Kaulavali Nirnaya Devanagari
Kaulavali Nirnaya Devanagari enthält den vollständigen Sanskrittext des Kaulavali Nirnaya in Devanagari.
Die Devanagari-Fassung wurde wegen des Umfangs aus dem Hauptartikel ausgelagert. Der Hauptartikel enthält Einleitung, deutsche Gesamtübersetzung und vollständige Sanskrit-Umschrift. Eine praxisorientierte Zusammenstellung der Rituallehren findet sich unter Kaulavali Nirnaya Rituale.
Textgrundlage
Muktabodha M00231, kaulāvalīnirṇaya, von Jñānānanda Paramahaṃsa; Ausgabe Arthur Avalon, Tantrik Text Series, 1927.

Vollständiger Sanskrittext in Devanagari
Hinweis zur Darstellung
Der Wortlaut wird vollständig aus der bereitgestellten Devanagari-Datei übernommen.
Quellenstand
Diese Seite ist eine Quellenedition und keine normalisierte Neuedition. Ungewöhnliche Schreibungen, Varianten, Druck-/Übertragungsfehler und editorische Eigenheiten der Vorlage werden nicht stillschweigend verbessert. Seitenmarker und Ullāsa-Gliederung bleiben sichtbar. Jede Sanskritzeile endet mit `
`.
|| श्रीः ||
श्रीमज्ज्ञानानन्दपरमहंसविरचितः
कौलावलीनिर्णयः
प्रथम उल्लासः
मङ्गलाचरणम्
नत्वा श्रीगुरुपादपद्मयुगलं सिद्धैः सदा सेवितं
शाक्तानां परिभावमोक्षजनकं कौलावलीनिर्णयम् |
वक्ष्येऽहं कुलवर्धनं सुकृतिभिः सेव्यं सदा कौलिकै-
र्भावैरेव मनोहरैश्च चरणाब्जैकप्रसादालयम् || १ ||
वाञ्छाकल्पतरुं तनोति शिवयोर्वाक्यानुसारार्थतो |
ज्ञानानन्दगिरिर्महेशचरणाब्जैकप्रसादालयः || २ ||
यस्याः प्रसादतो लेभे शास्त्रार्थं तत्त्वनिर्णयम् |
तां नमामि महादेवीं बाणीं वाग्विभवप्रदाम् || ३ ||
संग्रहार्थे तन्त्रग्रन्थनिरूपणम्
संवीक्ष्य यामलं रुद्रब्रह्मविष्णुकसंज्ञकम् |
यामलं शक्तिसंज्ञञ्च भावचूडामणिं तथा || ४ ||
तन्त्रचूडामणिञ्चैव कुलचूडामणिं तथा |
कुलसारं कुलोड्डीशं कुलामृतकुलार्णवम् || ५ ||
Seite 2 der Vorlage
कालिकाकुलसर्वस्वं कुलसद्भावमेव च |
कालीतन्त्रकुलानन्दं कुलचक्रं तथैव च || ६ ||
कालिकल्पं महाकौलं कुमारीतन्त्रमेव च |
समयाख्य कालीतन्त्रं फेत्कारीं फेरवीं तथा || ७ ||
श्रीक्रमं योगिनीतन्त्रं श्रीहंसपरमेश्वरम् |
स्वतन्त्रं तन्त्रराजञ्च ज्ञानमालां ततः परम् || ८ ||
वायवीं हंसतन्त्रञ्च ताराकल्पञ्च मालिनीम् |
मन्त्रनिर्णयतन्त्रञ्च योगिनीहृदयं तथा || ९ ||
कुलार्णवञ्च गान्धर्वमुड्डीयानञ्च तोडलम् |
शिवशासनतन्त्रञ्च मन्दरं प्लावनीं तथा || १० ||
वीराबलिञ्च वाराहीं वीरतन्त्रञ्च कुब्जिकाम् |
नीलतन्त्रं मत्स्यसूक्तं ललितातन्त्रमेव च || ११ ||
Seite 3 der Vorlage
शम्भुनिर्णयतन्त्रञ्च वामकेश्वरतन्त्रकम् |
वटुकसंहिताञ्चैव तारार्णवं ततः परम् || १२ ||
गुप्तार्णवं चण्डरोषं मायां नीलमणिं तथा |
समयाख्यं तन्त्रसारं ततो मन्त्रविमर्शिनीम् || १३ ||
ज्ञानसारं योगवतीं भैरवीतन्त्रमेव च |
भैरवाख्यं महातन्त्रं सिद्धसारस्वतं ततः || १४ ||
त्रिपुरार्णवतन्त्रञ्च उत्तरं तन्त्रमेव च |
छिन्नातन्त्रं वातुलञ्च दक्षिणामूर्त्तिसंहिताम् || १५ ||
नयोत्तरं ह्येकवीरां दृष्ट्वा विविधसंग्रहान् |
गुरुणाञ्च मतं ज्ञात्वा सारात्सारतरं महत् || १६ ||
तन्त्रशास्त्रगोपनीयत्वे युक्तिः
द्वैतज्ञानविहीनानां मनोऽभीष्टप्रदायकम् |
अतियत्नेन गोप्तव्यं मातृमैथुनवत् सदा || १७ ||
यस्मै कस्मै न दातव्यं न दुष्टाय कथञ्चन |
प्. ४) न दद्यात् परशिष्याय वञ्चकाय तथैव च || १८ ||
सर्वथा गोपयेदेनं यदीच्छेच्छुभमात्मनः |
योग्यशिष्यायदेयम्
प्रकृताचारयुक्ताय गुरुसेवापराय च || १९ ||
कुलीनाय महोच्छाय देवीभक्तपराय च |
शिष्याय भक्तियुक्ताय साधकाय प्रदापयेत् || २० ||
विना परीक्ष्य यो दद्यात् यस्मै कस्मै कथञ्चन |
स भक्ष्यो योगिनीवृन्दैर्मृते च नरकं व्रजेत् || २१ ||
तस्माच्च साधकश्रेष्ठो गोपयेत् सर्वथा पुनः |
पुस्तकं वीक्ष्य यो मूढो न लब्धो गुरुवक्त्रतः || २२ ||
कुर्याल्लोभवशेनैव सोऽपि नश्यति निश्चितम् |
तस्य कर्माणि सर्वाणि नरकाय भवन्ति हि || २३ ||
योगिनीनां भवेद् भक्ष्यो नारकी ब्रह्मघातकः |
तस्माज्ज्ञात्वा गुरोर्वक्त्रात् साधने यत्नमाचरेत् || २४ ||
Seite 5 der Vorlage
शिवः ब्रह्मस्वरूपी
अस्ति देवः परब्रह्मस्वरूपी निष्कलः शिवः |
सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोदयः || २५ ||
स्वयंज्योतिरनाद्यन्तो निर्विकारः परात्परः |
निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः || २६ ||
अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः |
सर्वेप्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः || २७ ||
मानवकर्तव्यकथनम्
चतुर्विधशरीराणि धृत्वा धृत्वा सहस्रशः |
सुकृतैर्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् || २८ ||
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् |
न मानुष्यं विनाऽन्यत्र तत्त्वज्ञानन्तु लभ्यते || २९ ||
तत्र जन्मसहस्रेषु जन्मैकमपि भाग्यतः |
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् || ३० ||
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् |
यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः || ३१ ||
ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् |
न वेत्तात्महितं यस्तु स भवेदात्मघातकः || ३२ ||
विना देहेन कस्यापि पुरुषार्थो न विद्यते |
तस्माद् देहधनं रक्षन् पुण्यकर्माणि साधयेत् || ३३ ||
ज्ञानप्राप्त्यर्थं कर्मकर्तव्यम्
तावत् कर्माणि कुर्वीत यावज्ज्ञानं न जायते |
ज्ञानिनोऽज्ञानिनो वापि यावद् देहस्य रक्षणम् || ३४ ||
तावद्वर्णसमाचारः कर्त्तव्यः कर्ममुक्तये |
कर्मणोन्मीलिते ज्ञाने ज्ञानेन शिवतां व्रजेत् || ३५ ||
तत्त्वज्ञाननिरूपणम्
कुर्यादनित्यकर्माणि नित्यकर्माणि वा चरेत् |
सर्वकर्माणि सन्त्यक्तुं न शक्यं देहधारिणा || ३६ ||
Seite 7 der Vorlage
स्वकार्येषु प्रवर्तन्ते करणानीति चिन्तयन् |
अहम्भावमपास्यैवं यः कुर्यात् स न लिप्यते || ३७ ||
त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते |
क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् || ३८ ||
न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा |
तत्त्वनिष्ठस्य कर्माणि पुण्यापुण्याणि संक्षयम् || ३९ ||
प्रयान्ति नैव नरकं तत्त्वनिष्ठाः कदाचन |
उत्पन्नसहजानन्दतत्त्वज्ञानरतः सदा || ४० ||
सर्वसङ्कल्पसन्त्यक्तः स विद्वान् कर्म सन्त्यजेत् |
वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः || ४१ ||
पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं किल |
प्राप्तज्ञानस्य कर्मकाण्डे अनधिकारित्व कथनम्
फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः || ४२ ||
तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् |
Seite 8 der Vorlage
अश्वमेधशतेनापि ब्रह्महत्याशतेन च || ४३ ||
पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् |
पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः || ४४ ||
जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति |
ज्ञानस्य द्वैविध्यम्
आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते || ४५ ||
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् |
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे || ४६ ||
परं तत्त्वं न जानन्ति द्वैताद्वैतविवर्जितम् |
द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च || ४७ ||
ममेति बध्यते जन्तुर्विमुक्तिर्निर्ममेति च |
विद्याऽविद्यालक्षणम्
विद्याऽविद्याद्वयोर्योगात् पक्षद्वयमुदीरितम् || ४८ ||
तत् कर्म यच्च बन्धाय साऽविद्या परिकीर्त्तिता |
यन्न बन्धाय तत् कर्म सा विद्या परिकीर्त्तिता || ४९ ||
Seite 3 der Vorlage
यावत् सङ्कल्पकर्मास्ति तावदेव हि बन्धनम् |
यावत्तदेव नैवास्ति तावदेव हि मोक्षणम् || ५० ||
जपहोमार्चनं तीर्थं वेदशास्त्रागमादिकम् |
तावदेव हि सर्वञ्च यावत्तत्त्वं न विन्दति || ५१ ||
अतः प्रयत्नतो धीरः सर्वावस्थासु सर्वदा |
तत्त्वनिष्ठो भवेच्चैव यदीच्छेन्मोक्षमात्मनः || ५२ ||
तत्कारणमहं वक्ष्ये क्षिप्रं येन प्रजायते |
यथाविधि गुरोर्वक्त्राद्विद्यां संगृह्य साधनम् || ५३ ||
नित्यं नैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः |
अन्यथा न भजेदित्थं करोत्यापत्परम्परा || ५४ ||
इति ज्ञात्वा महाप्राज्ञः क्रमेण समुपाचरेत् |
प्रातरुत्थाय शिरसि सहस्रदलपङ्कजे || ५५ ||
Seite 10 der Vorlage
तरुणादित्यकिञ्जल्कबिधोर्मण्डलसंयुते |
ध्यायेन्निजगुरुं धीरो रजताचलसन्निभम् || ५६ ||
गुरुध्यानकथनम्
वीरासनसमासीनं शुक्लाभरणभूषितम् |
शुक्लमाल्याम्बरधरं वरदाभयपाणिकम् || ५७ ||
वामोरुशक्तिसहितं कारुण्येनावलोकितम् |
प्रियया सव्यहस्तेन धृतचारुकलेवरम् || ५८ ||
वामेनोत्पलधारिण्या रक्ताभरणभूषया |
ज्ञानानन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् || ५९ ||
गुरुपूजानिरूपणम्
मानसैरुपचारैस्तु संपूज्य कल्पयेत् सुधीः |
गन्धं भूम्यात्मकं दद्याद् भावपुष्पं ततः परम् || ६० ||
धूपं वायवात्मकं देयं तेजसा दीपमेव च |
नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् || ६१ ||
तत्तन्मुद्राविधानेन सम्पूज्याऽथ गुरुं यजेत् |
दर्शयित्वा योनिमुद्रां गुरुमन्त्रं जपेत्ततः || ६२ ||
Seite 11 der Vorlage
गुरुमन्त्रविधानम्
ह्सौः पदं समालिख्य सहक्षमलवरानिलान् |
वह्नियुक्तांस्त्रिधा लिख्य आद्यदीर्घत्रयान्वितान् || ६३ ||
बिन्दुनादकलायुक्तान् श्रीपरान्ते च पावकम् |
अथाराध्यपदं चैव सर्वमूर्ध्वपदं ततः || ६४ ||
नाथ सर्वगुरुप्रान्ते गुरुः स्वयं ततो गुरुः |
श्रीगुरुनाथशब्दान्ते सहक्षमलवरानिलान् || ६५ ||
वह्निदीर्घप्रतियुतान् नादबिन्दुकलान्वितान् |
पिण्डीकृतं लिखेदाद्यं चतुर्थञ्च ततो लिखेत् || ६६ ||
तृतीयं पूर्ववल्लेख्यं द्वितीयञ्च तथैव च |
ततः श्रीशम्भुगुर्वन्ते पुनराद्यं समालिखेत् || ६७ ||
आद्यकूटं चतुर्थञ्च पुनराद्यं तृतीयकम् |
चत्वारिंशन्मार्गवर्णैर्मण्डितोऽयं गुरोर्मनुः || ६८ ||
यथाशक्तिजपं कुर्यादथवा वाग्भवं जपेत् |
दक्षकर्णयुतो गौरो वह्निरुद्रेण भूषितः || ६९ ||
वर्णद्वयात्मको मन्त्रश्चतुर्वर्गफलप्रदः |
गकारः सिद्धिदः प्रोक्तो रेफः पापस्य हारकः || ७० ||
Seite 12 der Vorlage
उकारो विष्णुरव्यक्तस्त्रितयात्मा गुरुः परः |
गुरोर्वामकरे तत्तु समर्प्याथ स्तुतिं पठेत् || ७१ ||
गुरुस्तुतिम्
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || ७२ ||
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः || ७३ ||
विश्वात्मकः परः शम्भुर्विश्वोत्तीर्णोऽस्म्यहं दृढम् |
इति यस्याज्ञया तस्मात्तस्य श्रीपादुकास्मृतिः || ७४ ||
सहस्रारे पद्मे विगतशठशास्त्रान्तरगतं
सदा देवैर्वन्द्यं भवभयविनाशैककरणम् |
वराभी पाणिभ्यां प्रकटितसमन्दस्मितमुखं
नमामीदृग्रूपं परमगुरुरूपं सकरुणम् || ७५ ||
Seite 13 der Vorlage
शान्तं शुक्लकलेवरं त्रिनयनं कान्ताङ्गभूषं शिवं वाञ्छाभीतिकरं प्रचण्डतिमिराज्ञानप्रकाशं रविम् |
नित्यं नौमि रविं तथाब्धितरणे तं कर्णधारं गुरुं
यस्य श्रीपदपङ्कजोद्भवसुधा सिद्धैः सदा पीयते || ७६ ||
सदा विधोर्मण्डलमध्यसंस्थं नमामि नित्यं गुरुपादपद्मम् |
प्रसादतो यस्य मया प्रलब्धं सवासनाज्ञानविनाशबीजम् || ७७ ||
पद्मोद्भवे समकलापतयोऽपि नित्यं
यस्याङ्घ्रिपद्मममलं परिभावयन्ति |
कारुण्यवारिधिरशेषगुणैकराशिः
सोऽयं गुरुः शिरसि शुक्लसरोजमध्ये || ७८ ||
प्रवद्धानां पाशैः सकलगुणमायामयरसै-
र्निमग्नानां नित्यं भवजलनिधेरन्तरगतः |
कृपालेशो बन्धं परिहरति यस्याङ्घ्रितरगः
प्रवन्दे सानन्दं तमपि गुरुरूपं सकरुणम् || ७९ ||
कवित्वं पाण्डित्यं त्रिभुवनपतित्वं न हि कदा
न वा स्वर्गसिद्धिं न सुरवरसाम्यञ्च नियतम् |
न वाञ्छामो मोक्षं पुरहरपदं नैव शिवतां
यदि स्याच्चेतो मे निरवधि गुरोःपादकमलम् || ८० ||
स्तवेनानेन संस्तुत्यं गुरोराज्ञां लभेत्ततः |
ध्यायेत् कुण्डलिनी शक्तिं मूलाधारनिवासिनीम् || ८१ ||
कुण्डलिनी निरूपणम्
निजेष्टदेवतारुपां विषतन्तुतनीयसीम् |
सुप्ताहिसादृशाकारां सार्धत्रिवलयान्विताम् || ८२ ||
कोटिसौदामिनीभासां स्वयम्भुलिङ्गवेष्टिनीम् |
समुत्थाप्य महादेवीं प्राणमन्त्रेण साधकः || ८३ ||
भेदयित्वा च षट्चक्रं सहस्रारस्थितेश्वरे |
स्थापयित्वा च तस्योर्ध्वं ध्यायेत् कुलगुरून् क्रमात् || ८४ ||
प्रह्लादानन्दनाथञ्च सनकानन्दनाथकम् |
कुमारानन्दनाथञ्च वशिष्ठानन्दनाथकम् || ८५ ||
क्रोधानन्दसुखानन्दौ ज्ञानानन्दं ततः परम् |
बोधानन्दमथाभ्यर्च्य क्रमेणानेन साधकः || ८६ ||
परामृतरसोल्लासहृदयान् घूर्णलोचनान् |
परालिङ्गनसम्भिन्नचूर्णिताशेषतामसान् || ८७ ||
कुलशिष्यैः परिवृतान् सुखान्तःकरणोद्यतान् |
वराभयकराशेषकुलतत्त्वार्थवेदिनः || ८८ ||
सशक्तिं सकुलञ्चैव कथितञ्च सुखावहम् |
एवं कुलगुरून् नत्वाऽमृतवृष्टिं विधाय च || ८९ ||
तर्पयित्वा च तां देवीं पुनर्मूले समानयेत् |
तस्याः प्रभासमूहैश्च व्याप्तं देहं विभावयेत् || ९० ||
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् |
सच्चिदानन्दरूपोऽहमित्यात्मानं विभावयेत् || ९१ ||
बहिर्गत्वा यदा पश्येत् कुलवृक्षं सुसाधकः |
नमस्कुर्यात् प्रयत्नेन कुलं कुलपतिं तथा || ९२ ||
कुलवृक्षनामानि
अशोकः केशरः कर्णिकारश्चूतस्तिलस्तथा |
नमेरुश्च पियालश्च सिन्धुवारकदम्बकौ || ९३ ||
मरुवकश्चम्पकशाखी कुलवृक्षाश्च द्वादश |
अथवा कुलवृक्षांश्च कथयामि सुसिद्धये || ९४ ||
श्लेष्मातककरञ्जानि निम्बाश्वत्थकदम्बकाः |
विल्वो वटोडुम्बरश्च चिञ्चेति दशमी स्मृता || ९५ ||
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा |
न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् || ९६ ||
दृष्ट्वा भक्त्या नमस्कुर्यात् छेदयेन्न कदाचन |
कामबीजं कामदेवं सर्वान्ते जनमालिखेत् || ९७ ||
प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये |
दन्तादिकं विशुध्याथ स्वकल्पोक्तं समाचरेत् || ९८ ||
Seite 17 der Vorlage
प्रातःकृत्यमकृत्वा तु यो देवीं भक्तितोऽर्चयेत् |
तस्य पूजा तु विफला शौचहीना यथा क्रिया || ९९ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये प्रथमोल्लासः || १ ||
द्वितीय उल्लासः
आत्मशुद्धिनिरूपणम्
अथ स्नानं प्रवक्ष्यामि शाक्तानां सिद्धिहेतवे |
स्नानविधिः
यथाविधि जलं प्राप्य आत्मानं देवतालयम् || १ ||
विचिन्त्य प्रणमेद्धीरो वरुणं वारिदैवतम् |
उन्मज्य तत उत्थाय कुलदर्भं विधारयेत् || २ ||
पवित्रीधारणम्
अशून्यौ च करौ कुर्ययात् सुवर्ण रजतैः कुशैः |
तत्र शाक्तैः स्वयं ग्राह्यं न च वन्याः कुशाः कुशाः || ३ ||
अनामयोर्भवेत् स्वर्णं तर्जन्यो रजतं तथा |
एष एव भवेद्दर्भो न दर्भो वनसम्भवः || ४ ||
विनैव दूर्वया देव्याः पूजा नास्ति कदाचन |
तस्माद्दूर्वा ग्रहीतव्या सर्वपुष्पमयी यतः || ५ ||
Seite 19 der Vorlage
हस्ते दूर्वाङ्कुरं कृत्वा सर्वकर्म समाचरेत् |
आचामेदात्मतत्त्वाद्यैः प्रणवाद्यैः स्वधान्तिकैः || ६ ||
मन्त्रैस्त्रिधा तथा वक्त्रं नासाक्षिशोत्रनाभिहृन् |
मस्तकानि स्पृशेन् मन्त्री कुर्याच्छ्रोत्राक्षिबन्धनम् || ७ ||
भूत्वा पूर्वमुखो मन्त्री उत्तराभिमुखोऽपि वा |
मूलान्ते चात्मतत्त्वाय विद्यातत्त्वाय तत्परम् || ८ ||
शिवतत्त्वाय च प्रोक्त्वा क्रमेण साधकोत्तमः |
स्वाहान्तमद्भिराचामेत् पूर्वोत्तरमुखः सुधीः || ९ ||
कुलपात्रं सदूर्वञ्च सतिलं सजलं ततः |
एभिः सङ्कल्प्य वीरेन्द्रः समन्त्रं वारिणि न्यसेत् || १० ||
सूर्यस्य मण्डलात्तिर्थमावाह्याऽङ्कुशमुद्रया |
सञ्जप्य दशधा मूलं तत्तोयं मूर्ध्नि संक्षिपेत् || ११ ||
कुम्भाख्यमुद्रया मूलं स्मरन् साधकपुङ्गवः |
अङ्गुलीभिर्मुखं श्रोत्रं नासां नेत्रे च रोधयन् || १२ ||
Seite 20 der Vorlage
मूलं स्मरन् त्रिधोन्मज्य गात्राणि परिमार्जयेत् |
तिलकं मूलमन्त्रेण शिखाञ्च परिकल्पयेत् || १३ ||
त्रिराचम्य ततो मन्त्री षडङ्गानि न्यसेत्ततः |
गृहीत्वा वामहस्ते तु जलं दक्षिणपाणिना || १४ ||
समाच्छाद्य ततो व्योम वायुवह्निस्ततः परम् |
क्षौणीवरुणबीजञ्च त्रिवारमभिमन्त्रयेत् || १५ ||
मूलेन सप्तवारन्तु मुद्रया तत्त्वसंज्ञया |
स्वमूर्ध्नि च क्षिपेत्तोयं शेषं दक्षे निधाय च || १६ ||
ध्यात्वा तेजोमयं तोयं सव्यनासापुटेन च |
तत उत्तोल्य देहस्थं पापं प्रक्षाल्य वामया || १७ ||
प्रोत्सार्य कल्पिते वज्रशिलायां संक्षिपेत् सुधीः |
प्रक्षाल्य हस्तयुगलमाचमेत्तदनन्तरम् || १८ ||
मायाप्राणात्मकं मन्त्रं मार्तण्डभैरवाय च |
प्रकाशशक्तियुक्ताय अर्घ्यं स्वाहा ततो वदेत् || १९ ||
सूर्यायाऽर्घ्यं विधायाथ शक्तिसन्ध्या प्रकीर्तिता |
विभाव्य पुरतो यन्त्रं तत्र देवीं गणान्विताम् || २० ||
Seite 21 der Vorlage
गृहीत्वा गन्धतोयञ्च कुलपात्रात्ततः परम् |
तर्पयेद् देवतावक्त्रे विधिवत् साधकोत्तमः || २१ ||
मूलमन्त्रं समुच्चार्य तदन्ते देवताभिधाम् |
द्वितीयान्तामहं पश्चात् तर्पयामि नमः पदम् || २२ ||
मूलान्ते तर्पयामीति स्वाहान्तं तर्पणं भवेत् |
गुरुं सपरिवारञ्च आयुधं वाहनं तथा || २३ ||
शक्तितस्तर्पयित्वा च गायत्रीं शक्तितो जपेत् |
ध्यात्वा सावरणां देवीं सूर्यमण्डलवासिनीम् || २४ ||
मूलान्ते उद्यदादित्यवर्तिन्यैस्तदनन्तरम् |
शिवचैतन्य तस्यान्ते मययै स्वाहेति संस्मरन् || २५ ||
अर्घ्यं दत्त्वा ततस्तस्यै तामानीयांकुशेन च |
मुद्रया हृदि संस्थाप्य जलादुत्थाय साधकः || २६ ||
वस्त्रधारणम्
मूलेन कुलवस्त्रे द्वे परिधाय कुलेन च |
मोक्षार्थी रक्तवस्त्रेण भोगार्थी श्वेतवाससा || २७ ||
मारणे कृष्णवासस्तु वश्ये रक्तं सदा गृही |
उच्चाटने व्याघ्रचर्मं वृक्षत्वक् शुभकर्मणि || २८ ||
Seite 22 der Vorlage
परिधाय ततो मौनी हृदि मन्त्रं परामृशन् |
प्रक्षाल्य हस्तपादौ च पूजास्थानं समाविशेत् || २९ ||
स्नानं विना पूजा विफला
इति स्नानं समुद्दिष्टमधिकारप्रदायकम् |
स्नानतर्पणशून्यस्य नाधिकारश्च पूजने || ३० ||
विविधैरुपचारैश्च भक्तिभावसमन्वितः |
विना स्नानेन या पूजा विफला सिद्धिहानिदा || ३१ ||
तस्मात् स्नानादिकं कृत्वा रक्तवस्त्रं ततः परम् |
पूजास्थाननिरूपणम्
एकलिङ्गे श्मशाने च शून्यागारे चतुष्पथे || ३२ ||
विल्वमूले प्रान्तरे वा नद्यां पर्वतमस्तके |
उज्जटे निर्जने वापि भूगृहे देवतालये || ३३ ||
अश्वत्थसन्निधौ वापि वटमूले त्रिशूलके |
हट्टागारे निजागारे पशुदृष्टिविवर्जिते || ३४ ||
नृपालमण्डपे वापि गह्वरे वापि यन्त्रिते |
निश्छिद्रमण्डपे वापि कर्तव्यं पूजनं सदा || ३५ ||
Seite 23 der Vorlage
एकलिङ्गनिरुक्तिः
पूजास्थानं महादेव्याः कथितं पीठमुत्तमम् |
पञ्चकोशान्तरे यत्र न लिङ्गान्तरमीक्षते || ३६ ||
तदेकलिङ्गमित्याहुस्तत्र सिद्धिरनुत्तमा |
चतुष्पथनिरुक्तिः
चतुष्पथं विजानीयात् यत्रास्ते चण्डिकाशिला || ३७ ||
तत्र यत्नेन गन्तव्यं जप्तव्यं सिद्धिकाङ्क्षिभिः |
द्वारदेशे ततो गत्वा पूजयेद्दारदेवताः || ३८ ||
कारयेत्तत्र वाद्यादिनृत्यगीतं तथैव च |
सिद्धार्थाक्षतदूर्वाभिस्तिलमिश्रैः सुसाधकः || ३९ ||
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः |
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || ४० ||
वाग्भवाद्यं समुच्चार्य नाराचमुद्रया सुधीः |
कुलभूतं समुत्सार्य यागभूमिं ततो विशेत् || ४१ ||
Seite 24 der Vorlage
कूर्मचक्रं प्रकुर्वीत यथातन्त्रविधानतः |
रेखाचतुष्टयं कार्यं इन्द्रवारुणयोगतः || ४२ ||
उत्तराद् याम्यपर्यन्तं नवकोष्ठं यथा भवेत् |
इन्द्राग्नियाम्यनैर्-ऋत्यप्रतीच्यां पञ्चवर्गकम् || ४३ ||
वायुकुबेरशम्भौ च यादिवर्णांश्चतुश्चतुः |
लक्षौ क्रमात् समालिख्य साधकः सिद्धिहेतवे || ४४ ||
मध्ये कोष्ठे ततः कुर्यात् पूर्ववन्नवकोष्ठकम् |
पूर्वादीशानपर्यन्तं षोडशस्वरमालिखेत् || ४५ ||
अकारादिक्रमेणैव युग्मयुग्मप्रभेदतः |
क्षेत्राद्यर्णस्तु यत्रास्ते शीर्षं तस्य विनिश्चितम् || ४६ ||
दीपस्थानं तदेव स्यात्तत्र सिद्धिरनुत्तमा |
निर्धनो जायते पत्सु पार्श्वयोर्व्याधिरेव च || ४७ ||
पुच्छे हानिः सदा ज्ञेया दीपस्थानं सदाश्रयेत् |
कूर्मचक्रं विना यो हि जपहोमं समाचरेत् || ४८ ||
तत्सर्वं निष्फलं विन्द्यात् अभिचाराय कल्पते |
पञ्चशुद्धिकथनम्
पञ्चशुद्धिविहीनेन यत्कृतं न च तत् कृतम् || ४९ ||
यावन्न कुरुते तत्तु तावद् देवार्चनं कुतः |
पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते || ५० ||
भूमिशुद्धिरात्मशुद्धिर्द्रव्यानां शोधनं तथा |
मन्त्रशुद्धिर्देवशुद्धिः पञ्चशुद्धिरितीरिता || ५१ ||
पञ्चशुद्धिं प्रवक्ष्यामि यथाक्रमविधानतः |
सामान्यार्घ्यं ततः कुर्यात् प्रोक्षणार्थं च साधकः || ५२ ||
चतुरस्रं ततो वृत्तं त्रिकोणं वामतो लिखेत् |
आधारं स्थापयेत्तत्र संपूज्य वह्निमण्डलम् || ५३ ||
अस्त्रेण प्रोक्षितं पात्रं स्थापयित्वा च पूजयेत् |
सूर्यमण्डलमुच्चार्य हृन्मन्त्रेण प्रपूजयेत् || ५४ ||
विलिख्य मण्डलं तोये पूर्ववत् पूजयेत्ततः |
इन्दुमण्डलमभ्यर्च्य प्रक्षिपेद् गन्धपुष्पके || ५५ ||
Seite 26 der Vorlage
पूर्ववत्तीर्थमावाह्य षडङ्गानि यजेत्ततः |
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् || ५६ ||
मूलमन्त्रं जपेदष्टौ तज्जलेन प्रसेचयेत् |
अस्त्रान्तमूलमुच्चार्य आत्मानं यागभूमिषु || ५७ ||
पृथिव्यर्घ्यं ततो दत्त्वा नैर्-ऋत्यां साधकोत्तमः |
प्रणवं भगवत्येव धरणीं ङेयुतां वदेत् || ५८ ||
धरणीवेधसे स्वाहा अनेनार्घ्यं विधाय च |
ब्रहाणं पूजयित्वा च पुरुषं वास्तुसंज्ञकम् || ५९ ||
सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्प्रभम् |
वितानं धूपदीपाद्यैः पुष्पमालाऽभिशोभितम् || ६० ||
पञ्चवर्णरजश्चित्रं भूमेः शुद्धिरितीरिता |
विलिख्य मण्डलं भूमौ पूर्ववत् साधकाग्रणीः || ६१ ||
आसनं स्थापयेत्तत्र यथा तन्त्रानुसारतः |
अथासनं प्रवक्ष्यामि शाक्तानां स्थितिकाम्यया || ६२ ||
मृद्वादिविविधासनकथनम्
मृदुचूडकमासीनः अन्येषु कोमलेषु वा |
विष्टरे वा समासीनः साधयेत् सिद्धिमुत्तमाम् || ६३ ||
अर्वाक् षण्मासतो गर्भच्युतमाहुर्मृदुं बुधाः |
चूडोपनयनैर्हीनं मृदुमचूडकं विदुः || ६४ ||
निवृत्तचूडको बालो हीनोपनयनः पुमान् |
यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः || ६५ ||
विविधासनफलकथनम्
मृद्वासनं विना यो हि पूजयेच्चण्डिकां शिवाम् |
तावत् कालं नारकी स्याद् यावदाहूतसंप्लवम् || ६६ ||
पञ्चाशद्भिः कुशैर्ब्रह्म तदर्धेन तु विष्टरः |
कौशेयं भोगदं रक्तकम्बलं सिद्धिदं स्मृतम् || ६७ ||
वस्त्रं रोगहरं ज्ञेयं मोक्षं श्रीर्व्याघ्रचर्मणि |
ऊर्णा दुःखहरी प्रोक्ता ज्ञानसिद्धिर्मृगाजिने || ६८ ||
Seite 28 der Vorlage
सन्न्यासी ब्रह्मचारी तु विशेषः कृष्णचर्मणि |
काष्ठासनं न कुर्वीत यत्र दौर्भाग्यवान् भवेत् || ६९ ||
अत्युच्चं चातिनीचञ्च मग्नञ्च परिवर्जयेत् |
मनोहरं मृदु श्लक्ष्णमासनं परिकीर्तितम् || ७० ||
आसनशोधनम्
एषामन्यतमं प्राप्य प्रोक्षयेत्तदनन्तरम् |
सामान्यार्घ्यस्य तोयेन पुटाञ्जलिविधानतः || ७१ ||
मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् |
कूर्मोऽधिदेवता चात्र आसनस्थापनाय च || ७२ ||
विनियोगः परिज्ञेयोऽप्यभिलप्य पठेत्ततः |
पृथ्वि त्वया धृता लोका देविपदं ततो वदेत् || ७३ ||
त्वं विष्णुना धृता त्वञ्च धारय मां ततः परम् |
नित्यं पवित्रं कुरु च आसनञ्च समुच्चरेत् || ७४ ||
अनेन प्रणवाद्येन तत्र कुशत्रयं क्षिपेत् |
आधारशक्तिं संप्रोच्य ङेयुतं कमलासनम् || ७५ ||
हृदन्तं मनुमुच्चार्य मायाद्येन प्रपूजयेत् |
आसने संविशेत् पश्चात् वीरासनेन साधकः || ७६ ||
Seite 29 der Vorlage
दक्षगुल्फं हि वामोरौ तदधो वामगुल्फकम् |
कुर्यादृजुवपुर्ग्रीवः शरीरं ऋजुवच्चरेत् || ७७ ||
समग्रीवं विधायाथ प्रोक्तं वीरासनं परम् |
कामाख्यादिङ्मुखः सुस्थः प्राङ्मुखो वा प्रपूजयेत् || ७८ ||
सामान्यार्घ्यस्य तोयेन प्रोक्षयेद्यागभूमिषु |
इति ते कथितो ह्यत्र आसनविधिः पूजने || ७९ ||
स्नातो निच्छिद्रगेहे कुलविमलजलैरर्घ्यपात्रं विधाय भक्तिश्रद्धान्वितोऽसौ निजकुलकमले यन्त्रराजं विलिख्य |
सिन्दूरैर्भूषिताभिः सुकुलयुवतिभिः पूजयित्वा जपेद्य-
स्तस्य श्रीर्नेत्रपद्मे विलसति सततं वक्त्र चन्द्रे च वाणी || ८० ||
दीक्षिताभिः कुलीनाभिर्युवतीभिः कुलात्मभिः |
देवतागुरुभक्ताभिः सञ्चितं यागभूमिषु || ८१ ||
नानाविधानि पुष्पाणि गन्धानि विविधानि च |
कर्पूरागुरुधूपादिवासितं पटवासितम् || ८२ ||
Seite 30 der Vorlage
ताम्बूलं पेयद्रव्यञ्च धूपदीपादिकञ्च यत् |
सर्वालङ्कारभूषाभिर्भूषितः साधकोत्तमः || ८३ ||
मूलविद्याजप्ततोयैः प्रोक्षयेत् यागवस्तु च |
सर्वं स्वदक्षिणे स्थाप्य वामे कुम्भं निवेशयेत् || ८४ ||
पश्चिमे देवतायाश्च कुल द्रव्याणि धारयेत् |
(अथवा)
नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः || ८५ ||
अथवा वामतो दद्यान्नतु पृष्ठे कदाचन |
दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः || ८६ ||
वामहस्ततले धूपमग्रतो वा न दक्षिणे |
निवेदयेत् पुरोभागे गन्धपुष्पादिभूषणम् || ८७ ||
मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम् |
अङ्गसंस्पृष्टमाघ्रातं त्यजेत् पुष्पं सदा बुधः || ८८ ||
नैव पुष्पं द्विधा कृत्वा न दद्यात् कलिकामपि |
रक्तमर्घ्यं श्वेतदूर्वां नीलकण्ठं कुरुण्टकम् || ८९ ||
न दद्याच्च महादेव्यै यदीच्छेच्छुभमात्मनः |
सुगन्धिश्वेतलौहित्यकुसुमैरर्चयेत् कुशैः || ९० ||
Seite 31 der Vorlage
विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः |
पत्रैर्न चार्चयेद् देवीं विल्वपत्रविवर्जितैः || ९१ ||
निर्गन्धैर्नार्चयेत् पुष्पैः सुगन्धैः सर्ववस्तुभिः |
जवाबन्धूकमन्दारैः सिन्दूरैश्च महोत्पलैः || ९२ ||
संपूजयेच्च निर्गन्धैस्तथा च रक्तचन्दनैः |
नन्द्यावर्त्तं तिलपत्रं तथा केशरपत्रकम् || ९३ ||
मदनं मरुवकञ्चैव दाडिमं कुन्दपुष्पकम् |
नानोपहारबलिभिर्नानापुष्पैमनोहरैः || ९४ ||
अपामार्गदलैर्भृङ्गैस्तुलसीवर्जितैः शुभैः |
कुलपुष्पेण धूपेन कुलदीपेन तां सुधीः || ९५ ||
चण्डिकां पूजयेद्धीमानन्यथा सिद्धिरोधकृत् |
न दद्यान्मालतीपुष्पं ताराकालीप्रपूजकः || ९६ ||
उन्मत्तञ्च न दातव्यं साधकेन महात्मना |
न पर्युषितदोषोऽस्ति जलजोत्पलचम्पके || ९७ ||
अगस्त्यवकुले चैव विल्वगङ्गाजले तथा |
निजदेवस्य पुष्पाणि पृथक्पात्रे निधापयेत् || ९८ ||
एकीभावं न कर्त्तव्यं यदीच्छेच्छुभमात्मनः |
नैवेद्यादीनि सर्वाणि तथा जानीहि निश्चितम् || ९९ ||
पूजाकाले तु संप्राप्ते वासुदेवं स्मरेत्तु यः |
पूजाफलं न चाप्नोति नरकं प्रतिपद्यते || १०० ||
वैष्णवं कुसुमं स्पृष्ट्वा पूजाकाले च सर्वदा |
हस्तप्रक्षालनाच्छौचमाचामस्तु तदाचरेत् || १०० ||
शक्तिं विना पूजा विफला
शुचिः सावहितो भूत्वा भक्तिश्रद्धासमन्वितः |
संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् || १०२ ||
रक्तवस्त्रपरीधानां दीक्षितां चारुहासिनीम् |
विना शक्त्या तु या पूजा विफला नात्र संशयः || १०३ ||
तस्माच्छक्तियुतो वीरो भवेच्च यत्नपूर्व्वकम् |
या शक्तिः सा महादेवी हररूपस्तु साधकः || १०४ ||
अन्योन्यचिन्तनाच्चैव देवत्वमुपजायते |
प्राणं बिना यथा देही स्पन्दितुं नैव शक्यते || १०५ ||
शक्तिं विनापि पूजायां नाधिकारी भवेत्तदा |
हेतुयुक्तेन पूजा कार्या
विना द्रव्याधिवासेन न जपेन्न स्मरेत् सदा || १०६ ||
विना हेतुकमास्वाद्य क्षोभयुक्तो भवेन्नरः |
न पूजां न जपं कुर्यान्न ध्यानं न च चिन्तनम् || १०७ ||
तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् |
सत्यमेतद् विजानीयाद्वाक्यं शङ्करभाषितम् || १०८ ||
न क्रमच्युतिदोषोऽस्ति नाचारदोषदूषणम् |
न भुक्त्वा च न पीत्वा च न स्मरेन्न जपेत्तदा || १०९ ||
ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे |
आनन्देन विना यस्तु चण्डिकां परिपूजयेत् || ११० ||
रोगी दुःखी भवेत् सोऽपि मृते च नरकं व्रजेत् |
तस्मादादौ प्रकर्त्तव्यं सम्विदासवयोजनम् || १११ ||
संविदः श्रेष्ठत्वम्
सम्विदासवयोर्मध्ये सम्विदेव गरीयसी |
विजयाग्रहणं कृत्वा ध्यानं यः कुरुते नरः || ११२ ||
तदा ध्यानमयी मूर्तिः प्रत्यक्षा तस्य जायते |
सम्वित्प्रयोगस्तेनेह पूजादौ साधकोत्तमैः || ११३ ||
कर्त्तव्या च महापूजा करुणामयनन्दितैः |
तस्या भेदं प्रवक्ष्यामि यथार्थं तन्त्रवर्त्मना || ११४ ||
तस्या चातुर्विध्यम्
श्वेतपुष्पा च ब्रह्माणी रक्ता तु क्षत्रिया स्मृता |
वैश्या पीतप्रसूना च शूद्रा कृष्णप्रसूनिका || ११५ ||
तासां शोधनमन्त्राः
आसां शोधनमन्त्रञ्च कथयामि पृथक् पृथक् |
सम्विदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे || ११६ ||
भैरवाणाञ्च तृप्त्यर्थं प्रसन्ना भव सर्वदा |
ओं ब्रह्माण्यै नमः स्वाहा ब्रह्माणीं शोधयेदिति || ११७ ||
Seite 35 der Vorlage
सिद्धिमूलक्रिये देवि हीनबाधप्रबाधिनि |
राजप्रजावशङ्करि शत्रु कण्ठत्रिशूलिनि || ११८ ||
ओं ऐं क्षत्रियायै नमः स्वाहा क्षत्रियायाः स्मृतो मनुः |
अज्ञानेन्धनदीप्ताग्ने ज्ञानाग्ने ज्ञानरूपिणि || ११९ ||
आनन्दस्याहुतिं प्रीतिं सम्यग्ज्ञानं प्रयच्छ मे |
ह्रीं वैश्यायै नमः स्वाहा शूद्रां संशोधयेदथ || १२० ||
ओं नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि |
त्रैलोक्यविजये मातः समाधिफलदा भव || १२१ ||
क्लीं (श्रीं) शूद्रायै नमः स्वाहा कथितं मन्त्रमुत्तमम् |
ओं अमृते अमृतोद्भवे अमृतवर्षिणि पदन्ततः || १२२ ||
अमृतमाकर्षयद्वन्द्वं सिद्धिं देहि ततः परम् |
त्रैलोक्यं मे ततो ब्रूयाद्वशमानय तत्परम् || १२३ ||
द्विठान्तोऽयं मनुः प्रोक्तश्चतुष्काणाञ्च शोधने |
(अथवा)
हसक्षमलवरयूं हसरौञ्च ततः परम् || १२४ ||
आनन्दभैरवायेति वषडन्तः परो मनुः |
अनयोरेकतरेणैव विशोध्य विजयां ततः || १२५ ||
विजयाग्रहणविधिः
सप्तधा मूलमन्त्रञ्च तासामुपरि संजपेत् |
आवाहन्यादिमुद्राञ्च धेनुयोनिञ्च दर्शयेत् || १२६ ||
त्रितालछोटिकाभिश्च दिग्बन्धनं समाचरेत् |
Seite 36 der Vorlage
दिव्यदृष्ट्या पदाघातैर्विघ्नांश्च विनिवारयेत् || १२७ ||
सप्तधा तर्पयेन् मूर्ध्नि गुरुवर्ग सुसाधकः |
तत्त्वमुद्राविधानेन हृदि देवीं गणान्विताम् || १२८ ||
तर्पयित्वा महादेवीं शक्तिभ्योऽपि ददेत्ततः |
गृहीत्वा वामहस्तेन पठेदमुं मनुं ततः || १२९ ||
ऐं वदवदपदं प्रोक्त्वा वाग्वादिनि ततः परम् |
मम जिह्वाग्रे स्थिरेति भव सर्वपदं लिखेत् || १३० ||
सत्त्ववशङ्करि स्वाहा मन्त्रेण तदनन्तरम् |
स्वीकुर्यात् साधकश्रेष्ठो मुमुक्षुः प्रसमीक्षया || १३१ ||
विजयासेवनस्यानुकल्पकथनम्
मार्गशीर्षादिभिर्मासैः क्रमात् संसेव्यतां त्रिभिः |
दुग्धघृतमधुसुरावर्णानामनुपानकम् || १३२ ||
एककालं द्विकालं वा त्रिकालं पञ्चकालकम् |
क्रमात् संसेवनीया च सिद्धिदा सिद्धिमूलिका || १३३ ||
विजयासेवनस्यमन्त्रगुप्तिः
तथा तथा प्रकर्तव्यं सम्विदासवभोजनम् |
यथा यथा न हि भवेत् प्राकट्यं पशुमेलके || १३४ ||
निर्जने चैव कर्तव्यं सदैव गुरुसन्निधौ |
न पितुः सन्निधाने वा न मातुः सन्निधौ तथा || १३५ ||
किम्वा पक्षिपतङ्गानां दर्शने नैव कारयेत् |
कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपम् || १३६ ||
गुरुं कुलपतिञ्चैव कुलमालां कुलाकुलम् |
कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् || १३७ ||
प्रकाशात्सिद्धिहानिः स्यात् प्रकाशाद्बन्धनादिकम् |
प्रकाशान्मन्त्रनाशः स्यात् प्रकाशाद्देवहिंसनम् || १३८ ||
प्रकाशान्मृत्युलाभः स्यान्न प्रकाश्यं कदाचन |
पूजाकाले तु संप्राप्ते यदि कोऽप्यत्र गच्छति || १३९ ||
दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासं तथा स्तवम् |
प्रकाशाद्यदि गुप्तिः स्यात्तत्प्रकाशं न दूषणम् || १४० ||
Seite 38 der Vorlage
गोपनाद्यदि व्यक्तिः स्यान्न च व्यक्तिः कदाचन |
वरं पूजा न कर्तव्या न च व्यक्तिः कदाचन || १४१ ||
पूजाविधानम्
रक्तमाल्याम्बरधरो योषिद्युक्तो महाशयः |
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः || १४२ ||
देवो भूत्वा यजेद्देवं नादेवो देवमर्चयेत् |
अस्त्रेण गन्धपुष्पाभ्यां सुरभीकृतहस्तकः || १४३ ||
मार्जयेत् साधकश्रेष्ठो मूलमन्त्रं परस्परम् |
निर्मञ्छनं त्रिधा कृत्वा अस्त्रेण वामपाणिना || १४४ ||
क्षिपेत्तद्दूरतः पुष्पं मन्त्री नाराचमुद्रया |
अङ्गुष्ठाग्रे तु तर्जन्या संयोज्याधोर्ध्वरेखया || १४५ ||
अन्यांगुलीस्तथोर्ध्वञ्चनाराचः स्यात् प्रसार्यते |
ध्यात्वा गुरुं न्यसेद्वामे दक्षिणे गणपतिं तथा || १४६ ||
निजदेवीं ततः पश्चान्मध्यदेशे च साधकः |
पार्ष्णिघातकरास्फोट समुदञ्चितवक्रकैः || १४७ ||
Seite 39 der Vorlage
तत्र तालत्रयं दद्यात् सशब्दं सम्प्रदायतः |
प्राणायामविधानम्
प्राणायामैर्विना यस्य जपहोमार्चनादिकाः || १४८ ||
न भवन्त्येव सफला यत्नेनापि कृताः क्रियाः |
जपस्य पुरतः कार्यं प्राणायामं समाहितैः || १४९ ||
अन्यथा निष्फलाः सर्वा जपहोमार्चनादिकाः |
ऋतुचन्द्रैर्वेदरसैर्नेत्ररामैर्यथाक्रमम् || १५० ||
मात्राभिः प्रणवं जप्त्वा पूरकुम्भकरेचकैः |
वामा च मध्यमा चैव तथा दक्षिणनाडिभिः || १५१ ||
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् |
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना || १५२ ||
(यद्वा)
प्राणायामं ततः कुर्यान्मूलेन प्रणवेन वा |
उच्चारयंस्तु प्रणवं वामेनैकेन मन्त्रवित् || १५३ ||
उदरं पूरयित्वा तु वायुना यावदास्थितिः |
प्राणायामो भवत्येवं पूरको देहपूरकः || १५४ ||
पिधाय सर्वगात्राणि निश्वासोच्छ्वासवर्जितः |
सम्पूर्णकुम्भवत्तिष्ठेत् प्राणायाम स कुम्भकः || १५५ ||
मुञ्चेद्वायुं तथैकेन श्वासेनैकेन मन्त्रवित् |
निश्वासयोगयुक्तस्तु वायुं वाह्येन रेचयेत् || १५६ ||
रेचकस्त्वेव संप्रोक्तः प्राणायामो न संशयः |
जानुप्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् || १५७ ||
क्रियते चाङ्गुलिस्फोटं सा मात्रा परिकीर्तिता |
ततो द्वादशमात्राभिः पूरकः क्रियते बुधैः || १५८ ||
तस्माद् द्विगुणमात्राभिः क्रियते रेचकः शुचिः |
तस्माद् द्विगुणमात्राभिः क्रियते कुम्भकस्तथा || १५९ ||
भूतशुद्धिकथनम्
प्राणायामत्रयेणैवमेकैकं त्रितयात्मकम् |
लिङ्गं कार्यं हृदिस्थं तु चैतन्यं सर्वसाक्षिणम् || १६० ||
प्रणवेन विनिःसार्य ब्रह्मरन्ध्राद्बहिर्बुधः |
तेनैव संपुटीकृत्य मस्तकोपरि विन्यसेत् || १६१ ||
चैतन्यरहितं देहं बाह्यञ्चाभ्यन्तरं तथा |
नाभिमण्डलमध्यस्थं वायुमण्डलमध्यगम् || १६२ ||
यं बीजं धूषरं तप्तं ध्यात्वा तं तं विशोधयेत् |
अग्निमण्डलसंस्थेन रंबीजेनाग्निरूपिणा || १६३ ||
निर्दहेदथ तद्भस्मराशिदेहाकृतिर्भवेत् |
भ्रूमध्यस्थं हृदिस्थं वा ध्यायेद्वरुणमण्डलम् || १६४ ||
अर्धचन्द्राकृतिं श्वेतं पद्मद्वयसदक्षिणम् |
तत्रस्थेन वकारेण प्लावयेन्मधुरूपिणा || १६५ ||
जीवं पार्थिवं न्यस्य चिन्तयेद्धेममण्डलम् |
प्रणवेन द्विधाकृत्य तत्र चैतन्यरूपिणा || १६६ ||
मस्तकोपरि विन्यस्य चैतन्येन नियोजयेत् |
अमृतप्लावितः पिण्डः स मर्त्यो धौतकल्मषः || १६७ ||
आत्मानं चिन्तयेत् पश्चाद्देवतारुपिणं ततः |
प्राणायामञ्च कथितं भूतशुद्धिं तथापरम् || १६८ ||
अथवान्यप्रकारेण भूतशुद्धिश्च कथ्यते |
प्राणायामत्रयं कृत्वा भूतशुद्धिं ततश्चरेत् || १६९ ||
Seite 42 der Vorlage
भूतशुद्धिं विना पूजा विफला
भूतशुद्धिं विना कर्म जपहोमार्चनादिकम् |
तावत्तद्विफलं सर्वं प्रकाशेनाप्यनुष्ठितम् || १७० ||
भूतशुद्धिं विना यस्तु न्यासपूजां करोति हि |
न्यासजालं वृथा तस्य पूजा सा विफला भवेत् || १७१ ||
तस्मात्तु साधकश्रेष्ठो भूतशुद्धिं समाचरेत् |
मूलाधारात्ततः प्राणं ब्रह्ममार्गेण तान्त्रिकः || १७२ ||
हंसेन पुष्करस्थाने परमात्मनि योजयेत् |
संहारक्रमयोगेन पञ्चतत्त्वं समुद्धरेत् || १७३ ||
शोषदाहप्लवान् कृत्वा वायवग्निसलिलाक्षरैः |
अनेन विधिना मन्त्री भूतशुद्धिं समाचरेत् || १७४ ||
स्वदेहे देवताजीवन्यासः
आत्मानं देवतारूपं विभाव्य साधकोत्तमः |
स्वदेहे देवताजीवं विन्यसेत्तदनन्तरम् || १७५ ||
पुष्पैर्वानामया वापि मनसा वा न्यसेद्बुधः |
जीवन्यासे मनुः प्रोक्तो जीवन्यासेषु योजयेत् || १७६ ||
जीवन्यसमन्त्रः
मुखवृत्तं समुच्चार्य हंसस्तु विपरीतकः |
क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः || १७७ ||
अमुष्याः सर्वेन्द्रियाणि भूयोऽमुष्याः पदन्ततः |
वाङ्मनोनयनश्रोत्रघ्राणप्राणपदान्यथ || १७८ ||
पश्चादिहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् |
अथवा पाशबीजञ्च लज्जा चाङ्कुशमेव च || १७९ ||
प्राणमन्त्रं ततः पश्चाच्छेषं पूर्ववदाचरेत् |
जीवन्यासमनुः प्रोक्तो जीवन्यासेषु योजयेत् || १८० ||
ततः कुर्यात् स्वकल्पोक्तं न्यासादिकं सुसाधकः |
षडङ्गानाञ्च मुद्राञ्च स्थानञ्च मन्त्रमुच्यते || १८१ ||
त्रिद्व्येकदशरात्रिद्विसंख्याङ्गुलिगतक्रमात् |
हृदि मस्ते शिखायाञ्च कवचे लोचनास्त्रके || १८२ ||
नमः स्वाहा वषट् हुञ्च वौषट् फट् योजयेत् क्रमात् |
ऋषिश्छन्दश्च संयुक्तं देवताबीजशक्तिकम् || १८३ ||
कीलितं ङेयुतं सर्वं विन्यसेदेषु साधकः |
शिरोवदनहृद्गुह्यपादसर्वाङ्गके न्यसेत् || १८४ ||
अङ्गषट्कं ततः कुर्यात् पूर्वोक्तेनैव वर्त्मना |
पञ्चाशदक्षरन्यासे यद्विशेषस्तदुच्यते || १८५ ||
ललाटेऽनामिकामध्ये विन्यसेन्मुखवर्त्मके |
तर्जनीमध्यमानामा वृद्धानामा च नेत्रयोः || १८६ ||
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः |
मध्यास्तिस्रो गण्डयोश्च मध्यमामोष्ठयोर्न्यसेत् || १८७ ||
अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके |
मुखेऽनामां मध्यमाञ्च हस्ते पादे च पार्श्वयोः || १८८ ||
कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् |
ताः साङ्गुष्ठा नाभिदेशे सर्वाः कुक्षौ च विन्यसेत् || १८९ ||
हृदये च तलं पूर्वं अंशयोश्च ककुत्स्थले |
हत्पूर्वं हस्तपत् कुक्षिमुखेषु तलमेव च || १९० ||
एतास्तु मातृकामुद्राः क्रमेण परिकीर्त्तिताः |
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः || १९१ ||
पञ्चाशदक्षरन्यासः क्रमेणैव प्रकाशितः |
ओमाद्यन्त्यो नमोऽन्तो वा सबिन्दुर्बिन्दुवर्जितः || १९२ ||
मायालक्ष्मीबीजपूर्वा न्यस्तव्या उच्यते बुधैः |
अथवा केवलं सर्गबिन्दुयुक्तां कलान्विताम् || १९३ ||
तार्त्तीयरुद्रशक्त्यन्तां स्मरादिकेशरान्विताम् |
शक्तिपूर्वां श्रिया युक्तां सुधास्यां वा तनौ न्यसेत् || १९४ ||
शक्तिश्रीकामबीजान्तां वेदादिशक्तिमातृकाम् |
अजपा परमात्मा च द्विठप्रपञ्चयागकः || १९५ ||
रविसंख्यात्मिकां प्रोक्ता मातृकान्तस्वरूपिणीम् |
यस्य यत्र रुचिर्गच्छेत्तद्रूपात्तत्तनौ च ताम् || १९६ ||
विन्यस्य तन्मयो मन्त्री याति वागीश्वरीमयम् |
स्पृष्ट्वा वानामया वापि मनसा वा न्यसेद्बुधः || १९७ ||
ऋष्यादिव्यापकान्तञ्च स्वकल्पोक्तं समापयेत् |
प्राणायामादिभिर्न्यासैः आत्मशुद्धिश्च जायते || १९८ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये द्वितीयोल्लासः || २ ||
तृतीय उल्लसाआः
अन्तर्यागनिरूपणम्
आत्मशुद्धिं समाख्याता अन्तर्यागश्च कथ्यते |
अन्तर्यागविधिं कृत्वा बहिर्यागं समाचरेत् || १ ||
बहिर्यागे नाधिकारी अन्तर्यागविवर्जितः |
बहिर्यागफलं नास्ति विनान्तर्यजनं कदा || २ ||
तस्मात् प्रयत्नतो वीरश्चान्तर्यागं समारभेत् |
मानसपूजाकथनम्
शिवशक्तिसमायोगात् सुधावृष्टिं विधाय च || ३ ||
तर्पयित्वा महादेवीं पद्मे पद्मे सुसाधकः |
मूलाधारे समानीय सोऽहं सञ्चिन्तयेत्ततः || ४ ||
इत्यन्तर्यजनं प्रोक्तं सर्वसिद्धिप्रदायकम् |
यद्वान्तर्यजनं वक्ष्ये साधकस्य सुसिद्धये || ५ ||
स्वकीयहृदये ध्यायेत् सुधासागरमुत्तमम् |
रत्नद्वीपं तु तन्मध्ये सुवर्णबालुकामयम् || ६ ||
परितो भावयेन्मन्त्री पारिजातं मनोहरम् |
तत्र कल्पद्रुमं ध्यायेत् पञ्चाशदक्षरात्मकम् || ७ ||
तन्मूले भावयेन्मन्त्री नानारत्नोपशोभितम् |
उद्यदादित्यसङ्काशं व्याप्तं ब्रह्माण्डमण्डलम् || ८ ||
शतयोजनविस्तीर्णं ज्योतिर्मन्दिरमुत्तमम् |
चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् || ९ ||
बहुचामरघण्टादिवितानैरुपशोभितम् |
मन्दवायुसमाक्रान्तं गन्धधूपैरलङ्कृतम् || १० ||
तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभितम् |
सुवर्णसूत्ररचितं चिन्तयेच्छत्रमुत्तमम् || ११ ||
विभावयेन्महायन्त्रं पीयूषपूरपूरितम् |
पाद्यपात्रत्रयं कुर्यादर्घ्यपात्रत्रयं तथा || १२ ||
षडाचमनपात्राणि मधुपर्कत्रयं ततः |
एकं तु भोगपात्रं तु साधकः षोडशे दले || १३ ||
Seite 49 der Vorlage
सहस्रारामृतेनैव पात्राणि पूरयेत्तथा |
पीठपूजां ततः कुर्यात् स्वकल्पोक्तविधान्तः || १४ ||
पीठपूजाविधानम्
सर्वोपरि ततो ध्यायेत् पश्चिमाननपङ्कजम् |
स्रवन्तममृतं नित्यं दिव्याङ्गकमलान्तरे || १५ ||
शिवशक्तिसमायोगादमृतानन्दनन्दिनीम् |
स्वस्वरूपां समावाह्य परिवारगणैः सह || १६ ||
मानसपूजोपचाराः
मानसैरुपचारैश्च दीयते द्रव्यमुत्तमम् |
आसनं स्वागतं पृष्ट्वा कुशलं तदनन्तरम् || १७ ||
पाद्यं चरणयोर्दद्यान्मौलौ चार्घ्यं निवेदयेत् |
सहस्रदलभृङ्गाराल्लम्बिकानालविच्युतम् || १८ ||
परमामृतपानीयं भावपुष्पैः समन्वितम् |
स्वर्णपात्रे जलं कृत्वा दद्यादाचमनं मुखे || १९ ||
मधुपर्कं मुखे दद्यात् पुनराचमनीयकम् |
Seite 50 der Vorlage
चतुर्विंशतितत्त्वेन गन्धं दद्याद्विचक्षणः || २० ||
स्वयम्भुकुसुमं दद्यात् कुङ्कुमं रक्तचन्दनम् |
सप्ताष्टभावपुष्पैश्च संपूज्य धूपदीपकम् || २१ ||
मनःकल्पितनैवेद्यं दद्याद्देव्यै मनोरमम् |
तर्पयेच्च त्रिधा देवीं यथोक्तविधिना ततः || २२ ||
षडङ्गं गुरुपङ्क्तिञ्च पूजयेदङ्गदेवताः |
पूजयित्वा प्रयत्नेन स्नानीयं दापयेद्यथा || २३ ||
स्ववामे मण्डलं कृत्वा रत्नसिंहासनान्वितम् |
तत्र देवीं समानीय नानागन्धसमन्वितम् || २४ ||
उद्वर्तनादिकं कृत्वा तैलं नारायणादिकम् |
दत्त्वा देव्यै प्रयत्नेन स्नानीयं दापयेत्ततः || २५ ||
सुवर्णकोटिकुम्भैश्च गन्धतोयसमन्वितैः |
नानातीर्थजलेनैव स्नापयेत् परदेवताम् || २६ ||
दुकुलैर्मार्जितं गात्रं दुकूलं परिधापयेत् |
नयने तेजसस्तत्त्वं प्रोञ्छयेत्तेन वै तनुम् || २७ ||
आकाशतत्त्वं श्रोत्रे च तेन वस्त्रं प्रकल्पयेत् |
विधिवद्वन्दनं कृत्वा केशसंस्कारमाचरेत् || २८ ||
Seite 51 der Vorlage
नानारत्नसमायुक्तकङ्कत्या साधकोत्तमः |
पट्टगुच्छं केशपाशे नानारत्नसमाकुलम् || २९ ||
ललाटे तिलकं दद्यात् सिन्दूरं केशमध्यके |
नागेन्द्रदन्तरचितं शङ्खं दद्यान्मनोहरम् || ३० ||
हस्ते केयूरकञ्चैव कङ्कणं कटकन्तथा |
पादाङ्गुरीयकं दद्यान्नानारत्नोपशोभितम् || ३१ ||
पादयोर्नूपूरं दद्यात् कट्याञ्च क्षुद्रघण्टिकाम् |
शिरोरत्नं प्रदद्याच्च मुकुटं रत्ननिर्मितम् || ३२ ||
ताटङ्ककुण्डलं कर्णभूषणं सुपरिष्कृतम् |
नयने कज्जलं दद्यान्नासाग्रे गजमौक्तिकम् || ३३ ||
ग्रीवापत्रं कण्ठभूषां मुक्तामणिविभूषितम् |
आनन्दहारत्रितयं अङ्गुरीयकरत्नकम् || ३४ ||
Seite 52 der Vorlage
सर्वाङ्गलेपनं कार्यं गन्धचन्दनसिह्लकैः |
काञ्चनाञ्चितकञ्चूलीमलक्तं रदनच्छदे || ३५ ||
सुवर्णपादुकां दत्त्वा प्रवालदन्तचिह्निताम् |
मण्डपेषु समानीय रत्ननिर्मितदोलया || ३६ ||
पुनः पाद्यादिकं दत्त्वा पूजयेत्तां सनातनीम् |
गन्धादिकं ततो दत्त्वा भावपुष्पैः प्रपूजयेत् || ३७ ||
मानसपुष्पनामानि
अमायमनहङ्कारमरागममदं तथा |
अमोहकमदम्भञ्च अद्वेषाक्षोभकौ तथा || ३८ ||
अमात्सर्यमलोभञ्च दशपुष्पं विदुर्बुधाः |
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहम् || ३९ ||
दयापुष्पं क्षमापुष्पं ज्ञानपुष्पञ्च पञ्चमम् |
इति पञ्चदशैर्भावपुष्पैः संपूजयेच्छिवाम् || ४० ||
करवीरं जवा द्रोणं चम्पकं नागकेशरम् |
अपराञ्च कदम्बञ्च पारिजातादिकं तथा || ४१ ||
दद्याद्देव्यै प्रयत्नेन माल्यं गन्धसमन्वितम् |
सुमेखलां पद्ममालां पुष्पं नानाविधं तथा || ४२ ||
Seite 53 der Vorlage
सप्तद्वीपसमुद्भूतं दद्याद्देव्यै सुसाधकः |
कुण्डगोलोद्भवञ्चैव धूपं दद्यात् समीरणम् || ४३ ||
सहस्रारकर्णिका पात्रं तैलं स्याच्च परामृतम् |
मूलाधारे वर्त्तिरूपं चिदग्निः स्यात् प्रदीपकम् || ४४ ||
आमूलाद्ब्रह्मरन्ध्रान्तं सुषुम्नाहतवायुना |
अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् || ४५ ||
नैवेद्यं षड्रसोपेतमम्बरं चामरं तथा |
सूर्यञ्च दर्पणञ्चन्द्रमण्डलं छत्रमुत्तमम् || ४६ ||
सुधाम्भोधिं मांसशैलं मत्स्यराशिं फलानि च |
सुपक्वञ्चरुकञ्चैव घृताक्तं परमान्नकम् || ४७ ||
भक्ष्यभोज्यं तथा चोष्यं लेह्यं पेयञ्च चर्वणम् |
दद्याच्छेषार्घ्यंतोयेन पुनराचमनीयकम् || ४८ ||
बाह्यचक्रं ततो दद्यान्मूलाधारोत्थवायुना |
रजःसत्त्वगुणाढ्यञ्च कर्पूरचूर्णामिश्रितम् || ४९ ||
रत्नपात्रे परिष्कृत्य ताम्बूलञ्च निवेदयेत् |
तर्पयित्वा पुनर्देवीं पूजयेच्चाङ्गदेवताः || ५० ||
विधाय तर्पणं तेषां देवीं संपूजयेत् पुनः |
विधिवत् पूजनं कृत्वा तर्पयेत्तदनन्तरम् || ५१ ||
अन्तर्मातृकया जप्ता समर्प्य च स्तुतिं पठेत् |
पुष्पशययाञ्च संस्कुर्यात्तत्र देवीं सुरेश्वरीम् || ५२ ||
मनोनर्त्तकतालैश्च शृङ्गारादिरसोद्भवैः |
गीतैर्नानाविधैर्देवीं तोषयेत् साधकोत्तमः || ५३ ||
तस्मात् कामेश्वरी देवी प्रीता कामेश्वरश्च सः |
मनस्यैक्यं विभाव्याथ साधकः सिद्धिभाग् भवेत् || ५४ ||
इत्यन्तर्यजनं प्रोक्तं भुक्तिमुक्तिप्रदायकम् |
रक्तपद्मसहस्राणि मनसा यः प्रयच्छति || ५५ ||
कल्पकोटिसहस्राणि कल्पकोटिशतानि च |
स्थित्वा देवीपुरे श्रीमान् ततो राजा क्षितौ भवेत् || ५६ ||
Seite 55 der Vorlage
मनसापि महादेव्यै नैवेद्यं दातुमिच्छति |
यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखीभवेत् || ५७ ||
मन्सापि च यो भक्त्या देव्यै कुर्यात् प्रदक्षिणम् |
देवीगृहे वसेत् सोऽपि नरकाणि न पश्यति || ५८ ||
नमनं मनसा देव्यै यो भक्त्या कुरुते नरः |
सोऽपि लोकान् विजित्याशु शिवलोके महीयते || ५९ ||
प्रकारान्तर्यजनम्
अथान्तर्यजनं वक्ष्ये दृष्टादृष्टफलप्रदम् |
गुरुध्यानं प्रकुर्वीत यथापूर्वं विशालधीः || ६० ||
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते |
बिन्दुतीर्थेऽथवा स्नायात् पुनर्जन्म न विद्यते || ६१ ||
इडासुषुम्ने शिवतीर्थकेऽस्मिन्
ज्ञानाम्बुपूर्णे वहतः शरीरे |
ब्रह्माम्बुभिः स्नाति तयोः सदा यः
किं तस्य गाङ्गैरपि पुष्करैर्वा || ६२ ||
Seite 56 der Vorlage
इति स्नानं समुद्दिष्टमथ सन्ध्यां समाचरेत् |
सन्ध्यानिरूपणम्
शिवशक्त्योः समायोगो यस्मिन्काले प्रवर्तते || ६३ ||
सा सन्ध्या कुलनिष्ठानां समाधिस्थैः प्रगीयते |
चन्द्रार्कानलसंघट्टाद्गलितं यत् परामृतम् || ६४ ||
तेनामृतेन दिव्येन तर्पयेत् परदेवताम् |
तर्पणं कथितं दिव्यमर्घ्यसाधनमुच्यते || ६५ ||
ब्रह्मरन्ध्रादधोभागे यच्चान्द्रं पात्रमुत्तमम् |
कलासारेण संपूर्य तर्पयेत्तेन खेचरीम् || ६६ ||
प्रसङ्गतः षट्चक्रकथनम्
आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे
द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के |
वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वरांश्च
हक्षौ कोदण्डमध्ये न्यसतु विमलधीर्न्याससम्पत्तिसिद्धौ || ६७ ||
Seite 57 der Vorlage
इत्यन्तर्मातृकावर्णान् ध्यायेत् कण्ठच्छदक्रमात् |
षडङ्गमथ कुर्यात्तु येन देवीमयो भवेत् || ६८ ||
हन्यमानहृदर्थोऽयं हृदयं स्याच्चिदात्मकम् |
क्रियते तत् परत्वेन हृन्मन्त्रेण ततः परम् || ६९ ||
सर्वाङ्गादिगुणोत्तुङ्गे सम्विद्रूपे परात्मनि |
क्रियते विषयाहारः शिरोमन्त्रेण देशिकैः || ७० ||
हृच्छिवो रूपं चिद्धाम ममता भावना दृढा |
क्रियते निजदेहस्य शिखामन्त्रेण देशिकैः || ७१ ||
मन्त्रात्मकस्य देहस्य मन्त्रवाच्येन तेजसा |
सर्वतो मन्त्रवर्णेन क्रियते तस्य संवृतिः || ७२ ||
Seite 58 der Vorlage
यद्ददाति परं ज्ञानं संविद्रूपे परात्मनि |
हृदयादिमयं तेजः स्यादेतन्नेत्रसंज्ञितम् || ७३ ||
आध्यात्मिकादिरूपं यत् साधकस्य विनाशयेत् |
अविद्याजातमन्त्रं तत् परं धाम समीरितम् || ७४ ||
इति न्यासं विधायाथ ततो ध्यायेच्चिदात्मकम् |
शक्तिद्वयपुटान्तःस्थहलक्षत्रयसंस्थितम् || ७५ ||
ज्योतिन्तत्त्वमयं ध्यायेत् कुलाकुलनियोजनात् |
अथ शृङ्गाटमध्यस्थशक्तिद्वयपुटीकृतम् || ७६ ||
सदा समरसं ध्येयं ध्यानं तत् कुलयोगिनाम् |
(यद्वा)
किरणस्थं तदग्रस्थं चन्द्रभास्करमध्यगम् || ७७ ||
महाशून्ये लयं कृत्वा पूर्णस्तिष्ठति योगिराट् |
निरालम्बे पदे शून्ये यत्तेज उपजायते || ७८ ||
तद्गर्भमभ्यसेन्नित्यं ध्यानमेतद्धि योगिनाम् |
अथ पूजां प्रवक्ष्यामि यथातन्त्रानुसारतः || ७९ ||
भगवती पूजाविधि
अर्चयन् विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् |
न्यासस्तन्मयताबुद्धिः सोऽहंभावेन पूजयेत् || ८० ||
पूर्वोक्तभावपुष्पानि दद्याद्देव्यै सुसाधकः |
अथ वक्ष्ये जपं तत्र पद्मस्थवर्णमालया || ८१ ||
जपविधानम्
माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिशिवात्मकम् |
ग्रथिता कुण्डलीशक्तिः कलान्ते मेरुसंस्थितिः || ८२ ||
सबिन्दुं वर्णमुच्चार्यय मूलमन्त्रं स्मरेत्ततः |
अनुलोमविलोमाभ्यां यथाशक्ति जपञ्चरेत् || ८३ ||
जप्त्वा समर्पयेत् पश्चात् स्वकल्पोक्तविधानतः |
स्तुतिभिः सकलं तत्र समर्पणं पुनः पुनः || ८४ ||
होमविधिकथनम्
अथ होमविधिं वक्ष्ये येन चिन्मयतां लभेत् |
आत्मानमपरिच्छिन्नं ज्ञातव्यं साधकोत्तमैः || ८५ ||
Seite 60 der Vorlage
आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्तिताः |
एतद्रूपन्तु चित् कुण्डं चतुरस्रं विभावयेत् || ८६ ||
आनन्दमेखलारम्यं बिन्दुत्रिबलयान्वितम् |
अर्धमात्रायोनिरूपं ब्रह्मानन्दमयं भवेत् || ८७ ||
परदेवमये सर्वज्ञानदीपविजृम्भिते |
सम्विदग्नौ हुनेद्धव्यं साधकः स्थिरमानसः || ८८ ||
शब्दाख्यं मातृकारूपमक्षवर्णविराजितम् |
अक्षराणि हुतान्यत्र निःशब्दं ब्रह्म जायते || ८९ ||
कृत्याकृत्ये पापपुण्ये सङ्कल्पांश्च विकल्पकान् |
धर्माधर्मौ साधकेन्द्रो हविस्त्वेन प्रकल्पयेत् || ९० ||
मानसहोमः
चिदग्नौ जुहुयान्मन्त्री मूलान्तेन यथाक्रमात् |
नाभिमण्डलचैतन्यरुपाग्नौ मनसा श्रुचा || ९१ ||
ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम् |
वह्निजायान्तमन्त्रेण दद्याच्च प्रथमाहुतिम् || ९२ ||
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा श्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यमहम् || ९३ ||
वह्निजायान्तमन्त्रेण द्वितीयाहुतिमाचरेत् |
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीश्रुचा || ९४ ||
धर्माधर्मौ कलास्नेहपूर्णवह्नौ जुहोम्यहम् |
वह्निजायान्तमन्त्रेण तृतीयामाहुतिञ्चरेत् || ९५ ||
अन्तर्निरन्तरनिबन्धनमेधमाने मायान्धकारपरिपन्थिनि सम्विदग्नौ |
कस्मिंश्चिदद्भुतमरीचिविकाशि भूमौ
विश्वं जुहोमि वसुधादिशि वावसानम् || ९६ ||
इदन्तु पात्रभरितं महोत्तापपरामृतम् |
पूर्णाहुतिमये वह्नौ पूर्णहोमं जुहोम्यहम् || ९७ ||
इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् || ९८ ||
महान्तर्यजनं वक्ष्ये ब्रह्मयज्ञस्वरूपकम् || ९९ ||
महान्तर्यजनम्
ब्रह्मयज्ञं महायज्ञं ब्रह्मज्ञानी यजेत् सदा |
मनसा च मनो दृष्ट्वा यथा सिन्धुगता नदी || १०० ||
तथा सर्वशरीराणि महाशून्ये नियोजयेत् |
यज्ञकर्त्ता महायोगी सर्वमन्त्रं जपेत् पुनः || १०१ ||
Seite 62 der Vorlage
आत्मस्थः सर्वयज्ञस्तु बहिर्यज्ञविवर्जितः |
कर्मयज्ञो मनोयज्ञः प्राणयज्ञो हुताशनः || १०२ ||
मन्त्रयज्ञः सुषुम्नान्तः सर्वयज्ञफलं लभेत् |
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् || १०३ ||
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना |
ब्रह्मवत् सर्वमार्गेषु सर्वकर्म समभ्यसेत् || १०४ ||
बहिर्यागविधानम्
अथ वक्ष्ये बहिर्यागविधानं तन्त्रवर्त्मना |
एषामन्यतमं कृत्वा यन्त्रराजं समालिखेत् || १०५ ||
चक्रराजलेखनविधिः
स्वार्णे वा राजते ताम्रे पाषाणे चाष्टधातुषु |
(यद्वा)
गण्डकीतीरपाषाणे तथैव रुचिपीठके || १०६ ||
श्रीखण्डसम्भवे पीठे रक्तचन्दनसम्भवे |
यद्वा सुवर्णरूप्यादौ ताम्रे वा दर्पणे तथा || १०७ ||
काश्मीरप्रभवे भूमौ यन्त्रं कुर्याद् यथाविधि |
गोमयेन च संलिप्ते भूप्रदेशे मनोरमे || १०८ ||
सिन्दूररजसा वापि रक्ताभिः कुङ्कुमस्य वा |
(यद्वा)
शुद्धे समे भूर्जपत्रे अथवान्ये ताम्रपट्टके || १०९ ||
शुष्के समे भूगृहे वा स्फटिके स्वर्णपट्टके |
रत्ने वा कुलशक्तौ वा यन्त्रं कुर्यात् सुसाधकः || ११० ||
पट्टालकं बिलिप्येत वक्षमाणैकवस्तुना |
स्वयम्भु कुसुमं कुण्डगोलोत्थं रोचनागुरुं || १११ ||
काश्मीरं मृगनाभिञ्च मद्यञ्च मलयोद्भवम् |
एष गन्धः समाख्यातः सर्वदा चण्डिकाप्रियः || ११२ ||
एतेन गन्धयोगेन चक्रराजं समालिखेत् |
(यद्वा)
स्वयम्भुकुसुमेनैव कुण्डगोलेन वा पुनः || ११३ ||
तदा तस्य सर्वसिद्धिर्जायते नात्रसंशयः |
(यद्वा)
चन्दनागुरुचन्द्रेण सिन्दूररजसापि वा || ११४ ||
कस्तूरीघुसृणैर्द्रव्यै रोचनालाक्षयापि वा |
(यद्वा)
कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भुकुसुमेन च || ११५ ||
Seite 64 der Vorlage
रोचनालाक्षया युक्तैः कुङ्कुमागुरुचन्दनैः |
सुवर्णरत्न लेखन्या सर्वकार्यार्थसिद्धये || ११६ ||
(यद्वा)
पुष्पेण विलिखेद्वापि यन्त्रराजं सुसाधकः |
चन्द्रसूर्यातपं या वा अथवा बिल्वकण्टकैः || ११७ ||
चन्द्रसूर्यातपहोमोद्भवया विल्वकण्टकैः |
एषामेकतमं लब्धा स्वीययन्त्रं समुद्धरेत् || ११८ ||
सार्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् |
तत् फलं लभते वीरः कृत्वेष्टचक्रदर्शनम् || ११९ ||
नालोच्य कुलजं वर्त्म न ज्ञात्वा सूत्रधारणं |
न ज्ञात्वा सुषमां रेखां नालिख्य सुषमं मुखं || १२० ||
तस्य सर्वं हरेद्देवो योऽस्मिन् यन्त्रे प्रपूजकः |
अथ वक्ष्ये च शाक्तानां सामान्यं यन्त्रमूत्तमम् || १२१ ||
सामान्ययन्त्रनिर्माणविधिः
यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते |
करवीरे रक्तशुक्ले द्रोणे वा यन्त्रराजके || १२२ ||
तत्र देवी वसेन्नित्यं तद्यन्त्रे चण्डिकार्चनं |
पशोरालोकनं न स्यात्तथा कुर्यात् प्रयत्नतः || १२३ ||
यदि दैवात् पशोरग्रे लिखनं विद्यते क्वचित् |
देव्यङ्गक्षतिरेवात्र क्रियते पापबुद्धिना || १२४ ||
उत्तराशामुखो भूत्वा यदा चक्रं समुद्धरेत् |
उत्तराशा तदा सापि पूर्वाशैव न संशयः || १२५ ||
Seite 66 der Vorlage
ईशकोणं तदेव स्यादाग्नेयञ्च न संशयः |
पश्चिमाशामुखो मन्त्री यथाचक्रं समुद्धरेत् || १२६ ||
पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः |
वायुकोणं तदाग्नेयमीशानं राक्षसं भवेत् || १२७ ||
दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् |
पूर्वाशैव तदा सा दिक् रक्षःकोणन्तु वह्निकम् || १२८ ||
पूर्वाशाभिमुखो भूत्वा यदा चक्रं समुद्धरेत् |
पूर्वाशापि तदा ज्ञेया पूर्वाशैव न संशयः || १२९ ||
आग्नेयञ्च तथाग्नेयं ईशकोणञ्च ईशकम् |
यदाशाभिमुखो मन्त्री पूजयेच्चण्डिकां शुभाम् || १३० ||
पूर्वाशैव सा विज्ञेया साधकेन महात्मना |
देवीपश्चात् प्रतीची स्यात् प्राची तु चण्डिकापुरः || १३१ ||
अन्येषाञ्चैव देवानां विधिश्चात्र प्रकथ्यते |
पूज्यपूजकयोरन्तः पूर्वाशैव निगद्यते || १३२ ||
लिखित्वा पुरतो यन्त्रं स्थापयेदासनोपरि |
सीसके कांश्यपात्रे वा रङ्गे वा साधकोत्तमः || १३३ ||
फलकायां पटे भित्तौ स्थापयेन्न कदाचन |
स्थापितं यदि लोभेन मोहेनाज्ञानतोऽपि वा || १३४ ||
कुलं वित्तमपत्यञ्च निर्मूलं याति सर्वथा |
पुष्पं तत्र विनिक्षिप्य गन्धचन्दनसंयुतम् || १३५ ||
अशून्यं स्थापयेच्चक्रं शून्ये विघ्नसमो भवेत् |
स्वकल्पोक्तविधानेन देवीं ध्यात्वा सुसाधकः ||
आत्माभेदेन संभाव्य पुष्पं दद्यात् स्वमूर्द्धनि || १३७ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये तृतीयोल्लासः || ३ ||
चतुर्थ उल्लासः
मन्त्रविधानम्
अथ वक्ष्ये च मन्त्राणां विधानं यत्र यद्भवेत् |
देवताभेदे वामदक्षिणभेदेन पूजाविधिः
बालां वा त्रिपुरां देवीं सव्यां वाप्यथ भैरवीम् || १ ||
कामेश्वरीञ्च कामाख्यां पूजयेच्च यथेच्छया |
दाक्षिण्याद्वामभावाद्वा सर्वथा सिद्धिमाप्नुयात् || २ ||
महामायां शारदाञ्च शैलपुत्रीं तथाम्बिकाम् |
यथा तथा प्रकारेण वामदक्षिणतो यजेत् || ३ ||
श्मशानभैरवीं कालीं उग्रताराञ्च पञ्चमीम् |
उच्छिष्टभैरवीञ्चैव तारां त्रिपुरसुन्दरीम् || ४ ||
उन्मुखीञ्चैव दुर्गाञ्च मर्दिनीं स्वप्नबोधिनीम् |
एतास्तु वामभावेन पूज्या दक्षिणतां विना || ५ ||
सिद्धिर्न जायते दक्षाल्लक्षजन्म यजेद् यदि |
वामात् सर्वसमृद्धिः स्याद्देव्याः प्रियतरो भवेत् || ६ ||
दक्षिणेन लभेच्छापं मृते नरकमाप्नुयात् |
ब्रह्मापि च भवेद्वामो विष्णुश्चैव सदाशिवः || ७ ||
विष्णोश्च वामिका मूर्त्तिर्नारसिंहान्वयो भवेत् |
सा तु दक्षिणवामाभ्यां पूजनीया प्रयत्नतः || ८ ||
तथैव बालगोपालमूर्त्तिर्या परमात्मनः |
मत्स्यमांसासवाभोगी लोलुपः स्त्रीषु सर्वदा || ९ ||
गणेशोऽपि च वेतालः कथितो वामनायकः |
भैरवोऽपि भवेद्वामस्तथान्ये देवतादयः || १० ||
एतास्तु वामभावेन पूजनीया विशेषतः |
अन्याश्च चण्डिकादेव्या बालिकामूर्तयः स्मृताः || ११ ||
लक्ष्म्याद्या वामिकामूर्ती रक्ता च दशभैरवी |
वाग्भवी च सरस्वत्या बालिकामूर्तिरीरिता || १२ ||
वामभावेन सिद्धिः स्याद्दाक्षिण्येन विना कदा |
पूजकोऽपि भवेद्वामस्तथैव सततं गुरुः || १३ ||
यजेच्च मांसमत्स्येन मैथुनाद्यैर्विशेषतः |
महाभैरवरूपेण तथा च रतिसङ्गमे || १४ ||
नान्यथा जायते सिद्धिर्मन्त्राणाञ्च सुनिश्चितम् |
अथातः संप्रवक्ष्यामि पञ्चतत्त्वविनिर्णयम् || १५ ||
पञ्चतत्त्वविधानम्
अथ वक्ष्ये च पञ्चानां विधानं तन्त्रवर्त्मना |
पञ्चामात्तु परं नास्ति शाक्तानां सुखमोक्षयोः || १६ ||
केवलैः पञ्चमैरेव सिद्धो भवति साधकः |
केवलेनाद्ययोगेन साधको भैरवो भवेत् || १७ ||
द्वितीयेन च तत्त्वेन पूजको ब्रह्मरूपभाक् |
केवलेन तृतीयेन महाभैरवतां व्रजेत् || १८ ||
चतुर्थेन तु तत्त्वेन भुवि पूजकनायकः |
परेण परतां याति शिवतुल्यः स साधकः || १९ ||
Seite 71 der Vorlage
पञ्चमेन भवेद्भोगी सर्वसिद्धिपरायणः |
यस्य भवेद्यदा नित्यं पञ्चतत्त्वस्य सम्भवः || २० ||
पञ्चतत्त्वे भवेद्वीरः शिववन्द्यः स साधकः |
पञ्चतत्त्वविहीना पूजा निष्फला
पञ्चमेन विना देवीं पञ्चमीं पूजयेत्तु यः || २१ ||
स तु स्याड्डाकिनीभोग्यो नारकी ब्रह्मघातकः |
अन्यमूर्तेस्तु दुर्गायाः पञ्चमेन विना सदा || २२ ||
निश्चितं नैव सिद्धिः स्याज्जपहोमाश्च तर्पणात् |
तद्विहीनस्य या पूजा जपं वा तर्पणं पुनः || २३ ||
रौरवाय भवत्येव तस्य भ्रष्टस्य निश्चितम् |
चण्डिकां पूजयेद्यस्तु विना पञ्चमकारकैः || २४ ||
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशोधनं |
मकारपञ्चकं चैव देवताप्रीतिकारकम् || २५ ||
पञ्चमेन तु वीरेन्द्रः सर्वपापैः प्रमुच्यते |
मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च || २६ ||
मकारपञ्चकं देवि देवताप्रीतिदायकम् |
विना पञ्चोपचारं हि देवीपूजां करोति यः || २७ ||
योगिनीनां भवेद्भक्ष्यः पापञ्चैव पदे पदे |
Seite 72 der Vorlage
विना मांसेन मद्येन ना से नं श्च वि ली व पुम् || २८ ||
न मन्त्रसिद्धिमाप्नोति तस्माद् यत्नपरो भवेत् |
प्रमादाद्यदि लुप्येत देवताशापमाप्नुयात् || २९ ||
यथाविधि यजेद्देवीं मकारपञ्चकैः सदा |
तृप्त्यर्थं सर्वदेवानां तत्त्वज्ञानोद्भवाय च || ३० ||
मद्यादिलक्षणविधानम्
तेषाञ्च लक्षणं वक्ष्ये शोधनञ्च क्रमेण तु |
मद्यस्य लक्षणं वक्ष्ये साधकानां हिताय च || ३१ ||
सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टकैः |
त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः || ३२ ||
मधुभिः सर्ववर्णैश्च पूजिता द्वापरे युगे |
पूजनीया कलौ देवी केवलैरासवैश्च तैः || ३३ ||
चतुर्युगेषु संपूज्या तुरीयैरासवैः सदा |
तत्तु नानाविधं द्रव्यं कथ्यते तन्त्रवर्त्मना || ३४ ||
वार्क्षं गौडं तथा पौष्पं क्षौद्रं फलसमुद्भवम् |
Seite 73 der Vorlage
सर्वोत्कृष्टन्तु विज्ञेयं द्रव्यमन्नेन सम्भवम् || ३५ ||
(अथवा)
पत्रपुष्पाङ्कुरफलमूलवल्कलधान्यजम् |
रसं वृक्षलताजातमैक्षवं दशविधं स्मृतम् || ३६ ||
पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् |
मधूत्थं सीधु माध्वीकं मैरेयं नारिकेलजम् || ३७ ||
मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च |
द्वादशन्तु सुरामद्यं सर्वेषामुत्तमोत्तमम् || ३८ ||
मधुपुष्परसोद्भूतमासवं तण्डुलोद्भवम् |
सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिणी || ३९ ||
माध्वी मुक्तिकरी प्रोक्ता खार्जूरी रिपुनाशिनी |
नारिकेलोद्भवा श्रीदा ऐक्षवं सुखवर्द्धनम् || ४० ||
अन्यत्रापि
गौडी पिष्टकजाततालतरुजा द्राक्षी च माध्वी तथा
खार्जूरी नवनारिकेल तरुजा गौडी च भोगप्रदा |
पैष्टी सिद्धिकरी विपक्षदलनी ताली च द्राक्षी शुभा
अन्या या विहिता सदा शुभकरी मोक्षप्रदाः सप्तिकाः || ४१ ||
Seite 74 der Vorlage
अपक्वैश्च सुपक्वैश्च द्रव्यैरमृतसन्निभैः |
तर्पणं परमेशान्याः सर्वकामफलप्रदम् || ४२ ||
पञ्चशुद्धिविधानम्
आत्मस्थानमनुद्रव्यदेहशुद्धिञ्च पञ्चमीम् |
यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः || ४३ ||
असंस्कृतं पिबेद् द्रव्यं बलात्कारेण मैथुनम् |
स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् || ४४ ||
संशोधनमनाचर्य स्त्रीषु मद्येषु साधकः |
कृतेऽपि सिद्धिहानिः स्यात् क्रुद्धा भवति चण्डिका || ४५ ||
सुराशोधनकथनम्
तस्मात् संशोधनं वक्ष्ये यथा तन्त्रानुसारतः |
वामभागे च षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् || ४६ ||
तद्बाह्ये मण्डलं कृत्वा चतुरस्रं समालिखेत् |
सामान्यार्घ्यजलेनैव प्रोक्षयेन्मण्डलं ततः || ४७ ||
Seite 75 der Vorlage
अभ्यर्च्याधारशक्तिञ्च कुम्भस्याधारमास्तरेत् |
तत्र संपूजयेद्वह्निमण्डलं तदनन्तरम् || ४८ ||
कुम्भनिर्माणविधिः
तत्र संस्थापयेत् कुम्भं सौवर्णं राजतं तथा |
ताम्रं भूमिमयंवापि यद्वा लौहविवर्जितम् || ४९ ||
सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदं भवेत् |
कांस्यं शान्तिकरञ्चैव मृण्मयं पुष्टिदं तथा || ५० ||
पञ्चाशदङ्गुलायाम उत्सेधः षोडशाङ्गुलः |
कलसानां प्रमाणं तु मुखमष्टाङ्गुलं भवेत् || ५१ ||
एषामेकतमं कुम्भं अस्त्रेण क्षालितं ततः |
आधारे स्थापयित्वा तु पूजयेत् सूर्यमण्डलम् || ५२ ||
ततश्च कारणैर्दिव्यैः पूरयेन्मूलमुच्चरन् |
भूषयेद्रक्तपुष्पेण रक्तमाल्येन साधकः || ५३ ||
Seite 76 der Vorlage
रक्तवस्त्रेण संवेष्ट्य लेपयेद्रक्तचन्दनैः |
सोममण्डलमभ्यर्च्य अमृतं परिभाव्य च || ५४ ||
चतुरस्रादिका पञ्चमुद्राः
विभावयेत्ततो द्रव्यमिष्टदेवस्वरूपकम् |
प्रणमेद्भक्तिभावेन मुद्राभिः पञ्चसंज्ञकैः || ५५ ||
अधोमुखौ समौ कृत्वा भूमौ पाणितलद्वयम् |
सकलाङ्गुलिभिः सम्यङ्मुद्रेयं चतुरस्रिका || ५६ ||
अधोमुखं मुष्टियुग्मं संवृत्तं परिकीर्त्तितम् |
अन्योन्याभिमुखौ हस्तौ पुटाकारेण कारयेत् || ५७ ||
संपुटाख्यमहामुद्रा योजिता नतिकर्मणि |
एतस्या एव मुद्रायाः कनिष्ठामूलदेशके || ५८ ||
अङ्गुष्ठौ च क्षिपेत्तत्र संपुटाञ्जलिरीरिता |
मध्यमे सरले कृत्वा तर्जन्युपरि संस्थिते || ५९ ||
अनामिकामध्यगते तथैव हि कनिष्ठिके |
सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिता || ६० ||
एषा तु परमा मुद्रा योनिमुद्रा प्रकीर्तिता |
पञ्चमुद्रामन्त्रकथनम्
ह्रां नमश्चतुरस्रं स्यात् ह्रीं नमः संवृतस्तथा || ६१ ||
क्लां नमः संपुटं ज्ञेयं ब्लुं नमः संपुटाञ्जलि |
सः नमो योनिमुद्रा स्यात् पञ्चमुद्राः प्रकीर्तिताः || ६२ ||
भक्त्या विलोकयेद्द्रव्यं मूलमन्त्रं समुच्चरन् |
प्रणवं वरुणं सेन्दु वामदेवञ्च ङेयुतम् || ६३ ||
वौषडन्तं समुच्चार्य पूजयेत् यन्त्रमुत्तमम् |
विषं कूर्चं ततः पशुपतये तदनन्तरम् || ६४ ||
अस्त्राय वर्मबीजञ्च फट्कारान्तः परो मनुः |
अनेनादौ प्रपूज्यैव पथिकस्य बलिं हरेत् || ६५ ||
त्रिकोणवृत्तभूगेहं लिखेत् कुम्भसमीपतः |
सिन्दूरकुङ्कुमाभ्याञ्च सर्वपथिकदेवताः || ६६ ||
तत्र संपूजयित्वा च बलिं दद्यात्ततः परम् |
सहेतुं सामिषान्नञ्च निधाय मनुमुद्धरेत् || ६७ ||
मायां लक्ष्मीं समुद्धृत्य सर्वपथिकदेवता |
भ्यो हृन्मनुं समुच्चार्य अनेनोत्सृज्य साधकः || ६८ ||
उद्धृत्य वामहस्तेन भ्रामयेत् कलशोपरि |
ततः क्षिप्त्वा बहिःस्थाने मूलमन्त्रं समुच्चरन् || ६९ ||
विकारहारिणीमन्त्रोद्धरः.
धूपयित्वा ततो द्रव्यं विकारान्नाशयेत्ततः |
मायां लक्ष्मीं पशुद्वन्द्वं सेन्दु दीर्घद्वयान्वितम् || ७० ||
छुरिका मेति शोभिनि विकारानस्य चान्तरम् |
द्रव्यस्य हरयुग्मञ्च द्विठान्तं प्रजपेन्मनुम् || ७१ ||
विकारहारिणीं जप्त्वा चतुर्धा शोधनञ्चरेत् |
अस्त्रेण ताडनं कुर्याद्वर्मणाभ्युक्षणं ततः || ७२ ||
मूलेन वीक्षणं कृत्वा प्रोक्षयेद्धृदयेन तु |
मूलेन गन्धमादाय बहन्नासापुटे त्रिधा || ७३ ||
द्रव्यमध्ये लिखेद्योनिं तन्मध्ये च हसौर्लिखेत् |
ह्सौः सहौः नमोनतेन पूजयेत् कुम्भमध्यके || ७४ ||
आनन्देश्वरगायत्रीविध्हनम्
वाङ्माया कमला प्रोक्त्वा आनन्देश्वराय विद्महे |
सुधादेव्यै धीमहीति तन्नोऽर्धनारीश्वरेति च || ७५ ||
प्रचोदयादिति जपेद् गायत्रीं दशधा सुधीः |
ब्रह्मशापविमोचनमन्त्रोद्धारः
मायावह्नियुतं कामं रतिबिन्दुसमन्वितम् || ७६ ||
परमस्वामिनि पदं परमाकाश शून्य च |
वाहिनि चन्द्रतः प्रान्ते सूर्याग्निभक्षिणीत्यपि || ७७ ||
पात्रं विश पदान्ते तु विश स्वाहा ततः परम् |
त्रिधा च प्रजपेन्मन्त्रं ब्रह्मशापं विमोचयेत् || ७८ ||
वेदादि वारुणं बीजं षड्दीर्घस्वरभेदितम् |
ब्रह्मशापपदस्यान्ते विमोचिताञ्च ङेयुताम् || ७९ ||
सुधादेव्यै नमोऽन्तञ्च दशधा प्रजपेन्मनुम् |
मायां लक्ष्मीं क(म)दं सेन्दुं षड्दीर्घस्वरवह्निमत् || ८० ||
कृष्णशापविमोचनमन्त्रोद्धारः
सुधाकृष्णस्वरूपान्ते शापं मोचय तत् परम् |
अमृतं स्रावयद्वन्द्वं द्विठान्तं मनुमुत्तमम् || ८१ ||
दशधा परिसंजप्य कृष्णशापविमुक्तये |
शुक्रशापविमोचनमन्त्रोद्धारः
विषं बिन्दुयुतं वान्तं दीर्घषट्कसमन्वितम् || ८२ ||
शुक्रशापपदं प्रोच्य विमोचितां तु ङेयुताम् |
सुधादेव्यै हृदन्तञ्च दशधा सञ्जपेन्मनुम् || ८३ ||
अथवान्यप्रकारेण शुक्रशापं विमोचयेत् |
मायां कामेश्वरीं वाचं अमृते अमृतोद्भवे || ८४ ||
अमृतवर्षिणि प्रोक्त्वा कामबीजं ततोऽमृतम् |
स्रावयद्वितयं शक्तिबीजं भार्गवमुद्धरेत् || ८५ ||
शापञ्च मोचय प्रोक्त्वा ज्ञानं देहि ततो वदेत् |
सिद्धिसामर्थ्यमाभाष्य दहयुग्मं महापदं || ८६ ||
खेचरीपदतो मुद्रां तथा प्रकटयद्वयम् |
अस्त्राय फट् द्विठान्तञ्च उद्धृत्य दशधा जपेत् || ८७ ||
Seite 81 der Vorlage
अथवान्यत् प्रवक्ष्यामि शापत्रयविमोचनम् |
सुराणाममृतं पूर्वं बलदेवेन धीमता || ८८ ||
समानीता प्रयत्नेन पानार्थं वारुणी सुरा |
दत्तात्रयेण मुनिना शुक्रेण च महात्मना || ८९ ||
धीमता बलभद्रेण पुरा पीतोत्थितार्णवात् |
वारत्रयन्तु संजप्य पठेदन्यतमं मनुम् || ९० ||
शिवशक्तियुतां वाणीं वरुणं क्षितिसंयुतम् |
षड्दीर्घस्वरसम्भिन्नं नादबिन्दुविभूषितम् || ९१ ||
अमृते अमृतोद्भवे अमृतवर्षिणीति च |
सुराशुक्रशापं प्रोच्य मोचयद्वितयं ततः || ९२ ||
अमृतं स्रावयद्वन्द्वं स्वाहा शापहरो मनुः |
दशधा परिसञ्जप्य शापत्रयं विमोचयेत् || ९३ ||
त्रिशापमोचनीं जप्त्वा प्रकाशयुक्तां ततो जपेत् |
मायां लक्ष्मीं ततो वाचं अमृते अमृतोद्भवे || ९४ ||
अमृतवर्षिणि प्रोच्य महाप्रकाशयुक्तेऽपि च |
द्विठान्तञ्च समुच्चार्य उच्चरेत् कुब्जिकान्ततः || ९५ ||
कुब्जिकामन्त्रोद्धारः
प्रेतबीजं समुच्चार्य हसक्लीं हसरीं तथा |
हसखफ्रेञ्च हसरीं भगवति ततो वदेत् || ९६ ||
अनुग्रहो हसप्रान्ते कुब्जिकेऽपि ततः परम् |
सहखफ्रें युगं प्रोच्य सनोरेव ततो वदेत् || ९७ ||
घोरखप्राञ्च खसप्रीञ्च किलद्वयसमन्वितम् |
विच्चोऽपि हसखान्न्ञ्च हसखब्लेञ्च हसरीं || ९८ ||
शिवशक्तिद्वयान्ते च मायां हस्रें ततो वदेत् |
अनेन मनुना मन्त्री अमृतं परिचिन्तयेत् |
तिरस्कारिणीं ततो ध्यायेत् पशुपाश विनाशिनीम् || ९९ ||
तिरस्करिणीविद्याध्यानम्
नीलं हयं समधिरुह्य पुरः प्रयान्तीं नीलांशुकाभरणमाल्यविलेपनाढ्याम् |
निद्रापुटेन भुवनानि तिरोदधानां
खड्गायुधा भगवती परिपातु भक्तान् || १०० ||
एवं ध्यात्वा जपेद्विद्याद्वयञ्च साधकोत्तम |
मायां लक्ष्मीं समुद्धृत्य नमो भगवतीति च || १०१ ||
Seite 83 der Vorlage
माहेश्वरि पदस्यान्ते सर्वपशुजनोद्धरेत् |
मनश्चक्षुस्तिरस्करिणीं कुरुद्वन्द्वञ्च ठद्वयम् || १०२ ||
तिरस्करिणीविद्या निरूपणम्
अन्यतिरस्करिणीं वक्ष्ये मायां कामेश्वरीं ततः |
वाणीं ग्लैं तिरस्करिणि सकलेति जनेति च || १०३ ||
वाग्वादिनि पदस्यान्ते सकलपशु च ब्रुयात् |
जनान्ते च मनश्चक्षुः श्रोत्रजिह्वापदन्ततः || १०४ ||
घ्रणोक्तिञ्च तिरस्कान्ते रिणीं कुरुद्वयं ततः |
ठद्वयञ्च सर्गयुतं द्विठान्तोऽयं महामनुः || १०५ ||
त्रिधा जप्त्वा च वीरेन्द्रस्त्रिकोणे चिन्तयेत्ततः |
हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणं || १०६ ||
अकथादित्रिपङ्क्त्या तु हलक्ष मध्यमण्डितम् |
इति सञ्चिन्त्य तत्पश्चाद्द्रव्यशुद्धिं समाचरेत् |
अथवान्यप्रकारेण द्रव्यशुद्धिं समाचरेत् || १०७ ||
हंसवती ऋक्
ओं हंसः शुचिसद्वसुरन्तरीक्षसद्धोता वेदिसदतिथिर्दुरोणसत् |
नृसद्वरसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् || १०८ ||
ऐं तृप्तोद्भवसिद्धोद्भव-सर्वज्ञोद्भव-सर्वजनकोद्भवाय अमृताय अमृतनाथाय
Seite 84 der Vorlage
अमृतकुलकुम्भाय ऐं फ्रें चल चल
पिव पिव कुलकुण्डलिनि अमृतकुण्डलिनि
अमृतं द्रव द्रव निर्झर निर्झर ऐं ह्रीं
कुलकुण्डलिनि अमृतं कुरु कुरु स्वाहा || १०९ ||
प्रथमं प्रणवं हंसः शुचीति तदनन्तरम् |
सद्वसुरन्तरीक्षेति सद्धोता वेदिसत्यथ || ११० ||
अतिथिर्दुरोणसदित्यर्धमस्या ऋचो भवेत् |
नृसद्वरसदित्युक्त्वा सदृतोऽतिथ्यनन्तरम् |
सद्व्योमसदब्जा गोजा ऋतजा अद्रिजा |
ऋतं बृहदित्यर्द्धञ्च अस्या ऋच उदाहृतम् || १११ ||
त्रिधा च संजपेन्मन्त्रं अथवान्यतमं जपेत् |
वाक् च तृप्तोद्भवस्यान्ते सिद्धोद्भव ततः परम् || ११२ ||
सर्वज्ञोद्भव सर्वान्ते जनकोद्भव ङेयुतम् |
अमृतायामृतं प्रोक्त्वा नाथाय पदतोऽमृत || ११३ ||
कुलकुम्भाय वाग्भवं फ्रें ततश्च चलयुग्मकम् |
पिबद्वन्द्वं कुलं प्रोक्त्वा कुण्डलिनि ततो वदेत् || ११४ ||
अमृतपदतः कुण्डलिनीति अमृतं द्रव |
द्वयं निर्झरयुग्मञ्च वाग्भवं भुवनेश्वरीम् || ११५ ||
कुलकुण्डलिनीं प्रोच्य अमृतं कुरुयुग्मकम् |
द्विठान्तं मनुमुच्चार्य पाययित्वा च कुण्डलीम् || ११६ ||
शिवशक्तिसमायोगं चिन्तयित्वा च साधकः |
तस्मात् सुधां समुत्पाद्य पूरयेत् पात्रमुत्तमम् || ११७ ||
Seite 85 der Vorlage
अनेनैव विधानेन द्रव्यशुद्धिं समाचरेत् |
कालिकाया विशेषञ्च वक्ष्येऽहं तन्त्रवर्त्मना || ११८ ||
एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् |
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् || ११९ ||
सूर्यमण्डलसम्भूते वरुणालयसम्भवे |
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् || १२० ||
वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि |
तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु || १२१ ||
एवं मन्त्रत्रयेणैव अभिमन्त्र्य सुरां शुभाम् |
प्रदद्यात् कालिकायै च ततो नैवेद्यभुग्भवेत् || १२२ ||
इति शुद्धित्रयं ज्ञेयं शापानां मोचनं परम् |
एषामेकतमं कृत्वा ध्यायेदानन्दभैरवम् || १२३ ||
Seite 86 der Vorlage
आनन्दभैरवध्यानम्
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् |
अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् || १२४ ||
अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरि स्थितम् |
वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् || १२५ ||
आकल्पखट्वाङ्गधरं घण्टाडमरुवादिनम् |
पाशाङ्कशधरं देवं गदामुषलधारिणम् || १२६ ||
खड्गखेटकपट्टीशमुद्गरशूलदण्डधृक् |
खेटकमुण्डहस्तञ्च वरदाभयविग्रहम् || १२७ ||
लोहितं देवदेवेशं द्रव्यमध्ये नियोजयेत् |
तस्योत्सङ्गे सुरां देवीं चन्द्रकोट्ययुतप्रभाम् || १२८ ||
आनन्दभैरवीध्यानम्
हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् |
भुजाष्टदशसंयुक्तां सर्वायुधकरोद्यताम् || १२९ ||
Seite 87 der Vorlage
प्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम् |
अथवान्यप्रकारेण सुरादेवीञ्च चिन्तयेत् || १३० ||
चन्द्रांशुसदृशीं श्वेतां वारुणीं ब्रह्मरूपिणीम् |
शिरश्चन्द्राद्विगलन्तीं ध्यायेत्तां परदेवताम् || १३१ ||
एवं ध्यात्वा ततो वीरः पूजयेन्मन्त्रमुच्चरन् |
आनन्दभैरवं देवमानन्दभैरवीं तथा || १३२ ||
शिवचन्द्राद्यवर्णन्तु कालभूवरुणानलम् |
षष्ठस्वरान्वितं वायुं बिन्दुनादविभूषितम् || १३३ ||
आनन्दभैरवायेति शिखामन्त्रं ततो वदेत् |
ततः पूर्ववदुद्धृत्य विपरीतमुखं द्वयम् || १३४ ||
वायुबीजं वामनेत्रत्यानन्दभैरवीं ततः |
ङेयुतां नेत्रमन्त्रञ्च कथितो मनुसत्तमः || १३५ ||
पूजयित्वा द्रव्यमध्ये वरुणं वसुधा जपेत् |
मूलञ्चोपरि संजप्य अमृतं परिभावयेत् || १३६ ||
Seite 88 der Vorlage
आवाहन्यादिमुद्राञ्च दर्शयेत्तदनन्तरम् |
आवाहनीं दर्शयित्वा स्थापनीं तदनन्तरम् || १३७ ||
सन्निधापनमुद्राञ्च तथा च सन्निरोधनीम् |
अवगुण्ठनमुद्राञ्च विधाय साधकोत्तमः || १३८ ||
अङ्गषट्कस्य मुद्राञ्च तालत्रयपुरःसरम् |
दिग्बन्धनं प्रकुर्वीत छोटिकाभिरनन्तरम् || १३९ ||
परमीकरणं कृत्वा अमृतीकरणञ्चरेत् |
धेनुमुद्रामृतीकृत्य द्रव्यशुद्धिं समाचरेत् || १४० ||
आलोकाज्जिघ्रणाद्ध्यानात् स्नानाद्द्रव्यं विशुध्यति |
द्रव्यस्नानं ततः कुर्याद्दक्षे कृत्वा च चुल्लकम् || १४१ ||
द्रव्यस्य चुल्लकं दक्षकरे कृत्वा तु साधकः |
वामनासाङ्गुष्ठयोगात् पूजाद्रव्येषु निक्षिपेत् || १४२ ||
बिन्दुं क्षिप्त्वा स्ववक्त्रे च मार्जयेद्धस्तयुग्मकम् |
हस्ताभ्यां मार्जयेद्देहं मूलमन्त्रं समुच्चरन् || १४३ ||
सुरानिरुक्तिः
एतत्तु कारणं दिव्यं सुरसङ्घनिषेवितम् |
अत-एव नाम तस्य सुरेति भुवनत्रये || १४४ ||
सुरादर्शनफलम्
सुरा दर्शनमात्रेण सर्वपापैः प्रमुच्यते |
तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् || १४५ ||
मद्यस्पर्शनमात्रेण तीर्थकोटीफलं लभेत् |
तथा तत्पानतः साक्षाल्लभेत् मुक्तिं चतुर्विधाम् || १४६ ||
इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे |
तत्स्वादे च क्रियाशक्तिः चेतः शोधनसाधना || १४७ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये चतुर्थोल्लासः || ४ ||
पञ्चम उल्लासः
तन्त्रवर्त्मना मांसनिरूपणम्
अथातः संप्रवक्ष्यामि मांसानि तन्त्रवर्त्मना |
मांसभेदकथनम्
मांसञ्च त्रिविधं प्रोक्तं जलभूचरखेचरम् || १ ||
गोनरेभाश्वमहिषवराहाजमृगोद्भ्वम् |
महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम् || २ ||
(यद्वा)
गोऽजेभाश्ववराहाणां माहिषं मृगखड्गयोः |
एतन्मांसाष्टकं प्रोक्तं चण्डिकाप्रीतिकारकम् || ३ ||
(यद्वा)
अजाश्वावपि गण्डा च महिषश्चमरी तथा |
वराहव्याघ्रभल्लूकशशकाः कूर्मकुक्कुटौ || ४ ||
कृष्णसारश्च हरिणस्तथा चित्रमृगा अपि |
मनुष्यो गवयश्चैव शल्लकी च विशेषतः || ५ ||
हंसः पारावतश्चैव तथैव ग्रामकुक्कुटाः |
विहिता बलयः प्रोक्ताश्चण्डिकाप्रीतिकारकाः || ६ ||
Seite 91 der Vorlage
एतेषां मांसदानेन सर्वसिद्धिः प्रजायते |
एषामेकतमं लब्ध्वा तर्पणार्थं प्रकल्पयेत् || ७ ||
मांससन्दर्शनेनापि सुरादर्शनवत् फलम् |
पितृदैवतयज्ञेषु वेदे हिंसा विधीयते || ८ ||
आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये |
अनिमित्तं तृणं वापि छेदयेन्न कदाचन || ९ ||
देवतार्थं पशुहनने न दोषः
देवतार्थं द्विजं गाञ्च हत्वा पापैर्न लिप्यते |
मांसं विनापि पूजायां पापं स्याच्च पदे पदे || १० ||
गन्धपुष्पाक्षतैः पूज्यमन्यथा नरकं व्रजेत् |
हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं ततः || ११ ||
शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः |
तद्बुद्धस्व पशो त्वं हि माशिवस्त्वं शिवोऽसि हि || १२ ||
ब्रह्मा स्यात्पलले विष्णुर्गन्धे रुद्रश्च तद्रसे |
परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये || १३ ||
Seite 92 der Vorlage
इति हत्वा पशुं पश्चात् चारु पक्वं समाचरेत् |
पूजासु आममांसानि दद्याद्वै साधकः क्वचित् || १४ ||
ऋते तु लोहितं शीर्षममृतं तत्तु जायते |
संशोधयेत्तु मांसानि यथाशास्त्रप्रमाणतः || १५ ||
मांसशोधनविधानम्
मांसशुद्धिं प्रवक्ष्यामि शाक्तानां सिद्धिहेतवे |
अस्त्रान्तमूलमन्त्रेण प्रोक्षयित्वा च साधकः || १६ ||
चतुर्धा शोधनं कुर्यात् पूर्वोक्तेन च वर्त्मना |
शोषयेद्वायुबीजेन वह्निबीजेन सन्दहेत् || १७ ||
शिवशक्तिसमायोगाद्वारुणेनामृतं कुरु |
ततश्च सञ्जपेन्मन्त्रं मांसानां शोधनाय च || १८ ||
प्रणवं पूर्वमुच्चार्यं प्रतद्विष्णुस्ततः परम् |
स्तवते मृगो न भीमः संप्रोच्य कुचरो भवेत् || १९ ||
Seite 93 der Vorlage
गरिष्ठेति च यस्योरुषु त्रिषु प्रोक्तस्ततः परम् |
विक्रमणेष्वधिक्षिपन्ति भुवनानि विश्वाः || २० ||
पूर्वोक्ता दर्शयेन्मुद्रा आवाहन्यादिसंज्ञिका |
मूलमन्त्रं जपेद्वीरः सप्तवारं ततः परम् || २१ ||
मत्स्यानां शोधनं वक्ष्ये यथातन्त्रानुसारतः |
मत्स्यभेदकथनम्
पाठीनञ्च वोदालश्च तथा शकुलशालकौ || २२ ||
महाशकुलचित्री च खड्गी च जलवृश्चिका |
अनेन विहिताः सर्वेऽपीमा मीनाः शुभप्रदाः || २३ ||
मत्स्यमांसशोधनम्
आदौ कुर्वीत मीनञ्च पूर्ववत् प्रोक्षणादिकम् |
जपेन्मन्त्रं ततः पश्चान्मीनानाञ्च विशुद्धये || २४ ||
ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् |
उर्वारुकमिव बन्धन्मृत्योर्मुक्षीय माऽमृतात् || २५ ||
शेषं पूर्ववदाचर्य मुद्राञ्च परिशोधयेत् |
व्रैहेयं मण्डलाकारं चन्द्रविम्बनिभं शुभम् || २६ ||
चारु पक्वमनोहारि शर्कराद्यैः प्रपूरितम् |
Seite 94 der Vorlage
पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता || २७ ||
भ्रष्टधान्यादिकं यद्यच्चर्वणीयं प्रकल्पयेत् |
तस्याः संज्ञा स्मृता मुद्रा महामोदप्रवर्धिनी || २८ ||
मुदं रातीति मुद्रा स्याद्येनैका मुष्टिभेदतः |
मुद्राञ्च प्रोक्षयेदादौ शेषं पूर्ववदाचरेत् || २९ ||
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुराततम् || ३० ||
ओं तद्विप्रासो विपण्यवो जागृवांसः समिन्धते |
विष्णोर्यत् परमं पदम् || ३१ ||
इति संजप्य वीरेन्द्रः शेषं पूर्ववदाचरेत् || ३२ ||
कुण्डगोलोद्भवामृतविधानम्
अथ वक्ष्ये च कुण्डोत्थं देवताप्रीतिकारकम् |
मद्यकुम्भसहस्रैस्तु मांसभारशतैरपि || ३३ ||
नैव तुष्टिर्भवेद्देव्याः कुण्डगोलोद्भवं विना |
भगलिङ्गात्मिका देवी भगलिङ्गामृतात्मिका || ३४ ||
देव्याः शुक्ररजोरूपत्वम्
शुक्ररूपा च शुक्रस्था रजोरूपा रजःस्थिता |
Seite 95 der Vorlage
विन्दुरूपा च विन्दुस्था रजोविन्दुस्वरूपिणी || ३५ ||
भगलिङ्गप्रिया देवो भगलिङ्गामृतप्रिया |
भगलिङ्गामृतेनैव तस्मात्तां परिपूजयेत् || ३६ ||
वीरद्रव्यस्य पानेन परस्त्रीरमणेन च |
भगलिङ्गामृतेनैव देवीं यश्च प्रपूजयेत् || ३७ ||
न दुःखं जायते तस्य सिद्धमन्त्रो भवेन्नरः |
कुलस्त्रीकुलपुष्पैश्च कुलद्रव्यैः कुलामृतैः || ३८ ||
संपूज्य लभते कामानष्टसिद्धींश्च साधकः |
विना कुलोद्भवैर्द्रव्यैः पूजयेद्यश्च चण्डिकाम् || ३९ ||
जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति |
द्रव्यशोधनमाचर्य शक्तिशोधनमाचरेत् || ४० ||
शक्तिशोधनम्
यथा द्रव्यं तथा शक्तिं समानीय यथाक्रमम् |
स्नापितां प्रमदां दिव्यां हेतुयुक्ताञ्च दीक्षिताम् || ४१ ||
स्वकान्तां परकान्तां वा घृणालज्जाविवर्जिताम् |
सालङ्कारां सुवेशाञ्च स्थापयेत् तूलिकोपरि || ४२ ||
Seite 96 der Vorlage
न्यासजालं प्रकुर्वीत स्वकल्पोक्तविधानतः |
मातृकान्यासमाचर्य कलान्यासं समाचरेत् || ४३ ||
ह्रीङ्कारन्तु ललाटे च क्लीङ्कारं वदने तथा |
ऐङ्कारं हृदये चैव नाभौ ब्लुङ्कारमेव च || ४४ ||
स्त्रीङ्कारं विन्यसेदूगुह्ये पञ्चकामान् न्यसेद् बुधः |
ऋष्यादिकं स्वकल्पोक्तं पाद्यादिभिस्ततो यजेत् || ४५ ||
द्राविणीं विन्यसेद्योनौ मूलविद्यां ततः परम् |
आधारे हृदये चैव भ्रुवोर्मध्ये न्यसेत् क्रमात् || ४६ ||
पुनर्मूलं ब्रह्मरन्ध्रे न्यसेत् साधकपुङ्गवः |
मूर्द्धादिपादपर्यन्तं न्यासं कुर्यात्ततः परम् || ४७ ||
मैथुनकथनम्
मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयो-
र्दन्तेनाधरपीडनं हृदि हतिर्मुष्ट्या च नाभौ शनैः |
कुक्षौ कण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः
सीमन्ते लिखनं नखैरुरसिजं गृह्णीत गाढं ततः || ४८ ||
कुर्वीताविरतं मनोभवगृहे मातङ्गलीला इव |
जङ्घाङ्गुष्ठपदोरुगुल्फहननं चान्योऽन्यतः कामिनोः || ४९ ||
Seite 97 der Vorlage
पाशबीजं वामनेत्रं कामवरुणभूयुतम् |
एकादशस्वरेणाढ्यं चन्द्रबिन्दुसमन्वितम् || ५० ||
अमुकीं द्रावय स्वाहा विन्यसेत् साधकोत्तमः |
वामा या चपलचित्ते रेतो मुञ्चद्वयं पठेत् || ५१ ||
वरुणं भूदक्षकर्णयुतञ्च कामबीजकम् |
सोमवधूसमायुक्तं चन्द्रमन्त्यस्वरान्वितम् || ५२ ||
द्राविणीबीजं कथितं साधकानां हिताय च |
तस्या योनौ न्यसेद्विद्यां रेत् थु मा तो च मै न त || ५३ ||
आत्मनि चिन्तयेद्देवीं शक्तिमाद्यास्वरूपिणीम् |
निं घ येद् ङ्गे यो न र्ष लि मूलमुच्चार्य साधकः || ५४ ||
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा |
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् || ५५ ||
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्त्तितः |
ततो जपेत् स्त्रियं गच्छन् मुखे जिह्वामृतं पिवेत् || ५६ ||
कुलमद्यं समानीय वारुणेन च संस्कृतम् |
Seite 98 der Vorlage
वरुणं स्वरसंयुक्त पञ्चदीर्घसमन्वितम् || ५७ ||
वौं वरुणाय प्रणवं मन्त्रराजेन शोधितम् |
मुहुर्मुहुः पिबेत् पानं शक्तिजिह्वाविलोडितम् || ५८ ||
आत्मनि देवीसंयोगाद्देवीभूतां विचिन्तयेत् |
आत्मनि शक्तिसंयोगादेकीभूतां विचिन्तयेत् || ५९ ||
सूक्ष्मरूपकमात्मानं शक्तिं कुण्डलिरूपिणीम् |
जिह्वां मूलमयीं चिन्त्य योनिञ्च कुलरूपिणीम् || ६० ||
कुलाकुलविभागेन आत्मानं नीयते त्वयि |
शुद्धमन्त्रौषधेनैव रेत् म न नेः ञ्च प्र थ यो || ६१ ||
मध्यमाने पुनस्तस्या जायते तत्त्वमुत्तमम् |
तत्त्वत्यागे पीठेन्मूलं साधकः स्थिरमानसः || ६२ ||
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा |
धर्माधर्मकलास्नेहपूर्ण अग्नौ जुहोम्यहम् || ६३ ||
स्वाहान्तोऽयं महामन्त्रं शुक्रत्यागे प्रकीर्त्तितः |
शिवशक्तिसमायोगो यत्र यत्र प्रजायते || ६४ ||
तत्र तत्रैव संयोज्यं द्वयमेनं यथाक्रमात् |
गृह्णीयात्तत्प्रयत्नेन द्रव्यं कुण्डोद्भवं स्मृतम् || ६५ ||
Seite 99 der Vorlage
इदं कुण्डोद्भवं द्रव्यं कथितं सुरदुर्लभम् |
गोलोद्भवं प्रवक्ष्यामि वीराणां सिद्धिहेतवे || ६६ ||
कुलीनां दीक्षितां मत्तां पतिहीनां विचक्षणाम् |
सालङ्कारां हेतुयुक्तामनपत्यां मनोरमाम् || ६७ ||
सुन्दरीं शोभनां क्षीणां पीनोन्नतपयोधराम् |
साधकाकाङ्क्षहृदयां कलाशास्त्रविचारिणीम् || ६८ ||
न्यासादिकं प्रकुर्वीत स्वकल्पोक्तविधानतः |
पूर्वोक्तक्रमयोगेन तत्त्वमुत्पादयेत् सुधीः || ६९ ||
तत्त्वं गृह्णीयात् यत्नेन पूजार्थं साधकोत्तमः |
इदं गोलोद्भवं द्रव्यं देवतातृप्तिकारकम् || ७० ||
ताम्रपात्रे गृहीत्वा तु तत्त्वद्रव्यं कुलोचितम् |
नानागन्धसमायुक्तं कटुत्रयसमन्वितम् || ७१ ||
कुण्डगोलोद्भवादीनां शोधनञ्च प्रचक्ष्यते |
शोधयेत् कुण्डगोलादीन् नयत्वर्चासमाहितः || ७२ ||
शोधनमन्त्राः
ओं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु |
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते || ७३ ||
Seite 100 der Vorlage
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति |
गर्भं ते अश्विनौ देवाधाधत्तां पुष्करस्रजौ || ७४ ||
प्लुं ज्लुं म्लुं ग्लुं ततः स्वाहा अमृतेति ततो वदेत् |
अमृते अमृतोद्भवे अमृतवर्षिणीति च || ७५ ||
अमृतं स्रावय स्वाहा द्विरुच्चार्येत्यपि स्मरेत् |
शेषं पूर्ववदाचर्य अथवान्यतमञ्चरेत् || ७६ ||
तारं कूर्चास्त्रमुच्चार्य शिवादित्रयविन्दुयुक् |
वह्निजाया तारमाया श्रीबीजं सुरतिप्रिये || ७७ ||
तारमायारमास्त्रञ्च वह्निजायाञ्च वर्तुलम् |
ततोऽमृतोद्भवायेति अमृतवर्षिणी परम् || ७८ ||
प्रिये देवि पदं शुक्रशापं मोचययुग्मकम् |
वह्निजायान्तमन्त्रेण द्रव्यशुद्धिं समाचरेत् || ७९ ||
वीर्यमेतत् समादाय विशेषार्घ्ये नियोजयेत् |
तेनामृतेन देवेशीं तर्पयेत् साधकोत्तमः || ८० ||
सान्निध्यं जायते देव्याः सर्वकाममुपालभेत् |
अचिरान्मृत्युमाप्नोति द्वन्द्वं कृत्वा नराधमः || ८१ ||
शङ्काविहीनेन कुलाचारः कर्तव्यः
निर्विकल्पकचेतास्तु कुर्यादेवं समाहितः |
शङ्कया जायते ग्लानिः शङ्कया दुःखभाजनम् || ८२ ||
शङ्कया सर्वहानिः स्याच्छङ्कया धनहानिता |
शङ्कया सिद्धिहानिः स्यात्तस्माच्छङ्कां परित्यजेत् || ८३ ||
द्रव्याणांशक्तिभेदकथनन्
अथ वक्ष्यामि द्रव्याणां शक्तिभेदेन यद्भवेत् |
स्वल्पाङ्गीं दीर्घकेशीं च साधकः शुद्धभावतः || ८४ ||
पुष्पगन्धा जवापुष्पैर्देवीं गन्धैश्च पूजयेत् |
तस्याः पुष्पैः प्रयत्नेन सर्वकाममुपालभेत् || ८५||
दीर्घाङ्गी दीर्घनयना श्यामा विलज्जिता सदा |
सुगन्धा सा सुरताद्यैर्बिल्वपत्रैः सुगन्धिता || ८६ ||
तस्याः पुष्पैः प्रयत्नेन देवीं सम्पूजयेत् पराम् |
गौराङ्गी पुष्टजङ्घा या पुष्टहस्ता मदातुरा || ८७ ||
मदगन्धा च खार्जुरैः पलाशैः कुसुमैर्यजेत् |
पुष्पगन्धा जगद्धात्री सा सदा कृष्णरूपिणी || ८८ ||
Seite 102 der Vorlage
कृशाङ्गी कृशमध्या च मधु दत्त्वा यजेत् पराम् |
क्षीणाङ्गी च यदा कृष्णा दीर्घकेशी मदाकुला || ८९ ||
तीव्रगन्धा च मन्दारैर्नारिकेलोद्भवैः सदा |
पुष्टा खर्वाऽसिताङ्गी या सा भवेन्मदनाश्रया || ९० ||
मधुगन्धा च गौडीभिः पद्मपुष्पैर्यजेत् पराम् |
कृशाङ्गी गौरदीर्घा या सा परा शिशुमालिना || ९१ ||
साधकः पूजयेद्देवीं मल्लिकाभिर्विशेषतः |
पुष्टा खर्वा सिताङ्गी या सेन्दीवरविकारकैः || ९२ ||
अस्या मैथुनसम्भूतैः केतकीगन्धयोजितैः |
क्षीणा दीर्घा च गौराङ्गी मालतीगन्धयोजिता || ९३ ||
सा भवेदङ्कुशा नाम्नी तस्या मैथुनभावुकैः |
बन्धूकैर्यदि गौराङ्गी यानङ्गमेखला शुभा || ९४ ||
कर्पूरगन्धहारिद्रद्रव्यैस्तां परिपूजयेत् |
आसां द्रव्यं गृहीत्वा तु तेनैव परिशोधयेत् || ९५ ||
तत्तत्पुष्पैः प्रपूज्यैव सर्वसिद्धिमुपालभेत् |
ज्ञात्वा नैवं क्रमं यो हि यदि देवीं प्रपूजयेत् || ९६ ||
भवेद्धि विफलं सर्वं यज्ञेषु घृतवर्जितम् |
यदुक्ता दशमी शक्तिः सङ्कीर्णवृत्तिसंस्थिता || ९७ ||
गन्धमात्रं तु गृह्णीयाद्वर्णमात्रं न भेदयेत् |
स्वयं स्रष्टा स्वयं विष्णुः स्वयं देवो महेश्वरः || ९८ ||
साधकानन्दभावेन यजेद्देवीं कुलक्रमे |
गजाश्वानां वृषाजानां नराणां शोणितारुणैः || ९९ ||
पञ्चतत्त्वप्रशंसा
कुण्डगोलोद्भवैर्मांसैः स्वयम्भूकुसुमैः सदा |
मत्स्यैर्मद्यैश्च नैवेद्यैः प्रत्यक्षीक्रियते नरैः || १०० ||
च यां थु दि ने रा मै म जातिभेदं न चाचरेत् |
नाधर्मो जायते किञ्चिन्महामन्त्रस्य साधने || १०१ ||
सर्वसिद्धिर्भवत्येव पञ्चतत्त्वनिवेदनात् |
द्रव्यशुद्धेरभावेन नित्यं कर्मं न लोपयेत् || १०२ ||
Seite 104 der Vorlage
प्रमादाद्यदि लुप्येत रौरवं नरकं व्रजेत् |
मकारपञ्चकं कृत्वा पुनर्जन्म न विद्यते || १०३ ||
अत-एव महाप्राज्ञः पञ्चतत्त्वेन पूजयेत् |
येनावश्यं विधातव्यं मदिरादानपूजनम् || १०४ ||
नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः |
हेतुभिः परपात्रस्थैस्तर्पणं निष्फलं भवेत् || १०५ ||
आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् |
प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः || १०६ ||
यावदासवगन्धः स्यात्तावत् पशुपतिः स्वयम् |
विनालिमांसगन्धेन पशुः पशुपतिः स्वयम् || १०७ ||
मत्स्यमांसविहीनेन द्रव्येणापि न तर्पयेत् |
पिशितं तिलमात्रन्तु तिलार्धमपि बिन्दुना || १०८ ||
सकृत्तर्पणमात्रेण यज्ञकोटिफलं लभेत् |
रक्तवस्त्रैः समाच्छाद्य पञ्चतत्त्वं तु रक्षयेत् || १०९ ||
Seite 105 der Vorlage
पशुसन्निधौ वीरपूजा निषिधा
मकारपञ्चकैर्देवीं नार्चयेत् पशुसन्निधौ |
संस्थापयेन्न दक्षे च द्रव्यशुद्धिरितींरिता || ११० ||
एतत्तु कथितं द्रव्यं सर्वसिद्धिप्रदायकम् |
द्विजानामनुकल्पन्तु न साक्षाच्च विकल्पिनाम् || १११ ||
कुलद्रव्यप्रतिनिधिः
अथातः संप्रवक्ष्यामि द्रव्यादिपरिकल्पनम् |
ब्राह्मणस्ताम्रपात्रे तु मधुमद्यं प्रकल्पयेत् || ११२ ||
अथवा ताम्रपात्रेषु गव्यं दद्याद्घृतं विना |
नारिकेलोदकं कांस्ये गुडार्द्रकं तथैव च || ११३ ||
गौडी देया क्षत्रियेण माध्वी वैश्येन तत्र वै |
सर्वं शूद्रेण दातव्यं यत्र वा तद्रुचिर्भवेत् || ११४ ||
(यद्वा)
मत्स्यमांसादिविजया चाष्टगन्धैः सुमिश्रिता |
संमर्द्य वटिकां कृत्वा संगृह्याथ विचक्षणः || ११५ ||
Seite 106 der Vorlage
तदभावे तु विजया जले संलोड्य तर्पयेत् |
गुडमिश्रेण तक्रेण तर्पयेन्मधुयोजितम् || ११६ ||
सौवीरेणाथवा कुर्यादेतत्कर्म न लोपयेत् |
मांसाभावे तु लसुनमार्द्रकं नागरन्तु वा || ११७ ||
शूरणं मांसवटकं मूलं वान्यतमञ्चरेत् |
मांसानुकल्पं कथितं मीनस्याथ विधिं शृणु || ११८ ||
माहिषं गवयं क्षीरं अजाक्षीरं तथैव च |
फलमूलञ्च यत्किञ्चिद्दग्धञ्चेदामिषं भवेत् || ११९ ||
कुण्डगोलादिप्रतिनिधिः
मीनस्य कथितं कल्पं कुण्डगोलोद्भवं शृणु |
अपरापुष्पगर्भे तु कुलस्थानं मनोरमम् || १२० ||
सर्वसुखं भवेत्तत्तु महाकामकलात्मकम् |
हयारिकुसुमे नित्यं स्वयमस्ति सदाशिवः || १२१ ||
तन्मुखे द्रव्यमादाय पुष्पमध्येतु चन्दनम् |
रक्तकुङ्कुमरागं वा भिन्नं तत्त्वं शिवात्मकम् || १२२ ||
योजयेच्छिवशक्त्योस्तु ऐक्यं सम्भावयन् धिया |
क्षणं विचिन्त्य तत्रैव संपूज्य परमेश्वरीम् || १२३ ||
जप्त्वा तदेव कुण्डोत्थं द्रव्यं परमदुर्लभम् |
अन्तरादधिकं ज्ञेयं एतद्द्रव्यं सुदुर्लभम् || १२४ ||
यद्यच्च कथितं द्रव्यमनुकल्पं विकल्पिनाम् |
आदाय पूजयेद्देवीमन्यथा निष्फलं भवेत् || १२५ ||
अकृत्वा पञ्चमे पूजां न लब्ध्वा गुरुसम्मतिम् |
स्वहस्तेन पशुं हत्वा रौरवं नरकं व्रजेत् || १२६ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये पञ्चमोल्लासः || ५ ||
षष्ठ उल्लासः
अथेदानीं प्रवक्ष्यामि अर्घ्यस्य विधिमुत्तमम् |
गृहीत्वाज्ञां महादेव्या विशेषार्घ्यं समाचरेत् || १ ||
आत्मदेवीद्वयोर्मध्ये भूमौ चक्रं लिखेत्ततः |
त्रिकोणञ्चैव षट्कोणं वृत्तं भूगृहसंयुतम् || २ ||
मध्ये मायां समालिख्य प्रोक्षयेत्तदनन्तरम् |
अस्त्रान्तमूलमन्त्रेण सामान्यार्घ्यजलेन च || ३ ||
आधारशक्तिमभ्यर्च्य पूजयेत् पीठदेवताः |
चतुरस्रे पूर्णशैलमुड्डीयानं जलन्धरम् || ४ ||
पूजयेत् कामरूपञ्च पूर्वादिक्रमयोगतः |
अङ्गषट्कं यजेत्तत्र षट्कोणेषु च मन्त्रवित् || ५ ||
मूलमन्त्रं त्रिकोणेषु संपूज्य साधकोत्तमः |
आधारशक्तिं मध्ये च संपूज्य तदनन्तरम् || ६ ||
आधारपात्रादिवर्णनम्
अस्त्रेण क्षालिताधारं स्थापयेत्तत्र साधकः |
आधारेण विना भ्रंशो न च तृप्यन्ति मातरः || ७ ||
तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके |
आधारं त्रिपदं प्रोक्तं षट्पदं वा चतुष्पदम् || ८ ||
अथवा वर्तुलाकारं कुर्यादाधारमुत्तमम् |
एषामन्यतमं स्थाप्य पूजयेत् कुलवर्त्मना || ९ ||
पूर्ववन्मण्डलं कृत्वा संपूज्य तेन वर्त्मना |
आदौ सेन्दुं महाकालं वह्निमण्डलं ङेयुतम् || १० ||
हृदन्तं मन्त्रमुच्चार्य आधारे पूजयेत्ततः |
तत्र सम्पूजयेद्वह्नेः कलादशकं संज्ञया || ११ ||
वह्नेः कलादशकम्
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी |
सुश्रीः सुरूपा कपिला हव्यकव्यवहेऽपि च || १२ ||
यादिसेन्दुक्षकारान्ता अब्जाद्याः परिकीर्तिताः |
ङेयुता वै नमोऽन्ताश्च कला वह्नेरितीरिताः || १३ ||
अस्रान्तमूलमन्त्रेण क्षालितं पात्रमुत्तमम् |
स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् || १४ ||
नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम् |
पुण्यवृक्षसमुद्भूतं पात्रं कुर्यान्मनोरमम् || १५ ||
(यद्वा)
काञ्चनरौप्यकाचताम्रजनितं मुक्ताकपालोद्भ्वं
विश्वामित्रमयञ्च कामदमिदं हैमं प्रियं स्फाटिकम् |
भावप्रीतिमदष्टसिद्धिजनकं श्रीनारिकेलोद्भ्वं
कापालं स्फुटमन्त्रसिद्धिजनकं मुक्तिप्रदं मौक्तिकम् || १६ ||
(यद्वा)
सौवर्णरौप्यताम्राणि सर्वसिद्धिकराणि च |
शान्तिके च शिलापात्रं स्तम्भे चैव तु मृण्मयम् || १७ ||
नारिकेलं सर्ववश्ये मोक्षे चैव तु मौक्तिकम् |
ज्ञानप्रदं कपालं स्यान्मारणे लौहमुत्तमम् || १८ ||
कुर्यात् स्वर्णमयं पात्रं विश्वामित्रं कपालकम् |
शङ्खं ज्ञानप्रदं मुक्ताशुक्तिविद्याप्रदायिनी || १९ ||
कपालालावूपात्राणि योगसिद्धिकराणि च |
पुण्यवृक्षजपात्राणि सर्वपापहराणि च || २० ||
उक्तेष्वेतेषु पात्रेषु पात्रमेकं प्रकल्पयेत् |
षोडशाङ्गुलविस्तार षष्ठाङ्गुलसमुच्छ्रयम् || २१ ||
अथवापि तदर्धं स्यात्तदर्द्धं वापि कारयेत् |
एकाङ्गुलं तथा सार्धं षट्कञ्च वै प्रमाणतः || २२ ||
अतिसूक्ष्ममतिस्थूलं सच्छिद्रं परिवर्ज्जयेत् |
न योजयेद्भग्नपात्रं स्वप्रादेशं प्रशस्यते || २३ ||
एषामेकतमं पात्रं स्थापयेत्त्रिपदोपरि |
मण्डलं पूर्ववत् कृत्वा पूजयेत् पूर्ववर्त्मना || २४ ||
सूर्यस्य मण्डलं तत्र चिन्तयित्वाथ पूजयेत् |
स्वराद्यं बिन्दुसहितं ङेयुतम् अर्कमण्डलम् || २५ ||
Seite 112 der Vorlage
नमोऽन्तं मन्त्रमुच्चार्य पूजयित्वार्घ्यपात्रकम् |
कलाः सम्पूजयेत्तत्र भानोर्द्वादशसंज्ञकाः || २६ ||
द्वादशसूर्यकलाः
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः |
सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा || २७ ||
कभाद्याश्च ठडान्ता वै बिन्दुयुक्ता यथाक्रमात् |
बीजाद्याश्च कला ज्ञेयाश्चतुर्थ्याद्या नमोऽन्विताः || २८ ||
इमाः कलाः सुसम्पूज्याः पात्रञ्च पूजयेत्ततः |
रक्तचन्दनपुष्पैश्च सुगन्धैः सुमनोहरैः || २९ ||
ततश्च पूरयेत् पात्रं त्रिभागं कुम्भहेतुतः |
वरुणं मूलमन्त्रञ्च विलोममातृकां पठन् || ३० ||
जलेन भागमेकं तु पूरयेत् साधकोत्तमः |
तत्र दूर्वाक्षतारक्तपुष्पचन्दनसंयुतम् || ३१ ||
पूर्वोद्धृतं कुण्डगोलं विल्वपत्रं क्षिपेत्ततः |
मांसं मत्स्यं विनिक्षिप्य मुद्राञ्चैव विशेषतः || ३२ ||
नानासुगन्धिकञ्चैव नवरत्नं विनिक्षिपेत् |
एलालवङ्गकक्ष्वेलजातीफलसमन्वितम् || ३३ ||
Seite 113 der Vorlage
चन्द्रचन्दनकस्तूरीरोचनागुरुकुङ्कुमम् |
स्वयम्भूकुसुमं कुण्डगोलोत्थञ्चाष्टगन्धकम् || ३४ ||
तत्र क्षिप्त्वा च वीरेन्द्रः पूजयेच्चन्द्रमण्डलम् |
सबिन्दुं वामकर्णञ्च ङेयुतं सोममण्डलम् || ३५ ||
हृदन्तं मनुमुच्चार्य पात्रमध्ये प्रपूजयेत् |
कला सोमस्य तत्रैव द्विरष्टसंख्यका यजेत् || ३६ ||
षोडशसोमकला
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः |
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा || ३७ ||
पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः |
अकाराद्या बिन्दुयुता ङेयुताश्च नमोऽन्तिकाः || ३८ ||
पूज्याः सर्वाः प्रयत्नेन कला ज्ञेया विधोरिमाः |
पूर्वंवत्तीर्थमावाह्य पूर्ववन्मण्डलं लिखेत् || ३९ ||
पूर्वववन्मत्रमुच्चार्य आनन्दभैरवं यजेत् |
आनन्दभैरवीं देवीं तत्र संपूज्य देशिकः || ४० ||
Seite 114 der Vorlage
निजेष्टदेवतां तत्रावाहयेच्च ततः परम् |
आवाहन्यादिमुद्राश्च साधको दर्शयेत्ततः || ४१ ||
स्वकल्पोक्तविधानेन मुद्राः सन्दर्शयेत्ततः |
दर्शयित्वा ततो मुद्रामिष्टदेवं यजेत्ततः || ४२ ||
पूर्ववच्च षडङ्गानि त्रिकोणानि प्रपूजयेत् |
अकथादित्रिरेखायां मध्ये मायां समालिखेत् || ४३ ||
हसौ मध्ये च संलिख्य पूर्वादिचातुरस्रिके |
सम्पूजयेत्ततः पश्चात् पञ्चरत्नं सुसाधकः || ४४ ||
पञ्चरत्नपूजाविधानम्
पञ्चान्तकं क्षितियुतं दक्षकर्णसमन्वितम् |
गगनान्ते च रत्नेभ्यो नमोऽन्तमनुमुद्धरेत् || ४५ ||
शीतलं शक्रसंयुक्तमग्रबिन्दुविभूषितम् |
स्वर्गपदं समुच्चार्य रत्नेभ्यो नम इत्यपि || ४६ ||
पञ्चमं देवराजञ्च दक्षश्रोत्रसमन्वितम् |
पातालपद रत्नेभ्यो नमोऽन्तश्चापरो मनुः || ४७ ||
Seite 115 der Vorlage
महाकालं क्षितियुतं दक्षकर्णसमन्वितम् |
मर्त्यरत्ने ततः पश्चाद्भ्यो नमोऽत्र समुद्धरेत् || ४८ ||
वामपादं क्षितियुतं दक्षश्रवणभूषितम् |
नागपदं समुच्चार्य रत्नेभ्यो नम इत्यपि || ४९ ||
इति मध्ये सुसम्पूज्य त्रिरेखासु ततः परम् |
वाग्भवान्ते च दिव्यौघं गुरुसंज्ञाञ्च पादुकाम् || ५० ||
पूजयामि ततः पश्चादेवम्विधं त्रयं यजेत् |
सिद्धौघं मानवौघञ्च पूजयित्वा मनुं जपेत् || ५१ ||
अमृतेश्वरीमन्त्रः
अखण्डैकरसानन्दकरे परसुधात्मनि |
स्वच्छन्दस्फुरणामत्र निधेह्यकूलरूपिणि || ५२ ||
अकुलस्थामृताकारे शुद्धिज्ञानकरे परे |
अमृतत्वं निधेह्यस्निन् वस्तुनि क्लिन्नरूपिणि || ५३ ||
तद्रूपेणैकरस्यञ्च दत्त्वा ह्येतत्स्वरूपिणि |
भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु || ५४ ||
इति मन्त्रत्रयेणैवमभिमन्त्र्य ततः परम् |
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् || ५५ ||
Seite 116 der Vorlage
आपूरितं महापात्रं पीयूषरसमावह |
वाग्भवं पञ्चमं क्षौणीं वामश्रोत्रसमन्वितम् || ५६ ||
क्षौं जूं सं अमृतेऽमृतोद्भवेऽमृतेश्वरि |
अमृतवर्षिणि प्रोच्य अमृतं स्रावयद्वयम् || ५७ ||
वह्निजायान्तमुच्चार्यं चोद्धरेदपरन्ततः |
वाग्भवं वदयुग्मञ्च वाग्वादिनि ततः परम् || ५८ ||
वाङ्मनः पदमाभाष्य क्लिन्ने क्लेदिनि तत्परम् |
क्लेदयद्वितयं महामोक्षं कुरुद्वयं वदेत् || ५९ ||
कामबीजं शक्तिबीजं मोक्षं कुरुद्वयं वदेत् |
प्रेतबीजं समुच्चार्य हसौर्नमस्ततः परम् || ६० ||
अनेनैव विधानेन अभिमन्त्र्य ततः परम् |
आनन्दभैरवं देवमानन्दभैरवीमपि || ६१ ||
त्रिवारं मूर्ध्नि सन्तर्प्य मुद्राः सन्दर्शयेत्ततः |
पूर्वोक्ताश्चातुरस्राद्याः शङ्खमुद्रां ततः परम् || ६२ ||
शङ्खमुद्राकथनम्
वामाङ्गुल्यस्तथा श्लिष्टाः संयुक्ताः सुप्रसारिताः |
दक्षिणांङ्गुष्ठ संसृष्ठा मुद्रैषा शङ्खसंज्ञिका || ६३ ||
Seite 117 der Vorlage
मत्स्यमुद्राकथनम्
अधोमुखं दक्षपाणिं वामञ्चैव तथाविधम् |
उपर्युपरियोगेन मिलिताः सरलाङ्गुलीः || ६५ ||
अङ्गुष्ठौ चालयेत् किञ्चिन्मुद्रैषा मत्स्यसंज्ञिता |
मत्स्यमुद्राञ्च सन्दर्श्य धेनुमुद्राञ्च दर्शयेत् || ६६ ||
अवगुण्ठ्य ततः पश्चात् योनिमुद्रां च दर्शयेत् |
त्रितालछोटिकाभिश्च दिग्बन्धनं ततश्चरेत् || ६७ ||
अष्टधा मूलविद्यां च जप्त्वा तु चिन्तयेत्ततः |
इष्टदेवस्वरूपञ्च विभाव्य साधकोत्तमः || ६८ ||
आर्घ्यस्य स्थापनं प्रोक्तं सर्वशास्त्रेषु सिद्धिदम् |
तथाच सिद्धविद्यानामाचारः कथ्यतेऽधुना || ६९ ||
ततः शङ्खं वीरपात्रं स्थापयेन्मध्यभागतः |
श्रीविद्योक्तविधानेन ततः पूजां समाचरेत् || ७० ||
सिद्धविद्याचारः
विसर्जनावधि वीरो नोद्धरेन्न च चालयेत् |
तस्माद्विन्दुं विनिक्षिप्य सामान्यार्घ्ये ततः परम् || ७१ ||
Seite 118 der Vorlage
पात्रसंख्यानिर्णयः
देव्यर्घ्यकुम्भयोर्मध्ये पात्राणि स्थापयेद् यथा |
गुरोः पात्रं घटस्यान्ते तदन्ते भोगपात्रकम् || ७२ ||
तदन्ते शक्तिपात्रञ्च योगिनीनां तदन्तिके |
तदन्ते वीरपात्रञ्च बलिपात्रं तदन्तिके || ७३ ||
पाद्यमाचमनीयञ्च पात्राणि स्थापयेद्बुधः |
उत्तमं नवपात्राणि सप्तपात्राणि मध्यमम् || ७४ ||
केचिद्वदन्ति मन्त्रज्ञाः पञ्चपात्राणि मध्यमम् |
अधमं तानि पात्राणि एकपात्रं न कारयेत् || ७५ ||
एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः |
मन्त्राः पराङ्मुखा यान्ति विघ्नाश्चैव पदे पदे || ७६ ||
इह लोके च दारिद्र्यं मृते च पशुतां व्रजेत् |
देवीपात्रं गुरोः पात्रं भोगपात्रं त्रयं मतम् || ७७ ||
पूजापात्रं बलेः पात्रं पञ्चपात्रेष्वयं विधिः |
शक्तेः पात्रं वीरपात्रं सप्तपात्रेष्वयं विधिः || ७८ ||
Seite 119 der Vorlage
पूजापात्रञ्च विज्ञेयं योगिनीनाञ्च पूजने |
पाद्यमाचमनीयञ्च नवपात्रेष्वयं विधिः || ७९ ||
पात्रस्थापनाविधिः
पात्राणां स्थापनं वक्ष्ये यथातन्त्रविधानतः |
कुम्भस्य दक्षिणे कुर्यात्त्रिकोणं वृत्तभूगृहम् || ८० ||
पूर्ववत् प्रोक्षणादिञ्च कृत्वाधारं विनिक्षिपेत् |
तत्र सम्पूजयेद्वह्निमण्डलं तदनन्तरम् || ८१ ||
प्रक्षाल्य पूर्ववत् पात्रं आधारे स्थापयेत्ततः |
अभ्यर्च्य मण्डलं तत्र सूर्यस्य पूरयेत्ततः || ८२ ||
कुम्भामृतेन संपूज्य सोमस्य मण्डलं यजेत् |
कुण्डगोलं क्षिपेत्तत्र कुसुमं गन्धचन्दनम् || ८३ ||
षट्कोणं वृत्तभूपूरं लिखित्वा पूजयेत्ततः |
अङ्गषट्कं कोणषट्कं मुद्राः पूर्ववदाचरेत् || ८४ ||
दिग्बन्धनं विधायाथ तालत्रयपुरःसरम् |
Seite 120 der Vorlage
अष्टधा मूलमन्त्रञ्च जप्त्वा बिन्दुं क्षिपेत्ततः || ८५ ||
तर्पणविधिः
विशेषार्घ्यस्य वीरेन्द्रो गुरूंश्च परितर्पयेत् |
स्वस्वनामयुतान् दिव्यान् सिद्धमानवसङ्घकान् || ८६ ||
तर्पयित्वा स्वीयमूर्ध्नि मुद्रया तत्त्वसंज्ञका |
अङ्गुष्ठानामिकाभ्याञ्च वामहस्तस्य सर्वदा || ८७ ||
कथिता तत्त्वमुद्रेयं योजिता तर्पणे बुधैह्. |
गुरुं परगुरुञ्चैव परापरगुरुं तथा || ८८ ||
परमेष्ठिगुरुञ्चैव तर्पयेत्तदनन्तरम् |
विशेषार्घ्यामृतेनैव तर्पयेन्निजदेवताम् || ८९ ||
पञ्चधा सप्तधा वापि हृत्सरोजे तु साधकः |
तत्त्वशुद्धिकथनम्
गुरूणां पात्रदक्षे च भोगपात्रं प्रकल्पयेत् || ९० ||
पूर्ववत् पात्रं संस्थाप्य तत्त्वशुद्धिं समाचरेत् |
भोगपात्रामृतेनैव सम्मार्ज्य करयुग्मकम् || ९१ ||
दक्षकरे सवृत्तञ्च नवयोनिं समालिखेत् |
कलायसदृशं तत्र क्षिपेच्छुद्धिचतुष्टयम् || ९२ ||
Seite 121 der Vorlage
देहशुद्धिनिरूपणम्
अङ्गुष्ठमध्यमानामायोगैरेकञ्च धारयेत् |
वामहस्तस्य विप्रेन्द्रः स्वीकुर्यात्तदनेन तु || ९३ ||
मायाञ्च कमलाबीजं शिवशक्तिसदाशिवम् |
ङेन्तं विद्याकलात्मानं सबिन्दुं षोडश स्वरम् || ९४ ||
उच्चार्य वाग्भवं मूलं आत्मतत्त्वेन तत्परम् |
स्थूलदेहं ततः पश्चात् शोधयामि पदात् द्विठः || ९५ ||
अनेनाधःशुद्धिखण्डं स्वीकृत्य तदनन्तरम् |
मायां लक्ष्मीं ततो मायाकलानियतिशब्दतः || ९६ ||
कलात्मशुद्धविद्याश्च रागश्च पुरुषात्मने |
कादिपञ्चकवर्गञ्च बिन्दुयुक् कामबीजकम् || ९७ ||
मूलमन्त्रं ततो विद्यातत्त्वेन सूक्ष्मदेहकम् |
शोधयामि ततः स्वाहा स्वीकुर्यादपरन्ततः || ९८ ||
लज्जां लक्ष्मीं प्रकृत्यहङ्कार बुद्धिमनःश्रोत्रत्वक् |
चक्षुस्ततोरसनाघ्राणवाक्पाणिपदं तथा || ९९ ||
पायूपस्थपदं शब्दस्पर्शरूपं ततो रसः |
गन्धाकाशपदं वायुतेजः सलिलशब्दतः || १०० ||
भूम्यात्मने समुच्चार्य बिन्दुयुग्यादिवर्णकम् |
शक्तिबीजं स्वमन्त्रञ्च शिवतत्त्वेन तत्परम् || १०१ ||
परं देहं शोधयामि स्वाहा चैव तृतीयकम् |
Seite 122 der Vorlage
स्वीकृत्य च पुनर्मायां लक्ष्मीबीजं समुच्चरेत् || १०२ ||
पुनः शिवादिकं प्रोच्य मायादिकं ततः परम् |
प्रकृत्यादिकमुच्चार्य पञ्चाशन्मातृकान्ततः || १०३ ||
बालाञ्च मूलविद्याञ्च सर्वतत्त्वेन तत्परम् |
तत्त्वत्रयाश्रितं जीवं शोधयामि ततः स्वाहा || १०४ ||
स्वीकुर्यादमुना युग्मं दक्षवामक्रमेण तु || १०५ ||
ओं आर्द्रं ज्वलति ज्योतिरहमस्मि
ज्योतिर्ज्वलति ब्रह्माहमस्मि |
सोऽहमस्मि ब्रह्माहमस्मि अहमस्मि
अहमेवाहं मां जुहोमि स्वाहा || १०६ ||
ओं तामेव प्रत्यक्षं ब्रह्म वदिष्यामि
ऋतं वदिष्यामि सत्यं वदिष्यामि |
तन्मामवतु तद्वक्तारमवतु अवतु
माम् अवतुवक्तारं स्वाहा || १०७ ||
ओं छन्दसामृषयो गावो यच्छन्दोह्यमृता भुवसामन्द्रोः |
मेधया स्पृणोतु भुवि स्रुवं मेणोपायतु स्वाहा || १०८ ||
Seite 123 der Vorlage
वाससा करयुग्मञ्च स्पृष्ट्वा देहञ्च शोधयेत् |
पाणिभ्यां सर्वदेहञ्च प्रोञ्छयेदिति शोधनम् || १०९ ||
क्षालयेद्धस्तयुगलमथवान्यतमञ्चरेत् || ११० ||
तत्त्वऽऽउद्धिमन्त्राः
ओं प्राणापानव्यानोदानसमाना मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || १११ ||
ओं पृथिव्यप्तेजोवायवाकाशानि मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११२ ||
ओं प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११३ ||
ओं त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११४ ||
ओं पाणिपादपायूपस्थशब्दा मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११५ ||
ओं स्पर्शरूपगन्धरसाकाशानि मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११६ ||
ओं वायुतेजःसलिलभूम्यात्मानो मे शुध्यन्ताम् |
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११७ ||
Seite 124 der Vorlage
सप्तमन्त्रमिदञ्चैव पठेत्तत्त्वविशुद्धये || ११८ ||
तत्त्वशुद्धिं विधायाथ स्थापयेच्छक्तिपात्रकम् |
योगिनीनाञ्च संस्थाप्य वीरपात्रं ततः परम् || ११९ ||
बलिपात्रं ततः पश्चात् पाद्यपात्रञ्च सन्दिशेत् |
आचमनीयपात्रञ्च पूर्ववत् स्थापयेद्बुधः || १२० ||
योगिनीपात्रतत्त्वेन तर्पयेद्रश्मिवृन्दकम् |
बलिपात्रामृतेनैव वटुकादींश्च तर्पयेत् || १२१ ||
तत्तदभावतो वीरः सामान्यार्घ्येण तर्पयेत् |
देवीपात्रामृतं बिन्दुं पूजाद्रव्योपरि क्षिपेत् || १२२ ||
आत्मदेहञ्च संप्रोक्ष्य भावयेद्देवतामयम् |
भोगपात्रामृतं बिन्दुं स्वीकुर्यात्तदनन्तरम् || १२३ ||
बलिपञ्चकनिरूपणम्
अथातः संप्रवक्ष्यामि बलिपञ्चकमुत्तमम् |
यावन्नो वटुके दद्यात् योगिन्यां सर्वभूतके || १२४ ||
क्षेत्रपाले तथा राजराजेश्वरे च साधकः |
अकृत्वा बलिदानं हि कथं पूजां समाचरेत् || १२५ ||
Seite 125 der Vorlage
अदत्त्वा क्षेत्रेपालाय कथं क्षेत्रेषु पूजयेत् |
अदत्त्वा वटुकादीनां यः पूजयति चण्डिकाम् || १२६ ||
पूजा च विफला तस्य देवीशापः प्रजायते |
दक्षिणे वटुके देयः उत्तरे योगिनीबलिः || १२७ ||
सर्वभूते बलिं दद्यात् क्षेत्रपालस्य पश्चिमे |
राजराजेश्वरे मध्ये बलिं दद्यात् सुसाधकः || १२८ ||
दक्षिणादिचतुर्दिक्षु पूर्ववन्मण्डलं लिखेत् |
प्रोक्षणं पूर्ववत् कृत्वा वटुकं तत्र चिन्तयेत् || १२९ ||
बटुकध्यानम्
करकलितकपालः कुण्डली दण्डपाणिः
तरुणतिमिरनीलो व्यालयज्ञोपवीती |
क्रमसमयसपर्याविघ्नविच्छेदहेतु-
र्जयति वटुकनाथः सिद्धिदः साधकानाम् || १३० ||
इति ध्यात्वा तु संपूज्य पूर्वोक्तबलिमाचरेत् |
अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिं हरेत् || १३१ ||
Seite 126 der Vorlage
विषं माया रमा देवीपुत्रवटुकनाथतः |
पिङ्गलपदतो जटाभास्वर प्रोच्य पिङ्गल || १३२ ||
त्रिनेत्र च इमं बलिं पूजां गृह्णयुगन्ततः |
वह्निजायान्तमुच्चार्य वटुकस्य महात्मनः || १३३ ||
अनेन बलिमुत्सृज्य यागिनीश्चिन्तयेत्ततः || १३४ ||
योगिनीध्यानकथनम्
योगिन्यः कामरूपा निखिलगुणतास्तप्तकान्तस्वभावा
मत्ताः कङ्कालमालाकलितकुचतटी रक्तवस्त्रोत्तरीयाः |
लिङ्गं पाशं कपालं शृणिमपि दधतः सुस्मिताः सुप्रसन्नाः
भक्तानां साधकानामभिलषितफलं दीयमानाः सुवेशाः || १३५ ||
एवं ध्यात्वा प्रपूज्यैव पश्चादपि बलिं ददेत् |
अङ्गुष्ठमध्यमानामा योगिनीभ्यो बलिं हरेत् || १३६ ||
तारं लज्जां रमां सर्वसिद्धिञ्च योगिनीभ्यः |
सर्वाभ्यो मातृकाभ्यश्च इत्युत्सृज्य बलिं ददेत् || १३७ ||
Seite 127 der Vorlage
विषं मायां ततः सर्वभूतेभ्यश्च ततः परम् |
सर्वभूतपतिं प्रोच्य भ्यो नमोऽन्तं समुच्चरेत् || १३८ ||
सर्वभूतबलिं दत्ता क्षेत्रपालबलिं हरेत् |
ततः सञ्चिन्तयेत् क्षेत्रनायकं सिद्धिहेतवे || १३९ ||
क्षेत्रपालध्यानम्
निर्वाणं निर्विकल्पं निरुपमसकलं निर्विकारं क्षकारं
हूङ्कारं वज्रदंष्ट्रं हुतवहवदनं रौद्रमुन्मत्तभावम् |
फट्कारं बद्धनागं भ्रुकुटितटमुखं भैरवं शूलपाणिं
खट्वाङ्गं व्योमनीलं डमरुकसहितं क्षेत्रपालं नमामि || १४० ||
क्षेत्रपालबलिप्रदानम्
इति ध्यात्वा तु सम्पूज्य बलिं पश्चान्निवेदयेत् |
विशं मायां रमाबीजं क्षकारं बिन्दुभूषितम् || १४१ ||
षड्दीर्घस्वरसम्भिन्नं स्वस्थान क्षेत्रपाल च |
इमं बलिं पदस्यान्ते पूजां गृह्णयुगं ततः || १४२ ||
स्वाहान्तमन्त्रमुच्चार्य क्षेत्रपालबलिं दिशेत् |
क्षेत्रपालबलिं दत्त्वा मध्ये दद्यात्ततः परम् || १४३ ||
इत्युत्सृज्य बलिं दद्याद्राजराजेश्वराय च |
बलिपात्रामृतेनैव तर्पयेद्वटुकादिकम् || १४४ ||
Seite 128 der Vorlage
एकत्र वा पञ्चबलिं दद्याद्व्यापकमण्डले |
वामभागे स्थिते चैव सर्वविघ्नहरो भवेत् || १४५ ||
दक्षिणे वटुकं दद्यादुत्तरे योगिनीबलिम् |
पूर्वे भूः बलिं दद्यात् क्षेत्रपालस्य पश्चिमे || १४६ ||
राजराजेश्वरं मध्ये बलिं दद्यात् सुसाधकः || १४७ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये षष्ठोल्लासः || ६ ||
सप्तम उल्लासः
पूजाविधिः
अथ वक्ष्ये च पूजाया विधानं यत्र यद्भवेत् |
पूजादौ च जपादौ च जपस्यान्ते तथैव च || १ ||
पूजान्ते चाग्निकार्यान्ते प्राणायामत्रयं चरेत् |
प्राणायामषडङ्गञ्च कृत्वा साधकसत्तमः || २ ||
पीठपूजां प्रकुर्वीत स्वकल्पोक्तविधानतः |
स्वकल्पोक्तविधानेन ध्यात्वा देवीं समाहितः || ३ ||
हृत्सरोजात् समानीय नासापुटपथा सुधीः |
तेजोमयीं महादेवीं दीपाद्दीपान्तरं यथा || ४ ||
पुष्पाञ्जलौ ततः पश्चान्मन्त्रमध्ये समानयेत् |
आवाहन्यादिमुद्राश्च दर्शयेत्तदनन्तरम् || ५ ||
आवाहन्यादिमुद्रानिरूपणम्
१. आवाहनीमुद्रा
२. स्थापनीमुद्रा
ऊर्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् |
इयं तु विपरीता चेत्तदा वै स्थापनी भवेत् || ६ ||
Seite 130 der Vorlage
३. सन्निधापनीमुद्रा
४. सन्निरोधनीमुद्रा
मिलितं मुष्टियुगलं सन्निधापनरूपिणी |
अन्तरङ्गुष्ठमुष्टिभ्यां सन्निरोधनरूपिणी || ७ ||
५. अवगुण्ठनीमुद्रा
एतस्या एव मुद्रायास्तर्जन्यौ सरले यदि |
अवगुण्ठनमुद्रेयमभितो भ्रामिता सती || ८ ||
६. सकलाकृतिमुद्रा
७. परमीकरणीमुद्रा
८. धेनुमुद्रा
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः |
अन्योऽन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुलिः || ९ ||
महामुद्रेति कथिता परमीकरणे बुधैः |
परिवृत्य करौ पश्चात् तर्जनीमध्यमायुगम् || १० ||
कनिष्ठानामिकायुग्मं परस्परयुतं कुरु |
धेनुमुद्रेयमाख्याता अमृतीकरणे बुधैः || ११ ||
स्वस्वकल्पोक्तविधिना मुद्राः सन्दर्शयेत्ततः |
Seite 131 der Vorlage
दर्शयित्वा ततो मुद्रां तालत्रयपुरःसरम् || १२ ||
छोटिकाभिर्दिग्बन्धनं कृत्वा जीवं न्यसेत्ततः |
लेलिहामुद्रया यन्त्रं स्पृष्ट्वा पञ्चकुशेन वा || १३ ||
लेलिहामुद्रा
तर्जनीमध्यमानामाः समं कृत्वा अधोमुखम् |
अनामायां क्षिपेद्वृद्धां ऋजुं कृत्वा कनिष्ठिकाम् || १४ ||
लेलिहेति च विख्याता जीवन्यासे प्रकीर्तिता |
मूलमन्त्रेण दीप्तात्मा अर्घ्यद्रव्योदकेन च || १५ ||
त्रिवारं प्रोक्षयेद्धीमान् देवशुद्धिरितीरिता |
ततः सम्पूजयेद्देवीं षोडशैरुपचारकैः || १६ ||
षोडशोपचारपूजनम्
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् |
मधुपर्काचमनस्नानवसनाभरणानि च || १७ ||
गन्धपुष्पे तथा धूपदीपनैवेद्यवन्दनाः |
(अथवा)
पाद्यार्घ्याचमनस्नानवसनाभरणानि यच || १८ ||
गन्धपुष्पे धूपदीपनैवेद्याचमनं ततः |
ताम्बूलमर्चनास्तोत्रं तर्पणञ्च ततः परम् || १९ ||
Seite 132 der Vorlage
अर्घ्यं पाद्यं निवेद्याथ तथैवाचमनीयकम् |
मधुपर्काचमनञ्च गन्धप्रसूनके ततः || २० ||
धूपदीपौ च नैवेद्यं दशोपचारकं स्मृतम् |
गन्धादयो नैवेद्यान्तः पूजा पञ्चोपचारिका || २१ ||
उत्तमादिभेदेन त्रिविधा पूजा
उत्तमा मध्यमा चैव बुधैरुक्ताऽधमा क्रमात् |
अभावे पुष्पतोयाभ्यां पत्रेण तदभावतः || २२ ||
तदभावे सर्षपेण श्वेतेनाऽपि विशेषतः |
तदभावेऽक्षतेनैव दूर्वया तदभावतः || २३ ||
अभावे वारिणा वापि तदभावे च मानसैः |
मूलान्ते देवतानाम ङेयुतञ्च समुद्धरेत् || २४ ||
देयद्रव्यपदोल्लेखं कृत्वा च तदनन्तरम् |
हृदयेन तु पाद्यञ्च शिरसार्घ्यं निवेदयेत् || २५ ||
वारुणेनाचमनं प्रोक्तं तेनैव मधुपर्ककम् |
शिखामन्त्रेण गन्धञ्च पुष्पं नेत्रेण दापयेत् || २६ ||
निवेदयामि वदने दद्यात् सर्वं सुसाधकः |
पाद्यादिकं निवेद्याथ स्नानीयञ्च निवेदयेत् || २७ ||
Seite 133 der Vorlage
देवीस्नाननिरूपणम्
ततश्च पादुके दत्त्वा सुरक्ते स्नानमन्दिरे |
नानारत्नसमायुक्तस्वर्णसिंहासनान्विते || २८ ||
तत्रानीय महादेवीं साधकः शुद्धभावतः |
घृतेनोद्वर्तनं कार्यं मनसा तदनन्तरम् || २९ ||
सुगन्धिदिव्यतैलेन देवकन्यासहस्रकैः |
सहस्रैः स्वर्णकुम्भैश्च सुगन्धजलपूरितैः || ३० ||
आसिञ्चेद् भक्तिभावेन भवानीं भक्तवत्सलाम् |
नानातीर्थोदकैः शुद्धैर्गन्धराजसहस्रकैः || ३१ ||
नागकन्यासहस्रैस्तु किन्नरैरप्सरोगणैः |
पञ्चामृतैः पञ्चगव्यैः स्नापयेत्तदनन्तरम् || ३२ ||
नारिकेलोदकेनैव तथेक्षुवारिणा ततः |
सप्तमृत्तिकया युक्त शीतलेन जलेन च || ३३ ||
शीतलोष्णोदकेनैव तथा रत्नोदकेन च |
सुवासितजलेनैव देव्याः स्नानं समाचरेत् || ३४ ||
सहस्रशीर्षामन्त्रेण पावमान्या तथैव च |
भृङ्गाराष्टककुम्भैस्तु देव्याः स्नानं विधाय च || ३५ ||
Seite 134 der Vorlage
उपचाराः
ततः शुद्धैर्दुकूलैश्च गात्रमार्जनमाचरेत् |
कार्पासं वाल्कलं वार्क्षं कोषजं वस्त्रमिष्यते || ३६ ||
रक्तकौषेयवस्त्रञ्च महादेव्यै प्रशस्यते |
सपीताम्बरकौषं वा स्वदेवाय च उत्सृजेत् || ३७ ||
विचित्रं सर्वदेवेभ्यो दिव्यांशुकं निवेदयेत् |
नीलरक्तं तु यद्वस्त्रं तत्सर्वत्र विवर्जयेत् || ३८ ||
विचित्ररागविपुलं लग्नहीनं विवर्जयेत् |
वस्त्रं दद्यान्महादेव्यै नान्यस्मै तु कदाचन || ३९ ||
रक्तवस्त्रं रक्तमाल्यं रक्तालङ्करणं तथा |
दत्त्वाऽङ्गलेपनं काकिर्यं गन्धचन्दनसिह्लकैः || ४० ||
पुनश्च पादुके दत्त्वा मनोरमे सुसाधकः |
यन्त्रमध्ये समानीय नमस्कुर्यात् समाहितः || ४१ ||
Seite 135 der Vorlage
पुनः पाद्यादिकं दत्त्वा पूजयेद्विधिपूर्वकम् |
यथोत्पन्नं फलं पुष्पं तथा दद्याच्च पत्रकम् || ४२ ||
पुष्पाञ्जलिप्रदानेन न भवेन्नियमस्त्वयम् |
नाधोमुखं फलं दद्यादिति शास्त्रस्य निर्णयः || ४३ ||
ज्ञानमुद्रा
ज्ञानाख्यमुद्रया चैव पूजयेत् परमेश्वरीम् |
अङ्गुष्ठतर्जनीभ्यां तु ज्ञानमुद्रा प्रकीर्तिता || ४४ ||
मध्यमानामिकाभ्यां तु अङ्गुष्ठाग्रेण साधकः |
दद्याच्च विमलं गन्धं मूलमन्त्रेण पूर्ववत् || ४५ ||
यथा गन्धं तथा चैव धूपं दद्याद्विचक्षणः |
मध्यमानामिकाभ्यां तु मध्यपर्वणि देशिकः || ४६ ||
अङ्गुष्ठाग्रेण धूपञ्च धृत्वा च विनिवेदयेत् |
उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः || ४७ ||
अनामिकाङ्गुष्ठयोगे नैवेद्यं तु निवेदयेत् |
अन्यत् सर्वं स वीरः प्रदद्याज्ज्ञानमुद्रया || ४८ ||
दधिमधुघृतेनैव मधुपर्कः प्रकीर्तितः |
पायसं कृशरं दद्यात् पाल्यन्नं मधुसंयुतम् || ४९ ||
Seite 136 der Vorlage
पिष्टकं मोदकञ्चैव दुग्धं दधि तथा फलम् |
ताम्बूलञ्च ततो दद्यात् कर्पूरादिसुवासितम् || ५० ||
तत्र तत्र जलं दद्यादुपचारान्तरान्तरा |
पुनर्माल्यं प्रदातव्यं गन्धवन्दनपङ्कजम् || ५१ ||
दर्पणं चामरं छत्रं पादुकाञ्च निवेदयेत् |
विधिवत् पूजनं कृत्वा तर्पयेत्तत्त्वमुद्रया || ५२ ||
तत्त्वमुद्रा
अङ्गुष्ठानामिकायोगाद्वामहस्तस्य सर्वदा |
अङ्गुष्ठे भैरवो देवोऽनामायां चण्डिका सदा || ५३ ||
तर्पणविधिः
अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् |
अङ्गुष्ठमध्यमाभ्याञ्च वश्यकर्मणि तर्पयेत् || ५४ ||
कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत्ततः |
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके || ५५ ||
एवं सन्तर्प्य देवेशीं कुलद्रव्यैर्यथाविधि |
Seite 137 der Vorlage
तर्पणञ्चाष्टधा कार्यं सकृद्वापि यथेच्छया || ५६ ||
नार्चयेदेकहस्तेन तर्पयेन्नैकपाणिना |
तर्पयित्वामहादेवीं स्वीयक्रममथाचरेत् || ५७ ||
देवतामन्तिकं कुर्यात् कुसुमैर्विहितैः सदा |
पूजाकाले देवताया नोपरि भ्रामयेत् करम् || ५८ ||
देव्यनुज्ञां गृहीत्वा तु पूजयेदङ्गदेवताः |
ध्यात्वा गुरुकुलं धीरो रश्मिवृन्दं तथैव च || ५९ ||
अङ्गदेवतापूजाविधिः
स्व स्व स्थाने समावाह्य पूजयेत्तदनन्तरम् |
विना यो हि गुरोः पूजामिष्टदेवं यजेद् यदि || ६० ||
निष्कृतिर्नास्ति तस्यैव नरकार्णवकोटिषु |
तस्मात् सर्वप्रयत्नेन गुरुपूजां समाचरेत् || ६१ ||
गुरुपूजा
दिव्यौघा गुरवो ह्येव सिद्धौघा गुरवस्तथा |
मानवौघाः समासेन पूजनीयाः प्रयत्नतः || ६२ ||
Seite 138 der Vorlage
अथवा सर्वशास्त्रेषु गुरवः पूर्वसूचिताः |
येषु येषु च मन्त्रेषु ये ये ऋषिगणाः स्मृताः || ६३ ||
ते ते पूज्याः सपर्यादौ सङ्क्षेपाद् गदितं मया |
अज्ञात्वा गुरुनामानि गुरुत्रितयमर्चयेत् || ६४ ||
चतुष्टयं वा सङ्कोचो न च कार्यं ततः परम् |
गुरुः परगुरुश्चैव परापरगुरुस्ततः || ६५ ||
परमेष्ठिगुरुश्चैव कथिता गुरव शुभाः |
न जानामि गुरोर्नाम वंशशुद्धिः कदाचन || ६६ ||
त्वत्पादाम्बुजरेणूनां कर्णमादेहि दासताम् |
इति स्तवेन संस्तुत्य तस्मिन्निजगुरुं यदि || ६७ ||
तन्नाम्ना पूजयेद्यस्तु तेन पूजा गुरोर्भवेत् |
गुरुपूजां विना चैव यदि पूजां समाचरेत् || ६८ ||
तद्दोषशमने चैव कुलपूजां समाचरेत् |
पूर्ववत्तर्पणं कृत्वा रश्मिवृन्दं प्रपूजयेत् || ६९ ||
यत्र यत्र स्थितिश्चैव तत्र तं नार्चयेद्यदि |
तन्मांसरुधिरेणैव पारणं तस्य जायते || ७० ||
एकपीठे पृथक् पूजां विना यन्त्रं करोति यः |
अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् || ७१ ||
Seite 139 der Vorlage
आवाह्य देवतामेकामर्चयंश्चान्यदेवताम् |
उभाभ्यां लभते शापं मन्त्री चञ्चलमानसः || ७२ ||
तस्मात् सर्वप्रयत्नेन स्वस्वस्थाने यथाक्रमात् |
सम्पूज्य देवताः सर्वास्तर्पयेत्तदनन्तरम् || ७३ ||
ब्रह्माण्याद्यष्टशक्तींश्च पूजयित्वा च तर्पयेत् |
पुनः सम्पूजयेद् देवीमुपचारैश्च विस्तरैः || ७४ ||
आसनं प्रथमं दद्यात् रौप्यं दारुजमेव वा |
वस्त्रं वा चार्मणं कोषं मण्डपस्योत्तरे सृजेत् || ७५ ||
पाद्यं दत्त्वा महादेव्यै चार्घ्यम् दद्यात्ततः परम् |
श्यामा दूर्वा पङ्कजञ्च विष्णुक्रान्तासमन्वितम् || ७६ ||
गन्धपुष्पाक्षतजवाकुशाग्रतिलसर्षपैः |
सदूर्वैः सर्वदेवानामेतदर्घ्यमुदीरितम् || ७७ ||
केवलं तोयमात्रेण तदाचमनमिष्यते |
वासितन्तु सुगन्धाद्यैः कर्त्तव्यं यदि लभ्यते || ७८ ||
Seite 140 der Vorlage
गन्धाष्टकम्
अर्घ्यादिकं प्रदद्यात्तु गन्धाष्टकं निवेदयेत् |
चन्दनागुरुकर्पूरं चोरकुङ्कुमरोचनाः || ७९ ||
जटामांसी कपिजटा शक्तेर्गन्धाष्टकं विदुः |
नानाविधानि पुष्पाणि वसनाभरणानि च || ८० ||
मालां दद्यात्ततो देव्यै गन्धचन्दनमिश्रितम् |
सर्वाङ्गलेपनं दद्याद् धूपं दद्यात्ततः परम् || ८१ ||
धूपनिर्माणनिरूपणम्
उशीरं चन्दनं कुष्ठमगुरुं गुग्गुलुं तथा |
मधुना घृतसंयुक्तो धूपोऽयं चण्डिकाप्रियः || ८२ ||
(अथवा)
रोगरोगहररोगदकेशाः सुरतरुजतुलघुपत्रविशेषाः |
वक्रतारहितवारिजमुद्रा धूपवर्तिरिह सुन्दरि भद्रा || ८३ ||
हरितकीमुस्तमथो नखी च मांसी जतुशैलजदेवदारुः |
कुष्ठं गुडः सर्जरसस्तथैव दशाङ्गधूपः कथितो मुनीन्द्रैः || ८४ ||
Seite 141 der Vorlage
(अथवा)
अगुरुशीरगुग्गुलुशर्करामधुचन्दनैः |
धूपयेदाज्यसंमिश्रैर्नोचैर्देवस्य देशिकः || ८५ ||
केवलं गुग्गुलं धूपमगुरुं वापि सन्दिशेत् |
एषामेकतमं कृत्वा निवेद्य शास्त्रवर्त्मना || ८६ ||
न भूमौ स्थापयेद्धूपमासने च घटेऽपि वा |
कुलदीपदानविधिः
घृतप्रदीपं प्रथमं तिलतैलोद्भवं ततः || ८७ ||
सार्षपं फलनिर्यासजातं वा वारिजोद्भवम् |
प्रणवं जयध्वनिपदं मातः स्वाहा ततः परम् || ८८ ||
अनेन पूजयेद् घण्टामनेन परिवादयेत् |
तैजसं दारुजं वापि आर्त्तिक्यं दीपवृक्षकम् || ८९ ||
अत्र दीपं प्रदातव्यं भूमौ नहि कदाचन |
एवं दीपं प्रकुर्वीत नेत्ररञ्जनकारकम् || ९० ||
घृतदीपं दक्षिणे तु स्ववामे तैलदीपकम् |
अभितो दीपयेन्मन्त्री दीपमालां घृतल्पताम् || ९१ ||
Seite 142 der Vorlage
कर्पूरवर्तिकायुक्तां तेनैव वा परिप्लुताम् |
वर्त्ता कर्पूरगन्धिन्या सर्पिषा तिलजेन वा || ९२ ||
आरोप्य दर्शयेद्दीपानुच्चैः सौरभशशालिनः |
दीपाबलिं ततो दत्त्वा कुलदीपं निवेदयेत् || ९३ ||
सौवर्णे राजते कांस्ये स्थानके कुङ्कुमेन तु |
दलाष्टकयुतं पद्मं विलिख्य तत्र साधकः || ९४ ||
यवगोधूमदुग्धाद्यैः कृत्वेन्दुरूपकं चरुम् |
अष्टपत्रेषु मध्ये च स्थापयित्वा ततः परम् || ९५ ||
नवदीपं क्षिपेत्तत्र मूलमन्त्रेण मन्त्रयेत् |
सप्तधा तत्र उत्तोल्य नवधा भ्रामयेत्ततः || ९६ ||
निर्मञ्चयेन्महादेवीं मूलमन्त्रं समुच्चरन् |
ततश्च साधकश्रेष्ठश्चक्रमुद्रां प्रदर्शयेत् || ९७ ||
चक्रमुद्रालक्षणम्
दक्षिणेतरहस्तस्य वृद्धागर्भकनिष्ठिका |
दक्षिणे योजयित्वा तु कनिष्ठे गर्भके बुधः || ९८ ||
वामे च यदक्षिणाङ्गुष्ठं साधको विनियोजयेत् |
अन्योन्ययोगतश्चैव चक्रमुद्रा प्रकीर्तिता || ९९ ||
Seite 143 der Vorlage
प्रदत्त्वा कुलदीपञ्च नैवेद्यं तु प्रदापयेत् |
तैजसेषु च पात्रेषु प्रस्तरे वाऽब्जपत्रके || १०० ||
यज्ञदारुमये वापि नैवेद्यं कल्पयेद् बुधः |
सर्वाभावे तु माहेये स्वहस्तघटिते यदि || १०१ ||
न दद्यात् वाल्कले लौहे दत्ते नरकमाप्नुयात् |
यद्योग्यं सर्वपात्रे तु तन्निधाय निवेदयेत् || १०२ ||
अन्नतोयैर्यथा सृष्टमर्घ्यपात्रस्थितेतरैः |
न गृह्णाति महादेवी दत्तं विधिशतैरपि || १०३ ||
नैवेद्यं षड्रसोपेतं नानाविधफलं तथा |
नानाविधानि द्रव्याणि दत्त्वा देव्यै प्रयत्नतः || १०४ ||
मद्यं निवेद्य मांसञ्च मत्स्यं मुद्रां ततः परम् |
दत्त्वा देव्यै प्रयत्नेन अन्नं बहुविधं तथा || १०५ ||
विविधं व्यञ्जनं रम्यं कषायं तिक्तसंयुतम् |
कट्वम्लमधुरञ्चैव परमान्नं सशर्करम् || १०६ ||
Seite 144 der Vorlage
शर्करादुग्धखण्डादिभावितं पिष्टकं तथा |
दुग्धं दधि तथा तक्रं नवनीतं सशर्करम् || १०७ ||
शर्करामोदकं दद्यादन्यं नानाविधं तथा |
चर्व्यं चोष्यं लेह्यपेयं भक्ष्यं भोज्यं निवेदयेत् || १०८ ||
अशक्तौ मनसा दद्यादेतत् कर्म न लोपयेत् |
चुल्लुकञ्च ततो दत्त्वा प्राणमुद्रां प्रदर्शयेत् || १०९ ||
प्राणादिपञ्चमुद्रा
वृद्धानामाकनिष्ठाभिः प्राणमुद्रा समीरिता |
वृद्धामध्यातर्जनीभिरपानस्य प्रकीर्तिता || ११० ||
वृद्धानामामध्यमाभिर्व्यानमुद्रा प्रदर्शिता |
कनिष्थाभिन्नसर्वाभिरुदानस्य समीरिता || १११ ||
समानमुद्रा सर्वाभिरङ्गुलीभिः प्रदर्शिता |
प्राणापानौ तथा व्यान उदानश्च समानकः || ११२ ||
चतुर्थ्यन्तोऽग्निजायान्तस्ताराद्यो मुद्रिकामनुः |
वामहस्ते प्रासमुद्रा प्रासवत् परिकीर्तिता || ११३ ||
Seite 145 der Vorlage
पुनराचमनीयञ्च दत्त्वा देव्यै सुसाधकः |
स्वयम्भूकुसुमं कुण्डगोलोत्थं रोचनागुरुम् || ११४ ||
कस्तूरीकुङ्कुमारक्तचन्दनानि प्रदापयेत् |
गन्धपुष्पं तथा माल्यं रक्तपुष्पादिभूषणम् || ११५ ||
सिन्दूरं कज्जलं दद्यादलक्तं पट्टगुच्छकम् |
द्रोणापराजितापुष्पं करवीरं जवां तथा || ११६ ||
प्रयत्नेन प्रदातव्यं चण्डिकाप्रीतिकारकम् |
दत्ते चैव जवापुष्पे पट्टवस्त्रफलं लभेत् || ११७ ||
अपरायाश्च माहात्म्यं वक्तुं नहि कदाचन |
ताम्बूलञ्च ततो दद्यात् कर्पूरादिसुवासितम् || ११८ ||
पुनर्माल्यं प्रदातव्यं गन्धचन्दनसंयुतम् |
दर्पणं पादुकां छत्रं चामरं व्यजनादिकम् || ११९ ||
अजादिबलिदानेन चण्डिकां तोषयेत्ततः |
स्वहस्तेन पशुच्छेद निषेधः
यत्नतस्तु बलिं दद्यान्न हन्यादात्मना पुनः || १२० ||
Seite 146 der Vorlage
स्वहस्तैर्न पशुं हन्यात् स्वतो हिंसां विवर्जयेत् |
यदि हन्यात् प्रमादेन रौरवं नरकं व्रजेत् || १२१ ||
छागादीनि बलिं दत्त्वा धूपदीपं निवेदयेत् |
गृहीत्वा शोणितं पात्रे स्वकीयं हृदयोद्भवम् || १२२ ||
तोयसैन्धवसंयुक्तं शर्करामधुसंयुतम् |
प्रदद्याच्च महादेव्यै सर्वसौभाग्यहेतवे || १२३ ||
अभ्युक्ष्य रुधिरं धीरो वाग्भवेन प्रदापयेत् |
शक्तिबीजेन वा दद्यान्नाभेरूर्ध्वमधो नहि || १२४ ||
पुष्पाञ्जलित्रयं दत्त्वा तर्पयेन्निजदेवताम् |
ततश्च साधकश्रेष्ठो मन्त्रशुद्धिं माचरेत् || १२५ ||
गृहीत्वा मातृकावर्णं मूलमन्त्राक्षराणि च |
क्रमात् क्रमाद् द्विरावृत्तिर्मन्त्रशुद्धिरितीरिता || १२६ ||
वाचिकादिभेदेन त्रिविधो जपः
आदौ मन्त्रविशुद्धार्थं जपं कुर्यात्ततः परम् |
जपञ्च त्रिविधं प्रोक्तं वाचिकोपांशुमानसम् || १२७ ||
Seite 147 der Vorlage
जिह्वौष्ठाधरसंस्फूर्त्तेर्जपो यश्च प्रजायते |
तज्जपं वाचिकं विद्धि जिह्वामात्रमुपांशुकम् || १२८ ||
मनसा मन्त्रवर्णस्य चिन्तनं मानसं स्मृतम् |
वाचिकस्य शतं ज्ञेयं एकोत्तरमुपांशुना || १२९ ||
तस्माच्छतगुणं प्रोक्तं मानसं जपमुत्तमम् |
(अथवा)
निगदश्च तथा ज्ञेयः स्पष्टवाचा निगद्यते || १३० ||
अव्यक्तस्तु स्फुरद्वक्त्र उपांशुः परिकीर्त्तितः |
मानसश्च स बोद्धव्यश्चिन्तनाक्षररूपवान् || १३१ ||
निगदेन तु यज्जप्तं लक्षमात्रं सुसाधकैः |
उपांशुस्मरणेनैव तुल्यं भवति सर्वथा || १३२ ||
अपांशुलक्षमात्रं तु यज्जप्तं साधकेन च |
मानसोच्चारणात्तुल्यं जायते साधकस्य च || १३३ ||
प्राणायामं षडङ्गञ्च कृत्वा ऋष्यादिकञ्चरेत् |
Seite 148 der Vorlage
स्वगुरुं मूर्ध्नि सञ्चिन्त्य हृदि देवीं ततः परम् || १३४ ||
स्वयं कामकलारूपं भावयन् जपमारभेत् |
जपस्यादौ शिवां ध्यायेत् ध्यानस्यान्ते पुनर्जपेत् || १३५ ||
जपध्यानसमायुक्तः शीघ्रं सिध्यति साधकः |
ध्यानं कृत्वा जपेन्मन्त्रं गुरुक्तक्रमतो बुधः || १३६ ||
सर्वे मन्त्राः सिद्धिदाः स्युः सत्यमेव न संशयः |
ततः सम्पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः || १३७ ||
मालापूजा
ओं ह्रीं अक्षमालायै हृन्मन्त्रेण प्रपूजयेत् |
ओं माले माले महामाले सर्वसिद्धिस्वरूपिणि || १३८ ||
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव |
मालाजपविधिः
पूजयित्वा ततो मालां गृहीत्वा दक्षिणे करे || १३९ ||
हृत्समीपे समानीय न तु वामेन संस्पृशेत् |
विना यन्त्रञ्च मन्त्रञ्च कवचं मन्त्रशून्यतः || १४० ||
मालाञ्च वामहस्तेन मृत्युचिह्नस्य लक्षणम् |
संख्या कृता मृत्तिका च अक्षतञ्च तथैव च || १४१ ||
Seite 149 der Vorlage
मध्यमाया मध्यभागे स्थापयित्वा समाहितः |
तर्जन्या न स्पृशेन्मालामङ्गुष्ठाग्रेण चालयेत् || १४२ ||
पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् |
निःसेतुश्च यथा तोयं क्षणान्निम्नं प्रसर्पति || १४३ ||
मन्त्रस्तथैव प्रणवो द्विजानां सेतुरीरितः |
शूद्राणां चन्द्रबिन्दुस्थ औकारः सेतुरुच्यते || १४४ ||
शूद्राणामादिसेतुर्वा द्विसेतुर्वा यथेच्छया |
द्विसेतवः समाख्याताः सर्वथैव द्विजातयः || १४५ ||
यथा मन्त्रं तथा स्तोत्रं कवचञ्च तथाविधम् |
सेतुं विना भवेद्वयर्थं तस्मात् सेतुं समाचरेत् || १४६ ||
प्रत्येकं बीजमादाय अङ्गादूर्ध्वेन मन्त्रवित् |
पूर्वबीजं जपन् यस्तु परबीजन्तु संस्पृशेत् || १४७ ||
अङ्गुष्ठेन विना यस्य निष्फलः स जपः सदा |
एवमुक्तविधानेन विलम्बं त्वरितं त्यजेत् || १४८ ||
मेरुं प्रदक्षिणीकृत्य प्रजपेत् साधकोत्तमः |
गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं पुनः || १४९ ||
Seite 150 der Vorlage
गृह्णन्ति राक्षसास्तेन गणयेत् सर्वदा बुधः |
अथवा करमालायां मातृकायां तथैव च || १५० ||
नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन |
नित्यजपे च होमे च यत्र संख्या न चोदिता || १५१ ||
जपसंख्या
तत्रेयं गणना प्रोक्ता अष्टोत्तरसहस्रकम् |
अष्टोत्तरशतं वापि त्रिंशद्वापि कदाचन || १५२ ||
त्रिंशन्न्यूनं न कुर्याच्च नित्यजापे च साधकः |
यथाशक्ति जपं कृत्वा प्राणायामं विधाय च || १५३ ||
जपसमर्पणं
गोपयित्वा ततो मालां सप्रसूनार्घ्यवारिणा |
तेजोमयं जपफलं देव्या हस्ते समर्पयेत् || १५४ ||
प्रणामविधिः
गुह्यातीति समर्प्याथ स्तुवन् घण्टाञ्च वादयेत् |
त्रिविधेन नतिं कुर्यादष्टाङ्गकविधानकैः || १५५ ||
Seite 151 der Vorlage
चिबुकेन मुखेनाथ नासया मस्तकेन च |
ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमेः स्पर्शनं भवेत् || १५६ ||
(अथवा)
उरः शिरोद्दष्टिजानुमनश्चरणवाक्करैः |
अष्टाङ्गनमनं ज्ञेयं नित्यहोमं ततः परम् || १५७ ||
नित्यं नैमित्तिकं होमं स्थण्डिलेषु समाचरेत् |
न कुर्यात् काम्यहोमं वै विना कुण्डेन मन्त्रवित् || १५८ ||
स्वदक्षिणे लिखेद्धस्तप्रमाणं चतुरस्रकम् |
अङ्गुलोत्सेधसंयुक्तं वालुकाभिः समन्ततः || १५९ ||
तत्र मध्ये च षट्कोणं लिखित्वा प्रोक्ष्य पूजयेत् |
आधारशक्तिमभ्यर्च्य पूर्ववच्च षडङ्गकम् || १६० ||
ततो वह्निं समुज्ज्वाल्य क्रव्यादंशं परित्यजेत् |
शब्दास्त्रमनुना मन्त्री नैर्-ऋत्यां ज्वलदग्निकम् || १६१ ||
आत्मनोऽभिमुखं कृत्वा वह्निं संस्थापयेद् बुधः |
अग्निं प्रज्वाल्य मूलेन ज्वालिनीञ्च प्रदर्शयेत् || १६२ ||
Seite 152 der Vorlage
ज्वालिनीमुद्रा
मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली |
मध्यमे मिलिते कृत्वा तन्मध्येऽङ्गुष्ठकौ क्षिपेत् || १६३ ||
इयं स्याज्ज्वालिनी मुद्रा परमा होमकर्मणि |
अग्निं सम्पूजयित्वा तु शिवशक्तिसमागमात् || १६४ ||
वह्निमध्ये समावाह्य इष्टदेवीं समाहितः |
आवाहन्यादिका मुद्रा दर्शयित्वा तु रक्षयेत् || १६५ ||
सम्पूज्य च महादेवीं हव्यं संशोधयेत्ततः |
संस्थाप्य हवनीयञ्च पूर्ववत् प्रोक्षणञ्चरेत् || १६६ ||
चतुर्धा शोधनं कृत्वा आज्यस्थाली तु सन्दिशेत् |
पूर्ववन्मण्डलं कृत्वा पूजयेत् पूर्ववर्त्मना || १६७ ||
अत्र पात्रं विनिक्षिप्य हव्यं तत्र निधापयेत् |
दशधा मूलमन्त्रेण अभिमन्त्र्य हुनेत्ततः || १६८ ||
प्रणवं भूस्ततः स्वाहा इदमग्निञ्च ङेयुतम् |
तारं भुवो वह्निजाया इदञ्च वायवे पदम् || १६९ ||
ओं स्वः स्वाहा इदं प्रोच्य प्रजाधिपतये ततः |
इत्याहुतित्रयं हुत्वा महाव्याहृतिसाङ्कम् || १७० ||
हव्ये वह्नौ तथा देव्यां आत्मन्यैक्यं विभावयेत् |
Seite 153 der Vorlage
षडङ्गमनुना षट्कमाहुतिं जुहुयात्ततः || १७१ ||
मूलान्ते देवतानाम ङेयुक्तञ्च समुच्चरेत् |
ततः स्वाहा समुच्चार्य अष्टोत्तरसहस्रकम् || १७२ ||
हविषा च हुनेद्धीर तिलेन पलनेन वा |
अष्टोत्तरशतं वापि तदर्द्धं वापि साधकः || १७३ ||
अथवाष्टदशं कुर्यान्नित्यहोमे त्वयं विधिः |
मांसेन मधुना चाज्यैर्मत्स्यैः पुष्पैस्तिलैस्तथा || १७४ ||
यवैर्धान्यैश्च मुद्राभिः कुलपुष्पैस्तथा फलैः |
अपामार्गैर्बिल्वपत्रैर्भृङ्गराजैः सुशोभनैः || १७५ ||
पुष्पनामानि
करवीरैर्जवापुष्पैरपराद्रोणकिंशुकैः |
पद्मैश्च कुमुदैः कुन्दैर्नीलरक्तोत्पलैस्तथा || १७६ ||
सौगन्धिकैश्च बन्धूकैः केशरैश्चम्पकैस्तथा |
जातीभिर्मालतीभिश्च मल्लिकाभिः कदम्बकैः || १७७ ||
मनोरमैः प्रसूनैश्च फलैः पत्रैर्यथाविधि |
अनेन विधिना मन्त्री देव्या होमं समाप्य च || १७८ ||
होमसमाप्तिः
पञ्चप्राणाहुतीर्मूलैः षडङ्गानां षडहुतोः |
गुरुवृन्दं रश्मिवृन्दं समावाह्य हुनेत्ततः || १७९ ||
Seite 154 der Vorlage
क्रमादेकाहुतिं हुत्वा प्रत्येकेन सुसाधकः |
आहुतित्रितयं हुत्वा पुनर्देव्यै प्रयत्नतः || १८० ||
पुनराचमनीयं तु दत्त्वा वह्नौ समानयेत् |
संहारमुद्रया देवीं ओं अग्नये ततः परम् || १८१ ||
वह्निजायान्तमन्त्रेण आहुतित्रितयं हुनेत् |
विसृज्याग्निञ्च देवीञ्च शङ्खघण्टाञ्च वादयेत् || १८२ ||
तर्पयित्वा ततो देवीं चक्रस्थां परमेश्वरीम् |
देव्यङ्गमूर्ध्नि संहृत्वा शेषं कर्म समाचरेत् || १८३ ||
निवेदित पञ्चतत्त्वग्रहणफलकथनम्
ततश्च कौलिकैः सार्द्धं पानं कुर्यात् कुलामृतम् |
पञ्चतत्त्वं महादेव्यै दत्त्वा न स्वीकरोति यः || १८४ ||
नैवेद्यादि तथा सोऽपि देवीनां शापभाग्भवेत् |
रोगी दुःखी दरिद्रश्च भूत्वा नरकमाप्नुयात् || १८५ ||
पानस्य त्रैविध्यम्
एकाकी नाचरेत् पानं कौलिकैर्मायया सह |
पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् || १८६ ||
Seite 155 der Vorlage
दिव्यं देव्यग्रतः पानं वीरमेकान्तवासिनाम् |
संस्कारादिविहीनं यत्तत् पानं पाशवं स्मृतम् || १८७ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये सप्तमोल्लासः || ७ ||
अष्टम उल्लासः
अन्नपूर्णायाः पूजाध्यानादि विधानम्
क्रमं तस्य प्रवक्ष्यामि चतुर्वर्गप्रदायकम् |
अन्नमध्ये त्वष्टपत्रं पद्मं निर्माय तत्र वै || १ ||
कारणैः पूर्णपात्रं तु संस्थाप्य तत्र साधकः |
षड्दीर्घमायया चैव षडङ्गन्यासमाचरेत् |
ततो ध्यायेदन्नपूर्णां परमानन्ददायिनीम् || २ ||
अन्नपूर्णाध्यानकथनम्
आदाय दक्षिणकरेण सुवर्णदर्वीन्
दुग्धान्न पूर्णामितरेण च रत्नपात्रम् |
भिक्षान्नदाननिरतां नव हेमवर्णा
मम्बां भजे सकलभूषणभूषिताङ्गीम् || ३ ||
एवं ध्यात्वा महादेवीं तत्रावाह्य सुसाधकः |
तत्त्वमुद्रां प्रदर्श्याथ इदमन्नामृतं वदेत् || ४ ||
पूरयद्वन्द्वमुच्चार्य नमः स्वाहा ततः परम् |
Seite 157 der Vorlage
तत्र सन्तर्पयेद्भक्त्या अन्नपूर्णा यजेत्ततः || ५ ||
तारञ्च भुवनेशानीं श्रीबीजं कामबीजकम् |
हृदन्ते भगवत्यन्ते माहेश्वरीपदं लिखेत् || ६ ||
अन्नपूर्णे अग्निजाया त्वन्नपूर्णामनूत्तमः |
यथाशक्ति जपं कृत्वा स्तुत्वा देवीं समाहितः || ७ ||
अर्चयित्वा तु देवेशीं कौलिकान्नार्चयन्ति ये |
पापिष्ठास्ते चण्डिकायाः प्रसादभाजनं नहि || ८ ||
नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया |
साधुभक्तस्य जिह्वायामश्नामि कमलेक्षणे || ९ ||
वसन्ति तस्य जिह्वायां शिवशक्त्यादिदेवताः |
तस्मात् कौलिकवक्त्रेषु होतव्यं साधकोत्तमैः || १० ||
चण्डिकायाः प्रियाकाङ्क्षो देवीभक्तान् यजेत् सदा |
कौलानां लक्षणं वक्ष्ये यथातन्त्रानुसारतः || ११ ||
कौललक्षणम्
निवृत्तदुःखसन्तुष्टा विद्यागमविमत्सराः |
Seite 158 der Vorlage
कुलज्ञानरताः शान्ताः शिवभक्ता दृढव्रताः || १२ ||
कीर्त्यमाने कुले येषां रोमाञ्चगद्गदस्वराः |
आनन्दाश्रुयुता वीराः कथिताः कौलिकेश्वराः || १३ ||
सर्वधर्मोऽधिको लोके कुलधर्मः शिवोदितः |
इति ये निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः || १४ ||
कुलार्चनप्रशंसा
यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः |
कुलार्चनरतपुंसां कौलिकः सोऽधिकः सदा || १५ ||
कुलभक्तान् कुलाचारान् कुलज्ञानान् कुलव्रतान् |
प्रीतो भवति यो दृष्ट्वा कौलिकः स शिवप्रियः || १६ ||
पञ्चतत्त्वस्वीकरणात् मूलमन्त्रार्थतत्त्ववित् |
देवतागुरुभक्तश्चेत् कौलिकः स्याच्च दीक्षया || १७ ||
दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् |
यः शक्तीः स्वयमाहूय कुलाभिज्ञांस्तथैव च || १८ ||
अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः |
मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् || १९ ||
Seite 159 der Vorlage
तेषु तुष्टेषु सन्तुष्टाः शिवाद्याः सर्वदेवताः |
कुलज्ञानी वसेद् यत्र स देशः पुण्यभाजनः || २० ||
दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत् |
कुलज्ञानिनमालोक्य स्वगृहेऽन्यगृहे स्थितम् || २१ ||
समायान्ति मुदा तत्र योगिन्यो योगिभिः सह |
प्रविश्य कुलयोगीशं भुञ्जते पितृदेवताः || २२ ||
यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् |
देवाः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् || २३ ||
ब्रह्मेन्द्राच्युतरुद्रादिदेवता मुनिराक्षसाः |
कुलधर्मपरा ह्येते मानुषेषु च का कथा || २४ ||
न तुष्टा चण्डिकाऽन्यत्र तथातः स्यात् सुपूजिता |
कौलिकेन्द्रेऽर्चिते सम्यग् यथा तुष्टा हि चण्डिका || २५ ||
Seite 160 der Vorlage
यत् फलं कौलिकेन्द्राणां पूजनाल्लभते सुधीः |
तत्फलं नाप्नुयात्तिर्थैस्तपोव्रतमखैः सदा || २६ ||
तन्निन्दायां दोषः
पूजनाज्जपनाद्धोमात् सुकृतं विविधं तथा |
कौलिकस्य भवेद् व्यर्थं कौलिकं योऽवमानयेत् || २७ ||
श्मशानं तद्गृहं विद्धि पापिष्ठः श्वपचाधमः |
कुलनिष्ठं परित्यज्य यच्चान्यस्मै प्रदीयते || २८ ||
तद्दानं निष्फलं विद्याद्दाताऽपि नरकं व्रजेत् |
पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् || २९ ||
त्रायते हि कुलद्रव्यं कुलयोगीश्वरार्पितम् |
कौलिकेन्द्रः सकृद्भुङ्क्ते पुण्यं कोटिगुणं भवेत् || ३० ||
कुलधर्मप्रशंसा
किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते |
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वथा || ३१ ||
कुलधर्मपरो भूत्वा कुलज्ञानिनमर्चयेत् |
नन्दन्ति पितरः सर्वे गायन्ति च पितामहाः || ३२ ||
Seite 161 der Vorlage
प्रपितामहाश्च नृत्यन्ति कौलिके गृहमागते |
यज्ञकोटिफलं तस्य वाजपेयशतानि च || ३३ ||
ददाति कौलिकेभ्यश्च बिन्दुमात्रालिसङ्गमात् |
पृथिवी हेमपूर्णा च कल्पकोटिप्रदानतः || ३४ ||
तत्फलं स्पर्शनाज् ज्ञानात् कौलिके यागमन्दिरे |
कौलिकेषु प्रसन्नेषु प्रसन्ना चण्डिका भवेत् || ३५ ||
संस्मृतः कीर्तितो दृष्टो वन्दितो भाषितोऽपि वा |
पुनाति कुलधर्मिष्ठश्चण्डालोऽपि यदृच्छया || ३६ ||
सर्वज्ञो वापि मूर्खो वा उत्तमो वाऽधमोऽपि वा |
सर्वथैव शिवः सोऽपि तस्माद्यत्नात् समर्चयेत् || ३७ ||
स धन्यः खलु लोकेषु पुरुषः क्षीणकल्मषः |
यत्समीपं समायान्ति कुलाचार्याश्च साधकाः || ३८ ||
अथ कौलान् समानीय शक्तीश्चैव विशेषतः |
स्वशक्तिं वीरशक्तिं वा दीक्षितां गृहिणीमथ || ३९ ||
Seite 162 der Vorlage
पाययित्वा पिबेद् द्रव्यमिति शास्त्रस्य निर्णयः |
अनिवेद्य तु यः शक्तौ कुलद्रव्यं निषेवते || ४० ||
पूजा च विफला तस्य देवता न प्रसीदति |
विना यन्त्रेण या पूजा विना मांसेन तर्पणम् || ४१ ||
विना शक्त्या तु यत्पानं तत्सर्वं निष्फलं भवेत् |
आहूतो यो निवर्तेत अनाहूतोऽपि यो विशेत् || ४२ ||
चक्रमध्ये स पापी स्यात् सर्वधर्मबहिष्कृतः |
तिरश्चां योनिमालम्ब्य नरकान् प्रतिपद्यते || ४३ ||
चक्रविधिः
पूजास्थाने प्रयत्नेन आसनानि प्रदापयेत् |
ततः कौलाः स्त्रियः सर्वा प्रक्षाल्य पाणिपादकम् || ४४ ||
प्रणम्य प्रविशेच्चक्रं मुद्राभिः पञ्चसञ्ज्ञकैः |
स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् || ४५ ||
अथवा मिथुनं कृत्वा क्रमात् समुपवेशयेत् |
पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वाऽथवा || ४६ ||
Seite 163 der Vorlage
चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः |
तं भक्षयन्ति योगिन्यस्तं शपेच्चण्डिका सदा || ४७ ||
चक्रमध्ये जातिभेदनिषेधः
जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः |
प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः || ४८ ||
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् |
रहस्यमार्गनिरता ये ये वर्णा भवन्ति हि || ४९ ||
ते ते विप्राः सर्वथैव सत्यं सत्यं न संशयः |
स्वर्गादिपुण्यलोकेषु देवादन्यो यथा न हि || ५० ||
तथैव चक्रमध्ये तु देवाः सर्वे हि मानवाः |
वेदेऽपि स्थितमेवं हि सर्वं ब्रह्मेति चाब्रवीत् || ५१ ||
बहुनात्र किमुक्तेन चक्रमध्ये तु साधकाः |
पुरुषाः शिवरूपाश्च देवीरूपाः स्त्रियः सदा || ५२ ||
शिवशक्तिधिया सर्वाश्चक्रमध्ये समर्चयेत् |
संस्काराज्ज्येष्ठक्रमतो ललाटे गन्धचन्दनैः || ५३ ||
शक्तीनां साधकानाञ्च तिलकञ्च सहाक्षतम् |
कृत्वा विलेपनं माल्यं प्रदद्यात् साधकोत्तमः || ५४ ||
Seite 164 der Vorlage
अलिपानविधिः
न स्थूलं न हि सूक्ष्मञ्च पात्रं कृत्वा मनोरमम् |
नयनाग्निवाणसंख्यातैः कर्षन्तु साधकेन च || ५५ ||
हेतुपानं प्रकर्तव्यमित्युक्तं कुलसाधने |
इत्यप्यधिकपानं तु न कर्तव्यं तु साधकैः || ५६ ||
कराभ्यां पात्रमुद्धृत्य द्वितीयञ्च यथाक्रमात् |
ततः श्रीगुरुपादाय साक्षात् परशिवाय च || ५७ ||
समांसं देवताबुद्ध्या समर्पयेद्यथाक्रमात् |
दत्त्वामृतरसं पूर्णं गुरवे तदनन्तरम् || ५८ ||
योषिद्भ्यस्त्ववशेषं तु वीरेभ्यश्च ततः परम् |
कुलजाय कुलीनाय कुलभक्ताय दापयेत् || ५९ ||
गुरुभ्यो गुरुपात्रञ्च शक्तिभ्यः शक्तिपात्रकम् |
वीरेभ्यो वीरपात्रञ्च भोगपात्रं स्वयं पिबेत् || ६० ||
साक्षाद्यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् |
सुधाबुद्ध्या ततः सर्वे गृहीत्वा पात्रमुत्तमम् || ६१ ||
Seite 165 der Vorlage
ध्यानं कुर्यात् सुधादेव्या यथाशास्त्रप्रमाणतः |
सुधादेवीध्यानम्
समुद्रे मध्यमाने तु क्षीराब्धौ सागरोत्तमे || ६२ ||
तत्रोत्पन्नां सुधां देवीं कन्यकारूपधारिणीम् |
गोमूत्रसदृशाकारां फेनामृतसमुद्भवाम् || ६३ ||
अष्टादशभुजैर्युक्तां नीरजायतलोचनाम् |
आनन्दशिखरे जात आनन्दश्च महेश्वरः || ६४ ||
तयोर्योगाद् भवेद् ब्रह्मा विष्णुश्च शिव एव च |
तस्मादिमां सुरादेवीं पूर्णोऽहं तां भजाम्यहम् || ६५ ||
एवं ध्यात्वा मूलमन्त्रं सप्तवारं जपेत्ततः |
तस्योपरि ततो वीरः पञ्च मुद्राः प्रदर्शयेत् || ६६ ||
धेनुयोनिं ततः पश्चाद्दर्शयेच्च पुनः पुनः |
तालत्रयछोटिकाभिः कुर्वीत दिक्षु बन्धनम् || ६७ ||
पूर्ववत्तर्पयेत् मूर्ध्नि आनन्दभैरवं तथा |
आनन्दभैरवीं देवीं गुरुपङ्क्तिं प्रयत्नतः || ६८ ||
इष्टदेवं रश्मिवृन्दं गणेशं क्षेत्रपालकम् |
वटुकं भैरवञ्चैव योगिनीं डाकिनीं तथा || ६९ ||
महाभूतान् विघ्नदांश्च तर्पयेच्च यथाक्रमात् |
Seite 166 der Vorlage
पुर्णाभिषेकहीनानां पाने नाधिकारः
अयष्ट्वा भैरवं देवमकृत्वा गुरुतर्पणम् || ७० ||
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् |
गुरुपङ्क्तीरसन्तर्प्यरश्मिवृन्दं तथैव च || ७१ ||
यः पिबेत् कौलिको द्रव्यं तस्य पानं तु पाशवम् |
कौलज्ञानं विना योऽपि तद्द्रव्यं भौक्तुमिच्छति || ७२ ||
स महापातकी भूयात् सर्वधर्मबहिष्कृतः |
सेवेत मद्यमांसानि भ्रष्टश्च पातकी भवेत् || ७३ ||
मन्त्रार्थस्मरणार्थं तु मनसः स्थैर्यहेतवे |
भेदपाशविनिर्मुक्तो मद्यपानं समाचरेत् || ७४ ||
सेवेत यः सुखार्थाय मद्यादीनि स पातकी |
पाशयेद्देवताप्रीत्यै तत्त्वमांसानि साधकः || ७५ ||
पञ्चमुद्रां निषेवेत अन्यथा पातकी भवेत् |
यागकालं विनाऽन्यत्र दूषणं जायते सदा || ७६ ||
Seite 167 der Vorlage
यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः |
न स सिद्धिमवाप्नोति परत्र न परां गतिम् || ७७ ||
स्वेच्छया वर्तमानो यो दीक्षासंस्कारवर्जितः |
न तस्य सद्गतिः काऽपि तपसा सुकृतादिभिः || ७८ ||
पूर्णाभिषेकयुक्तानां पानमत्यन्तमिष्यते |
पूर्णाभिषेकहीनानां पानमत्यन्तदुर्गतिः || ७९ ||
अकृत्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् |
येऽस्मिन् चक्रे प्रवर्तन्ते तेषां हिंसन्ति भैरवाः || ८० ||
अदीक्षितैरनाचारैर्मुद्रामन्त्रविवर्जितैः |
जपपूजां विना नैव न कार्यं द्रव्यभक्षणम् || ८१ ||
भक्षणान्नरकं याति निष्कृतिर्नैव जायते |
मन्त्रसंस्कारशुद्धात्मा अलिपानं समाचरेत् || ८२ ||
जायते देवताभावो भवबन्धविमोचकः |
विचारयेत्ततो वीरः सत्तर्केण विशेषतः || ८३ ||
Seite 168 der Vorlage
धर्मशास्त्रोक्तपाननिषेधविचारः
सिद्धान्नं भुञ्जते विप्राश्चूर्णं शम्बूकसम्भवम् |
काञ्जिकं कासमर्दञ्च तथैव च शिवाघृतम् || ८४ ||
एतेषु यदि न दोषस्तदा सर्वं न दोषभाक् |
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् || ८५ ||
इति मन्वादिशास्त्रेषु निषेधः परिनिश्चितः |
मोहादज्ञानतः पीत्वा प्रायश्चित्तं विधीयते || ८६ ||
यत्पाने दूषणं प्रोक्तं प्रायश्चित्तं तदैव हि |
देवान् पितॄन् समभ्यर्च्य वेदशास्त्रोक्तवर्त्मना || ८७ ||
ज्ञानतो भैरवीचक्रे ज्ञानिनां नैव दूषणम् |
गुरुं स्मरन् पिबन्मद्यं खादन्मांसं न दोषभाक् || ८८ ||
न मांसभक्षणे दोषो न मद्ये न च मैथुने |
यथा क्रतुषु विप्राणां सोमपानं विधीयते || ८९ ||
मद्यपानं तथा कार्यं समये भोगमोक्षदम् |
फलार्थिनामहङ्कारवतां दूषणमेव हि || ९० ||
Seite 169 der Vorlage
निरहङ्कारिणाञ्चैव न निषेधो न वा विधिः |
पानेर्भ्रान्तिर्भवेद् यस्य घृणा स्याद्रक्तरेतसोः || १९ ||
शुचौ चाऽशुद्धताभ्रान्तिः पापशङ्का च मैथुने |
स भ्रष्टः पूजयेच्चण्डीं देवीमन्त्रं कथं जपेत् || ९२ ||
रोगी दुःखी भवेत् सोऽपि रौरवं नरकं व्रजेत् |
तस्मादद्वैतभावेन साधकः पञ्चमं भजेत् || ९३ ||
चक्रानुष्ठानम्
पात्रं ब्रह्मा सुरा विष्णू रसादो रुद्र एव च |
आनन्दः शेखरः प्रोक्त आनन्दस्तु सदाशिवः || ९४ ||
मद्यं तु भैरवो देवो मदः शक्तिः समीरिता |
अहो भुक्तञ्च मद्यं हि मोहयेत् त्रिदशानपि || ९५ ||
सुरा शक्तिः शिवो मांसं
सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् |
तयोरैक्यसमुत्पन्नमानन्दं मोक्ष उच्यते || ९६ ||
आनन्दं ब्रह्मणो रूपं तच्च देहे प्रतिष्ठितम् |
Seite 170 der Vorlage
तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते || ९७ ||
एवं विचिन्त्य मतिमान् तत्त्वशोधनमाचरेत् |
पूर्ववद्विधिना वीरः पात्रस्य वन्दनं चरेत् || ९८ ||
प्रथमपात्रवन्दनमन्त्रः
श्रीमद्भैरवशेखरप्रविलसच्चन्द्रामृताप्लावितं क्षेत्राधीश्वरयोगिनीगणमहासिद्धैः समासेवितम् |
आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं
वन्दे श्रीप्रथमं कराम्बुजगतं पात्रं विशुद्धिप्रदम् || ९९ ||
वन्दयित्वा ततः पात्रं पठेत् भक्तिपरायणः |
जानताऽजानता वापि यन्मया क्रियते शिवे || १०० ||
तव कृत्यमिदं सर्वमिति मत्वा क्षमस्व मे |
इति स्तुत्वा महादेवीमन्योन्य वन्दनञ्चरेत् || १०१ ||
अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् |
जुषस्वेत्यनुज्ञातो गुरुणा वा कुलीनकैः || १०२ ||
Seite 171 der Vorlage
चक्रानुष्ठानम्
गृह्णीयाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः |
सव्येनोद्धृत्य पात्रञ्च मुद्रां कृत्वाऽपसव्यतः || १०३ ||
विलासाद्धनभोगेन न कुर्याद्द्रव्यभक्षणम् |
नोद्धरेदेकहस्तेन न पिबेदेकपाणिना || १०४ ||
ततः सञ्चिन्तयेद् देवीं प्रकृतिं परमां कलाम् |
आत्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे || १०५ ||
कुण्डलीशक्तिचिद्वह्नौ हुनेद् द्रव्यं समन्त्रकम् |
सशब्दं न पिबेद्द्रव्यं न बिन्दुं पातयेदधः || १०६ ||
सशब्दं यो मुखं कुर्यात् कुलदेव्यास्तु तर्पणे |
रौरवं नरकं याति यावदाहुतसंप्लवम् || १०७ ||
विना चर्व्येण यत्पानं केवलं विषवर्द्धनम् |
तस्मात् प्रचर्वयेच्चर्व्यं यथाक्रमविधानतः || १०८ ||
एकासने निविष्टा ये भुञ्जानाश्चैकभाजने |
एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं किल || १०९ ||
उच्छिष्टं न स्पृशेच्चक्रे कुलद्रव्याणि सर्वथा |
Seite 172 der Vorlage
बहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् || ११० ||
नैकहस्तेन दातव्यं न मुद्रावर्जितं सदा |
निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् || १११ ||
चक्रमध्ये तु यः कुर्यात् स भवेद्योगिनीपशुः |
परीहासं प्रलापञ्च वितण्डां बहुभाषणम् || ११२ ||
औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् |
न पादाभ्यां स्पृशेत् पात्रमधमाङ्गेन सर्वथा || ११३ ||
न पात्रं चालयेत् स्थानान्न कुर्यात् पात्रसङ्करम् |
सशब्दं नोद्धरेत् पात्रं तथैव च न पूरयेत् || ११४ ||
नान्योन्यं ताडयेत् पात्रं न पात्रमानयेदधः |
साधारं नोद्धरेत् पात्रमनाधारे न निःक्षिपेत् || ११५ ||
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् कदा |
न पात्रं लङ्घयेद्धीमान् उत्क्षिप्य न च पातयेत् || ११६ ||
समीनञ्च पुनः पात्रं प्रदद्याच्च यथाक्रमम् |
वन्दयेच्च पुनः पात्रं इमं मन्त्रं स्मरेद्बुधः || ११७ ||
Seite 173 der Vorlage
द्वितीयपात्रवन्दनमन्त्रह्
ओं हैमं मीनरसावहं दयितया दत्तञ्च पेयादिभिः किञ्चिच्चञ्चलरक्तपङ्कजदृशा तस्यै समावेदितम् |
वामे स्वादु विशुद्धिशुद्धिकरणं पाणौ निधायात्मके
वन्दे पात्रमहं द्वितीयमधुनाऽनन्दैकसम्वर्द्धनम् || ११८ ||
पूर्ववत्तर्पणं कृत्वा तृतीयञ्च समाचरेत् |
मुद्रया सहितं धृत्वा वन्दयेत् पात्रमुत्तमम् || ११९ ||
तृतीयपात्रवन्दनमन्त्रः
सर्वाम्नायकलाकलापकलितं कौतूहलद्योतकं चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् |
ध्यातं देवगणैः परं मुनिगणैर्मोक्षार्थिभिः सर्वदा वन्देपात्रमहं तृतीयमधुना स्वात्मावबोधक्षमम् || १२० ||
पूर्ववत्तर्पयित्वा तु चतुर्थं वन्दयेत्ततः || १२१ ||
चतुर्थपात्रवन्दनमन्त्रः
ओं मद्यं मीनरसावहं हरिहरब्रह्मादिभिः पूरितं मुद्रामैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयम् |
आचार्याष्टकसिद्धिभैरवकलामांसेन संशोधितं
पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः || १२२ ||
Seite 174 der Vorlage
पूर्ववत्तर्पयित्वा तु पञ्चमं वन्दयेत्ततः || १२३ ||
पञ्चमपात्रवन्दनमन्त्रः
आधारे भुजगाधिराजवलये पात्रं महीमण्डलं
मद्यं सप्तसमुद्रवारिपिशितं चाष्टौ च दिग्दन्तिनः |
सोऽहं भैरवमर्चयन् प्रतिदिनं तारागणै रक्षितै
आदित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः किङ्करैः || १२४ ||
प्रपिबेत् तु ततः षष्ठं पात्रं सम्पूज्य मन्त्रवित् || १२५ ||
षष्ठपात्रवन्दनमन्त्रः
ओं रुद्रं चामरभद्रपीठपरमानन्दोदितं दीपनं
वामां राज्यमनोरमां शुभकरां सायुज्यसाम्राज्यकम् |
नानाव्याधिभवान्धकूपहरणं जन्मान्तरं नाशनं
श्रीमत् सुन्दरितर्पणं हरिरसं पात्रञ्च षष्ठं भजे || १२६ ||
Seite 175 der Vorlage
पूर्ववत् तर्पणं कृत्वा सप्तमञ्च समर्चयेत् || १२७ ||
सप्तमपात्रवन्दनमन्त्रः
ओं जाग्रत्स्वप्नसुषुप्तितूर्यपरमं चैतन्यं साक्षिप्रदं विद्युद्भास्करसन्निभं द्युतिधरं ज्योत्स्नाकलाव्यापितम् |
इडापिङ्गलमध्यगा त्रिवलया स्यात्कुण्डली चोर्ध्वगा
पात्रं सप्तमपूरणेन परमानन्दाधिकं पातु माम् || १२८ ||
एभिः प्रबन्ध्य पात्राणि स्वयं साधकसत्तमः |
लभेत सर्वकर्माणि देहान्ते भैरवो भवेत् || १२९ ||
पीत्वा सप्तमपात्रञ्च शान्तिस्तोत्रं पठेत्ततः || १३० ||
शान्तिस्तोत्रम्
यस्यार्चनेन विधिना किमपीह लोके
धर्मप्रसिद्धमिति कामफलं प्रसूते |
तं सन्ततं सकलसाधकचित्तवृत्तिं
चिन्तामणिं कुलगणाधिपतिं नमामि || १३१ ||
बटुकस्तुति
रक्ताम्बरं ज्वलनपिङ्गजटाकलापं
भालावलीकुटिलचन्द्रधरं प्रचण्डम् |
Seite 176 der Vorlage
बालार्कधातुकनकाचलधातुवर्णं
देवीसुतं वटुकनाथमहं नमामि || १३२ ||
हरतु कुलगणेशो विघ्नसङ्घानशेषा-
नुदयतु कुलचर्या पूर्णतां साधकानाम् |
पिबतु वटुकनाथः शोणितं निन्दकानां
दिशतु सकलकामान् कौलिकानां गणेशः || १३३ ||
धर्मो जयत्वखिललोकसुखावहोऽयं
नश्यत्वधर्ममखिलं बहुदुःखमूलम् |
आशीर्वचांसि समन्त्वमृतोपमानि
शापाः पतन्तु समयद्विषि योगिनीनाम् || १३४ ||
याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिताः
याः कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु |
उच्छ्वासोर्मिमरुत्तरङ्गनिलया निश्वासवाताश्च या-
स्ता देव्यो रिपुपक्षभक्षणपरास्तृप्यन्तु कौलार्चिताः || १३५ ||
Seite 177 der Vorlage
देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा
योगिन्यो वटुकाश्च यक्षपितरो वेतालकाश्चेटकाः |
अन्ये भूचराः खेचरा दिविचरा भूताः पिशाचा ग्रहा-
स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपं चरुम् || १३६ ||
सत्यञ्चेत् गुरुवाक्यमेव पितरौ देवाश्च चेत् योगिणो
प्रीता चेत् परदेवता यदि भवेद् वेदा प्रमाणं हि चेत् |
शाक्तेयं यदि दर्शनं भवति चेत् आज्ञाऽप्यमीधाऽपि चेत्
सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा || १३७ ||
शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् |
कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु || १३८ ||
सम्पूजकानां परिपालकानां
जितेन्द्रियाणाञ्च तपोधनानाम् |
देशस्य राष्ट्रस्य कुलस्य राज्ञः
करोतु शान्तिं भगवान् गणेशः || १३९ ||
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः |
दोषाः प्रयान्तु शान्तिं सर्वजनाः सुखीभवन्तु || १४० ||
Seite 178 der Vorlage
नन्दन्तु कुलयोगिन्यो नन्दन्तु कुलपुत्रकाः |
नन्दन्तु च कुलाचार्या ये चान्ये कुलपालकाः || १४१ ||
नन्दन्तु साधकाः सर्वे विभीषन्तु च दूषकाः |
अवस्था शाम्भवी नोऽस्तु प्रसनोऽस्तु गुरुःसदा || १४२ ||
अनेककोट्यः कुलयोगिनीना-
मन्तर्बहिः कौलिकचक्रसंस्थाः |
निपीयमानेन परामृतेन
प्रीताः प्रसन्ना वरदा भवन्तु || १४३ ||
ये ये पापधियः सुदूषणरता मन्निन्दकाः पूजने देवाचारविमर्दनष्टहृदया भ्रष्टाश्च ये साधकाः |
दृष्ट्वा च क्रमपूर्वमर्चनविधौ ये कौलिका दूषका-
स्ते ते यान्तु विनाशमत्र समये श्रीभैरवस्याज्ञया || १४४ ||
साधकानाञ्च द्वेष्टारः सदैवाम्नाय दूषकाः |
डाकिनीनां मुखे यान्तु तृप्तास्ते पिशितैः सदा || १४५ ||
इति स्तोत्रं पठन् पानं कुर्यात् साधकसत्तमः || १४६ ||
Seite 179 der Vorlage
अष्टमपात्रवन्दनमन्त्रः
ओं मूढाज्ञानकदम्बकाननकठोराग्निस्वरूपां परां ज्ञानध्वान्तसमस्तसंशयधिया पूर्णं सुधाधारया |
भोगं मोक्षकरं सभावशकरं मूर्ध्नि ज्वलन्तीं परां
देवीं वक्षसि सञ्जपन्ननुदिनं पात्रं भजे चाष्टमम् || १४७ ||
पूर्ववत्तर्पणं कृत्वा नवमञ्च प्रपूजयेत् || १४८ ||
नवमपात्रवन्दनमन्त्रः
ओं मन्ये ब्रह्ममयं समस्तजगतां सारं महत् शाश्वतं
दुर्ज्ञेयं भवभोगचञ्चलधिया स्थूलाकृतिं ध्यायताम् |
अस्माकं द्रवरूपतां करुणया प्राप्तं तदेतद्द्रुतं
तत्पात्रं नवमं पिबेच्च नियतं भुक्तिञ्च मुक्तिप्रदम् || १४९ ||
सहस्रारे गुरुं ध्यायन् हृदि देवीं तथैव च |
जिह्वाग्रे जपसाधनं शिवोऽहमिति चिन्तयन् |
यथाविधिसमभ्यर्च्य जुहुयात् कुण्डलीमुखे || १५० ||
दशमपात्रवन्दनमन्त्रः
ओं वामे चन्द्रमुखी मुखे च मधुरं पात्रं कराम्भोरुहे
Seite 180 der Vorlage
मूर्ध्नि श्रीगुरुचिन्तनं भगवतीध्यानास्पदं मानसम् |
जिह्वायां जपसाधनं परिणतं कौलक्रमाभ्यासनं
तत्पात्रं दशमं पिबेच्च परमं भुक्तिञ्च मुक्तिप्रदम् || १५१ ||
नाहं कर्ता कारयिता न च कार्यं
नाहं भोक्ता भोजयिता न च भोज्यम् |
नाहं दुःखी दुःखयिता न च दुःखं
सोऽहं प्रत्यक्चित्स्वरूपोऽहमात्मा || १५२ ||
एवं सञ्चिन्त्य वीरेन्द्रः पुनः पानं समाचरेत् || १५३ ||
एकादशपात्रवन्दनमन्त्रः
ओं वामां वामकरे सुधाञ्च अधरे मन्त्रं जपन्मानसे वीणावेणुरवावयन्त्रविधिवद्गायन्ति पञ्चोप्सरसः |
क्रीडाकेलिकुतूहलेन कमलालावण्यलीलोरसः
पानोल्लासविलासपूर्णसमये पात्रञ्च एकादशम् || १५४ ||
स्वपात्रस्थितहेतुञ्च न दद्यात् भैरवाय च |
दत्ते च सिद्धिहानिः स्याद् देवताशापमाप्नुयात् || १५५ ||
Seite 181 der Vorlage
क्वचित्यदृच्छया प्राप्तमन्यमन्यन्तु भक्तितः |
आदाय स्वीयपात्रञ्च पिबेद् द्रव्यं गुरुं स्मरन् || १५६ ||
गुरुशक्तिसूतानाञ्च गुरुज्येष्ठकनिष्ठयोः |
उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् || १५७ ||
अन्यथा चक्रमध्ये तु पतनं साधकस्य च |
शक्त्युच्छिष्टं पिबेद्द्रव्यं वीरोच्छिष्टञ्च चर्वणम् || १५८ ||
शक्तिवीरप्रसादेन किं न सिध्यति भूतले |
कनिष्ठेभ्यः स्वशिष्येभ्यश्चोच्छिष्टञ्च प्रदापयेत् || १५९ ||
दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदां पदम् |
यावन्न चलते दृष्टिर्यावन्न चलते मनः || १६० ||
तावत् पानं प्रकुर्वीत पशुपानमतःपरम् |
मन्त्रार्थस्फुरणार्थाय ब्रह्मज्ञान स्थिराय च || १६१ ||
अलिपानं प्रकर्तव्यं लोलुपो नरकं व्रजेत् |
पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले || १६२ ||
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते |
Seite 182 der Vorlage
अलिमीनाङ्गनासङ्गे यत् सुखं जायते नॄणाम् || १६३ ||
तदेव मोक्षो विदुषामबुधानाञ्च पातकम् |
चक्रमध्ये घटे भग्ने पात्रे च पतिते तथा || १६४ ||
द्रव्यस्य पतने भूमौ भिन्ने पात्रे तथैव च |
दीपनाशे च तच्छान्त्यै पुनश्चक्रं समाचरेत् || १६५ ||
पाययित्वा यथायोग्यं पीत्वा च साधकोत्तमः |
पूर्ववत् तर्पयेद्देवीं परिवारसमन्विताम् || १६६ ||
पुनर्माल्यादिकं दत्त्वा गन्धचन्दनमिश्रितम् |
धूपं दीपं ततः पश्चाद्दर्पणं चामरं तथा || १६७ ||
नैवेद्यं शङ्खघण्टाञ्च वादयेत् सुमनोहरम् |
यथाशक्ति स्तवं कृत्वा प्रदक्षिणीकृत्य साधकः || १६८ ||
आत्मसमर्पणम्
सपुष्पार्घ्यामृतं नीत्वा आत्मानञ्च समर्पयेत् |
ओं इतः पूर्वं ततः प्राणबुद्धिदेहं ततो वदेत् || १६९ ||
धर्माधिकारतो जाग्रत्स्वप्नसुषुप्तावस्थासु च |
कर्मणा मनसा वाचा हस्ताभ्याञ्च ततः पद्भ्याम् || १७० ||
Seite 183 der Vorlage
उदरेण च शिश्ना यत् कृतं यत् स्मृतं ततः |
यदुक्तं प्रोच्य तत्सर्वं मां मदीयञ्च संलिखेत् || १७१ ||
सकलं श्रीमदिष्टान्ते देवता च पदे ततः |
समर्पणं ततः पश्चादेतेनैव समर्पयेत् || १७२ ||
देवीपदे ततो दत्त्वा क्षमस्वेति वदेत्ततः |
पुनराचमनीयञ्च दद्याद्देव्यै पुनः पुनः || १७३ ||
अर्घ्यदानम्
समस्तावरणं देव्या अङ्गे लीनं विभाव्य च |
अर्घ्यपात्रं ततः पश्चादुत्तोल्य साधकोत्तमः || १७४ ||
देव्युपरि त्रिधा भ्राम्य निवेदयेत्ततः परम् |
तेजोमयीं महादेवीं संहारमुद्रया हृदि || १७५ ||
नासापथात् समानीय निर्माल्यवासिनीं यजेत् |
निर्माल्यकुसुमैर्देवीं प्रणम्य गुरुपादुकाम् || १७६ ||
पूजासमाप्तिः
भक्तिभावे ततः पश्चात् प्राणायामषडङ्गकौ |
कृत्वा सोऽहं विभाव्याथ साधकः स्थिरमानसः || १७७ ||
ब्रह्मरन्ध्रे गुरोः स्थाने यन्त्रलेपञ्च धारयेत् |
नास्तिकेभ्यो न पशुभ्यो न मूर्खेभ्यो प्रदापयेत् || १७८ ||
Seite 184 der Vorlage
कुलीनाय च दातव्यमथवा जलमध्यतः |
नैवेद्यं चण्डिकादेव्या वाञ्छन्ति विबुधाः सदा || १७९ ||
तस्माद्देयं सदा पुष्पं ब्रह्मणे विष्णवेऽपि च |
मह्यं शुक्राय सूर्याय गणेशाय यमाय च || १८० ||
अग्नये वरुणायापि वायवे धनदाय च |
ईशानाय महादेवीसाधकाय प्रकल्पयेत् || १८१ ||
अथवा तरुमूले च गर्ते वा शुचिदेशके |
यत्नतः साधकश्रेष्ठो निर्माल्यानि समर्पयेत् || १८२ ||
शक्तिभ्यः साधकेभ्यश्च दत्त्वा निर्म्माल्यचन्दनम् |
माल्यं गन्धं ततो दत्त्वा आत्मदेहं ततोऽर्पयेत् || १८३ ||
अथवा कारयेत् पानं मधुना वीरसाधकः |
श्रीपात्रग्रहणं कृत्वा आदौ चक्रं करोति यः || १८४ ||
पशुपानं भवेत्तस्य प्रायश्चित्ती स साधकः |
अर्घ्यामृतं ततो वीरः सामयिकेभ्यो निवेदयेत् || १८५ ||
Seite 185 der Vorlage
शेषतत्त्वग्रहणविधिः
ततश्च साधकश्रेष्ठः शेषमात्मनि योजयेत् |
प्रबन्धे पूर्णपात्रञ्च प्रगृह्य साधकोत्तमः || १८६ ||
देहं मन्त्रमयं विधाय पुरतः कृत्वा गुरोर्वन्दनं
श्रीपात्रं कुलविद्यया विलसितं संशोध्य दिव्यामृतम् |
विद्यापीठचतुष्टयं शिवशिवे सन्तर्प्य सिद्धिक्रमा-
दास्वाद्यापि पिबेद्रसं सुखकरं दुःखस्य निर्मूलनम् || १८७ ||
महापातकयुक्तो वा बहुपापान्वितोऽपि वा |
अर्घ्यस्य बिन्दुमात्रेण मुक्तो भवति पातकात् || १८८ ||
एवं पानं समाचर्य स्वीकृत्य पूर्णपात्रकम् |
न्युब्जीकुर्याच्च तद्भूमौ तत्र पुष्पं क्षिपेद् बुधः || १८९ ||
तदमृतस्निग्धभूमौ मायाबीजं विलिख्य च |
कनिष्ठाङ्गुलिना वामहस्तस्य तिलकं तथा || १९० ||
अनेन मनुना मन्त्री मूलाद्येन समाहितः |
यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा || १९१ ||
स एव दासतां यातु यदि शक्रसमो भवेत् |
ततः प्रक्षाल्य वीरेन्द्रो गोपयेत् पात्रमुत्तमम् || १९२ ||
Seite 186 der Vorlage
ततो यथाक्रमेणैव प्रसादं परिवेश्य च |
भोजयेच्च ततो विद्वान् स्त्रीभिश्च साधकैः सह || १९३ ||
भुक्त्वा दद्यात् पुनर्माल्यं गन्धचन्दनसंयुतम् |
ताम्बूलाभरणादींश्च तथा तल्पं सुसाधकः || १९४||
सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शिनः |
जायते भैरवावेशः सर्वत्र समदर्शनः || १९५ ||
न्तं वा ग त च्छ रं पि मा कौलिकं न निवारयेत् |
वारणात् त्रिपुरा रुष्टा ततो हानिस्तु जायते || १९६ ||
कौलिकः पशुगामी च परशक्तिं रमेद् बलात् |
गोष्ठीमध्ये तु यत्नेन स्पर्शं तस्य न कारयेत् || १९७ ||
र्यां वा तां गि भा नीं सु भ यो दद्यात् कुलयोगिने |
मधुमत्ताय वीराय पुण्यं तस्य न गण्यते || १९८ ||
Seite 187 der Vorlage
कुलं कुलाय यो दद्यात् सोऽपि योनौ न जायते |
भगरूपा च सा देवी रेतःप्रीता च सर्वदा || १९९ ||
रेतःसमर्पणं तस्यै मद्यैर्मांसैः समं सदा |
ध्यात्वा कुण्डलिनीं शक्तिं रमन् रेतो विमुञ्चयेत् || २०० ||
अमन्त्रा तु यदा नारी बलाद् यत्नाद्वा लभ्यते |
आत्मदेहस्वरूपेण तत्कर्णे मन्त्रमुत्सृजेत् || २०१ ||
ततः सा शक्तिरूपा स्याद् भुक्तिमुक्तिफलप्रदा |
रतिकाले च दीक्षायामभिषेकं समाचरेत् || २०२ ||
सुरया रेतसा वापि जलेन चन्दनाम्बुना |
सम्भोगेऽभिषिचेन्नारीं रण्डाञ्च मन्त्रवर्जिताम् || २०३ ||
आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् |
नमः शब्दं समुच्चार्य इमां शिक्तं ततो वदेत् || २०४ ||
पवित्रीकुरुशब्दान्ते मम शक्तिं कुरुद्वयम् |
वह्निजायां समुच्चार्य शुद्धिमन्त्रः प्रकीर्त्तितः || २०५ ||
अनेन मनुना चैव अभिषिक्ताः स्त्रियः सदा |
रममाणो भवेन्नित्यं सर्वसिद्धिमवाप्नुयात् || २०६ ||
Seite 188 der Vorlage
इहलोके परंभोगं भुक्त्वा मुक्तिमवाप्नुयात् |
रम्भा शच्युर्वशी मुख्या या नारी गगने भुवि || २०७ ||
पाताले च स्थिता या च तस्या नाथस्तु कौलिकः |
तस्य वर्ज्या च या नारी कथ्यते तन्त्रवर्त्मना || २०८ ||
त्रिपुरैव गुरुः साक्षात्तत्पत्नी तत्स्वरूपिणी |
मनसा कर्मणा वाचा रमणं तत्र वर्जयेत् || २०९ ||
तस्या एव पदे भक्तो मुक्तिमप्यचिराल्लभेत् |
गुरोः स्नुषा च कन्या च स्वपुत्री मन्त्रपुत्रिका || २१० ||
एतस्या रमणं वर्ज्यं ब्रह्मविन्मानसेन च |
कौलिकस्य च पत्नी वै साक्षात् सिद्धीश्वरी शिवा || २११ ||
तस्या रमणमात्रेण कौलिको नारकी भवेत् |
माताऽपि गौरवाद्वर्ज्या शिवहीना तथैव च || २१२ ||
अन्यस्थाने विचारे तु देवीशापः प्रजायते |
Seite 189 der Vorlage
मन्त्रमाता च पुत्री च भगिनी च कुलाङ्गना || २१३ ||
न रमेत् कौलिको नित्यमेताः सम्यक् समर्चयेत् |
(यद्वा)
गुरुवीरवधूं त्यक्त्वा रम्याः सर्वाश्च योषितः || २१४ ||
सन्दिग्धानां द्वैतज्ञानिनां पञ्चतत्त्वग्रहणे निषेधः
एता वर्ज्याः प्रयत्नेन सन्दिग्धानाञ्च सर्वदा |
अद्वैतानाञ्च कुत्रापि निषेधो नैव विद्यते || २१५ ||
मातृगर्भस्थबीजेन शिशुरेव न संशयः |
गर्भनिःसारकाले तु बालको हि दिगम्बरः || २१६ ||
अननीजठराद्योनिरन्ध्रद्वाराद्बहिर्भवन् |
जननीयोनिसम्बन्धःसुतः शिश्नाऽधिगच्छति || २१७ ||
एवं विचार्यमाणे तु को न स्याद्गुरुतल्पगः |
निर्विकारतया नात्र भवेत् नह्यन्यथा ततः || २१८ ||
अत-एव यदा यस्य वासना कुत्सिता भवेत् |
तदा दोषाय भवति नान्यथा दूषणं क्वचित् || २१९ ||
निर्विकल्पमना भूत्वा चिन्मयीं समुपासयेत् |
तदारूढेषु वीरेषु कार्याकार्यं न विद्यते || २२० ||
Seite 190 der Vorlage
तस्माद्द्वैतरूपेण सर्वयोनिं विचारयेत् |
निश्चयं मुक्तिमाप्नोति सहस्रयोनिदर्शनात् || २२१ ||
अनाचारः सदाचारः कुकार्यं कार्यमुत्तमम् |
अमेध्यमपि मेध्यं स्याद्द्वैतानाञ्च निश्चितम् || २२२ ||
अपेयमपि पेयं स्यादभोज्यं भोज्यमेव च |
अगम्याऽपि च गम्या स्याद्द्वैतानां सुनिश्चितम् || २२३ ||
न विधिर्न निषेधश्च न पुण्यं न च पातकम् |
न स्वर्गो नैव नरकमद्वैतानाञ्च निश्चितम् || २२४ ||
यत्र यत्र निषेधश्च विधिर्वा परिकथ्यते |
तत्र तत्रापि बोद्धव्यं सन्दिग्धानां सुनिश्चितम् || २२५ ||
सर्वथैव गुरोरग्रे अद्वैतं नैव कारयेत् |
तस्माच्च यत्नतो वीरो गुरुयोनिं परित्यजेत् || २२६ ||
अद्वैतद्वैतभेदेन पूजनं कथितं महत् |
पञ्चतत्त्वमसंयुक्तं पञ्चमं यस्तु कारयेत् || २२७ ||
Seite 191 der Vorlage
तस्य पूजा च सा नष्टा प्रायश्चित्ती स साधकः |
तत्त्वहीनं कृतं कर्म जपकर्म च निष्फलम् || २२८ ||
शाम्भवी कुप्यते तेभ्यो ब्रह्महत्या दिने दिने |
चक्रं त्यक्त्वा तु देवेशीं पूजयेत्तर्पणं विना || २२९ ||
चत्वारि तस्य नश्यन्ति आयुर्विद्यायशोबलम् |
चक्रमध्ये तु यद्दृष्टं शुभं वा यदि वाऽशुभम् || २३० ||
प्रभाते तन्न वक्तव्यं साधकेन महात्मना |
नित्यपूजा च कथिता साधकानां सुसिद्धये || २३१ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये अष्टमोल्लासः || ८ ||
नवम उल्लासः
इति गुप्ततरं श्रेयं गन्धर्वस्य क्रमं शुभम् |
अत्यन्तगोपनाद्यस्तु पञ्चतत्त्वेन पूजयेत् || १ ||
सर्वसिद्धिमवाप्नोति मन्दभाग्योऽपि पूजनात् |
तस्मात् पूजां सदा कुर्यात् सिद्धार्थी सिद्धिसंग्रहः || २ ||
पूजाफलकथनम्
पूजाफलेन दौर्भाग्यं दुःखदारिद्र्यनिग्रहम् |
सर्वप्रशमनं याति ईश्वरो जायते भुवि || ३ ||
अर्चनक्षणभङ्गेन विकला योगिनी भवेत् |
पूजाहीनोऽशुचिर्नित्यं गर्हितः सर्वकर्मसु || ४ ||
पूजां विहाय यो मूढो मन्त्रं जपति नित्यशः |
तज्जपं विफलं विद्यात् स मन्त्री पातकी भवेत् || ५ ||
Seite 193 der Vorlage
विद्यां संगृह्य पूजायां श्रद्धा यस्य न विद्यते |
स महापातकी भूत्वा पशुयोनिमवाप्नुयात् || ६ ||
पूजाहीनस्य मांसेन रुधिरेण विशेषतः |
पारणं योगिनीनाञ्च भैरवाणां भवेद्ध्रुवम् || ७ ||
तस्मात् पूजां सदा कुर्यात् सिद्ध्यर्थी मानसेऽथवा |
यद्गेहे पूजयेद् देवीं सदैव तत्र पूजनम् || ८ ||
दिवसे पूजानिषेधः
अतिगुप्तेन तत्कार्यं दिवसे नैव सर्वथा |
दिवसे पञ्चमैः पूजा राष्ट्रहानिं करोति हि || ९ ||
साधकस्य महाक्षोभं प्रददाति सुनिश्चितम् |
तस्मात् पञ्चमकारेण दिवसे नैव सर्वदा || १० ||
उत्तमादिभेदेन त्रिविधा पूजा
उत्तमा नित्यपूजा स्यात् पर्वपूजा च मध्यमा |
मासपूजाऽधमा प्रोक्ता मासादूर्ध्वं पशुर्भवेत् || ११ ||
Seite 194 der Vorlage
पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः |
विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समाचरेत् || १२ ||
प्रशस्तकालनिर्णयः
कृष्णाष्टमी चतुर्दश्यमावस्याथ च पूर्णिमा |
संक्रान्तिः पञ्चपर्वाणि पुण्यादि दिवसेषु च || १३ ||
सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे |
पीठोपगमने वीराकुलपीठस्य दर्शने || १४ ||
देशिकागमने पुण्यतीर्थदैवतदर्शने |
एवमादिषु कालेषु विशेषदिवसेषु च || १५ ||
गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि |
मानवौघादिपुंसाञ्च स्वजन्मदिवसेऽपि च || १६ ||
एकादश्यां व्यतीपाते कर्मलोपं न कारयेत् |
अष्टम्याञ्च चतुर्दश्यां पूजा कार्या प्रयत्नतः || १७ ||
न लङ्घयेदष्टमीञ्च लङ्घनात् पातकी भवेत् |
इति पूर्वापरे प्राप्ते पञ्चतत्त्वैश्च साधकः || १८ ||
पूजां कुर्यात् प्रयत्नेन अन्यथा सिद्धिहा भवेत् |
Seite 195 der Vorlage
बहिःपूजाविधानेन गन्धर्वो वापि किन्नरः || १९ ||
राजाऽपि साधको वापि नान्यः कोऽपि महीतले |
यतिर्वा भूपतिर्वापि नान्योऽस्ति पूजकः क्वचित् || २० ||
न देवः पर्वताग्रेषु न देशे विष्णुसद्मनि |
देवश्चिदानन्दमयो हृदि भावेन दृश्यते || २१ ||
यत्र यत्र दृढा भक्तिर्यदा यस्य महात्मनः |
तत्र तत्र महादेवी प्रकाशमनुगच्छति || २२ ||
सिद्धक्षेत्रकथनम्
अथ वक्ष्ये फलाधिक्यं पूजायां यत्र जायते |
वाराणस्यां महापूजा सम्पूर्णफलदायिनी || २३ ||
स्थानभेदेन पूजाफलभेदः
ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ |
ततोऽपि द्विगुणा प्रोक्ता द्वारकायां विशेषतः || २४ ||
सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा |
विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा || २५ ||
Seite 196 der Vorlage
आर्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव च |
विन्ध्यवत् फलदा पूजा प्रयागे पुष्करेषु च || २६ ||
ततश्चतुर्गुणा प्रोक्ता करतोयानदीजले |
तस्माच्चतुर्गुणफला नन्दिकुण्डे च निश्चितम् || २७ ||
ततश्चतुर्गुणा प्रोक्ता जल्पीशस्य च सन्निधौ |
ततः सिद्धीश्वरीयोनौ ततोऽपि द्विगुणा स्मृता || २८ ||
ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि |
तत्समा कामरूपे च सर्वत्रैव जले स्थले || २९ ||
सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा |
देवीपूजा तथा शक्त्यां कामरूपे सुरालये || ३० ||
कुलार्णवे
कामरूपञ्च द्विविधं व्यक्तं गुप्तं महेश्वरि |
करतोयानदीपूर्वं यावद्दिक्करवासिनी || ३१ ||
त्रिंशद्योजनविस्तीर्णं शतयोजनमायतम् |
त्रिकोणं कृष्णवर्णञ्च कामरूपमुदाहृतम् || ३२ ||
Seite 197 der Vorlage
द्विविधः कामरूपः
व्यक्तं तत्रैव विज्ञेयं गुप्तञ्चैव गृहे गृहे |
व्यक्ताद् गुप्तं महापुण्यं लभ्यते साधकोत्तमैः || ३३ ||
देवीक्षेत्रं कामरूपं विन्द्यादन्यन्न तत्समम् |
अन्यत्र विरला देवी कामरूपे गृहे गृहे || ३४ ||
ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके |
ततोऽपि द्विगुणा प्रोक्ता सुमेरौ शिवलिङ्गके || ३५ ||
ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्याश्च योनिषु |
ततः शतगुणा प्रोक्ता कामाख्यायोनिमण्डले || ३६ ||
तत्समापि च सा पूजायोषितां योनिमण्डले |
पीठानां परमं पीठं कामरूपं महाकुलम् || ३७ ||
Seite 198 der Vorlage
ततः शतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् |
यत्र कोटिगुणैः सार्द्धं माया महिषमर्दिनी || ३८ ||
यत्पीठं ब्रह्मणो वक्त्रं गुप्तं सर्वसुखावहम् |
यतो देवाश्च देव्यश्च मुनयश्चैव भावजाः || ३९ ||
सर्वेऽप्याविर्भवन्त्यत्र तेन गुप्तं महाकुलम् |
कामाख्यायां महायोनौ पूजां यः कृतवान् सकृत् || ४० ||
स चेह लभते कामान् परत्र शिवतां व्रजेत् |
अत्र यत्क्रियते पूजा सकृद्वा साधकेन च || ४१ ||
विहाय सर्वपीठानि तस्य देहे वसेत् शिवा |
अथ वक्ष्यामि सामान्य पूजायाः क्रममुत्तमम् || ४२ ||
सामान्यपूजाक्रमः
आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् |
अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च || ४३ ||
तालत्रितयदिग्बन्धः प्राणायामस्ततः परम् |
ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं विधिः || ४४ ||
जपार्थं सर्वमन्त्राणां विन्यसेत्तु लिपिं विना |
Seite 199 der Vorlage
कृतञ्च निष्फलं विद्यात् तस्मादादौ लिपिं न्यसेत् || ४५ ||
शिवाबलिकथनम्
अथातः सम्प्रवक्ष्यामि शिवाया बलिमुत्तमम् |
न ददाति बलिं यस्तु शिवायाः शिवताप्तये || ४६ ||
स पापिष्ठौ नाधिकारी कुलदेव्यास्तु पूजने |
पशुरूपां शिवां देवीं यो नार्चयति निर्जने || ४७ ||
शिवारावेण तस्यास्तु सर्वं नश्यति निश्चितम् |
पूजा जपविधानानि यत्किञ्चित् सुकृतानि च || ४८ ||
गृहीत्वाशापमासाद्य शिवा रोदिति निर्जने |
अवश्यमन्नपानेन नियतं तोषयेच्छिवाम् || ४९ ||
एकया भुज्यते यत्र शिवायाश्चैव निश्चितम् |
तदैव सर्वशक्तीनां प्रीतिः परमदुर्लभा || ५० ||
पशुशक्तिर्नरशक्तिः पक्षिशक्तिस्तु सर्वदा |
पूजिता विगुणं कर्म सगुणं साधयेद् यतः || ५१ ||
तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् |
राजादिभयमापन्ने ग्रहादिभयमेव च || ५२ ||
शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत् |
Seite 200 der Vorlage
बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः || ५३ ||
मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् |
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि || ५४ ||
शुभाशुभं फलं व्यक्तं ब्रूहि गृह्ण बलिं तव |
एवमुच्चार्य दातव्यो बलिः कुलजनप्रियः || ५५ ||
कालीकालीति वक्तव्यस्तत्रोमा शिवारूपिणी |
पशुरूपा समायाति परिवारगणैः सह || ५६ ||
भक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुस्वरा |
तदैव मङ्गलं तस्य नान्यथा साधकस्य च || ५७ ||
यदि न भुज्यते तत्र तदा नैव शुभं भवेत् |
नित्ये नैमित्तिके काम्ये बलिं दद्यात् प्रयत्नतः || ५८ ||
Seite 201 der Vorlage
कुलपूजाविधानम्
अति गुप्तेन कर्तव्यं बलिदानं शुभावहम् |
कुलपूजां प्रवक्ष्यामि यथाशास्त्रविधानतः || ५९ ||
कुलागमे
यथा कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः |
कुलतिथौ कुलर्क्षे च कुलपूजां समाचरेत् || ६० ||
योगिनीपूजनं यत्र प्रधानं कुलपूजनम् |
यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः || ६१ ||
तथा कुलतिथौ देवी पूजिता वरदायिनी |
नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् || ६२ ||
तथैव कौलिकानाञ्च नित्यता कुलपूजने |
एकरात्रं द्विरात्रं वा नहि चेत् कुलपूजनम् || ६३ ||
तदा तं साधकं त्यक्त्वा लयमेष्यति चण्डिका |
कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये || ६४ ||
तस्माद् यः पूजयेद् भक्त्या भुक्तिमुक्त्योः स भाजनम् |
अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः || ६५ ||
कुलपूजारतो यस्तु स मे प्रियतरो भवेत् |
इच्छासिद्धिफलं दद्यात् पूजिता सुवधूरिव || ६६ ||
Seite 202 der Vorlage
अपूजिता यदा देवी दुःखदा कुवधूरिव |
कुलपूजान्तरायं तु यः करोति हि दुर्मतिः || ६७ ||
स याति नरके घोरे एकविंशतिभिः कुलैः |
विगुणं यत्र यद्यत् स्यात् सगुणं कुलपूजनात् || ६८ ||
कुलावलोकनं चेत् स्यात् कुतः प्रोक्षणमार्जनम् |
क्व स्नानं क्व च वा शुद्धिः क्व च न्यासविशोधनम् || ६९ ||
तस्मात् सर्वप्रयत्नेन कुलपूजां समाचरेत् |
लभते सर्वसिद्धिञ्च नात्र कार्या विचारणा || ७० ||
कुलवारतिथिनक्षत्रादिविधानम्
कथ्यते कुलवारादिनिर्णयः सिद्धिहेतवे |
द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् || ७१ ||
विषमाश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः |
रविः सोमो गुरुः शौरिश्चत्वारश्चाकुला मताः || ७२ ||
भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः |
Seite 203 der Vorlage
वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् || ७३ ||
कुलानि समधिष्ठानि शेषाण्यकुलभानि च |
तिथिवारे च नक्षत्रे चाकुले स्थायिनोऽजयः || ७४ ||
कुलर्क्षे जयिनो नित्यं साम्यञ्चैव कुलाकुले |
पौर्णमास्यन्तमासेन तिथिकृत्यं विधीयते || ७५ ||
महाष्टम्येव विज्ञेया कुलाष्टमी सुसिद्धिदा |
कथितः कुलवारादिनिर्णयः सिद्धिहेतवे || ७६ ||
स्नानं पाद्यार्घ्यपर्यन्तं स्वकल्पोक्तं विधाय च |
लाक्षारसतद्वदहे वीरस्तूलिकां रचयेत्ततः || ७७ ||
कुलकन्यानिरूपणम्
नटी कापालिकी वेश्या रजकी नापिताङ्गना |
ब्राह्मणी भद्रकन्या च तथा गोपालकन्यका || ७८ ||
मालाकारस्य कन्या च नवकन्याः प्रकीर्तिताः |
(यद्वा)
चण्डाली चर्मकारी च मागधीपुक्कसी तथा || ७९ ||
श्वपची खण्डिका चैव कैवर्त्ती विटयोषितः |
कुलाष्टकं तु कथितमकुलाष्टकमुच्यते || ८० ||
Seite 204 der Vorlage
अकुलाष्टक कन्याकथनम्
कल्मषी चैव शौण्डी च शस्त्रजीवी च राक्षसी |
गोमुखी रजकी शिल्पी वेनकी च तथाष्टमी || ८१ ||
(यद्वा)
गणिका शौण्डिकी चैव कैवर्त्ती रजकी तथा |
तन्तुकारी चर्मकारी मातङ्गी पुक्कसी तथा || ८२ ||
(यद्वा)
नटी कापालिकी वेश्या पुक्कसी योगिनी तथा |
रजकी रज्जकी चैव सैरिन्ध्री च विलासिनी || ८३ ||
खटिका घटिका चैव तथा गोपालकन्यका |
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः || ८४ ||
उक्तजात्यङ्गनाभावे भैरवीं तद्गतां यजेत् |
शक्तिपूजाविधिः
मन्त्रतन्त्रसमायुक्ताः समयाचारपालिकाः || ८५ ||
अवीराश्च व्रतपरा योगमुद्राधरास्तथा |
गुरुभक्ता देवभक्ता घृणालज्जाविवर्जिताः || ८६ ||
सङ्गोपनरताः प्रायस्तरुण्यः सिद्धिदायिकाः |
दीक्षिता मनुना येन केन मूलेन वा पुनः || ८७ ||
Seite 205 der Vorlage
वर्ज्या नारीकथनम्
तत्र वर्ज्या च या नारी कथ्यते तन्त्रमार्गतः |
विकृतां विधवां व्यङ्गीं वृद्धाञ्चैव तपस्विनीम् || ८८ ||
हीनाङ्गीं हीनवसनां कुटिलां कलहप्रियाम् |
लोकवेदविरुद्धाञ्च तथा निष्ठुरभाषिणीम् || ८९ ||
मिथ्याप्रलापनिरतां मिथ्याचारमदोत्सुकाम् |
ईर्ष्यादिदोषसंयुक्तां प्रमत्ताञ्च विवर्जयेत् || ९० ||
विकृतास्यामदीक्षितां सविकल्पकमानसाम् |
वर्षीयसीं पापरतां क्रूरामत्यन्तलोलुपाम् || ९१ ||
अतर्कमानसां दीनां वर्जयेत् साधकोत्तमः |
ततः समानयेद् वीरः पूर्वोक्ताष्टकुलोद्भवाम् || ९२ ||
अक्रूराञ्च सुरूपाञ्च सालङ्कारां सुदीक्षिताम् |
घृणाह्रींवर्जितां शान्तां शिववाक्यदृढव्रताम् || ९३ ||
गुरुदेवपदे भक्तां युवतीं साधिकां पराम् |
स्वकान्तां परकान्तां वा विदग्धां चारुहासिनीम् || ९४ ||
Seite 206 der Vorlage
तस्यै पाद्यादिकं दत्त्वा स्थापयेत्तूलिकोपरि |
साधयेत् सिद्धिमतुलां साधकः स्थिरमानसः || ९५ ||
पूजाकाले शुभाः प्रोक्ताः शक्तयः सहजा बुधैः |
तस्या देहे स्वकल्पोक्तन्यासजालं प्रविन्यसेत् || ९६ ||
देवी परा भगवती जगदाधाररूपिणी |
ब्रह्मविष्णुशिवानाञ्च योनिरुत्पत्तिकारिणी || ९७ ||
सा योनिः सर्वभूतानां सृष्टिस्थितिलयात्मिका |
गुणत्रयसमापन्ना वाक्यत्रयविभाविनी || ९८ ||
शृङ्गाररूपमापन्ना त्रिकोणाकारतां गता |
भगरूपेण सर्वेषां भूतानां देहमध्यगा || ९९ ||
शिवसन्निधिमास्थाय रत्यर्थं लिङ्गरूपिणी |
सर्वेषां जननी सा तु रत्यर्थं रमणी परा || १०० ||
योनिप्रशंसा
पुंसो योनिः स्त्रियो योनिर्भगदा भगरूपिणी |
यस्यां तु जायते जन्तुस्तस्यां चान्ते प्रलीयते || १०१ ||
Seite 207 der Vorlage
त्रिशक्तिसहिता योनिर्ब्रह्मविष्णुशिवात्मिका |
देवी भगवती ख्याता भगवांश्च सदाशिवः || १०२ ||
एकैव परमा देवी भगलिङ्गस्वरूपिणी |
सर्वेषां योनिरूपेण सा देवी भगरूपिणी || १०३ ||
योनिस्था योनिमध्यस्था योनिरूपस्वरूपिणी |
त्रिकोणा सा त्रिगुणा सा त्रिदैवतमयी परा || १०४ ||
संयोगे चातुरी याया पूर्णता पञ्चमी स्मृता |
तस्माद्योनौ यजेद् देवीं नित्यमानन्दरूपिणीम् || १०५ ||
प्रक्षाल्य गन्धतोयेन धूपयित्वाऽम्बुधूपकैः |
सिन्दूररजसा चैव योनौ चक्रं समालिखेत् || १०६ ||
स्वकल्पोक्तविधानेन तत्र देवीं प्रपूजयेत् |
सर्वयोषिन्मये देवि सर्वकामार्थदायिनि || १०७ ||
कामेश्वरि कामभूते कामुके सन्निधिं कुरु |
अनेनाऽवाहयेद् देवीं स्वीयक्रममथाचरेत् || १०८ ||
Seite 208 der Vorlage
पञ्चमीपूजने चैव वर्ज्यं स्वकुलमन्त्रकम् |
यावत् पुंसां प्रसङ्गोऽत्र तावत् स्वैरं विवर्जयेत् || १०९ ||
यदि शङ्कास्पदं तत्र तदा देवीं विसर्जयेत् |
प्रमादाद्यदि पापात्मा तत्सङ्गमनुगच्छति || ११० ||
तदा कुष्ठीभवेत् सद्यो निन्दितां सिद्धिमाप्नुयात् |
मद्यं मांसं विना यस्तु कुलपूजां समाचरेत् || १११ ||
जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति |
विधिवत् पूजनं कृत्वा जप्त्वा स्तुत्वा प्रणम्य च || ११२ ||
तस्यां यन्त्रं समालिख्य पुनस्तस्यां निवेदयेत् |
यावत् सा विह्वला न स्यात्तावत्तां न विसर्जयेत् || ११३ ||
विसर्जनं विधायैव शक्तीच्छा यदि विद्यते |
तस्या आज्ञां गृहीत्वा तु रेत् मै नं र्व च वन् थु पू || ११४ ||
ततो जपेत् स्त्रियं गच्छन् शेषं पूर्ववदाचरेत् |
मद्यं मांसं तथा चान्यं यत्किञ्चित् कुलसाधनम् || ११५ ||
तस्यै दत्त्वा ततः शेषं गुरवे विनिवेद्य च |
तदनुज्ञां मूर्ध्नि कृत्वा शेषमात्मनि योजयेत् || ११६ ||
शक्तये दक्षिणां दत्त्वा सोऽहं सच्चिन्तयेत्ततः |
Seite 209 der Vorlage
कुलपूजनमेतत्तु कथितं सिद्धिहेतवे || ११७ ||
देवीयजनविधानम्
सङ्क्षेपयजनं वक्ष्ये यथा तन्त्रानुसारतः |
आलिङ्गनं भवेन्न्यासश्चुम्बनं ध्यानमीरितम् || ११८ ||
शीत्कारं यजनं प्रोक्तं नैवेद्यं नखलेखनम् |
पानं जिह्वामृतं ज्ञेयं रमणञ्च जपो भवेत् || ११९ ||
आनन्दस्तवनं विद्धि रेतःपातो विसर्जनम् |
अद्वैतज्ञानमाश्रित्य सदा देवीं समर्चयेत् || १२० ||
अश्वमेधशतेनापि ब्रह्महत्याशतेन वा |
पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् || १२१ ||
पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्तकम् |
जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति || १२२ ||
तावत् कर्माणि कुर्वीत यावज्ज्ञानं न जायते |
पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः || १२३ ||
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः |
Seite 210 der Vorlage
नहि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः || १२४ ||
नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम् |
मन्त्रोदकैर्विना सन्ध्यां जपहोमैर्विना तपः || १२५ ||
उपचारैर्विना पूजां योगी नित्यं समाचरेत् |
देहो देवालयो देवि जीवो देवः सदाशिवः || १२६ ||
त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् |
जीवः शिवः शिवो जीवः स जीवः केवलः शिवः || १२७ ||
पाशबद्धः पशुः पाशमुक्तः शिवः
पाशबद्धः पशुर्देवि पाशमुक्तः सदाशिवः |
तुषेण बद्धो ब्रीहिः स्यात् तुषाभावे तु तण्डुलम् || १२८ ||
कर्मबद्धः सदा जीवः कर्ममुक्तः सदाशिवः |
ध्यायतां क्षणमात्रं वा श्रद्धया परमं त्विह || १२९ ||
यद्भवेत्तन्महापुण्यं तस्यान्तो नैव गम्यते |
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ||
तत्सर्वं पातकं हन्यात्तमः सूर्योदये यथा || १३० ||
Seite 211 der Vorlage
योगीन्द्रलक्षणम्
स्नातं तेन समस्ततीर्थसलिलैः दत्ता च पृथ्वी द्विजे
नूनं तेन सुतर्पिताश्च पितरो देवाश्च सम्पूजिताः |
यज्ञानाञ्च सहस्रमेवमखिलं तेनैव सर्वं कृतं
यस्य ब्रह्म विचारणे क्षणमपि प्राप्तञ्च धैर्यं मनः || १३१ ||
व्रतक्रतु तपस्तीर्थदानदेवार्चनादिषु |
यत्फलं कोटिगुणितं तदेवाप्नोति तत्त्ववित् || १३२ ||
उत्तमा सहजावस्था मध्यमा ध्यानधारणा |
जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा || १३३ ||
उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा |
शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा || १३४ ||
यो निन्दास्तुतिशीलेषु सुखदुःखारिबन्धुषु |
समश्चेत् स तु योगीन्द्रो हर्षाहर्षविवर्जितः || १३५ ||
Seite 212 der Vorlage
निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः |
आस्ते देहे प्रवासीव स योगी परतत्त्ववित् || १३६ ||
निःसङ्कल्पो निर्विकल्पो निर्जितोपाधिवासनः |
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् || १३७ ||
यथा पङ्ग्वन्धबधिरक्लीवोन्मत्तजडादयः |
निवसन्ति च सर्वत्र स योगी परमो मतः || १३८ ||
पञ्चमुद्रासमुत्पन्नः परमानन्दनिर्भरः |
य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि || १३९ ||
येन युक्तेन मनसा प्रसन्ना चण्डिका भवेत् |
तेन सन्तुष्टहृदयैः सेव्या देवी न संशयः || १४० ||
इति श्रीमज्ज्ञानानन्दपरहंसविरचिते कौलावलीनिर्णये नवमोल्लासः || ९ ||
दशम उल्लासः
कौलाचारविधानम्
अथाचारं प्रवक्ष्यामि यथातन्त्रानुसारतः |
सर्वभूतहिते युक्तः समयाचारतत्परः || १ ||
समयाचारकथनम्
अनित्यकर्मसन्त्यागी नित्यानुष्ठानतत्परः |
मन्त्रधारणमात्रेण शिवभावेन तत्परः || २ ||
परस्यां देवतायां तु सर्वकर्मनिवेदकः |
येषाञ्च निश्चलाभक्तिर्गुरौ देवे मनावपि || ३ ||
तेषां सिद्धिर्भवेदाशु नान्यथा कल्पकोटिषु |
गुरुमाहात्म्यम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः || ४ ||
गुरुर्मनुर्गुरुर्जापो गुरुरेव परन्तपः |
तेषां सिद्धिर्भवेदाशु नाभक्तस्य कदाचन || ५ ||
Seite 214 der Vorlage
प्रातरेव गुरुं ध्यायेत् ब्रह्मरन्ध्रे च साधकः |
सम्पूज्य सकलं कर्म कुर्यात्तस्याऽज्ञया सदा || ६ ||
विंशतिः पुरुषान् वापि सप्त पञ्चत्रयोऽपि वा |
अज्ञात्वा गुरुवंशानां शिष्यश्चेन्नष्टसन्ततिः || ७ ||
गुरुवंशगौरवम्
ध्यात्वा गुरुकुलं नैव नष्टमार्गो भविष्यति |
नष्टमार्गान् मन्त्रविद्ये न तादृक्सिद्धिगोचरे || ८ ||
गुरूणां शिष्यभूतानां नास्ति चेत् सन्ततिक्रमः |
तन्त्रमन्त्राश्च विद्याश्च निष्फला नात्र संशयः || ९ ||
स्ववंशादधिको ज्ञेयो गुरुवंशः शुभावहः |
उत्पादकब्रह्मदात्रोर्गरीयान् मन्त्रदः पिता || १० ||
अस्मान् मन्येत सततं पितुरप्यधिकं गुरुम् |
गमनं पूजनं स्वप्नं भोजनं रमणं तथा || ११ ||
गृहीत्वाऽज्ञां गुरोः कुर्यात्तस्य सिद्धिर्विना जपात् |
गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरभावनाम् || १२ ||
Seite 215 der Vorlage
प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् |
गुरौ मानुषबुद्ध्या न पश्येत् शिष्यः कदाचन || १३ ||
कदाचिन्न लभेत् सिद्धिं मन्त्रैर्वा देवतार्चनैः |
श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च || १४ ||
तेषां हि सुकृतं सर्वं पातकं भवति क्षणात् |
चापल्यं परिहासञ्च गुरोः साक्षाद्विवर्जयेत् || १५ ||
वृथा तु पूजनं मुद्रा क्रियते मन्दबुद्धिभिः |
श्रीगुरौ संस्थिते साक्षात् किं वृथा ध्यानयोगतः || १६ ||
गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् |
स याति नरकं घोरं सा पूजा विफला भवेत् || १७ ||
यतः सर्वत्र मन्त्राणां गुरुपूजा गरीयसी |
तदग्रे मन्त्रतन्त्राणां भाषणं नैव कारयेत् || १८ ||
पूजिते गुरुपादे वै सर्वदेवः सुखी भवेत् |
सर्वेषां मन्त्रतन्त्राणां पिताऽसौ यः सदाशिवः || १९ ||
Seite 216 der Vorlage
अन्यदेवसपर्या वा अन्यदेवस्य कीर्तनम् |
गुरुदेवं विना चैव तदग्रे नरकं व्रजेत् || २० ||
गुरोः प्रीतिकरं कर्म यः कुर्यात् साधकोत्तमः |
तस्याऽशु सिद्धयः सर्वाः सन्ति पादतले सदा || २१ ||
कायेन मनसा वाचा यो भक्तश्चरणे गुरोः |
तस्य सिद्धिर्भवेदाशु पूजाहोमजपादृते || २२ ||
गुरुभक्तिविहीनश्चेत् हानिस्तस्य पदे पदे |
प्रत्यक्षे वा परोक्षे वा प्रत्यहं प्रणमेद् गुरुम् || २३ ||
गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत् |
दीक्षां व्याख्यां प्रभुत्वञ्च गुरोरग्रे न कारयेत् || २४ ||
सर्वथा तुष्टिमुत्पाद्य गुरोः प्रसादमालभेत् |
ऋणदानं तथाऽदानं वस्तूनां क्रयविक्रयम् || २५ ||
न कुर्याद् गुरुणा सार्द्धं शिष्योऽपि च कदाचन |
आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्तनम् || २६ ||
Seite 217 der Vorlage
गुरुद्रोहमिदं प्राहुः यः कुर्यात् स च पातकी |
स्नेहद्रव्यनियोगञ्च नाऽनिवेद्य गुरौ चरेत् || २७ ||
अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः |
गुरुनाम न भाषेत जपकालादृते क्वचित् || २८ ||
श्रीनाथ देव स्वामीत्यभिवादे साधने वदेत् |
गुरुं तुङ्कृत्य हुङ्कृत्य वाचा निर्भर्त्स्य यः कदा || २९ ||
देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः |
सिद्धिं सिद्धाधिवासांश्च श्रीपूर्वं समुदीरयेत् || ३० ||
विकल्प्य कुलशास्त्राणि भवन्ति कुलराक्षसाः |
एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् || ३१ ||
शुनो योनिशतं गत्वा चण्डालत्वमवाप्नुयात् |
गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् || ३२ ||
तीर्थयात्राञ्च यः कुर्यान्न कुर्यादात्मशुद्धये |
Seite 218 der Vorlage
न नियोगं गुरोर्दद्याद् दुष्टतां न विभावयेत् || ३३ ||
यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्ततः |
अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया || ३४ ||
यस्तिलार्धं तदर्धं वा गुरुस्वमुपजीवति |
मोहाल्लोभात् पतेद्यस्तु नरके च त्रिसप्तके || ३५ ||
बह्वल्पं हि गुरोर्द्रव्यं अदत्तं स्वीकरोति यः |
तिरश्चां योनिमालम्ब्य क्रव्यादैर्भक्ष्यते सदा || ३६ ||
गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः |
पतितस्यापि तस्यापि प्रायश्चित्तं न विद्यते || ३७ ||
तत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् |
गोब्राह्मणवधं कृत्वा यत्पापं समवाप्नुयात् || ३८ ||
शक्तिच्छायां गुरुच्छायां देवच्छायां न लङ्घयेत् |
यद्यत्र गुरुणा सार्द्धं स्वपित्युपविशेत्तु यः || ३९ ||
स याति नरकं घोरं यावदिन्द्राश्चतुर्दश |
Seite 219 der Vorlage
गुरुवाक्यहतं कृत्वा आत्मवाक्यं तु रोपयेत् || ४० ||
गुरुं जेतुं मनो यस्य पच्यते नरकार्णवे |
अनेकधा पशोरन्नं भुञ्जते ये च कौलिकाः || ४१ ||
तेभ्यः प्रकुप्यते देवी तत्सङ्गं नैव कारयेत् |
लक्षत्रयञ्जपेल्लोपां लक्षं वाऽप्यजपां जपेत् || ४२ ||
होमयेद्धविषाऽज्येन निष्पापः स्यात्तदा ध्रुवम् |
गुरुणाऽलोकितः शिष्य उत्तिष्ठेदासनं त्यजेत् || ४३ ||
गुरुणा सदसद्वापि यदुक्तं तन्न लङ्घयेत् |
रभसं मैथुनं मिथ्या यो वदेद् गुरुमन्दिरे || ४४ ||
स याति नरकं घोरं शम्भुना परिभाषितम् |
न विशेदासने धीरो देवतागुरुसन्निधौ || ४५ ||
गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् |
देश्यासनं कनिष्ठानामितरेषां समासनम् || ४६ ||
Seite 220 der Vorlage
रिक्तहस्तो न पश्येत्तु राजानं दैवतं गुरुम् |
फलपुष्पादिकं नीत्वा यथा शक्त्या समर्पयेत् || ४७ ||
एवं यो नाचरेन्मन्त्री ब्रह्मराक्षसतां व्रजेत् |
आलिङ्गनप्रदानेन गुरौ तुष्टे सकृद्यदि || ४८ ||
तदा किम्वा न लभते साधका गुरुसेवकाः |
गुरुत्यागात् नरकगामित्वम्
गुरुत्यागे ध्रुवो मृत्युर्मन्त्रत्यागाद्दरिद्रता || ४९ ||
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् |
गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवम् || ५० ||
लक्षं श्रीपादुकामन्त्रं जप्त्वा पापात् प्रमुच्यते |
मन्त्रत्यागकरः शिष्यस्तत्सङ्गं नैव कारयेत् || ५१ ||
लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः |
ब्रह्मापराशरव्यासविश्वामित्रादयः पुनः || ५२ ||
गुरुषुश्रूषणात् सिद्धिं प्राप्तास्ते भुवनत्रये |
शिवो गुरुप्रसादेन सर्ववित्सर्वगः प्रभुः || ५३ ||
Seite 221 der Vorlage
साधकः शिव एव स्याद् गुरौ तुष्टे सकृद् यदि |
तदा किम्वा न लभन्ते साधका गुरुसेवकाः || ५४ ||
तस्मादेव प्रयत्नेन गुरुसेवां समाचरेत् |
सर्वदा गोपयेदेनं गुरुञ्च मनुमेव च || ५५ ||
गुरुशययासनं यानं पादुकोपानहौ तथा |
स्नानोदकं तथा छायां लङ्घयेन्न कदाचन || ५६ ||
वृथा कालं न गमयेद् द्यूतक्रीडादिना सुधीः |
गमयेद् देवतापूजाजपयागस्तवादिना || ५७ ||
गुरोः कृपालापकथास्तोत्रागमावलोकनैः |
गमयेदनिशं कालं न वदेत् परदूषणम् || ५८ ||
रागलोभमदक्रोधपैशुन्यादि विवर्जयेत् |
कुलाचारं गुरुं देवं मनसाऽपि न निन्दयेत् || ५९ ||
पूजां ध्यानं जपं होमं यथा कर्मचतुष्टयम् |
प्रत्यहं साधकः कुर्यात् स्वयञ्चेत् सिद्धिमिच्छति || ६० ||
Seite 222 der Vorlage
परदारादिसङ्गतिः वर्जनीया
कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् |
नालोकयेत् परद्रव्यं परदाराश्च वर्जयेत् || ६१ ||
न निन्देद् व्रतिनं विप्रं वेदाङ्गसंहितास्तथा |
पुराणागमशास्त्राणि कल्पांश्चापि न दूषयेत् || ६२ ||
अन्यमन्त्रार्चने श्रद्धामन्यमन्त्रप्रपूजनम् |
एकस्यावाहनं कृत्वा नान्यसाधनमाचरेत् || ६३ ||
अन्यस्य स्मरणाद् दुःखं योगिनीशापमालभेत् |
अपमृत्युभवेत्तस्य मृते च नरकं व्रजेत् || ६४ ||
किमधिकञ्चापरैः साध्यं तस्याः सर्वं यतो लभेत् |
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् || ६५ ||
सेवकान् प्रेरकान् वापि वाचकान् दर्शकांस्तथा |
शिक्षकान् मोक्षकान् वापि योइगिनीसिद्धिरूपकान् || ६६ ||
स्त्रीनिन्दा न कर्तव्या
कन्यां कुमारिकां नग्नामुन्मत्तामपि योषितम् |
न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् || ६७ ||
Seite 223 der Vorlage
नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः |
कुरूपेति निकृष्टेति न वदेत् कुलयोषितम् || ६८ ||
परीक्षयेन्न भक्तांश्च वीराणाञ्च कृताकृतम् |
या काचिदङ्गना लोके सा मातृकुलसम्भवा || ६९ ||
कुप्यन्ति कुलयोगिन्यो वनितानामतिक्रमात् |
स्त्रीणां शतापराधेन पुष्पेणापि न ताडयेत् || ७० ||
कुलस्त्रीवीरनिन्दाञ्च तत्त्वद्रव्यापहारणम् |
कुलरोधप्रहारञ्च वर्जयेन्मतिमान् सदा || ७१ ||
स्त्रीमयञ्च जगत् सर्वं स्वयं तावत्तथा भवेत् |
न हिंसेदखिलान् जन्तून्न निन्देद्वामलोचनाम् || ७२ ||
न निन्देद्दक्षिणं वामं देववाक्यं तथैव च |
न निन्देत् शक्तिसिद्धान्तं शक्तिपूजनतत्परः || ७३ ||
Seite 224 der Vorlage
न निन्देद् वृद्धवाक्यं तु न निन्देद् वेदवादिनम् |
न निन्देद् बहुमान्यञ्च न निन्देच्च पतिव्रताम् || ७४ ||
न निन्देद् देवलोकादीन्न निन्देत् समयस्थितान् |
न निन्देद् बहुलं मांसं निन्दां सर्वत्र वर्जयेत् || ७५ ||
प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् |
विरूपां मुक्तकेशीञ्च कामार्त्ताञ्च न निन्दयेत् || ७६ ||
स्त्रीः शक्तिरूपिणी
शक्तिमयं जगत् सर्वं स्वयं तावत्तथा भवेत् |
शक्तिरूपा यतो देवी सृष्टिमध्ये व्यवस्थिता || ७७ ||
शक्तेः सृष्टिः समुत्पन्ना शक्तौ च लीयते पुनः |
तस्मात् शक्तिः प्रधाना च पूजनीया प्रयत्नतः || ७८ ||
भक्षयेद्योषिता सार्द्धं जुहुयादग्निसम्मुखे |
आरक्तवसनां नारीं यत्नाद् भक्त्या समानयेत् || ७९ ||
शक्तिपूजां सदा कुर्यात् प्रसन्ना येन जायते |
सुखं शक्तिप्रसन्ने तु दुःखं तद्वर्जनाद् भवेत् || ८० ||
Seite 225 der Vorlage
शाक्तव्यवहारः
भक्ष्यं भोज्यं तथा पेयं गन्धं पुष्पं तथा पुनः |
शक्तौ निवेद्य प्रथमं तथा चाऽभरणादिकम् || ८१ ||
तत्पश्चादात्मसात् कुर्यात् सिद्ध्यर्थी साधकश्च यः |
शक्तौ दर्पं घृणां लज्जां वर्जयेत् क्रोधदर्शनम् || ८२ ||
कदाचिद्दर्परूपेण पुष्पेणापि न ताडयेत् |
शक्तौ न विस्मयं कार्यं यस्मात् क्रुद्धा च चण्डिका || ८३ ||
विस्मिते बहुलं नाशं मृत्युलाभमवाप्नुयात् |
मृतेऽपि नरकं याति श्रियमाप्नोति पूजनात् || ८४ ||
चर्व्यं चोष्यं लेह्यपेयं भक्ष्यं भोज्यं गृहं सुखम् |
सर्वञ्च युवतीरूपं भावयेत् यतमानसः || ८५ ||
कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः |
यदि भाग्यवशेनैव कुलदृष्टिस्तु जायते || ८६ ||
तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् |
बालां वा यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा || ८७ ||
कुत्सितां वा महादुष्टां नमस्कृत्य विसर्जयेत् |
Seite 226 der Vorlage
तासां प्रहारं निन्दाञ्च कौटिल्यमपि चाप्रियम् || ८८ ||
सर्वथा न च कर्त्तव्यमन्यथा सिद्धिरोधकृत् |
स्त्रियो देव्यः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् || ८९ ||
स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रिया अपि |
न पश्येत् पतितां नग्नामुन्मत्तां प्रकटस्तनीम् || ९० ||
दिवसे न रमेन्नारीं तद्योनिं न निरीक्षयेत् |
विपरीतरता सा तु भविता हृदयोपरि || ९१ ||
स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात् पूजनं स्त्रियः |
जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपञ्चरेत् || ९२ ||
जपे कालशुच्यादि नियमो नास्ति
स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात् कुलजां शुभाम् |
मांसमत्स्यदधि क्षौद्रभक्ष्यद्रव्ये यथारुचि || ९३ ||
भोज्यान्नासनभक्तानि भुक्त्वा भक्ष्यं चरेज्जपम् |
विना पीत्वा सुरां भुक्त्वा मांसं गत्वा रजस्वलाम् || ९४ ||
यो जपेच्चण्डिकां देवीं दुःखं तस्य पदे पदे |
Seite 227 der Vorlage
कौलिकमाहात्म्यम्
अन्तःशाक्ता बहिःशैवाः सभायां वैष्णवा मताः || ९५ ||
नानावेशधराः कौला विचरन्ति महीतले |
कुलपूजादिलिङ्गैस्तु रहितो विष्णुतत्परः || ९६ ||
गच्छन् स्वपन् भ्रमन् वापि स्खलन् विष्णुपरायणः |
हरिनाम्ना जातभावो भावाखिलविचेष्टितः || ९७ ||
जय विष्णो हरे ब्रह्मन् नानार्थपरविस्तरैः |
स्मर्त्तव्या च महादेवी कुलीनैर्विपिने गृहे || ९८ ||
रात्रौ जपः प्रशस्तः
रात्रौ पर्यटनञ्चैव रात्रौ च शक्तिपूजनम् |
न करोति कथञ्चैव साधकः कौलिको भवेत् || ९९ ||
बधिराद् विहरेदेकः सदा सङ्गविलङ्घितः |
दिक्कालनियमो नात्र स्थित्यादिनियमो न च || १०० ||
न जपे कालनियमो नार्चादिषु बलिष्वपि |
स्वेच्छानियम उक्तोऽत्र शक्तिमन्त्रस्य साधने || १०१ ||
Seite 228 der Vorlage
स्नानादिमानसं शौचं मानसः प्रवरो जपः |
पूजनं मानसं दिव्यं मानसं तर्पणादिकम् || १०२ ||
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् |
न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि || १०३ ||
वस्त्रासनस्थानगेह देहस्पर्शादिधारिणः |
शुद्धिं न चाचरेत्तत्र निर्विकल्पं मनश्चरेत् || १०४ ||
नात्र शुद्धेरपेक्षास्ति न चामेध्यादिदूषणम् |
य एवं चिन्तयेन्मन्त्री सर्वकामार्थसिद्धिभाक् || १०५ ||
गद्यपद्यमयी वाणी सभायां तस्य जायते |
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः || १०६ ||
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः |
सर्वदेवमयं देहं सर्वदेवमयीं तनूम् || १०७ ||
आत्मानं देवतारूपं अद्वैतं परिचिन्तयेत् |
आत्मा च परमात्मा च जगद्व्यापी स्वयं विभुः || १०८ ||
Seite 229 der Vorlage
आत्मानं ब्रह्मरूपं च सर्वदा परिचिन्तयेत् |
शत्रवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः || १०९ ||
वाचयन्ति यशः सर्वे साधकानां सुनिश्चितम् |
दुर्मुखाः सुमुखाः सर्वे गर्विता प्रणमन्ति च || ११० ||
बाधकाः साधका यान्ति साधकस्य विशेषतः |
सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः || १११ ||
महानिशाशुचौ देशे बलिं मन्त्रेण दापयेत् |
अत्यन्तरोगयुक्तो वा शुचिर्वाऽप्यथवाऽशुचिः || ११२ ||
अकालेऽप्यथवा काले अधिकारी सदैव हि |
कृतार्थं मन्यमानस्तु सन्तुष्टनिजमानसः || ११३ ||
नाधर्मो विद्यते किञ्चित् किञ्चिद्धर्मो महान् भवेत् |
कुलान्नञ्चैव भुञ्जीत कुलीनेन सह स्वपेत् || ११४ ||
कुलप्रसङ्गः कर्त्तव्यः कुलीनैर्न पशोः क्वचित् |
यस्मिन्मन्त्रे य आचारस्तस्य धर्मस्तु तादृशः || ११५ ||
Seite 230 der Vorlage
तद्धस्तावचितं भोज्यं तद्धस्तावचितं जलम् |
तद्धस्तावचितं पुष्पं देवताभ्यो निवेदयेत् || ११६ ||
षडङ्गन्यासमाचर्य ध्यात्वा रात्रौ जपेत् सुधीः |
सदाकालं जपेन्मन्त्रं सर्वसिद्धिपरायणः || ११७ ||
न दोषः सर्वदा जापे सर्वदेशेऽपि सर्वदा |
जपनिष्ठो जपेद्यस्तु सर्वयज्ञफलं लभेत् || ११८ ||
सर्वेषामेव यज्ञानां जपयज्ञः प्रशस्यते |
रात्रौ जपैकमात्रेण सिद्धिदा चण्डिका भवेत् || ११९ ||
इडायाञ्च गते रात्रौ शक्तिमन्त्रं जपेद् यदि |
पिङ्गलायां गते जीवे पुंमन्त्रं प्रजपेत् सदा || १२० ||
न चेज्जन्मसहस्रैस्तु नैव सिद्धिः प्रजायते |
कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव वा || १२१ ||
Seite 231 der Vorlage
भ्रान्तिरत्र न कर्त्तव्या सिद्धिहानिः प्रजायते |
विस्मिता विलयं यान्ति पशवः शास्त्रमोहिताः || १२२ ||
विशुद्धचित्तोऽत्र भवेत् सिद्धिः स्यादपवर्गदा |
एतैस्तु तत्क्षणात् सिद्धिर्विस्मयो नास्ति चापरः || १२३ ||
कुलभ्रष्टस्य निष्कृतिर्नास्ति
सर्वाचारपरिभ्रष्टः कुलाचारं समाचरेत् |
कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत् || १२४ ||
शास्त्रेषु निष्कृतिर्द्रष्टा महापातकिनामपि |
कुलभ्रष्टस्य कुत्रापि न द्रष्टा निष्कृतिः क्वचित् || १२५ ||
आपदं दुरितं रोगो दारिद्र्यं कलहो भयम् |
योगिनीनां प्रकोपश्च स्खलितानि पदे पदे || १२६ ||
कुलाचारी योगिनीप्रियः
भ्रंशमानः प्रणष्टश्च तेजोहीनश्च दुर्मतिः |
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवर्जितः || १२७ ||
देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा |
तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः || १२८ ||
भक्षयन्ति पुरा तासां वरो दत्तो मयैव तु |
Seite 232 der Vorlage
तस्मादाचारवान् वीरो योगिनीनां प्रियो भवेत् || १२९ ||
कुलाचारेण देवत्वं योगिनीवीरमेलनम् |
तिर्यग्योनिं समाप्नोति कौलिकस्तद्विपर्ययात् || १३० ||
आज्ञासिद्धिर्भवेत्तस्य आचारपालनात् सदा |
संस्कारस्य विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् || १३१ ||
आचारवर्जनाच्चैव कौलिकः पतितो भवेत् |
भोगो मोक्षायते तस्य पातकं सुकृतायते || १३२ ||
मोक्षायते च संसारः साधकशुद्धभावतः |
पञ्चतत्त्वेन कर्त्तव्यं सदैव पूजनं महत् || १३३ ||
अतिगुप्तेन कर्त्तव्यं सर्वथैव सुनिश्चितम् |
इत्याचारपरः श्रीमान् जपपूजापरायणः || १३४ ||
पालकः कुलतत्त्वानां परतत्त्वे प्रलीयते |
अणिमाद्यष्टसिद्धीनामाश्रयः साधको भवेत् || १३५ ||
Seite 233 der Vorlage
प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् |
कायक्लेशञ्च नास्तिक्यं तीर्थयात्रामुपोषणम् || १३६ ||
वर्जयेच्च प्रयत्नेन यदीच्छेत् सिद्धिमात्मनः |
पञ्चमहापातकानि
वीरहत्या वृथापानं वीरद्रव्यापहारिता || १३७ ||
वीरस्त्रीगमनञ्चापि तत्संसर्गाच्च पञ्चमम् |
महापातकमित्युक्तं सर्वथा परिवर्जयेत् || १३८ ||
कुसुम्भं नालिकाञ्चैव चिञ्चामेव न खादयेत् |
भुक्त्वा चान्द्रायणं कुर्यात् सिद्धविद्याप्रपूजकः || १३९ ||
इक्षुखण्डं न भुञ्जीत शिवा कालीति नो वदेत् |
न छेदयेत् कदम्बञ्च त्रिपुरापूजकः सदा || १४० ||
प्रमादाद्यदि कुर्वीत सुन्दरीशापमाप्नुयात् |
कुलधर्मं समाश्रित्य आचारं यो न पालयेत् || १४१ ||
यथेच्छाचारिणस्तस्य महापातकिनः सदा |
निष्कृतिर्नास्ति तस्यैव महारौरवसङ्कुले || १४२ ||
स सदा पशुरित्युक्तो देवताशापमाप्नुयात् |
Seite 234 der Vorlage
गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं तथा || १४३ ||
निषिद्धाचरणं यत्र कुत्रापि यदि जायते |
प्रायश्चित्तं तत्र तत्र कर्त्तव्यं साधकेन च || १४४ ||
निषिद्धाचरणे सम्यक् पापस्य गुरुलाघवम् |
देशं कालं वयो वित्तं सम्यक् ज्ञात्वा यथाविधि || १४५ ||
प्रायश्चित्तं गुरोः कुर्यात् सर्वपापविशुद्धये |
शिष्योऽपि खलु तत्प्रोक्तं प्रायश्चित्तं समाचरेत् || १४६ ||
अथवा सर्वपापानां गुरुनामजपः स्मृतः |
जाम्बूनदस्य कलुषं परिशुद्धं यथाऽग्निना || १४७ ||
अनाचारस्य मालिन्यं प्रायश्चित्ताऽग्निना दहेत् |
लक्षं नाम्नो गुरोर्जापे सर्वपापाद्विशुद्ध्यति || १४८ ||
अथवाऽप्यजपालक्षं लोपालक्षत्रयं तथा |
जपान्मुच्येत पापेभ्यः सर्वेभ्यः साधकः सदा || १४९ ||
लोपामुद्रामन्त्रोद्धारः
वियच्छून्ययुतः शक्तिः सविसर्गोऽजपामनुः |
Seite 235 der Vorlage
वियच्छक्तिस्ततः कामः क्षौणी च परमेश्वरी || १५० ||
आकाशं भृगुकामौ च शिवः शक्रश्च पार्वती |
चन्द्रोऽनङ्गो धरादेवी लोपामुद्रा प्रकाशिता || १५१ ||
बहुनाऽत्र किमुक्तेन रहस्यं कथ्यतेऽधुना |
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः || १५२ ||
गुरुः शिष्यपापम् आप्नोति
प्रजादोषश्च राजानं जायादोषं पतिं यथा |
तथा प्राप्नोत्यसन्देहः शिष्यपापं गुरुः सदा || १५३ ||
गुरुस्त्रिवारमाचारं कथयेच्च स्वशिष्यके |
न गृह्णाति हि शिष्यश्चेत् तदा पापं गुरोर्न हि || १५४ ||
कुलशास्त्रं पशुभ्यः गोप्तव्यम्
कुलधर्मप्रसङ्गन्तु पशूनां पुरतस्त्यजेत् |
कदाचिन्नैव कुर्याद्धि शूद्राग्रे वेदपाठवत् || १५५ ||
Seite 236 der Vorlage
पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् |
कुलद्रव्यादिकञ्चापि न वदेत् पशुसन्निधौ || १५६ ||
यथा रक्षति चौरेभ्यो धनधान्याम्बरादिकम् |
कुलधर्मं तथा चैव पशुभ्यः परिरक्षयेत् || १५७ ||
सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः |
वाञ्छदासिद्धिमवाप्नोति नाशयन्ति प्रकाशकान् || १५८ ||
या देवी भुवनेश्वरी त्रिभुवनलोकोद्धृता ह्यग्रतो
विद्यासृष्टिकृता स्वकीयवपुषो वर्णाश्रिता देवता |
सा नित्या सकला गृहस्थनिलया कान्तादृता कोमला
नित्यं पञ्चगुणैर्भजस्व तपसा भोगेन तां साधक ! || १५९ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये दशमोल्लासः || १० ||
एकादश उल्लासः
भावनिरूपणम्
पश्वदिभेदेन भावस्य त्रैविध्यम्
अथ भावं प्रवक्ष्यामि यथा तन्त्रानुसारतः |
भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् || १ ||
तद्भेदेन गुरुमन्त्रदेवतानां त्रैविध्यम्
गुरुश्च त्रिविधश्चैव तथैव मन्त्रदेवता |
आद्यभावो महान् श्रेयान् सर्वसिद्धिप्रदायकः || २ ||
द्वितीयो मध्यमश्चैव तृतीयो विश्वनिन्दितः |
बहुजापात्तथा होमात् कायक्लेशादि विस्तरैः || ३ ||
न भावेन विना चैव यन्त्रमन्त्राः फलप्रदाः |
किं वीरसाधनैर्लक्षैः किम्वाऽकृष्टकुलाकुलैः || ४ ||
किं पीठपूजनेनैव किं कन्याभोजनादिभिः |
स्वकुले प्रीतिदानेन किं परेषान्तथैव च || ५ ||
किं जितेन्द्रियभावेन किं कुलाचारकर्मणा |
यदि भावविशुद्धात्मा न स्यात् कुलपरायणः || ६ ||
Seite 238 der Vorlage
भावेन लभते मुक्तिं भावेन कुलवर्धनम् |
भावेन गोत्रवृद्धिः स्याद् भावेन कायशोधनम् || ७ ||
किं न्यासविस्तरेणैव किं भूतशुद्धिविस्तरैः |
किं वृथा पूजनेनैव यदि भावो न जायते || ८ ||
केन वा पूज्यते विद्या न वा केन प्रजायते |
फलाभावश्च नियतं भावाभावात् प्रजायते || ९ ||
दिव्यभावनिरूपणम्
प्रथमं दिव्यभावस्तु कथ्यते तन्त्रवर्त्मना |
यद्वर्णं देवता यत्र तत्तेजःपुञ्जपूरितम् || १० ||
तेजोमयं जगत् सर्वं विभाव्य मूर्त्तिकल्पनम् |
तत्तन्मूर्त्तिमयैर्मन्त्रैः स्वेन स्वेनैव वा पुनः || ११ ||
आत्मानं तन्मयं दृष्ट्वा सर्वं भावं तथैव च |
तत्सर्वं योषिति ध्यात्वा चिन्तयेद्यतमानसः || १२ ||
Seite 239 der Vorlage
अष्टाब्दात् षोडशाब्दान्तं युवतीति प्रचक्ष्यते |
तत्र भावप्रकाशश्चेत् स भावः परमो मतः || १३ ||
चरणान्मूलपर्यन्तं पीत्वा पीत्वा पुनः पिबेत् |
तस्या नखमणिज्योत्स्नाखण्डिताघतमो भवेत् || १४ ||
स्निग्धान्तःकरणो वीरो निर्विकारः सदा भवेत् |
सुवृत्तजानुना चारुजङ्घोरुजघनश्रिया || १५ ||
नाभिरोमावली वक्षःस्थलैः पीनपयोधरैः |
ग्रीवानयनपर्यन्तं केशाग्रैः प्रकरस्मितैः || १६ ||
यावमधुमदापूर्णदिव्यभावविलोकितैः |
स्निग्धेन्द्रियश्च सन्तुष्टश्चतुर्वर्गपदाश्रयः || १७ ||
कामकलापूजा
ततः कामकलां ध्यायेत् साधकः स्थिरमानसः |
निवृत्तिकाले पुनस्तस्या भावपूर्णामृतैर्निजम् || १८ ||
मुखं बिन्दुवदाकारं तदधः कुचयुग्मकम् |
तदधः सपरार्धञ्च चिन्तयेत्तदधोमुखम् || १९ ||
सर्वविद्यामृतापूर्णं सर्ववाग्विभवप्रदम् |
सर्वार्थसाधकञ्चैव सर्वरञ्जनकारकम् || २० ||
Seite 240 der Vorlage
सर्वदेवादिभूतञ्च सर्वदेवनामस्कृतम् |
सर्वाह्लादनसम्पूर्णं सर्वमोहनकारणम् || २१ ||
सर्वार्थसाधनञ्चैव सर्ववश्यप्रवर्त्तकम् |
एवं कामकलाध्यानं सुगोप्यं साधकोत्तमैः || २२ ||
एतद्रूपं तु चात्मानं चिन्तयेत् साधकः सदा |
मेढ्रस्थाने शिवाकारमाधारे कनकप्रभम् || २३ ||
नाभिस्थं सूर्यविम्बाभं तरुणादित्य वर्चसम् |
हृदि वह्निशिखाकारं तदूर्ध्वे भास्करद्युतिम् || २४ ||
कण्ठे दीपशिखाकारं घण्टा वैदूर्यसन्निभम् |
लम्बिके चन्द्रविम्बाभं भ्रूमध्ये रत्नवद्रुचिम् || २५ ||
नयने विश्वतेजश्च चिन्तयेदेषु साधकः |
धृत्वा स्पृष्टवाऽथवा दृष्ट्वा ध्यात्वा कामकलातनूम् || २६ ||
कुलेषु तत्कलारूपमकुले परिचिन्त्य च |
क्षणं तद्वद्विमर्शेन जायते भावसञ्चयः || २७ ||
Seite 241 der Vorlage
कुलीनो जायते यस्मात्तत् सर्वं कथितं शुभम् |
कुले साक्षाद् यतस्तत्त्वं देवी तिष्ठति तत्त्वतः || २८ ||
तेन तत्कुलशास्त्राङ्गे पूजनीया प्रयत्नतः |
कुलदेवी चाद्या देवी निश्चला यस्य विद्यते || २९ ||
स धन्यः पुरुषो लोके निश्चलो यत एव सः |
इति कामकलाध्यानं कथितं सर्वसिद्धिदम् || ३० ||
परयोषाधिका ज्ञेया निजस्त्री प्रीतिवर्द्धिनी |
आगते स्वागतं कुर्याज्ल्लीलायोगात् स्वलीलया || ३१ ||
तल्पाच्चोत्थाप्य हस्ताग्रे धृत्वा सम्वेशयेत्तः |
वामभागसमासीनां सुवेशीं कामरूपिणीम् || ३२ ||
ध्यात्वा कामकलां तत्र विन्द्वादिपूर्वविग्रहाम् |
गन्धमाल्यं ततो दत्त्वा कुलद्रव्याणि योजयेत् || ३३ ||
हेतुयुक्तं सताम्बूलं दत्त्वा भुक्त्वा च साधकः |
पृच्छेत् कुलकथां सर्वां लौकिकालौकिकादिकाम् || ३४ ||
Seite 242 der Vorlage
तस्यां निन्दाभयक्रोध कटूक्तियोजनं यदि |
करोति कुलशास्त्रज्ञः सिद्धोऽपि नश्यति ध्रुवम् || ३५ ||
हित्वा दोषादिकं तत्र स्नेहवृष्टीव शिक्षया |
भावयेन्न कटूक्त्या वै कृते तु निष्फलं भवेत् || ३६ ||
कुलशास्त्रे रहस्यं तु कुलमूलं ततो जगत् |
वरं कुलमनोस्त्यागो वरं कुलगुरोरपि || ३७ ||
न त्यागयोग्यं स्वकुलं दृष्टदोषेण सर्वथा |
स्वकुले कुलबाहुल्यं यदि स्याद् भाग्ययोगतः || ३८ ||
समरूपं विधातव्यं वैपरीत्यं परित्यजेत् |
पृथक् स्थानं पृथग्ध्यानं पृथक्पूजा पृथक् स्तुतिः || ३९ ||
न कर्त्तव्या प्रयत्नेन किमेभिर्बहुजल्पितैः |
वीरापत्यकुले चैव वीरपत्नीकुलेऽपि च || ४० ||
सदा तिष्ठति देवेशि नात्र कार्या विचारणा |
तासां निश्वासयोगेन तद्देशश्चैव नश्यति || ४१ ||
Seite 243 der Vorlage
प्रमोदादमृतस्नानं देव्याः स्यान्नात्रसंशयः |
कुलजा सा महायुद्धे वीरास्फालननादिनी || ४२ ||
न दोषमनुगच्छन्ती पालयन्ती यतो जगत् |
मात्सर्यं पतिविद्वेषः कटूक्तिः कलहादिकम् || ४३ ||
नीचाभिगमनाच्चैव न सा देवी हरप्रिया |
एवं कुलं परित्यज्य साधयेत् सिद्धिमात्मनः || ४४ ||
फलपाकविधानम्
फलपाकविधानं किं कथ्यते तन्त्रवर्त्मना |
वीरपत्नी च परमा स्वयमेव महेश्वरी || ४५ ||
तत्सुता कुलविद्यानामाद्या रौद्री सनातनी |
तद्वधू भुवनेशानी सर्वमन्त्रप्रबोधिनी || ४६ ||
न्यायतोऽन्यायतो वापि वीरपत्नी गुरुर्यदि |
दीक्षणादेव सर्वार्थसाधकः साधको भवेत् || ४७ ||
यदि भाग्यवशाद्देवि वीरपत्नी तु लभ्यते |
फलपाकं तत्र कृत्वा किं न सिध्यति भूतले || ४८ ||
Seite 244 der Vorlage
फलपाकविधानं तु सर्वदेवनमस्कृतम् |
दृष्टादृष्टाफलञ्चैव देवगन्धर्वकिन्नराः || ४९ ||
आयान्ति फलपाकार्थं तस्माद्यत्नविशेषतः |
विसर्जनं विधातव्यं गोपनं भावशक्तिकम् || ५० ||
पातिव्रत्यप्रशंसा
तत्तत्कल्पविधानेन कुलं कुर्यात् सुशिक्षितम् |
यतः पतिव्रताधर्मात् धर्मो नास्ति जगत्त्रये || ५१ ||
पतिः प्राणप्रदो नित्यं पतिरेव परा गतिः |
पतिरेव परं ब्रह्म पतिः प्राणाधिकः प्रभुः || ५२ ||
सर्वतीर्थमयः स्वामी सर्वदेवमयः पतिः |
सर्वदेवीमयश्चैव पतिरेवमहागुरुः || ५३ ||
सर्वदेवमयं हित्वा या नारी परगोचरा |
शूकरी गर्दभी काको शृगाली जायते ध्रुवम् || ५४ ||
अहं तु पुत्रवद्देवि नात्र भीतिर्न च त्रपा |
Seite 245 der Vorlage
तव लिङ्गे यो हि याति पतिरूपधरः क्वचित् || ५५ ||
मूलमन्त्रजप्ततोयं तद्गात्रे देयमीश्वरि |
तदा यदि बहिर्न स्यात्तदा स्वपतिरेव हि || ५६ ||
इत्यादिशिक्षया कार्याः शिक्षिताः कुलयोषितः |
आगत्योपविशेत् पार्श्वे मुखं वीक्ष्य स्थिरा भवेत् || ५७ ||
पतिभावेङ्गिते दक्षा हृष्टा स्यात् पतिदर्शने |
उत्तरे नोत्तरं दद्यात् व्याहरेच्छुभकर्मणि || ५८ ||
रक्षां कृत्वा विधानेन साधकः स्थिरमानसः |
योगिनीनां महापूजा बटुकानां तथैव च || ५९ ||
कार्या विघ्नविनाशार्थं कुलवारर्क्षयोगतः |
तासां मूलतरोर्मूले मूलविद्याञ्च कालिकाम् || ६० ||
विसर्जनविधौ कुर्यात् साधकः कुलपातनम् |
यद्रूपे प्रीतिरेतस्य कुलस्य कुलवित्तमः || ६१ ||
तद्रूपं विग्रहं कृत्वा साधकः स्थिरमानसः |
तत्र बीजार्पणं कृत्वा कुर्वन्ति कुलरक्षणम् || ६२ ||
Seite 246 der Vorlage
लिङ्गैर्वाक्यैः पदैश्चैव ज्ञात्वा कुलसमुद्भवम् |
देवजातं नरैर्जातं यथार्थकुलशास्त्रतः || ६३ ||
ज्ञात्वा कुलविभागं तु पञ्चमात् परतो बुधः |
सप्तमाष्टममासाद्वा वृक्षमध्ये सरोवरे || ६४ ||
हस्तं दत्वा पादुकाख्यां विद्यां संहारयोगतः |
जपेदष्टसहस्रं वै स्वयं वृक्षात् पतिष्यति || ६५ ||
पादुकां पूजयामीति कथितः पादुकामनुः |
एवं कृते यत् पतितं तत्फलं देवनिर्मितम् || ६६ ||
स्वस्वामिकञ्च पतति वैपरीत्यागमागमात् |
एतल्लिङ्गफलं ज्ञात्वा आनीय क्षालयेत्ततः || ६७ ||
गन्धद्रव्यं कटुद्रव्यं दत्त्वा च साधकोत्तमः |
धेनुमुद्रामृतीकृत्य होमं कुर्यादलक्षितः || ६८ ||
रात्रावेवं विधायैव यज्ञशेषं भुजेत्ततः |
भुक्तमात्रे तु तस्मिन् वै चिरजीवी क्षितौ भवेत् || ६९ ||
Seite 247 der Vorlage
मुख्या मधुमती तस्य करस्था भोगदायिनी |
नित्या मधुमती तस्य जायते नात्र संशयः || ७० ||
मधुमत्याः फलञ्चैव कथयामि शृणुष्व मे |
सुधाधारासमा वाणी वक्त्रात्तस्य प्रजायते || ७१ ||
सर्वज्ञः सर्वशास्त्राणामधीशः कुलनायकः |
चन्द्रसूर्यावधि श्रीमान् भुनक्ति बहुलं सुखम् || ७२ ||
देवकन्याप्सरोभिश्च दिव्यगन्धर्वचारणैः |
नानाविलाससम्पन्नैः कलाकुशलकोविदैः || ७३ ||
नृत्यगीतैश्च बहुलैर्नानोपायरसायनैः |
अमृताद्यैः प्रीतिकरैर्देवभोग्यैः सुदुर्लभैः || ७४ ||
देवकन्याहस्तगतैरथमारुह्यसोत्सुका |
आयाति साधकाकाङ्क्षहृदया परमेश्वरी || ७५ ||
यत्र कामेश्वरो देवश्चिन्तारसमुपागतः |
तत्रैवाऽयान्ति सततं देवकन्याः सहस्रशः || ७६ ||
इन्द्रयोग्यां पुरीं कृत्वा वसन्ति साधकैः सह |
तत्रोपगतपीठस्था भुक्त्वा तु बहुलं सुखम् || ७७ ||
Seite 248 der Vorlage
चिरकालं भुवि स्थित्वा चान्ते मुक्तिमवाप्नुयात् |
साधकानां कुलज्ञानां न दोषः फलपातने || ७८ ||
एतत्फलनिपातार्थं कुलप्राप्त्या पदे पदे |
विघ्नं करोति सर्वत्र निजसङ्कोचकारणात् || ७९ ||
फलं वृक्षोपरि तथा विघ्नमाचरित ध्रुवम् |
फलवृक्षस्य हानिश्चेत् कदाचिद्दैवयोगतः || ८० ||
साधकोऽपि भवेदत्र तदा च सविकल्पकः |
तावन्न कुलपूजा स्याद्यावत्तु निष्कृतिर्भवेत् || ८१ ||
तावन्निजकुलालापा वर्जनीयाः प्रयत्नतः |
एतत् कार्यविधाने तु योग्यो नास्तीह भूतले || ८२ ||
अतिदूरस्थिते देशे नामवर्णविवर्जिते |
करोति यदि तत्र स्याद्विघ्नं वा फलपातनम् || ८३ ||
न दोषैस्तत्र बाध्यन्ते साधकाः कुलसेवकाः |
विघ्नप्रधानमेतत्तु कदाचित् फलसाधनम् || ८४ ||
Seite 249 der Vorlage
सङ्केतेनैव कर्त्तव्यं सर्वत्र फलसाधनम् |
स्वफलं समनुप्राप्य क्रियते यदि पामरैः || ८५ ||
फलं भवति तेनैव पापेन बध्यते ध्रुवम् |
दिव्यभावः साधकेन्द्रो मर्त्त्यो शक्रसमो भवेत् || ८६ ||
एष ते कथितो दिव्यो भावः परसुखावहः |
न देयो यस्य कस्यापि पशोः गोप्यः प्रयत्नतः || ८७ ||
वीरभाववर्णनम्
अथातः सम्प्रवक्ष्यामि वीरभावञ्च मध्यमम् |
निर्द्वन्द्वमानसो भूत्वा हृदि कामकलातनुः || ८८ ||
निशि पूजा प्रकर्त्तव्या हेतुयुक्तः सदा भवेत् |
निजं कुलं समादाय स्वयं भैरवरूपधृक् || ८९ ||
कुलञ्च भैरवीरूपं तद्गात्रे न्यासविस्तरम् |
विन्यसेत् सकलं न्यासं नवयोन्यात्मकं तथा || ९० ||
प्रसूनतूलिकामध्ये पुष्पप्रकरसङ्कुले |
नानागन्धसमाकीर्णं कुलद्रव्येण यन्त्रकम् || ९१ ||
Seite 250 der Vorlage
लिखित्वा पूजयेच्छक्तौ घटस्थापनपूर्वकम् |
पूर्ववन्मण्डलं कृत्वा पूर्वोक्तैकतमं घटम् || ९२ ||
संस्थाप्य हेतुनाऽपूर्य ब्राह्मणादिविभेदतः |
तत्र मन्त्रं विलिख्यादौ यद्यत्कुलसमुद्भवम् || ९३ ||
ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् |
धेनुमुद्रां प्रदर्श्याऽथ अमृतं तद्विचिन्तयेत् || ९४ ||
दृष्टाऽर्घ्यस्य तु पात्रं वै नृत्यन्ति योगिनीगणाः |
इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः || ९५ ||
ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः |
अर्घ्यपात्रं त्रिधा कृत्वा गुरवे चैकभागकम् || ९६ ||
एकं कुलाय दत्त्वा वै एकेन देवतर्पणम् |
पीत्वा कुलरसं पूर्ण नानालङ्कारभूषितः || ९७ ||
आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीम् |
तत्तत्कल्पोक्तविधिना तत्तन्मन्त्रं प्रपूज्य च || ९८ ||
विसर्जनं विधायाथ स्वकुले योजयेत्ततः |
भक्तिस्वरसपानेनदेवी भुनक्ति चामृतम् || ९९ ||
Seite 251 der Vorlage
तत्तत्कुलरसास्वादैर्देव्याः प्रीतिः प्रजायते |
तत्फलग्रहणादेव सुमेरुशृङ्गरोहणम् || १०० ||
लतालिङ्गनमात्रेण सुधाधौतकलेवरः |
मूलयोगे कृते तत्र जपेदष्टसहस्रकम् || १०१ ||
जपस्यान्तं हविर्द्रव्यं गृहीत्वा तेन तर्पयेत् |
विधाय तर्पणं चैव प्रदक्षिणमनुव्रजन् || १०२ ||
कल्पोक्तेन प्रणम्याऽथ स्तोत्रेण तोषयेत्ततः |
इदं वीरकुलं चैव सुन्दरं सुमनोहरम् || १०३ ||
यद्देशे विद्यते वीरस्तत्कुलं चैव तत्सुतः |
न च मारीभयं तत्र न च राजभयादिकम् || १०४ ||
सुमङ्गलं सदा तत्र धनपुत्रविवर्धनम् |
लक्ष्मीर्वाणी सदा तत्र सुस्थिरा भवति ध्रुवम् || १०५ ||
मन्त्रपुष्पं प्रबोधिन्यामवश्यं ब्रह्ममूलतः |
योजनीयं प्रयत्नेन न च विघ्नं प्रवर्तते || १०६ ||
Seite 252 der Vorlage
नान्यवीरेण तद्योगं ग्रहणे दैवतैरपि |
योगिनीभिर्न लुप्तं तन्न च पापेन युज्यते || १०७ ||
यत्र तत्र कुजे वारे श्मशाने गमने कृते |
पूजाफलं भवेत्तत्र सप्तवासरसम्मितम् || १०८ ||
चतुर्दश्यां गते तत्र पक्षपूजाफलं लभेत् |
न गते नार्च्चिते स्थाने पशुरेव न संशयः || १०९ ||
नान्यस्मादधिको देव इति चिन्तापरायणः |
साधके क्षोभमापन्ने देव्याः क्षोभः प्रजायते || ११० ||
तस्माद्यत्नाद् भोगयुक्तो भवेद्वीरवरः सुधीः |
भोगेन मोक्षमाप्नोति भोगेन कुलसाधनम् || १११ ||
यद्यद्वदति निद्राति यत्करोति यदर्चति |
तत्सर्वं कुलरूपं तु ध्यात्वा च विहरेत् सुधीः || ११२ ||
Seite 253 der Vorlage
एकाकी निर्जने देशे श्मशाने निर्जने वने |
शून्यागारे नदीतीरे निःसङ्गो विहरेन्मुदा || ११३ ||
वीराणां जपकालस्तु सर्वदैव प्रशस्यते |
सर्वपीठे सर्वदेशे कर्तव्यं नात्र संशयः || ११४ ||
वीरसाधनकार्यञ्च कर्त्तव्यं वीरपुरुषैः |
दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः || ११५ ||
वरं पामरकार्यञ्च न पशोरिति निश्चयः |
यच्च देव्याः पुरा प्रोक्तं शाश्वतं मन्त्रसाधनम् || ११६ ||
अञ्जनं गुटिकादींश्च कुर्याद्वीरो महाबलः |
दिव्यवीरे न भेदोऽस्ति यो भेदः स तु कथ्यते || ११७ ||
दिव्यवीरयोर्भेदकथनम्
शान्तो विनीतो मधुरः कलालावण्यसंयुतः |
दिव्यश्च देववत् प्रायो वीरश्चोद्धतमानसः || ११८ ||
Seite 254 der Vorlage
विभूतिभूषणो वापि चन्दनेनापि लेपितः |
आकारगोपनो वापि व्यक्तो वा दिव्यसाधकः || ११९ ||
रक्तचन्दनदिग्धाङ्गो वैष्णवो वाप्यवैष्णवः |
असंस्कृतः संस्कृतो वा नित्यसिक्तः कुलेश्वरः || १२० ||
अपमाने च पूजायां हृष्टपुष्टः सदा भवेत् |
देवनिन्दापरो वापि तत्पूजादिपरोऽपि वा || १२१ ||
पूजारतस्तद्रहितः कुलाकुलमते स्थितः |
निजभावसमायुक्तो देववत् विहरेत् क्षितौ || १२२ ||
वेदहीने द्विजे चैव यथा न श्रुतिसंस्क्रिया |
विष्णुभक्तिं विना चैव भक्तिर्न प्रभवेद्यथा || १२३ ||
शक्तिज्ञानं विना मुक्तिर्यथा हास्याय कल्पते |
गुरुं विना यथा तन्त्रे नाधिकारः कथञ्चन || १२४ ||
पतिहीना यथा नारी सर्वकर्मविवर्जिता |
कुलं विना यथा वीरो देव्या वा मम साधकः || १२५ ||
Seite 255 der Vorlage
नाधिकारीति कौलेयस्तस्माद् भावपरो भवेत् |
विना कुलेन दिव्यानां वीराणाञ्च तथैव च || १२६ ||
मन्त्रसिद्धिर्न जायेत जन्मकोटिशतैरपि |
अविनीतं कुलं यस्य च कथं मम पूजकः || १२७ ||
तस्माद्यत्नात् सदा कार्यं यथा स्याद्विनयान्वितम् |
भावाभावात् कुले शास्त्रे नाधिकारः कथञ्चन || १२८ ||
तेन भावविशुद्धस्तु साधकः कौलिको भवेत् |
इदं वीरकुलञ्चैव दिव्यादपि मनोरमम् || १२९ ||
पशुभावनिरूपणम्
पशुभावं प्रवक्ष्यामि तृतीयं सर्वनिन्दितम् |
यथाविधि पशोर्विद्यां गृहीत्वा भावतत्परः || १३० ||
प्रथमं पूर्वमेवार्थं यत्नतः शुद्धिमाचरेत् |
न मत्स्यभोजनं कुर्यान्न स्त्रियं मनसा स्मरेत् || १३१ ||
परद्रव्ये न लोभः स्यान्न भोगो मानसो भवेत् |
सिन्धुतीरे पर्वते वा कानने वा सुरालये || १३२ ||
बिल्वमूले विवक्ते तु पुण्यक्षेत्रे सुशोभने |
न शूद्रदर्शनं कुर्यात् कौटिल्यं दूरतस्त्यजेत् || १३३ ||
Seite 256 der Vorlage
देवता शुभ्रवर्णा तु ध्यातव्या सुसमाहितैः |
त्रिसन्ध्यं देवपूजा स्यात् त्रिसन्ध्यं जपमाचरेत् || १३४ ||
रात्रौ मालाञ्च यन्त्रञ्च स्पृशन् नैव कदाचन |
न मन्त्रमुच्चरेद् भुक्त्वा मौनी स्यात् सर्वकर्मसु || १३५ ||
पर्वकाले स्त्रियं नैव गच्छेद्वै साधकोत्तमः |
पुष्पं गन्धं जलं चैव स्वयमानीय पूजयेत् || १३६ ||
मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् |
ऋतुकालं विना गच्छेन्न च स्वस्त्रियमादरात् || १३७ ||
पुराणश्रवणे श्रद्धा वेदवेदाङ्गतत्परः |
न रात्रौ भोजयेद्विद्वांस्ताम्बूलञ्च तथैव च || १३८ ||
गुरुणा यद्यदादिष्टं तत्सर्वं यत्नतश्चरेत् |
स्वजातकुसुमं चैव हेतुद्रव्यं तथैव च || १३९ ||
एतत्स्पृष्ट्वा त्रिरात्रञ्च पञ्चगव्येन शुध्यति |
रक्तवस्त्रं न गृह्णीयात् देवीभक्तिपरायणः || १४० ||
Seite 257 der Vorlage
विष्णुतन्त्रोक्तकल्पादि तदनुष्ठानमेव च |
कार्यं वीरकथालापं न कुर्याद्वीरवन्दितम् || १४१ ||
नित्यश्राद्धं गवां ग्रासं सन्ध्यावन्दनमेव च |
तीर्थस्नानं पीठदेशे गमनं धर्मतत्परः || १४२ ||
दीक्षितादीक्षितभेदेन पशोर्द्वैविध्यम्
पशुस्तु द्विविधश्चैवाऽदीक्षितो दीक्षितस्तथा |
दीक्षितस्याऽधिकारोऽस्ति पूजायां चैव निश्चितम् || १४३ ||
गुरुत्वे तस्य कुत्रापि नाधिकारश्च सर्वदा |
पूर्वस्य नाधिकारोऽस्ति पूजादेशगतागतौ || १४४ ||
पूर्वस्तु कौलिकैः सर्वैर्बहिः कार्याः स्वदेशतः |
पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् || १४५ ||
ब्रह्महत्यादिकं पापं वरं सह्यं कथञ्चन |
पूर्वस्य दर्शनं नैव सत्यं सत्यं सुनिश्चितम् || १४६ ||
Seite 258 der Vorlage
देव्यात्मा सोऽपि नियतं विभुत्वाद्यद्यपि ध्रुवम् |
तथापि जायते शङ्का तदा देव्याः पदे पदे || १४७ ||
वरं कुलपरित्यागं वरं स्वकुलहिंसनम् |
वरं स्वकुलकुत्सा स्याद्वरं स्वकुलनिन्दनम् || १४८ ||
वरं स्वकुलहानिस्तु वरं स्वकुलकुट्टनम् |
कायेन मनसा वाचा वरं स्वकुलपातनम् || १४९ ||
न च कुर्यात् पूर्वसङ्गं देव्यङ्गक्षयकारणात् |
कुलशास्त्रे द्वयं पापं गरिष्टो भवति ध्रुवम् || १५० ||
स्वकुले महती निन्दा परयोगे तथैव च |
तस्मादपि महत् पापं पशुसङ्गात् प्रजायते || १५१ ||
गोलोकेन सहाऽलापात् पशोः सम्भाषसंस्कृतात् |
न सिध्यन्ति महामन्त्राः सत्यं सत्यं सुनिश्चितम् || १५२ ||
ब्रह्महत्या सुरापानमगम्यागमनं तथा |
स्तेयं संसर्ग एवैते महापातकजातयः || १५३ ||
Seite 259 der Vorlage
दीक्षादेव नश्यन्ति जपान्नश्यन्ति चापरे |
वीरहत्या वृथापानं वीरजायाश्च सङ्गमः || १५४ ||
एतद्ग्रन्थैकदेशस्य गुरोरर्थावलोपनम् |
ज्ञात्वा वीरवरञ्चापि तन्निन्दा तदकीर्त्तनम् || १५५ ||
न च तस्मै धनारोपस्तेयमित्यभिधीयते |
पशुसङ्गःवर्जनीयः
पशुना यः समालापः समा शयया समासनम् || १५६ ||
एकत्र भोजनं चैव संसर्गश्च ततः परम् |
संसर्गपातकं प्रोक्तं कुलीनस्य महात्मनः || १५७ ||
पातकं न च तेषां वै सङ्क्षये पुण्यसञ्चयम् |
प्रभवन्ति न तीर्थानि न गङ्गा न च काशिका || १५८ ||
महाविद्याजपादेव चत्वारि पातकानि च |
नश्यन्ति न च संसर्गः क्षयं याति कदाचन || १५९ ||
अज्ञानात् पशुसंसर्गो यदि दैवात् प्रजायते |
तदा द्वादशवर्षाख्यं व्रतार्थं यत्नमाचरेत् || १६० ||
कुलीनायाः समीपस्थः कुलसेवापरायणः |
उच्छिष्टभोजी तन्नामप्रजापी तत्पतेरपि || १६१ ||
Seite 260 der Vorlage
तदन्ते तां समभ्यर्च्य यत्नैश्च परितोष्य च |
शुचिर्भूत्वा पुनर्विद्यां गृहीत्वा शुद्धिमाप्नुयात् || १६२ ||
व्रताशक्तो यदि भवेत् सुवर्णैः परितोषकृत् |
दद्यात् कुलाय पापानां क्षयार्थं साधकोत्तमः || १६३ ||
ज्ञानात् संसर्गमासाद्य मरणन्नैव शुध्यति |
मृते च भासकाकादि योनिमालम्ब्य सर्वतः || १६४ ||
नानाक्लेशसमायुक्तो नरकान् प्रतिपद्यते |
न चैनं दीक्षयेन्नाम न चास्य दर्शनञ्चरेत् || १६५ ||
देवीशास्त्रकथाञ्चात्र प्रयत्नेन विवर्जयेत् |
कर्मणा मनसा वाचा पशुशास्त्रादिपूजनम् || १६६ ||
प्रकुर्वन्ति महापापास्त्यज्यास्ते कुलसाधकैः |
निषेधे कुलशास्त्राणि साधकः सर्वदा चरेत् || १६७ ||
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् |
श्वचर्मस्थं यथा क्षीरं न देयं स्याद्द्विजेष्वपि || १६८ ||
तथा पशुमुखाद्धर्मो न श्रोतव्यश्च कौलिकैः |
अश्रद्दधाना ये चात्र कुलधर्मेषु कौलिकाः || १६९ ||
Seite 261 der Vorlage
न पातकान्निवर्तन्ते यावदाहूतसंप्लवम् |
कौलाः पशुव्रताश्चैव पक्षद्वयविडम्बकाः || १७० ||
केशसंख्या स्मृताय यावत्तावत्तिष्ठन्ति रौरवे |
दीक्षणात् पूजनाद्धोमात्तथा दृष्ट्यवलोकनात् || १७१ ||
यत्किञ्चिज् ज्ञानमात्रेण पशुना निर्जितो यदि |
तस्य सर्वं हरेद्देवी शापं दत्त्वा सुनिश्चितम् || १७२ ||
पशोर्विद्यां समादाय यदि पूजापरो भवेत् |
तस्य वक्त्रं समालोक्य कुलवक्त्रं विलोकयेत् || १७३ ||
एवं न चेत् कुलीनस्य विद्याहानिस्तु जायते |
पशूपदिष्टं यत्किञ्चित् क्रियते कुलसाधकैः || १७४ ||
तत्तत्कर्म सदा तेषामभिचाराय कल्पते |
या याः सर्वा महाविद्याश्चण्डिकायाः सुनिश्चितम् || १७५ ||
पशुदृष्टिनिपातेन साधकं नाशयेद् ध्रुवम् |
यदि दैवात् पशोर्विद्यां लभते कुलजैर्नरैः || १७६ ||
द्विजस्य कालिकां प्रार्थ्य पुनर्विद्यामुपालभेत् |
Seite 262 der Vorlage
अज्ञानाद् यत् कृतं मातर्नाऽलोच्य कुलकौलिकम् || १७७ ||
क्षमस्व मातस्तत्पापं हर देवि कृपां कुरु |
एवं प्रार्थ्य महायत्नै रत्नैः स्वर्णादिविस्तरैः || १७८ ||
सम्पूज्य कुलदाम्पत्यमष्टम्यां यत्नतो नयेत् |
भ्रष्टस्य चाऽष्टमी चेति तिथिरेव न चान्यथा || १७९ ||
दीक्षाकालः स एव स्यान्नान्यः कालः प्रशस्यते |
भ्रष्टा बहुविधाः सन्ति यद्यत्र कुलसाधकाः || १८० ||
पशुशिष्यसमो नास्ति सत्यं सत्यं न चान्यथा |
कुलाचारं पशौ गुप्तं तत्तु तेषां परं विदुः || १८१ ||
एतच्छास्त्रप्रसङ्गो वा एतत् पुस्तकदर्शनम् |
पशोरग्रे न कर्त्तव्यं प्राणान्तेऽपि कदाचन || १८२ ||
कृत्वा सूर्यमुखं दृष्ट्वा स्मर्त्तव्यः कुलनायकः |
निर्जीवे काष्ठलोष्ठे वा शर्करायां तृणेऽपि वा || १८३ ||
सर्वत्र चिन्तिता देवी न पशोर्मन्त्रविग्रहे |
चेतनाधिष्ठितं सर्वं सुखं दुःखं प्रकल्पितम् || १८४ ||
तत्रैव चेतनाभावान्नियमो नास्ति तादृशः |
तस्माद् देव्याश्च सर्वस्वं देवीपूजापरायणैः || १८५ ||
Seite 263 der Vorlage
गोप्तव्यं सर्वथा चैव पशोः कल्याणहेतवे |
सर्वथा तत्र भावौ द्वौ न प्रकाश्यौ कदाचन || १८६ ||
सभावश्च विभावश्च पशुर्द्वेधा व्यवस्थितः |
सभावः पशुभावेन जन्मत्रयविभावनात् || १८७ ||
वीरभावो भवेदेव ततो देवः प्रजायते |
दैवाच्च जायते वीरो वीराद्देवः प्रजायते || १८८ ||
दैवे वीरे न सन्देहः साम्यमित्यभिधीयते |
भावनिर्णयोऽनिर्वचनीयः
भावस्तु मनसो धर्मः स हि शाब्दः कथं भवेत् || १८९ ||
तस्माद्भावो न वक्तव्यो दिङ्मात्रं समुदाहृतम् |
यथेक्षुगुडमाधुर्यं जिह्वया ज्ञायते सदा || १९० ||
तस्माद्भावो विभावस्तु मनसा परिभाव्यते |
एक एव महाभावो नानात्वं भजते यतः || १९१ ||
Seite 264 der Vorlage
उपाधिभेदभावेन भावभेदो लयिष्यति |
आनन्दघनसन्दोहः प्रभुः प्रकृतिरूपधृक् || १९२ ||
रसरूपी स एवाऽत्मा स प्रभुः परमो महान् |
श्रोतव्यः स च मन्तव्यो निध्यातव्यः स एव हि || १९३ ||
साक्षात् कार्यस्ततो वीरैरागमैर्विविधैस्तथा |
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः || १९४ ||
सोपपत्तिभिरेवायं ध्यातव्यो गुरुदेशितैः |
तदा स एव सर्वात्माप्रत्यक्षीभवति ध्रुवम् || १९५ ||
तस्मिन् देहे तु भगवान् प्रत्यक्षः परमेश्वरः |
भावैर्बहुविधैश्चैव भावस्तत्रापि लीयते || १९६ ||
भुक्त्वा नानाविधं ग्रासं गवि चैको यथा रसः |
दुग्धाद्यभ्यासयोगेन नानात्वं भजते यतः || १९७ ||
तृणेन जायते चैव रसस्तस्मात् परो रसः |
तस्माद्दधि ततो हव्यं तस्मादपि रसोदयः || १९८ ||
Seite 265 der Vorlage
स एव कारणं तस्य तत् कार्यं न च कथ्यते |
दृश्यते च सदा तत्र न कार्यं नापि कारणम् || १९९ ||
तथैवायं स एवाऽत्मा नानाविग्रहयोनिषु |
जायेज्जनिष्यते जातः कार्यभेदादि भाव्यते || २०० ||
स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् |
स स्त्रीर्नपुंसकः सोऽपि स एवाऽनङ्ग एव सः || २०१ ||
नानाध्यानसमायोगान्नानात्वं भजते यथा |
एक एव स एवात्मा रसरूपी सनातनः || २०२ ||
अव्यक्तः स च सुव्यक्तः प्रकृत्या क्रियते ध्रुवम् |
तस्मात् प्रकृतियोगेन ज्ञायते नान्यया क्वचित् || २०३ ||
विना घटत्वयोगेन न प्रत्यक्षो यथा घटः |
इतराद् भिद्यमानोऽपि न भेदमुपगच्छति || २०४ ||
न भेदं पुरुषो याति विना शक्तिं कथञ्चन |
न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमात् || २०५ ||
Seite 266 der Vorlage
प्रकृत्यैव ब्रह्मज्ञानस्य वर्णनम्
प्रकृत्या ज्ञायते ब्रह्म प्रकृत्या लीयते पुनः |
प्रकृत्याऽधिष्ठितं सर्वं प्रकृत्या वाञ्छितं जगत् || २०६ ||
प्रकृत्या भेदमाप्नोति प्रकृत्या लीयतेऽखिलम् |
न वस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः || २०७ ||
तयोः समरसं ज्ञानं वस्तुतत्त्वं परं पदम् |
उभयोः समवायस्तु वस्तुतत्त्वं सुनिश्चितम् || २०८ ||
ज्ञायतेऽस्मिन् स्वयं प्राज्ञश्चित्स्वरूपः पुमानसौ |
निर्विकारः सर्वदैव प्रमाणागोचरः पुमान् || २०९ ||
व्यक्तो भवति सर्वत्र स्वयमात्मा स्वयम्भूवः |
उपायाः सन्ति बहवो ज्ञातुं ब्रह्म सनातनम् || २१० ||
तथापि प्रकृतेर्योगात् क्षिप्रं प्रत्यक्षतां व्रजेत् |
सांयात्रिकाः कुले देशे यथा नावं प्रगृह्य च || २११ ||
नानादेशं समुत्तीर्य समुद्रं विशते चिरात् |
तत्तटे नावमास्थाय क्षणाद् यान्ति यथा पुनः || २१२ ||
वैजात्यं नास्ति चेत्तत्र कथं तत्तद्धि कारणम् |
तस्मात् परम्परायातास्ते हि कारणतां गताः || २१३ ||
Seite 267 der Vorlage
न कारणानि ते चैव साक्षात् प्रकृतिकारणम् |
स्त्रीभावः प्रकृतिर्ज्ञेयः पुम्भाव पुरुषो मतः || २१४ ||
ज्ञप्तिज्ञेयविभागेन ज्ञायतां साधकोत्तमैः |
घटप्रत्यक्षतायां तु आलोको व्यञ्जको यथा || २१५ ||
चक्षुरादि ततः किञ्चिदधिकं निर्विकल्पनम् |
घटत्वं पुनरेतस्य भेदकारणमेव हि || २१६ ||
तथा न व्यक्तिविषये त्वन्ये व्यञ्जकतां गताः |
साक्षात्कारणमेवैतत् प्रकृतिश्चैव निश्चितम् || २१७ ||
दिव्यभावो वीरभावो यस्य देहे व्यवस्थितः |
एकेन जन्मना तस्य परं प्रत्यक्षमाप्नुयात् || २१८ ||
जीवन्मुक्तः स एवाऽत्मा भोगार्थमटते महीम् |
देवीपुत्रः स एवाऽत्मा भैरवः परिकीर्त्तितः || २१९ ||
दिव्यवीरपशुभिः स्वस्वमार्गेण पूजा कर्तव्या
भावत्रयाणां मध्ये तु द्वौ भावौ सुप्रतिष्ठितौ |
Seite 268 der Vorlage
न वक्तव्यौ मुक्तिमार्गौ कुलसारौ कुलोत्तमौ || २२० ||
यो भावो यस्य वै प्रोक्तस्तैर्भावैर्नार्चयेद्यदि |
दशाहक्रमयोगेन भ्रष्टो भवति साधकः || २२१ ||
नोपदिशेत्तत्र भावं न पूजां तत्र सन्दिशेत् |
कुलान्मन्त्रं गृहीत्वा तु भावशुद्धिः प्रजायते || २२२ ||
तस्माद् भावपरो भूत्वा देवीं सम्पूजयेत् सुधीः || २२३ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये एकादशः उल्लासः || ११ ||
द्वादश उल्लासः
मालाविधानम्
अथ वक्ष्ये च मालानां विधानं तन्त्रवर्त्मना |
जपविधिः
आरभ्याऽनामिकामध्यात् प्रादक्षिण्येन वै क्रमात् || १ ||
तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु |
तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पामरः || २ ||
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशोधनम् |
शक्तिमाला समाख्याता सर्वमन्त्रप्रदीपनी || ३ ||
(अथवा)
अनामिकात्रयं पर्व कनिष्ठा च त्रिपर्विका |
मध्यमायास्त्रयं पर्व तर्जनीमूलपर्विका || ४ ||
अङ्गुलीर्न वियुञ्जीत किञ्चित् सङ्कोचयेत्तलम् |
अङ्गुलीनां वियोगे तु छिद्रेषु क्षरते जपः || ५ ||
Seite 270 der Vorlage
अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने |
पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फलं भवेत् || ६ ||
मालाभेदकथनम्
नित्यजापे महादेवि करमाला शुभप्रदा |
अक्षमाला तथाऽन्या च सर्वथा सिद्धये पुनः || ७ ||
(अथवा)
मुक्ताफलमयी माला राज्यमोक्षप्रदायिनी |
सर्वसिद्धिप्रदा नित्यं सर्वराजवशङ्करी || ८ ||
यथा मुक्ताफलमयी तथा स्फाटिकनिर्मिता |
रुद्राक्षमालिका मोक्षे भवेत् सर्वसुसिद्धिदा || ९ ||
प्रवालामालिका वश्ये लक्ष्मीविद्याप्रदा मता |
तथा माणिक्यमाला च साम्राज्यफलदायिनी || १० ||
पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदायिनी |
पद्माक्षमालया लक्ष्मीर्जायते च महद्धनम् || ११ ||
रक्तचन्दनमाला तु वश्यसौभाग्यदायिका |
Seite 271 der Vorlage
रुद्राक्षमालिका सूते जपेन स्वमनोरथान् || ९२ ||
पद्माक्षैः शत्रुहा माला कुशग्रन्थ्या तु पापहा |
पुत्रजीवभवा माला पुत्रं वितनुतेऽचिरात् || १३ ||
हिरण्मयी कामदा स्यात् प्रवालैः पुष्कलं धनम् |
सौभाग्यं स्फाटिकी माला रुद्राक्षेऽक्षयकामदा || १४ ||
शाक्तानां स्फाटिकीमाला रक्तचन्दनसम्भवा |
पुत्रजीवैर्दशगुणं शतं शङ्खैः सहस्रकम् || १५ ||
प्रवालैः पद्मरागैश्च तथाऽयुतगुणं भवेत् |
अयुतं स्फाटिकैः प्रोक्तं मौक्तिकैर्लक्षमुच्यते || १६ ||
पद्माक्षैर्दशलक्षं स्याद्राजतैः कोटिरुच्यते |
सौवर्णैर्दशकोटिः स्यादनन्तं रक्तचन्दनैः || १७ ||
इन्द्रार्क्षैश्च महासिद्धिं तनुते मालिका सदा |
रक्तचन्दनमालाभिः शिवत्वं लभते ध्रुवम् || १८ ||
Seite 272 der Vorlage
कुशग्रन्थेन रुद्राक्षैरनन्तफलदा भवेत् |
गुञ्जायाः सर्वसिद्धिः स्याद्विल्वकाष्ठेन सिद्धिदा || १९ ||
शङ्खेन रचिता माला सर्वसौभाग्यदायिका |
सामान्य कथिता माला विशेषात् कथ्यतेऽधुना || २० ||
देवताविशेषस्य मालावर्णनम्
रक्तेन चन्दनेनापि बालामालां प्रकल्पयेत् |
दन्तेन कालिकायास्तु राजदन्तेन मेरुणा || २१ ||
उग्रताराजपे शस्ता महाशङ्खस्य मालिका |
उन्मुख्याश्च तथा ज्ञेया मोक्षदा मालिका भवेत् || २२ ||
वैष्णवाणां पद्मबीजैर्मालिका तुलसी मता |
गजदन्तैर्गणेशे तु शैवे रुद्राक्ष उच्यते || २३ ||
गर्दभानां वराहाणां दन्तैरप्यभिचारके |
मालायां बीजसंख्याकथनम्
अष्टोत्तरशता माला चतुःपञ्चाशिकाऽपि वा || २४ ||
Seite 273 der Vorlage
षट्त्रिंशद्रचिता माला उत्तमाधममध्यमाः |
अथवा मातृकासंख्या माला कार्या प्रयत्नतः || २५ ||
सप्तविंशतिभिः कार्या सर्वसाधारणे जपे |
पञ्चविंशतिभिर्मोक्षार्थी धनार्थी त्रिंशता जपेत् | २६ ||
पुष्ट्यर्थी सप्तविंशत्या पञ्चदश्यभिचारके |
अष्टोत्तरशतैः सर्वा सिद्धिरुक्ता मनीषिभिः || २७ ||
पञ्चाशद्भिः सर्वकार्यं कर्त्तव्यं नात्र संशयः |
सुवृत्तं सुन्दरं बीजंबदरीबीजमालिकम् || २८ ||
मालाग्रथनविधानम्
शिल्पिने दक्षिणां दत्त्वा गृहीत्वा साधकोत्तमः |
संस्कारञ्च ततः कुर्यात् यथाशास्त्रप्रमाणतः || २९ ||
अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः |
सर्व तद्विफलं विन्द्यात् क्रुद्धा भवति चण्डिका || ३० ||
Seite 274 der Vorlage
पुण्यस्त्रीरचितं सूत्रं कार्पासं वाऽथ पट्टकम् |
पङ्कजोद्भवसूत्रञ्च तथा च शणसूत्रकम् || ३१ ||
कोषकारस्य सूत्रेण ग्रथयेदक्षमालिकाम् |
स्वर्णादिसम्भवं सूत्रं त्रिगुणैस्त्रिगुणीकृतम् || ३२ ||
शुक्लं रक्तं तथा कृष्णं शान्तिवश्याभिचारके |
रक्ते मुक्तिमवाप्नोति श्वेतैर्योगादिसाधनम् | ३३ ||
पीतैः कामं यशस्यञ्च कृष्णे रोगादिसम्भवः |
नित्ये नैमित्तिके शस्तं शुक्लं रक्तं तथा शुभम् || ३४ ||
बीजानि च तथा सूत्रं पञ्चगव्ये द्वयं क्षिपेत् |
प्रक्षाल्य मूलमन्त्रेण ग्रथयेदथ सूत्रकम् || ३५ ||
गुरुश्वशुरजामातृपुत्रैः स्वयमनन्यधीः |
तैरेव ग्रथितां मालां कारयेन्नाऽन्यतः क्वचित् || ३६ ||
कान्तया रचिता माला द्रुतसिद्धिकरी मता |
Seite 275 der Vorlage
एकैकमणिमादाय ब्रह्मग्रन्थिं विनिर्दिशेत् || ३७ ||
ग्रन्थिहीनं न कर्त्तव्यं स्पृष्टास्पृष्टेन दूष्यति |
शैवे च वैष्णवे सौरे गणेशे श्रीकरेऽपि च || ३८ ||
बीजस्पर्शे पुनः कुर्यात्संस्कारं यत्नतः सुधीः |
दूषणं यत्र नास्त्येव ग्रन्थिहीनोऽपि नित्यशः || ३९ ||
कालिकात्वरितयोस्तु वज्राद्याः षट्कभेदके |
तोतलावनवासिन्योर्वाराह्याद्याविशेषतः || ४० ||
अन्यायाश्चण्डिकादेव्या ग्रन्थिहीना विधीयते |
एकैकमणिमादाय साधकः स्थिरमानसः || ४१ ||
ब्रह्मग्रन्थिं ततो दद्यात् हृदये तारमास्मरन् |
स्वयमेव जपेन्मन्त्रमन्यः प्रणवमुच्चरेत् || ४२ ||
गोपुच्छसदृशी कार्या अथवा सर्परूपिणी |
मेरुमेकं विधायाथ मालान्ते साधकोत्तमः || ४३ ||
अर्चयच्च गुरुं ध्यायन् न्यासमन्त्रञ्च दक्षिणे |
वामतोऽपि भवेद्देवं ध्यानतः सिद्धिमाप्नुयात् || ४४ ||
Seite 276 der Vorlage
यो मेरुः तं गुरुं विन्द्यान्मन्त्रबीजन्तु दक्षिणे |
एवं निष्पाद्य मालाञ्च प्रतिष्ठाञ्च समाचरेत् || ४५ ||
मालासंस्कारक्रमविवेचनम्
अनुलोमविलोमाभ्यां मातृकान्तरितां न्यसेत् |
पञ्चगव्ये क्षिपेन्मालां शिवमन्त्रेण मन्त्रिताम् || ४६ ||
सान्तं शक्रस्वरारूढं नादबिन्दुविभूषितम् |
कथितं शिवमन्त्रञ्च साधकानां हिताय च || ४७ ||
पञ्चामृतैः पञ्चगव्यैः स्नापयेन्मूलमुच्चरन् |
घृतं क्षीरं तथा नीरं शर्करामधुसंयुतम् || ४८ ||
पञ्चामृतमिदं ख्यातं प्रत्येकन्तु पलं पलम् |
पलार्धं गोमयं क्षीरं प्रस्थं दधि तथा समम् || ४९ ||
गोमूत्रं प्रस्थमानं स्यादाज्यञ्चैव तदर्धकम् |
मूलेन मन्त्रितं कृत्वा योजयेत् पञ्चगव्यकम् || ५० ||
अशीतलजलेनैव स्नापयेत्तदनन्तरम् |
क्षालयेत् पञ्चगव्येन सद्योजातेन मार्जयेत् || ५१ ||
Seite 277 der Vorlage
मालासंकारमन्त्रः
ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः |
भवेऽभवेऽनादिभवे भजस्व मां भवोद्भवाय नमः || ५२ ||
चन्दनागुरुगन्धाद्यैर्वामदैवेन घर्षयेत् || ५३ ||
ओं वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः
कालाय नमः कलविकरणाय नमः |
बलाय नमो बलविकरणाय नमो बलप्रमथनाय नमः
सर्व भूतदमनाय नमो नम उन्मनाय नमः || ५४ ||
सुधूपैर्धूपयेत्ताञ्च अघोरमनुना बुधः |
ओं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः
सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः || ५५ ||
गन्धचन्दनकुङ्कुमैर्लेपयेत्पुरुषेण च || ५६ ||
ओं तत्पुरुषाय विद्महे महादेवाय धीमहि |
तन्नो रुद्रः प्रचोदयात् || ५७ ||
मन्त्रयेच्च ततो धीरः प्रत्येकञ्च शतं शतम् |
ईशानमनुना मेरुं शतं चैव ततः परम् || ५८ ||
ओं ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्
Seite 278 der Vorlage
ब्रह्माधिपतिः ब्रह्मणोऽधिपतिः शिवो मेऽस्तु सदाशिवोम् || ५९ ||
मालाप्राणप्रतिष्ठाविधानम्
ततः संस्थापयेन्मालां स्वर्णादिपीठके बुधः |
पद्माकारेषु चाश्वत्थपत्रेषु स्थापयेच्च वा || ६० ||
पीठे वापि च संस्थाप्य पूजयेत् स्वीयदेवताम् |
साङ्गावरणसंयुक्तामुपचारैः सुविस्तरैः || ६१ ||
एकैकक्रमयोगेन बीजानां साधकोत्तमः |
प्राणप्रतिष्ठां कुर्वीत अष्टोत्तरशतं ततः || ६२ ||
मालाप्राणप्रतिष्ठा मन्त्रः
प्राणशक्तिसमारूढं औकारबिन्दुरूपधृक् |
प्रणवं अक्षमालाधिपतये तदनन्तरम् || ६३ ||
हृदन्तं मूलमुच्चार्य पूजयेन्मालिकां क्रमात् |
तिलेन घृतयुक्तेन शक्त्या होमं प्रकल्पयेत् || ६४ ||
होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् |
तारोऽक्षमालाधिपतये सुसिद्धादिं वदेत्ततः || ६५ ||
Seite 279 der Vorlage
सर्वमन्त्रार्थसाधिनीतिसाधयद्वितयं पुनः |
सिद्धिंप्रकल्पय स्वाहा अभिमन्त्रितमालया || ६६ ||
मूलमन्त्रं जपेत्तत्र अष्टोत्तरसहस्रकम् |
अष्टोत्तरशतं वापि जप्त्वा मालां समर्पयेत् || ६७ ||
शिष्यहस्ते ततः सोऽपि जपेदष्टसहस्रकम् |
अष्टोत्तरशतं वापि जप्त्वा मालाञ्च गोपयेत् || ६८ ||
गुरवे दक्षिणां दत्त्वा यथाशक्त्या तु साधकः |
गुरोरभावे मालायाः संस्कारं स्वयमाचरेत् || ६९ ||
मालाप्रदर्शनं वर्जनीयं
गुरुं प्रकाशयेद्विद्वान् न तु मन्त्रं कदाचन |
अक्षमालाञ्च मुद्राञ्च गुरोरपि न दर्शयेत् || ७० ||
भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः |
हरन्ति प्रकटाद्यस्मात्तस्माद्यत्नेन गोपयेत् || ७१ ||
जपान्यसमये मालां पूजयित्वा तु गोपयेत् |
अशुचिर्न स्पृशेन्मालां शुचौ न प्रकल्पयेत् || ७२ ||
Seite 280 der Vorlage
हस्तात् पतति चेन्माला न जप्तव्या त्र्यहं बुधैः |
प्रायश्चित्तं विधातव्यं जपेन्मन्त्रं सहस्रकम् || ७३ ||
(अथवा)
करभ्रष्टे शब्दकृते जपेदष्टोत्तरं शतम् |
जीर्णे सूत्रे पुनः सूत्रं प्रथयित्वा शतं जपेत् || ७४ ||
छिन्ना भवति चेन्माला पूजां कृत्वा ततोऽधिकाम् |
गुरूणां शिल्पिनाञ्चैव पूजां कृत्वा तु साधकः || ७५ ||
प्रतिष्ठां पूर्ववत् कृत्वा पुनर्जापं समाचरेत् |
एवंविधा सर्वमाला सर्वदेवे प्रतिष्ठिता || ७६ ||
अक्षमालापूजाकथनम्
अथान्यां सम्प्रवक्ष्यामि मालां कुलमयीं पराम् |
कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च || ७७ ||
रोचनाकुङ्कुमेनैव अक्षमालां समर्चयेत् |
कर्पूरागुरुकस्तूरी तथा मृगमदेन च || ७८ ||
अक्षमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् |
अथातः संप्रवक्ष्यामि मालां सर्वोत्तमोत्तमाम् || ७९ ||
Seite 281 der Vorlage
यस्य विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् |
अनुलोमविलोमेन मन्त्रमातुर्विभेदतः || ८० ||
मन्त्रेणाऽन्तरितं वर्णं वर्णेनाऽन्तरितं मनुम् |
कुर्याद्वर्णमयीं मालां सर्वमन्त्रप्रदीपिनीम् || ८१ ||
चरमार्णं मेरुरूपं लङ्घयेन्न कदाचन |
एतद्रहस्यं परमं नाऽख्येयं यस्य कस्यचित् || ८२ ||
अनुलोमविलोमस्थैर्बिन्दुयुङ्मातृकाक्षरैः |
क्षमेरुकैः साष्टवर्गैः कॢप्तया वर्णमालाया || ८३ ||
प्रत्येकं वर्णयुङ्मन्त्रा जप्ताः स्युः क्षिप्रसिद्धिदाः |
सबिन्दुं वर्णमुच्चार्य पश्चान्मन्त्रं जपेत् सुधीः || ८४ ||
क्षं मेरुं कल्पयित्वा तु जपेत्तन्नाऽभिलङ्घयेत् |
अथ यन्त्रप्रतिष्ठानं कथयामि प्रसङ्गतः || ८५ ||
Seite 282 der Vorlage
यन्त्रप्रतिष्ठाविधानम्
सुवर्णं रजतं ताम्रं श्रेष्ठं मध्यमथाऽधमम् |
ताम्रे लक्षगुणं प्रोक्तं रौप्ये कोटिगुणं भवेत् || ८६ ||
सुवर्णेऽनन्तफलदं स्फाटिकेऽपि तथा समम् |
एकतोलं द्वितोलं वा त्रितोलं पञ्चतोलकम् || ८७ ||
रसतोलं चतुस्तोलं सप्ततोलं पलन्तु वा |
साधकस्य मनोज्ञं वा कृत्वा पीठे सुसाधकः || ८८ ||
पूर्वोक्तधातुद्रव्यैश्च सुन्दरं सुमनोहरम् |
सुरेखं सुमुखं यन्त्रं लेखयित्वा विधानतः || ८९ ||
अथवा प्रतिमां कृत्वा निजदेवस्वरूपिणीम् |
प्रतिष्ठाञ्च ततः कुर्याद् यथाशास्त्रप्रमाणतः || ९० ||
स्नात्वा सङ्कल्पयेन्मन्त्री ततो न्यासादिकञ्चरेत् |
पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण शोधितम् || ९१ ||
तत्र यन्त्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् |
तस्मादुद्धृत्य तच्चक्रं स्थापयेत् स्वर्णपट्टके || ९२ ||
पञ्चामृतेन सुस्नाप्य शीतलेन जलेन च |
वाससा जलमुत्तोल्य स्थापयेद्धेमपीठके || ९३ ||
Seite 283 der Vorlage
पीठपूजां विधायाथ कुशैर्यन्त्रञ्च संस्पृशन् |
प्रणवं यन्त्रराजाय विद्महे तदनन्तरम् || ९४ ||
महायन्त्राय धीमहि तन्नो यन्त्रः प्रचोदयात् |
गायत्रीमिति सञ्जप्य शतमष्टोत्तरं ततः || ९५ ||
आवाह्य पूजयेद् देवीं जीवन्यासपुरःसरम् |
उपचारैः षोडशभिर्नानाविधरसायनैः || ९६ ||
नानाविधफलैर्द्रव्यैर्नानाङ्गरागविस्तरैः |
स्वकल्पोक्तविधानेन सम्पूज्य परमेश्वरीम् || ९७ ||
ततो जाप्यं सहस्रं तु कर्यादीप्सितसिद्धये |
बलिदानं ततः कृत्वा प्रणमेच्चक्रमुत्तमम् || ९८ ||
अष्टोत्तरशतं होमं घृतेन कारयेत् सुधीः |
गुरवे दक्षिणां दद्यात्तथा च शिल्पिने ततः || ९९ ||
देवताप्रतिष्ठा
देवतायाः प्रतिष्ठानमेवं तु कारयेद् बुधः |
न्यासादिकं स्वकल्पोक्तं गायत्रं तत्र सन्दिशेत् || १०० ||
Seite 284 der Vorlage
देवतायाः प्रतिष्ठाने विशेषेः कथितो मया |
अथ वक्ष्यामि मन्त्राणां पुरश्चरणमुत्तमम् || १०१ ||
पुरश्चरणकथनम्
भाग्यहीनोऽपि मूर्खोऽपि यद्बोधादमरो भवेत् |
साधयेत् सिद्धिसकलान् साक्षात् सिद्धीश्वरो भवेत् || १०२ ||
आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि |
ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा || १०३ ||
पुरश्चरणसम्पन्नो मन्त्रो हि फलदायकः |
किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः || १०४ ||
वश्याय सर्वमन्त्राणां यदि न स्यात् पुरस्क्रिया |
जीवहीनो यथा देही सर्वकर्मसु न क्षमः || १०५ ||
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः |
पुरस्क्रिया हि मन्त्राणां प्रधानं जीव उच्यते || १०६ ||
तस्मादादौ पुरश्चर्यां कृत्वा साधकसत्तमः |
प्रयोगञ्च ततः कुर्यात् साधकः सिद्धिहेतवे || १०७ ||
Seite 285 der Vorlage
स्थानभेदे फलभेदकथनम्
ग्रामे क्रोशमितं स्थानं नद्यादौ स्वेच्छया मतम् |
नगरात् परतः क्रोशं क्रोशयुग्ममथाऽपि वा || १०८ ||
आहारादिविहारार्थं तावतीं भूमिमाक्रमेत् |
गृहे जपः समः प्रोक्तो नद्यां शतगुणः स्मृतः || १०९ ||
पुण्यारण्ये तथाऽरामे सहस्रगुण उच्यते |
अयुतं पर्वते पुण्यं लक्षं भागीरथीजले || ११० ||
कोटिर्देवालये प्राहुरनन्तं शिवसन्निधौ |
यत्र वा कुत्रचिद् देशे लिङ्गे वै पश्चिमामुखे || १११ ||
स्वयम्भूर्बाणलिङ्गे वा इतरे वा तदन्तिके |
प्रयागे सुरनद्यां वा वाराणस्यां वराहके || ११२ ||
उज्जटे पर्वते वापि श्मशाने गहनान्तरे |
एकलिङ्गे शून्यगेहे चतुष्पथे शिवान्तिके || ११३ ||
एकवृक्षगिरौ वापि वटमूले शिवालये |
महानिशिपुरश्चर्यां कुर्यादेषु स्थलेषु च || ११४ ||
विघ्ननिवारणार्थं पूजाविधानम्
क्षीरवृक्षस्य काष्ठानि दशास्त्रमन्त्रितानि वै |
Seite 286 der Vorlage
पूर्वादिक्रमतो वीरः स्थापयेत् कीलकानि च || ११५ ||
इन्द्रमग्निं यमं चैव निर्-ऋतिं वरुणं तथा |
वायुं कुबेरमीशानं ब्रह्मानन्तौ ततः परम् || ११६ ||
स्वस्वदिक्षु प्रपूज्यैव बलिं पश्चान्निवेदयेत् |
ईशानशक्रयोर्मध्यमूर्ध्वं ज्ञेयं सदा बुधैः || ११७ ||
वरुणासुरयोर्मध्यमधश्च परिकथ्यते |
क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते || ११८ ||
क्षेत्रपालं गणेशञ्च विधिवत्तत्र पूजयेत् |
दीपस्थाने च वीरेन्द्रो यथाविधि पुरःसरम् || ११९ ||
मण्डलं तत्र कुर्वीत चतुर्द्वारात्मकं ततः |
शुचिः पूर्वदिने भूत्वा साधकः स्थिरमानसः || १२० ||
प्रातः स्नात्वा च गायत्रीं सहस्रं प्रयतो जपेत् |
ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं पुनः || १२१ ||
विप्रान् सन्तर्पयेत् सम्यग्भोजनात् सादरादिभिः |
बहुभिर्वस्त्रभूषाभिः सम्पूज्य गुरुमात्मनः || १२२ ||
आरभेच्च जपं पश्चात् तदनुज्ञापुरःसरम् |
आरम्भकाले नियतं परयोषां प्रपूज्य च || १२३ ||
दीक्षितां वस्त्रपुष्पाद्यैः स्वयं संयतमानसः |
Seite 287 der Vorlage
पायसं पिष्टकं चैव नानारससमन्वितम् || १२४ ||
दुग्धं दधि तथा तक्रं नवनीतं सशर्करम् |
ऐक्षवं मोदकं चैव नानाविधरसायनम् || १२५ ||
नानाविधफलं चैव नानागन्धविलेपनम् |
चन्दनं मृगनाभिञ्च श्रीखण्डं कुङ्कुमं तथा || १२६ ||
आसनं पादुकां वस्त्रं तथा चाऽभरणादिकम् |
धूपदीपञ्च कौषेयं पुष्पमालां तथा परम् || १२७ ||
पञ्चतत्त्वं कुलाष्टञ्च शून्यगेहे समानयेत् |
द्वारदेशे ततो वीरः पूजयेद् द्वारदेवताम् || १२८ ||
गणेशं वटुकं चैव क्षेत्रपालञ्च योगिनीम् |
चतुर्द्वारेषु सम्पूज्य पूर्वादिक्रमतो बुधः || १२९ ||
तेभ्यो बलिं प्रदद्यात्तु साधकश्च ततः परम् |
भूतापसरणं कृत्वा दीपस्थानं समाचरेत् || १३० ||
नानालङ्काररचितो विहितासनमाश्रितः |
स्वकल्पोक्तं विधायाऽथ प्रोक्षयेत्तदनन्तरम् || १३१ ||
अर्घ्योदकेन सम्भारमात्मानञ्च ततः परम् |
Seite 288 der Vorlage
नानालङ्कारसंयुक्तमर्घ्योदकविशोधितम् || १३२ ||
अमृतीकरणं कृत्वा शक्तीरष्टौ सुखं नयेत् |
अष्टकन्यारूपभेदं विलोमयाऽमर्शचेष्टितम् || १३३ ||
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा |
वेश्या नापितकन्या च रजकी योगिनी तथा || १३४ ||
विदग्धाः सर्वजातीनां प्रशस्ताः सर्वसिद्धिदाः |
ब्रह्माण्याद्यष्टशक्तीनां नामभिः कृतसञ्ज्ञकाः || १३५ ||
आसनं प्रयमं दत्त्वा स्वागतञ्च पुनः पुनः |
अर्घ्यं पाद्यञ्च पानीयं मधुपर्कं जलंततः || १३६ ||
स्नापयेद् गन्धपुष्पाद्भिः केशसंस्कारमाचरेत् |
धूपयित्वा ततः केशान् कौषेयञ्च निवेदयेत् || १३७ ||
ततः स्थानान्तरे पीठे आस्तीर्य पादुकायुगम् |
दत्त्वा तत्र समासीनां नानालङ्कारभूषणैः || १३८ ||
भूषयित्वाऽनुलेपञ्च गन्धं माल्यं निवेदयेत् |
तां तां शक्तिं ततो ध्यायेद् यथाक्रमविधानतः || १३९ ||
Seite 289 der Vorlage
ब्रह्माण्याद्यष्टशक्तिध्यानम्
हंसारूढां सुवर्णाभां चतुर्वक्त्रां त्रिलोचनाम् |
ब्रह्मकूर्चाब्जदण्डाक्षसूत्राणि करपङ्कजैः || १४० ||
दधतीं चारुरूपाञ्च जटामुकुटमण्डिताम् |
स्त्र्यलङ्कारसमायुक्तां ब्रह्माणीं संस्मरेत् सुधीः || १४१ ||
माहेश्वरीं वृषारूढां शुक्लां नेत्रत्रयान्विताम् |
कपालं डमरुं बाणं शूलं टङ्कमभीतिदम् || १४२ ||
कराब्जैर्दधतीं चन्द्रचूडारत्नविभूषिताम् |
त्रिनेत्रां कुङ्कुमनिभां कौमारीं शिखिवाहनाम् || १४३ ||
शक्तिपाशाङ्कुशाभीतिकरां चारुविभूषिताम् |
वैष्णवीं गरुडारूढां श्यामां मधुमदाकुलाम् || १४४ ||
घण्टां शङ्खं कपालञ्च चक्रञ्च करपङ्कजैः |
दधानां पीतवसनां मुक्तामणिविभूषिताम् || १४५ ||
Seite 290 der Vorlage
वराहवाहिनीं धूम्रां वराहसदृशाननाम् |
फलकां मूषलं चैव वरं खड्ग तथा परम् || १४६ ||
पाणिपङ्कजविभ्राणां चारुभूषणभूषिताम् |
इन्द्रनीलप्रभामैन्द्रीमैरावतनिषेदुषीम् || १४७ ||
चन्द्रवक्त्राञ्च दधतीं वज्रशङ्खधनुः शरान् |
नानालङ्काररचितां सदा भक्तानुरागिणीम् || १४८ ||
भीमवक्त्राञ्च चामुण्डां मुण्डमालावलीयुताम् |
साट्टहासां शवासीनां मणिमुक्ताविराजिताम् || १४९ ||
कपालं खेटकं शूलं खड्गञ्च करपङ्कजैः |
विभ्राणां नीलमेघाभां भावयेद् भक्तवत्सलाम् || १५० ||
सिंहासनां महालक्ष्मीं पीताभां रत्नभूषिताम् |
मातुलुङ्गफलाभीतिमालापद्मविधारिणीम् || १५१ ||
एवं ध्यात्वा क्रमाद्वीर आवाहन्यादिमुद्रया |
तां तां शक्ति समावाह्य मूर्ध्नि तासां प्रपूजयेत् || १५२ ||
Seite 291 der Vorlage
पुनः पाद्यादिकं दत्त्वा साधकः स्थिरमानसः |
भोज्यमण्डलमध्ये तु स्वर्णादिस्थानके ततः || १५३ ||
चर्व्यं चोष्यं लेह्यपेयं भोज्यं भक्ष्यं निवेदयेत् |
अदीक्षिताश्चेत्तत्रैव ततो मायां निवेदयेत् || १५४ ||
तासां सव्येषु कर्णेषु ततः स्तोत्रं पठेन्नरः |
ब्रह्माण्याद्यष्टशक्तिस्तोत्रम्
मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५५ ||
माहेशि वरदे देवि परमानन्दरूपिणि |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५६ ||
कौमारि सर्वविघ्नेशि कुमारक्रीडने वर |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५७ ||
विष्णुरूपधरे देवि विनतासुतवाहिनि |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५८ ||
वाराहि वरदे देवि दंष्टोद्धृतवसुन्धरे |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५९ ||
Seite 292 der Vorlage
शक्ररूपधरे देवि शक्रादिसुरपूजिते |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १६० ||
चामुण्डे मुण्डमालासृक्चर्चिते भयनाशिनि |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १६१ ||
महालक्ष्मि महोत्साहे क्षोभसन्तापनाशिनि |
कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १६२ ||
मितिमातृमये देवि मितिमातृबहिष्कृते |
एके बहुविधे देवि विश्वरूपे नमोऽस्तु ते || १६३ ||
एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः |
विदग्धाञ्च समालोक्य तस्य विघ्नं न जायते || १६४ ||
कुलीनस्य द्वारदेव्यः कथितास्तव पुत्रक |
दीक्षाकाले नित्यपूजासमये नाऽर्चयेद् यदि || १६५ ||
तस्य पूजाफलं सर्वं लीयते यक्षराक्षसैः |
यदि व्रीडापरा सा तु भोजयेत्तद्गृहाद् बहिः || १६६ ||
स्थित्वा स्तोत्रं पठेत्तावद्यावत्तृप्तिः प्रजायते |
आचम्य मुखवासादिताम्बूलञ्च निवेदयेत् || १६७ ||
Seite 293 der Vorlage
ततो दद्यात् पुनर्माल्यं गन्धचन्दन पंकिलम् |
बिन्दुयुक्तस्य दीर्घस्य एकैकान्ते नियोजयेत् || १६८ ||
स्वस्वनाम चतुर्थ्यन्तं हृन्मनुं तदनन्तरम् |
मन्त्राणि कथितान्येव तासां वीरस्ततो जपेत् || १६९ ||
यथाशक्ति क्रमाज्जप्त्वा समर्प्याऽथ स्तुतिं पठेत् |
विसृज्य च नमस्कृत्य वरं प्रार्थ्य सुखी भवेत् || १७० ||
अन्या यदि नाऽगच्छन्ति निजकन्या निजानुजा |
अग्रजा वा मातुलानी माता वा तत्सपत्निका || १७१ ||
वयसा जातितो वापि हीनाऽपि परमा कला |
पूज्याः कुलरसैः सर्वा निजाहङ्कारवर्जितैः || १७२ ||
सर्वाभावे एकतरा पूजनीया प्रयत्नतः |
संस्कृताऽसंस्कृता वापि जननी वापि निष्पतिः || १७३ ||
Seite 294 der Vorlage
पूर्वाभावेऽपरा पूज्या देव्यंशा योषितो यतः |
एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र निश्चितम् || १७४ ||
सर्वत्रैव सुराः पूज्याः ब्रह्माविष्णुशिवादयः |
एका चेद्युवती तत्र पूजिता चाऽवलोकिता || १७५ ||
सर्वा एव परा देव्यः पूजिताः साधकोत्तमैः |
आदावन्ते च मध्ये च लक्षपूर्त्तौ विशेषतः || १७६ ||
न पूजयति चेत् कान्तां तदा विघ्नैर्विलिप्यते |
पूर्वार्जितफलं नास्ति का कथा परजन्मनि || १७७ ||
तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् |
देवीनां क्रोधसन्तापशमनं विघ्ननाशनम् || १७८ ||
सर्वथा च प्रयत्नेन पूजयेत् कुलयोषितम् |
शक्तिपूजां समाप्याऽथ प्रकृतञ्च समाचरेत् || १७९ ||
स्वकल्पोक्तविधानेन देवीं सम्पूजयेत्ततः |
Seite 295 der Vorlage
प्रातरेव ततः पश्चाज्जपेन्मध्यन्दिनावधि || १८० ||
अन्यूनं नातिरिक्तञ्च न दिनञ्चाऽतिलङ्घयेत् |
एककालं द्विकालं वा त्रिकालं वाथ साधकः || १८१ ||
स्नानं कुर्याच्छुद्धतोयैर्हविष्यान्नं सुभोजयेत् |
एकग्रामे स्थितो नित्यं गत्वा वन्देत्ततो गुरुम् || १८२ ||
प्रणमेत्तद्दिशोऽन्यत्र देवतावन्दनं सदा |
प्रातरुत्थाय पूजायां स्नानकालेऽथवा पुनः || १८३ ||
संस्कृताऽसंस्कृता वापि हीनजाताऽपि वा तथा |
नमस्या सर्वजातीनां कुलीनानां कुलार्चने || १८४ ||
वर्जयेद् गीतवाद्यादिश्रवणं नृत्यदर्शनम् |
अभ्यङ्गगन्धलेपञ्च पुष्पधारणमेव च || १८५ ||
अस्नातांश्च द्विजान् शूद्रान् स्त्रियं नैव स्पृशेत् क्वचित् |
त्यजेदुष्णोदकस्नानमनिवेदितभोजनम् || १८६ ||
नानाचारः प्रकर्त्तव्यो न चारणमितस्ततः |
Seite 296 der Vorlage
भूतहिंसा न कर्त्तव्या पशुहिंसा विशेषतः || १८७ ||
बलिदानं विना देव्या हिंसां सर्वत्र वर्जयेत् |
अन्यमन्त्रपुरस्कारं निन्दां चैव विवर्जयेत् || १८८ ||
उष्णीशी कञ्चुकी नग्नो मुक्तकेशोऽप्यनावृतः |
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् || १८९ ||
अनावृतकरो भूत्वा शिरसा चावृतोऽपि वा |
चिन्ताव्याकुलचित्तो वा क्रुद्धो वा न जपेत् कदा || १९० ||
वीरासनशयानो वा गच्छन्नखिल एव वा |
रथ्यायामशिवस्थाने न जपेत्तिमिरालये || १९१ ||
पतितानामन्त्यजानां दर्शने भाषणे श्रुते |
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् || १९२ ||
उत्थायाऽचमनं कृत्वा प्राणायामषडङ्गकम् |
कृत्वा सम्यग्जपेच्छेषमथवा सूर्यदर्शनम् || १९३ ||
Seite 297 der Vorlage
स्त्रियं शूद्रं पशुञ्चैव तथा च भ्रष्टसाधकम् |
सम्भाषयेत् कदाचिन्न ब्रह्मचर्यं समाचरेत् || १९४ ||
जपकाले च सततं भार्यां यत्नेन वर्जयेत् |
शयीतशुद्धशययायां शुचिर्वस्त्रधरः सदा || १९५ ||
प्रत्यहं क्षालयेच्छययामेकाकी निर्भयः स्वपेत् |
नाऽलोकयेदन्यशास्त्रं वेदागमं विना सुधीः || १९६ ||
नक्तं भोजी हविष्यान्नं जपेद्विद्यां दिवा शुचिः |
दिवसे सर्वथा वीरो ब्रह्मचारी भवेत् सदा || १९७ ||
देवताध्यानसंयुक्तो गमयेदनिशं बुधः |
रात्रौ सम्पूजयेद् देवीं कुलाचारक्रमेण तु || १९८ ||
पञ्चतत्त्वैः प्रपूज्यैव यथाशक्ति जपञ्चरेत् |
पुरश्चरणकाले तु यदि स्यात् पीठदर्शनम् || १९९ ||
तदा तत्र पीठपूजा मनसापि न हीयते |
प्रसङ्गात् कथ्यते पीठपूजा तन्त्रविधानतः || २०० ||
Seite 298 der Vorlage
चतुःपीठे पूज्यदेवीनामानि
देवीकूटे महाभागे उड्डीयाने तथा पुनः |
योगनिद्रा कामरूपे महिषासुरमर्दिनी || २०१ ||
कात्यायनी कामभूमौ कामाख्या कामदायिनी |
जालन्धरे च पूर्णेशी पूर्णं शैले च चण्डिका || २०२ ||
कामरूपे तु वेहारे पूज्या दिक्करवासिनी |
अथवा कामरूपस्य दर्शनं यदि भाग्यतः || २०३ ||
तदा भगादिदेवीनां पूजा तत्र विधीयते |
वक्ष्यमाणविधानेन तासां ज्ञात्वा स्वनामकम् || २०४ ||
कुलनाथं पुनर्ध्यात्वा स्वयमच्युतमानसः |
पूजां समापयेद्वीरः तदनुस्मृतिपूर्वकम् || २०५ ||
पूजाकाले हीनजाता स्वयोषिद्वा विधानतः |
पूजनीया प्रयत्नेन द्वेधं तत्र विवर्जयेत् || २०६ ||
कुलाचारस्य मन्त्रगुप्तिकथनम्
यथा विष्णुपुरं गोप्यं यथा वा शम्भुरीश्वरः |
यथा कमलजन्मापि ये वा व्यासमुखा द्विजाः || २०७ ||
इन्द्राद्यालोकपालाश्च सर्वगन्धर्वकिन्नराः |
Seite 299 der Vorlage
यक्षरक्षःपिशाचाद्या गुह्यचारणवन्दिनः || २०८ ||
तैर्यथा गोपितं गुप्तं तदुक्तं शास्त्रसम्भवम् |
तथा शैवेन गोप्तव्यः कुलाचारः सुदुर्लभः || २०९ ||
युगभेदे जपसंख्याभेदः
अनेन विधिना मन्त्री पुरश्चर्यां समाचरेत् |
येषां जपे च होमे च संख्या नोक्ता मनीषिभिः || २१० ||
तेषामष्टसहस्राणि संख्योक्ता जपहोमयोः |
यस्मिंश्च निगदे चैव मन्त्रे संख्या विधीयते || २११ ||
तत्र सर्वत्र मन्त्राणां संख्यावृद्धिर्युगक्रमात् |
कल्पोक्ते यत् कृतासंख्या त्रेतायां द्विगुणा भवेत् || २१२ ||
द्वापरे त्रिगुणा प्रोक्ता कलौ संख्या चतुर्गुणा |
न दिव्यवीरयोरेव युगसेवापरिश्रमः || २१३ ||
पशूनां विद्यते चात्र संख्यावृद्धिर्युगक्रमात् |
तेषां पूजा त्रिकालं हि रात्रौ नैव कदाचन || २१४ ||
Seite 300 der Vorlage
कथितं सर्वशास्त्रेषु विधानं तन्त्रवर्त्मना |
चतुर्गुणं तु ताराया विना शङ्खाक्षमालया || २१५ ||
एवं कृत्वा हविष्याशी जपेल्लक्षचतुष्टयम् |
नरास्थिमालामादाय जपेद्वा लक्षमेककम् || २१६ ||
भावनारहितानाञ्च क्षुद्राणां क्षुद्रचेतसाम् |
चतुर्गुणजपः प्रोक्तः सिद्धये नान्यथा भवेत् || २१७ ||
उन्मुखीकालिकाविधानम्
सिद्धविद्या यथा नात्र युगसेवापरिश्रमः |
विशेषतः कलियुगे तारा काली तथोन्मुखी || २१८ ||
आसामेव कदा नास्ति युगसेवाविधिः स्मृतः |
उन्मुख्याः कालिकायाश्च विशेषः कथ्यतेऽधुना || २१९ ||
दिवसे ब्रह्मचर्येण स्वीयसंख्यं जपं पठेत् |
रात्रौ मांसासवैर्मत्स्यैर्मुद्राभिर्मैथुनोद्भवैः || २२० ||
सम्पूज्य च महादेवीं गन्धपुष्पादिभिस्तथा |
ततो नग्नां स्त्रियं नग्नो रमणक्लेशतोऽपि वा || २२१ ||
Seite 301 der Vorlage
जपेल्लक्षं प्रयत्नेन साधको मन्त्रसिद्धये |
द्विजन्मनां तु सर्वेषां द्विधा विधिरिहोच्यते || २२२ ||
शूद्राणां तु तथा प्रोक्तं रात्राविष्टं महाफलम् |
ततः सर्वे स्वकल्पोक्तजपसंख्यां समाप्य च |
ततस्तु तद्दशांशेन होमयेद्धविषाऽनले || २२३ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये द्वादशोल्लासः || १२ ||
त्रयोदश उल्लासः
होमविधिः
अथ होमविधिं वक्ष्ये यथातन्त्रानुसारतः |
आदौ भूमिं परीक्षेत वास्तुज्ञानविशारदः || १ ||
कुण्डविधानम्
शल्यादीन् शोधयेद्यत्नादथवा पुरुषं खनेत् |
नवहस्तप्रमाणं वा सप्तहस्तमथापि वा || २ ||
पञ्चहस्तप्रमाणं वा चतुरस्रसमन्वितम् |
विच्छिद्रं तु चतुर्द्वारं दिव्यदृष्टिविभूषितम् || ३ ||
दिव्यमालापरिवृतं तन्तुना परिवेष्टितम् |
आदौ कुण्डं प्रकुर्वीत साधकः सिद्धिहेतवे || ४ ||
विविधाकाराणिकुण्डानि
चतुरस्रं योनिमर्धचन्द्रं त्र्यस्रं सुवर्त्तुलम् |
षडस्रं पङ्कजाकारं अष्टास्रं तानि नामतः || ५ ||
Seite 303 der Vorlage
(१) चतुरस्र कुण्डमानम्
हस्तमात्रमितां भूमिं पूर्ववत् परिसूत्रयेत् |
समन्तात् कुण्डमेतत् स्याच्चतुरस्रं शुभावहम् || ६ ||
चतुर्विंशत्यंगुलाढ्यं हस्तं तन्त्रविदो विदुः |
कर्त्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः || ७ ||
मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदीरितम् |
यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितम् || ८ ||
(२) योनिकुण्डम्
चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् सुधीः |
न्यसेत् पुरस्तादेकांशं कोणार्धार्धप्रमाणतः || ९ ||
भ्रामयेत्तेन मानेन तथान्यदपि मन्त्रवित् |
सूत्रयुग्मं ततो दद्यात् कुण्डं योनिनिभं भवेत् || १० ||
(३) अर्धचन्द्रकुण्डम्
चतुरस्रीकृतं क्षेत्रं दशधा विभजेत् सुधीः |
Seite 304 der Vorlage
एकमेकं त्यजेदंशमध ऊर्ध्वञ्च मन्त्रवित् || ११ ||
ज्यासूत्रं पातयेदग्रे तन्मानात् भ्रामयेत् पुनः |
अर्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत् || १२ ||
(४) त्र्यस्रकुण्डम्
चतुर्धा भेदिते क्षेत्रे विन्यसेत् पार्श्वयोर्द्वयोः |
एकैकमंशं तन्मानादग्रतो लाञ्छयेत् पुनः || १३ ||
सूत्रयुग्मं बुधः कुर्यात् त्र्यस्रं कुण्डमुदाहृतम् |
(५) वृत्तकुण्डम्
अष्टादशांशके क्षेत्रे न्यसेदेकं बहिर्बुधः || १४ ||
भ्रामयेत्तेन मानेन वृत्तं कुण्डमनुत्तमम् |
(६) षडस्रकुण्डम्
अष्टधा विभजेत् क्षेत्रं मध्यसूत्रस्य पार्श्वयोः || १५ ||
भागं न्यसेदेकमेकं मानेनाऽनेन मध्यतः |
कुर्यात् पार्श्वद्वये मत्स्यचतुष्कं तन्त्रवित्तमः || १६ ||
सूत्रषट्कं ततो दद्यात् षडस्रं कुण्डमुत्तमम् |
Seite 305 der Vorlage
(७) पद्मकुण्डम्
चतुरस्रीकृतं क्षेत्रं विभज्याऽष्टादशांशतः || १७ ||
एकं भागं बहिर्न्यस्य भ्रामयेत्तेन वर्त्तुलम् |
वृत्तानि कर्णिकादीनां बहिस्त्रीणि प्रकल्पयेत् || १८ ||
पद्मकुण्डमिदं प्रोक्तं विलोचनमनोहरम् |
(८) अष्टास्रकुण्डम्
पूर्वोक्तं विभजेत् क्षेत्रं चतुर्विंशतिभागतः || १९ ||
एकं भागं बहिर्न्यस्य चतुरस्रं प्रकल्पयेत् |
अन्तःस्थचतुरस्रस्य कोणार्धार्धप्रमाणतः || २० ||
बाह्यस्य चतुरस्रस्य कोणाभ्यां परिलाञ्छयेत् |
दिशं प्रति यथान्यायमष्टसूत्राणि पातयेत् || २१ ||
अष्टास्रं कुण्डमेतद्धि तन्त्रविद्भिरुदाहृतम् |
खातमानम्
यावान् कुण्डस्य विस्तारः खननं तावदीरितम् || २२ ||
मेखलालक्षणं तन्मानञ्च
कुण्डानां यादृशं रूपं मेखलानाञ्च तादृशम् |
कुण्डादेर्द्व्यङ्गुलं त्यक्त्वा कर्त्तव्या मेखलाः शुभाः || २३ ||
Seite 306 der Vorlage
कुण्डानां मेखलास्तिस्रो मुष्टिमात्रेण ताः क्रमात् |
उत्सेधायामतो ज्ञेया द्व्येकार्धाङ्गुलिसम्मिताः || २४ ||
अरत्निमात्रकुण्डस्य तास्त्रिद्विकाङ्गुलात्मिकाः |
अष्टादशाङ्गुलं ज्ञेयम् अरत्निमानं धीमता || २५ ||
द्वादशाङ्गुलिभिश्चैव हस्तार्धं परिकीर्त्तितम् |
नेमिलक्षणम्
एकहस्तमिते कुण्डे वेदाग्निनयनाङ्गुलाः || २६ ||
मेखलानां भवेदन्तः परितो नेमिरङ्गुलात् |
एक हस्तस्य कुण्डस्य वर्धयेत् तत्क्रमात् सुधीः || २७ ||
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः |
चतुर्हस्तेषु कुण्डेषु वसुतर्कयुगाङ्गुलाः || २८ ||
कुण्डे रसकरे ताः स्युर्दशाष्टरससम्मिताः |
वसुहस्तमिते कुण्डे भानुपङ्क्त्याष्टकाङ्गुलाः || २९ ||
दशहस्तमिते कुण्डे मनुभानुदशाङ्गुलाः |
विस्तारोत्सेधतो ज्ञेया मेखलाः सर्वतो बुधैः || ३० ||
Seite 307 der Vorlage
योनिलक्षणम्
होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् |
मुष्ट्यरत्रेकहस्तानां कुण्डानां योनिरीरिता |
षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशलिनी || ३१ ||
नाललक्षणम् तन्मानञ्च
योन्याः पश्चिमतो नालं विस्तारं चतुरङ्गुलम् |
त्रिद्व्येकाङ्गुलमानेन क्रमान्मूलाग्रमिष्यते || ३२ ||
नालमेखलयोर्मध्ये परिधिस्थापनाय च |
स्थलादारभ्य नालं स्यात् योन्या मध्ये सरन्ध्रकम् || ३३ ||
नार्पयेत् कुण्डकोणेषु योनिं तां तन्त्रवित्तमः |
मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता || ३४ ||
एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्धयेत् |
यवद्वयक्रमेणैव योन्यग्रमपि वर्धयेत् || ३५ ||
Seite 308 der Vorlage
नाभिप्रमाणम्
कुण्डानां कल्पयेदन्तर्नाभिमम्बुजसन्निभाम् |
तत्तत् कुण्डानुरूपं वा मानमस्य निगद्यते || ३६ ||
मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेधतारतः |
नेत्रवेदाङ्गुलोपेता कुण्डेष्वन्येषु वर्धयेत् || ३७ ||
यवद्वयक्रमेणैव नाभिं पृथगुदारधीः |
योनिकुण्डे योनिमब्जकुण्डे नाभिं विवर्जयेत् || ३८ ||
नाभिक्षेत्रं त्रिधा भित्वा मध्ये कुर्वीत कर्णिकाम् |
बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत् || ३९ ||
मुष्टिमात्रमितं कुण्डं शतार्धं सम्प्रचक्षते |
शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके || ४० ||
कोणसूत्रप्रमाणेन कुर्याद्धस्तकुण्डकम् |
चतुर्हस्तादिकेऽप्येवं कर्त्तव्यं साधकेन च || ४१ ||
द्विहस्तमयुते लक्षे चतुर्हस्तमुदीरितम् |
दशलक्षेषु षट्करं कोट्यामष्टकरं स्मृतम् || ४२ ||
(यद्वा)
एकहस्तमितं कुण्डमेकलक्षे विधीयते |
Seite 309 der Vorlage
लक्षाणां दशकं यावत् तावद्धस्तेन वर्धयेत् || ४३ ||
दशहस्तमितं कुण्डं कोटिहोमे च दृश्यते |
कुण्डानां फलकथनम्
सर्वसिद्धिकरं कुण्डं चतुरस्रमुदाहृतम् || ४४ ||
पुत्रप्रदं योनिकुण्डं अर्धचन्द्रं शुभप्रदम् |
शत्रुक्षयकरं त्र्यस्रं वर्तुलं शान्तिकर्मणि || ४५ ||
छेद मारणयोः कुण्डं षडस्रं पद्मसन्निभम् |
वृष्टिदं रोगशमनं कुण्डमष्टास्रमीरितम् || ४६ ||
(यद्वा)
योनिकुण्डं वाक्प्रदं स्यादब्जमाकृष्टिकरणम् |
लक्ष्मीप्रदं वर्त्तुलञ्चचन्द्रार्धं तु भयं हरेत् || ४७ ||
वृत्तं त्रिकोणकुण्डं हि खेचरीसिद्धिदायकम् |
चतुरस्रं शान्तिलक्ष्मीपुष्टि-ऋद्धिप्रदायकम् || ४८ ||
कारणं सर्वसम्पत्तेर्धनसौभाग्यवर्द्धनम् |
षडस्रं सर्वसम्पत्तिकारणं पौरुषप्रदम् || ४९ ||
Seite 310 der Vorlage
अष्टास्रं तु तथा ज्ञेयं समीहितफलप्रदम् |
गुणानि सर्वकार्याणि चतुरस्रे भवन्ति हि || ५० ||
विप्राणां चतुरस्रं स्याद् राज्ञां वर्तुलमिष्यते |
वैश्यानामर्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् || ५१ ||
चतुरस्रं तु सर्वेषां किञ्चित्तान्त्रिकसम्मतिः |
कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः || ५२ ||
कुण्डाकृतिभेदेनफलभेदः
प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः |
उदरं कुण्डमित्युक्तं योनिः पादौ तु पश्चिमे || ५३ ||
नित्यं नैमित्तिकं काम्यं स्थण्डिले वा समाचरेत् |
हस्तमात्रं तु तत् कुर्याद्बालुकाभिः सुशोभनम् || ५४ ||
अङ्गुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः |
एषामेकतमं कुण्डं निष्पाद्य स्रुक्स्रुवौ ततः || ५५ ||
Seite 311 der Vorlage
प्रकल्पयेत् स्रुचं यागे वक्ष्यमाणेन वर्त्मना |
श्रीफलशिंशपाक्षीरशाखिष्वेकतमं बुधः || ५६ ||
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः |
विंशत्यंशैर्भवेद्दण्डो वेदी तैरष्टभिर्भवेत् || ५७ ||
एकांशेन मितं कण्ठं सप्तभागमितं मुखम् |
वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीर्त्तितः || ५८ ||
अग्रं कण्ठसमानं स्यात् मुखे मार्गं प्रकल्पयेत् |
कनिष्ठाङ्गुलिमानेन सर्पिषो निर्गमाय च || ५९ ||
उद्दिष्टवेधा रचनाप्रकारम्
वेदीमध्ये विधातव्या भागेनैकेन कर्णिका |
विदधीत बहिस्तस्या एकांशेनाऽभितोऽवटम् || ६० ||
तस्य खातं त्रिभिर्भागैर्वृत्तमर्धांशतो भवेत् |
अंशेनैकेन परितो दलानि परिकल्पयेत् || ६१ ||
मेखला मुखवेद्योः स्यात् परितोऽर्धांशमानतः |
दण्डमूलाग्रयोर्गण्डी गुणवेदाङ्गुलैः क्रमात् || ६२ ||
Seite 312 der Vorlage
गण्डीयुग्मं यमांशैः स्याद्दण्डस्याऽनाह ईरितः |
षड्भिरंशैः पृष्टभागो वेद्याः कूर्माकृतिर्भवेत् || ६३ ||
हंसस्य वा हस्तिनो वा पोत्रिणो वा मुखं लिखेत् |
मुखस्य पृष्ठभागस्य सम्प्रोक्तं लक्षणं स्रुचः || ६४ ||
स्रुचश्चतुर्विंशतिभिर्भागैर्वा रचयेत् स्रुवम् |
द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्त्तितम् |
चतुर्भिरंशैरानाहः कर्षाज्यग्राहि तच्छिरः || ६५ ||
अंशद्वयेन निखनेत् पङ्के मृगपदाकृति |
दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता |
मूलात् षडङ्गुलं त्यक्त्वा अग्रेचैन द्विसप्तकम् || ६६ ||
स्रुवन्तु धारयेन्मन्त्री मूलमेव न दर्शयेत् |
स्रुवस्य विधिराख्यातो यथातन्त्रविधानतः || ६७ ||
कुण्डस्य अष्टादश संस्काराः
संस्काराणि च वा कुर्यात् कुण्डस्य साधकोत्तमः |
अष्टादशाः स्युःसंस्काराः कुण्डानां तन्त्रचोदिताः || ६८ ||
मूलेन वीक्षणं कृत्वा अस्त्रेण प्रोक्षणं ततः |
Seite 313 der Vorlage
तेनैव ताडनं दर्भैर्वर्मणाऽम्युक्षणं मतम् || ६९ ||
अस्त्रेण खनोद्धारौ हन्मन्त्रेण प्रपूरणम् |
समीकरणमस्त्रेण वर्मणा सेचनं मतम् || ७० ||
कुट्टनं हेतिमन्त्रेण कवचेन तु मार्जनम् |
विलेपनं कलारूपकल्पनं तदनन्तरम् || ७१ ||
त्रिसूत्रीकरणं पश्चात् हृदयेनाऽर्चनं तथा |
शरेण वज्रीकरणं हृदयेन कुशैः शुभैः || ७२ ||
चतुष्पथं तनुत्रेण तनतयादक्षपाटनम् |
यागे कुण्डानि संस्कुर्यात्संस्कारैरेभिरीरितैः || ७३ ||
प्रकारान्तरसंस्कारकथनम्
अथवा तानि संस्कुर्याच्चतुर्भिवीक्षणादिभिः |
तिस्रस्तिस्रो लिखेद् रेखा हृदा प्रागुदगप्रगाः || ७४ ||
Seite 314 der Vorlage
प्रागप्राणां स्मृता देवा मुकुन्देशपुरन्दराः |
रेखाणामुदगप्राणां ब्रह्मवैवश्वेन्दवः || ७५ ||
षट्कोणान्तर्गतां योनिं मण्डलं चाष्टपत्रकम् |
वृत्तं क्षितिगृहं चैव कुण्डमध्ये लिखेत्ततः || ७६ ||
तारेण प्रोक्षणं कृत्वा पूजयेत् पीठदेवताः |
मण्डले कालवह्निञ्च रुद्रमेव ततः परम् || ७७ ||
आधारशक्तिं कूर्मञ्च पृथिवीं रत्नद्वीपकम् |
मणिगेहं प्रपूज्याथ कल्पवृक्षं ततः सुधीः || ७८ ||
सुवर्णवेदिकामध्ये आग्नेयादिषु तत्परम् |
धर्मं ज्ञानञ्च वैराग्यं ऐश्वर्यञ्च यथाक्रमात् || ७९ ||
पूर्वाद्येतांश्च मध्ये च पुनर्मध्ये ततो यजेत् |
परमानन्दकन्दञ्च सम्विन्नालं ततः परम् || ८० ||
सर्वतत्त्वार्थकाब्जञ्च प्रकृतिपत्रकं ततः |
विकारमयकेशरं मातृकामयकर्णिकाम् || ८१ ||
सूर्यस्य मण्डलं सोममण्डलं वह्निमण्डलम् |
सत्त्वरजस्तमश्चैव आत्मानमन्तरात्मनाम् || ८२ ||
परमात्मानमभ्यर्च्य ज्ञानात्मानं ततः परम् |
नामाद्यक्षरबीजाद्यान् चतुर्थ्यन्तान्नमोऽन्वितान् || ८३ ||
प्रणवाद्यान् यजेदेतान् वर्त्तुले भुवनेश्वरीम् |
Seite 315 der Vorlage
वागीश्वरीञ्च वागीशं यजेद्योगस्वरूपकम् || ८४ ||
पीठाय नम इत्युक्त्वा कर्णिकायां प्रपूजयेत् |
वागीश्वरीध्यानम्
वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् || ८५ ||
वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् |
मायाबीजं समुच्चार्य वागीश्वरीञ्च ङेयुताम् || ८६ ||
नमोऽन्तोऽयं महामन्त्रो वागीश्वर्याः प्रकीर्त्तितः |
योगीश्वरं स्वमन्त्रेण ततो वह्निं समानयेत् || ८७ ||
सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् |
ताम्रपात्रे पुटीकृत्य क्रव्यादांशं परित्यजेत् || ८८ ||
वह्निबीजेन चाऽस्त्रेण नैर्-ऋत्यां दिशि साधकः |
संस्कुर्यात्तं यथान्यायं चतुर्भिर्वीक्षणादिभिः || ८९ ||
औदर्यवैदवाग्निभ्यां भौमस्यैक्यं स्मरन् वसोः |
योजयेद्वह्निबीजेन चैतन्यं पावके ततः || ९० ||
Seite 316 der Vorlage
तारेण मन्त्रितं मन्त्री धेनुमुद्रामृतीकृतम् |
अस्त्रेण रक्षितं पश्चात् कवचेनाऽवगुण्ठितम् || ९१ ||
अर्चितं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः |
प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकम् || ९२ ||
आत्मनोऽभिमुखं वह्निं जानुस्पृष्टमहीतलः |
शिवबीजधिया देव्या योनावेव विनिःक्षिपेत् || ९३ ||
पश्चाद् देवस्य देव्याश्च दद्यादाचमनादिकम् |
ज्वालिनीं दर्शयित्वा च ज्वालयेन्मनुनाऽमुना || ९४ ||
वह्निमन्त्रकथनम्
चित्पिङ्गल हन दह पचयुग्मान्युदीर्य च |
सर्वज्ञाऽज्ञापय स्वाहा मत्रोऽयं समुदीरितः || ९५ ||
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् |
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् || ९६ ||
उपतिष्ठेत विधिवत् मनुनाऽनेन पावकम् |
विन्यसेदात्मनो देहे मन्त्री जिह्वा हविर्भुजः || ९७ ||
लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः |
वह्नीराघींशसंयुक्ताः सादियान्ताः सविन्दवः || ९८ ||
वह्नेर्मन्त्राः समुद्दिष्टाः जिह्वानां सप्त देशिकैः |
जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेषु कर्मसु || ९९ ||
Seite 317 der Vorlage
सत्त्वरजस्तमोभेदेन वह्निजिह्वाकथनम्
हिरण्या गगना रक्ता कृष्णाऽन्या सुप्रभा मता |
बहुरूपाऽतिरिक्ता च सात्विक्यो यागकर्मसु || १०० ||
पद्मरागा सुवर्णाऽन्या तृतीया भद्रलोहिता |
लोहिताऽनन्तरं श्वेता धूमिनी च करालिका || १०१ ||
राजस्यो रसना वह्नेर्विहिताः काम्यकर्मसु |
विश्वमूर्त्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा || १०२ ||
लोहिताऽन्या करालाख्या काली तामस्य ईरिताः |
एताः सप्त प्रयुज्यन्ते क्रूरकर्मसु मन्त्रिभिः || १०३ ||
स्वस्वनामसमाभाः स्युर्जिह्वाः कल्याणरेतसः |
अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः || १०४ ||
राक्षसाः सप्तजिह्वानामीरितास्त्वधिदेवताः |
वह्णेरङ्गमनून् न्यस्येत्तनावुक्तेन वर्त्मना || १०५ ||
Seite 318 der Vorlage
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः पुनः |
धूमव्यापी सप्तजिह्वो धनुर्धर इतीरितः || १०६ ||
षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः |
मूर्त्तीरष्टौ तनौ न्यस्येद् देशिको जातवेदसः || १०७ ||
मूर्द्धांशपार्श्वकट्यन्धु कटी पार्श्वांशुकेषु च |
प्रदक्षिणवशान्न्यस्येदुच्यन्ते ता यथाक्रमम् || १०८ ||
वह्निसंज्ञा
जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः |
अश्वोदरजसञ्ज्ञोऽन्यः पुनर्वैश्वानराह्वयः || १०९ ||
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः |
ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्त्तयः || ११० ||
आसनं कल्पयित्वाऽग्नेर्मूर्त्तिं तस्य चिन्तियेत् || १११ ||
वह्निध्यानम्
इष्टं शक्तिं स्वस्तिकाभीतिमुच्चै-
र्दीर्घैर्दोर्भिः धारयन्तं जवाभम् |
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं
ध्यायेद्वह्निं बद्धमौलिं जटाभिः || ११२ ||
परिषिञ्चेत्ततस्तोयैर्विशुद्धैर्मेखलोपरि |
दर्भैरगर्भमध्यस्थमेखलायां परिस्तरेत् || ११३ ||
Seite 319 der Vorlage
निःक्षिपेद्दिक्षु परिधीन् प्राचीवर्जञ्च मन्त्रवित् |
प्रादक्षिण्येन सम्पूज्यास्ते ब्रह्माद्यष्टमूर्त्तयः || ११४ ||
ध्यायन् वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनाऽमुना |
वैश्वानर जातवेदपदं पश्चादिहाऽवह || ११५ ||
लोहिताक्ष पदस्यान्ते सर्वकर्माणि साधय |
वह्निजायावधिः प्रोक्तो मनुः पावकवल्लभः || ११६ ||
मध्ये षट्स्वपि कोणेषु जिह्वा वह्नेस्ततो यजेत् |
केशरेषूक्तमार्गेण पूजयेदङ्गदेवताः || ११७ ||
दलेषु पूजयेन्मूर्त्तीः शक्तिस्वस्तिकधारिणीः |
दलाग्रे मातरः पूज्याः सासिताङ्गादिभैरवाः || ११८ ||
लोकपालांस्ततो दिक्षु पूजयेदुक्तलक्षणान् |
पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ || ११९ ||
Seite 320 der Vorlage
त्रिः सम्प्रतापयेद्वह्नौ दर्भानादाय देशिकः |
तदग्रमध्यमूलानि शोधयेत्तौ यथाक्रमात् || १२० ||
गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणेन तौ |
पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिःक्षिपेत् || १२१ ||
आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशास्तरे |
वीक्षणादिषट्संस्काराः
आज्यस्थालीमथाऽदाय प्रोक्षयेदर्घवारिणा || १२२ ||
तस्यामाज्यं विनिःक्षिप्य संस्कुर्याद्वीक्षणादिभिः |
निरुह्य वायव्येङ्गारान् हृदा तेषु निवेशयेत् || १२३ ||
इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः |
दीप्तदर्भयुग्ममाज्ये क्षिप्त्वाऽनले क्षिपेत्ततः || १२४ ||
गुरुर्हृदयमन्त्रेण पवित्रीकरणन्त्विदम् |
Seite 321 der Vorlage
दीप्तेन दर्भयुग्मेन नीराज्याज्यं सवर्मणा || १२५ ||
अग्नौ विसर्जयेद्दर्भमभिद्योतनमीरितम् |
घृते प्रज्वलितान् दर्भान् प्रदर्श्याऽस्त्राणुना गुरुः || १२६ ||
जातवेदसि तान् न्यस्येदुद्योतनमीरितम् |
गृहीत्वा घृतमङ्गारान् संयोज्याऽग्नौ जलं स्पृशेत् || १२७ ||
अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसम्मितौ |
धृत्वोत्पुनीयादस्त्रेण घृतमुत्पवनन्त्विदम् || १२८ ||
तद्वद्धृदयमन्त्रेण कुशाभ्यामात्मनो मुखम् |
घृतेन प्लावनं कुर्यात् संस्काराः षडुदीरिताः || १२९ ||
प्रादेशमात्रं सग्रन्थि दर्भयुग्मं घृतान्तरे |
निःक्षिप्य भागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् || १३० ||
वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः |
सुषुम्णां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि || १३१ ||
स्रुवेण दक्षिणभागादादायाऽज्यं हृदा सुधीः |
जुहुयादग्नये स्वाहा अग्नेर्दक्षिणलोचने || १३२ ||
Seite 322 der Vorlage
वामतस्तद्वदादाय वामे वह्निविलोचने |
जुहुयादथ सोमाय स्वाहेति हृदयाणुना || १३३ ||
हृन्मन्त्रेण स्रुवेणाऽज्यं भागादादाय दक्षिणात् |
जुहुयादग्नये स्विष्टकृते स्वाहेति तन्मुखे || १३४ ||
इति सम्पातयेद् भागेष्वाज्यस्याऽथाऽहुतिं क्रमात् |
इत्यग्निनेत्रवक्त्राणां कुर्यादुद्घाटनं सुधीः || १३५ ||
वह्नेः गर्भाधानादिसंस्काराः
सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः |
जुहुयादग्निमन्त्रेण त्रिवारान् साधकोत्तमः || १३६ ||
गर्भाधानादिकां वह्नेः क्रियां निर्वर्तयेत् क्रमात् |
अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् || १३७ ||
गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः |
अनन्तरं जातकर्म स्यान्नामकरणं तथा || १३८ ||
उपनिष्क्रमणं पश्चादन्नप्राशनमीरितम् |
चूडोपनयने भूयो महानाम्ना महाव्रतम् || १३९ ||
तथोपनिषदं पश्चात् गोदानोद्वाहकौ मृतिः |
शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रूरकर्मसु || १४० ||
Seite 323 der Vorlage
मरणान्ताः समुद्दिष्टा वह्नेरागमवेदिभिः |
ततश्च पितरौ तस्य सम्पूज्याऽत्मनि योजयेत् || १४१ ||
समिधः पञ्च जुहुयादादाय घृतसंप्लुताः |
मन्त्रैर्जिह्वाङ्गमूर्त्तीनां क्रमाद्वह्नेर्यथाविधि || १४२ ||
प्रत्येकं जुहुयादेकामाहुतिं मन्त्रवित्तमः |
अवदाय स्रुवेणाऽज्यं चतुः स्रुचि पिधाय ताम् || १४३ ||
स्रुवेण तिष्ठन्नेवाग्नौ देशिको यतमानसः |
जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे || १४४ ||
विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतीर्दश |
विघ्नराजमन्त्रोद्धारः
तारं रमा तथा मायां क्लीं ग्लौं तदनन्तरम् || १४५ ||
गं गणपतये वरवरदान्ते सर्वपदं जनम् |
मे वशमानय प्रोच्य वह्निजाया ततः परम् || १४६ ||
कथितं विघ्नराजस्य मन्त्रराजं सुदुर्लभम् |
सामान्यं सर्वदेवानामेतदग्निमुखं मतम् || १४७ ||
Seite 324 der Vorlage
एकीकरणम्
ततः पीठं समभ्यर्च्य देवताया हुताशने |
अर्चयेद्वह्निरूपां तां देवतामिष्टदायिनीम् || १४८ ||
तन्मुखे जुहुयान्मन्त्री पञ्चविंशतिसंख्यया |
आज्येन मूलमन्त्रेण वह्न्यैकीकरणं त्विदम् || १४९ ||
वह्निदैवतयोरैक्यमात्मना सह भावयन् |
नाडीसन्धानम्
मूलमन्त्रेण जुहुयादाज्यैरेकादशाऽहुतीः || १५० ||
नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः |
जुहुयादङ्गमुख्यानामावृतीनामनुक्रमात् || १५१ ||
एकैकामाहुतिं सम्यक् सर्पिषा देशिकोत्तमः |
त्रिमध्वक्तैस्तिलैर्मन्त्री हुनेज्जपदशांशतः || १५२ ||
मुद्रा ज्ञेया च धीरेण पाणिहोमेषु सर्वदा |
शूकरी करसङ्कोची हंसी मुक्तकनिष्ठिका || १५३ ||
कनिष्ठा तर्जनी मुक्ता मृगीति कथिता त्रिधा |
अभिचारे च पुष्टौ च शान्त्यादौ च यथाक्रमात् || १५४ ||
Seite 325 der Vorlage
रिक्तहस्तेन हवने फलाभवः
रिक्तहस्तेन यद्दानं हूयते च हुताशने |
दातुः पुण्यफलं नास्ति होता च नरकं व्रजेत् || १५५ ||
एवं ज्ञात्वा विशेषज्ञो होमं कुर्यात् प्रयत्नतः |
आज्येन मधुना चैव शर्करा च मधुत्रयम् || १५६ ||
द्रव्यैः पूर्वोदितैर्वापि होमयेत् संस्कृतेऽनले |
स्वकल्पविहितैद्रव्यैः साधको यतमानसः || १५७ ||
जपसंख्यादशांशेन होमयेद्विधिपूर्वकम् |
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते || १५८ ||
छिन्नायाः कालिकायाश्च विशेषस्तन्यतेऽधुना |
दिवा जपदशांशेन मधुरत्रयसंयुतम् || १५९ ||
हुत्वा संख्यां समाप्याथ रात्रिकल्पं समाचरेत् |
योनिकुण्डे स्थिते सर्पिर्मांसमत्स्ययुतं भृशम् || १६० ||
Seite 326 der Vorlage
काम्यकर्मवर्णनम्
अथ काम्यविधिं वक्ष्ये सर्वशाक्तेषु सिद्धिदम् |
मल्लिकाजातिपुन्नागैर्होमाद् भाग्योदयो भवेत् || १६१ ||
फलैर्विल्वसमुद्भूतैस्तत्पत्रैर्वा हुताद् भवेत् |
राजपुत्त्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् || १६२ ||
उत्पलैर्वशयेद्विश्वं लक्ष्मीं पुष्पैस्तथा नरः |
बन्धूकपुष्पैर्वकुलैर्जवोत्थैः किंशुकोद्भवैः || १६३ ||
वश्याय जुहुयान्मन्त्री मधुना सह सिद्धये |
लवणैर्मधुरोपेतैर्हुत्वा कर्षति सुन्दरीम् || १६४ ||
वञ्जुलस्य समिद्धोमात् वृष्टिं वितनुतेऽचिरात् |
क्षीराक्तैरमृताखण्डैर्होमो नाशयति ज्वरम् || १६५ ||
दूर्वाभिरायुराप्नोति कदम्बैर्वश्यमाप्नुयात् |
राजीलवण होमेन शत्रून मारयतेऽचिरात् || १६६ ||
अन्तेन मधुयुक्तेन निर्धनो धनमाप्नुयात् |
सर्वं त्रिमधुरोपेतं होमद्रव्यमुदाहृतम् || १६७ ||
Seite 327 der Vorlage
नन्द्यावर्त्तभवैः पुष्पैर्होमाद्वाग्मी भवेन्नरः |
बिल्वप्रसूनैर्जुहुयादीप्सितां श्रियमाप्नुयात् || १६८ ||
पलाशकुसुमैर्होमात्तेजस्वी जायते नरः |
चन्दनागुरुकर्पूररोचनाकुङ्कमादिभिः || १६९ ||
वश्याय जुहुयान्मन्त्री वशयेदखिलं जगत् |
निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः || १७० ||
निम्बतैलान्वितैर्लोणैर्होमः शत्रुविनाशनः |
हरिद्राचूर्णसंमिश्रैर्लवणैः स्तम्भयेत् परान् || १७१ ||
रसवद्भिः फलैः पक्वैः पुष्पैः परिमलान्वितैः |
हुत्वा सम्यगवाप्नोति साधकः सर्वमीप्सितम् || १७२ ||
मालतीपुष्पहोमेन वाग्मी द्रुतकविर्भवेत् |
वशयेद्वचहोमेन नरान्नरपतीनपि || १७३ ||
पद्मैर्हुत्वा जयेत् शत्रून् दूर्वाभिः शान्तिमाप्नुयात् |
पलाशकुसुमैः पुष्टिं धनं धान्यं श्रियं लभेत् || १७४ ||
Seite 328 der Vorlage
शशकस्य तु मांसेन मधुना लोढितेन च |
हुत्वा हेममवाप्नोति वित्तविद्यावरस्त्रियः || १७५ ||
काकपक्षैः कृते होमे विद्वेषं तनुते नृणाम् |
मरीचहोमैर्मरणं रिपुराप्नोति निश्चितम् || १७६ ||
अयुतं वटवृक्षोत्थैः संशुद्धिरर्चितेऽनले |
होमं समिद्वरैः कुर्यान्नाशयत्यापदां कुलम् || १७७ ||
अपामार्गसमिद्भिर्वा तिलैर्वा काननोद्भवैः |
व्रीहिभिर्जुहुयाद्धीरो वत्सरात् व्रीहिमान् भवेत् || १७८ ||
दूर्वाहोमेन दीर्घायुर्मधुना वत्सराद् भवेत् |
आरग्वधैःसमृद्धिः स्यादाज्येन लभते धनम् || १७९ ||
गोदुग्धेन गवां वृद्धिमाप्नुयान्नात्र संशयः |
काम्यहोमं सदा धीरः कुर्यादयुतसंख्यया || १८० ||
लतापुष्पान्वितं कृत्वा पर्णानां शतकं सुधीः |
तानि संमन्त्र्य विधिवदसकृत् साधकोत्तमः || १८१ ||
ततो वै होमयेत्तानि संस्कृतेऽग्नौ यथाविधि |
युगानामयुतं तेन पूजनं जायते तथा || १८२ ||
Seite 329 der Vorlage
अनेन क्रमयोगेन यश्चरेद् भुवि साधकः |
न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते || १८३ ||
वीरो भवति वाग्मीकः सर्वसिद्धिमुपालभेत् |
हुनेदाज्येन तक्रेण मांसेन रुधिरेण च || १८४ ||
रक्तपुष्पेण साज्येन सरक्तेन विशेषतः |
आमिषादिभिरप्येवं श्मशाने जुहुयात् सुधीः || १८५ ||
मांसं रक्तं तिलं केशं नखं भक्तञ्च पायसम् |
आज्यं चैव विशेषेण जुहुयात् सर्वसिद्धये || १८६ ||
एवं कृतेन सर्वत्र लभते सिद्धिमुत्तमाम् |
यत् यत् कामयते कामं तत्तदाप्नोति निश्चितम् || १८७ ||
देववन्मानुषो भुत्वा भुनक्ति बहुलं सुखम् |
योनिकुण्डे हुनेद्विद्वान् यथावत् साधितेऽनले || १८८ ||
हविषा चैव भक्तेन मांसेन रुधिरेण च |
रक्तचन्दनपुष्पेण कृष्णेन च विशेषतः || १८९ ||
श्मशाने जुहुयान्मन्त्री शुद्धामिक्षाभिरप्यथ |
धने धनेश्वरो भूयादाज्ञया च शचीपतिः || १९० ||
बलेन पवनो भूत्वा देववद्विचरेद् भुवि |
Seite 330 der Vorlage
अथ ध्यात्वा चरेद्धोमं दधिसिद्धान्नतण्डुलैः || १९१ ||
सहस्रैकविधानेन समस्तफलसिद्धये |
विद्याकामेन होतव्यं शर्करायुतपायसैः || १९२ ||
मलनाश्यं भवत्येव सद्यो विद्याचतुर्दश |
रजस्वलाया वस्त्रेण मधुना सह सर्पिषा || १९३ ||
अयुतैकं विधानेन सिद्धयोऽष्टौ भवन्ति हि |
सद्योमार्जारमांसेन घृतेन मधुना सह || १९४ ||
चाण्डालकेशयुक्तेन सर्वसिद्धिर्भवेद् ध्रुवम् |
बन्धूककुसुमैर्होमं कृत्वा रक्तान्वितैर्ध्रुवम् || १९५ ||
दुर्भगाया भवेद् भाग्यं सर्वसिद्धिर्न संशयः |
रम्भापुष्पं शालमत्स्यं जुहुयान्मन्त्रवित्तमः || १९६ ||
सर्वसिद्धिमनुप्राप्य अन्ते मोक्षमवाप्नुयात् |
साक्षतं विल्वपत्रञ्च जुहुयाच्च सहस्रकम् || १९७ ||
लभते मञ्जुलां वाणीं महाष्टम्यां विशेषतः |
एवं ज्ञात्वा प्रकुर्वीत द्रव्यमानमथोच्यते || १९८ ||
Seite 331 der Vorlage
होमद्रव्यादिमानम्
कर्षमानं घृतं होमे शुक्तिमात्रं पयः स्मृतम् |
पञ्चगव्यञ्च तत्संख्यं भवेन्मधु तथा समम् || १९९ ||
दुग्धान्नमक्षसदृशं दधि प्रसृतिमानकम् |
लाजा मुष्टिमिता ज्ञेया पृथुकं शुक्तिमेव च || २०० ||
गुडं पलार्धमानं स्यात् शर्कराऽपि तथा समा |
मत्स्यं मांसं तथा ज्ञेयं रुधिरं शुक्तिमात्रकम् || २०१ ||
ग्रासार्धं चरुमानं स्यादिक्षु पर्वावधि स्मृतम् |
एकैकपत्रपुष्पाणि तथापूपानि कल्पयेत् || २०२ ||
कदलीफलनारङ्गफलान्येकैकशो विदुः |
मातुलुङ्गं चतुःखण्डं पनसं दशधा भवेत् || २०३ ||
अष्टधा नारिकेलञ्च मालूरञ्च त्रिधा भवेत् |
कपित्थञ्च त्रिधा ज्ञेयं ऊर्वारुकं त्रिधा भवेत् || २०४ ||
Seite 332 der Vorlage
फलान्यन्यान्यखण्डानि समिधः स्युर्दशाङ्गुलाः |
दूर्वात्रयंसमुद्दिष्टं गुडुचो चतुरङ्गुला || २०५ ||
व्रीहयो मुष्टिमानाः स्युर्मुद्गमाषयवा अपि |
तण्डुलाः स्युस्तदर्धञ्च अथवा मुष्टिसम्मिताः || २०६ ||
गोधूमा रक्तकलभा मुष्टिमानास्तिलास्तथा |
मुष्टिमानाः सर्षपाश्च लवणं शुक्तिमानकम् || २०७ ||
मरीचानि च विंशतिः पुरं बदरसंमितम् |
रामठं तत्समं ज्ञेयं रोचना तत्समा भवेत् || २०८ ||
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च |
तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः || २०९ ||
वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः |
शयानमाज्यहोमेषु निषण्णः शेषवस्तुषु || २१० ||
Seite 333 der Vorlage
आस्यान्तर्जुहुयाद्वह्नेर्विपश्चित् सर्वकर्मसु |
ज्वलत् शिखा मुखं वह्नेर्बोद्धव्यं साधकोत्तमैः || २११ ||
वह्निवर्णादिभेदतः शुभाशुभकथनम्
शुभाशुभं तथा ज्ञेयं वह्नेर्वर्णादिभेदतः |
स्वर्णसिन्दूरवालार्ककुङ्कमक्षौद्रसन्निभः || २१२ ||
सुवर्णरेतसो वर्णः शोभनः परिकीर्त्तितः |
भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः || २१३ ||
नागचम्पकपुन्नागपाटलायुथिकानिभः |
पद्मेन्दीवरकल्हारसर्पिर्गुग्गुलसन्निभः || २१४ ||
पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः |
प्रदक्षिणास्त्यक्तकम्पाःसुप्रभाः शिखिनः शिखाः || २१५ ||
शुभदाः साधकानां तु अन्यथाऽनिष्टदा भवेत् |
कुन्देन्दुधवलो धूमो वह्नेः प्रोक्तः शुभावहः || २१६ ||
कृष्णवर्णो भवेद् धूमो मन्त्रिणं नाशयेद् ध्रुवम् |
श्वेतो राष्ट्रं दहत्याशु वायसस्वरसन्निभः || २१७ ||
खरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् |
Seite 334 der Vorlage
पूतिगन्धो हुतभुजो होतुर्दुःखप्रदो भवेत् || २१८ ||
छिन्नावर्त्ता शिखा कुर्यान्मृत्युं धनपरिक्षयम् |
शुकपक्षिनिभो धूमः पारावतसमप्रभः || २१९ ||
हानिं तुरगजातीनां गवाञ्च कुरुतेऽचिरात् |
एवंविधेषु दोषेषु प्रायश्चित्ताय साधकः || २२० ||
प्रायश्चित्त निरूपणम्
मूलेनाऽज्येन जुहुयात् पञ्चविंशतिमाहुतीः |
स्वीयसंख्याविधानेन हुत्वाशेषं समाचरेत् || २२१ ||
स्रुचा पूर्णाहुतिं कृत्वा मूलमन्त्रेण देशिकः |
उद्वास्य देवतां कुम्भे साङ्गावरणपूर्विकाम् || २२२ ||
पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः |
एकैकामाहुतिं हुत्वा परिषिच्याद्भिरात्मनि || २२३ ||
पावकं योजयित्वा स्वे परिधीन् सपरिस्तरान् |
नैमित्तिके काम्यहोमे दहेत्तान्न तु नित्यके || २२४ ||
Seite 335 der Vorlage
काम्यतर्पणविधानम्
होमस्य विधिराख्यातस्तर्पणस्यापि कथ्यते |
ततः सन्तर्पयेन्मन्त्री होमस्यापि दशांशतः || २२५ ||
तीर्थतोयेन दुग्धेन सर्पिषा सुरयाऽपि वा |
गन्धोदकेन वा कुर्यात् सर्वत्र साधकोत्तमः || २२६ ||
होमान्ते देवतायाश्च पीठं तोये विचिन्तयेत् |
अथवा होमपात्रादौ यन्त्रं कृत्वा ततः परम् || २२७ ||
पूजयित्वा ततो देवीं परिवारगणान्विताम् |
आदौ सन्तर्पयेद्यन्त्रे गुर्वादींस्तु यथाक्रमात् || २२८ ||
एकैकमञ्जलिं कृत्वा सन्तर्प्य रश्मिवृदकम् |
पूर्वद्रव्यैर्देवमुखे तर्पयेद्विधिना ततः || २२९ ||
होमस्यापि दशांशेन तर्पणञ्च समाचरेत् |
प्रसङ्गात् कथ्यते काम्यतर्पणञ्च विशेषतः || २३० ||
इष्टदेवीं ततः पश्चात् यथोक्तसंख्यया बुधः |
तर्पयित्वा महादेवीं काम्यतर्पणमाचरेत् || २३१ ||
तर्पयेच्च पयोभिश्च रक्तधारायुतैस्तथा |
मज्जाभिश्च यथा तत्तत् स्वकीयेन कचेन च || २३२ ||
Seite 336 der Vorlage
आकर्षितायाः कन्यायाः कुलप्रक्षालनेन च |
मेषमाहिषरक्तेन नररक्तेन चैव हि || २३३ ||
मूषामार्जाररक्तेन तर्पयेत् परदेवताम् |
एवं तर्पणमात्रेण साक्षात् सिद्धीश्वरो भवेत् || २३४ ||
कविता जायते तस्य द्राक्षारसपरम्परा |
बृहस्पतिसमो भूत्वा देवीवद्भुवि मोदते || २३५ ||
न तस्य पापपुण्यानि जीवन्मुक्तो भवेद् ध्रुवम् |
कालागुरुद्रवोपेतैर्वशयेज्जगतीमिमाम् || २३६ ||
सचन्दनेन तोयेन सौभाग्यं लभते नरः |
तोयैः कुङ्कममिश्रैश्च स्तम्भयेदखिलं जगत् || २३७ ||
सितामिश्रिततोयेन बृहस्पतिसमो भवेत् |
कर्पूराक्तजलेनैव कर्षयेदसुरानपि || २३८ ||
रोचनायुततोयेन मुच्यते सर्वदुर्ग्रहात् |
सर्वशास्त्रेषु कथितं तर्पणं शुभदायकम् || २३९ ||
Seite 337 der Vorlage
उन्मुखीकालिकाविधानम्
उन्मुख्याः कालिकायाश्च रात्रिकल्पस्य साधकः |
तर्पयेन्मदिराभिश्च मत्स्यमांसैः समं बुधः || २४० ||
ततः सम्पूर्णसंख्यायां स्वकल्पोक्तप्रमाणतः |
स्थापयेदात्महृत्पद्मे परिवारगणैः सह || २४१ ||
देवताञ्च ततः पश्चात्तर्पणस्य दशांशतः |
अभिषेकं प्रकुर्वीत गन्धतोयैः सुसाधकः || २४२ ||
गृहीत्वा गन्धतोयञ्च मुद्रया कुम्भसञ्ज्ञया |
मूलमन्त्रं समुच्चार्य ततश्चाऽमुकदेवताम् || २४३ ||
अभिषिञ्चामि तत्पश्चात् हृन्मनुस्तदनन्तरम् |
इत्युच्चार्य स्वमूर्ध्नि तं चिन्तयित्वा समन्त्रकम् || २४४ ||
ततः सञ्चिन्तयेद् देवीं साङ्गावरणदेवताम् |
क्षिपेत्तोयं यथासंख्यं गणान् सिञ्चेत्ततः परम् || २४५ ||
अभिषेकं स्वीयसंख्यं विधाय तदनन्तरम् |
तत्तन्मन्त्रयुतान् विप्रान् भोजयेद् देवताधिया || २४६ ||
Seite 338 der Vorlage
विधिवत् पूजयित्वा च भोजयित्वा च साधकः |
तत्तद्देवप्रियैर्द्रव्यैरभिषेकदशांशतः || २४७ ||
छिन्नाकालिकायाः दिवाकल्पः
छिन्नायाः कालिकायाश्च दिवाकल्पस्य साधकः |
तद्दशांशान् हविष्यान्नैः भोजयेद् भक्तिभावतः || २४८ ||
तत्तन्मन्वविदो विप्रान् रात्रिकल्पं समाचरेत् |
हेतुं मांसञ्च मत्स्यञ्च चर्वणञ्च प्रदापयेत् || २४९ ||
विप्रभोजनादिकथनम्
ब्राह्मणान् देवताबुद्ध्या भोजयित्वा च साधकः |
सिद्धमन्त्री भवेत् सोऽपि नात्र कार्या विचारणा || २५० ||
जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम् |
पञ्चाङ्गेयञ्च कथिता पुरस्क्रिया सुसिद्धये || २५१ ||
(अथवा)
जपहोमतर्पणञ्चाऽभिषेकोऽप्यघमर्षणम् |
सूर्यार्घ्यं जलपानञ्च प्रणामं चैव पूजनम् || २५२ ||
ब्राह्मणानां भोजनञ्च दशाङ्गेयं पुरस्क्रिया |
तत्तत्कर्मदशांशेन कुर्याद्धोमादिकं बुधः || २५३ ||
Seite 339 der Vorlage
अघमर्षणं दिनेशार्घ्यं कृत्वा पूर्वविधानतः |
रव्यर्घ्यस्य दशांशेन जलपानं समाचरेत् || २५४ ||
आत्मानं देवतारूपं विभाव्य यतमानसः |
दक्षहस्ते जलं नीत्वा मूलान्तेऽमुकदेवताम् || २५५ ||
पाययामि नमः पश्चात् स्ववक्त्रैस्तत् पिबेत्ततः |
तत्संख्याञ्च समाप्याऽथ मूलान्ते स्वीयदेवताम् || २५६ ||
नमामीति नमस्कुर्याज्जलपानदशांशतः |
पूजनञ्च ततः कुर्यात् यथाविधिविधानतः || २५७ ||
विप्राणां भोजनं कुर्यान्नमस्कारदशांशतः |
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद् यतः || २५८ ||
अथवा तद्दिने कुर्यात्तत्तज्जपदशांशतः |
द्विजादीनाञ्च वर्णानां विधिः प्रोक्तः शुभावहः || २५९ ||
Seite 340 der Vorlage
होमकर्माद्यशक्तानां द्विगुणो जप ईरितः |
इतरेषाञ्च वर्णानां त्रिगुणादिसमीरितः || २६० ||
कुत्रापि यदि हीनं स्याद्दशकस्याऽङ्गकर्मणि |
तत्तद्दशैव कार्याणि दशशून्यं न कारयेत् || २६१ ||
ततः सम्पूजयेद् भक्त्या सम्भारैर्विविधैर्गुरुम् |
दक्षिणां गुरवे दद्यात् मन्त्राणाञ्च विशुद्धये || २६२ ||
गुरवे गुरुपुत्राय तत्पत्न्यै वा प्रदापयेत् |
तत्तदभावतो मन्त्री कुलीनाय कुलाय वा || २६३ ||
दत्त्वा च साधकश्रेष्ठो महापूजां समापयेत् |
तत्तत्कल्पसमाचारान्मन्त्रसिद्धिः प्रजायते || २६४ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये त्रयोदशोल्लासः || १३ ||
चतुर्दश उल्लासः
पुरश्चरणनिरूपणम्
अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते |
श्मशाने तु पुरश्चर्या कथिता भुवि दुर्लभा || १ ||
सर्वमन्त्रसाधकानां श्मशानसाधनेऽधिकारिता
वैष्णवे गाणपत्ये च शैवे चैवाऽन्यमन्त्रके |
शाक्ते चैव विशेषेण साधयेत् साधकोत्तमः || २ ||
श्मशानसाधनविधानम्
भौमवारे तमिस्रायां यामे याते च साधकः |
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि || ३ ||
कृष्णपक्षे विशेषेण साधयेदनया हितम् |
अक्षालितचितायां तु साधको निर्भयः सुधीः || ४ ||
सामिषान्नं गुडं छागं सुरापिष्टकपायसम् |
नानाफलञ्च नैवेद्यं स्वकल्पोक्तेन साधितम् || ५ ||
पुष्पादिकं समानीय सुहृद्भिः शस्त्रपाणिभिः |
समानगुणसम्पन्नैः साधको वीतभीः स्वयम् || ६ ||
Seite 342 der Vorlage
भीतश्चेत् साधकस्तत्र चतुर्दिक्षु च साधकाः |
नो चेत् स्वयं केवलोऽसौ भैरवः परिकीर्त्तितः || ७ ||
वस्त्रालङ्कारभूषाद्यैर्भूषितः पूर्वसम्मुखः |
चितायाः पश्चिमे भागे उपविश्य स्थिरः शुचिः || ८ ||
अस्त्रान्तमूलमन्त्रेण प्रोक्षणं यागभूमिषु |
गुरुपादरजो ध्यात्वा वामपादपुरःसरः || ९ ||
गणेशं वटुकं चैव योगिनीं मातृकास्तथा |
विधिवत् पूजयित्वा तु पुटाञ्जलिः पठेदिमम् || १० ||
आत्मरक्षामन्त्रः
ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः |
पिशाचयक्षसिद्धाश्च गन्धर्वाप्सरसां गणाः || ११ ||
योगिन्यो मातरो भूता सर्वाश्च खेचराः स्त्रियः |
सिद्धिदास्ता भवन्त्वत्र तथा च मम रक्षकाः || १२ ||
प्रणम्येति चितामध्ये पुष्पाञ्जलित्रयं क्षिपेत् |
श्मशानाधिपतिं पश्चाद् भैरवं कालभैरवम् || १३ ||
महाकालं यजेद्यत्नात् पूर्वादिदिक्चतुष्टये |
पाद्यादिभिश्च मन्त्रज्ञो बलिं पश्चान्निवेदयेत् || १४ ||
Seite 343 der Vorlage
बलिप्रदानम्
प्रणवं कूर्चबीजं तु श्मशानाधिप तत्परम् |
इममन्ते सामिषान्नं बलिं गृह्णद्वयं वदेत् || १५ ||
गह्णापय द्वयं विघ्ननिवारणं ततः कुरु |
सिद्धिं मे च प्रयच्छाऽन्ते स्वाहान्तेऽपि बलिं दिशेत् || १६ ||
दुग्धेनाप्युत्सृजेद्वापि पञ्चगव्येन वा तथा |
भैरवभयानकात् पूर्वं मायाबीजं पठेत् सुधीः || १७ ||
पूर्ववद्बलिमुद्धृत्य दक्षिणे बलिमाहरेत् |
कूर्चान्ते कालशब्दान्ते भैरवेति ततः परम् || १८ ||
श्मशानाधिपतये पूर्वपश्चिमे बलिमाहरेत् |
हूमन्ते च महाकाल पूर्ववदुत्तरे हरेत् || १९ ||
चितामध्ये ततो दत्त्वा बलित्रयमनुत्तमम् |
कालरात्रि महाकालि कालिके घोरनिःस्वने || २० ||
गृहाणेमं बलिं मातर्देहि सिद्धिमनुत्तमाम् |
कालकायै बलिं दत्त्वा भूतनाथाय दापयेत् || २१ ||
हूमन्ते भूतनाथान्ते श्मशानाधिप इत्यपि |
Seite 344 der Vorlage
प्रणवाद्येन मनुना दापयेद्बलिमुत्तमम् || २२ ||
कूर्चं सर्वगणनाथाधिपतये ततो वदेत् |
श्मशानमस्तकेचैव बलिं पूर्ववदाहरेत् || २३ ||
ताराद्येन बलिं दत्त्वा पञ्चगव्येन चैव हि |
अस्थिसम्प्रोक्षणं कृत्वा तत्र पीठे मनुं न्यसेत् || २४ ||
भूर्जे वा वटपत्रे वा लिखित्वा चक्रमुत्तमम् |
लिखित्वा स्वीयमन्त्रञ्च स्थापयेदासनोपरि || २५ ||
विघ्ननिवारणार्थं वीरार्दनमन्त्रकथनम्
पीठमास्तीर्य तस्मिन् वै बद्धपद्मासनः सुधीः |
कूर्चबीजद्वयं पश्चात् मायायुग्मं समुद्धरेत् || २६ ||
कालिके बज्रदंष्ट्रे च प्रचण्डे चण्डनायिके |
दानवान् दारयेत्युक्त्वा हनेति द्वितयं ततः || २७ ||
शवशरीरे महाविघ्नं छेदय द्वितयं ततः |
स्वाहान्ते वर्मचाऽस्त्रान्तो वीरार्दनमनुर्मतः || २८ ||
अनेन मन्त्रितं लोष्ट्रं दश दिक्षु विनिःक्षिपेत् |
तन्मध्ये भैरवो देवो न विघ्नैःपरिभूयते || २९ ||
यदि प्रमादवशेनैव साधको भयविह्वलः |
Seite 345 der Vorlage
अर्केन्दुसितवाट्यालमूलैर्निर्मितवर्त्तिकाम् || ३० ||
प्रदीपं गर्त्ते संस्थाप्य अस्त्रमन्त्रेण साधकः |
अस्त्रं प्रपूजयेत्तत्र दीपं संरक्षयेत्ततः || ३१ ||
हते तस्मिन् महादीपे विघ्नैश्च परिभूयते |
स्वस्वकल्पोक्तविधिना भूतशुद्ध्यादिकञ्चरेत् || ३२ ||
षोढान्यासकथनम्
षोढां वा तारकं वापि विन्यस्य पूजयेत्ततः |
नानाविद्याप्रभेदेन षोढा च बहुधाभवेत् || ३३ ||
तारकः सर्वशास्त्रेषु कथ्यते तन्त्रवर्त्मना |
विन्यसेन्मातृकास्थाने मातृकां तारसम्पुटाम् || ३४ ||
मातृकापुटितं तारं तारकः परिकीर्त्तितः |
विधिवत् पूजयित्वा च निजदेवीं सुसाधकः || ३५ ||
मन्त्रध्यानपरो भूत्वा जपेन्मन्त्रमनन्यधीः |
मन्त्राक्षरसंख्याभेदेन जपसंख्या
एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् || ३६ ||
द्व्यक्षरे चाऽष्टसाहस्रं त्र्यक्षरे त्वयुतार्धकम् |
अतः परन्तु मन्त्रज्ञो गजान्तक सहस्रकम् || ३७ ||
Seite 346 der Vorlage
निशायां वा समारभ्य उदयान्तं समाचरेत् |
जपादौ तु बलिं दद्यात् पश्चादपि बलिं हरेत् || ३८ ||
जपान्ते जपमध्ये वा देहि देहीति भाषिते |
तदापि च बलिंदद्यात् महिषं छागमेव वा || ३९ ||
बलिदानविधानम्
बलिदानविधानं हि वक्ष्येऽहं सिद्धिहेतवे |
तरुणं सुन्दरं कृष्णं क्षतादिदोषवर्जितम् || ४० ||
स्वयं पूर्वमुखो भूत्वा बलिमुत्तरवक्त्रकम् |
समानीय स्ववामे च प्रोक्षयेत्तदनन्तरम् || ४१ ||
अर्घोदकेन वीरेन्द्रस्तारादिमनुनाऽमुना |
नर्मदा यमुना गङ्गा करतोया सरस्वती || ४२ ||
कावेरी चन्द्रभागा च सिन्धुभैरवसागराः |
अजस्नाने महेशानि सान्निध्यमिह कल्पय || ४३ ||
ओं पशुपाशविनाशाय हेमकूटस्थिताय च |
परापराय परमेष्ठिने हूङ्काराय च मूर्त्तये || ४४ ||
सम्प्रोक्षणं विधायाऽथ बलिं सम्पूजयेत्ततः |
Seite 347 der Vorlage
ब्रह्मरन्ध्रे च ब्रह्माणं मस्तके मेदिनीं तथा || ४५ ||
कर्णयोश्च तथाऽकाशं ग्रीवायां सर्वतोमुखम् |
ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूज्य च || ४६ ||
ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः |
वामगण्डे तथा वह्निं ग्रीवायां समवर्त्तिनम् || ४७ ||
केशाग्रे नैर्-ऋतिं मध्ये भ्रवोश्चापि प्रचेतसम् |
नासामूले च श्वसनं स्कन्धे चैव धनेश्वरम् || ४८ ||
हृदये सर्पराजेन्द्रं पूजयित्वा पठेदिमम् |
इतोऽन्यथा पापयुतं मलमूत्रवसायुतम् || ४९ ||
तं बलिं नहि गृह्णाति देवता च कदाचन |
अन्येषां महिषादीनां बलीनामथ पूजनात् || ५० ||
कायोमेध्यत्वमायाति रक्तं गृह्णाति वै शिवा |
भूषयेद्रक्तमाल्येन सिन्दूरेण विशेषतः || ५१ ||
पशुपूजामन्त्रः
तं निरीक्ष्य पठेद्धीरो निजदेवस्वरूपकम् |
छाग त्वं बलरूपेण मम भाग्यादुपस्थितः || ५२ ||
प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् |
चण्डिकाप्रीतिदानेन दातुरापद्विनाशिने || ५३ ||
चामुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तुते |
Seite 348 der Vorlage
यज्ञार्थे बलयः सृष्टाः स्वयमेवस्वयम्भुवा || ५४ ||
अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः |
ततो वाग्भवो माया च कमला तदनन्तरम् || ५५ ||
इत्युच्चार्य बलेमूर्ध्निं पुष्पाञ्जलित्रयं क्षिपेत् |
पशुच्छेदमन्त्रः
शिवबुद्ध्या सुसञ्चिन्त्य तं पूज्य च ततः परम् || ५६ ||
ततः सम्पूजयेत् खड्गं गृहीत्वा तं पठेद् बुधः |
कृष्णं पिनाकपाणिञ्च कालरात्रिस्वरूपिणम् || ५७ ||
उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् |
रक्ताम्बरधरं चैव पाशहस्तं कुटुम्बिनम् || ५८ ||
पिवमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् |
इति ध्यात्वा सुसम्पूज्य नमस्कुर्यात् प्रयत्नतः || ५९ ||
आशीविषसमः खड्गस्तीक्ष्णधारो दुरासदः |
श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते || ६० ||
पुटाञ्जलिं विधायाथ पठेदमुं मनुं बुधः |
रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः || ६१ ||
मायायुग्मं ततः प्रोच्य कालिककालि ततो वदेत् |
वज्रेश्वरि पदस्यान्ते लौहदण्डश्च ङेयुतः || ६२ ||
हृदयञ्च पठित्वा च अङ्गाय नमो यजेत् |
विषं मायायुगं कालियुग्मं विकटशब्दतः || ६३ ||
दंष्ट्रे च स्फेंद्वयं पश्चात् फेत्कारिणि च खादय |
Seite 349 der Vorlage
द्वयं छेदययुग्मञ्च सर्वदुष्टांश्च मारय || ६४ ||
द्वयमजञ्च खड्गेन छिन्धिद्वयं किलिद्वयम् |
चिकिद्वन्द्वं पिबद्वन्द्वं रुधिरं स्फ्रों (स्फों) युगन्ततः || ६५ ||
किलिद्वयं कालियुग्मं हृन्मनुं तदनन्तरम् |
अनेन मन्त्रितं खड्गमुत्तोल्य साधकोत्तमः || ६६ ||
देत्ता पूर्वमुखो भूत्वा बलिमुत्तरवक्त्रकम् |
आं हूं फडिति मन्त्रेण छेदयित्वा ततः परम् || ६७ ||
रुधिरं जलसैन्धवशर्करामधुसंयुतम् |
गन्धपुष्पान्वितं कृत्वा उत्सृजेन्मन्त्रमुच्चरन् || ६८ ||
आप्यायनमन्त्रोद्धारः
प्रणवं वाग्भवं मायां लक्ष्मीं कौशिकिशब्दतः |
रुधिरेण ततः पश्चादाप्यायतां ततः परम् || ६९ ||
निवेद्य रुधिरं वीरः शिरो दद्यात् सदीपकम् |
न दिक्षु वीक्षणं कुर्यात् न च बन्धुसमागमम् || ७० ||
Seite 350 der Vorlage
जलादिदुर्गसर्पाणां गजानां दंष्ट्रिणां तथा |
पक्षिकीटपिशाचानां यद्वा मनसि संस्थितम् || ७१ ||
तत्सर्वं स्वप्नवद्ध्यात्वा भयं सर्वत्र वर्जयेत् |
साधनञ्च समाप्याथ दक्षिणां गुरवे ददेत् || ७२ ||
पूजाद्रव्यं जले चैव गर्त्ते वा निःक्षिपेत्ततः |
सम्यक् सिद्धैकमन्त्रस्य नाऽसाध्यं विद्यते क्वचित् || ७३ ||
बहुमन्त्रवतः पुंसः का कथा शिव एव सः |
स्वकुलान्ते पुरश्चर्या रात्रौ कार्या न चान्यथा || ७४ ||
सर्वसिद्धिप्रदं साक्षात् सर्वदेवनमस्कृतम् |
सर्वपापहरं चैव सर्वरोगविनाशनम् || ७५ ||
नान्यत् सिद्धिप्रदं चैव वीरसाधनवर्जितम् |
महाबलो महाबुद्धिर्महासाहसिकः शुचिः || ७६ ||
महास्वच्छो दयावांश्च सर्वभूतहिते रतः |
तेषां कृते प्रवक्ष्यामि वीरसाधनमुत्तमम् || ७७ ||
Seite 351 der Vorlage
वीरसाधनम्
नास्मात् परतरं किञ्चित् सत्वरं सिद्धिदायकम् |
सर्वसिद्धिर्भवत्येव अहोरात्रे कलौ युगे || ७८ ||
द्वापरे तच्च मासेन त्रेतायां हायनेन तु |
कृते तु दशभिर्वर्षः सत्यं सिद्धिर्न संशयः || ७९ ||
कटीबन्धेन वस्त्रञ्च मूलेन परिधापयेत् |
द्बाह्ये च पुनर्वस्त्रं मूलेन चन्दनादिकम् || ८० ||
कृतोष्णीशश्च मूलेन सिन्दूरेणाऽर्धपुण्ड्रकम् |
इष्टदेवं गुरुं नत्वा रात्रौ प्रहरमध्यतः || ८१ ||
कार्या च साधकैः सार्धं कुलमन्त्रं परामृशन् |
अक्षुब्धो भुक्तभोज्यस्तु यदि स्याद्वीरसाधकः || ८२ ||
दिव्यो बलिः पशुस्तत्र भुक्त्वा साधनमाचरेत् |
शवसाधनम्
पूर्वोक्तदिवसे वीरो नानोपचारसंयुतः || ८३ ||
मत्स्यमांसयुतं भक्तं गुडं छागञ्च पिष्टकम् |
पायसान्नं सुरां चैव माषभक्तबलिं तथा || ८४ ||
तिलं कुशं सर्षपञ्च दीपं चैव सुधूपकम् |
Seite 352 der Vorlage
एलालवङ्गकर्पूरजातिखदिरमार्द्रकम् || ८५ ||
ताम्बूलं पट्टसूत्रञ्च एलाजिनञ्च कम्बलम् |
चषकं यज्ञकाष्ठञ्च स्वप्रादेशप्रमाणकम् || ८६ ||
पञ्चगव्यं स्वकल्पोक्तं पूजाद्रव्यं प्रगृह्य च |
यष्टिविद्धं शूलविद्धं खड्गविद्धं पयोमृतम् || ८७ ||
वज्रविद्धं सर्पदष्टं चाण्डालं वाऽतिभूतकम् |
तरुणं सुन्दरं शूरं रणे नष्टं समुज्ज्वलम् || ८८ ||
पलायनविशून्यञ्च सम्मुखे रणवर्त्तिनम् |
न स्वयं घातयेद्विद्वान् मन्त्राणि तत्र वर्जयेत् || ८९ ||
स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रियं द्विजं तथा |
अनातुरमृतं कुष्ठि सप्तरात्रोर्ध्वगं तथा || ९० ||
अङ्गहीनञ्च सन्यज्य पूर्वोक्तान्यतमं परम् |
गृहीत्वा मूलमन्त्रेण पूजास्थाने समानयेत् || ९१ ||
शून्यागारे नदीतीरे पर्वते निर्जने तथा |
बिल्वमूले श्मशाने वा तत्समीपे वनस्थले || ९२ ||
Seite 353 der Vorlage
दीपस्थानं समाश्रित्य भूमौ वीरार्दनं लिखेत् |
वीरार्दनाङ्किते भूमौ माया मोहो न विद्यते || ९३ ||
गुरुपूजादिकम्
गुरुपूजादिकं सर्वं पूर्वोक्तमतमाचरेत् |
ये चात्रेत्यादिमन्त्रेण भूमौ पुष्पाञ्जलिं क्षिपेत् || ९४ ||
अघोरास्त्रादिमन्त्राः
अघोरास्त्रेण रक्षां वै सुदर्शनेन वा पुनः |
मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः || ९५ ||
घोरघोरतरेऽत्यन्ते तत्त्वरूपे पदंततः |
चटयुग्मं तदन्ते च प्रचटद्वितयं पुनः || ९६ ||
कहद्वयं वमद्वन्द्वं ततो दहयुगंततः |
घातयद्वितयं वर्मफडन्तोऽघोरको मनुः || ९७ ||
हालाहलं समुद्धृत्य सहस्रारस्वरूपकम् |
वर्मास्त्रान्तो महामन्त्रः सुदर्शनस्य कीर्त्तितः || ९८ ||
प्रणवाद्यास्त्रमन्त्रेण प्रोक्षितं पूजयेत्ततः |
प्रणवं कूर्चवजं तु मृतकाय नमश्च फट् || ९९ ||
पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् स्पर्शपूर्वकम् |
Seite 354 der Vorlage
अतीव परमानन्द शिवानन्द कुलेश्वर || १०० ||
आनन्दभैरवाकार देवीपर्यङ्क शङ्कर |
वीरोऽहं त्वां प्रपद्यामि सन्तिष्ठ देविकार्चने || १०१ ||
प्रणम्यानेन मनुना क्षालयेत्तदनन्तरम् |
शवशोधनम्
प्रणवं शब्दबीजञ्च मृतकाय नमस्ततः || १०२ ||
इत्युच्चार्यं गन्धतोयैः प्रक्षाल्य शवमुत्तमम् |
रक्तयुक्तो यदि भवेत् भक्षयेत् कुलसाधकम् || १०३ ||
सुधूपैर्धूपयेत्तञ्च लेपयेद् गन्धचन्दनैः |
उपचारं स्वदक्षे तु स्थापयित्वा सुसाधकः || १०४ ||
अधिकारिविशेषेण सुरया तत्र पूजयेत् |
गृहीत्वा तत्र दातव्यं सर्वं नैव च संस्पृशेत् || १०५ ||
रक्षां दिक्षु प्रकल्प्याथ वीरार्दनमनुं स्मरन् |
मृद्वासने ततो वीरो वीरासन परिग्रहः || १०६ ||
भूतशुद्ध्यादिकं कृत्वा न्यासजालं प्रविन्यसेत् |
Seite 355 der Vorlage
आत्मरक्षां विधायाथ अघोरेण समाहितः || १०७ ||
ओं दुर्गे दुर्गे रक्षणीति वह्निजाया ततः परम् |
अनेन मनुना वीरः सर्षपान् दिक्षु निःक्षिपेत् || १०८ ||
ओं तिलोऽसि सोमदैवत्यो सर्वेषां तृप्तिकारकः |
पितृणां स्वर्गदाता त्वं मर्त्यानां मम रक्षकः || १०९ ||
भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः |
इति क्षिप्त्वा तिलांस्तत्र चतुर्भागं शवादितः || ११० ||
इति संरक्षणं कृत्वा शवमात्मपुरो नयेत् |
कुशशययां परिस्तीर्य तत्र संस्थापयेच्छवम् || १११ ||
एलादिसहितं वीरस्ताम्बूलं तस्य वक्त्रके |
निःक्षिप्य च ततः कुर्याच्छवं पश्चादधोमुखम् || ११२ ||
स्थापयित्वा च तत्पृष्ठं चन्दनेन विलेपयेत् |
बाहुमूलादिकट्यन्तं चतुरस्रं विभाव्य च || ११३ ||
मध्ये पद्मं चतुर्द्वारं दलाष्टकसमन्वितम् |
तत्र चैलेयमजिनं कम्बलान्तरितं न्यसेत् || ११४ ||
श्मशानाधिपतीनाञ्च बलिं दद्याच्च पूर्ववत् |
निःक्षिपेद्दश काष्ठानि पूर्वादिदशदिक्षु च || ११५ ||
क्षिप्त्वा सम्पूजयेत्तत्र इन्द्रादिदशदेवताः |
विषमिन्द्रपदं लिख्य सुराधिपतये ततः || ११६ ||
इमं बलिं गृह्णयुग्मं गृह्णापययुगं ततः |
विघ्ननिवारणं कृत्वा सिद्धिं प्रयच्छ ठद्वयम् || ११७ ||
अनेन मनुना पूर्वे बलिं दद्याच्च सामिषम् |
स्वस्वनामादिकं कृत्वा पूर्ववद्बलिमुद्धरेत् || ११८ ||
Seite 356 der Vorlage
शवाधिष्ठातृभूतेभ्यो बलिञ्च सुरया सह |
चतुःषष्टियोगिनीभ्यो डाकिनीभ्योऽपि सन्दिशेत् || ११९ ||
द्वारदेशे ततो वीरः कुर्यादुत्तरसाधकम् |
समानगुणसम्पन्नं मान्त्रिकं विजितेन्द्रियम् || १२० ||
अभिषेकविधिज्ञं च दैववीरविशारदम् |
संस्थाप्यासनमभ्यर्प्य स्वमन्त्रान्ते परान्ततः || १२१ ||
फडित्यनेन मन्त्रेण ततश्चाऽवाहनं विशेत् |
कुशान् पादतले दत्त्वा शवकेशान् प्रगृह्य च || १२२ ||
दृढं निबध्य जुटिकां कृतसङ्कल्पसाधकः |
तत्र देवीं सुसम्पूज्य उपचारैः सुविस्तरैः || १२३ ||
शवं प्रति प्रार्थना
उत्थाय सम्मुखे स्थित्वा पठेद् भक्तिपरायणः |
ओं वशो मे भव देवेश मम वीरपदन्ततः || १२४ ||
सिद्धिं देहि महाभाग कृताश्रयपरायण |
Seite 357 der Vorlage
अनेन मनुना मन्त्री अभिलप्य कृताञ्जलिः || १२५ ||
ओं भीम भीरुभयाभाव भव्यलोचन भावुक |
त्राहि मां देवदेवेश शवानामधिपाधिप || १२६ ||
इति पादतले तस्य त्रिकोणं चक्रमुद्धरेत् |
तदोत्थातुं न शक्नोति शवस्तु निश्चलो भवेत् || १२७ ||
अथवा मूलमन्त्रञ्च संस्मरन् साधकोत्तमः |
पट्टसूत्रेण बध्नीयात् शवपादद्वयं ततः || १२८ ||
उपविश्य पुनस्तस्य बाहू निःसार्य पार्श्वयोः |
हस्तयोः कुशमास्तीर्य पादौ तत्र निधापयेत् || १२९ ||
ओष्ठौ तु सम्पुटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः |
सदा देवीं हृदि ध्यात्वा मौनी जपनमाचरेत् || १३० ||
ततोऽर्धरात्रिपर्यन्तं यदि किञ्चिन्न लभ्यते |
जयदुर्गामनुनाऽर्घ्यं तेनैव सर्षपान् क्षिपेत् || १३१ ||
पूर्ववत्तिलमुत्क्षिप्य गत्वा सप्तपदानथ |
देवीं तत्रापि सम्पूज्य प्रजपेन्मनुमुत्तमम् || १३२ ||
निर्भयः प्रजपेद् देवि सिद्धिं वा लभते नरः |
पूर्वोक्तक्रमयोगेन अक्षमालां विधानतः || १३३ ||
चलासनाद्भयं नास्ति भये जाते वदेत्ततः |
Seite 358 der Vorlage
यत् प्रार्थयसि देवेशि दातव्यं कुञ्जरादिकम् || १३४ ||
दिनान्तरे च दास्यामि स्वनाम कथयस्व मे |
इत्युक्ता संस्कृतेनैव निर्भयस्तु पुनर्जपेत् || १३५ ||
पुनश्चेन्मधुरं वक्ति वक्तव्यं मधुरं ततः |
ततः सत्यं कारयित्वा वरन्तु प्रार्थयेन्नरः || १३६ ||
यदि सत्यं न करोति वरं तु न प्रयच्छति |
तदा पुनर्जपेद्धीमान् एकाग्रमानसं यथा || १३७ ||
नररूपं विना तत्र देवोऽपि न हि सर्पति |
यत्नतस्तेन बोद्धव्यं नरो वा देवयोनिजः || १३८ ||
माता मातृस्वसा वापि मातुलानी तथैव च |
आगत्य विघ्नं कुरुते माययाऽच्छाद्य विग्रहम् || १३९ ||
उत्तिष्ठ वत्स ते कार्यं सर्वं जातं न संशयः |
प्रभातसमयो जातस्त्वत्पिता क्रोशते गृहे || १४० ||
Seite 359 der Vorlage
प्रायो विमत्सरा लोका राजानो दण्डधारिणः |
कदाचित्केन वा दृष्टस्तदाऽनिष्टं भविष्यति || १४१ ||
इत्यादिविविधैर्वाक्यैर्न च जापं परित्यजेत् |
मृताः पितृगणास्तत्र दूरदेशनिवासिनः || १४२ ||
बान्धवास्तत्र चायान्ति देवरूपधरास्ततः |
स्त्रीपुत्रसेवकादींश्च गृहीत्वा नीयते परैः || १४३ ||
रुदन्ति पुत्रकाः सर्वे भ्रातरोऽनुजसेवकाः |
निजकान्ताङ्गसंस्पर्शवस्त्राद्याभरणादिकम् || १४४ ||
गृहीत्वा नीयते पत्तिपालकैस्तद्भयं त्यजेत् |
दिवसे यत्र वा शङ्का सैव तत्र प्रजायते || १४५ ||
यदि न क्षुभ्यते तत्र तदा किं वा न लभ्यते |
स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् || १४६ ||
वरं गृह्णेति शब्दे वै त्रिरात्रं ते वरं लभेत् |
साधुनाऽसाधुना वापि योषिच्चेद्वरदायिनी || १४७ ||
तदा वीरपतेस्तस्य किं न सिध्यति भूतले |
निष्पापपुरुषेचैव सत्कुलनैश्च संस्कृता || १४८ ||
असंस्कृतवरा देवी पापयुक्तेन संशयः |
सम्मुखेऽसम्मुखे वापि संस्कृतं वक्ति चापरम् || १४९ ||
Seite 360 der Vorlage
सैव देवी न सन्देहः स देवो भैरवः स्वयम् |
न चेदेवं भवेच्चैव मायारचितविग्रहः || १५० ||
न वरयेद्वरं तत्र न किञ्चित् प्रवदेत् क्वचित् |
सा चेत् संस्कृतमाख्यानं वक्ति वा व्यक्तमीदृशम् || १५१ ||
नो चेत् स्वयं कौलिकोक्त्या वरं ग्राह्यं निराकुलम् |
अथवा उत्कटं किञ्चित् ज्योतिर्वा नीललोहितम् || १५२ ||
शब्दो वा जायते सम्यगमृतं वापि लभ्यते |
विचार्य तद्गृहीतव्यमेवं दिक् परिकीर्तितम् || १५३ ||
देवकृत्यास्तु बहुधा नरास्त्वकृतबुद्धयः |
अवश्यं तत्र भेतव्यं न तत्र प्रत्ययः क्वचित् || १५४ ||
भैरवा बटुकाश्चैव कुलशास्त्रपरायणाः |
एतच्छास्त्रप्रसङ्गेन कृत्वा कुटिलविग्रहाः || १५५ ||
पुत्रो भूत्वा हरेद्विद्यां नारी भूत्वा विमोहयेत् |
तस्मात्तत्तु भवन्नो वा विचारे यत्नमाचरेत् || १५६ ||
Seite 361 der Vorlage
सत्ये कृते लब्ध्वा सन्त्यजेच्च जपादिकम् |
फलं जातमिति ज्ञात्वा जुटिकां मोचयेत्ततः || १५७ ||
अथ तैर्याचितानश्वनरकुञ्जरशूकरान् |
दत्त्वा पिष्टमयानन्ते कर्त्तव्यं समुपोषणम् || १५८ ||
परेऽह्नि नित्यमाचर्य पञ्चगव्यं पिबेत्ततः |
ब्राह्मणान् भोजयेत्तत्र पञ्चविंशति संख्यकान् || १५९ ||
पञ्च पञ्च विहीनान् वा क्रमाच्चैव दशावधि |
तत्रः स्नात्वा च भुक्त्वा च निवसेदुत्तमे स्थले || १६० ||
यदि न स्याद्विप्रभोज्यं तदा निर्धनतां व्रजेत् |
तेन चेन्निर्धनत्वं स्यात्तदा देवः प्रकुप्यति || १६१ ||
त्रिरात्रं षड्रात्रंवा नवरात्रञ्च गोपयेत् |
शययायां यदि गच्छेद्वै तदा व्याधिं विनिर्दिशेत् || १६२ ||
गीतं श्रुत्वा च बधिरो निश्चक्षर्नृत्यदर्शनात् |
यदि वक्ति दिने वाक्यं तदा स मूकतां व्रजेत् || १६३ ||
पञ्चदशदिनान्तं हि देहे देवस्य संस्थितिः |
Seite 362 der Vorlage
गोब्राह्मणानां निन्दाञ्च न कुर्याच्च कदाचन || १६४ ||
देवगोब्राह्मणादींश्च प्रत्यहं संस्पृशेच्छुचिः |
प्रातर्नित्यक्रियान्ते तु बिल्वपत्रोदकं पिबेत् || १६५ ||
ततः स्नात्वा च गङ्गायां प्राप्तषोडशवासरे |
ततः शतत्रयादूर्ध्वं देवानां तर्पणं जलैः || १६६ ||
स्नानतर्पणशून्यस्य न स्याद्देवस्य तर्पणम् |
इत्यनेन विधानेन सिद्धिं प्राप्नोति साधकः || १६७ ||
इह भुक्त्वा वरान् भोगानन्ते याति हरेः पदम् |
असाङ्ग साङ्गमेवं वा निष्फलं सफलञ्च वा || १६८ ||
कृत्वा साधनमेवैतत् शक्तेः प्रियतरो भवेत् |
शवाभावे श्मशाने वा कार्या वै वीरसाधना || १६९ ||
प्रकारान्तरेण पुरश्चरणकथनम्
नॄणां शीघ्रफलावाप्त्यै प्रकारान्तरमुच्यते |
चतुष्पथे चतुर्दिक्षु पुरुषं हृदयं खनेत् || १७० ||
जीवितं ब्रह्मरन्ध्रे वै दीपं प्रज्वालयेत् सुधीः |
Seite 363 der Vorlage
मध्ये तथा खनेदेकं तत्र मृद्वासनं भवेत् || १७१ ||
पूर्वोक्तक्रममार्गेण तत्र संस्कारमाचरेत् |
महाकालादिदेवेभ्यो बलिं पूर्ववदाहरेत् || १७२ ||
कल्पोक्तपूजां सम्पूज्य जपेत् प्रयतमानसः |
दिग्वासाश्च जपेन्मन्त्रमयुतं सर्वदैवतम् || १७३ ||
जपान्ते च बलिं दत्त्वा दक्षिणां विभवावधि |
सर्वसिद्धिर्भवेद्विद्वान् सर्वदेवनमस्कृतः || १७४ ||
पूर्ववद्वीरवेशेन यात्रां कृत्वा सुसाधकः |
साधकैः सह सामग्रीं पूजायां विविधां तथा || १७५ ||
स्थाने पूर्वोदिते वीरः शवं चैव समानयेत् |
वर्मास्त्रमनुना हस्तप्रमाणं चतुरस्रकम् || १७६ ||
लिखित्वा मण्डलं तत्र तेनैव स्थापयेच्छवम् |
ततो नाथयुगन्त्राहि युगलं तदनन्तरम् || १७७ ||
मम कार्यं कुरु स्वाहा अस्त्राय फट् ततः परम् |
इत्यात्मानं शवं चैव वेष्टयित्वा च साधकः || १७८ ||
Seite 364 der Vorlage
रेखात्रयं प्रकुर्वीत बलिं पश्चान्निवेदयेत् |
डाकिनीहाकिनीभ्यश्च शाकिनीभ्योऽपि सन्दिशेत् || १७९ ||
समांसमधुसंयुक्तं पूर्वपश्चिमयोगतः |
वामदेवाय दत्त्वा वै रक्तदन्ताय दापयेत् || १८० ||
तेजसे च बलित्रयं घृतमिरं सशर्करम् |
दक्षिणे रुद्रकालाय वज्रनाभाय सन्दिशेत् || १८१ ||
सपिष्टकं घृतान्नञ्च यवपिष्टञ्च दापयेत् |
उत्तरस्याञ्च वह्नये दत्त्वा च बलिरूपिणे | १८२ ||
गुडौदनं पायसञ्च बलिं निवेद्य साधकः |
ततः सम्पूजयेद् देवीं स्वकल्पोक्तविधानतः || १८३ ||
अस्त्रमन्त्रेण संस्थाप्य शवं तैलहरिद्रया |
उद्वर्त्तनं ततः कृत्वा स्नापयित्वा तु साधकः || १८४ ||
सम्मार्ज्य वाससा तत्र महाप्रेतासनं यजेत् |
जीवन्यासं विधायाथ पाद्यादिभिः प्रपूजयेत् || १८५ ||
मूलेन जुटिकां बद्ध्वा पद्मं पूर्ववदालिखेत् |
आसनं पूर्ववत् क्षिप्त्वा मूलमुच्चार्य साधकः || १८६ ||
अश्वारोहणरूपेण स्थित्वा मन्त्रं जपेत् सुधीः |
अनन्यमानसो भूत्वा जपात् सिद्धिः प्रजायते || १८७ ||
Seite 365 der Vorlage
भीतश्चेत् साधकस्तत्र गुरुपादयुगं स्मरेत् |
गुरुपादप्रसादेन मा हिंसन्ति च हिंसकाः || १८८ ||
इति चित्तं स्थिरीकृत्य जपेन्मन्त्रमनन्यधीः |
देवता यदि वामे वै आगच्छति कदाचन || १८९ ||
सम्भाषणा च कार्या वै न दातव्यं प्रियं वचः |
हूङ्कारिणैव तां कुर्यात् स्वदक्षे साधकोत्तमः || १९० ||
गत्वा च दक्षिणे सापि देहि देहीति भाषिते |
तथापि च बलिं दत्त्वा अशक्तौ मनसाऽथवा || १९१ ||
लब्ध्वाभीष्टं निजं वीरो गुरवे दक्षिणां ददेत् |
शवादिकञ्जले क्षिप्त्वा गृहं गच्छेत् यथासुखम् || १९२ ||
बटमूले शवं नीत्वा तत्र देवीं प्रपूज्य च |
स्नात्वा तत्र मनुं जप्त्वा अयुतं साधकोत्तमः || १९३ ||
सर्वसिद्धीश्वरो वीरो भवेन्नात्र विकल्पनम् |
बिल्वमूले निजक्रोडे शवमारोप्य यत्नतः || १९४ ||
नृसिंहमुद्रया वीक्ष्य जपेन्मातृकया सुधीः |
सहस्रं तत्र जप्त्वा वै सर्वसिद्धीश्वरो भवेत् || १९५ ||
Seite 366 der Vorlage
जानुमध्ये करौ कृत्वा चिबुकोष्ठौ समावृतौ |
हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः || १९६ ||
मुखं विवृतकं कुर्यात् लेलिहानञ्च जिह्वया |
नारसिंही भवेन्मुद्रा सर्वसिद्धिप्रदायिका || १९७ ||
सहस्रं तत्र जप्त्वा वै सर्वसिद्धीश्वरो भवेत् |
कुङ्कुमागुरुकस्तूरीरोचनाघनचन्दनम् || १९८ ||
कर्पूरं पद्मकाष्ठञ्च केशरं हरिचन्दनम् |
एकत्र साधितं कृत्वा प्रत्येकं साधयेन्नरः || १९९ ||
विद्युदग्नियुतं चैव नेत्रान्तं चन्द्रबिन्दुयुक् |
बीजं प्रत्येकं द्रव्याणां मिलितानाञ्च साधकः || २०० ||
मूलमन्त्रं च मन्त्रज्ञो जपेत् साष्टसहस्रकम् |
अस्य तिलकमात्रेण राजानं वशमानयेत् || २०१ ||
जिह्वाग्रे रुधिरं वीर आकाशे स्वयमाहरेत् |
तेनैव गुटिकां कृत्वा तत्र कालीं प्रपूजयेत् || २०२ ||
Seite 367 der Vorlage
नीलां नीलपताकाञ्च लोलजिह्वां कपालिनीम् |
जिह्वाग्रे रुधिरं गृह्ण चामुण्डे घोरनिःस्वने || २०३ ||
बलिं गृह्ण वरं देहि रुधिरं गगनेऽमले |
कालि कालि प्रचण्डोग्रे ततोऽस्त्रं कवचं ततः || २०४ ||
कालिकेति समाख्याता वीराणां हितकाम्यया |
कूर्चयुग्मं तु नीलायाः कथितं मन्त्रमुत्तमम् || २०५ ||
वियद्भृगुरमां चैव बलमिन्द्ररवी रतिः |
चन्द्रखण्डसमीयुक्तं ततो नीलपदं ततः || २०६ ||
पताके हुं फडन्तः स्यात् पूर्वकूटमनुर्मतः |
सन्तप्तेयं महाविद्या कथिता सुरदुर्लभा || २०७ ||
जय श्रीधरणीदेवी पताके वरणस्थले |
तेन नीलपताकेयं संयोज्या नीलसाधने || २०८ ||
श्रीशक्तिस्मरबीजानि तदन्ते हूमिति स्मरेत् |
भृगुं सर्गान्वितं पश्चाद्दीर्घं कवचमुद्धरेत् || २०९ ||
उग्रचण्डे पदं पश्चान्मामन्ते रक्षयुग्मकम् |
मम शत्रुपदस्यान्ते ततो भक्षपदं वदेत् || २१० ||
ह्रीं क्लीं सः इत्यन्ते श्रीशक्तिस्मरबीजानि तदन्ते |
राज्यं मे देहि सम्भाष्य भृगुं सर्गान्वितं वदेत् || २११ ||
क्लींकारञ्च ततो ब्रूयात् कामं मायां रमान्ततः |
एकचत्वारिंशदर्णो मनुः प्रोक्तो ध्रुवादिकः || २१२ ||
Seite 368 der Vorlage
उग्रचण्डा महाविद्या लोलजिह्वेति कीर्त्तिता |
या सा विद्या महातारा सा करालेति कीर्त्तिता || २१३ ||
महातारामन्त्रोद्धारः
प्रणवं पूर्वमुद्धृत्य तारे तु तारे च तथा |
नमः स्वाहेति मन्त्रोऽयं दशाक्षर उदीरितः || २१४ ||
कथिता च महातारा सर्वसिद्धिप्रदायिका |
एभिरामन्त्रितं चैव मूलेनैव सहस्रकम् || २१५ ||
ललाटे तिलकं कृत्वा साधको वीतभीः स्वयम् |
महाष्टमीनवम्योस्तु संयोगे पुरतः स्थितः || २१६ ||
छागमहिषमेषाणां चतुर्दिक्ष शवान् क्षिपेत् |
कबन्धं मुण्डपुञ्जञ्च दीपादिभिरलंकृतम् || २१७ ||
मध्ये कबन्धमास्त्रीर्य तत्र गन्धर्वरूपधृक् |
ताम्बूलपूरवक्त्रञ्च अञ्जनाञ्चितलोचनम् || २१८ ||
कृत्वा तारं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् |
Seite 369 der Vorlage
अथ पूर्वोदिते स्थाने चतुष्पथे विशेषतः || २१९ ||
ऊर्ध्वं द्विवर्षाद्यदि वा पञ्च वा तरुणं यदि |
सप्तमाष्टममासीयं गर्भजं यदि वा शवम् || २२० ||
चाण्डालञ्चाभिभूतं तु शीघ्रसिद्धिफलप्रदम् |
आनीय स्थापयेदादौ न्यासजालं समाचरेत् || २२१ ||
प्रेतमन्त्रं समालिख्य गन्धपुष्पादिभिस्तथा |
अभ्यर्च्य चाऽसनं दत्त्वा रक्षामात्मनि कारयेत् || २२२ ||
शवसाधनेन सर्वसिद्धिः
ततः शवास्ये विधिवद्देवताप्यायनं ततः |
ततो जप्त्वा सर्वमन्त्र सर्वसिद्धीश्वरो भवेत् || २२३ ||
तारं शब्दं मृतकाय नमोऽन्तं मन्त्रमुच्चरन् |
शवस्थापनमन्त्रोऽयं शवासनमनुं ततः || २२४ ||
मूलान्ते भुवनेशी स्यात् फडन्तो मन्त्र ईरितः |
करकाञ्चीं समादाय मुण्डमालाविभूषितः || २२५ ||
तेनैव तिलकं कृत्वा तत्तद्भस्मविभूसितः |
श्मशाने च सकृज्जप्त्वा सर्वसिद्धीश्वरो भवेत् || २२६ ||
मत्स्यमानीय वीरेन्द्रो निःक्षिपेत् पितृकानने |
Seite 370 der Vorlage
तत्र सकृज्जपित्वा तु देवतामेलनं भवेत् || २२७ ||
तत्र नत्वा महादेवं महादेवीञ्च साधकः |
तद्भस्मतिलकं कृत्वा स्वयं वीरेश्वरो भवेत् || २२८ ||
निशायां मृतहट्टे च उन्मत्तानन्दभैरवः |
दिग्वासा विमलो भस्मभूषणो मुक्तकेशकः || २२९ ||
कपाली खड्गहस्तश्च जपेन्मातृकया सुधीः |
तदा तस्य महासिद्धिर्जायते शतजापतः || २३० ||
डाकिनीं योगिनीं वापि अन्यां वा भूतलाङ्गनाम् |
तत्राऽप्यानीय सम्पूज्य गजान्तकसहस्रकम् || २३१ ||
जप्त्वा च साधकश्रेष्ठः सर्वसिद्धीश्वरो भवेत् |
महाशवाः प्रशस्ताः स्युः प्रधानशवसाधने || २३२ ||
क्षुद्राः प्रयोगकर्तॄणां प्रशस्ताः सर्वसिद्धिदाः |
सर्वेषां जीवहीनानां जन्तूनां नीलसाधने || २३३ ||
ब्राह्मणं गोमयं त्यक्त्वा साधयेद्वीरसाधनम् |
एवं नीलक्रमं चैव कथितञ्च शुभावहम् || २३४ ||
Seite 371 der Vorlage
न कस्मैचित्प्रवक्तव्यं मन्त्रसिद्धेश्च कारणम् |
कुजे वा शनिवारे वा नरमुण्डं समाहितः || २३५ ||
पञ्चगव्येन मिलितं चन्दनाद्यैर्विलेपितम् |
निःक्षिप्य भूमौ हस्तार्धमानतः काननान्तरे || २३६ ||
तत्र तद्दिवसे रात्रौ सहस्रं यदि मानवः |
एकाकी प्रजपेन्मन्त्रं स भवेत् कल्पपादपः || २३७ ||
शवमानीय तद्द्वारि तत्रैव परिखन्य च |
तद्दिनात्तद्दिनं यावत्तावदष्टोत्तरं शतम् || २३८ ||
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा |
अथवा विजनेऽरण्येऽस्थिशययासनो नरः || २३९ ||
उदयास्तं दिवा जप्त्वा सर्वसिद्धीश्वरो भवेत् |
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि || २४० ||
सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् |
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् || २४१ ||
चन्द्रसूर्यग्रहणे पुरश्चरणविधानम्
ग्रहणे चन्द्रसूर्यस्य शुचिःपूर्वमुपोषितः |
नद्यां समुद्रगामिन्यां नाभिमावस्थितेऽम्भसि || २४२ ||
Seite 372 der Vorlage
यद्वा शुद्धोदके स्नात्वा शुचौ देशे समाहितः |
ग्रासाद्विमुक्तिपर्यन्तं जपं कुर्यादनन्यधीः || २४३ ||
अनन्तरं दशांशेन क्रमाद्धोमादिकञ्चरेत् |
तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् || २४४ ||
ततश्च मन्त्रसिद्धं तु गुरुं सम्पूज्य तोषयेत् |
सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते || २४५ ||
तत्र यद्यत् कृतं कर्म अनन्तफलदं भवेत् |
शरत्काले चतुर्थ्यादि नवम्यन्तं विशेषतः || २४६ ||
भक्तितः पूजयित्वा च रात्रौ तावत् सहस्रकम् |
जपेदेकाकी विजने केवलं तिमिरालये || २४७ ||
अष्टम्यादि नवम्यन्तमुपवासपरो भवेत् |
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा || २४८ ||
अष्टमीसन्धिवेलायामष्टोत्तरलतागृहम् |
प्रविश्य मन्त्री विधिवत्ताः समभ्यर्च्य यत्नतः || २४९ ||
स्वकल्पोक्तविधानेन पूजयित्वा च साधकः |
केवलं कामभावेन जपेदष्टोत्तरं शतम् || २५० ||
तासाञ्च पत्रमूलेन उल्कां संगृह्य कर्णके |
Seite 373 der Vorlage
महासिद्धिर्भवेत् सद्यो लतादर्शनपूजनात् || २५१ ||
कुलाष्टकं लतागारे लिखित्वा यन्त्रमेव च |
प्रपूज्य तत्र संस्कारं कृत्वा तस्यै निवेदयेत् || २५२ ||
किञ्चिज्जप्त्वा मनुं नीत्वा देवताभावनापरः |
तां विसृज्य नमस्कृत्य स्वयं जप्त्वा सुसंयतः || २५३ ||
प्रीतः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्न संशयः |
अथवा गुरुमानीय देवभावेन पूजयेत् || २५४ ||
वस्त्रालङ्कारहेमाद्यैः सन्तोष्य गुरुमेव च |
तत्सुतं तत्सुतां चैव पत्नीं चैव विशेषतः || २५५ ||
पूजयित्वा मनुं जप्त्वा स्वयं सिद्धीश्वरो भवेत् |
सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च || २५६ ||
केवलं देवताबुद्ध्या जप्त्वा सिद्धीश्वरो भवेत् |
गुरवे दक्षिणां दद्याद्यथाविभवविस्तरैः || २५७ ||
गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिध्यति |
Seite 374 der Vorlage
गुरुं विलङ्घ्य शास्त्रेऽस्मिन्नाऽधिकारी सुरोऽपि च || २५८ ||
एषाञ्च मन्त्रहीनानां प्रयोगः क्रियते यदि |
गुरुवक्त्रं विना चैव सिद्धि हानिः प्रजायते || २५९ ||
एतत्तन्त्रञ्च मन्त्रञ्च पुत्रेभ्योऽपि न दर्शयेत् |
अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || २६० ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये चतुर्दशोल्लासः || १४ ||
पञ्चदश उल्लासः
कुमारीपूजननिरूपणम्
अथ वक्ष्ये कुमारीणां पूजां तन्त्रविधानतः |
होमादिकं हि विफलं कुमारीपूजनं विना || १ ||
तद्विहीनं होमादिकं निष्फलम्
परिपूर्णफलं नैव जीवहीनं यथा वपुः |
यथा यथा देवताया पूजनं वा यथागुरोः || २ ||
तथैव हि कुलीनानां कुमार्याः पूजनं भवेत् |
यथाशक्त्या हि वितरेत् कुमार्यै यद्यदीप्सितम् || ३ ||
अशक्यं शक्यमेवं हि दानाभावे फलात्ययः |
पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं मतम् || ४ ||
दत्तमन्यच्च यत्किञ्चिद् भक्ष्यभोज्यादिकं तथा |
अल्पमप्यथवा मन्त्रहीनं बहुगुणं भवेत् || ५ ||
Seite 376 der Vorlage
कुमारीपूजाफलम्
कुमारीपूजनाच्चैव कुमारीभोजनादपि |
कुमारीवन्दनादेव कुमारीसदृशो भवेत् || ६ ||
कुमार्यङ्गे सर्वदेवतास्थितिः
कुमारिका भवेत् देवी शिवोऽपि च कुमारिका |
कुमारी योगिनी साक्षात् कुमारी सर्वदेवता || ७ ||
तस्याः पूजनमात्रेण त्रैलोक्यपूजनं भवेत् |
सुकुमारी महादेवी त्रिधा मूर्त्तिर्व्यवस्थिता || ८ ||
परा चैवाऽपरा चैव तृतीया च परापरा |
यत्र काले न किञ्चित् स्याद् देवासुरमहोरगाः || ९ ||
त्रैलोक्यं लयमानञ्च तदा जाता कुमारिका |
आद्यसृष्टेश्च या शक्तिः प्रत्यक्षा सा तु तत्त्रिधा || १० ||
तिलतिला तु सा जाता सृष्टिरूपा भवार्णवे |
भूर्भुवोमूर्त्तिरूपा सा एका पूज्या कुमारिका || ११ ||
एकीकृत्य त्रिभिश्चैव सप्ताष्टनवधा पुनः |
नित्यक्रमेण देवेशि पूजयेद्विधिपूर्वकम् || १२ ||
Seite 377 der Vorlage
अष्टोत्तरं शतं वापि एकां कन्यां प्रपूजयेत् |
पूजिताः प्रतिगृह्यन्ते निर्गच्छन्त्यवमानिताः || १३ ||
कुमारीपूज्नेन सर्वदेव सन्तुष्टिः
असुराश्च तथा नागा ये च दुष्टग्रहा अपि |
भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः || १४ ||
क्रूराश्च देवताः सर्वे भूर्भुवश्चैव भैरवाः |
पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् || १५ ||
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् || १६ ||
कुमारी पूजनाच्चैव कोटिपूजाफलं लभेत् |
घ्नन्ति विघ्नान् पूजितास्तास्तथा शत्रुं महोत्कटम् || १७ ||
व्याधयः सर्वरिष्टानि पलायन्ते न संशयः |
ग्रहा यक्षाः क्षयं यान्ति भूतवेतालपन्नगाः || १८ ||
असुरा गुह्यकाः प्रेता योगिनी गुह्यडाकिनी |
महाभयानि दुर्भिक्षमुत्पातानि सहस्रशः || १९ ||
दुःस्वप्नमपमृत्युश्च अन्ये ये ये समुद्भवाः |
कुमारी पूजनादेव न तस्य प्रभवन्ति च || २० ||
Seite 378 der Vorlage
अणिमादीनि सिद्धानि पातालगुटिकाञ्जनाः |
चतुष्कं दिव्यवेतालं भवेत् कुमारिकार्चनात् || २१ ||
कुमारीलक्षणम्
लक्षणं यजनं तासां वक्ष्येऽहं तन्त्रवर्त्मना |
द्वितीयवत्सरादूर्ध्वं यावत् स्यादष्टमाब्दिकम् || २२ ||
तावत् कुमारी विज्ञेया मन्त्रतन्त्रफलप्रदा |
अथवा षोडशाब्दान्तं यावत् पुष्पं न जायते || २३ ||
ताम्यः पुष्पफलं वापि गन्धचन्दनपायसम् |
बालप्रियञ्च नैवेद्यं बलाभावविचेष्टितम् || २४ ||
ताभिः प्रियकरालापैस्तोषयेत् साधकोत्तमः |
वयोभेदेन कुमारीणां नामभेदः
एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती || २५ ||
त्रिवर्षा च त्रिधामूर्त्तिश्चतुर्वर्षा च कालिका |
सुभगा पञ्चवर्षा च षड्वर्षा च उमा भवेत् || २६ ||
सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका |
नवभिः कालसङ्कर्षा दशभिश्चापराजिता || २७ ||
एकादशे तु रुद्राणी द्वादशाब्दा तु भैरवी |
त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका || २८ ||
क्षत्रज्ञा पञ्चदशभिः षोडशे वाचिका मता |
एवं क्रमेण पूज्या तु यावत् पुष्पं न विद्यते || २९ ||
Seite 379 der Vorlage
प्रशस्तदिवसकथनम्
प्रतिपदादिदर्शान्तं वृद्धिभेदेन पूजयेत् |
महापर्वसु सर्वेषु विशेषश्च पवित्रके || ३० ||
महानवम्यां वीरेन्द्रः कुमारीः सम्प्रपूजयेत् |
पिङ्गलां पूजयेद्यस्तु षोडशैश्चैव भक्तिमान् || ३१ ||
पूजयित्वा भक्तिभावे सर्वसम्पत्तिमालभेत् |
पूजयेत् कुलविद्याञ्च चैकां बालकभैरवीम् || ३२ ||
कुमारीपूजनमन्त्र कथनम्
एवं प्रणवयोगेन चैतन्यतनुमर्चयेत् |
वाणी माया तथा लक्ष्मीर्माया कूर्चद्वयन्ततः || ३३ ||
एते च प्रणवा ज्ञेयाः कुमार्याः परिपूजने |
एकादशस्वरेणाऽढ्यो भृगुविन्द्विन्द संयुतः || ३४ ||
चैतन्यबीजं कथितं साधकानां समृद्धिदम् |
Seite 380 der Vorlage
एवं द्वाभ्यां त्रिभिश्चैव सप्तधा नवधा पुनः || ३५ ||
नित्यक्रमेण नियतं पूजयेद्विधिपूर्वकम् |
वाग्भवेन जलं देयं मायया पादशौचकम् || ३६ ||
लक्ष्म्या चार्घं प्रदद्यात्तु कूर्चबीजेन चन्दनम् |
शक्तिबीजेन पुष्पाणि धूपं षष्ठेन दापयेत् || ३७ ||
वाग्भवेन पुरक्षेमो मायया च गुणाष्टकम् |
श्रींबीजेन श्रियो लाभो ह्रींबीजेनाऽरिसङ्क्षयः || ३८ ||
भैरवेण तु बीजेन खङ्गत्वमनुगच्छति |
न्यासादिकं प्रकुर्वीत आदौ स्वीयक्रमेण तु || ३९ ||
कुमार्यङ्गे विशेषन्यासः
कुमार्यङ्गे ततः पश्चाद्विशेषन्यासमुत्तमम् |
विशेषन्यासस्य मन्त्राः
ऐं क्लीं श्रीं क्लौं ह्सौः कुलकुमारिके हृदयाय नमः || ४० ||
ऐं हैं ह्रीं श्रीं क्लां एं स्वाहा शिरसे स्वाहा |
ऐं क्लीं सैं शिखायै वषट् || ४१ ||
ऐं कुलवागीश्वरवागीश्वरि कवचाय हुं |
क्लीं अस्त्राय फट् |
ऐं सिद्धि जयाय पूर्ववक्त्राय नमः || ४२ ||
ऐं जयाय उत्तरवक्त्राय नमः |
ऐं क्लीं श्रीं कुब्जिके पश्चिमवक्त्राय नमः |
क्रं कालिके दक्षिणवक्त्राय नमः || ४३ ||
वर्णन्यासं षडङ्गञ्च कुमार्यङ्गे प्रविन्यसेत् |
अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् || ४४ ||
Seite 381 der Vorlage
पाद्यमर्घ्यं पुनर्धूपं कुङ्कुमं चन्दनादिकम् |
भक्तिभावेन सम्पूज्य तस्यै सर्वं निवेदयेत् || ४५ ||
तरुणोल्लासवान् भूत्वा स्वयमच्युतमानसः |
बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् || ४६ ||
यथाशक्ति जपेत् पश्चादष्टोत्तरशतादिकम् |
प्रदक्षिणत्रयं कुर्यादादिमध्ये शुभं भवेत् || ४७ ||
ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत् |
पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः || ४८ ||
कुमारीपूजनफलम्
कुमारी पूजनाच्चैव कोटिपूजाफलं लभेत् |
कुमारीपूजने चैव जातिमात्रं न चिन्तयेत् || ४९ ||
Seite 382 der Vorlage
अशेषकुलसम्पन्ना नाजातिसमुद्भवाः |
नानादोषोद्भवा वापि गुणलावण्यसंयुताः || ५० ||
सर्वथैव कुलीनानां पूज्यास्ताः शुभदायिकाः
यथायथा तत्प्रियकृत् सर्वसिद्धीश्वरो भवेत् || ५१ ||
महाभये समुत्पन्ने कन्यकाञ्च प्रपूजयेत् |
तत्क्षणाल्लभते मोक्षं सत्यं सत्यं न संशयः || ५२ ||
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् || ५३ ||
विवाहयेत् स्वयं कन्यां ब्रह्महत्यादि नश्यति |
गोहत्यां स्त्रीवधं चैव सर्वपापं प्रणश्यति || ५४ ||
मातरः पितरश्चैव भ्रातरश्चैव सर्वतः |
ये तु ये तु पुन सर्वे कन्यादानं प्रकल्पयेत् || ५५ ||
भुक्तिमुक्तिफलं तेषां सौभाग्यं सर्वसम्पदः |
रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरिः || ५६ ||
Seite 383 der Vorlage
षष्टिकोटिसहस्राणां चाश्वमेधफलं लभेत् |
कुमारीकल्पमाख्यातं अथवाऽन्यतमञ्चरेत् || ५७ ||
बटुकपूजनम्
सन्ध्यादिनवकन्याञ्च समानीय प्रपूज्य च |
पूर्ववद्विधिवद्वीरो नव बालकमानयेत् || ५८ ||
प्रशस्तकालनिर्णयः
बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् |
गन्धपुष्पाक्षताकल्पैर्यथाविभवविस्तरैः || ५९ ||
अभ्यर्च्य देवता बुद्ध्या पदार्थैः परितोषयेत् |
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवर्जितः || ६० ||
नवरात्रं येदेकोत्तरवृद्ध्या क्रमेण तु |
नवरात्रकृतां पूजां महादेव्यै समर्पयेत् || ६१ ||
ताम्बूलं दक्षिणां दत्त्वा कुमारीस्तान् विसर्जयेत् |
एवं नवकुमारीणामर्चनं प्रतिवत्सरम् || ६२ ||
यः करोति हि पुण्यात्मा देवताप्रीतिमाप्नुयात् |
मनोऽभिलषितं प्राप्य निवसेत्तवसन्निधौ || ६३ ||
Seite 384 der Vorlage
शक्तिपूजा
अथवा यौवनारूढाः प्रमदा नव शोभनाः |
पूजयेद्विधिवद्भक्त्या नव रात्रिषु मन्त्रवित् || ६४ ||
हृल्लेखां गगनां रक्तां महोत्सुकां करालिकाम् |
इच्छां ज्ञानां क्रियां दुर्गां वटुकञ्च गणेश्वरम् || ६५ ||
पूर्ववत् पूजनाद्यैश्च पदार्थैः परितोषयेत् |
प्रौढोल्लासेन संयुक्ताः सन्तुष्टा यदि चेत् तदा || ६६ ||
साधकस्तीर्थमासाद्य निवसेच्छिवसन्निधौ |
एवं यः पूजयेद् देवीं प्रतिवर्षं यतिव्रतः || ६७ ||
षण्मासे वा त्रिमासे वा मासे मासेऽथवा बुधः |
तिस्रो वा पञ्च वा सप्त पूजयेद् देवताधिया || ६८ ||
सर्वैश्वर्यसमृद्ध्यात्मा स भवेच्छिवयोः प्रियः |
अथवाऽन्यप्रकारेण कथ्यते मिथुनार्चनम् || ६९ ||
मिथुनार्चनविधानम्
तुलायां वापि मेषे वा सर्वसंक्रान्तिषु भृशम् |
गौरीशिवो रमाविष्णू वाणीसरसिजासनौ || ७० ||
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी |
भद्रकालीवीरभद्रौ भैरवीभैरवावपि || ७१ ||
समानीय प्रयत्नेन पूजयेत् पूर्ववर्त्मना |
त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानतः || ७२ ||
वाग्बीजं शक्तिबीजञ्च श्रीबीजञ्च त्रितारकम् |
Seite 385 der Vorlage
गन्धपुष्पादिभिः पूज्य तत्त्वाद्यैः परितोषयेत् || ७३ ||
प्रौढोल्लासेन युक्तानि कुर्वीत मिथुनानि च |
एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः || ७४ ||
अनुगृह्णन्ति तं देवाः प्रयच्छन्ति मनोरथम् |
प्रतिवर्षं तु यः कुर्याद् भक्त्या च मिथुनार्चनम् || ७५ ||
शिवलोकेषु निवसेत् सर्वैश्वर्यसमन्वितः |
भृगुवारे यजेद्यत्नात् कान्तामारूढयौवनाम् || ७६ ||
सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम् |
कुलाकुलाष्टमां चैवा आमन्त्रयाऽहूयपुष्पिणीम् || ७७ ||
अभ्यङ्गस्नानशुद्धाङ्गीं स्वासने चोपवेशयेत् |
आत्मानं गन्धपुष्पाद्यैरलंकुर्यात् सुसाधकः || ७८ ||
आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण हि |
कृत्वा क्रमार्चनं धूपदीपञ्च कुलदीपकम् || ७९ ||
प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः |
मांसादिभक्ष्यभोज्याद्यैस्तोषयेद् भक्तिभावतः || ८० ||
प्रौढोल्लासेन सहितां पश्यंश्च प्रजपेन्मनुम् |
यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः || ८१ ||
Seite 386 der Vorlage
निर्विकारेण चित्तेन अष्टोत्तरसहस्रकम् |
जपादिकं समाप्याथ तया सह निशां नयेत् || ८२ ||
त्रिसप्तपञ्चनवसु भृगुवारेषु यः सदा |
पूजयेद्विधिना चैव तस्य पुण्यं न गण्यते || ८३ ||
चतुःपीठार्चनफलं स प्राप्नोति सुनिश्चितम् |
अथान्यं सम्प्रवक्ष्यामि समयाचारमुत्तमम् || ८४ ||
समयाचारकथनम्
येन हीना न सिध्यन्ति मन्त्राः कोटिसहस्रशः |
मानवः कुलशास्त्राणां कुलचर्यानुसारिणाम् || ८५ ||
उदारचित्तः सर्वत्र वैष्णवाचारतत्परः |
परनिन्दासहिष्णुः स्यादुपकाररतः सदा || ८६ ||
पर्वते विपिने चैव निर्जने शून्यमण्डले |
चतुष्पथे कलाशून्ये यदि दैवाद्गतिर्भवेत् || ८७ ||
क्षणं ध्यात्वा मनुं जप्त्वानत्वा गच्छेद्यथासुखम् |
गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादलक्षितम् || ८८ ||
Seite 387 der Vorlage
गृध्रादिनमस्कारमन्त्राः
क्षेमङ्करीं तथा वीक्ष्य जम्बूकीं यमदूतिकाम् |
कुररं द्रोणकाकं तु कृष्णमार्जारमेव च || ८९ ||
कृष्णसारं तथा व्याघ्रं खड्गिनं सिंहमेव च |
कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये || ९० ||
कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये |
श्मशाने च शिवां दृष्ट्वा प्रदक्षिणमनुव्रजन् || ९१ ||
प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात् |
घोरदंष्ट्रे कठोराक्षि किटिशब्दनिनादिनि || ९२ ||
घोरघोररवास्फाले नमस्ते चितिवासिनि |
रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुराम्बिकाम् || ९३ ||
प्रणम्य दण्डवद्भूमाविमं मन्त्रमुदीरयेत् |
बन्धूकपुष्पसङ्काशे त्रिपुरे भयनाशिनि || ९४ ||
भाग्योदये समुत्पन्ने नमस्ते वरवर्णिनि |
कृष्णवस्त्रं तथा पुष्पं राजानं राजपुत्रकम् || ९५ ||
हस्त्यश्वरथशस्त्राणि फलकान् वीरपुरुषान् |
महिषं कुलदेवञ्च दृष्ट्वा महिषमर्दिनीम् || ९६ ||
प्रणम्य जयदुर्गांवा स च विघ्नैर्न लिप्यते |
जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते || ९७ ||
भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तु ते |
Seite 388 der Vorlage
मद्यभाण्डं समालोक्य मत्स्यं मांसं वरस्त्रियम् || ९८ ||
दृष्ट्वा च भैरवीं देवीं प्रणम्यविमृशेन्मनुम् |
घोरविघ्नविनाशाय कुलाचारसमृद्धये || ९९ ||
नमामि वरदे देवि मुण्डमालाविभूषिते |
रक्तधारासमाकीर्णवदने त्वां नमाम्यहम् || १०० ||
सर्वविघ्नहरे देवि नमस्ते हरवल्लभे |
एतेषां दर्शने चैव यदि नैवं प्रकुर्वते || १०१ ||
शक्तिमन्त्रं पुरस्कृत्य तेषां सिद्धिर्न जायते |
एतेषां मारणोच्चाटहिंसनं वा भयादिभिः || १०२ ||
क्रियते यदि पापात्मा देवीभक्तः कथं भवेत् |
प्रधानांशसमुद्भूता एते कुलजनाः प्रिये || १०३ ||
डाकिन्यश्च तथा सर्वा देव्यंशा योषितो यतः |
लब्धसिद्धिसमायोगात् डाकिनीहिंसनं यदि || १०४ ||
अथवा मानवानाञ्च मद्भक्तानां विशेषतः |
बटुकानां भैरवाणां तस्य सिद्धिर्न जायते || १०५ ||
कामुकीं प्रतिवीरसाधककर्तव्यम्
ग्रामे वा नगरे वापि हट्टे वा चत्वरेऽपि च |
यं दृष्ट्वा युवती नारी कलाकुशलसंयुता || १०६ ||
भावैकभिन्नहृदया वक्रं दृष्ट्याऽवलोकते |
उत्क्षिप्य भुजमूलस्य वाससं क्षिप्यते यदि || १०७ ||
चेलाञ्चलपरीवर्तदर्शिता जघनाञ्चला |
कण्डूयभावव्याजेन शिथिलीकृतवाससा || १०८ ||
दर्शितस्तनपर्यन्तभूभागा पुनरावृता |
स्खलत् पादयुगात् पादं पतिता पुनरुत्थिता || १०९ ||
सखीभिर्व्याजमासाद्य कर्णाकर्णी मनोहरम् |
इत्यादिभावभावितां दृष्ट्वा साधकसत्तमः || ११० ||
तस्या निजमनोहारि सविशेषं निधाय च |
तत्र स्थित्वा पुनः क्षोभं कुर्यात् काम वापरः || १११ ||
वृद्धां वा युवतीं वापि बालां वा सुन्दरीं तथा |
विदग्धां वा महाभ्रष्टां कुत्सितां वापि हीनजाम् || ११२ ||
भावैकभिन्नहृदयां ज्ञात्वा वीरवरोत्तमः |
सम्भोगेन विनोपेक्षां न कुर्याच्च कदाचन || ११३ ||
आलस्येन भयेनापि अशक्त्या वा यदि त्यजेत् |
क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् || ११४ ||
मृते च नरकं गत्वा नानाक्लेशयुतो भवेत् |
निष्कृतिर्नास्ति तस्यैव यावदाचन्द्रतारकम् || ११५ ||
Seite 390 der Vorlage
फलं पुष्पञ्च ताम्बूलं अन्नपानादिकञ्च यत् |
महादेव्यै विना दत्त्वा न भोक्तव्यं कदाचन || ११६ ||
पतिव्रतायां भार्यायां तथैव ऋतुसङ्गमे |
नमस्कुर्यात् प्रयत्नेन चण्डिकां साधकोत्तमः || ११७ ||
शान्तिकं पौष्टिकं वापि तथेष्टापूर्त्तकर्मणि |
यदा कुर्यात्तदा नत्वा देवीं यात्रां समाचरेत् || ११८ ||
तौर्यत्रिकं यदा पश्येद्देवानां गीतमेव वा |
तत्र देव्यै निवेद्यैव कर्त्तव्यञ्च प्रपूजनम् || ११९ ||
व्यायामे यदि वा देवसभायां वापि पर्वते |
वने वा दुर्गमेवापि यदि गच्छति साधकः || १२० ||
तत्र स्थित्वा महादेवीं प्रणमेद् भक्तिभावतः |
तर्पणादौ प्रकुर्वीत तृप्यतां ब्रह्मभैरव || १२१ ||
आवाहने स्वपितॄन् वै भैरवानिति कीर्त्तयेत् |
तृप्यतां भैरवी माता पिता भैरव तृप्यताम् || १२२ ||
आदौ च त्रिपुरापूर्वां तर्पणे भैरवीं यजेत् |
ज्योतिष्टोमाश्वमेधादौ यत्र यं यं प्रपूजयेत् || १२३ ||
Seite 391 der Vorlage
प्रणम्य शिरसा धीरो भैरवीं चिन्तयेद्धिया |
स्त्रियो दृष्ट्वा तथैकत्र युवत्यतिमनोहराः || १२४ ||
ताभ्यस्त्रिपुरभैरव्याः प्रीतये चन्दनादिकम् |
दद्यात्तत्तत्प्रियं द्रव्यं मनसा चिन्त्य चण्डिकाम् || १२५ ||
त्रिपुरार्घ्यदानमन्त्रः
भैरवी प्रतिगृह्णाति भैरवोऽहं प्रतिग्रहे |
कन्याया भाषणे श्रीमत्त्रिपुरायाः प्रपूजनम् || १२६ ||
भैरवाय ददाम्यर्घ्यं देवीं त्रिपुरभैरवीम् |
एवं वदेत् प्रदाने तु कन्यकायाः प्रपूजने || १२७ ||
कथितः समयाचारः साधकस्य सुसिद्धये |
अत्राऽशक्तो भवेद्यस्तु तस्यार्थं लिख्यते स्तवः || १२८ ||
त्रिपुरास्तोत्रम् तस्याः नव नामानि
त्रिपुरा त्रिपुरेशी च सुन्दरी पुरवासिनी |
श्रीर्मालिनी च सिद्धाऽम्बा महात्रिपुरसुन्दरी || १२९ ||
गुप्तगुप्ततरादिभेदेन योगिनीभेदः
प्रकटाश्च तथागुप्तास्तथा गुप्ततराः पराः |
सम्प्रदायाः कुलं कौला रहस्यातिरहस्यगाः || १३० ||
परापररहस्या च तथा कामेश्वरी शुभा |
Seite 392 der Vorlage
भगमालादि महाविद्या नामकथनम्
भगमाला नित्यक्लिन्ना भेरुण्डा वह्निवासिनी || १३१ ||
महाव्रजेश्वरी दूती त्वरिता कुलसुन्दरी |
नित्या नीलपताका च विजया सर्वमङ्गला || १३२ ||
ज्वालांशुमालिनी चित्रा वशिनी शुभगा तथा |
पूर्णाख्या च तथा ज्ञेया कामेशी मोदिनी तथा || १३३ ||
विमला चाऽरुणा देवी जयिनी कुलभैरवी |
सर्वेश्वरी तथा कौली वागीशी सर्वकामिनी || १३४ ||
सिद्धेश्वरी तथा चोग्रा दुर्गा महिषमर्दिनी |
स्वप्नावती शूलिनी च मातङ्गी सुरसुन्दरी || १३५ ||
महाकाली महोग्रा च चित्ररूपा महोदरी |
प्राणविद्या तथैकाक्षी चैकपादा महाङ्कुशा || १३६ ||
वामा शिव तथा ज्येष्ठा सुरूपा चारुभाषिणी |
त्रिखण्डा त्रिशिरा शौरी गौरी विन्ध्यनिवासिनी || १३७ ||
विभुर्जाया मधुमती तथा नीलसरस्वती |
काली कुण्डमयी कुण्डरूपिणी बन्धुरूपिणी || १३८ ||
बाला पूर्णा महादेवी नीललक्ष्मीति कथ्यते |
क्षोभिणी नादिनी भद्रा ललिता बहुरूपिका || १३९ ||
सर्वसम्पत्करी तारा भवानी विश्ववासिनी |
त्रोटेश्वरी महाविद्याः कथितास्तव भैरव || १४० ||
Seite 393 der Vorlage
त्रिपुरोपासकनामस्तोत्रम्
उपासकान् महादेव शृणुष्वैकमनाः स्वयम् |
मनुश्चन्द्रः कुबेरश्च मन्मथस्तदनन्तरम् || १४१ ||
लोपामुद्रा मुनिर्नन्दी शक्रः सुन्दः शिवस्तथा |
क्रोधभट्टारकश्चैव पञ्चमी च प्रकीर्त्तिता || १४२ ||
दुर्वासा व्याससूर्यौ च वशिष्ठश्च पराशरः |
और्वो वह्निर्यमश्चैव नैर्-ऋतो वरुणस्तथा || १४३ ||
वायुर्विष्णुः स्वयम्भूश्च भैरवो गणकस्तथा |
अनिरोद्धो भरद्वाजो दक्षिणामूर्त्तिरेव च || १४४ ||
गणपः कुलपश्चैव वाणी गङ्गा सरस्वती |
धात्री शेषः प्रमत्तश्च उन्मत्तः कुलभैरवः || १४५ ||
क्षेत्रपालो हनूमांश्च दक्षो गरुड एव च |
प्रह्लादः शुकदेवश्च रामो रावण एव च || १४६ ||
काश्यपः कुम्भकर्णश्च जमदग्निर्भृगुस्तथा |
बृहस्पतिर्यदुश्रेष्ठो दत्तात्रेयो युधिष्ठिरः || १४७ ||
अर्जुनो भीमसेनश्च द्रोणाचार्यो वृषाकपिः |
दुर्योधनस्तथा कुन्ती सीता च रुक्मिणी तथा || १४८ ||
सत्यभामा द्रौपदी च उर्वशी च तिलोत्तमा |
पुष्पदन्तो महाबुद्धो बाणः कालश्च मन्दरः || १४९ ||
कैलासः क्षीरसिन्धुश्च उदधिर्हिमवांस्तथा |
नारदो भीष्मकर्णौ च मेरुश्चारुण एव च || १५० ||
जनकश्च तथा कौत्सः कथिता ब्रह्मसाधकाः |
महाविद्याप्रसादेन स्वस्वकर्म समन्विताः || १५१ ||
Seite 394 der Vorlage
एतेषां शुभनामानि नित्याविद्योपसेविनाम् |
प्रातःकाले शुचिर्भूत्वा यः पठेत् प्रयतात्मना || १५२ ||
पूजयेद् वा शुचिर्भूत्वा प्रसीदामि कुलप्रिये |
अशुचिर्वा निरालम्बो सालम्बो वा कुलान्तिके || १५३ ||
नित्यपूजाफलं तस्य ददामि वरमीप्सितम् |
चक्रसङ्केतकं चैव गुरुसङ्केतकं तथा || १५४ ||
मन्त्रसङ्केतकं चैव नामसङ्केतकं तथा |
समयाचारसङ्केतमकृत्वा योऽत्र वर्त्तते || १५५ ||
जपपूजार्चनं होमोऽभिचाराय प्रकल्पते |
एवं स्तोत्रं पठित्वा तु सङ्केतमानयेद् ध्रुवम् || १५६ ||
नैमित्तिकार्चन विधानम्
अथ वक्ष्यामि शाक्तानां नैमित्तार्चनमुत्तमम् |
अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि || १५७ ||
ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च |
मनोज्ञे रहसि स्थाने पूर्वाभिमुखमास्थितः || १५८ ||
आत्मानं गन्धपुष्पाद्यैरलंकृत्य विधानतः |
कृत्वा पुरोदितान् न्यासान् देवताभावमास्थितः || १५९ ||
Seite 395 der Vorlage
मत्स्यमांसादिविधिवद् भक्ष्यभोज्यसमन्वितम् |
अर्घ्यं निवेद्य तच्छेषं शक्त्या सह पिबेत्ततः || १६० ||
यौवनोल्लाससहितो निर्विकल्पेन चेतसा |
ध्यायंस्तन्मण्डले देवीमष्टोत्तरसहस्रकम् || १६१ ||
जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् |
तत्र कालादि निर्णयः
एवं शुक्लप्रतिपदं समारभ्य दिने दिने || १६२ ||
कुर्याज्जपार्चनं कृष्णचतुर्दश्यन्तमम्बिके |
अमावस्यादिने धीरः पूजयेद् भक्तकौलिकान् || १६३ ||
त्रि सप्त नव पञ्च वा वित्तशाठ्यविवर्जितः |
एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् || १६४ ||
देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् |
यत्किञ्चिदुदिते सूर्ये मण्डले स्वेष्टदेवताम् || १६५ ||
ध्यात्वा सावरणां सम्यक् प्रजपेत्तु विधानतः |
षोडशैरुपचारैस्तु चक्रपूजापुरःसरम् || १६६ ||
कुलदीपान् प्रदर्श्याऽथ साधको भावतत्परः |
मध्याह्ने पूजयेद्वापि सायाह्ने वापि पूजयेत् || १६७ ||
स तत्फलमवाप्नोति योगिनीनां प्रियो भवेत् |
काङ्क्षितां लभते सिद्धिं देववद्विचरेद्भुवि || १६८ ||
Seite 396 der Vorlage
शुक्लपक्षार्चनविधानम्
माघशुक्लप्रतिपदि दिवावसानके बुधः |
स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च || १६९ ||
सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः |
यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् || १७० ||
देवीं सम्पूज्य विधिवच्चन्द्रमण्डलवासिनीम् |
चन्द्रास्तोदयपर्यन्तं जपेन्मन्त्रमनन्यधीः || १७१ ||
एवं प्रतिदिनं शुक्लचतुर्दश्यन्तमर्चयेत् |
पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् || १७२ ||
एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं सदा |
सर्वपापविशुद्धात्मा सर्वैश्वर्यसमन्वितः || १७३ ||
सर्वलोकैकसम्पूज्यः शिववद्विचरेद्भुवि |
शुक्लपक्षार्चनं यद्वत्तद्वत् पक्षे सितेतरे || १७४ ||
यः करोति विधानेन सर्वान् कामान् समश्नुते |
इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः || १७५ ||
योगिनीवीरमिलनं लभते नात्र संशयः |
Seite 397 der Vorlage
कृष्णपक्षार्चनम्
अथ कार्त्तिकमासस्य शुक्लप्रतिपदि ध्रुवम् || १७६ ||
स्नात्वाऽचम्य च शुद्धात्मा न्यासान् कृत्वा पुरोदितान् |
प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि || १७७ ||
सूर्यार्चनोक्तविधिना सर्वद्रव्यसमन्वितः |
आज्येनानामिकाङ्गुष्ठे वर्त्तिं प्रज्वाल्य साधकः || १७८ ||
पञ्चवर्णरजश्चित्रे वसुपत्रसरोरुहे |
मधुसम्पूर्णकलसे कांस्यपात्रे मनोहरे || १७९ ||
दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः |
दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् || १८० ||
यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् |
अष्टोत्तरसहस्रं तु जपेन्मन्त्रमनन्यधीः || १८१ ||
एवं समर्चयेत् कृष्णचतुर्दश्यन्तमम्बिके |
अमावस्यादिने शक्त्या पूजयेत् शक्तिकौलिकान् || १८२ ||
एवं कृते महादेवी प्रीता भवति सर्वदा
Seite 398 der Vorlage
सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः || १८३ ||
सर्वलोकैकसम्मान्यः सञ्चरेच्च यथासुखम् |
अष्टाष्टकार्चनं कुर्याच्छक्तश्चेदेकवासरे || १८४ ||
अष्टाष्टकार्चनम्
अथवाऽष्टदिनेष्वेवाथवा द्व्यष्टदिनेषु वा |
द्वात्रिंशद्दिवसेष्वेव चतुःषष्टिदिनेषु वा || १८५ ||
गुरुणा कारयेदेतत् क्रमज्ञेनाऽपरेण वा |
क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवर्जितः || १८६ ||
मूलाष्टकं तु ब्राह्म्याद्यश्चासिताङ्गादिभैरवाः |
मङ्गलाद्यैश्च निपुणैरष्टभिः शक्तिभिस्तथा || १८७ ||
मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे |
अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् || १८८ ||
पूर्वोक्तेन विधानेअ यथा विभवमर्चयेत् |
क्रमलोपं न कुर्वीत स्वेष्टकायार्थसिद्धये || १८९ ||
गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः |
भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः || १९० ||
सम्यक् सन्तोषयेत्तानि मिथुनान्यतिभक्तितः |
प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रपूजनम् || १९१ ||
Seite 399 der Vorlage
एवं यः कुरुते भक्त्या सकृदष्टाष्टकार्चनम् |
ब्रह्मविष्णुमहेशादि देवताभिः स पूज्यते || १९२ ||
किं पुनर्मानवाद्यैश्च साक्षाच्छिव इवापरः |
यदर्चनाच्चतुःषष्टि योगिनीगणसंस्तुतः || १९३ ||
अव्याहताज्ञः सर्वत्र पूज्यते देववद् भुवि |
पुनरावृत्तिरहितो निवसेच्छिवसन्निधौ || १९४ ||
अस्मात् परतरा पूजा नास्ति सत्यं न संशयः |
कुलपूजां विना चक्रे नाधिकारः कथञ्चन || १९५ ||
विना यन्त्रेण पूजा चेत् देवता न प्रसीदति |
कुलपूजां सुनियतं यः करोति स कौलिकः || १९६ ||
सर्वदा समवाप्नोति योगिनीवीरमेलनम् |
नीचोऽपि वा सकृद् भक्त्या कारयेद् यः कुलार्चनम् || १९७ ||
स सद्गतिमवाप्नोति किमुताऽन्ये द्विजातयः |
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा || १९८ ||
Seite 400 der Vorlage
कुलपूजारतो भूयादभीष्टफलसिद्धये |
वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः || १९९ ||
तत्समीपस्थिता नित्यं शिवेन सह शङ्करी |
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः || २०० ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये पञ्चदशोल्लासः || १५ ||
षोडश उल्लासः
कुलदीक्षाविधानम्
अथातः सम्प्रवक्ष्यामि कुलदीक्षां सुसिद्धये |
अदीक्षितकुलो यो हि साधनं समुपाचरेत् || १ ||
स महापातकी भूत्वा रौरवं नरकं व्रजेत् |
अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते || २ ||
तत्कथाश्रवणं चेत् स्यात्तत्तल्पागमनं यदि |
स कुलीनः कथं चैव पूजयेत् परमेश्वरीम् || ३ ||
दीक्षिता न च योषा चेत् कथं स्यात्कुलपूजनम् |
यत्कुले कुलदीक्षा तु न स्यात् पापी स एव हि || ४ ||
कुल पूजा न चेच्चैव कुलमन्त्राः पराङ्मुखाः |
परयोषा यदि स्याच्च स्वयं तस्या गुरुर्भवेत् || ५ ||
Seite 402 der Vorlage
निजाकान्तां समानीय सुशीलां सुयशस्विनीम् |
कुलभक्तं गुरुं प्रार्थ्य दीक्षयेत् कुलदीक्षया || ६ ||
शिवश्च कौल एव स्याच्छिवाः स्युः सर्वदेशिकाः |
गणेशो गाणपत्यश्च गणदीक्षाप्रभुर्यतः || ७ ||
सुरः सौरास्तथा चैव विष्णुर्विष्णुपरायणाः |
कुलीनः सर्वमन्त्राणामधिकारी भवेत् सदा || ८ ||
ततः सुदीक्षतं कुर्यात् कुलं गुरुः प्रयत्नतः |
दीक्षायां कुलपूजायां शिष्यत्वे यदि वा गुरौ || ९ ||
लज्जापरं कुलं यत्र विद्यापि तत्र निद्रिता |
अधस्तात् दृष्टिपातेन तस्य विद्याऽप्यधोमुखी || १० ||
निमीलनात्ततो विद्या साधकं मारयेद् ध्रुवम् |
पार्श्वावलोकनेनैव व्याधिदारिद्र्यपीडिता || ११ ||
चतुर्दिगालोकनेन उच्चाटनगतो भवेत् |
एतादृशं कुलं चैव यदि कुर्यात् कथञ्चन || १२ ||
तदा कुलगुरुं प्रार्थ्य कारयेद्दीक्षितं ततः |
एतादृश कुलस्याग्रे प्रयोगः फलदो न हि || १३ ||
Seite 403 der Vorlage
इत्यादि शिक्षया चैव शिक्षिता कुलजा सती |
परानन्दरसाघूर्णहृदया लोललोचना || १४ ||
मालालङ्कारशोभाढ्या रक्तवस्त्रविभूषणा |
ताम्बूलपूरितमुखी सिन्दूराञ्जनसंयुता || १५ ||
गुरुवक्त्रात् प्रयोगार्थं सोत्सुका साधकप्रिया |
देवीवाहं देवदेव उपदेशं समाचर || १६ ||
शक्तिदीक्षाकथनम्
एवमुक्ते कुले चैव देवोऽहं शृणु पार्वति |
इत्युक्त्वा सर्वशृङ्गारवेशाढ्यः स्थिरमानसः || १७ ||
जप्त्वा ब्राह्म्यादिकाः शक्तीः पूर्वमन्त्रेण सेवयेत् |
तद्गात्रे देयमन्त्रस्य न्यासजालं प्रविन्यसेत् || १८ ||
निजपुत्रीवदाचार्यस्तद्भालपटले लिखेत् |
शक्तिचक्रं त्रिधाऽवेष्ट्य तत्र कामकलां लिखेत् || १९ ||
तन्मध्ये देयमन्त्रेण दर्भितं नाम रञ्जितम् |
तत्र देवीं समावाह्य ध्यात्वा तां तु प्रपूजयेत् || २० ||
Seite 404 der Vorlage
ततस्तत्पुत्रिकाकर्णे ऋषिछन्दः समन्विताम् |
मूलविद्यां त्रिधाऽवृत्त्या कथयेत् वामकर्णके || २१ ||
नाम कुर्यात्ततस्तस्याः कान्तं साधकसत्तमः |
मातृपितृकृतं नाम वर्जयित्वा वदेत्ततः || २२ ||
अद्यप्रभृति पुत्रि त्वं कुलपूजार्चने रता |
सकुलाज्ञां समादाय लज्जालस्यविवर्जिता || २३ ||
यथोपदिष्ट विधिना सामरस्यं समाचर |
इत्यनुज्ञां गुरोर्लब्ध्वा प्रणमेद्दण्डवद् भुवि || २४ ||
त्राहि नाथ कुलाचारपक्षिणीपद्मनायक |
हृत्पादाम्भोरुहच्छायां देहि मूर्ध्नि यशोधन || २५ ||
विधिना स्तवनं कृत्वा गुरवे दक्षिणां ददेत् |
सर्वस्वं गुरवे दद्यात्तदर्धं वा दयायुजे || २६ ||
दक्षिणाञ्च यथाशक्त्या प्रदत्त्वा गुरवे सुधीः |
स्तुत्वा नत्वा यथाशक्त्या स्वकल्पोक्तं समाचरेत् || २७ ||
Seite 405 der Vorlage
प्रशस्तशक्तिलक्षणानि
उपदिष्टा यदा देवी तदा देवी तु पुत्रिका |
पूजार्हा च यदा देवी तदा माता न संशयः || २८ ||
सर्वथा पितृपुत्त्रीभ्यां मूलयोगो न दृश्यते |
तत्कृत्वा तेन पापेन उभौ नरकगामिनौ || २९ ||
चुम्बुके चान्यशास्त्रो पशुग्रामे तथैव च |
न कर्त्तव्यं न कर्त्तव्यं न च वाक्यं कदाचन || ३० ||
एवं कृते गुरौ शिष्ये मम शापो भविष्यति |
शक्तिपूजाविधानम्
साङ्गावरणपूजादौ यदा न क्षरये कुलम् || ३१ ||
तदा मूर्ध्नि गुरुं ध्यात्वा कुलामृतरसेन तु |
तर्पयित्वा कुलं ध्यात्वा जपेन्मन्त्रं निराकुलः || ३२ ||
नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन |
न न्यासो योषिताञ्चापि न ध्यानं न च पूजनम् || ३३ ||
रात्रौ षडङ्गमाचर्य जपं कुर्यात् समाहितः |
सर्वविद्याप्रयोगं तु ततः कुर्यात् सुसाधकः || ३४ ||
Seite 405 der Vorlage
कुलपुष्पकथनम्
अथातः कुलपुष्पस्य विधानं कथ्यतेऽधुना |
यत्प्राप्य कुलदेवेन लभ्यते वाञ्छितं महत् || ३५ ||
ऋतुकाले महादेवी सुषुम्णामध्यवर्त्तिनी |
अमृतं वर्षते सा तु त्रिदिनं पृथिवीतले || ३६ ||
तद्दिने तत्र वीरेन्द्रो यदि विद्यां समुच्चरेत् |
पूर्णमेव भवेत्तस्य सफलं च मनोरथम् || ३७ ||
तस्मात् सर्वप्रयत्नेन कुलं वीक्ष्य जपं कुरु |
आनीय प्रमदां दिव्यां प्रमत्तां यौवनान्विताम् || ३८ ||
सुस्नापितां सुदीक्षितां सुनासां चारुहासिनीम् |
सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् || ३९ ||
गुरुभक्तां सुवेशाच्च देवतापूजने रताम् |
स्वकान्तां परकान्तां वा संस्थाप्य तूलिकोपरि || ४० ||
न्यासजालं प्रविन्यस्य साधकोऽक्षुब्धमानसः |
तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् || ४१ ||
Seite 407 der Vorlage
स्वयमक्षोभितो भूत्वा स्वयम्भूकुसुमं लभेत् |
शिवहीना यदा शक्तिः सर्वादौ वर्षते हि यत् || ४२ ||
तदेव परमं पुष्पं स्वयम्भूकुसुमाख्यकम् |
तद्द्रव्यप्राप्तिमात्रेण किं न सिध्यति भूतले || ४३ ||
स्वयम्भूकुसुमं द्रव्यं त्रैलोक्ये चाति दुर्लभम् |
स्वेच्छा ऋतुमती शक्तिः साक्षाद्देवी महेश्वरी || ४४ ||
तस्याः पुष्पं साधकेन रक्षणीयं प्रयत्नतः |
वस्त्रालङ्कारपुष्पैश्च शक्तिञ्च परिपूजयेत् || ४५ ||
दीक्षिताया यथाकाले पुष्पं भवति नित्यशः |
कुलपुष्पं तदेव स्यात् सर्वसिद्धिप्रदायकम् || ४६ ||
कुण्डोद्भवञ्च गोलोत्थं पूर्वैव कथितं मया |
कुण्डोद्भवं सिद्धिप्रदं प्रकारान्तरमुच्यते || ४७ ||
यथायोग्यं समानीय शक्तिं पूर्वोदितां शुभाम् |
स्वकल्पोक्तं समाचर्य साधको जितमानसः || ४८ ||
चर्व्यं चोष्यं निवेद्याथ वस्त्रालङ्करणादिकम् |
पूजयेदक्षतैः शुद्धैः तस्या मदनमन्दिरम् || ४९ ||
Seite 408 der Vorlage
भावयेत् कामभावेन स्वयमच्युतमानसः |
शुद्धमन्त्रौषधेनैव मथयेन्मदनालयम् || ५० ||
मथ्यमानेऽपि तस्यां हि जायते तत्त्वमुत्तमम् |
गृह्णीयात्तत् प्रयत्नेन द्रव्यं कुण्डोद्भवं शुभम् || ५१ ||
एतच्चतुष्टयं द्रव्यं मन्त्रसिद्धेश्च कारणम् |
एतेषां द्रव्यमध्ये तु स्वयम्भूकुसुमं महत् || ५२ ||
क्वचिद्गन्धर्वराजेन लभ्यते वा नवा पुनः |
लब्ध्वा तत्परमं द्रव्यं लाक्षारससमन्वितम् || ५३ ||
कस्तूरीं कुङ्कुमं चैव चन्दनेन सुमिश्रितम् |
रक्तेन चन्दनेनापि वटीं कृत्वा सुगोपयेत् || ५४ ||
पूर्वोक्तक्रमतो वीरो विशोध्य मन्त्रराजकम् |
लिखित्वा पूजयेद्भक्त्या यां तिथिं प्राप्य साधकः || ५५ ||
सुप्तादिदोषदुष्टा ये मन्त्रा विद्याश्च कीर्त्तिताः |
प्रबुद्धास्तत्प्रयोगेन यावत् सा पुनरागता || ५६ ||
Seite 409 der Vorlage
द्वितीयायां गते चैव दृश्या जाता कलावती |
तिथिक्रमेण सा देवी पौर्णमास्यां फलप्रदा || ५७ ||
तत्र प्रयोगमात्रेण कृष्णपक्षे विशेषतः |
क्षीणाति पूर्णतां याति यावत् सा तिथिरागता || ५८ ||
ततः प्रयोगं विद्यानां मन्त्रादीनाञ्च कारयेत् |
एवं यथा प्रबुद्धा सा नैव तादृक् कदाचन || ५९ ||
पूजाफलकथनम्
स्वयम्भूकुसुमैः पूजां प्रत्यहं यः समाचरेत् |
योगिन्यश्च महानागा राक्षसादानवाश्च ये || ६० ||
राजानश्च स्त्रियः सर्वा नित्यं वश्या भवन्ति हि |
एतेनाक्षतयोगान् मधुमतीसिद्धिमालभेत् || ६१ ||
प्रत्येकेन लभेत् सिद्धिं कुसुमाद्यैर्यथाविधि |
अथ वक्ष्ये च शाक्तानां काम्यपूजनमुत्तमम् || ६२ ||
काम्यपूजनकथनम्
रक्तपद्मैर्यजेद् देवीं समस्तरश्मिसंयुताम् |
विधिवल्लिखिते यन्त्रे कुलाचारेण रात्रिके || ६३ ||
मासमात्रेण वीराणां महापातककोटयः |
जन्मान्तरकृताः सर्वे नाशमायान्ति निश्चितम् || ६४ ||
Seite 410 der Vorlage
लक्ष्मीस्तस्य गृहे वश्या सुस्थिरा भवति ध्रुवम् |
जवापुष्पैश्चक्रराजं पूजयेन्मासमात्रकम् || ६५ ||
कुलाचारेण रात्रौ च मन्त्रेण भक्तिभावतः |
ब्रह्महत्यादि पापांश्च पूर्वजन्मकृतानपि || ६६ ||
नाशयेन्नात्र सन्देहो धनवान् जायते नरः |
केतकीतरुणैः पत्रैः पूर्ववत् पूजयेच्छिवाम् || ६७ ||
उपपातकसङ्घांश्च मासमात्रेण नाशयेत् |
सौभाग्यमतुलं तस्य जायते नात्र संशयः || ६८ ||
शतपत्रैर्मनोरम्यैः पूजयेन् मासमात्रकम् |
पूर्ववत् परमेशानि सर्वपापं विनाशयेत् || ६९ ||
चम्पकैः सुमनोरम्यैः पूजयेत् पूर्ववच्छिवाम् |
मासमात्रेण हन्त्येव पातकान् पूर्वजन्मजान् || ७० ||
सौभाग्यं वा लभेन्मन्त्री भगवत्याः प्रसादतः |
श्वेतपद्मैर्महादेवीं पूजयेद् भक्तिभावतः || ७१ ||
पूर्ववन्नाशयेत् पापान् त्रिंशज्जन्मकृतानपि |
मासमात्रेण सकलान् मोक्षस्तस्य करे स्थितः || ७२ ||
Seite 411 der Vorlage
बन्धूककुसुमैर्देवीं मासामात्रेण पूजनात् |
त्रैलोक्यं वशगं तस्य सर्वपापं प्रणाशयेत् || ७३ ||
बिल्वपत्रैश्च जलजैः सहैव परिपूजयेत् |
पूर्ववत् परमेशानीं मासमात्रं न संशयः || ७४ ||
समृद्धिमान् भवेत् सोऽपि सर्वपापहरः सदा |
मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः || ७५ ||
श्वेतोत्पलैः प्रसूनैश्च पूजयेन्मासमात्रकम् |
कुलाचारक्रमेणैव पातकान् शतजन्मजान् || ७६ ||
ब्रह्महत्यादिजनितान् नाशयेन्नात्र संशयः |
मुक्तिस्तस्य करे सत्यं वाचांपतिसमो भुवि || ७७ ||
अगस्त्यबालबन्धूकजवारक्तोत्पलैः समम् |
पूर्वक्रमेण सम्पूज्य मासमात्रं प्रयत्नधीः || ७८ ||
पातकान् पाशयेत् मन्त्री साक्षात्कामलसी भवेत् |
चम्पकैः पाटलैर्देवीं बकुलैर्नागकेशरैः || ७९ ||
कह्लारैः सिन्धुवारैश्च पूजयेत् पूर्ववत् क्रमात् |
सौभाग्यमण्डलं तस्य मासमात्रेण निश्चितम् || ८० ||
Seite 412 der Vorlage
महापातकयुक्तो वा यदि देवीं प्रपूजयेत् |
शमीदूर्वाङ्कुराश्वत्थपल्लवैरथवाऽर्कजैः || ८१ ||
मासेन हन्ति कलुषं सप्तजन्मकृतं ध्रुवम् |
अथातः सर्वविद्यानां लिख्यते सिद्धिकारणम् || ८२ ||
ब्राह्म्याद्यष्टकुलैः सार्धं साधकः स्थिरधीः शुचिः |
चतुष्पथे वा नद्यां वा वटमूले त्रिशूलके || ८३ ||
प्रेतभूमौ बिल्वमूले हट्टे वा राजवेश्मनि |
सिन्दूरेण लिखेन्मन्त्रं विपुलं साध्यदर्भितम् || ८४ ||
ततः सम्पूज्य विधिवत् कुलं कुलरसेन च |
तर्पयित्वा तदन्तःस्थः प्रजपेन्निशिचारतः || ८५ ||
ततो लक्षप्रमाणेन सिद्धिस्तावद्भवन्ति हि |
अथ रात्रौ पुण्यगेहे उद्याने वा सुरालये || ८६ ||
आनीय कुलजां देवीं मूलमन्त्रेण दीक्षयेत् |
ततः पूर्वोक्तरूपेण कुलक्षोभं समाचरेत् || ८७ ||
रत्नपूजाविधानम्
रत्नपूजाविधानं हि कथयामि विशेषतः |
पुष्पाणि रचयेद्वीरो माणिक्यघटितानि च || ८८ ||
Seite 413 der Vorlage
तैस्तु पूजा प्रकर्त्तव्या चक्रराजस्य पूर्ववत् |
नानापुष्पैः सुगन्धैश्च कर्पूरक्षोदचर्चितैः || ८९ ||
एकविंशतिरात्रेण विंशतिर्धरणीभुजाम् |
दासभूताः भवन्त्येव महारोगांश्च नाशयेत् || ९० ||
सूर्यवत् कान्तिमान्मन्त्री जायते नात्र संशयः |
मुक्तारत्नरञ्जितानि स्वर्णपुष्पाणि साधकैः || ९१ ||
तैस्तु पूजा प्रकर्त्तव्या नानारत्नैश्च पूर्ववत् |
एकविंशतिरात्रेण राजपुत्री वशीभवेत् || ९२ ||
कलाकान्तियुतो वीरो जायते सुभगः क्षितौ |
प्रवालघटितैः स्वर्णपुष्पैस्तु बहुभिर्यजेत् || ९३ ||
पूर्ववत् परमेशानीं कुलाचारक्रमेण तु |
पुष्पैश्च विविधैश्चैव सप्ताहाच्च सुनिश्चितम् || ९४ ||
क्रूरास्तस्य वशाः सर्वे वैरिवर्गांश्च नाशयेत् |
तथा मरकतक्षिप्तस्वर्णपुष्पैश्च पूजयेत् || ९५ ||
एकविंशतिरात्रेण नानापुष्पैः क्रमाद्यजेत् |
विधिवत् तस्य वरदा भैरवी भवति स्थिरम् || ९६ ||
Seite 414 der Vorlage
पद्मरागमहारत्ननिर्मितैः स्वर्णसंयुतैः |
कुसुमैरर्चयेच्चक्रं त्रिसप्ताहात् सुनिश्चितम् || ९७ ||
सुरास्तस्य वशाः सर्वे बृहस्पतिसमो भवेत् |
सुवर्णरचितैः पुष्पैर्वज्रकेशरवर्जितैः || ९८ ||
एकविंशतिरात्रेण मोहयेज्जगतीमिमाम् |
देवा दैत्यावशांस्तस्य जायन्ते नात्र संशयः || ९९ ||
इन्द्रनीलमयैः स्वर्णपुष्पैश्चक्रं समर्चयेत् |
एकविंशतिरात्रेण तथा नीलैश्च नीरजैः || १०० ||
वैरिणो नाशमायान्ति शेषा वश्या भवन्ति हि |
गोमेदघटितैः पुष्पैः स्वर्णपुष्पैर्यजेद् बुधः || १०१ ||
किंशुकैः कुन्दपुष्पैश्च पूर्ववत् परमेश्वरीम् |
सप्ताहाद् वैरिणो वश्या घातस्तेषु प्रजायते || १०२ ||
त्रिसप्ताहान्महापापसञ्चयं नाशयेत्ततः |
स्वर्णरत्नमयैः पुष्पैर्पुनर्नवैः प्रपूज्यते || १०३ ||
तदाऽश्वमेधदशकं फलं भवति निश्चितम् |
क्रव्यादयस्तद्वश्या हि भवन्त्येव न संशयः || १०४ ||
Seite 415 der Vorlage
वैदूर्यंघटितैः पुष्पैः पूजयेच्चक्रमुत्तमम् |
सचम्पकादिभिर्धीरस्त्रैलोक्यं स्तम्भयेत् क्षणात् || १०५ ||
एकविंशतिभिर्वारैर्महापापहरो भवेत् |
निर्माल्यभूतैः कुसुमैरर्चितैः परमेश्वरीम् || १०६ ||
नानारत्नमयैः स्वर्णपुष्पैर्यदि शिवां यजेत् |
तदा देवाश्च मुनयः पन्नगा राक्षसादयः || १०७ ||
सर्वे वश्या भवन्त्येव त्रिसप्ताहान्न संशयः |
जन्मकोटिभवं पापं नाशयेन्नात्र संशयः || १०८ ||
स्वर्णवर्णमयैः पुष्पैर्मासमेकं प्रपूजयेत् |
तदाश्वमेधदशकफलं भवति सर्वदा || १०९ ||
स्वर्णरत्नानि पुष्पाणि यदि न स्युस्तदा शृणु |
पूर्वोदितस्वपुष्पैश्च पूजा कार्या सुसाधकैः || ११० ||
यद्यत् पुष्पं यत्र यत्र देयं तत्र महात्मना |
तत्र तत्रैव दातव्यं यद्दातव्यं सुखेच्छया || १११ ||
Seite 416 der Vorlage
अलङ्कारस्वरूपेण पूजयेच्चक्रनायिकाम् |
केवलं योनिपुष्पैस्तु त्रैलोक्यं स्तम्भयेद्भृशम् || ११२ ||
मासमात्रेण पापानि सप्तजन्मभवान्यपि |
नाशयेन्मोहयेत् सर्वान्समुद्रवलयां धराम् || ११३ ||
त्रिपुराबीजसाधनम्
अथेदानीं प्रवक्ष्यामि त्रिपुराबीजसाधनम् |
शुक्लाम्बरधरो धीरः शुक्लगन्धादिभूषितः || ११४ ||
शुक्लालङ्काररचितः शुक्लमाल्यान्वितः शुचिः |
शुक्लगो ब्रह्मचारी तु शुक्लासनपरिग्रहः || ११५ ||
पूजयेत् शुक्लपुष्पैस्तु नैवेद्यैर्धवलैस्तथा |
पिष्टकं पायसं दुग्धं अन्नं बहुविधं तथा || ११६ ||
शर्करा मोदकं चैव नानाफलसमन्वितम् |
कृतसङ्कल्पवीरेन्द्रः साधयेद्वाग्भवाक्षरम् || ११७ ||
वाग्भवबीजसाधनम्
वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन् बुधः |
कूर्परधवलां शुभ्रपुष्पाभरणभूषिताम् || ११८ ||
Seite 417 der Vorlage
अत्यन्तशुभ्रवसनां वज्रमौक्तिकभूषणाम् |
मुक्ताफलसमुद्भूतजपमालालसत्कराम् || ११९ ||
पुस्तकं वरदानञ्च दधतीमभयप्रदाम् |
एवं ध्यात्वा प्रपूज्यैव वागीशीं साधकोत्तमः || १२० ||
मूलादिब्रह्मरन्ध्रान्तं स्रवत्पीयूषवर्षिणीम् |
तस्माज्जोतिर्मयीं ध्यायेत् जिह्वाग्रेऽमृतरूपिणीम् || १२१ ||
विभाव्य प्रजपेन्मन्त्रं पुरश्चरणसंख्यकम् |
ततश्च नष्टहृदयो ग्राम्यो मूर्खोऽतिपातकी || १२२ ||
शठोऽपि यः पदं स्पष्टमक्षरं वक्तुमक्षमः |
जडो मूर्खोऽतिदुर्मेधा गतप्रज्ञो विनष्टधीः || १२३ ||
सोऽपि सञ्जायते वाग्मी वाचस्पतिरिवापरः |
सत्पण्डितघटाटोपजेताऽप्रतिहतप्रभः || १२४ ||
सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित् |
कुमारतरस्फार वृत्तालङ्कारपूर्वकैः || १२५ ||
पदगुम्फैर्महाकाव्यकर्ता सोऽपि प्रजायते |
वेदवेदाङ्गवेदान्तसिद्धान्तज्ञानपारगः || १२६ ||
Seite 418 der Vorlage
ज्योतिःशस्त्रेतिहासादिमीमांसास्मृतिसारवित् |
पुराणरसवादादिगारुडानेकमन्त्रवित् || १२७ ||
पातालशास्त्रविज्ञानभूततन्त्रार्थतत्त्ववित् |
विचित्रचित्रकर्मादिशिल्पानेकविचक्षणः || १२८ ||
सर्वभाषारुतज्ञानी समस्तलिपिकर्मवित् |
नानाशास्त्रादिशिक्षादिवेत्ताभुवनविश्रुतः || १२९ ||
सर्ववाङ्मयवेत्ता च सर्वज्ञो भुवि जायते |
कामबीजसाधनम्
अथ कामकलासक्तः साधको रक्तमन्दिरे || १३० ||
रक्तालङ्कारसंयुक्तो रक्तगन्धानुलेपनः |
रक्तवस्त्रावृतः सम्यङ्मध्ये कामकलात्मना || १३१ ||
रक्तपुष्पैश्च विविधैः नैवेद्यै रक्तसन्निभैः |
नानोपहारबलिभिः कुङ्कुमादिभिरर्चयेत् || १३२ ||
मूलादिब्रह्मरन्ध्रान्तं स्फरद्दीप्तिस्वरूपिणीम् |
बन्धूककुसुमाकारकान्तिभूषणभूषिताम् || १३३ ||
एवं सचिन्त्य वीरेन्द्रः पूजयेत् परमेश्वरीम् |
यथोक्तसंख्यं सञ्जप्य कामराजं सुसाधकः || १३४ ||
चिन्तयेत् परमेशानीं त्रैलोक्यं मोहयेत् क्षणात् |
राजानो वशमायान्ति पन्नगा राक्षसाः सुराः || १३५ ||
कन्दर्प इव वीरेन्द्रो योषितां मानहारकः |
मनश्चिन्तितयोषित्तु दासीवद्वशगाभवेत् || १३६ ||
Seite 419 der Vorlage
तद्दृष्टिपथगा नारी सुरी वाप्यथवाऽसुरी |
विद्याधरी किन्नरी वा यक्षी नागाङ्गनाऽथवा || १३७ ||
प्रचण्डतरभूपालकन्यका सिद्धकन्यका |
ज्वलन्मदनदुष्प्रेक्ष्यदहनोत्तप्तमानसा || १३८ ||
क्लिन्न प्रचलितापाङ्गा विमूढा मदविह्वला |
निवेदितात्मसर्वस्वा वशगा तस्य जायते || १३९ ||
चलज्जलेन्दुसङ्काशा बालार्ककिरणारुणा |
चिन्तिता योषितां योनौ क्षोभयति च तत्क्षणात् || १४० ||
सैव सिन्दूरवर्णाभा हृदये चिन्तिता सती |
सम्मोहोन्मादनारोपचित्तकर्षकरी तथा || १४१ ||
Seite 420 der Vorlage
नियोजिताऽथवा मूर्ध्नि वर्षन्ती रक्तबिन्दुभिः |
धारणासम्प्रयोगेण करोति वशगं जगत् || १४२ ||
त्रैलोक्यमोहनप्रयोगकथनम्
आकर्षयेत्तदा शीघ्रं रम्भाञ्चापि तिलोत्तमाम् |
रक्तवर्णां स्त्रियं ध्यात्वा तदीयमहसा ततः || १४३ ||
तस्या मूर्ध्नि स्मरेद्विद्यां स्रवत्पीयूषवर्षिणीम् |
ध्यायन् सम्मोहयेन्नारीं मदनोत्तप्तमानसाम् || १४४ ||
क्षणमात्रेण वीरेन्द्रस्त्रैलोक्यं वशमानयेत् |
एतत्कामकलाध्यानात् पञ्चकाम इवापरः || १४५ ||
श्रीं ह्रीं क्लीं हूं ततः संसु क्रमेण परियोजिताः |
यन्त्रं विदध्यात् कामस्तु मन्मथान्तर्गतो भवेत् || १४६ ||
कन्दर्पसम्पुटं कृत्वा कोणगर्भगतं ततः |
मकरध्वजसञ्ज्ञन्तु सर्वमेतत् सुसाधकः || १४७ ||
मीनकेतुगतं कुर्यात् मोहयेज्जगतीमिमाम् |
त्रैलोक्यमोहनो नाम प्रयोगोऽयं प्रदर्शितः || १४८ ||
Seite 421 der Vorlage
शक्तिबीजसाधनम्
अथातः सम्प्रवक्ष्यामि शक्तिबीजस्य साधनम् |
सृष्टिसंहारपर्यन्तां शरीरे चिन्तयेत् पराम् || १४९ ||
स्रवत्पीयूषधाराभिर्वषन्तीं विषहारिणीम् |
हेमप्रभाभासमानां विद्युल्लतासमप्रभाम् || १५० ||
स्फुरच्चन्द्रकलापूर्णकपालं वरदाभये |
ज्ञानमुद्राञ्च दधतीं साक्षादमृतरूपिणीम् || १५१ ||
एवं ध्यात्वा जपेन्मन्त्री हेमाभैरुपचारकैः |
पूर्वसंख्यं जपेद्बीजं नानाविघ्नं विनाशयेत् || १५२ ||
एतस्याः स्मरणाद्वीरो नीलकण्ठत्वमागतः |
वैनतेयसमो मन्त्री विषभारं विनाशयेत् || १५३ ||
नागा दर्शनमात्रेण जडीभवन्ति तत्क्षणात् |
भूतप्रेतपिशाचांश्च नाशयेन्नात्र संशयः || १५४ ||
चातुर्थिकज्वरान् सर्वानपस्मारांश्च नाशयेत् |
दुष्टव्याधिग्रहांश्चैव डाकिनीरूपिका गणाः || १५५ ||
यक्षराक्षसवेतालैस्त्रिनेत्र इव दृश्यते |
Seite 422 der Vorlage
अथवा येन विद्येयं परिपूर्णा विचिन्त्यते || १५६ ||
नाभिमण्डलहृत्पद्ममुखमण्डलमध्यगा |
पद्मरागमणिस्वच्छा चिन्तनात् साधकस्य च || १५७ ||
तस्याष्टगुणमैश्वर्यमचिरात् सम्प्रवर्त्तते |
तन्नामस्मरणान्मन्त्री योगिनीनां भवेत् प्रियः || १५८ ||
मातृचक्रं तस्य काये तेन सार्धं सुखी भवेत् |
पुत्रवान् धनवान् धीरो मन्त्रं ध्यात्वा न संशयः || १५९ ||
विलिख्य चक्रराजं तु परिपूर्णां प्रपूजयेत् |
प्रयच्छति महादेवी खेचरीसिद्धिमुत्तमाम् || १६० ||
चतुःषष्टियुताः कोट्यो योगिणीनां महोजसाम् |
चक्रमेतत् समासाद्य स्थितास्ता नात्र संशयः || १६१ ||
पूर्णविद्याजपात् सर्वेवश्या भवन्ति निश्चितम् |
क्षोभयेत् स्वर्गभूर्लोक पातालतलवासिनः || १६२ ||
क्षोभयन्त्येव वीरेन्द्राः महाविद्याप्रसादतः |
वाग्भवात् वाक्पतित्वञ्च कामात् कामसमो भवेत् || १६३ ||
Seite 423 der Vorlage
शिवत्वं शक्तिबीजेन त्रिकूटे सर्वमालभेत् |
सर्वसिद्धिर्भवत्येव कूटत्रयस्य जापतः || १६४ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये षोडशोल्लासः || १६ ||
सप्तदश उल्लासः
मन्त्रशिखाविधानम्
अथ वक्ष्ये च मन्त्राणां शिखां सिद्धिप्रदायिकाम् |
यस्य विज्ञानमात्रेण क्षिप्रं विद्या प्रसीदति || १ ||
मूलरन्ध्रे तु या शक्तिर्भुजगाकाररूपिणी |
तत्र यश्च भ्रमावर्त्तोऽपान इत्युच्यते बुधैः || २ ||
नीवारयुक्तविधिना कूजन्ती सततोत्थिता |
गच्छन्ती ब्रह्मरन्ध्रेऽपि प्रविशन्ती स्वकेतने || ३ ||
यातायातक्रमेणैव कुर्यात्तत्र मनोलयम् |
तेन मन्त्रशिखा जाता सर्वमन्त्रप्रदीपिका || ४ ||
तमःपूर्णगृहे यद्वत् न किञ्चित् प्रतिभासते |
शिखाहीनास्तथा मन्त्रा न सिध्यन्ति कदाचन || ५ ||
शिखोपदेशः सर्वत्र गोप्तव्यः साधकेन च |
विनाऽनेन न सिध्यन्ति कल्पकोटिशतैरपि || ६ ||
Seite 425 der Vorlage
चतुर्विधा तु या सृष्टिर्यस्या योनौ प्रजायते |
पुनः प्रलीयते तस्यां कालाग्न्यादिशिवान्तिका || ७ ||
योनिमुद्रा परा ह्येषा वन्धस्तस्याः प्रकीर्त्तितः |
तस्यास्तु बन्धमात्रेण तन्नास्ति यन्न साधयेत् || ८ ||
अन्यथा जप्यते यस्तु अन्यथा कुरुते तु यः |
नासौ सिध्यति मन्त्रश्च सत्यं सत्यं पुनः पुनः || ९ ||
छिन्ना रुद्धाश्च ये मन्त्राः कीलिताः स्तम्भिताश्च ये |
दग्धाः सन्त्रासिता हीना मलिनास्तु तिरस्कृताः || १० ||
भेदिता भ्रमसंयुक्ताः शप्ताः सम्मूर्छिताश्च ये |
वृद्धा बालास्तथा स्रस्ताः प्रौढा यौवनगर्विताः || ११ ||
अरिपक्षस्थिता ये च निर्वीर्याः सत्त्ववर्जिताः |
अंशकेन विहीनाश्च खण्डशः शतधा कृताः || १२ ||
विधिनाऽनेन संयुक्ताः प्रभवन्त्यचिरेण तु |
सिद्धिमोक्षप्रदाः सर्वे साधकेन नियोजिताः || १३ ||
यद्यदुच्चार्यते मन्त्री वर्णरूपं शुभावहम् |
तत्तत् सिध्यत्यनायासाद् योनिमुद्रानिबन्धनात् || १४ ||
Seite 426 der Vorlage
दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा |
ततोऽधिकारी तन्त्रेऽस्मिन् भवेत् साधकसत्तमः || १५ ||
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् |
नाऽसौ लिप्यति पापेन योनिमुद्रानिबन्धनात् || १६ ||
न तस्य पापपुण्यैस्तु कृतैर्दोषैर्न लिप्यते |
कृत्वा पापसहस्राणि असंख्यातानि सर्वदा || १७ ||
दहत्युच्चारमात्रेण योनिमुद्रानिबन्धनात् |
दुष्टमन्त्राश्च सिध्यन्ति मन्त्राश्चान्ये तु किं पुनः || १८ ||
स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः |
स्थानध्यानविनिर्युक्ताः सुसिद्धा अपि वैरिणः || १९ ||
सिध्यन्ति येन तत्स्थानं कथयामि विशेषतः |
सकलं निष्कलं सूक्ष्मं तथा सकलनिष्कलम् || २० ||
कलाभिन्नं कलातीतं षोढास्थानं शिवोऽब्रवीत् |
सकलं ब्रह्मबन्धस्थं तदूर्ध्वं विद्धि निष्कलम् || २१ ||
मानसं सूक्ष्मनामानं हृत्स्थं सकलनिष्कलम् |
बिन्दुस्थितं कलाभिन्नं कलातीतं तदूर्ध्वतः || २२ ||
Seite 427 der Vorlage
कलाङ्गशूलिनी सैव नादशक्तिः शिवोदिता |
एषु स्थानङ्गता मन्त्राः स्थानस्थाः परिकीर्त्तिताः || २३ ||
देवतां हृदि सञ्चिन्त्य मन्त्रजापश्च जायते |
ध्यानस्थाश्चैव ते मन्त्रा विज्ञेयाः साधकेन वा || २४ ||
तारसम्पुटितो वापि दुष्टमन्त्रोऽपि सिध्यति |
यस्य यत्र दृढा भक्तिर्जायते सततं यदि || २५ ||
तस्य सिद्धो भवेन्मन्त्रो यथोक्तजपमात्रतः |
अथातः सर्वविद्यानां लिख्यते सिद्धिकारणम् || २६ ||
ब्राह्म्याद्यष्टकुलैः सार्धं साधकः स्थिरधीः शुचिः |
चतुष्पथे वा नद्यां वा वटमूले त्रिशूलके || २७ ||
प्रेतभूमौ बिल्वमूले हट्टे वा राजवेश्मनि |
सिन्दूरेण लिखेद् यन्त्रं विपुलं साध्यदर्भितम् || २८ ||
तत्र सम्पूज्य विधिवत् कुलं कुलरसेन च |
तर्पयित्वा तदन्तःस्थं प्रजपेन्निशिचारतः || २९ ||
Seite 428 der Vorlage
ततो लक्षप्रमाणेन सिद्धिप्रदा भवन्ति हि |
रात्रौ पुण्यगृहे चैव उद्याने वा सुरालये || ३० ||
आनीय कुलजां देवीं मूलमन्त्रेण दीक्षयेत् |
ततः पूर्वोक्तरूपेण कुलक्षोभं समाचरेत् || ३१ ||
एवं कृतं न सिद्धिश्चेन्मूलमन्त्रं समभ्यसेत् |
पीठानां परमं पीठं कामरूपं महाफलम् || ३२ ||
अत्र या क्रियते पूजा सकृद्वा साधकेन च |
विहाय सर्वपीठानि तस्य देहे वसेच्छिवा || ३३ ||
ततः शतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् |
यत्र कोटिगणैः सार्धमाद्या वसति मर्दिनी || ३४ ||
यत्पीठं ब्रह्मणो वक्त्रं गुप्तं सर्वसुखावहम् |
यतो देव्यश्च देवाश्च मुनयश्चैव भावजाः || ३५ ||
सर्वेऽप्याविर्भवन्त्यत्र तेन गुप्तं महाकुलम् |
द्विविधं चैव तत्पीठं गुप्तं व्यक्तं सदा पशौ || ३६ ||
व्यक्तं गुप्तं महापुण्यं दुरापं साधकेन वै |
व्यक्तं सर्वत्र देवेश लभ्यते कुलसुन्दरैः || ३७ ||
तत्रापि लक्षमानेन सिद्धिर्भवति निश्चितम् |
अथवाऽन्यप्रकारेण कथ्यते साधनं महत् || ३८ ||
Seite 429 der Vorlage
आनीय देवीं तद्गात्रे व्यापकान्तं प्रविन्यसेत् |
उपचारैः षोडशभिस्तां सम्पूज्य विधानतः || ३९ ||
प्रथमं साधकश्रेष्ठो देवीकूटस्य मस्तके |
मन्त्रं विलिख्य यथोक्तं पूजयेत् कुलवर्त्मना || ४० ||
प्रथमे पीठदेवीञ्च पूजयेद् गन्धपुष्पकैः |
महाभागां ततो मूलदेवीमावरणैः सह || ४१ ||
लक्षैकं तत्र सञ्जप्य उड्डीयानं ततो विशेत् |
तत्र पीठे योगनिद्रां पूजयित्वा ततो यजेत् || ४२ ||
निजेष्टदेवतां तत्र जपेल्लक्षं समाहितः |
कामरूपं ततो गत्वा तत्र कात्यायनीं यजेत् || ४३ ||
पूजयित्वा ततो देवीं जपेल्लक्षं समाहितः |
ततो जालन्धरे गत्वा पूर्णेशीं प्रथमं यजेत् || ४४ ||
तत्रापि लक्षमानं तु जप्त्वा मन्त्रं समाहितः |
ततः पूर्णगिरिं गत्वा यजेच्चण्डीं समाहितः || ४५ ||
पूजयित्वा महादेवीं जपेल्लक्षमनन्यधीः |
सिन्दूरबिन्दुपीठे च कामाख्यां प्रथमं यजेत् || ४६ ||
Seite 430 der Vorlage
ततः प्रान्ते महादेवीं यजेद्दिक्करवासिनीम् |
एवं पीठेश्वरीं जप्त्वा पूजयेदिष्टदेवताम् || ४७ ||
सप्तपीठे सप्तलक्षं जप्त्वा रात्रौ समाहितः |
संख्यापूर्वं ततः पृच्छेन्महादेवी कुलोत्तमम् || ४८ ||
तवेष्टदेवतैवाऽहं वृणुष्व वरमुत्तमम् |
ततः प्रणम्य देवेशीं वृणुयाद्वरमुत्तमम् || ४९ ||
यद्येवं नैव सा देवी पुनः पूर्वोक्तमाचरेत् |
अक्षोभितः कुलाचारपरिचर्यापरो भवेत् || ५० ||
अथवा सर्वपीठेषु यजेन् महिषमर्दिनीम् |
ततः प्रसन्ना भवति सैव कुलवरप्रिया || ५१ ||
ततो जप्त्वा मूलमन्त्रं सर्वसिद्धीश्वरो भवेत् |
ततो ध्यात्वा न्यसेदादौ मातृकान्तरसञ्ज्ञकम् || ५२ ||
पूर्ववद्विधिना न्यस्य तेनैव न्यस्य मातृकाम् |
अकारादिक्षकारान्तमेकैकक्रमयोगतः || ५३ ||
पञ्चाङ्गञ्च पुनः कृत्वा पञ्चधा व्यापकं चरेत् |
Seite 431 der Vorlage
मूर्द्धादिचरणान्तञ्च तस्मान्मूर्द्धावसानकम् || ५४ ||
मूलेन मनुना मन्त्री कृत्वा सञ्चिन्तयेत्ततः |
ध्यायेत् कालीं महादैत्ययुद्धरागमहोन्मुखीम् || ५५ ||
दक्षिणे चक्रखड्गौ च बाणं शूलं तथैव च |
वामे शङ्खं तथा चर्म धनुस्तर्जनमेव च || ५६ ||
बिभ्रतीं तीव्रबाणञ्च महिषे तु निषेदुषीम् |
पिताम्बरधरां देवीं पीनोन्नतकुचद्वयाम् || ५७ ||
जटामुकुटशोभाढ्यां पितृभूमिसुखावहाम् |
एवं ध्यात्वा महादेवीं मानसैरुपचारकैः || ५८ ||
पूजयेद्विधिवद् भक्त्या स्वकीय हृदि पङ्कजे |
ततः सोऽहं विभाव्याथ पुष्पं निःक्षिप्य मस्तके || ५९ ||
घटस्थापनमारभ्य पीठपूजावसानकम् |
कृत्वा च पूर्ववद्वीरः सदाशिवं यजेत्ततः || ६० ||
पूर्वोक्तविधिना चैव ध्यात्वा च परदेवताम् |
यन्त्रमध्ये समावाह्य मूलेन परिकल्पिताम् || ६१ ||
आवाहनादिकं चैव पूर्ववच्च समाचरेत् |
सम्पूज्य च महादेवीं पूजयेत्तदनन्तरम् || ६२ ||
देव्या वामे यजेत् पश्चात्पूर्वोक्तञ्च गुरोःकुलम् |
शाक्तं जप्त्वा च गुर्वादीन् नारदञ्च ततो यजेत् || ६३ ||
Seite 432 der Vorlage
अष्टपत्रे यजेद्देवीं दुर्गाद्यां दीर्घपूर्विकाम् |
दुर्गा च प्रथमा ज्ञेया द्वितीया वरवर्णिनी || ६४ ||
अर्या चैव तृतीया च चतुर्थी कनकप्रभा |
कृत्तिका पञ्चमी प्रोक्ता षष्ठी चैवाभयप्रदा || ६५ ||
काली सुरागिणी चैव जप्त्वा पूर्वोदितक्रमात् |
आयुधानि दलाग्रेषु यादिभिः क्रमतो यजेत् || ६६ ||
ब्राह्म्याद्याश्च ततः पश्चात् लोकपालांस्ततो बहिः |
तदस्त्राणि बहिर्जप्त्वा तर्पयित्त्वा विधानतः || ६७ ||
ततः सम्पूजयेद्देवीं पूर्ववत् साधकोत्तमः |
तर्पयित्वा महादेवीं मन्त्रजापं समाचरेत् || ६८ ||
मातुर्महिषमर्दिन्याः सङ्केतं कथयाम्यतः |
कुलाचारस्य संसिद्ध्यै भुक्तिमुक्तिसुसिद्धये || ६९ ||
भान्तं वियत् सनयनं श्वेतो मर्दिनी ठ द्वयम् |
अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी || ७० ||
Seite 433 der Vorlage
सृष्टिस्थितिविनाशानामादिभूता सनातनी |
न कस्मैचित् प्रवक्तव्या कथिता सिद्धिकारिणी || ७१ ||
अत्यन्तगुरुभक्ताय शुद्धाय सा हि प्रार्थ्यते |
तदाष्टवर्गा दातव्या सफलं तस्य साधनम् || ७२ ||
प्रणवाद्यां जपेद्विद्यां मायाद्यां वा जपेत् सुधीः |
वधूबीजादिकां वापि कवचाद्यां जपेत्तदा || ७३ ||
सर्वकालेषु सर्वत्र कामाद्यां प्रजपेत् सुधीः |
वाग्भवाद्यां जपेत् तां तु देवीं वाक्यविशुद्धये || ७४ ||
साधारणी प्राणविद्या हृल्लेखा सिद्धिखेचरा |
एतत्पूर्वस्थिता देवी सुरसिद्धिविधायिनी || ७४ ||
विशेषतः कलियुगे महासिद्धेश्च दायिनी |
गुरूणां कुलनाथानां मायापाशविमोचिनी || ७६ ||
Seite 434 der Vorlage
तस्माद्यत्नेन सततं गोप्तव्येयं नवाक्षरी |
अष्टलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्ततः || ७७ ||
पुरश्चरणाष्टलक्षं बोद्धव्यं साधकेन च |
यथाशक्ति जपं कृत्वा समाप्याथ स्तुतिं पठेत् || ७८ ||
महिषघ्निस्तुति
जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते |
भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तुते || ७९ ||
रोगविघ्नविनाशाय कुलाचारसमृद्धये |
करालवदने श्यामे नमस्ते सुरसुन्दरि || ८० ||
कुलभक्तप्रसन्नास्ये शङ्करप्राणवल्लभे |
रक्तमांससमाकीर्णवदने त्वां नमाम्यहम् || ८१ ||
इति स्तवने संस्तुत्य शेषं पूर्ववदाचरेत् |
विसर्जनं विधायाथ प्रयोगञ्च ततश्चरेत् || ८२ ||
एतद्विद्या महाविद्या न देया यस्य कस्यचित् |
यदि भाग्यवशात् लभ्या कुलदेवी कुलोत्तमैः | | ८३ ||
दीक्षिता कुलजाभिस्तु सिद्धिदा सैव नान्यथा |
Seite 435 der Vorlage
अथ दूतीयजनम्
अथातः सम्प्रवक्ष्यामि दूतीयजनमुत्तमम् || ८४ ||
शाक्तो वा वैष्णवो वापि शैवो वाऽप्यन्यपूजकः |
यस्मात् क्षिप्रं भवेत् सिद्धिर्नान्यथा जन्मकोटिभिः || ८५ ||
मन्त्रस्य सिद्धिकामस्तु दूतीयजनमाचरेत् |
किं जपन्यासविधिना ध्यानपूजादिविस्तरैः || ८६ ||
यावद्दूतीं न पूज्येत तावत् सिद्धिर्भवेत् कुतः |
गन्धर्वरूपवान् भूत्वा योनौ सम्पूज्य साधकः || ८७ ||
इहामुत्र सुखी भूत्वा देवीपुत्रो भवेत् क्षितौ |
त्रिकोणेषु त्रयो देवा ब्रह्मविष्णुमहेश्वराः || ८८ ||
योनिमध्ये येजेन्नित्यं चण्डिकां कुलदेवताम् |
तत्र विद्यां जगद्धात्रीं कुलामृतैः कुलक्रमात् || ८९ ||
स भवेत् साधकश्रेष्ठः शिवतुल्यो भवेन्नरः |
तत्र यत्र क्रियते पूजा जपं वा तर्पणं पुनः || ९० ||
तदनन्तफलं कर्त्तुर्भवत्येव न संशयः |
युवतीयोनिमास्थाय सर्वसिद्धिर्भवेद्यतः || ९१ ||
Seite 436 der Vorlage
तस्माद्वै योषितां योनौ पूजयेत् साधकोत्तमः |
सर्वालङ्कारसंयुक्तो रक्तवस्त्रविभूषितः || ९२ ||
परमानन्दतो रात्रौ पञ्चतत्त्वेन संयजेत् |
स्वकल्पोक्तं प्रकुर्वीत न्यासादिकं सुसाधकः || ९३ ||
मस्तकं गजदन्तस्य हेमरूप्यादिनिर्मितम् |
अर्घ्यपात्रे प्रतिष्ठानं कार्यं हेतुजलेन च || ९४ ||
विशुद्धक्षौमरचितां हूनिकां चात्र योजयेत् |
पुष्पान्यकार्यमध्ये च उपर्युपरि पूजयेत् || ९५ ||
मण्डूकं पूजयेदादौ रुद्रं कालाग्निसंयुतम् |
आधारशक्तिं कूर्मञ्च तथानन्तवराहकम् || ९६ ||
पृथिवीञ्च तथा कन्दं नालं वसुदलं तथा |
केशराणि च सम्पूज्य कर्णिकायां यजेत्ततः || ९७ ||
धर्मं ज्ञानञ्च वैराग्यं ऐश्वर्यञ्च क्रमाद्यजेत् |
अपूर्वान् पूजयेदेतान् साधकः सिद्धिहेतवे || ९८ ||
Seite 437 der Vorlage
आत्मान्तरात्मपरमज्ञानात्मानं क्रमेण च |
पूजयित्वा ततश्चैव गुरुरूपान् समर्चयेत् || ९९ ||
अद्वैताचारसम्पन्नां गुरुभक्तां दृढव्रताम् |
सदनुष्ठाननिरतां सात्त्विकीभक्तिसंयुताम् || १०० ||
कुर्यात् पैशुन्यरहितां अमायां भक्तवत्सलाम् |
चातुर्यौदार्यदाक्षिण्यकरुणादिगुणान्विताम् || १०१ ||
रूपयौवनसम्पन्नां शीलसौभाग्यशालिनीम् |
मनोगृहीतविश्वासां यद्वा सङ्केतमागताम् || १०२ ||
अथवा तत्क्षणायातां मदनानलतापिताम् |
विलिप्तां रक्तवस्त्रेण रक्तगन्धविभूषिताम् || १०३ ||
सुगन्धिरक्तकुसुमां सर्वाभरणराजिताम् |
सुधूपैर्धूपितां तन्वीं दूतीकर्मणि योजयेत् || १०४ ||
एवम्भूतां यजेद्यस्तु प्रसूनतूलिकोपरि |
तस्य गात्रे स्वकल्पोक्तं न्यासजालं विधाय च || १०५ ||
षोडशैरुपचारैस्तु पूजयेत् स्थिरमानसः |
जप्त्वा च हूनिकामध्ये प्रसूनैश्च सुगन्धिभिः || १०६ ||
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः |
समाकीर्णे सुपर्यङ्के पूजयेत् कुलनायिकाम् || १०७ ||
Seite 438 der Vorlage
पूजयित्वा सदा भक्त्या स्थिरचित्तः स्थिरेन्द्रियः |
बटुकं गणपं दुर्गां क्षेत्रपालं तथैव च || १०८ ||
पूर्वादिक्रमतो मन्त्री पूजयेत् सिद्धिहेतवे |
त्रिकोणे पूजयेन्मूर्ध्नि कामेशीं तस्य मध्यगे || १०९ ||
गणेशञ्च कुलाध्यक्षं दुर्गां लक्ष्मीं सरस्वतीम् |
त्रिकोणे पूजयित्वा तु वसन्तं मदनं तथा || ११० ||
स्तनयोः पूजयेत् पश्चात् मुखे तस्याः कलाधरम् |
दक्षपादादिमूर्धान्तं वाममूर्धादिकं तथा || १११ ||
पूजयेत् साधकश्रेष्ठः कला वै कामसोमयोः |
श्रद्धा प्रीतीरतिश्चैव दूतिः कान्तिर्मनोरमा || ११२ ||
विमला मोदिनी घोरा मदनोन्मादिनी तथा |
मोहिनी दीपनी चैव शोषणी चैव शङ्करी || ११३ ||
रञ्जनी च क्रमेणैव षोडशी प्रियदर्शना |
षोडशस्वरसंयुक्ता एताः कामकला यजेत् || ११४ ||
पूषा रमा च सुमना रतिः प्रीतिस्तथा धृतिः |
ऋद्धिः सौम्या मरीचिश्च तथा चैवांशुमालिनी || ११५ ||
Seite 439 der Vorlage
अङ्गिरा पावनी चैव छाया सम्पूर्णमण्डला |
तथा तुष्टामृते चैव कलाः सोमस्य षोडश || ११६ ||
स्वरैरेव प्रपूज्या हि सर्वकामार्थसिद्धये |
तस्यास्तु मदनागारे पूजयेद् भगमालिनीम् || ११७ ||
वाग्भवं भगशब्दावते भुगे भगिनि चालिखेत् |
अथोदरि भगान्ते च भगमाले भगावहे || ११८ ||
भगगुह्ये भगयोनि ततो भगनिपातिनि |
सर्वभगवशङ्करि भगरूपे ततः परम् || ११९ ||
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वाण्यालिखेत् |
भगानि मे ह्यानयान्ते वरदेऽथ समालिखेत् || १२० ||
रेते सुरेतेऽथ भग क्लिन्ने क्लिन्नद्रवे ततः |
क्लेदय द्रावयाऽमोघे भगविच्चे ततः परम् || १२१ ||
क्षुभः क्षोभयशब्दान्ते सर्वपदं वदेत्ततः |
सत्त्वान् भगेश्वरि ब्रूयात् वाग्भवं ब्लूं जमादिकम् || १२२ ||
भें ब्लूं मों ब्लूं प्रदान्ते हें हें क्लिन्ने ततो वदेत् |
सर्वाणि भगानि मे वशमानय चोद्धरेत् || १२३ ||
बधू ह्र्ब्लें भुवनेशीं ततश्च भगमालिनि |
भगमालाञ्च नित्याञ्च ङेयुतां मनुमुद्धरेत् || १२४ ||
Seite 440 der Vorlage
भगमालां महाविद्यां पूजयित्वा च साधकः |
सर्वानन्दमये मध्ये चक्रराजं समर्चयेत् || १२५ ||
पूर्वपश्चिमयोगेन निजविद्यां प्रपूजयेत् |
तत्राप्यावाहनं नास्ति जीवन्यासं तथैव च || १२६ ||
विधिवत् पूजनं कृत्वा स्वलिङ्गे तदनन्तरम् |
तारञ्च भुवनेशानीं त्रिपुरायास्त्रयं ततः || १२७ ||
नमः शिवाय विद्येयं दशार्णा परिकीर्त्तिता |
अनेन मनुना मन्त्री स्वलिङ्गे पूजयेच्छिवम् || १२८ ||
यजेत्तत्पुरुषाघोरसद्योवामेशसञ्ज्ञया |
निवृत्तिञ्च प्रतिष्ठां च विद्यां शान्तिं ततः परम् || १२९ ||
शान्त्यतीतां च सम्पूज्य षडङ्गावरणं यजेत् |
समग्रविद्यामुच्चार्य तत्त्रिकोणे प्रपूजयेत् || १३० ||
पुष्पं धूपादिकं दत्त्वा निर्विकल्पमनाः स्वयम् |
सर्वसङ्क्षोभणीं मुद्रां बद्ध्वा योनिं विचालयेत् || १३१ ||
Seite 441 der Vorlage
मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते |
तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके || १३२ ||
एषा तु परमा मुद्रा सर्वसङ्क्षोभणी मता |
क्षोभयेदथवा मन्त्री गजहस्ताख्यमुद्रया || १३३ ||
अधोमुखं दक्षपाणिं निधायाऽङ्गुष्ठके समे |
निःक्षिपेदङ्गुलीः सर्वा गजतुण्डाकृतिर्यथा || १३४ ||
गजहस्ता महामुद्रा कथिता सिद्धिदायिका |
उच्चरेद्भगमालाञ्च द्राविणीबीजमुच्चरन् || १३५ ||
अक्षुब्धमनयोर्योगे महाबिन्दुः प्रजायते |
रजोमयं रजः साक्षात् संविदेव न संशयः || १३६ ||
प्रकृतिः परमेशानी बीजं पुरुष उच्यते |
शिवशक्तिसमायोगो योग एव न संशयः || १३७ ||
शीत्कारो मन्त्ररूपस्तु वचनं स्तवनं भवेत् |
आलिङ्गनञ्च कस्तूरी कर्पूरं चुम्बनं भवेत् || १३८ ||
नखदन्तक्षतादीनि पुष्पमालादिपूजनम् |
लीलादिकं धूपदीपं कुचमर्दं शिवार्चनम् || १३९ ||
Seite 442 der Vorlage
मैथुनं तर्पणं विद्धि वीर्यपातो विसर्जनम् |
कुलद्रव्येण संशोध्य शिवशक्तिमयो भवेत् || १४० ||
वीर्यामृतं परंब्रह्म हुनेद्राहु मुखाम्बुजे |
कुण्डे त्रिगुणसम्पन्ने श्रीबिन्दुनिलये परे || १४१ ||
परापरविभागेन कुलीनो विश्वपूजितः |
विविक्तुः कुत्सनपरो जायते गुरुतल्पगः || १४२ ||
प्रकृतञ्च समाप्याथ गृहीत्वाद्रव्यमुत्तमम् |
तर्पयित्वा महादेवीं शक्तये दक्षिणां ददेत् || १४३ ||
सुवस्त्राभरणाद्यैश्च शक्तिञ्च परितोषयेत् |
त्रिविधं त्रिपुरायाश्च कथितं पूजनं महत् || १४४ ||
अत-एव महाप्राज्ञो निर्विकल्पः सदा भवेत् |
तदा सुविस्तरैः स्तवैः सर्वाणि परिशोधयेत् || १४५ ||
निर्विकल्पतया गात्रयज्ञे दोषो न विद्यते |
अश्वमेधादियज्ञादौ वाजिहत्या कथं भवेत् || १४६ ||
Seite 443 der Vorlage
सर्वभोज्यवस्तूनामामिषत्वम्
फलं क्षीरं घृतं चैव मधु मौरेयमैक्षवम् |
पैष्टीभवं धान्यभवं तथा चक्रविनिर्मितम् || १४७ ||
सहकारभवं चैव विविधं वस्तुभेदतः |
मादकं धर्मसञ्छेदात् वर्ज्यमाहुर्मनीषिणिः || १४८ ||
ज्ञानेन संस्कृते तत्तु महापातकनाशनम् |
ब्रह्महत्यासुरापानस्वर्णस्तेयादिपातकान् || १४९ ||
नाशयेत् पूजनाच्चैव निर्विकल्पः स मन्त्रवित् |
विचारयेत् सदा सर्वं सत्तर्केण सुसाधकः || १५० ||
पयः पिबन्तीह देवा गवां नाश्नन्ति शोणितम् |
मीनं न भुञ्जते हन्त विधवा तत् कथं पयः || १५१ ||
पिबन्ति संसर्गदुष्टं यथान्यदपि वस्तुषु |
जलं जलचरं विद्धि घटपूर्णं समानयेत् || १५२ ||
स्थापितं तद्धि सप्ताहं जलं जीवसमन्वितम् |
अनामिषं नास्ति किञ्चित् सर्वं क्षीरादिकं तथा || १५३ ||
शमीवृक्षे यथा वह्निः सदा तिष्ठति नित्यशः |
सर्वभूतेषु विज्ञानं तथा ज्ञेयं सुसाधकैः || १५४ ||
Seite 444 der Vorlage
काष्ठादिघर्षणाच्चैव प्रकटो वह्निरुच्यते |
तत्काष्ठं दह्यते तेन तथा ब्रह्ममयं जगत् || १५५ ||
पापपुण्यविनिर्मुक्तं ज्ञानमेतदुदाहृतम् |
यज्ञयुक्तस्य नान्यस्य अन्यथा पातकं भवेत् || १५६ ||
सकलं पवित्रं वासना कुत्सिता
मादकं वस्तु सकलं वर्जयेत्कनकादिकम् |
धर्माधर्मपरिज्ञानात् संस्काराच्च पवित्रता || १५७ ||
विण्मूत्रस्त्रीरजो वापि नखास्थि सकलं तथा |
विचारयेन्मन्त्रवित्तु भ्रान्तिरेव न संशयः || १५८ ||
स्त्रीरजः परमं द्रव्यं देहस्तेन प्रजायते |
कथं तद्दूषणं येन प्राप्यते परमं पदम् || १५९ ||
पुरुषस्य यद् बीजं बिन्दुरित्यभिधीयते |
बिन्दुस्तु परमं द्रव्यं कायोऽयं शिवरूपकः || १६० ||
Seite 445 der Vorlage
शिवतत्त्वेन चास्थ्यादिदूषणं नास्ति वैन्दवे |
पृथिव्यापस्ततो वायुराकाशं चन्द्रसूर्यकौ || १६१ ||
एतैः स्थूलशरीरं तु शुक्रशोणितसम्भवम् |
पितृतस्त्रीणि जायन्ते मज्जास्थिस्नायुरेव च || १६२ ||
मातृतस्त्रीणि जायन्ते त्वङ्मांसशोणितानि च |
षाट्कौषिकमिदं प्रोक्तं शरीरं परमर्षिभिः || १६३ ||
मूलशुद्धिः सर्वशुद्धिरिति न्यायः प्रवर्त्तते |
शरीरं यदि शुद्धं स्यात्तदा तत्र न दूषणम् || १६४ ||
सर्वथा नैव दोषोऽस्ति तथा शुक्रेषु निश्चितम् |
ततः पवित्रं देहस्य कारणं केन दूष्यते || १६५ ||
ज्ञानमार्गेण सकलं निर्विकल्पं न दूषणम् |
सविकल्पो यदि भवेत् पापभाग्जायते नरः || १६६ ||
अन्नं ब्रह्ममयं विद्धि तेन यस्य तु सम्भवः |
नानाजीवमयं तत्तु पुरीषं केन दूष्यते || १६७ ||
नानाविधा हि सततं देवताः सलिले स्थिताः |
तेनोदकेन यज्जातं मूत्रं केन च दूषितम् || १६८ ||
Seite 446 der Vorlage
गोमूत्रप्राशनं विप्रैर्गोमयस्य च भक्षणम् |
मले मूत्रे च यो दोषो भ्रान्तिरेव न संशयः || १६९ ||
पवित्रं सकलं चैव वासना कुत्सिता भवेत् |
ततो विचार्य मतिमान् साधकस्तर्कशोधितः || १७० ||
परमार्थतः पूज्यपूजकभेदो मिथ्या
मायामूलमिदं सर्वं ततो जातमिदं जगत् |
पूज्यपूजकभेदश्च मिथ्यैव परमार्थतः || १७१ ||
तस्मात् सर्वप्रयत्नेन ज्ञानमार्गेण शोधयेत् |
सर्वं ब्रह्ममयं विद्धि सत्तर्केण ससाधकः || १७२ ||
प्रकृतञ्च समाप्याथ गृह्णीयाद् द्रव्यमुत्तमम् |
तर्पयित्वा महादेवीं शक्त्या यद्दक्षिणां ददेत् || १७३ ||
त्रिविधं त्रिपुरायास्तु कथितं पूजनं महत् |
वक्ष्येऽहं सर्वशाक्तानां दूतीयजनमुत्तमम् || १७४ ||
नायिकायजनम्
पीठपूजाविधिं कृत्वा पूर्ववत् साधकोत्तमः |
संस्थाप्य तत्र शक्तिञ्च पूर्ववदपि पूजयेत् || १७५ ||
Seite 447 der Vorlage
भक्तिभावेन सम्पूज्य नायिकाञ्च यथोदिताम् |
पूजयेच्च ततस्तस्यां पञ्च कामान् समाहितः || १७६ ||
मायां कामं तथा पूर्वं ब्लूं स्त्रीञ्च यथाक्रमात् |
काम बीजञ्च कन्दर्प मन्मथञ्च ततः परम् || १७७ ||
मकरकेतनं चैव मनोभवञ्च ङेयुतम् |
प्रणवादिनमोऽन्तञ्च क्रमेण गन्धपुष्पकैः || १७८ ||
अर्चयित्वा चतुर्दिक्षु पूजयेत्तदनन्तरम् |
वटुकं भैरवं चैव दुर्गाञ्च क्षेत्रपालकम् || १७९ ||
तस्या मूर्ध्नि त्रिकोणञ्च यन्त्रमालिख्य साधकः |
महाप्रेतासनं मध्ये बालामेव प्रपूजयेत् || १८० ||
मौलौ गणेशं केशाग्रे कुलाध्यक्षं ललाटके |
दुर्गां भ्रुवोस्तथा लक्ष्मीं रसनायां सरस्वतीम् || १८१ ||
स्तनद्वये वसन्तञ्च मदनं चैव पूजयेत् |
मुखे सुधानिधिं पृष्ठे ग्लूं बीजानन्तरोदितम् || १८२ ||
दक्षिणांशं समाश्रित्य आशिरश्चरणावधि |
पूज्याः कामकलास्तस्याः नायिकाऽङ्गेषु सर्वशः || १८३ ||
Seite 448 der Vorlage
तस्यां षोडशकामकलापूजनम्
श्रद्धा प्रीतिस्तथा तुष्टिर्धृतिश्च तदनन्तरम् |
भूतिः कान्तिर्मनोज्ञा च विमला मोदिनी तथा || १८४ ||
मोघा मनोभवकरी प्रमदा मोहिनी तथा |
दीपनी शोषणी चैव वशङ्करी तथा पुनः || १८५ ||
रञ्जनी चैव कामस्य कलाः स्वरविराजिताः |
षोडशचन्द्रकलापूजनम्
ततश्चन्द्रकलाः पूज्या आशिरश्चरणावधि || १८६ ||
पूषा वशा सुमना च रतिः प्रीतिर्धृतिस्तथा |
ऋद्धिश्च सौम्या मरीचिर्बहुमाया ततः परम् || १८७ ||
मदिरा शशिनी छाया तथा सम्पूर्णमण्डला |
तुष्टिस्तथाऽमृता चैव पूज्याश्चन्द्रकला इमाः || १८८ ||
पूजयेन्मदनागारे रक्तचन्दनभूषिते |
भगमालामनुं प्रोच्य पूजयेत्तदनन्तरम् || १८९ ||
वाग्भवं भुवनेशीञ्च कमला वाग्भवं ततः |
जं ब्लूञ्चैव ततः क्लिन्ने सर्वाणीति ततो वदेत् || १९० ||
भगानीति ततः पश्चाद्वशमानय तत्परम् |
स्त्रीं स्फ्रीं क्लेदिनी बीजं क्लीं क्लीं च ततः परम् || १९१ ||
भगमालिन्यै नमः स्वाहा पूजयेच्चक्रमध्यगे |
पूजयित्वा ततश्चक्रं निजदेवीं ततो यजेत् || १९२ ||
Seite 449 der Vorlage
विधिवत् पूजयित्वा च गन्धैः पुष्पैस्तथाऽक्षतैः |
धूपैर्दीपैश्च नैवेद्यैर्विविधैः कुलसाधकः || १९३ ||
विधाय वन्दनं चैव तदुच्छिष्टं स्वयं हरेत् |
अर्चयेद् गन्धपुष्पाद्यैः स्वशिवं तदनन्तरम् || १९४ ||
मूलमन्त्रं समुच्चार्य प्रणवं भुवनेश्वरीम् |
नमः शब्दं ततः पश्चात् शिवायेति ततो वदेत् || १९५ ||
यजेत्तत् पुरुषाघोरसद्यो वामेश्वरानपि |
निवृत्तिञ्च प्रतिष्ठां च विद्यां च तदनन्तरम् || १९६ ||
शान्तिञ्च शान्त्यतीतां च षडङ्गावरणं ततः |
समग्रविद्यामुच्चार्य त्रिकोणं चैव पूजयेत् || १९७ ||
अवधूतेश्वरी कुब्जा-कामाख्या समया अपि |
वज्रेश्वरीकालिके च तथा दिक्करवासिनीम् || १९८ ||
महाचण्डेश्वरीतारे पूजयेत्तत्र साधकः |
तदनुज्ञां ततो लब्ध्वा भुक्त्वा ताम्बूलमुत्तमम् || १९९ ||
स्वशिवं तत्र निःक्षिप्य गजहस्ताख्यमुद्रया |
प्रजपेत् क्षोभरहितश्चाष्टोत्तरसहस्रकम् || २०० ||
Seite 450 der Vorlage
शतमष्टोत्तरञ्चापि अक्षोभस्थिरमानसः |
जपान्ते तज्जपं देव्यै समर्प्य तदनन्तरम् || २०१ ||
क्षुब्धां मनोभवसुखैः पूजयेत् सुचिरं वसेत् |
गलच्चन्द्रद्रवं तस्माद् गृहीत्वा तर्पयेच्छिवाम् || २०२ ||
स्तुत्वा प्रदक्षिणीकृत्य विसर्जयेदनन्तरम् |
विसर्जनं विधायाथ शक्तिञ्च परितोषयेत् || २०३ ||
विधिवद्दक्षिणां दत्त्वा अन्नपानादिभिस्तथा |
एवं यजनमात्रेण मन्त्रसिद्धिर्न संशयः || २०४ ||
प्रकारान्तरदूतीयागः
अथान्यत् सम्प्रवक्ष्यामि दूतीयागमनुत्तमम् |
सम्प्राप्य दिवसं पूर्वदेवीञ्च विधिवद्भगे || २०५ ||
पूजयित्वा जपेन्मन्त्रमयुतद्वितयं तथा |
तस्य लक्ष्मीर्महाविद्या भवेच्च भुवि दुर्लभा || २०६ ||
अष्टमीतिथिमासाद्य पक्षयोरुभयोरपि |
आमन्त्र्य विधिवद्योनिं तत्रैव योगिनीं यजेत् || २०७ ||
Seite 451 der Vorlage
पश्चात् सम्पूज्य देवेशीं मूलमन्त्रञ्च साधकः |
षट्सहस्रं दिवारात्रौ जप्त्वा मन्त्रमनन्यधीः || २०८ ||
सम्प्राप्य महतीं विद्यां देवीपुत्रो भवेद्भुवि |
पुरश्चरणकथनम्
अथातः सम्प्रवक्ष्यामि प्रकारान्तरमुत्तमम् || २०९ ||
योनौ सम्पूजयेद्देवीं सर्वदुःखनिवारिणीम् |
भगाद्यैर्भगमामन्त्र्य भगे भगवतीं ततः || २१० ||
ततो वै लभते सिद्धिं मन्त्रस्य लक्षमानतः |
द्विलक्षेण महावाग्मी त्रिलक्षेण महाकविः || २११ ||
वेदलक्षेण वेदस्य साधकः पारगो भवेत् |
वाक्सिद्धिश्च भवेत्तस्य पञ्चलक्षप्रमाणतः || २१२ ||
रसलक्षैर्भवेत्तस्य अणिमादिगुणाष्टकम् |
सप्तलक्षेण वीरेन्द्रो जीवन्मुक्तो भवेन्नरः || २१३ ||
अत ऊर्ध्वं न जानामि शिव एव न संशयः |
विधिवच्छक्तिमासाद्य साधकः स्थिरमानसः || २१४ ||
सम्पूज्य विधिवद्भक्त्या योनौ मूलं न्यसेत्ततः |
रात्रौ जागरणं कृत्वा हविष्याशी जितेन्द्रियः || २१५ ||
योनिं स्पृष्टा जपेन्मन्त्रमेकाकी लक्षमानतः |
Seite 452 der Vorlage
जायते मन्त्रसिद्धिस्तु नात्र कार्या विचारणा || २१६ ||
सर्वसिद्धिः करे तस्य सत्यं सत्यं सुनिश्चितम् |
अथवा विषुवे चैव मासान्तपक्षयोरपि || २१७ ||
अष्टम्याञ्च चतुर्दश्यां चन्द्रसूर्यग्रहे तथा |
श्मशाने वा यथाशक्त्या गुरोर्वा शिवसन्निधौ || २१८ ||
लतामानीय यत्नेन योनौ चक्रं यथाविधि |
लिखनञ्च प्रकुर्वीत कुङ्कुमागुरुचन्दनैः || २१९ ||
मन्त्रञ्च प्रलिखेत्तस्यामावाह्य परमेश्वरीम् |
सम्पूज्य विधिवद् भक्त्या साधकः स्थिरमानसः || २२० ||
जपेन्मन्त्रं दिवारात्रौ योषितां योनिदेशतः |
लक्षमेकं तदूर्ध्वं वा दशभिर्होममाचरेत् || २२१ ||
पूजाञ्च विधिवत् कृत्वा यथाविभवविस्तरैः |
परितोष्य गुरुं पश्चान्मन्त्रसिद्धिश्च जायते || २२२ ||
महावाग्मी भवेत् सोऽपि धनवान् राजवल्लभः |
लक्ष्मीस्तस्य सदा गेहे वाणी वक्त्रे सुनिश्चितम् || २२३ ||
भुवि शक्रसमो वीरो जीवन्मुक्तः प्रजायते |
Seite 453 der Vorlage
प्रकारान्तरेण दूतीयजनम्
अथवान्यप्रकारेण दूतीयजनमुत्तमम् || २२४ ||
तत्र तां स्थापयेद्दूतीं पूजयेच्च यथाविधि |
वस्त्रालङ्करणं चैव दत्त्वा तस्यै यथोचितम् || २२५ ||
धूपयित्वा रक्तवस्त्रं दूतीं कुर्यात् सुलक्षणाम् |
पद्मं भूमौ समालिख्य षट्कोणान्तर्गतं लिखेत् || २२६ ||
तस्योपरि गतां नारीं निर्जने भूषणान्विताम् |
ततस्तां गन्धपुष्पाद्यैर्नानोपहारविस्तरैः || २२७ ||
देवीरूपेण सम्भाव्य पूजयेत्तां यथाविधि |
तस्या गात्रे न्यसेन्मन्त्रं पञ्चबाणान् क्रमेण तु || २२८ ||
स्वकल्पोक्तक्रमेणैव न्यासजालं प्रविन्यसेत् |
दीक्षयित्वा तन्मूलेन देवीबुद्ध्या यजेत्ततः || २२९ ||
योनौ वा पूजयेद्देवीं यस्माद्योनिमयी शिवा |
योनौ कामेश्वरीं चैव नाभौ वज्रेश्वरीं ततः || २३० ||
Seite 454 der Vorlage
हृद्वक्त्रस्तन्मध्येषु पूजयेत् परदेवताम् |
योनिं सदाऽक्षतां कृत्वा जपेद्विद्यां ततः पराम् || २३१ ||
अयुतञ्च जपं कृत्वा सर्वसिद्धीश्वरो भवेत् |
शक्तिमानीय विधिवत् पूजयेद्योनिमण्डले || २३२ ||
सम्पूज्य निजदेवीञ्च सायुधां सपरिकराम् |
भगिनीं भगजिह्वाञ्च भगास्यां भगमालिनीम् || २३३ ||
भगदन्तां भगाक्षीञ्च भगवर्णां भगत्वचाम् |
भगस्तनीं भगाङ्गीञ्च भगस्थां भगसर्पिणीम् || २३४ ||
भगे भगवतीं तस्याः सम्पूज्य भगमालया |
वाग्भवं कामबीजञ्च कमलाबीजमेव च || २३५ ||
इति बबीजत्रयं दत्त्वा ङेयुताश्च नमोऽन्तिकाः |
पूजयित्वा ततः पश्चान्मूलमन्त्रं जपेत्ततः || २३६ ||
एकायुतजपं कृत्वा सर्वसिद्धिपरायणः |
सर्वशास्त्रार्थवेत्ता च सर्वगः सर्ववित् प्रभुः || २३७ ||
दूतीयागमाहात्म्यकथनम्
इदानीं कथ्यते दूतीयागस्य महिमा भृशम् |
Seite 455 der Vorlage
योषितां योनिमास्थाय सर्वसिद्धिर्न संशयः || २३८ ||
एतत् पूजनमम्बायाः सर्वतन्त्रेषु गोपितम् |
इत्थं पूजाविधिं कृत्वा सर्वसिद्धियुतो भवेत् || २३९ ||
लभते विमलां वाणीं कवीनामग्रणीर्भवेत् |
ऐश्वर्यमतुलं प्राप्य वशीकुर्याज्जगत्त्रयम् || २४० ||
सिद्धगन्धर्वदेवैश्च किन्नरैर्दानवैस्तथा |
राक्षसैर्मनुजैर्नित्यं पूज्यो भवति साधकः || २४१ ||
सर्वेषां वल्लभः सोऽपि योगिनीनां सुदुर्लभः |
अन्ते च रमते देव्या साक्षात् स्मरहरोपमः || २४२ ||
चन्दनागुरुगन्धाद्यैर्लताः सम्पूज्य यत्नतः |
सर्वपापविनिर्मुक्तो रमेत् कल्पायुतं भुवि || २४३ ||
वस्त्रालङ्कारमाल्यैश्च तोषयेद् यदि कामिनीम् |
अतुलां श्रियमाप्नोति स गच्छेत्पार्वतीपदम् || २४४ ||
Seite 456 der Vorlage
मत्स्यमांसदधिक्षौद्रपिष्टकैः पायसादिभिः |
भोजयेद्युवतीं यस्तु स भवेत् पृथिवीपतिः || २४५ ||
कायेन मनसा वाचा सुन्दरीं यश्च तोषयेत् |
स भवेत् साधकश्रेष्ठो मातॄणाञ्च भवेत् प्रियः || २४६ ||
बालिकां यदि पश्येच्च निर्जने च दिगम्बरीम् |
तदा तदा प्रपूज्येत देवीं ध्यात्वा यथाविधि || २४७ ||
स च सर्वप्रियो भूत्वा वाग्मी एककविर्भवेत् |
एतत्तु सर्वभूतानां तन्त्राणां गोपितं भुवि || २४८ ||
ज्ञात्वा गुरुमुखात् सर्वं शिवतुल्यो भवेन्नरः |
निर्विकल्पस्तु मन्त्रज्ञो भवेद् वै साधकः सदा || २४९ ||
काम्यं नैमिक्तिकं ज्ञात्वा चण्डिकां परिपूजयेत् |
दीक्षितस्याऽधिकारोऽत्र नान्यस्यैव कदाचन || २५० ||
भूतलिपेः मन्त्रसिद्धेः द्रावणादिविविधा उपायः
अथ सर्वत्र जप्तव्यं अष्टोत्तरसहस्रकम् |
अमृतत्रयसंयोगात् दुष्टमन्त्रोऽपि सिध्यति || २५१ ||
Seite 457 der Vorlage
एवं भूतलिपिश्चैव हृल्लेखा मोदिनीत्रयम् |
त्र्यमृतेन पुटीकृत्य यो मन्त्रं भजतेऽचिरात् || २५२ ||
क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः |
पञ्चह्रस्वा सन्धिवर्णा व्योमेराग्निजलन्धरा || २५३ ||
अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् |
पञ्च वर्गाक्षराणि स्युर्वान्तं श्वेतेन्दुभिः सह || २५४ ||
एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः |
पुरश्चर्यादिभिर्मन्त्रो यदि सिद्धो भवेन्न हि || २५५ ||
उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः |
द्रावणं बोधनं वश्यं पीडनं पोषशोषणम् || २५६ ||
दहनान्तं क्रमात् कुर्यात्ततः सिद्धो भवेद् ध्रुवम् |
वारुणेनैव बीजेन ग्रथनं कारयेन्मनुम् || २५७ ||
तन्मन्त्रयन्त्रमालिख्य शिह्लकर्पूरकुङ्कुमैः |
उषीररोचनाख्याभिर्मन्त्रं संग्रथितं लिखेत् || २५८ ||
क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् |
पूजनाज्जपनादर्चनाद् द्रावितः सिद्धिदो मनुः || २५९ ||
Seite 458 der Vorlage
द्रावितोऽपि न सिद्धश्चेद् बोधनं तस्य कारयेत् |
सारस्वतेन बीजे सम्पुटीकृत्य तं जपेत् || २६० ||
एवं कृते न सिद्धिश्चेद्वशीकुर्यात्ततः परम् |
आरक्तचन्दनं कुष्ठं हरिद्रा मदनं शिला || २६१ ||
एतैस्तु मन्त्रमालिख्य भूर्जपत्रे सुशोभने |
धार्यं कण्ठे न चेत् सिद्धिः पीडनं तस्य कारयेत् || २६२ ||
अधरोत्तरयोगेन पादानि परिजप्यते |
ध्यायेत्तु देवतां तद्वत्तदधोत्तररूपिणीम् || २६३ ||
विद्यामादौ च दुग्धेन लिखित्वाऽक्रम्य चाङ्घ्रिणा |
तथा भूतेन मन्त्रेण होमं कार्यं दिने दिने || २६४ ||
पीडितो लज्जयाऽविष्टः सिद्धः स्यादथ पोषयेत् |
बालायास्त्रितयं बीजमाद्यन्ते तस्य योजयेत् || २६५ ||
गोक्षीरमधुना लिख्य विद्यां पाणौ विधारयेत् |
पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वीत शोषणम् || २६६ ||
द्वाभ्यां च वायुबीजाभ्यां मन्त्रं कुर्याद्विदर्भितम् |
Seite 459 der Vorlage
एषा विद्या गले धार्या लिखिता शवभस्मना || २६७ ||
शोषितोऽपि न सिद्धश्चेद्दहनीयोऽग्निबीजतः |
आग्नेयेन तु बीजेन मन्त्रस्यैकैकमक्षरम् || २६८ ||
आद्यन्तमध ऊर्ध्वञ्च योजयेद्दाहकर्मणि |
ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् || २६९ ||
धारणात् कण्ठदेशे तु ततः सिद्धो भवेन्मनुः |
एवं क्रमेण कुर्वीत पुरश्चरणमुत्तमम् || २७० ||
पुरश्चर्यादिभिर्विना मन्त्रसिद्धेरुपायः
अथान्यत् सम्प्रवक्ष्यामि मन्त्रसिद्धेस्तु कारणम् |
मन्त्रसिद्धिर्भवेद्येन पुरश्चर्यादिभिर्विना || २७१ ||
शिवशिखिसितभानुं पञ्चमान्त्यस्वराढ्यं
द्वितयमिदमपूर्वं बीजमुग्रप्रभायाः |
क्षणमपि खमणीनां मण्डलान्तर्विभाव्य
क्षपयति दुरदृष्टं वादिराड् जायते सः || २७२ ||
स जयति रिपुवर्गान् वादिराजान् विवादे
नमयति रमणीनां चित्तचौरश्चिरायुः |
कथयति कविराजैरप्यदृष्टं सुकाव्यं
मधुमतिरपि हेयः किंपुनः सिद्धिसङ्घाः || २७३ ||
Seite 460 der Vorlage
कुलयुवति सुयोनौ मन्त्रवर्णान् विलिख्य
निखिल निगमवर्णान् सुप्तदोषादिदुष्टान् |
विदित गुरुकुलान्तर्वाह्यवर्त्मा विधिज्ञो
मनुपुटितपटीयान् साधयेत् शान्तचेताः || २७४ ||
कुलपथमनुसन्धायामितायां सुभूमौ
तव जननि जनो यस्तर्पयेत्तीर्थतोयैः |
रुधिरतरसुपुष्पैर्गन्धमाल्यानुलेपै
रचित युवतिवेशस्तद्धिया ध्यायते सः || २७५ ||
परिचरति समस्तैर्न्यासपूर्वैः प्रसिद्धै-
स्तव परिकरजालैर्योनिचक्रे प्रपूज्य |
सुविमलकुलजां त्वां ह्रींघृणावर्जितो यः
स्वयमपि रचिताङ्गः क्षोभकृद्योगिनीनाम् || २७६ ||
पशुरिपुकुलचक्रं संस्पृशन् मध्यशाखं
सुरतरु सुरनाथः शापभ्रष्टः सुरेशः |
Seite 461 der Vorlage
कुलपतिकुलनाथस्तद्द्वयं योजयित्वा
मनुपुटितविमृग्यं योजयेत्तद्बहिर्यः || २७७ ||
जननि तव कलानां कोविदः कामरूपः
कुमतिरहितचित्तःसंलिखेत्तां त्रिधारेः |
विगतभय विवादध्वान्तजालः सुधांशु-
स्तव चरणतलान्तर्धूलिजालैर्विशालैः || २७८ ||
परिजनितवपुस्तद्धर्मभिर्देव पूज्यैः
परिचरति सुविज्ञो मोक्षचर्याधिपः सः |
मदनमदवधूनां बीजमुद्धृत्य शक्तिं
तदनु कठिनबीजं लोकधात्रीं तदन्तः || २७९ ||
यदि जपति मदन्तर्भावमासाद्य सद्यः
सुरनगरगतिस्तैः सिद्धिवर्गैः स पूज्यः |
शिवभृगुमदपृथ्वीशक्तियुक्तं सुसिद्धं हरिहरचतुरास्यस्वस्वभूतिप्रसूतम् || २८० ||
परमपुरुषसञ्ज्ञः क्षोभकृत् कामिनीना
मधिपतिरपि वाचां श्रीपतिः सार्वभौमः |
Seite 462 der Vorlage
भृगुमदकठिनाधः कामबीजं तदग्रे
भुवनभयविनाशः क्षोभिणीं योजयित्वा || २८१ ||
जपति यदि सकृद्वा चिन्त्यते वीरसिंहः
कुलयुवतिकुलान्तः क्षोभकृत् कामभावात् |
मदनमदतलाधः शक्तिबीजं नियोज्य
स्मरहरहरिरूपी कामरूपः कुबेरः || २८२ ||
रिपुकुलहरिणाक्षीलोचनाम्भोजविप्रुट्
प्रसभजलनिषेकात् खण्डितान्ताघतापः |
शिवभृगुमदमूलं लोभमूलं समूलं
भजति यदि गुरूणां वर्णमूलं विमृग्यम् || २८३ ||
निधिपतिरपि नाथो गीष्पतिः क्षुद्रचेता
यदि भवति तदेतन्मुख्यमुर्वीपतित्वम् |
Seite 463 der Vorlage
वरणरणविवर्जं घ्राणमेवं विवर्ज्यं
तदुपरि मृगचिह्नं द्वन्द्वमेतत् भवान्याः || २८४ ||
निखिल मनु वराणां मुख्यदानैकदक्षः
स कुसुमशरधर्मक्षोभकृन्मन्त्रराजः |
अमलशिरसि धर्मं वादिराजं स्वतन्त्रं
तव समनय युक्तं बीजमन्यद् भवान्याः || २८५ ||
द्वितयमपि विमानं वक्तुमीशो महेशः
किमिह कमलजन्मा जन्मधरासहस्रैः |
इह जपति य एनं मन्त्रराजं स्वभाग्यैः
भजति जननि युष्मत्पादपद्मोत्थभक्त्या || २८६ ||
त्यजति परपुमांसं मादृशं चापि काले
न खलु वपुरनर्घ्यं तस्य काचित् कदाचित् |
विहित गुरुमुखाद्वा वालकाद्वा पशोर्वा
लिखितमपि स्वबुद्ध्या प्राप्य कस्मादकस्मात् || २८७ ||
स्मररिपुपुरपारे मोक्षपूर्याधिपारे
परमपदविलीनः सर्वसौभाग्यभोगैः |
Seite 464 der Vorlage
अनलपुरविभागे कालिकावर्णबीजं
तदपि यदि विदध्याद्दिग्युतं दन्तवर्णम् || २८८ ||
नयनयुतलकारं मस्तके नामयुक्तं
तदनु विकटदंष्ट्रा सोत्कटं बीजयुक्तम् |
यदि जपति समस्तं गुह्यगुह्यातिगुह्यं
त्रिजगति किमिहास्ते क्लेशलभ्यं कथञ्चित् || २८९ ||
क्रम पठितपूर्वं सर्वमेवानुमध्यं
मनुरपरवाच्यं तस्य मध्यस्वरूपम् |
भजति यदि चिदानन्दधूक्केवलोऽसौ
विपिन भुवि च मध्ये कौतुकान् मां मनुष्यः || २९० ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये सप्तदशोल्लासः || १७ ||
अष्टादश उल्लासः
सिद्धिलक्षणनिरूपणम्
अथ वक्ष्ये सिद्धिचिह्नं साधकस्य यथा भवेत् |
अकस्मात् संलभेद् गन्धं धूपस्य कुसुमस्य वा || १ ||
सदा वा प्रियसम्भाष्यं लभ्यते योषितामपि |
स्वप्ने वृषं गजाश्वं वा यद्वाऽरोहति साधकः || २ ||
सिद्धमन्त्रो भवेत् सोऽपि नात्र कार्या विचारणा |
स्वप्ने वा जायते योषिद्वृन्दैः सम्मिलनं निशि || ३ ||
गजादिशैलशृङ्गेषु विहारो राजदर्शनम् |
राज्ञां तथाऽङ्गनानाञ्च दर्शनं नृत्यगीतयोः || ४ ||
सौधगेहं तथा मञ्चं प्रासादञ्च मनोहरम् |
रथं वा तरणिं वापि स्वप्नेष्वारोहयेत्तु यः || ५ ||
सम्यक्सिद्धिर्भवेत्तस्य शिवः सोऽपि न संशयः |
ध्वजञ्च प्रतिमां चैव राजानं रुधिरं तथा || ६ ||
रुधिरालेपनं स्वाङ्गे मदिरालेपनं तथा |
मदिरालोकनं मांसं स्त्रियं वा चारुहासिनीम् || ७ ||
Seite 466 der Vorlage
स्त्रीभिर्वा वेष्टितो यस्तु स्वप्ने भवति साधकः |
मन्त्रसिद्धिर्भवेत्तस्य सत्यमेव न संशयः || ८ ||
गोमांसं वापि चान्यस्य भक्षयेद्योऽपि मांसकम् |
लभेद्वा भक्षयेद्वाऽपि स्पर्शयेद्वा कदाचन || ९ ||
देवतानरगन्धर्वनारीणां दर्शनं भवेत् |
चरगोरुणितम्वाया वक्षोजमुखपङ्कजम् || १० ||
एतेषां तु फलं चैव परङ्गुर्वादिकं गुरुम् |
तेषां प्रसादः स्नेहञ्च वात्सल्यं प्रियदर्शनम् || ११ ||
सिद्धिचिह्नानि
सिद्धिचिह्नं भुवि ज्ञेयं यदि न व्यपते मनः |
यदि भाग्यवशाच्चैव कुलदृष्टिस्तु जायते || १२ ||
अवार्धक्यं भवेत्तस्य सर्वसिद्धिः करे स्थिता |
अकालपनसं चैव भक्षणं दर्शनं तथा || १३ ||
अगम्यागमनं चैव गुरोः सन्दर्शनं तथा |
परमान्नभक्षणञ्च शोणितञ्च विशेषतः || १४ ||
दिव्यान्नं वापि भुक्त्वा च सिद्धो भवति साधकः |
Seite 467 der Vorlage
साधकं द्रव्यरूपञ्च देवतां वा प्रपश्यति || १५ ||
खड्गं वा फलकं वापि अमृतं वापि पुस्तिकाम् |
सिद्धिद्रव्यं शवं चैव वसनाभरणादिकम् || १६ ||
रक्तमाल्यं रक्तपुष्पं स्वप्ने प्राप्नोति साधकः |
सिद्धः सोऽपि भवेत् सत्यं संशयो नास्ति निश्चितम् || १७ ||
गजं वा तुरगं वापि शिवलिङ्गञ्च पश्यति |
पीठादिगमनं तत्र देवतादर्शनं तथा || १८ ||
उद्यानं काननं वापि भूदेवयतिदर्शनम् |
बालकं भिक्षुकं चैव फलादीनां तु लोलुपम् || १९ ||
पशुपक्षिफलादीनं विश्वासः प्रियदर्शनः |
मनसा भाविते कार्ये शङ्खादिध्वनिरुत्सवः || २० ||
वेणुवीणारवं गीतं विचित्रदर्शनं तथा |
अज्ञातजनसम्वादो नष्टद्रव्योदयं तथा || २१ ||
अकस्माद् भावसिद्धिस्तु अलक्षितजनस्तुतिः |
क्षुद्रस्य महती पूजा सुकृती च कृतस्तुतिः || २२ ||
अदृष्टशास्त्रविज्ञानं तेजस्वी जनवल्लभः |
मन्त्रलाभस्तथा स्वप्ने गुरूणां दुहितुस्तथा || २३ ||
पत्नीनां साधकानाञ्च उत्कटोत्कटदर्शनम् |
असुगन्धिः सुगन्धिश्च श्रद्धा पुष्पोद्भवस्तथा || २४ ||
स्वप्ने चैव पुरश्चारी पुरश्चरणकर्मणि |
इति विज्ञाय वीरेन्द्रः प्रयोगञ्च समाचरेत् || २५ ||
Seite 468 der Vorlage
निन्द्यचिह्नानि
अथ निन्द्यानि वक्ष्यामि विद्यानर्थकराणि च |
कृष्णवर्णभटं स्वप्ने प्रहारस्तेन मेलनम् || २६ ||
मैथुनं परनारीभिर्विनाशो मरणं तथा |
राज्यक्षोभवह्निवायुजन्तुभिर्वधदर्शनम् || २७ ||
गुरोराक्षेपसम्पत्तिर्जन्तूनां व्याधिसाधनम् |
अन्यमन्त्रार्चने श्रद्धा स्वदेवार्चननिन्दनम् || २८ ||
असिद्धार्थकुले तत्र सिद्धार्थजपमाचरेत् |
गणेशं वटुकं पश्चात् क्षेत्रेशं योगिनीस्तथा || २९ ||
पूजयेद्रात्रिसमये बलिं चैव सदाऽर्पयेत् |
कुमारं बटुकं भद्रं लक्ष्मीं सुचारुनायकम् || ३० ||
स्वशक्तिं पञ्चक्षेत्रेशं योगिनीं योगिभिः सह |
पूजयित्वा विधानेन बलिं पश्चान्निवेदयेत् || ३१ ||
Seite 469 der Vorlage
ततः सिद्धो भवेन्मन्त्रो निर्विघ्नेन सुनिश्चितम् |
अथातः सम्प्रवक्ष्यामि काम्यप्रयोगमुत्तमम् || ३२ ||
काम्यप्रयोगकथनम्
रजोऽवस्थां समालोक्य तन्मूले स्वेष्टदेवताम् |
पूजयित्वा महारात्रौ त्रिदिनं प्रजपेन्मनुम् || ३३ ||
लक्षपीठफलं चैव लभते साधकोत्तमः |
वेतालपादुकासिद्धिं खङ्गसिद्धिन्तथैव च || ३४ ||
अञ्जनं तिलकं चैव प्राप्नोति क्षोभवर्जितः |
कुलागारं पुष्पिताया दृष्ट्वा यो जपते नरः || ३५ ||
अयुतैकप्रमाणेन साधकः स्थिरमानसः |
केवलं गुप्तभावेन स तु विद्यानिधिर्भवेत् || ३६ ||
संस्कृताः प्राकृताश्चैव लौकिका वैदिकास्तथा |
वशमायान्ति ते सर्वे साधकस्य न चान्यथा || ३७ ||
अथवा मुक्तकेशश्च भुवि भुक्त्वा सुसंयतः |
प्रजप्य चाऽयुतं प्राज्ञः एतदेव फलं लभेत् || ३८ ||
नग्नां परलतां पश्यन् अयुतं यस्तु साधकः |
प्रजपेद् यो भवेत् सद्यो विद्यायावल्लभः स्वयम् || ३९ ||
Seite 470 der Vorlage
तस्य दर्शनमात्रेण वादिनः कुण्ठतां गताः |
गद्यपद्यमयी वाणी सभायां तस्य जायते || ४० ||
तस्य वाक्यपरिचयाज्जडीभवन्ति वाग्मिनः |
तन्नाम्ना सुधियः सर्वे प्रणमन्ति मुदान्विताः || ४१ ||
हविर्भुक्त्वाऽथवा पूर्वक्रमेणैव फलं भवेत् |
अथवा धनकामस्तु महदैश्वर्यकामुकः || ४२ ||
बृहस्पतिसमो यस्तु भवितुं कामयेन्नरः |
अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य तत्त्ववित् || ४३ ||
मैथुनं यः करोत्येव स तु सर्वफलं लभेत् |
अथवा हस्तमारोप्य स्थिरधीः पूतमानसः || ४४ ||
कवित्वं लभते सोऽपि अमृतत्वञ्च गच्छति |
पृथ्वीमृतुमतीं वीक्ष्य सहस्रं यदि नित्यशः || ४५ ||
तदा वादी सुसिद्धान्ते ततः क्षितितलं विशेत् |
महाचीनक्रमे देवीं ध्यात्वा देवीं प्रपूजयेत् || ४६ ||
तद्द्रुमोद्भवपुष्पेण पूजयेद् भक्तिभावतः |
स भवेत् कुलदेवश्च कुलद्रुमगतः शुचिः || ४७ ||
Seite 471 der Vorlage
ब्रह्मतरोर्मूलपद्मे देवीं ध्यात्वा यथाविधि |
तत्सुधाधारसारेण तर्पयेन्मातृकानने || ४८ ||
पद्मं दृष्ट्वा तथा विल्वं खञ्जनं शिखनं तथा |
चामरं रविविम्बञ्च तिलपुष्पं सरोवरम् || ४९ ||
त्रिसृतं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः |
मुखप्रसादं सुवचः सुलोचनं सुहास्यकम् || ५० ||
सुवेशं सुभगं गन्धं सुजनं सुखमेव च |
लभते च यथासंख्यं साधकः स्थिरमानसः || ५१ ||
महाचीनक्रमः
महाचीनद्रुमलता वेष्टितेन च यत् फलम् |
तस्यापि षोडशांशेन फलं नार्हनित ते शवाः || ५२ ||
शवासनाधिकफलं लतागृहप्रवेशनम् |
लतारतेषु जप्तव्यं महापातकमुक्तये || ५३ ||
धनार्थी प्रजपेद्विद्यां परयोषित् समागमे |
लताभावे समुत्सार्य स्वशुक्रं साधकोत्तमः || ५४ ||
अक्षुब्धं प्रजपेन्मन्त्रं धर्मकामार्थसिद्धये |
इति चीनक्रमेणैव तारा शीघ्रफलप्रदा || ५५ ||
Seite 472 der Vorlage
गुरुवाक्यक्रमेणैव त्रिपुरा भुक्तिमुक्तिदा |
महाचीनक्रमेणैव कालिका फलदायिणी || ५६ ||
सप्तसप्ततिभेदा या श्रीविद्या कथिता भुवि |
तासान्तु समता ज्ञेया गुप्तसाधनसाधने || ५७ ||
चत्त्वारिंशत् प्रकारा या भैरवी विदिता भुवि |
तासां तु समता ज्ञेया गुप्तसाधनसाधने || ५८ ||
या या विद्या महाचण्डास्तासामेवं विधिर्मतः |
महाचीनक्रमेणैव छिन्नमस्ता तु सिद्धिदा || ५९ ||
सर्वा याश्चण्डिका विद्यास्तासां चैवं विधिः स्मृतः |
यथा काली तथा तारा यथा बाला तथोन्मुखी || ६० ||
यथा काली तथा दुर्गा यथा दुर्गा तथा जटा |
यथाऽसौ त्रिपुरा बाला तथा त्रिपुरभैरवी || ६१ ||
सुन्दरी च तथा ज्ञेया मर्द्दिनी च तथा परा |
अन्या या या महाविद्या तथा भवति निश्चितम् || ६२ ||
Seite 473 der Vorlage
मन्त्रं यन्त्रं पृथग्भावात् साधनेनैकतां भजेत् |
एतत्यन्त्रञ्च मन्त्रञ्च पुत्रेभ्योऽपि न दर्शयेत् || ६३ ||
अन्यथा प्रेतराजस्य भवनं याति निश्चितम् |
अथातः सम्प्रवक्ष्यामि काम्यसाधनमुत्तमम् || ६४ ||
संयोज्य मूलमन्त्रान्ते क्रमोत्क्रमेण मातृकाम् |
आमन्त्रयेत्ततः पश्चात् पञ्चविंशतिसंख्यया || ६५ ||
प्रातरेव जलं धीरो भावयेन्मातृकामयम् |
तदम्बुपानतो मन्त्री वाग्मी द्रुतं कविर्भवेत् || ६६ ||
त्रिमासान्नाऽत्र सन्देहः षण्मासात् वाक्पतिर्भवेत् |
काम्यकर्त्ता महावाग्मी भवेत् श्रुतिधरा नरः || ६७ ||
अष्टमात् सर्वमन्त्राणां पारगो विश्वपूजितः |
सर्वज्ञतां लभेद्वीरो नात्र कार्या विचारणा || ६८ ||
द्विवर्षादष्टसिद्धिश्च त्रिवर्षात्तु शिवो भवेत् |
प्रदीपकलिकाकारं जिह्वायां मूलमन्त्रकम् || ६९ ||
देवतां शुक्लवर्णाञ्च विभाव्य यो जपेन्मनुम् |
Seite 474 der Vorlage
त्रिमासादूर्ध्वतो मन्त्री पूर्ववत् फलमाप्नुयात् || ७० ||
तत्तत्प्रकारभेदेन तत्तत्फलमवाप्नुयात् |
प्रातरेव हि जप्तव्यमष्टोत्तरसहस्रकम् || ७१ ||
अथवाऽन्यप्रकारं तु वक्ष्यामि तन्त्रवर्त्मना |
बलिदानादिकं सर्वं विधाय पूर्ववद् बुधः || ७२ ||
श्मशानालयमागत्य मुक्तकेशो दिगम्बरः |
जपेदयुतसङ्ख्यं तु सर्वकामार्थसिद्धये || ७३ ||
महाचीनद्रुमलतामज्जाभिर्विप्रपुत्रकम् |
सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः || ७४ ||
तदा राज्यमवाप्नोति यदि स न पलायितः |
स्वगात्ररुधिराक्तैश्च बिल्वपत्रैः सहस्रशः || ७५ ||
श्मशानेऽभ्यर्च्य देवीन्तु वागीशसमतां व्रजेत् |
श्मशानशयनो वीरः शवासनगतः शुचिः || ७६ ||
असकृत् प्रजपेन्मन्त्रं सर्वसिद्धिर्भवेत्ततः |
कविर्वाग्मी धनी दक्षः सर्वयोषित्प्रियः सुखी || ७७ ||
Seite 475 der Vorlage
जायते नात्र सन्देहश्चण्डिकासाधकः स्वयम् |
क्षुद्रविट्चुअरभूतानि देवीं ध्यात्वा विनाशयेत् || ७८ ||
नाभिमात्रजले स्थित्वा देवीमर्कगतां स्मरन् |
अष्टोत्तरशतं जप्त्वा साधको लभते श्रियम् || ७९ ||
रेतोयुक्तेन पुष्पेण अर्कस्येह सहस्रशः |
श्मशानेऽभ्यर्च्य देवीन्तु सर्वसिद्धिं तु विन्दति || ८० ||
धनवान् बलवान् वाग्मी सर्वयोषित्प्रियो भवेत् |
सुखी स्यान्नात्र सन्देहो महाकालवचो यथा || ८१ ||
च्छन् यो तं शा ग ने षि श्म येत् न्त्रं क गे ल्प म प्र भ |
रक्तचन्दनदिग्धाङ्गीं रक्तपुष्पैरलंकृताम् || ८२ ||
त जां कु गे वीं पू प्र भ जवापुष्पैर्विशेषतः |
मन्त्रं प्रोच्चारयेत्तत्र ने ग वे गे श लिं प्र भ || ८३ ||
कुण्डगोलोद्भवैः पुष्पैः स्वयम्भूकुसुमेन च |
पूजयित्वा तत्र देवीं यो वै ध्यायेच्च देवताम् || ८४ ||
तत्र गत्वा लभेत् सिद्धिं यदि वा न भयं व्रजेत् |
अष्टम्याञ्च चतुर्दश्यां पूजयित्वा यथाविधि || ८५ ||
अर्घ्यं दत्त्वा ततः पश्चात् जवापुष्पञ्च वर्वराम् |
चन्दनञ्चाऽर्ककुसुमं तथा श्वेतापराजिताम् || ८६ ||
अर्घ्यं दत्त्वा विशेषेण देवीमर्कगतां स्मरन् |
Seite 476 der Vorlage
अष्टोत्तरशतं जाप्यं यावज्जीवनसंख्यया || ८७ ||
आज्ञासिद्धिमवाप्नोति सत्यं सत्यं न संशयः |
प्रातः स्नानरतो मन्त्रीं नित्यमष्टोत्तरं शतम् || ८८ ||
जपेत्तस्याऽशु सिध्यन्ति धनधान्यादिसम्पदः |
अनेन विधिना मन्त्री ग्रहक्षुद्ररिपून् जयेत् || ८९ ||
अथोच्यते पदाघातं देव्यास्तन्त्रविधानतः |
स्वकल्पोक्तं विधायाऽथ साधको विजितेन्द्रियः || ९० ||
सर्वद्रव्यसमायुक्तो देवताध्यानतत्परः |
विवादे जपकाले वा यत्किञ्चित् कुलसाधने || ९१ ||
तत्रादौ चक्रमालिख्य सिन्दूररजसाऽप्लुतम् |
रात्रौ प्रपूजयेद् गेहे स्थित्वा पदात्मिकां पराम् || ९२ ||
जप्त्वाऽयुतप्रमाणेन तथा चामन्त्रयेत्ततः |
एहि मातर्जगद्धात्रि सञ्चारे चरणाकुले || ९३ ||
शुभाशुभमये रात्रे कथयस्व जगत्पते |
एवं निमन्त्रयित्वा तु सप्तवारान् सुसंयतः || ९४ ||
भक्तिभावेन सम्पूज्य दत्त्वा च बलिमुत्तमम् |
ततो वीक्षेच्चक्रराजं साधकः स्थिरमानसः || ९५ ||
Seite 477 der Vorlage
पदाघातं समालोक्य ज्ञातव्यं तच्छुभाशुभम् |
साधकाभिमुखं चिह्नं उभयोर्यदि चैकतः || ९६ ||
सव्यस्य दक्षिणस्यापि शुभं भवति निश्चितम् |
विपरीतफलं दद्याद्विपरीते सुनिश्चितम् || ९७ ||
पदमध्ये शुभा रेखा शुभदा शुभयोगतः |
विपरीतफलं तत्तु विपरीतञ्च निश्चितम् || ९८ ||
क्षुद्रं क्षुद्रफलं प्रोक्तं दीर्घं दीर्घफलप्रदम् |
अथातः पादुकामन्त्रं कथयामि समासतः || ९९ ||
पादुकां पूजयाम्यद्य आद्यन्तमण्डितां वदेत् |
सर्वभूते महाशक्तिः पादाग्रे या स्थिता यतः || १०० ||
अतस्तौ चरणौ पूज्यौ सर्वत्र भूतिमिच्छता |
आद्यन्तरहिता देवी पादुकादिस्वरूपिणी || १०१ ||
योषितां योनिमास्थाय सर्वसिद्धिप्रदायिनी |
स्वतन्त्रेयं महाविद्या न प्रकाश्या कदाचन || १०२ ||
Seite 478 der Vorlage
संहारक्रमयोगेन देवी संहाररूपिणी |
सृष्टिक्रमेण देवेशीमहासृष्टिप्रवर्त्तिनी || १०३ ||
स्थितिक्रमेण सा देवी स्थितितत्त्वप्रवर्त्तिनी |
ब्रह्मविष्णुस्वरूपा सा महादेवस्वरूपिणी || १०४ ||
आद्ये मधुमतीसिद्धिः संहारक्रमयोगतः |
अन्ते क्षेत्रेण सिद्धिः स्याच्छेषे गन्धर्वयोनयः || १०५ ||
समुदाये महामोक्षं ददाति परमा कला |
पादुका परमा विद्या सप्ताक्षरसमन्विता || १०६ ||
एतां विना महाविद्या नैव सर्वफलप्रदा |
कथितेयं महाविद्या यत्नाद् गोप्या सदैव हि || १०७ ||
लोकस्नेहादिदानीं तु कथितञ्च सुदुर्लभम् |
एतत्तन्त्रञ्च मन्त्रञ्च प्रयोगञ्च तथा परम् || १०८ ||
अतिभक्ताय पुत्राय प्राणदाय न दर्शयेत् |
अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || १०९ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये अष्टादशोल्लासः || ९८ ||
एकोनविंश उल्लासः
षट्कर्मविधानम्
अथातः सम्प्रवक्ष्यामि षट्कर्मविधिमुत्तमम् |
शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः || १ ||
मारणं कर्मषट्कञ्च तेषां लक्षणमुच्यते |
शान्त्यादिषट्कर्मलक्षणम्
रोगकृत्या ग्रहादीनां निरासः शान्तिरीरिता || २ ||
वश्यं जनानां सर्वेषां विधेयत्वमुदाहृतम् |
प्रवृत्तिरोधः सर्वेषां स्तम्भनं तदुदाहृतम् || ३ ||
स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम् |
सद्विद्यासिद्धिकालादीन् ज्ञात्वा कर्माणि साधयेत् || ४ ||
पूर्वोक्तबलिमन्त्रेण बलिं दद्याच्चतुष्पथे |
रात्रावेव प्रयोगादौ शिवायै च सुसिद्धये || ५ ||
Seite 481 der Vorlage
तत्तत्कर्मसु मन्त्रयन्त्रकालनिर्णयः
दिक्कालदेवतादींश्च(ज्ञात्वा)विद्वेषे व्योम कीर्त्तितम् |
उच्चाटने स्मृतो वायुर्भूयोऽग्निर्मारणे मतः || ६ ||
स्वच्छं वियन् मरुत् कृष्णो रक्तोऽग्निविशदं पयः |
पीता भूमिः पञ्चभूत रूपमेतदुदीरितम् || ७ ||
वृत्तं दिवस्तत् षड्बिन्दुलाञ्क्षितं मातरिश्वनः |
त्रिकोणं स्वस्तिकोपेतं वह्नेरर्धेन्दुसंयुतम् || ८ ||
अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् |
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः || ९ ||
वर्णाः स्वैरञ्जितान्याहुः स्वस्वनामावृतान्यपि |
शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः || १० ||
भूतानामुदयं द्वयोरपि बुधः संलक्षयेत् पक्षयो-
स्तत्राधो वसुधोदयं निशितधीर्घ्राणस्य दण्डस्पृशि |
देवेधःस्पृशि वारिणो हुतवहस्योर्ध्वं गते तूदयं
तिर्यक् संस्पृशि मारुतस्य परितः स्पृष्टे मरुद्वर्त्मनः || ११ ||
वश्यस्तम्भनयोः प्रशस्त उदयो भूमेर्जलस्योदयः
Seite 482 der Vorlage
शस्तः शान्तिकपौष्टिकादिषु शुभेष्वह्नाय वह्नेः पुनः |
शत्रोर्मारणदारणादिकरणेषूच्चाटनोच्छ्वासया-
र्वायोः शान्तिकनिर्विषीकरणयोर्व्योम्नो हि तश्चोदयः || १२ ||
तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुते |
यन्त्रं कुर्यात् रोचनया गुण्डिकया हरिद्रया || १३ ||
गृहधूमचिताङ्गारविषैरथ क्रमेण तु |
शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् || १४ ||
वर्णाः स्युर्मन्त्रबीजानि षट्कर्मसु यथाक्रमम् |
वश्यादौ लेखनी दूर्वा आकर्षे शिखिपुच्छिका || १५ ||
विद्वेषोच्चाटने काकपक्षेणापि च मारणम् |
षट्कर्मदेवतानिरूपणम्
रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमात् || १६ ||
षट्कर्मदेवताः प्रोक्ताः कर्मादौ ताः प्रपूजयेत् |
Seite 483 der Vorlage
अथातः सम्प्रवक्ष्यामि षट्कर्मकाल निर्णयम् || १७ ||
षट्कर्मकालनिर्णयः
पञ्चमी च द्वितीया च चतुर्थी सप्तमी तथा |
बुधेज्यरविसंयुक्ता शान्तिकर्मणि पूजिता || १८ ||
गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी |
नवमी पौष्टिके शस्ता अष्टमी नवमी तथा || १९ ||
दशम्येकादशी चैव बानुशुक्रदिने तथा |
आकर्षणे त्वमावस्या नवमी प्रतिपत्तथा || २० ||
पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि |
कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारकाः || २१ ||
उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः |
चतुर्दश्यष्टमी कृष्णा त्वमावास्या तथैव च || २२ ||
मन्दारार्कदिनोपेता शस्ता मारणकर्मणि |
बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा || २३ ||
पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि |
शुभग्रहोदये कुर्यात् शुभानि च शुभोदये || २४ ||
Seite 484 der Vorlage
रौद्रकर्माणि रिक्तार्के मृत्युयोगे च मारणम् |
ईशश्चन्द्रेन्द्रनिर्-ऋतिवायवग्नीनां दिशो मताः || २५ ||
सूर्योदयं समारभ्य घटिकादशकं क्रमात् |
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने || २६ ||
वसन्तग्रीष्मवर्षाख्याशरद्धेमन्तशैशिराः |
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि || २७ ||
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः |
प्रावृडुच्चाटने ज्ञेयः शरन्मारण कर्मणि || २८ ||
षट्कर्मसु आसनादिनिर्णयः
गोमेषयोः शान्तिके च व्याघ्रस्य खड्गिनोऽपि वा |
वश्ये च स्तम्भने शस्ता गजचर्मणि द्वेषके || २९ ||
उच्चाटने भल्लूकस्य मेषस्य मारणे तथा |
महिषाश्वयोर्वा चर्मणि साधयेत् साधकोत्तमः || ३० ||
पद्माख्यं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः |
वज्रं भद्रकमित्याहुरासनानि मनीषिणः || ३१ ||
Seite 485 der Vorlage
अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु |
ऊर्वोरुपरि वीरेन्द्रः कृत्वा पादतले उभे || ३२ ||
पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् |
पूजाजपविधानेन अङ्गुष्ठं धारणञ्चरेत् || ३३ ||
जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे |
ऋजुकायः सुखासीनः स्वस्तिकं तत् प्रचक्षते || ३४ ||
सीवन्यामात्मनः पार्श्वे गुल्फौ निःक्षिप्य पादयोः |
एतद्वा स्वस्तिकं प्रोक्तं सव्ये न्यस्येतरं करम् || ३५ ||
पद्मासनं समास्थाय जानूर्वोरन्तरे करौ |
निवेश्य भूमौ संस्थाप्य रोमस्थः कुक्कुटासनः || ३६ ||
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् |
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलः || ३७ ||
भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् |
Seite 486 der Vorlage
ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यम्मुखाङ्गुलौ || ३८ ||
करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् |
स्वस्वकल्पविधानेन पूजादींश्च समाचरेत् | ३९ ||
मुद्राविधानम्
षण्मुद्राः क्रमशो ज्ञेयाः पद्मपाशगदाह्वयाः |
मुषलाशनिखड्गाद्याः शान्तिकादिषु कर्मसु || ४० ||
हस्तौ तु सम्मुखौ कृत्वा सन्नतावुन्नताङ्गुलौ |
तलान्तमिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका || ४१ ||
वाममुष्टिस्तु तर्जन्यां दक्षमुष्टिस्तु तर्जनीम् |
संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे क्षिपेत्ततः || ४२ ||
एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्त्तिता |
अन्योन्याभिमुखौ हस्तौ कृत्वा च ग्रथिताङ्गुलौ || ४३ ||
अङ्गुल्यौ मध्यमे भूयः संलग्ने च प्रसारिते |
गदामुद्रेयमाख्याता विद्वद्भिः परिकीर्त्तिता || ४४ ||
Seite 487 der Vorlage
मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् |
कुर्यान्मुषलमुद्रेयं सर्वविघ्नविनाशिनी || ४५ ||
अनामिकाद्वयं वेष्ट्य चाकुञ्च्य तर्जनीद्वयम् |
कनिष्ठां मध्यमां चैव ज्येष्ठाङ्गुष्ठेन च क्रमात् || ४६ ||
वज्रमुद्रेयमाख्याता विद्वद्भिः परिकीर्त्तिता |
कनिष्ठानामिकां बद्ध्वा साङ्गुष्ठेनैव संयुता || ४७ ||
शेषाङ्गुली तु प्रसृते संस्पृष्टे खड्गमुद्रिका |
सितरक्तपीतमिश्रा कृष्णधूम्रा प्रकीर्त्तिताः || ४८ ||
षट्कर्मदेवतावर्णाः कथितास्तु यथाक्रमात् |
यद्वर्णदेवता यत्र तद्वर्णञ्चोपहारणम् || ४९ ||
पुष्पं चैव तथा ज्ञेयं साधकानां सुसिद्धये |
मन्त्रेणान्तरितान् कुर्यान्मारणानि यथाविधि || ५० ||
षट्कर्मसु विन्यासाः
ग्रथनञ्च विदर्भश्च सम्पुटं रोधनं तथा |
Seite 488 der Vorlage
योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु || ५१ ||
ग्रथनम्
योगास्त्रान्तरितान् कृत्वा साध्यवर्णान् यथाविधि |
ग्रथनं तद्विजानीयात् प्रशस्तं शान्तिकर्मणि || ५२ ||
विदर्भः
मन्त्रार्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत् |
विदर्भ एव विज्ञेयो मन्त्रिभिर्वश्यकर्मणि || ५३ ||
सम्पुटः
आदावन्ते च मन्त्रस्यस्यान्न्यासः सम्पुटः स्मृतः |
एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः || ५४ ||
रोधनम् योगः पल्लवः
नाम्न आद्यन्त मध्येषु मन्त्रः स्याद्रोधनं मतम् |
विद्वेषस्य विधाने तु प्रशस्तो न्यास उत्तमः || ५५ ||
मन्त्रस्यान्ते भवेन्नाम योग प्रोच्चाटने मतः |
अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे स्मृतः || ५६ ||
Seite 489 der Vorlage
षट्कर्मसु मालाविधानम्
मुक्ताभिः स्फाटिकैर्वापि समायोज्याऽक्षसूत्रकैः |
शान्तिकर्मणि मिश्रं वा जपेन्मन्त्रस्य सिद्धये || ५७ ||
प्रवालरक्तमणिभिर्वश्यपौष्टिकयोर्जपेत् |
मन्त्रतुल्याङ्गमणिभिर्जपेदाकृष्टकर्मणि || ५८ ||
साध्यकेशसूत्रप्रोतैस्तुरङ्गदशनोद्भवैः |
अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् || ५९ ||
मृतस्य युद्धशून्यस्य दशनैर्गर्दभस्य च |
कृत्वाऽक्षमालां जप्तव्यं शत्रुमारणमिच्छता || ६० ||
सामान्या कथिता माला विशेषाः पूर्वसूचिताः |
अनामिकामध्यभागे मालां संस्थाप्य साधकः || ६१ ||
शान्तिकस्तम्भवश्येषु वृद्धाग्रेण प्रचालयेत् |
तर्जन्याङ्गुष्ठयोगेन विद्वेषोच्चाटयोर्जपेत् || ६२ ||
कनिष्ठाङ्गुष्ठयोगेन मारणे जप ईरितः |
मातृकयाऽथवा कुर्याद् यथातन्त्रविधानतः || ६३ ||
Seite 490 der Vorlage
सर्वेषु च प्रयोगेषु द्विसहस्रं जपञ्चरेत् |
अथवान्यप्रकारेण कथ्यते साधनं महत् || ६४ ||
आकर्षणविधानम्
महाचीनद्रुमे बीजं लिखित्वा कुङ्कुमेन च |
तत्पार्श्वे साध्यमालिख्य ताडयेद् दिव्यदृष्टिभिः || ६५ ||
तत्र गच्छति कामार्त्ता यत्र देशे स पूजकः |
गोरोचनादिभिर्द्रव्यैः स्वीयचन्द्रं समालिखेत् || ६६ ||
अतीव सुन्दरीं रम्यां तन्मध्ये प्रतिमां शुभाम् |
ज्वलन्तीं नामसहितां कामबीजविदर्भिताम् || ६७ ||
चिन्तयेत्तु ततो देवीं योजनानां सहस्रतः |
अदृष्टपूर्वा सा शक्तिः द्रुतमायाति दुर्लभा || ६८ ||
राजकन्याऽथ चार्वंगी भयलज्जाविवर्जिता |
आयाति साधकं सम्यक् मन्त्रमूढा सती शुभा || ६९ ||
चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद् यदा |
Seite 491 der Vorlage
उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा || ७० ||
साध्यमप्यरुणीभूतं चिन्तयेत् साधकोत्तमः |
अनेन क्रमयोगेन युवा कन्दर्परूपवान् || ७१ ||
सर्वसौभाग्यसुभगः सर्वलोकवशङ्करः |
सर्वरक्तोपचारस्तु मुद्रानिहितविग्रहः || ७२ ||
चक्रं प्रपूजयेद्यस्तु यस्य नामविदर्भितम् |
स भवेद्दासवत् सत्यं धनेशो वापि वाक्पतिः || ७३ ||
चक्रमध्यगतं कृत्वा नाम यस्यास्तु योषितः |
अदृष्टा वा सती वापि योगमुद्राधराऽपि वा || ७४ ||
हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् |
नागिनीमप्सरां वापि गन्धर्वीं वा सुराङ्गनाम् || ७५ ||
विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्त्रियः |
मदनोद्भवसन्तापां स्फुरज्जघनसुस्तनीम् || ७६ ||
कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषीम् |
महाकामकलाध्यानात् साधकः स्थिरमानसः || ७७ ||
क्षोभयेत् स्वर्गभूलोकपातालतलयोषितः |
रोचनाभागमेकं तु भागमेकं तु कुङ्कुमम् || ७८ ||
अथ भागद्वयं चैव चन्दनैर्मर्दयेत् समम् |
Seite 492 der Vorlage
एकत्र तिलकं कुर्यात् त्रिलोकवशकारकम् || ७९ ||
अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् |
राजानं नगरं ग्रामं यत्किंचिदन्यदुच्यते || ८० ||
साधकेनैव नियतं तत् सर्वं तस्य वश्यगम् |
योनिपुष्पैर्लिङ्गपुष्पैर्मिश्रीकृत्य च साधकः || ८१ ||
अञ्जलित्रयदानेन राजानं वशमानयेत् |
पुत्तलीप्रयोगः
रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि || ८२ ||
चारुशृङ्गारवेशाढ्यां सर्वाभरणभूषिताम् |
प्रतिमां सुन्दरीं रम्यां विलिख्य सुमनोहराम् || ८३ ||
तद्भालगलहृन्नाभियोनिमण्डले योषिताम् |
यस्या नाम महाविद्यामङ्कुशान्तर्विदर्भितम् || ८४ ||
कामं वह्निसमारूढं अधरोत्तरसंयुतम् |
बिन्दुनादकलाक्रान्तमङ्कुशं परिकीर्त्तितम् || ८५ ||
सर्वसन्धिषु देहस्य कामबीजं समालिखेत् |
स्वरान्तं पृथिवीसंस्थं रतिबिन्दुसमन्वितम् || ८६ ||
कथितं कामबीजञ्च सर्वसिद्धिप्रदायकम् |
नीलदाडिम्बपुष्पाभं चिन्तयेद्देहसन्धिषु || ८७ ||
Seite 493 der Vorlage
तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपकः |
मुद्रां तु क्षोभिणीं बद्ध्वा मन्त्रमष्टशतं जपेत् || ८८ ||
नियोज्य मदनागारे चलसूर्य नवात्मके |
ततोऽप्यधिकसर्वाङ्गीं कामबाणैः सुपीडिताम् || ८९ ||
अनन्यमानसां प्रेमभ्रममाणां मदालसाम् |
एवमाकर्षयेन्नारीं योजनानां शतैरपि || ९० ||
ईशानेऽङ्कुशमासाद्य तत्र यन्त्रं विलिख्य च |
अष्टमीरात्रिमारभ्य चतुर्दश्यां समापयेत् || ९१ ||
अष्टोत्तरशतं मर्त्यो मन्त्रयित्वा स्वयं यतः |
ताम्बूलपूरितमुखो मुक्तकेशो जितेन्द्रियः || ९२ ||
मदिराघूर्णनयनः परयोषित्समायुतः |
गन्धचन्दनपुष्पैस्तु दिग्वासाः कुलभूषणः || ९३ ||
यन्नाम्ना दर्भितं यन्त्रं पूजयेद्वीरसाधकः |
सा समायाति कामार्त्ता यत्र देवः स पूजकः || ९४ ||
Seite 494 der Vorlage
अन्यप्रयोगकथनम्
अथ चेद्रात्रिसमये स्वकुलं तूलिकोपरि |
वामभागे समासीनं रक्तवस्त्रविभूषितम् || ९५ ||
गन्धपुष्पैर्धूपदीपैर्वेष्टितं सुमनोहरम् |
सर्वशृङ्गारवेशाढ्यं स्फुरच्चकितलोचनम् || ९६ ||
कुचद्वन्द्व जितामित्रविशालकरिकुम्भकम् |
ललाटे मन्त्रमालिख्य साध्यनामविदर्भितम् || ९७ ||
तत्स्कन्धे भुजमारोप्य भङ्ग्याधृतकुचाचलः |
ताम्बूलपूरितमुखः कुलं तदभिसंहितम् || ९८ ||
कुलाकुलजपं कृत्वा समानयति तत्क्षणात् |
यन्नाम्ना लिखितं यन्त्रं ताञ्च नयति तत्क्षणात् || ९९ ||
शतयोजनबाह्यस्थां नदीपर्वतमध्यगाम् |
द्वीपान्तरसहस्रेषु रक्षितां निगडादिभिः || १०० ||
पयोधरक्षुब्धमध्यां चञ्चलोत्पललोचनाम् |
नितम्बविम्बविद्ध्वस्तस्फुरज्जघनमण्डलाम् || १०१ ||
साधकाकृष्टहृदयां विवरान्तःप्रसर्पिणीम् |
कवाटलोहसन्नद्धपूरिकाविवरान्तरे || १०२ ||
साधकान्तः समासीनां देवतामिव चारिणीम् |
एवमाकृष्टिसिद्धिश्चेत् साधकः कौलिको भवेत् || १०३ ||
Seite 495 der Vorlage
केनापि व्यपदेशेन समासाद्य बलिं कुलात् |
रात्रौ वीरवरो वापि दिव्यो वा साधकोत्तमः || १०४ ||
निजं कुलं समादाय तत्कुलस्थान एव च |
विलिख्य मालिनीं देवीमारक्तवसनोज्ज्वलाम् || १०५ ||
निजवामोरुमध्ये तु निजमन्त्रविदर्भितम् |
मणिना साध्यनामानं विलिख्य तस्य मध्यतः || १०६ ||
स्वयं कामकलारूपस्तत्राऽवाह्य महेश्वरीम् |
कामराजेन संयुक्तां देवं ध्यात्वा सुसाधकः || १०७ ||
पूजयित्वा ततो जप्यमष्टोत्तरसहस्रकम् |
यन्नाम्ना दीयते चैव सा वश्यं प्रतिपद्यते || १०८ ||
एतद्विधानयोगे तु प्रभवन्ति हि देवताः |
योगिन्योऽप्सरसश्चापि के परे नरकिङ्कराः || १०९ ||
स्वयं दिव्यधरो वापि किम्वाऽयं वीरसाधकः |
इति चेत् ज्ञायते लोकैस्तदा भ्रष्टो भविष्यति || ११० ||
तस्माद् यत्नाद् गोपितव्यं न प्रकाश्यं कदाचन |
Seite 496 der Vorlage
अनयाकृष्टिकर्मज्ञ इति चेत् प्रतिपद्यते || १११ ||
निश्चितं निमिषे हानिस्तदा तस्य प्रजायते |
यदि स्वप्नावतीं विद्यां साधकः स्थिरमानसः || ११२ ||
रात्रौ च दिवसे वापि जपेदष्टोत्तरं शतम् |
जप्त्वा विघ्नं कदाचिद्धि पथि तस्य न विद्यते || ११३ ||
अतिगुप्तेन कर्त्तव्यं वीरेण कुलसाधनम् |
निःसङ्गेन सदा कुर्यात् कुलाकृष्टिं विशेषतः || ११४ ||
कुलगेहप्रवेशार्थं रात्रौ यामगते बुधः |
जलमध्ये च दुर्मार्गे आरामे वा श्मशानके || ११५ ||
शून्यागारे तथा बिल्वमूले वा जनवर्जिते |
अष्टोत्तरसहस्रं तु यो जप्त्वा गच्छति ध्रुवम् || ११६ ||
तस्य विघ्नं न जायेत साधने सर्वथा पुनः |
अथवा स सर्वकार्येषु जप्त्वा चाष्टसहस्रकम् || ११७ ||
गच्छेद्यदि सदा धीरस्तदा विघ्नं न जायते |
न च विघ्नं ततस्तत्र तत्र तत्र जपान्तरम् || ११८ ||
Seite 497 der Vorlage
गमनं तस्य जायेत तस्य विघ्नं न वर्त्तते |
अथवा मातृकां सर्वां लिखित्वा चक्रबाह्यतः || ११९ ||
भूर्जपत्रे स्वर्णपत्रे रौप्येऽथ ताम्रपत्रके |
साध्यनामान्वितं कृत्वा धारयेद्वामबाहुके || १२० ||
सोऽवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः |
अथवा मातृकायुक्तां स्वसञ्ज्ञां चक्रमण्डिताम् || १२१ ||
कर्पूरकुङ्कुमाद्यैश्च अजरामरतां लभेत् |
अनेन विधिना वापि रोचनागुरुचन्दनैः || १२२ ||
विदर्भितञ्च नाम्ना तु यस्मिन् कस्मिन्नुपस्थितम् |
स्थावरं जङ्गमं वापि सकलं जलमण्डलम् || १२३ ||
वशीकुर्यान्महावीरः सोऽतिक्रान्तः न संशयः |
कामराजेन बीजेन महाकामकलात्मना || १२४ ||
एकैकान्तरितं कृत्वा साध्यनामाक्षरं लिखेत् |
बलिरस्या लिखेदेवं वेष्टयेन्मातृकाक्षरैः || १२५ ||
हेममध्यगतं कृत्वा धारयेद्वामके भुजे |
शिखायामथवा वस्त्रे शरीरे यत्र कुत्र वा || १२६ ||
करोति दासभूतं हि त्रैलोक्यं सचराचरम् |
सम्मोहयति राजानं वाजिनं दुष्टकुञ्जरम् || १२७ ||
चौरान् दस्यून् तथा चैव तथा मन्त्राभिचारकम् |
चक्रवज्राणि वेतालं दुर्दमं राक्षसं तथा || १२८ ||
Seite 498 der Vorlage
भूतप्रेतापिशाचांश्च धारिता चक्ररूपिणी |
येन वीरेण तत्सर्वं स कुर्याद्दासवद्वशम् || १२९ ||
तन्मध्ये च गतां पृथ्वीं सशैलवनकाननाम् |
चतुःसमुद्रपर्यन्तां ज्वलन्तीं चिन्तयेत्ततः || १३० ||
षण्मासध्यानयोगेन जायते मदनोपमः |
दृष्ट्याऽकर्षयते लोकं दृष्ट्यैव कुरुते वशम् || १३१ ||
दृष्ट्या सङ्क्षोभयेन्नारीं दृष्ट्यैवाऽपहरेद्विषम् |
दृष्ट्या कर्षति वागीशं दृष्ट्या सर्वविलोचनम् || १३२ ||
दृष्ट्या चतुर्विधस्त्रीणां नाशयेद्विषमज्वरान् |
एतत् प्रपूजनं रात्रौ चक्रं सिन्दूरमिश्रितम् || १३३ ||
करोति महदाकर्षं दूरस्थायाश्च योषितः |
मध्ये दिक्षु विदिक्ष्वेवं यदा देवीं प्रपूजयेत् || १३४ ||
दिक्पतिक्रमयोगेन तदा सर्वं जगत्त्रयम् |
भूर्जपत्रे विलिख्यैव रोचनागुरुकुङ्कुमैः || १३५ ||
Seite 499 der Vorlage
तन्मध्ये नगरं देशं मण्डलं खण्डमेव वा |
स्वनामदर्भितं कृत्वा यदि भूमौ निधापयेत् || १३६ ||
चक्रमेतन्महाभागे पुरःक्षोभनमुत्तमम् |
धारयेद्वामहस्तेन कण्ठे वा भुजमूलके || १३७ ||
शिखायामथवा वस्त्रे धारयेद्यत्र कुत्र वा |
रोचना कुङ्कुमाक्तञ्च लाक्षालक्तकसंयुतम् || १३८ ||
अर्कक्षीरेण संयुक्तं धूस्तूरकरसं तथा |
कस्तूरीद्रवसंयुक्तं एकीकृत्य ततः परम् || १३९ ||
चक्रमेतत् समालिख्य यस्य नाम्ना सुसाधकः |
तस्य व्याघ्रगजव्याधिरिपुसर्पविषादिकम् || १४० ||
चौरग्रहजलारिष्टशाकिनीडाकिनीभयम् |
भयं न विद्यते कुत्र परमञ्चाभिचारकम् || १४१ ||
नित्यं संसाधयेद् देवीं कालमृत्युं विनाशयेत् |
न शक्तो हिंसितुं तस्य रोमैकमपि सर्वथा || १४२ ||
Seite 500 der Vorlage
अथवा मध्यगां देवीं त्रिकोणोदरगां तथा |
अधस्तान्नामसंयुक्तां रोचनाकुङ्कुमान्विताम् || १४३ ||
निधापयेच्च सप्ताहाद्दासवत् किङ्करो भवेत् |
ताम्बूलधूपमुदकं पत्रं पुष्पं फलं दधि || १४४ ||
दुग्धं घृतं दन्तपत्रं वस्त्रं कर्पूरमेव वा |
कस्तूरीं घुसृणं चैलां लवङ्गं जातिपत्रकम् || १४५ ||
फलं वा वस्तु यच्चान्यत् सकलं वा कदाचन |
अष्टोत्तरशतं जप्त्वा यस्मै कस्मै प्रयच्छति || १४६ ||
स वश्यो जायते सत्यं नात्र कार्या विचारणा |
स्त्रियश्च सकला वश्या दासीभूता भवन्ति हि || १४७ ||
हठाकर्षणमेतत्तु कथितं नान्यथा भवेत् |
पीतद्रव्येण संलिख्य धारयेदिन्द्रदिग्गतम् || १४८ ||
नाम्ना सर्वाङ्गभूतोऽपि मूको भवति तत्क्षणात् |
सहस्रवदनश्चापि मूको भवति निश्चितम् || १४९ ||
महानीलरसेनापि नाम संयोज्य पूर्ववत् |
दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयतेऽचिरात् || १५० ||
Seite 501 der Vorlage
महिषाश्वपुरीषाभ्यां गोमूत्रैर्नाम चाङ्कितम् |
कृत्वा शरावमध्यस्थं विद्विष्टं सर्वजन्तुषु || १५१ ||
युतं रोचनया नाम काकपक्षेण संलिखेत् |
नीलकर्पटके सम्यक् नीलसूत्रेण वेष्टयेत् || १५२ ||
लम्बमानस्तदाकाशे परमुच्चाटनं भवेत् |
दुग्धलाक्षारोचनाभिर्महानीलरसेन च || १५३ ||
लिखित्वा धारयेच्चक्रं सर्ववर्णान् वशं नयेत् |
अनेनैव विधानेन जलमध्ये विनिःक्षिपेत् || १५४ ||
सौभाग्यमतुलं प्राप्य स्नानपानान्न संशयः |
एतन्मध्यगतां पृथ्वीं नागरीं वा सुराङ्गनाम् || १५५ ||
सप्ताहात् क्षोभयेन्नित्यं ज्वालामालां विचिन्तयन् |
लिखित्वा पीतवर्णेन स्वीयचक्रं यदाऽर्चयेत् || १५६ ||
पूर्वाशाभिमुखो भूत्वा स्तम्भयेत् सर्ववादिनः |
सिन्दूरेण लिखेच्चक्रं पूजयेदुत्तरामुखः || १५७ ||
यदत्र दासो वशगो लोको भवति सर्वदा |
चक्रं गैरिकयाऽलिख्य पूजयेत् पश्चिमामुखः || १५८ ||
Seite 502 der Vorlage
सर्वाङ्गनावश्यकारी मोहकारी सदा भवेत् |
दक्षिणाभिमुखो भूत्वा नित्यं चक्रं यदाऽर्चयेत् || १५९ ||
यस्य नाम्ना तस्य नित्यं महाहानिस्तु जायते |
चक्रं वह्निमुखो भूत्वा रात्रौ सम्पूजयेत् सुधीः || १६० ||
स्तम्भविद्वेषणव्याधिशत्रूच्चाटनकारकम् |
रोचनालिप्तितं चक्रं दुग्धमध्ये वशङ्करम् || १६१ ||
क्षिप्तं गोमूत्रमध्ये तु शत्रूच्चाटनकारकम् |
तैलस्थं चक्रराजं तु विद्वेषणकरं परम् || १६२ ||
ज्वलज्ज्वलनमध्यस्थं सर्वशत्रुविनाशनम् |
एकायुतं जपं कुर्यात् प्रयोगेषु च साधकः || १६३ ||
त्रिकोणं कुण्डमासाद्य सम्यक् शास्त्रविधानतः |
तस्मिन् होमं प्रकुर्वीत संस्कृते हव्यवाहने || १६४ ||
प्रक्षाल्य गव्यदुग्धेन संशोध्य लवणं सुधीः |
चूर्णितं जुहुयान्मन्त्री सप्ताहाद्वशयेज्जनान् || १६५ ||
Seite 503 der Vorlage
दधिमध्वाज्यसंसिक्तैः सैन्धवैर्जुहुयात् पुनः |
वशयेत् सकलान् देवान् गन्धर्वान् किं सुपर्णकान् || १६६ ||
विशुद्धं लवणप्रस्थं विभक्तं पञ्चधा पृथक् |
यस्य नाम्ना स वश्यः स्यादनेनैव न संशयः || १६७ ||
शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् |
जलं पञ्चाशतं दद्याद्वशं नयति वाञ्छितम् || १६८ ||
दक्षिणकालिकार्चनविधानम्
दक्षिणाया विशेषञ्च कथयामि विशेषतः |
कूर्चलज्जाद्वयं चान्ते आद्याबीजं तथैव च || १६९ ||
योजयित्वा जपेद्विद्यामयुतं वशमानयेत् |
कालिकाध्यानम्
नागयज्ञोपवीताञ्च चन्द्रार्धधृतमस्तकाम् || १७० ||
जटाजूटसमायुक्तां महाकालसमीपगाम् |
अष्टोत्तरशतामन्त्र्य पूर्वद्रव्येण साधकः || १७१ ||
तेनैव तिलकं कृत्वा वशयेज्जगतीमिमाम् |
शताभिमन्त्रितं कृत्वा रोचनातिलकेन तु || १७२ ||
राजानं साधकश्रेष्ठो वशमानयति क्षणात् |
Seite 504 der Vorlage
आद्ये चैकं तु बीजानां तथैवान्ते च एककम् || १७३ ||
दक्षिणे कालिके चेति साध्यं संयोज्य मन्त्रवित् |
स्वाहान्तं मन्त्रमुच्चार्य भवेदाकर्षणं महत् || १७४ ||
लोहिताङ्गुलिहस्तां च एकशूलधरां तथा |
महाकालाग्र आसीनां ध्यात्वा चाकर्षणञ्चरेत् || १७५ ||
स्थावरं जङ्गमं चैव पातालतलगं तथा |
आकर्षयति मन्त्रज्ञः किमन्यत् भुवि योषितः || १७६ ||
शेषञ्च वशवत् कुर्यादुच्चाटनमथोच्यते |
पिङ्गाक्षीं कृष्णवर्णाञ्च कर्त्रीखर्परधारिणीम् || १७७ ||
ध्यात्वा चोच्चाटयेच्छत्रून् पूर्ववज्जपमाचरेत् |
अन्ते च ठद्वयं दत्त्वा प्रजपेन्मनुमुत्तमम् || १७८ ||
कपिलां द्विभुजां कर्त्रीकपालसव्यदक्षिणम् |
Seite 505 der Vorlage
उत्थितां सन्नतां ध्यायेत् साधको रिपुमारणे |
ध्यानानुसारेण फलकथनम्
विशेषः कथितः काल्याः सामान्यमथ वक्ष्यते |
उच्चाटयति पिङ्गाक्षी संद्रावयति केकरा || १८० ||
विद्रावयति मुक्तास्या सन्तत्रासयति घूर्णिता |
विक्षोभयति संक्षुब्धा सम्पातयति सन्नता || १८१ ||
सङ्कोचयति वित्रस्ता प्रबुद्धा वा प्रबोधयेत् |
यं यं भावं जनो ध्यायेत् तत्र तत्र स्मरेदपि || १८२ ||
अत्र सर्वत्र कर्तव्यं भावमात्रस्य चिह्नितम् |
उच्चाटनादि सर्वत्र मैथुनान्ते समाचरेत् || १८३ ||
धूस्तूरकाष्ठयोगेन चितावह्नौ च मन्त्रवित् |
उलूककाकपक्षैश्च होमाच्छत्रून् विनाशयेत् || १८४ ||
उच्चाटनार्थं शत्रूणां होमं कुर्याच्च मन्त्रवित् |
पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने || १८५ ||
Seite 506 der Vorlage
उलूककाकपक्षाभ्यां कृत्वा होमं विनिर्दशेत् |
विद्वेषणविधानेन अन्योन्यकलहान्वितम् || १८६ ||
उलूकपक्षहोमेन गर्भपातो भवेत् स्त्रियाः |
सहस्रेण प्रमाणेन कुर्याद्धोमं यथाविधि || १८७ ||
श्मशानाङ्गारमादाय मङ्गले वासरे निशि |
कृष्णवस्त्रेण संवेष्ट्य बध्नीयात् रक्ततन्तुभिः || १८८ ||
शताभिमन्त्रितं तच्च निःक्षिपेदरिमन्दिरे |
सप्ताहाभ्यन्तरे तस्य ध्रुवमुच्चाटनं भवेत् || १८९ ||
महाचीनद्रुमरसेनाक्तं पिण्डं विधाय च |
यन्नाम्ना दीयते तच्च सोऽचिरान्मृत्युमर्हति || १९० ||
नरास्थिनि लिखेन्मन्त्रं क्षारयुक्त हरिद्रया |
सहस्रं परिसञ्जप्य निशायां रविवासरे || १९१ ||
क्षिप्यते यस्य गेहे तु तस्य मृत्युस्त्रिमासतः |
क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे || १९२ ||
Seite 507 der Vorlage
धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयः |
द्वेष्यद्वेषकयोर्नाम्नि तयोर्द्वेषो महान् भवेत् || १९३ ||
पुत्तलीप्रयोगकथनम्
मन्त्रं कृष्णतृतीयादि प्रजपेद्यावदष्टमीम् |
पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः शुभाः समाः || १९४ ||
एका साध्यद्रुमेण स्यादन्या पिष्टमयी तथा |
चक्रिहस्तमृदाऽन्या स्यादन्यामधुमयी तथा || १९५ ||
लवणं पञ्चसम्भूतं चूर्णितं दुग्धशोधितम् |
प्रोक्षयेच्च तथा क्षीरदध्याज्यमधुभिः क्रमात् || १९६ ||
गुडाज्यमधुभिः सम्यक् मिश्रितेनाम्बुना ततः |
कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् || १९७ ||
पुत्तल्यां जीवमाधाय मन्त्रन्यासं ततः परम् |
रक्तवस्त्रधरां शुद्धां पुत्तलीं दारुणा कृताम् || १९८ ||
अधोमुखीं हुनेत् कुण्डे पिष्टजामासनादधः |
मृण्मयीं प्रतिमां पाददेशे न्यस्येत्तथात्मनः || १९९ ||
मधूच्छिष्टमयीं व्योम्नि कुण्डस्योर्ध्वं प्रलम्बयेत् |
लवणेन कृतां पश्चात् प्रतिमां संस्पृशन् जपेत् || २०० ||
निजमन्त्रं यथान्यायमष्टोत्तरसहस्रकम् |
Seite 508 der Vorlage
अग्निमादाय सन्दीप्य साध्यनक्षत्रदारुभिः || २०१ ||
तस्मिन्नभ्यर्च्य मन्त्रोक्तां देवतां रूप्यपत्रके |
कुशीतराजिदूर्वाभिर्दत्त्वाऽर्घ्यं प्रणमेत् सुधीः || २०२ ||
मन्त्रैरेतैः प्रयोगादावन्ते च यतमानसः |
त्वरानन्दन शत्रुघ्न निशायां हव्यवाहन || २०३ ||
हविषा मन्त्रदत्तेन तृप्तो भव मया सह |
जातवेदो महादेव तप्तजाम्बूनदप्रभ || २०४ ||
स्वाहापते विश्वभक्ष लवणं दह शत्रुहन् |
ओं दुर्गे सर्वविपर्यासि ग्रस्तं युक्तं त्वया जगत् || २०५ ||
महादेवि नमस्तुभ्यं वरदे वरदा भव |
तमोमयि महादेवि महादेवस्य सुव्रते || २०६ ||
क्रिया मे पुरुषं हुत्वा वशमानय देहि मे |
ओं दुर्गे दुर्गे दुर्गासि दुर्गसंरोधनाकुले || २०७ ||
शङ्खचक्रधरे देवि दुष्टशत्रुभयङ्करि |
नमस्ते दह मे शत्रुं वशमानय चण्डिके || २०८ |
शाकम्भरि महादेवि शरणं मे भवाऽनघे |
भद्रकालि भवाभीतिभद्रसिद्धिप्रदायिनि || २०९ ||
सपत्नान् मे हन हन दह तापय शोषय |
प्राणासिशक्तिरुद्राद्यैरुत्क्रम्योत्कृत्य चानय || २१० ||
महादेवि महाकालि रक्षास्थानस्थितेऽम्बिके |
साध्यं संहृत्य निर्वर्त्यं पुत्तलीं साधकोत्तमः || २११ ||
Seite 509 der Vorlage
मूलमन्त्रं समुच्चार्य जुहुयादेधितेऽनले |
प्रथमो दक्षपादश्च तत्करस्तदनन्तरम् || २१२ ||
शिवदूतीयमाख्यातं वामहस्तं ततः परम् |
मध्यादूर्ध्वं पञ्चमः स्यादर्धोंऽशः षष्ठ ईरितः || २१३ ||
सप्तमो वामभागः स्यादेवं भागक्रमः स्मृतः |
सप्त सप्त विभागो वा प्रयोगेषु यथाविधि || २१४ ||
हुत्वैवमर्चयेदग्निं प्रणमेद्दण्डवत्ततः |
यजमानो धनैर्धान्यैः प्रीणयेद् गुरुमात्मनः || २१५ ||
अनेन मनुना मन्त्री वशयेदसुरान् सुरान् |
किं पुनर्मनुजान् भूपान् सद्योऽप्यस्य विमोहिताः || २१६ ||
मारणे पूर्वसम्प्रोक्तं पुत्तलीनां चतुष्टयम् |
निवेशयद् यथापूर्वं साधकेन्द्रो यथाविधि || २१७ ||
अपरां वक्ष्यमाणेन विधानेन प्रकल्पयेत् |
वराहपारावतविट् तिलद्रुमैश्च रामठैः || २१८ ||
रिपोर्नखैश्च केशैश्च तथा वामाङ्घ्रिरेणुजैः |
स्नुहिक्षीरेण सम्पिष्टैः पूर्वोक्तलवणान्वितैः || २१९ ||
Seite 510 der Vorlage
विधाय पुत्तलीः सम्यक् प्राणस्थापनमाचरेत् |
जपपूजादिकं कुर्यात् प्रागुक्तवर्त्मना सुधीः || २२० ||
ततः पूर्वोदिते भागे रात्रौ प्रज्वलितेऽनले |
दुर्गां वा भद्रकालीं वा समाराध्य यथाविधि || २२१ ||
धारयेन्निशितं शस्त्रं सव्यहस्तेन साधकः |
वामं पादं समारुह्य दक्षिणं ध्रुवमानसः || २२२ ||
छित्त्वा छित्त्वा हुनेन्मन्त्री निराहारो जितेन्द्रियः |
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी || २२३ ||
अनेनैव विधानेन होमं कुर्याद्विचक्षणः |
द्विसप्ताहप्रयोगेण मारयेत् रिपुमात्मनः || २२४ ||
क्रूरे रोगे ग्रहे सर्पे तर्जन्या संस्पृशन् जपेत् |
स्मृत्वा शूलधरां देवीं देवांश्च तत्क्षणाज्जयेत् || २२५ ||
दर्भितं साध्यनामानं समुद्दिष्टञ्च संलिखेत् |
कुलालमृत्तिकायां तु प्रतिमायां हृदि न्यसेत् || २२६ ||
Seite 511 der Vorlage
कृतप्राणप्रतिष्ठां तां पूजितां कुसुमादिभिः |
विधायाग्निं जपेन्मन्त्रमष्टोत्तरसहरकम् || २२७ ||
संख्यासम्पूर्णमात्रेण वशमायाति वाञ्छितम् |
अभ्यर्च्य च ततः पश्चात् तीक्ष्णतैलेन मन्त्रवित् || २२८ ||
कृत्वायुतं विधायार्घ्यं तीक्ष्णतैलेन च पुनः |
तेषु सम्पातयेद् भूयः स्पृष्ट्वा तान्ययुतं जपेत् || २२९ ||
वेधयेत् परसेनायां क्षणान्नष्टा दिशो दश |
प्राप्नुयान्नष्टसञ्ज्ञायां पलायनपरायणः || २३० ||
जपित्वा सिद्धगुञ्जानां कुडवञ्चानलोदरे |
निःक्षिपेत् शत्रुसेनायां गूढं रात्रिसमागमे || २३१ ||
ज्वरमारीमहारागैः पीडितः सैन्यनायकः |
परस्परविरोधेन गच्छेद्विगतचेष्टया || २३२ ||
शिलासंस्तम्भने मन्त्री करैकसुरसम्भवैः |
साध्यपादरजोयुक्तो होमादुच्चाटयेत् रिपून् || २३३ ||
करे दारुमयीं कृत्वा प्रतिमामतिशोभनाम् |
शप्तां प्रतिष्ठितप्राणां छेदयेदङ्गशः पुरः || २३४ ||
काकोलूकवसायुक्तमष्टोत्तरसहस्रकम् |
Seite 512 der Vorlage
कृष्णपक्षे चतुर्दश्यां श्मशाने हव्यवाहने || २३५ ||
जुहुयाज्जायते शतुर्यमगेहं दिनत्रयात् |
उन्मत्तसमिधां होमान्मत्ताः स्युः शत्रवः क्षणात् || २३६ ||
उलूककाकयोः पक्षं सवसारक्तसंयुतम् |
जुहुयान्निशि कान्तारे शत्रु कालातिथिर्भवेत् || २३७ ||
शत्रोः प्रतिकृतिं मन्त्री प्रतिष्ठितसमीरणाम् |
विषलिप्तविलिप्ताङ्गीमभ्युक्ष्य निक्षिपेज्जले || २३८ ||
ज्वराक्रान्तो भवेच्छीघ्रं दुग्धसेकात् सुखं नयेत् |
प्रकारान्तरप्रयोगकथनम्
तर्जनीत्रिशिखं दोर्भ्यां धारयन्तीं भयङ्करीम् || २३९ ||
रक्तां ध्यात्वा रवेर्विम्बे प्रजपेदयुतं मनुम् |
मारयेदविवादेन रिपून् बन्धुसमन्वितान् || २४० ||
Seite 513 der Vorlage
खड्गखेटदरां क्रुद्धां सिंहस्थां रविमण्डले |
ध्यात्वा मन्त्रं जपेन्मन्त्री पूर्ववन्नाशयेदरीन् || २४१ ||
चापबाणधरां भीमां सिंहस्थां ज्वलनोपमाम् |
सृजन्तीं बाणनिवहान् धारयन्तीं च तर्जनीम् || २४२ ||
ध्यात्वा जपेन्निजं मन्त्रमयुतं जलमध्यतः |
रिपुञ्च परसेनाञ्च शीघ्रमुच्चाटयेद् ध्रुवम् || २४३ ||
प्रेतपिण्डं समादाय गोलकं कारयेत्ततः |
साध्यनामाङ्कितं कृत्वा शत्रुसदृशपुत्तलीम् || २४४ ||
जीवं तत्र निधायैव चिताग्नौ प्रक्षिपेत्ततः |
एकायुतं जपं कृत्वा त्रिरात्रान्मारणं भवेत् || २४५ ||
पूर्ववत् पुत्तलीं कृत्वा जप्त्वा च पूर्ववर्त्मना |
महाज्वाला भवेत्तस्य तप्तताम्रशलाकया || २४६ ||
गुह्यद्वारे प्रविन्यस्य सप्ताहान्मरणं रिपोः |
कुण्डलिन्या मुखे क्षिप्त्वा वैरिणं साधकोत्तमः || २४७ ||
तस्मात् कालाग्निमध्ये च प्रक्षिप्य दहनञ्चरेत् |
प्रातरेव विभाव्याथ जपेदयुतसंख्यकम् || २४८ ||
त्रिसप्ताहप्रयोगेण रिपुर्याति यमालयम् |
Seite 514 der Vorlage
भूर्जपत्रे स्वर्णपत्रे निम्बपत्रे विलिख्य च || २४९ ||
पूजां कृत्वा दहेदग्नौ तदा शत्रुनिकृन्तनम् |
वह्निपत्रे रिपोर्विद्यां लिखित्वा पत्रकेऽमले || २५० ||
पुटान्तं मन्त्रमुद्भाव्य पटे कृत्वा विदर्भ्य च |
सहस्रजन्मभिर्जप्त्वा विद्या न हि फलप्रदा || २५१ ||
पत्राभावे कुले पात्रे रक्तचन्दननिर्मितम् |
वह्निबीजं पुटं कृत्वा दृष्ट्या दग्ध्वा विचिन्त्य च || २५२ ||
वामहस्तेन जुहुयाल्लुप्तं स्यान्नात्र संशयः |
पद्मपत्रे यस्य मन्त्रं पुटीकृत्य च दीपनैः || २५३ ||
मृण्मध्ये निक्षिपेत्तोये तद्वद्बोधो भविष्यति |
वाङ्मायाकमलाबीजं दीपनं परिकीर्तितम् || २५४ ||
मृत्पात्रे तु मृतं लिख्य मृदा तीर्थ पुटीकृतम् |
जले च निक्षिपेन्मन्त्रं पुनर्नव इतीरितः || २५५ ||
Seite 515 der Vorlage
यन्मनुं तं मनुं दग्धं नवोदितशशी यथा |
कारयेदक्षवृक्षेणाऽप्येदायुध पञ्चकम् || २५६ ||
शङ्खखड्गरथाङ्गानि शार्ङ्गकौमोदकी क्रमात् |
पञ्चगव्येषु निक्षिप्य तानि स्पृष्ट्वा जपेन्मनुम् || २५७ ||
अवटान् पञ्च निखनेद्दिक्षु पुर्वोदितक्रमात् |
अवटेषु च पूर्णेषु पञ्चगव्येन साधकः || २५८ ||
अधराणि प्रजनानि पञ्चघोषपुरःसरम् |
निवसेत्तस्य मध्यादि पूजां कृत्वा यथाविधि || २५९ ||
बालुकाभिः समापूर्य मृद्भिः कुर्यात् समन्ततः |
बलिञ्च विकिरेत्तत्र तेषां मन्त्री यथाक्रमात् || २६० ||
दिक्पतिभ्यो बलिं दत्त्वा ब्राह्मणान् भोजयेत्ततः |
दीनांश्च कृपणादींश्च तोषयेद् भोजनादिभिः || २६१ ||
गुरवे दक्षिणां दद्यात् यथावित्तानुसारतः |
यत्रेयं विहिता रक्षा देशे वा नगरेऽपि वा || २६२ ||
ग्रामे गेहे तथा क्षेत्रे वर्धन्ते सम्पदः सदा |
अग्न्युत्पातादयो दोषा भूतप्रेतादि संयुताः || २६३ ||
अभिचारकृताः कृत्यरिपुचौराद्युपद्रवाः |
नेक्षन्तां तां दिशं भीत्या तर्जिता देवताज्ञया || २६४ ||
Seite 516 der Vorlage
यस्माच्च कथितं ग्रन्थं षट्कर्मविधिमुत्तमम् |
गोप्तव्यञ्च प्रयत्नेन नान्यथा नरकं व्रजेत् || २६५ ||
हृदि कालीं यजेद्यत्नात् ध्यानं तस्याः प्रचक्षते |
कालिकाध्यानम्
ध्यायेत् कालीं करालास्यां सुदंष्ट्रां भीमलोचनाम् || २६६ ||
स्फुरन्मरकतश्रेणीं करकाञ्चीं दिगम्बरीम् |
वीरासनसमासीनां महाकालोपरिस्थिताम् || २६७ ||
श्रुतिमूलसमाकीर्णां सृक्कणीं चण्डनादिनीम् |
मुण्डमालागलद्रक्तचर्चितां पीवरस्तनीम् || २६८ ||
मदिरामोदितास्फालकम्पिताखिलमेदिनीम् |
वामे खड्गमुण्डखण्डधारिणीं दक्षिणे करे || २६९ ||
वराभययुतां घोरवदनां लोलजिह्विकाम् |
शकुन्तपक्षिसंयुक्तां बालचन्द्रविभूषिताम् || २७० ||
शिवाभिर्घोररावाभिः सेवितां प्रलयोदिताम् |
चण्डहासचण्डनादचण्डस्फोटैश्च भैरवैः || २७१ ||
गृहीत्वा नरकङ्कालं जयशब्दपरायणैः |
सेविताशेषसिद्धौघसेवितैः सेवितां सदा || २७२ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये एकोनविंशोल्लासः || १९ ||
विंश उल्लासः
लुकीविद्याविवेचनम्
अथ चात्रसमासेन लुकी विद्या प्रचक्ष्यते |
भौमवारे निशीथे च चतुष्पथगतो नरः || १ ||
दिग्वासा मुक्तकेशश्च मकारपञ्चकैः सह |
स्वकल्पोक्त विधानेन सम्पूज्य निजदेवताम् || २ ||
माषभक्तबलिं दद्यात् सदग्धमीनशोधितम् |
अष्टोत्तरसहस्रं तु जप्त्वा स्तुत्वा च साधकः || ३ ||
सोऽदर्शनो भवत्याशु षण्मासाभ्यासयोगतः |
वेतालसिद्धिकथनम्
अथ वक्ष्ये च वेताल सिद्धिं सर्वोत्तमोत्तमाम् || ४ ||
बिल्ववृक्षोद्भवं काष्ठं श्मशाने साधकोत्तमः |
भौमवारे मध्यरात्रौ गत्वा कुलयुगान्वितः || ५ ||
खनित्वा काष्ठं लक्षं वै जपेन्महिषमर्दिनीम् |
सहस्रं होमयेद्वीरस्तत्रैव पितृकानने || ६ ||
Seite 519 der Vorlage
काष्ठमुद्धृत्य तेनैव दण्डं पादुकचिह्नितम् |
कृत्वा दुर्गाष्टमीरात्रौ श्मशाने निःक्षिपेत्ततः || ७ ||
तस्योपरि शवं कृत्वा निजदेवीं प्रपूज्य च |
शवासनगतो वीरो जपेदष्टसहस्रकम् || ८ ||
ततो मातृबलिं दद्यात् काष्ठमामन्त्रयेत्ततः |
स्फें स्फें दण्ड महाभाग योगिनीहृदयप्रिय || ९ ||
मम हस्तस्थितो देव ममाज्ञां परिपालय |
एवमामन्त्र्य वेतालं यत्र यत्र प्रपूज्यते || १० ||
तत्र तूर्णं विहायाथ पुनरायाति कौलिकम् |
गच्छ गच्छ महाभागे पादुके वरवर्णिनि || ११ ||
मत्पादस्पर्शमात्रेण स याति शतयोजनम् |
एवमामन्त्र्य पादुकां दद्यात् पादतले ततः || १२ ||
यत्रेच्छा वर्तते तस्य तत्र गच्छेद् यथासुखम् |
खड्गसिद्धिकथनम्
अथ वक्ष्ये खड्गसिद्धिं साधकानां हिताय च || १३ ||
अष्टलौहं समादाय पञ्चाशदङ्गुलं मतम् |
कृत्वा तत्र मूलमन्त्रं लिखित्वा प्रजपेन्मनुम् || १४ ||
पूर्वसंख्यं पूर्वमन्त्रं जप्त्वा च तदनन्तरम् |
तत् सहस्रं ततो हुत्वा महाशवकलेवरे || १५ ||
Seite 520 der Vorlage
खनित्वा जीववृक्षाग्रे बद्ध्वा शुष्कं तु कारयेत् |
कुलाष्टम्यामर्धरात्रे चितामध्ये समाहितः || १६ ||
प्रीति पूर्वं समामन्त्रा हुनेत् पितृवने ततः |
मधुरत्रयसंयुक्तं बिल्वपत्रेण संयुतम् || १७ ||
पादादिमूर्धपर्यन्तं होमान्ते बलिमाहरेत् |
बल्यन्ते सा महामाया देवी महिषमर्दिनी || १८ ||
आयाति वरपूर्णास्या वरहस्ता हसोन्मुखी |
गृध्रवदतिशब्देन खड्गमुत्तोल्य धारयेत् || १९ ||
घोरदंष्ट्रे महाकालि करवालस्वरूपिणि |
कां ईं ऊं कुरु कल्याणि विपक्षादपि विस्तरम् || २० ||
तत एवं समामन्त्र्य यमुद्दिश्य क्षिपेन्नरः |
छित्त्वा छित्वा पुनश्छित्त्वा गतोऽप्याकृष्यते पुनः || २१ ||
फेत्कारिणीसिद्धिकथनम्
फेत्कारिण्यां महासिद्धिं वक्ष्यामि तन्त्रवर्त्मना |
कुलमीनं कुलद्रव्यं कुलमद्यं कुलेश्वरं || २२ ||
Seite 521 der Vorlage
कुलस्थाने समानीय दत्त्वा देव्यै प्रयत्नतः |
विधिवत् पूजनं कृत्वा साधकः स्थिरमानसः || २३ ||
अष्टोत्तरसहस्रं तु जप्त्वा भूमितले स्थितः |
भूमौ फूत्कारमात्रेण विवरं तत्र जायते || २४ ||
शतयोजनदूरे वा यत्र साध्यस्थितिर्भवेत् |
तत्रैव गमनं तस्य भूतलान्तः प्रसर्पिणः || २५ ||
एवं विवरमध्ये च गवाक्षैरपि साधकः |
कायसङ्कोचमासाद्य गच्छत्यविकलो नरः || २६ ||
खेचरीसिद्धिकथनम्
खेचराख्यां महासिधिं प्रवक्ष्येऽहमतः परम् |
यादिक्षान्तं चतुर्भागे सिन्दूररजसा लिखेत् || २७ ||
स्वीयचक्रं मातृकार्णैः संवेष्ट्य चैव मध्यतः |
पूजयेत् रात्रिसमये कुलाचारक्रमेण तु || २८ ||
तत्क्षणात् साधकश्रेष्ठः खेचरो भवति ध्रुवम् |
एवं षण्मासयोगेन सिद्धो भवति साधकः || २९ ||
Seite 522 der Vorlage
अथ षडङ्गदेवता
ओंकारस्फटिकश्यामनीलकृष्णारुणार्च्चिषः |
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः || ३० ||
देवताङ्गे षडङ्गः स्यात् सकलीकरणं भवेत् |
अञ्जलिञ्चार्घ्यवत् कृत्वा परमीकरणं भवेत् || ३१ ||
अमृतीकरणे देवि मुद्रा स्यादनुरूपिणी |
हृदयं मध्यमानामा तर्जनीभिः स्मृतं शिरः || ३२ ||
मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा स्मृता |
दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् || ३३ ||
प्रोक्ताङ्गुलीभ्यां मन्त्रं स्यात्ततस्तालत्रयं शिवे |
दिशस्तेनैव बध्नीयात् छोटिकाभिः समन्ततः || ३४ ||
अथ कालिकाकल्पं
शिव उवाच -
सङ्कटे राजभवने कारागारेषु बन्धने |
स्मरणात् कालिका देवी सर्वबन्धविमोचिनी || ३५ ||
चित्स्वरूपा महाकाली विष्णुरूपा महेश्वरी |
ब्रह्माणी देवगन्धर्वसेविता शिवगेहिनी || ३६ ||
Seite 523 der Vorlage
ब्रह्मविष्णु प्रसूतेयं शिवमायात्मिका परा |
साधकस्य क्षणं ध्यानात् प्रत्यक्षा सुरवन्दिता || ३७ ||
प्रभावं कालिकादेव्या वक्तुं न शक्यते प्रिये |
शतकोटिमुखेनापि पञ्चभिश्च कथं प्रिये || ३८ ||
अस्माकं जननी देवी भक्त्या स्वदेहगामिनी |
आदौ माता तथा गुप्ता मागुरीत्यभिधीयते || ३९ ||
मम साम्राज्यसाहाययं ममैव सिद्धिदायिनी |
मम प्रभुत्वमापन्ना मम माता यशस्विनी || ४० ||
तया विना जगदद्धात्रि स्पन्दितुं नैव शक्यते |
इत्युक्त्वा शङ्करो मोहात् मूर्च्छितः पुनरुद्गतः || ४१ ||
शिवदेहाद् घोररूपो भैरवः समजीजनत् |
जातोऽसौ शङ्करो देव्याः पादपद्मं समाश्रितः || ४२ ||
आलिङ्ग्य पार्वती तेन रूपेण वपुरुच्यते |
Seite 524 der Vorlage
केवलं ध्यानयोगेन सर्वसिद्धिमुपालभेत् || ४३ ||
सम्पूज्य लक्षमात्रं तु जप्त्वा त्रिदशतारिणीम् |
प्रयोगप्रभवा देवी प्रसन्न भक्तवत्सला || ४४ ||
अर्कपुष्पसहस्रेण पूजिता वरदायिनी |
सहस्रं परिजप्यैतत् सन्ध्यायां रविवासरे || ४५ ||
धनवान् कामभोगीशो भवेत् सर्वजनप्रियः |
सहस्रं परिजप्येत विपुलां कवितां लभेत् || ४६ ||
महदैश्वर्यमाप्नोति धर्मपत्नीरतो निशि |
रक्तपुष्पशतेनापि मण्डिते कुजवासरे || ४७ ||
ब्रह्मपुष्पशतेनापि रक्तचन्दनचर्चितः |
सम्पूज्य राजसम्मानं कुजवारे निशार्धके || ४८ ||
धर्मक्षेत्रे पद्मपुष्पैः सहस्रैः परिपूजयेत् |
रवौ वारे त्रयोदश्यां हविष्याशी जितेन्द्रियः || ४९ ||
सहस्रं परिजप्येत विपुलां कवितां लभेत् |
पुत्रदाता निशाभागे धरपत्नीसाहयवान् || ५० ||
सञ्जपेन्निजशययायां निशि संयतमानसः |
दीर्घमायुर्वशकरं पुत्रं संलभतेऽचिरात् || ५१ ||
Seite 525 der Vorlage
रोचनाप्रस्थमात्रं तु मन्त्रेणानेन मन्त्रितम् |
शतमष्टोत्तरं मन्त्रं धारयेत्तिलकं यदि || ५२ ||
राजानोऽपि हि दासत्वं भजन्ते किं परे जनाः |
परनारीरता ये वा जपन्ति पश्चिमामुखाः || ५३ ||
सहस्रं कालिका मन्त्रं धनाढ्यास्ते भवन्ति हि |
चतुष्पथे सहस्रार्धं मुक्तकेशो दिगम्बरः || ५४ ||
अष्टवारं जपेद्योऽपि तस्य प्रीता च कालिका |
अचलां कमलां लब्ध्वा सुखं प्राप्नोति भूतले || ५५ ||
कर्पूरपूइतमुखो निजनारीसमागमे |
जपेत्तु कालिकाध्यानादष्टाधिकशतं निशि || ५६ ||
सुप्रीता कालिका स्वप्ने दर्शनं प्रददाति च |
मत्स्याशी नित्यमांसाशि रात्रौ पश्चिमदिङ्मुखः || ५७ ||
शतमष्टोत्तरं कृत्वा यो जपेदर्धरात्रकम् |
सत्यं सत्यं पुनः सत्यं तच्छतुर्यमवल्लभः || ५८ ||
Seite 526 der Vorlage
अर्कारण्ये जपेद्व्याघ्रचर्मणि प्रतिवासरम् |
अष्टौ दिनानि लभ्येत कन्यां शीलगुणान्विताम् || ५९ ||
अर्कवृक्षस्य मूले तु यो जपेत्त्रिदिनं निशि |
सहस्रार्धप्रमाणेन धनदेन समो भवेत् || ६० ||
सहस्रं परिजप्येत निशायां मङ्गले निशि |
चतुष्पथे महारोगान्मुक्तो रोगी भवेद् ध्रुवम् || ६१ ||
भगलिङ्गस्य संयोगी पश्चिमाभिमुखी जनः |
तस्य दारिद्र्यसंन्यासं करोति जपमस्तके || ६२ ||
निजरामाभिगमने प्रक्षाल्य भगलिङ्गकम् |
तज्जलं ताम्रपात्रेषु संस्थाप्य तर्पणं चरेत् |
मूलमन्त्रेण देवेशि लभते महतीं श्रियम् || ६३ |
सप्तशतीप्रयोगविधानम्
प्रथमचरितस्य ब्रह्म-ऋषिर्गायत्रीच्छन्दो महाकालीदेवता नन्दा शक्ती रक्तदन्तिका बीजमग्निस्तत्त्वं महाकालीप्रीत्यर्थं जपे विनियोगः |
Seite 527 der Vorlage
मध्यमचरितस्य विष्णुर्-ऋषिमहालक्ष्मीर्देवताऽनुष्टुप्छन्दः शाकम्भरी शक्तिर्दुर्गा बीजं सूर्यस्तत्त्वं महालक्ष्मीप्रीत्यर्थं जपे विनियोगः |
उत्तमचरितस्य रुद्र ऋषिः सरस्वती देवता उष्णिक्छन्दो भीमा शक्तिर्भ्रामरी बीजं वायुस्तत्त्वं सरस्वतीप्रीत्यर्थं जपे विनियोगः |
दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा |
विशालया राजमाना त्रिंशल्लोचनमालया || ६४ ||
प्रस्फुरत् कुलदंष्ट्राभा भीमरूपा भयङ्करी |
खड्गबाणगदाशूलशङ्खचक्रभुशुण्डिभृत् || ६५ ||
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ |
मधुकैटभयोर्युद्धे यैषा सा तामसी शिवा || ६६ ||
श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला |
रक्तमध्या रक्तदेहा नीलजङ्घोरुजानुका || ६७ ||
चित्रानुलेपना कान्ता सर्वसौभाग्यशालिनी |
अष्टादशभुजा पूज्या सा सहस्रभुजा रणे || ६८ ||
Seite 528 der Vorlage
आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् |
अक्षमालां तु मुषलं बाणासिं कुलिशं गदाम् || ६९ ||
चक्रं त्रिशूलं परशुं शङ्खखेटक पाशकम् |
शक्तिदण्डचर्मपाशं पानपात्रं कमण्डलुम् || ७० ||
अलङ्कृतभुजामेभिरायुधैः परमेश्वरीम् |
स्मर्तव्या स्तुतिकालादौ महिषासुरमर्दिनी || ७१ ||
इत्येषा राजसी मूर्तिः सर्वदेवमयी मता |
एवं ध्यात्वा नरो नित्यं लभेतेप्सितमात्मनः || ७२ ||
गौरीदेहात् समुत्पन्ना या सत्त्वैकगुणाश्रया |
साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी || ७३ ||
दधौ चाष्टभुजा बाणं मुषलं शूलचक्रकम् |
शङ्खघण्टालाङ्गलञ्च कार्मुकञ्च तथा परम् || ७४ ||
ध्येया सा स्तुतिकालादौ वधे शुम्भनिशुम्भयोः |
अथ मन्त्रोद्धारः
वाराहीतन्त्रे -
तारं वाणीं ततो लज्जां वह्निजायां ततः परम् |
पुनस्तारञ्च वाराही चण्डीमन्त्रः समीरितः || ७५ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये विंशोल्लासः || २० ||
एकविंश उल्लासः
अवधूताश्रमनिरूपणम्
अथातः सम्प्रवक्ष्यामि अवधूतक्रमं शृणु |
चतुर्थाश्रमिणां मध्ये अवधूताश्रमो महान् || १ ||
केवलं कुलयोगेन तस्य मोक्षः प्रजायते |
यदि न स्यात्तदा चैव शृणु यत् कथयामि ते || २ ||
ज्ञान भावे च सम्पन्ने सम्प्रार्थ्यं निजकौलिकीम् |
तदाज्ञया विमुक्तः स्यात्तां सम्पूज्य कुलान्तरे || ३ ||
कुण्डलीशक्तिविवरे तदा योगं समभ्यसेत् |
निर्द्वन्द्वो निरहङ्कारः शुद्धनाडीजितेन्द्रियः || ४ ||
मृद्वासने समासीनः षट्कसंयमने रतः |
बद्धपद्मासनो योगी योगं युञ्जीत यत्नतः || ५ ||
ऊर्वोरुपरि वीरेन्द्रः कृत्वा पादतले उभे |
Seite 531 der Vorlage
अङ्गुष्ठौ तु निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु || ६ ||
पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् |
मुलाधारचक्रकथनम्
गुदात्तु द्व्यङ्गुलादूर्ध्वमधोमेढ्रात्तु द्व्यङ्गुलम् || ७ ||
एकाङ्गुलं तु तन्मध्ये देहमध्यं प्रकीतितम् |
कन्दमस्ति शरीरेऽस्मिन् पुण्यापुण्यविवर्जितः || ८ ||
तन्तुपञ्जरमध्यस्थो यथा भ्रमति सूतिकः |
जीवस्तु मूलचक्रेऽस्मिन् अधःप्राणश्चरत्यसौ || ९ ||
प्राणारूढो भवेज्जीवः सर्वदेहेषु सर्वदा |
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः || १० ||
मेरुदण्डबहिः पार्श्वे चन्द्रसूर्यात्मिके शुभे |
इडा च पिङ्गला चैव वामदक्षिणतः स्थिते || ११ ||
कन्दमध्याद् द्वयोर्मध्ये सुषुम्ना सुप्रतिष्ठिता |
पृष्ठमध्यगता सा तु सह मूर्ध्नि व्यवस्थिता || १२ ||
Seite 532 der Vorlage
ऋज्वीभूता तु वज्राख्या ज्वलन्ती विश्वधारिणी |
मुक्तिमार्गे सदा गुप्ता मेढ्रमूर्ध्नि व्यवस्थिता || १३ ||
तस्याश्चान्तर्गता नाडी चित्राख्या योगिवल्लभा |
पञ्चवर्णोज्ज्वला देवी पञ्चभूतनिवासिनी || १४ ||
पञ्चदेवैर्युता देवी पञ्चतत्त्वप्रकाशिनी |
पूरयित्वा तु विचिन्ना चित्रा सा ग्रन्थिरूपिणी || १५ ||
तयैव ग्रथितं सर्वं मूलादि पद्मपञ्चकम् |
तस्या मध्ये ब्रह्मनाडी मृणालतन्तुरूपिणी || १६ ||
ब्रह्मरन्ध्रं तु तन्मध्ये हरवक्त्रं सदाशिवम् |
गुदमेड्रान्तरे ग्रन्थि सुषुम्ना सन्धिरुत्तमा || १७ ||
आधारे च गुदस्थाने पङ्कजञ्च चतुर्दलम् |
सुवर्णाभं वादिसान्तं हेमवर्णं सुशोभनम् || १८ ||
कलिकारूपकं पद्मं पृथिवीपद्मिनीयुतम् |
तरुणारुणसङ्काशां शूलखट्वाङ्गकौ ततः || १९ ||
वामे खड्गं सुराकुम्भं दधानामुग्रदंष्ट्रिणीम् |
Seite 533 der Vorlage
दुग्धाभां संस्थितां ध्यायेत् डाकिनीं लोचनत्रयाम् || २० ||
कर्णिकायां स्थिता योनिः कामाख्या योगिवल्लभा |
अपानाख्यं हि कन्दर्पं आधारे च त्रिकोणके || २१ ||
स्वयम्भूलिङ्गं तन्मध्ये पश्चिमाभिमुखं भवेत् |
बन्धूकपुष्पसङ्काशं सूर्यकोटिसमप्रभम् || २२ ||
भ्रमन्तं योनिमध्ये च शिशिरं शशभृत्समम् |
तस्योर्ध्वे कुण्डली शक्तिरष्टधा कुण्डलाकृतिः || २३ ||
अष्टप्रकृतिरूपा सा नाभेस्तिर्यगधो गता |
अधोवक्त्रस्थितादेवी ऊर्ध्वपुच्छाऽतिशोभना || २४ ||
अकारादिक्षकारान्ता कुण्डलीत्यभिधीयते |
सा च विद्युल्लताकारा मृणालतन्तुसन्निभा || २५ ||
Seite 534 der Vorlage
परिस्फुरति सर्वात्मा सुप्ताऽहिसदृशाकृतिः |
ब्रह्मद्वारमुखं नित्यं मुखेनावृत्य तिष्ठति || २६ ||
येन मार्गेण गन्तव्यं ब्रह्मद्वारं निरामयम् |
मुखेन श्वासं प्रविष्टा ब्रह्मरन्ध्रं मुखं तदा || २७ ||
मस्तके मणिवद्भिन्नस्वयम्भूलिङ्गवेष्टिनी |
नान्यः पन्था द्वितीयोऽस्ति शरीरे परमस्य च || २८ ||
मूलाधारे कामरूपं पीठं परमदुर्लभम् |
अधोवक्त्राणि पद्मानि मूलादीनि यथाक्रमात् || २९ ||
मूलाधारचक्रम् तध्यानफलम्
गुदात्तु द्व्यङ्गुलादूर्ध्वमधो मेढ्रात्तु द्व्यङ्गुलात् |
चतुरङ्गुलविस्तारं कन्दमूलं खगाण्डवत् || ३० ||
एकाङ्गुलं तु तन्मध्ये चतुरस्रं त्रिकोणकम् |
एवं ध्यात्वा च वीरेन्द्रः स्थिरचित्तः स्थिरेन्द्रियः || ३१ ||
आकुञ्चयेद् गुदमूलं चिबुकं हृदयोपरि |
नव द्वाराणि संयम्य कुक्षिमापूर्य वायुना || ३२ ||
शब्दबीजेन तां देवीं दृढविभ्रामयेत्ततः |
वायुना भिद्य तद्वक्त्रं ऊर्ध्ववक्त्रं तु कारयेत् || ३३ ||
Seite 538 der Vorlage
उद्घाटयेत् कपाटं तु यथा कुञ्चिकया दृढम् |
उल्लासोज्ज्वलकारस्य शिखा याति समुज्ज्वला || ३४ ||
मूलचक्रं ततो भित्त्वा ब्रह्मद्वारं विभेदयेत् |
ऊर्ध्वं भित्त्वा तु लिङ्गं वै इतरं पुष्करं ततः || ३५ ||
मूलाधारे सन्ततं ध्यानयोगात्
स्तम्भक्षोभावुत्प्लुतिर्दार्दुरीव |
भूमित्यागः खेचरत्वं क्रमेण
नॄणामेते षड्गुणाः सम्भवन्ति || ३६ ||
कान्तिप्रकर्षो वपुषोऽपि
नादव्यक्तिः प्रदीप्तिः जठरानलस्य |
लघुत्वमङ्गस्य निजेन्द्रियाणां
पटुत्वमारोग्यमदीनता च || ३७ ||
स्वाधिष्ठानचक्रम् तद्ध्यानफलम्
मूलादिपद्मषट्कञ्च कलिकासदृशं शुभम् |
स्वाधिष्ठानं महापद्मं लिङ्गमूले रसच्छदम् || ३८ ||
Seite 536 der Vorlage
बन्धूक पुष्पसङ्काशं सदा जलसमन्वितम् |
सिन्दूरप्रस्फुरद्वर्णैर्बादिलान्तैश्च मण्डितम् || ३९ ||
शूलं वज्रं तथा पद्मं डमरुं करपङ्कजैः |
दधानां श्यामवर्णाञ्च राकिणीं त्रितयान्विताम् || ४० ||
रक्तधात्वेकनाथां तां चिन्तयेत्तत्र साधकः |
विचिन्त्य स्थिरचित्तेन अधिष्ठानं प्रभेदयेत् || ४१ ||
इह वेत्ति निधाय मानसं स्वं
विविधञ्चाश्रुतशास्त्रजालमुच्चैः |
अवधूतजरामयः स मर्त्यः
सुचिरं जीवति वीतमृत्युभीतिः || ४२ ||
वपुषोऽशुचिता जनस्य शश्वत्
परमां शुद्धिमिहातनोति पुंसाम् |
शरदम्बुजपेलवस्य देहे
दृढरुद्धो घनताञ्च शीतरश्मिः || ४३ ||
मणिपूरचक्रम् तद्ध्यानफलम्
तदूर्ध्वे सव्यदक्षाभ्यां चिन्तयेत् साधकोत्तमः |
पद्ममध्ये स्थितं शुद्धं विद्युताभं त्रिकोणकम् || ४४ ||
Seite 537 der Vorlage
तन्मध्ये चिन्तयेद् देवं ब्रह्माणं हंसवाहनम् |
रक्तवर्णं चतुर्वक्त्रं दधतञ्च त्रिलोचनम् || ४५ ||
चिन्तयेत् कूर्चपद्मे च अक्षमालां कमण्डलुम् |
ब्रह्मसत्त्वाक्षमोङ्कारं स्थितं नाभेरधः सदा || ४६ ||
नाभौ नीलनिभं पद्मं मणिपूरं दशास्रकम् |
विद्युत्पुञ्जस्फुरद्वर्णैर्डादिफान्तैश्च मण्डितम् || ४७ ||
वह्निना संयुतं तत्र लाकिनीं मांसधातुगाम् |
मानसं संविभाव्याथ भेदयेत्तदनन्तरम् || ४८ ||
स्थानेऽस्मिन्निहितात्मनः सुकृतिनः पातालसिद्धिं परां
खड्गस्याप्रतिमस्य साधनमपि स्यादीप्सितञ्च क्षितौ |
रूपं भूमिविसर्जनं परपुरे शक्तः प्रवेष्टुं जरा-
हानिश्चाखिलदुःखरोगशमनं कालस्य वा वञ्चनम् || ४९ ||
अनाहतचक्रम् तद्ध्यानफलम्
अनाहतं हृदि ध्यायेत् पिङ्गाभं द्वादशच्छदम् |
द्रुतस्वर्णप्रभावर्णैः कादिठान्तैश्च मण्डितम् || ५० ||
Seite 538 der Vorlage
मेदःस्थां काकिनीं तत्र पीताभां मत्तरूपिणीम् |
अभयं डमरुं शूलं पाशञ्च करपङ्कजैः || ५१ ||
दधानां चारुरुपाञ्च नानाभरणभूषिताम् |
तत्रैवाङ्गुष्ठमात्मानं प्रदीपकलिकोपमम् || ५२ ||
तत्र सञ्चिन्तयेद् देवं नारायणं निरञ्जनम् |
शुद्धस्फटिकसङ्काशं वाणीलक्ष्मीविभूषितम् || ५३ ||
वैनतेयसमारूढं शङ्खचक्रगदाधरम् |
पीताम्बरधरं शान्तं वनमालाविभूषितम् || ५४ ||
पूर्णशैलं महापीठं तत्रैव परिचिन्तयेत् |
प्रभेदयेत्ततः पश्चात् साधकः स्थिरमानसः || ५५ ||
एतस्मिन् सततं निविष्टमनसः स्थाने विमानस्थिताः
क्षुभ्यन्त्यद्भुतरूपकान्तिकलिता दिव्यस्त्रियो योगिनः |
ज्ञानञ्चाप्रतिमं त्रिकालविषयं क्षोभः पुरस्य श्रुति-
र्दूरादेव च दर्शनञ्च खगतिः स्याद्योगिनीमेलनम् || ५६ ||
विशुद्धचक्रम् तद्ध्यानफलम्
विशुद्धं षोडशारञ्च धूम्राभं कण्ठदेशके |
Seite 539 der Vorlage
तदन्ते व्योमबीजञ्च शुक्लं हैमगजस्थितम् || ५७ ||
तरुणारुणसङ्काशैः स्वरैश्च परिमण्डितम् |
आकाशसहितं पद्मं शाकिनीं परिचिन्तयेत् || ५८ ||
अस्थिसंस्थां चतुर्बाहुं पञ्चवक्त्रां त्रिलोचनाम् |
पाशाङ्कुशौ पुस्तकञ्च ज्ञानमुद्राञ्च धारिणीम् || ५९ ||
दंष्ट्रिणीमुग्ररूपाञ्च सदा मधुमदाकुलाम् |
अर्धनारीश्वरं देवं नानामणिविभूषितम् || ६० ||
चन्द्रचूडं त्रिनयनं वराभयकरं शुभम् |
ध्यात्वैवं चक्रराजं तु भेदयेत् साधकोत्तमः || ६१ ||
स्थानेऽत्र संसक्तमना मनुष्य-
स्त्रिकालदर्शी विगताधिरोगः |
जित्वा जरामञ्जननीलकेशः
क्षितौ चिरं जीवति वीतमृत्युः || ६२ ||
इह स्थाने चित्तं सततमवधायात्तपवनो
यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनम् |
न च ब्रह्मा विष्णुर्न च हरिहरो नैव खमणि-
स्तदीयं सामर्थ्यं शमयितुमलं नापि गणपः || ६३ ||
Seite 540 der Vorlage
आज्ञाचक्रम् तद्ध्यानफलम्
द्विदलं हक्षवर्णाभ्यां शुभाभ्यां परिमण्डितम् |
विद्युत्कोटिप्रभं चक्रं भ्रुवोरूर्ध्वे मनोन्मनी || ६४ ||
बिन्दुयुक्तं सर्ववर्णं सर्वपद्मेषु चिन्तयेत् |
योनिमध्ये स्थितं लिङ्गमितरं तरुणारुणम् || ६५ ||
जालन्धरं महापीठं हाकिनीं तत्र चिन्तयेत् |
बिन्दुस्थां हाकिनीं शुक्रमेदोमज्जास्वरूपिणीम् || ६६ ||
अक्षमालाञ्च डमरुं कपालं पुस्तकं तथा |
चापं मुद्रां दधानाञ्च शुक्लां नेत्रत्रयान्विताम् || ६७ ||
पद्ममध्येऽन्तरात्मानं प्रभारूपं हि कारणम् |
ओङ्कारज्योतिषं कल्पप्रदीपाभं जगन्मयम् || ६८ ||
बालसूर्यप्रतीकाशां सदा बिन्दुमदक्षरम् |
ततः सङ्क्षोभणद्वारे ध्यायेत् पद्मं सुशोभनम् || ६९ ||
Seite 541 der Vorlage
ध्यानयोगनिरतस्य जायते पूर्वजन्मकृतकर्मणां स्मृतिः |
तत्र बिन्दुनिलये च दूरतो दर्शनश्रवणयोः समर्थता || ७० ||
इह सन्निहितस्वचित्तवृत्तिः प्रतिमायाः प्रतिजल्पनं करोति |
गमनञ्च पुरे परेषां पुनरुत्थानमप्यहो मृतस्य || ७१ ||
निरालम्बां मुद्रां निजगुरुमुखेनैव विदिता-
मिह स्थाने कृत्वा स्थिरनिशितधीः साधकवरः |
सदाऽभ्यासात् पश्यत्यमरनिलयानन्तरखिला-
मुडुश्रेणीं विष्णोरपि पदमुडूनामपि पतिम् || ७२ ||
भेदान्ते पद्मषट्कं च प्रस्फुटञ्चोर्ध्ववक्त्रकम् |
भवत्येव न सन्देहोऽप्यथ स्यात् साधकस्य च || ७३ ||
तदूर्ध्वे चार्धचन्द्रे च भानुमण्डलमुत्तमम् |
मकारबिन्दुरूपेण तदूर्ध्वे चन्द्रमण्डलम् || ७४ ||
बिन्दोरुपरि नादं हि शुद्धस्फटिकसन्निभम् |
चेतसा सम्प्रपश्यन्ति नादान्ते वृषभध्वजम् || ७५ ||
शुद्धस्फटिकसङ्काशं कपर्दशशिभूषणम् |
Seite 542 der Vorlage
व्याघ्राम्बरं तु तन्मध्ये अधोमुखं सशक्तिकम् || ७६ ||
स्थाने ह्यत्र परीतञ्च वरदाभयपाणिकम् |
प्रसन्नवदनं शान्तं सर्पयज्ञोपवीतिनम् || ७७ ||
नादोपरि महादेवं पश्यन्ति ज्ञानचक्षुषा |
नान्यत् पश्यन्ति तत्रैव अन्तरं वृषभध्वजम् || ७८ ||
पुरत्रयविनिष्क्रान्तो यत्र वायुः प्रलीयते |
तत्र संस्थं मनः कृत्वा तद्ध्यानमीश्वरं विदुः || ७९ ||
विभाव्य साधकश्रेष्ठो भेदयेत्तदनन्तरम् |
शङ्खिनीनालं संस्थाप्यव्याप्तिशून्यं विभर्ति यः || ८० ||
अमृतोदधिसङ्काशं शतयोजनविस्तृतम् |
चन्दनोद्यानमध्यस्थं वेदिकां तु तदन्तरे || ८१ ||
तन्मध्ये स्फटिकं ध्यायेत् पश्चिमाननमम्बुजम् |
स्रवन्तममृतं नित्यं देव्यङ्गे कमलान्तरे || ८२ ||
Seite 543 der Vorlage
सहस्रारपद्मवर्णनम्
सहस्रारपद्मं विसर्गादधस्ता-
दधो वक्त्रमारक्तकिञ्जल्कपुञ्जम् |
कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तः
स्फुरद्रश्मिजालः सुधांशुः समास्ते || ८३ ||
तदन्तर्गतं ब्रह्मरन्ध्रं सुसूक्ष्मं
यदाधारभूतं सुषुम्णाख्यनाड्याः |
तदेतत् पदं दिव्यमत्यन्तगुह्यं
सुरैरप्यगम्यं सुगोप्यं सुयत्नात् || ८४ ||
एतत् कैलाससञ्ज्ञं परमकुलपदं बिन्दुरूपी स्वरूपी
यत्रास्त्रे देवेदवो भवभयतिमिरध्वंसहंसो महेशः |
भूतानामादिदेवो रसविसरसितां सन्ततामन्तरङ्गे
सौधीं धारां विमुञ्चन्नभिमत फलदो योगिनां योगगम्यः || ८५ ||
स्थानस्यास्य ज्ञानमात्रेण पुंसां
संसारेऽस्मिन् सम्भवो नैव भूयः |
भूतग्रामं सन्ततन्यासयोगात्
कर्तुं हर्तुं स्याच्च शक्तिः समग्रा || ८६ ||
स्थाने परे हंसनिवासभूते-
कैलासनाम्नीह विधाय चेतः |
Seite 544 der Vorlage
योगी गतव्याधिरधःकृताधि-
वाधश्चिरं जीवति मृत्युमुक्तः || ८७ ||
स्थानेऽस्मिन् क्षयवृद्धिभावरहिता नित्योदिताऽधोमुखी
बालादित्यनिभप्रभाशशभृतः साऽस्ते कला षोडशी |
बालाग्रस्य विखण्डितस्य शतधा चैकेन भागेन या
सूक्ष्मत्वात् सदृशी निरन्तरगलत्पीयूषधाराधरा || ८८ ||
एतस्याः परतः स्थिता भगवती भूताधिदेवाधिपा
निर्वाणाख्यकलाऽर्धचन्द्रकुटिला सा षोडशान्तर्गता |
बालाग्रस्य सहस्रधा विगलितस्यैकेन भागेन या
सूक्ष्मत्वात् सदृशी त्रिलोकजननी या द्वादशार्कप्रभा || ८९ ||
निर्वाणाख्यकलापदोपरिगता निर्वाणशक्तिः परा
कोट्यादित्यसमप्रभाऽतिगहना बालाग्रभागस्य या |
कोट्यंशेन समा समस्तजननी नित्योदिता निर्मला
नित्यानन्दपदस्थलोरुविगलद्धारा निरालम्बना || ९० ||
Seite 545 der Vorlage
एतस्याः परतः परात्परतरं निर्वाणशक्तेः पदं
शैवं शाश्वतमप्रमेयममलं नित्योदितं निष्क्रियम् |
तद्विष्णोः पदमित्युशन्ति सुधियः केचित् पदं ब्रह्मणः
केचिद्धंसपदं निरञ्जनपदं केचिन्निरालम्बनम् || ९१ ||
आरोप्याऽरोप्य शक्तिं कमलजनिलयादात्मना साकमेषु
स्थानेष्वाज्ञावसानेष्ववहितहृदयश्चिन्तयित्वा क्रमेण |
नीत्वा नादावसानं खगत कुलमहापद्मसद्मान्तरस्थां
ध्यायेच्चैतन्यरूपामभिमतफलसम्प्राप्तये शक्तिमाद्याम् || ९२ ||
साक्षाल्लाक्षारसाभं गगनगतमहापद्मसद्मस्थहंसां
पीत्वा दिव्यामृतौघं पुनरपि च विशेन्मध्यदेशं कुलस्य |
चक्रे चक्रे क्रमेणामृतरसविसरैस्तर्पयेत् देवतास्ता
हाकिन्याद्याः समस्ताः कमलजपदगां तर्पयेत् कुण्डलीं ताम् || ९३ ||
कुण्डली कुण्डलाकारानक्रीभूता निवासिनी |
इडा च पिङ्गला चैव सुषुम्नानिलयं व्रजेत् || ९४ ||
शक्तिं भैरवसंयोगादमृतानन्दमानयेत् |
Seite 546 der Vorlage
चन्द्रमार्गेण वायुञ्च पिबेत्तञ्च शनैः शनैः || ९५ ||
कुम्भकञ्च यथाशक्त्या सुर्यमार्गेण रेचयेत् |
सूर्यमार्गे पिबेद्वायुं चन्द्रमार्गेण रेचयेत् || ९६ ||
शून्यञ्च प्रतिविम्बचन्द्रसदृशं सूक्ष्मातिसूक्ष्मं परं
सर्वं व्याप्य तमोमयं जगति सद्धामप्रकाशं परम् |
दृश्यादृश्यविनाशभेदसकलं ज्योतिर्मयं सर्वतो
ध्यात्वा तच्च पदं तु साधकवरैः दूरीकृतश्चान्तकः || ९७ ||
एवमभ्यस्यमानस्य अहन्यहनि निश्चितम् |
जरामरणदुःखाद्यैर्मुच्यते भवसागरात् || ९८ ||
योनिमुद्राबन्धफलकथनम्
चतुर्विधा तु या सृष्टिर्यस्यां योनौ प्रजायते |
पुनः प्रलीयते यस्यां कालाग्न्यादिशिवान्तकम् || ९९ ||
योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः |
तस्यास्तु बन्धमात्रेण तन्नास्ति यन्न साधयेत् || १०० ||
Seite 547 der Vorlage
अन्यथा जप्यते यस्तु अन्यथा कुरुते तु यः |
नासौ तत्फलपात्रञ्च सत्यं सत्यं न संशयः || १०१ ||
छिन्ना बन्धाश्च ये मन्त्राःकीलिताः स्तम्भिताश्च ये |
दग्धाः सन्त्रासिता हीना मलिनाश्च तिरस्कृताः || १०२ ||
भेदिता भ्रमसंयुक्ताः सुप्ता सम्मुर्च्छिताश्च ये |
वृद्धा बालास्तथा प्रौढास्तथा यौवनगर्विताः || १०३ ||
अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः |
अंशकेन विहीनाश्च खण्डशः शतधा कृताः || १०४ ||
विधिनानेन संयुक्ताः प्रभवन्त्यचिरेण तु |
सिद्धिमोक्षप्रदाः सर्वे साधकेन नियोजिताः || १०५ ||
यद्यदुच्चरते मन्त्री वर्णरूपं शुभाशुभं |
तत्तत् सिध्यत्यसन्देहो योनिमुद्रानिबन्धनात् || १०६ ||
दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा |
ततोऽधिकारी भवति तन्त्रेऽस्मिन् साधकोत्तमः || १०७ ||
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् |
नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् || १०८ ||
Seite 548 der Vorlage
तस्मादभ्यसनं नित्यं कर्तव्यं पुण्यकाङ्क्षिभिः |
अयासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् || १०९ ||
सम्वित्तिं लभतेऽभ्यासात् योगोऽभ्यासात् प्रवर्तते |
मन्त्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् || ११० ||
कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् |
एतद्भेदं विजानाति स याति परमं पदम् || १११ ||
तदष्टधा तु जीवोऽसौ बहिर्याति दिने दिने |
दिनेशाङ्गुलिमानेन तदर्धञ्चोपवासतः || ११२ ||
त्रिगुणं रतिकाले च द्विगुणं भोजनाद् बहिः |
अत ऊर्ध्वं वहेद्वायुस्त्रिगुणं यदि दैवतम् || ११३ ||
न्यूनं धत्ते ततः प्राणः शरीरं परिमुञ्चति |
शरीरसमतां नीत्वा न्यूनं वा साधकोत्तमः || ११४ ||
कुम्भयित्वा अधोवायुं कुण्डलीमुखवर्त्मनि |
योजयित्वा ततो जीवं कुण्डल्या सहितं सुधीः || ११५ ||
गमागमं कारयित्वा सिद्धो भवति नापरः |
पीयते खाद्यते यत्तु तत्सर्वं कुण्डलीमुखे || ११६ ||
हुत्वा सिद्धिमवाप्नोति न च बन्धेन बाध्यते |
Seite 549 der Vorlage
अवधूताचारकथनम्
भिक्षा कार्या न च स्वार्थं कुण्डल्याः प्रकृतेः पुनः || ११७ ||
रे मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् |
अवधूताश्रमे स्थित्वा भैरवानन्दतत्परः || ११८ ||
भैरवोऽहं न चान्योऽस्मि न चान्यो मत्परः क्वचित् |
तन्त्रमन्त्रार्चनं सर्वं मयि जातं न चान्यथा || ११९ ||
शिवोऽहं भैरवानन्दो मत्तोऽहं कुलनायकः |
रक्तमाल्याम्बरधरो हेतुयुक्तः सदा भवेत् || १२० ||
एवं भिक्षां व्रजन् भिक्षुर्भैरवानन्दतत्परः |
येन केनापि वेशेन येन केनाऽप्यलक्षितः || १२१ ||
यत्र कुत्राश्रमे तिष्ठन् कुलयोगीश्वरः सदा |
उन्मत्तमुकजडवत् विरले लोकमध्यगे || १२२ ||
Seite 550 der Vorlage
क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् |
नानावेशधरो योगी विचरेत्तु महीतले || १२३ ||
सर्वस्पर्शो यथा वायुर्यथाकाशश्च सर्वगः |
सर्वभक्षो यथा वह्निस्तथा योगी सदा शुचिः || १२४ ||
तथा म्लेच्छगृहान्नादि योगीहस्तगतं शुचि |
क्षीयते न च पापेन बध्यते न च जन्मना || १२५ ||
यद्वन्मन्त्रबलोपेतः क्रीडन् सर्पैर्न दंश्यते |
तथा ज्ञानपरो योगी क्रीडन्निन्द्रियपन्नगैः || १२६ ||
पूजयन्ति महादेवीं कुलाङ्गकृष्टिमात्रतः |
गन्धं पुष्पञ्च ताम्बुलं नैवेद्यं यत्र यद्भवेत् || १२७ ||
मनसा तत् समुत्सृज्य बाह्यतः कुलवारिणा |
आत्मन्येव समायोज्य देवीरूपकुलेश्वरः || १२८ ||
Seite 551 der Vorlage
न पूजा नापि तन्नाम न निष्ठा न व्रतादिकम् |
पूर्णोऽहं भैरवश्चाहं नित्यानन्दोऽहमव्ययः || १२९ ||
निरञ्जनस्वरूपोऽहं निर्विकारो ह्यहं प्रभुः |
सर्वशास्त्राभियुक्तोऽहं सर्वमन्त्रार्थपास्याः || १३० ||
अस्मत्परतरो देशो न जातो न जनिष्यति |
आनन्दरूपवान् भूत्वा सर्वेषां प्रियकारक || १३१ ||
न योगी न भोगी न वात्मा न काङ्क्षी
न वीरो न धीरो न वा साधकेन्द्रः |
सदानन्दपूर्णो धरण्यां विवेकी
चिराज्जातधूतो द्वितीयो महेशः || १३२ ||
श्रुतौ कुण्डलेऽसृग् गले मुण्डमाला
करे पानपात्रं मुखे हन्त हाला |
परित्यक्तकर्मा लयन्यस्तधर्मा
विरक्तोऽवधूतो द्वितीयो महेशः || १३३ ||
Seite 552 der Vorlage
वामे रामा रमणकुशला दक्षिणे पानपात्रं
मध्ये न्यस्तं मरिचसहितं शूकरस्योष्णमांसम् |
स्कन्धे वीणा ललितसुभगा सद्गुरूणां प्रपञ्चः
कौलो धर्मः परमगहनो योगिनामप्यगम्यः || १३४ ||
इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये एकविंशोल्लासः समाप्तः || २१ ||
Abschluss
Für Einführung, deutsche Übersetzung und Umschrift siehe Kaulavali Nirnaya. Für die rituelle Praxisstruktur siehe Kaulavali Nirnaya Rituale.
Abschlussprüfung
Die Devanagari-Ausgabe wurde auf Vollständigkeit, gegenseitige Verlinkung und technische MediaWiki-Formatierung geprüft. Sie bleibt deutlich unter der vorgegebenen Grenze von 1400 KB.