Niruttara Tantra Sanskrit Devanagari
Niruttara Tantra Sanskrit Devanagari bietet die Devanagari-Fassung aller fünfzehn Kapitel des Niruttara Tantra. Reihenfolge und redaktionelle Nummerierung stimmen mit den vier Übersetzungsseiten überein.
Die Druckausgabe besitzt keine Verszahlen. Die Nummern wurden daher kapitelweise für diese Edition vergeben. Die Seite enthält alle 803 redaktionellen Positionen, sämtliche Sprecherangaben und alle fünfzehn Kapitelkolophone. Eine bezeichnete Textlücke in Kapitel 2 sowie beschädigte Halbverse werden nicht ergänzt; unsichere Lesungen bleiben an den entsprechenden Stellen kenntlich.
Navigation: Hauptartikel · Teil 1: Kapitel 1–4 · Teil 2: Kapitel 5–7 · Teil 3: Kapitel 8–11 · Teil 4: Kapitel 12–15
Kapitel 1 – Überlieferungsrichtungen und die drei Bhavas
श्रीदेव्युवाच
1.1
सिद्धविद्या पुरा प्रोक्ता मन्त्रयन्त्रादिकानि च ।
नानाभावप्रभेदेन संशयो जायते प्रभो ॥
1.2
भावभेदेन कथय लोकनिस्तारकारक ।
सर्वेषां शरणं तन्त्रसिद्धान्तं विष्णुसम्मतम्॥
1.3
आसामाराधना केन भावेन परिजायते ।
आसां वा प्रकृतिः कापि तस्या वा कीदृशी क्रिया ।
तत्प्रकाशय सम्यङ्मे येन यामि निरुत्तरम्॥
श्रीशिव उवाच
1.4
सर्वासां सिद्धविद्यानां प्रकृतिर्दक्षिणा प्रिये ।
दिव्यैर्वा वीरभावैर्वा चिन्तयेद्दक्षिणां शुभाम्॥
1.5
दिव्यभावैश्च वीरैश्च कालीकुलं विचिन्तयेत्।
श्रीकुलं च त्रिभिः सर्वैश्चिन्तयेत्कुलसुन्दरि ॥
1.6
काली तारा रक्तकाली भुवना महिषमर्दिनी ।
त्रिपुटा त्वरिता दुर्गा विद्या प्रत्यङ्गिरा तथा ॥
1.7
कालीकुलं समाख्यातं श्रीकुलं च ततः परम्।
सुन्दरी भैरवी बाला बगला कमलापि च ॥
1.8
धूमावती च मातङ्गी विद्या स्वप्नावती प्रिये ।
मधुमती महाविद्या श्रीकुलं परिभाषितम्॥
1.9
लतायां पूजयेत्कालीं नीले नीलसरस्वतीम्।
कालिकैव लतामूला नीलमूला च तारिणी ॥
1.10
उभयोरुभयोः पूजा सा पूजा मोक्षदायिनी ।
विशिष्टा चेन्महासिद्धिर्देवानामपि दुर्लभा ॥
1.11
लतानीलं विना देवि कालीं तारां च पूजयेत्।
कुलनाथं समाश्रित्य चोपदेशं प्रकल्पयेत्॥
1.12
कुलनाथं विना देवि मन्त्रं तन्त्रं न सिद्ध्यति ।
भावस्तु त्रिविधो देवि तथैव मन्त्रदेवता ॥
1.13
कुलशास्त्ररता ज्ञेया गुरवो बहवः स्मृताः ।
कुलशास्त्रविशेषज्ञो गुरुरेको हि दुर्लभः ॥
1.14
पशुगुरोर्मुखाल्लब्ध्वा पशुरेव न संशयः ।
वीरगुरोर्मुखाल्लब्ध्वा वीर एव न संशयः ॥
1.15
दिव्यगुरोर्मुखाल्लब्ध्वा दिव्य एव न संशयः ।
दिव्ये वीरे च यो भेदः स भेदः परिभाष्यते ॥
1.16
दिव्यश्च देवताप्रायो वीरश्चोद्धतमानसः ।
पूर्वाम्नायोदितं कर्म पाशवं परिकीर्तितम्॥
1.17
यदुक्तं दक्षिणाम्नाये तदेव पाशवं स्मृतम्।
पश्चिमाम्नायजं कर्म वीरपशुसमन्वितम्॥
1.18
उदङ्मुखोदितं कर्म दिव्यभावाश्रितं प्रिये ।
दिव्योऽपि वीरभावेन साधयेत्पितृकानने ॥
1.19
ऊर्ध्वाम्नायोदितं कर्म दिव्यभावाश्रितं प्रिये ।
श्मशानगामिनो वीराः कलां पूजयन्ति सर्वदा ॥
1.20
श्मशानगामिनो वीरा गुप्ता योनीव पार्वति ।
गोपनात्सिद्धिमाप्नोति व्यक्ताच्च कुलनाशनम्॥
1.21
दिव्यवीरान्वितं कर्म फलदं गोपनान्वितम्।
देवतागुरुमन्त्राणां प्रभावं दर्शयेत्ततः ॥
1.22
दिव्यौषधीनां वीराणां यद्यत्कर्म च योगिनाम्।
तत्सर्वं गोपनं कार्यं प्रकाशान्निष्फलं भवेत्॥
1.23
रात्रौ कुलक्रियां कुर्याद्दिवा कुर्याच्च वैदिकीम्।
दिवारात्रौ यजेद्देवीं योगी योगप्रभेदतः ॥
1.24
न दिवा पूजयेद्वीरो न पशु रात्रिपूजनम्।
विवर्जयेन्महेशानि अभिचाराय कल्पते ॥
1.25
कलापूजां विधायाथ मनसा वा कुलेश्वरि ।
पूजयेद्दक्षिणां कालीं श्मशाने कुलसाधकः ॥
1.26
श्मशानं दक्षिणास्थानं श्मशानं च सदाशिवः ।
योनिरूपा महाकाली शवशय्या प्रकीर्तिता ॥
1.27
श्मशानं द्विविधं देवि चिता योनिः प्रकीर्तिता ।
शिवलिङ्गं कुलेशानि महाकालेन भाषितम्॥
1.28
द्वयोर्योगं विना नैव दक्षिणा सा फलप्रदा ।
त्रिपान्तरे कलापूजा कर्तव्या साधकोत्तमैः ॥
1.29
कलापूजां विना देवि दक्षिणा न फलप्रदा ।
कलापूजा कृता येन तेन काली प्रपूजिता ॥
1.30
कलापूजाकृतो दिव्यो वीरो वा कुलसुन्दरि ।
इहैव सुखमाप्नोति परे निर्वाणतां व्रजेत्॥
1.31
न चार्चयेत्कलां यस्तु न जपेद्दक्षिणां शुभाम्।
निष्फलं जीवनं तस्य क्रुद्धा भवति कालिका ॥
1.32
कलापूजां विना देवि सर्वं निष्फलतां व्रजेत्।
जन्मान्तरसहस्रेषु काली नैव प्रसीदति ॥
1.33
कलापूजां विना देवि या काचित्क्रियते क्रिया ।
सा क्रिया अभिचाराय सत्यं सत्यं न संशयः ॥
1.34
तस्मात्सर्वप्रयत्नेन कलापूजां समाचरेत्।
योनिरूपा कला देवि दक्षिणैव न संशयः ॥
1.35
दिव्यो वीरो वरारोहे कलापूजां प्रकल्पयेत्।
पशुभावाश्रितो मन्त्री कलां नैव प्रपूजयेत्॥
1.36
कलाया द्विविधा पूजा गुप्ता व्यक्ता कुलेश्वरि ।
गुप्ता च साधकैः कार्या निर्जने च महानिशि ॥
1.37
व्यक्ता दिवा प्रकर्तव्या लोकाचारक्रमेण तु ।
लोकाचारं विना देवि गोपनं नैव जायते ॥
1.38
गोपनं सिद्धिमूलं च सत्यं सत्यं न संशयः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलसुन्दरि ॥
1.39
कलावासवयोगेन कलापूजां प्रकल्पयेत्।
द्रव्याभावे द्विजो दद्याच्चानुकल्पं युगे युगे ॥
1.40
कलायाश्चानुकल्पश्च कलायाश्चैव चिन्तनम्।
द्विजातीनां च सर्वेषां द्विधा विधिरिहोच्यते ॥
1.41
दिवा च पाशवं कर्म रात्रिकर्म च कौलिकम्।
पुरश्चर्यादिकं कर्म द्विविधं भावभेदतः ॥
इति श्रीनिरुत्तरतन्त्रे पार्वतीश्वरसंवादे प्रथमः पटलः.
Kapitel 2 – Dakshina Kali, Mantra, Dhyana und Yantra
श्रीदेव्युवाच
2.1
देवदेव महादेव सृष्टिस्थितिलयात्मक ।
कीदृशी दक्षिणा काली तस्या मन्त्रश्च कीदृशः ॥
2.2
पूजा वा कीदृशी तस्याः पूजायाः कीदृशं फलम्।
गुरुश्च कीदृशो देव पुरश्चर्या च कीदृशी ॥
2.3
साधनं कीदृशं तस्याः फलं तस्य च कीदृशम्।
तत्प्रकाशय सम्यङ्मे येन यामि निरुत्तरम्॥
श्रीशिव उवाच
2.4
भगं भगवती ज्ञेया दक्षिणा त्रिगुणेश्वरी ।
चराचरमिदं सर्वं भगरूपं कुलेश्वरि ॥
2.5
महत्त्वादीनि सर्वाणि त्रिविधं परिकथ्यते ।
हकारार्धकला सूक्ष्मा योनिमध्यस्वरूपिणी ॥
2.6
योनिश्च दक्षिणा काली ब्रह्मविष्णुशिवात्मिका ।
त्रिकोणे च त्रयो देवाः शिवविष्णुपितामहाः ॥
2.7
योनिमध्ये देवि वसेद्देवी कालिका कुलसुन्दरी ।
ज्योतिरूपा महाकाली शुक्ररूपा प्रपञ्चसूः ॥
2.8
शुक्रतो जायते विश्वं शिवशक्तिप्रभेदतः ।
शिवशक्तिर्द्विधा देवि निर्गुणा सगुणापि च ॥
2.9
निर्गुणा ज्योतिषां वृन्दं परब्रह्म सनातनी ।
परं च पुरुषं विद्धि महानीलमणिप्रभम्॥
2.10
ज्योतिश्च दक्षिणा काली दूरस्था स्यात्प्रपञ्चसूः ।
विपरीतरता काली निर्गुणा सगुणापि च ॥
2.11
अमा स्यान्निर्गुणे सापि अनिरुद्धसरस्वती ।
सगुणा सुरगर्भे च महाकालनिरूपिणी ॥
2.12
तारीरूपं समास्थाय सैव विश्वं प्रसूयते ।
विष्णुमाया महालक्ष्मी मोहयत्यखिलं जगत्॥
2.13
[सहजानीव] सा देवि धर्ममार्गे चराचरम्।
देवमार्गमिदं विश्वं वेदमार्गेनिषेवितम्॥
2.14
शिवशक्तिमयं तत्त्वं तत्त्वज्ञानस्य कारणम्।
बहूनां जन्मनामन्ते शक्तिज्ञानं प्रजायते ॥
2.15
शक्तिज्ञानं विना देवि निर्वाणं नैव जायते ।
सा शक्तिर्दक्षिणा काली सिद्धविद्यास्वरूपिणी ॥
2.16
सिद्धविद्यासु सर्वासु दक्षिणा प्रकृतिः प्रधाना ।
अविनाभावसम्बन्धस्तयोरेव परस्परम्॥
2.17
शिवोऽपि तत्र युक्तश्चेच्छक्तिः स्याच्छिवयोगतः ।
तयोर्योगमयं तत्त्वं तयोर्योगेन चिन्तनम्॥
2.18
तयोर्योगमयं मन्त्रं तयोर्योगेन संजपेत्।
तयोर्मन्त्रं महामन्त्रं भोगमोक्षप्रदायकम्॥
2.19
भोगिनः लभते मोक्षं सालोक्यादिचतुष्टयम्।
महाकल्पतरुः काली अनिरुद्धसरस्वती ॥
2.20
ब्रह्मविष्णुमहेशानां भुक्तिमुक्त्येककारणम्।
सा काली गुरुतोऽराध्या मन्त्रतन्त्रस्वरूपिणी ॥
2.21
वक्ष्ये कुलेशानि दक्षिणाकालिकामनुः ।
विज्ञानमात्रेण जीवन्मुक्तः प्रजायते ॥
2.22
ब्रह्म संयुतं देवि नादबिन्दुसमन्वितम्।
वामनेत्रांशसंयुक्तं चित्स्वरूपं परापरम्॥
2.23
एकाक्षरी सिद्धविद्या मन्त्रराज्ञी कुलेश्वरि ।
त्रिगुणश्च कूर्चयुग्मं लज्जायुग्मं ततः परम्॥
2.24
दक्षिणे कालिके चेति सप्तबीजानि योजयेत्।
अन्ते वह्निवधूं दद्याद्विद्याराज्ञी प्रकीर्तिता ॥
2.25
सर्वमन्त्रमयी विद्या सृष्टिस्थित्यन्तकारिणी ।
अपि चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत्॥
2.26
अनिरुद्धसरस्वत्याः समो मन्त्रोऽस्ति वै तदा ।
ब्रह्मा रुद्रश्च विष्णुश्च सर्वे देवा उपासकाः ॥
2.27
वेदागमपुराणेषु वन्दिता कालिका शुभा ।
कालिका कामपीठेषु सर्वकामप्रदायिनी ॥
2.28
स्वर्गे मर्त्ये च पाताले ये केचित्सन्ति भैरवाः ।
ते सर्वे कालिकापुत्रास्ते मुक्ता नात्र संशयः ॥
2.29
सङ्केतमार्गाद्देवेशि नाभिषेकं गुरुक्रमात्।
पूजाकाले विशेषेण तं त्यजेदन्त्यजं यथा ॥
2.30
भैरवोऽस्य ऋषिः प्रोक्त उष्णिक्छन्दः प्रकीर्तितम्।
देवता दक्षिणाकाली अनिरुद्धसरस्वती ॥
2.31
ह्रीं बीजं हूं शक्तिश्च क्रीं चैव कीलकं स्मृतम्।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥
2.32
न्यासजालं पुरा प्रोक्तं नानातन्त्र्[ए]षु पार्वति ।
न्यासजालयुतो मन्त्री वीरभावेन पूजयेत्॥
2.33
त्रिपान्तरे महापीठे योनिपीठं प्रपूजयेत्।
ध्यायेत्कालीं करालास्यां पीनोन्नतपयोधराम्॥
2.34
महामेघप्रभां श्यामां घोररावां चतुर्भुजाम्।
सद्यच्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम्॥
2.35
अभयं वरदं चैव दक्षिणोर्ध्वाधःपाणिकाम्।
पञ्चाशद्वर्णमुण्डालीगलद्रुधिरचर्चिताम्॥
2.36
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम्।
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम्॥
2.37
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम्।
दिगम्बरां मुक्तकेशीं चन्द्रार्धकृतशेखराम्॥
2.38
शवरूपमहादेवहृदयोपरि संस्थिताम्।
महाकालेन च समं विपरीतरतातुराम्॥
2.39
मदिराघूर्णनयनां स्मेराननसरोरुहाम्।
अट्टहासां महारौद्रीं सर्वदानन्दकारिणीम्॥
2.40
एवं संचिन्तयेत्कालीं श्मशानालयवासिनीम्।
एवं ध्यात्वा यजेद्वीरो निशायां कुलमन्दिरे ॥
2.41
मानसं पूजनं कृत्वा कुलपुष्पं समाहरेत्।
मानसं पूजनं नैव गच्छेत्तु पितृकानने ॥
2.42
स पापिष्ठो यजेन्नैव कालीं कलुषहारिणीम्।
उच्चैर्नोच्चारयेन्मन्त्रं मनसा च स्मरेन्मनुम्॥
2.43
तत्र चावाहनं नेष्टं कामरूपायां कुलेश्वरि ।
आराध्य मनसा भक्त्या बाह्यपूजामथाचरेत्॥
2.44
आत्मशुद्धिं द्रव्यशुद्धिं कृत्वा पात्राणि विन्यसेत्।
अर्घ्यपात्रादिकं तत्र विन्यसेद्विधिपूर्वकम्॥
2.45
पीठपूजां विधायाथ पूजयेत्तत्र देवताम्।
चिन्तयेत्परया भक्त्या विधिदृष्टेन कर्मणा ॥
2.46
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम्।
स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः ॥
2.47
गन्धं पुष्पं धूपदीपौ मधुपर्कं ततः परम्।
मन्त्रमुच्चार्य दातव्यं तर्पणं च ततः परम्॥
2.48
माल्यानुलेपनं चैव पञ्चपुष्पाञ्जलिस्ततः ।
पुनः प्रपूजयेद्देवीं महाकालेन लालिताम्॥
2.49
पीठमन्त्रक्रमाद्यागः स यागः परमः स्मृतः ।
पीठेनैव समस्तेन बहिरावरणं विना ॥
2.50
मन्त्रं पूर्वहृतो यागो [निर्यागः] स मध्यमः ।
केवलं पुष्पयागस्तु कनिष्ठपूजनं भवेत्॥
2.51
तत आज्ञां समादायावरणं च प्रपूजयेत्।
कमलां समुकुटां मूर्ध्नि कर्णे च कुण्डले ततः ॥
2.52
गुरुपङ्क्तिं ततो देवि महाकालं ततः परम्।
धूम्रवर्णं महाकालं जटाभारान्वितं प्रिये ॥
2.53
त्रिनेत्रं शवरूपं च शक्तियुक्तं निरामयम्।
दिगम्बरं घोररूपं लोलाञ्जनसमप्रभम्॥
2.54
निर्गुणं च गुणाधारं कालीस्थानं पुनः पुनः ।
काली कपालिनी कुल्ला प्रथमे च त्रिकोणके ॥
2.55 [Textlücke im Druck: Zuordnung des zweiten bis vierten Dreiecks.]
2.56
मात्रा मुद्रा मिता देव्यः पञ्चमे च त्रिकोणके ।
दलाष्टे पूजयेद्देवि पूर्वादिक्रमयोगतः ॥
2.57
ब्राह्मी नारायणी चैव कौमारी च महेश्वरी ।
अपराजिता च चामुण्डा वाराही नारसिंहिका ॥
2.58
चतुर्द्वारि यजेद्देवि असिताङ्गादिभैरवान्।
असिताङ्गो रुरुश्चण्डः क्रोधो भीषण एव च ॥
2.59
उन्मत्तश्च कपाली च संहारक इति क्रमात्।
पूर्वादिक्रमतो देवि द्वारि द्वारि द्वयं द्वयम्॥
2.60
इन्द्रादिदशदिक्पालान्दशदिक्षु प्रपूजयेत्।
खड्गं मुण्डं यजेद्वामे हस्ते च कुलसुन्दरि ॥
2.61
पूजयेद्दक्षिणे हस्ते अभयं च वरं तथा ।
पश्चात्पूजयेद्देवीं सायुधां च सवाहनाम्॥
2.62
कुल्लुकां मूर्ध्नि संजप्य हृदि सेतुं विचिन्तयेत्।
महासेतुं कण्ठदेशे नाभौ योनिं विचिन्तयेत्॥
2.63
सेतुं तु प्रणवं देवि हृदिस्थं तं प्रपूजयेत्।
निजबीजं महासेतुं कण्ठदेशे विचिन्तयेत्॥
2.64
सविन्दुमातृकायुक्तां नाभिमध्ये विचिन्तयेत्।
कालीकूर्चं वधूर्माया फट्कारान्तं सुरेश्वरि ॥
2.65
पञ्चाक्षरी कालिकायाः कुल्लुकां परिचिन्तयेत्।
तारायाः कुल्लुका देवी महानीलसरस्वती ॥
2.66
अन्यासां च वधूबीजं कुल्लुका परिकथ्यते ।
कालीकूलप्रवृत्तानां पूजायामेवमाचरेत्॥
2.67
अष्टोत्तरशतं जप्त्वा पुनः पूजां प्रकल्पयेत्।
पुनः प्रपूजयेद्देवीं महाकालेन लालिताम्॥
2.68 ततस्तु कवचं देवि स्तवं च प्रपठेत्ततः ॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे द्वितीयः पटलः.
Kapitel 3 – Schutzgebet und Lobpreis Kalis
श्रीदेव्युवाच
3.1
भगवन्सर्वदेवेश सर्वभूतनमस्कृत ।
सर्वं मे कथितं देव कवचं न प्रकाशितम्।
कथयस्व सुरश्रेष्ठ यदि स्नेहोऽस्ति मां प्रति ॥
श्रीशिव उवाच
3.2
सिद्धकाली शिरः पातु ललाटं पातु दक्षिणा ।
काली मुखं सदा पातु कपाली पातु चक्षुषी ॥
3.3
कुल्ला गण्डौ तदा पातु वदनं कुरुकुल्लिका ।
विरोधिन्यधरं पातु चिबुकं विप्रचित्तिका ॥
3.4
उग्रा कर्णौ सदा पातु नासामुग्रप्रभा तथा ।
कण्ठं दीप्ता सदा पातु ग्रीवां नीला प्रभावतु ॥
3.5
वक्षःस्थलं पातु घना पृष्ठं माला सदावतु ।
मुद्रा नाभिं सदा पातु मिता लिङ्गं सदावतु ॥
3.6
रतिप्रिया लिङ्गमूलं गुह्यं शिवप्रियावतु ।
अरुणा तालुमूलं हि रसनां तरुणा तथा ॥
3.7
महाकालप्रिया जानु विकटा पातु जङ्घयोः ।
श्मशानवासिनी भार्या पुत्रं पातु दिगम्बरी ॥
3.8
भवनं मत्तहासा च मातरं मे सुरेश्वरी ।
राजिस्थानं घोररावा सततं पातु कालिका ॥
3.9
धर्मं पातु घोररूपा अधर्मं मुण्डमालिनी ।
करकाञ्ची पातु नित्यं कालिका सर्वदावतु ॥
3.10 [erste Vershälfte im Druck beschädigt] | कूर्चबीजयुगं पातु सदा मे नाभिदेशतः ॥
3.11
शक्तिबीजद्वयं पातु ब्रह्मरन्ध्राननं पुनः ।
कामबीजद्वयं पातु पूर्वस्यां दिशि सर्वदा ॥
3.12
कूर्चबीजयुगं पातु दक्षिणस्यां सदावतु ।
शक्तिबीजयुगं पातु प्रतीच्यां सर्वदा शुभा ॥
3.13
वह्निजाया चोत्तरस्यां दिशि पातु च मां सदा ।
विद्याराज्ञी च सर्वासामनिरुद्धसरस्वती ॥
3.14
कालिकाकवचं दिव्यं यः पठेद्यत्नतः सुधीः ।
भूतप्रेतपिशाचाद्याः कूष्माण्डा राक्षसा ग्रहाः ॥
3.15 तस्य दूरात्पलायन्ते सत्यं सत्यं न संशयः ॥
श्रीदेव्युवाच
3.16
शङ्करो यां स्तुतिं कृत्वा सर्वसिद्धीश्वरोऽभवत्।
तां मे कथय देवेश यदि स्नेहोऽस्ति मां प्रति ॥
श्रीशिव उवाच
3.17
हूं हूंकारे शवारूढे नीलनीरजलोछने ।
त्रैलोक्यैकमुखे दिव्ये कालिकायै नमोऽस्तु ते ॥
3.18
प्रत्यालीढपदे घोरे मुण्डमालाप्रलम्बिते ।
खर्वे लम्बोदरे भीमे कालिकायै नमोऽस्तु ते ॥
3.19
नवयौवनसम्पन्ने गजकुम्भोपमस्तनि ।
वागीश्वरि शिवे शान्ते कालिकायै नमोऽस्तु ते ॥
3.20
लोलजिह्वे हरालोके नेत्रत्रित्यभूषिते ।
घोरहास्योत्करे देवि कालिकायै नमोऽस्तु ते ॥
3.21
व्याघ्रचर्माम्बरधरे खड्गकर्त्रीकरे धरे ।
कपालेन्दीवरे वामे कालिकायै नमोऽस्तु ते ॥
3.22
नीलोत्पलजटाभारे सिन्दूरेन्दुमुखोदये ।
स्फुरद्वक्त्रौष्ठदशने कालिकायै नमोऽस्तु ते ॥
3.23
प्रलयानलदक्षाङ्गे चन्द्रसूर्याग्निलोचने ।
शववासे शुभे मातः कालिकायै नमोऽस्तु ते ॥
3.24
ब्रह्मशम्भुजसौघे च शवमध्यप्रसंस्थिते ।
प्रेतकोटिसमायुक्ते कालिकायै नमोऽस्तु ते ॥
3.25
कृपामयि हरे मातः सर्वाशापरिपूरिते ।
वरदे भोगदे मोक्षे कालिकायै नमोऽस्तु ते ॥
3.26
इत्येतत्कालिकास्तोत्रं यः पठेद्भक्तिसंयुतः ।
कृतकृत्यो भवेन्मन्त्री नात्र कार्या विचारणा ॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे तृतीयः पटलः.
Kapitel 4 – Yoga, Ajapa und Purascharana
श्रीदेव्युवाच
4.1
पूजा च कथिता देव पुरश्चर्या च कीदृशी ।
कथयस्व सुरश्रेष्ठ यदि स्नेहोऽस्ति मां प्रति ॥
श्रीशिव उवाच
4.2
उत्तमा मानसी पूजा बाह्या पूजा कनीयसी ।
पूजया लभते पूजां जपात्सिद्धिर्न संशयः ॥
4.3
होमेन सर्वसिद्धिः स्यात्तस्मात्त्रितयमाचरेत्।
वीराणां मानसी पूजा दिव्यानां च कुलेश्वरि ॥
4.4
आसनानि च नाडीनां सङ्केतं शृणु साम्प्रतम्।
एतज्ज्ञानं विना देवि पुरश्चर्या न जायते ॥
4.5
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट्॥
4.6
आसनानि कुलेशानि यावन्तो जीवजन्तवः ।
चतुरशीतिलक्षाणां जन्तवः समुदाहृताः ॥
4.7
आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते ।
एकं सिद्धासनं नाम द्वितीयं कमलासनम्॥
4.8
नाडीनां समूहो देवि व्यक्तश्चास्ति खगाण्डवत्।
तत्र नाड्यः समुद्भूताः सहस्राणां द्विसप्ततिः ॥
4.9
प्रधानाः प्राणवाहिन्यः स्वयं तत्र दश स्मृताः ।
इडा च पिङ्गला चैव सुषुम्णा चैव कीर्तिता ॥
4.10
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनी च दश स्मृताः ॥
4.11
एवं नाडीमयं चक्रं विज्ञेयं शक्तिचक्रके ।
इडायाः पिङ्गलायाश्च मध्यं यत्तत्सुषुम्णा ॥
4.12
इयं च त्रिगुणा ज्ञेया ब्रह्मविष्णुशिवात्मिका ।
रजोगुणा ध्वजाख्या च चित्रिणी सत्त्वसम्पदा ॥
4.13
तमोगुणा ब्रह्मनाडी कायभेदक्रमेण च ।
इडायाः पिङ्गलायाश्च एताः सर्वाः प्रकीर्तिताः ॥
4.14
एताश्च प्राणवाहिन्यः सोमसूर्याग्निदेवताः ।
इडा नाडी स्थिता वामे दक्षिणे चैव पिङ्गला ॥
4.15
सुषुम्णा च तयोर्मध्ये चन्द्रसूर्यप्रभेदतः ।
वायवश्चैव विज्ञेया मन्त्रश्चन्द्रात्मकं हृदि ॥
4.16
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
हृदि प्राणो गुदेऽपानः समानो नाभिदेशतः ॥
4.17
उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥
4.18
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ।
एते नाडीसमस्तेषु वर्तन्ते चान्यसंज्ञकाः ॥
4.19
गुणबद्धो यथा जीवः प्राणापानेन कर्षति ।
अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ॥
4.20
अधऊर्ध्वस्थितावेतौ यो जानाति स योगवित्।
हंसगतिः प्रकृतिर्ज्ञेया ओंकारः प्रकृतेर्गुणः ॥
4.21
हकारेण बहिर्याति सकारेण विशेत्पुनः ।
हंस इति परं मन्त्रं जीवो जपति सर्वदा ॥
4.22
षट्शतानि दिवारात्रौ सहस्राण्येकविंशति ।
एतत्संख्यायुतं मन्त्रं जीवो जपति सर्वदा ॥
4.23
अजपा नाम गायत्री योगिनां मोक्षदायिनी ।
अजपा च द्विधा प्रोक्ता व्यक्ता गुप्ता क्रमेण तु ॥
4.24
व्यक्ता च द्विविधा प्रोक्ता हृदि स्थाने व्यवस्थिता ।
ठकाराकारगुप्ता च शिवशक्तिः प्रकीर्तिता ॥
4.25
चन्द्रबीजं ठकारं च तं बीजं शृणु उच्यते ।
अजपार्थमयी गुप्ता वह्निजाया प्रकीर्तिता ॥
4.26
अस्याः सङ्कल्पमात्रेण पुरश्चरणमुच्यते ।
प्राणायामद्विफ़ट्केन प्रत्याहारः स उच्यते ॥
4.27
प्रत्याहारसहस्रेण जानीयाद्धारणां शुभाम्।
धारणाद्द्वादश प्रोक्ता ध्यानं ध्यानविशारदैः ॥
4.28
ध्यानद्वादशकेनैव समाधिरवधीयताम्।
यत्समाधेः परं ज्योतिरनन्तं विश्वतोमुखम्॥
4.29
अस्मिन्दृष्टे क्रिया काचिद्यातायातं न विद्यते ।
यथा सिंहे गजव्याघ्रे वश्यत्वं च शनैः शनैः ॥
4.30
तथैव चलितो वायुरन्यथा हन्ति साधकम्।
चरतां चक्षुरादीनां विषयेषु यथाक्रमम्॥
4.31
प्रत्याहारे तथा चैवं प्रत्याहारादिरुच्यते ।
करणं कुम्भकाद्देवि समाधिश्च प्रजायते ॥
4.32
पुष्पान्तरगतं ज्योतिश्च मध्ये प्रतिष्ठितम्।
तच्चिन्तनं कुलेशानि योगिनां पूजनं महत्॥
4.33
ज्योतिषां चिन्तनं चैव ध्यानं विषयसंकृतिः ।
निर्गुणादिकभावेन वीराणां शृणु मूलकम्॥
4.34
सगुणं ज्योतिषां मूर्तिं हृदिस्थां कालिकां स्मरेत्।
आपादं शीर्षपर्यन्तं पूजया यत्नादिभिः प्रिये ॥
4.35
ब्रह्माण्डोद्भवद्रव्याणि चर्व्यचोष्यादिकानि च ।
फलं पुष्पं यथा गन्धं वस्त्रालङ्कारभूषितम्॥
4.36
तत्सर्वं मनसा देयं कालिकायै पुनः पुनः ।
पेयं जलनिवेद्यान्नं द्रव्यं च भूरिमानतः ॥
4.37
यत्नेनैव प्रदद्यात्तत्कालिकायै पुनः पुनः ।
इयं च मानसी पूजा कथिता वरवर्णिनि ॥
4.38
निर्वाणं दिव्यभावैस्तु वीरभावैः समानताम्।
इदं तत्त्वं जपाम्नायं ज्ञात्वा पुरश्चरणमाचरेत्॥
4.39
निजाम्नायं विना देवि न कुर्याच्च पुरस्क्रियाम्।
तस्मात्सर्वप्रयत्नेन निजाम्नायं विचिन्तयेत्॥
4.40
उत्तराम्नायोदितं सर्वं कालीकुलं कुलेश्वरि ।
सर्वाम्नायोदितं तत्त्वं श्रीकुलं च क्रमेण तु ॥
4.41
उत्तराम्नायोदिता विद्या भैरवी त्रिपुरसुन्दरी ।
मातङ्गी पश्चिमाम्नाये दक्षिणाम्नाये च तावुभौ ॥
4.42
धूमा च त्वरिता चैव पूर्वाम्नाये प्रतिष्ठिता ।
त्रिपुरा बगला चैव महाविद्या विशेषतः ॥
4.43
दक्षिणाम्नायोदिताः सर्वाः पशुभिः पूजिताः सदा ।
कालीकूर्चं वधूर्जाया प्रणवं वाग्भवं प्रिये ॥
4.44
शूलहस्ता च या विद्योत्तराम्नायोदिता शुभा ।
द्वाविंशत्यक्षरी विद्या दक्षिणाम्नाये प्रतिष्ठिता ॥
4.45
लक्षद्वयं जपेद्विद्यां दिवारात्रिप्रभेदतः ।
दिवा लक्षं जपेद्विद्यां हविष्याशी सदा शुचिः ॥
4.46
दशांशं जुहुयाद्वह्नौ तद्दशांशं च तर्पयेत्।
तद्दशांशाभिषेकं च तीर्थतोयेन पार्वति ॥
4.47
तद्दशांशं हविष्यान्नैर्भोजयेद्भक्तितो द्विजान्।
पाशवं कथितं कल्पं शृणु वीरं ततः परम्॥
4.48
नक्तं यामगते देवि स्वकुलं परिचिन्तयेत्।
जानीयात्कान्तां सुशीलां कुलभक्तां कुलार्चने ॥
4.49
शक्तिचक्रं द्विधा कृत्वा शक्तिभाले लिखेत्ततः ।
तत्र कामकलां देवीं शिवकोणे विलेखयेत्॥
4.50
तन्मध्ये देवमन्त्रं तु लाञ्छितं कमलार्चितम्।
तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूजयेत्॥
4.51
ततस्तच्छक्तिकर्णे च ऋषिच्छन्दःसमन्वितम्।
मूलमन्त्रं त्रिधा कृत्वा कथयेद्वामकर्णके ॥
4.52
अद्य प्रभृति देवि त्वं कुलदेवार्चनं कुरु ।
गुरोराज्ञां मूर्ध्नि कृत्वा प्रवर्तोऽहं कुलार्चने ॥
4.53
ततः पश्चात्कुलागारे कुलचक्रं लिखेत्प्रिये ।
तत्र पूजा कुलद्रव्यैः क्रियते भक्तिभावतः ॥
4.54
तत्र चावाहनं नास्ति यतो देवीस्वरूपिणी ।
पूजयित्वा यथान्यायं तत्त्वचिन्तापरो भवेत्॥
4.55
तत्त्वचिन्तापरो मन्त्री जपेल्लक्षं कुलाङ्कुले ।
दशांशं जुहुयाद्वह्नौ आसवैः पललान्वितैः ॥
4.56
तद्दशांशं तर्पणं च सुधापललसंयुतैः ।
अभिषेकं तद्दशांशं तीर्थतोयेन पार्वति ॥
4.57
कुलद्रव्यैस्तद्दशांशं भक्तितो भोजयेद्द्विजान्।
आदावन्ते च मध्ये च शक्तिमां भोजयेत्कुलम्॥
4.58
तदभावे कुलेशानि शक्तिं चात्र प्रपूजयेत्।
तासां च कुलचक्रान्ते मनसा च प्रपूजयेत्॥
4.59
पुरश्चरणकाले च यदि शक्तिं न पूजयेत्।
तस्य पूजा जपो होमोऽभिचाराय च कल्प्यते ॥
4.60
तस्मात्सर्वप्रयत्नेन शक्तीनां पूजनं चरेत्।
पुरश्चरणकाले च संख्या न स्मरिता यदि ॥
4.61
शक्तीनां हि कुमारीणां द्विजातीनां कुलपालिनीम्।
तोषणं कुलद्रव्येण भोजयेच्च पुनः पुनः ॥
4.62
सम्प्रदायविदे विद्वान्दद्यात्तु गुरुदक्षिणाम्।
वस्त्रालङ्कारभूषाद्यैर्भूषयेत्कुलगुरून्प्रिये ॥
4.63
तत्सुतं तत्सुतां वापि तत्पत्नीं वा कुलेश्वरि ।
पूजयेत्परया भक्त्या मन्त्रसिद्धिं लभेद्यतः ॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे चतुर्थः पटलः
Kapitel 5 – Rajani und Regeln des Virabhava
श्रीदेव्युवाच
5.1
कीदृशीं रजनीं देवीं पूजयेत्किं निवेदयेत्।
तस्या वा कीदृशी पूजा तद्गायत्री च कीदृशी ॥
5.2
जपं वा कीदृशं देव पुरश्चर्या च कीदृशी ।
साधना कीदृशी तस्या वद मे परमेश्वर ॥
श्रीशिव उवाच
5.3
निर्लोभा कामनाहीना निर्लज्जा द्वन्द्ववर्जिता ।
शिवा सत्त्वगता साध्वी स्वेच्छया विपरीतगा ॥
5.4
एवं सा रजनी देवी त्रिषु लोकेषु गोपिता ।
आत्मना पूजने सेव समूले कुलवर्त्मना ॥
5.5
अक्ष्णोरन्तर्गतं ज्योतिर्वीरान्तः प्रतिष्ठितम्।
यतो रूपं परं ज्योतिस्तदेव कुलमन्दिरे ॥
5.6
मनसा साधकं वीक्ष्य षोडशात्पतितामृतम्।
तेनामृतेन मूलेन तर्पयेद्रजनीं स्वयम्॥
5.7
कुलनाथं कुलागारे नियोज्य भावयेच्छिवाम्।
श्वासोच्छ्वासात्मिकां गायत्रीं त्वजपाब्रह्मरूपिणीम्॥
5.8
अजपा रजनीगायत्री ब्रह्मगायत्री च योगिनाम्।
अजपा रजनीगायत्री रजन्यां रजनीं जपेत्॥
5.9
न जपेद्दिवसे विद्वान्ब्रह्मविद्यात्मिकां पराम्।
जपेन्नरकमाप्नोति इहैव दुःखभाग्भवेत्॥
5.10
कलानाथं समानीय नियोज्य कुलमन्दिरे ।
योजयित्वा जपेन्मन्त्रं कुलकेन च ताडयेत्॥
5.11
विंशत्या महती पूजा शतेः शतगुणा भवेत्।
रजन्याः कथिता पूजा ध्यानं च तत्त्वचिन्तनम्॥
5.12
सङ्केतज्ञः कलानाथं साधयेदेकचेतसा ।
रजनीमूलयोगेन निर्वाणपदवीं व्रजेत्॥
5.13
शठं च चुल्लुकं धूर्तं सङ्केतहीनदाम्भिकम्।
सन्त्यज्य साधयेद्विद्यां महामोक्षप्रदायिनीम्॥
5.14
धनाद्वा कामतो वापि लोभाद्वा निजमन्दिरम्।
कारयेद्यदि सा पूजा रौरवं नरकं व्रजेत्॥
5.15
सङ्केतज्ञो दृढं ज्ञात्वा साधनं शिवसाधनम्।
अन्यथा दुःखमाप्नोति स याति नरकं ध्रुवम्॥
5.16
प्रकृत्यर्थं व्रजेद्वापि ज्ञात्वा यच्च प्रपूजयेत्।
सोऽपि निर्वाणतां प्राप्य पुनरावृत्य भूतले ॥
5.17
अभेदप्रकृतिं ज्ञात्वा जपहोमादिकं चरेत्।
सर्वदेवस्वरूपं च सर्वमन्त्रस्वरूपिणीम्॥
5.18
प्रकृतेस्तत्त्वमास्थाय कैवल्यं याति निश्चितम्।
प्रकृतेस्तत्त्वविद्देवि न स योनौ प्रजायते ॥
5.19
अशोधितमनाचार्यं स्त्रीषु मद्येषु सूरते ।
स्वीकारे सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत्॥
5.20
क्षुधार्तश्च तृषार्तश्च कालिकां नैव पूजयेत्।
पूजयेद्यदि देवेशि क्रुद्धा भवति कालिका ॥
5.21
साधके क्षोभमापन्ने देवीक्षोभः प्रजायते ।
तस्माद्भुक्त्वा च पीत्वा च पूजयेत्कालिकां शुभाम्॥
5.22
विना पीत्वा सुरां भुक्त्वा मत्स्यमांसं रजस्वलाम्।
यो जपेद्दक्षिणां कालीं तस्य दुःखं पदे पदे ॥
5.23
दिव्यभावं वीरभावं विना कालीं प्रपूजयेत्।
पूजने नरकं याति तस्य दुःखं पदे पदे ॥
5.24
लतासवं विना देवि कलौ कालीं न पूजयेत्।
पशुभावाश्रितो देवि यदि कालीं प्रपूजयेत्॥
5.25 रौरवं नरकं याति यावदाहुतसम्प्लवम्॥
5.26
लतादर्शनमात्रेण कालिकादर्शनं भवेत्।
दृष्ट्वा च सुन्दरीं शक्तिं कालीं तत्रैव चिन्तयेत्॥
5.27
शून्यागारे श्मशाने वा प्रान्तरे निर्जने वने ।
नदीतीरे पर्वते वा शक्तिं तत्र प्रपूजयेत्॥
5.28
एकाकी पूजयेच्छक्तिं निःशङ्को भयवर्जितः ।
गुरुं विना न सङ्गः स्यात्सङ्गी स्यान्नरकं व्रजेत्॥
5.29
सङ्गाच्च धनहानिः स्यात्सर्वं सङ्गाद्विनश्यति ।
दूतीयागं ततः पूजां रात्रौ पर्यटनं प्रिये ॥
5.30 एकाकी संचरेद्वीरो निःशङ्कः सङ्गवर्जितः ॥
5.31
रात्रौ पर्यटनं नास्ति न रात्रौ शक्तिपूजनम्।
नार्चयेत्कालिकां देवीं शाम्भवीं सुखमोक्षदाम्॥
5.32
मद्यं मांसं तथा मत्स्यं मुद्रां च मैथुनं विना ।
ब्राह्मणो वीरभावेन कालिकायै निवेदयेत्॥
5.33
पूजाद्रव्यं महेशानि पशुर्वा यदि पश्यति ।
तद्द्रव्यं च जले क्षिप्त्वा इष्टदेवं सुचिन्तयेत्॥
5.34
धूर्तं शठं चुल्लुकं च मूर्खं च दाम्भिकं प्रिये ।
एते च पाशवा प्रोक्ता सर्वान्भावाश्रितांस्त्यजेत्॥
5.35
पशुभिर्दर्शितं द्रव्यं देवेभ्यो न निवेदयेत्।
कुलपूजां कुलद्रव्यं कुलस्त्रीं कुलमङ्गलम्॥
5.36
गोपनीयं पशोरग्रे प्रकाशान्मरणं भवेत्।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलयोगतः ॥
5.37
पञ्चमैः पूजयेत्कालीं मोक्षार्थी च कलौ प्रिये ।
ब्राह्मणैः पीयते मद्यं न मद्यं द्विजपुङ्गवैः ॥
5.38
कलावासवयोगेन तर्पयेद्कालिकां प्रिये ।
पाने भ्रान्तिर्भवेद्यस्य घृणा स्याद्रक्तरेतसोः ॥
5.39 स पापिष्ठो यजेन्नैव कालीं कलुषहारिणीम्।
5.40
कालीं तारां तथा छिन्नां त्रिपुरां भैरवीं तथा ।
कलावासवयोगेन सर्वदा पूजयेद्द्विजः ॥
5.41
श्मशानभैरवीं चैव उग्रतारां च पञ्चमीम्।
मातङ्गीं च तथा धूम्रां बगलां भुवनेश्वरीम्॥
5.42
राजराजेश्वरीं बालां त्वरितां महिषमर्दिनीम्।
कलावेताश्च आसवैश्च पूज्याश्च दक्षिणां विना ॥
5.43
ब्राह्मणो वीरभावेन सुरां पीत्वा जपेन्मनुम्।
सुराभावे च गोक्षीरं द्विजो दद्याद्युगे युगे ॥
5.44
द्रव्याभावे चानुकल्पैः पूजयेत्परदेवताम्।
एकादश्यां व्यतीपाते कर्मलोपनं न कारयेत्॥
5.45
न कृते च गुरोरर्चा क्रमात्कोऽपि प्रलीयते ।
केवलं विषयासक्तः पतत्येव न संशयः ॥
5.46
अग्रचक्रं वीरभावं तत्कार्यं गुरुसन्निधौ ।
तदभावे भ्रातृभिः सार्धं कार्यं चैव विधानतः ॥
5.47
पृथक्पात्रे पिबेद्द्रव्यं पृथक्पात्रे च भोजनम्।
शक्तियुक्तं वसेद्वापि युग्मं युग्मविधानतः ॥
5.48
शक्त्युच्छिष्टं पिबेन्मद्यं वीरोच्छिष्टं च चर्वणम्।
स्वज्येष्ठस्य च भोक्तव्यं कनिष्ठस्य न भोजयेत्॥
5.49
निजशक्तिं विना देवि शक्त्युच्छिष्टं पिबेद्यदि ।
रौरवं नरके घोरे यावदिन्द्राश्चतुर्दश ॥
5.50
एकासने वसेद्यस्तु भुञ्जीत चैकभाजने ।
परस्परमुपस्पृशेत्स याति नरकं ध्रुवम्॥
5.51
एकासनस्थो यो वीरो दिव्यो वा कुलसुन्दरि ।
सुधां पीत्वा वीरचक्रे रौरवं नरकं व्रजेत्॥
5.52
महासिद्धीश्वरो वापि भुक्त्वा पीत्वा परस्परम्।
सिद्धिहानिः पुरस्कृत्य स याति नरकं ध्रुवम्॥
5.53
विना शक्तिं पिबेद्द्रव्यं वीरो गुरुपरायणः ।
तथापि नरके घोरे पतत्येव न संशयः ॥
5.54
शक्त्यभावे कुलेशानि तद्द्रव्यं जलतः क्षिपेत्।
गुर्वभावे तद्भागं च जलतो विनिवेदयेत्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे पञ्चमः पटलः
Kapitel 6 – Nichtdualität und schnelle Siddhi
श्रीदेव्युवाच
6.1
रजनीपूजनादेव द्रुतं सिद्धिः कथं भवेत्।
एतत्कथय मे सर्वं यद्यहं तव वल्लभा ॥
श्रीशिव उवाच
6.2
शृणु देवि प्रवक्ष्यामि लोकसंशयभेदकम्।
यस्य विज्ञानमात्रेण जीवन्मुक्तिः प्रजायते ॥
6.3
अज्ञानतिमिराच्छन्ना आवयोः स्मृतिवर्जिताः ।
उन्मज्जन्ति निमज्जन्ति संसारजलधौ जनाः ॥
6.4
सर्वा नार्यस्त्वमेवासि सर्वेऽहं पुरुषाः प्रिये ।
एतद्विज्ञानमात्रेण जायते सिद्धिभाजनाः ॥
श्रीदेव्युवाच
6.5
सर्वज्ञ जगतां नाथ सर्वलोकहिते रत ।
केनैतद्द्रुतसिद्धिः स्यात्तन्मे ब्रूहि कुलेश्वर ॥
श्रीशिव उवाच
6.6
चपलासि वरारोहे हेमगौराङ्गि पार्वति ।
संसारभेदकं ज्ञानं कथं ते कथयाम्यहम्॥
श्रीदेव्युवाच
6.7
चपलाहं सावहिता महादेव भवाम्यहम्।
संसारभेदकं तत्त्वं कथयस्व कृपां कुरु ॥
श्रीशिव उवाच
6.8
संसारभेदकं ज्ञानं न प्रकाश्यं कदाचन ।
प्रकाश्यते यदा यस्मिन्स हि मत्सदृशो भवेत्॥
6.9
भीत्या वा कर्षिता प्रीत्या धनाढ्या हीनजा तथा ।
चार्वङ्गी सस्मिता प्रीता यौवनाहविग्रहा ॥
6.10
वीक्ष्यमाणा तनुक्षीणे प्रोक्षणस्य च तत्परा ।
आनीय वीरभावेन सुप्रीता चार्घ्यदानतः ॥
6.11
विस्तीर्णमासनं दत्त्वा भवत्या ध्यानतत्परः ।
स्वयं मत्सदृशो भूत्वा निःस्पृहो विगतस्पृहः ॥
6.12
बिन्दुमन्त्रेण मदनसद्मनि निधाय चक्रम्।
वशकारी गिरीन्द्रजाता आज्ञाकरस्य रजनीमथवा ॥
6.13
निशीथे तु बलिं दत्त्वा निरुक्तविधिना ततः ।
आवयोः प्रीतिजनकं ध्यात्वा तत्परक्रमेण ॥
6.14
न कार्यः कर्मसन्देहो घृणालज्जाविवर्जितः ।
भवत्या भावमापन्नः प्रकृतिसस्मितप्रदः ॥
6.15
उत्तरादेव फलं तस्मिन्पुंसि तद्भावमागते ।
मनोज्ञा सा तु विज्ञाने क्रमेण परितोषिता ॥
6.16
किं दातासि वरं त्वं मे साधुताम्बूलतर्पिते ।
स्थिरधीर्निरीक्ष्यमाणे तव चक्रं रतिविग्रहं वीरः ॥
6.17
अयुतमथवा सहस्रं शतमष्टाधिकं जपेन्मनुम्।
स तु कार्तिकेयविक्रमो सततस्य मम भावं प्रयाति ॥
6.18
विप्रास्ते मम पर्वणि नित्यं योगीन्द्रो भावनानिपुणः ।
कुरुते गुरूपदिष्टं भुवि भैरवभावमर्हति ॥
6.19
कथयामि वरारोहे शृणु तत्त्वं परात्परम्।
कथितं नैव कस्मैचिद्यदि संसारमिच्छति ॥
6.20
स्त्रीपुंसोः सङ्गमे सौख्यं जायते तत्परं पदम्।
तदावयोश्च विन्यस्तं याभ्यां ताभ्यां कृतं नहि ॥
6.21
भाजनः सर्वविद्यानां ब्राह्मणः कामिनीगणे ।
वीराणां जायते श्रेष्ठो भुवि भुवि इवास्पदम्॥
6.22
श्रद्धया मनसा प्रीतिं यः कुर्याद्विजितेन्द्रियः ।
योऽसौ कालीं भजेद्भक्त्या स एव हि न चान्यथा ॥
6.23
यः करोति सपर्यां ते देवि सद्गुरुमागतः ।
सन्देहो नैव कर्तव्यो यदि संसिद्धिमिच्छति ॥
6.24
मनोरूपा हि संसिद्धिर्जायते नात्र संशयः ।
कुलाचारे लभेत्सिद्धिं देवानामपि दुर्लभाम्॥
6.25
वर्तमाने पूजने तु यदि सन्देहभाजनः ।
लभते नैव संसिद्धिं जन्मकोटिसहस्रकः ॥
6.26
इति कथितं परं यत्सहसा सिद्धिविधायकं महेशि ।
जगदतिदूरं विशेषतस्ते मृगशावाक्षि विधेहि दक्षिणाम्॥
श्रीदेव्युवाच
6.27
प्रेयसी तव देवेश गिरीन्द्रस्य च नन्दिनी ।
दक्षिणा कीदृशी नाथ वद तां च ददाम्यहम्॥
6.28
एवमाकर्ण्य देवेशः सस्मितो लोललोचनः ।
स्वं पश्यन्गिरिजां वीक्ष्य शृणु देवि वरानने ॥
6.29
अरुणमरुणतल्पं तु प्रान्तदेशे निधाय ।
पृथुलकुचनयुगलं क्रोडे प्रौढमालिङ्गनं यत्॥
6.30
स्वरसवदनेभ्यः कामरूपेण वक्षः ।
सुतनु आलिङ्गिता दक्षिणाभेदसिद्धौ ॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे षष्ठः पटलः
Kapitel 7 – Abhisheka und Aufnahme in den Kula-Weg
श्रीदेव्युवाच
7.1
भगवन्सर्वजीवानां साक्षी त्वमसि हे प्रभो ।
अभिषेकं पुरा प्रोक्तं कीदृशं कथय प्रभो ॥
श्रीशिव उवाच
7.2
अभिषेकं च द्विविधं राज्ञां च ज्ञानिनामपि ।
राजाभिषेकं देवेशि वैदिकादिक्रियां चरेत्॥
7.3
ज्ञानिनामभिषेकं तु सर्वतन्त्रेषु गोपितम्।
कुलचक्रं क्रमेणैव अभिषेकं चरेत्सुधीः ॥
7.4
कुलनाथं गुरुं वीक्ष्य अभिषेकं गुरुश्चरेत्।
सर्वशान्तिकरं पुष्ट्यं सर्वरोगनिवारणम्॥
7.5
धनदं कामदं चैव आयुःशुद्धिकरं नृणाम्।
स्वसौभाग्यजननं महापातकनाशनम्॥
7.6
सर्वाशापूरकं देवि मन्त्रदोषप्रणाशनम्।
सर्वार्थसाधकं देवि धनवृद्धिकरं परम्॥
7.7
अभिचारहरं सर्वं ग्रहदोषनिवारणम्।
भूतावेशादिशमनं डाकिनीनां भयापहम्॥
7.8
तेजोवृद्धिकरं देवि सर्वतीर्थफलप्रदम्।
स्त्रीगतेष्वपि दोषेषु शरीरे मानसे तथा ॥
7.9
तक्षकेणापि दष्टस्य विषपीडाविनाशनम्।
तेजोह्रासे बले ह्रासे बुद्धिह्रासे धनक्षये ॥
7.10
विकारे देशिकः कुर्यादभिषेकं विचक्षणः ।
असौभाग्ये च नारीणामभिषेकः प्रवर्तते ॥
7.11
पूर्णाभिषेकी त्वन्यानामभिषेके प्रवर्तते ।
गुरुत्वं च लभेद्देवि कर्मणा चाभिषेकतः ॥
7.12
वैष्णवं गार्हपत्यं च सौरं शैवं कुलेश्वरि ।
अभिषेकं प्रकुर्वीत शाक्तश्च कुलभूषणः ॥
7.13
मन्त्रतन्त्रं च सर्वेषामभिषेकाद्धि सिध्यति ।
अभिषेकेण सर्वेषामधिकारी भवेद्ध्रुवम्॥
7.14
अभिषिक्तकृतो विप्रो ब्रह्मत्वं लभते ध्रुवम्।
अभिषेककृतः क्षत्रो विप्रधर्मत्वमागतः ॥
7.15
वैश्यः क्षत्रियतां याति शूद्रो वैश्यत्वमागतः ।
अभिषेकेण सर्वो बद्धोऽपि बद्धतां त्यजेत्॥
7.16
ब्राह्मणस्य सुरापाने ब्राह्मण्यं त्यजते क्षणात्।
अभिषेककृते विप्रे सुरापानं विधीयते ॥
7.17
आगमः पञ्चमो वेदः कुलधर्मश्च पञ्चमः ।
शिवोऽपि पञ्चमो वर्णः सिद्धविद्यां जपेद्यतः ॥
7.18
सुवर्णत्वं परित्यज्य शिवत्वं सम्प्रजायते ।
अभिषेकं विना नैव ब्राह्मणस्तु पिबेत्सुराम्॥
7.19
प्रगृह्य सिद्धविद्यां च सङ्केतज्ञस्ततो भवेत्।
ससङ्केतज्ञः कुलागारे नाभिषेकं समाचरेत्॥
7.20
अभिषेककृतो मन्त्री कुलपूजां समाचरेत्।
कुलपूजाकृतो मन्त्री पितृभूमिं समाश्रयेत्॥
7.21
पितृभूमिकृतं स्थानमेकाकी विहरेत्सदा ।
एकाकी विहरेद्वीरः प्रान्तरे च चितिप्रान्तरे ॥
7.22
तत्र सिद्धिं लभेद्देवि देवानामपि दुर्लभाम्।
कुलाचारं विना देवि तन्त्रमन्त्रं न सिध्यति ॥
7.23
सिद्धविद्याः कुलागारे द्रुतं सिध्यन्ति निश्चितम्।
अभिषेककृतो विप्रः सुरां दद्याद्युगे युगे ॥
7.24
सुरां पीत्वा जपेद्विद्यां कुलागारे विशेषतः ।
विजयां चानुकल्पं च सुराभावे निवेदयेत्॥
7.25
आनन्देन विना राशो न च तृप्यन्ति देवताः ।
पञ्चमेनार्चयेत्कालीं कामाख्यायां विशेषतः ॥
7.26
कामाख्यायां विशेषेण कालिका सिद्धिदा भवेत्।
कुलाचारं विना देवि कालीमन्त्रं न सिध्यति ॥
7.27
अभिषेकं विना देवि कुलकर्म करोति यः ।
तस्य पूजादिकं कर्म चाभिचाराय कल्प्यते ॥
7.28
अभिषेकं विना देवि सिद्धविद्यां ददाति यः ।
तावत्कालं वसेद्घोरे यावच्चन्द्रदिवाकरौ ॥
7.29
ब्रह्मत्वं हरित्वं च शिवत्वं च कुलेश्वरि ।
सुरेन्द्रवरत्वं च अभिषेकेण जायते ॥
7.30
दिव्यो वीरश्च देवेशि कुलशक्तिपरायणः ।
अभिषेकं चरेद्धीमान्मोक्षार्थी कुलकर्मसु ॥
7.31
विप्रश्च कुलधर्मज्ञः कुलद्रव्यपरायणः ।
स याति नरकं घोरं काकं वा परजन्मनि ॥
7.32
तस्मात्सर्वप्रयत्नेन अभिषेकं समाचरेत्।
अभिषेकं चरेद्देवि अधिवासपुरःसरम्॥
7.33
वृद्धिश्राद्धं ततः कुर्याच्छिवशक्तिं प्रपूजयेत्।
गुरुं सम्पूज्य विधिवत्स्वर्णालङ्कारभूषणैः ॥
7.34
ततः सङ्कल्पविधिना गुरूणां वरणं चरेत्।
ततः पूजां चरेद्देव्याः पञ्चमैश्च पृथक्पृथक्॥
7.35
प्रणम्य सद्गुरुं देवदेवं च साधकेश्वरः ।
गुरुपूजां विधायाथ देव्या ध्यानपरायणः ॥
7.36
अभिषेकं विधायाथ शुचौ देशे च देशिकः ।
शून्यागारे नदीतीरे बिल्वमूले त्रिपथान्तरे ॥
7.37
महात्रिपथान्तरे वापि निर्जने पितृकानने ।
ग्रामे पातालके वापि पर्वते तटिनीतटे ॥
7.38 देवतायतने वापि स्थानं परिचिन्तयेत्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे सप्तमः पटलः
Kapitel 8 – Gefäßweihe und Abhisheka-Litanei
श्रीशिव उवाच
8.1
शिवशक्तिं च सम्पूज्य स्थापयेद्घटमुत्तमम्।
नातिह्रस्वं नातिदीर्घं स्वर्णरौप्यविनिर्मितम्॥
8.2
विशेषार्घ्यस्य यन्त्रे वा त्रिकोणे वापि विन्यसेत्।
कामबीजेन संप्रोक्ष्य वाग्भवेनैव ताडयेत्॥
8.3
शक्त्याधारे समारोप्य मायया पूरणं जलैः ।
मन्त्रेणानेन तीर्थानि देशिकस्तु प्रविन्यसेत्॥
8.4
ॐ गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
सर्वे समुद्राः सरितः सरांसि च जला ह्रदाः ॥
8.5
ह्रदाः प्रस्रवणाः पुण्याः स्वर्गपातालभूषिताः ।
सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम्॥
8.6
श्रीबीजेन प्रजप्तेन पल्लवं प्रतिपादयेत्।
कूर्चेन फलदानं स्यात्स्त्रीबीजेन स्थिरीचरेत्॥
8.7
सिन्दूरं वह्निबीजेन पुष्पं प्रेतेन विन्यसेत्।
मूलेन प्रणवेनापि दूर्वां दद्याद्विचक्षणः ॥
8.8
हुं फट्स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम्।
विचिन्त्य देवीं पीठं च तत्रावाह्य प्रपूजयेत्॥
8.9
अनेनैव विधानेन सर्वकर्मसु सुन्दरि ।
घटं स्थाप्य यजेद्देवि षट्कर्मसु विशेषतः ॥
8.10
महापूजां चरेद्धीमान्षोडशैरुपचारकैः ।
गुरूणां च महापूजां शक्तीनां च ततः परम्॥
8.11
तत्पश्चात्साधकानां च कुर्याच्च परिपूजनम्।
कुमारीभ्यो बलिं दत्त्वा कुलजाभ्यो विशेषतः ॥
8.12
अभिषेकं ततो देवि कुर्याच्च गुरुमार्गतः ।
स्वतन्त्रोक्तविधानेन मन्त्रोच्चारणैः सह ॥
8.13
चालयेत्तु घटं मन्त्री मन्त्रेणानेन देशिकः ।
उत्तिष्ठ ब्रह्मकलश सेवितोऽशेषसिद्धिद ॥
8.14
सर्वतीर्थाम्बुपूर्णेन पूरयामि मनोरथम्।
ईशानेन्दुस्मरक्षौणी तदन्ते भुवनेश्वरी ॥
8.15
मन्त्रेणानेन वाद्यानां निर्घोषैश्चानयेद्घटम्।
अभिषिञ्चेद्गुरुः शिष्यं यजमानं पुरोहितः ॥
8.16
सिञ्चेद्दुष्टग्रहेऽश्वत्थैः पल्लवैर्भूतसङ्गमे ।
सिञ्चेदौदुम्बरैर्मन्त्रदोषे च करवीरजैः ॥
8.17
यशोधनाय तेजस्वी फलकामे च भूतकैः ।
तुलसीमञ्जरीभिश्च सर्वपापक्षयार्थिभिः ॥
8.18
सर्वतीर्थफलावाप्त्यै शाक्तानां बिल्वसम्भवैः ।
अभिचारे नारसिंहैरभिषेकं प्रचक्ष्यते ॥
8.19
कुर्याद्दर्भेषु गर्भेषु दोषेषु स्वीकृतेषु च ।
असौभाग्येषु नारीणां दूर्वाभिः सेचनं चरेत्॥
8.20
अथवा सर्वकार्येषु सिद्ध्यर्थं दूर्वया चूतपल्लवैः ।
अस्याभिषेकस्य दक्षिणामूर्तिरृषिरनुष्टुप्छन्दः शक्तिर्देवता सर्वसङ्कल्पसिद्ध्यर्थे विनियोगः ॥
8.21 ॐ राजराजेश्वरी शक्तिभैरवी कालभैरवी ॥
8.22
श्मशानभैरवी देवी त्रिपुरानन्दभैरवी ।
त्रिपुटा त्रिपुरादेवी तथा त्रिपुरसुन्दरी ॥
8.23
त्रिपुरेशी महादेवी तथा त्रिपुरमालिका ।
त्रिपुरानन्दिनी देवी तथैव त्रिपुरातनी ॥
8.24
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
छिन्नमस्ता महादेवी तथा चैकजटेश्वरी ॥
8.25
तारा च जयदुर्गा च शूलिनी भुवनेश्वरी ।
हरिताख्या महादेवी तथा च रतिघण्टिका ॥
8.26
नित्या च नित्यरूपा च वज्रप्रस्तारिणी तथा ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥
8.27
अश्वारूढा महादेवी तथा महिषमर्दिनी ।
दुर्गा च नवदुर्गा च श्रीदुर्गा भगमालिनी ॥
8.28
तथा भगदेवी देवी भगक्लिन्ना तथा परा ।
सर्वचक्रेश्वरी देवी तथा दक्षिणकालिका ॥
8.29
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
क्षेमङ्करी महाकाली चार्तिघ्नी सरस्वती ॥
8.30
मातङ्गी चान्नपूर्णा च राजराजेश्वरी तथा ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥
8.31
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥
8.32
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
उग्रदंष्ट्रा महादंष्ट्रा सुदंष्ट्रा तु कपालिनी ॥
8.33
भीमनेत्रा विशालाक्षी मङ्गला विजया जया ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥
8.34
मङ्गला नन्दिनी भद्रा लक्ष्मीः कीर्तिर्यशस्विनी ।
पुष्टिर्मेधा शिवा साध्वी यशः शोभा जया धृतिः ॥
8.35
आनन्दा च सुनन्दा च नन्दिन्यानन्दपूजिता ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥
8.36
विजया मङ्गला भद्रा स्मृतिः शान्तिः क्षमा धृतिः ।
सिद्धिस्तुष्टिरुमा पुष्टिः श्रीः सिद्धिश्च रतिस्तथा ॥
8.37
दीप्ता कान्तिर्यशोलक्ष्मीरीश्वरी बुद्धिरेव च ।
शक्तिर्माया रतिर्ब्राह्मी जयन्ती चापराजिता ॥
8.38
अजिता मानवी श्वेता प्रीतिस्त्वदितिरेव च ।
माया चैव महामाया मोहिनी क्षोभिणी तथा ॥
8.39
कमला विमला गौरी लावण्याम्बुधिसुन्दरी ।
दुर्गा क्रियारुन्धती च तथैव विग्रहात्मिका ॥
8.40
चर्चिका चापरा ज्ञेया तथैव सुरपूजिता ।
वैवस्वती च कौमारी तथा माहेश्वरी परा ॥
8.41
वैष्णवी च महालक्ष्मीः कार्तिकी कौशिकी तथा ।
शिवदूती च चामुण्डा मुण्डमालाविभूषिता ॥
8.42
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
इन्द्रो वह्निर्यमश्चैव नैरृतो वरुणस्तथा ॥
8.43
पवनो धनदेशानो ब्रह्मानन्दो दिगीश्वराः ।
संवत्सराश्चायने च मासपक्षदिनानि च ॥
8.44
तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
रविः सोमः कुजः सौम्यो गुरुः शुक्रः शनैश्चरः ॥
8.45
राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः ।
नक्षत्रं करणं योगोऽमृतसिद्धिस्ततः परम्॥
8.46
दग्धं पापं तथा भद्रा योगो वाराः क्षणास्तथा ।
वारवेला कालवेला दण्डा राश्यादयस्तथा ॥
8.47
अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा ।
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ॥
8.48
कपाली भीषणाख्यश्च संहारोऽष्टौ च भैरवाः ।
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥
8.49
डाकिनीपुत्रिका चैव राकिणीपुत्रिका तथा ।
ततश्च रङ्किणीपुत्री देवीपुत्री ततः परम्॥
8.50
मातृणां च तथा पुत्र्यो ज्येष्ठमुख्याः सुताश्च याः ।
श्रद्धामुख्याः सुताश्चैव व्यालमुख्याः सुताः पराः ॥
8.51
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
8.52
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश ॥
8.53
आत्मा परात्मा जीवात्मा ज्ञानात्मा परमात्मनः ।
आत्मानश्चात्मनाश्चैव स्थूलसूक्ष्माश्च येऽपरे ॥
8.54
एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
वेदादिबीजं हुं बीजं स्त्रीबीजं तारिकेतनम्॥
8.55
शक्तिबीजं रमाबीजं सुधाबीजं च केवलम्।
चिन्तारत्नं महाबीजं नारसिंहं च तारकम्॥
8.56
मार्तण्डभैरवं दौर्गबीजं श्रीपुरुषोत्तमम्।
गाणपत्यं च वाराहं कालीबीजं भयापहम्॥
8.57
त्वामेवमभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
वह्निश्च वह्निजाया च वषट्कूर्चमतः परम्॥
8.58
वौषट्कारं तु फट्कारमभिषिञ्चन्तु सर्वदा ।
नश्यन्तु प्रेतकूष्माण्डा राक्षसा दानवाश्च ये ॥
8.59
पिशाचगुह्यका भूता अभिषेकेण ताडिताः ।
अलक्ष्मीः कालकर्णी च पापानि सुमहान्ति च ॥
8.60
नश्यन्तु चाभिषेकेण ताराबीजेन ताडिताः ।
रोगाः शोकाश्च दारिद्र्यं दौर्बल्यं चित्तविभ्रमम्॥
8.61
नश्यन्तु चाभिषेकेण मन्मथेन च ताडिताः ।
तेजोह्रासो बुद्धिह्रासः शक्तिह्रासस्तथैव च ॥
8.62
नश्यन्तु चाभिषेकेण शक्तिबीजेन ताडिताः ।
निरामिषा महारोगा डाकिन्यो मातरस्तथा ॥
8.63
घोराभिचाराः क्रूराश्च ग्रहनागास्तथैव च ।
नश्यन्तु चाभिषेकेण कालीबीजेन ताडिताः ॥
8.64
नश्यन्तु विपदः सर्वे सम्पदः सन्तु सुस्थिराः ।
पूर्णाभिषेके शाक्तानां पूर्णाः सन्तु मनोरथाः ॥
8.65
एवमासिञ्च्य शिष्यं तु पुनः पूजां समारभेत्।
शिष्योऽपि तत्र सम्पूज्य गुरवे दक्षिणां ददेत्॥
8.66
गो भूमिः स्वर्णरौप्यं च नानारत्नानि पार्वति ।
सर्वस्वं वा तदर्धं वापि दक्षिणा ॥
8.67
श्रीविद्यां सिद्धकालीं च तारां वा महिषमर्दिनीम्।
शिष्याय भक्तियुक्ताय प्रदद्याद्देशिकः स्वयम्॥
8.68
श्रीविद्यां कालिकां तारां यो जपेत्परमेश्वरीम्।
तस्मै नैव प्रदातव्यमासां मन्त्रं विना प्रिये ॥
8.69
प्रणम्य दण्डवद्भूमौ ततश्च परिकल्पयेत्।
त्रैलोक्ये योषितां नाथ किं करोमि वदस्व मे ॥
श्रीगुरुरुवाच
8.70
कुलाचारं च भो वत्स सुगोप्यं कुरु सर्वतः ।
स्वशक्तिं कौलिकीं कृत्वा तत्र पूजां प्रकल्पयेत्॥
8.71
सिद्धमन्त्री यजेच्छक्तिं कायेन मनसापि वा ।
परयोषां विशेषेण सिद्धमन्त्री प्रपूजयेत्॥
8.72
एतानि कुलकर्माणि गुरुभिरुदितानि च ।
यावदेव सिद्धमन्त्री तावच्च स्वकुलं व्रजेत्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे अष्टमः पटलः
Kapitel 9 – Siddha-Mantrin und das Geheimnis der Prakriti
श्रीदेव्युवाच
9.1
देवदेव महादेव सर्वसिद्धीश्वर प्रभो ।
सिद्धमन्त्री भवेत्केन कर्मणा वद मे प्रभो ॥
श्रीशिव उवाच
9.2
आनीय मण्डलं रम्यं कुलभक्ते कुलार्चने ।
स्वचक्रं विविधं कृत्वा शक्तिभाले लिखेत्ततः ॥
9.3
तत्र कामकलां देवीं वीरकोणे लिखेत्प्रिये ।
तन्मध्ये देवमन्त्रं च विहितं कामलाञ्छितम्॥
9.4
तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूजयेत्।
ततो लक्षं च संजप्य स्थिरधीः कुलसाधकः ॥
9.5
ततस्तच्छक्तिकर्णे च ऋषिच्छन्दः समन्वितम्।
मूलमन्त्रं त्रिधावृत्त्या कथयेद्वामकर्णके ॥
9.6
अद्यप्रभृति शक्तिस्त्वं कुलदेवार्चनं चर ।
गुरोराज्ञां समादाय घृणालज्जाविवर्जिता ॥
9.7
शिवोक्तविधिना सेवां करिष्यामि कुलार्चनम्।
त्राहि नाथ कुलाचारकामिनीकामनायक ॥
9.8
त्वत्पदाम्भोरुहच्छायां देहि मे कुलवर्त्मनि ।
गते च प्रथमे यामे स्वकुलं कुलिकोपरि ॥
9.9
वामभागे समासीनं रक्तवस्त्रसमन्वितम्।
नानागन्धसमायुक्तं नानारत्नेन भूषितम्॥
9.10
ललाटे मन्त्रमालिख्य मध्ये नाम विदर्भितम्।
ताम्बूलपूरितमुखस्ताम्बूलारुणलोचनः ॥
9.11
कुलाकुलजपं कृत्वा ध्रुवमायाति तत्क्षणात्।
एवमाकर्षितो मन्त्री सिद्धमन्त्री कुलेश्वरि ॥
9.12
तावत्प्रयोगः कर्तव्यो यावत्सिद्धिर्न जायते ।
सिद्धमन्त्री कुलाचारे परयोषां प्रपूजयेत्॥
9.13
सिद्धमन्त्री श्मशाने च परयोषां प्रपूजयेत्।
योषिदाकर्षणादेव कन्यां चैवावकर्षयेत्॥
9.14
देवकन्याकर्षणेन देवतामाकर्षयेत्तदा ।
आकर्षणप्रसादेन शिव एव प्रजायते ॥
9.15
आकर्षणं विना गच्छेत्तच्छक्तिं कौलिकीं पराम्।
आकर्षणाद्भवेत्सिद्धिर्देवानामपि दुर्लभा ॥
9.16
आकर्षणाच्च निर्वाणं लभते नात्र संशयः ।
यावन्न पूजयेद्देवीं रजनीं कुलमन्दिरे ॥
9.17
निर्वाणमपि चाङ्गस्य तावदाविर्भवेत्पुनः ।
प्रकृत्या जायते विश्वं प्रकृत्या च विलीयते ॥
9.18
शैवानां वैष्णवानां च सौराणां च महेश्वरि ।
स्याच्च निर्वाणमेतेषां मातुराविर्भवन्ति हि ॥
9.19
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
सर्वे मुक्तिप्रदा देवा निर्वाणं श्रेयसं विना ॥
9.20
निर्वाणं श्रेयसं देवि प्रकृत्या परिजायते ।
तस्मात्सर्वप्रयत्नेन प्रकृतिं परिपूजयेत्॥
9.21
प्रकृतिर्या महामाया सैव प्रकृतिरूपिणी ।
विकृतौ मन्त्रसिद्धिः स्यात्प्रकृतेः कुहकं गृहे ॥
9.22
निर्वाणं श्रेयसं सैव प्रकृतेः कुहकं विना ।
लिखनं मन्त्रयन्त्राणां पूजनं च जपं प्रिये ॥
9.23
नियतं गुरुमार्गेण साधको विजने चरेत्।
षढीनैः सदा कार्यं षढीने नरकं व्रजेत्॥
9.24
प्रकृतेर्योषितां वृन्दं विकृतिः पाञ्चभौतिकी ।
तच्चक्रं सिद्धिमूलं च मन्त्रयन्त्रविलेखनात्॥
9.25
मन्त्रयन्त्रं विना देवि कुहकं विकृतेर्यदि ।
न गच्छेत्साधको वीरो न गच्छेन्नरकं व्रजेत्॥
9.26
प्रकृतेः कुहकं योनौ यन्त्रं भाले च पार्वति ।
असंलिख्य यन्त्राणि दैन्यं गच्छेत्कुलसाधकः ॥
9.27
कामाद्वा मोहतो वापि लोभाद्वा वरवर्णिनि ।
प्रकृतेः कुहकं यन्त्रे यजेच्च नरकं व्रजेत्॥
9.28
सिद्धिमूलं कुलेशानि विकृतेः कुहकं स्मृतम्।
तच्च सम्मोहयेत्सर्वं जगदेतच्चराचरम्॥
9.29
विकृतेः कुहकापन्नो मन्त्रतन्त्रविशारदः ।
तद्रहं च परिज्ञाप्य निर्वाणं श्रेयसं व्रजेत्॥
9.30
ब्रह्मणि न न वा विष्णौ न गणेशे षडानने ।
प्रकृतेः कुहकं दानं न कुत्रापि प्रकाशितम्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे नवमः पटलः
Kapitel 10 – Die fünf rituellen Chakras
श्रीदेव्युवाच
10.1
शक्तिर्नाना विद्या प्रोक्ता संशयो जायते सदा ।
कुलीनां कीदृशीं देवीं ब्राह्मणः पूजयेत्सदा ॥
श्रीशिव उवाच
10.2
सर्वजात्युद्भवा शक्तिर्योगिभिः पूज्यते सदा ।
यां यां पश्यति योगीन्द्रस्तां तामेव प्रपूजयेत्॥
10.3
वीरशक्तिविशेषेण शृणुष्व वरवर्णिनि ।
पुरश्चर्या कृता वीराः प्रशस्ता वीरसाधने ॥
10.4
पुरश्चर्याविहीनाश्चेन्न योज्याः कुलसाधने ।
योज्याश्चेत्सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत्॥
10.5
वीरशक्तिं विना देवि न कुर्यात्कुलसाधनम्।
तदभावे हीनजातौ प्रशस्ता वीरसाधने ॥
10.6
पञ्चचक्रे प्रशस्ता यास्ताः शृणुष्व वरानने ।
चक्रं पञ्चविधं प्रोक्तं तत्र शक्तिं प्रपूजयेत्॥
10.7
राजचक्रं महाचक्रं देवचक्रं तृतीयकम्।
वीरचक्रं चतुर्थं च पशुचक्रं च पञ्चमम्॥
10.8 ब्रह्मचारी गृहस्थश्च पञ्चचक्रे प्रपूजयेत्॥
10.9
बलीयसी च देवेशि वीरचक्रे प्रपूजयेत्।
ब्रह्मचारी गृहस्थश्च वीरचक्रेण पूजयेत्॥
10.10
योगिभिः पूज्यते देवि सर्वचक्रेषु कामिनी ।
माता च भगिनी चैव दुहिता च स्नुषा तथा ॥
10.11
गुरुपत्नी च पञ्चैता राजचक्रे प्रपूजयेत्।
गौडी वाप्यथवा साध्वी सुरा शस्ता कुलेश्वरि ॥
10.12
शुद्धिश्छागोद्भवा शस्ता तृतीया वेदसम्भवा ।
मुद्रा गोधूमजा शस्ता स्वयम्भूकुसुमस्तथा ॥
10.13
कुण्डगोलोद्भवं द्रव्यमनुकल्पं नियोजयेत्।
रक्तचन्दनं तथा श्वेतमनुकल्पं च चन्दनम्॥
10.14
वस्त्रालङ्कारभूषादि गन्धमाल्यानुलेपनम्।
पूजयेत्परया भक्त्या देवताभ्यो निवेदयेत्॥
10.15
भक्ष्यं नानाविधं द्रव्यं नानावस्त्रसमन्वितम्।
आसवं शुद्धिसंयुक्तं ताभ्यो दद्यात्पुनः पुनः ॥
10.16
प्रणम्य प्रजपेन्मन्त्रं दृष्ट्वा ताश्च सहस्रकम्।
श्रद्धः नैव स्पृशेत्तासां स्पृशेच्च नरकं व्रजेत्॥
10.17
मधुमत्ता यदा तास्तु न स्वपन्ति सुसम्पदः ।
तत्तदैव भवेत्सर्वं सत्यं सत्यं न संशयः ॥
10.18
षष्टिवर्षसहस्राणि ब्रह्मलोके महीयते ।
माता भगिनी स्नुषा कन्या वीरपत्नी कुलेश्वरि ॥
10.19
महाचक्रे यजेदेताः पञ्चशक्तीः पुनः पुनः ।
द्रव्यादाने तु सम्पूज्या न शक्तौ शिवयोजनम्॥
10.20
योजयेत्सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत्।
महाव्याधिर्भवेद्देवि धनहानिः प्रजायते ॥
10.21
सदैव दुःखमाप्नोति सर्वं तस्य विनश्यति ।
आद्यं च गौडिकं प्रोक्तं द्वितीयं कुक्कुटोद्भवम्॥
10.22
तृतीयं रोहितं प्रोक्तं चतुर्थं माषसम्भवम्।
करवीरोद्भवं पुष्पं चन्दनं रक्तचन्दनम्॥
10.23
पूजयेत्परया भक्त्या शिवलोके महीयते ।
षष्टिवर्षसहस्राणि तत्र देवीं प्रपूजयेत्॥
10.24
अष्टम्यां च चतुर्दश्याममायां च कुजेऽहनि ।
राजचक्रे महाचक्रे भक्त्या शक्तीः प्रपूजयेत्॥
10.25
शुक्लपक्षे गुरौ वारे चतुर्थीसप्तमीतिथौ ।
महाचक्रे यजेद्भक्त्या सर्वकामार्थसिद्धये ॥
10.26
देवचक्रं प्रवक्ष्यामि शृणुष्व वरवर्णिनि ।
विदग्धाः सर्वजातीनां पञ्चकन्याः प्रकीर्तिताः ॥
10.27
गौडिकं फलजं रम्यं द्वितीयं पक्षिसम्भवम्।
तृतीयं शालमत्स्यं तु चतुर्थं धान्यसम्भवम्॥
10.28
सुगन्धिगन्धपुष्पं च देवचक्रे नियोजयेत्।
देवचक्रे यजेच्छक्तिं देवलोके महीयते ॥
10.29
षष्टिवर्षसहस्राणि देवकन्याः प्रपूजयेत्।
पञ्चकन्या यजेच्चक्रे नातिरिक्तं कदाचन ॥
10.30
लोभाद्वा कामतो वापि छलाद्वा वरवर्णिनि ।
यदि स्यात्सङ्गमं तासां रौरवं नरकं व्रजेत्॥
10.31
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।
पितृभूमिं समागम्य वीरचक्रे प्रपूजयेत्॥
10.32 दिव्यवीरान्वितो मन्त्री यजेच्छक्तिं बलीयसीम्॥
श्रीदेव्युवाच
10.33 मात्रादयः पञ्चकन्या यतीनां च कथं प्रभो ॥
श्रीशिव उवाच
10.34
मात्रादयः पञ्चकन्या हीनजाता यते प्रिये ।
चतुर्वर्णोद्भवां वेश्यां विशेषेण बलीयसीम्॥
10.35
भूमीन्द्रकन्यका माता दुहिता रजकीसुता ।
श्वपची च स्वसा ज्ञेया कापाली च स्नुषा स्मृता ॥
10.36
योगिनो निजशक्तिः स्यात्पञ्चकन्याः प्रकीर्तिताः ।
गुरोः समीपे कर्तव्यमथवा भ्रातृभिः सह ॥
10.37
सिद्धमन्त्री भवेद्वीरो न वीरो मद्यपानतः ।
अभिषिक्तो भवेद्वीरो अभिषिक्ता च कौलिकी ॥
10.38
एवं च वीरशक्तिं च वीरचक्रे नियोजयेत्।
क्रमसङ्केतकं चैव पूजासङ्केतमेव च ॥
10.39
मन्त्रसङ्केतकं चैव यन्त्रसङ्केतकं तथा ।
लिखनं मन्त्रयन्त्राणां सङ्केतं गुरुमार्गतः ॥
10.40
सङ्केतज्ञं विना वीरं यदि चक्रे नियोजयेत्।
निष्फलं पूजनं देवि दुःखं तस्य पदे पदे ॥
10.41
सङ्केतहीनो यो वीरो नाभिषेको गुरोः क्रमात्।
कुलभ्रष्टः स पापिष्ठस्तं त्यजेद्वीरचक्रके ॥
10.42
नाभिषिक्तो वसेच्चक्रे नाभिषिक्ता च कौलिकी ।
वसेच्च रौरवं याति सत्यं सत्यं न संशयः ॥
10.43
एवं क्रमं विना देवि वीरचक्रे वसेद्यदि ।
सिद्धिहानिः सिद्धिहानिः रौरवं नरकं व्रजेत्॥
10.44
सर्वमद्यं सर्वशुद्धिं सर्वमीनं कुलेश्वरि ।
सर्वमुद्रां सर्वपुष्पं स्वयम्भूकुसुमं तथा ॥
10.45 कुण्डगोलोद्भवं द्रव्यं नानारससमन्वितम्॥
10.46
प्रदद्यात्साधकश्रेष्ठो वीरचक्रे पुनः पुनः ।
स्वशक्तिं पूजयेत्तत्र तदुच्छिष्टं पिबेत्प्रिये ॥
10.47
चर्व्यं च ज्येष्ठतो ग्राह्यं कनिष्ठाय निवेदयेत्।
एकासने न भुञ्जीत भोजनं नैकभाजने ॥
10.48 परस्परमुपस्पर्शं न कर्तव्यं कदाचन ॥
10.49
एवं क्रमेण देवेशि वीरचक्रं समाचरेत्।
आनीय हीनजाम्देवीं शक्तिमन्त्रेण शोधयेत्॥
10.50
संशोध्य हीनजाम्पूजां वीरशक्तिं निवेदयेत्।
मधुसक्ताय वीराय यो दद्याद्हीनजाम्सुताम्॥
10.51
वक्त्रकोटिसहस्रेण तस्य पुण्यं न गण्यते ।
वीराय शक्तिदानं तु वीरचक्रे विधीयते ॥
10.52
चक्रभिन्नश्चरेद्दानं रौरवं नरकं व्रजेत्।
घातयेद्गोपयेद्वापि न निन्देन्न निरीक्षयेत्॥
10.53
कामं क्रोधं च मात्सर्यं विकारं लोभमेव च ।
कुत्सा निन्दा दुरालापं गोपयेदष्टकं प्रिये ॥
10.54
मन्त्रं मुद्रामक्षमालां योनिं च वीरसङ्गमम्।
मण्डलं च घटं पीठं सिद्धिद्रव्याणि गोपयेत्॥
10.55
पण्डितं वीरसन्तानं क्षेत्रं देवीं च योगिनीम्।
कुलाचारं गुरुदूतीं मनसापि न निन्दयेत्॥
10.56
मातृयोनिं पशुक्रीडां नग्नां स्त्रीमुक्तस्तनीम्।
कान्तेन क्षोभितां कान्तां कामतो नावलोकयेत्॥
10.57
देवीं गुरुं दूतीं विद्यां श्रेष्ठां शक्तिं क्रियात्मजाम्।
योगिनीं भैरवीतत्त्वमष्टतत्त्वं प्रपूजयेत्॥
10.58
विमाता दुहिता भग्नी स्नुषा पत्नी च पञ्चमी ।
पशुचक्रे यजेद्धीमान्पशुवत्तोषणं चरेत्॥
10.59
गन्धपुष्पं च माल्यं च वस्त्राद्याभरणानि च ।
सिन्दूरागुरुकस्तूरी नानापुष्पाणि सुन्दरि ॥
10.60
भक्ष्यं नानाविधं द्रव्यं फलं नानाविधं प्रिये ।
एतद्द्रव्यगणं यस्तु भक्त्या ताभ्यो निवेदयेत्॥
10.61
षष्टिवर्षसहस्राणि क्षितौ राजा भवेद्ध्रुवम्।
वीरचक्रे मन्त्रसिद्धिर्भवत्येव न संशयः ॥
10.62
अमावास्यां चतुर्दश्यां पक्षयोरुभयोरपि ।
श्मशानेन गतेनाच्चेत्सुचितं न प्रकाशितम्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे दशमः पटलः
Kapitel 11 – Merkmale der Yogis und Verehrung der lebendigen Shakti
श्रीदेव्युवाच
11.1
योगिनां साधनं देव सूचितं न प्रकाशितम्।
इदानीं श्रोतुमिच्छामि कृपया कथय प्रभो ॥
श्रीशिव उवाच
11.2
आत्मनो ज्ञानमात्रेण तत्त्वज्ञानं भवेत्प्रिये ।
तत्त्वज्ञानी भवेद्योगी स योगी त्रिविधः स्मृतः ॥
11.3
निरालम्बश्च सालम्बः भक्तश्च परमेश्वरि ।
भक्तोऽपि वीरभावेन साधयेत्कुलसाधनम्॥
11.4
शक्तिमात्रं यजेद्योगी भक्तो योगपरायणः ।
आत्मन्येवात्मनो योगं शक्तौ वा शिवयोजनम्॥
11.5
अभिषेकेण देवेशि भैरवो जायते भुवि ।
अवधूतो भवेद्वीरो दिव्यश्च कुलसुन्दरि ॥
11.6
श्मशानागमनिष्ठश्च कुलयोषित्परायणः ।
कुलशास्त्रार्थसंवक्ता बलिदानरतः सदा ॥
11.7
निर्द्वन्द्वो निरहङ्कारो निर्लोभो निर्भयः शुचिः ।
गुरुदेवरतः शान्तो घृणालज्जाविवर्जितः ॥
11.8
रक्तचन्दनलिप्ताङ्गो रक्तकौपीनभूषणः ।
उदारचित्तः सर्वत्र वैष्णवाचारतत्परः ॥
11.9
कुलाचाररतो वीरः पण्डितः कुलवर्त्मनि ।
कुलसङ्केतसंवेत्ता कुलशास्त्रविशारदः ॥
11.10
महाबलो महाबुद्धिर्महासाहसिकः शुचिः ।
नित्यकर्मणि निष्णातो दम्भहिंसाविवर्जितः ॥
11.11
परनिन्दासहिष्णुः स्यादुपकाररतः सदा ।
वीरासनमासीनः पितृभूमिगतः शुचिः ॥
11.12
सर्वदानन्दहृदयः कुमारीपूजने रतः ।
एवं यदि भवेद्वीरस्तदैव हीनां यजेत्॥
11.13
दिव्योऽपि वीरभावेन साधयेत्कुलसाधनम्।
कुलं च सर्वजातीनां पूजनीयं कुलार्चने ॥
11.14 सिद्धविद्या विशेषेण सिद्धिदा कुलपूजने ॥
11.15
श्मशाने विजने रम्ये त्रिप्रान्ते शून्यमण्डले ।
ग्रामे पातालके वापि साधयेत्कुलसाधनम्॥
11.16 बलिदानं विना पानं श्मशानगमनं विना ॥
11.17
जपपूजादिकं कर्म त्वभिचाराय कल्प्यते ।
तस्मात्सर्वप्रयत्नेन बलिदानं समाचरेत्॥
11.18
प्रणवं पूर्वमुद्धृत्य तत्र भव ततः परम्।
ततो विकटदंष्ट्रे च परपक्षं मोहय द्वयम्॥
11.19
खादय द्वयमुक्त्वा च परपक्षद्वयं तथा ।
या मां हिंसितुमुद्यता च योगिनी च हर हर हुं फट्ततः परम्॥
11.20
वह्निजाया ततो देवि परविद्यां ततः परम्।
आकर्षय ततो देवि छेदककपालिने ॥
11.21
गृह्ण द्वयं वह्निजाया अनेन बलिमाहरेत्।
अनेन बलिदानं तु कुलकर्मसुसिद्धये ॥
11.22
त्रिप्रान्तरे श्मशाने वा बलिं दद्याज्जपेन्मनुम्।
महात्रिप्रान्तरे गत्वा किं न सिद्ध्यति भूतले ॥
11.23 बलिदानं विना किञ्चित्साधनं नैव साधयेत्॥
श्रीदेव्युवाच
11.24 साधकः कथितो देव साधिका कीदृशी प्रभो ॥
श्रीशिव उवाच
11.25
निर्लोभा कामनाहीना निर्लज्जा दम्भवर्जिता ।
शिवसङ्केतगता साध्वी स्वेच्छया विपरीतगा ॥
11.26
चतुर्वर्णोद्भवा रम्भा प्रशस्ता कुलपूजने ।
चतुर्वर्णोद्भवानां च पुरश्चर्या विधीयते ॥
11.27
वर्णसङ्करतो जाता हीनजाता प्रकीर्तिता ।
लज्जालाञ्छितभाला या सा साक्षाद्भुवनेश्वरी ॥
11.28
नानाजात्युद्भवानां च सा दीक्षा कुलपूजने ।
ब्राह्मणो हीनजाम्देवीं भग्ना वा प्रपूजयेत्॥
11.29
अज्ञात्वा कौलिकीं देवीं पशुवत्परिपूजयेत्।
पशुवत्पूजयेद्वीरो दीक्षितां वाप्यदीक्षिताम्॥
11.30
शक्तिमात्रं यजेद्वीरः प्राप्तयोगमनाः स्मरेत्।
अष्टोत्तरशतं देवि तद्योगं सुरतो जपेत्॥
11.31
प्रणम्य मनसा देवीं चुम्बनं मनसा स्मरेत्।
सुन्दरीं नागरीं दृष्ट्वा एवं संचिन्तयेन्नरः ॥
11.32
स एव कालिकापुत्रः सदाशिव इहापरः ।
गृहे वा मन्दिरे रम्ये त्रिप्रान्ते पथि चान्तरे ॥
11.33
दृष्ट्वा च सुन्दरीं रम्यां मनसा च प्रपूजयेत्।
तद्योगं मनसा स्मृत्वा जपेदष्टोत्तरं शतम्॥
11.34
जपं समर्प्य तां चुम्ब्य प्रणम्य च पुनः पुनः ।
भक्ष्यद्रव्यं ततस्ताभ्यो भक्त्या च विनिवेदयेत्॥
11.35
यदा द्रव्याणि गृह्णन्ति तदा सिद्धिर्भवेद्ध्रुवम्।
यदि भाग्यवशेनैव हीनजाम्कौलिकीं पराम्॥
11.36
पूजयेन्मनसा वाचा तत्त्वं विचिन्तयेत्।
अष्टोत्तरशतं जप्त्वा चुम्बयित्वा पुनः पुनः ॥
11.37
पुनस्तत्रैव चरेत्तत्र जपसंख्या रसातलम्।
ततस्तु पूर्ववत्कृत्वा पुरश्चरणमुच्चरेत्॥
11.38
हीनजातौ तु संयुक्ता दीक्षिता सैव सर्वदा ।
शाङ्करी शाक्तिका वापि वैष्णवी वाप्यवैष्णवी ॥
11.39
सर्वदा साधने योज्या साधकानां कुलार्चने ।
वाक्या क्रोडया वापि घृणाद्रा मानसं नयेत्॥
11.40
न दोषो द्रव्यदाने च हीनजातौ कुलसाधने ।
विजयारससंयुक्ता हीनजाता दीक्षिता सदा ॥
11.41
तद्भाले विलिखेन्मायां ततः सा भुवनेश्वरी ।
हीनजाता भालसंयुक्ता भग्ना भुवनेश्वरी ॥
11.42
हीनजाता कुलसामान्या कुलचक्रं लिखेत्प्रिये ।
तत्र पूजा चरेद्योगी गुरुमार्गक्रमेण च ॥
11.43
अष्टोत्तरशतं जप्त्वा पुरश्चरणमुच्यते ।
अथवा शक्तिभाले तु त्रिप्रान्ते लिखेत्प्रिये ॥
11.44
मनुं वापि त्रिकोणस्थं तत्र पूजादिकं चरेत्।
वज्रपुष्पेण संलिख्य वज्रपुष्पेण पूजयेत्॥
11.45
तत्त्वयोगाज्जपेद्विद्यां कलौ कलुषहारिणीम्।
अष्टोत्तरशतं जप्त्वा पुरश्चरणमुच्यते ॥
11.46
कुलजाष्टसुतां शुद्धां रजकीं योगिनीं तथा ।
नटीं कापालिकीं वेश्यां शौण्डिकीं श्वपचीं तथा ॥
11.47
विदग्धां हीनजाम्सर्वां पूजयेद्द्रव्यदानतः ।
आसां भाले लिखेन्मायां ततस्ताः परिपूजयेत्॥
11.48
सर्वथा दीक्षयेन्नैतां दीक्षयेन्नरकं व्रजेत्।
नानाजात्युद्भवा रम्भा हीनजाता परिकीर्तिता ॥
11.49
चतुर्वर्णोद्भवा रम्भा दीक्षयेत्गुरुमार्गतः ।
हीनजाम्यदि लभ्येत तदान्यां परिचिन्तयेत्॥
11.50
हीनजाम्पूजयेद्योगी निःसङ्गो निरीहवरतः ।
हीनजाम्द्रव्यदानेन तोषया तत्त्वचिन्तनात्॥
11.51
तत्र मन्त्रं च यन्त्रं च लिखित्वा पूजयेद्यदि ।
स मुक्तः कालिकापुत्रो न स भूमौ प्रजायते ॥
11.52
कामाख्या पूजिता येन स मुक्तो नात्र संशयः ।
शक्तिमन्त्रा न सिद्ध्यन्ति कामाख्यापूजनं विना ॥
11.53
ब्राह्मणीं क्षत्रियां वैश्यां शूद्रां च वरवर्णिनि ।
नाहरेद्द्रव्यदानेन हरेच्च नरकं व्रजेत्॥
11.54
आकर्षिताय शिष्याय प्रत्यानीतां च दीक्षिताम्।
पूजयेत्परया भक्त्या तासां चाहं विशेषतः ॥
11.55
आसामभावे देवेशि स्वशक्तिं परिपूजयेत्।
स्वशक्तो सिद्धमन्त्री स्यात्पश्चाद्देवान्प्रपूजयेत्॥
11.56
अङ्गावरणपूजादौ यदि वा लक्षते कुलम्।
तदैव हीनजां शक्तिं शोधयेदुक्तवर्त्मना ॥
11.57
हीनजाम्शोधयेदेकां सिद्धमन्त्री त्वलिप्सितः ।
हीनजाता सुप्रसन्ना चेत्सिद्धिर्भवति साधके ॥
11.58
सर्वदा हीनजाम्शक्तिं सर्वत्र प्रपूजयेत्।
गुरुनाम च यन्त्रं च पूजयेत्कुलमार्गिणम्॥
11.59
भैरवं भैरवीं तत्त्वं मनसा न प्रकाशयेत्।
कन्याकोटिप्रदानेन हेमभारशतस्य च ॥
11.60
यत्फलं लभते देवि तत्फलं निजमन्दिरे ।
प्रथमां द्वितीयामुक्तां शक्तिभ्योऽपि ददेद्यदि ॥
11.61
तृप्यन्ति देवताः सर्वा योगिन्यो भैरवादयः ।
पृथिवीं हेमसम्पूर्णां दत्त्वा यत्फलमालभेत्॥
11.62
तत्फलं कौलिकां गेहे पूजायां लभते ध्रुवम्।
अश्वमेधाधिकं पुण्यं कुलीनां गृहदर्शनम्॥
11.63
गवां कोटिप्रदानेन यत्फलं लभते नरः ।
तत्फलं हीनजातागेहे लभते नात्र संशयः ॥
11.64
तीर्थकोट्यर्धकोटी च तीर्थस्नानेषु यत्फलम्।
तत्फलं लभते देवि कुलीनां यन्त्रदर्शने ॥
11.65
कुलीनां यन्त्रमालिख्य यद्यत्कर्म समाचरेत्।
तत्कर्म सफलं याति सत्यं सत्यं न संशयः ॥
11.66
कुलीनां यन्त्रमालोक्य सर्वपापैः प्रमुच्यते ।
शैवाः शाक्ताश्च सौराश्च वैष्णवाश्च कुलेश्वरि ॥
11.67
पूजयन्ति सदा भक्त्या कुलीनां गृहमन्दिरे ।
सर्वेषां यन्त्रमन्त्राणां दुर्गाधिष्ठातृदेवता ॥
11.68
यतो वै जायते विश्वं तस्मात्तां परिपूजयेत्।
यन्त्रपूजाकृतो मन्त्री न स योनौ प्रजायते ॥
11.69 यन्त्रपूजां विना देवि न शक्तिपूजनं चरेत्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे एकादशः पटलः
Kapitel 12 – Purascharana, Einvernehmen und Wahl des Gurus
श्रीशिव उवाच
12.1
अथान्यत्सम्प्रवक्ष्यामि साधनं भुवि दुर्लभम्।
येन कृते लभेत्सिद्धिं देवानामपि दुर्लभाम्॥
12.2
ललाटे शक्तिमन्त्रं तु त्रिरावृत्त्या लिखेद्बुधः ।
तन्मध्ये कामबीजं च विलिखेत्कामलाञ्छितम्॥
12.3
कामेन पुटितं कृत्वा पूजयेत्परमेश्वरीम्।
सम्पूज्य कालिकां देवीं यन्त्रं च परिपूजयेत्॥
12.4
तत्त्वचिन्तापरो योगी जपेल्लक्षं निराकुलः ।
संगृह्य कुलयोषित्तु पूजयेच्च पुनः पुनः ॥
12.5
सहस्रं तर्पयेत्पीठे यन्त्रप्रक्षालनोदकैः ।
एवं कृते लभेत्सिद्धिं सत्यं सत्यं न संशयः ॥
12.6
अथान्यत्सम्प्रवक्ष्यामि पुरश्चरणमुत्तमम्।
शतं भाले शतं केशे शतं सिन्दूरमण्डले ॥
12.7
शतमेकं मुखाब्जेषु पुष्पवक्षत्रे शतद्वयम्।
शतद्वन्द्वं कुचद्वन्द्वे शतं च नाभिमण्डले ॥
12.8
शतमेकं कुलागारे प्रजपेद्भक्तिभावतः ।
एवं दशशतं जप्त्वा कुलागारे ततो जपेत्॥
12.9
पूजयित्वा जपेन्मन्त्रं गजान्तकसहस्रकम्।
ततस्तु तत्त्वयोगेन शतमष्टोत्तरं जपेत्॥
12.10 पूजनं च पुनस्तत्र पुरश्चरणमुच्यते ॥
12.11
अथान्यत्सम्प्रवक्ष्यामि कुलागारस्य साधनम्।
येन कृते कुलेशानि सर्वपापक्षयो भवेत्॥
12.12
कुलागारे कुलाष्टम्यां कुलमाहूय पूजयेत्।
तर्पणं च जपं होमं तत्तदक्षरतां व्रजेत्॥
12.13 कदलीतरुमूलं च द्विगुणं यदि दृश्यते ॥
12.14
तत्रेदं महती पूजा कर्तव्या वरवर्णिनि ।
तद्घृते ब्रह्मवक्त्रेण होमं कुर्याद्विचक्षणः ॥
12.15
होमं कृत्वा जपेन्मन्त्रं कोटिकोटिगुणं भवेत्।
द्विगुणं रजनीमूलं संवीक्ष्य यो जपेन्मनुम्॥
12.16 स भवेत्स्वसिद्धीशस्तस्य पुण्यं न विद्यते ॥
12.17
रजनी स्वेच्छयाहूय साधकं कुलभूषणम्।
विपरीता जपेन्मन्त्रं तस्याः पुण्यं न गण्यते ॥
12.18 रजन्याथ कुलागारे पुलिने निपुणा यदि ॥
12.19
तत्समा रजनी कान्ता कमला वाथ राधिका ।
त्रिषु लोकेषु सा धन्या ब्रह्मविष्णुशिवात्मिका ॥
12.20
सिद्धविद्या महाविद्या मन्त्रयन्त्रफलप्रदा ।
तस्याः प्रसादमात्रेण दुष्टमन्त्रोऽपि सिद्ध्यति ॥
12.21
तस्मात्सर्वप्रयत्नेन तामेव शरणं व्रजेत्।
अज्ञायं रजनीयोगं विहरेद्यदि साधकः ॥
12.22
जपेत्पूजयेत्तत्र सर्वं तन्निष्फलं भवेत्।
येन तेन प्रकारेण रजनीतोषणं चरेत्॥
12.23
बाह्या क्रोडनाद्वापि रजन्या तोषयेत्सदा ।
यं यं भावं रजन्यां च तं तं भावं प्रकल्पयेत्॥
12.24
अतिरिक्तः कृतो भावो रौरवं नरकं व्रजेत्।
कलायाः सम्मतिं कृत्वा साधयेत्कुलसाधनम्॥
12.25
अन्यथा नरकं याति सत्यं सत्यं न संशयः ।
कलापि साधकं ज्ञात्वा सम्मतिं नैव जायते ॥
12.26
सा चैवं नरके घोरे वसेदेव न संशयः ।
उभयोः सम्मतिं ज्ञात्वा साधयेत्कुलसाधनम्॥
12.27
असम्मतकुलासङ्गात्सिद्धिहानिः प्रजायते ।
यो गच्छेद्रजनीगेहं कुलसाधनवर्जिते ॥
12.28
स एव नरकं याति सत्यं सत्यं न संशयः ।
क्रोधाद्वा कामतो वापि द्वेषाद्वा वरवर्णिनि ॥
12.29
न गच्छेद्रजनीगेहं गच्छेच्च नरकं व्रजेत्।
अज्ञात्वा कुलसङ्केतं कुलमार्गं विशेद्यदि ॥
12.30
स याति नरकं घोरं का कथा परजन्मनि ।
गुरुं विलङ्घ्य शास्त्रेऽस्मिन्नाधिकारो कदाचन ॥
12.31
गुरोराज्ञां समादाय कुलपूजां चरेत्सुधीः ।
पशोर्वापि शठाद्वापि धूर्ताच्चुल्लुकादपि ॥
12.32
न गृह्णीयात्सिद्धिविद्यां गृह्णीयाद्दुःखभाग्भवेत्।
मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत्॥
12.33
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत्।
तस्मात्सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत्॥
12.34
कुलीनस्तन्त्रमन्त्राणामधिकरोति गीयते ।
आजन्म च परं वस्तु कुलीनाय निवेदयेत्॥
12.35
शुभे मासि शुभे पक्षे शुभे लग्ने शुभे दिने ।
पूर्वोक्तमन्त्रज्ञानेन घटं संस्थापयेत्ततः ॥
12.36
भूर्जपत्रेण संलिख्य घटे संस्थाप्य यत्नतः ।
तत्र पूजां चरेद्धीमान्महाचीनक्रमेण च ॥
12.37
पूजयित्वा ततो देवीं गुरुः स्वयं विचिन्तयेत्।
ततः कुलीनमाश्रित्य मन्त्रं तन्त्रं विलोकयेत्॥
12.38
अभिषेकं च तत्रैव कुर्यात्कुलपरायणः ।
पशोर्वा चुल्लुकाद्वापि धूर्तात्कुलपासरात्॥
12.39
सिद्धिविद्यां न गृह्णीयात्गृह्णीयान्नरकं व्रजेत्।
जपपूजां तथा होमं साधनं सर्वकर्मसु ॥
12.40
सर्वं च निष्फलं याति दुःखं तस्य पदे पदे ।
कुलद्रव्याणि देवेशि पश्वादिभ्यो न दर्शयेत्॥
12.41
दर्शयेत्सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत्।
कुलपूजादिकं कर्म पशोरग्रे चरेद्यदि ॥
12.42
तत्कर्म निष्फलं याति का कथा परजन्मनि ।
पशोरालापनाद्देवि कुलकर्म प्रणश्यति ॥
12.43
पशोर्दर्शनमात्रेण सुदर्शनमाचरेत्।
स एव द्विविधो देवि दीक्षितोऽदीक्षितः पशुः ॥
12.44
दीक्षितो हि भवेत्पूर्वोऽदीक्षितो हि महापशुः ।
पशुसङ्घात्कुलेशानि सिद्धिहानिः प्रजायते ॥
12.45
महापशुसमायोगान्न कुलं शरणं व्रजेत्।
पशुमात्रसमायोगात्प्रेतराज्याधिपो भवेत्॥
12.46
पशुमात्रसमायोगात्कुलकर्म प्रणश्यति ।
तस्मात्सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत्॥
12.47 कुलीनसेवितस्यापि मन्त्रसिद्धिः प्रजायते ॥
12.48 पशुं शठं च धूर्तं च चुल्लुकं च विशेषतः ॥
12.49 धर्मार्थकाममोक्षार्थी गुरुत्वेन न चार्चयेत्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे द्वादशः पटलः
Kapitel 13 – Zuordnungen der Vidyas und weitere Rajani-Riten
श्रीदेव्युवाच
13.1
तासां च सिद्धिविद्यानां यस्या या याः प्रपूजिताः ।
तास्ताः शक्तिविशेषेण कथयस्व मयि प्रभो ॥
श्रीशिव उवाच
13.2
कुलं च सर्वजातीनां कुलीनानां कुलार्चने ।
सिद्धविद्याविशेषेण सिद्धिदा कुलपूजने ॥
13.3
श्यामाविद्या न सिद्ध्यन्ति नापिताङ्गनया विना ।
ताराविद्या न सिद्ध्यन्ति चाण्डालीगमनम्विना ॥
13.4
श्रीविद्या च न सिद्ध्यन्ति ब्राह्मणीगमनम्विना ।
छिन्नमस्ता न सिद्ध्यन्ति कापालीगमनम्विना ॥
13.5
सिद्धविद्या न सिद्ध्यन्ति भूमीन्द्रतनयां विना ।
जलकान्तगृहे देवि भैरवी च सुसिद्ध्यति ॥
13.6
मध्यमा रहिता प्रोक्ता विहिता द्रुतसिद्धिदा ।
साधयेद्रजनीं सर्वां ब्राह्मणीं यवनां विना ॥
13.7
सर्वास्थां परित्यज्य साधयेद्द्विजजां द्विजः ।
राजराजेश्वरी साक्षाद्द्विजजारूपधारिणी ॥
13.8
द्विजजातोषणादेव द्रुतं सिद्ध्यति सुन्दरि ।
श्रेष्ठवर्णोद्भवां रम्भां साधने नैव साधयेत्॥
13.9 साधयेत्सिद्धिहानिः स्याद्रौरवं नरकं व्रजेत्॥
13.10
अथान्यत्सम्प्रवक्ष्यामि रजनीसाधनान्तरम्।
यस्मिन्कृते भवेत्सिद्धिर्देवानामपि दुर्लभा ॥
13.11
रजनीद्विगुणं वीक्ष्य सहस्रं यदि साधकः ।
पञ्चाशद्दिवसं यावत्तावच्च प्रत्यहं जपेत्॥
13.12
सम्पूज्य रजनीं भूमिं सङ्गम्य प्रजपेन्मनुम्।
तदा वादी सुसिद्धः स्याज्जपेत्क्षितितनुं विलोकयेत्॥
13.13
पर्वते हस्तमारोप्य शतशः शुद्धभावतः ।
कवितां लभते धीमान्देवीलोकं मृते व्रजेत्॥
13.14
पद्ममध्यं तथा बिम्बं खञ्जनं शिखरं तथा ।
चामरं वारिबिम्बं च तिलपुष्पं सरोरुहम्॥
13.15
त्रिसुलं वीक्ष्य सञ्जप्य शतः शुद्धभावतः ।
स सर्वरजनीनाथः कलौ कल्पलता भुवि ॥
13.16
सम्पूज्य रजनीगेहं मनुं तत्रैव संलिखेत्।
कलां वा कर्णमात्रेण देवीं ध्यात्वा पुनर्यजेत्॥
13.17
तदुद्भवेन पुष्पेण पूजयेद्भक्तिभावतः ।
स याति शिवतां भूमौ कुलदुर्गगतः शुचिः ॥
13.18
ब्रह्मतरौ महापद्मे ध्यात्वा देवीं प्रपूजयेत्।
तत्सुधासारसारेण तर्पयेद्मातृकामुखे ॥
13.19
कलापूजाक्रमेणैव रजनीवेष्टिते यदि ।
महानिशि जपेन्मन्त्रं ध्रुवं मोक्षं स चार्हति ॥
13.20
तिथिक्रमेण कामेन रजनीवेष्टिता जपेत्।
तदा मासेन सिद्धिः स्यात्सहस्रजपमानतः ॥
13.21
अष्टम्यां च चतुर्दश्यां द्विगुणं यदि दृश्यते ।
मन्त्रं कलान्तरे देवि लिखित्वा कुङ्कुमेन च ॥
13.22
तत्पार्श्वे साध्यमालिख्य ताडयेत्सृष्टिवृष्टिभिः ।
साध्यसूक्तं जपेत्तत्र कामार्ता तत्र लभ्यते ॥
13.23
तत्र पूजां चरेद्धीमान्महाचीनक्रमेण च ।
ग्रामे पातालके रम्ये श्मशाने प्रान्तरेऽपि वा ॥
13.24
विलिख्य यन्त्रमन्त्रं च कामाख्यायां प्रपूजयेत्।
तदा राज्यमवाप्नोति इहैव कुलसुन्दरि ॥
13.25
मृते च मोक्षमाप्नोति सत्यं सत्यं न संशयः ।
रजोमूले रजन्यां तु यो याति बिल्वपञ्चकैः ॥
13.26
देवीमभ्यर्च्य सहस्रं तु प्रजपेत्पितृकानने ।
तदा राज्यमवाप्नोति यदि वा न पलायते ॥
13.27
चितायां रजनीगेहे सङ्गम्य च जपेन्मनुम्।
यं यं कामयते कामं तं तमेव ध्रुवं लभेत्॥
13.28
पुनश्च तत्र सम्पूज्य स्वयम्भूकुसुमेन च ।
इहैव जायते सौख्यमन्ते च मोक्षमाप्नुयात्॥
13.29
महाव्रतादिने नक्तं श्मशाने नियुतः ।
सहस्रकप्रमाणेन किं न सिद्ध्यति भूतले ॥
13.30
रजनीरजसा देवि पिण्डं च परिकल्पयेत्।
यन्नाम्ना दीयते पिण्डं न गच्छेत्स यमालयम्॥
13.31
रजनीवेष्टनादेव यत्फलं लभते प्रिये ।
तस्यापि षोडशांशं च चरेन्मार्गेण लभ्यते ॥
13.32
शवासनाधिकं फलं लतागेहे प्रवेशनम्।
तस्यापि षोडशांशं च कलां नार्हन्ति ते शवाः ॥
इति श्रीनिरुत्तरतन्त्रे पार्वतीशिवसंवादे त्रयोदशः पटलः
Kapitel 14 – Sieben Veshya-Typen, Kula-Frauen und Tarpana
श्रीदेव्युवाच
14.1
वेश्या च कीदृशी देव प्रशस्ता कुलपूजने ।
कस्याः संसर्गमात्रेण श्रेष्ठो भवति साधकः ॥
14.2 नानाकुलगता वेश्या कथं शस्ता कुलार्चने ॥
श्रीशिव उवाच
14.3
गुप्तवेश्या महावेश्या कुलवेश्या महोदया ।
राजवेश्या देववेश्या ब्रह्मवेश्या च सप्तधा ॥
14.4 कुलजा गुप्तवेश्या स्यान्निर्लज्जा मदनातुरा ॥
14.5 पशुभर्तृधृता लोके गुप्तवेश्या प्रकीर्तिता ॥
14.6
कुलजा कुलवेश्या च महावेश्या प्रकीर्तिता ।
महावेश्या कुलेशानि स्वेच्छया च दिगम्बरी ॥
14.7
कुलवेश्या कुलीना च वीरपत्नी कुलेश्वरि ।
महोदया समाख्याता स्वेच्छया विपरीतगा ॥
14.8
राजवद्या च वेश्या स्याद्राजवेश्या प्रकीर्तिता ।
देवं संयोज्य चक्रे च जप्त्वा तु बिन्दुपातनम्॥
14.9
भगलिङ्गकपाले च चुम्बयेच्च पुनः पुनः ।
एवंविधा कुलीना चेद्ब्रह्मवेश्या प्रकीर्तिता ॥
14.10
दिव्यशक्तिर्वीरशक्तिस्तासां संज्ञा प्रकीर्तिता ।
चतुर्वर्णोद्भवानां च संज्ञिताः परिभाषिताः ॥
14.11
वेश्यावद्भ्रमते यस्मात्तस्माद्वेश्या प्रकीर्तिता ।
वर्णसङ्करतो जाता स्ववेश्याः प्रकीर्तिताः ॥
14.12
कुलमार्गे प्रवृत्ता या सा वेश्या मोक्षदायिनी ।
चुम्बनालिङ्गनाघातं रतिविग्रहदर्शनम्॥
14.13
आमन्त्रणं त्रिसन्ध्यं च भगलिङ्गस्य कीर्तनम्।
वेश्यानां च जपाङ्गेदं शङ्करेण पुरोदितम्॥
14.14
पाठे विना वेश्या न कुर्यात्स्थिरसङ्गमम्।
जपाङ्गः प्रत्यहं कुर्यात्सा शिवः सह मोदिता ॥
14.15
निशायां प्रजपेन्मन्त्रं स्वयम्भूशिवयोगतः ।
वेश्यानां जपमात्रं तु पुरश्चरणमुच्यते ॥
14.16
विपरीता जपेन्मन्त्रं सा काली नात्र संशयः ।
योषितां मन्त्रसिद्धिः स्याद्विपरीतरतौ प्रिये ॥
14.17
विपरीतरतौ जप्त्वा सर्वसम्पत्तिमालभेत्।
विपरीतरतौ जप्त्वा निर्वाणपदवीं व्रजेत्॥
14.18
विपरीतरतौ जप्त्वा कालीवद्विहरेद्भुवि ।
विपरीतरता काली विपरीता च तारिणी ॥
14.19
विपरीता च या वेश्या सा काली नात्र संशयः ।
योषिद्विद्या न सिद्ध्यन्ति विपरीतरतिं विना ॥
14.20
विपरीतरता वेश्या त्रिषु लोकेषु पूजिता ।
गाढमालिङ्गनं दत्त्वा चुम्बित्वा पुनः पुनः ॥
14.21
कटाक्षैर्दर्शयेद्यन्त्रं दक्षिणा कौलिकीरिता ।
एवंविधा पुरश्चर्या वेश्यायाश्च कुलेश्वरि ॥
14.22
एवंविधा भवेद्वेश्या न वेश्या कुलटा प्रिये ।
कुलटासङ्गमादेव रौरवं नरकं व्रजेत्॥
14.23
वीरशक्तिर्भवेद्वेश्या सा शस्ता स्वस्वसाधने ।
पुरश्चर्याश्च ता वेश्या योजयेत्कुलसाधने ॥
14.24
शिवलिङ्गगता साध्वी शिवलिङ्गगता सती ।
शिवलिङ्गगता वेश्या कीर्तिता सा पतिव्रता ॥
14.25
योनिश्च जनिका माता लिङ्गश्च जनकः पिता ।
विभाव्य पितरौ भावमुभयोः परिचिन्तनम्॥
14.26
लिङ्गरूपो महाकालो योनिरूपा च कालिका ।
तयोर्योगपरा धन्या तयोर्योगपरो महान्॥
14.27
स्वभैरवं विना वेश्या शिवपूजां करोति या ।
रौरवे नरके घोरे वसेदाहूतसंप्लवम्॥
14.28
स्वभैरवीं विना वीरो मनसा नैव संस्मरेत्।
स्मरेच्च नरकं याति महाव्याधिपरो भवेत्॥
14.29
नानावीराश्रिता वेश्या पशुवेश्या कुलेश्वरि ।
सा वेश्या नरकं याति सत्यं सत्यं न संशयः ॥
14.30 वर्जनीया प्रयत्नेन कामाद्वा लोभतो वापि धनाद्वा वरवर्णिनि ॥
14.31 नानावीराश्रिता वेश्या वेश्या च नरकं व्रजेत्॥
14.32
नानाद्वा कामतो वापि लोभाद्वा कुलसुन्दरि ।
पशुसङ्गगता वेश्या सा वेश्या नरकं व्रजेत्॥
14.33
नानावीराश्रिता वेश्या पशुसङ्गगता च या ।
कुलसाधनकर्माणि ॥
14.34
योज्या चेत्सिद्धिहानिः स्यात्श्रेष्ठवेश्या कुलार्चने ।
रोगः शोको भवेत्तस्य धनहानिः क्षणे क्षणे ॥
14.35
तस्मात्सर्वप्रयत्नेन स्वशिवं च समाश्रयेत्।
जपपूजादिकं वेश्या स्वशिवे परिकल्पयेत्॥
14.36
पुष्पिता काममापन्ना सदा रमणमिच्छुका ।
सर्वसिद्धिप्रदा वेश्या कालिकारूपधारिणी ॥
14.37
पितृभूमिः समाख्याता सदाशिवनिवासिनी ।
शिव एव नरे ज्ञेयो लिङ्गरूपधरो यतः ॥
14.38
शिवस्थानं श्मशानं स्यात्श्मशानं कुलजं गृहम्।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥
14.39
श्मशाने नागते नार्चेतवश्यं पशुवद्भवेत्।
तन्मन्त्रं पूजितं येन सर्वमन्त्रं प्रपूजितम्॥
14.40
तत्र सञ्जप्य देवेशि निर्वाणपदवीं व्रजेत्।
मातृमुखे पितृमुखं दत्त्वा जपेत्कालीं सनातनीम्॥
14.41
सर्वपापविनिर्मुक्तो निर्वाणपदवीं व्रजेत्।
परस्मिन्गुप्तवेश्या वाप्यथवा कुलीना भवेत्॥
14.42
शुक्रोत्सारणकालं तु निर्वाणं विद्धि पार्वति ।
तत्कालस्तु महाकालः फलमात्रप्रवेशिनाम्॥
14.43
शुक्रोत्सारणकालं तु कायेन मनसापि वा ।
श्रद्धमध्यक्रमेणैव कुलीनाय प्रकाशयेत्॥
14.44
शुक्रोत्सारणकालस्य ज्ञापनात्कालिका स्वयम्।
जायते कालिका देवी महाकालं विमोहयेत्॥
14.45
कुलीना ब्रह्मवेश्या चेन्नाल्पस्य तपसः फलम्।
बहूनां जन्मनामन्ते ब्रह्मवेश्या प्रजायते ॥
14.46
त्वत्समा प्रकृतिः काचिद्यदिति भूमिमण्डले ।
न तथा त्वत्समा शक्तिस्त्रिषु लोकेषु गीयते ॥
14.47
सा चैव दक्षिणा काली मदनातुरविह्वला ।
वेदेभ्यो जायते कर्म कर्मणा बन्धनं भवेत्॥
14.48
वैदिकं कर्म सन्त्यज्य सुरतेषु सदा जपेत्।
आगमोक्तपतिः शम्भुरागमोक्तः पतिर्गुरुः ॥
14.49
स्वपतिः कुलजायाश्च न पतिश्च विवाहितः ।
विवाहितपतित्यागे दूषणं न कुलार्चने ॥
14.50
विवाहितं पतिं नैव त्यजेद्वेदोक्तकणि ।
आगमोक्तपतिस्त्राता आगमोक्तपतिः शिवः ॥
14.51
सिद्धविद्या न सिद्ध्यन्ति आगमोक्तपतिं विना ।
आगमोक्तपति देवि योषितां मोक्षदायकः ॥
14.52
कालीं नैव यजेद्योषिदागमोक्तपतिं विना ।
कुलजा गुरवे देवि पतित्वे वरणं चरेत्॥
14.53
तदा सा गुप्तवेश्या स्यात्कुलजा च पतिं विना ।
गुप्तवेश्या भवेत्सैव कुलमार्गप्रवर्तिता ॥
14.54
कुलमार्गप्रसक्ताया सा मुक्ता नात्र संशयः ।
कुलजा गुरवे देवि यदि न स्यात्पतीच्छुका ॥
14.55
तस्याः शिवो महाकालः सत्यं सत्यं न संशयः ।
षोडशाब्दा सदा सा स्यात्काली विक्रमतत्परा ॥
14.56
तारा पञ्चदशाब्दा चेत्चतुर्दशाब्दा च सुन्दरी ।
त्रयोदशी चोन्मुखी सा द्वादशाब्दा च भैरवी ॥
14.57
एकादशगुणोपेता ब्रह्मवेश्या कुलेश्वरि ।
महासाध्वी समाख्याता चतुर्षु लोकेषु दुर्लभा ॥
14.58
स्वर्गे मर्त्ये च पाताले या यास्तिष्ठन्ति चाङ्गनाः ।
सर्वासामपि भर्ता च दिव्यो वीरश्च साधकः ॥
14.59
योगी दिव्यो यदा वीरः सर्वनारीपतिर्भवेत्।
दिव्योऽपि वीरभावेन सर्वजात्युद्भवां यजेत्॥
14.60
गुप्तवेश्या महावेश्या अयोध्या मथुरा प्रिये ।
माया च कुलवेश्या स्यान्महोदया च कालिका ॥
14.61
राजवेश्या देववेश्या द्वारका परिकीर्तिता ।
काञ्ची च राजवेश्या स्याद्देववेश्या अवन्तिका ॥
14.62
द्वारावती ब्रह्मवेश्या सप्तधा मोक्षदायिका ।
कुलीना भगवती साक्षात्काली तारा सरस्वती ॥
14.63
कुलीना भैरवी राधा कुलीना छिन्नमस्तका ।
कुलीना सुन्दरी देवि कुलीना महिषमर्दिनी ॥
14.64
कुलीना भुवना बाला कुलीना बगलामुखी ।
धूमावती कुलीना च मातङ्गी कुलीना प्रिये ॥
14.65
कुलीना चान्नपूर्णा च त्रिपुटा त्वरिता तथा ।
पतिव्रता कुलीना च सती साध्वी महोदया ॥
14.66
कुलीना मन्त्रतन्त्राणां सिद्धिदा नात्र संशयः ।
कुलजा देवकन्या च कुलीना योगिनीगणाः ॥
14.67
रम्भोर्वशी रतिरामा तिलोत्तमा कुलसुन्दरी ।
एताः सर्वाः पृथग्विहरन्ति कुलात्मजाः ॥
14.68
कुलजाः कुलवेश्या याः कुलधर्मपरायणाः ।
पशुभर्तृआश्रिता लोके कामकौतुकलालसाः ॥
14.69
कुलवर्त्मक्रमेणैव सदैव रमणोत्सुकाः ।
विदग्धा वीरभावेन वीरगोपनतत्पराः ॥
14.70
विहितान्यां हीनजातां पूजयेदथवा यतः ।
ब्रह्मचारी गृहस्थोऽपि विहितान्यां न चार्चयेत्॥
14.71
अर्चयेत्सिद्धिहानिः स्याद्दुःखं तस्य पदे पदे ।
हीनजाम्विहितां वेश्यां मनसा च प्रपूजयेत्॥
14.72
तद्योगं चिन्तयेद्धीमान्शतमष्टोत्तरं जपेत्।
जप्त्वा प्रणम्य देवेशि भक्ष्यद्रव्यं निवेदयेत्॥
14.73
कामाद्वा मोहतो वापि हीनजाम्यदि चेच्छति ।
रौरवं नरकं याति हीनजातिसङ्गमेन च ॥
14.74
हीनजातिसङ्गमं देवि मनसा न स्मरेत्कलौ ।
कुलकर्मप्रवृत्ता या सा मुक्ता नात्र संशयः ॥
14.75
कुलजा कुलवेश्या च बीजमेकं समाश्रयेत्।
सन्त्यज्य पशुभर्तारं कुलमार्गे प्रवेशयेत्॥
14.76
कुलमार्गं समाधृत्य वीरमेकं समाश्रयेत्।
कुलमार्गप्रवृत्ता चेत्पतिहीना भवेद्यदि ॥
14.77
कुलजा वा कुलीना वा परजन्मनि जायते ।
कुलधर्मरता शस्ता कुलधर्मोत्सुका तथा ॥
14.78
पूजार्हा सा महेशानि पतिहीनां प्रपूजयेत्।
लोकाचारक्रमेणैव पूजार्हा लङ्घिता यदि ॥
14.79
तां विहाय कुलेशानि कुलजां च प्रपूजयेत्।
गन्धस्मरणमात्रेण तथा पापक्षयो भवेत्॥
14.80
कुलजा च कुलीनाय मन्त्रतन्त्रफलप्रदा ।
महावेश्या भवेत्सैव सर्ववेश्याफलप्रदा ॥
14.81
यासां च सर्वविद्यानां प्रशस्ता या कुलार्चने ।
सैव शक्तिविशेषेण सर्ववेश्याः प्रकीर्तिताः ॥
14.82
कुलीनादर्शनेनैव सर्वपापक्षयो भवेत्।
कुलजानां पुरश्चर्यां कुलीनावत्कुलेश्वरि ॥
14.83
सर्ववेश्या हीनजाता सर्वसिद्धिप्रदायिनी ।
अनेकजन्मनामन्ते कुलधर्मः प्रवर्तते ॥
14.84
कुलधर्मं विना देवि न च मोक्षः प्रजायते ।
कुलपूजां विना देवि सुन्दरी नैव सिद्ध्यति ॥
14.85
कुलपूजां विना देवि पञ्चमो नहि सिद्ध्यति ।
कुलपूजां विना नैव भैरवी न च सिद्ध्यति ॥
14.86
कुलपूजां विना देवि छिन्नमस्ता न सिद्ध्यति ।
कुलपूजां विना देवि कालीकुलं न सिद्ध्यति ॥
14.87
कुलपूजां विना देवि तत्त्वज्ञानं न जायते ।
तत्त्वज्ञानं विना देवि निर्वाणं नैव जायते ॥
14.88
निर्वाणं श्रेयसं प्राप्य मम योगं प्रजायते ।
निर्वाणं श्रेयसं चापि मूलं च कुलमन्दिरम्॥
14.89
पञ्चमैः पूजयेत्कालीं कुलीनं च कुलमन्दिरे ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥
14.90
इन्द्रादि दिक्पाला आदित्यादिनवग्रहाः ।
असिताङ्गादयो ये ये भैरवाश्च सुरादयः ॥
14.91
कुलपूजाकृताः सर्वे कृतार्थाः कुलिनागृहे ।
शक्तिं विना महेशानि शक्तिमन्त्रो न सिद्ध्यति ॥
14.92
सर्वेषां शक्तिमन्त्राणां शक्तिः सिद्धिप्रदायिनी ।
नटी कापालिका वेश्या रजकी नापिताङ्गना ॥
14.93
योगिनी श्वपची शौण्डी भूमीन्द्रतनया तथा ।
गोपिनी मालिका रम्या आसां कार्यविभेदतः ॥
14.94
चतुर्वर्णोद्भवा रम्या कापाली सा प्रकीर्तिता ।
पूजाद्रव्यं समालोक्य नृत्यगीतपरायणा ॥
14.95
चतुर्वर्णोद्भवा रम्या सा नटी परिकीर्तिता ।
माद्यं समालोक्य वेश्या रमणमिच्छता ॥
14.96
चतुर्णां रम्या सा वेश्या परिकीर्तिता ।
पूजाद्रव्यं समालोक्य रजोऽवस्थां प्रकाशयेत्॥
14.97
सर्ववर्णोद्भवा रम्या रजकी सा प्रकीर्तिता ।
पूजाद्रव्यं समालोक्य कुलजा वीरमाश्रयेत्॥
14.98
सन्त्यज्य पशुभर्तारं कर्मचण्डालिनी स्मृता ।
शिवशक्तिसमायोगः योगिनी सा व्यवस्थिता ॥
14.99
विपरीतरता पत्यौ पात्रं या परिपृच्छति ।
सर्ववर्णोद्भवा रम्या सा शौण्डी परिकीर्तिता ॥
14.100
सर्वदा यन्त्रसंस्कारो यस्याश्च परिजायते ।
सैव भूमीन्द्रजा रम्या स्ववर्णोद्भवा प्रिये ॥
14.101 नानायोग्यकरणस्यापि अथान्यं गोपयेद्यस्तु सर्वदा पशुसङ्गमे ॥
14.102 सर्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता ॥
14.103
पूजाद्रव्यं समालोक्य या मनी परिकीर्तिता ।
सर्ववर्णोद्भवा रम्या मालिनी सा प्रकीर्तिता ॥
14.104
शक्त्यभावे महेशानि यासां च काञ्चिदाहरेत्।
संशोध्य पञ्चमं तत्त्वं तर्पयेत्कुलसुन्दरि ॥
14.105
अङ्गुष्ठानामिकायोगाद्वामहस्तस्य पार्वति ।
तर्पयेत्कालिकां वीरः सायुधां परिवाहनाम्॥
14.106
अङ्गुष्ठो भैरवो देवः अनामा शक्तिरुच्यते ।
शिवशक्तिसमायोगात्तर्पयेत्देवि दक्षिणाम्॥
14.107
तर्पणं त्रिविधं देवि श्रेष्ठं मध्यं कनीयसम्।
श्रेष्ठं च दिव्यभावस्य वीरभावस्य मध्यमम्॥
14.108 कनीयांसं पशूनां च हृदि यन्त्रे जले क्रमात्॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे चतुर्दशः पटलः
Kapitel 15 – Reinigung der fünf Tattvas und Mahavidyas
श्रीदेव्युवाच
15.1
देव-देव महादेव कुलमार्गप्रकाशक ।
पञ्चमं कीदृशं द्रव्यं तेषां शुद्धिस्तु कीदृशी ॥
15.2 तत्प्रकाशय सम्यङ्मे मयि नाथ कृपां कुरु ।
श्रीशिव उवाच
15.3
मद्यं मांसं तथा मीनं मुद्रा मैथुनपञ्चमम्।
एषां शुद्धिं प्रवक्ष्यामि मन्त्रकोषक्रमेण च ॥
15.4
निशीथे मुक्तकेशश्च सुकुलं वामभागतः ।
संस्थाप्य न्यासजालं च तद्गात्रे विन्यसेत्क्रमात्॥
15.5
स्वगात्रे च ततो न्यस्य न्यासजालक्रमेण च ।
भूतशुद्धिर्विधेया च वर्णन्यासं ततश्चरेत्॥
15.6
अङ्गन्यासकरन्यासौ लिपिन्यासं तु तत्परम्।
ततोऽन्तर्मातृकां कृत्वा मातृकान्यासमाचरेत्॥
15.7
प्राणायामं ततः कृत्वा ऋषिन्यासं ततः परम्।
पीठन्यासं व्यापकं च कालीकुलस्य पूजने ॥
15.8
क्रमभङ्गो भवेन्नैव भवेच्च विफलं ध्रुवम्।
जपपूजादिकं कर्म सर्वं निष्फलतामियात्॥
15.9
तस्मात्सर्वप्रयत्नेन क्रमभङ्गं न कारयेत्।
जीवन्यासं व्यापकादौ विद्याराज्ञीं प्रपूजयेत्॥
15.10
बोधन्यासं नीलकण्ठं कामं च परिकीर्तितम्।
ततो ध्यात्वा महाकालीं मानसैः परिपूजयेत्॥
15.11
ततश्च पञ्चमं शुद्धं विशेषार्घ्यं ततः परम्।
ततः कुलं च सम्पूज्य पञ्चानां शुद्धिमाचरेत्॥
15.12
स्ववामे बिन्दुषट्कोणं वृत्तं च चतुरकम्।
चतुर्द्वारं च संलिख्य सामान्यार्घ्योदकेन च ॥
15.13
अभ्युक्षणं ततः स्थानं तत्र देवीं विचिन्तयेत्।
नम इति स्थापिताधारयन्त्रं संस्थाप्य पूजयेत्॥
15.14
वह्नेर्दशकलां तत्र पूजयेद्विधिपूर्वकम्।
आद्यष्टदेव्याः सम्पूज्यास्तथा धूम्रार्चिका कलाः ॥
15.15 पूर्वं त्रिपदिकामिष्ट्वा गन्धपुष्पेण पूजयेत्॥
15.16 अष्टदिक्षु च सूर्यस्य द्वादशीं कलाम्॥
15.17
ततश्च रक्तवस्त्रेण वेष्टयेद्घटमुत्तमम्।
घटं सम्पूरयेद्देवि हेतुना मूलमुच्चरन्॥
15.18
ॐ अमृतादिकसोमस्य कलास्तत्रैव पूजयेत्।
तत्रापि पञ्चमुद्राभिः प्रणम्य तु कुलेश्वरि ॥
15.19
नितम्बसर्वशाकारं नमो करतलद्वयम्।
ह्लीं नम इति नमस्कुर्याच्चतुरश्रा तु सा स्मृता ॥
15.20
पुटाकारं करं बद्ध्वा मुष्टिबद्धं च भूतले ।
विधाय च नमस्कुर्यात्ह्लीं नमः संवृता स्मृता ॥
15.21
कृत्वा पुटाञ्जलिं भूमौ क्लीं नमः प्रणमेत्प्रिये ।
कथिता सम्पुटा मुद्रा शृणु देवि पुटाञ्जलिम्॥
15.22
वृद्धाकनिष्ठयोर्मूले निःक्षिप्य च पुटाञ्जलिम्।
कृत्वा च हूं नमो भूमौ प्रणमेत्सा पुटाञ्जलिः ॥
15.23
सः नमो योनिमुद्रायाः पञ्चमुद्राः प्रकीर्तिताः ।
ततः कुम्भसमीपे तु चन्दनेन च संलिखेत्॥
15.24
त्रिकोणवृत्तभूबिम्बं तत्र सर्वपथिकाय च ।
पूजयित्वा बलिं तत्र निधाय परमेश्वरि ॥
15.25
मायादि सर्वपथिकाभ्यो नमः प्रिये ।
बलिमुत्सृज्य देवेशि तत्त्वमुद्राक्रमेण च ॥
15.26
वामहस्तेन तत्त्वस्य मुद्रां बद्ध्वा महेश्वरि ।
त्रिः परिभ्राम्य सूत्रेण द्रव्योपरि कुलेश्वरि ॥
15.27
देवतापश्चिमे भागे स्थापयेत्तत्कुलेश्वरि ।
एवं सुष्ठापितं कृत्वा पञ्चीकरणमाचरेत्॥
15.28
द्रव्यं दर्भश्चास्त्रमन्त्रैः सन्ताड्य परमेश्वरि ।
हमिति वामहस्तेन मुष्टिं कृत्वा कुलेश्वरि ॥
15.29
अधोमुख्या च तर्जन्या वेष्टयेत्त्रिः कुलेश्वरि ।
मूलेन वीक्षणं देवि अस्त्रेणाभ्युक्षणं चरेत्॥
15.30
त्रिसुगन्धस्य मूलेन गृह्णीयात्परमेश्वरि ।
पञ्चीकरणमित्युक्तं क्रमशो विद्धि पार्वती ॥
15.31
कुम्भे पुष्पं ततो दत्त्वा प्रणवेन कुलेश्वरि ।
त्रिकोणं तत्र संलिख्य तन्मध्ये च हसौः प्रिये ॥
15.32
हसौः हसौः नमोऽन्तेन त्रिश्च तत्र प्रपूजयेत्।
प्रणवं पूर्वमुच्चार्य वरुणं तदनन्तरम्॥
15.33
वामदेवं ततो ह्येनं वौषट्मन्त्रेण पूजयेत्।
सम्पूज्य वामदेवं च पशुपतिं ततो यजेत्॥
15.34
प्रणवं कूर्चबीजं च ह्येनं पशुपतिं ततः ।
कूर्चयुग्ममस्त्रबीजमन्त्रं पशुपतिं यजेत्॥
15.35
मायाबीजं समुच्चार्य कालीबीजं ततः परम्।
ततः परं पदं देवि स्वामिनि च ततः परम्॥
15.36
पराकोषगता देवि शून्यवाहिनी ततः परम्।
चन्द्रसूर्याग्निभक्षिणी पश्चात्पात्रं च तदनन्तरम्॥
15.37
विषयुग्मं वह्निजाया दशधा संजपेत्प्रिये ।
वाग्भवं भुवना लक्ष्मीरानन्देश्वरडेन्तकम्॥
15.38
विद्महे च ततो देवि धीमहीति तदनन्तरम्।
इति गायत्रीं त्रिर्जप्त्वा ऋक्त्रयं च जपेदिति ॥
15.39
ॐ रां रीं हूं समुद्धृत्य रैं रौं क्रैं क्रौं क्रस्ततः परम्।
ततः स्वधा कृष्णशापं मोचय द्वयं ततः परम्॥
15.40
अमृतं स्रावय द्वन्द्वं वह्निजाया कुलेश्वरि ।
इति द्वादशधा जप्त्वा मन्त्राण्येतानि त्रिर्जपेत्॥
15.41
ॐ एक एव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम्।
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम्॥
15.42
ॐ सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमबीजमये देवि शुक्रशापाद्विमुच्यते ॥
15.43
ॐ देवानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन मे देवि ब्रह्महत्यां व्यपोहतु ॥
15.44
इति मन्त्रत्रयेणैव त्रिधा समभिमन्त्र्य च ।
ह्लीं श्रीं श्रूं श्रींकारेति शोभिनि च ततः परम्॥
15.45
ततो विकारनस्येति द्रव्यस्य हर द्वयं वह्निवल्लभा ।
इति त्रयं जप्त्वा द्रीं श्रीं एं च ततः परम्॥
15.46
इति प्रकाशिनीं त्रिश्च जप्त्वा तिरस्करणीं जपेत्।
ह्लीं क्लीं एं श्रीं समुद्धृत्य तिरस्करणी ततः परम्॥
15.47
सकलजनवाग्वादिनि ततः सकलपशुवृते ।
जनमनश्चक्षुस्ततो देवि श्रोत्रजिह्वा ततः परम्॥
15.48
प्राणोक्ति तिरस्करणं कुरु युग्मं ततः परम्।
नीलं हयं समधिरुह्य पुरः प्रयान्ती ॥
15.49 नीलांशुकाभरणमाल्यविलेपनाढ्या ॥
15.50 निद्रापटेन भुवनानि तिरोदधाना ॥
15.51
खड्गेन भुजैर्भगवती परिपातु भक्तान्।
इति ध्यात्वा कुलेशानि इमं मन्त्रं त्रिधा जपेत्॥
15.52
ठः ठः वह्निवधूर्देवि द्रव्योपरि त्रिधा जपेत्।
पवमानः परानन्दः परिमाणः परो रसः ॥
15.53 पवमानं परं ज्ञानं तेन त्वां पावयाम्यहम्॥
15.54 पावमानं च त्रिर्जप्त्वा वायुबीजेन शोधयेत्॥
15.55
रमिति वह्निबीजेन सन्दह्य प्रणमेदिति ।
काली तारा महाविद्या षोडशी भुवनेश्वरी ॥
15.56
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।
बगला सिद्धविद्या च मातङ्गी कमलात्मिका ॥
15.57
एता दश महाविद्याः सिद्धविद्याः प्रकीर्तिताः ।
काली तारा तथा छिन्ना मातङ्गी भुवनेश्वरी ॥
15.58
अन्नपूर्णा तथा नित्या दुर्गा महिषमर्दिनी ।
त्वरिता त्रिपुरा पुटा भैरवी बगला तथा ॥
15.59
धूमावती तथा ज्ञेया कमला च सरस्वती ।
जयदुर्गा तथा भद्रे तथा त्रिपुरसुन्दरी ॥
15.60
अष्टादश महाविद्यास्तन्त्रादौ कथिताः प्रिये ।
नात्र कालविशुद्धिः स्यात्समया समयादिकम्॥
15.61
न वारतिथिनक्षत्रं न योगकरणं तथा ।
सिद्धविद्या महाविद्या युगसेवा प्रकीर्तिताः ॥
इति श्रीनिरुत्तरतन्त्रे शिवपार्वतीसंवादे पञ्चदशः पटलः
Textgrundlage
Niruttaratantram, hg. von Kulabhūṣaṇa Paṇḍita Ramadatta Śukla, 2., überarbeitete und erweiterte Ausgabe, Guptāvatāra Durlabha Tantra-Mālā, 2. Jahr, Maṇi 2, Prayāga: Kalyāṇa Mandira Prakāśana, 5. Oktober 1979. Vergleichsquelle: Devanagari-Handschrift der Raghunath Temple Manuscript Library/Dharmartha Trust, Jammu, Almira 27, Shelf 1.