणचक्रं कलयति ९ ततः करणेश्वरमपि कलयति १० ततः कल्पितं मायीयं प्रमातृरूपमपि कलयति ११ सङ्कोचत्यागोन्मुखविकासग्रहणरसिकमपि प्रमातारं कलयति १२ ततो विकसितमपि रूपं कलयति इति एता द्वादश भगवत्यः संविदः प्रमातॄन् एकं वापि उद्दिश्य युगपत् क्रमेण द्विशः त्रिश इत्यादिस्थित्यापि उदयभागिन्यः चक्रवदावर्तमाना बहिरपि मासकलाराश्यादिक्रमेण अन्ततो वा घटपटादिक्रमेणापि भासमानाः चक्रेश्वरस्य स्वातन्त्र्यं पुष्णत्यः श्रीकालीशब्दवाच्याः । कलनं च गतिः क्षेपो ज्ञानं गणनं भोगीकरणं शब्दनं स्वात्मलयीकरणं च । यदाहुः श्रीभूतिराजगुरवः
TSAR-A०४-F००२
क्षेपाज्ज्ञानाच्च काली कलनवशतयाथ….. ।
TSAR-A०४-P००५
इति । एष च अर्थः तत्र तत्र मद्विरचिते विवरणे प्रकरणस्तोत्रादौ वितत्य वीक्ष्यः । न अतिरहस्यम् एकत्र ख्याप्यं न च सर्वथा गोप्यम् इति हि अस्मद्गुरवः । तदेवम् यदुक्तं यागहोमादि तत् एवं विधे महेश्वर एव मन्तव्यम् । सर्वे हि हेयमेव उपादेयभूमिरूपं विष्णुतः प्रभृति शिवान्तं परमशिवतया पश्यन्ति तच्च मिथ्यादर्शनम् अवश्यत्याज्यम् अनुत्तरयोगिभिरिति तदर्थमेव विद्याधिपतेः अनुभवस्तोत्रे महान् संरम्भः एवं विधे यागादौ योगान्ते च पञ्चके प्रत्येकं बहुप्रकारं निरूढिः यथा यथा भवति तथैव आचरेत् न तु भक्ष्याभक्ष्यशुद्ध्यशुद्ध्यादिविवेचनया वस्तुधर्मोज्झितया कल्पनामात्रसारया स्वात्मा खेदनीय इति उक्तं श्रीपूर्वादौ न हि शुद्धिः वस्तुनो रूपं नीलत्ववत् अन्यत्र तस्यैव अशुद्धिचोदनात् दानस्येव दीक्षितत्वे चोदनातः तस्य तत् तत्र अशुद्धम् इति चेत् चोदनान्तरेऽपि तुल्यं चोदनान्तरम् असत् तद्बाधितत्वात् इति चेत् न शिवचोदनाया एव बाधकत्वं युक्तिसिद्धं सर्वज्ञानोत्तराद्यनन्तागमसिद्धं च इति वक्ष्यामः । तस्मात् वैदिकात् प्रभृति पारमेश्वरसिद्धान्ततन्त्रकुलोच्छुष्मादिशास्त्रोक्तोऽपि यो नियमो विधिः वा निषेधो वा सोऽत्र यावदकिंचित्कर एव इति सिद्धम् । तथैव च उक्तं श्रीपूर्वादौ वितत्य तन्त्रालोकात् अन्वेष्यम् ।
TSAR-A०४-V००२
यो निश्चयः पशुजनस्य जडोऽस्मि कर्म-
संपाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि ।
इत्येतदन्यदृढनिश्चयलाभसिद्ध्या
सद्यः पतिर्भवति विश्ववपुश्चिदात्मा ॥
TSAR-A०४-V००३
यथा यथा निश्चय ईदृगाप्यते
तथावधेयं परयोगिना सदा ।
न वस्तुयाथात्म्यविहीनया दृशा
विशङ्कितव्यं शिशुदेशनागणैः ॥
TSAR-A०४-M००१
जह जह जस्सु जहिं
चिव पफुरइ अज्जवसाउ ।
तह तह तस्सु तहिं
चिव तारिसु होइ पहाउ ॥१॥
TSAR-A०४-M००२
हंतं मलिणउ हंतं पसु
हंतं आ अह सअलभावपडलवत्तिरित्तउ ।
इअ दढणिच्छअ णिअ लिअ हिअअह
फुरइ णाम कह जिस्स परतत्तउ ॥२॥
TSAR-A०४-M००३
परसिवतरणिकिरण-
दढपातविकासिअ हिअअ कमलए ।
सरहसस फुरिअ णिअ
अइसुन्दरपरिमलबोहकरमए ॥३॥
TSAR-A०४-M००४
हंतं सिवणाहु णिहिल जअ-
तत्त सुणिब्भरओत्ति विरुरी ।
फुरइ विमरिसभमरि
पपलाअ णिअ लच्छि विभइरी ॥४॥
TSAR-A०४-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे शाक्तोपायप्रकाशनं नाम चतुर्थमाह्निकम् ॥४॥
TSAR-A०५-H००१
अथ पञ्चममाह्निकम् ।
TSAR-A०५-U००१
अथाणवोपायः ।
TSAR-A०५-P००१
तत्र यदा विकल्पः स्वयमेव संस्कारम् आत्मनि उपायान्तरनिरपेक्षतयैव कर्तुं प्रभवति तदा असौ पाशवव्यापारात् प्रच्युतः शुद्धविद्यानुग्रहेण परमेशशक्तिरूपताम् आपन्न उपायतया अवलम्ब्यमानः शाक्तं ज्ञानम् आविर्भावयति । तदेतच्च निर्णीतम् अनन्तर एव आह्निके । यदा तु उपायान्तरम् असौ स्वसंस्कारार्थं विकल्पोऽपेक्षते तदा बुद्धिप्राणदेहघटादिकान् परिमितरूपान् उपायत्वेन गृह्णन् अणुत्वं प्राप्त आणवं ज्ञानम् आविर्भावयति तत्र बुद्धिः ध्यानात्मिका प्राणः स्थूलः सूक्ष्मश्च आद्य उच्चारणात्मा उच्चारणं च नाम पञ्च प्राणाद्या वृत्तयः सूक्ष्मस्तु वर्णशब्दवाच्यो वक्ष्यते देहः संनिवेशविशेषात्मा करणशब्दवाच्यः घटादयो बाह्याः कुम्भस्थण्डिललिङ्गपूजाद्युपायतया कीर्तयिष्यमाणाः । तत्र ध्यानं तावत् इह उचितम् उपदेक्ष्यामः यत् एतत् स्वप्रकाशं सर्वतत्त्वान्तर्भूतं परं तत्त्वम् उक्तं तदेव निजहृदयबोधे ध्यात्वा तत्र प्रमातृप्रमाणप्रमेयरूपस्य वह्न्यर्कसोमत्रितयस्य संघट्टं ध्यायेत् यावत् असौ महाभैरवाग्निः ध्यानवातसमिद्धाकारः संपद्यते तस्य प्राक्तनशक्तिज्वालाद्वादशकपरिवृतस्य चक्रात्मनः चक्षुरादीनाम् अन्यतमसुषिरद्वारेण निःसृतस्य बाह्ये ग्राह्यात्मनि विश्रान्तं चिन्तयेत् तेन च विश्रान्तेन प्रथमं तद्बाह्यं सोमरूपतया सृष्टिक्रमेण प्रपूरितं ततः अर्करूपतया स्थित्या अवभासितं ततोऽपि संहारवह्निरूपतया विलापितं ततः अनुत्तरात्मताम् आपादितं ध्यायेत् । एवं तच्चक्रं समस्तबाह्यवस्त्वभेदपरिपूर्णं संपद्यते । ततो वासनाशेषानपि भावान् तेन चक्रेण इत्थं कृतान् ध्यायेत् । एवम् अस्य अनवरतं ध्यायिनः स्वसंविन्मात्रपरमार्थान् सृष्टिस्थितिसंहारप्रबन्धान् सृष्ट्यादिस्वातन्त्र्यपरमार्थत्वं च स्वसंविदो निश्चिन्वतः सद्य एव भैरवीभावः । अभ्यासात् तु सर्वेप्सितसिद्ध्यादयोऽपि ।
TSAR-A०५-V००१
स्वप्रकाशं समस्तात्मतत्त्वं मात्रादिकं त्रयम् ।
अन्तःकृत्य स्थितं ध्यायेद्धृदयानन्दधामनि ॥
TSAR-A०५-V००२
तद्द्वादशमहाशक्तिरश्मिचक्रेश्वरं विभुम् ।
व्योमभिर्निःसरद्बाह्ये
ध्यायेत्सृष्ट्यादिभावकम् ॥
TSAR-A०५-V००३
तद्ग्रस्तसर्वबाह्यान्तर्भावमण्डलमात्मनि ।
विश्राम्यन्भावयेद्योगी स्यादेवं स्वात्मनः प्रथा ॥
TSAR-A०५-U००२
इति संग्रहश्लोकाः । इति ध्यानम् । अथ उच्चारः ।
TSAR-A०५-P००२
तत्र प्राणम् उच्चिचारयिषुः पूर्वं हृदय एव शून्ये विश्राम्यति ततो बाह्ये प्राणोदयात् ततोऽपि बाह्यं प्रति अपानचन्द्रापूरणेन सर्वात्मतां पश्यति ततः अन्यनिराकाङ्क्षो भवति ततः समानोदयात् संघट्टविश्रान्तिम् अनुभवति तत उदानवह्न्युदये मातृमेयादिकलनाग्रसते । तद्ग्रासकवह्निप्रशमे व्यानोदये सर्वावच्छेदवन्ध्यः स्फुरति । एवं शून्यात् प्रभृति व्यानान्तं या एता विश्रान्तयः ता एव निजानन्दो निरानन्दः परानन्दो ब्रह्मानन्दो महानन्दः चिदानन्द इति षट् आनन्दभूमय उपदिष्टाः यासाम् एकः अनुसंधाता उदयास्तमयविहीनः अन्तर्विश्रान्तिपरमार्थरूपो जगदानन्दः तत् एतासु उच्चारभूमिषु प्रत्येकं द्व्यादिशः सर्वशो वा विश्राम्य अन्यत् तद्देहप्राणादिव्यतिरिक्तं विश्रान्तितत्त्वम् आसादयति । तदेव सृष्टिसंहारबीजोच्चारणरहस्यम् अनुसंदधत् विकल्पं संस्कुर्यात् आसु च विश्रान्तिषु प्रत्येकं पञ्च अवस्था भवन्ति प्रवेशतारतम्यात् । तत्र प्रागानन्दः पूर्णतांशस्पर्शात् तत उद्भवः क्षणं निःशरीरतायां रूढेः ततः कम्पः स्वबलाक्रान्तौ देहतादात्म्यशैथिल्यात् ततो निद्रा बहिर्मुखत्वविलयात् । इत्थम् अनात्मनि आत्मभावे लीने स्वात्मनः सर्वमयत्वात् आत्मनि अनात्मभावो विलीयते इति अतो घूर्णिः महाव्याप्त्युदयात् । ता एता जाग्रदादिभूमयः तुर्यातीतान्ताः । एताश्च भूमयः त्रिकोणकन्दहृत्तालूर्ध्वकुण्डलिनीचक्रप्रवेशे भवन्ति । एवम् उच्चारविश्रान्तौ यत् परं स्पन्दनं गलिताशेषवेद्यं यच्च उन्मिषद्वेद्यं यच्च उन्मिषितवेद्यं तदेव लिङ्गत्रयम् इति वक्ष्यामः स्वावसरे । परं चात्र लिङ्गं योगिनीहृदयम् । तत्र मुख्या स्पन्दनरूपता संकोचविकासात्मतया यामलरूपतोदयेन विसर्गकलाविश्रान्तिलाभात् इत्यलम् । अप्रकाशः अत्र अनुप्रवेशः ।
TSAR-A०५-V००४
पूर्वं स्वबोधे तदनु प्रमेये
विश्रम्य मेयं परिपूरयेत ।
पूर्णेऽत्र विश्राम्यति मातृमेय-
विभागमाश्वेव स संहरेत् ॥
TSAR-A०५-V००५
व्याप्त्याथ विश्राम्यति ता इमाः स्युः
शून्येन साकं षडुपायभूम्यः ।
प्राणादयो व्याननपश्चिमास्त-
ल्लीनश्च जाग्रत्प्रभृति प्रपञ्चः ॥
TSAR-A०५-F००१
अभ्यासनिष्ठोऽत्र तु सृष्टिसंहृद्-
विमर्शधामन्यचिरेण रोहेत् ।
TSAR-A०५-U००३
इति आन्तरश्लोकाः । इति उच्चारणम् । अथ सूक्ष्मप्राणात्मा वर्णः ।
TSAR-A०५-P००३
अस्मिन् एव उच्चारे स्फुरन् अव्यक्तानुकृतिप्रायो ध्वनिः वर्णः तस्य सृष्टिसंहारबीजे मुख्यं रूपं तदभ्यासात् परसंवित्तिलाभः तथाहि- कादौ मान्ते साच्के अनच्के वा अन्तरुच्चारिते स्मृते वा समविशिष्टः संवित्स्पन्दस्पर्शः समयानपेक्षित्वात् परिपूर्णः समयापेक्षिणोऽपि शब्दाः तदर्थभावका मनोराज्यादिवत् अनुत्तरसंवित्स्पर्शात् एकीकृतहृत्कण्ठोष्ठो द्वादशान्तद्वयं हृदयं च एकीकुर्यात् इति वर्णरहस्यम् । अन्तःस्फुरद्विमर्शानन्तरसमुद्भूतं सितपीताद्यान्तरं वर्णम् उद्भाव्यमानं संविदम् अनुभावयति इति केचित् ।
TSAR-A०५-V००६
वाच्यविरहेण संवित्-
स्पन्दादिन्द्वर्कगतिनिरोधाभ्याम् ।
यस्य तु समसंप्रवेशात्
पूर्णा
चिद्बीजपिण्डवर्णविधौ ॥
TSAR-A०५-U००४
इति आन्तरश्लोकः । इति वर्णविधिः । करणं तु मुद्राप्रकाशने वक्ष्यामः ।
TSAR-A०५-V००७
विकल्पः कस्यापि स्वयमनुपयन्पूर्णमयता-
मुपायात्संस्कारं व्रजति स उपायोऽत्र बहुधा ।
धियि प्राणे देहे तदनु बहिरित्याणवतया
स निर्णीतो नैषां परफलविधौ कापि हि भिदा ॥
TSAR-A०५-M००१
सुण्णउ रविससि दहन
सउ उस्सउ एहु सवीरु ।
उहि अच्छन्तउ परमपउ
पावइ अचिरे वीरु ॥
TSAR-A०५-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे आणवप्रकाशनं नाम पञ्चममाह्निकम् ॥
TSAR-A०६-H००१
अथ षष्ठमाह्निकम् ।
TSAR-A०६-U००१
अथ बाह्यविधिः ।
TSAR-A०६-P००१
स एव स्थानप्रकल्पनशब्देन उक्तः तत्र त्रिधा स्थानं प्राणवायुः शरीरं बाह्यं च तत्र प्राणे तावत् विधिः सर्वः असौ वक्ष्यमाणः अध्वा प्राणस्थः कल्यते तस्य क्रमाक्रमकलनैव कालः स च परमेश्वर एव अन्तर्भाति तद्भासनं च देवस्य काली नाम शक्तिः भेदेन तु तदाभासनं क्रमाक्रमयोः प्राणवृत्तिः । संविदेव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अत एव च अवच्छेदयोगात् वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति ततोऽसौ चेतन इव भाति । तत्र क्रियाशक्तौ कालाध्वा प्राच्यभागे उत्तरे तु मूर्तिवैचित्र्यरूपो देशाध्वा तत्र वर्णमन्त्रपदाध्वनः कालाध्वनि स्थितिः परसूक्ष्मस्थूलरूपत्वात् । देशाध्वस्थितिस्तु तत्त्वपुरकलात्मना इति भविष्यति स्वावसरे । तत्र यद्यपि देहे सबाह्याभ्यन्तरम् ओतप्रोतरूपः प्राणः तथापि प्रस्फुटसंवेद्यप्रयत्नः असौ हृदयात्प्रभृति इति तत एव अयं निरूपणीयः । तत्र प्रभुशक्तिः आत्मशक्तिः यत्न इति त्रितयं प्राणेरणे हेतुः गुणमुख्यभावात् । तत्र हृदयात् द्वादशान्तान्तं स्वाङ्गुलैः सर्वस्य षट्त्रिंशदङ्गुलः प्राणचारः निर्गमे प्रवेशे च स्वोचितबलयत्नदेहत्वात् सर्वस्य । तत्र घटिका तिथिः मासो वर्षं च वर्षसमूहात्मा इति समस्तः कालः परिसमाप्यते । तत्र सपञ्चांशे अङ्गुले चषक इति स्थित्या घटिकोदयः घटिका हि षष्ट्या चषकैः तस्मात् द्वासप्तत्यङ्गुला भवति ।
TSAR-A०६-P००२
अथ तिथ्युदयः । सपादमङ्गुलद्वयं तुटिः उच्यते तासु चतसृषु प्रहरः तुट्यर्धं तुट्यर्धं तत्र संध्या एवं निर्गमे दिनं प्रवेशे रात्रिः इति तिथ्युदयः अथ मासोदयः । तत्र दिनं कृष्णपक्षः रात्रिः शुक्लः तत्र पूर्वं तुट्यर्धं अन्त्यं च तुट्यर्धं विश्रान्तिः अकालकलिताः मध्यास्तु पञ्चदश तुटय एव तिथयः तत्र प्रकाशो विश्रान्तिश्च इति एते एव दिननिशे तत्र वेद्यमयताप्रकाशो दिनं वेद्यस्य विचारयितरि लयो रात्रिः ते च प्रकाशविश्रान्ती चिराचिरवैचित्र्यात् अनन्तभेदे तत्साम्ये तु विषुवत् तत्र कृष्णपक्षे प्राणार्के अपानचन्द्र आप्यायिकाम् एकामेकां कलाम् अर्पयति यावत् पञ्चदश्यां तुटौ द्वादशान्तसमीपे क्षीणपृथग्भूतकलाप्रसरः चन्द्रमाः प्राणार्क एव लीयते । तदनन्तरं यत् तुट्यर्धं स पक्षसंधिः । तस्य च तुट्यर्धस्य प्राच्यम् अर्धम् आमावस्यं द्वितीयं प्रातिपदं । तत्र प्रातिपदे तस्मिन् भागे स आमावस्यो भागो यदा कासप्रयत्नावधानादिकृतात् तिथिच्छेदात् विशति तदा तत्र ग्रहणम् तत्र च वेद्यरूपसोमसहभूतो मायाप्रमातृराहुः स्वभावतया विलापनाशक्तः केवलम् आच्छादनमात्रसमर्थः सूर्यगतं चान्द्रं अमृतं पिबति इति । प्रमातृप्रमाणप्रमेयत्रितयाविभागकारित्वात् स पुण्यः कालः पारलौकिकफलप्रदः । ततः प्रविशति प्राणे चिदर्क एकैकया कलया अपानचन्द्रम् आपूरयति यावत् पञ्चदशी तुटिः पूर्णिमा तदनन्तरं पक्षसंधिः ग्रहणं च इति प्राग्वत् एतत् तु ऐहिकफलप्रदम् इति मासोदयः ।
TSAR-A०६-P००३
अथ वर्षोदयः । तत्र कृष्णपक्ष एव उत्तरायणं षट्सु षट्सु अङ्गुलेषु संक्रान्तिः मकरात् मिथुनान्तं । तत्र प्रत्यङ्गुलं पञ्च तिथयः तत्रापि दिनरात्रिविभागः एवं प्रवेशे दक्षिणायनं गर्भत्वम् उद्भवेच्छा उद्बुभूषुता उद्भविष्यत्वम् उद्भवारम्भः उद्भवत्ता जन्मादिविकारषट्कं च इति क्रमात् मकरादिषु इति । तथैव उपासा अत्र फलं समुचितं करोति । अत्र च दक्षाद्याः पितामहान्ता रुद्राः शक्तयश्च द्वादशाधिपतय इति वर्षोदयः । प्रत्यङ्गुलं षष्टिः तिथय इति क्रमेण संक्रान्तौ वर्षम् इत्यनेन क्रमेण प्रवेशनिर्गमयोः द्वादशाब्दोदयः प्रत्यङ्गुलं तिथीनां शतत्रयं सपञ्चांशेऽङ्गुले वर्षं यत्र प्राक् चषकम् उक्तम् इति गणनया संक्रान्तौ पञ्च वर्षाणि इति अनया परिपाट्या एकस्मिन् प्राणनिर्गमप्रवेशकाले षष्ट्यब्दोदयः अत्र एकविंशतिसहस्राणि षट् शतानि इति तिथीनां संख्या । तावती एव अहोरात्रे प्राणसंख्या इति न षष्ट्यब्दोदयात् अधिकं परीक्ष्यते आनन्त्यात् । तत्र मानुषं वर्षं देवानां तिथिः अनेन क्रमेण दिव्यानि द्वादशवर्षसहस्राणि चतुर्युगम् । चत्वारि त्रीणि द्वे एकम् इति कृतात् प्रभृति तावद्भिः शतैः अष्टौ संध्याः । चतुर्युगानाम् एकसप्तत्या मन्वन्तरम् मन्वन्तरैः चतुर्दशभिः ब्राह्मं दिनं ब्रह्मदिनान्ते कालाग्निदग्धे लोकत्रये अन्यत्र च लोकत्रये धूमप्रस्वापिते सर्वे जना वेगवदग्निप्रेरिता जनलोके प्रलयाकलीभूय तिष्ठन्ति । प्रबुद्धास्तु कूष्माण्डहाटकेशाद्या महोलोके क्रीडन्ति । ततो निशासमाप्तौ ब्राह्मी सृष्टिः । अनेन मानेन वर्षशतं ब्रह्मायुः । तत् विष्णोः दिनं तावती च रात्रिः तस्यापि शतम् आयुः ।
TSAR-A०६-P००४
तत् दिनं तदूर्ध्वे रुद्रलोकप्रभो रुद्रस्य तावती रात्रिः प्राग्वत् वर्षं तच्छतमपि च अवधिः । तत्र रुद्रस्य तदवसितौ शिवत्वगतिः रुद्रस्य उक्ताधिकारावधिः ब्रह्माण्डधारकाणां तत् दिनं शतरुद्राणां निशा तावती तेषामपि च शतमायुः । शतरुद्रक्षये ब्रह्माण्डविनाशः । एवं जलतत्त्वात् अव्यक्तान्तम् एतदेव क्रमेण रुद्राणाम् आयुः । पूर्वस्यायुरुत्तरस्य दिनम् इति । ततश्च ब्रह्मा रुद्राश्च अबाद्यधिकारिणः अव्यक्ते तिष्ठन्ति इति । श्रीकण्ठनाथश्च तदा संहर्ता । एषोऽवान्तरप्रलयः तत्क्षये सृष्टिः । तत्र शास्त्रान्तरमुक्ता अपि सृज्यन्ते । यत्तु श्रीकण्ठनाथस्य स्वम् आयुः तत् कञ्चुकवासिनां रुद्राणां दिनं तावती रजनी तेषां यदायुः तत् गहनेशदिनं तावती एव क्षपा तस्यां च समस्तमेव मायायां विलीयते । पुनः गहनेशः सृजति । एवं यः अव्यक्तकालः तं दशभिः परार्धैः गुणयित्वा मायादिनं कथयेत् तावती रात्रिः । स एव प्रलयः । मायाकालः परार्धशतेन गुणित ऐश्वरतत्त्वे दिनम् । अत्र प्राणो जगत् सृजति तावती रात्रिः यत्र प्राणप्रशमः प्राणे च ब्रह्मबिलधाम्नि शान्तेऽपि या संवित् तत्राप्यस्ति क्रमः । ऐश्वरे काले परार्धशतगुणिते या संख्या तत् सादाशिवं दिनं तावती निशा स एव महाप्रलयः । सदाशिवः स्वकालपरिक्षये बिन्द्वर्धचन्द्रनिरोधिका आक्रम्य नादे लीयते नादः शक्तितत्त्वे तत् व्यापिन्यां सा च अनाश्रिते । शक्तिकालेन परार्धकोटिगुणितेन अनाश्रितदिनं । अनाश्रितः सामनसे पदे यत् तत् सामनस्यं साम्यं तत् ब्रह्म । अस्मात् सामनस्यात् अकल्यात् कालात् निमेषोन्मेषमात्रतया प्रोक्ताशेषकालप्रसरप्रविलयचक्रभ्रमोदयः ।
TSAR-A०६-P००५
एकं दश शतं सहस्रम् अयुतं लक्षं नियुतं कोटिः अर्बुदं वृन्दं खर्वं निखर्वं पद्मं शङ्कुः समुद्रं अन्त्यं मध्यम् परार्धम् इति क्रमेण दशगुणितानि अष्टादश इति गणितविधिः । एवम् असंख्याः सृष्टिप्रलयाः एकस्मिन् महासृष्टिरूपे प्राणे सोऽपि संविदि सा उपाधौ स चिन्मात्रे चिन्मात्रस्यैव अयं स्पन्दो यदयं कालोदयो नाम । तत एव स्वप्नसंकल्पादौ वैचित्र्यम् अस्य न विरोधावहम् । एवं यथा प्राणे कालोदयः तथा अपानेऽपि हृदयात् मूलपीठपर्यन्तम् । यथा च हृत्कण्ठतालुललाटरन्ध्रद्वादशान्तेषु ब्रह्मविष्णुरुद्रेश सदाशिवानाश्रिताख्यं कारणषट्कम् तथैव अपानेऽपि हृत्कन्दानन्दसंकोचविकासद्वादशान्तेषु बाल्ययौवनवार्धकनिधनपुनर्भवमुक्त्यधिपतय एते ।
TSAR-A०६-P००६
अथ समाने कालोदयः । समानो हार्दीषु दशसु नाडीषु संचरन् समस्ते देहे साम्येन रसादीन् वाहयति । तत्र दिगष्टके संचरन् तद्दिक्पतिचेष्टाम् इव प्रमातुः अनुकारयति । ऊर्ध्वाधस्तु संचरन् तिसृषु नाडीषु गतागतं करोति । तत्र विषुवद्दिने बाह्ये प्रभातकाले सपादां घटिकां मध्यमार्गे वहति । ततो नवशतानि प्राणविक्षेपाणाम् इति गणनया बहिः सार्धघटिकाद्वयं वामे दक्षिणे वामे दक्षिणे वामे इति पञ्च संक्रान्तयः । ततः संक्रान्तिपञ्चके वृत्ते पादोनासु चतुर्दशसु घटिकासु अतिक्रान्तासु दक्षिणं शारदं विषुवन्मध्याह्ने नव प्राणशतानि । ततोऽपि दक्षिणे वामे दक्षिणे वामे दक्षिणे इति संक्रान्तिपञ्चकं प्रत्येकं नवशतानि इत्येवं रात्रावपि इति । एवं विषुवद्दिवसे तद्रात्रौ च द्वादश द्वादश संक्रान्तयः । ततो दिनवृद्धिक्षयेषु संक्रान्तिवृद्धिक्षयः । एवम् एकस्मिन् समानमरुति वर्षद्वयं श्वासप्रश्वासयोगाभावात् । अत्रापि द्वादशाब्दोदयादि पूर्ववत् । उदाने तु द्वादशान्तावधिश्चारः स्पन्दमात्रात्मनः कालस्य । अत्रापि पूर्ववत् विधिः । व्याने तु व्यापकत्वात् अक्रमेऽपि सूक्ष्मोच्छलत्तायोगेन कालोदयः ।
TSAR-A०६-P००७
अथ वर्णोदयः । तत्र अर्धप्रहरे अर्धप्रहरे वर्गोदयो विषुवति समः वर्णस्य वर्णस्य द्वे शते षोडशाधिके प्राणानाम् बहिः षट्त्रिंशत् चषकाणि इति उदयः अयम् अयत्नजो वर्णोदयः । यत्नजस्तु मन्त्रोदयः अरघट्टघटीयन्त्रवाहनवत् एकानुसंधिबलात् चित्रं मन्त्रोदयं दिवानिशम् अनुसंदधत् मन्त्रदेवतया सह तादात्म्यम् एति । तत्र सदोदिते प्राणचारसंख्ययैव उदयसंख्या व्याख्याता तद्द्विगुणिते तदर्धम् इत्यादिक्रमेण अष्टोत्तरशते चक्रे द्विशत उदयः इति क्रमेण स्थूलसूक्ष्मे चारस्वरूपे विश्रान्तस्य प्राणचारे क्षीणे कालग्रासे वृत्ते संपूर्णम् एकमेवेदं संवेदनं चित्रशक्तिनिर्भरं भासते । कालभेद एव संवेदनभेदकः न वेद्यभेदः शिखरस्थज्ञानवत् ज्ञानस्य यावान् अवस्थितिकालः स एव क्षणः प्राणोदये च एकस्मिन् एकमेव ज्ञानम् अवश्यं चैतत् अन्यथा विकल्पज्ञानम् एकं न किंचित् स्यात् क्रमिकशब्दारूषितत्वात् मात्राया अपि क्रमिकत्वात् । यदाह
TSAR-A०६-Q००१
तस्यादित उदात्तमर्धह्रस्वम् ।
TSAR-A०६-P००८
इति । तस्मात् स्पन्दान्तरं यावत् न उदितं तावत् एकमेव ज्ञानं । अत एव एकाशीतिपदस्मरणसमये विविधधर्मानुप्रवेशमुखेन एक एव असौ परमेश्वरविषयो विकल्पः कालग्रासेन अविकल्पात्मा एव संपद्यते इति । एवम् अखिलं कालाध्वानं प्राणोदय एव पश्यन् सृष्टिसंहारांश्च विचित्रान् निःसंख्यान् तत्रैव आकलयन् आत्मन एव पारमेश्वर्यं प्रत्यभिजानन् मुक्त एव भवति इति ।
TSAR-A०६-V००१
संविद्रूपस्यात्मनः प्राणशक्तिं
पश्यन्रूपं तत्रगं चातिकालम् ।
साकं सृष्टिस्थेमसंहारचक्रै-
र्नित्योद्युक्तो भैरवीभावमेति ॥
TSAR-A०६-M००१
सअल प्रआस रूउ संवेअण
फन्दतरङ्गकलण तहू पाणुर ।
पाणब्भन्तरम्मि परिणिडउ
सअलउ कालपसरु परिआणु ॥
TSAR-A०६-M००२
जह उल्लसइ जह विण्णिरुज्जइ
पवनसत्ति तह एहु महेसरु ।
सिठिपलअं दसइ ज णिमज्जइ
सो अत्ता णउ चित्तहसाअरु ॥
TSAR-A०६-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे कालाध्वप्रकाशनं नाम षष्ठमाह्निकम् ॥६॥
TSAR-A०७-H००१
अथ सप्तममाह्निकम् ।
TSAR-A०७-U००१
अथ देशाध्वा ।
TSAR-A०७-P००१
तत्र समस्त एव अयं मूर्तिवैचित्र्याभासनशक्तिजो देशाध्वा संविदि विश्रान्तः तद्द्वारेण शून्ये बुद्धौ प्राणे नाडीचक्रानुचक्रेषु बहिः शरीरे यावल्लिङ्गस्थण्डिलप्रतिमादौ समस्तोऽध्वा परिनिष्ठितः तं समस्तम् अध्वानं देहे विलाप्य देहं च प्राणे तं धियि तां शून्ये तत्संवेदने निर्भरपरिपूर्णसंवित् संपद्यते षड्त्रिंशत्तत्त्वस्वरूपज्ञः तदुत्तीर्णां संविदं परमशिवरूपां पश्यन् विश्वमयीमपि संवेदयेत अप रथा वेद्यभागमेव कंचित् परत्वेन गृह्णीयात् मायागर्भाधिकारिणं विष्णुब्रह्मादिकं वा तस्मात् अवश्यं प्रक्रियाज्ञानपरेण भवितव्यम् । तदुक्तं
TSAR-A०७-F००१
न प्रक्रियापरं ज्ञानम् ……….. ।
TSAR-A०७-P००२
इति । तत्र पृथिवीतत्त्वं शतकोटिप्रविस्तीर्णं ब्रह्माण्डगोलकरूपम् । तस्य अन्तः कालाग्निर्नरकाः पातालानि पृथिवी स्वर्गो यावद्ब्रह्मलोक इति । ब्रह्माण्डबाह्ये रुद्राणां शतं । न च ब्रह्माण्डानां संख्या विद्यते । ततो धरातत्त्वात् दशगुणं जलतत्त्वं । तत उत्तरोत्तरं दशगुणम् अहंकारान्तं । तद्यथा जलं तेजो वायुर्नभः तन्मात्रपञ्चकाक्षैकादशगर्भोऽहंकारश्चेति । अहंकारात् शतगुणं बुद्धितत्त्वं ततः सहस्रधा प्रकृतितत्त्वं एतावत्प्रकृत्यण्डम् । तच्च ब्रह्माण्डवत् असंख्यम् । प्रकृतितत्त्वात् पुरुषतत्त्वं च दशसहस्रधा । पुरुषात् नियतिः लक्षधा । नियतेरुत्तरोत्तरं दशलक्षधा कलातत्त्वान्तम् । तद्यथा नियतिः रागः अशुद्धविद्या कालः कला चेति । कलातत्त्वात् कोटिधा माया एतावत् मायाण्डम् । मायातत्त्वात् शुद्धविद्या दशकोटिगुणिता । विद्यातत्त्वात् ईश्वरतत्त्वं शतकोटिधा । ईश्वरतत्त्वात् सादाख्यं सहस्रकोटिधा । सादाख्यात् वृन्दगुणितं शक्तितत्त्वम् इति शक्त्यण्डम् । सा शक्तिर्व्याप्य यतो विश्वमध्वानम् अन्तर्बहिरास्ते तस्मात् व्यापिनी । एवमेतानि उत्तरोत्तरम् आवरणतया वर्तमानानि तत्त्वानि उत्तरं व्यापकं पूर्वं व्याप्यम् इति स्थित्या वर्तन्ते । यावदशेषशक्तितत्त्वान्तोऽध्वा शिवतत्त्वेन व्याप्तः । शिवतत्त्वं पुनरप्रमेयं सर्वाध्वोत्तीर्णं सर्वाध्वव्यापकं च । एतत्तत्त्वान्तरालवर्तीनि यानि भुवनानि तत्पतय एव अत्र पृथिव्यां स्थिता इति । तेषु आयतनेषु ये म्रियन्ते तेषां तत्र तत्र गतिं ते वितरन्ति । क्रमाच्च ऊर्ध्वोर्ध्वं प्रेरयन्ति दीक्षाक्रमेण । तद्यथा
TSAR-A०७-V००१
कालाग्निः कूष्माण्डो
नरकेशो हाटकोऽथ भूतलपः ।
ब्रह्मा मुनिलोकेशो
रुद्रः पञ्चाण्डमध्यगतः ॥
TSAR-A०७-V००२
अधरेऽनन्तः प्राच्याः
कपालिवह्न्यन्तनिर्-ऋतिबालाख्याः ।
लघुनिधिपतिविद्याधिप-
शम्भूर्ध्वान्तं स वीरभद्रपतिः ॥
TSAR-A०७-V००३
इति षोडशपुरमेतत्-
पार्थिवमण्डं निवृत्तिकला ।
लकुलीशभारभूति-
र्दिण्ड्याषाढी च पुष्करनिमेषौ ॥
TSAR-A०७-V००४
प्रभाससुरेशाविति
सलिले प्रत्यात्मकाष्टकं प्रोक्तम् ।
भैरवकेदारमहा-
काला मध्यास्रजल्पाख्याः ॥
TSAR-A०७-V००५
श्रीशैलहरिश्चन्द्रा-
विति गुह्याष्टकमिदं महसि ।
भीमेन्द्राट्टाः सविमल-
कनखलनाखलकुरुस्थितिगयाख्याः ॥
TSAR-A०७-V००६
अतिगुह्याष्टकमेतन्-
मरुति सतन्मात्रके साक्षे ।
स्थाणुसुवर्णाख्यौ किल
भद्रो गोकर्णको महालयकः ॥
TSAR-A०७-V००७
अविमुक्तरुद्रकोटी-
वस्त्रापद इत्यदः पवित्रं खे ।
स्थूलस्थूलेशशङ्कु-
श्रुतिकालाश्चाथ मण्डलभृत् ॥
TSAR-A०७-V००८
माकोटाण्डद्वितय-
च्छगलाण्डाष्टकं त्वहङ्कारे ।
अन्ये त्वहङ्कारान्ता-
स्तन्मात्राणीन्द्रियाणि चेत्याहुः ॥
TSAR-A०७-V००९
धियि देवयोनयोऽष्टौ
प्रकृतौ योगाष्टकं किलाकृतप्रभृति ।
इति सप्ताष्टकभुवना
प्रतिष्ठितिः सलिलतस्तु मूलान्ता ॥
TSAR-A०७-V०१०
नरि वामाद्या रुद्रा
एकादश वित्कलानियतिषु स्यात् ।
प्रत्येकं भुवनद्वय-
मथ काले तत्त्रयं निशायां स्युः ॥
TSAR-A०७-V०११
अष्टावष्टाविंशति-
भुवना विद्या नरान्निशान्तमियम् । विद्यायां पञ्च स्यु-
र्विद्येशाष्टकमथैश्वरे तत्त्वे ॥
TSAR-A०७-F००२
सादाख्ये पञ्चकमिति
अष्टादशभुवनिका शान्ता ।
TSAR-A०७-V०१२
अध्वानमिमं सकलं
देहे प्राणेऽथ धियि महानभसि ॥
संविदि च परं पश्यन्-
पूर्णत्वाद्भैरवीभवति ॥
TSAR-A०७-M००१
परमेसरसासणसुणिरुइउ
सुणिविमअलअद्धाणउ ।
झहुझ्जतिसरीरिपवणि
संवेअ णिअपेक्खन्तउ पहुरइ परिउण्णु ॥
TSAR-A०७-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे देशाध्वप्रकाशनं नाम सप्तममाह्निकम् ॥७॥
TSAR-A०८-H००१
अथ अष्टममाह्निकम् ।
TSAR-A०८-U००१
अथ तत्त्वाध्वा निरूप्यते ।
TSAR-A०८-P००१
यदिदं विभवात्मकं भुवनजातमुक्तं गर्भीकृतानन्तविचित्रभोक्तृभोग्यं तत्र यदनुगतं महाप्रकाशरूपं तत् महासामान्यकल्पं परमशिवरूपम् । यत्तु कतिपयकतिपयभेदानुगतं रूपं तत्तत्त्वं यथा पृथिवी नाम धृतिकाठिन्यस्थौल्यादिरूपा कालाग्निप्रभृतिवीरभद्रान्तभुवनेशाधिष्ठितसमस्तब्रह्माण्डानुगता । तत्र एषां तत्त्वानां कार्यकारणभावो दर्श्यते स च द्विविधः पारमार्थिकः सृष्टश्च । तत्र पारमार् थिक एतावान् कार्यकारणभावो यदुत कर्तृस्वभावस्य स्वतन्त्रस्य भगवत एवं विधेन शिवादिधरान्तेन वपुषा स्वरूपभिन्नेन स्वरूपविश्रान्तेन च प्रथनं । कल्पितस्तु कार्यकारणभावः परमेशेच्छया नियतिप्राणया निर्मितः स च यावति यदा नियतपौर्वापर्यावभासनं सत्यपि अधिके स्वरूपानुगतम् एतावत्येव तेन योगीच्छातोऽपि अङ्कुरो बीजादपि स्वप्नादौ घटादेरपीति । तत्रापि च परमेश्वरस्य कर्तृत्वानपाय इति अकल्पितोऽपि असौ पारमार्थिकः स्थित एव । पारमार्थिके हि भित्तिस्थानीये स्थिते रूपे सर्वम् इदम् उल्लिख्यमानं घटते न अन्यथा अत एव सामग्र्या एव कारणत्वं युक्तं । सा हि समस्तभावसंदर्भमयी स्वतन्त्रसंवेदनमहिम्ना तथा नियतनिजनिजदेशकालभावराशिस्वभावा प्रत्येकं वस्तुस्वरूपनिष्पत्तिसमये तथाभूता तथाभूताया हि अन्यथाभावो यथा यथा अधिकीभवति तथा तथा कार्यस्यापि विजातीयत्वं तारतम्येन पुष्यति इत्येवं संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव विश्वभावशरीरो घटादेर्निर्माता कुम्भकारसंविदस्ततोऽनधिकत्वात् कुम्भकारशरीरस्य च भावराशिमध्ये निक्षेपात् कथं कुम्भकारशरीरस्य कर्तृत्वाभिमानः ? इति चेत् परमेश्वरकृत एवासौ घटादिवत् भविष्यति ।
TSAR-A०८-P००२
तस्मात् सामग्रीवादोऽपि विश्वशरीरस्य संवेदनस्यैव कर्तृतायाम् उपोद्बलकः । मेरौ हि तत्रस्थे न भवेत् तथाविधो घटः । एवं कल्पितेऽस्मिन् कार्यत्वे शास्त्रेषु तत्त्वानां कार्यकारणभावं प्रति यत् बहुप्रकारत्वं तदपि संगतं गोमयात् कीटात् योगीच्छातो मन्त्रादौषधात् वृश्चिकोदयवत् । तत्र निजतन्त्रदृशा तं कल्पितं दर्शयामः । तत्र परमेश्वरः पञ्चभिः शक्तिभिः निर्भर इत्युक्तम् स स्वातन्त्र्यात् शक्तिं तां तां मुख्यतया प्रकटयन् पञ्चधा तिष्ठति । चित्प्राधान्ये शिवतत्त्वम् आनन्दप्राधान्ये शक्तितत्त्वम् इच्छाप्राधान्ये सदाशिवतत्त्वम् इच्छाया हि ज्ञानक्रिययोः साम्यरूपाभ्युपगमात्मकत्वात् ज्ञानशक्तिप्राधान्ये ईश्वरतत्त्वम् क्रियाशक्तिप्राधान्ये विद्यातत्त्वम् इति । अत्र च तत्त्वेश्वराः शिवशक्तिसदाशिवेश्वरानन्ताः ब्रह्मेव निवृत्तौ एषां सामान्यरूपाणां विशेषा अनुगतिविषयाः पञ्च तद्यथा शाम्भवाः शाक्ताः मन्त्रमहेश्वराः मन्त्रेश्वराः मन्त्रा इति शुद्धाध्वा । इयति साक्षात् शिवः कर्ता अशुद्धं पुनरध्वानमनन्तापरनामाघोरेशः सृजति ईश्वरेच्छावशेन प्रक्षुब्धभोगलोलिकानामणूनां भोगसिद्ध्यर्थम् । तत्र लोलिकोऽपूर्णम्मन्यतारूपः परिस्पन्दः अकर्मकमभिलाषमात्रमेव भविष्यदवच्छेदयोग्यतेति न मलः पुंसस्तत्त्वान्तरम् । रागतत्त्वं तु कर्मावच्छिन्नोऽभिलाषः । कर्म तु तत्र कर्ममात्रं बुद्धिधर्मस्तु रागः कर्मभेदचित्र इति विभागो वक्ष्यते । सोऽयं मलः परमेश्वरस्य स्वात्मप्रच्छादनेच्छातः नान्यत् किंचित् वस्त्वपि च तत् परमेश्वरेच्छात्मनैव धरादेरपि वस्तुत्वात् । स च मलो विज्ञानकेवले विद्यमानो ध्वंसोन्मुख इति न स्वकार्यं कर्म आप्याययति ।
TSAR-A०८-P००३
प्रलयकेवलस्य तु जृम्भमाण एव आस्त इति मलोपोद्बलितं कर्म संसारवैचित्र्यभोगे निमित्तम् इति तद्भोगवासनानुविद्धानामणूनां भोगसिद्धये श्रीमान् अघोरेशः सृजति इति युक्तमुक्तं मलस्य च प्रक्षोभ ईश्वरेच्छाबलादेव जडस्य स्वतः कुत्रचिदपि असामर्थ्यात् । अणुर्नाम किल चिदचिद्रूपावभास एव तस्य चिद्रूपमैश्वर्यमेव अचिद्रूपतैव मलः तस्य च सृजतः परमेश्वरेच्छामयं तत एव च नित्यं स्रक्ष्यमाणवस्तुगतस्य रूपस्य जडतयाभासयिष्यमाणत्वात् जडं सकलकार्यव्यापनादिरूपत्वाच्च व्यापकं मायाख्यं तत्त्वम् उपादानकारणं तदवभासकारिणी च परमेश्वरस्य माया नाम शक्तिस्ततोऽन्यैव । एवं कलादितत्त्वानां धरान्तानामपि द्वैरूप्यं निरूप्यम् । अत्र च द्वैरूप्ये प्रमाणमपि आहुरभिनवगुप्तगुरवः । यत् संकल्पे भाति तत्पृथग्भूतं बहिरपि अस्ति स्फुटेन वपुषा घट इव । तथा च मायाकलादिखपुष्पादेरपि एषैव वर्तनी इति केवलान्वयी हेतुः । अनेन च मायाकलाप्रकृतिबुद्ध्यादिविषयं साक्षात्काररूपं ज्ञानं ये भजन्ते तेऽपि सिद्धाः सिद्धा एव । एवं स्थिते मायातत्त्वात् विश्वप्रसवः । स च यद्यपि अक्रममेव तथापि उक्तदृशा क्रमोऽवभासते इति । सोऽपि उच्यते तत्र प्रत्यात्म कलादिवर्गो भिन्नः तत्कार्यस्य कर्तृत्वोपोद्बलनादेः प्रत्यात्मभेदेन उपलम्भात् स तु वर्गः कदाचित् एकीभवेत् अपि ईश्वरेच्छया सामाजिकात्मनामिव तत्र सर्वोऽयं कलादिवर्गः शुद्धः यः परमेश्वरविषयतया तत्स्वरूपलाभानुगुणनिजकार्यकारी संसारप्रतिद्वन्द्वित्वात् । स च परमेश्वरशक्तिपातवशात् तथा भवति इति वक्ष्यामस्तत्प्रकाशने ।
TSAR-A०८-P००४
अशुद्धस्तु तद्विपरीतः । तत्र मायातः कला जाता या सुप्तस्थानीयम् अणुं किंचित्कर्तृत्वेन युनक्ति सा च उच्छूनतेव संसारबीजस्य मायाण्वोरुभयोः संयोगात् उत्पन्नापि मायां विकरोति न अविकार्यमणुम् इति मायाकार्यत्वम् अस्याः । एवम् अन्योन्यश्लेषात् अलक्षणीयान्तरत्वं पुंस्कलयोः । मायागर्भाधिकारिणस्तु कस्यचिदीश्वरस्य प्रसादात् सर्वकर्मक्षये मायापुरुषविवेको भवति येन मायोर्ध्वे विज्ञानाकल आस्ते न जातुचित् मायाधः कलापुंविवेको वा येन कलोर्ध्वे तिष्ठति । प्रकृतिपुरुषविवेको वा येन प्रधानाधो न संसरेत् । मलपुरुषविवेके तु शिवसमानत्वं । पुरुषपूर्णतादृष्टौ तु शिवत्वमेवेति । एवं कलातत्त्वमेव किंचित्कर्तृत्वदायि न च कर्तृत्वम् अज्ञस्य इति । किंचिज्ज्ञत्वदायिन्यशुद्धविद्या कलातो जाता सा च विद्या बुद्धिं पश्यति तद्गतांश्च सुखादीन् विवेकेन गृह्णाति । बुद्धेर्गुणसंकीर्णाकाराया विवेकेन ग्रहीतुमसामर्थ्यात् । तस्मात् बुद्धिप्रतिबिम्बितो भावो विद्यया विविच्यते । किंचित्कर्तृत्वं किंचिद्भागसिद्धये क्वचिदेव कर्तृत्वम् इत्यत्र अर्थे पर्यवस्यति क्वचिदेव च इत्यत्र भागे रागतत्त्वस्य व्यापारः । न च अवैराग्यकृतं तत् अवैराग्यस्यापि अरक्तिदर्शनात् । वैराग्ये धर्मादावपि रक्तिर्दृश्यते । तृप्तस्य च अन्नादौ अवैराग्याभावेऽपि अन्तःस्थरागानपायात् । तेन विना पुनरवैराग्यानुत्पत्तिप्रसङ्गात् । कालश्च कार्यं कलयंस्तदवच्छिन्नं कर्तृत्वमपि कलयति तुल्ये क्वचित्त्वे अस्मिन्नेव कर्तृत्वम् इत्यत्रार्थे नियतेर्व्यापारः । कार्यकारणभावेऽपि अस्या एव व्यापारः तेन कलात एव एतच्चतुष्कं जातम् इदमेव किंचिदधुना जानन् अभिष्वक्तः करोमि इत्येवंरूपा संविद् देहपुर्यष्टकादिगता पशुरित्युच्यते ।
TSAR-A०८-P००५
तदिदं मायादिषट्कं कञ्चुकषट्कम् उच्यते । संविदो मायया अपहस्तितत्वेन कलादीनाम् उपरिपातिनां कञ्चुकवत् अवस्थानात् । एवं किंचित्कर्तृत्वं यत् मायाकार्यं तत्र किंचित्त्वविशिष्टं यत् कर्तृत्वं विशेष्यं तत्र व्याप्रियमाणा कला विद्यादिप्रसवहेतुः इति निरूपितम् । इदानीं विशेषणभागो यः किंचिदित्युक्तो ज्ञेयः कार्यश्च तं यावत् सा कला स्वात्मनः पृथक् कुरुते तावत् एष एव सुखदुःखमोहात्मकभोग्यविशेषानुस्यूतस्य सामान्यमात्रस्य तद्गुणसाम्यापरनाम्नः प्रकृतितत्त्वस्य सर्गः इति भोक्तृभोग्ययुगलस्य सममेव कलातत्त्वायत्ता सृष्टिः । अत्र चैषां वास्तवेन पथा क्रमवन्ध्यैव सृष्टिरित्युक्तं क्रमावभासोऽपि चास्तीत्यपि उक्तमेव । क्रमश्च विद्यारागादीनां विचित्रोऽपि दृष्टः कश्चिद्रज्यन् वेत्ति कोऽपि विदन् रज्यते इत्यादि । तेन भिन्नक्रमनिरूपणमपि रौरवादिषु शास्त्रेषु अविरुद्धं मन्तव्यं तदेव तु भोग्यसामान्यं प्रक्षोभगतं गुणतत्त्वम् । यत्र सुखं भोग्यरूपप्रकाशः सत्त्वम् दुःखं प्रकाशाप्रकाशान्दोलनात्मकम् अत एव क्रियारूपं रजः मोहः प्रकाशाभावरूपस्तमः । त्रितयमपि एतत् भोग्यरूपम् । एवं क्षुब्धात् प्रधानात् कर्तव्यान्तरोदयः न अक्षुब्धादिति । क्षोभः अवश्यमेव अन्तराले अभ्युपगन्तव्य इति सिद्धं सांख्यापरिदृष्टं पृथग्भूतं गुणतत्त्वं । स च क्षोभः प्रकृतेस्तत्त्वेशाधिष्ठानादेव अन्यथा नियतं पुरुषं प्रति इति न सिध्येत् । ततो गुणतत्त्वात् बुद्धितत्त्वं यत्र पुंप्रकाशो विषयश्च प्रतिबिम्बम् अर्पयतः । बुद्धितत्त्वात् अहङ्कारो येन बुद्धिप्रतिबिम्बिते वेद्यसंपर्के कलुषे पुंप्रकाशे अनात्मनि आत्माभिमानः शुक्तौ रजताभिमानवत् ।
TSAR-A०८-P००६
अत एव कार इत्यनेन कृतकत्वम् अस्य उक्तं सांख्यस्य तु तत् न युज्यते स हि न आत्मनोऽहंविमर्शमयताम् इच्छति वयं तु कर्तृत्वमपि तस्य इच्छामः । तच्च शुद्धं विमर्श एव अप्रतियोगि स्वात्मचमत्काररूपोऽहमिति । एषोऽस्य अहंकारस्य करणस्कन्धः । प्रकृतिस्कन्धस्तु तस्यैव त्रिविधः सत्त्वादिभेदात् । तत्र सात्त्विको यस्मात् मनश्च बुद्धीन्द्रियपञ्चकं च तत्र मनसि जन्ये सर्वतन्मात्रजननसामर्थ्ययुक्तः स जनकः । श्रोत्रे तु शब्दजननसामर्थ्यविशिष्ट इति यावत् घ्राणे गन्धजननयोग्यतायुक्त इति भौतिकमपि न युक्तम् अहं शृणोमि इत्याद्यनुगमाच्च स्फुटम् आहङ्कारिकत्वम् करणत्वेन च अवश्यं कर्त्रंशस्पर्शित्वम् अन्यथा करणान्तरयोजनायाम् अनवस्थाद्यापातात् । कर्त्रंशश्च अहङ्कार एव तेन मुख्ये करणे द्वे पुंसः ज्ञाने विद्या क्रियायां कला अन्धस्य पङ्गोश्च अहन्तारूपज्ञानक्रियानपगमात् उद्रिक्ततन्मात्रभागविशिष्टात् तु सात्त्विकादेव अहंकारात् कर्मेन्द्रिय पञ्चकम् अहं गच्छामि इति अहङ्कारविशिष्टः कार्यकरणक्षमः पादेन्द्रियं तस्य मुख्याधिष्ठानं बाह्यम् अन्यत्रापि तदस्त्येव इति रुग्णस्यापि न गतिविच्छेदः । न च कर्तव्यसांकर्यमुक्तादेव हेतोः क्रिया करणकार्या मुख्यं च गमनादीनां क्रियात्वं न रूपाद्युपलम्भस्य तस्य काणादतन्त्रे गुणत्वात् तस्मात् अवश्याभ्युपेयः कर्मेन्द्रियवर्गः । स च पञ्चकः अनुसन्धेस्तावत्त्वात् । तथाहि बहिस्तावत्त्यागाय वा अनुसन्धिः आदानाय वा द्वयाय वा उभयरहितत्वेन स्वरूपविश्रान्तये वा तत्र क्रमेण पायुः पाणिः पाद उपस्थ इति । अन्तः प्राणाश्रयकर्मानुसन्धेस्तु वागिन्द्रियम् तेन इन्द्रियाधिष्ठाने हस्ते यत् गमनं तदपि पादेन्द्रियस्यैव कर्म इति मन्तव्यम् तेन कर्मानन्त्यमपि न इन्द्रियानन्त्यम् आवहेत् इयति राजसस्य उपश्लेषकत्वम् इत्याहुः ।
TSAR-A०८-P००७
अन्ये तु राजसान्मन इत्याहुः । अन्ये तु सात्त्विकात् मनो राजसाच्च इन्द्रियाणि इति । भोक्त्रंशाच्छादकात् तु तमःप्रधानाहंकारात् तन्मात्राणि वेद्यैकरूपाणि पञ्च । शब्दविशेषाणां हि क्षोभात्मनां यदेकम् अक्षोभात्मकं प्राग्भावि सामान्यम् अविशेषात्मकं तत् शब्दतन्मात्रं । एवं गन्धान्तेऽपि वाच्यं । तत्र शब्दतन्मात्रात् क्षुभितात् अवकाशदानव्यापारं नभः शब्दस्य वाच्याध्यासावकाशसहत्वात् । शब्दतन्मात्रं क्षुभितं वायुः शब्दस्तु अस्य नभसा विरहाभावात् । रूपं क्षुभितं तेजः पूर्वगुणौ तु पूर्ववत् । रसः क्षुभित आपः पूर्वे त्रयः पूर्ववत् । गन्धः क्षुभितो धरा पूर्वे चत्वारः पूर्ववत् । अन्ये शब्दस्पर्शाभ्यां वायुः इत्यादिक्रमेण पञ्चभ्यो धरणी इति मन्यन्ते । गुणसमुदायमात्रं च पृथिवी नान्यो गुणी कश्चित् । अस्मिंश्च तत्त्वकलापे ऊर्ध्वोर्ध्वगुणं व्यापकं निकृष्टगुणं तु व्याप्यं । स एव गुणस्य उत्कर्षो यत् तेन विना गुणान्तरं न उपपद्यते तेन पृथिवीतत्त्वं शिवतत्त्वात् प्रभृति जलतत्त्वेन व्याप्तम् एवं जलं तेजसा इत्यादि यावच्छक्तितत्त्वम् ॥
TSAR-A०८-V००१
भूतानि तन्मात्रगणेन्द्रियाणि
मूलं पुमान्कञ्चुकयुक्सुशुद्धम् ।
विद्यादिशक्त्यन्तमियान्स्वसंवित्-
सिन्धोस्तरङ्गप्रसरप्रकारः ॥
TSAR-A०८-M००१
सअलतत्तपरिउण्णउ
सअलतत्तउत्तिण्णउ ।
परिआणहअताण्णउ
परमसिवेण समाणउ ॥
TSAR-A०८-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे तत्त्वस्वरूपप्रकाशनं नामाष्टममाह्निकम् ॥८॥
TSAR-A०९-H००१
अथ नवममाह्निकम् ।
TSAR-A०९-U००१
अथ तत्त्वानां भेदो निरूप्यते ।
TSAR-A०९-P००१
स च सप्तधा षडर्धशास्त्र एव परं परमेशेन उक्तः । तत्र शिवाः मन्त्रमहेशाः मन्त्रेशाः मन्त्राः विज्ञानाकलाः प्रलयाकलाः सकला इति सप्त शक्तिमन्तः । एषां सप्तैव शक्तयः तद्भेदात् पृथिव्यादिप्रधानतत्त्वान्तं चतुर्दशभिर्भेदैः प्रत्येकं स्वं रूपं पञ्चदशं । तत्र स्वं रूपं प्रमेयतायोग्यं स्वात्मनिष्ठम् अपराभट्टारिकानुग्रहात् प्रमातृषु उद्रिक्तशक्तिषु यत् विश्रान्तिभाजनं तत् तस्यैव शाक्तं रूपं श्रीमत्परापरानुग्रहात् । तच्च सप्तविधं शक्तीनां तावत्त्वात् । शक्तिमद्रूपप्रधाने तु प्रमातृवर्गे यत् विश्रान्तं तच्छक्तिमच्छिवरूपं श्रीमत्पराभट्टारिकानुग्रहात् तदपि सप्तविधं प्रमातॄणां शिवात्प्रभृति सकलान्तानां तावताम् उक्तत्वात् । तत्र शक्तिभेदादेव प्रमातॄणां भेदः स च स्फुटीकरणार्थं सकलादिक्रमेण भण्यते तत्र सकलस्य विद्याकले शक्तिः तद्विशेषरूपत्वात् बुद्धिकर्माक्षशक्तीनां प्रलयाकलस्य तु ते एव निर्विषयत्वात् अस्फुटे । विज्ञानाकलस्य ते एव विगलत्कल्पे तत्संस्कारसचिवा प्रबुध्यमाना शुद्धविद्या मन्त्रस्य । तत्संस्कारहीना सैव प्रबुद्धा मन्त्रेशस्य । सैव इच्छाशक्तिरूपतां स्वातन्त्र्यस्वभावां जिघृक्षन्ती मन्त्रमहेश्वरस्य । इच्छात्मिका स्फुटस्वातन्त्र्यात्मिका शिवस्य इति शक्तिभेदाः सप्त मुख्याः । तदुपरागकृतश्च शक्तिमत्सु प्रमातृषु भेदः करणभेदस्य कर्तृभेदपर्यवसानात् शक्तेरेव च अव्यतिरिक्तायाः करणीकर्तुं शक्यत्वात् न अन्यस्य अनवस्थाद्यापत्तेः । वस्तुतः पुनरेक एव चित्स्वातन्त्र्यानन्दविश्रान्तः प्रमाता तत्र पृथिवी स्वरूपमात्रविश्रान्ता यदा वेद्यते तदा स्वरूपम् अस्याः केवलं भाति चैत्रचक्षुर्दृष्टं चैत्रविदितं जानामीति तत्र सकलशक्तिकृतं सकलशक्तिमद्रूपकृतं स्वरूपान्तरं भात्येव एवं शिवान्तमपि वाच्यं शिवशक्तिनिष्ठं शिवस्वभावविश्रान्तं च विश्वं जानामि इति प्रत्ययस्य विलक्षणस्य भावात् ।
TSAR-A०९-P००२
ननु भावस्य चेत् वेद्यता स्वं वपुः तत्सर्वान्प्रति वेद्यत्वं वेद्यत्वमपि वेद्यम् इत्यनवस्थां तया च जगतोऽन्धसुप्तत्वं सुप्रकाशमेव तया च वेद्यत्वावेद्यत्वे विरुद्धधर्मयोग इति दोषः ? अत्र उच्यते न तत् स्वं वपुः स्वरूपस्य पृथगुक्तत्वात् किं तर्हि तत् प्रमातृशक्तौ प्रमातरि च यत् विश्रान्तिभाजनं यत् रूपं तत् खलु तत् तत् स्वप्रकाशमेव तत् प्रकाशते न तु किंचिदपि प्रति इति सर्वज्ञत्वम् अनवस्थाविरुद्धधर्मयोगश्च इति दूरापास्तम् । अनन्तप्रमातृसंवेद्यमपि एकमेव तत् तस्य रूपं तावति तेषामेकाभासरूपत्वात् इति न प्रमात्रन्तरसंवेदनानुमानविघ्नः कश्चित् तच्च तस्य रूपं सत्यम् अर्थक्रियाकारित्वात् तथैव परदृश्यमानां कान्तां दृष्ट्वा तस्यै समीर्ष्यति शिवस्वभावं विश्रान्तिकुम्भं पश्यन् समाविशति समस्तानन्तप्रमातृविश्रान्तं वस्तु पश्यन् पूर्णीभवति नर्तकीप्रेक्षणवत् तस्यैव नीलस्य तद्रूपं प्रमातरि यत् विश्रान्तं तथैव स्वप्रकाशस्य विमर्शोदयात् इति पञ्चदशात्मकत्वं पृथिव्याः प्रभृति प्रधानतत्त्वपर्यन्तम् । तावत्युद्रिक्तरागादिकञ्चुकस्य सकलस्य प्रमातृत्वात् सकलस्यापि एवं पाञ्चदश्यं तस्यापि तावद्वेद्यत्वात् । वितत्य चैतत् निर्णीतं तन्त्रालोके । पुंसः प्रभृति कलातत्त्वान्तं त्रयोदशधा सकलस्य तत्र प्रमातृतायोगेन तच्छक्तिशक्तिमदात्मनो भेदद्वयस्य प्रत्यस्तमयात् तथा च सकलस्य स्वरूपत्वमेव केवलं प्रलयाकलस्य स्वरूपत्वे पञ्चानां प्रमातृत्वे एकादश भेदाः । विज्ञानाकलस्य स्वरूपत्वे चतुर्णां प्रमातृत्वे नव भेदाः । मन्त्रस्य स्वरूपत्वे त्रयाणां प्रमातृत्वे सप्त ।
TSAR-A०९-P००३
मन्त्रेशस्य स्वरूपत्वे द्वयोः प्रमातृत्वे पञ्च । मन्त्रमहेशस्य स्वरूपत्वे भगवत एकस्यैव प्रमातृत्वे शक्तिशक्तिमद्भेदात् त्रयः । शिवस्य तु प्रकाशैकचित्स्वातन्त्र्यनिर्भरस्य न कोऽपि भेदः परिपूर्णत्वात् । एवम् अयं तत्त्वभेद एव परमेश्वरानुत्तरनयैकाख्ये निरूपितः भुवनभेदवैचित्र्यं करोति नरकस्वर्गरुद्रभुवनानां पार्थिवत्वे समानेऽपि दूरतरस्य स्वभावभेदस्य उक्तत्वात् । अत्र च परस्परं भेदकलनया अवान्तरभेदज्ञानकुतूहली तन्त्रालोकमेव अवधारयेत् । एवम् एकैकघटाद्यनुसारेणापि पृथिव्यादीनां तत्त्वानां भेदो निरूपितः । अधुना समस्तं पृथिवीतत्त्वं प्रमातृप्रमेयरूपम् उद्दिश्य निरूप्यते यो धरातत्त्वाभेदेन प्रकाशः स शिवः । यथा श्रुतिः पृथिव्येवेदं ब्रह्म इति । धरातत्त्वसिद्धिप्रदान् प्रेरयति स धरामन्त्रमहेश्वरः प्रेर्यो धरामन्त्रेशः तस्यैवाभिमानिकविग्रहतात्मको वाचको मन्त्रः सांख्यादिपाशवविद्योत्तीर्णशिवविद्याक्रमेण अभ्यस्तपार्थिवयोगोऽप्राप्तध्रुवपदः धराविज्ञानाकलः । पाशवविद्याक्रमेण अभ्यस्तपार्थिवयोगः कल्पान्ते मरणे वा धरा- प्रलयकेवलः । सौषुप्ते हि तत्त्वावेशवशादेव चित्रस्य स्वप्नस्य उदयः स्यात् गृहीतधराभिमानस्तु धरासकलः । अत्रापि शक्त्युद्रेकन्यग्भावाभ्यां चतुर्दशत्वम् इति प्रमातृतापन्नस्य धरातत्त्वस्य भेदाः स्वरूपं तु शुद्धं प्रमेयम् इति एवम् अपरत्रापि । अथ एकस्मिन् प्रमातरि प्राणप्रतिष्ठिततया भेदनिरूपणम् इह नीलं गृह्णतः प्राणः तुटिषोडशकात्मा वेद्यावेशपर्यन्तम् उदेति तत्र आद्या तुटिरविभागैकरूपा द्वितीया ग्राहकोल्लासरूपा अन्त्या तु ग्राह्याभिन्ना तन्मयी उपान्त्या तु स्फुटीभूतग्राहकरूपा मध्ये तु यत् तुटिद्वादशकं तन्मध्यात् आद्यं षट्कं निर्विकल्पस्वभावं विकल्पाच्छादकं षट्त्वं च अस्य स्वरूपेण एका तुटिः आच्छादनीये च विकल्पे पञ्चरूपत्वम् उन्मिमिषा उन्मिषत्ता सा च इयं स्फुटक्रियारूपत्वात् तुटिद्वयात्मिका स्पन्दनस्य एकक्षणरूपत्वाभावात् उन्मिषितता स्वकार्यकर्तृत्वं च इत्येवमाच्छादनीयविकल्पपाञ्चविध्यात् स्वरूपाच्च षट् क्षणा निर्विकल्पकाः ततोऽपि निर्विकल्पस्य ध्वंसमानता ध्वंसो विकल्पस्य उन्मिमिषा उन्मिषत्ता तुटिद्वयात्मिका उन्मिषितता च इति षट् तुटयः ।
TSAR-A०९-P००४
स्वकार्यकर्तृता तु ग्राहकरूपता इति उक्तं न सा भूयो गण्यते इत्येवं विवेकधना गुरूपदेशानुशीलिनः सर्वत्र पाञ्चदश्यं प्रविभागेन विविञ्चते । विकल्पन्यूनत्वे तु तुटिन्यूनता सुखादिसंवित्ताविव यावत् अविकल्पतैव । लोकास्तु विकल्पविश्रान्त्या ताम् अहन्तामयीम् अहन्ताच्छादितेदंभावविकल्पप्रसरां निर्विकल्पां विमर्शभुवम् अप्रकाशितामिव मन्यन्ते दुःखावस्थां सुखविश्रान्ता इव विकल्पनिर्ह्रासेन तु सा प्रकाशत एव इति इयम् असौ संबन्धे ग्राह्यग्राहकयोः सावधानता इति अभिनवगुप्तगुरवः । एवं च पाञ्चदश्ये स्थिते यावत् स्फुटेदन्तात्मनो भेदस्य न्यूनता तावत् द्वयं द्वयं ह्रसति यावत् द्वितुटिकः शिवावेशः तत्र आद्या तुटिः सर्वतः पूर्णा द्वितीया सर्वज्ञानकरणाविष्टाभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृत्वाय कल्पते न तु आद्या । यदाह श्रीकल्लटः तुटिपात इति अत्र पातशब्दं सैव भगवती श्रीमत्काली मातृसद्भावो भैरवः प्रतिभा इत्यलं रहस्यारहस्यनेन । एवं मन्त्रमहेशतुटेः प्रभृति तत्तदभ्यासात् तत्तत्सिद्धिः । अथात्रैव जाग्रदाद्यवस्था निरूप्यन्ते तत्र वेद्यस्य तद्विषयायाश्च संविदो यत् वैचित्र्यम् अन्योन्यापेक्षं सत् सा अवस्था न वेद्यस्य केवलस्य न चापि केवलायाः संविदो न चापि पृथक् पृथक् द्वे । तत्र यदाधिष्ठेयतया बहीरूपतया भानं तदा जाग्रदवस्था मेये मातरि माने च । यदा तु तत्रैव अधिष्ठानरूपतया भानं संकल्पः तदा स्वप्नावस्था । यदा तु तत्रैव अधिष्ठातृरूपतया बीजात्मतयैव भानं तदा सुषुप्तावस्था । इमा एव तिस्रः प्रमेयप्रमाणप्रमात्रवस्थाः प्रत्येकं जाग्रदादिभेदात् चतुर्विधा उक्ताः ।
TSAR-A०९-P००५
यदा तु तस्मिन्नेव प्रमातृविश्रान्तिगते प्रमातुः पूर्णतौन्मुख्यात् तद्द्वारेण पूर्णतोन्मुखतया भानं तदा तुर्यावस्था सा च रूपं दृशाहमित्येवं विधम् अंशत्रयम् उत्तीर्य पश्यामीति अनुपायिका प्रमातृता स्वातन्त्र्यसारा नैकट्यमध्यत्वदूरत्वैः प्रमातृप्रमाणप्रमेयताभिषेकं ददती तदवस्थात्रयानुग्राहकत्वात् त्रिभेदा । एतदेव अवस्थाचतुष्टयं पिण्डस्थपद- स्थरूपस्थरूपातीतशब्दैर्योगिनो व्यवहरन्ति प्रसंख्यानधनास्तु सर्वतोभद्रं व्याप्तिः महाव्याप्तिः प्रचय इति शब्दैः । अन्वर्थं चात्र दर्शितं तन्त्रालोके श्लोकवार्तिके च । यच्च सर्वान्तर्भूतं पूर्णरूपं तत् तुर्यातीतं सर्वातीतं महाप्रचयं च निरूपयन्ति । किं च यस्य यद्यदा रूपं स्फुटं स्थिरम् अनुबन्धि तत् जाग्रत् तस्यैव तद्विपर्ययः स्वप्नः यः लयाकलस्य भोगः सर्वावेदनं सुषुप्तं यो विज्ञानाकलस्य भोगः भोग्याभिन्नीकरणं तुर्यं मन्त्रादीनां स भोगः भावानां शिवाभेदस्तुर्यातीतं सर्वातीतम् । तत्र स्वरूपसकलौ १ प्रलयाकलः २ विज्ञानाकलः ३ मन्त्रतदीशतन्महेशवर्गः ४ शिवः ५ इति पञ्चदशभेदे पञ्च अवस्थाः । स्वरूपं प्रलयाकल इत्यादिक्रमेण त्रयोदशभेदे स्वरूपं विज्ञानाकलशक्तिः विज्ञानाकल इत्येकादशभेदे स्वरूपं मन्त्राः तदीशाः महेशाः शिवः इति नवभेदे स्वरूपं मन्त्रेशाः महेशः शक्तिः शिव इति सप्तभेदे स्वरूपं महेशशक्तिः महेशः शक्तिः शिव इति पञ्चभेदे स्वरूपं क्रियाशक्तिः ज्ञानशक्तिः इच्छाशक्तिः शिव इति त्रिभेदे अभिन्नेऽपि शिवतत्त्वे क्रियाज्ञानेच्छानन्दचिद्रूपकॢप्त्या प्रसंख्यानयोगधनाः पञ्चपदत्वम् आहुः ॥
TSAR-A०९-V००१
भूम्यादौ तत्त्वजाले न हि भवति वपुस्तादृशं यत्प्रमातुः
संविद्विश्रान्तिवन्ध्यं स्फुरति स बहुधा मातृभावोऽस्य यस्मात् ।
तेनास्मिन्वेद्यजाले क्रमगतकलनां निर्विकल्पामहन्ता-
स्वातन्त्र्यामर्शसारां भुवमधिवसत प्राप्नुत स्वात्मसत्ताम् ॥
TSAR-A०९-M००१
पहिण उभाहरभावकलपुणुअब्भन्तरि एह
सच्चिवपसम इपुणुजअल इभिहिनिद्दकलेह ।
संवेअण पअरूढ इउभावकलाउस मग्गु
भरिअद्दसुस्सुहुपुणुभरिउ ॥१॥
TSAR-A०९-M००२
तुरिआणन्तरलग्गु
घडुबोहिणहंउजोअसिएह ।
वितत्त समत्थफुरणकमेण
कमेणलिहालमिसाणमिपञ्चावतु ॥२॥
TSAR-A०९-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे तत्त्वभेदप्रकाशनं नाम नवममाह्निकम् ॥९॥
TSAR-A१०-H००१
अथ दशममाह्निकम् ।
TSAR-A१०-P००१
उक्तस्तावत् तत्त्वाध्वा । कलाद्यध्वा तु निरूप्यते तत्र यथा भुवनेषु अनुगामि किंचिद्रूपं तत्त्वम् इत्युक्तम् तथा तत्त्वेषु वर्गशो यत् अनुगामि रूपं तत् कला एकरूपकलनासहिष्णुत्वात् । तद्यथा पृथिव्यां निवृत्तिः निवर्तते यतस्तत्त्वसर्ग इति । जलादिप्रधानान्ते वर्गे प्रतिष्ठा कारणतयाप्यायनपूरणकारित्वात् । पुमादिमायान्ते विद्या वेद्यतिरोभावे संविदाधिक्यात् । शुद्धविद्यादिशक्त्यन्ते शान्ता कञ्चुकतरङ्गोपशमात् । एतदेव अण्डचतुष्टयंपार्थिव प्राकृत मायीय शाक्ताभिधम् । पृथिव्यादिशक्तीनाम् अत्र अवस्थानेन शक्तितत्त्वे यावत् परस्पर्शो विद्यते स्पर्शस्य च सप्रतिघत्वमिति तावति युक्तम् अण्डत्वम् । शिवतत्त्वे शान्तातीता तस्योपदेशभावनार्चादौ कल्यमानत्वात् । स्वतन्त्रं तु परं तत्त्वं तत्रापि यत् अप्रमेयं तत्कलातीतम् । एवं पञ्चैव कलाः षट्त्रिंशत्तत्त्वानि । तथाहि प्रमेयत्वं द्विधा स्थूलसूक्ष्मत्वेन इति दश । करणत्वं द्विधा शुद्धं कर्तृतास्पर्शि च इति दश । करणतोपसर्जनकर्तृभावस्फुटत्वात् पञ्च शुद्धकर्तृभावात् पञ्च विगलितविभागतया विकासोन्मुखत्वे पञ्च सर्वावच्छेदशून्यं शिवतत्त्वं षड्त्रिंशम् । तद्यदा उपदिश्यते भाव्यते वा यत् तत्प्रतिष्ठापदम् तत् सप्तत्रिंशम् तस्मिन्नपि भाव्यमाने अष्टात्रिंशम् न च अनवस्था तस्य भाव्यमानस्य अनवच्छिन्नस्वातन्त्र्ययोगिनो वेद्यीकरणे सप्तत्रिंश एव पर्यवसानात् षट्त्रिंशं तु सर्वतत्त्वोत्तीर्णतया संभाव्यावच्छेदम् इति पञ्चकलाविधिः । विज्ञानाकलपर्यन्तम् आत्मकला ईशान्तं विद्याकला शिष्टं शिवकला इति त्रितत्त्वविधिः । एवं नवतत्त्वाद्यपि ऊहयेत् इति । मेयांशगामी स्थूलसूक्ष्मपररूपत्वात् त्रिविधो भुवनतत्त्वकलात्माध्वभेदः मातृविश्रान्त्या तथैव त्रिविधः तत्र प्रमाणतायां पदाध्वा प्रमाणस्यैव क्षोभतरङ्गशाम्यत्तायां मन्त्राध्वा तत्प्रशमे पूर्णप्रमातृतायां वर्णाध्वा स एव च असौ तावति विश्रान्त्या लब्धस्वरूपो भवति इति एकस्यैव षड्विधत्वं युक्तम् ।
TSAR-A१०-V००१
पदमन्त्रवर्णमेकं
पुरषोडशकं धरेति च निवृत्तिः ।
तत्त्वार्णमग्निनयनं
रसशरपुरमस्त्रमन्त्रपदमन्या ॥१॥
TSAR-A१०-V००२
मुनितत्त्वार्णं द्विकपद-
मन्त्रं वस्वक्षिभुवनमपरकला । अग्न्यर्णतत्त्वमेकक-
पदमन्त्रं सैन्यभुवनमिति तुर्या ॥२॥
TSAR-A१०-V००३
षोडश वर्णाः पदमन्त्र-
तत्त्वमेकं च शान्त्यतीतेयम् ।
अभिनवगुप्तेनार्या-
त्रयमुक्तं संग्रहाय शिष्येभ्यः ॥३॥
TSAR-A१०-M००१
भुवनजालसअलउ
परिसरसहअवसीसइतत्ताहंसकूउ ।
तत्तब्भाउकलणा
इविमरिसहसीसइपञ्चकलाहंसरूउ ॥
TSAR-A१०-M००२
पञ्चकलामउएहु
महेसरुकुणइविउज्झइ ।
इच्छइसुहमउ
भरिहविबोधतरङ्गमहासरु ॥
सोच्चिअभासइ
भवतरुविसरउ ।
सअलउअद्धजालु
णिअघअणिपरिमरिमेहहरो ॥
TSAR-A१०-M००३
चेअणुभरिअभरिउ
अप्पहमणिसच्चिअपाणिमणु ।
माणसपाणपवण
धीसामसुपूरितजजिखणु ॥
तंजिघडाइ णिहलु
परभइरवणाहुहोइतणु ।
मन्तिदाणुआवाहणु
प्रअणुसण्णिहाणुइउ अहिणअउडु ॥
सब्बिहअद्धकलण
णिब्बाहाराएतिलडेचिअएहइतत्तव ॥
TSAR-A१०-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे कलाद्यध्वप्रकाशनं नाम दशममाह्निकम् ॥१०॥
TSAR-A११-H००१
अथ एकादशमाह्निकम् ।
TSAR-A११-P००१
तत्र यावत् इदम् उक्तम् तत् साक्षात् कस्यचित् अपवर्गाप्तये यथोक्तसंग्रहनीत्या भवति कस्यचित् वक्ष्यमाणदीक्षायाम् उपयोगगमनात् इति दीक्षादिकं वक्तव्यम् । तत्र कः अधिकारी इति निरूपणार्थं शक्तिपातो विचार्यते । तत्र केचित् आहुः ज्ञानाभावात् अज्ञानमूलः संसारः तदपगमे ज्ञानोदयात् शक्तिपात इति तेषां सम्यक् ज्ञानोदय एव किंकृत इति वाच्यम् कर्मजन्यत्वे कर्मफलवत् भोगत्वप्रसङ्गे भोगिनि च शक्तिपाताभ्युपगतौ अतिप्रसङ्गः ईश्वरेच्छानिमित्तत्वे तु ज्ञानोदयस्य अन्योन्याश्रयता वैयर्थ्यं च ईश्वरे रागादिप्रसङ्गः विरुद्धयोः कर्मणोः समबलयोः अन्योन्यप्रतिबन्धे कर्मसाम्यं ततः शक्तिपात इति चेत् न क्रमिकत्वे विरोधायोगात् विरोधेऽपि अन्यस्य अविरुद्धस्य कर्मणो भोगदानप्रसङ्गात् अविरुद्धकर्माप्रवृत्तौ तदैव देहपातप्रसङ्गात् जात्यायुष्प्रदं कर्म न प्रतिबध्यते भोगप्रदमेव तु प्रतिबध्यते इति चेत् कुतः तत्कर्मसद्भावे यदि शक्तिः पतेत् तर्हि सा भोगप्रदात् किं बिभियात् । अथ मलपरिपाके शक्तिपातः सोऽपि किंस्वरूपः ? किं च तस्य निमित्तम् ? इति एतेन वैराग्यं धर्मविशेषो विवेकः सत्सेवा सत्प्राप्तिः देवपूजा इत्यादिहेतुः प्रत्युक्त इति भेदवादिनां सर्वम् असमञ्जसम् । स्वतन्त्रपरमेशाद्वयवादे तु उपपद्यते एतत् यथाहि परमेश्वरः स्वरूपाच्छादनक्रीडया पशुः पुद्गलोऽणुः संपन्नः न च तस्य देशकालस्वरूपभेदविरोधः तद्वत् स्वरूपस्थगनविनिवृत्त्या स्वरूपप्रत्यापत्तिं झटिति वा क्रमेण वा समाश्रयन् शक्तिपातपात्रम् अणुः उच्यते स्वातन्त्र्यमात्रसारश्च असौ परमशिवः शक्तेः पातयिता इति निरपेक्ष एव शक्तिपातो यः स्वरूपप्रथाफलः यस्तु भोगोत्सुकस्य स कर्मापेक्षः लोकोत्तररूपभोगोत्सुकस्य तु स एव शक्तिपातः परमेश्वरेच्छाप्रेरितमायागर्भाधिकारीयरुद्रविष्णुब्रह्मादिद्वारेण मन्त्रादिरूपत्वं मायापुंविवेकं पुंस्कलाविवेकं पुंप्रकृतिविवेकं पुंबुद्धिविवेकमन्यच्च फलं प्रस्नुवानः तदधरतत्त्वभोगं प्रतिबध्नाति भोगमोक्षोभयोत्सुकस्य भोगे कर्मापेक्षो मोक्षे तु तन्निरपेक्षः इति सापेक्षनिरपेक्षः ।
TSAR-A११-P००२
न च वाच्यं कस्मात् कस्मिंश्चिदेव पुंसि शक्तिपात इति स एव परमेश्वरः तथा भाति इति सतत्त्वे कोऽसौ पुमान् नाम यदुद्देशेन विषयकृता चोदना इयम् । स चायं शक्तिपातो नवधा तीव्र मध्य मन्दस्य उत्कर्ष माध्यस्थ्य निकर्षैः पुनस्त्रैविध्यात् तत्र उत्कृष्टतीव्रात् तदैव देहपाते परमेशता मध्यतीव्रात् शास्त्राचार्यानपेक्षिणः स्वप्रत्ययस्य प्रातिभज्ञानोदयः यदुदये बाह्यसंस्कारं विनैव भोगापवर्गप्रदः प्रातिभो गुरुरित्युच्यते तस्य हि न समय्यादिकल्पना काचित् अत्रापि तारतम्यसद्भावः इच्छावैचित्र्यात् इति सत्यपि प्रातिभत्वे शास्त्राद्यपेक्षा संवादाय स्यादपि इति निर्भित्तिसभित्त्यादिबहुभेदत्वम् आचार्यस्य प्रातिभस्यागमेषु उक्तम् सर्वथा प्रतिभांशो बलीयान् तत्संनिधौ अन्येषाम् अनधिकारात् । भेददर्शन इव अनादिशिवसंनिधौ मुक्तशिवानां सृष्टिलयादिकृत्येषु मन्दतीव्रात् शक्तिपातात् सद्गुरुविषया यियासा भवति असद्गुरुविषयायां तु तिरोभाव एव असद्गुरुतस्तु सद्गुरुगमनं शक्तिपातादेव । सद्गुरुस्तु समस्तैतच्छास्त्रतत्त्वज्ञानपूर्णः साक्षात् भगवद्भैरवभट्टारक एव योगिनोऽपि स्वभ्यस्तज्ञानतयैव मोचकत्वे तत्र योग्यत्वस्य सौभाग्यलावण्यादिमत्त्वस्येवानुपयोगात् । असद्गुरुस्तु अन्यः सर्व एव । एवं यियासुः गुरोः ज्ञानलक्षणां दीक्षां प्राप्नोति यया सद्य एव मुक्तो भवति जीवन्नपि अत्र अवलोकनात् कथनात् शास्त्रसंबोधनात् चर्यादर्शनात् चरुदानात् इत्यादयो भेदाः । अभ्यासवतो वा तदानीं सद्य एव प्राणवियोजिकां दीक्षां लभते सा तु मरणक्षण एव कार्या इति वक्ष्याम इति । तीव्रस्त्रिधा उत्कृष्टमध्यात् शक्तिपातात् कृतदीक्षाकोऽपि स्वात्मनः शिवतायां न तथा दृढप्रतिपत्तिः भवति प्रतिपत्तिपरिपाकक्रमेण तु देहान्ते शिव एव मध्यमध्यात् तु शिवतोत्सुकोऽपि भोगप्रेप्सुः भवति इति तथैव दीक्षायां ज्ञानभाजनम् स च योगाभ्यासलब्धम् अनेनैव देहेन भोगं भुक्त्वा देहान्ते शिव एव ।
TSAR-A११-P००३
निकृष्टमध्यात्तु देहान्तरेण भोगं भुक्त्वा शिवत्वम् एति इति । मध्यस्तु त्रिधा भोगोत्सुकता यदा प्रधानभूता तदा मन्दत्वं पारमे श्वरमन्त्रयोगोपायतया यतस्तत्र औत्सुक्यम् पारमेशमन्त्रयोगादेश्च यतो मोक्षपर्यन्तत्वम् अतः शक्तिपातरूपता । तत्रापि तारतम्यात् त्रैविध्यम् इत्येष मुख्यः शक्तिपातः । वैष्णवादीनां तु राजानुग्रहवत् न मोक्षान्तता इति न इह विवेचनम् । शिवशक्त्यधिष्ठानं तु सर्वत्र इति उक्तम् सा परं ज्येष्ठा न भवति अपि तु घोरा घोरतरा वा स एष शक्तिपातो विचित्रोऽपि तारतम्यवैचित्र्यात् भिद्यते कश्चित् वैष्णवादिस्थः समय्यादिक्रमेण स्रोतः पञ्चके च प्राप्तपरिपाकः सर्वोत्तीर्णभगवत्षडर्धशास्त्रपरमाधिकारिताम् एति अन्यस्तु उल्लङ्घनक्रमेण अनन्तभेदेन कोऽपि अक्रमम् इति अत एव अधराधरशासनस्था गुरवोऽपि इह मण्डलमात्रदर्शनेऽपि अनधिकारिणः ऊर्ध्वशासनस्थस्तु गुरुः अधराधरशासनं प्रत्युत प्राणयति पूर्णत्वात् इति सर्वाधिकारी । स च दैशिको गुरुः आचार्यो दीक्षकः चुम्बकः स चायं पूर्णज्ञान एव सर्वोत्तमः तेन विना दीक्षाद्यसंपत्तेः । योगी तु फलोत्सुकस्य युक्तो यदि उपायोपदेशेन अव्यवहितमेव फलं दातुं शक्तः उपायोपदेशेन तु ज्ञाने एव युक्तो मोक्षेऽपि अभ्युपायात् ज्ञानपूर्णताकाङ्क्षी च बहूनपि गुरून् कुर्यात् । उत्तमोत्तमादिज्ञानभेदापेक्षया तेषु तु वर्तेत संपूर्णज्ञानगुरुत्यागे तु प्रायश्चित्तमेव । ननु सोऽपि अब्रुवन् विपरीतं वा ब्रुवन् किं न त्याज्यः नैव इति ब्रूमः तस्य हि पूर्णज्ञानत्वात् एव रागाद्यभाव इति अवचनादिकं शिष्यगतेनैव केनचित् अयोग्यत्वानाश्वस्तत्वादिना निमित्तेन स्यात् इति तदुपासने यतनीयं शिष्येण न तत्त्यागे ।
TSAR-A११-P००४
एवम् अनुग्रहनिमित्तं शक्तिपातो निरपेक्ष एव- कर्मादिनियत्यपेक्षणात् । तिरोभाव इति तिरोभावो हि कर्माद्यपेक्षगाढदुःखमोहभागित्वफलः यथाहि प्रकाशस्वातन्त्र्यात् प्रबुद्धोऽपि मूढवत् चेष्टते हृदयेन च मूढचेष्टां निन्दति तथा मूढोऽपि प्रबुद्धचेष्टां मन्त्राराधनादिकां कुर्यात् निन्देच्च यथा च अस्य मूढचेष्टा क्रियमाणापि प्रबुद्धस्य ध्वंसम् एति तथा अस्य प्रबुद्धचेष्टा सा तु निन्द्यमाना निषिद्धाचरणरूपत्वात् स्वयं च तयैव विशङ्कमानत्वात् एनं दुःखमोहपङ्के निमज्जयति न तु उत्पन्नशक्तिपातस्य तिरोभावोऽस्ति अत्रापि च कर्माद्यपेक्षा पूर्ववत् निषेध्या तत्रापि च इच्छावैचित्र्यात् एतद्देहमात्रोपभोग्यदुःखफलत्वं वा दीक्षासमयचर्यागुरुदेवाग्न्यादौ सेवानिन्दनोभयप्रसक्तानामिव प्राक् शिवशासनस्थानां तत्त्यागिनामिव । तत्रापि इच्छावैचित्र्यात् तिरोभूतोऽपि स्वयं वा शक्तिपातेन युज्यते मृतो वा बन्धुगुर्वादिकृपामुखेन इत्येवं पञ्चकृत्यभागित्वं स्वात्मनि अनुसंदधत् परमेश्वर एव इति न खण्डितमात्मानं पश्येत् ।
TSAR-A११-V००१
यथा निरर्गलस्वात्मस्वातन्त्र्यात्परमेश्वरः ।
आच्छादयेन्निजं धाम तथा विवृणुयादपि ॥
TSAR-A११-V००२
अप्रबुद्धेऽपि वा धाम्नि स्वस्मिन्बुद्धवदाचरेत् ।
भूयो बुद्ध्येत वा सोऽयं शक्तिपातोऽनपेक्षकः ॥
TSAR-A११-M००१
जह णिअर्झउ
महेसरु अच्छवि संविरवितन्ह ।
पुणुस अत्ति विपर
पसरु अच्छ इविमल सरुइ ॥
TSAR-A११-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे शक्तिपातप्रकाशनं नाम एकादशमाह्निकम् ॥११॥
TSAR-A१२-H००१
अथ द्वादशमाह्निकम् ।
TSAR-A१२-P००१
दीक्षादिकं वक्तव्यम् इति उक्तम् अतो दीक्षास्वरूपनिरूपणार्थं प्राक् कर्तव्यं स्नानम् उपदिश्यते । स्नानं च शुद्धता उच्यते शुद्धता च परमेश्वरस्वरूपसमावेशः । कालुष्यापगमो हि शुद्धिः कालुष्यं च तदेकरूपेऽपि अतत्स्वभावरूपान्तरसंवलनाभिमानः । तदिह स्वतन्त्रानन्दचिन्मात्रसारे स्वात्मनि विश्वत्रापि वा तदन्यरूपसंवलनाभिमानः अशुद्धिः सा च महाभैरवसमावेशेन व्यपोह्यते सोऽपि कस्यचित् झटिति भवेत् कस्यापि उपायान्तरमुखप्रेक्षी । तत्रापि च एकद्वित्र्यादिभेदेन समस्तव्यस्ततया क्वचित् कस्यचित् कदाचित् च तथा आश्वासोपलब्धेः विचित्रो भेदः । स च अष्टधा क्षितिजलपव- नहुताशनाकाशसोमसूर्यात्मरूपासु अष्टासु मूर्तिषु मन्त्रन्यासमहिम्ना परमेश्वररूपतया भावितासु तादात्म्येन च देहे परमेश्वरसमाविष्टे शरीरादिविभागवृत्तेः चैतन्यस्यापि परमेश्वरसमावेशप्राप्तिः कस्यापि तु स्नानवस्त्रादितुष्टिजनकत्वात् परमेशोपायतामेतीति उक्तं च श्रीमदानन्दादौ धृतिः आप्यायो वीर्यं मलदाहो व्याप्तिः सृष्टिसामर्थ्यं स्थितिसामर्थ्यम् अभेदश्च इत्येतानि तेषु मुख्यफलानि तेषु तेषु उपाहितस्य मन्त्रस्य तत्तद्रूपधारित्वात् । वीरोद्देशेन तु विशेषः तद्यथा रणरेणुः वीराम्भः महामरुत् वीरभस्म श्मशाननभः तदुपहितौ चन्द्रार्कौ आत्मा निर्विकल्पकः । पुनरपि बाह्याभ्यन्तरतया द्वित्वम् बहिरुपास्यमन्त्रतादात्म्येन तन्मयीकृते तत्र तत्र निमज्जनम् इत्युक्तम् । विशेषस्तु आनन्दद्रव्यं वीराधारगतं निरीक्षणेन शिवमयीकृत्य तत्रैव मन्त्रचक्रपूजनम् ततः तेनैव देहप्राणोभयाश्रितदेवताचक्रतर्पणम् इति मुख्यं स्नानम् । आभ्यन्तरं यथा तत्तद्धरादिरूपधारणया तत्र तत्र पार्थिवादौ चक्रे तन्मयीभावः ।
TSAR-A१२-V००१
परभैरवसंमज्जन-
माहुः स्नानं यथा तु तद्भवति ।
तदपि बाह्यं स्नानं
न मुख्यमुपचारतः किं तु ॥
TSAR-A१२-M००१
परमानन्दणिमज्जणु
इउपरमत्थिण ह्णाणु ।
तहिं आविहतरत्ति
दिणु जाणइ पर अप्पाणु ॥
TSAR-A१२-K००१
इति श्रीमदाचार्याभिनवगुप्तविरचिते श्रीतन्त्रसारे स्नानप्रकाशनं नाम द्वादशमाह्निकम् ॥१२॥
TSAR-A१३-H००१
अथ त्रयोदशमाह्निकम् ।
TSAR-A१३-P००१
अथ प्रसन्नहृदयो यागस्थानं यायात् तच्च यत्रैव हृदयं प्रसादयुक्तं परमेश्वरसमावेशयोग्यं भवति तदेव न तु अस्य अन्यल्लक्षणम् उक्तावपि ध्येयतादात्म्यमेव कारणम् तदपि भावप्रसादादेव इति नान्यत् स्थानम् । पीठपर्वताग्रम् इत्यादिस्तु शास्त्रे स्थानोद्देश एतत्पर एव बोद्धव्यः तेषु तेषु पीठादिस्थानेषु परमेशनियत्या परमेश्वराविष्टानां शक्तीनां देहग्रहणात् आर्यदेशा इव धार्मिकाणां म्लेच्छदेशा इव अधार्मिकाणाम् पर्वताग्रादेश्चैकान्तत्वेन विक्षेपपरिहारात् ऐकाग्र्यपदत्वम् इति । तत्र यागगृहाग्रे बहिरेव सामान्यन्यासं कुर्यात् करयोः पूर्वं ततो देहे । ह्रीं न फ ह्रीं ह्रीं आ क्ष ह्रीं इत्याभ्यां शक्तिशक्तिमद्वाचकाभ्यां मालिनीशब्दराशिमन्त्राभ्याम् एकेनैव आदौ शक्तिः ततः शक्तिमानिति मुक्तौ पादाग्राच्छिरोऽन्तम् भुक्तौ तु सर्वो विपर्ययः । मालिनी हि भगवती मुख्यं शाक्तं रूपं बीजयोनिसंघट्टेन समस्तकामदुघम् । अन्वर्थं चैतन्नाम रुद्रशक्तिमालाभिर्युक्ता फलेषु पुष्पिता संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी दानादानशक्तियुक्ता इति र ल योरेकत्वस्मृतेः । अत एव हि भ्रष्टविधिरपि मन्त्र एतन्न्यासात् पूर्णो भवति साञ्जनोऽपि गारुडवैष्णवादिर्निरञ्जनताम् एत्य मोक्षप्रदो भवति । देहन्यासानन्तरम् अर्घपात्रे अयमेव न्यासः । इह हि क्रियाकारकाणां परमेश्वराभेदप्रतिपत्तिदार्ढ्यसिद्धये पूजाक्रिया उदाहरणीकृता तत्र च सर्वकारकाणाम् इत्थं परमेश्वरीभावः तत्र यष्ट्राधारस्य स्थानशुद्ध्यापादानकरणयोरर्घपात्रशुद्धिन्यासाभ्याम् यष्टुर्देहन्यासात् याज्यस्य स्थण्डिलादिन्यासात् । एवं क्रियाक्रमेणापि परमेश्वरीकृतसमस्तकारकः तयैव दृशा सर्वक्रियाः पश्यन् विनापि प्रमुखज्ञानयोगाभ्यां परमेश्वर एव भवति ।
TSAR-A१३-P००२
एवम् अर्घपात्रे न्यस्य पुष्पधूपाद्यैः पूजयित्वा तद्विप्रुड्भिः यागसारं पुष्पादि च प्रोक्षयेत् । ततः प्रभामण्डले भूमौ खे वा ॐ बाह्यपरिवाराय नम इति पूजयेत् । ततो द्वारस्थाने ॐ द्वारदेवताचक्राय नम इति पूजयेत् । अगुप्ते तु बहिःस्थाने सति प्रविश्य मण्डलस्थण्डिलाग्र एव बाह्यपरिवारद्वारदेवताचक्रपूजां पूर्वोक्तं च न्यासादि कुर्यात् न बहिः । ततोऽपि फट् फट् फट् इति अस्त्रजप्तपुष्पं प्रक्षिप्य विघ्नानपसारितान् ध्यात्वा अन्तः प्रविश्य परमेश्वरकिरणेद्धया दृष्ट्या अभितो यागगृहं पश्येत् । तत्र मुमुक्षुरुत्तराभिमुखस्तिष्ठेत् यथा भगवदघोरतेजसा झटित्येव प्लुष्टपाशो भवेत् । तत्र परमेश्वरस्वातन्त्र्यमेव मूर्त्याभासनया दिक्तत्त्वम् अवभासयति । तत्र चित्प्रकाश एव मध्यं तत इतरप्रविभागप्रवृत्तेः प्रकाशस्वीकार्यमूर्ध्वम् अतथाभूतम् अधः प्रकाशनसंमुखीनं पूर्वम् इतरत् अपरम् संमुखीभूतप्रकाशत्वात् अनन्तरं तत्प्रकाशधारारोहस्थानं दक्षिणम् आनुकूल्यात् तत्संमुखं तु अवभास्यत्वात् उत्तरम् इति दिक्चतुष्कम् । तत्र मध्ये भगवान् ऊर्ध्वेऽस्य ऐशानं वक्त्रम् अधः पातालवक्त्रम् पूर्वादिदिक्चतुष्के श्रीतत्पुरुषाघोरसद्योवामाख्यम् दिक्चतुष्कमध्ये अन्याश्चतस्रः इत्येवं संविन्महिमैव मूर्तिकृतं दिग्भेदं भासयति इति दिक् न तत्त्वान्तरम् । यथा यथा च स्वच्छाया लङ्घयितुम् इष्टा सती पुरः पुरो भवति तथा परमेश्वरमध्यतामेति सर्वाधिष्ठातृतैव माध्यस्थ्यम् इत्युक्तम् । एवं यथा भगवान् दिग्विभागकारी तथा सूर्योऽपि स हि पारमेश्वर्येव ज्ञानशक्तिरित्युक्तं तत्र तत्र तत्र पूर्वं व्यक्तेः पूर्वा यत्रैव च तथा तत्रैव एवं स्वात्माधीनापि स्वसंमुखीनस्य देशस्य पुरस्तात्त्वात् ।
TSAR-A१३-P००३
एवं स्वात्मसूर्यपरमेशत्रितयैकीभावनया दिक्चर्चा इति अभिनवगुप्तगुरवः । एवं स्थिते उत्तराभिमुखम् उपविश्य देहपुर्यष्टकादौ अहंभावत्यागेन देहतां दहेत् संनिधावपि परदेहवत् अदेहत्वात् ततो निस्तरङ्गध्रुवधामरूढस्य दृष्टिस्वाभाव्यात् या किल आद्या स्पन्दकला सैव मूर्तिः तदुपरि यथोपदिष्टयाज्यदेवताचक्रन्यासः प्राधान्येन च इह शक्तयो याज्याः तदासनत्वात् भगवन्नवात्मादीनां शक्तेरेव च पूज्यत्वात् इति गुरवः । तत्र च पञ्च अवस्था जाग्रदाद्याः षष्ठी च अनुत्तरा नाम स्वभावदशा अनुसंधेया इति षोढा न्यासो भवति । तत्र कारणानां ब्रह्मविष्णुरुद्रेशसदाशिवशक्तिरूपाणां प्रत्येकम् अधिष्ठानात् षट्त्रिंशत्तत्त्वकलापस्य लौकिकतत्त्वोत्तीर्णस्य भैरवभट्टारकाभेदवृत्ते न्यासे पूर्णत्वात् भैरवीभावः तेन एतत् अनवकाशम् । यदाहुः अतरङ्गरूढौ लब्धायां पुनः किं तत्त्वसृष्टिन्यासादिना इति । तावत् हि तदतरङ्गं भैरववपुः यत् स्वात्मनि अवभासितसृष्टिसंहारावैचित्र्यकोटि । एवम् अन्योन्यमेलकयोगेन परमेश्वरीभूतं प्राणदेहबुद्ध्यादि भावयित्वा बहिरन्तः पुष्पधूपतर्पणाद्यैर्यथासंभवं पूजयेत् । तत्र शरीरे प्राणे धियि च तदनुसारेण शूलाब्जन्यासं कुर्यात् तद्यथा आधारशक्तिमूले मूलं कन्द आमूलसारकं लम्बिकान्ते कलातत्त्वान्तो दण्डः मायात्मको ग्रन्थिः चतुष्किकात्मा शुद्धविद्यापद्मं तत्रैव सदाशिवभट्टारकः स एव महाप्रेतः प्रकर्षेण लीनत्वात् बोधात् प्राधान्येन वेद्यात्मकदेहक्षयात् नादामर्शात्मकत्वाच्च इति । तन्नाभ्युत्थितं तन्मूर्धरन्ध्रत्रयनिर्गतं नादान्तर्वर्तिशक्तिव्यापिनीसमनारूपमरात्रयं द्विषट्कान्तं तदुपरि शुद्धपद्मत्रयम् औन्मनसम् एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेयभूतां यथाभिमतां देवतां कल्पयित्वा यत् तत्रैव समस्वभावनिर्भरात्मनि विश्वभावार्पणं तदेव पूजनं यदेव तन्मयीभवनं तद्ध्यानं यत् तथाविधान्तःपरामर्शसद्भावनादान्दोलनं स जपः यत् तथाविधपरामर्शक्रमप्रबुद्धमहातेजसा तथाबलादेव विश्वात्मीकरणं स होमः तदेवं कृत्वा परिवारं तत एव वह्निराशेर्विस्फुलिङ्गवत् ध्यात्वा तथैव पूजयेत् ।
TSAR-A१३-V००१
द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् ।
देवीचक्राग्रगं त्यक्तक्रमः खचरतां व्रजेत् ॥
TSAR-A१३-V००२
मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका ।
खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥
TSAR-A१३-P००४
एवम् अन्तर्यागमात्रादेव वस्तुतः कृतकृत्यता । सत्यतः तदाविष्टस्य तथापि बहिरपि कार्यो यागोऽवच्छेदहानय एव योऽपि तथा समावेशभाक् न भवति तस्य मुख्यो बहिर्यागः तदभ्यासात् समावेशलाभो यतस्तस्यापि तु पशुतातिरोधानायान्तर्यागः तदरूढावपि तत्संकल्पबलस्य शुद्धिप्रदत्वात् । अथ यदा दीक्षां चिकीर्षेत् तदाधिवासनार्थं भूमिपरिग्रहं गणेशार्चनं कुम्भकलशयोः पूजां स्थण्डिलार्चनं हवनं च कुर्यात् । नित्यनैमित्तिकयोस्तु स्थण्डिलाद्यर्चनहवने एव । तत्र अधिवासनं शिष्यस्य संस्कृतयोग्यताधानम् अम्ब्लीकरणमिव दन्तानां देवस्य कर्तव्योन्मुखत्वग्राहणम् गुरोस्तद्ग्रहणम् । उपकरणद्रव्याणां यागगृहान्तर्वर्तितया परमेशतेजोबृंहणेन पूजोपकरणयोग्यतार्पणमिति । तत्र सर्वोपकरणपूर्णं यागगृहं विधाय भगवतीं मालिनीं मातृकां वा स्मृत्वा तद्वर्णतेजःपुञ्जभरितं गृहीतं भावयन् पुष्पाञ्जलिं क्षिपेत् । तत उक्तास्त्रजप्तानि यथासंभवं सिद्धार्थधान्याक्षतलाजादीनि तेजोरूपाणि विकीर्य ऐशान्यां दिशि क्रमेण संघट्टयेत् इति भूपरिग्रहः । ततः शुद्धविद्यान्तमासनं दत्त्वा गणपतेः पूजा ततः कुम्भम् आनन्दद्रव्यपूरितम् अलंकृतं पूजयेत् ततो याज्यमनु पूगं न्यस्य तत्र मुख्यं मन्त्रं सर्वाधिष्ठातृतया विधिपूर्वकत्वेन स्मरन् अष्टोत्तरशतमन्त्रितं तेन तं कुम्भं कुर्यात् । द्वितीयकलशे विघ्नशमनाय अस्त्रं यजेत् । ततः स्वस्वदिक्षु लोकपालान् सास्त्रान् पूजयेत् । ततः शिष्यस्य प्राक् दीक्षितस्य हस्ते अस्त्रकलशं दद्यात् । स्वयं च गुरुः कुम्भम् आददीत । ततः शिष्यं गृहपर्यन्तेषु विघ्नशमनाय धारां पातयन्तं सकुम्भोऽनुगच्छेत् इमं मन्त्रं पठन्
TSAR-A१३-V००३
भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया ॥
TSAR-A१३-P००५
त्र्यक्षरे नाम्नि भो इत्येकमेव । तत ऐशान्यां दिशि कुम्भं स्थापयेत् । विकिरोपरि अस्त्रकलशम् । तत उभयपूजनम् । ततः स्थण्डिलमध्ये परमेशपूजनम् । ततः अग्निकुण्डं परमेश्वरशक्तिरूपतया भावयित्वा तत्र अग्निं प्रज्वाल्य हृदयान्तर्बोधाग्निना सह एकीकृत्य मन्त्रपरामर्शसाहित्येन ज्वलन्तं शिवाग्निं भावयित्वा तत्र न्यस्य अभ्यर्च्य मन्त्रान् तर्पयेत् आज्येन तिलैश्च । अर्घपात्रेण च प्रोक्षणमेव तिलाज्यादीनां संस्कारः । स्रुक्स्रुवयोश्च परमेशाभेददृष्टिरेव हि संस्कारः । ततो यथाशक्ति हुत्वा स्रुक्स्रुवौ ऊर्ध्वाधोमुखतया शक्तिशिवरूपौ परस्परोन्मुखौ विधाय समपादोत्थितो द्वादशान्तगगनोदितशिवपूर्णचन्द्रनिःसृतपतत्परामृतधाराभावनां कुर्वन् वौषडन्तं मन्त्रम् उच्चारयन् च आज्यक्षयान्तं तिष्ठेत् इति पूर्णाहुतिः मन्त्रचक्रसंतर्पणी । ततश्चरुं प्रोक्षितमानीय स्थण्डिलकलशकुम्भवह्निषु भागं भागं निवेद्य एकभागम् अवशेष्य शिष्याय भागं दद्यात् । ततो दन्तकाष्ठम् । तत्पातोऽग्नियमनिरृतिदिक्षु अधश्च न शुभ इति । तत्र होमोऽस्त्रमन्त्रेण कार्यः । ततो विक्षेपपरिहारेण भाविमन्त्रदर्शनयोग्यतायै बद्धनेत्रं शिष्यं प्रवेश्य जानुस्थितं तं कृत्वा पुष्पाञ्जलिं क्षेपयेत् । ततः सहसा अपासितनेत्रबन्धोऽसौ शक्तिपातानुगृहीतकरणत्वात् संनिहितमन्त्रं तत्स्थानं साक्षात्कारेण पश्यन् तन्मयो भवति अनुगृहीतकरणानां मन्त्रसंनिधिः प्रत्यक्षः यतस्त्रस्यताम् इव भूतानाम् । ततः स्वदक्षिणहस्ते दीप्यतया देवताचक्रं पूजयित्वा तं हस्तं मूर्धहृन्नाभिषु शिष्यस्य पाशान् दहन्तं निक्षिपेत् । ततो वामे सोम्यतया पूजयित्वा शुद्धतत्त्वाप्यायिनं ततः प्रणामं कुर्यात् ।
TSAR-A१३-P००६
ततो भूतदेवतादिग्बलिं मद्यमांसजलादिपूर्णं बहिर्दद्यात् आचामेत् । ततः स्वयं चरुभोजनं कृत्वा शिष्यात्मना सह ऐक्यमापन्नः प्रबुद्धवृत्तिः तिष्ठेत् । स्वपन् अपि प्रभाते शिष्यः चेत् अशुभं स्वप्नं वदेत् तत् अस्मै न व्याकुर्यात् शङ्कातङ्कौ हि तथास्य स्याताम् केवलम् अस्त्रेण तन्निष्कृतिं कुर्यात् । ततस्तथैव परमेश्वरं पूजयित्वा तदग्रे शिष्यस्य प्राणक्रमेण प्रविश्य हृत्कण्ठतालुललाटरन्ध्रद्वादशान्तेषु षट्सु कारणषट्कस्पर्शं कुर्वन् प्रत्येकमष्टौ संस्कारान् चिन्तयन् कंचित्कालं शिष्यप्राणं तत्रैव विश्रमय्य पुनरवरोहेत् । इत्येवापादिताष्टाचत्वारिंशत्संस्कारोपरिकृतरुद्रांशापत्तिः समयीभवति । ततः अस्मै पूज्यं मन्त्रं पुष्पाद्यैः सह अर्पयेत् । ततः समयान् अस्मै निरूपयेत् । गुरौ सर्वात्मना भक्तिः तथा शास्त्रे देवे तत्प्रतिद्वन्द्विनि पराङ्मुखता गुरुवत् गुरुपुत्रादेः विद्यासंबन्धकृतस्य तत्पूर्वदीक्षितादेः संदर्शनम् यौनसंबन्धस्य तदाराधनार्थम् न तु स्वत इति मन्तव्यम् । स्त्रियो वन्ध्यायास्तज्जुगुप्साहेतुं न कुर्यात् । देवतानाम गुरुनाम तथा मन्त्रं पूजाकालात् ऋते न उच्चारयेत् । गुरूपभुक्तं शय्यादि न भुञ्जीत । यत् किंचित् लौकिकं क्रीडादि तत् गुरुसंनिधौ न कुर्यात् । तद्व्यतिरेकेण न अन्यत्र उत्कर्षबुद्धिं कुर्यात् । सर्वत्र श्राद्धादौ गुरुमेव पूजयेत् । सर्वेषु च नैमित्तिकेषु शाकिनीत्यादिशब्दान् न वदेत् । पर्वदिनानि पूजयेत् । वैष्णवाद्यैरधोदृष्टिभिः सह संगतिं न कुर्यात् । एतच्छासनस्थान् पूर्वजातिबुद्ध्या न पश्येत् । गुरुवर्गे गृहागते यथाशक्ति यागं कुर्यात् । अधोमार्गस्थितं कंचित् वैष्णवाद्यं तच्छास्त्रकुतूहलात् गुरूकृत्यापि त्यजेत् । तदापि न उत्कर्षबुद्ध्या पश्येत् । लिङ्गिभिः सह समाचारमेलनं न कुर्यात् तान् केवलं यथाशक्ति पूजयेत् । शङ्कास्त्यजेत् । चक्रे स्थितश्चरमाग्र्यादिविभागं जन्मकृतं न संकल्पयेत् । शरीरात् ऋते न अन्यत् आयतनतीर्थादिकं बहुमानेन पश्येत् । मन्त्रहृदयम् अनवरतं स्मरेत् इत्येवं शिष्यः श्रुत्वा प्रणम्य अभ्युपगम्य गुरुं धनदारशरीरपर्यन्तया दक्षिणया परितोष्य पूर्वदीक्षितांश्च दीनानाथादिकान् तर्पयेत् । भाविविधिना च मूर्तिचक्रं तर्पयेत् । इत्थं समयीभवति । मन्त्राभ्यासे नित्यपूजायां श्रवणेऽध्ययने अधिकारी नैमित्तिके तु सर्वत्र गुरुमेव अभ्यर्थयेत् इति सामयिको विधिः ।
TSAR-A१३-V००४
अध्वानमालोच्य समस्तमन्तः
पूर्णं स्वमात्मानमथावलोक्य ।
पश्येदनुग्राहधिया द्विषट्क-
पर्यन्तमेवं समयी शिशुः स्यात् ॥
TSAR-A१३-M००१
सअलभा अपरि उण्णउ परभइरउ अत्ताणु
जाइवि अग्गणि सण्णउ जोअभिमी सत्ताणु ।
एहस समयदिक्ख परभइरव जलणि हि मज्जणिण
इत्थति लज्जहवन बहुपरिभवहोइउवाउजिण ॥
TSAR-A१३-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे समयिदीक्षाप्रकाशनं नाम त्रयोदशमाह्निकम् ॥१३॥
TSAR-A१४-H००१
अथ चतुर्दशमाह्निकम् ।
TSAR-A१४-P००१
अथ पुत्रकदीक्षाविधिः । स च विस्तीर्णः तन्त्रालोकात् अवधार्यः । संक्षिप्तस्तु उच्यते । समय्यन्तं विधिं कृत्वा तृतीयेऽह्नि त्रिशूलाब्जे मण्डले सामुदायिकं यागं पूजयेत् तत्र बाह्यपरिवारं द्वारदेवताचक्रं च बहिः पूजयेत् ततो मण्डलपूर्वभागे ऐशकोणात् आरभ्य आग्नेयान्तं पङ्क्तिक्रमेण गणपतिं गुरुं परमगुरुं परमेष्ठिनं पूर्वाचार्यान् योगिनीचक्रं वागीश्वरीं क्षेत्रपालं च पूजयेत् । तत आज्ञां समुचिताम् आदाय शूलमूलात् प्रभृति सितकमलान्तं समस्तम् अध्वानं न्यस्य अर्चयेत् ततो मध्यमे त्रिशूले मध्यारायां भगवती श्रीपराभट्टारिका भैरवनाथेन सह वामारायां तथैव श्रीमदपरा दक्षिणारायां श्रीपरापरा दक्षिणे त्रिशूले मध्ये श्रीपरापरा वामे त्रिशूले मध्ये श्रीमदपरा द्वे तु यथास्वम् । एवं सर्वस्थानाधिष्ठातृत्वे भगवत्याः सर्वं पूर्णं तदधिष्ठानात् भवति इति । ततो मध्यशूलमध्यारायां समस्तं देवताचक्रं लोकपालास्त्रपर्यन्तम् अभिन्नतयैव पूजयेत् तदधिष्ठानात् सर्वत्र पूजितम् । ततः कुम्भे कलशे मण्डले अग्नौ स्वात्मनि च अभेदभावनया पञ्चाधिकरणम् अनुसन्धिं कुर्यात् ततः परमेश्वराद्वयरसबृंहितेन पुष्पादिना विशेषपूजां कुर्यात् । किं बहुना तर्पणनैवेद्यपरिपूर्णं वित्तशाठ्यविरहितो यागस्थानं कुर्यात् । असति वित्ते तु महामण्डलयागो न कर्तव्य एव । पशूंश्च जीवतो निवेदयेत् । तेऽपि हि एवम् अनुगृहीता भवन्ति इति कारुणिकतया पशुविधौ न विचिकित्सेत् । ततोऽग्नौ परमेश्वरं तिलाज्यादिभिः संतर्प्य तदग्रेऽन्यं पशुं वपाहोमार्थं कुर्यात् देवताचक्रं तद्वपया तर्पयेत् पुनर्मण्डलं पूजयेत् ततः परमेश्वरं विज्ञप्य सर्वाभिन्नसमस्तषडध्वपरिपूर्णम् आत्मानं भावयित्वा शिष्यं पुरोऽवस्थितं कुर्यात् ।
TSAR-A१४-P००२
परोक्षदीक्षायां जीवन्मृतरूपायाम् अग्रे तं ध्यायेत् तदीयां वा प्रतिकृतिं दर्भगोमयादिमयीम् अग्रे स्थापयेत् । तथाविधं शिष्यम् अर्घपात्रविप्रुट्प्रोक्षितं पुष्पादिभिश्च पूजितं कृत्वा समस्तमध्वानं तद्देहे न्यसेत् । तत इत्थं विचारयेत् भोगेच्छोः शुभं न शोधयेत् । मुमुक्षोस्तु शुभाशुभम् उभयमपि । निर्बीजायां तु समयपाशान् अपि शोधयेत् सा च आसन्नमरणस्य अत्यन्तमूर्खस्यापि कर्तव्या इति परमेश्वराज्ञा तस्यापि तु गुरुदेवताग्निभक्तिनिष्ठत्वमात्रात् सिद्धिः । अत्र च सर्वत्र वासनाग्रहणमेव भेदकम् मन्त्राणां वासनानुगुण्येन तत्तत्कार्यकारित्वात् । एवं वासनाभेदमनुसंधाय मुख्यमन्त्रपरामर्शविशेषेण समस्तमध्वानं स्वदेहगतं शिवाद्वयभावनया शोधयेत् । एवं क्रमेण पादाङ्गुष्ठात् प्रभृति द्वादशान्तपर्यन्तं स्वात्मदेहस्वात्मचैतन्याभिन्नीकृतदेहचैतन्यस्य शिष्यस्य आसाद्य तत्रैव अनन्तानन्दसरसि स्वातन्त्र्यैश्वर्यसारे समस्तेच्छाज्ञानक्रियाशक्तिनिर्भरसमस्तदेवताचक्रेश्वरे समस्ताध्वभरिते चिन्मात्रावशेषविश्वभावमण्डले तथाविधरूपैकीकारेण शिष्यात्मना सह एकीभूतो विश्रान्तिमासादयेत् इत्येवं परमेश्वराभिन्नोऽसौ भवति । ततो यदि भोगेच्छुः स्यात् ततो यत्रैव तत्त्वे भोगेच्छा अस्य भवति तत्रैव समस्तव्यस्ततया योजयेत् । तदनन्तरं शेषवृत्तये परमेश्वरस्वभावात् झटिति प्रसृतं शुद्धतत्त्वमयं देहम् अस्मै चिन्तयेत् इत्येषा समस्तपाशवियोजिका दीक्षा । ततः शिष्यो गुरुं दक्षिणाभिः पूर्ववत् पूजयेत् । ततोऽग्नौ शिष्यस्य विधिं कुर्यात् श्रीपरामन्त्रः अमुकस्यामुकं तत्त्वं शोधयामि इति स्वाहान्तं प्रतितत्त्वं तिस्र आहुतयः अन्ते पूर्णा वौषडन्ता । एवं शिवान्ततत्त्वशुद्धिः ततो योजनिकोक्तक्रमेण पूर्णाहुतिः । भोगेच्छोः भोगस्थाने योजनिकार्थमपरा शुद्धतत्त्वसृष्ट्यर्थमन्या । ततो गुरोः दक्षिणाभिः पूजनम् इत्येषा पुत्रकदीक्षा । यत्र वर्तमानमेकं वर्जयित्वा भूतं भविष्यच्च कर्म शुध्यति ॥
TSAR-A१४-V००१
अन्तः समस्ताध्वमयीं स्वसत्तां
बहिश्च संधाय विभेदशून्यः ।
शिष्यस्य धीप्राणतनूर्निजासु
तास्वेकतां संगमयेत्प्रबुद्धः ॥
TSAR-A१४-V००२
शिष्यैकभावं झटिति प्रपद्य
तस्मिन्महानन्दविबोधपूर्णे ।
यावत्स विश्राम्यति तावदेव
शिवात्मभावं पशुरभ्युपैति ॥
TSAR-A१४-M००१
जे सहु एकीभाउलये
विणु अच्छइ एहु विवोह समुद्द ।
सो पसु भइरवु हो इलये विणु
अन्तन्नावजिउ अस असमुहु ॥
TSAR-A१४-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे पुत्रकदीक्षाप्रकाशनं नाम चतुर्दशमाह्निकम् ॥१४॥
TSAR-A१५-H००१
अथ पञ्चदशमाह्निकम् ।
TSAR-A१५-P००१
यदा पुनरासन्नमरणस्य स्वयं वा बन्धुमुखेन शक्तिपात उपजायते तदा अस्मै सद्यः समुत्क्रमणदीक्षां कुर्यात् । समस्तमध्वानं शिष्ये न्यस्य तं च क्रमेण शोधयित्वा भगवतीं कालरात्रीम् मर्मकर्तनीं न्यस्य तया क्रमात्क्रमं मर्मपाशान् विभिद्य ब्रह्मरन्ध्रवर्ति शिष्यचैतन्यं कुर्यात् । ततः पूर्वोक्तक्रमेण योजनिकार्थं पूर्णाहुतिं दद्यात् यथा पूर्णाहुत्यन्ते जीवो निष्क्रान्तः परमशिवाभिन्नो भवति । बुभुक्षोस्तु द्वितीया पूर्णाहुतिः भोगस्थाने योजनाय तत्काले च तस्य जीवलयः नात्र शेषवर्तनम् ब्रह्मविद्यां वा कर्णे पठेत् सा हि परामर्शस्वभावा सद्यः प्रबुद्धपशुचैतन्ये प्रबुद्धविमर्शं करोति । समय्यादेरपि च एतत्पाठेऽधिकारः । सप्रत्ययां निर्बीजां तु यदि दीक्षां मूढाय आयातशक्तिपाताय च दर्शयेत् तदा हि शिवहस्तदानकाले अयं विधिः त्रिकोणमाग्नेयं ज्वालाकरालं रेफविस्फुलिङ्गं बहिर्वात्याचक्रध्मायमानं मण्डलं दक्षिणहस्ते चिन्तयित्वा तत्रैव हस्ते बीजं किंचित् निक्षिप्य ऊर्ध्वाधोरेफविबोधितफट्कारपरम्पराभिः अस्य तां जननशक्तिं दहेत् एवं कुर्वन् तं हस्तं शिष्यस्य मूर्धनि क्षिपेत् इति द्वयोरपि एषा दीक्षा निर्बीजा स्वकार्यकरणसामर्थ्यविध्वंसिनी भवति स्थावराणामपि दीक्ष्यत्वेन उक्तत्वात् वायुपुरान्तर्व्यवस्थितं दोधूयमानं शिष्यं लघूभूतं चिन्तयेत् येन तुलया लघुः दृश्यते इति ।
TSAR-A१५-V००१
मर्मकर्तनविधौ लघुभावे
बीजभावविलये यदि मन्त्रः । तत्तथोचितपथेन नियुक्त-
स्तत्तदाशु कुरुते परमेशः ॥
TSAR-A१५-M००१
जं अनु अन्धि विसेसं
घेतूण जडन्ति मन्तमुच्चरइ ।
इच्छासत्तिप्पाणो
तं तं मन्तो करेइ फुडम् ॥
TSAR-A१५-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे सप्रत्ययदीक्षाप्रकाशनं नाम पञ्चदशमाह्निकम् ॥१५॥
TSAR-A१६-H००१
अथ षोडशमाह्निकम् ।
TSAR-A१६-P००१
अथ परोक्षस्य दीक्षा द्विविधश्च सः मृतो जीवंश्च । तत्र कृतगुरुसेव एव मृत उद्वासितो वा अभिचारादिहतो डिम्बाहतो मृत्युक्षणोदिततथारुचिः मुखान्तरायातशक्तिपातो वा तथा दीक्ष्य इत्याज्ञा । अत्र च मृतदीक्षायाम् अधिवासादि न उपयुज्यते । मण्डले मन्त्रविशेषसंनिधये यत्र बहुला क्रिया उत्तममुपकरणं पुष्पादि स्थानं पीठादि मण्डलं त्रिशूलाब्जादि आकृतिः ध्येयविशेषः मन्त्रः स्वयं दीप्तश्च ध्यानपरस्य योगिनः तदेकभक्तिसमावेशशालिनो ज्ञानिनश्च संबन्धः इत्येते संनिधानहेतवो यथोत्तरम् उक्ताः । समुदितत्वे तु का कथा स्यात् इति परमेश्वरेण उक्तम् । ततो देवं पूजयित्वा तदाकृतिं कुशादिमयीम् अग्रे स्थापयित्वा गुर्वासादितज्ञानोपदेशक्रमेण तां पश्येत् स च
TSAR-A१६-V००१
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं
वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन्व्याप्तुमीष्टे ।
यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं
संच्छाद्याभीष्टजीवानयनमिति महाञ्जालनामा प्रयोगः ॥
TSAR-A१६-V००२
एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ
पश्चादानीयते चेत्सकलमथ
ततोऽप्यध्वमध्याद्यथेष्टम् ।
आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे
योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥
TSAR-A१६-P००२
बहिरपि इत्थं कथं न भवति आकर्षणादौ विनाभ्यासात् ? इति चेत् रागद्वेषादियोगवशेन तत्प्रवृत्तौ ऐश्वर्यावेशायोगात् । ततो नियतिनियन्त्रितत्वात् अभ्यासाद्यपेक्षा स्यादेव । इह तु अनुग्रहात्मकपरमेश्वरतावेशात् तथाभावः । परमेश्वर एव हि गुरुशरीराधिष्ठानद्वारेण अनुग्राह्यान् अनुगृह्णाति । स च अचिन्त्यमहिमा इति उक्तप्रायम् । एवं जालप्रयोगाकृष्टो जीवो दार्भं जातीफलादि वा शरीरं समाविष्टो भवति न च स्पन्दते मनःप्राणादिसामग्र्यभावात् तदनुध्यानबलात् तु स्पन्दतेऽपि तादृशेऽपि तस्मिन् पूर्ववत् प्रोक्षणादिसंस्कारः पूर्णाहुतियोजनिकान्तः । अत्र परं पूर्णाहुत्या तस्य दार्भाद्याकारस्य परतेजसि लयः कर्तव्यः । एवम् उद्धृतोऽसौ पूर्णाहुत्यैव अपवृज्यते यदि स्वर्नरकप्रेततिर्यक्षु स्थितः । मनुष्यस्तु तदैव ज्ञानं योगं दीक्षां विवेकं वा लभते अधिकारिशरीरत्वात् इति मृतोद्धरणम् । जीवतोऽपि परोक्षस्य उत्पन्ने शक्तिपातेऽयमेव क्रमः दार्भाकृतिकल्पनजीवाकृष्टिवर्जम् । ध्यानमात्रोपस्थापितस्यैव अस्य संस्कारः । दीक्षा च भोगमोक्षोभयदायिनी स्ववासनाबलीयस्त्वात् भोगवासनाविच्छेदस्य च असंभाव्यमानत्वात् बहुभिः दीक्षायाम् ऊर्ध्वशासनसंस्कारो बलवान् अन्यस्तु तत्संस्काराय स्यात् । परोक्षस्यापि दीक्षितस्य तथैव ज्ञानाद्याविर्भावः इति ।
TSAR-A१६-V००३
परमेश्वरतावेशदार्ढ्यात्स्वातन्त्र्यभाग्गुरुः ।
परोक्षमभिसंधाय दीक्षितेति किमद्भुतम् ॥
TSAR-A१६-M००१
परम्म सिवतम्म अत्तण-
प्पडिअंसच्छन्दभान ।
परमत्थं जो आविसत्ताऽस-
दिक्खइ परोक्ख इवं पिसिस्सगणं ॥
TSAR-A१६-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे परोक्षदीक्षाप्रकाशनं नाम षोडशमाह्निकम् ॥१६॥
TSAR-A१७-H००१
अथ सप्तदशमाह्निकम् ।
TSAR-A१७-U००१
अथ लिङ्गोद्धारः ॥
TSAR-A१७-P००१
वैष्णवादिदक्षिणतन्त्रान्तेषु शासनेषु ये स्थिताः तद्गृहीतव्रता वा ये च उत्तमशासनस्था अपि अनधिकृताधरशासनगुरूपसेविनः ते यदा शक्तिपातेन पारमेश्वरेण उन्मुखीक्रियन्ते तदा तेषामयं विधिः तत्र एनं कृतोपवासम् अन्यदिने साधारणमन्त्रपूजितस्य तदीयां चेष्टां श्रावितस्य भगवतोऽग्रे प्रवेशयेत् तत्रास्य व्रतं गृहीत्वा अम्भसि क्षिपेत् ततोऽसौ स्नायात् ततः प्रोक्ष्य चरुदन्तकाष्ठाभ्यां संस्कृत्य बद्धनेत्रं प्रवेश्य साधारणेन मन्त्रेण परमेश्वरपूजां कारयेत् । ततः साधारणमन्त्रेण शिवीकृते अग्नौ व्रतशुद्धिं कुर्यात् तन्मन्त्रसंपुटं नाम कृत्वा प्रायश्चित्तं शोधयामि इति स्वाहान्तं शतं जुहुयात् । ततोऽपि पूर्णाहुतिः वौषडन्तेन । ततो व्रतेश्वरम् आहूय पूजयित्वा तस्य शिवाज्ञया अकिञ्चित्करः त्वमस्य भव इति श्रावणां कृत्वा तं तर्पयित्वा विसृज्य अग्निं विसृजेत् इति लिङ्गोद्धारः । ततोऽस्य अधिवासादि प्राग्वत् । दीक्षा यथेच्छम् ।
TSAR-A१७-V००१
अधरस्थोऽपि गाढेशशक्तिप्रेरितमानसः ।
संस्कृत्य दीक्ष्यो यश्च प्राङ्निरतोऽसद्गुरावभूत् ॥
TSAR-A१७-M००१
पसवअणुहं जोत्तमसासणुल
इविणुपणुपरमेसपसाइण ।
पत्थइ सद्गुरुबोहपसाहणु
सो दिक्खइ लिङ्गोद्धारिण ॥
TSAR-A१७-K००१
इति श्रीमदाचार्याभिनवगुप्तविरचिते श्रीतन्त्रसारे लिङ्गोद्धरणं नाम सप्तदशमाह्निकम् ॥१७॥
TSAR-A१८-H००१
अथाष्टादशमाह्निकम् ।
TSAR-A१८-U००१
अथाभिषेकः ।
TSAR-A१८-P००१
स्वभ्यस्तज्ञानिनं साधकत्वे गुरुत्वे वा अभिषिञ्चेत् यतः सर्वलक्षणहीनोऽपि ज्ञानवानेव साधकत्वे अनुग्रहकरणे च अधिकृतः न अन्यः अभिषिक्तोऽपि । स्वाधिकारसमर्पणे गुरुः दीक्षादि अकुर्वन् अपि न प्रत्यवैति पूर्वं तु प्रत्यवायेन अधिकारबन्धेन विद्येशपददायिना बन्ध एव अस्य दीक्षाद्यकरणम् सोऽभिषिक्तो मन्त्रदेवतातादात्म्यसिद्धये षाण्मासिकं प्रत्यहं जपहोमविशेषपूजाचरणेन विद्याव्रतं कुर्यात् तदनन्तरं लब्धतन्मयीभावो दीक्षादौ अधिकृतः तत्र न अयोग्यान् दीक्षेत न च योग्यं परिहरेत् दीक्षितमपि ज्ञानदाने परीक्षेत छद्मगृहीतज्ञानमपि ज्ञात्वा उपेक्षेत अत्र च अभिषेकविभवेन देवपूजादिकम् ।
TSAR-A१८-V००१
स्वभ्यस्तज्ञानतया
स्वार्थपरार्थाधिकारतां वहतः ।
साधकगुरुतायोग-
स्तत्र हि कार्यस्तदभिषेकः ॥
TSAR-A१८-M००१
जो परि उण्ण सत्थसं अणु
तस्स अणुग्गहमेतु पवित्ति ।
कामणाइ जो पुणुसो साह
उतइ उपा अरहुरइ णहु चित्ति ॥
TSAR-A१८-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे अभिषेकप्रकाशनं नाम अष्टादशमाह्निकम् ॥१८॥
TSAR-A१९-H००१
अथैकोनविंशमाह्निकम् ।
TSAR-A१९-P००१
अथ अधरशासनस्थानां गुर्वन्तानामपि मरणसमनन्तरं मृतोद्धारोदितशक्तिपातयोगादेव अन्त्यसंस्काराख्यां दीक्षां कुर्यात् ऊर्ध्वशासनस्थानामपि लुप्तसमयानाम् अकृतप्रायश्चित्तानाम् इति परमेश्वराज्ञा । तत्र यो मृतोद्धारे विधिः उक्तः स सर्व एव शरीरे कर्तव्यः पूर्णाहुत्या शवशरीरदाहः मूढानां तु प्रतीतिरूढये सप्रत्ययामन्त्येष्टिं क्रियाज्ञानयोगबलात् कुर्यात् तत्र शवशरीरे संहारक्रमेण मन्त्रान् न्यस्य जालक्रमेण आकृष्य रोधनवेधनघट्टनादि कुर्यात् प्राणसंचारक्रमेण हृदि कण्ठे ललाटे च इत्येवं शवशरीरं कम्पते । ततः परमशिवे योजनिकां कृत्वा तत् दहेत् पूर्णाहुत्या अन्त्येष्ट्या शुद्धानाम् अन्येषामपि वा श्राद्धदीक्षां त्र्यहं तुर्ये दिने मासि मासि संवत्सरे संवत्सरे कुर्यात् । तत्र होमान्तं विधिं कृत्वा नैवेद्यमेकहस्ते कृत्वा तदीयां वीर्यरूपां शक्तिं भोग्याकारां पशुगतभोग्यशक्तितादात्म्यप्रतिपन्नां ध्यात्वा परमेश्वरे भोक्तरि अर्पयेत् इत्येवं भोग्यभावे निवृत्ते पतिरेव भवति अन्त्येष्टिमृतोद्धरणश्राद्धदीक्षाणाम् अन्यतमेनापि यद्यपि कृतार्थता तथापि बुभुक्षोः क्रियाभूयस्त्वं फलभूयस्त्वाय इति सर्वमाचरेत् । मुमुक्षोरपि तन्मयीभावसिद्धये अयम् जीवतः प्रत्यहम् अनुष्ठानाभ्यासवत् । तत्त्वज्ञानिनस्तु न कोऽप्ययम् अन्त्येष्ट्यादिश्राद्धान्तो विधिः उपयोगी तन्मरणं तद्विद्यासंतानिनां पर्वदिनं संविदंशपूरणात् तावतः संतानस्य एकसंविन्मात्रपरमार्थत्वात् जीवतो ज्ञानलाभसंतानदिवसवत् । सर्वत्र च अत्र श्राद्धादिविधौ मूर्तियागः प्रधानम् इति श्रीसिद्धामतम् तद्विधिश्च वक्ष्यते नैमित्तिकप्रकाशने ।
TSAR-A१९-V००१
अनुग्रहपरः शिवो वशितयानुगृह्णाति यं
स एव परमेश्वरीभवति नाम किं वाद्भुतम् ।
उपायपरिकल्पना ननु तदीशनामात्रकं
विदन्निति न शङ्कते परिमितेऽप्युपाये बुधः ॥
TSAR-A१९-M००१
एहु सरीरु सअलु अह भवसरु
इच्छामित्तणजेण विचित्ति उ ।
सोश्चिअ सोक्खदेयि परमेसरु
इअजानन्त उरूढिपवित्ति उ ॥
TSAR-A१९-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे श्राद्धदीक्षाप्रकाशनं नाम एकोनविंशमाह्निकम् ॥१९॥
TSAR-A२०-H००१
अथ विंशमाह्निकम् ।
TSAR-A२०-U००१
अथ शेषवर्तनार्थं प्रकरणान्तरम् ।
TSAR-A२०-P००१
तत्र या दीक्षा संस्कारसिद्ध्यै ज्ञानयोग्यान् प्रति या च तदशक्तान् प्रति मोक्षदीक्षा सबीजा तस्यां कृतायाम् आजीवं शेषवर्तनं गुरुः उपदिशेत् । तत्र नित्यं नैमित्तिकं काम्यम् इति त्रिविधं शेषवर्तनम् अन्त्यं च साधकस्यैव तत् न इह निश्चेतव्यम् । तत्र नियतभवं नित्यं तन्मयीभाव एव नैमित्तिकं तदुपयोगि सन्ध्योपासनं प्रत्यहमनुष्ठानं पर्वदिनं पवित्रकम् इत्यादि । तदपि नित्यं स्वकालनैयत्यात् इति केचित् । नैमित्तिकं तु तच्छासनस्थानामपि अनियतम् तद्यथा गुरुतद्वर्गागमनं तत्पर्वदिनं ज्ञानलाभदिनम् इत्यादिकम् इति केचित् । तत्र नियतपूजा सन्ध्योपासा गुरुपूजा पर्वपूजा पवित्रकम् इति अवश्यंभावि । नैमित्तिकम् ज्ञानलाभः शास्त्रलाभो गुरुतद्वर्गगृहागमनं तदीयजन्मसंस्कारप्रायणदिनानि लौकिकोत्सवः शास्त्रव्याख्या आदिमध्यान्ता देवतादर्शनं मेलकः स्वप्नाज्ञा समयनिष्कृतिलाभः इत्येतत् नैमित्तिकं विशेषार्चनकारणम् । तत्र कृतदीक्षाकस्य शिष्यस्य प्रधानं मन्त्रं सवीर्यकं संवित्तिस्फुरणसारम् अलिखितं वक्त्रागमेनैव अर्पयेत् ततः तन्मयीभावसिद्ध्यर्थं स शिष्यः संध्यासु तन्मयीभावाभ्यासं कुर्यात् तद्द्वारेण सर्वकालं तथाविधसंस्कारलाभसिद्ध्यर्थं प्रत्यहं च परमेश्वरं च स्थण्डिले वा लिङ्गे वा अभ्यर्चयेत् । तत्र हृद्ये स्थण्डिले विमलमकुरवद्ध्याते स्वमेव रूपं याज्यदेवताचक्राभिन्नं मूर्तिबिम्बितमिव दृष्ट्वा हृद्यपुष्पगन्धासवतर्पणनैवेद्यधूपदीपोपहारस्तुतिगीतवाद्यनृत्तादिना पूजयेत् जपेत् स्तुवीत तन्मयीभावमशङ्कितं लब्धुम् । आदर्शे हि स्वमुखम् अविरतम् अवलोकयतः तत्स्वरूपनिश्चितिः अचिरेणैव भवेत् न चात्र कश्चित् क्रमः प्रधानम् ऋते तन्मयीभावात् । परमन्त्रतन्मयीभावाविष्टस्य निवृत्तपशुवासनाकलङ्कस्य भक्तिरसानुवेधविद्रुतसमस्तपाशजालस्य यत् अधिवसति हृदयं तदेव परममुपादेयम् इति अस्मद्गुरवः ।
TSAR-A२०-V००१
अधिशय्य पारमार्थिकः -
भावप्रसरं प्रकाशमुल्लसति या । परमामृतदृक्त्वं
तयार्चयन्ते रहस्यविदः ॥
TSAR-A२०-V००२
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिता-
मात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः ।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्
त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥
TSAR-A२०-P००२
इति श्लोकद्वयोक्तमर्थम् अन्तर्भावयन् देवताचक्रं भावयेत् । ततो मुद्राप्रदर्शनं जपः तन्निवेदनम् । बोध्यैकात्म्येन विसर्जनम् । मुख्यं नैवेद्यं स्वयम् अश्नीयात् सर्वं वा जले क्षिपेत् जलजा हि प्राणिनः पूर्वदीक्षिताः चरुभोजनद्वारेण इति आगमविदः । मार्जारमूषकश्वादिभक्षणे तु शङ्का जनिता निरयाय इति ज्ञानी अपि लोकानुग्रहेच्छया न तादृक् कुर्यात् लोकं वा परित्यज्य आसीत इति स्थण्डिलयागः । अथ लिङ्गे तत्र न रहस्यमन्त्रैः लिङ्गं प्रतिष्ठापयेत् विशेषात् व्यक्तम् इति पूर्वप्रतिष्ठितेषु आवाहनविसर्जनक्रमेण पूजां कुर्यात् आधारतया । तत्र गुरुदेहं स्वदेहं शक्तिदेहं रहस्यशास्त्रपुस्तकं वीरपात्रं अक्षसूत्रं प्राहरणं बाणीयं मौक्तिकं सौवर्णं पुष्पगन्धद्रव्यादिहृद्यवस्तुकृतं मकुरं वा लिङ्गम् अर्चयेत् । तत्र च आधारबलादेव अधिकाधिकमन्त्रसिद्धिः भवति इति पूर्वं पूर्वं प्रधानम् आधारगुणानुविधायित्वात् च मन्त्राणां तत्र तत्र साध्ये तत्तत्प्रधानम् इति शास्त्रगुरवः । सर्वत्र परमेश्वराभेदाभिमान एव परमः संस्कारः ।
TSAR-A२०-U००२
अथ पर्वविधिः ।
TSAR-A२०-P००३
तत्र सामान्यं सामान्यसामान्यं सामान्यविशेषो विशेषसामान्यं विशेषो विशेषविशेषश्च इति षोढा पर्व पूरणात् विधेः । तत्र मासि मासि प्रथमं पञ्चमं दिनं सामान्यम् चतुर्थाष्टमनवमचतुर्दशपञ्चदशानि द्वयोरपि पक्षयोः सामान्यसामान्यम् अनयोरुभयोरपि राश्योः वक्ष्यमाणतत्तत्तिथ्युचितग्रहनक्षत्रयोगे सामान्यविशेषः मार्गशीर्षस्य प्रथमरात्रिभागः कृष्णनवम्याम् पौषस्य तु रात्रिमध्यं कृष्णनवम्याम् माघस्य रात्रिमध्यं शुक्लपञ्चदश्याम् फाल्गुनस्य दिनमध्यं शुक्लद्वादश्याम् चैत्रस्य शुक्लत्रयोदश्याम् वैशाखस्य कृष्णाष्टम्याम् ज्यैष्ठस्य कृष्णनवम्याम् आषाढस्य प्रथमे दिने श्रावणस्य दिवसपूर्वभागः कृष्णैकादश्याम् भाद्रपदस्य दिनमध्यं शुक्लषष्ठ्याम् आश्वयुजस्य शुक्लनवमीदिनम् कार्तिकस्य प्रथमो रात्रिभागः शुक्लनवम्याम् इति विशेषपर्व । चित्राचन्द्रौ मघाजीवौ तिष्यचन्द्रौ पूर्वफाल्गुनीबुधौ श्रवणबुधौ शतभिषक्चन्द्रौ मूलादित्यौ रोहिणीशुक्रौ विशाखाबृहस्पती श्रवणचन्द्रौ इति । यदि मार्गशीर्षादिक्रमेण यथासंख्यं भवति आश्वयुजं वर्जयित्वा तदा विशेषविशेषः । अन्यविशेषश्चेत् अन्यपर्वणि तदा तत् अनुपर्व इत्याहुः । भग्रहयोगे च न वेला प्रधानं तिथेरेव विशेषलाभात् अनुयागकालानुवृत्तिस्तु पर्वदिने मुख्या अनुयागप्राधान्यात् पर्वयागानाम् अनुयागो मूर्तियागः चक्रयागः इति पर्यायाः । तत्र गुरुः तद्वर्ग्यः ससन्तानः तत्त्ववित् कन्या अन्त्या वेश्या अरुणा तत्त्ववेदिनी वा इति चक्रयागे मुख्यपूज्याः विशेषात् सामस्त्येन । तत्र मध्ये गुरुः तदावरणक्रमेण गुर्वादिसमय्यन्तं वीरः शक्तिः इति क्रमेण इत्येवं चक्रस्थित्या वा पङ्क्तिस्थित्या वा आसीत ततो गन्धधूपपुष्पादिभिः क्रमेण पूजयेत् ततः पात्रं सदाशिवरूपं ध्यात्वा शक्त्यमृतध्यातेन आसवेन पूरयित्वा तत्र भोक्त्रीं शक्तिं शिवतया पूजयित्वा तयैव देवताचक्रतर्पणं कृत्वा नरशक्तिशिवात्मकत्रितयमेलकं ध्यात्वा आवरणावतरणक्रमेण मोक्षभोगप्राधान्यं बहिरन्तश्च तर्पणं कुर्यात् पुनः प्रतिसंचरणक्रमेण एवं पूर्णं भ्रमणं चक्रं पुष्णाति ।
TSAR-A२०-P००४
तत्र आधारे विश्वमयं पात्रं स्थापयित्वा देवताचक्रं तर्पयित्वा स्वात्मानं वन्दितेन तेन तर्पयेत् पात्राभावे भद्रं वेल्लितशुक्तिः वा दक्षहस्तेन पात्राकारं भद्रं द्वाभ्यामुपरिगतदक्षिणाभ्यां निःसन्धीकृताभ्यां वेल्लितशुक्तिः पतद्भिः बिन्दुभिः वेतालगुह्यकाः संतुष्यन्ति धारया भैरवः अत्र प्रवेशो न कस्यचित् देयः प्रमादात् प्रविष्टस्य विचारं न कुर्यात् कृत्वा पुनर्द्विगुणं चक्रयागं कुर्यात् ततोऽवदंशान् भोजनादीन् च अग्रे यथेष्टं विकीर्येत् गुप्तगृहे वा संकेताभिधानवर्जं देवताशब्देन सर्वान् योजयेत् इति वीरसंकरयागः । ततोऽन्ते दक्षिणाताम्बूलवस्त्रादिभिः तर्पयेत् इति प्रधानतमोऽयं मूर्तियागः । अदृष्टमण्डलोऽपि मूर्तियागेन पर्वदिनानि पूजयन् वर्षादेव पुत्रकोक्तं फलमेति विना सन्ध्यानुष्ठानादिभिः इति वृद्धानां भोगिनां स्त्रीणां विधिरयम् शक्तिपाते सति उपदेष्टव्यो गुरुणा ।
TSAR-A२०-P००५
अथ पवित्रकविधिः । स च श्रीरत्नमालात्रिशिरोमतश्रीसिद्धामतादौ विधिपूर्वकः पारमेश्वराज्ञापूरकश्च उक्तं चैतत् श्रीतन्त्रालोके
TSAR-A२०-Q००१
विना पवित्रकेण सर्वं निष्फलम् ।
TSAR-A२०-P००६
इति । तत्र आषाढशुक्लात् कुलपूर्णिमादिनान्तं कार्यं पवित्रकम् तत्र कार्तिककृष्णपञ्चदशी कुलचक्रं नित्याचक्रं पूरयति इति श्रीनित्यातन्त्रविदः । माघशुक्लपञ्चदशी इति श्रीभैरवकुलोर्मिविदः । दक्षिणायनान्तपञ्चदशी इति श्रीतन्त्रसद्भावविदः । तत्र विभवेन देवं पूजयित्वा आहुत्या तर्पयित्वा पवित्रकं दद्यात् सौवर्णमुक्तारत्नविरचितात् प्रभृति पटसूत्रकार्पासकुशगर्भान्तमपि कुर्यात् । तच्च तत्त्वसंख्यग्रन्थिकं पदकलाभुवनवर्णमन्त्रसंख्यग्रन्थि च जान्वन्तमेकं नाभ्यन्तमपरं कण्ठान्तमन्यत् शिरसि अन्यत् इति चत्वारि पवित्रकाणि देवाय गुरवे च समस्ताध्वपरिपूर्णतद्रूपभावनेन दद्यात् शेषेभ्य एकम् इति । ततो महोत्सवः कार्यः चातुर्मास्यं सप्तदिनं त्रिदिनं च इति मुख्यान्वापत्कल्पाः सति विभवे मासि मासि पवित्रकम् अथ वा चतुर्षु मासेषु अथ वा सकृत् तदकरणे प्रायश्चित्तं जपेत् ज्ञानी अपि संभवद्वित्तोऽपि अकरणे प्रत्यवैति लोभोपहितज्ञानाकरणे ज्ञाननिन्दापत्तेः ।
TSAR-A२०-Q००२
यदा प्राप्यापि विज्ञानं दूषितं परमेशशासनं तदा प्रायश्चित्ती ।
TSAR-A२०-U००३
इति वचनात् ।
TSAR-A२०-U००४
इत्येष पवित्रकविधिः ।
TSAR-A२०-P००७
ज्ञानलाभादौ लौकिकोत्सवान्तेऽपि सर्वत्र संविदुल्लासाधिक्यं देवताचक्रसंनिधिः विशेषतो भवति इति तथाविधाधिक्यपर्यालोचनया तथाविधमेव विशेषमनुयागादौ कुर्यात् ।
TSAR-A२०-U००५
अथ व्याख्याविधिः ।
TSAR-A२०-P००८
सर्वशास्त्रसंपूर्णं गुरुं व्याख्यार्थम् अभ्यर्थयेत सोऽपि स्वशिष्याय परशिष्यायापि वा समुचितसंस्कारोचितं शास्त्रं व्याचक्षीत अधरशासनस्थायापि करुणावशात् ईश्वरेच्छावैचित्र्योद्भावितशक्तिपातसंभावनाभावितहृदयो व्याचक्षीत मर्मोपदेशवर्जम् । तत्र निम्नासनस्थितेभ्यः तत्परेभ्यो नियमितवाङ्मनःकायेभ्यो व्याख्या क्रियमाणा फलवती भवति प्रथमं गन्धादिलिप्तायां भुवि उल्लिख्य संकल्प्य वा पद्माधारं चतुरश्रं पद्मत्रयं पद्ममध्ये वागीशीं वामदक्षिणयोः गणपतिगुरू च पूजयेत् आधारपद्मे व्याख्येयकल्पदेवताम् । ततः सामान्यार्घपात्रयोगेन चक्रं तर्पयेत् ततो व्याचक्षीत सूत्रवाक्यपटलग्रन्थम् पूर्वापराविरुद्धं कुर्वन् तन्त्रावृत्तिप्रसङ्गसमुच्चयविकल्पादिशास्त्रन्यायौचित्येन पूर्वं पक्षं सम्यक् घटयित्वा सम्यक् च दूषयन् साध्यं साधयन् तात्पर्यवृत्तिं प्रदर्शयन् पटलान्तं व्याचक्षीत नाधिकम् तत्रापि वस्त्वन्ते वस्त्वन्ते तर्पणं पूजनम् इति यावद्व्याख्यासमाप्तिः । ततोऽपि पूजयित्वा विद्यापीठं विसर्ज्य उपलिप्य अगाधे तत् क्षेपयेत् ।
TSAR-A२०-U००६
इति व्याख्याविधिः ।
TSAR-A२०-U००७
अथ समयनिष्कृतिः ।
TSAR-A२०-P००९
यद्यपि तत्त्वज्ञाननिष्ठस्य प्रायश्चित्तादि न किंचित् तथापि चर्यामात्रादेव मोक्षभागिनः तान् अनुग्रहीतुम् आचारवर्तनीं दर्शयेत् । अतत्त्वज्ञानी तु चर्यैकायत्तभोगमोक्षः समयोल्लङ्घने कृते प्रायश्चित्तम् अकुर्वन् वर्षशतं क्रव्यादो भवतीति इति प्रायश्चित्तविधिः वक्तव्यः तत्र स्त्रीवधे प्रायश्चित्तं नास्ति अन्यत्र तु बलाबलं ज्ञात्वा अखण्डां भगवतीं मालिनीं एकवारात् प्रभृति त्रिलक्षान्तम् आवर्तयेत् यावत् शङ्काविच्युतिः भवति तदन्ते विशेषपूजा तत्रापि चक्रयागः स हि सर्वत्र शेषभूतः ।
TSAR-A२०-U००८
इति समयनिष्कृतिविधिः ।
TSAR-A२०-U००९
अथ गुरुपूजाविधिः ।
TSAR-A२०-P०१०
सर्वयागान्तेषु उपसंहृते यागे अपरेद्युः गुरुपूजां कुर्यात् पूर्वं हि स विध्यङ्गतया तोषितो न तु प्राधान्येन इति तां प्राधान्येन अकुर्वन् अधिकारबन्धेन बद्धो भवति इति तां सर्वथा चरेत् । तत्र स्वास्तिकं मण्डलं कृत्वा तत्र सौवर्णं पीठं दत्त्वा तत्र समस्तमध्वानं पूजयित्वा तत्पीठं तेन अधिष्ठाप्य तस्मै पूजां कृत्वा तर्पणं भोजनं दक्षिणाम् आत्मानम् इति निवेद्य नैवेद्योच्छिष्टं प्रार्थ्य वन्दित्वा स्वयं प्राश्य चक्रपूजां कुर्यात् ।
TSAR-A२०-U०१०
इति गुरुपूजाविधिः ।
TSAR-A२०-V००३
नित्यं नैमित्तिकं कर्म कुर्वञ्शास्त्रविवर्जितः ।
विनापि ज्ञानयोगाभ्यां चर्यामात्रेण मुच्यते ॥
TSAR-A२०-M००१
सिवणाहु सच्छन्दु
तच्चकोणविअप्प इच्छ ।
चरि आमित्ति णजिणजण
हुकिअ भवरोअ चिइच्छ ॥
TSAR-A२०-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे शेषवर्तनप्रकाशनं नाम विंशमाह्निकम् ॥२०॥
TSAR-A२१-H००१
अथैकविंशमाह्निकम् ।
TSAR-A२१-P००१
एवं समस्तं नित्यं नैमित्तिकं कर्म निरूपितम् । अधुना अस्यैव आगमस्य प्रामाण्यम् उच्यते । तत्र संविन्मात्रमये विश्वस्मिन् संविदि च विमर्शात्मिकायां विमर्शस्य च शब्दनात्मकतायां सिद्धायां सकलजगन्निष्ठवस्तुनः तद्गतस्य च कर्मफलसंबन्धवैचित्र्यस्य यत् विमर्शनं तदेव शास्त्रम् इति परमेश्वरस्वभावाभिन्न एव समस्तः शास्त्रसंदर्भो वस्तुत एकफलप्रापकः एकाधिकार्युद्देशेनैव तत्र तु परमेश्वरनियतिशक्तिमहिम्नैव भागे भागे रूढिः लोकानाम् इति । केचित् मायोचितभेदपरामर्शात्मनि वेदागमादिशास्त्रे रूढाः अन्ये तथाविध एव मोक्षाभिमानेन सांख्यवैष्णवशास्त्रादौ परे तु विविक्तशिवस्वभावामर्शनसारे शैवसिद्धान्तादौ अन्ये सर्वमयपरमेश्वरतामर्शनसारे मतङ्गादिशास्त्रे केचित् तु विरलविरलाः समस्तावच्छेदवन्ध्यस्वातन्त्र्यानन्दपरमार्थसंविन्मयपरमेश्वरस्वरूपामर्शनात्मनि श्रीत्रिकशास्त्रक्रमे केचित् तु पूर्वपूर्वत्यागक्रमेण लङ्घनेन वा इत्येवम् एकफलसिद्धिः एकस्मादेव आगमात् । भेदवादेऽपि समस्तागमानाम् एकेश्वरकार्यत्वेऽपि प्रामाण्यं तावत् अवस्थितम् प्रामाण्यनिबन्धनस्य एकदेशसंवादस्य अविगीतताया अनिदन्ताप्रवृत्तेश्च तुल्यत्वात् परस्परबाधो विषयभेदात् अकिंचित्करः । ब्रह्महननतन्निषेधवत् संस्कारभेदः संस्कारातिशयः तदभावे क्वचित् अनधिकृतत्वम् इति समानम् आश्रमभेदवत् फलोत्कर्षाच्च उत्कर्षः तत्रैव उपनिषद्भागवत् भिन्नकर्तृकत्वेऽपि सर्वसर्वज्ञकृतत्वमत्र संभाव्यते तदुक्ततदतिरिक्तयुक्तार्थयोगात् नित्यत्वेऽपि आगमानां प्रसिद्धिः तावत् अवश्योपगम्या अन्वयव्यतिरेकाध्यक्षादीनां तत्प्रामाण्यस्य तन्मूलत्वात् सत्यं रजतं पश्यामि इति हि सौवर्णिकादिपरप्रसिद्ध्यैव प्रसिद्धिरेव आगमः सा काचित् दृष्टफला बुभुक्षितो भुङ्क्ते इति बालस्य प्रसिद्धित एव तत्र तत्र प्रवृत्तिः नान्वयव्यतिरेकाभ्यां तदा तयोः अभावात् यौवनावस्थायां तद्भावोऽपि अकिंचित्करः प्रसिद्धिं तु मूलीकृत्य सोऽस्तु कस्मैचित् कार्याय काचित् अदृष्टवैदेह्य प्रकृतिलयपुरुषकैवल्यफलदा काचित् शिवसमानत्वफलदा काचित् ऐक्यपर्यवसायिनी सा च प्रत्येकम् अनेकविधा इत्येवं बहुतरप्रसिद्धिपूर्णे जगति यो यादृशो भविष्यन् स तादृशीमेव प्रसिद्धिं बलादेव हृदयपर्यवसायिनीम् अभिमन्यते इति रिक्तस्य जन्तोः अतिरिक्ता वाचोयुक्तिः तासां कांचन प्रसिद्धिं प्रमाणीकुर्वता अभ्युपगन्तव्यमेव आगमप्रामाण्यम् इति स आगम आश्रयणीयो यत्र उत्कृष्टं फलम् इत्यलमन्येन ।
TSAR-A२१-V००१
संवित्प्रकाशपरमार्थतया यथैव
भात्यामृशत्यपि तथेति विवेचयन्तः ।
सन्तः समस्तमयचित्प्रतिभाविमर्श-
सारं समाश्रयत शास्त्रमनुत्तरात्म ॥
TSAR-A२१-M००१
जिस्स दढपसिद्धिघडिए
ववहारे सोइ अस्मि णीसंको ।
तह होहि जहुत्तिण
पसिद्धिरुढिए परमसिवो ॥
TSAR-A२१-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे आगमप्रामाण्यप्रकाशनं नाम एकविंशमाह्निकम् ॥२१॥
TSAR-A२२-H००१
अथ द्वाविंशमाह्निकम् ।
TSAR-A२२-P००१
अथ समस्ता इयम् उपासा समुन्मिषत्तादृशदृढवासनारूढान् अधिकारिणः प्रति श्रीमत्कौलिकप्रक्रियया निरूप्यते तत्र उक्तं योगसंचारादौ
TSAR-A२२-V००१
आनन्दं ब्रह्म तद्देहे त्रिधौष्ट्यान्त्यव्यवस्थितम् ।
अब्रह्मचारिणस्तस्यत्यागादानन्दवर्जिताः ॥
TSAR-A२२-V००२
आनन्दकृत्रिमाहारवर्जं चक्रस्य याजकाः ।
द्वयेऽपि नरके घोरे तस्मादेनां स्थितिं भजेत् ॥
TSAR-A२२-P००२
तदनया स्थित्या कुलयागः सच षोढा बाह्ये शक्तौ स्वदेहे यामले प्राणे संविदि च इति । तत्र च उत्तर उत्तर उत्कृष्टः पूर्वः पूर्वस्तद्रुच्यर्थम् । सिद्धिकामस्य द्वितीयतुर्यपञ्चमाः सर्वथा निर्वर्त्याः षष्ठस्तु मुमुक्षोः मुख्यः तस्यापि द्वितीयाद्या नैमित्तिके यथासंभवम् अनुष्ठेया एव विधिपूरणार्थं च । तत्र बाह्यं स्थण्डिलम् आनन्दपूर्णं वीरपात्रं अरुणः पटः पूर्वोक्तमपि वा लिङ्गादि । तत्र स्नानादिकर्तव्यानपेक्षयैव पूर्णानन्दविश्रान्त्यैव लब्धशुद्धिः प्रथमं प्राणसंविद्देहैकीभावं भावयित्वा संविदश्च परमशिवरूपत्वात् सप्तविंशतिवारं मन्त्रम् उच्चार्यमूर्ध वक्त्र हृद्गुह्य मूर्तिषु अनुलोमविलोमाभ्यां विश्वाध्वपरिपूर्णता परमेश्वरे अपरत्वे परापरत्वे परत्वेऽपि च । तथाहि माया पुंप्रकृति गुण धीप्रभृति धरान्तं सप्तविंशतितत्त्वानि कलादीनां तत्रैव अन्तर्भावात् विद्याशक्तावपि परापरत्वे ब्रह्मपञ्चकस्य सद्यस्त्वाजातत्वभवोद्भवत्वादीनां धर्माणां सप्तविंशतिरूपत्वमेव उक्तं श्रीमल्लकुलेशादिपादैः । परत्वेऽपि पञ्चशक्तिः हि परमेश्वरः प्रतिशक्ति च पञ्चरूपता एवं पञ्चविंशतिः शक्तयः ताश्च अन्योन्यम् अनुद्भिन्नविभागा इत्येका शक्तिः सा चानुद्भिन्नविभागा इत्येवं सप्तविंशतिरूपया व्याप्त्या संविदग्नेः शिखां बुद्धिप्राणरूपां सकृदुच्चारमात्रेणैव बद्धां कुर्यात् येन परमशिव एव प्रतिबद्धा तद्व्यतिरिक्तं न किंचिदभिधावति तथाविधबुद्ध्यधिष्ठितकरणचक्रानुवेधेन पुरोवर्तिनो यागद्रव्यगृहदिगाधारादीनपि तन्मयीभूतान् कुर्यात् ततोऽर्घपात्रमपि शिखाबन्धव्याप्त्यैव पूरयेत् पूजयेच्च तद्विप्रुड्भिः स्थण्डिलान्यपि तद्रसेन वामानामाङ्गुष्ठयोगात् देहचक्रेषु मन्त्रचक्रं पूजयेत् तर्पयेत् च ततः प्राणान्तः ततः स्थण्डिले त्रिशूलात्मकं शक्तित्रयान्तमासनं कल्पयेत् मायान्तं हि सार्णे औकारे च शक्तित्रयान्तमासनं कल्पयेत् मायान्तं हि सार्णे औकारे च शक्तित्रयान्तं तदुपरि याज्या विमर्शरूपा शक्तिः इत्येवं सकृदुच्चारेणैव आधाराधेयन्यासं कृत्वा तत्रैव आधेयभूतायामपि संविदि विश्वं पश्येत् तदपि च संविन्मयम् इत्येवं विश्वस्य संविदा तेन च तस्याः संपुटीभावो भवति संविद उदितं तत्रैव पर्यवसितं यतो विश्वं वेद्याच्च संवित् उदेति तत्रैव च विश्राम्यति इति एतावत्त्वं संवित्तत्त्वं संपुटीभावद्वयात् लभ्यते । तदुक्तम्
TSAR-A२२-F००१
सृष्टिं तु संपुटीकृत्य ..................... ।
TSAR-A२२-P००३
इति । ततो गन्धधूपासवकुसुमादीन् आत्मप्रह्वीभावान्तान् अर्पयित्वा स्वविश्रान्त्या जप्त्वा उपसंहृत्य जले निक्षिपेत् ।
TSAR-A२२-U००१
इति बाह्ययागः ।
TSAR-A२२-P००४
अथ शक्तौ तत्र अन्योन्यं शक्तितालासावीराणाम् उभयेषाम् उभयात्मकत्वेन प्रोल्लासप्रारम्भसृष्ट्यन्तशिवशक्तिप्रबोधे परस्परं व्यापारात् परमेशनियत्या च शुद्धरूपतया तत्र प्राधान्यम् एतेन च विशिष्टचक्रस्यापि शक्तित्वं व्याख्यातम् तत्र शिखाबन्धव्याप्त्यैव पूजनं शक्तित्रयान्तमासनं कोणत्रये मध्ये विसर्गशक्तिः इति तु व्याप्तौ विशेषः । एवं स्वदेहे तत्रैव चक्रे ततो ब्रह्मरन्ध्राद्यनुचक्रेषु । अथ यामले
TSAR-A२२-V००३
शक्तेर्लक्षणमेतत्
तद्वदभेदस्ततोऽनपेक्ष्य वयः ।
जात्यादींश्चासङ्गात्
लोकेतरयुगलजं हि तादात्म्यम् ॥
TSAR-A२२-V००४
कार्यहेतुसहोत्थत्वात्त्रैधं साक्षादथान्यथा ।
कॢप्तावतो मिथोऽभ्यर्च्य तर्प्यानन्दान्तिकत्वतः ॥
TSAR-A२२-V००५
चक्रमर्चेत्तदौचित्यादनुचक्रं तथानुगम् ।
बहिः पुष्पादिनान्तश्च गन्धभुक्त्यासवादिभिः ॥
TSAR-A२२-V००६
एवमानन्दसन्दोहितच्चेष्टोच्छलत्स्थितिः ।
अनुचक्रगणश्चक्रतादात्म्यादभिलीयते ॥
TSAR-A२२-V००७
निजनिजभोगाभोग-
प्रविकासमयस्वरूपपरिमर्शे ।
क्रमशोऽनुचक्रदेव्यः
संविच्चक्रं हि मध्यमं यान्ति ॥
TSAR-A२२-V००८
अनुचक्रदेवतात्मक-
मरीचिगणपूरणाधिगतवीर्यम् ।
तच्छक्तितद्वदात्मक-
मन्योन्यसमुन्मुखं भवति ॥
TSAR-A२२-V००९
तद्युगलमूर्ध्वधाम-
प्रवेशसस्पन्दजातसंक्षोभम् ।
क्षुभ्नात्यनुचक्राण्यपि
तानि तदा तन्मयानि न पृथक्तु ॥
TSAR-A२२-V०१०
इत्थं यामलमेतद्
गलितभिदासंकथं यदैव तदा
क्रमतारतम्ययोगात्
सैव हि संविद्विसर्गसंघट्टः ॥
TSAR-A२२-V०११
तद्ध्रुवधामानुत्तर-
मुभयात्मकजगदुदारमानन्दम् । नो शान्तं नाप्युदितं
शान्तोदितसूतिकारणं परं कौलम् ॥
TSAR-A२२-V०१२
अनवच्छिन्नपदेप्सु-
स्तां संविदमात्मसात्कुर्यात् ।
शान्तोदितात्मकद्वय-
मथ युगपदुदेति शक्तिशक्तिमतोः ॥
TSAR-A२२-V०१३
स्वात्मान्योन्यावेशात्
शान्तान्यत्वे द्वयोर्द्वयात्मत्वात् ।
शक्तिस्तु तद्वदुदितां
सृष्टिं पुष्णाति नो तद्वान् ॥
TSAR-A२२-V०१४
तस्यां चार्यं कुलमथ
तया नृषु प्रोक्तयोगसंघट्टात् ।
अथ सृष्टे द्वितयेऽस्मिन्
शान्तोदितधाम्नि येऽनुसंदधते ॥
TSAR-A२२-V०१५
प्राच्यां विसर्गसत्ता-
मनवच्छिदिते पदे रूढाः ।
उदितं च मिथो वक्त्रात्
मुख्याद्वक्त्रे प्रगृह्यते च बहिः ॥
TSAR-A२२-V०१६
तृप्तं देवीचक्रं
सिद्धिज्ञानापवर्गदं भवति ।
शान्ताभ्यासे शान्तं
शिवमेति यदत्र देवताचक्रम् ॥
TSAR-A२२-V०१७
शून्यं निरानन्दमयं
निर्वृतिनिजधामतोऽर्घं च ।
रणरणकरसान्निजरस-
भरितबहिर्भावचर्वणरसेन ॥
TSAR-A२२-V०१८
आन्तरपूर्णसमुच्छल-
दनुचक्रं याति चक्रमथ तदपि ।
उच्छलति प्राग्वदिति
त्रिविधोऽन्वर्थो विसर्गोऽयम् ॥
TSAR-A२२-V०१९
एतद्विसर्गधामनि
परिमर्शनतस्त्रिधैव मनुवीर्यम् ।
तत्तत्संविद्गर्भे
मन्त्रस्तत्तत्फलं सूते ॥
TSAR-A२२-V०२०
कोणत्रयान्तराश्रित-
नित्योदितमङ्गलच्छदे कमले ।
नित्यावियुतं नालं
षोडशदलकमलसन्मूलम् ॥
TSAR-A२२-V०२१
मध्यस्थनालगुम्फित-
सरोजयुगघट्टनक्रमादग्नौ ।
मध्यस्थपूर्णशशधर-
सुन्दरदिनकरकरौघसंघट्टात् ॥
TSAR-A२२-V०२२
त्रिदलारुणवीर्यकला-
सङ्गान्मध्येऽङ्कुरसृष्टिः । इति शशधरवासरपति-
चित्रगुषंघट्टमुद्रया झटिति ॥
TSAR-A२२-V०२३
सृष्ट्यादिक्रममन्तः-
कुर्वंस्तुर्ये स्थितिं लभते ।
एतत्खेचरमुद्रा-
वेशेऽन्योन्यं स्वशक्तिशक्तिमतोः ॥
TSAR-A२२-V०२४
पानोपभोगलीला-
हासादिषु यो भवेद्विमर्शमयः ।
अव्यक्तध्वनिराव-
स्फोटश्रुतिनादनादान्तैः ॥
TSAR-A२२-V०२५
अव्युच्छिन्नानाहत-
परमार्थैर्मन्त्रवीर्यं तत् ।
गमनागमविश्रान्तिषु
कर्णे नयने द्विलक्ष्मसंपर्के ॥
TSAR-A२२-V०२६
तत्संमीलनयोगे
देहान्ताख्ये च यामले चक्रे ।
कुचमध्यहृदयदेशा-
दोष्ठान्ते कण्ठगं यदव्यक्तम् ॥
TSAR-A२२-V०२७
तच्चक्रद्वयमध्यग-
माकर्ण्य क्षोभविगमसमये यत् ।
निर्वान्ति तत्र चैवं
योऽष्टविधो नादभैरवः परमः ॥
TSAR-A२२-V०२८
ज्योतिर्ध्वनिश्च यस्मात्
सा मान्त्री व्याप्तिरुच्यते परमा । एवं कर्मणि कर्मणि
विदुषः स्याज्जीवतो मुक्तिः ।
तज्ज्ञः शास्त्रे मुक्तः
परकुलविज्ञानभाजनं गर्भः ॥
TSAR-A२२-V०२९
शून्याशून्यालयं
कुर्यादेकदण्डेऽनलानिलौ ।
शूलं समरसीकृत्य रसे रसमिव
स्थितम् ॥
TSAR-A२२-V०३०
त्यक्ताशङ्को निराचारो नाहमस्मीति भावयन् ।
देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्धने ॥
TSAR-A२२-V०३१
कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ।
ग्रहीतारं सदा पश्यन् खेचर्या सिध्यति ध्रुवम् ॥
TSAR-A२२-V०३२
श्वभ्रे सुदूरे झटिति स्वदेहं
संपातयन्वासमसाहसेन ।
आकुञ्च्य हस्तद्वितयं प्रपश्यन्
मुद्रामिमां व्योमचरीं भजेत ॥
TSAR-A२२-P००५
इत्येष यामलयागः । उक्तव्याप्तिके प्राणे विश्वमये प्रोक्तसंविद्व्याप्त्या तर्पणान्नगन्धधूपादिसमर्पणेन उपोद्बलनं प्राणयागः । विश्रान्तिरूढिस्तु संविद्यागः प्रागेव निरूपितः । एवम् एतेभ्यो यागेभ्योऽन्यतमं कृत्वा यदि तथाविधनिर्विचिकित्सतापवित्रितहृदयः शिष्यो भवति तदा तस्मै तद्यागदर्शनपूर्वकं तिलाज्याहुतिपूर्वकनिरपेक्षमेव पूर्वोक्तव्याप्त्या अनुसंधानक्रमेण अवलोकनया दीक्षां कुर्यात् परोक्षदीक्षादिके नैमित्तिकान्ते तु पूर्व एव विधिः केवलम् एतद्यागप्रधानतया इति । गुरुशरीरे सप्तमः कुलयागः सर्वोत्तमः सोऽपि प्राग्यागसाहित्येन सकृदेव कृतः सर्वं पूरयति इति शिवम् ॥
TSAR-A२२-M००१
बाहोरि सत्तिदेहिणि अदेह
इजामलि पाणबुद्धिगुरुबोधइ ।
जो अणुसंविदि सन्धि अरोह
इसो पर इक्कुल लद्धणि सोहइ ॥
TSAR-A२२-K००१
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे कुलयागप्रकाशनं नाम द्वाविंशमाह्निकम् ॥२२॥
TSAR-PAR-V००१
इत्थं षडर्धक्रमसंप्रदायं
सप्रत्ययाप्रत्ययभिन्नमाप्य ।
श्रीशंभुनाथात्करुणारसेन
स्वयं प्रसन्नादनपेक्षवृत्त्या ॥
TSAR-PAR-V००२
काश्मीरिकोऽभिनवगुप्तपदाभिधानः
श्रीतन्त्रसारमकरोदृजुना क्रमेण । यत्तेन सर्वजन एष शिवं प्रयातु
लोकोत्तरप्रसरशांभवतन्त्रसारम् ॥
TSAR-PAR-K००१
कृतिस्तत्रभवच्छ्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादानाम् ॥
Anmerkungen und Quellen
Der gesamte Textumfang ist mit dem Sanskritbestand im Hauptartikel identisch: 273 redaktionelle Einheiten aus den 22 Āhnikas und den Rahmenteilen. Die 72 Prosapassagen sind redaktionelle Sinneinheiten. Daneben stehen 89 Sanskritstropheneinheiten, 30 mittelindische Blöcke mit 34 Strukturstrophen, sechs Teilzitate beziehungsweise Halbverse, drei kurze Prosazitate und 73 Rahmeneinheiten. Die beschädigten mittelindischen Wörter werden durch die Schriftübertragung nicht zu gesicherten Lesungen.
Die automatische Schriftübertragung und ihre Rückübertragung wurden über den gesamten Bestand technisch verglichen. Normalisiert wurden ausschließlich Unicode-NFC, Leerraum, Danda-Schreibung und die Gestalt der Ziffern. Die 30 zusätzlich manuell vom Druckbild erfassten mittelindischen Blöcke stimmen ebenfalls mit der IAST-Grundlage überein. Eine visuelle Stichprobe schwieriger Laut- und Schriftzeichen ergänzt diesen technischen Abgleich; sie ist keine neue vollständige Quellenkollation.
Leitquelle dieser Tantrasara-Ausgabe ist die von Mukund Ram Shastri herausgegebene Ausgabe The Tantrasara of Abhinava Gupta, Kashmir Series of Texts and Studies XVII, Bombay 1918. Benutzt wurden das vollständige Digitalisat des Exemplars der Universität Toronto und ein zweiter Scan derselben Druckausgabe aus Srinagar. Der zweite Scan ist ein Kontrollbild derselben Edition, kein unabhängiger Textzeuge. Die Druckseiten 1–208 entsprechen im Toronto-PDF den Seiten 33–240.
Die elektronischen Tantrasara-Fassungen von Muktabodha (M00153) und GRETIL (Eingabe Oliver Hellwig) dienten der Erfassung und dem systematischen Vergleich. GRETIL enthält nicht sämtliche metrischen und unnummerierten Bestandteile des Drucks. Seine elektronischen Absatznummern werden daher nicht als historische Verszahlen übernommen. Die ursprüngliche Transkriptionsfassung, die geprüfte Arbeitslesung und dokumentierte Korrekturen sind im Arbeitsdatensatz getrennt bewahrt.
Der hier aufgenommene Tantrasara-Text umfasst 72 redaktionelle Prosapassagen, 89 Sanskritstropheneinheiten, 30 mittelindische Blöcke mit insgesamt 34 nach ihrer Struktur gezählten Strophen, sechs Fragmente beziehungsweise Halbverse, drei kurze Prosazitate und 73 Rahmeneinheiten. Eine längere metrische Einheit in Āhnika 22 enthält drei Āryā-Hälften. Die Zählung sagt nicht, dass jeder beschädigte mittelindische Wortlaut vollständig verständlich wäre.
Alle Kapitelgrenzen, sämtliche Sanskritstropheneinheiten, mittelindischen Blöcke und kurzen Zitate wurden mit den Druckbildern verglichen. Die gesamte Prosa wurde aus den Transkriptionen erschlossen; substantielle Differenzen und konkrete Verständnisfragen wurden gezielt am Bild geprüft. Eine vollständige Wort-für-Wort-Kollation sämtlicher Prosawörter auf allen 208 Druckseiten wurde nicht durchgeführt. Alle 273 Einheiten wurden übersetzt und blockweise inhaltlich nachgeprüft. Eine externe Fachbegutachtung liegt nicht vor.
H. C. Bhayanis Untersuchung der Apabhraṃśa-Strophen wurde als ausdrücklich vorläufige Restitutions- und Verständnishilfe verwendet. Sie ersetzt keine Handschrift und lässt zwei im KSTS-Druck enthaltene Schlussstrophen des vierten Āhnika unberücksichtigt. Diese sind hier bewahrt. Die Sanskrit-Chāyās des Herausgebers und Bhayanis sind spätere sinngemäße Übertragungen und als solche vom Verfassertext unterschieden. Chakravartys Ausgabe von 2012 wurde als Sanskritneusatz und englische Verständniskontrolle herangezogen; ihre interpretierenden Zusätze wurden nicht in den Grundtext übertragen.
Das Vorwort der Ausgabe von 1918 berichtet über drei Handschriften. Diese wurden hier nicht selbst eingesehen. Die Ausgabe beansprucht deshalb keine neue kritische Rekonstruktion aus Handschriften. Im beschafften Druckdigitalisat fehlt kein benötigtes Blatt; offene Wörter und abgekürzte Zitate sind davon getrennt zu beurteilen. Die drei Herausgeberstrophen auf Druckseite 208 und der weitere Verlagsabschluss stehen außerhalb des aufgenommenen Verfassertextes.
Literatur und Textquellen
- The Tantrasara of Abhinava Gupta. Edited with notes by Mahamahopadhyaya Pandit Mukund Ram Shastri. Kashmir Series of Texts and Studies XVII. Bombay: Nirnaya-Sagar Press, 1918. Digitalisat.
- Dieselbe Druckausgabe; Exemplar S. P. College, Srinagar; Digital Library of India 2015.242330. Digitalisat.
- Abhinavagupta: Tantrasāra. Eingabe Oliver Hellwig. GRETIL/SUB Göttingen, TEI-Konversion 31.07.2020, nach Bombay 1918. Elektronischer Text.
- Muktabodha Indological Research Institute: tantrasāra, Abhinavagupta, M00153; KSTS XVII 1918; Revision 2 vom 01.10.2021. Elektronischer Text.
- H. C. Bhayani: The Apabhraṃśa Passages from Abhinavagupta’s Tantrasāra and Parātriṃśikā-vṛtti. In: Indological Studies. Literary and Performing Arts; Prakrit and Apabhraṃśa Studies. Ahmedabad: Parshva Prakashan, 1993, S. 276–296. Quelle.
- H. N. Chakravarty: Tantrasāra of Abhinavagupta. Edited by Boris Marjanovic; preface Swami Chetanananda. Portland: Rudra Press, 2012. ISBN 978-0-915801-78-7. Quelle.
- Alexis Sanderson: The Śaiva Exegesis of Kashmir. In Dominic Goodall/André Padoux (Hg.): Mélanges tantriques à la mémoire d’Hélène Brunner. Collection Indologie 106. Pondicherry 2007, S. 231–442; Bibliografie S. 551–582. Hier S. 411, Anm. 597. Quelle.
Abruf und Quellenprüfung: 13. September 2026. Druckseiten und PDF-Seiten werden in den folgenden Zuordnungen getrennt angegeben. PDF-Zahlen bezeichnen die einbasiert gezählten Seiten des Toronto-Digitalisats, einschließlich der Vorspannseiten.
Quellenzuordnung und Kennungen
| Redaktionelle Kennung |
Textart; gegebenenfalls Drucknummer |
Druckquelle |
PDF-Seite |
Prosaanfang / Prosaschluss
|
| TSAR-PAR-I001 |
Verehrung |
KSTS XVII, S. 1 |
33 |
—
|
| TSAR-PAR-U001 |
Unnummerierter Teil |
KSTS XVII, S. 1 |
33 |
—
|
| TSAR-PAR-U002 |
Unnummerierter Teil |
KSTS XVII, S. 1 |
33 |
—
|
| TSAR-PAR-U003 |
Unnummerierter Teil |
KSTS XVII, S. 1 |
33 |
—
|
| TSAR-A01-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 1 |
33 |
—
|
| TSAR-A01-V001 |
Strophe; 1 |
KSTS XVII, S. 1 |
33 |
—
|
| TSAR-A01-V002 |
Strophe; 2 |
KSTS XVII, S. 2 |
34 |
—
|
| TSAR-A01-V003 |
Strophe; 3 |
KSTS XVII, S. 2 |
34 |
—
|
| TSAR-A01-P001 |
Prosa |
KSTS XVII, S. 2–5 |
34–37 |
iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca … / … jñānasyaiva tathārūpatvāt iti svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate
|
| TSAR-A01-V004 |
Strophe |
KSTS XVII, S. 5 |
37 |
—
|
| TSAR-A01-U001 |
Unnummerierter Teil |
KSTS XVII, S. 5 |
37 |
—
|
| TSAR-A01-P002 |
Prosa |
KSTS XVII, S. 5–7 |
37–39 |
tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ … / … śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidhamapi etadrūpaṃ krameṇa atra upadiśyate
|
| TSAR-A01-V005 |
Strophe; 5 |
KSTS XVII, S. 7 |
39 |
—
|
| TSAR-A01-M001 |
Mittelindische Strophe |
KSTS XVII, S. 7 |
39 |
—
|
| TSAR-A01-K001 |
Kolophon |
KSTS XVII, S. 7 |
39 |
—
|
| TSAR-A02-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 8 |
40 |
—
|
| TSAR-A02-P001 |
Prosa |
KSTS XVII, S. 8–9 |
40–41 |
atha anupāyameva tāvat vyākhyāsyāmaḥ yadā khalu dṛḍhaśaktipātāviddhaḥ svayameva … / … tasya ca na mantra pūjā dhyāna caryādiniyantraṇā kācit
|
| TSAR-A02-V001 |
Strophe; 6 |
KSTS XVII, S. 9 |
41 |
—
|
| TSAR-A02-M001 |
Mittelindische Strophe |
KSTS XVII, S. 9 |
41 |
—
|
| TSAR-A02-K001 |
Kolophon |
KSTS XVII, S. 9 |
41 |
—
|
| TSAR-A03-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 10 |
42 |
—
|
| TSAR-A03-U001 |
Unnummerierter Teil |
KSTS XVII, S. 10 |
42 |
—
|
| TSAR-A03-P001 |
Prosa |
KSTS XVII, S. 10–12 |
42–44 |
yadetat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ … / … sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati
|
| TSAR-A03-P002 |
Prosa |
KSTS XVII, S. 12–16 |
44–48 |
tatra mukhyāstāvat tisraḥ parameśvarasya śaktayaḥ anuttaraḥ icchā unmeṣa … / … sakarmikāyā icchāyā dvau ṭavargastavargaśca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam
|
| TSAR-A03-P003 |
Prosa |
KSTS XVII, S. 16–19 |
48–51 |
icchāyā eva trividhāyā ya ra lāḥ unmeṣāt vakāraḥ … / … śāṃbhavena samāveśena jīvanmuktatā atrāpi pūrvavat na mantrādiyantraṇā kāciditi
|
| TSAR-A03-V001 |
Strophe |
KSTS XVII, S. 19 |
51 |
—
|
| TSAR-A03-M001 |
Mittelindische Strophe |
KSTS XVII, S. 19 |
51 |
—
|
| TSAR-A03-M002 |
Mittelindische Strophe |
KSTS XVII, S. 20 |
52 |
—
|
| TSAR-A03-K001 |
Kolophon |
KSTS XVII, S. 20 |
52 |
—
|
| TSAR-A04-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 21 |
53 |
—
|
| TSAR-A04-U001 |
Unnummerierter Teil |
KSTS XVII, S. 21 |
53 |
—
|
| TSAR-A04-P001 |
Prosa |
KSTS XVII, S. 21–22 |
53–54 |
tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya … / … ūrdhvadarśane'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva yathoktaṃ pārameśvare
|
| TSAR-A04-V001 |
Strophe |
KSTS XVII, S. 22 |
54 |
—
|
| TSAR-A04-P002 |
Prosa |
KSTS XVII, S. 22–24 |
54–56 |
iti tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ … / … uktamatra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃciditi
|
| TSAR-A04-P003 |
Prosa |
KSTS XVII, S. 24–27 |
56–59 |
laukike'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ … / … nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāderapi avalokanaṃ vratam yathoktaṃ śrīnandiśikhāyām
|
| TSAR-A04-F001 |
Fragment |
KSTS XVII, S. 27 |
59 |
—
|
| TSAR-A04-P004 |
Prosa |
KSTS XVII, S. 27–30 |
59–62 |
iti itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ … / … jñānaṃ gaṇanaṃ bhogīkaraṇaṃ śabdanaṃ svātmalayīkaraṇaṃ ca yadāhuḥ śrībhūtirājaguravaḥ
|
| TSAR-A04-F002 |
Fragment |
KSTS XVII, S. 30 |
62 |
—
|
| TSAR-A04-P005 |
Prosa |
KSTS XVII, S. 30–32 |
62–64 |
iti eṣa ca arthaḥ tatra tatra madviracite vivaraṇe … / … siddham tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam
|
| TSAR-A04-V002 |
Strophe |
KSTS XVII, S. 32 |
64 |
—
|
| TSAR-A04-V003 |
Strophe |
KSTS XVII, S. 32 |
64 |
—
|
| TSAR-A04-M001 |
Mittelindische Strophe; 1 |
KSTS XVII, S. 33 |
65 |
—
|
| TSAR-A04-M002 |
Mittelindische Strophe; 2 |
KSTS XVII, S. 33 |
65 |
—
|
| TSAR-A04-M003 |
Mittelindische Strophe; 3 |
KSTS XVII, S. 33 |
65 |
—
|
| TSAR-A04-M004 |
Mittelindische Strophe; 4 |
KSTS XVII, S. 34 |
66 |
—
|
| TSAR-A04-K001 |
Kolophon |
KSTS XVII, S. 34 |
66 |
—
|
| TSAR-A05-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 35 |
67 |
—
|
| TSAR-A05-U001 |
Unnummerierter Teil |
KSTS XVII, S. 35 |
67 |
—
|
| TSAR-A05-P001 |
Prosa |
KSTS XVII, S. 35–37 |
67–69 |
tatra yadā vikalpaḥ svayameva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ … / … svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ abhyāsāt tu sarvepsitasiddhyādayo'pi
|
| TSAR-A05-V001 |
Strophe |
KSTS XVII, S. 37 |
69 |
—
|
| TSAR-A05-V002 |
Strophe |
KSTS XVII, S. 37 |
69 |
—
|
| TSAR-A05-V003 |
Strophe |
KSTS XVII, S. 37 |
69 |
—
|
| TSAR-A05-U002 |
Unnummerierter Teil |
KSTS XVII, S. 37–38 |
69–70 |
—
|
| TSAR-A05-P002 |
Prosa |
KSTS XVII, S. 38–41 |
70–73 |
tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati … / … spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ityalam aprakāśaḥ atra anupraveśaḥ
|
| TSAR-A05-V004 |
Strophe |
KSTS XVII, S. 41 |
73 |
—
|
| TSAR-A05-V005 |
Strophe |
KSTS XVII, S. 41 |
73 |
—
|
| TSAR-A05-F001 |
Fragment |
KSTS XVII, S. 41 |
73 |
—
|
| TSAR-A05-U003 |
Unnummerierter Teil |
KSTS XVII, S. 41–42 |
73–74 |
—
|
| TSAR-A05-P003 |
Prosa |
KSTS XVII, S. 42–43 |
74–75 |
asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya … / … antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit
|
| TSAR-A05-V006 |
Strophe |
KSTS XVII, S. 43 |
75 |
—
|
| TSAR-A05-U004 |
Unnummerierter Teil |
KSTS XVII, S. 43 |
75 |
—
|
| TSAR-A05-V007 |
Strophe |
KSTS XVII, S. 43 |
75 |
—
|
| TSAR-A05-M001 |
Mittelindische Strophe |
KSTS XVII, S. 44 |
76 |
—
|
| TSAR-A05-K001 |
Kolophon |
KSTS XVII, S. 44 |
76 |
—
|
| TSAR-A06-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 45 |
77 |
—
|
| TSAR-A06-U001 |
Unnummerierter Teil |
KSTS XVII, S. 45 |
77 |
—
|
| TSAR-A06-P001 |
Prosa |
KSTS XVII, S. 45–48 |
77–80 |
sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ … / … ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati
|
| TSAR-A06-P002 |
Prosa |
KSTS XVII, S. 48–52 |
80–84 |
atha tithyudayaḥ sapādamaṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ … / … ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ
|
| TSAR-A06-P003 |
Prosa |
KSTS XVII, S. 52–54 |
84–86 |
atha varṣodayaḥ tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu … / … viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ
|
| TSAR-A06-P004 |
Prosa |
KSTS XVII, S. 54–56 |
86–88 |
tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat … / … tat brahma asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ
|
| TSAR-A06-P005 |
Prosa |
KSTS XVII, S. 56–57 |
88–89 |
ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ … / … brahmaviṣṇurudreśa sadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārdhakanidhanapunarbhavamuktyadhipataya ete
|
| TSAR-A06-P006 |
Prosa |
KSTS XVII, S. 57–59 |
89–91 |
atha samāne kālodayaḥ samāno hārdīṣu daśasu nāḍīṣu saṃcaran … / … pūrvavat vidhiḥ vyāne tu vyāpakatvāt akrame'pi sūkṣmocchalattāyogena kālodayaḥ
|
| TSAR-A06-P007 |
Prosa |
KSTS XVII, S. 59–61 |
91–93 |
atha varṇodayaḥ tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ … / … na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt yadāha
|
| TSAR-A06-Q001 |
Zitat |
KSTS XVII, S. 61 |
93 |
—
|
| TSAR-A06-P008 |
Prosa |
KSTS XVII, S. 61 |
93 |
iti tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekameva … / … ātmana eva pārameśvaryaṃ pratyabhijānan mukta eva bhavati iti
|
| TSAR-A06-V001 |
Strophe |
KSTS XVII, S. 61 |
93 |
—
|
| TSAR-A06-M001 |
Mittelindische Strophe |
KSTS XVII, S. 62 |
94 |
—
|
| TSAR-A06-M002 |
Mittelindische Strophe |
KSTS XVII, S. 62 |
94 |
—
|
| TSAR-A06-K001 |
Kolophon |
KSTS XVII, S. 62 |
94 |
—
|
| TSAR-A07-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 63 |
95 |
—
|
| TSAR-A07-U001 |
Unnummerierter Teil |
KSTS XVII, S. 63 |
95 |
—
|
| TSAR-A07-P001 |
Prosa |
KSTS XVII, S. 63–64 |
95–96 |
tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ … / … māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmāt avaśyaṃ prakriyājñānapareṇa bhavitavyam taduktaṃ
|
| TSAR-A07-F001 |
Fragment |
KSTS XVII, S. 64 |
96 |
—
|
| TSAR-A07-P002 |
Prosa |
KSTS XVII, S. 64–66 |
96–98 |
iti tatra pṛthivītattvaṃ śatakoṭipravistīrṇaṃ brahmāṇḍagolakarūpam tasya antaḥ kālāgnirnarakāḥ … / … gatiṃ te vitaranti kramācca ūrdhvordhvaṃ prerayanti dīkṣākrameṇa tadyathā
|
| TSAR-A07-V001 |
Strophe |
KSTS XVII, S. 66 |
98 |
—
|
| TSAR-A07-V002 |
Strophe |
KSTS XVII, S. 66 |
98 |
—
|
| TSAR-A07-V003 |
Strophe |
KSTS XVII, S. 66 |
98 |
—
|
| TSAR-A07-V004 |
Strophe |
KSTS XVII, S. 66 |
98 |
—
|
| TSAR-A07-V005 |
Strophe |
KSTS XVII, S. 66 |
98 |
—
|
| TSAR-A07-V006 |
Strophe |
KSTS XVII, S. 67 |
99 |
—
|
| TSAR-A07-V007 |
Strophe |
KSTS XVII, S. 67 |
99 |
—
|
| TSAR-A07-V008 |
Strophe |
KSTS XVII, S. 67 |
99 |
—
|
| TSAR-A07-V009 |
Strophe |
KSTS XVII, S. 67 |
99 |
—
|
| TSAR-A07-V010 |
Strophe |
KSTS XVII, S. 67 |
99 |
—
|
| TSAR-A07-V011 |
Strophe |
KSTS XVII, S. 67–68 |
99–100 |
—
|
| TSAR-A07-F002 |
Fragment |
KSTS XVII, S. 68 |
100 |
—
|
| TSAR-A07-V012 |
Strophe |
KSTS XVII, S. 68 |
100 |
—
|
| TSAR-A07-M001 |
Mittelindische Strophe |
KSTS XVII, S. 68 |
100 |
—
|
| TSAR-A07-K001 |
Kolophon |
KSTS XVII, S. 68 |
100 |
—
|
| TSAR-A08-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 69 |
101 |
—
|
| TSAR-A08-U001 |
Unnummerierter Teil |
KSTS XVII, S. 69 |
101 |
—
|
| TSAR-A08-P001 |
Prosa |
KSTS XVII, S. 69–72 |
101–104 |
yadidaṃ vibhavātmakaṃ bhuvanajātamuktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yadanugataṃ mahāprakāśarūpaṃ tat … / … kartṛtvābhimānaḥ ? iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati
|
| TSAR-A08-P002 |
Prosa |
KSTS XVII, S. 72–76 |
104–108 |
tasmāt sāmagrīvādo'pi viśvaśarīrasya saṃvedanasyaiva kartṛtāyām upodbalakaḥ merau hi … / … vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyayati
|
| TSAR-A08-P003 |
Prosa |
KSTS XVII, S. 76–80 |
108–112 |
pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma … / … saṃsārapratidvandvitvāt sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmastatprakāśane
|
| TSAR-A08-P004 |
Prosa |
KSTS XVII, S. 80–83 |
112–115 |
aśuddhastu tadviparītaḥ tatra māyātaḥ kalā jātā yā suptasthānīyam … / … kiṃcidadhunā jānan abhiṣvaktaḥ karomi ityevaṃrūpā saṃvid dehapuryaṣṭakādigatā paśurityucyate
|
| TSAR-A08-P005 |
Prosa |
KSTS XVII, S. 83–86 |
115–118 |
tadidaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate saṃvido māyayā apahastitatvena kalādīnām … / … buddhipratibimbite vedyasaṃparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat
|
| TSAR-A08-P006 |
Prosa |
KSTS XVII, S. 86–89 |
118–121 |
ata eva kāra ityanena kṛtakatvam asya uktaṃ sāṃkhyasya … / … karmānantyamapi na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ityāhuḥ
|
| TSAR-A08-P007 |
Prosa |
KSTS XVII, S. 89–91 |
121–123 |
anye tu rājasānmana ityāhuḥ anye tu sāttvikāt mano … / … prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam
|
| TSAR-A08-V001 |
Strophe |
KSTS XVII, S. 91 |
123 |
—
|
| TSAR-A08-M001 |
Mittelindische Strophe |
KSTS XVII, S. 91 |
123 |
—
|
| TSAR-A08-K001 |
Kolophon |
KSTS XVII, S. 91 |
123 |
—
|
| TSAR-A09-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 92 |
124 |
—
|
| TSAR-A09-U001 |
Unnummerierter Teil |
KSTS XVII, S. 92 |
124 |
—
|
| TSAR-A09-P001 |
Prosa |
KSTS XVII, S. 92–95 |
124–127 |
sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ … / … śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt
|
| TSAR-A09-P002 |
Prosa |
KSTS XVII, S. 95–98 |
127–130 |
nanu bhāvasya cet vedyatā svaṃ vapuḥ tatsarvānprati vedyatvaṃ … / … pramātṛtve nava bhedāḥ mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta
|
| TSAR-A09-P003 |
Prosa |
KSTS XVII, S. 98–103 |
130–135 |
mantreśasya svarūpatve dvayoḥ pramātṛtve pañca mantramaheśasya svarūpatve bhagavata … / … unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ
|
| TSAR-A09-P004 |
Prosa |
KSTS XVII, S. 103–106 |
135–138 |
svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo … / … imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ
|
| TSAR-A09-P005 |
Prosa |
KSTS XVII, S. 106–108 |
138–140 |
yadā tu tasminneva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā … / … iti tribhede abhinne'pi śivatattve kriyājñānecchānandacidrūpakḷptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ
|
| TSAR-A09-V001 |
Strophe |
KSTS XVII, S. 108 |
140 |
—
|
| TSAR-A09-M001 |
Mittelindische Strophengruppe; 1 |
KSTS XVII, S. 108 |
140 |
—
|
| TSAR-A09-M002 |
Mittelindische Strophengruppe; 2 |
KSTS XVII, S. 108 |
140 |
—
|
| TSAR-A09-K001 |
Kolophon |
KSTS XVII, S. 108 |
140 |
—
|
| TSAR-A10-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 109 |
141 |
—
|
| TSAR-A10-P001 |
Prosa |
KSTS XVII, S. 109–112 |
141–144 |
uktastāvat tattvādhvā kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu … / … tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam
|
| TSAR-A10-V001 |
Strophe; 1 |
KSTS XVII, S. 112 |
144 |
—
|
| TSAR-A10-V002 |
Strophe; 2 |
KSTS XVII, S. 112–113 |
144–145 |
—
|
| TSAR-A10-V003 |
Strophe; 3 |
KSTS XVII, S. 113 |
145 |
—
|
| TSAR-A10-M001 |
Mittelindische Strophengruppe |
KSTS XVII, S. 113 |
145 |
—
|
| TSAR-A10-M002 |
Mittelindische Strophengruppe |
KSTS XVII, S. 113–114 |
145–146 |
—
|
| TSAR-A10-M003 |
Mittelindische Strophengruppe |
KSTS XVII, S. 114 |
146 |
—
|
| TSAR-A10-K001 |
Kolophon |
KSTS XVII, S. 114 |
146 |
—
|
| TSAR-A11-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 115 |
147 |
—
|
| TSAR-A11-P001 |
Prosa |
KSTS XVII, S. 115–119 |
147–151 |
tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye … / … bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ
|
| TSAR-A11-P002 |
Prosa |
KSTS XVII, S. 119–123 |
151–155 |
na ca vācyaṃ kasmāt kasmiṃścideva puṃsi śaktipāta iti … / … yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva
|
| TSAR-A11-P003 |
Prosa |
KSTS XVII, S. 123–125 |
155–157 |
nikṛṣṭamadhyāttu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti madhyastu … / … nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge
|
| TSAR-A11-P004 |
Prosa |
KSTS XVII, S. 125–128 |
157–160 |
evam anugrahanimittaṃ śaktipāto nirapekṣa eva- karmādiniyatyapekṣaṇāt tirobhāva iti … / … svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitamātmānaṃ paśyet
|
| TSAR-A11-V001 |
Strophe |
KSTS XVII, S. 128 |
160 |
—
|
| TSAR-A11-V002 |
Strophe |
KSTS XVII, S. 128 |
160 |
—
|
| TSAR-A11-M001 |
Mittelindische Strophe |
KSTS XVII, S. 128 |
160 |
—
|
| TSAR-A11-K001 |
Kolophon |
KSTS XVII, S. 128 |
160 |
—
|
| TSAR-A12-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 129 |
161 |
—
|
| TSAR-A12-P001 |
Prosa |
KSTS XVII, S. 129–131 |
161–163 |
dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ … / … ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ
|
| TSAR-A12-V001 |
Strophe |
KSTS XVII, S. 131 |
163 |
—
|
| TSAR-A12-M001 |
Mittelindische Strophe |
KSTS XVII, S. 132 |
164 |
—
|
| TSAR-A12-K001 |
Kolophon |
KSTS XVII, S. 132 |
164 |
—
|
| TSAR-A13-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 133 |
165 |
—
|
| TSAR-A13-P001 |
Prosa |
KSTS XVII, S. 133–136 |
165–168 |
atha prasannahṛdayo yāgasthānaṃ yāyāt tacca yatraiva hṛdayaṃ prasādayuktaṃ … / … dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati
|
| TSAR-A13-P002 |
Prosa |
KSTS XVII, S. 136–139 |
168–171 |
evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhiḥ yāgasāraṃ puṣpādi … / … ca tathā tatraiva evaṃ svātmādhīnāpi svasaṃmukhīnasya deśasya purastāttvāt
|
| TSAR-A13-P003 |
Prosa |
KSTS XVII, S. 139–142 |
171–174 |
evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ evaṃ sthite uttarābhimukham … / … kṛtvā parivāraṃ tata eva vahnirāśervisphuliṅgavat dhyātvā tathaiva pūjayet
|
| TSAR-A13-V001 |
Strophe |
KSTS XVII, S. 142 |
174 |
—
|
| TSAR-A13-V002 |
Strophe |
KSTS XVII, S. 143 |
175 |
—
|
| TSAR-A13-P004 |
Prosa |
KSTS XVII, S. 143–144 |
175–176 |
evam antaryāgamātrādeva vastutaḥ kṛtakṛtyatā satyataḥ tadāviṣṭasya tathāpi bahirapi … / … gṛhaparyanteṣu vighnaśamanāya dhārāṃ pātayantaṃ sakumbho'nugacchet imaṃ mantraṃ paṭhan
|
| TSAR-A13-V003 |
Strophe |
KSTS XVII, S. 144 |
176 |
—
|
| TSAR-A13-P005 |
Prosa |
KSTS XVII, S. 145–147 |
177–179 |
tryakṣare nāmni bho ityekameva tata aiśānyāṃ diśi kumbhaṃ … / … tato vāme somyatayā pūjayitvā śuddhatattvāpyāyinaṃ tataḥ praṇāmaṃ kuryāt
|
| TSAR-A13-P006 |
Prosa |
KSTS XVII, S. 147–155 |
179–187 |
tato bhūtadevatādigbaliṃ madyamāṃsajalādipūrṇaṃ bahirdadyāt ācāmet tataḥ svayaṃ carubhojanaṃ … / … naimittike tu sarvatra gurumeva abhyarthayet iti sāmayiko vidhiḥ
|
| TSAR-A13-V004 |
Strophe |
KSTS XVII, S. 155 |
187 |
—
|
| TSAR-A13-M001 |
Mittelindische Strophengruppe |
KSTS XVII, S. 155 |
187 |
—
|
| TSAR-A13-K001 |
Kolophon |
KSTS XVII, S. 155 |
187 |
—
|
| TSAR-A14-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 156 |
188 |
—
|
| TSAR-A14-P001 |
Prosa |
KSTS XVII, S. 156–158 |
188–190 |
atha putrakadīkṣāvidhiḥ sa ca vistīrṇaḥ tantrālokāt avadhāryaḥ saṃkṣiptastu … / … parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro'vasthitaṃ kuryāt
|
| TSAR-A14-P002 |
Prosa |
KSTS XVII, S. 158–160 |
190–192 |
parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ … / … putrakadīkṣā yatra vartamānamekaṃ varjayitvā bhūtaṃ bhaviṣyacca karma śudhyati
|
| TSAR-A14-V001 |
Strophe |
KSTS XVII, S. 160 |
192 |
—
|
| TSAR-A14-V002 |
Strophe |
KSTS XVII, S. 160 |
192 |
—
|
| TSAR-A14-M001 |
Mittelindische Strophe |
KSTS XVII, S. 161 |
193 |
—
|
| TSAR-A14-K001 |
Kolophon |
KSTS XVII, S. 161 |
193 |
—
|
| TSAR-A15-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 162 |
194 |
—
|
| TSAR-A15-P001 |
Prosa |
KSTS XVII, S. 162–164 |
194–196 |
yadā punarāsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā … / … śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti
|
| TSAR-A15-V001 |
Strophe |
KSTS XVII, S. 164–165 |
196–197 |
—
|
| TSAR-A15-M001 |
Mittelindische Strophe |
KSTS XVII, S. 165 |
197 |
—
|
| TSAR-A15-K001 |
Kolophon |
KSTS XVII, S. 165 |
197 |
—
|
| TSAR-A16-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 166 |
198 |
—
|
| TSAR-A16-P001 |
Prosa |
KSTS XVII, S. 166–167 |
198–199 |
atha parokṣasya dīkṣā dvividhaśca saḥ mṛto jīvaṃśca tatra … / … kuśādimayīm agre sthāpayitvā gurvāsāditajñānopadeśakrameṇa tāṃ paśyet sa ca
|
| TSAR-A16-V001 |
Strophe |
KSTS XVII, S. 167 |
199 |
—
|
| TSAR-A16-V002 |
Strophe |
KSTS XVII, S. 167 |
199 |
—
|
| TSAR-A16-P002 |
Prosa |
KSTS XVII, S. 167–169 |
199–201 |
bahirapi itthaṃ kathaṃ na bhavati ākarṣaṇādau vinābhyāsāt ? … / … anyastu tatsaṃskārāya syāt parokṣasyāpi dīkṣitasya tathaiva jñānādyāvirbhāvaḥ iti
|
| TSAR-A16-V003 |
Strophe |
KSTS XVII, S. 169 |
201 |
—
|
| TSAR-A16-M001 |
Mittelindische Strophe |
KSTS XVII, S. 169 |
201 |
—
|
| TSAR-A16-K001 |
Kolophon |
KSTS XVII, S. 169 |
201 |
—
|
| TSAR-A17-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 170 |
202 |
—
|
| TSAR-A17-U001 |
Unnummerierter Teil |
KSTS XVII, S. 170 |
202 |
—
|
| TSAR-A17-P001 |
Prosa |
KSTS XVII, S. 170–171 |
202–203 |
vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca … / … visṛjet iti liṅgoddhāraḥ tato'sya adhivāsādi prāgvat dīkṣā yatheccham
|
| TSAR-A17-V001 |
Strophe |
KSTS XVII, S. 171 |
203 |
—
|
| TSAR-A17-M001 |
Mittelindische Strophe |
KSTS XVII, S. 172 |
204 |
—
|
| TSAR-A17-K001 |
Kolophon |
KSTS XVII, S. 172 |
204 |
—
|
| TSAR-A18-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 173 |
205 |
—
|
| TSAR-A18-U001 |
Unnummerierter Teil |
KSTS XVII, S. 173 |
205 |
—
|
| TSAR-A18-P001 |
Prosa |
KSTS XVII, S. 173–174 |
205–206 |
svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno'pi jñānavāneva … / … parīkṣeta chadmagṛhītajñānamapi jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam
|
| TSAR-A18-V001 |
Strophe |
KSTS XVII, S. 174 |
206 |
—
|
| TSAR-A18-M001 |
Mittelindische Strophe |
KSTS XVII, S. 174 |
206 |
—
|
| TSAR-A18-K001 |
Kolophon |
KSTS XVII, S. 174 |
206 |
—
|
| TSAR-A19-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 175 |
207 |
—
|
| TSAR-A19-P001 |
Prosa |
KSTS XVII, S. 175–177 |
207–209 |
atha adharaśāsanasthānāṃ gurvantānāmapi maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogādeva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt … / … śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiśca vakṣyate naimittikaprakāśane
|
| TSAR-A19-V001 |
Strophe |
KSTS XVII, S. 177 |
209 |
—
|
| TSAR-A19-M001 |
Mittelindische Strophe |
KSTS XVII, S. 177 |
209 |
—
|
| TSAR-A19-K001 |
Kolophon |
KSTS XVII, S. 177 |
209 |
—
|
| TSAR-A20-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 178 |
210 |
—
|
| TSAR-A20-U001 |
Unnummerierter Teil |
KSTS XVII, S. 178 |
210 |
—
|
| TSAR-A20-P001 |
Prosa |
KSTS XVII, S. 178–180 |
210–212 |
tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca … / … bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tadeva paramamupādeyam iti asmadguravaḥ
|
| TSAR-A20-V001 |
Strophe |
KSTS XVII, S. 180–181 |
212–213 |
—
|
| TSAR-A20-V002 |
Strophe |
KSTS XVII, S. 181 |
213 |
—
|
| TSAR-A20-P002 |
Prosa |
KSTS XVII, S. 181–183 |
213–215 |
iti ślokadvayoktamartham antarbhāvayan devatācakraṃ bhāvayet tato mudrāpradarśanaṃ japaḥ … / … tattatpradhānam iti śāstraguravaḥ sarvatra parameśvarābhedābhimāna eva paramaḥ saṃskāraḥ
|
| TSAR-A20-U002 |
Unnummerierter Teil |
KSTS XVII, S. 183 |
215 |
—
|
| TSAR-A20-P003 |
Prosa |
KSTS XVII, S. 183–185 |
215–217 |
tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaśca iti … / … kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti
|
| TSAR-A20-P004 |
Prosa |
KSTS XVII, S. 185–186 |
217–218 |
tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ … / … vṛddhānāṃ bhogināṃ strīṇāṃ vidhirayam śaktipāte sati upadeṣṭavyo guruṇā
|
| TSAR-A20-P005 |
Prosa |
KSTS XVII, S. 186–187 |
218–219 |
atha pavitrakavidhiḥ sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaśca uktaṃ … / … sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaśca uktaṃ caitat śrītantrāloke
|
| TSAR-A20-Q001 |
Zitat |
KSTS XVII, S. 187 |
219 |
—
|
| TSAR-A20-P006 |
Prosa |
KSTS XVII, S. 187–188 |
219–220 |
iti tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārtikakṛṣṇapañcadaśī … / … japet jñānī api saṃbhavadvitto'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ
|
| TSAR-A20-Q002 |
Zitat |
KSTS XVII, S. 188 |
220 |
—
|
| TSAR-A20-U003 |
Unnummerierter Teil |
KSTS XVII, S. 188 |
220 |
—
|
| TSAR-A20-U004 |
Unnummerierter Teil |
KSTS XVII, S. 188 |
220 |
—
|
| TSAR-A20-P007 |
Prosa |
KSTS XVII, S. 188–189 |
220–221 |
jñānalābhādau laukikotsavānte'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti … / … devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidhameva viśeṣamanuyāgādau kuryāt
|
| TSAR-A20-U005 |
Unnummerierter Teil |
KSTS XVII, S. 189 |
221 |
—
|
| TSAR-A20-P008 |
Prosa |
KSTS XVII, S. 189–190 |
221–222 |
sarvaśāstrasaṃpūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so'pi svaśiṣyāya paraśiṣyāyāpi vā … / … tato'pi pūjayitvā vidyāpīṭhaṃ visarjya upalipya agādhe tat kṣepayet
|
| TSAR-A20-U006 |
Unnummerierter Teil |
KSTS XVII, S. 190 |
222 |
—
|
| TSAR-A20-U007 |
Unnummerierter Teil |
KSTS XVII, S. 190 |
222 |
—
|
| TSAR-A20-P009 |
Prosa |
KSTS XVII, S. 190–191 |
222–223 |
yadyapi tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrādeva mokṣabhāginaḥ … / … tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ
|
| TSAR-A20-U008 |
Unnummerierter Teil |
KSTS XVII, S. 191 |
223 |
—
|
| TSAR-A20-U009 |
Unnummerierter Teil |
KSTS XVII, S. 191 |
223 |
—
|
| TSAR-A20-P010 |
Prosa |
KSTS XVII, S. 191 |
223 |
sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi … / … nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt
|
| TSAR-A20-U010 |
Unnummerierter Teil |
KSTS XVII, S. 191 |
223 |
—
|
| TSAR-A20-V003 |
Strophe |
KSTS XVII, S. 192 |
224 |
—
|
| TSAR-A20-M001 |
Mittelindische Strophe |
KSTS XVII, S. 192 |
224 |
—
|
| TSAR-A20-K001 |
Kolophon |
KSTS XVII, S. 192 |
224 |
—
|
| TSAR-A21-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 193 |
225 |
—
|
| TSAR-A21-P001 |
Prosa |
KSTS XVII, S. 193–197 |
225–229 |
evaṃ samastaṃ nityaṃ naimittikaṃ karma nirūpitam adhunā asyaiva … / … iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ityalamanyena
|
| TSAR-A21-V001 |
Strophe |
KSTS XVII, S. 197 |
229 |
—
|
| TSAR-A21-M001 |
Mittelindische Strophe |
KSTS XVII, S. 197 |
229 |
—
|
| TSAR-A21-K001 |
Kolophon |
KSTS XVII, S. 197 |
229 |
—
|
| TSAR-A22-H001 |
Kapitelbezeichnung |
KSTS XVII, S. 198 |
230 |
—
|
| TSAR-A22-P001 |
Prosa |
KSTS XVII, S. 198 |
230 |
atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā … / … samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau
|
| TSAR-A22-V001 |
Strophe |
KSTS XVII, S. 198 |
230 |
—
|
| TSAR-A22-V002 |
Strophe |
KSTS XVII, S. 198 |
230 |
—
|
| TSAR-A22-P002 |
Prosa |
KSTS XVII, S. 198–200 |
230–232 |
tadanayā sthityā kulayāgaḥ saca ṣoḍhā bāhye śaktau svadehe … / … ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate taduktam
|
| TSAR-A22-F001 |
Fragment |
KSTS XVII, S. 200 |
232 |
—
|
| TSAR-A22-P003 |
Prosa |
KSTS XVII, S. 200–201 |
232–233 |
iti tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya … / … gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet
|
| TSAR-A22-U001 |
Unnummerierter Teil |
KSTS XVII, S. 201 |
233 |
—
|
| TSAR-A22-P004 |
Prosa |
KSTS XVII, S. 201 |
233 |
atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe … / … evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu atha yāmale
|
| TSAR-A22-V003 |
Strophe |
KSTS XVII, S. 201 |
233 |
—
|
| TSAR-A22-V004 |
Strophe |
KSTS XVII, S. 201 |
233 |
—
|
| TSAR-A22-V005 |
Strophe |
KSTS XVII, S. 202 |
234 |
—
|
| TSAR-A22-V006 |
Strophe |
KSTS XVII, S. 202 |
234 |
—
|
| TSAR-A22-V007 |
Strophe |
KSTS XVII, S. 202 |
234 |
—
|
| TSAR-A22-V008 |
Strophe |
KSTS XVII, S. 202 |
234 |
—
|
| TSAR-A22-V009 |
Strophe |
KSTS XVII, S. 202 |
234 |
—
|
| TSAR-A22-V010 |
Strophe |
KSTS XVII, S. 202 |
234 |
—
|
| TSAR-A22-V011 |
Strophe |
KSTS XVII, S. 202–203 |
234–235 |
—
|
| TSAR-A22-V012 |
Strophe |
KSTS XVII, S. 203 |
235 |
—
|
| TSAR-A22-V013 |
Strophe |
KSTS XVII, S. 203 |
235 |
—
|
| TSAR-A22-V014 |
Strophe |
KSTS XVII, S. 203 |
235 |
—
|
| TSAR-A22-V015 |
Strophe |
KSTS XVII, S. 203 |
235 |
—
|
| TSAR-A22-V016 |
Strophe |
KSTS XVII, S. 203 |
235 |
—
|
| TSAR-A22-V017 |
Strophe |
KSTS XVII, S. 204 |
236 |
—
|
| TSAR-A22-V018 |
Strophe |
KSTS XVII, S. 204 |
236 |
—
|
| TSAR-A22-V019 |
Strophe |
KSTS XVII, S. 204 |
236 |
—
|
| TSAR-A22-V020 |
Strophe |
KSTS XVII, S. 204 |
236 |
—
|
| TSAR-A22-V021 |
Strophe |
KSTS XVII, S. 204 |
236 |
—
|
| TSAR-A22-V022 |
Strophe |
KSTS XVII, S. 204–205 |
236–237 |
—
|
| TSAR-A22-V023 |
Strophe |
KSTS XVII, S. 205 |
237 |
—
|
| TSAR-A22-V024 |
Strophe |
KSTS XVII, S. 205 |
237 |
—
|
| TSAR-A22-V025 |
Strophe |
KSTS XVII, S. 205 |
237 |
—
|
| TSAR-A22-V026 |
Strophe |
KSTS XVII, S. 205 |
237 |
—
|
| TSAR-A22-V027 |
Strophe |
KSTS XVII, S. 205 |
237 |
—
|
| TSAR-A22-V028 |
Strophe |
KSTS XVII, S. 205–206 |
237–238 |
—
|
| TSAR-A22-V029 |
Strophe |
KSTS XVII, S. 206 |
238 |
—
|
| TSAR-A22-V030 |
Strophe |
KSTS XVII, S. 206 |
238 |
—
|
| TSAR-A22-V031 |
Strophe |
KSTS XVII, S. 206 |
238 |
—
|
| TSAR-A22-V032 |
Strophe |
KSTS XVII, S. 206 |
238 |
—
|
| TSAR-A22-P005 |
Prosa |
KSTS XVII, S. 206–207 |
238–239 |
ityeṣa yāmalayāgaḥ uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ … / … so'pi prāgyāgasāhityena sakṛdeva kṛtaḥ sarvaṃ pūrayati iti śivam
|
| TSAR-A22-M001 |
Mittelindische Strophe |
KSTS XVII, S. 207 |
239 |
—
|
| TSAR-A22-K001 |
Kolophon |
KSTS XVII, S. 207 |
239 |
—
|
| TSAR-PAR-V001 |
Strophe |
KSTS XVII, S. 207 |
239 |
—
|
| TSAR-PAR-V002 |
Strophe |
KSTS XVII, S. 207–208 |
239–240 |
—
|
| TSAR-PAR-K001 |
Kolophon |
KSTS XVII, S. 208 |
240 |
—
|
Zu den offenen Lesungen
Ausführliche Wort- und Übersetzungsanmerkungen sind im Hauptartikel den identischen Kennungen zugeordnet. Das betrifft insbesondere die beschädigten mittelindischen Schlussstrophen, die verkürzten Zitate, die Wiederholung auf Druckseite 200 und einzelne ungewöhnliche Druckformen in den Schlusskapiteln. Keine dieser Stellen wurde durch eine bloße Umformung der Schrift still berichtigt.
Weiterführendes Studium
Die wissenschaftliche Umschrift und deutsche Übersetzung des Tantrasara ermöglichen das weitere Prüfen schwieriger Stellen. Gerade bei Sanskrit und den hier mitüberlieferten mittelindischen Strophen unterstützt der Vergleich beider Schriften ein sorgfältiges Lesen. Die Herkunftsnachweise beziehen sich auf denselben Tantrasara-Text. Technische Schriftgleichheit und die inhaltliche Deutung einer Lesung bleiben dabei zwei unterschiedliche Fragen.
Weitere Fassungen: Tantrasara · Tantrasara 108 Textstellen für die spirituelle Praxis
Sanskrit · Devanagari · Abhinavagupta · Trika · Bewusstsein