Manthana Bhairava Tantra Sanskrit Devanagari
Manthana Bhairava Tantra – Sanskrit in Devanagari: Diese aus der geprüften IAST-Arbeitslesung transliterierte Sanskritfassung enthält denselben Text wie die Hauptausgabe: Kumārikākhaṇḍa, Kapitel 1–69, und die dort ausgewiesenen Ergänzungen. Sie ist eine Teilausgabe des Gesamtwerks und keine neue Handschriftenedition. Die ursprünglichen Sprecherzeilen, Eingangsverehrungen, Kolophone und Unsicherheitszeichen sind erhalten. Die Versziffern stehen in Devanagari; sie wiederholen die Originalnummern, auch bei beschädigten Versen. Bei Zitatgruppen ohne verlässlich zuweisbare Einzelnummern werden keine neuen Versnummern erfunden.
Der aufgenommene Bestand umfasst 6.283 vollständige einzeln zugeordnete Verse, darunter drei Schlussstrophen, sowie 28 beschädigte Verspositionen. Hinzu kommen 36 unnummerierte Halbverse, ein nummerierter Halbvers, 13 zitierte Halbstrophen, zwei weitere Teilstrophen, 31 unnummerierte metrische Zitateinheiten und zwei zitierte Versgruppen, die nicht künstlich zu neu nummerierten Originalversen hochgezählt werden. Die 126 Abschnitte des Mālinī-Daṇḍaka sowie Sprecherzeilen, Anrufungen, Formeln und Kolophone sind gesondert erhalten.
Alle Wiki Artikel zum Manthana Bhairava Tantra:
Kumārikākhaṇḍa – Kapitel १
ॐ स्वस्ति
श्रीनाथपादुकाभ्यां नमः
श्रीगणेशाय नमः
मन्थानभैरवतन्त्रे कुमारिकाखण्डे प्रथमानन्दः
संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा
सृष्टिन्याये चतुष्कं त्वकुलकुलगतं पञ्चकं चान्यषट्कम् ।
चत्वारः पञ्चकोऽन्यः पुनरपि चतुरः षोडशाज्ञाभिषेकं
दिव्याष्टौ मूर्तिमध्ये हसखफरकला बिन्दुपुष्पा खमुद्रा ॥ १
बालं कौमारवृद्धं परमशिवकला वक्रदेवी क्रमाणां
श्रीनाथं चन्द्रपुर्यां नवनवकलितं युग्मभेदं तु सारम् ।
त्रीणि सिद्धावतारं प्रथमकलियुगे कोङ्कणे चाधिकारं
तेषां वै पुत्रशिष्या नवपुरुषक्रमे तेषु मध्याद् द्विरष्टौ ॥ २
सन्तानं गोत्रपिण्डं क्रमपदसकलं षोडशान्तं क्रमान्तं
शेषा वै मण्डलानि परिभ्रमविमलं पूज्यसद्भाववृन्दम् ।
आदावष्टादशान्तं कुलक्रमसकलं मण्डलोत्थानपूर्वं
संस्कारं त्रिक्रमेण पशुमलक्षयकृत् पिण्डशुद्धिः शिवाग्नौ ॥ ३
मध्ये विश्रामभूमिः प्रसरमनुभवं प्रत्ययं स्वाधिकारम्
संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुलीशम् ॥ ४
वृत्ताध्युष्टं क्रमार्थं रचितमनुभवं खञ्जिनीमूर्तिपूर्वं
दिव्योऽयं देवसंज्ञं पुनरपि अपरं मानवं त्रिक्रमौघम् ।
भेदानेकैर्विभिन्नं सकलपदक्रमं मण्डलं षट्प्रकारं
संकेतं कादिपूर्वं सकलगुणयुतं मण्डलं भैरवं तम् ॥ ५
श्रीनाथ उवाच
मण्डलान्ते तु कः कर्ता मण्डलं तु कथं भवेत् ।
कथमानन्दशक्तिस्तु सा शक्तिर्भीषणी कथम् ॥ ६
तस्यावरणमादाय कीदृक् चैव पदक्रमम् ।
सृष्टिन्याये चतुष्कं तु अकुलं तु कथं भवेत् ॥ ७
कुलं चैव कथं प्रोक्तं कुलाचारं च कीदृशम् ।
पञ्चकं किं समासेन षट्कं चत्वार एव च ॥ ८
पञ्चकः कश्चतुर्भूयः षोडशाज्ञा कथं भवेत् ।
आदौ कुत्राभिषेकं तु देवताष्टौ वदस्व मे ॥ ९
मूर्तिमध्ये कथं तच्च मुद्रा तत्रैव कीदृशी ।
बालक्रमं च कौमारं तथा वृद्धक्रमं कथम् ॥ १०
का कला परमा शार्वी क्रमाणां क्रमदेवता ।
चन्द्रपुर्यं कथं प्रोक्तं श्रीनाथं किं स्वरूपिणम् ॥ ११
षोडशात्मकशिष्यौघं अवसानं कथं भवेत् ।
सन्तानं गोत्रपिण्डं तु सकलं तु पदक्रमम् ॥ १२
षोडशान्तं क्रमान्तं किं शेषा वै मण्डलानि के ।
परिभ्रमं न मे ज्ञातं विमलं तु विशेषतः ॥ १३
एतत् सर्वं समासेन पूज्यसद्भावनिर्णयम् ।
तस्याष्टादशभेदानि कथं ज्ञास्यन्ति पुत्रकाः ॥ १४
युग्मभेदं कथं सारं सिद्धास्त्रितयशासने ।
दक्षिणे कोऽधिकारी स्यान्नवकं किं स्वरूपिणम् ॥ १५
तथाष्टादशभेदानि आश्रमं पूर्वमण्डलम् ।
कथं विज्ञायते देवि संस्कारं त्रिक्रमेण तु ॥ १६
पशुः कोऽत्र समासेन मण्डलं तु कथं भवेत् ।
क्षयं केन स्वरूपेण मलस्यैव तु विद्यते ॥ १७
आदौ पिण्डं तु किं प्रोक्तं देहे देहे व्यवस्थितम् ।
शिवं नाम कथं ह्यग्निमध्ये विश्रामभूमिका ॥ १८
का स्वरूपा च किं देवि प्रत्ययं स्वाधिकारकम् ।
सृष्टं येन स वै कोऽत्र भैरवश्च कथं भवेत् ॥ १९
कौलीशं नाम किं प्रोक्तं सर्वमेवानुपद्धतिः ।
कथयस्व प्रसादेन यदि तुष्टासि वक्रिके ॥ २०
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीनाथप्रश्नाधिकारो नामानन्दः प्रथमः ॥
Kumārikākhaṇḍa – Kapitel २
द्वितीयानन्दः
श्रीवक्रा उवाच
शृणु नाथ महाप्राज्ञ कुलकौलस्य भाजन ।
येन विज्ञातमात्रेण संवित्तिर्भवते स्फुटा ॥ १
तदहं संप्रवक्ष्यामि वक्रिकां परमेश्वरीम् ।
यः शावरादिरित्याहुरेकधा बहुधा गतः ॥ २
मण्डलान्ते स्थितो नित्यं सृष्टिसंहारकारकः ।
अतसीपुष्पसंकाशं नित्योदितमखण्डितम् ॥ ३
सर्वगं सर्वदा शान्तं मण्डलं तं कुलक्रमे ।
खरण्डदण्डमध्यस्था अणुचित्कलयापिनी ॥ ४
प्राणापानान्तरे लीना आनन्दशक्तिरुच्यते ।
कालवेलाविचित्राङ्गी तन्वी तत्त्वप्रबोधकी ॥ ५
निरानन्दपदे लीना भीषणी परमाव्यया ।
पदषोडशप्रस्तारे देव्या मूर्तिस्त्रिधा गता ॥ ६
अङ्गप्रत्यङ्गवक्त्रैस्तु पदभेदैर्व्यवस्थिता ।
भर्गपूर्वक्रमं यच्च विलोमांशे व्यवस्थितम् ।
क्रमं तु नवधा भिन्नं वृद्धं कौमारबालकम् ॥ ७
इच्छा ज्ञानी क्रियाख्या प्रकटितविभवा बुद्धिरेतच्चतुष्कं तन्मात्राः पञ्च शब्दप्रभृतय इति ये पञ्चकं ज्ञानपूर्वम् ।
त्वक्चक्षुर्घ्राणजिह्वाश्रवण इति मनांसीति षट्कं क्रियाख्यम् जाग्रत् सुप्तं सुषुप्तं पदमपि अपरं तुर्यगं तच्चतुष्कं ॥ ८
आपस्तेजोऽथ पृथ्वीपवनगगनकं पञ्चकं रत्नपूर्वम् सत्त्वं रजस्तमांसि त्रिगुणगुणयुतं संस्थितं वृक्षनाथम् ।
श्रीकुब्जी षट्प्रकारा हसखफरकला व्यापयन्ती भगाख्या तस्यान्ते क्षोभितायां परमसुखनिधौ रुद्रशक्तौ प्रविश्य ॥ ९
संलीना मूलनाथे पुनरपि च तदाच्छादकाः षट्प्रकाराः पीठाद्यैः षट्प्रकारैस्तदुपरिमथनं दिव्यलिङ्गं विभिन्नम् ।
तत्राज्ञानन्दरूपा सुखरतिविमला विश्वकर्त्री च हन्त्री चिद्रूपा वक्रिकाख्या परमपदगता भुक्तिदा मुक्तिदा च ॥ १०
ललनार्थं खमादाय घण्टिकायाः परामृतम् ।
आत्मानं प्लाव्य तेनैव अभिषेकमिदं भवेत् ॥ ११
मालिनी शब्दराशिश्च गोत्रं व्याप्य व्यवस्थितौ ।
तद् गोत्रं सृष्टिकर्तारं शिवशक्त्यावृतं जगत् ॥ १२
गृहवर्गसमोपेतं कुलाष्टकसमन्वितम् ।
चक्राष्टकसमायुक्तं ब्रह्माणीदेवताष्टकम् ॥ १३
मुद्राशक्तिः समाख्याता ययेदं मुद्रितं जगत् ।
चतुर्विधा तु सा सृष्टिर्भूतग्रामे चतुर्विधे ॥ १४
बालक्रमं च कौमारं तथा वृद्धं क्रमं क्रमात् ।
विषुवस्थानमार्गेण त्रिमार्गे संव्यवस्थिता ॥ १५
खकला पूर्णिमास्यन्ते अमान्ते संव्यवस्थिता ।
सा कला खकला ज्ञेया सा च पूर्णा हृदि स्थिता ॥ १६
अन्वयं श्रीमताख्यं च देवी त्रैलोक्यचारिणी ।
चतुःषष्टिक्रमेणोक्ता क्रमदेवी च वक्रिका ॥ १७
विसर्गयोगमध्ये तु चन्द्रपूर्यं व्यवस्थितम् ।
सूष्मणामण्डलाधारं कल्लोलामृतवाहिनः ॥ १८
विश्वरूपं परं तत्त्वं उन्मनान्ते व्यवस्थितम् ।
श्रीनाथं तं कुलालम्बी कुजीशं सिद्धनायकम् ॥ १९
दिव्याष्टादशभेदानि कथयामि सुरेश्वर ।
अष्टादशक्रमाम्नायं उन्मनाज्ञाविनिर्गतम् ॥ २०
चतुःप्रकारसंयुक्तं पञ्च षट् च त्रिधात्मकम् ।
प्रथममुन्मनाम्नायं द्वितीयं च मनोन्मनम् ॥ २१
तृतीयं समनाव्याप्तिः व्यापिन्यायाश्चतुर्थकम् ।
अव्यक्तं पञ्चमं शम्भो नन्दिन्या षष्ठ उच्यते ॥ २२
मन्थानं सप्तमं वक्रे अष्टमं फेरुकं भवेत् ।
नवमं समयाख्यं च जम्भलं दशमं स्मृतम् ॥ २३
दशैकं कालसंकर्षं द्वादशं चण्डनिर्णयम् ।
त्रयोदशमघोरीशं त्रैलोक्यं च चतुर्दशम् ॥ २४
विनयं पञ्चदशं प्रोक्तं कमलं षोडशं भवेत् ।
दशसप्तं चर्चिका देवी श्रीनाथोऽष्टादशं भवेत् ॥ २५
इत्यष्टादशभेदानि पारम्पर्यक्रमागताः ।
आगतं ओघभेदेन दिव्याम्नायमनुक्रमात् ॥ २६
शिवशक्तिसमायोगं सामरस्यं विदुस्तथा ।
उभे पक्षे तु मेलापं युग्मभेदमिदं स्मृतम् ॥ २७
चन्द्रार्काग्निस्त्रयः सिद्धा मि–ष–ओ वै त्रिके मताः ।
अधिकारपदस्थाश्च सिद्धास्त्रिभुवनाधिपाः ॥ २८
सोमार्कानलमध्यस्था चित्कला अमृतोपमा ।
षडध्वशुद्धतत्त्वात्मावृक्षनाथं तु दक्षिणे ॥ २९
नवात्मानन्ददेवेशं नवशक्तिसमन्वितम् ।
नवधागतिरागत्य गकारादिव्यवस्थितम् ॥ ३०
भर्गस्थानादयश्चैव षोडशाधारमण्डलाः ।
शिष्यौघामोघसंभूतं महाभ्युदयकारकम् ॥ ३१
पिण्डं कुण्डलिनी प्रोक्तं नवात्मानन्दसंयुतम् ।
क्रमणे क्रमभेदेन पिण्डरूपा तु पीठगा ॥ ३२
अवतारक्रमेणैव द्वादशान्ते व्यवस्थिता ।
अपरपरभेदेन अवतीर्णा च वक्रिका ॥ ३३
सन्ततिप्रसरौघं स्यान्निरानन्दा च सा कला ।
संसारे वर्तते तस्मात् तरङ्गिण्या परा कला ॥ ३४
गोत्रपञ्चाशद्भिर्भिन्ना पिण्डरूपा शिवा कला ।
शिवं तु निर्विकारं वै संसारोत्तीर्णभेषजम् ॥ ३५
उदासीनमनामं च शिवमित्युच्यते ततः ।
इडापिङ्गलयोर्मध्ये वक्रा विश्रामभूमिका ॥ ३६
कारणोत्था सदा तिष्ठेच्छिवमार्गानुयायिनी ।
अतसीपुष्पसंकाशा षड्वक्त्रा परमा कला ॥ ३७
चैतन्यसहिता तिष्ठेद् विद्यारूपा परा कला ।
प्रत्ययं बहुधा तस्याः विज्ञानाज्ञानुगा परा ॥ ३८
भुवनाधिपतिः सा वै वक्रिका कुलरूपिणी ।
अधिकारे प्रसिद्धा सा पञ्चतत्त्वैरधिष्ठिता ॥ ३९
क्रमनायकिविख्याता साधिकारे तु शाम्भवे ।
पञ्चाशद्भुवनव्याप्तिः कालाग्न्यादिशिवान्तिका ॥ ४०
तत्र मध्ये मया सृष्टं चराचरं चतुर्विधम् ।
त्रिगुणा सा त्रिमात्रा च सृष्टिरूपा व्यवस्थिता ॥ ४१
भैरवं भरिताकारं अनादिनिधनं महत् ।
भरत्यमृतरूपेण व्योमगात्रं निरञ्जनम् ॥ ४२
रवति ज्ञानसद्भावं तेनासौ भैरवः प्रभुः ।
अक्षयः क्षयहीनश्च भैरवः परिकीर्तितः ॥ ४३
कुलकौलान्तमध्यस्थं ईशं नाम व्यवस्थितम् ।
ईश्वरं सर्वदेवानां कौलीशं परिकीर्तितम् ॥ ४४
चतुष्कं चतुरो भेदैः सा शक्तिश्च चतुर्विधा ।
मि–ष–च–ओ प्रसिद्धाश्च पद्धतिस्तैर्निदर्शिता ॥ ४५
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते प्रश्नोत्तराधिकारवर्णने क्रमोदयो नामानन्दो द्वितीयः ॥
Kumārikākhaṇḍa – Kapitel ३
तृतीयानन्दः
श्रीवक्रा उवाच
कैलासस्यापरे मूर्तौ मेरुमन्दिरमूर्धनि ।
महारामे च रम्ये च तूष्णीनाथगुहाश्रमम् ॥ १
त्रिरस्रं सप्तस्कन्धाभं कुलाष्टकसमावृतम् ।
तन्मध्ये च त्रिरस्रं तु शतयोजनविस्तरम् ॥ २
सा शिला चन्द्रकान्तिस्तु तप्तहेमसमप्रभा ।
मणिमुक्ताप्रवालैस्तु चित्रिता सुमनोरमा ॥ ३
सुस्पष्टा च महादीप्ता चन्द्रकोटिसमप्रभा ।
सप्तस्कन्धसमायुक्ता पञ्चासनसमन्विता ॥ ४
तन्मध्ये वर्तुलाकारं षडशीतिस्तु योजनाः ।
विस्तारं च अधश्चैव शुद्धस्फटिकनिर्मलम् ॥ ५
तोरणद्वयसंयुक्तं प्राकाराष्टकभूषितम् ।
देवताष्टकसंयुक्तं विकरालं च भीषणम् ॥ ६
अखण्डमण्डलावासं सिंहनादमलंकृतम् ।
महासान्निध्यकरणं आदिकादिसमायुतम् ॥ ७
तन्मध्ये तं त्रिकोणं तु योजनानां शतार्धकम् ।
मेखलात्रयसंयुक्तं भूगृहं देवतालयम् ॥ ८
आरक्तं राजतं सुभ्रं शतार्कवपुतेजसम् ।
योजनाः पञ्चविंशैव तन्मध्येऽखण्डमण्डलम् ॥ ९
निशाकरार्धजठरं तन्मध्ये कुलकालिका ।
शतार्धं योजनानां तु आत्मानं रविमण्डलम् ॥ १०
तन्मध्ये क्रममुद्रा च आज्ञा उलित्रये गुरुः ।
ज्येष्ठमध्यमबालं च सदिव्यं खेचरक्रमम् ॥ ११
एतद् वै पश्चिमं वेश्मं चन्द्रपुर्येति नामतः ।
मण्डलं प्रथमेदं तु अधिकारं तु मन्त्रिणाम् ॥ १२
एकपादं त्रिशक्ति तु विद्यात्रितयभेदितम् ।
तन्मध्ये चाधिकारिण्या सुखोपायेन कौलिनी ॥ १३
संस्थिता लिङ्गरूपेण सिंहरूपा अधोमुखी ।
पृच्छते भगवान् रुद्रो श्रीकण्ठोऽसौ उमापतिः ॥ १४
श्रीकण्ठ उवाच
अस्मिन् गुरुगृहे शाक्ते मध्यलिङ्गे भगोदिते ।
कस्याधिकारमायातं तिष्ठते को गुरुर्नृणाम् ॥ १५
श्रीकौलिन्युवाच
सद्योजातक्रमस्यैव पश्चिमस्य गृहस्य च ।
अधिकारं ममेहैव दत्तं वै गुरुणा पुरा ॥ १६
या सा शक्तिर्भगाख्या च जगन्माता त्रिरक्षरी ।
सा चाज्ञा कौलिनी ह्यैव नपुंसकपदे स्थिता ॥ १७
श्रीकण्ठ उवाच
त्वं योनिः परमाकाशं दिव्यलिङ्गं नपुंसकम् ।
अन्तःपुरवरं गर्भं भगाह्लादेन भैरवी ॥ १८
संस्थिताज्ञा त्रिभिर्भेदैस्त्रिमूर्तिरिति कौलिनी ।
बहुरूपक्रमेणैव एका त्वं कुलदेवता ॥ १९
त्वं माता जगतां देवि विश्वयोनिः पितामहे ।
त्वया मया च देवेशि ओतप्रोतं जगत्त्रयम् ॥ २०
नाहं शिष्यस्तव प्रायः किन्तु मित्रत्वमागतः ।
पूर्वप्रीतिवशाद् देवि पूजाज्ञानं तवान्तिकम् ॥ २१
आयातो ज्ञानकाङ्क्षी च समाचक्ष्व ततो उमे ।
अनेकशो मया ख्यातं तव ज्ञानमनुत्तमम् ॥ २२
त्वयापि मम पूर्वं हि तदाख्यातमशेषतः ।
तस्मान्न भग्नशिष्यत्वं आवयोर्विद्यते परे ॥ २३
केवलं सौहृदं भद्रे तस्मान्निःसंशयं वद ।
यस्माद् ज्ञानं तु वांच्छामि कौलिकं प्रत्ययात्मकम् ॥ २४
श्रीकौलिनी उवाच
मानवेन तु रूपेण किं त्वं श्रीकण्ठ उच्यसे ।
देवप्रकृतिरायातः निश्चयं त्वमुमापतिः ॥ २५
मायावेशधरो धीमान् स्नेहेन मम लुब्धकः ।
स्वगिरा लक्षितः शम्भो मायाजालेन मोहितः ॥ २६
तमोविध्वंसनार्थाय आगतो ज्ञानलुब्धकः ।
मया ज्ञातं महाशम्भो तत् किमर्थं महेश्वर ॥ २७
आत्मानं गूहसे नूनं कस्य हेतोः समाश्रयात् ।
यथावृत्तं प्रवक्ष्यामि अतीव मम वल्लभ ॥ २८
तथा शृणुष्व भो नाथ योगकारणमुत्तमम् ।
विस्तरेणाभिधास्यामि पूर्वं यत् सूचितं मया ॥ २९
कैलासस्यापरे बिम्बे मेरुमन्दिरमूर्धनि ।
महारामे च रम्ये च तुष्णीनाथगुहाश्रमम् ॥ ३०
त्रिरस्रं सप्तस्कन्धाभं कुलाष्टकसमावृतम् ।
योजनानां शतास्त्रीणि श्लोकद्वादशवेष्टितम् ॥ ३१
पञ्चाशत् सिद्धयोगिन्यः संजाताः श्रीकुलेच्छया ।
आदिकादिथकारादित्रिप्रकारमया शिला ॥ ३२
जननी कुलमात्रीणां सिद्धानां मोक्षदायिका ।
विनिष्क्रान्ता गुहावासान्मन्त्रमुद्रा त्रयोलिषु ॥ ३३
रजोभावेन रूपं स्यात् पुष्पवत् परिगीयते ।
सा शिला चन्द्रकान्तिस्तु तप्तहेमसमप्रभा ॥ ३४
सुस्पष्टा हक्षमध्यस्था अमया मध्यभेदिता ।
शक्तिस्था शक्तिमध्यस्था हक्षद्वयविसर्पिणी ॥ ३५
त्रिकोणभुवनाधारे आग्नेये योनिमण्डले ।
रविमण्डल तद्बाह्ये आरक्तं तत् सुतेजसम् ॥ ३६
योजनानां शतं सार्धं समन्तात् तन्मनोरमम् ।
अखण्डमण्डलाकारं भुवनं सर्वयोगिनाम् ॥ ३७
तन्मध्यात् तु विनिष्क्रान्तमन्वयं सप्तकोटिकम् ।
तथा च भैरवं घोरं द्वात्रिंशत्सिंहसंज्ञकम् ॥ ३८
बीजस्थं पञ्चधावस्थं शक्तिस्थं पञ्चधास्थितम् ।
तस्योत्सङ्गे च सा विद्या सूष्मणामृतवर्षिणी ॥ ३९
भैरवी कालिकानन्दा त्रैलोक्ये क्षोभकारिणी ।
निशाकरार्धजठरं आपीतं कालिकासनम् ॥ ४०
सुतप्तहेमसंकाशं चतुराशीतियोजनम् ।
उत्तानं तदधस्थं तु तन्मध्ये तु नपुंसकम् ॥ ४१
शुद्धस्फटिकसंकाशं वर्तुलं रविमण्डलम् ।
तच्चात्मा तस्य चक्रस्य चन्द्रार्कानलभेदितम् ॥ ४२
तन्मध्ये तु अमा देवी पक्षापक्षनिरोधिनी ।
तदा सिंहक्रमे जाता वक्रदेवी त्रिवर्गसु ॥ ४३
मयूखचन्द्रिकाकारा पञ्चस्था पञ्चभूषिता ।
पञ्चपञ्चक्रमेणापि संपूर्णा नग्नवाससा ॥ ४४
कुमारी ब्रह्मचर्येण श्रीमान्देवी भगोदरा ।
अधिकारं त्रिधाभूतं द्वीपान्ते कुरुतेच्छया ॥ ४५
न स्त्री न पुरुषाकारं आनन्दं तं नपुंसकम् ।
साधिकारं लिङ्गरूपं निरधिकरणं तथा ॥ ४६
खस्थं निवर्तिताकारं अव्यक्तं भैरवात्मकम् ।
एवमानन्दशक्तिस्तु दिव्यलिङ्गा क्रमोदिता ॥ ४७
उभयोर्बाह्यगं क्षेत्रं मुद्रात्रितयभेदितम् ।
कूटस्थं वर्णराशिस्तु त्रिकोणं गुहवासकम् ॥ ४८
गृहं चन्द्रपुरं नाम पश्चिमस्थमधोमुखम् ।
एकपादं त्रिहस्तं तु त्रिशक्तितरुमण्डितम् ॥ ४९
तन्मध्ये चाधिकारं तु मन्थानस्य महत्पुरे ।
मन्थानभैरवी शक्तिर्भेदानां कुलकौलिनी ॥ ५०
संस्थिता लिङ्गरूपेण वक्रदेवी ह्यधोमुखी ।
आत्मानं च हृदिस्थं तु श्वेतं पिङ्गलनायकम् ॥ ५१
वर्तुलं चातिशोभाढ्यं ओंकारमिति गीयते ।
तत्रस्थं ज्योतिमध्यस्थं आद्यपीठं स्वरूपधृक् ॥ ५२
लिङ्गरत्नमयाकारं अत्यारक्तं सुतेजसम् ।
सद्यावेशकरं घोरं अघोरस्योपरिस्थितम् ॥ ५३
तस्याज्ञा स्वमुखे नित्यं भेदैश्च सप्तविंशतिः ।
षट्प्रकारक्रमेणैव आम्नायेन मुखागमम् ॥ ५४
बालं कौमारवृद्धं च त्रिविधं क्रम संस्थितम् ।
ज्येष्ठं मध्यं कनिष्ठं च ओलित्रितयभूषितम् ॥ ५५
एतद् वै पश्चिमं वेश्मं चन्द्रपुर्येति नामतः ।
क्रममण्डल ओलीनां त्रिधातत्त्वपरिग्रहम् ॥ ५६
क्रममुद्राधिकारं तु मुद्रापीठकृताङ्कितम् ।
अर्धचन्द्रस्य मध्यस्थं पुरं प्रणवयोजितम् ॥ ५७
विलोमेन चकारादौ मणिपूर्णे ततः पुनः ।
श्रीमद् वै रुद्र पादाब्जं पश्चिमं इच्छसे क्रमम् ॥ ५८
श्रीकण्ठ उवाच
गृहे चन्द्रपुरे शाक्ते मध्यलिङ्गे भगोदिते ।
तिष्ठते को गुरुर्मन्त्री पश्चिमस्य क्रमस्य च ॥ ५९
श्रीवक्रा उवाच
चन्द्रपुर्यस्य वेश्मस्य अघोरस्य महेश्वर ।
अहं गुरुरहं मन्त्री नपुंसकपदे स्थिता ॥ ६०
व्याप्तिव्यापकभेदेन सर्वज्ञा उन्मना परा ।
सिद्धवासाद् विनिष्क्रान्ता शाम्भवाज्ञास्वरूपतः ॥ ६१
पश्चिमं शाम्भवं तस्मात् सर्वेषामुपरिस्थितम् ।
सविशेषमिदं नित्यं बहुरूपस्य साम्प्रतम् ॥ ६२
या सा शक्तिर्भगाख्याता शम्भोरुत्सङ्गगामिनी ।
कौलिनी ब्रह्मचर्येण श्रीमान्देवी नपुंसका ॥ ६३
निर्वाणभूमिका प्राप्ता सिद्धाज्ञा च नभेऽक्षया ।
श्रीकण्ठ उवाच
वद मे कौलसद्भावं यदुक्तं पश्चिमे गृहे ॥ ६४
मायावृतस्य अम्बे मे सद्योनिर्वाणतां वद ।
श्रीवक्रा उवाच
न च मायावृतस्त्वं हि साक्षाद् देवो निरञ्जनः ॥ ६५
ईश्वरः पञ्चवक्त्रस्त्वं ज्ञानार्थी रुद्रसंज्ञकः ।
त्रैलोक्ये त्वं गुरुः कर्ता हर्ता त्वं च पुनः पुनः ॥ ६६
सृष्टिसंहारकर्तृत्वे एकस्त्वं पार्थिवे कुले ।
तत् किमर्थं जगन्नाथ शाम्भवाज्ञां त्वमिच्छसि ॥ ६७
प्रायशस्त्वं हि कामार्थी आज्ञार्थी न कथञ्चन ।
अस्माकं तपनाशाय रुद्रस्त्वमिह आगतः ॥ ६८
स्त्रीत्वं पूर्वं मया त्यक्तं पौरुषं च तथैव च ।
भूमिकाज्ञाप्रभावेन प्रकटाहं युगे युगे ॥ ६९
अहं शून्यस्वरूपेण परा दिव्यतनुर्ह्यहम् ।
अहं सा मालिनी देवी अहं सा सिद्धयोगिनी ॥ ७०
अहं सा कालिका काचित् कुलयागेश्वरी ह्यहम् ।
अहं सा चर्चिका देवी कुब्जिकाहं च षड्विधा ॥ ७१
एवं सा कलिकाले तु मुमुक्षूणां विमुक्तये ।
संसारभयभीतानां अवतारं प्रकुर्वते ॥ ७२
दक्षस्य दुहिता पूर्वमास्म्यहं भद्रकालिका ।
अतिरूपा विशालाक्षी शम्भुना च विवाहिता ॥ ७३
दक्षेण तु प्रदत्ताहं सृष्टिहेतोर्नभान्तरे ।
प्रविष्टा ऋतुकाले तु देवी देवस्य विस्तरे ॥ ७४
लीनाहं परमानन्दा आनन्दतनुतां गता ।
यज्ञं करोति विमलं अथ दक्षः प्रजापतिः ॥ ७५
मायापुर्यां तटे गङ्गा धर्मकामार्थसाधनम् ।
देवासुरगणाः सर्वे वासुदेवादि सर्वशः ॥ ७६
आमन्त्रितास्तु दक्षेण त्रैलोक्ये ये व्यवस्थिताः ।
नाहं तेन पुरा तत्र ईश्वरं पञ्च–आननम् ॥ ७७
यज्ञक्षोभभयाद् देव ऋषिणां च तु शंकया ।
भयभीतेन दक्षेण सभायां न निमन्त्रितौ ॥ ७८
ईश्वरेण तदारब्धं महत् कोपं सुदारुणम् ।
यज्ञविध्वंसनार्थाय दक्षे शापः प्रवर्तितः ॥ ७९
त्रैलोक्ये विजयायुक्तो वीरभद्रो गणैः सह ।
प्रहितश्च महावीरो गणवृन्दसमावृतः ॥ ८०
आरब्धं यज्ञविध्वंसं कोटिसम्भारसंवृतम् ।
विध्वंसितमशेषं तु आद्यन्तोच्चाटनं कृतम् ॥ ८१
त्रस्ताश्च देवताः सर्वे पलायन्ते दिशो दश ।
शरण्याः केचिद् वै तत्र प्राणत्राणपरायणाः ॥ ८२
केचित् पातालविवरे केचित् गह्वरमागताः ।
केचिन्नष्टा नभोयाने केचित् स्वर्गं समागताः ॥ ८३
केचित् प्रविष्टाः पातालं दक्षो विह्वलतां गतः ।
आराधयत् स हृष्टात्मा राजीवासनसंस्थितम् ॥ ८४
दक्ष उवाच
भगवन् देवदेवेश लोकानुग्रहकारक ।
अव्यक्तभगवन् शम्भो लिङ्गरूपि सदाशिव ॥ ८५
महावनस्य मध्ये तु मयास्मिन् नन्दने वने ।
जप्तं यष्टं हुतं भक्त्या ईदृगाह अनेकधा ॥ ८६
प्रसीद भगवन् शम्भो यागसंपूर्णतां कुरु ।
एवं विज्ञाप्य स दक्षः कृताञ्जलिपुटः स्थितः ॥ ८७
स्तुनोति स्तवराजेन महाशक्तिसमन्वितः ।
दक्ष उवाच
नमस्ते कुलनाथाय कौलसिद्धिप्रदायक ॥ ८८
ज्ञानविज्ञानरूपाय श्रीश्रीनाथ नमोऽस्तु ते ।
हृत्पुण्डरीकमध्यस्थं तरुणादित्यमण्डले ॥ ८९
नित्योदितप्रकाशाय वन्दे विद्यामहाव्रतम् ।
शतार्धचक्रसंघातं यस्योत्पन्नं शिवेच्छया ॥ ९०
सिद्धौघं देवताम्नायं वन्दे ज्ञानमहार्णवम् ।
मन्त्रतत्त्वार्थसंबोधं षट्चक्रकुलपर्वते ॥ ९१
यस्येच्छानिर्गतं सर्वं वन्दे विज्ञानभास्करम् ।
नादबिन्दुकलाज्योतिरानन्दक्रमपञ्चकम् ॥ ९२
पञ्चावस्थां गतो यस्तं वन्दे ज्ञेयं परापरम् ।
मनोबुद्धिरहंकारं त्यक्त्वा अज्ञानगह्वरम् ॥ ९३
दृश्यते मन्त्रसद्भावं वन्दे विज्ञानसागरम् ।
सप्तसागरपर्यन्तं संसारार्णवगोचरम् ॥ ९४
निष्प्रपञ्चं निराधारं वन्दे व्योम्नि परापरम् ।
त्रिकूटं पञ्चतत्त्वस्थं पञ्चावस्थगतं विभुम् ॥ ९५
अकुलकुलसद्भावं त्रिकभेदं परापरम् ।
मन्त्रचक्रकलाधारं वन्दे कुलमनामयम् ॥ ९६
अधोब्रह्मबिलं चक्रं चतुर्दलसमन्वितम् ।
रक्तवर्णं महादीप्तं वन्दे आधारमण्डलम् ॥ ९७
तस्योर्ध्वे नाभिमूले तु चक्रं पञ्चदलान्वितम् ।
पद्मरागनिभं वज्रं वन्दे पूर्णमणीपुरम् ॥ ९८
पञ्चारे हृत्पुरे चक्रं नीलजीमूतवाहनम् ।
प्रज्वलन्तं महादीप्तं वन्दे देवमनाहतम् ॥ ९९
एवं पञ्चदलोपेतं विशुद्धं कण्ठमाश्रितम् ।
तप्तहेमनिभप्रख्यं वन्दे ह्यमृतगोचरम् ॥ १००
तुर्यस्थाने पञ्चाकारं बिन्दुस्थं कोपमूर्धनि ।
शुद्धस्फटिकसंकाशं वन्दे आज्ञापरापरम् ॥ १०१
तालुमध्ये महानादं षोडशारं निरञ्जनम् ।
ज्योतिरूपं महाचक्रं वन्दे दिव्यमनामयम् ॥ १०२
यकारादिसमायुक्तं ब्रह्ममन्त्रपरिग्रहम् ।
हिमकुन्देन्दुधवलं सद्यो वन्दे यथा शिवम् ॥ १०३
ततस्तादिविभेदेन भेदितं तु जनार्दनम् ।
पद्मरागसमप्रख्यं वन्दे रक्तविभूषणम् ॥ १०४
टादिपञ्चसमोपेतं रुद्रं तृतीयं पूजितम् ।
भिन्नाञ्जनमहादीप्तं वन्दे घोरमनामयम् ॥ १०५
यच्च चादिस्वरूपेण ईश्वरं पञ्चभेदितम् ।
अलातपुष्पसंकाशं वन्दे तं लिङ्गभास्वरम् ॥ १०६
तस्योर्ध्वे कादिभेदेन शक्तिपञ्चकयोजितम् ।
शुद्धस्फटिकरूपेण वन्दे ईशानभैरवम् ॥ १०७
अकारादिविसर्गान्तषोडशैस्तु सदाशिवम् ।
ज्योतिरूपं सदा वन्दे कौलिकाज्ञाप्रबोधकम् ॥ १०८
तत्राधारगतां मध्ये मन्त्रमुद्राविभेदकीम् ।
चक्रनायकिविख्यातां वन्देऽहं कुलडामरीम् ॥ १०९
मणिपूर्णगतां देवीं परतत्त्वप्रकाशकीम् ।
चक्रनायकिविख्यातां वन्दे उड्डामरीं पुरे ॥ ११०
हृत्पुण्डरीकमध्यस्थां सिद्धचक्रप्रबोधकीम् ।
चक्रनायकिविख्यातां वन्दे तां ज्वालिनीं पुरे ॥ १११
विशुद्धचक्रमध्यस्थां शवरीज्ञानभेदकीम् ।
चक्रनायकिविख्यातां वन्दे दूतीं च शाकिनीम् ॥ ११२
आज्ञामूर्धनि चक्रस्थां सिद्धतत्त्वसमायुताम् ।
चक्रनायकिविख्यातां वन्देऽहं व्योमरूपिणीम् ॥ ११३
अनामचक्रमध्यस्थां सिद्धतत्त्वसमन्विताम् ।
चक्रनायकिविख्यातां वन्देऽहं खेचरीं पुरे ॥ ११४
कदम्बगोलकाकारां षोडशान्ते व्यवस्थिताम् ।
शुक्लपक्षे त्वहं वन्दे पूर्णाख्यामृतरूपिणीम् ॥ ११५
तन्मध्ये कालिकाबिम्बं उत्सङ्गामृतकेसरीम् ।
देवीं अमामहं वन्दे चन्द्रिकाकाररूपिणीम् ॥ ११६
वामामृतपुरोत्कृष्टां उत्कृष्टां चरुनन्दिताम् ।
वामां सृष्टिकरां वन्दे देवीं तां कुलमालिनीम् ॥ ११७
परां तेजसमावस्थां तत्त्वात्मासुपरिग्रहाम् ।
तेजोदृप्तां च दक्षिणे वन्दे सिद्धदिवाकराम् ॥ ११८
शक्तित्रितयमध्ये तु अंकुराकारदेवता ।
पिण्डं तस्या भगाकारं वन्दे त्रिष्कोणपीठगाम् ॥ ११९
नादस्थाने महारत्नं जाठराग्निसमुज्ज्वलम् ।
परमार्थदशाधारं वन्देऽहं नाभिमण्डलम् ॥ १२०
तस्यावरण सिद्धाङ्गा कुण्डली नाम देवता ।
त्रिस्थां त्रिवलयाकारां वन्देऽहं सिद्धकुण्डलीम् ॥ १२१
अनन्तं यस्य मन्त्रस्य तेजोरूपं नवात्मकम् ।
कूटस्थं परमव्योम्नि वन्दे कूटं यथा गुरुम् ॥ १२२
अनामां परधाम्निस्थां शक्तित्रितयभाविनीम् ।
एकतत्त्वस्थितां यत्र वन्दे विज्ञानघट्टिनीम् ॥ १२३
इच्छाज्ञानक्रियाभेदैर्भेदितां चन्द्रमूर्धनि ।
गमागमक्रमेणैव वन्दे शक्त्यन्तगोचरे ॥ १२४
व्योमपञ्चकलाधारं विपरीतेन मायया ।
निशाचारेण संवेद्यं घटं वन्दे यथागमम् ॥ १२५
तुर्यस्थममृतं शुक्लं परमार्थमुखोद्गतम् ।
द्रवते ज्ञानमाश्रित्य वन्दे बिन्दुं मनोरथम् ॥ १२६
तस्योर्ध्वे ज्योतिमात्रं तु कलाशेषस्य धारिणी ।
दृश्यते बिन्दुवेधेन वन्दे कोटरमव्ययम् ॥ १२७
जीवाधारमहारत्नं पशुपाशमलापहम् ।
निर्मलं मण्डलाकारं वन्दे चाखण्डमण्डलम् ॥ १२८
सर्वाङ्गव्यापकं देवं मुद्रामन्त्रविभूषितम् ।
चित्स्वरूपप्रकाशस्थं वन्दे शिवं महामृतम् ॥ १२९
लयातीतं तु मन्त्राणां षोडशान्ते विपर्ययम् ।
द्वादशान्ते परावस्थं वन्दे नादान्तमाश्रितम् ॥ १३०
परतत्त्वप्रकाशाय आत्मतत्त्वगरीयसीम् ।
अन्तर्गतां महालक्ष्मीं वन्देऽहं कालिकां पराम् ॥ १३१
विद्यातत्त्वनिनादेन नादेनाक्रम्य देवताम् ।
मूर्तिमध्ये बहिर्लक्षे वन्दे शुष्काभयप्रदाम् ॥ १३२
शिवपक्षे परे व्योम्नि गता विद्या परापरा ।
तुर्यचक्ररथारूढा वन्दे शिवमयीं कलाम् ॥ १३३
शक्तिमध्ये मनं कृत्वा चिन्तयेद् व्योम्नि चिद्घनम् ।
सर्वद्वन्द्वविनिर्मुक्तं वन्दे शान्तं निरञ्जनम् ॥ १३४
नाभिदेशे महाघोरं व्योमराजखमाश्रितम् ।
चिन्तयन् मूलसंगृह्यं वन्दे व्योममनादिकम् ॥ १३५
हृत्पुरे खमनं कृत्वा व्योमगर्भं च मारुतम् ।
संस्मरन् पूर्वकारणं वन्दे ज्योतिमहेश्वरम् ॥ १३६
कण्ठमध्ये समाश्रित्य वेला इव महोदधेः ।
परव्योमस्वरूपेण वन्दे व्योमकलार्णवम् ॥ १३७
तालुमध्यगतं व्योमं उत्तानं तडिताहताम् ।
ब्रह्मघोषरथारूढां वन्दे व्योम्न्याश्रितां पराम् ॥ १३८
कुलविज्ञानपञ्चाशच्छब्दराशिक्रमेण तु ।
स्तवराजं महागुह्यं महाविज्ञानभैरवम् ॥ १३९
स्तुतं दक्षेण मनसा अन्तर्यागेन धारणा ।
संस्मरेद् यः क्रमस्याग्रे त्रिष्कालं स्मरतेऽथवा ॥ १४०
सततं भक्तिपूर्वेण भैरवसमतां व्रजेत् ।
जराव्याधिविनिर्मुक्तो भोगजालविवर्जितः ॥ १४१
दुःखदारिद्र्यनिर्मुक्तो विचरेत यथासुखम् ।
तिष्ठते सुचिरं कालं जीवन्मुक्तिधरः पुमान् ॥ १४२
अपमृत्युर्न बाध्येत विघ्नजालविवर्जितः ।
स्तवराजप्रभावेन भवते नात्र संशयः ॥ १४३
गोपयेत् परशिष्याणां न देयं यस्य कस्यचित् ।
पुत्रस्यापि न दातव्यं भक्तिहीने कदाचन ॥ १४४
कुलाचारविलुप्ते च न दध्याद् वै कदाचन ।
तान्त्रिकानां न दातव्यं रक्षणीयं शरीरवत् ॥ १४५
मोक्षसद्भावविज्ञानं आत्मज्ञानप्रकाशकम् ।
यः पुनः प्रातरुत्थाय संस्मरेद् देहनिर्णयम् ॥ १४६
आत्मज्ञानमसौ वेत्ति स्तवबोधस्वरूपिणम् ।
विधिनानेन संपूर्णं कृत्वा दक्षः क्षमापयेत् ॥ १४७
प्रसन्नः परमेशानः स्तवराजेन तोषितः ।
ऊचुरेवं परः शान्तः ब्रूहि मे परमार्थतः ॥ १४८
स्तवराजेन महता किमर्थं स्तवितस्त्वया ।
दक्ष उवाच
प्रारब्धं यन्मया देव यज्ञं गङ्गातटे शुभम् ॥ १४९
धर्मकामार्थसिद्ध्यर्थं न सिद्धं मन्दबुद्धिना ।
मया नामन्त्रितो देवो यज्ञं विध्वंसितं ततः ॥ १५०
युष्मत्कोपाच्च संजातं शापभ्रष्टमहं पुनः ।
मखस्थयाजकानां च तेषामुद्वेगबन्धनम् ॥ १५१
देवस्य कोपात् संजातं तत् क्षमध्वं महाप्रभो ।
ये गता ये प्रणष्टाश्च ये च बद्धा महोदरे ॥ १५२
तेषां कुरु प्रसादं तु येन ते संभवं नहि ।
श्रीनाथ उवाच
इत्युक्तं सप्रसादं तु उत्तिष्ठ ऋषिपुत्रक ॥ १५३
नष्टानां च प्रणष्टानां बन्धने ये च संस्थिताः ।
तेषां कृता मया मुक्तिः सत्येदं च शुचिव्रत ॥ १५४
यज्ञारम्भं कुरु प्राज्ञ मत्प्रसादेन सिद्धिदम् ।
भवते नात्र संदेहः शापस्यायं महद् वरम् ॥ १५५
ज्ञात्वा चेदं तदा देवी इदं वृत्तान्तमागतम् ।
मत्संबन्धाच्च दक्षस्य अहं सा पापकारिणी ॥ १५६
पितुर्यज्ञं मया ध्वस्तं आत्मानं शोधयाम्यहम् ।
ज्वलज्वालोर्मिसंकाशमुद्दीप्य परमानलम् ॥ १५७
ज्वलन्तं चिन्तयित्वा तु मुद्रामण्डलमध्यतः ।
वज्रासनं ततो बध्वा स्मृताघोरेश्वरीकला ॥ १५८
कालाग्निना स्वयं दग्धा निर्धूमाङ्गारतां गता ।
मृता भस्मगता साध्वी उत्तीर्णा मर्त्यलोकतः ॥ १५९
पुनरेव त्वहं जाता हिमवन्तस्य मन्दिरे ।
अष्टमे तु महाजन्मे जाताहं भद्रकालिका ॥ १६०
ज्ञात्वा च मे पुरा वाणीं हिमवन्तस्य ईश्वरः ।
ईप्सते पाणिग्रहणं कालीं मां दद सुव्रत ॥ १६१
काली दत्ता परिचर्ये हिमवन्तेन सुन्दरी ।
कैलासे तु महाशैले देवदेवस्य मन्दिरे ॥ १६२
महादेशं समुत्पन्नं सांप्रतं किञ्चिदन्वये ।
गुहावासस्य मध्ये तु विद्यते शाम्भवं पदम् ॥ १६३
गत्वा त्वनुग्रहं तत्र भविष्ये तव सांप्रतम् ।
ज्ञात्वा चेदं पुरा देवी संजाता पश्चिमे गृहे ॥ १६४
कुलदेवी च कौलेशी अधिकारे व्यवस्थिता ।
आगतो देवदेवेशोऽनुग्रहार्थी महाप्रभुः ॥ १६५
पारम्पर्यक्रमेणैव तया तस्य त्वनुग्रहम् ।
कृतं तच्छक्तिपातेन संपूर्णं शुद्धवासना ॥ १६६
संजाता चर्चिका देवी आज्ञा या मालिनीकुले ।
क्रामिता परमा दिव्या शाम्भवाज्ञामखण्डिता ॥ १६७
देवी आज्ञाप्रभावेन विद्युत्पुञ्जशताकुला ।
तेजोभाभिः सुसंदीप्ता दिव्यलिङ्गत्वमागता ॥ १६८
एवं सा लिङ्गरूपेण कलिकाले तु चर्चिका ।
गृहे चन्द्रपुरे दिव्ये अधिकारे व्यवस्थिता ॥ १६९
इत्यागमं मया प्राप्तं चतुर्थे तु महायुगे ।
पारम्पर्यमुखाम्नायं शाम्भवं कौलिकान्वये ॥ १७०
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते दक्षशापानुग्रहाधिकारो नामानन्दः ॥
Kumārikākhaṇḍa – Kapitel ४
चतुर्थानन्दः
श्रीकण्ठ उवाच
एवं प्राप्तं स्वरूपेण त्वयाज्ञाशाम्भवं पदम् ।
सर्वद्वन्द्वपरित्यागात् शान्तातीतं परापरम् ॥ १
तेन त्वं गुरुर्मे माता युक्त्यायुक्तं क्षमस्व माम् ।
मातॄणां सिद्धरुद्राणां त्वमेका हृदि देवता ॥ २
त्वं शक्तिर्मम रुद्रस्य मातरी पश्चिमे गृहे ।
कामार्थिनो ह्यहं नेह आज्ञार्थी क्रमलुब्धकः ॥ ३
दिव्यादिव्यक्रमौघस्य सन्तानस्य महोदयम् ।
तव शिष्यो ह्यहं सम्यक् उपसन्नः प्रसन्नधीः ॥ ४
कथयस्व कुलाम्नायं पारम्पर्यक्रमागतम् ।
प्रत्ययाष्टौ च देवेशि कादिभेदं मतं मम ॥ ५
दद मे परमे अम्बे यत् ख्यातं सप्तकोटिके ।
एवं वायुपुराणादौ लिखिताक्षरमालिकां ॥ ६
आज्ञाप्रत्ययहीनस्य देवदेवस्य निश्चयम् ।
वैकल्प्यं भवते तस्मादाज्ञां याचामि पश्चिमे ॥ ७
श्रीकाराज्ञा पुनस्तस्य गुर्वाम्नाये प्रवर्तते ।
तत्र सा शाम्भवी आज्ञा श्रीनाथो लभते कलौ ॥ ८
मोक्षार्थं सर्वजन्तूनां अवतारं करिष्यति ।
पुराणार्थमिदं सत्यं त्वद्भक्तिसेवनादपि ॥ ९
श्रीमतं पश्चिमाम्नायं मूलान्वयक्रमागतम् ।
रजमण्डलनिर्मुक्तं जातिप्रणववर्जितम् ॥ १०
सस्फुरं कौलिकाम्नायं गुर्वाम्नायं क्रमं वद ।
ऊचुरेवं महावाणीं तेजलिङ्गान्तवासिनी ॥ ११
तीव्राज्ञाधिष्ठिता देवी श्रुत्वा देवगिरां शुभाम् ।
श्रीवक्रा उवाच
यदेतत् पश्चिमं मार्गं श्रीक्रमं गुणवत्तमम् ॥ १२
आलयं सर्वसिद्धानां सविशेषं तु शाम्भवम् ।
आवेशकारकं शम्भो स्मरणादपि सिंहकम् ॥ १३
दशसप्तक्रमा ज्येष्ठा गुरुशिष्यक्रमेण तु ।
तेषामाज्ञाप्रसादेन अस्माकं च समागता ॥ १४
त्वं हि तेषां कथं देव शिष्यत्वे संभविष्यसि ।
ज्येष्ठाज्ञोल्लङ्घनाद् देव आज्ञायास्तमनं भवेत् ॥ १५
आज्ञाहीनः शोचनीयो गोत्रबाह्यो विधीयते ।
त्वं प्रभुः सर्वदेवानां न दृष्टं मे तवाधिकम् ॥ १६
गुरुत्वेऽहं कथं तस्माद् भवामि तव विग्रहे ।
श्रीकण्ठ उवाच
पारम्पर्यक्रमेणापि आज्ञा स्फुरति कौलिनी ॥ १७
यदि दृष्टं पदार्थं तु को दोषो विद्यते कुले ।
सारमेकं कुले कौले तेषां शिष्यमहं पुनः ॥ १८
या स्थिता उघमार्गेऽस्मिन् ज्येष्ठानुक्रमयोगतः ।
नाहं ज्येष्ठाकुले देवि एवं कुरुष्व नुग्रहम् ॥ १९
त्वं त्राता गुरुर्मे श्रीमान् पूज्यामि त्वां त्रिमध्यतः ।
अत्र दोषं न पश्यामि गुरोराज्ञा स्वयंप्रभा ॥ २०
मन्त्रो विद्या परामुद्रा योगिनी कुलदेवता ।
आज्ञा पञ्चविधा शक्तिः लिङ्गयोन्यां व्यवस्थिता ॥ २१
तत्रोदरे जगत् सर्वं क्रमं चापि महाक्रमम् ।
तत् प्रविश्य महादेवि आज्ञार्थी इह जन्मनि ॥ २२
दद मे परमे अम्बे भक्त्या ज्ञानं महाक्रमम् ।
शिष्ये भक्तिर्गुरोराज्ञा संप्राप्तिरुभयोर्यदा ॥ २३
तदासौ कौलिकी आज्ञा अवतारं प्रकुर्वति ।
तस्याश्रममिदं लिङ्गं त्वच्छक्तिकुलविग्रहम् ॥ २४
पारम्पर्यक्रमाम्नाये अधिकारं क्रमागतम् ।
आज्ञालिङ्गं महासिद्धं विकल्पमोहवर्जितम् ॥ २५
तस्य शास्त्रं च तन्त्रं च लक्षपादाधिकं त्विदं ।
उपसन्नो महादेवि देह्यनुज्ञां रमां प्रति ॥ २६
अहं निवेदितो देवि मत्तुल्यो नास्ति कश्चन ।
निवेदितं त्वया भद्रे शरणागतवत्सले ॥ २७
गृहावतारसकलं मेरोरुपरि मूर्धनि ।
कलौ मर्त्यावतारं तु स्वशिष्याय निवेदयेत् ॥ २८
यागकाले सिद्धिदं स्यात् पूजितं वरदं भवेत् ।
तर्पितं दीक्षितं सर्वं अवतारं प्रकुर्वति ॥ २९
अन्यायोपार्जितं चापि निष्फलं तु भविष्यति ।
आज्ञाभङ्गकरं तस्य उद्वेगं तु दिने दिने ॥ ३०
गृहयागं पुरा कृत्वा पश्चात् संग्राह्यं तद् गृहम् ।
श्रीकण्ठ उवाच
ततः स्तवेन दिव्येन देवेनानन्दभृद्गिरा ॥ ३१
दिव्यं स्तोत्रं समारब्धं अशेषार्थप्रबोधकम् ।
मथित्वा तु परं तत्त्वं तेनेदं मालिनीस्तवम् ॥ ३२
सबीजं दण्डकं भक्त्या रचितं तत्र पश्चिमे ।
तस्य सा देवतावाणी आदेशेन महौघवान् ॥ ३३
तया सार्धं भवत्येवं मालिनीकुलविग्रहम् ।
युक्तं द्वादशभिर्भेदैर्मूर्तिराज्ञावलोकितम् ॥ ३४
ततः स्तवेन महता नाथ आज्ञां लभिष्यति ।
उपसन्नस्तदा योगी श्रीकण्ठाज्ञामनुग्रहे ॥ ३५
ईदृगनुप्रदानेन वाक्पुष्पैः स्तुतिपूर्वकैः ।
प्राणायामादिभिर्यज्ञैर्दिव्यवर्षशतं तपः ॥ ३६
एकानुष्ठानमनसा प्रस्तुतस्तुतिपूर्वकैः ।
स्तुनोति विविधैः स्तोत्रैर्देवो भुवनमालिनीम् ॥ ३७
जय त्वं मालिनीदेवि निर्मले मलनाशिनि ।
ज्ञानशक्तिः प्रभुर्देवि बुद्धिस्त्वं तेजवर्धनी ॥ ३८
जननी सर्वभूतानां संसारेऽस्मिन् व्यवस्थिता ।
माता वीरावली देवी कारुण्यं कुरु वत्सले ॥ ३९
ऐँ जयति परमतत्त्वनिर्वाणसंभूततेजोमयी ।
ईँ निःसृता व्यक्तरूपा परा ज्ञानशक्तिस्त्वमिच्छा क्रिया ।
ॐ ऋज्विरेखा पुनः सुप्तनागेन्द्रवत्कुण्डलाकाररूपा प्रभुर्नादशक्तिस्त्वं संगीयसे ।
हाँ भासुराकाररूपा सुरूपा शिवा ज्येष्ठनामा च वामाथ रौद्री अनाख्याम्बिका बिन्दुरूपावधूतार्धचन्द्राकृतिस्त्वं त्रिकोणा एकार – ऐकार – ईकार – अंकारसंयोजितैकत्र यत् तत्त्वमापद्यते ।
ऐँ व्युत्क्रमेणोत्थिता तत्स्वरूपा भगाकारावस्थायिनी ।
अं अः आदितत्त्वोद्भवा ।
ह्रीँ आदिक्षान्तयोनिस्वरूपा च श्रीकण्ठसंमोहिनी ।
फ्रेँ रुद्रमाता तथानन्तशक्तिः सुसूक्ष्मा त्रिमूर्त्यामरेशार्घिनी ।
हकारौकार एकत्र संबोधनी बिन्दुस्वरूपिणी ।
क्राँ ह – र – ईकारबिन्द्वङ्किता योगिनी सिद्धयोगेश्वरी ।
ह्रौँ योगमायातत्त्वा भारभूतिः ।
ह्रीँ तिथीशात्मिका ।
काँ स्थाणुभूता हराख्या च झण्टीशभौतीशसद्यात्मिकानुग्रहेशार्चिता ।
ह्रूऔँ क्रूरदेहानुगा त्वं महासेनसंभोगिनी ।
ह्स्रूऔँ षोडशान्तामृता बिन्दुसंदोहिनी शाम्भवी श्वेतनिष्यन्ददेहप्लुता
ऐँ अशेषसम्यक्परानन्दनिर्वाणसौख्यप्रदे ।
ह्रीँ देवि भैरवि ।
ह्स्रीँ भैरवोद्यानक्रीडानुसक्ते परे ।
सः परामालिनि मलयावलि ।
सौः त्रिभुवनावलि ।
व्लूँ भगनायकि ।
ईँ भगेश्वरि ।
घुः घोरे ।
थः थघोरे ।
ह्रीँ परमघोरे ।
फ्रेँ अमोघे ।
ख्फ्रेँ परमकुलयोगेश्वरि ।
ह्रेँ मातृचक्रेश्वरि ।
ड्म्र्यूँ डाँ डाकिनि ।
र्म्र्यूँ राँ राकिनि ।
ल्म्र्यूँ लाँ लाकिनि ।
क्म्र्यूँ काँ काकिनि ।
स्म्र्यूँ साँ साकिनि ।
ह्म्र्यूँ हाँ हाकिनि । ।
य्म्र्यूँ याँ याकिनि ।
डरलकसहम्र्यूँ फेत्कारगम्भीरघोरेश्वरि ।
जुँ त्रैलोक्यमहान्तारिके ।
ताँ तारिणि ।
खखफ्रेँ ख आकाशलिङ्गोदितमहामातृशाकिनि ।
रुँ रुद्रमालार्चिते ।
रुँ रुद्रशक्तिः खगे ।
रौँ रुद्रयोगेश्वरि ।
ह्रः रुद्रसिद्ध्यारुहे ।
हे हे हा हा हस हस हाँ हास्यहासिनि ।
रुऔँ रुद्रचामुण्डे ।
व्लूँ उग्रे ।
ऊँ उग्रोग्रनायकि ।
ऐँ समस्तमन्त्रतेजोमये ।
ख्फ्रेँ ज्ञानविज्ञानगम्भीरचिन्नाथमानोत्सुके ।
आँ अनेकयुगसञ्चितचर्चितचरणे ।
नाँ नानाकाररूपे ।
द्राँ देवि सुभगे ।
क्लीँ क्लिन्ने ।
क्लीँ कामिनी ।
काँ कामराजेश्वरि ।
क्षः सर्वग्रहाणां ताडनि ।
ह्स्रूऔँ मेरुनायकि ।
ह्सः ब्रह्मचारिणि ।
क्ष्मः अवधूते ।
श्रीँ श्रीमान्देवि वरप्रदे ।
कुँ सुदीप्तकनकाकारे ।
ह्रीँ परमकुलयोगेश्वरि ।
स्रः सिद्धमाते विभुः शब्दराशीति योन्यार्णवे ।
हूँ आर्णवे ।
वाँ वाग्विशुद्धा शिवा सिद्धवागेश्वरि ।
माँ मातृका त्वमिच्छा क्रिया मङ्गला सिद्धलक्ष्मी विभूतिः सुभूतिर्मतिः शाश्वताख्या पराख्येति नारायणी ।
ऊँ देवि चिन्तामणि चिन्ताह्लादकारिणि ।
छाँ चित्तज्ञानप्रबोधनि ।
हूँ सिद्धबलपराक्रमे ।
हूँ परमविच्चेश्वरि ।
खः सुसूक्ष्मे ।
वोँ वीरमाते ।
अँ अमे ।
आँ देवगन्धर्वसिद्धासुरमाते ।
हूँ रक्ष रक्ष ।
राँ सुरक्तावलि ।
हौँ सर्ववर्णविभूषितावलि ।
ह्रीँ रक्तचण्डा करालेक्षणा ।
भाँ भीमरूपा ।
ह्यँ इह संवीक्ष्य ।
यँ संवीक्ष्य ।
यः हँ त्रुटिलवनिमिषार्धमात्रातिसूक्ष्मातिसूक्ष्मे ।
हाँ हाँ तारय तारय ।
ग्लूँ देवि सर्वगतमाते ।
ऋँ महोच्छुष्मयोगप्रिये ।
हौँ त्वं जया त्वं विजया जयन्त्या त्वं चापराजिता रुद्रशक्तिर्महामोहमाया परा ।
ह्रीँ रौद्रबलावलि ।
हैँ रुद्रसंमोहनि ।
स्ह्क्ष्म्ल्व्र्यूँ त्वं नवात्मानन्ददेवस्य चोत्सङ्गयानाश्रिता मन्त्रमार्गानुगैर्मातृभिर्वीरपानानुरक्तैः सुभक्तैश्च संपूज्यसे ।
ग्स्प्म्न्लूँ देवि पञ्चामृतैर्दिव्यपानोत्सवैः पूज्यसे ।
अं अः ह हे ऐँ हौँ एकजन्मद्विजन्मत्रिजन्मचतुःपञ्चषट्सप्तजन्मोद्भवैस्तैस्तैर्नारैः शुभैः फल्गुषैस्तर्प्यसे ।
स्वौँ अलिफल्गुप्रिये ।
म्लूँ मन्त्रविद्याव्रतोद्भासिनि मुण्डकङ्कालकापालिभिर्दिव्यचर्यानुरूढैः (संपूज्यसे) ।
सौँ वः स्वरूपे ।
काँ मुण्डधारिणि ।
रूः रूः रु रु खट्वाङ्गधारिणि ।
क्लीँ त्रैलोक्यक्षोभकारिणि ।
क्लूँ कौलमातङ्गिनि ।
क्लूः नागयज्ञोपवीतमेखलावधूते ।
आँ परमानन्ददायिनि ।
ऐँ ओंकार–नमः–स्वाहा–स्वधाकार–वौषड्–वषट्कार–हूँफट्कारजातिभिरेतैश्च मन्त्राक्षरोच्चारोत्तीर्णपूर्णा संपूज्यसे ।
थँ द्वात्रिंशपरमभैरवि उभयपञ्चकसंपुटस्थे ।
वाँ वाग्बीजावलिस्त्वं च चत्वारिंशतिवर्णद्वयाधिका कीर्त्यसे ह्स्रूऔँ वामहस्तस्थिताक्षसूत्रावलीजापिभिः साधकैः पुत्रकैर्मातृभिर्मण्डले दीक्षितैर्योगिभिर्योगिनीवृन्दमेलापकैः ।
ह्सौँ संवर्तमण्डलान्तावस्थिते अनुग्रहावलोकिनि ।
ख्फ्रेँ खेचक्रनायकि ।
ऋँ ॠँ ओँ औँ चक्रमेलापकारिणि ।
क्ष्लूँ रुद्रक्रीडालसैः पूज्यसे ।
भॄँ भृकुटी करालभैरवि भैरवप्रिये ।
व्रूँ वीरवीरेन्द्रवीरवन्दिते ।
भैँ उन्मत्तक्रीडालसे ।
यूँ योगिनीनां योगसिद्धिप्रदे ।
म्लाँ देवि त्वं पद्मपत्रोपमैर्लोचनैः स्नेहपूर्णैस्तु यं पश्यसे खँ तस्य दिव्यान्तरिक्षस्थिता सप्तपातालसत्खेचरीसिद्धिरव्याहता वर्तते ।
हूँ भक्तितो यः पठेद् महादण्डकमेककालं द्विकालं त्रिकालं शुचिः संस्मरेद् यः सदा मानवः सोऽपि चौराग्निशस्त्रार्णवे पर्वताग्रेऽपि संरक्षसे
फेँ फेँ फेँ देवि पुत्रानुरागान्महालक्ष्मि ये हेमचौरान्यदारानुरक्ताश्च ब्रह्मघ्नगोघ्नमहादोषदुष्टा विमुच्यन्ति संस्मृत्य त्वदीयं मुखं पूर्णचन्द्रानुकारि स्फुरद्दिव्यमाणिक्यसत्कुण्डलोद्घृष्टगण्डस्थलम् येऽपि बद्धा दृढैर्बन्धनैर्नागपाशैर्भुजपादार्गलैस्तेऽपि बन्धाद् विमुच्यन्ति ।
फ्रेँ ग्रस्ता ग्रहैर्ये बहुभूतवेतालरक्षसैश्च संपीडितास्तेऽपि ते नामसंकीर्तनाद् देवि मुच्यन्ति घोरैर्महाव्याधिभिः संस्मृत्य पादारविन्दद्वयं ते ।
हूँ महाकालि कालाग्नितेजप्रभे ।
कः स्कन्दगोविन्दब्रह्मेन्द्रचन्द्रार्कपुष्पायुधैर्मौलिमालालिसत्पद्मकिञ्जल्कसत्पिञ्जरैः शोभसे ।
ह्स्रूऔँ करवीरश्मशाननाथावलि ।
ग्लौँ गुहाटवीपर्वतोद्यानवनमण्डितकदम्बाम्बिके ।
हस्क्ष्रैँ करवीरगुहावासिनि ।
च्छौँ चतुर्दशभुवनोद्यानवासिनि ।
कृकराट् त्रैलोक्यनिर्घोषिणि ।
डाँ डाँ डामराम्बिके ।
ज्म्रूफ्रुँ ह्स्ख्फ्रेँ पादुकाक्रमलिङ्गोदितशक्त्यन्ते महाकारणं शाम्भवं पदं कादिमण्डलौघमहाज्ञानपुस्तकोऽयं तत्र वीरावलीशब्दराशिप्रभाभास्वरम् ।
ऐँ ह्रीँ श्रीँ ख्फ्रेँ ह्स्रूऔँ दिव्यलिङ्गासनं मण्डलोत्कृष्टनिर्वाणयोगावलीशक्तिभिः ह्क्षौँ शुद्धस्फटिकसंकाशाकाशपरमनिर्वाणमहाबाणपञ्चकोपेताज्ञाधिकारपरमविश्रामभूमिकासकलकलाभूतोन्मादमदनसंक्रमं सागमं योगिनीसिद्धं वन्दितं सतताभिनन्दितं विद्याम्नायौघगद्यपद्यैश्चतुष्पादाभिध्यातसर्वार्थसंवित्संबोधं संबुध्यसे सर्ववीराम्बिके ।
भैँ भैँ भैँ भैरवि भैरवस्ते शरणागतोऽहं आज्ञार्थिनोऽहं लिङ्गाकाशभैरवि क्षमस्वापराधं शिवे उमे जगन्माते कालिके कुलकमलगुहागहनवासिनि मालिनीस्तवनात् तुभ्यं समयनन्दिनोऽहं चरणवन्दिनोऽहं कारुण्यादनुकम्पस्व मामिति
मालिनीस्तवराजं तु आदिनाथावतारितम् । प्रेर्यमाणा महावाणी आज्ञयानन्दप्रेरिता ॥ ४०
आज्ञामनुग्रहार्थाय अधिकारार्थहेतुना । बालक्रमस्य समये क्रमाग्रे पठते तु यः ॥ ४१
क्रमात् सिद्धिस्तदा तस्य अणिमादिगुणाष्टकम् । आनन्दपदसंस्पर्शो उच्चारादेव जायते ॥ ४२
त्रिष्कालमेककालं वा एकचित्तः समाहितः । बीजसंख्याधिकारेण दिव्यावेशः प्रवर्तते ॥ ४३
आज्ञामनुग्रहं धन्यं वाचासिद्धिर्न संशयः । एवं क्रमेण वै तस्य मन्त्राम्नायमनेकधा ॥ ४४
अदृष्टविग्रहे शान्ते परतत्त्वे गतिं लभेत् । एकधा स्मरणात् सर्वं मन्त्रविद्याक्रमं लभेत् ॥ ४५
द्विधा एव परिज्ञानं त्रिधा चाम्बापदं लभेत् । गोपयेत् परशिष्याणां पारम्पर्यविवर्जिताम् ॥ ४६
अहंकारेऽधिरूढानां दम्भिकानां न दापयेत् । एवं स्तुता महादेवी भैरवेन महात्मना ॥ ४७
ततो लिङ्गं विनिर्भिद्य निर्गता परमेश्वरी । वदते सिद्धनाथस्य लिङ्गस्था लिङ्गरूपिणी ॥ ४८
पूर्वप्रीतिवशाच्छम्भो मैत्रीभावेन भावनात् । भावग्राह्यं कुलं कौलं ददामि तव निश्चयम् ॥ ४९
मनसा वचसा स्नेहात् महाकौलिकमादिशेत् । आमन्त्रितो यदा देव्या तदा मित्रत्वमागतः ॥ ५०
तेनायं सिद्धनाथोऽत्र विख्यातो मित्रसंज्ञकः । आद्यारभ्यात्र मद्भागे स्वामित्वं तव कौलिके ॥ ५१
भवनाज्ञाधरो मन्त्री कौलीशश्चाधिकारिणः ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनिमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते मालिनीस्तवराजाधिकारो नामानन्दः ॥
Kumārikākhaṇḍa – Kapitel ५
पञ्चमानन्दः
श्रीवक्रा उवाच
यदेतत् कौलिकं ज्ञानं क्रममण्डलधीपुरम् ।
दातुं न विहितं देव भक्तिस्ते रतिकामतः ॥ १
पूर्वस्नेहवशात् प्रीतिस्तेन शिष्यः कथं मम ।
गुरुशिष्यविपर्यासं अयुक्तं शूलपाणिने ॥ २
कृतेनापि च देवेश उपहासः प्रवर्तते ।
अनुलोमस्य मार्गस्य विलोमाच्च महद् भयम् ॥ ३
बुद्धिहानिर्मनोग्लानिरयुक्ताचरणाद् भवेत् ।
यावन्न गुरुशिष्यत्वं क्लेशं यावन्न दासवत् ॥ ४
तावत् कुलक्रमे सिद्धिः कुतो भवति मन्त्रिणः ।
न शिष्यं त्वां प्रवक्ष्यामि न भवामि अहं गुरुः ॥ ५
इतः सूत्रक्रमं शम्भो दीयते तत् कुलक्रमम् ।
भवान् ज्ञानी महाविद्वान् शिष्यत्वे नैव सा सुधीः ॥ ६
शिष्ये भक्तिर्गुरोर्ज्ञानं संवित्तिरुभयोर्यदा ।
तदा सा जायते दीक्षा अन्यथा च विडम्बिका ॥ ७
श्रीनाथ उवाच
यत् पुरासीश्च त्वं भार्या अस्म्यहं पूर्वमन्मथः ।
उभौप्रीतिवशानन्दे कामस्यान्ते यथा पुनः ॥ ८
तथा त्वमन्यदेही स्यात् अहं मर्त्यशरीरिणः ।
आवयोः परिवर्तेन संसारस्तच्च कामिकम् ॥ ९
तथा क्रमेण शिष्योऽहं त्वं मातामिति कल्पिता नैव दोषक्रिया चात्र मन्त्रसंकेतकं तपः ॥ १०
भवतामिति संप्राप्ते त्वं च सिद्धः कुलक्रमे ।
एवं क्रमेण शिष्योऽहं स्थितः पूर्वसमुच्चये ॥ ११
क्रमस्याग्रे मण्डलस्याग्रे युष्मदग्रे प्रसन्नधीः ।
परिवर्त्य स्वरूपेण तुभ्यं मह्यं यथार्थतः ॥ १२
तथा मे प्रीतिपूर्वेण कुरु ज्ञानप्रकाशनम् ।
शिष्योऽहं तव कल्याणि त्वं माता मे प्रतीकुरु ॥ १३
एवं तु आवयोः प्राप्तं उत्तीर्णं पूर्वसंग्रहम् ।
तस्मादनुग्रहार्थाय स्नेहेन पश्यसे मम ॥ १४
नास्ति सिद्धिः कलौ तन्त्रे चतुर्थे तु महायुगे ।
सिद्ध्यन्ति निश्चयं चात्र श्रीमच्चन्द्रपुरे गृहे ॥ १५
मण्डले सावधानोऽहं भवे जन्मनि जन्मनि ।
एवमाज्ञाक्रमं ब्रूहि संहितार्थसमुच्चयम् ॥ १६
येन विज्ञानमात्रेण कम्पते देहपञ्जरम् ।
कौलिकं तु परं ज्ञानं उपदेशं वदस्व मे ॥ १७
त्वमेकाकाशलिङ्गं तु आसनं पृथिवी त्वियम् ।
चराचरं त्वयि लीनं तेन त्वं लिङ्गरूपिणी ॥ १८
त्वं मन्त्रस्त्वं परा विद्या त्वमाज्ञा त्वं परापरा ।
त्वं सिद्धिस्त्वं च शक्तिस्त्वं शरणागतवत्सले ॥ १९
त्वच्छक्त्या प्रेरितोऽहं च भवे जन्मनि जन्मनि ।
अहं धन्यतनुर्मर्त्यो यस्त्वयाराधने क्षमः ॥ २०
विशेषक्रमविज्ञानं भवेत् सिद्धिप्रदं मतम् ।
सिद्धिरूपाश्रमैकत्वं विनयेनोपगम्यते ॥ २१
तदेव तपयुक्तस्य लिङ्गस्य खेचरस्य च ।
व्यक्ताव्यक्तस्य शुद्धस्य नादिफान्ते स्थितस्य च ॥ २२
सिंहसंकेतदेहस्य मालिनीक्रममध्यतः ।
मया निवेदितात्मानं साष्टाङ्गगतिपूर्वकम् ॥ २३
एतद् भक्त्याश्रमं चात्र देवि तुभ्यं निवेदितम् ।
शिष्यत्वेन न संदेहो न त्वत्परतरं धनम् ॥ २४
सिद्ध्यसे नात्र संदेहो भक्तश्चाज्ञां लभेत् स्फुटम् ।
शिष्ये भक्तिर्गुरोर्ज्ञानं आज्ञालब्धं कुलागमम् ॥ २५
मुद्रा ज्ञानशलाका या भक्तियुक्ते प्रवर्तते ।
प्रसन्ना भव देवेशि दर्शनं देहि साम्प्रतम् ॥ २६
शरीरं न मया दृष्टं लिङ्गं दृश्यति केवलम् ।
शुद्धहेममयं दिव्यं भ्रमते अग्निदीपवत् ॥ २७
तेन मे विभ्रमं चित्ते आत्मानं प्रकटं कुरु ।
लिङ्गस्य स्फोटनं कृत्वा प्रत्यक्षा भव मे प्रभो ॥ २८
श्रीवक्रा उवाच
लिङ्गस्फोटं कृतं शम्भो निष्क्रान्ताहं सुवर्चसा ।
कुटिलाकृतिरूपेण त्रिष्कोणाननभीषणा ॥ २९
श्यामा रक्ता त्रिनेत्राहं कालानलसमप्रभा ।
सिंहावलोकसंपन्ना तेन सिंहावलोकिनी ॥ ३०
दृष्ट्वा त्वां भैरवानन्दं लज्जासंकुचिता अहम् ।
संजाता वक्रिका तेन अष्टाङ्गकरभूषिता ॥ ३१
अहं जाता तदा वक्रा दिव्यदेहा महाबला ।
दृष्टमात्रेण विद्धस्त्वं इदं तथ्यं मया कृतम् ॥ ३२
श्रीनाथ उवाच
अहं विद्धस्त्वया शक्त्या विह्वलो ह्यवलोकनात् ।
न ते दृष्टं मया कायं निद्राघूर्मिवशं गतः ॥ ३३
न शृणोमि न पश्यामि परचेतापहारितः ।
तदाहं च त्वया देवि वेधितश्चावलोकनात् ॥ ३४
एतत्प्रत्ययसंप्राप्ते वेधदीक्षा कुलक्रमे ।
श्रुतिर्मतिर्मनोदृष्टिश्चेतो धृतिः क्षमेति च ॥ ३५
अन्यचित्तगतो विद्धः शक्त्यावेशेन विग्रहः ।
प्रत्ययाज्ञा स्वरूपेण प्राप्ता ज्ञानशलाकया ॥ ३६
सिद्धानामाद्यसिद्धोऽस्मि मित्राख्यो नामनामतः ।
तव भक्तो ह्यहं दासो गतिस्त्वं शरणं परम् ॥ ३७
साष्टाङ्गप्रणिपातोऽयं कृतं दण्डं त्रिधा पुनः ।
आज्ञाधरमहं शिष्यस्त्वमेका व्यापिनी गुरुः ॥ ३८
जातः शिष्यो ह्यहमेको गोत्राचारेण धीमतः ।
क्षमस्व देवदेवेशि संक्रान्ताज्ञामनुग्रहात् ॥ ३९
वक्रिके त्वं प्रभुर्माता देवी विश्रामभूमिका ।
त्वं गतिस्त्वं च मे स्वामी तवाहं शरणं गतः ॥ ४०
स्वर्गापवर्गयोर्देवि त्वमेका योनि मातरः ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ ४१
अद्य मे विभवं प्राप्तं आज्ञा संक्रमिताद्य मे ।
अद्य योगीश्वरोऽहं च त्वत्प्रसादाच्च भैरवि ॥ ४२
उपदेशं क्रियां शिक्षां साम्प्रतं कथयस्व मे ।
सिद्धवाक्यमिदं श्रुत्वा देवी वचनमब्रवीत् ॥ ४३
श्रीवक्रा उवाच
मया च तव मित्रत्वं पूर्वस्नेहान्निवेदितम् ।
मित्रदेव महासिद्ध आज्ञानाम प्रकीर्तितम् ॥ ४४
पुष्पाः सप्तदशाराध्या आत्माष्टादशकम् तथा ।
दशसप्तक्रमे ज्येष्ठा आराध्या मम सुव्रत ॥ ४५
तवैते पूजनीयास्तु शाम्भवाः सिद्धनायकाः ।
उन्मनादिक्रमेणैव यावत् श्रीनाथचिञ्चिणी ॥ ४६
पुष्पसंकेतकं शम्भो अज्ञात्वा नैव मुक्तिभाक् ।
बालक्रमं तथा देव पीठाः पीठेषु देवताः ॥ ४७
बाह्ये तु देवताश्चाष्टौ नादिफान्ता तु कौलिकी ।
उत्तिष्ठ स्फुरते चाज्ञा क्रमयुक्ते महेश्वर ॥ ४८
त्वमेकं चान्वये गोत्रे मयाद्य प्रकटीकृतम् ।
रक्षणीयमिदं ज्ञानं पारम्पर्यक्रमागतम् ॥ ४९
योगिनीमुखनिष्क्रान्तं मेरुमार्गविनिर्गतम् ।
कुमारीयोगिनीभक्तिः समयद्रोहनिग्रहम् ॥ ५०
कर्तव्यं च मदीयाज्ञा यथेच्छा विचरेत् सुखम् ।
लोका भक्तिरता यत्र तत्र ज्ञानं प्रकाशय ॥ ५१
गुटिका पादलक्षा तु पातनीयावलोकनात् ।
चन्द्रार्थोऽनुग्रहेत् सर्वान् संसाध्य आज्ञया खग ॥ ५२
इति ज्ञानप्रभावोऽयं तवोक्तं हि तु भैरव ।
निग्रहानुग्रहे शक्तिर्भवते तव निश्चयम् ॥ ५३
मर्त्यलोके व्रजित्वा तु कुरु क्रीडां यथेच्छया ।
जरामरणनिर्मुक्तः खगतिस्तव नित्यशः ॥ ५४
विमुक्तः सर्वपापेभ्यस्त्वं हि काञ्चनवद् यथा ।
ब्रह्महत्यादिपापानि ये कुर्वन्ति दिने दिने ॥ ५५
तव स्मरणमात्रेण नश्यन्ते नात्र संशयः ।
ये ध्यायन्ति सदा तुभ्यं त्रिष्कालस्मरणादपि ॥ ५६
ते सिद्धा नात्र संदेहो विमुक्ताः पाशबन्धनैः ।
ये निन्दन्ति तु त्वां मित्र दूषयन्त्यथवा यदि ॥ ५७
म्रियन्ते कुगतिं यान्ति मोक्षहास्ते न संशयः ।
रौरवं नरकं यान्ति मुक्तिस्तेषां कुतो भवेत् ॥ ५८
एवमुक्त्वा तु सिद्धस्य योगावस्था तु सुन्दरी ।
श्रीनाथ उवाच
वदते परया भक्त्या देव्यग्रे प्रणतः स्थितः ॥ ५९
देशिकस्त्वं महादेवि अभिषेकं ददस्व मे ।
दद विभवसामर्थ्यं दीक्षाव्याख्याद्यनुग्रहम् ॥ ६०
ततो भ्रमामि आचार्यो योगेशीनां तु मध्यतः ।
सिद्धवाक्यमिदं श्रुत्वा तुष्टासौ योगमातरम् ॥ ६१
वदते सिद्धनाथस्य हे मित्र जगतः प्रभो ।
इदं तदभिषेकं तु षोडशान्तावलोकनात् ॥ ६२
कलाषोडशसंपूर्णा पूर्णा देवी समुच्चरेत् ।
अमृतौघं प्रवर्षन्ती अमा सप्तादशी कला ॥ ६३
अभिषेकं तु नाथस्य दत्तं देव्यावलोकनात् ।
खेचरत्वं ददाम्यद्य लिङ्गं गृह्य यथार्थतः ॥ ६४
दीक्षाव्याख्याससामर्थ्यं इत्याज्ञा मुक्तिदा तव ।
इदं तदभिषेकं तु मया दत्तं तव प्रिय ॥ ६५
वज्रं विदारयेल्लिङ्गं संजीव्यः परमः शशिः ।
पूजनीयं सदा हीदं लिङ्गमेकं कुलागमे ॥ ६६
यत्र यत्रापि देशे तु मन्त्रजं सहजं हि वा ।
कृत्रिमं भवते वाथ पूजनीयं विशेषतः ॥ ६७
नमस्कारेच्छुचिर्भक्त्या श्रीलिङ्गं पश्चिमामुखम् ।
तदभिषेकमाचार्ये लिङ्गपूजा दिने दिने ॥ ६८
कुलाचार्याभिषिक्ता ये लिङ्गाराधनवर्जिताः ।
न तेषां साधनी सिद्धिः अन्यथा पतनं भवेत् ॥ ६९
एवमुक्त्वा तु सिद्धस्य अदृष्टकुलविग्रहा ।
संजाता देवदेवेशी चक्रे सिंहावलोकिनी ॥ ७०
ततः सिद्धो महातुष्टः सिंहरूपो गतः स्वयम् ।
साष्टाङ्गैस्तु नमस्कारैः सिद्धः क्षाम्यति भैरवीम् ॥ ७१
श्लोकद्वादशकैर्दिव्यैः स्तुवते दिव्यशासनम् ।
ऐंकारासनमारूढां वज्रपद्मोपरिस्थिताम् ॥ ७२
सिद्धिं मां ददते नित्यं श्रीकुजाख्यां नमाम्यहम् ।
ज्ञानशक्तिं महामायां दिव्यज्ञानप्रकाशकीम् ॥ ७३
अन्तर्धानगतां देवीं श्रीकुजाख्यां नमाम्यहम् ।
चतुःपीठकमध्यस्थां दिव्यशक्तिप्रभावतः ॥ ७४
षट्प्रकारसमोपेतां श्रीकुजाख्यां नमाम्यहम् ।
मेनाख्यदुहिता देवी तुर्यस्थाने व्यवस्थिता ॥ ७५
लिङ्गान्ते वसते नित्यं श्रीकुजाख्यां नमाम्यहम् ।
बालक्रमसमोपेतां भगाह्लादेन चिञ्चिणीम् ॥ ७६
नादिफान्तास्वराघोरां श्रीकुजाख्यां नमाम्यहम् ।
चन्द्रद्वीपे शिला शुद्धा पूजिता च मया पुरा ॥ ७७
सप्तजन्मविनिष्क्रान्तां श्रीकुजाख्यां नमाम्यहम् ।
घोरां घोरतराघोराघोरज्ञानावलम्बिनीम् ॥ ७८
नित्ययुक्तां स्वचक्रस्थां श्रीकुजाख्यां नमाम्यहम् ।
जन्मत्रिकोणमध्यस्थां तरुणादित्यवर्चसाम् ॥ ७९
दिव्यामाज्ञास्वरूपेण श्रीकुजाख्यां नमाम्यहम् ।
रुद्रशक्तिः सदा पूज्या पीठानां कीर्तनादपि ॥ ८०
सिद्धिं स्फुटां प्रदातारीं श्रीकुजाख्यां नामाम्यहम् ।
देवतैः पूजितां नित्यं ब्रह्मचर्यपरायणैः ॥ ८१
सिद्धयोगेश्वरीख्यातां श्रीकुजाख्यां नमाम्यहम् ।
सिद्धविद्याधरैर्यक्षैर्योगिनीगणवृन्दकैः ॥ ८२
वाद्यनृत्यरतां देवीं श्रीकुजाख्यां नमाम्यहम् ।
भरितां भैरवीमुग्रां अमान्तपदगामिनीम् ॥ ८३
मित्रमातः
प्रभुं देवीं
श्रीकुजाख्यां नमाम्यहम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीनाथाज्ञाभिषेकाधिकारो नामानन्दः ॥
Kumārikākhaṇḍa – Kapitel ६
षष्ठानन्दः
श्रीनाथ उवाच
पीठावतारमन्यं तु यथा भवति भैरवि ।
तदेव ब्रूहि मां देवि येन क्षुभ्यन्ति जन्तवः ॥ १
श्रीवक्रा उवाच
या सा शक्तिर्भगाख्याता पुरा सिद्धा तु भाषिता ।
क्वचिन्मुद्राश्रमे स्थाने प्रविष्टा देवतैः सह ॥ २
तूष्णीं भूत्वा गुहामध्ये आरूढा तपभावना ।
उन्मत्तब्रह्मचर्येण कृष्णरूपावधूतया ॥ ३
उड्डीकारयते नित्यं निशाचारेण ब्रह्मवित् ।
ततः शब्दो महान् जातः त्रैलोक्ये सचराचरे ॥ ४
दिव्यज्ञानप्रभावेन सिद्धरूपा बलोत्कटा ।
आगता ब्रह्मचर्येण क्रीडयित्वा नभान्तरे ॥ ५
उभौ उडिप्रवेशेन पीठोद्यानं विधीयते ।
खगेशस्तत्र संसिद्धस्त्रैलोक्याकर्षणक्षमः ॥ ६
प्राप्ते देव्याश्रमे भक्त्या आराधयति पादुकाम् ।
यथेच्छा पूजिता देवी क्रमाज्ञा पारमेश्वरी ॥ ७
अष्टाङ्गप्रणिपातेन अश्रुपूर्णः क्षमापयेत् ।
कुलजा सिद्धनाथस्य दिव्याज्ञा संभविष्यति ॥ ८
ततो नमस्कृतं पश्चादोडीशः सिद्धनायकः ।
गतो वृक्षान्तरे सिद्धो निशाचारेण कौलवित् ॥ ९
कदम्बवद् भ्रमेद् वृक्षं वृक्षं तेन कदम्बकम् ।
सिंहरूपं गतो यस्मात् तस्मात् संकेतसिंहकम् ॥ १०
सिंहज्ञानमिदं तेन भुक्तिमुक्तिफलप्रदम् ।
अथ पञ्चाशद् रुद्रास्तु तूष्णीं भूत्वा समागताः ॥ ११
पूजिता कुब्जिका देवी स्तुता सर्वैः सुरादिभिः ।
वरं ददाति सा तुष्टा विचरध्वं यथासुखम् ॥ १२
एवं श्रुत्वा च ते तुष्टा देव्यामाराधयन्ति हि ।
पञ्चोपचारपूजायां तदोक्ताः परिचारकाः ॥ १३
श्रीकण्ठश्च अनन्तश्च सूक्ष्मीशं च त्रिमूर्तिकम् ।
अमरीशं तथार्घीशं भारभूत्यतिथीश्वरम् ॥ १४
स्थाणुनाम हरश्चैव झण्टीशं भौतिकं तथा ।
सद्योजातोऽनुग्रहीशं अंकुरीशमतः परम् ॥ १५
महासेनश्च क्रोधीशं चण्डीशं च प्रचण्डराट् ।
क्रूराख्यमेकरुद्रश्च कूर्मं चैवैकनेत्रकम् ॥ १६
चतुर्मुखो अजेशश्च श्येनः सोमेश्वरस्तथा ।
लांगुली दारुकेशश्च अर्धनारीश्वरस्तथा ॥ १७
उमाकान्तस्तथाषाडी डिण्डिनं धातृरुद्रकम् ।
मीनं चैव तथा मेषं लोहितं च तथैव च ॥ १८
शिखिवाही तथा चान्यं छगलण्डं तथैव च ।
द्विरण्डं च महाकालं बालीशं च भुजङ्गमम् ॥ १९
पिनाकीशं च खड्गाख्यं बकानन्दं च श्वेतकम् ।
लकुली भृगुदेवेशं संवर्तकमतः परम् ॥ २०
एवं पञ्चाशद् रुद्रास्तु प्रतिचर्यारताः सदा ।
तथान्ये देवताः सप्त सुमूलप्रतिचारकाः ॥ २१
आज्ञाविधेयाः सर्वे ते देव्यापादार्चने रताः ।
तथा वृक्षाः स्मृतास्त्रीणि वेल्लकत्रितयं तथा ॥ २२
खररा गररा चैव ररा च परिचारिकाः ।
कुबेरं खगमश्चैव कर्बुरं प्रतिचारकम् ॥ २३
आज्ञाविधेयाः सर्वे ते अपरा भैरवाः स्वयम् ।
अन्येषां प्रतिचारीणां देवगन्धर्वयोषिताम् ॥ २४
योगियोगिनिवीराणां परिसंख्या न विद्यते ।
एवं क्रमेण संयोगात् पीठोद्यानमुदाहृतम् ॥ २५
करवीरं श्मशानं तु करपुष्पैरधिष्ठितम् ।
तत्र चक्रं तु रुद्राणां नाम्ना कङ्कालभैरवम् ॥ २६
रौद्रं रौद्रतरं तीव्रं व्यालव्यग्रोग्रभीषणम् ।
भक्तानां रक्षते नित्यं पशूनां मारयेत् क्षणात् ॥ २७
श्मशानपालकस्तत्र नाम्ना योगेश्वरः कुले ।
एवं पीठमिदं प्रोक्तं त्रिप्रकारान्तरस्थितम् ॥ २८
निरालम्बा स्थिता मुद्रा बन्धं यस्या न विद्यते ।
सा मुद्रा मोक्षदातारी पीठमध्ये प्रकल्पिता ॥ २९
प्रकटा सा चन्द्राकारे पीठाम्बा सह संयुता ।
पीठेशी भवते तस्मिन् खेचरी नामनामतः ॥ ३०
देवी तत्र खगेशी च कुब्जिकानामविश्रुता ।
तथा चोडीशसिद्धस्तु शेषान्ये प्रतिचारकाः ॥ ३१
एवं सिद्धिकरं प्रोक्तं ओडियानं विनिर्गतम् ।
दिव्यवर्षशतास्त्रीणि देवी तत्र व्यवस्थिता ॥ ३२
भरिता भैरवानन्दा शिवमार्गे च खेगता ।
ऋषयो विंशतिस्तत्र त्वरिताश्च समागताः ॥ ३३
आज्ञामुपार्जनार्थाय सद्भक्ताश्च विचक्षणाः ।
द्वादशाब्दैरतीतैस्तु सिद्धनाथेन दीक्षिताः ॥ ३४
कश्यपश्चैव मार्कण्डो वशिष्ठो गोतमस्तथा ।
माण्डवः शम्भुः संवर्त आपस्तम्बः पराशरः ॥ ३५
याज्ञवल्क्यस्तथा व्यासो दुर्वास आसुरी तथा ।
हारीतो नीलकण्ठश्च विश्वामित्रो धनुर्धरः ॥ ३६
ऋषिशृङ्गः शक्तिपुत्रो दक्षं च विंशमं विदुः ।
ज्येष्ठपीठावतारोऽयं ओंकारं प्रथमं स्मृतम् ॥ ३७
अथ द्वितीयकं वक्ष्ये भगदक्षिणतः स्थितम् ।
तत्रैवोत्तरमार्गस्थं वीरक्षेत्रं तु नामतः ॥ ३८
ओंकारे या स्मृता देवी खगेशी नाम वत्सला ।
सा एवान्यस्वरूपेण प्रविशेत् तत्र योगवित् ॥ ३९
चामुण्डा रक्तरूपेण च्छायायां बिल्ववृक्षके ।
योगारूढा स्थिता तस्मिन् कुमारीसप्तभिर्वृता ॥ ४०
एवं कौमाररूपेण चर्यावस्थागतः प्रिय ।
प्रविष्टो भैरवः सिद्धो देव्यापादाग्रतो भुवि ॥ ४१
कृतं मण्डलकं दिव्यं यदुक्तं पश्चिमान्वये ।
पूजिताः पीठदेव्यस्तु स्वशरीरं निवेदितम् ॥ ४२
कृत्वा दण्डनमस्कारं अश्रुपूर्णः क्षमापयेत् ।
तस्य तुष्टा तु सा देवी सिद्धसंज्ञां ददेच्छुभाम् ॥ ४३
चर्यादेवेश उत्तिष्ठ तवाज्ञा स्फुरते स्वयं ।
चर्यायुक्तमभूत् तत्र श्रद्धवान् तु शुचिव्रतः ॥ ४४
यं स्थानं पश्यते सौम्यं क्रीडते तत्र नित्यशः ।
एवं ते वीराः पञ्चाशत् सन्त्रस्तास्तत्र चागताः ॥ ४५
वीरमार्गे यदारूढास्तेन वीराः स्मृता भुवि ।
गतास्ते सर्वऽवैकल्यं देव्यापादार्चने रताः ॥ ४६
पूजिता तैः समस्तैश्च पञ्चाशैर्वीरनायकैः ।
स्तुवन्ति संमताः सर्वे वीरक्षेत्रे पृथक् पृथक् ॥ ४७
वरं ददाति सा तुष्टा सर्वेषां वीरनायिका ।
जरामरणनिर्मुक्ता विचरध्वं यथासुखम् ॥ ४८
प्रतिचर्यारताः सर्वे आज्ञाश्रवणतत्पराः ।
कमण्डलुं नटं धूर्तं सोमं टङ्कटशूलिनम् ॥ ४९
मुण्डधारी स्फुलिङ्गं च त्राणं वीर्यं सुरार्चितम् ।
दर्पणममरं लोडं जीवं सर्वाङ्गसुन्दरम् ॥ ५०
शिवोत्तमं महारावं नन्दिवीरं कपर्दिनम् ।
सोमेश्वरं तथा शम्भुं एकनेत्रं वृषध्वजम् ॥ ५१
मातङ्गं चन्द्रनागं च मोहनं कमलेश्वरम् ।
डम्बरं लोहितं धूम्रं कामदं घोरदंष्ट्रिणम् ॥ ५२
संवरं शर्वरं चन्द्रं अट्टहासं कपीश्वरम् ।
दीर्घतनुं महारावं भृङ्गिरावं वृकोदरम् ॥ ५३
मर्कटं लम्बकर्णं च जीमूतं मेघनिस्वनम् ।
दामोदरं करालं च महोदधिस्तथानेकम् ॥ ५४
वीरसिद्धिप्रभावेण वीराः पञ्चाशत् सिद्धिदाः ।
वेश्या मुण्डिनि कैवर्ती त्रयेते प्रतिचारिकाः ॥ ५५
लोलादेवी विचित्रा च भाभूती च तृतीयका ।
वेश्यादित्रिकसंज्ञा च परिकर्मे व्यवस्थिताः ॥ ५६
परिचारास्त्रयः पुंसाः स्वनामेन पृथक् पृथक् ।
कल्लोलं कृकरं चैव कामेश्वरं तृतीयकम् ॥ ५७
तथान्यं सिद्धनाथं च सर्वेषां प्रभुरीश्वरम् ।
शेषाश्चैव समाख्याता द्वारे तिष्ठन्ति किङ्कराः ॥ ५८
एवं दक्षिणपीठं तु ओड्डियाणाद् विनिर्गतम् ।
श्मशानं तत्र चोद्यानं लकुटं नाम भीषणम् ॥ ५९
योगिचक्रं स्थितं तत्र दिव्ययोगिनिसंयुतम् ।
श्मशानपालकस्तत्र च्छिन्नमुण्डकपालधृक् ॥ ६०
क्षुरधारैव तत् तीव्रं विषमं कौलगोचरम् ।
मारयेत् क्षणमात्रेण मूढानां नामधारकम् ॥ ६१
विश्वासं नैव हन्तव्यं पीठे जालन्धरे शुभे ।
दर्पं तत्र न कर्तव्यं यदि साक्षात् सदाशिवः ॥ ६२
ईदृग् जालन्धरं पीठं जालाव्वा तत्र विश्रुता ।
कराला संस्थिता मुद्रा पीठच्छाया च रक्तजा ॥ ६३
रक्तश्चापि पुनः सिद्धः वीरैः सुरवरार्चितः ।
पुष्पसंज्ञं भवेत् पीठं कुमारो नामनामतः ॥ ६४
शावरेण तु रूपेण तत्र सा शवरी स्मृता ।
सिद्धयोगिनिनामा च चर्यासिद्धं महाबलम् ॥ ६५
शेषान्ये परिचाराश्च क्रियामार्गेष्वनुक्रमात् ।
दिव्यवर्षशतार्धे च संस्थिता परमेश्वरी ॥ ६६
बहुरूपधरात्युग्रा उत्पतेत् गगनान्तरे ।
ऋषयो द्वादशस्तत्र आज्ञार्थिन उपागताः ॥ ६७
पूर्वाब्दैरतीतैश्च सिद्धनाथेन दीक्षिताः ।
प्राणत्यागेन सद्भक्ता अन्वये सिद्धिभाजनाः ॥ ६८
कपिलश्चैव वाल्मीकः भृगुः श्रीवत्सभृङ्गिराट् ।
ऋषभस्तिमिरश्चैव गालवः सूर्यरश्मयः ॥ ६९
कुमारश्चन्द्रमा ज्योतिः शक्रश्चैव तु द्वादशः ।
एवं त्रेतायुगे प्रोक्तं दक्षपीठावतारकम् ॥ ७०
ओडियाणाद् विनिष्क्रान्तं द्वितीयं पीठनायकम् ।
अथ तृतीयकं वक्ष्ये यथा भवति तच्छृणु ॥ ७१
क्वचिद् देशं तथा रम्यं देशानामुत्तमो निधिः ।
दिशां दक्षिणदिग्भागे दक्षिणापथमण्डले ॥ ७२
तत्रैव चोत्तमा लोका भक्तिवन्तो दृढव्रताः ।
एतद्देशे महादेशे अस्ति वै भैरवाश्रमम् ॥ ७३
भैरवामृतसंपूर्णं गिरौ मध्ये विराजते ।
पूर्वैव संस्थितो देवो विमलार्थप्रबोधकः ॥ ७४
पञ्चाशद् भैरवास्तत्र क्रीडयन्ति मुहुर्मुहुः ।
* * * * * * * * आगता भक्तितत्पराः ॥ ७५
क्रीडयन्ति महायाने अमृतेन तु पूरिताः ।
पूर्णचन्द्रावलोकेन शवरी दिव्यरूपिणी ॥ ७६
समत्वात् सर्वभूतानां समरी तेन चोच्यते ।
कला पूर्णोदिता भूत्वा पातालाच्च समुत्थिता ॥ ७७
पीतवर्णा सुशोभाढ्या दिव्यमालास्वलंकृता ।
तत्राश्रमे स्थिरं चित्तं कृतं निश्चलभावना ॥ ७८
तेन निश्चलमाख्यातं भैरवस्याक्षचिञ्चिणी ।
एवं समरिका नाम स्थिता परमवासना ॥ ७९
कुलजासप्तभिर्युक्ता अष्टमी तु शिवात्मिका ।
एवं ज्ञात्वा तु सिद्धोऽसौ प्रविष्टः पीतविग्रहः ॥ ८०
अदृष्टविग्रहो जातो गतः पादाग्रभूतले ।
मण्डलोत्थापितं भक्त्या यथोक्तं कुलशासने ॥ ८१
कृता पूजा यथा चोक्ता पश्चिमे योगिनीगृहे ।
स्तुवते तु नमस्कारैर्विविधै रतिविग्रहः ॥ ८२
शक्त्युच्छालस्वरूपेण प्लवते च मुहुर्मुहुः ।
कृतं दण्डनमस्कारं तोषिता तेन भैरवी ॥ ८३
संतुष्टा ददते आज्ञां वीरचक्रे व्रज स्वयम् ।
आहरस्व महाफल्गुं वीरचक्रात् सुरेश्वर ॥ ८४
एवं श्रुत्वा गतः सिद्धस्तत्रैवान्तरतं क्वचित् ।
प्रविष्टो वीरचक्रे तु भूचरीणां तु मध्यतः ॥ ८५
आमिषार्थी स्थितस्तस्मिन् अहोरात्रञ्च पञ्चकम् ।
ततोऽभ्यन्तरसंस्थैश्च विज्ञप्तमामिषार्थिनम् ॥ ८६
तच्चक्रं क्षोभितं तस्य महाक्षोभमजायत ।
चक्रस्थैर्वहितः सिद्धो मथित्वा घटके कृतः ॥ ८७
विक्षेपं मध्यतः क्षिप्तं व्योममुद्रासुमुद्रितम् ।
पञ्चरात्रस्थितं यावत् तिष्ठते घटकान्तरे ॥ ८८
देव्यायाज्ञाप्रभावेन घटं स्फोट्य विनिर्गतः ।
क्षणार्धं तिष्ठते तत्र गृह्णते आमिषं ततः ॥ ८९
तच्चक्रं त्रसितं तस्य छलं कृत्वा गतः स्वयम् ।
प्राप्ते देव्याश्रमस्थाने पादाब्जं च नमस्करेत् ॥ ९०
दृष्ट्वा तं भैरवानन्दं हृष्टा वदति भैरवी ।
द्वितीयद्रव्यमानीतं योगिचक्रात् सुरेश्वर ॥ ९१
त्रितत्त्वयोगयुक्तानां प्रत्ययं ते कृतं महत् ।
श्रुत्वा हृष्टमनो भूत्वा विज्ञपेद् योगिमण्डलम् ॥ ९२
गतोऽहं युष्मदाज्ञातः खेचरीचक्रमेलके ।
तस्मिन् चक्रे प्रविष्टोऽहं विज्ञप्तमामिषार्थिनम् ॥ ९३
श्रुत्वैवं चक्रसंस्थैस्तु क्षोभाविष्टैर्महाबलैः ।
मथित्वा तु अहं क्षिप्तो मद्यकुम्भान्तरे ततः ॥ ९४
विक्षेपं कुम्भमध्ये तु पञ्चरात्रावधिस्थितम् ।
ततो आज्ञाबलेनैव देव्यापादाग्रस्मरणात् ॥ ९५
तं घटं स्फोटयित्वा तु निर्गतोऽहं च्छलेन तु ।
एवं श्रुत्वा तदा तुष्टा पुनराज्ञां ददेच्छुभाम् ॥ ९६
नाम दत्तं महारत्नं षष्ठदेवं महागुरुम् ।
प्रतिचाराः स्थितास्तत्र योगचिन्तासमन्विताः ॥ ९७
भैरवास्तत्र पञ्चाशत् पूर्णगिर्यां समागताः ।
तेन तद् भैरवं क्षेत्रं भैरवीसिद्धिदायकम् ॥ ९८
आगतास्तत्र ते सर्वे देव्यापादार्चने रताः ।
पञ्चोपचारपूजायां अलिफल्गुसमायुतैः ॥ ९९
पूजिता पीठदेव्या च स्तुतिस्तोत्रैरनेकधा ।
असिताङ्गः सिताङ्गश्च कापाली भृकुटी कृतः ॥ १००
क्रोधं चैव तथोन्मत्तं करालं भीषणं विदुः ।
महेश्वरं महाकायं अट्टहासं च तुम्बुरुम् ॥ १०१
महाकायं नृसिंहश्च विजयं पशुपतिस्तथा ।
खट्वाङ्गी डामरं टङ्कं चण्डीशं च प्रचण्डवान् ॥ १०२
मुण्डधारी शिवं शम्भुं उड्डामं डामरं तथा ।
अर्धनारी वृद्धं शुक्रं कालं चण्डं कुलेश्वरम् ॥ १०३
लम्बोष्ठं घर्घरं घोरं कालदंष्ट्रोग्ररूपिणम् ।
भीमनासं वज्रकायं कौलीशं गोवृषध्वजम् ॥ १०४
रक्ताम्बरधरं शूली व्यग्रोग्रं पिङ्गलं भृगुः ।
त्रैलोक्यभासुरं चैव एवं पञ्चाशद् भैरवाः ॥ १०५
कथिताश्चानुपूर्वेण सिद्धिदाः स्मरिताः सदा ।
श्रीपूर्वान् भाषयेत् सर्वान् पूजितव्याः प्रयत्नतः ॥ १०६
सर्वे आज्ञाविधेयाश्च देव्याः पदाब्जपूजकाः ।
प्रतिचारास्ते विज्ञेयाः पूर्णगिर्यां महायशाः ॥ १०७
कुलदेव्यस्तथा शम्भो खट्टिक्याद्याः स्मृतास्त्रयः ।
त्रयेते परिचर्यायां त्रिकसंज्ञा तथा भवेत् ॥ १०८
विजया दमना चैव महिमा च तृतीयका ।
त्रयेते खट्टिक्याद्यास्तु चेल्लकास्त्रयमेव हि ॥ १०९
विक्रमं डोबिकं सद्यं तेषां संज्ञात्रयं विदुः ।
प्रतिचाराः स्मृता ह्येते परिकर्मे उदाहृताः ॥ ११०
अन्येषां प्रतिचारीणां देवगन्धर्वयोषिताम् ।
परिसंख्या न विद्यते मण्डलाग्रे वरानने ॥ १११
एवं देव्याः स्वरूपेण पूर्णपीठमुदाहृतम् ।
पूर्णाव्वा प्रकटा ज्ञेया गुप्तपीठमतः शृणु ॥ ११२
खेचरं नाम पीठं तु शवरीदेवतालयम् ।
माता च मङ्गलाव्वा च षष्ठदेवः स्वयं प्रभुः ॥ ११३
पद्ममुद्रा पुनस्तत्र ध्यानपीठमुदाहृतम् ।
एवं भैरवपीठं तु श्मशानं कथयामि ते ॥ ११४
नाम्ना उड्डामराख्यं तु सभयं योगिनिर्भयम् ।
समयं संस्थितं तत्र कौलभेदं तु भूतले ॥ ११५
तेन कष्टतरं रौद्रं कालं तत्र व्यवस्थितम् ।
सिद्धिभाजनवीराणां योगज्ञानप्रबोधकम् ॥ ११६
योगिनां सिद्धिदातारं अन्येषां न कदाचन ।
श्मशानपालकस्तत्र नाम्ना च विकृताननः ॥ ११७
एवं चोत्तरपीठं तु दक्षसिंहासने स्थितम् ।
दिव्यवर्षशतं सार्धं स्थित्वा सा गगनं गता ॥ ११८
सिद्धनाथेनानुष्ठानं बहुकालं कृतं स्वयम् ।
दिव्यज्ञानप्रभावेण तत्रैवान्तरधीयत ॥ ११९
द्विपञ्च ऋषयस्तेन शिष्यपुत्राः कृतान्वये ।
वरुणं च तथागस्ती वृद्धं शुक्रं जनार्दनम् ॥ १२०
यमं च नारदं केतुं राहुश्चैव द्विपञ्चकम् ।
पूर्णपीठावतारं तु संजातं द्वापरे युगे ॥ १२१
जालन्धराद् विनिष्क्रान्तं तृतीयं पीठनायकम् ।
चतुर्थं संप्रवक्ष्यामि अवतारं यथा भवेत् ॥ १२२
द्वीपान्ते दिव्यमस्तीति स्थानं सिद्धाश्रमं महत् ।
क्वचिद् देशं महारम्यं दिव्यं चातिमनोरमम् ॥ १२३
सान्निध्यं भवते तत्र योगिनीनां गृहे गृहे ।
समयं सर्वभूतानां शास्त्रोऽयं श्रीकुजामतम् ॥ १२४
भगाख्या कामरूपेण तत्र कामेश्वरी स्थिता ।
रससिद्धास्तु पञ्चाशत् कामेच्छाक्रीडनिर्भराः ॥ १२५
तेन सिद्धाश्रमं प्रोक्तं शवरी दृढयौवना ।
स्वयंभूर्जायते भूमौ शून्यदेवकुलोत्तरे ॥ १२६
मातरीसप्तसहिता अष्टमी तत्र देवता ।
देवागारे भ्रमेन्नित्यं कदम्बाख्यं त्रिलोचन ॥ १२७
तेन वृक्षं समाख्यातं कदम्बं कामरूपके ।
कामरूपी च भगवान् श्वेतरूपधरो महान् ॥ १२८
मित्रदेवः स्वयं सिद्धः शापानुग्रहकारकः ।
स्वामिभक्तिवशात् तत्र अवतारं करोति सः ॥ १२९
पादुकाब्जं नमस्कृत्वा प्रविष्टो योगिनीगृहे ।
कलकलरवं मुञ्चति देव्याः पादाग्रस्मरणात् ॥ १३०
मण्डलं स्थापयेद् दिव्यं निर्दिष्टं यत् कुलान्वये ।
चिन्तामणिमहापुष्पैः सुरा कादम्बरी शुभा ॥ १३१
शावरी पूजिता सिद्धैर्यया सृष्टं चराचरम् ।
दिव्योल्का निर्गता वक्रा सिद्धनाथस्य पश्चिमे ॥ १३२
कुलज्ञानं तथा प्राणं सर्वस्वं च निवेदितम् ।
प्रदक्षिणशतं कृत्वा साष्टाङ्गं तु नमस्करेत् ॥ १३३
प्रसन्ना शवरी तस्य आज्ञां ददति पुष्कलाम् ।
वदते मित्रदेवेश उत्तिष्ठ जगतारक ॥ १३४
विचरस्व यथाशक्त्या कामरूपे कलौ युगे ।
सृष्टिसंहारकर्तारं त्वमेकः कुलशासने ॥ १३५
गुटिकासिद्धिस्ते दत्ता विचरस्व यथासुखम् ।
पूजयित्वा नमस्कृत्वा सर्वे तत्र समागताः ॥ १३६
ततो हृष्टमना भूत्वा देवी वचनमब्रवीत् ।
युष्मदुपार्जितं किञ्चित् गुटिकादि महायशाः ॥ १३७
तत् सर्वं मत्प्रसादेन सफलं च भविष्यति ।
एवं लब्धवरा भूत्वा तत्रैवान्तरसंस्थिताः ॥ १३८
प्रतिचाराः स्मृताः सर्वे पञ्चाशाज्ञाविधेयिकाः ।
अकुलं विमलं योगी आनन्दं कमलेश्वरम् ॥ १३९
बहुलं पुलिनं भूतिर्मदनः कङ्कराट् शिशुः ।
कुमुदं चपलं श्यामं तमालं गदकोंकणम् ॥ १४०
कौलीशं कमलं कान्तिं दमथं अटवीमुखम् ।
अमृतं कुम्भकेशश्च कालनाम तु घुर्घुरम् ॥ १४१
अमोघं सुन्दरं चैव संवर्तं प्रभुरव्ययम् ।
क्रोधीशं नयनं कान्ति आकाशं परमं शशिः ॥ १४२
कौबेरं कुलवागीशं कुबेरं विरजं विदुः ।
नित्यानन्दं तथा श्वेतं योगेश्वरं गणेश्वरम् ॥ १४३
सोमेश्वरं कुलाधारं नक्तं धूर्जटि संख्यया ।
एवं पञ्चाशत् सिद्धाश्च मातृकादेरनुक्रमात् ॥ १४४
सिद्धा रसकृषा देव स्थिता आस्थानमण्डपे ।
प्रतिचारी तथा सप्त तत्रैव च व्यवस्थिताः ॥ १४५
त्रीणि बाह्ये समुद्दिष्टाः शिल्पिनी चक्रिणी द्वयम् ।
मातङ्गिनी तृतीया च त्रयेते प्रतिचारिकाः ॥ १४६
गुप्तसंज्ञा भवेत् तेषां यथा शास्त्रे निगद्यते ।
सुनन्दिनी च भद्रा च च्छिंच्छा देवी तृतीयका ॥ १४७
चेल्लकाः प्रतिचाराश्च तारं वज्रधरं कुलम् ।
त्रयेते स्मृतास्तत्र प्रतिचाराश्च भैरव ॥ १४८
एवं सिद्धाश्रमं ह्युग्रं देव्या आज्ञाप्रभावतः ।
तेन पीठं समाख्यातं नाम्ना वै कामरूपकम् ॥ १४९
कामुकत्वे यदा देवो कामरूपं तदुच्यते ।
श्वेतं वर्णं भवेत् तस्मिन् श्वेतरूपेण नायकी ॥ १५०
उभयोर्योगभावेन बालिका पीठदेवता ।
भगाग्रे तु विजानीयात् पीठेदं कामरूपकम् ॥ १५१
कामार्थाय समायुक्तं गुप्तयुग्मं ब्रवीम्यहम् ।
उच्छुष्मपीठं वरारोह शावरस्य तु शावरी ॥ १५२
नाम्ना सा कोङ्कणा देवी कोंकणात् तु विनिर्गता ।
तथा च भवते सिद्धः मित्रदेवेति नामतः ॥ १५३
योनिमुद्रां विजानीयात् योन्यग्रे मातृमण्डले ।
तत्रैवान्तरमार्गस्थं श्मशानमटवीमुखम् ॥ १५४
नायकस्तत्र विख्यातः शङ्खपालः कृतान्तवत् ।
राक्षसास्तस्य सेवन्ते तथा गगननायकाः ॥ १५५
रात्रौ प्रज्वलिते दीपे क्रीडते योगिनीगणम् ।
यमचक्रं स्थितं तत्र योगिनीवीरसंगमम् ॥ १५६
रौद्रदिने सुऋक्षे च मेलापं भवते ततः ।
विषयं कुलकौलं तु योगिनीवीरमेलकम् ॥ १५७
सिद्धनाथः स्थितस्तत्र अन्तर्धाने महाप्रभुः ।
एवं तदग्रपीठं तु पीठदेव्या समन्वितम् ॥ १५८
संस्थिता दिव्यरूपेण कामभोगसुखे रता ।
दत्वा सिद्धस्य पीठं तं गता सा खेचरीक्रमे ॥ १५९
ततः सिद्धान्वयं जातं अनेकास्तत्र दीक्षिताः ।
चित्रसेनो नासिकस्तु शुकस्त्रैलोक्यपालकः ॥ १६०
कपाली डामरश्चैव विघ्नेशं कालपाशकम् ।
ऋषयोऽष्टौ स्मृता ह्येते दीक्षिताः सिद्धनायकाः ॥ १६१
कामरूपावतारोऽयं संजातं च कलौ युगे ।
पूर्णपीठाद् विनिष्क्रान्तं भुक्तिमुक्तिफलप्रदम् ॥ १६२
एवं कृतयुगारभ्य पीठाम्नायं चतुष्टयम् ।
यो वेत्ति स किलाम्नाये अन्यथा नामधारकः ॥ १६३
तस्मिन् कलियुगस्यान्ते श्रीमत्कामाख्यमण्डले ।
तस्मिन् सिद्धाश्रमे पूर्वे अटव्यां तिस्रसंज्ञकम् ॥ १६४
नदीस्रोतत्रये मध्ये विघ्नेशं क्षेत्रपालकम् ।
देवताश्रमं तत् स्थानं तिस्रपीठेति सूचितम् ॥ १६५
भक्तिहीने शठे लोके मन्दाज्ञा संप्रवर्तते ।
द्वीपान्ते चोत्तरे भागे त्रिकूटभुवनेषु च ॥ १६६
माया मातङ्गिरूपेण त्रिषु स्रोतसु मध्यतः ।
तिस्रनद्यां गतं स्थानं यक्षकन्दरमागतम् ॥ १६७
कृतं तत्रावतारं तु पीठं तिस्राख्यसंभवम् ।
कृतः पूर्वतनुर्देव गोपितो मर्त्यलोकतः ॥ १६८
कलावर्धे ततो देवं प्रकटं पञ्चमं भवेत् ।
तत्रारभ्य क्रमायातं ततः संवर्तकं भवेत् ॥ १६९
आज्ञायास्तमनं भूयः वर्तते मर्त्यलोकतः ।
त्वया सार्धमनुष्ठानं मया पूर्वं कृतं ततः ॥ १७०
त्वं च तत्र मतङ्गीशं संजातं चान्तिमे युगे ।
अन्त्यजाज्ञाप्रसूतिस्तु पुनः सन्तानमर्हति ॥ १७१
पुनः स्थितिक्रमादाय तिस्रपीठाद् विनिर्गतम् ।
उघं गुरुगृहं देव तैलिकाक्रममण्डलम् ॥ १७२
प्रकटं तद् भविष्येत सद्योज्ञानं प्रवर्तते ।
महासान्निध्यमतुलं एवं पीठान्वयं भवेत् ॥ १७३
तस्मिन् युगे ह्यहं वृक्षं त्वया ह्यकुलकन्दरे ।
एतद् युगान्तिमं पीठं पञ्चमं पीठनायकम् ॥ १७४
चतुर्थे कलियुगे प्राप्ते म्लेच्छराज्ये तु उत्तरे ।
इतरे गुरुशिष्ये तु लोभमोहवशं गते ॥ १७५
आज्ञावेशे गते क्षीणे अधिकारे क्षयं गते ।
समयभङ्गसंप्राप्ते गुरोराज्ञा च लङ्घने ॥ १७६
पुनः सृष्टिं करिष्यामि अवतारं तु पञ्चमम् ।
तिस्राख्ये तु महापीठे सर्वपीठपरीवृते ॥ १७७
सर्वेषामुत्तरे घोरे सद्योनिग्रहकारके ।
पुनः स्थितिं क्रमौघस्य तस्माद् वै पीठपञ्चमात् ॥ १७८
तत् चाष्टाविंशमं भेदं पूज्यमानं भविष्यति ।
कुब्जिका अधिकारिणी तथा सिद्धो मतङ्गकः ॥ १७९
द्वावेतौ सृष्टिकर्तारौ कलिस्यान्ते न संशयः ।
एवं पीठं भवेत् तिस्रं गुप्तं वै पीठनायकम् ॥ १८०
तिस्रपीठे तु तिस्राव्वा त्रिषु लोकेषु विश्रुता ।
गुप्तसंज्ञा भवेत् तत्र बिन्दुतत्त्वे व्यवस्थितम् ॥ १८१
कुचन्द्रं पीठसिद्धं च अव्वा सा वक्रिका स्वयम् ।
क्रमसंज्ञा तथा मुद्रा भवते तु कदम्बिनी ॥ १८२
ताडनात् ताडिवृक्षं तु दह्यमानं भवेत् ततः ।
दिव्यज्ञानप्रभावेण सिद्धनाथे प्रकाशितम् ॥ १८३
पञ्चमं चोत्तमं पीठं कलिस्यान्ते न संशयः ।
तिस्रपीठात् समारभ्य पूजाक्रिया प्रवर्तते ॥ १८४
ओंकारादितः पीठानां उक्ता ये प्रतिचारकाः ।
प्रतिचार्यश्च ताः सर्वाः भविष्यन्ति च पञ्चमे ॥ १८५
भविष्यन्ति न संदेहो तिस्राख्ये पीठनायके ।
श्मशानानामघोरं तु सुरसिद्धनमस्कृतम् ॥ १८६
नायकं घोरनामानां ससिद्धामरवन्दितम् ।
अर्धचन्द्रोत्तरे पीठं भगमूर्ध्नि विनिर्गतम् ॥ १८७
तत्रस्था परमा काली दिव्यज्ञानप्रकाशकी ।
पारम्पर्ये क्रमं ज्ञानं शास्त्रोऽयं विमलं मतम् ॥ १८८
भविष्ये प्रकटं नाथ कलिस्यार्धे न संशयः ।
इदं पीठावतारोऽयं कथितं तव सुन्दर ॥ १८९
भविष्यं च विभाव्यते पञ्चमं तिस्रपीठकम् ।
बालक्रमं च कामाख्ये खेचरं जालपीठके ॥ १९०
कौमारं पूर्णपीठे तु ओडियाणे तु वृद्धकम् ।
एवं पीठक्रमं ज्ञात्वा पारम्पर्यक्रमागतम् ॥ १९१
यस्तु संपूजयेन्नित्यं स साक्षाद् भैरवः स्वयम् ।
पीठान् पर्यटते यो वै आचार्यः साधकोऽपि वा ॥ १९२
स मुक्तः स शिवः साक्षात् साम्नायी देशिकोत्तमः ।
ब्रह्महत्यासहस्रैकं गोहत्यामयुतं तथा ॥ १९३
सर्वपापा विनश्यन्ति असंख्याः पीठसेवनात् ।
पूजयेन्नित्यमेवं हि सदा पीठचतुष्टयम् ॥ १९४
तस्येच्छा भवते सिद्धिर्योगिनीनां प्रियो भवेत् ।
श्रीपूर्वान् भाषयेत् सर्वान् पीठान्ते यान् व्यवस्थितान् ॥ १९५
तेभ्यो लब्धवरो भूत्वा रुद्रलोके महीयते ।
उडियाणे प्रविष्टो यो वीरो दर्पं करिष्यति ॥ १९६
दारिद्र्यं मरणं तस्य मासमेकं स जीवति ।
जालन्धरे तु यो दर्पं मूढात्मा च करिष्यति ॥ १९७
तस्करो हनते तस्य नदी वा व्याधिदारुणा ।
षण्मासं जीवितं तस्य म्रियते बान्धवैः सह ॥ १९८
अथवा पूर्णपीठे तु द्वेषं संचरते तु यः ।
अहंकारं च कुरुते अग्निदाहाद् विनश्यति ॥ १९९
अथवा विषसंग्रामे म्रियते मासपञ्चमे ।
कामरूपे सुखासीनः कश्चिद् दर्पं करिष्यति ॥ २००
अदृष्टमुद्गराघातः पतते तस्य मूर्धनि ।
शुष्यते स्वशरीरेण म्रियते पक्षमध्यतः ॥ २०१
दर्पं कृत्वा तु सुभग स गुरुर्नरकं व्रजेत् ।
तस्मात् तस्य न भुक्तिः स्यात् परत्र च न विद्यते ॥ २०२
तस्माद् दर्पं न कर्तव्यं विद्वेषं न समाचरेत् ।
विनयाद् भवते भुक्तिर्मुक्तिर्वै विनयाद् भवेत् ॥ २०३
तस्माद् विनयकौलोऽयं विनयं तु समाचरेत् ।
वीरभोज्यं प्रकर्तव्यं ओजापूकाचतुष्टये ॥ २०४
कृत्वा पूजां यथाशक्त्या पीठजान् पूजयेत् तदा ।
साधकः सिद्धिमाप्नोति इहलोके परत्र च ॥ २०५
रुद्राश्च भैरवा वीराः सिद्धाः पूज्याश्चतुष्टये ।
चतुष्पीठावतारोऽयं निर्णीतं तु चतुर्युगे ॥ २०६
अटते यो हि सत्येन आचार्यः स कुले भवेत् ।
त्रिमात्रं ज्योतिसंकाशं वह्निमण्डलमध्यतः ॥ २०७
श्री–उद्यानमहं वन्दे कौलिकाज्ञाप्रवर्तकम् ।
द्विमात्रं परमं तीव्रं दक्षकोणव्यवस्थितम् ॥ २०८
श्रीजालाख्यमहं वन्दे मायाजालनियामकम् ।
एकमात्रं परं सूक्ष्मं परज्ञानप्रसिद्धिदम् ॥ २०९
वामकोणगतं वन्दे पूर्णाख्यं देवदुर्लभम् ।
अर्धमात्रं सुसूक्षमं तु परमानन्दरूपकम् ॥ २१०
तदग्रे संस्थितं दिव्यं श्रीकामाख्यं नमाम्यहम् ।
श्रीचन्द्रद्वीपपुरान्तस्थं त्रिभिः स्रोतप्रवाहकम् ॥ २११
द्वादशान्तगतं वन्दे कौलिकाज्ञाप्रवर्तकम् ।
एवमुक्त्वा गता शीघ्रं देवी अटनपीठकान् ॥ २१२
कामरूपे वाराणस्यां नेपाले पूर्णवर्धने ।
पुरस्तीरे कन्याकुब्जे पूर्णगिर्यां तथार्बुदे ॥ २१३
आम्रातकेश्वरैकाम्रे त्रिस्रोते कामकोट्टके ।
कैलासे भृगुनगरे केदारे चन्द्रपुर्यके ॥ २१४
श्रीपीठे चैव एकोणे श्रीजालन्धरमालवे ।
कुलूत्यां देविकोटे च गोकर्णे मरुकेश्वरे ॥ २१५
अट्टहासे तु विरजे राजगृहे महापथे ।
एलापुरे कोल्लगिर्यां सोपारे तु जयन्तिकाम् ॥ २१६
उज्जयिन्यां चरित्रे च क्षीरिकां हस्तिनापुरे ।
ओदुकेसे प्रयागाख्ये पीठे मायापुरीं तथा ॥ २१७
उरसां मलये चैव शैले भेरुण्डके तथा ।
माहेन्द्रं वारुणं चैव हिरण्यपुरमेव च ॥ २१८
महालक्ष्मीं तथोद्याणं छायाछत्रं ततो गता ।
यत्र यत्र गता देवी यत्र यत्रावलोकते ॥ २१९
तत्र संदोहतीर्थानि दिव्यान्यायतनानि च ।
कृत्वा च भारते वर्षे आत्मकीर्तिं कुलाम्बिके ॥ २२०
तेन कौमारिकाखण्डं संजातं पुण्यपावनम् ।
पूर्वसन्तानदेवेन यदुक्तं भारतं व्रज ॥ २२१
ततः प्रभृतिर्देवेश उभाभ्यां मेलकं त्विह ।
तत् कृतं सकलं देव्या आज्ञानन्दावबोधनम् ॥ २२२
आगता तु पुनस्तत्र पूर्वरूपानुयायिनी ।
देवोऽपि पूर्वसन्ताने शिष्यः सुरवरार्चितः ॥ २२३
श्रीमदोड्डुमहेशानं कृत्वा चाज्ञां ददेत् तु सा ।
तदा च भारते वर्षे इतः प्रभृत्यनुग्रहम् ॥ २२४
उडुपीठपुरारभ्य कुरु सृष्टिमनेकधा ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वमिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीनाथाज्ञापीठव्याप्तिनामानन्दः ॥ ६ ॥
Kumārikākhaṇḍa – Kapitel ७
सप्तमानन्दः
श्रीनाथ उवाच
किमेतत् पश्चिमं वेश्म अधिकारं तु तस्य किम् ।
कथं दिव्यतनुर्मुद्रा तथा चैव कुलक्रमम् ॥ १
संकेतं मूलभाषा च तथा चैव कुलागमम् ।
उपदेशं न मे ज्ञातं सर्वं कथय वक्रिके ॥ २
श्रीवक्रा उवाच
मन्थानस्य तु भेदस्य भैरवस्य तु संग्रहम् ।
कादिभेदं प्रवक्ष्यामि सहस्रज्येष्ठकौलिकम् ॥ ३
वक्रिकाक्रमसिद्धस्य आज्ञाशास्त्रं क्रमोदयम् ।
श्रीनाथ ते प्रवक्ष्यामि मेरुमार्गविनिर्गतम् ॥ ४
चतुर्थे तु युगे प्राप्ते आद्यपीठावतारितम् ।
पश्चिमस्य गृहस्यैव अवतारं कलौ युगे ॥ ५
तस्योद्धारोपदेशं तु संप्रदायं तु कौलिकम् ।
आदिकादिसमायुक्तं सर्वसंहारमन्त्रितम् ॥ ६
भैरवं भैरवीसार्धं तस्योर्ध्वे तु कुलक्रमम् ।
सप्ताविंशतिभिर्भेदैः संस्थितं तु विभेदतः ॥ ७
गृहमित्यवतारोऽयं पश्चिमामुखमुत्तमम् ।
तस्योपदेशमपरं अवतारं च सिंहकम् ॥ ८
षोडशैः षोडशैश्चैव अपरे चैव षोडश ।
एवं त्रितयसंयोगात् श्लोकानि द्वादशानि वै ॥ ९
गजेन्द्रं प्रथमं नाम विद्याकूटं च षड्विधम् ।
तद् वर्णं तच्छिवाकाशं तल्लिङ्गं तच्छिवेति च ॥ १०
तदासौ आपबीजं तु देव्यात्मानं तथैव च ।
पदैकमष्टधा प्रोक्तं अंशश्लोकानि द्वादश ॥ ११
चन्द्रसूर्यशिवेच्छया कृत्वा वर्णगमागमम् ।
परस्परसमायोगादेतत् क्षेत्रपरिग्रहम् ॥ १२
अमृतादिविसर्गान्ताः कलाषोडशरश्मयः ।
तिर्यगा सा स्मृता रेखा कतान्ता वामदेवता ॥ १३
उन्नता दक्षिणे रौद्री थसान्तामित्यनुक्रमात् ।
ज्येष्ठा वामा च रौद्री च ब्रह्मविष्णुमहेश्वराः ॥ १४
एकीभावं त्रिभिर्यस्मात् तदासौ योगिनीगृहम् ।
अमृताद्यश्च जीवन्ति ये लिङ्गा योनिमण्डले ॥ १५
तेषां सिद्धाञ्च योगिन्या उपर्युपरि योजयेत् ।
स्वरचक्रेश्वरी रेखा द्वितीया कादितान्तगा ॥ १६
थादिसान्ता तृतीया च त्रिभिः रेखैः सुरेश्वरी ।
पञ्चाशत् सिद्धयोगिन्यो अत्र ये ते वदाम्यहम् ॥ १७
आनन्दं विमलं चिञ्चिमित्रमोडीशचर्यकम् ।
षष्ठदेवं तथा तूष्णी कदम्बं मौनिसंज्ञया ॥ १८
अद्वैतं सिंहनाथं च तथा कन्दर्पी क्राडकम् ।
वरदं चैव कौलीशं गरुडं पिङ्गलं खगम् ॥ १९
पञ्चकं चैव कल्लोलं तथा चैव तु खेचरम् ।
चन्द्रगर्भं गजेन्द्रं च कुण्डलं चन्द्रपुर्यकम् ॥ २०
शङ्खनाथं च शवरं वीरदेवं च विक्रमम् ।
पिप्पलीशं पुलिन्दं च गोष्ठीशं कमलं तथा ॥ २१
गजकर्णं महेन्द्रञ्च ताराख्यं वर्चकेशकम् ।
अखण्डं च कुरङ्गं च तथा चैव तु वैफलम् ॥ २२
आज्ञानाथं विशुद्धाख्यं तथा चैव अनाहतम् ।
मणिपूर्णं स्वाधिष्ठानं अवतारं कुमारकम् ॥ २३
शिलाशेखरनाथं च क्रूरं च अतः परम् ।
अष्टचत्वारिंशद् ज्ञेया एवं सिद्धपरिग्रहम् ॥ २४
गृहं सिद्धक्रमेणैव श्लोकानां संप्रबोधकम् ।
अतोर्ध्वं संप्रवक्ष्यामि गृहदेव्या यथाक्रमम् ॥ २५
शर्वरी शवरी चैव शावरी च पुलिन्दिका ।
क्लिन्ना कामेश्वरी देवी शाकिनी भूतडामरी ॥ २६
कोटरी शङ्खिनी चैव किङ्किणी च करङ्किणी ।
अव्वादेवी समायाख्या सुषिरा रत्नसुन्दरी ॥ २७
रक्ताक्षी अग्निजिह्वा च उच्छुष्मा नारजिह्विका ।
अम्बिका लम्बिका चैव तथा चैव कदम्बिनी ॥ २८
भद्रकाली च सिद्धा च शुष्का चैवापराजिता ।
घोरा चैव अघोरा च थघोरा च भगानना ॥ २९
नन्दिनी मालिनी चैव संहारी कपिला तथा ।
विव्वा विद्युत्पताका च कापालिन्या तथैव च ॥ ३०
महामाया च पेप्पिर्या च च्छोम्मा योगमायिका ।
कालिका मीनमेषा च कालसंकर्षणी परा ॥ ३१
शिवादूती विचित्रा च ज्ञेया देव्यः क्रमेण तु ।
सिद्धपत्नीसमूहोऽयं शुद्धं देव्याः परिग्रहम् ॥ ३२
यथा वर्णास्तथा सिद्धाः देवतायोनिमण्डले ।
एतद् वै श्लोकराश्यादौ सिद्धक्रममुदाहृतम् ॥ ३३
कृत्वादौ प्रणवान् पञ्च अव्वापादावसानगम् ।
अनेन विधिना देव यष्टव्यं पश्चिमं गृहम् ॥ ३४
शिवः शक्तिर्गृहस्यान्ते हक्षावेतौ वरानन ।
श्रीमैत्रेयं कुचन्द्राख्यं श्रीमान्देवी च कुब्जिका ॥ ३५
द्वावेतौ युगपद् योज्यौ पञ्चस्थौ कूटवेश्मनि ।
पञ्चादौ पञ्चभिश्चान्ते तयोर्मध्ये च विद्यया ॥ ३६
सा चाज्ञा प्रत्ययं लोके त्रैलोक्ये महन्तारिका ।
यमवलोकयेत् सा तु सोऽपि याति परे पदे ॥ ३७
परे प्राप्ते पदे देव तदा सिद्धिं ध्रुवं लभेत् ।
इत्याश्रमे मुखाम्नायः त्रिभिर्भेदैः प्रकीर्तितः ॥ ३८
ऊर्ध्वं षोडशसिद्धाज्ञा सिद्धाः षोडश उत्तरे ।
दक्षिणे षोडशश्चैव शिवो मध्ये च देवता ॥ ३९
भगमध्ये निषण्णात्मा भित्त्वा योनिं परं व्रजेत् ।
स्वाधिपूरकयोर्मध्ये विश्रान्ता तिर्यगाकृतिः ॥ ४०
इत्याज्ञा क्रमचक्रस्य ब्रह्मग्रन्थिरधोमुखी ।
उन्मना कौलिनीशक्तिः करोत्यावेशमुत्तमम् ॥ ४१
तस्या ऊर्ध्वगतं चक्रं तच्चार्धकृतमण्डलम् ।
तदन्तरकृतं वृक्षं कदम्बं कुण्डगोलकम् ॥ ४२
तस्यान्तरगता सूक्ष्मा आज्ञावर्तिर्हलाकृतिः ।
भगान्ते सा गता आज्ञा विश्रान्ता च अधोमुखी ॥ ४३
परा सा वक्रिका भीमा ज्ञात्वा वेधः प्रवर्तते ।
धुननावेशनं कम्पं तिर्यगूर्ध्वगतिः क्षणात् ॥ ४४
पाताले तु प्रवेशं वा आज्ञास्मरणमात्रतः ।
श्रीकण्ठादिषु रुद्राणां पञ्चाशानां पुरोद्धृताः ॥ ४५
मेरुद्वादशश्लोकास्तु अर्धचक्रे व्यवस्थिताः ।
तन्मध्ये सृष्टिचक्रं तु मार्गदेवीविनिर्गतम् ॥ ४६
तवाधिकारं कुर्वामि त्वया सार्धं महेश्वर ।
योगपीठादिपीठानां सद्योजातं च पश्चिमे ॥ ४७
सिद्धालयपुरेदं तु योनिमुद्रागृहालयम् ।
पुरमेतत् समाख्यातं द्वादशश्लोकभेदितम् ॥ ४८
तत्र मध्ये गता विद्या उभौपञ्चपुटीकृता ।
पूर्णिमाक्रममार्गस्य मार्गं देव्याः कुलेश्वर ॥ ४९
अहं या विरमेत् तत्र आद्यपीठे अधोमुखी ।
अधिकारं च कुरुते वामावर्तपरिभ्रमात् ॥ ५०
अनामान्ते च संसिद्धे आज्ञासिद्धिः कुलक्रमे ।
भकारादिचकारान्ता अधोर्ध्वं च विसर्पिता ॥ ५१
शक्तिदीपशिखाकारा रूपविद्या विराजते ।
तदा चन्द्रकलाज्योतिः कुचन्द्रोत्सङ्गमालिनी ॥ ५२
पूर्णाधिकारचन्द्रोऽयं शिवमध्याद् विनिर्गतम् ।
एवं ते द्वादश श्लोका एवं सा क्रमदेवता ॥ ५३
संयोगेन क्रमाच्छम्भो सन्तानं मेरुमार्गयोः ।
विनिष्क्रान्तं महादेव कौलिकं गुणवत्तरम् ॥ ५४
शक्त्याधारं पुरं प्रोक्तं पुरं क्षेत्रपरिग्रहम् ।
तस्यान्तरगता देव्या कुब्जिकाहं च चन्द्रमा ॥ ५५
सा च लिङ्गं कुलाधारं अधिकारं तु चिञ्चिणी ।
क्षेत्रलिङ्गाश्रमयोगाद् गृहं चन्द्रपुरं भवेत् ॥ ५६
चन्द्रपूर्णगृहारभ्य अन्वयस्य त्वनुक्रमम् ।
प्रकटं मर्त्यलोके तु अवतारं कलौ युगे ॥ ५७
उलिसिद्धाश्रमं मर्त्ये चन्द्रपुर्याद् विनिर्गतम् ।
ओकारश्च षकारश्च तथा त्वं मित्रसंज्ञकः ॥ ५८
मुद्रितं तेषु तज्ज्ञानमाख्यातं उडपीठके ।
तदावतारितं शिष्यैर्नवभिः पुण्ड्रवर्धने ॥ ५९
त्रिभिश्चैवाधिकारं स्यात् कोङ्कणे पूर्णगिर्यके ।
त्रिभिः सिद्धैश्च पाताले अन्तरिक्षे त्रिभिः पुनः ॥ ६०
चन्द्रपूर्णपुरे तत्र चिञ्चिणीनाम वृक्षकम् ।
भञ्जितं तत् त्वया नाथ तेन त्वं चिञ्चिणी स्मृतः ॥ ६१
कीर्तिदेवेति विख्यातस्तस्मिन् वै चन्द्रपुर्यके ।
सिद्धानां षोडशः पुत्राः स्थिता ये ताननुग्रहेत् ॥ ६२
ख्यातं गुरुत्वाम्नायं वै तेषामनुक्रमेण तु ।
उन्मनादिक्रमेणैव यावत् श्रीनाथचिञ्चिणी ॥ ६३
पुष्पसंकेतकं शम्भो अज्ञात्वा नैव मुक्तिभाक् ।
उन्मनाद्यादिनाथान्तं गुर्वोघं पुष्पसंज्ञकम् ॥ ६४
कोङ्कणे तु त्रिधाभिन्नं नाथादौ तत् कलौ युगे ।
न दीक्षा न परत्वं च पारम्पर्यक्रमं न हि ॥ ६५
क्रमस्य क्रमणं नास्ति पुष्पसंकेतवर्जिते ।
बीजोज्झिते यथा क्षेत्रे सस्यं नैव प्ररोहति ॥ ६६
पुष्पसंकेतहीनेषु मुक्तिर्नैव च विद्यते ।
आदिनाथस्त्रयोलीनां वृक्षनाथेति विश्रुतः ॥ ६७
तस्य ते नव पुत्राश्च वर्तमाने कलौ युगे ।
संजाताः कोङ्कणे मर्त्ये अधस्त्रीणि त्रयोर्ध्वतः ॥ ६८
निर्वंशाश्च गताः षट् च सवंशास्त्रीणि कोङ्कणे ।
तेषां संज्ञा मुखाम्नाये श्रीदेशे गोत्रमण्डले ॥ ६९
गगनः कुमुदस्तथा पद्मो देवश्च भैरवः ।
कमलः शिवरामश्च कृष्णानन्दस्त्रिलोचन ॥ ७०
एवं क्रमेण ते जाताः संकेतेन पृथक् पृथक् ।
द्वितीयं च चतुर्थं च पञ्चमं च अधस्त्रयः ॥ ७१
सप्तमं चाष्टनवमं त्रीण्येते ऊर्ध्वगाः क्रमात् ।
खेचरास्ते पुरा सर्वे दिव्याज्ञायाः प्रभावतः ॥ ७२
पाताले ये गतास्त्रीणि भोगान् भुञ्जन्ति चापरे ।
अधिकारे स्थितास्त्रीणि प्रथमं च तृतीयकम् ॥ ७३
षष्ठमाज्ञा स्वरूपेण अधिकारक्रमे स्थिताः ।
तेषां सन्ततिः संजाता पुरुषाणीह षोडश ॥ ७४
तेषां नामानि वक्ष्यामि पूजासंकेतकेन तु ।
सूरस्तीव्रश्च खेचर्यो गर्भमुक्तश्च सिंहकः ॥ ७५
जयो विजयमित्रश्च वीरो विमलपञ्चकम् ।
रत्नकेशवमुन्मत्तमुद्रास्रोतावहं ततः ॥ ७६
इत्येते षोडशः सिद्धा भविष्यन्ति कलौ युगे ।
द्विचतुष्कं च यत् पूर्वं पञ्चमोज्झितं सुव्रत ॥ ७७
गदेवस्य सुता ज्ञेया विज्ञेया ज्येष्ठ–ओलिगाः ।
पञ्चमो मध्यमोल्यां तु पदेवस्य सुतः स्मृतः ॥ ७८
नवादिषोडशान्तास्तु विज्ञेया बाल–ओलिकाः ।
कदेवस्य सुता ज्ञेया एवं ते सिद्धषोडश ॥ ७९
परान्वयं तु प्रथमं द्वितीयं वक्रिकान्वयम् ।
सिद्धान्वयं ततः पश्चात् भविष्यति कलौ युगे ॥ ८०
द्वापञ्चाशद् भवेज्ज्येष्ठे सप्ताविंशति मध्यमे ।
बालक्रमे भविष्यन्ति चतुराशीति संख्यया ॥ ८१
एषां वै सिद्धसन्तानमसंख्यानं भविष्यति ।
आज्ञा चण्डतरा तेषां भविष्यति महेश्वर ॥ ८२
नवानां षोडशानां च पूजास्थानान् वदाम्यहम् ।
प्रथमं च भ्रूवोर्मध्ये द्वितीयाधारमण्डले ॥ ८३
तृतीयं मणिपूरे तु चतुर्थं पञ्चमं तथा ।
पुनराधारे संपूज्य षष्ठं वै स्वाधिष्ठानगम् ॥ ८४
सप्ताष्टनवमं देव तुर्यातीते तु पूजयेत् ।
एवं ते नवसिद्धानां शरीरे पूजनक्रमम् ॥ ८५
षोडशानां महादेव श्रूयतां स्थाननिर्णयम् ।
अष्टौ कपालमालायां नवमं नाभिमण्डले ॥ ८६
द्विपञ्चात् षोडशं यावत् भगमालां प्रपूजयेत् ।
तेषां सन्ततिः संजाता संसारे कलिवर्त्मनि ॥ ८७
स्थानमेकादशं यावत् ओलिशुद्धिरिह क्रमे ।
पारम्पर्यान्वयं ह्येतत् गुरुशिष्यक्रमं तथा ॥ ८८
भविष्यति कुलनाथ निःशेषं तु कलौ युगे ।
स्व–उल्यां गुरु–ओघं तु निर्बीजं पूजयति यः ॥ ८९
संसारे वर्तते भूयः संसारान्न निवर्तते ।
वृक्षनाथं विना यस्तु श्रीनाथं पूजयति यः ॥ ९०
संसारे वर्तते भूयः संसारान्न निवर्तते ।
ओलित्रितयमार्गं तु कथितं तव मण्डले ॥ ९१
नाख्यातं निर्णयं चात्र आख्यातमिह संहिताम् ।
सिद्धानां षोडशः पुत्राः संजाता मित्रयोनिषु ॥ ९२
प्रथमा ज्येष्ठ–ओली च क्रमभेदे समासतः ।
पुरमध्ये समाख्याता तत्रारभ्य क्रमार्चनम् ॥ ९३
द्वितीया मध्यमोली च दक्षिणोत्तरकोणयोः ।
तृतीया अग्रकोणस्था बालोली तदनुक्रमात् ॥ ९४
तत्र सा कथिता मुद्रा अन्वयाज्ञात्र योनिषु ।
ओषमित्रास्तु सिद्धाश्च त्रिषु ओलिषु कीर्तिताः ॥ ९५
अन्यथा वदते यस्तु चन्द्रपूर्यगृहाश्रमम् ।
तथा उलित्रयं देव श्लोकद्वादशनिर्णयम् ॥ ९६
योगपीठं त्रिसिद्धान् च क्रमं विद्यां च मण्डलम् ।
यो न जानाति देवेश न स पूज्यो भविष्यति ॥ ९७
नासौ शिष्यः कुले कौले शास्त्रेऽस्मिन् नाधिकारिणः ।
चन्द्रपूर्यस्य सूत्रेदं प्रतिज्ञासूत्रकं त्विदम् ॥ ९८
प्रथमं कुलशास्त्रेऽस्मिन् पश्चात् तस्यैव उत्तरम् ।
आदिमुद्रा त्रिभिर्भेदैस्तथा श्लोकानि द्वादश ॥ ९९
गृहसिद्धास्तथा देव्यो विद्यादेवी च पूर्णिमा ।
ओलिसिद्धास्त्रिपुरुषाः सिद्धाश्चैव तु षोडश ॥ १००
ज्ञात्वा तान् प्रथमं देव पश्चात् क्रममुदाहरेत् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतरिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाशिते श्रीचन्द्रपुराधिकारवर्णने क्रमोदयो नामानन्दः ॥ ७ ॥
Kumārikākhaṇḍa – Kapitel ८
॥ ॐ स्वस्ति ॥
श्रीनाथपादुकाभ्यां नमः। श्रीगणेशाय नमः।
मन्थानभैरवतन्त्रे कुमारिकाखण्डे
अष्टमानन्दः
श्रीनाथ उवाच
देवि सिद्धिस्त्वं मे स्वामि आदिनाथे कुलोद्भवे ।
ब्रूहि ज्ञानोपदेशं तु यत् सारं पश्चिमान्वये ॥ १
प्रकटं कुरु कौलीशे मेरुप्रस्तारमुत्तमम् ।
येन विज्ञातमात्रेण विद्यामार्गं प्रवर्तते ॥ २
सबाह्याभ्यन्तरं मेरु स्थूलं सूक्षमं व्यवस्थितम् ।
सूक्ष्मं तु देवताचक्रं स्थूलं वर्णपरिग्रहम् ॥ ३
श्रीकुब्जिका उवाच
योऽसौ परापरोऽनन्तो विभुः कारणमध्यगः ।
तस्येच्छा निर्गता शक्तिर्वक्रदेवी ह्यधोमुखी ॥ ४
तस्याश्रममिदं मेरु कोष्ठकेषु शतार्धकम् ।
गुरोर्वक्त्रात् पुरा ज्ञात्वा तस्योद्धारं समारुहेत् ॥ ५
विद्या च पूर्णिमारभ्य कादिभेदेषु षड्विधम् ।
तवाख्यातं तु सिद्धस्य साम्प्रतं किञ्चिदन्वयम् ॥ ६
आदिस्थं मेरुमार्गोऽयं यत् सारं पश्चिमान्वये ।
सुशुद्धे भूप्रदेशे तु पांशुगोमयलेपिते ॥ ७
पुष्पप्रकरसंकीर्णे हस्तत्रितय कारयेत् ।
तत्रैकां पूजयेत् कन्यां तथैवाचार्यपुत्रकम् ॥ ८
एकान्ते विजने रम्ये न पशुजनसंकुले ।
स्नातेन मन्त्रपूतेन सुशुद्धेनान्तरात्मना ॥ ९
मदिरानन्दचैतन्यो वीरवन्दितविग्रहः ।
कृत्वादौ मण्डलं तत्र संपूज्य गुरुपादुकाम् ॥ १०
हेमगोदानवस्त्राद्यैः संतोष्य अतिभक्तितः ।
पूज्यः कुलागमाचार्यः प्राङ्मुखं तदनन्तरम् ॥ ११
मेरुवन्मेरुप्रस्तारं सर्वमन्त्रालयं शुभम् ।
व्यापकं कुलदेवीनां अधिकारं तु मन्त्रिणाम् ॥ १२
खटिकानवात्मकं यष्ट्वा ततः धर्मारिहो भवेत् ।
सप्तविंशांगुलं क्षेत्रं समन्तात् समसूत्रितम् ॥ १३
तत्रैव आलिखेत् मेरुं तस्यानुक्रमपद्धतिः ।
भागास्त्रयोदश नाथ ऋजुस्पष्टाः क्रमेण तु ॥ १४
तिर्यगाश्चाष्टभिश्चैव समसूत्राणि च लिखेत् ।
चतुष्टयशतैकं च कोष्ठकान् परिसंख्यया ॥ १५
प्रागेकं मध्यमं गृह्य तदधस्तिर्यगस्त्रयः ।
अधस्तात् पञ्चकश्चैव तदधः सप्तभिः पुनः ॥ १६
नवाधस्तादधस्ताच्च तदधिकादश पुनः ।
त्रयोदशान्यधश्चेति वर्णमेकं च मध्यतः ॥ १७
प्राक्स्थानमादितः कृत्वा मेरुक्रमं वदाम्यहम् ।
आदौ मेरोश्च मूर्ध्निस्थं गृहं गृह्य परापरम् ॥ १८
योगपीठं त्रिसिद्धाश्च तदधो रत्नपञ्चकम् ।
अधस्तान्मातरः सप्त नवभिर्देवतान्यधः ॥ १९
रुद्रैकादशकोऽधस्ताद् दिव्यसिद्धास्त्रयोदश ।
तदधश्चिञ्चिणीनाथं भेदाः पञ्चाशत् कीर्तिताः ॥ २०
मेरुप्रस्तारबिम्बस्य एतत् पूजाक्रमोद्धरम् ।
सृष्टिन्यायेन कृत्वादौ शेषान्यं लोपयेद् बहिः ॥ २१
प्राचीमुखादि अपरं अपरादिषु प्राङ्मुखम् ।
षड्भिस्तु पञ्चभिश्चैव चतुर्धा त्रिभिरेकतः ॥ २२
तथा षड्भिः क्रमेणैव षड्भिरेकद्वयं त्रिभिः ।
चत्वारः पञ्चभिः षड्भिरनुलोमविलोमयोः ॥ २३
सुविलुप्तं च प्रस्तारं लिङ्गरूपं च केवलम् ।
एकस्त्रयोदशश्चैव एकादश नवस्तथा ॥ २४
सप्तभिः पञ्चभिस्त्रीणि एक एव महेश्वरः ।
शिवादिरन्ध्रशक्त्यन्तं तथा च सहजाक्रमम् ॥ २५
पूजयेत् परया भक्त्या उपचारैस्तु पञ्चभिः ।
वर्णसिद्धांश्च पञ्चाशदालिखेन्मातृकाक्रमात् ॥ २६
वामावर्तक्रमेणैव मध्ये तु यावत् पश्चिमम् ।
नपुंसकसमायुक्तं वर्गातीतमधः कुरु ॥ २७
अजकारझकारश्च आकारं च समुद्धरेत् ।
छकारश्च भकारश्च ञ म इकार–पञ्चमम् ॥ २८
चबकारसहश्चैव य ट ईकार–सप्तमम् ।
ङफकारषकारश्च शवकारं लरेफकम् ॥ २९
ठकारश्च उकारश्च नवमं मातृमण्डले ।
घ पकारं नकारश्च ध–दकारस्तथैव च ॥ ३०
थतकारणढश्चैव ड ऊकार–दशाधिकम् ।
ग खकारं ककारश्च अःकारं अं तथैव च ॥ ३१
औ ओकारं च ऐकारं ए लॄकारं ऌ ॠ ऋ च ।
त्रयोदश समाख्याताः कषाख्यं च अधःस्थितम् ॥ ३२
अधुना शृणु देवेश शब्दनिघण्ट्वरोपितान् ।
अकारादिक्षकारान्तान् न्यासयोगाद् वदाम्यहम् ॥ ३३
अनुलोमेन विन्यासं विलोमाच्छब्दवर्णनम् ।
अमृतं भानुजं माया गौरी एकजवेधकम् ॥ ३४
लुप्तं चैव महेन्द्रं च रावणो भृकुटीमुखः ।
पुद्गलो गजकार्णश्च गोष्ठी त्रिपदि एव च ॥ ३५
तथा बिन्दुः स्वरान्तं च वर्णोदयमतः परम् ।
महान् वृषभसिंहश्च मातरं हट्टकेश्वरम् ॥ ३६
जिह्मकं शूलराजं च उन्मत्तो वीरबाहुकम् ।
कपालं च जटाहारं वासुकिः षोढतद्ग्रहम् ॥ ३७
नीलकण्ठं परावर्तं कुवेरं गिरिजात्मजम् ।
तारं द्विजपतिः रावं तथा शक्तिपुरन्दरम् ॥ ३८
एकवीरो हयं चैव अग्निधाम च पार्थिवम् ।
पद्मयोनिर्महाशंखस्तथा धूम्रध्वजं पुनः ॥ ३९
सृष्टिबीजमनङ्गं च च्छायाछत्रमतः परम् ।
एतद् वै मेरुप्रस्तारं पूजयेत् खटिकायुतम् ॥ ४०
न चात्र विस्मरेत् किञ्चिद् विद्यामार्गं समुद्धरेत् ।
सिंहावलोकने शम्भो संहारेण स्वरूपतः ॥ ४१
पीठनायक्यहं देव्या कुब्जिका नाम योगिनी ।
कृषभेदेन चैवात्र अजामावासिकं क्रमम् ॥ ४२
सांप्रतं हि प्रवक्ष्यामि विद्योद्धारविनिर्णयम् ।
आद्यं शक्तिपुरस्यैव रावस्यैव तु मस्तकम् ॥ ४३
द्विधाभूतैकपादश्च आद्यं वै अक्षरं शुभम् ।
शंखपार्थिवयोर्मध्ये पद्मयोनिः शिवालयम् ॥ ४४
मायायुक्तं महादेव द्वितीयमक्षरं भवेत् ।
आसनं चाग्निधामस्य कपालोर्ध्वेन भेदितम् ॥ ४५
तृतीयमक्षरं प्रोक्तं चतुर्थं कथयामि ते ।
अनन्तहनुमन्मध्ये देव वर्णोदयं शुभम् ॥ ४६
आन्तं मायासमायुक्तं उद्धरेत सुरोत्तम ।
षोढाद्यं टोर्ध्वभिन्नं तु अक्षरं पञ्चमं भवेत् ॥ ४७
आसनं द्विजपतेश्च कपालशिरभूषितम् ।
षष्ठमक्षरमाख्यातं सप्तमं चाधुना शृणु ॥ ४८
हराद्यं हि तथा पात्यं हयान्तेनोर्ध्वमण्डितम् ।
वासुकेरन्तमध्यस्थं चन्द्रोऽयं परमाक्षरम् ॥ ४९
शूलहाटकयोर्मध्ये उन्मत्तान्तविभेदितम् ।
एकवीरकृतं शम्भो सौरमष्टाक्षरोद्धृतम् ॥ ५०
द्वावेतौ चन्द्रसूर्योभौ कपालेनोर्ध्वमण्डितौ ।
आज्ञा मूर्ध्नि कृताभासौ विद्याप्राकारतोरणौ ॥ ५१
सिंहौघहनुमान् नाथ मायया वेष्टितं पुरम् ।
नवमं सर्वकामिन्या अक्षरोऽयं निपातितम् ॥ ५२
शिरो बीजमनङ्गस्य जटाहारान्तभेदितम् ।
अक्षरेदं तु दशमं आख्यातं तव भैरव ॥ ५३
जटापार्थिवयोर्मध्ये अग्निधामं निपातयेत् ।
ऐभानुसंगतं भेद्यं अक्षरैकादशं भवेत् ॥ ५४
हनुमान्शिरसिंहश्च च्छायाछत्रोर्ध्वमण्डितम् ।
द्वादशं वर्णमाख्यातं उन्मत्तोर्ध्वं त्रयोदशम् ॥ ५५
तस्यासनमेकवीरं तद्ग्रहासनभेदितम् ।
चतुर्दशं समाख्यातं अक्षरं त्रिदशेश्वर ॥ ५६
द्विजपतेः शिवस्यान्तं तारकाक्षर केवलम् ।
पञ्चदशं समाख्यातं देवदेव्या प्रकाशितम् ॥ ५७
नीलकण्ठस्य षोढस्य मध्यपुरे तु तद्ग्रहम् ।
केवलं षोडशं ख्यातं हयशीर्षं च केवलम् ॥ ५८
सप्तादशं समाख्यातं फकाराद्यं दशाष्टमम् ।
अनुनासिकचत्वारः सिद्धा मन्त्रस्य व्यापकाः ॥ ५९
ते युगानि तु चत्वारः ते पीठा ऐहिकाभुवि ।
ततो बीजत्रयं ज्ञेयं विद्याजिह्वा सुरोत्तम ॥ ६०
हयसृष्टिगतानङ्गं पार्थिवान्तेन भेदितम् ।
रावणाद्येन संभिन्नं अनङ्गशिरसाहतम् ॥ ६१
एतद् बीजं तु रुद्रस्य एकोनविंश संख्यया ।
हरपार्थिवमध्यस्थं जटान्तेन विभेदितम् ॥ ६२
कपालान्तयुतं गौर्या हरानुजविभेदितम् ।
एतन्मायात्मकं पिण्डं विष्णुमूर्ध्नि च विंशमम् ॥ ६३
शंखवीरान्तगानङ्गं जटाहाराद्यभेदितम् ।
अ–इमध्यगतं कूटं हरान्तेन शिराहतम् ॥ ६४
एतद् ब्रह्माक्षरं पिण्डं एकविंशं प्रकीर्तितम् ।
ब्रह्मा विष्णुश्च रुद्रश्च एते सिद्धाः क्रमान्विताः ॥ ६५
एषां मूर्ध्नि स्थिता शक्तिर्माया कासनसंस्थिता ।
अक्षमध्यमवर्णानां उदयं च समायुतम् ॥ ६६
एतद् वर्णं च द्वाविंशं त्रयोविंशमकं भवेत् ।
सृष्टिशक्तिपुराद्यं च हशिरेण समायुतम् ॥ ६७
कपालशिरसाक्रन्तं एषा चक्रतनुर्ह्यहम् ।
पुद्गलस्य तु पूर्वाद्यं वासुकिशिरसि स्थितम् ॥ ६८
चतुर्विंशमकं वर्णं मुद्रानामाभिधानकम् ।
आख्यातं तव सिद्ध्यर्थं श्रीनाथेन समायुतम् ॥ ६९
पञ्चविंशतिकं वर्णं शर–ईकारसंज्ञया ।
एकपदगतानङ्गं पुरं शक्त्यन्तभेदितम् ॥ ७०
त्रिषु वर्णान्तहनुमान् तेन युक्तमधःकृतम् ।
धूम्रमातरमध्यस्थं युक्तं टासनमेव च ॥ ७१
शिरोभूषणरत्नाढ्यं तेनाक्रान्तं च पिण्डकम् ।
आज्ञादीप्तं कृतं कूटं षड्विंशं कुलनायकम् ॥ ७२
अनेन स्मरते देवं भवेत् कौलस्य भाजनः ।
आज्ञा प्रवर्तते शिष्ये आज्ञयाभ्यासनेन तु ॥ ७३
खगतिश्च न संदेहो अचिरादपि सुन्दर ।
एतच्चैतन्यकूटं तु षड्विधं परमेश्वर ॥ ७४
षड्भिः पीठैः समायुक्तं खेचरं आद्यपीठकम् ।
तद् यदालोकयेन्मन्त्री पतते इति निश्चयम् ॥ ७५
सप्ताविंशतिलक्षैस्तु जपितैश्चापि खेगतिः ।
क्रममण्डलमध्यस्थं ज्वलन्तं दीपरूपकम् ॥ ७६
तल्लिङ्गं तं च वृक्षं च विधिना क्रमनायकम् ।
तस्योद्यानं सपूर्वं च अग्निर्जालन्धरोदितः ॥ ७७
खार्णान्तं पूर्णगिर्यं च हसान्तमिति कोंकणम् ।
एकपादं च तिस्राख्यं सिद्धं पीठक्रमेण तु ॥ ७८
एतद् वै षड्विधं पिण्डं आश्रमं पारमेश्वरम् ।
एषा सा खेचरीमुद्रा ग्रस्तं त्रैलोक्यमद्भुतम् ॥ ७९
ओलित्रितयमध्ये तु एषाज्ञा कुब्जिकाक्रमे ।
तस्या मूर्तिरघोरा च उद्धारं तु विलोमतः ॥ ८०
जटाहाराद्यमनलं तद्ग्रहाधःसमन्वितम् ।
सप्ताविंशमकं वर्णं अष्टाविंशमकं भवेत् ॥ ८१
हनुमान्शिरसिंहस्य परावर्ताधयोजितम् ।
गजेन्द्रस्य शिरं पात्यं नीलकण्ठेति नामतः ॥ ८२
मायायुक्तमूनत्रिंशं कथितं तव सुन्दर ।
त्रिंशमं कथयिष्यामि परावर्तशिरं पुनः ॥ ८३
केवलं हनुमाद्यं च एकत्रिंशं प्रकीर्तितम् ।
शूलस्यैवासनं देव द्वात्रिंशं समुदाहृतम् ॥ ८४
एकवीरादि–आरभ्य भगान्तं यावद् भैरव ।
आख्यातं परमं देहं बिम्बा देवी नभस्थिता ॥ ८५
उद्धृता तु विलोमेन पीठान् कुर्यान्नुलोमतः ।
एतत् सिंहावलोकेन सिंहवत् सिंहसंज्ञया ॥ ८६
आदिपीठेश्वरी ख्याता मुद्रात्रितयभेदिता ।
श्रीनाथ उवाच
यदेतत् पुरवरं देवि ज्वलन्तं भीमरूपिणम् ॥ ८७
भयावहं तु शिष्याणां अमृतीकरणं वद ।
येन सर्वत्र शिष्याणां संपूर्णसिद्धिदा भवेत् ॥ ८८
एतत् प्रयोगमिच्छामि चान्द्रेयं करणं शुभम् ।
श्रीवक्रा उवाच
अतोर्ध्वं संप्रदायं तु पूर्वस्यैव तु उत्तरम् ॥ ८९
श्रीनाथ त्वां प्रवक्ष्यामि अमृतीकरणं शुभम् ।
कृत्वादौ प्रणवाः पञ्च अन्ते तेऽपि विलोमतः ॥ ९०
तयोर्मध्यगता विद्या पूर्णिमा नात्र संशयः ।
न चात्र विस्तरं किञ्चित् विद्यापञ्चार्णमुद्धरेत् ॥ ९१
ययोच्चारितमात्रया महेश्वर्यं प्रवर्तते ।
वायुवर्णाच्चतुर्थं तु अधस्थं यत् पुरार्चितम् ॥ ९२
शिखाशेखरमाक्रान्तं आज्ञावर्तिसमुज्ज्वलम् ।
एषा कौलेश्वरी विद्या ओकारान्तविभेदिता ॥ ९३
एषा भगवती देवी नाम्ना सा वह्निवासिनी ।
आरक्तां चिन्तयेद् देव आधारमणिमध्यतः ॥ ९४
लक्षैकजपनात् सिद्धिर्महावेधः प्रवर्तते ।
अमृतादिचतुर्थं तु इकाराधस्तृतीयकम् ॥ ९५
यान्तान्तं बिन्दुनादस्थं अशिरेण शिराहतम् ।
महामाया स्मृता ह्येषा त्रैलोक्यक्षोभकारिणी ॥ ९६
वह्निं कपिलसंकाशं चिन्तयेन्मणिपूरके ।
वशीकरणमावेशं लक्षैकजपनाच्छ्रियः ॥ ९७
षवान्तं टासनारूढं उशिरेण विभेदितम् ।
कलाबिन्द्वङ्कितं नादं आज्ञामूर्ध्नि कृतान्तकम् ॥ ९८
एषा सा शाङ्करी देवी सर्वदुःखक्षयंकरी ।
हिमकुन्देन्दुसंकाशां ध्यायेद् देव अनाहते ॥ ९९
सकृज्जप्तेन लक्षेण कौलज्ञानं लभेन्नरः ।
ऐहिकान् प्राप्नुयाद् भोगान् सौभाग्यं यशसः श्रियम् ॥ १००
पानुजं खरमध्यस्थं एलीनरविभेदितम् ।
इन्दुबिन्दुकलाक्रन्तं देवानामपि दुर्लभम् ॥ १०१
एषा सा खेचरी विद्या श्यामा रक्ता विशुद्धगा ।
लक्षैकजपनात् सिद्धिर्मातृलब्धवरो भवेत् ॥ १०२
लघुत्वं कर्मविच्छेदं निर्गमं जालकान्तरे ।
धारास्तम्भं न संदेहः करोत्यावेशमुत्तमम् ॥ १०३
यशमध्यगताकाशं हबान्तं च लठान्तरम् ।
ऋशिरं ओशिरैकत्वं बिन्दुनादखगाङ्कितम् ॥ १०४
एषा सा भैरवी विद्या श्वेतरक्तां विचिन्तयेत् ।
आज्ञास्थानशलाकाया लक्षैकजपनाच्छ्रियः ॥ १०५
कृत्वा क्रोधं क्षयं याति शक्रसैन्यं न संशयः ।
निग्रहं चैव दुष्टानां शत्रूणां चैव ताडनम् ॥ १०६
भवते नात्र संदेहो ययाराधनमात्रतः ।
धर्मार्थकाममोक्षाणां फलं प्राप्नोति मानवः ॥ १०७
यस्त्विदं विन्दते योगी विद्यापञ्चककौलिकम् ।
सोऽपि याति परे तत्त्वे यत्र गत्वा न शोचते ॥ १०८
वाग्भवं प्रथमं बीजं मायाबीजं द्वितीयकम् ।
तृतीयं च श्रियो बीजं चतुर्थं चैव खेचरम् ॥ १०९
पञ्चमं भैरवं नाम विज्ञेयाः कुलभूषणाः ।
प्रणवाः पञ्च आख्याता दीपकानि कुलक्रमे ॥ ११०
पुनरेव हि विद्याया आदिपीठाः प्रकीर्तिताः ।
प्रथमं कामरूपं तु जालपीठं द्वितीयकम् ॥ १११
पूर्णगिर्यं तृतीयं तु ओडियानं चतुर्थकम् ।
पञ्चमं तिस्रपीठाख्यं सिद्धास्ते पुनः पञ्चभिः ॥ ११२
मैत्रीशं चर्यदेवं च षष्ठीशो ओडमेव च ।
तूष्णीशं देवदेवेश सिद्धाः पञ्च क्रमेण तु ॥ ११३
आद्यपीठात् समारभ्य कुर्यादेव क्रमार्चनम् ।
पञ्चप्रणवसंयुक्तं सिद्ध्यते नात्र संशयः ॥ ११४
विद्यापञ्चार्णरहितं यस्तु पूजयते क्रमम् ।
अक्रमस्थः स विज्ञेयो न मोक्षाय विधीयते ॥ ११५
क्रमं पञ्चाक्षरं योगं क्रमविद्यार्णपञ्चकम् ।
पञ्चधातुगृहं चक्रं तथात्मानं च पञ्चधा ॥ ११६
पञ्चाक्षरमिदं न्यासं कृत्वा क्षोभोऽभिजायते ।
ये योगिनीकुले जाता ते च विन्दन्ति पञ्चकम् ॥ ११७
गत्वा वै कामरूपे तु तथा जालन्धरे तु च ।
अपरं पूर्णगिर्यायां गत्वा पीठे चतुर्थके ॥ ११८
तिस्राख्ये च पुनर्गत्वा विद्यापञ्चकमभ्यसेत् ।
पूर्वक्रमेण सिद्ध्यन्ति नान्यथा वीरवन्दित ॥ ११९
आदौ ते पञ्च लक्षाणि जप्तव्याः साधकेन तु ।
संयोगाल्लक्षमेकं तु जपेद् विद्याद्यपीठके ॥ १२०
साधकः सिद्धिभागी स्यात् खेगतिर्नात्र संशयः ।
मेलापं खेचरीसार्धं तत्र पीठे लभेन्नरः ॥ १२१
वीरसिद्धिर्महाव्याप्तिः पुरक्षोभं तु इच्छया ।
अणिमा महिमा चैव लघिमा प्राप्तिरेव च ॥ १२२
प्राकाम्यं चैव ईशित्वं वशीकरणमेव च ।
यत्र कामगतीच्छया सिद्ध्यष्टाविह जन्मनि ॥ १२३
लभेदमरपदं योगी स्वयं रुद्रो भविष्यति ।
एषा पञ्चाक्षरी विद्या मुद्रापञ्चकभूषिता ॥ १२४
प्रथमा कुलकौले तु ज्ञातव्या क्षोभचिन्तकैः ।
योनिमुद्रा तु शङ्खिन्या पद्ममुद्रा तथैव च ॥ १२५
कपालमुद्रा देवेश तथा वै घटसंज्ञया ।
मुद्रापञ्चकनिर्मुक्तो विद्यापञ्चकवर्जितः ॥ १२६
नासौ अन्वयिको मन्त्री न भवेत् सिद्धिभाजनः ।
जिह्वोपस्थनिमित्यर्थं कौलिकान् तान् ब्रूवन्ति ये ॥ १२७
न तेषां कुलकौलोऽस्ति अन्यथा पतनं भवेत् ।
विद्या ध्यानानि पीठानि सिद्धा मुद्राश्च पञ्चकम् ॥ १२८
एतद् वै तत्त्वतो ज्ञेयं तथा पञ्चार्णपञ्चकम् ।
सूचितं तव सिद्धस्य गोपनीयं शरीरवत् ॥ १२९
इदं रहस्यं परमं नाख्येयं यस्य कस्यचित् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते मेरुप्रस्थारनिर्णये विद्या–उद्धारो नामानन्दः ॥ ८ ॥
Kumārikākhaṇḍa – Kapitel ९
नवमानन्दः
श्रीनाथ उवाच
श्रुतं च देवदेवेशि विद्या–उद्धारमुत्तमम् ।
देव्याः कूटं न मे ज्ञातं विस्तरेण मया प्रभो ॥ १
अधुना श्रोतुमिच्छामि इदानीं तद् वद प्रभो ।
श्रीवक्रा उवाच
कूटमेकं गुरोर्वक्त्रात् ज्ञातव्यं तत् महेश्वर ॥ २
न तेन रहिता सिद्धिस्तदाकर्णय सुन्दर ।
प्रथमं जालपीठं तु पूर्णगिर्यं द्वितीयकम् ॥ ३
तृतीयं कोंकणं प्रोक्तं कामरूपं चतुर्थकम् ।
पञ्चमं पीठमोंकारं षष्ठं त्रिस्रोतनायकम् ॥ ४
सालम्बास्ते स्मृताः षड्भिः शरीरे तु विनिर्दिशेत् ।
निरालम्बान् तदूर्ध्वं तु षड्भिर्वक्ष्यामि साम्प्रतम् ॥ ५
इन्दुबिन्दुः स्वयंनाथः शक्तिरूर्ध्वे च व्यापिनी ।
तदूर्ध्वे समना ज्ञेया उन्मना वै तथोपरि ॥ ६
उभयोरपि संयोगात् द्वादशानि भवन्ति ते ।
पदार्थानि समूहेन अथ वक्ष्यामि साम्प्रतम् ॥ ७
तेजोरूपं तु जालाख्यं हृदये तु हुताशनम् ।
दाडिमीपुष्पसंकाशं कूपस्थं पूर्णगिर्यकम् ॥ ८
कोङ्कणं घण्टिकायां तु शरद्गगनसन्निभम् ।
कामाख्यं तालुमध्ये तु हिमकुन्देन्दुनिर्मलम् ॥ ९
तस्य ऊर्ध्वं तु विज्ञेयं ओंकारं दर्पणप्रभम् ।
ब्रह्मरन्ध्रे त्रिकोणाख्यं ऊर्ध्ववक्त्रं विचिन्तयेत् ॥ १०
तप्तहेमनिभं ध्यायेत् तिस्राख्यं पीठनायकम् ।
तदूर्ध्वं व्योमचक्रं तु आलातकसमप्रभम् ॥ ११
बिन्दुरूपं समाभ्यस्य अर्धेन्दुस्तस्य चोपरि ।
ज्योतिरूपं समाख्यातं आदिनाथं तु मूर्धनि ॥ १२
शिवतत्त्वं विजानीयादव्यक्तं चक्रवत् स्मरेत् ।
हृदयात् तु समारभ्य यावदूर्ध्वं हि मस्तकम् ॥ १३
तावत् कूटं समाख्यातं नवधा संव्यवस्थितम् ।
सुषुम्नानाडिभेदेन शनैः शनैस्तु भेदयेत् ॥ १४
तदूर्ध्वे ओलिभेदानि त्रिभिर्वक्ष्यामि साम्प्रतम् ।
चतुरंगुलमुत्सृज्य ऋजुशक्तिर्विधीयते ॥ १५
अतसीपुष्पसंकाशां व्योमव्यापीं विचिन्तयेत् ।
तदूर्ध्वे व्यापिनी प्रोक्ता चत्वार्यंगुलमूर्ध्वतः ॥ १६
समना सा स्वरूपेण चन्द्रकोटिसमप्रभा ।
शिवतत्त्वस्य ऊर्ध्वे तु ओलिदेव्यस्त्रयः स्मृताः ॥ १७
तस्योर्ध्वे उन्मनावस्था शब्दावस्थं हि शाम्भवम् ।
शून्यमेकं समाभ्यस्य यत्र सर्वं निवर्तते ॥ १८
शून्यान्ते तून्मने प्राप्ते को न मुच्येत बन्धनात् ।
अथान्यं संप्रवक्ष्यामि कारणं गूढमुत्तमम् ॥ १९
प्रथमं कामरूपाख्यं शृङ्गाटाकृतिशेखरम् ।
मायाबीजं द्वितीयं तु गुहा मुद्रा च तूष्णिका ॥ २०
तृतीयं रुद्रबीजं तु दिव्यं सुरवरार्चितम् ।
चतुर्थं खेचरं पीठं खफरेमिति विग्रहम् ॥ २१
पञ्चमं भैरवं नाम हसरौ–उपदाङ्कितम् ।
पीठपञ्चकमाख्यातं गुप्तसंज्ञं कुलागमे ॥ २२
तेषां संकेतकाः पञ्च शास्त्रेऽस्मिन् स्ववतारिताः ।
ईकारश्च आकारश्च इ उ ओ स्वरपञ्चकम् ॥ २३
एते तत्त्वक्रमाच्छम्भो संजातानि कुलेच्छया ।
आद्यं पीठं भवेद् दीर्घं चतुर्थं स्वरनायकम् ॥ २४
स्वरोदयं द्वितीयं च तृतीये च तृतीयकम् ।
चतुर्थकं चतुर्थे तु पञ्चमे तु त्रयोदशम् ॥ २५
एते पीठाः स्मृता रत्ना ओजापूकाः सतिस्रकाः ।
एतेषां नायिकाहं च विद्या च महान्तारिका ॥ २६
साकारा च निराकारा अद्वैताकारभूषिता ।
सा स्थूला सा च वै सूक्ष्मा चिच्छक्त्यन्तरचारिणी ॥ २७
बोधरूपा महामाया अलेख्या लेख्यरूपिणी ।
गुह्ये च हृदये वक्त्रे विलसेत् परमेश्वरी ॥ २८
मुद्राकूटसमायुक्ता तेन सा मुद्रिता भवेत् ।
यावन्न विन्दते कूटं तावद् विद्या न सिद्ध्यति ॥ २९
पश्चात् संपूर्णं करणं कादिभेदेन कौलिकम् ।
गूढार्थेन प्रवक्ष्यामि विद्या द्वात्रिंशदक्षरा ॥ ३०
संकेतेन यथा प्रोक्ता सिद्धिदा चैव योगिनाम् ।
प्रथमं पीठसंकेतं भगवतीत्यतः परम् ॥ ३१
तृतीयं मूर्तिसंकेतं चैतन्यं च अतः परम् ।
चतुर्थं तु समाख्यतं अलङ्कारं च पञ्चमम् ॥ ३२
अभिधानं ततः षष्ठं ब्रह्माख्यं बीजसप्तमम् ।
अष्टमं विष्णुबीजं तु नवमं रुद्रमुच्यते ॥ ३३
द्विपञ्चकं करालाख्यं अमृतैकादशोच्यते ।
महाभैरवरूपं तु द्वादशं समुपस्थितम् ॥ ३४
त्रयोदशं भवेद् व्याप्तिः संस्थितिश्च चतुर्दशम् ।
सिद्धिः पञ्चदशे स्थाने आज्ञा षोडशमे पदे ॥ ३५
षोडशात्मकसंकेतं उपदेशकृते कृतम् ।
त्रिधा देवी क्रमाणां हि ओलीनां तदनन्तरम् ॥ ३६
यथा कर्णोपदेशं तु तत् प्रवक्ष्याम्यनन्तरम् ।
मूर्तिभेदं त्रिधा प्रोक्तं व्युत्क्रमेण क्रमत्रये ॥ ३७
विपरीतेन रेघो वै द्वौ सिद्धौ अ गणाधिपः ।
यावन्न ज्ञायते चारं ओलिशुद्धिः कुतः क्रमे ॥ ३८
आदौ विकृतिकारणं सौम्यं च तदनन्तरम् ।
महावृक्षं पुनश्चात्र त्रिविधं करणेन तु ॥ ३९
मूर्तिशुद्धिं पुरा ज्ञात्वा आज्ञातत्त्वमनुस्मरेत् ।
चैतन्येन विनिर्मुक्तं प्रमादादपि वर्तते ॥ ४०
तत्र शून्यं क्रमं तस्य अधिकारं विना गुरोः ।
शक्तिना व्यतिरिक्तं तु रुद्रबीजं त्रिकन्दकम् ॥ ४१
मलानां दहनं कस्माच्छक्तिना परिभाव्यते ।
शक्तियुक्तं पुरा ज्ञात्वा तदादिष्टं मलक्षयम् ॥ ४२
अमृतं योगिनीरिक्तं विसर्गरहितं यदा ।
अपवर्गं कुतस्तस्माद् नापि स्वर्गं प्रवर्तते ॥ ४३
भैरवान्तं यदा दीर्घं भिन्नं कस्मात् कलेवरम् ।
कुतः स्याद् भैरवीशक्तिः कुतः स्यात् सिद्धिमण्डले ॥ ४४
अव्ययेन यदा रिक्तं व्याप्तं मण्डलपञ्जरम् ।
संसारमण्डलात् तस्मान्न मुक्तिरिह गीयते ॥ ४५
सर्वेषां पूर्वतो देव्या नमो आमन्त्रणे पदे ।
कुलभ्रंशविनाशाय मतिभ्रंशः सदात्मनि ॥ ४६
मलानां भवते वृद्धिस्तद्वद् वृद्धिः कुतो भवेत् ।
तदा संसारचक्रेऽस्मिन् उदयते दिने दिने ॥ ४७
पीठरिक्ता अमावास्या नेह सिद्धिफलप्रदा ।
भाग्यक्षयं च कुरुते अन्ते आज्ञाविवर्जिता ॥ ४८
दुर्भगा जायते विद्या दुर्भगत्वं न संशयः ।
अथ संपुटयोगं वा आद्यन्तेऽवकृतं यदि ॥ ४९
तदा रेफप्रभावेण जज्वलद् भैरवानलम् ।
तेन सा भीषणीमूर्तिः साक्षात् क्लिन्ना भविष्यति ॥ ५०
तत्रास्ति करणं किञ्चित् हसमध्ये प्रवर्तते ।
रवेर्लोपं पुरा कृत्वा तत्र सा वारुणी कला ॥ ५१
करणं चन्द्रचारेण तदा पूर्णतरङ्गिणी ।
चन्द्रांशुः क्षरते यस्मात् तस्मात् पूर्णा निगद्यते ॥ ५२
उभौपञ्चकहीना च जपिता विधिना यदि ।
तथापि हि न सिद्ध्यन्ति इत्याज्ञा पारमेश्वरी ॥ ५३
उभौपञ्चकनिर्मुक्ता नमो आमन्त्रणे युता ।
तेन विद्यां अमावास्यां जप्त्वा कोटिशतैरपि ॥ ५४
विमुखा जायते विद्या मर्त्यलोके कलौ युगे ।
यद्यपि दक्षिणे प्रोक्ता मन्त्रसिंहासने हर ॥ ५५
निग्रहानुग्रहे शक्तिः वृक्षस्फोटादिप्रत्यया ।
तदिदं क्षेत्रमाहात्म्यं तत् तु विद्याप्रभावतः ॥ ५६
वटुकस्य प्रभावेण संस्थिता बाह्यप्रत्ययाः ।
स्वप्रत्यया भवेद् विद्या यथा ओघक्रमेण तु ॥ ५७
ओघहीना न मुच्यन्ति पतनं तेन खेचर ।
अनुलोमेन पाठ्यादौ विलोमान्ते च पञ्चकम् ॥ ५८
कृत्वा गमागमं देव मध्ये विद्या सुरेश्वर ।
भादिसृष्टिक्रमेणैव तदा सा पूर्णिमा भवेत् ॥ ५९
सकृदुच्चारिता विद्या कम्पते देहपञ्जरम् ।
रुद्रांशको भवेन्मन्त्री विद्या देवी च पूर्णिमा ॥ ६०
अन्यथा न भवेद् देव शास्त्रेऽस्मिनवतारिता ।
एतद्वै संपुटं योगं विद्याया तनुपूर्वकम् ॥ ६१
पञ्चार्णमिति विख्यातं यो विन्दति स सिद्ध्यति ।
विद्या संपुटिता शुद्धा संपुटेन विवर्जिता ॥ ६२
अशुद्धा नात्र संदेहो विघ्नदात्री पदे पदे ।
विघ्नविदारणार्थाय तदाख्यातं च संपुटम् ॥ ६३
अमावास्या भवेत् पूर्णा कृष्णा स्थूला भविष्यति ।
रौद्रा सा भवते सौम्या आक्रान्ता करणेन तु ॥ ६४
ये ते पञ्च क्रमात् पीठाः पूर्वोक्ता हि सुरोत्तम ।
ते च कुर्याद् भकारादौ वाग्भवाद्यनुलोमतः ॥ ६५
पुनस्तेऽपि विलोमाच्च चकारान्ते नियोजयेत् ।
आदौ ते प्रणवाः पञ्च अन्ते तेऽपि विसर्पिताः ॥ ६६
विद्यामध्ये गताहं च त्वमूर्तिरिति कौलिनी ।
द्वात्रिंशाक्षरिका या तु अनेन करणेन तु ॥ ६७
द्विचत्वारिंशती सा तु स्वमन्त्रं पश्चिमान्वये ।
तच्चास्य प्रणवं देयं दीपनं वैदिकं प्रिय ॥ ६८
तेन सा च विनिर्मुक्ता षड्जातिभ्यो विवर्जिता ।
ओंकारं च नमः पूर्वं नमः स्वाहा स्वधा वषट् ॥ ६९
वौषट् चैव तु स्वाहान्तं रक्षफट्कारवर्जिता ।
एभिर्मन्त्रपदैस्तत्र उत्तीर्णा सिद्ध्यते परा ॥ ७०
प्रधानास्तेऽपि तन्त्रेषु इज्यार्थे होमकर्मसु ।
तैस्तु कृत्वा कुलाम्नाये योगभ्रंशो हि जायते ॥ ७१
स्वभावे दीपिता विद्या संस्थिता वह्निमण्डले ।
तदा सा तन्त्रमन्त्रैस्तु उत्तीर्णा चापि सिद्ध्यति ॥ ७२
न चास्याः सदृशा विद्या त्रिषु लोकेषु विद्यते ।
विद्यते कुलशास्त्रेऽस्मिन् पीठानां पीठदेवता ॥ ७३
अस्या विद्या परा नास्ति आज्ञाशास्त्रात् परं नहि ।
पीठक्रमात् परं नास्ति गुरुवक्त्रात् परं नहि ॥ ७४
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते विद्यापूर्णादिभेदचैतन्याधिकारवर्णने क्रमोदयो नामानन्दः ॥ ९ ॥
Kumārikākhaṇḍa – Kapitel १०
दशमानन्दः
श्रीनाथ उवाच
किमेतत् पूर्णकरणं विद्यायाः कथितं त्वया ।
भैरवस्य तु पिण्डस्य यत् तेजो औसमध्यतः ॥ १
आदावन्ते स्थितस्यैव द्वौ रेफौ सन्निरोधतः ।
वक्रीकरणमेतद् वै न पूर्णं करणं क्वचित् ॥ २
एतच्छल्यं च विद्यायास्तदा सा कीलिता भवेत् ।
उत्कीलनं वद तस्या येन सा पूर्णिमा भवेत् ॥ ३
श्रीवक्रा उवाच
एतत् प्रश्नवरं गुह्यं देवदेवावतारितम् ।
त्वदृते बुद्धिमान् नास्ति उत्तरं तस्य तच्छृणु ॥ ४
भैरवस्य तु पिण्डस्य आदावन्ते स्थितस्य च ।
औसमध्यगतं शल्यं मध्याह्नार्कसमप्रभम् ॥ ५
लोपनं तस्य तत् कृत्वा तत्र सा वारुणी कला ।
कृत्वा चामृतमाद्यन्ते ततो विद्या च सिद्ध्यति ॥ ६
उपदेशं समाख्यातं लक्षजापेन खेगतिः ।
साधकस्य भवेद् देव नात्र कार्या विचारणा ॥ ७
तस्य तत्क्रमयुक्तस्य विद्याजापरतस्य च ।
अन्तिमे च युगे सिद्धिः प्रत्ययानि बहून्यपि ॥ ८
नष्टप्रत्यन्तविज्ञानं विद्यानाभ्यसनाद् भवेत् ।
एतत् तस्यापि संतानं प्रस्तारं पूर्वभाषितम् ॥ ९
मेरूत्था रुद्रशक्तिस्तु ज्ञात्वा विद्यार्थिनो भवेत् ।
इदानीं पदभेदेन विद्या पूर्णा निगद्यते ॥ १०
च्चेविणिकिपदं पूर्वं णिकिच्छींच्छां द्वितीयकम् ।
तृतीयं खिमुराघो अमेनण चतुर्थकम् ॥ ११
पञ्चमं च ञ ङ स्ह्रौँ स्ह्रीँ षष्ठं स्ह्राँ केब्जिकु भवेत् ।
श्रीँ ह्स्ख्फ्रेँ रेघो सप्तमं स्यात् तिवगभपदाष्ठमम् ॥ १२
विद्या चाष्टपदैरुक्ता अघोरैषा महातनुः ।
पञ्चप्रणवपूर्वा च अन्ते पञ्च विलोमगाः ॥ १३
पूर्णकरणयोगोऽयं कथितं तव भैरव ।
अस्या वक्त्रषडङ्गानि करन्यासे विशोधयेत् ॥ १४
भेदद्वादशसंयुक्तान् पूर्वं चैव तु विन्यसेत् ।
वक्त्रन्यासमतः पूर्वं सृष्टिन्यायेन कारयेत् ॥ १५
ऊर्ध्ववक्त्रात् समारभ्य यावत् पश्चिममाननम् ।
सौम्यं सृष्टिक्रमेणैव रौद्रमन्यक्रमेण तु ॥ १६
पश्चिमानन कृत्वादौ यावद् ऊर्ध्वं क्रमाननम् ।
तावत् संहारमेवोक्तं सिद्धाङ्गपञ्चकं भवेत् ॥ १७
सृष्टिक्रमेण सकलं संहारेण तु निष्कलम् ।
सृष्टिसंहारयोर्ज्ञात्वा दिव्यवक्त्रं प्रवेशयेत् ॥ १८
भकारादि च रेफान्तं ऊर्ध्ववक्त्रं च विन्यसेत् ।
देव्याकूटादि नामान्तं मूर्धवक्त्रं तु विन्यसेत् ॥ १९
बीजत्रयं समारोप्य विन्यसेत् पूर्वमाननम् ।
ङकारादि च शून्यान्तं विज्ञेयं दक्षमाननम् ॥ २०
सूर्यादिसोमपर्यन्तं विन्यसेच्चोत्तराननम् ।
क्यादि चानुक्रमाभ्यासाद् वक्त्रेदं पश्चिमं न्यसेत् ॥ २१
देव्यः षट्कगतास्तेषां यथा चैव क्रमेण तु ।
परा देवी च मालिन्या सिद्धयोगेश्वरी तथा ॥ २२
कालिकाख्या तथा देवी त्रिपुरामूर्ति पञ्चमी ।
पश्चिमे तु पुनस्तस्य उमाखेचरि पूर्विका ॥ २३
पश्चिमाननमारभ्य वाग्भवाद्यन्तयोजिताः ।
पीठन्यासानुन्यासैस्तु कृत्वाङ्गानि षडिः पुनः ॥ २४
पुनरेव भकारादौ रेफान्तं हृदयं न्यसेत् ।
आत्मकूटादि नामान्तं उद्धृतं तु शिरं न्यसेत् ॥ २५
शिखायां त्रीणि बीजानि ब्रह्मविष्णुमहेश्वराः ।
ङादि चैव तु शून्यान्तं वर्मदेव्यामनुक्रमात् ॥ २६
च्छाँ च्छीँ चैव तु चन्द्रार्कौ द्वावेतौ नेत्रयोर्न्यसेत् ।
विच्चे किणिकिणिपूर्वं अस्त्रराजं तु विन्यसेत् ॥ २७
एवं चाङ्गानि सुभग कौलिकाद्यन्तयोजिताः ।
पुटिताञ्च न्यसेद् देव सर्वरक्षकराः पराः ॥ २८
तैरङ्गैर्देवताषट्कं हृदयादिक्रमेण तु ।
देवी हृत्कमलाम्बाख्या कुलदीपा तथैव च ॥ २९
बर्बरा बहुरूपाख्या महन्तारी च कोङ्कणा ।
एवं ते देवताषट्कं अङ्गानां परिकीर्तितम् ॥ ३०
एतैर्द्वादशभिर्भेदैर्विन्यसेत् कुलदेवताम् ।
तन्त्रादेशविनिर्मुक्ताः सिद्धाङ्गानि षडङ्गयोः ॥ ३१
ॐ नमश्चैव स्वाहान्तं वौषट् च स्वस्थिरार्णवम् ।
वषट् फट् क्रमेणैव उत्तीर्णाङ्गानि विन्यसेत् ॥ ३२
योगपीठक्रमाच्छम्भो आद्यन्ते विनियोजिताः ।
पश्चादारभ्यते न्यासं यथाख्यातं कुलागमे ॥ ३३
वक्रमुखं भवेत् षट्कं आख्यातं पूर्वनिर्णये ।
अङ्गषट्के षडिमुद्रा मुद्रा द्वादशधाक्रमे ॥ ३४
योनिमुद्रा तथा सिंहा दूतीमुद्रा च चिञ्चिणी ।
शूलमुद्रा च वक्रिण्या मुद्राषट्कं क्रमेण तु ॥ ३५
एतैस्तु भेदिता विद्या तदा सिद्ध्यारुहो भवेत् ।
मुद्रिता योनिमुद्रायां तदा विद्यां समभ्यसेत् ॥ ३६
ध्यानद्वादशकं वक्ष्ये वक्त्राङ्गेषु पृथक् पृथक् ।
श्वेतं रक्ताननं मूर्धं पाण्डुरं पूर्वमाननम् ॥ ३७
दक्षिणानन कृष्णं तु पीतं चैवोत्तराननम् ।
पश्चिमं श्यामरक्तं तु वक्त्रं त्रिदशपूजितम् ॥ ३८
शुद्धस्फटिकसंकाशं देव्या हृदि विशिष्यते ।
तप्तहेमप्रतीकाशं शिरो देव्याः प्रकीर्तितम् ॥ ३९
ज्वालामालाकुलां रौद्रां विद्युज्जिह्वां शिखां स्मरेत् ।
किञ्चिच्छामं च रक्तं च बहुवर्णं कवचं न्यसेत् ॥ ४०
नेत्रौ चन्द्रार्कतुल्याभौ वर्तुलौ हिमशीतलौ ।
वह्निवत् सदृशं चास्त्रं सर्वविघ्नविनाशकम् ॥ ४१
एतत् क्रमागतं योगं न्यासद्वादशकं प्रति ।
सदा न्यस्तैस्तु देवेश साधकः सिद्धिभाग् भवेत् ॥ ४२
यानि चेच्छति कामानि तानि लभति नान्यथा ।
एक एव महादोषो विद्ययाभ्यसनाद् भवेत् ॥ ४३
यमेव लोकयेज्जन्तुं कोपाविष्टस्तु साधकः ।
पातयेन्नात्र संदेहो यदि शक्रसमो भवेत् ॥ ४४
पीठन्यासानुन्यासैस्तु कृत्वा वै वज्रपञ्जरम् ।
मुद्रास्फोटाः प्रवर्तन्ते चालनं चावलोकनम् ॥ ४५
दिव्यदेहं न संदेहो वपुस्तेजश्चिरायुषम् ।
सौभाग्यं कान्तिलक्ष्मी च विद्याक्षोभः समन्ततः ॥ ४६
कामेश्वर्यं बलं शौर्यं सर्वसिद्धिः प्रवर्तते ।
इत्यागमविशुद्धस्य विद्या शुद्धक्रमस्य च ॥ ४७
प्रभावमेतदाख्यातं सिद्धप्रत्ययलक्षणम् ।
सतताभ्यासयोगेन द्वादशाब्दैस्तु सिद्ध्यति ॥ ४८
स्वयमाकाशगामी च पातालतल भुञ्जति ।
यथा चाहं यथा त्वं च तथासौ साधकोत्तमः ॥ ४९
देवमाता जगन्माता विश्वमाता प्रतिष्ठिता ।
सर्वेषामालयं देव देवदेवी महातनुः ॥ ५०
सद्यावेशकरी घोरा अघोराघोररूपिणी ।
महाविद्येश्वरी माया भैरवी देवता परा ॥ ५१
अस्योच्चारणमात्रेण सर्वपापक्षयो भवेत् ।
ब्रह्महत्या असंख्यानि स्त्रीणां गौबालहन्तकाः ॥ ५२
भूमिहन्ता सुवर्णं च परदारहराश्च ये ।
गुरुद्रोही दुरात्मा च मित्रद्रोही विशेषतः ॥ ५३
अग्निद्रोहकरा ये च तथा विश्वासघातकाः ।
रथ्याचौरकरा ये च पितृमातृ–उपेक्षकाः ॥ ५४
बहून्यपि कृतान्यायात् मेरुराशिप्रमाणतः ।
विद्योच्चारणन्यासैस्तु भस्मसात् यान्ति तत्क्षणात् ॥ ५५
सकृदुच्चरणाद् देव सर्वतीर्थफलं लभेत् ।
स्मरणान्निर्मलो योगी भवते नीरुजः सदा ॥ ५६
अश्वमेधसहस्राणां गोकन्यादानकोटीनाम ।
स्मरणात् तारणं पुण्यं गोगृहे शरणागते ॥ ५७
संग्रामे सन्मुखो युद्धे गोग्रहे प्राणदायकः ।
अनशने च भृगोः पाते तथा चैव महापथे ॥ ५८
ग्रहणे सोमसूर्ययोः राहुग्रस्ते तु यत् फलम् ।
तत् फलं प्राप्नुयाद् वीरो विद्यायाः स्मरणादपि ॥ ५९
योगिन्यो वरदास्तस्य पीठजाः क्षेत्रजाश्च वा ।
सहजाः कलजाश्चैव पूजयन्ति पदे पदे ॥ ६०
दुर्भगः सुभगो याति जनसौभाग्यवत्सलः ।
संग्रामे तु जयप्राप्तिः राजद्वारे यशो लभेत् ॥ ६१
अपुत्रो लभते पुत्रान् आयुरारोग्यसंपदः ।
मृतवत्सा तु या नारी सुतजीवन्तिका भवेत् ॥ ६२
कृतकृत्यः स देवेश यस्य विद्या मुखे स्थिता ।
एकया जिह्वया देव नाहं वर्णयितुं क्षमा ॥ ६३
यान् यान् वांच्छयते कामान् तांस्तान् सर्वानवाप्नुयात् ।
कलौ युगे प्रभावोऽयं मर्त्यानां गोचरं गतः ॥ ६४
साधिता देवदेवेश ब्रह्मविष्ण्वेंद्रनायकैः ।
अस्या विद्याप्रभावेण नरा देवत्वमागताः ॥ ६५
ये स्मरन्ति इमां नित्यं भुक्तिमुक्तिफलप्रदाम् ।
तस्य हस्ततले मोक्षं इत्याज्ञा पारमेश्वरी ॥ ६६
ब्रह्मणा पूजिता चैषा शक्रेण च महेश्वर ।
विष्णुना भैरवेणापि सिद्धगन्धर्वकिन्नरैः ॥ ६७
मारुतेन कुवेरेण लोकपालैर्दशो दिशैः ।
सर्वैः संपूजिता विद्या वन्दिता त्रिदशैरपि ॥ ६८
नान्या सा गीयते विद्या द्रव्यहीनां न चोच्चरेत् ।
कृतं तेन महाशापं योगिन्यश्चक्रनायिकाः ॥ ६९
रक्षणीया प्रयत्नेन इत्याज्ञा पारमेश्वरी ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते विद्यामाहात्म्यवर्णने क्रमोदयो नामानन्दः ॥ १० ॥
Kumārikākhaṇḍa – Kapitel ११
एकादशानन्दः
श्रीवक्रा उवाच
वर्णदेव्याः क्रमं शम्भो वदाम्यहं यथा भवेत् ।
तथा कूटस्य विन्यासं जपसंख्यार्घमण्डलम् ॥ १
सृष्टिक्रमेण ऊर्ध्वादि देव्यो द्वात्रिंशसंयुताः ।
वाग्भवाद्यं ततः कृत्वा विद्यान्यासं च कौलिकम् ॥ २
मस्तके प्रथमं देयं द्वितीयं तुर्यमण्डले ।
तृतीयं च चतुर्थं च द्वावेतौ नेत्रयोर्न्यसेत् ॥ ३
पञ्चमं च तथा षष्ठं द्वावेतौ च भ्रुवोर्न्यसेत् ।
आज्ञास्थाने सप्तमं च नासिकाग्रे तथाष्टमम् ॥ ४
नवमार्णं त्रिभिर्मध्ये वक्त्रे चैव दशाक्षरम् ।
बीजं द्वादशमं कर्णे तथा वामे त्रयोदशम् ॥ ५
कण्ठस्थाने विजानीयाद् वर्णं देव्याश्चतुर्दशम् ।
दक्षे पञ्चदशं स्कन्धे उत्तरे षोडशं भवेत् ॥ ६
सप्तादशं बाहुदण्डे दक्षिणेऽष्टादशोत्तरे ।
एकोनविंशं हृदये विंशमं नाभिमण्डले ॥ ७
एकविंशं ऊरुभ्यां च द्वाविंशं योनिमण्डले ।
त्रयोविंशारमध्ये च चतुर्विंशं तु नाडिगम् ॥ ८
सूष्मनायां महादेव स्फिजे च पञ्चविंशमम् ।
दक्षिणे तु भगीशाख्यं षड्विंशं चोत्तरे स्फिजे ॥ ९
सप्ताविंशं चाष्टाविंशं द्वावेतौ जानुनी न्यसेत् ।
एकोनत्रिंशं * त्रिंशं च जङ्घयोरुभयोर्न्यसेत् ॥ १०
एकत्रिंशं च द्वात्रिंशं पादे दक्षे तथोत्तरे ।
वर्णानां देवतेदानीं द्वात्रिंशच्छुभ भैरव ॥ ११
स्वनामाक्षरभेदेन पदमन्त्रैर्विसर्पिताः ।
भीमा गगनवेगा च वीरदेवी चतुर्थिका ॥ १२
घोरा चैव तु रक्ताक्षी कूटमुद्रा श्रेयस्तथा ।
कुवेर्या कुब्जिकादेव्या कैवर्ता हरदेवता ॥ १३
हरी चैव हरानन्दा ङणनञमटेश्वरी ।
नागाख्या मीनदेवी च तथा चैव तु अम्बिका ॥ १४
घोरमुखी च रावा च मुसलायुधखेचरी ।
च्छांकारी चैव छिंच्छा च किङ्किणी कुलदेवता ॥ १५
करङ्किणी नारायणी विमला वर्चिका तथा ।
ज्ञेया द्वात्रिंशतिर्देव्यः स्थाने स्थानेऽधिकारिण्यः ॥ १६
एतासु पूजितास्वेव न भूयो जन्मबन्धनम् ।
एतदेव पुराख्यातं तस्योच्चारं तु कौलिकम् ॥ १७
सा च एकाक्षरं कूटं सप्तधाज्ञा च खेचरम् ।
करणं षड्विधं तस्य तत्र सिंहक्रमं भवेत् ॥ १८
ओडियाणं भ्रुवोर्मध्ये कामाख्यं शक्तिजन्मनि ।
शून्यं षट्कोणमध्ये तु रावपूर्णेन पूर्णकम् ॥ १९
तेजो जालन्धरं नाभौ तिस्राख्यं च विशुद्धिषु ।
तालुमध्ये तु चन्द्राख्यं तन्मध्ये बिन्दुमण्डलम् ॥ २०
षोडशान्ते स्मृता आज्ञा एतत् खेचर्यनुक्रमात् ।
पदान्वेषणशीला ये जीवन्मुक्तिरताश्च ये ॥ २१
न तेषां पतनं देव गतास्ते पश्चिमे पदे ।
कृत्वा त्रितयसंयोगं क्षिप्ता आज्ञान्तमण्डले ॥ २२
रश्मिज्वालाकदम्बं च चिन्तयेच्च अधोमुखम् ।
नवलक्षकृते देव त्रैलोक्यमपि साधयेत् ॥ २३
कुलाचारे यथा प्रोक्तं अर्घमण्डलकं शृणु ।
एकान्ते विजने रम्ये एकारे पश्चिमादिशि ॥ २४
पशुदृष्टिविनिर्मुक्ते एकहस्तप्रमाणतः ।
गोमयेन प्रकर्तव्यं मण्डलं चतुरस्रकम् ॥ २५
तन्मध्ये सूर्यबिम्बं तु मण्डलं वर्तुलं कुरु ।
अलिचन्दनकाश्मीरैः पञ्चप्रणवमन्त्रितम् ॥ २६
क्षिप्त्वा पञ्चार्णविद्यां तां दक्षहस्ततलारुहेत् ।
संयोगेन तु उत्थाप्य वामावर्तपरिभ्रमात् ॥ २७
मुष्टिं मध्ये ततो बध्वा अखण्डमिति मण्डलम् ।
पञ्चप्रणव कृत्वादौ प्राकाराष्टक विन्यसेत् ॥ २८
ऐन्द्रादारभ्य देवेश दिग्दिशाष्टौ क्रमेण तु ।
त्रिबीजैरारुहेत् तेषां ततो हस्तं समुद्धरेत् ॥ २९
दर्पणं शोधयेत् तत्र षोडशांगुलमानतः ।
त्रिगुणं चांगुलैकं तु भस्मना च विशोधयेत् ॥ ३०
स्थापयेद् देव्यशस्त्रेण कवचेनावगुण्ठयेत् त्रिकोणान्ते लिखेच्छक्तिं कौलेशीं च अधोमुखीम् ॥ ३१
तद्बाह्ये कारयेत् षट्कं मेखलात्रयभूषितम् ।
वीरपात्रमथारोप्य अनेन करणेन तु ॥ ३२
तस्या वक्त्रषडङ्गानि सबाह्याभ्यन्तरे न्यसेत् ।
क्षेत्रेशवटुकाभ्यां च योगिनीनां बलित्रयम् ॥ ३३
कृत्वादौ प्रारभेत् पूजां निर्विघ्ना सिद्धिरिष्यते ।
आनियाद् हेमकलशं तदभावेन रौप्यजम् ॥ ३४
ताम्रजं मृन्मयं वापि निर्व्रणं सुसमं शुभम् ।
कम्बुग्रीवोच्छ्रितं स्वर्णं बालबालुकवर्जितम् ॥ ३५
उदके पूर्वतः क्षाल्य अस्त्रराजेन शोधयेत् ।
अवगुण्ठ्य च वर्मेण अलिद्रव्येण पूरयेत् ॥ ३६
स्थापयेत् कोङ्कणास्त्रेण मण्डलाग्रे महेश्वर ।
कवचेनावगुण्ठेन मूर्त्यावेशस्तथात्मना ॥ ३७
विद्यान्यासं ततः कुर्याद् भादि चानुक्रमेण तु ।
क्रमार्चनमतः कुर्यात् पृथक्वर्णक्रमेण तु ॥ ३८
त्रिकोणान्ते तु विन्यस्य विद्यां पुष्पाञ्जलिं क्षिपेत् ।
संयोगेन तु विद्यायाः पीठषट्कं तु बाह्यतः ॥ ३९
पञ्चप्रणवसंयुक्ता ओंकारे पश्चिमे दले ।
आग्नेयां जालपीठं तु नैरृत्यां पौर्णगिर्यकम् ॥ ४०
पूर्वकोणे तु कामाख्यं वायुकोणे तु तिस्रकम् ।
ईशाने कोङ्कणं नाम उलिसिद्धाश्रयं पुनः ॥ ४१
त्रिष्कोणे तु भगीशाख्यः पूजितव्यः क्रमेण तु ।
सिद्धाङ्गपञ्चकं मध्ये षडङ्गं तु षडस्रके ॥ ४२
हृदयं कामरूपे तु शिरः पूर्णगिरिः स्मृतम् ।
शिखा जालन्धरे पीठे कवचं तिस्रसंज्ञके ॥ ४३
नेत्रमोंकारपीठे तु अस्त्रं चैव तु कोंकणे ।
तद्बाह्ये मेखलायां तु श्लोकानि द्वादशार्चयेत् ॥ ४४
अकारादिविसर्गान्ता स्वरचक्रेशिमेखला ।
कादिभान्तक्रमे सिद्धिर्द्वितीया बाह्यमेखला ॥ ४५
मादिसान्ता तृतीया च एतद् वै वर्णराशिकम् ।
मलयाधिवासितैः पुष्पैः श्वेतैः कुंकुमचर्चितैः ॥ ४६
दर्पणे च पुरा शुद्धैस्तथा सर्वोषधीषु च ।
सुगन्धेन तु धूपेन गोधूमादिकदीपकैः ॥ ४७
त्रिविधेन तु मद्येन क्षीरोदनगुडौदनैः ।
मांसौदनैस्त्रिभिर्देव आममांसेन कर्दमैः ॥ ४८
कुब्जिकाक्रममेतद्धि पूजयित्वा निवेदयेत् ।
कलशं पूजयेत् पश्चात् विद्यापुष्पांजलित्रिभिः ॥ ४९
चन्दनं कुंकुमादीनि आत्मानं च निवेदयेत् ।
ततोऽप्यर्घं च पुष्पानि द्वात्रिंशाक्षरसंख्यया ॥ ५०
जानुनी उभयौ भूमौ क्षिप्त्वा चार्घं तु विद्यया ।
विनिवेद्य महाचक्रे जपसंख्यामुदीरयेत् ॥ ५१
अम्बे सिद्धे तथाघोरे देहि मां परमेश्वरि ।
ममेप्सितां महासिद्धिं सर्वकामफलोदयाम् ॥ ५२
कुमार्यष्टौ ततः पूज्याः षट्कं च त्रयमेका वा ।
ततः सिद्धिं लभेन्मन्त्री आदिपर्वे न संशयः ॥ ५३
ब्रह्मचर्यव्रतं कुर्यात् कामक्रोधादि घातयेत् ।
ततः सिद्धिर्न संदेहो सेवनाद् गतिरिष्यते ॥ ५४
सहस्रादि च लक्षान्तं जपसंख्याविधिं शृणु ।
वामपाण्यक्षमाला या स्फाटिकैरथ पुत्रकैः ॥ ५५
पद्माक्षैर्वा प्रकर्तव्या यथालाभेन कारयेत् ।
अक्षसूत्रमलाभेन पाणिना जप्यमारभेत् ॥ ५६
आगमार्थविधानेन वामावर्तपरिभ्रमात् ।
तर्जनीवाममूलात् तु पूर्वारभ्य महेश्वर ॥ ५७
उपदेशं गुरोर्वक्त्राज्जपसिद्धिं लभेत् क्रमात् ।
स्थूलं वाप्यथ सूक्षमं वा न मेरुं लङ्घयेत् करे ॥ ५८
वर्जयित्वा तु तज्ज्येष्ठं कुर्यात् प्रान्तं चतुष्टयम् ।
पर्वसंख्याकृतं जप्यं मध्यमोभौ तु वर्जयेत् ॥ ५९
एवं क्रमविधानेन वामावर्तपरिभ्रमात् ।
गमागमेन मनसा हृद्गतं गमनं कुरु ॥ ६०
पूरकेन स्वकीयेन मनं कुम्भे प्रकल्पयेत् ।
रेचयित्वा ततः सिद्धिरिहलोके परत्र च ॥ ६१
यावदक्षरसंख्या च तावत् कुर्याच्च कुम्भकम् ।
वायुना सह वेगेन करोत्यावेशमुत्तमम् ॥ ६२
अनेनैव विधानेन न द्रुतं न विलम्बितम् ।
मध्यचारगतिं ज्ञात्वा जपं कुर्यात् त्रयोलिषु ॥ ६३
एवं पाणिकृतं जप्यं उत्तमं परिकीर्तितम् ।
अक्षसूत्रेण वा देव माहात्म्यमथवा शृणु ॥ ६४
सहस्रेण तु जप्तेन प्राप्तः शत्रुः परांमुखः ।
द्विभिः प्रवर्तते तेजस्त्रिभिरैश्वर्यसंपदः ॥ ६५
चतुर्भिर्जनसौभाग्यं आयुरारोग्यं पञ्चभिः ।
ज्ञानप्राप्तिर्भवेत् षड्भिरवस्था सप्तभिर्भवेत् ॥ ६६
अष्टाभिः पश्यते किञ्चिद् दिव्यरूपं कुलात्मकम् ।
नवभिर्लभते योगं निर्वाणं खेचरक्रमम् ॥ ६७
दशभिर्वर्तते वेधं मुद्रास्फोटं तु विंशभिः ।
मारणं त्रिंशभिश्चैव चत्वारिंशभिः स्तम्भनम् ॥ ६८
रणे राजकुले द्यूते विवादे शत्रुमध्यतः ।
शिलानां भेदनं स्तोभं वृक्षाणां पातनं तथा ॥ ६९
पञ्चाशद्भिः सहस्रैस्तु जपितैर्नात्र संशयः ।
षष्टिभिश्च सहस्रैस्तु देवकन्या तिलोत्तमा ॥ ७०
वशं याति न संदेहो मानुषेषु च का कथा ।
राजानः मण्डलीकास्तु अन्तःपुरनिवासिनः ॥ ७१
ये चान्ये मानवा लोके आज्ञाश्रवणतत्पराः ।
सप्ततिभिः सहस्रैश्च वेतालान्यभिसाधयेत् ॥ ७२
तथा चराचरं देव महिषासुरदानवम् ।
ब्रह्मा सम्पद्यते मूर्तौ स्वयंरूपेण देहिना ॥ ७३
पाताले भुञ्जते भोगान् कन्याभिः सह क्रीडते ।
अशीतिभिः सहस्रैस्तु जपितैर्नात्र संशयः ॥ ७४
नवतिभिर्भवेद् विष्णुः स्वयं मर्त्यतनुः प्रिय ।
पृथिव्याधिपतिर्भूत्वा एकच्छत्रेण भुञ्जते ॥ ७५
लक्षैकेन स्वयं रुद्रो भवे तिष्ठति मानवः ।
विमानं तस्य चायाति पञ्चचामरभूषितम् ॥ ७६
देव्यष्टकसमोपेतं चतुःषष्टिभिरावृतम् ।
वेष्टितं बहुभिः सिद्धैस्तारानक्षत्रमण्डलैः ॥ ७७
भवेत् कलौ महासिद्धः साधको विद्यया युतः ।
व्रजते च खमार्गेण यत्रस्था भैरवी स्वयम् ॥ ७८
वसते तत्र मध्ये तु भवते अजरामरः ।
यथाहं देवदेवेश तथासौ साधकोत्तमः ॥ ७९
इच्छारूपधरः श्रीमान् लक्षजापेन खेचरः ।
त्रैलोक्ये क्रीडतेऽसौ वै कामरूपी महाबलः ॥ ८०
क्षणाच्च शाङ्करं रूपं क्षणाद् रूपं च वैष्णवम् ।
क्षणाद् ब्राह्मं च ऐन्द्रं च सौरं चान्द्रं क्षणेन तु ॥ ८१
क्षणान्नारायणं रूपं क्षणाद् वै मारुतं भवेत् ।
क्षणाच्चापि ज्वलद्रूपं स्थूलं सूक्ष्मं क्षणात् क्षणात् ॥ ८२
क्षणात् पक्षिणमाकाशे क्षणात् सिंहं महावने ।
मार्जारं च शृगालं च श्वानमुष्ट्रं च गर्दभम् ॥ ८३
वृषं चैव तु मेषं च उलूकं च तथैव च ।
व्याघ्रं चैव तु ऋक्षं च मृगं वाथ महाद्विपम् ॥ ८४
क्षणाच्च मानुषे लोके नानारूपधरो भवेत् ।
एवं संजायते सिद्धिर्भवते अजरामरः ॥ ८५
निश्चयात् लक्षजापेन साधकस्य तु खेगतिः ।
यत्र यत्र मनो याति तत्र तत्र महाश्रियः ॥ ८६
यद् यद् कामयते कामं तत् तत् क्षणात् प्रवर्तते ।
न तस्य दुर्गमं स्थानं भ्रमतेऽसौ पतङ्गवत् ॥ ८७
मत्तमातङ्गयूथानां हनत्येकोऽपि केशरी ।
तथासौ भवदेवानां हनति साधकोत्तमः ॥ ८८
त्वत्तुल्यः साधकेन्द्रस्तु विद्ययाभ्यसनाद् भवेत् ।
एकवृक्षे श्मशाने च गत्वा चैव चतुष्पथे ॥ ८९
अटव्यां निर्जने स्थाने शून्ये देवगृहे तु च ।
एषु स्थानेषु कर्तव्यं विद्याजापमनन्तकम् ॥ ९०
पूजाकाले तु सुभग निशाचारेण कौलवित् ।
परिभ्राजितचित्तस्य संसारे विरतात्मनः ॥ ९१
तस्यैषा सिद्धिराख्याता विद्याराधनकर्मणि ।
न च मायावृतस्यैव गृहस्थस्य तु भैरव ॥ ९२
गृहे सिद्धिस्तथा नैव भुक्तिमुक्तिमवाप्नुयात् ।
इहैव जीवलोकेऽस्मिन् जीवन्मुक्ता न संशयः ॥ ९३
विद्यापूजारता ये तु तन्मनास्तत्परायणाः ।
गत्वा वै आदिपीठे तु अथवा पूर्णगिर्यके ॥ ९४
जालाख्ये त्वथवा देव तथा श्रीकामरूपके ।
सिद्ध्यन्ते च न संदेहो न तेषां परिवेदना ॥ ९५
यस्य एषा महाविद्या मुखे तिष्ठति नित्यशः ।
स सर्वविघ्ननिर्मुक्तो जयं सर्वत्र आप्नुयात् ॥ ९६
रणे राजकुले द्यूते शत्रुमध्ये जलाग्निषु ।
अटव्यां विषमे दुर्गे तथा चौरपथेषु च ॥ ९७
वृश्चिके विषसर्पेषु गजोन्मत्तवृषेषु च ।
उल्कापाते च दिग्दाघे योगिनीगणमध्यतः ॥ ९८
निशाचारैकवृक्षे वा वज्रपाते चतुष्पथे ।
संग्रामे समये चक्रे पीठे क्षेत्रे त्वेवादिषु ॥ ९९
शुभं च प्रप्नुयाद् योगी अस्य विद्याप्रभावतः ।
इत्याद्यावतारे महामन्थान्भैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते विद्याजप्यार्घविधानो नामानन्दः ॥ ११ ॥
Kumārikākhaṇḍa – Kapitel १२
द्वादशानन्दः
श्रीवक्रा उवाच
जयं भवति देवेश यस्य विद्या हृदि स्थिता ।
सुखमारोग्यकल्याणं चिरायुः शौर्यवृत्तिश्च ॥ १
प्रभा दीप्तिश्च कान्तिश्च विद्ययाभ्यसनाद् भवेत् ।
भविष्यति न संदेहो का चिन्ता मरणे रणे ॥ २
यस्य विद्या भवेत् सिद्धा दुर्लभा महतारिका ।
तस्य सिद्धिः करे बद्धा स सिद्धो नात्र संशयः ॥ ३
गोहत्यानां सहस्रैकं लक्षैकं ब्रह्महत्यानाम् ।
तथान्ये मायजाः पापाः नश्यन्ते नात्र संशयः ॥ ४
विद्या स्मरितमात्रा या अशुभं च विनश्यति ।
मिष्टान्नभोजनं पानं दिव्यभोगं रसायनम् ॥ ५
शयनं चोत्तमं यानं वस्त्राभरणभूषणम् ।
सकृत्स्मरणमात्रेण विद्यावेशात् प्रवर्तते ॥ ६
पदार्थमर्थविज्ञानं सर्वस्वं पुत्रपौत्रकम् ।
परमार्थं परं ज्ञानं विद्यावेशात् प्रवर्तते ॥ ७
परं तत्त्वं परावस्था परं योगमरूपकम् ।
परं सौभाग्यमतुलं विद्यावेशात् प्रवर्तते ॥ ८
पराज्ञा परमानन्दं परं वाग्भवशासनम् ।
सकृत्स्मरणमात्रेण विद्यावेशात् प्रवर्तते ॥ ९
शाम्भवं शक्तिविज्ञानं वैष्णवं सौरसंहिता ।
बौद्धादि आरहन्ताश्च चान्द्रायणपरायणम् ॥ १०
क्षुभ्यन्ति च षडङ्गानि विद्यावेशान्न चान्यथा ।
शैवसिद्धादिसिद्धान्ता लाकुलास्तुम्बुरादयः ॥ ११
नित्यातन्त्रादिका ये च विद्यावेशात् प्रवर्तते ।
वैदिकं गारुडं तन्त्रं सुतन्त्रशब्दलक्षणम् ॥ १२
योगं परमनिर्वाणं विद्यावेशात् प्रवर्तते ।
यत् सर्वसात्विकं ज्ञानं मर्त्यलोके व्यवस्थितम् ॥ १३
सकृत्स्मरणमात्रेण विद्यावेशात् प्रवर्तते ।
ये केचिच्छास्त्रसंघाता नित्यातन्त्रादि सर्वशः ॥ १४
क्षुभ्यन्ति देवदेवेश विद्यया परमेश्वर ।
तावत् गर्जन्ति तन्त्राणि स्वच्छन्दादीन्यनेकशः ॥ १५
द्वात्रिंशाक्षरविद्यायाः कलां नार्हन्ति षोडशीम् ।
यथा दन्तिसहस्राणि सिंहस्यैव परांमुखाः ॥ १६
तथा विद्याश्च मन्त्राश्च विमुखाः प्राप्तविद्यया ।
निशायां च शशिर्यद्वत् आप्यायेत् सचराचरम् ॥ १७
तथैषा पूर्णभेदेन आप्यायनकरी भवेत् ।
यथा दीपः प्रदीप्तस्तु अन्धकारं विनाशयेत् ॥ १८
तेषां च पटलं घोरं छेदयेन्नात्र संशयः ।
तथा श्रीश्रीकुजाविद्या षट्प्रकारा वरानन ॥ १९
दहते नात्र संदेहो देहस्थं पापसंचयं ।
शुभाशुभं च यत् कर्म सप्तजन्मान्तरार्जितम् ॥ २०
तत् सर्वं विलयं याति विद्याभ्यासान्न संशयः ।
ये केचित् शास्त्रसंघाता मन्त्रा विद्याद्यनेकशः ॥ २१
तस्य विद्याप्रभावस्य कलां नार्हन्ति षोडशीम् ।
श्रीनाथ उवाच
युक्तमुक्तं प्रभावोऽयं विद्याभ्यासेन नान्यथा ॥ २२
परं जप्यरतानां तु किं न सिद्ध्यन्ति साधकाः ।
तत् किमर्थं महादेवि संशयं छेत्तुमर्हसि ॥ २३
श्रीवक्रा उवाच
मानवा दुर्भगा देव विद्याहंकारगर्विताः ।
जातिशीलविनिर्मुक्ता अगम्यगमनोद्यताः ॥ २४
अभक्ष्यभक्षणरताः कलहन्ति यतस्ततः ।
प्राणिभङ्गं प्रकुर्वन्ति बहुलोभसमन्विताः ॥ २५
बहुकामप्रसक्ताश्च बहुशास्त्रार्थचिन्तकाः ।
उद्ग्राहयन्ति तर्कार्थं विवदन्ति परस्परम् ॥ २६
महामायाविमोहेन अर्थसंग्रहणादिषु ।
कुकर्माणि प्रकुर्वन्ति निन्दां रागं चरन्ति च ॥ २७
समयानि न मन्यन्ते गुर्वाज्ञालोपकारकाः ।
गुरुद्रोहं प्रकुर्वन्ति समयद्रोहं वरानन ॥ २८
तेन ते सिद्धिनिर्मुक्ताः विद्ययाभ्यासनादपि ।
तपोभ्रष्टा नरा ये च तेषां संख्या न विद्यते ॥ २९
तृप्ता मद्येन मांसेन परस्त्रीरमणोत्सुकाः ।
अगम्यगमनाद् देव भुक्तिमुक्तिर्न विद्यते ॥ ३०
श्वपचास्ते समाख्याताः प्राकृताः श्वानकुक्कुटाः ।
पिबन्ति स्वेच्छया मद्यं मांसं खादन्ति स्वेच्छया ॥ ३१
अगम्यगमनं यान्ति अज्ञानपटलावृताः ।
न तेषां मुक्तिरस्तीह संयमान्मुक्तिरिष्यते ॥ ३२
बहुपानात् कुतो मुक्तिरिच्छाभोगे तथैव च ।
अगम्यगमनाचाराद् अभक्षस्य च भक्षणात् ॥ ३३
विकर्मणा कुतो मुक्तिरर्थलोभात् कुतो भवेत् ।
पापिष्ठां दर्पदुष्टानां दूषकां तन्त्रवादिनाम् ॥ ३४
कुमार्गेषु प्रसक्तानां न सिद्धिर्विद्यते क्वचित् ।
आगमार्थविनिर्मुक्ताः समयाचारलोपकाः ॥ ३५
न तेषां साधने सिद्धिर्न च ते मोक्षभाजनाः ।
एवंभूतगुणाः शिष्याः साधकाचार्यपुत्रकाः ॥ ३६
विद्याराधनशीला हि भवन्ते सिद्धिभाजनाः ।
गुरुभक्ता विनीताश्च समयाचारपालकाः ॥ ३७
द्वैताचारपदारूढा मकारत्रयवर्जिताः ।
निर्लोभाः सदयाः शान्ताः नित्यानन्दरताः सदा ॥ ३८
आगमार्थरता धीराः तर्कशास्त्रमुपेक्षकाः ।
अनुरक्ताश्च भक्ताश्च सर्वजीवदयापराः ॥ ३९
एवंगुणविशिष्टा ये सिद्ध्यन्ते ह्यविचारतः ।
एतेषां सिद्ध्यते विद्या अन्येषां न कदाचन ॥ ४०
पारम्पर्यागता विद्या अर्घसंस्कारमण्डले ।
संस्फुटा यावन्न ज्ञात्वा तावत् सिद्धिं कुतो लभेत् ॥ ४१
अन्यग्रन्थाद् विनिष्क्रान्ता जातिभेदेन संयुता ।
सिद्धिदा सा न विज्ञेया अन्वये पश्चिमे गृहे ॥ ४२
तस्मात् सर्वप्रयत्नेन गुरुवक्त्रात् समभ्यसेत् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभषिते विद्यामाहात्म्यवर्णनाधिकारे क्रमोदयो नामानन्दः ॥ १२ ॥
Kumārikākhaṇḍa – Kapitel १३
त्रयोदशानन्दः
श्रीनाथ उवाच
शिवेति कथितं नाम स कथं गम्यते जगत् ।
वैकल्पेन अपूर्णत्वात् कथं कर्तृत्वमाप्नुयात् ॥ १
कथं वा भुञ्जते भोगान् संसारति तमाश्रितः ।
मृत्युरस्ति कथं तस्य सत्यमाख्याहि निर्णयम् ॥ २
श्रीवक्रा उवाच
सर्वश्रेष्ठं परं शान्तं अवर्णतत्त्वमाश्रितम् ।
ज्योतिरूपं निराभासं अनन्तं सततोदितम् ॥ ३
अप्रतर्क्यमिदं ज्ञेयं स्वयं मुक्तं च संस्थितम् ।
अच्छेद्यं च अभेद्यं च अलेप्यं च परापरम् ॥ ४
ब्रह्मा विष्णुश्च रुद्राद्यः अमृतं जीवमाश्रितम् ।
परानन्दस्वरूपेण नित्यानन्दपरायणम् ॥ ५
निरानन्दमयं शान्तं कारणाष्टकवर्जितम् ।
गुणतत्त्वविनिर्मुक्तं हेयोपादेयवर्जितम् ॥ ६
न तस्य गर्भसंभूतिः सर्वावस्थगतो विभुः ।
स कर्ता न परः कश्चिदशरीरः शिवः प्रभुः ॥ ७
तस्येच्छा निर्गता शक्तिर्नादरूपा चिदात्मिका ।
तयासौ नीयते तत्त्वे अधोमूर्तेस्तु धारणात् ॥ ८
तत्त्वैर्युक्ता यदा भाति तदा तन्मयतां गतः ।
मूर्तभूतोऽप्यमूर्तस्तु स्वभावादपि निर्मलः ॥ ९
महामायाश्रितो यस्मात् तस्मात् कर्ता स कर्मणि ।
जायते व्रजते देहे तत्त्वैर्युक्तममलकः ॥ १०
मायातत्त्वेन लिपस्तु तदा भोगांश्च भुञ्जति ।
भोग्यक्षये भवेत् दुःखं रमते पूर्वधिष्ठितः ॥ ११
मायाजं कर्मजं चैव ऐहिकं तत्त्वमाश्रितम् ।
त्रिविधस्तु मलः प्रोक्तः सत्त्वरजस्तमेरितः ॥ १२
मायाजं सत्त्वमारूढं स्वाभाविकं शिवेच्छया ।
शक्त्यावेशेन संप्राप्ते समले तु यदात्मनि ॥ १३
तदा कर्मजसंप्राप्तिः भावसंस्थितिचित्पुरे ।
तदा संभवते भूय ऐहिकस्तु महामलः ॥ १४
तस्यैव दहनं कुर्यात् शक्तिपातेन मन्त्रवित् ।
परानन्दस्वरूपेण शक्तिनाक्रम्य पूर्ववत् ॥ १५
आक्रान्तं पूर्वकारणं अधोर्ध्वं च विघट्टितम् ।
शक्तिर्दीपशिखाकारा आनन्दत्वं समुद्धरेत् ॥ १६
महामाया मलस्तत्र शोध्याध्वनि च लीलया ।
नीयते तेन सा ऊर्ध्वे ऊर्णातन्तुनिनादवत् ॥ १७
ब्रह्मघोषेण बलवान् प्राक्तनं यन्मलं दहेत् ।
तस्योर्ध्वे परमा शक्तिः शिवेन सह संस्थिता ॥ १८
लीयते परमे व्योम्नि परे धाम्नि विनिक्षिपेत् ।
ऐहिकं शोधयेत् तत्र मलस्त्यजति काञ्चनम् ॥ १९
त्रिविधस्तु समासेन शिवेन परमात्मना ।
शक्तिसंगमकाले तु प्राप्तमेतन्मलत्रयम् ॥ २०
आत्मान्तरे कृतं शून्यं रुद्रशक्तिप्रभावतः ।
मलशुद्धिस्तदा तस्य निर्मलत्वं प्रपद्यते ॥ २१
प्रकृतिस्थो यदा मुञ्चेज्जन्मसंसारबन्धनात् ।
आत्मनात्मा पुरा शोध्यः शक्तिपातेन प्रत्ययात् ॥ २२
तदा मलक्षयं तस्य देहं तिष्ठति केवलम् ।
तत्त्वैर्युक्तो यदा युक्तः पुण्यपापक्षये सति ॥ २३
कर्मक्षयेऽपि संप्राप्ते मुक्तिरस्ति न संशयः ।
विशुद्धं काञ्चनं यद्वन्नागसंगाद् विनश्यति ॥ २४
एवं विशुद्धशान्तात्मा मायासंगाद् विनश्यति ।
दीक्षामात्रेण शिष्यस्य संभवेद् गतिरुत्तमा ॥ २५
शक्तिपातेन संशुद्धिर्मलस्त्यजति काञ्चनम् ।
त्रिविधस्तु समासेन शिवेन परमात्मना ॥ २६
त्यज्यते वेधपाकेन मन्त्राभ्यासेन लीलया ।
मलपाकमिदं प्रोक्तं त्रिविधं त्रिस्वरूप्तः ॥ २७
स्थूलं सूक्ष्मं परं चैव भित्त्वा शुद्धतनुर्भवेत् ।
सतताभ्यासयोगेन विद्रवेत मलत्रयम् ॥ २८
मायामलविनिर्मुक्तः स भवेत् ज्ञानचक्षुषा ।
जीवन्मुक्तस्तु योगीशोऽयं यदा चरते शिवः ॥ २९
तेन तस्य न लेपोऽस्ति पद्मपत्रमिवाम्भसि ।
बिन्दुमध्यगतस्यैव तत्त्वैर्युक्तस्य चेच्छया ॥ ३०
शिवस्यैव न लेपोऽस्ति योगाभ्यासाच्च तत्त्ववित् ।
प्रत्ययाज्ञास्वरूपेण विद्धस्यैवं मलक्षयम् ॥ ३१
संसारावधि संप्राप्य तत्त्वं यास्यति व्युत्क्रमात् ।
पृथिवी पार्थिवे याति आपो वरुणमण्डले ॥ ३२
तेजो ह्यग्नौ लयं याति मारुतो वायुमण्डले ।
आकाशं व्योम्नि मध्ये तु व्रजते तत्त्वपञ्चकम् ॥ ३३
शब्दं लीयते चाकाशे स्पर्शं वै वायुमूर्धनि ।
रसं वै जलमध्ये तु रूपं तेजोमुखे हुतम् ॥ ३४
पार्थिवे लीयते गन्धं तन्मात्रमिति पञ्चकम् ।
वाचा वागीश्वरे तत्त्वे पाणिः करणपञ्चके ॥ ३५
पादौ लीयति पाताले पायुर्वै वायुमण्डले ।
उपस्थं व्योम्नि मध्ये तु इत्येतत् कर्मपञ्चकम् ॥ ३६
बुद्धीन्द्रियेषु संपर्कात् तल्लयं च तथा भवेत् ।
श्रोत्रं लीयति शब्देऽस्मिन् त्वचं च पिशिते तथा ॥ ३७
चक्षुर्लीयति चन्द्रार्के जिह्वा वै राहुमण्डले ।
नासिका गन्धतत्त्वे तु अत ऊर्ध्वं चतुष्टयम् ॥ ३८
मनो लीयति बिन्दौ च विद्यातत्त्वे धियः पुनः ।
अहंकारः शिवस्यान्ते प्रकृतेः सर्वतो लयः ॥ ३९
धर्मकामार्थवशगं चतुर्विंशात्मकं कुलम् ।
लयं याति इडापात्रे मोक्षवर्गे चतुर्थके ॥ ४०
शक्तिपातेन संपातात् शिष्यस्य विनिवर्तते ।
व्रजते मायया रिक्तो कैलासं सर्वमूर्धनि ॥ ४१
तेन मृत्युरियं चात्र चतुर्विंशात्मकस्य च ।
न मृत्युः शिवतत्त्वस्य अपवर्गगतस्य च ॥ ४२
मायाकरणवैकल्ये शक्तिपातेन प्रत्ययात् ।
विद्यते तच्छिवो ह्येको दर्पणे च यथा मुखम् ॥ ४३
अभीत्वा प्रविशेत् तत्र कुलस्यान्तर्गतः प्रभुः ।
जरामरणनिर्मुक्तो मोक्षं च अन्तजन्मनि ॥ ४४
यथा एकमनेकञ्च योगाभ्यासेन तत्त्ववित् ।
प्रत्ययाज्ञास्वभावस्य विद्धस्यैव च प्रत्ययः ॥ ४५
मलपाते वशं प्राप्ते मुक्तीह कुलदर्शने ।
न मुक्तिर्हेतुवादेभ्यो अविद्धस्य न तिष्ठति ॥ ४६
दीक्षामन्त्रविहीनस्य विना च मलशोधनम् ।
तस्य पूर्ववशात् कर्म प्रसज्यते मुहुर्मुहुः ॥ ४७
मलं त्रिविधमाधत्ते स्वयमात्मावशोत्तरे ।
अविदित्वा परं तत्त्वं तत्र बद्धो न मुच्यते ॥ ४८
नोपवासादितीर्थेभ्यो न व्रतशोधितात्मनि ।
अनशने सोमसूर्यराहुग्रस्ते रणेऽपि वा ॥ ४९
शरणागतसंबन्धे गोग्रहे वा जलाग्निषु ।
देवायतनमूलेषु वाराणस्यां जलेश्वरे ॥ ५०
केदारादिषु सर्वत्र कुरुक्षेत्रे रणेऽपि वा ।
न मुक्तिरस्ति भूतानां वृथाः क्लिश्यन्ति ते जनाः ॥ ५१
किन्तु स्वर्गमवाप्यन्ते अष्टधागुणो वर्तते ।
ऋणशेषः प्रवर्तते मर्त्ये भुवनमण्डले ॥ ५२
शुभाशुभे च संप्राप्ते भुञ्जते सुखदुःखयोः ।
कर्मक्षयं विना तेषां कथं मुक्तिर्विधीयते ॥ ५३
दीक्षामात्रादनभ्यासात् शक्तिपातेन निश्चयात् ।
मलशुद्धिमवाप्नोति कम्पस्तोभादिप्रत्ययान् ॥ ५४
भुक्तीह सर्वसामान्या प्रकृतिः पुरुषेच्छया ।
प्रकृतिः पुरुषाधारा स्वकर्मणा इहोच्यते ॥ ५५
शून्ये शून्यमनाश्रित्य निराशीति परिग्रहः ।
नास्तिभावपदारुह्य भावसिद्धिस्तदा भवेत् ॥ ५६
प्रत्यक्षे बहिकर्माणि स्वयं भूतानि यानि वै ।
तान्येव विधिपूर्वेण शोध्यान्यनेन मन्त्रवित् ॥ ५७
श्रीनाथ उवाच
एवं मायाश्रितोऽनन्तमायाकर्मसमुच्चयः ।
मायाबीजं कथं तस्मात् वेधनं भुवनत्रये ॥ ५८
तेन संस्मृतमात्रेण किं फलं भवते नृणाम् ।
शरीरस्य यथातथ्यं सप्तधातुविमिश्रणम् ॥ ५९
एवं तत्त्वप्रमाणं तु अस्थिनाडिपरिग्रहम् ।
कथं व्यक्तपुरे चात्र देहे देहे तथोदितम् ॥ ६०
तथाविधरूपेण ब्रूहि सर्वं तु मे उमे ।
श्रीवक्रा उवाच
आदौ तन्वी परा देवी दण्डिनी चारुनन्दिता ॥ ६१
स्वरहीना महामाया प्रज्वलन्ती शिवासने ।
ऋजुः स्पष्टा महौघेन स्मरेत् तां योनिमुद्रिताम् ॥ ६२
खेचरीमूलमाश्रित्य शिवेन सह जल्पते ।
नीयते हृद्गुहान्ते च कदम्बकुसुमत्विषा ॥ ६३
संस्मरेद् ज्ञानचन्द्रेण बिन्दुचक्रे च मूर्धनि ।
नीयते परमे व्योम्नि हिमकुन्देन्दुनिर्मला ॥ ६४
क्षीयमाणां स्मरेद् वक्रां नासिकाग्रे लयं कुरु ।
सदानन्दमहौघं तु वर्तते गिरिजात्मजे ॥ ६५
मायाविध्वंसनं सम्यक् योगावेशनधारणात् ।
लयोत्पत्तिविपत्तिञ्च कृत्वा आचारवान् भवेत् ॥ ६६
विध्वस्तमायाचैतन्या शुद्धस्फटिकनिर्मला ।
करणेन सदाभ्यासाद् योगनिद्रा ततो भवेत् ॥ ६७
मायाकरणसंबन्धं कथितं सिद्धिहेतवे ।
मुमुक्षूणां विमुक्त्यर्थं शक्तिभेदं परापरम् ॥ ६८
श्रीनाथ उवाच
उदयास्तमनं चाद्यं तच्च क्रमात् कथं विदुः ।
निग्रहानुग्रहे शाक्ते आणवे शाम्भवे क्रमे ॥ ६९
श्रीवक्रा उवाच
निग्रहस्य च संशुद्धिरन्तर्यागे विशोधयेत् ।
या सा शिवमयी पूर्वं उद्धृता भैरवागमे ॥ ७०
तया कर्मक्षयः स्वान्तदेहे पूर्वं क्रमार्चनात् ।
श्रीनाथ उवाच
आदौ कर्म कथं प्रोक्तं क्षये तस्य किमोषधिः ॥ ७१
कथं शुद्धिर्मनुष्याणां मोक्षमार्गं कथं वद ।
श्रीवक्रा उवाच
तान्त्रिकाः कर्मसंशुद्धिं न विन्दन्ति यथात्मनः ॥ ७२
तेन तेषां न मुक्तीह अस्तीति कुलशासने ।
प्रभुत्वे च शिवः कर्ता भूतग्रामे चतुर्विधे ॥ ७३
परमात्मा निराकाशः सावकाशात् समुद्भवः ।
स्वयंभू कारणं लोके शून्यभूतमचेतनम् ॥ ७४
अस्वतन्त्रं यदा जीवं चाराचारविवर्जितम् ।
शून्यभूतात्मकं लोके योगाभ्यासात् प्रवर्तते ॥ ७५
तस्यापि चोर्ध्वचैतन्यं निमित्तं ज्ञानभास्करम् ।
उदयास्तमनैकत्वे राजते बोधरूपकम् ॥ ७६
कामस्य विषतत्त्वस्य निरञ्जनान्तर्गस्य च ।
चन्द्रार्कप्रतिबिम्बं च निष्कलं तरितात्मजम् ॥ ७७
ताप्यमानं स्वयं तिष्ठेद् भारूपं तिमिरापहम् ।
पुरुषः सर्वसामान्यो भरणादपि भैरवः ॥ ७८
निर्मलः सकलो व्यापी क्षीरमध्ये यथा घृतम् ।
प्रच्छन्नं परमानन्दं शिवतत्त्वं निरञ्जनम् ॥ ७९
अभेद्यमव्ययं शान्तं सर्वोक्तं सर्वतोमुखम् ।
तस्येच्छा निर्गता शक्तिरृजुरेखा ह्यधोमुखी ॥ ८०
विसर्गमध्यगा भीमा अग्निज्वाला सुवर्चसा ।
व्यापिका सृष्टिमार्गस्य धर्माधर्मात्मके पदे ॥ ८१
स्वाभाविकी कला माया सृष्टिहेतोः समुद्भवा ।
गुणत्रयधरात्युग्रा नादरूपा मनोन्मनी ॥ ८२
दण्डाकारा निराकारा साकारा शिवदेवता ।
मायामलमिदं कर्म निष्कलस्य समुद्भवम् ॥ ८३
तेनासौ सकलो योगी मायातत्त्वोपरिस्थितः ।
एवं मायामलं पूर्वं बन्धनं तस्य नामतः ॥ ८४
सृष्टेः स्थितेश्च संहारे कर्तृत्वे कर्मपाशकम् ।
पञ्चभौतिकब्रह्माद्याः संसृष्टेरवतारकाः ॥ ८५
कृत्रिमं सहजं नैव भौतमाभोगवेष्टितम् ।
मायामोहेन संतप्तं बिन्दुरात्मा जगोत्तरे ॥ ८६
सा चैव प्रकृतिर्व्यापी कर्मबन्धात्मिकी भवेत् ।
स पशुः पाशबन्धेन आक्रान्तः च गुणत्रये ॥ ८७
सत्त्वेन कुरुते कर्म कामश्च रजवर्तिनः ।
तमाविष्टः स्मरेत् पापान् सुखदुःखवशंगतः ॥ ८८
भुञ्जते स्वर्गनरकं अविदित्वा न मुच्यते ।
सुकृतं दुष्कृतं भुंक्ते इष्टानिष्टं मनेप्सितम् ॥ ८९
एवं मानापमानौ च वेदितव्यौ मलस्य च ।
ब्राह्मे च वैष्णवे लोके ऐन्द्रे चैव शशिप्रभे ॥ ९०
यक्षलोके च गान्धर्वे रक्षपैशाचिके कुले ।
स्वर्गे चाष्टविधे कर्मभोगान् भुञ्जति भैरव ॥ ९१
अशुभे च कृते पापे नरकं गच्छते क्षणात् ।
मर्त्यलोके महाघोरे पशुयोनौ मृगे तथा ॥ ९२
पतति नरके घोरे शरीषु स्थावरेष्वपि ।
व्यापितं कर्मपाशेन स विन्दति शुभाशुभम् ॥ ९३
तेन कर्मवशाद् योगी विश्वरूपो मणिर्यथा ।
कर्मच्छेदेन चाभ्यासात् तदा निर्वाणमाविशेत् ॥ ९४
भुवनान्तर्गतः तिष्ठेद् व्योमव्यापी स भैरवः ।
मायाविध्वस्तजीवाख्यो अपरे पश्चिमे पुरे ॥ ९५
जायते रत्नतुङ्गे तु तेन मोक्षो विधीयते ।
इति ज्ञात्वा यथा तस्य मलपातं तु कारयेत् ॥ ९६
श्रीनाथ उवाच
एवं स्वाभाविकं तस्य कर्मायत्तं मलत्रयम् ।
प्राकृतं मानसं चैव मायामोहाद् भवार्णवम् ॥ ९७
क्षयं तेषां कथं उग्रे क्रमेऽस्मिन् संप्रगीयते ।
श्रीवक्रा उवाच
निरोधकरणं कृत्वा पञ्चोत्थं मण्डलक्रमम् ॥ ९८
योनिमुद्रां समाश्रित्य भैरवीं मायया युताम् ।
कुम्भककरणाधिष्ठाय येनोर्ध्वं * व्रजेन्मणिः ॥ ९९
शनैः शनैरुपरमेद् यावद् रौद्रीं च मूर्धनि ।
तदावेशेन जगतो मलविध्वंसनं भवेत् ॥ १००
मायास्तमनमेतद् वै निर्मलं काञ्चनं भवेत् ।
धुननावेशनं कम्पं निद्रा घूर्मिः पिपीलिका ॥ १०१
एकाङ्गनर्तना भाषा अश्रुपातं कुरङ्गवत् ।
प्लुतिभेदं सिंहशब्दं इत्येकादश प्रत्ययाः ॥ १०२
रुद्रभागे पदे प्राप्ते तुर्योर्ध्वे लयतां गते ।
नश्यन्ति सर्वकर्माणि तस्मिन् दृष्टे परापरे ॥ १०३
परानन्दस्वरूपेण भवेदानन्दविग्रहः ।
दहनाप्यायभेदोऽयं ज्ञात्वा कर्मक्षयो भवेत् ॥ १०४
मुक्तं ज्ञानाश्रितं देहं कृत्वा क्रमात् क्रमार्चनम् ।
पशुपाशविनिर्मुक्तः पतते ज्ञानमण्डले ॥ १०५
आज्ञाप्रत्ययमावेशं रोमाञ्चं च मुहुर्मुहुः ।
अन्वयं पूजयेन्नित्यं अन्वयं पूर्वसंग्रहम् ॥ १०६
मुहुर्मुहुः क्रमाभ्यासाल्लक्षजापेन खेगतिः ।
पञ्चमूर्तिधरेन्द्रस्य शिवस्य दक्षिणापथे ॥ १०७
यदा कलियुगे घोरे तदा तं पूजयेत् क्रमात् ।
इत्याज्ञा मलपातेन निष्कला सकलागमे ॥ १०८
गुर्वाम्नायेन इत्युक्ता न चोक्ता अन्यदर्शने ।
मयावतारितं तुभ्यं आश्रमं क्रमपञ्चकम् ॥ १०९
श्रीभैरव उवाच
महत् कर्मविपाकं तु ज्ञातमद्य मया स्फुटम् ।
दहनं च कथं तस्य ओलीनां क्रममण्डले ॥ ११०
श्रीवक्रा उवाच
पुनरन्यक्रमेणैव अन्तर्यागस्य निर्णयम् ।
क्रमेऽस्मिन् वृद्धकौमारे सिद्धगुह्ये कुलकन्दरे ॥ १११
क्रमस्य पूरको मन्त्री वज्राविष्टेन साधकः ।
स्वमुद्रायोगिनीपाणौ कृत्वा चित्तमधोन्मुखम् ॥ ११२
मुद्रामडलकं वृत्तं आश्रमं पारमेश्वरम् ।
तप्तहेममयं शुद्धं तस्य मध्ये च वर्तुलम् ॥ ११३
आरक्तं रविबिम्बं तु दक्षावर्तपरिभ्रमात् ।
तस्य मध्येऽखण्डचक्रं आरक्तं ज्योतिसन्निभम् ॥ ११४
तस्य मध्ये परं द्वीपं गोक्षीरं शान्तवारुणम् ।
भ्रमन्तं संस्मरेत् तत्र ओलित्रितयशासने ॥ ११५
जन्मचक्रे जगन्नाथ तन्मध्ये बिन्दुमण्डलम् ।
अलातपुष्पसंकाशं वामावर्तपरिभ्रमात् ॥ ११६
तदन्तरगता विद्या या परा परमेश्वरी ।
सा शक्तिर्भीमरूपेण ज्योतिरूपा मनोन्मनी ॥ ११७
दीपवर्तिशिखा घोरा ज्वालिनी धूम्रवर्जिता ।
रुद्रकोटिसहस्राभा रुद्रशक्तिः परापरा ॥ ११८
रुद्रकोटिधरो बिन्दुः शक्तिराभूमिसंप्लवः ।
तस्य तेजः परा शक्तिः रुद्रशक्तिर्महेश्वरी ॥ ११९
वक्ररूपा शिवेन्द्रेण भाविताज्ञास्वभावतः ।
चित्स्वरूपा विकासा तु श्रीदेवी कुलकुब्जिका ॥ १२०
प्रज्वलन्ती स्वकिरणैश्चतुर्भिः रौद्रमण्डले ।
एवं तां गूढरोधेन संस्मरेत् किरणावलीम् ॥ १२१
निःश्वासमेकभावेन शिष्यदेहं विशोधयेत् ।
आकम्पो रोमहर्षश्च वर्तते दृढमुष्टिना ॥ १२२
शक्तितत्त्वे च संप्राप्ते समुत्थाप्य शनैः शनैः ।
मध्यनाडीप्रवाहेन सुषुम्नान्ते यथा पुरा ॥ १२३
भुजङ्गकुटिलाकारां नाभिस्थाने प्रवेशयेत् ।
अलातचक्ररूपेण वामावर्तपरिभ्रमात् ॥ १२४
नीयते ऊर्ध्वमार्गेण यावद् हृद्व्योमपञ्चकम् ।
कृत्वा चतुःप्रकारेण वामावर्तेण सा कला ॥ १२५
नीयते परमे धाम्नि अनामापथमण्डले ।
तस्योर्ध्वे क्षीयमाणां च मेरुमण्डलमध्यतः ॥ १२६
चतुःप्रकारक्रमान्ते ध्वनिमात्रां प्रवेशयेत् ।
शक्तिं विमलरूपेण उद्धरेत् कन्दमण्डलात् ॥ १२७
शनैः शनैरूर्ध्वमार्गे नादरूपां लयं कुरु ।
उदयं बिन्दुमध्ये तु एवमस्तमनं पुनः ॥ १२८
तत्रैव ऊर्ध्वमार्गे तु शक्तिमाद्यां लयं कुरु ।
इत्याज्ञागमभेदेन अमावास्या प्रचोदिता ॥ १२९
एतत् कर्मविपाकं तु शक्त्यावेशनधारणात् ।
पुरक्षोभे तु संप्राप्ते शिष्याणां च मलक्षयम् ॥ १३०
यदा प्रवर्तते देहे तदा कर्मक्षयो भवेत् ।
एतदाक्षेपदहनं अन्तर्यागे प्रतिष्ठितम् ॥ १३१
परानन्दस्वरूपेण भ्रमते क्रमनिर्णयम् ।
प्रथमं स्थूलयागस्य सूक्ष्ममेवानुपद्धतिः ॥ १३२
अत ऊर्ध्वं पूर्णभेदं पुनरन्यक्रमेण तु ।
आगमेन प्रवक्ष्यामि भेदाष्टादशभेदितम् ॥ १३३
ऊर्ध्वस्थानाद् बिन्दुमध्याद् रेतोरूपां समुद्धरेत् ।
उपक्षीणा तु या पूर्वं सा पूर्णामृतवर्षिणी ॥ १३४
वक्रशक्तिरनन्तात्मा सौम्यरूपा विचिन्तिता ।
संहारस्यागमे सृष्टिश्चिञ्चिणी परमा कला ॥ १३५
आनयेच्च अनामान्ते तु क्षीरकणिकोपमाम् ।
ततोऽभिषेकस्तेनैव प्राक्स्वरूपेण देवता ॥ १३६
हृच्चक्रे पूर्णसंस्थाने पूर्णचन्द्रसमप्रभा ।
एवं सञ्चिन्त्य चित्तेन स्वचक्रे तु प्रवेशयेत् ॥ १३७
प्रहसन्ती परानन्दा द्रवते साभिनन्दिता ।
चित्स्वरूपात्मिका शक्तिरनामानाममण्डले ॥ १३८
तेनामृतभरा तृप्तिः पौर्णमासी प्रवर्तते ।
आगमं सृष्तिभेदेन एतदाज्ञाभिषेचनम् ॥ १३९
गमागमेन संशोध्य पश्चात् कुर्यात् क्रमार्चनम् ।
क्रियापादस्य प्रथमं शक्त्यावेशमिहोच्यते ॥ १४०
हृत्स्वरूपं खरूपं च योगभेदं परापरम् ।
क्रमसद्भावमत्यन्तमुद्रितमाद्यपीठके ॥ १४१
इति आद्यावतारं तु महाभैरवयज्ञके ।
मोक्षमार्गक्रमं चक्रे आगमेनावतारितम् ॥ १४२
एवं देव्याक्रमं सूत्रं मानसयागसंकुलम् ।
अभ्यसेत् सततं यस्तु स योगी पाशहो भवेत् ॥ १४३
जीवन्मुक्तिधरः श्रीमान् पापं पूर्वं न लिप्यते ।
वर्गैकेन तु अभ्यासाद् द्वित्रिपञ्चभिर्वर्तते ॥ १४४
आत्मनः स्मरणादेव ब्रह्मघ्नः सिद्धिमाप्नुयात् ।
किं पुनर्भावशुद्धात्मा गुर्वाज्ञाप्रतिपालकः ॥ १४५
तस्मात् सूक्ष्मशरीरं तु प्राकृतं षड्विधं भवेत् ।
जप्त्वा लक्षाणि द्वात्रिंशद् वर्तते मुद्रमण्डले ॥ १४६
भूमित्यागं पुरक्षोभं मुद्रास्फोटादिप्रत्ययम् ।
चालनावेशनं कम्पं परसंक्रमणोऽपि वा ॥ १४७
प्रत्यक्षमणिमाद्यष्टौ वर्तन्ते प्रत्ययानि वै ।
तडित्कोटिस्वरूपेण ध्यानमात्रेण संगतिः ॥ १४८
स्तम्भनं परसैन्यानां सर्वकर्माणि कारयेत् ।
अतीतानागतं किञ्चिद् वर्तमानं परापरम् ॥ १४९
दूरात् श्रवणविज्ञानं कौलभाषाप्रवर्तनम् ।
क्रमस्योर्ध्वे क्रमाम्नायं परं सूक्ष्मं द्विधा भवेत् ॥ १५०
सूक्ष्मं देहोद्भवं स्थूलं द्वाचत्वारिंशती क्रमात् ।
तच्छकाशाद् विनिष्क्रान्तं क्रमार्थं मण्डले त्रये ॥ १५१
ज्ञात्वा पूर्वक्रमं योगं पश्चादाज्ञाभिषेचनम् ।
प्रत्ययेन यदा सिद्धिस्तदासौ क्रमपूजकः ॥ १५२
इत्याद्यावतारे कादिभेदे मलक्षयाधिकारवर्णने क्रमोदयो नामानन्दः ॥ १३ ॥
Kumārikākhaṇḍa – Kapitel १४
चतुर्दशानन्दः
श्रीकौलीश उवाच
अनुज्ञातोऽभिषिक्तस्तु वीरो वीरत्वमिच्छतः ।
चरेद् विद्याव्रतं मन्त्री यथावद् विधिपूर्वतः ॥ १
तदहं श्रोतुमिच्छामि विद्याव्रतमनुत्तमम् ।
श्रीवक्रा उवाच
शृणु देव प्रवक्ष्यामि विद्याया व्रतमुत्तमम् ॥ २
जटी मुण्डी शिखी वापि स्नातको ब्रह्मचारिणः ।
बाह्यव्रतं प्रकर्तव्यं कौलिकाचारगोपितम् ॥ ३
क्रमस्थोऽपि व्रतस्थो वा सर्वावस्थोऽपि सिद्ध्यति ।
पञ्चमुद्राधरो योगी भस्मनिष्ठो दिगम्बरः ॥ ४
चीरवल्कलधारी वा सर्वाभरणभूषितः ।
रक्तवस्त्रपटो वापि स्वेच्छावेषधरोऽपि वा ॥ ५
येन येन हि वेशेण वर्तते साधकोत्तमः ।
तत् तदेव व्रतं प्रोक्तं इति शास्त्रस्य निश्चयः ॥ ६
यद् यदाभरणं तस्य यद् वा वदति वाचया ।
कर्मणा यत् कृतं तस्य क्रमाच्छादनचर्यया ॥ ७
एतद् बाह्यव्रतं चर्या अन्तव्रतमनामकम् ।
जटावत् स्थापयेच्चित्तं बाह्यवृत्त्यनपेक्षणात् ॥ ८
मनमेकाग्रं युञ्जीत आत्मामण्डलमभ्यसेत् ।
सा जटा न जटाभारं व्रतीनां कायशोधनम् ॥ ९
आज्ञास्मरणमात्रेण पतते च्छिन्नमूलवत् ।
न किञ्चिदपि जानाति न शृणोति न पश्यति ॥ १०
इत्याज्ञामुण्डितो मुण्डी न मुण्डी केशमुण्डितः ।
शिखा दीपोपमा यस्य विद्याहं महतारिका ॥ ११
पश्यते याम् समाधिस्थः सा शिखा न शिखा शिखा ।
भस्मीभूतः कृतः कर्म मण्डलान्तररश्मभिः ॥ १२
ध्यात्वा मलक्षयं मुक्तिरेतद् भस्मं निरामयम् ।
अम्बरं कथिताकाशं अखण्डं शून्यमण्डलम् ॥ १३
तन्मध्ये चांकुराशक्तिस्त्रिकालभुवनालयम् ।
दिगम्बरं समाख्यातं नग्नो नैव दिगम्बरः ॥ १४
परं ब्रह्म कुलं कौलं चरते कुलभावितः ।
सर्वद्वन्द्वपरिक्षीणो ब्रह्मचर्यव्रती भवेत् ॥ १५
सुस्निग्धं यत् परं किञ्चित् कदम्बाधारनिर्मलम् ।
तं पीत्वा भवते शुद्धिः स्नानमेतन्न चान्यथा ॥ १६
चमरं चिञ्चिणी मध्ये पुरे पुरे विभेदितम् ।
तत्रोच्चारगतिर्ज्ञेया रमणी वीरसंज्ञया ॥ १७
बाह्यक्रमविनिर्मुक्ता धारा चामृतवर्षिणी ।
समाधिस्थो भवेद् योगी अम्बराम्बरमम्बरः ॥ १८
वल्कलं तत् समाख्यातं न चर्म वल्कलं भवेत् ।
क्रमभेदेन तत्त्वानि ये स्थिताः स्थानविग्रहे ॥ १९
एतदाभरणं प्रोक्तं न हेमाभरणं भवेत् ।
कुलं सर्वमुखं ज्ञात्वा सर्वाभरणमुच्यते ॥ २०
विद्या नाम परा शक्तिर्द्विभिर्भेदैर्व्यवस्थिता ।
चिच्छक्तिरिति सिद्धिः स्यात् सावर्णा वर्णगा शुभा ॥ २१
विद्यामार्गे चरेद् यस्तु शास्त्रदृष्टेन कर्मणा ।
ध्यानं पूजा जपो होमः समयाचरणं तथा ॥ २२
एतद् विद्याव्रतं प्रोक्तं बाह्यव्रतमनुत्तमम् ।
विद्या ज्ञेया तु नाभिस्था चरते द्वादशान्तगा ॥ २३
व्रतस्थानेषु सर्वेषु तेन विद्याव्रतं महत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ २४
एते स्थाना व्रतस्यैव यत्र सा रमते परा ।
तं ज्ञात्वा परमं स्थानं चीर्णविद्याव्रतो हि सः ॥ २५
विद्या नामाक्षरा पंक्तिः पंक्तिश्चक्रे ह्यधोमुखी ।
तासां रक्तव्रतस्थं तु अज्ञानपटच्छेदकम् ॥ २६
अन्तरङ्गे पटं रक्तं न बाह्ये पटरक्तकम् ।
रक्तपटपरीधानः षट्प्रकारप्रबोधकः ॥ २७
कौलिकव्रतसंज्ञेयं न बाह्यव्रतिनो भवेत् ।
पञ्चमुद्राधरो देवः पञ्चकारणकं ततः ॥ २८
भूषितो हृदि संतिष्ठेत् पञ्चमुद्राधरः शिवः ।
एतैस्तु भूषितो मन्त्री पर्यटेत् क्षेत्रमाश्रितः ॥ २९
श्मशाने कानने कूपे उद्याने देवकुले शुभे ।
शून्ये राजगृहे मन्त्री पर्वताग्रे चतुष्पथे ॥ ३०
त्रिपथे ग्रामरथ्यासु महोदधितटेऽथवा ।
नदीसंगमतीरे वा एकवृक्षेऽथवानघ ॥ ३१
एकलिङ्गेऽथवा षण्डे क्षेत्रेष्वष्टेषु च क्रमात् ।
प्रयागा वरुणा कोल्ला अट्टहासा जयन्तिका ॥ ३२
चरित्रैकाम्रकं चैव देवीकोट्टं तथाष्टमम् ।
एतेषु पर्यटेन्मन्त्री योगिनीसिद्धिमिच्छतः ॥ ३३
खट्वाङ्गधारिणो मौनी वेगात् पर्यटते सदा ।
डमरु पाशखड्गं वा त्रिशूलं खेटकं तथा ॥ ३४
नाराचं कर्तरी चक्रं अंकुशं मुशलं धनुः ।
गदा कट्टारिका शक्तिस्तथा दण्डकमण्डलुम् ॥ ३५
एवं ते चायुधाः श्रेष्ठाश्चर्याकालेऽपि धारयेत् ।
पञ्चदैवसिकं कार्यं अस्त्रसंख्या व्रतोत्तमा ॥ ३६
द्वादशाहं चरेन्मन्त्री पक्षमासादितोऽपि वा ।
षण्मासमथवाब्दं वा द्विरब्दं त्रीणि एव वा ॥ ३७
द्वादशाब्दं चरेन्मन्त्री ब्रह्महा अपि सिद्ध्यति ।
अन्तरङ्गे विशुद्धात्मा पारम्पर्यप्रबोधकः ॥ ३८
अचिरात् सिद्धिभागी स्यात् पारम्पर्येण मुच्यते ।
अब्दैकेन तु तु देवेश मण्डलीकैः प्रपूज्यते ॥ ३९
अन्तःपुरवरैः सार्धं राजात्मा सपरिवरः ।
वशं यान्ति न संदेहो उत्तमाधममध्यमाः ॥ ४०
द्विरब्दैर्यक्षकन्याश्च कामविह्वललोचनाः ।
आगच्छन्ति पुरे तस्य प्राणान् मुञ्चन्ति तत्क्षणात् ॥ ४१
त्रिरब्दैः सप्तपाताला ये च देवादिकन्यकाः ।
वशं यान्ति मदोन्मत्ता मदविभ्रान्तलोचनाः ॥ ४२
मत्तमातङ्गगामिन्यो अक्षया यौवनोद्वहाः ।
क्षुभ्यन्ति साधकेन्द्रस्य प्राणान् मुञ्चन्ति तत्क्षणात् ॥ ४३
चतुः पञ्च तथा षट्सु ब्रह्मलोकादि साधयेत् ।
सप्तमाब्दे वरारोह रुद्रान्ते या व्यवस्थिताः ॥ ४४
सिद्ध्यन्ति साधकेन्द्रस्य इति शास्त्रस्य निश्चयः ।
अष्टमे ईश्वराख्यं तु नवमे तु सदाशिवम् ॥ ४५
दशे विद्यालयो भूत्वा क्रीडते गगने महान् ।
एकादशैर्महादेव रुद्ररूपत्वमाप्नुयात् ॥ ४६
द्वादशैर्गुणसंयुक्तो अणिमादिसमायुतः ।
क्रमविद्याधरो मन्त्री गच्छते खेचरं पदम् ॥ ४७
अक्षयो ह्यजयो योगी क्रीडते सर्वगः शुभः ।
व्रतस्य फलमेवं तु कथितं तु तवानघ ॥ ४८
साम्प्रतं योगमार्गं तु स्थानाश्रमपरिग्रहम् ।
प्रवक्ष्यामि यथापूर्वं चर्यया देहशोधनम् ॥ ४९
श्मशानं च गृहं नाम गृहं देहं प्रकीर्तितम् ।
अटते तु अविश्रान्तः श्मशाने गतचेतसः ॥ ५०
कं शरीरमिति प्रोक्तं तस्यान्ते नयनद्वयम् ।
ताभ्यां संपश्यते चात्मा वाङ्गमयं सचराचरम् ॥ ५१
काननं तेन चाख्यातं कायान्ते संव्यवस्थितम् ।
मनः कूपं समुद्दिष्टं संकल्पान् कुरुते बहून् ॥ ५२
तत्राधारे व्रजेत् क्षेत्री तेन कूपं तु विश्रुतम् ।
उद्यतो मन नाभिस्थो मन्यते सर्वजन्तुषु ॥ ५३
नयति पदसंप्राप्ते उद्यानस्तेन उच्यते ।
ददाति तत् पदं देव अमृतं तु नभोगतम् ॥ ५४
कुलान्ते चरते योगी धर्माधर्मात्मबन्धयोः ।
तेन देव समाख्यतं देही देवकुलं सदा ॥ ५५
राजा आत्मा समुद्दिष्टः तत्त्वैश्च युक्तचेतसः ।
शब्दादिगुणभूयिष्ठो तत्त्वसंदोहभूषितः ॥ ५६
तेनासौ चरते कर्म तेनैव सह गच्छति ।
उन्मनत्वे सदा युक्तो मनः शून्यमुदाहृतः ॥ ५७
शून्यं राजगृहं तेन उन्मनत्वे सदा प्रिय ।
पर्वतं गुरुवक्त्रं तु तस्याग्रमवलम्बयेत् ॥ ५८
पर्वताग्रे स्थितं तत्र तेन पर्यटतेऽखिलम् ।
चतुष्पथं प्रवक्ष्यामि वामा ज्येष्ठा च रौद्रिका ॥ ५९
अम्बिकायाः समायुक्तं अटनं पुद्गलस्य तु ।
चतुष्पथं समाख्यातं पथमेतदुदाहृतम् ॥ ६०
पथं नाडीत्रयं प्रोक्तं इडाद्यं तु महेश्वर ।
त्रिपथे चरते नित्यं कुरुते गतिरागतिम् ॥ ६१
त्रिपथे चैकभावस्थो यः करोति स सिद्ध्यति ।
ग्रामं देहमिति प्रोक्तमात्मा देही इति स्मृतः ॥ ६२
आलयं सर्वसत्त्वानां सुखदुःखपरापरम् ।
गच्छते अध ऊर्ध्वं तु रथ्याधारो जगत्पतिः ॥ ६३
तेन रथ्या स्मृता नाडी ब्रह्माद्या ह्यात्मनश्च तु ।
तटं तीरं समाख्यातं शिवोच्चारं निगद्यते ॥ ६४
दुःखान्तं तु लयातीतं तटमुदधिसंज्ञकम् ।
चरते व्यापको देवः शिवः परमकारणम् ॥ ६५
तिष्ठते सततं मन्त्री चर्यान्ते च प्रकाशिता ।
नदते सास्वराधारा परा कुण्डलिनी तु या ॥ ६६
सा नदी योगरूपा तु व्योमार्णे वहते सदा ।
संगमं परया युक्तं उन्मनान्ते प्रकाशितम् ॥ ६७
संगमं तं समाख्यातं नद्यास्तु समुदाहृतम् ।
सर्वतः समवायिन्या शक्त्याधारः परापरः ॥ ६८
तया नीयत्यसौ व्यापी नदीतीरमुदाहृतम् ।
एकं वृक्षं परं देव एका शक्तिः परा त्रिधा ॥ ६९
एकामिन्द्रियजा नाडी बिन्दुसंज्ञा प्रकाशिता ।
लयंगता परे धाम्नि अमनस्के निरामये ॥ ७०
तेन देव मया प्रोक्तमेकवृक्षं तु मन्त्रिणाम् ।
एकमेव परं तत्त्वं लिङ्गाधारं परामृतम् ॥ ७१
पर्यटेत दिवारात्रौ अविश्रान्तः पुनः पुनः। एकलिङ्गमिदं देव षण्डं तु अपरं यथा ॥ ७२
हृदयं तु सरः प्रोक्तं दलाष्टकसमायुतम् ।
उदानेन तु देवेश विकसेत् तु रविस्तु सः ॥ ७३
सेव्यते पुद्गले लीनं सरोजं हृदयात्मकम् ।
रमते तत्र हंसाख्यं शक्तिबीजं मनोन्मनी ॥ ७४
तद् षण्डं कथितं शास्त्रे क्षेत्राष्टकमतो भवेत् ।
क्षेत्रं नाम परं शान्तं शरीरं तत्त्वसंयुतम् ॥ ७५
क्षेत्रज्ञश्चरते तत्र स्थानाष्टकगतिस्थितः ।
तेनेदं देवदेवेश क्षेत्राष्टकमुदाहृतम् ॥ ७६
ये पीठास्ते च वै क्षेत्राः क्षेत्राः पीठाः क्रमेण तु ।
नामपर्यायभेदानि शास्त्रे देव्याः पृथक् पृथक् ॥ ७७
प्रयागं नाभिसंस्थं तु वरुणा हृत्प्रदेशतः ।
कोल्लगिर्यं तु कण्ठस्थं अट्टहासं तु तालुके ॥ ७८
बिन्दुस्थाने जयन्त्याख्यं नादाख्ये तु चरित्रकम् ।
एकाम्रं शक्तिदेशस्थं ज्ञातव्यं विदितात्मभिः ॥ ७९
गुरुवक्त्रगतं प्रोक्तं कोटिवर्षं तथाष्टमम् ।
एते स्थाना मया प्रोक्ता अध्यात्मे पुद्गलाश्रयाः ॥ ८०
अटते सततं तेषु हृच्चक्रस्थः सनातनः ।
यावदेवं न विन्देत पीठमध्यात्मनिर्णयम् ॥ ८१
तावत् तस्य कुतः सिद्धिरटितेऽपि जगत्त्रये ।
बहिरन्तरभावं तु अन्तरं बहिरङ्गयोः ॥ ८२
लोकानां भक्तिहेत्वर्थे बहिःपीठाः प्रकाशिताः ।
अन्तरङ्गं यथा शुद्धं पश्यते मनसा प्रिय ॥ ८३
तथा पश्यति बाह्यस्थाः सूक्ष्मरूपा गभस्तयः ।
मेलकं च प्रयच्छन्ति चरुं वापाशवीविधिम् ॥ ८४
संप्रदायं प्रयच्छन्ति स्थानं वा प्रवदन्ति च ।
अशुद्धेनान्तभावेन पर्यटेत् पृथिवीं यदि ॥ ८५
न तस्य दर्शनं देव ददन्ति मनसा क्वचित् ।
पश्यन्नपि न पश्यति दृश्यन्तोऽपि न दृश्यते ॥ ८६
संकीर्णलक्षणा देव्यो विज्ञातुं नैव शक्यते ।
प्रभावैषां समुद्दिष्टो विद्या तासामनुग्रहः ॥ ८७
पुरे ग्रामेऽथवारण्ये नगरे चत्वरेऽपि वा ।
खेटके चैव सन्दोहे पीठे क्षेत्रे वने तथा ॥ ८८
उद्यानोपवने देवि पूर्वोक्ते वा तथैव च ।
देशे देशेऽभिजायन्ते ज्ञानरूपा गभस्तयः ॥ ८९
पार्थिवावरणे चैव आपे तेजे तथानिले ।
आकाशे चैव सुश्रोणि तासां संख्या न विद्यते ॥ ९०
पीठाश्रयविशेषेण उत्पद्यन्ते अनेकधा ।
खानपानरता नित्यं क्रीडन्ते चान्त्यजेष्वपि ॥ ९१
तेन देव मया प्रोक्ताः पीठा बाह्यस्वरूपतः ।
वेश्यागृहं प्रयागाख्यं वरुणां शुण्डिनीं विदुः ॥ ९२
कौल्लगिर्यां तु कैवर्ती अट्टहासे तु खट्टिकी ।
जयन्त्यां कण्डुकी प्रोक्ता चरित्रे रजकी तथा ॥ ९३
एकाम्रकी भवेच्छिल्पी देविकोट्टे च कोशटी ।
ज्ञातव्याश्चुम्बकेनैव भुक्तिमुक्तिफलार्थिभिः ॥ ९४
पर्यटेदेषु स्थानेषु पूजनीयाः सदा बुधैः ।
भक्षभोज्यान्नपानैस्तु तर्पयेन्मन्त्रवित् सदा ॥ ९५
एतेषु संस्थितिस्तासां योगिन्यस्त्वप्रमेयतः ।
भवन्ति च न संदेहो वरदाः साधकस्य तु ॥ ९६
तर्पिताः पूजिता देव्यः साधकस्य ददन्ति हि ।
षण्मासाद् युक्तमार्गस्य समयव्रतपालनात् ॥ ९७
अथान्यं संप्रवक्ष्यामि संक्षेपाच्छास्त्रवादिनाम् ।
आध्यात्मिकं बहिश्चैव यथा जानन्ति तत्त्वतः ॥ ९८
तथा ते कथयिष्यामि शृणुष्वायतलोचन ।
आध्यात्मं कुरुते बाह्यं व्रतं चर्यां च साधनाम् ॥ ९९
एवं कृते भवेत् सिद्धिः सत्यमेव न संशयः ।
खट्वाङ्गं कथयिष्यामि अनुग्राह्यं वरानन ॥ १००
आपादतलमूर्धान्तं यथा भवति तच्छृणु ।
सर्वाङ्गेषु शिराद्येषु अङ्गप्रत्यङ्गसन्धिषु ॥ १०१
खण्डते येन देवेश खट्वाङ्गस्तेन उच्यते ।
मौनेन अटते नित्यं हृदि गूढपरायणः ॥ १०२
तेन मौनीति विज्ञेयः सर्वागमसुभावितः ।
वेगेन पर्यटेद् देहे अविश्रान्तः पुनः पुनः ॥ १०३
तेन वेगात्म विख्यातं अटनं पुद्गलस्य तु ।
डमरुकं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १०४
अनामा परमा सूक्ष्मा कला चामृतवाहिनी ।
आत्मा संचरते तस्मिन् रावं मुञ्चति बिन्दुके ॥ १०५
विसर्गस्थो यदात्मा तु नदते त्रिपथेषु च ।
तत्र डमरुकं नाम अमनस्के निरामये ॥ १०६
तिष्ठते नाभिसंस्था तु मायारूपा तु कुण्डली ।
पाशिताः पशवः सर्वे अभक्ता ये जगत्त्रये ॥ १०७
पाशमेतद् विनिर्दिष्टं खड्गं चैवाधुना शृणु ।
खस्था च्छिनत्ति पाशांस्तु विसर्गास्त्रेण मोहनी ॥ १०८
खड्गे च निःश्रिता येन खगमध्ये महेश्वर ।
गता सा ब्रह्मसायोज्यं खड्गान्ते शक्तिरव्यया ॥ १०९
तेन खड्गमिति प्रोक्तं आयुधं सुरनायक ।
एका एव पराशक्तिस्त्रिपथाकृतिमण्डले ॥ ११०
वामा ज्येष्ठा तथा रौद्री इच्छाज्ञानक्रियात्मिका ।
त्रिशूलं त्रिपथं ख्यातं त्रिशक्तितनुमण्डितम् ॥ १११
खरूपा व्योमगा शान्ता निर्मला अटते सदा ।
खेटकं तेन नामं तु द्वादशान्ते व्यवस्थितम् ॥ ११२
नाराचं शक्तिरुच्चारं करणात्माव्यवस्थितम् ।
बोधयति निरोधिन्या करणान् पञ्च एव हि ॥ ११३
तेन नाराचमाख्यातं पर्यायेण तु सुन्दर ।
कर्तरी ज्ञानशक्तिस्तु येन पाशान् छिनत्त्यसौ ॥ ११४
सा कला परमा सूक्ष्मा मन्त्राणां बोधनी परा ।
कर्तरी कर्तृरूपेण ज्ञातव्या साधकेन तु ॥ ११५
चरते द्वादशान्ते तु क्रमात् तत्त्वानि मुञ्चति ।
चक्रवद् भ्रमते नित्यं अंकुशस्था परापरा ॥ ११६
अन्तरङ्गगता देव बहिरङ्गेन संस्थिता ।
कुरुते सततं चेष्टां आसने शयने तथा ॥ ११७
धावनं वल्लनं रोधं अकुञ्चनप्रसारणम् ।
मुषलत्वे स्थितो नादो रेखाकारोर्ध्वगः प्रिय ॥ ११८
तं भित्त्वा गमनं चोर्ध्वे मुषलाख्यं सदाशिवम् ।
धनुर्लक्ष्यमनाख्यं तु येन वेधयते परम् ॥ ११९
आपूर्य सविसर्गेण परेण मनचक्षुषा ।
खर्परे करणेनैव पर्यटेच्च अधोमुखी ॥ १२०
ऋतुद्वयविशुद्धेन कारणान्तर्गतेन तु ।
अनेन करणान्तेन ज्ञेया कट्टारिका परा ॥ १२१
प्राप्नोति तत्त्वसायोज्यं गदया च त्रिलोचन ।
गता ह्येका परं रन्ध्रं ददते चामृतं शुभम् ॥ १२२
गतास्ते न निवर्तन्ते ये गता गदया सह ।
शक्तिः शक्तिमतोरैक्यं आत्मा चालयते सदा ॥ १२३
तद् भवेद् योगसिद्धिस्तु शक्तिर्नादान्तरेऽधिप ।
दण्डवदृजुरेखा तु गता सा पदमव्ययम् ॥ १२४
तेन मार्गेण गन्तव्यं दण्डाकारे व्यवस्थितम् ।
कं शरीरमिति ख्यातमण्डाकारं व्यवस्थितम् ॥ १२५
तत्राध्वा तु वरारोह शोधनीयो मनीषिभिः ।
कुण्डला या परा शुद्धा सर्वशुद्धा गतात्मनि ॥ १२६
तेनेदं च मया प्रोक्तं कमण्डलु परं स्मृतम् ।
एवं ते चायुधाः सूक्ष्माः पर्यायैः बहुभिः पदैः ॥ १२७
कथितं तु मया सर्वं परापरं विभागशः ।
बाह्यान्ते कथयिष्यामि दूतीनां लक्षणम् परम् ॥ १२८
विचारं चैव दूतीनां अपरं संप्रगीयते ।
माता च दुहिता भग्नी सहजा अन्त्यजा तथा ॥ १२९
रजकी चर्मकारी च मातङ्गी चाग्रजन्मनी ।
कौलिनी चक्रलोला च मैथुनी नारसिंहकी ॥ १३०
आचारं मातृभिर्योनौ कथितं तु सुरार्चित ।
अन्त्यजानां द्विजानां च एकत्र चरुभोजनम् ॥ १३१
कर्तव्यं साधकेनैव यदीच्छेत् सिद्धिमुत्तमाम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशतिसहस्रसंहितायां अव्वाक्रमभाषिते चर्याधिकारो नामानन्दः ॥ १४ ॥
Kumārikākhaṇḍa – Kapitel १५
पञ्चदशानन्दः
श्रीकौलीश उवाच
कुत्सितं कथितं देवि अयुक्तं शास्त्रवादिनाम् ।
पशूनां यत् समाख्यातं आचारं परमेश्वरि ॥ १
एतन्मे न श्रुतं देवि प्रसादाद् वक्तुमर्हसि ।
श्रीवक्रा उवाच
साधु मे तन्महाप्राज्ञ प्रश्नं चैव शुभं कृतम् ॥ २
कथयामि महाशम्भो पूर्वस्नेहेन निश्चयम् ।
या सा देव पराशक्तिर्जगतां योनिरूपिणी ॥ ३
तत्रोत्पन्नं समस्तं हि वाङ्गमयं सचराचरम् ।
अव्वा तेन इमा माताः सा शक्तिः परमेश्वरी ॥ ४
उद्भवस्था दुहित्री सा दुहनाच्च जगस्य च ।
दुहित्री सा द्वितीया तु भगिनी च तथोच्यते ॥ ५
भगरूपा परा सूक्ष्मा उन्मनामात्मना सह ।
यथाग्निस्तेजसा नित्यं नानाभेदैर्व्यवस्थिता ॥ ६
तद्वदेव हि आत्मस्था भगिनी भगरूपिणी ।
स्वयंजाता महासूक्ष्मा गुहामध्ये विसर्पिता ॥ ७
स्वतोत्पन्ना स्वयंजाता उक्ता च सहजा कला ।
अन्तस्था सर्वजन्तूनां वर्तते अन्तगा परा ॥ ८
अन्ते तु संस्थिता ह्येका अन्त्यजा परमेश्वरी ।
रजस्तमोविनिर्मुक्ता सा भवेद् रजकी इति ॥ ९
रञ्जते सर्वगात्रेण जगत् स्थावरजङ्गमम् ।
चरते चर्मगा येन सुरङ्गेन * रञ्जिता ॥ १०
चर्मकारी तु सा ज्ञेया मातङ्गीति तथोच्यते ।
आत्मस्थाने च सततं गीतस्यान्तपदे स्थिता ॥ ११
मातङ्गी कथिता दूती अग्रजन्मी तथोच्यते ।
सर्वेषां चैव शास्त्राणां अग्रोत्पन्ना च अग्रणी ॥ १२
नान्यत् तत्र भवेत् किञ्चिन्मनसान्ते मनोन्मनी ।
उन्मना सा समाख्याता परा ह्यमृतवाहिनी ॥ १३
आनन्दं तत् समत्वं हि मदिरानन्दचेतसः ।
सिद्ध्यते नात्र सन्देहो गुरुवक्त्रेण निश्चयम् ॥ १४
योगचर्यासमाप्ते तु व्रतसूत्रमनन्तरम् ।
त्यक्त्वा संसारप्रथनं कामरूपादिपञ्चसु ॥ १५
ततश्च चर्याव्रतं गृह्य अन्यथा न कदाचन ।
महाव्रतं तु निर्वाणं तदेव सर्व–ओलिषु ॥ १६
यदा वैराग्य जन्तूनां तदा निर्वाणगं व्रतम् ।
वक्ष्यामि कौलिकं मार्गं निर्गतं खेचरं क्रमम् ॥ १७
कुर्याद् व्रतं कुले रक्षा नग्नवासा तु पिङ्गला ।
तेनैव कारयेद् घोरं विद्यायुक्तं परापरम् ॥ १८
शिरं मुण्डितं कृत्वादौ तस्याच्छादन वल्कलम् ।
अलाभात् कर्पटं बिल्वं भुवनाकृति आसनम् ॥ १९
मुखं संकुचितं तस्य संसारमलछेदकम् ।
प्रसादं देवि मां कृत्वा चरुकं प्रतिदेहि माम् ॥ २०
पञ्चभिः सप्तभिर्वापि अथ चाष्टौ दशः पुनः ।
द्वात्रिंशदथवा भिक्षाः कर्तव्या योगचिन्तकैः ॥ २१
मद्यं मांसं तथा कामं लौल्यलोभविवर्जितम् ।
पादुकां त्रिप्रकारां च इज्यार्थे विनिवेदयेत् ॥ २२
तदा चर्याव्रतं मन्त्री द्वादशाब्दैस्तु सिद्ध्यति ।
पीठोपपीठ सर्वेषु क्षेत्राद्यैर्भूतले व्रती ॥ २३
पञ्चरात्रं तु सर्वत्र भस्मगोमयमध्यतः ।
स्वपेदेकान्तके पुनः अटव्यां निर्जने वने ॥ २४
नाराचं क्षुरिका खड्गं तथा कर्तरि पङ्कटी ।
अस्त्रपञ्चकसंयुक्तः कौलिकास्त्रस्वलंकृतः ॥ २५
विचरेत् पृथिवीं सर्वां प्रथमस्त्रिषु ओलिषु ।
अपरं संप्रवक्ष्यामि क्रमवृद्धस्य यद् व्रतम् ॥ २६
तद् व्रतं नाम विद्यायाः ज्ञेयमाज्ञापटं इति ।
कुर्यात् कार्पासिकं शुद्धं त्रिपञ्चदीर्घविस्तरम् ॥ २७
हस्ते पटं प्रक्रतव्यं कौपीनं शिरभूषणम् ।
मुण्डितस्य प्रकर्तव्यं कामराजेन रञ्जयेत् ॥ २८
ताम्रजं खर्परं पात्रं सुशुद्धं च अलातवत् ।
पूर्ववत् कारयेच्चर्यां भिक्षाश्च सप्तविंशतिः ॥ २९
कर्तव्या दशधा वापि अथवा च चतुर्वरम् ।
अस्त्रपञ्चकघोरास्त्रं आद्यपीठाद् विनिर्गतम् ॥ ३०
अथ द्वितीयकं वक्ष्ये व्रतं कौमारमध्यतः ।
तद् व्रतं व्रतमित्याहुः सिद्धं पूर्णाद् विनिर्गतम् ॥ ३१
तद् व्रतं सिद्धसंकेतं तस्याचारं यथा भवेत् ।
पटं च पूर्ववत् कार्यं कौपीनमथ च्छादनम् ॥ ३२
रञ्जनीयञ्च रङ्गेन पीतेन तु महेश्वर ।
तथा पात्रं च पूर्वोक्तं भिक्षाचर्याप्रतिग्रहम् ॥ ३३
अस्त्रपञ्चकमेवं तु तथा पाशुपतास्त्रकम् ।
एतत् सिद्धव्रतं शुद्धं पालनादपि सिद्ध्यति ॥ ३४
अपरं तृतीयकं वक्ष्ये व्रतं बालक्रमस्य च ।
मुद्रा नाम व्रतं शुद्धं कामरूपाद् विनिर्गतम् ॥ ३५
पटं पूर्वक्रमेणैव यथा भवति तच्छृणु ।
गैरिकारञ्जितं कृत्वा तथा खर्पर ताम्रजम् ॥ ३६
चर्याभिक्षा यथा पूर्वं पञ्चास्त्रं भैरवास्त्रकम् ।
गृहीत्वा पर्यटेत् मन्त्री एतद् योगव्रतं शुभम् ॥ ३७
उलीनां क्रमसिद्धानां व्रतत्रितय दर्शितम् ।
एतेषामासनं श्रेष्ठं मृगचर्म सुकोमलम् ॥ ३८
आसनत्रितयं तेषां ज्येष्ठमध्ये कनीयसे ।
कूर्मासनं तु प्रथमं तथा पद्मं द्वितीयकम् ॥ ३९
तृतीयं स्वस्तिकं नाम मुद्रापूर्वक्रमव्रते ।
प्रयागादिगृहाणां तु स्वपेद् योगीश्वरः सदा ॥ ४०
तासां सार्धं तु समयं दूतीनां सह मैथुनम् ।
अविरुद्धं च भवति निशाचारेण कौलवित् ॥ ४१
चरुकं गृह्यते गुप्तं तथा पुष्पं च अन्तजम् ।
रसं तु वैष्णवं नाम चरुकं त्रिविधं स्मृतम् ॥ ४२
अलिफल्गुसमायुक्तं भक्षयेदविशङ्कितः ।
द्वादशाब्दैरतीतैस्तु खेगतिर्नात्र संशयः ॥ ४३
क्रमाराधनयुक्तानां विद्यानुष्ठानपारगाम् ।
निश्चयं नात्र संदेहो इत्याज्ञा पारमेश्वरी ॥ ४४
ये योगिनीकुले जाता येषां तुष्टा ह्यहं परा ।
ते लभन्ति व्रतं सत्यं आत्म–औल्यां पृथक् पृथक् ॥ ४५
वीरचर्या वीरव्रतं वीरसंगमवृत्तिषु ।
दूतीनां सर्वगमनं सबाह्याभ्यन्तरं स्थितम् ॥ ४६
निशाचारे समाचारं कर्तव्यं व्रतिभिस्त्रिधा ।
मनोरोधं न कर्तव्यं यत्र यत्र व्रजेन्मनः ॥ ४७
तत्र तत्रैव गन्तव्यं इच्छाचर्यां समाचरेत् ।
एतल्लिङ्गं त्रिधा प्रोक्तं प्रकटं व्रतसंग्रहम् ॥ ४८
अष्टानां कुलदेवीनां सदा भक्तिं समाचरेत् ।
पूजयेत् सर्वदा चाष्टौ वेश्याद्याः कौलिके क्रमे ॥ ४९
अथ चर्याविनिर्मुक्तो चरुकार्थी गृहेष्वपि ।
निशाचारेण कुर्वीत प्राशनात् परमा गतिः ॥ ५०
व्रतिनो रुद्रवत् साक्षान्मम तुल्यबलो भवेत् ।
व्रतमव्यक्तकं येन इच्छारूपधरो भवेत् ॥ ५१
तेन अव्यक्तमित्याहुः व्रतं कौलस्य लक्षणम् ।
संसारक्रमसंस्थानां अधिकारे तु संस्थितम् ॥ ५२
आचार्याणां समाख्यातं गुप्तं व्रतपरिग्रहम् ।
न तेषां कथिता चर्या नाम संगममत् सधा ॥ ५३
आत्मचर्यासमायुक्तं व्रतं गुप्ततमं चरेत् ।
इत्यागमविशुद्धस्य कौलिकस्य महीपतेः ॥ ५४
चर्यापादं समाख्यातं निर्णयान्ते समर्पितम् ।
अदत्ता व्रतचर्या च अदत्तं च कुलक्रमम् ॥ ५५
न ग्राह्यं च परत्रार्थं ग्रहनात् पतनं भवेत् ।
चर्यापादेन दृष्टेन गुरूणां शास्त्रपद्धतिः ॥ ५६
तेनैव यद् व्रतं दत्तं चर्यासंगमकौलिकम् ।
तत् सर्वं सफलं शिष्ये व्रतीनां नात्र संशयः ॥ ५७
अन्यथा न व्रतं चर्या न न्यासं न क्रमं क्वचित् ।
यावन्न पश्यते ज्ञानं मतार्थं शुद्धकौलिकम् ॥ ५८
तावद् भ्रान्तिक्षयं नास्ति तस्माच्छास्त्रं परिग्रहेत् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते चर्यापादाधिकारो नामानन्दः ॥ १५ ॥
Kumārikākhaṇḍa – Kapitel १६
षोडशानन्दः
श्रीनाथ उवाच
कुलचर्यारतः शान्तो योगीन्द्रः सिद्धिकांक्षिणः ।
कथं भिक्षाटनं देवि कथं भाषां समुच्चरेत् ॥ १
सूचिता च त्वया देवि भिक्षाचर्या कुलाष्टके ।
कथयस्व प्रसादेन भाषासंकेतनिर्णयम् ॥ २
श्रीवक्रा उवाच
प्रयागा वरणा कोल्ला अट्टहासा जयन्तिका ।
चरित्रैकाम्रकं चैव देविकोट्टं तथाष्टमम् ॥ ३
गृहाष्टके च देवेश भाषासंकेतकोत्तमम् ।
सिद्धिमुक्तिकरं देव कथ्यते चाधुना शृणु ॥ ४
कु ला ई आ त्रिभुवनावली दिव्याम्नाये प्रचारोपदेशः चरुकं देहि मे ई आ ।
अक्षरी कथिता चर्या प्रयागाख्ये वरानन ।
वेश्यागृहे कुकाराख्या निशाचारे गता स्वयम् ॥ ५
कु शा ई आ सकलभुवनावली कुलाम्नाये प्रचारोपदेशः चरुकं देहि मे ई आ ।
द्वितीया कथिता चर्या कामरूपा कुनामिका ।
वरणां शुण्डिनी देवी गता समयमेलके ॥ ६
कु वे ई आ अखण्डमण्डलावली समयाम्नाये प्रचारोपदेशः चरुकं देहि मे ई आ ।
कुंकुण्डी कथिता चर्या तृतीया समयगोचरे ।
कौल्ले कैवर्तिनी देवी कुनामाजा जगत्सुता ॥ ७
कु या ई आ शिवगुरुपरमावली मुद्राम्नाये प्रचारोपदेशः चरुकं देहि मे ई आ ।
कौशली कथिता चर्या चतुर्थी च महाबला ।
अट्टहासे गता देवी कुनामा खट्टिकीगृहे ॥ ८
कु भु ई आ आनन्दपरमावली आद्याम्नाये प्रचारोपदेशः चरुकं देहि मे आ ई ।
काञ्चीमुखा स्मृता चर्या पञ्चमा भवसंज्ञका ।
जयन्त्यां च कृता नित्यं कुनामा कण्डुकीगृहे ॥ ९
कु क्षे ई आ मातङ्गावली षट्काम्नाये प्रचारोपदेशः चरुकं देह मे आ ई ।
वागेशी च स्मृता चर्या षष्ठी निग्रहकारिका ।
चरित्राख्ये कृता नित्यं कुनामा रजकीगृहे ॥ १०
कु निः ई आ निशाचारभुवनावली पीठाम्नाये प्रचारोपदेशः चरुकं देहि मे आ ई ।
शाङ्करी कथिता चर्या सप्तमा वरवर्णिनी ।
एकाम्रे शिल्पिनी देवी कुनामा समये गता ॥ ११
कु म ई आ मोक्षकुलावली पारम्पर्याम्नाये प्रचारोपदेशः चरुकं देहि मे आ ई ।
भैरवी कथिता चर्या अष्टमा मोक्षदायिका ।
देविकोट्टे तु कथिता कुनामा कौशटीगृहे ॥ १२
श्रीवक्रा उवाच
सिद्ध्यष्टकं कुलाम्नाये मातॄणां च प्रसादतः ।
वेश्यारूपेण ब्रह्माणी शाङ्करी शुण्डिनी स्मृता ॥ १३
कैवर्ती नाम कौमारी खट्टिका वैष्णवी स्मृता ।
वाराही कण्डुकी देवी इन्द्राणी रजकी स्मृता ॥ १४
शिल्पी ज्ञेया तु चामुण्डा महालक्ष्मी तथान्त्यजा ।
चर्याक्षेत्रविभागेन ज्ञात्वा चर्यां समाचरेत् ॥ १५
मा मा मा य डि आ हो आव हो प्रयागभैरवि ई आ समयाचारु देहि मे चरुकम् ।
एषा चर्या महाचर्या वेश्यागृहे तु कारयेत् ।
तस्मादवाप्य चरुकं तदा कौलेश्वरो भवेत् ॥ १६
अव्वे अम्बे च मे माये न च हुं हुं आ हुं हो पीठसमयाचारयोगानन्दे वरणाभैरवि समयाचारु देहि मे चरुकम् ।
वाराणस्यां तु वरणा समयाचारमेलके ।
शौण्डीगृहे महाचर्यां कृत्वा वागेश्वरीपदम् ॥ १७
जाग्रिणी म इ दि द्वि आ घुग् घुरुमालवजन्ति आ जम्भणि जम्भणि हो कोल्लापुरभैरवि ई आ समयाचारु देहि मे चरुकम् ।
कोल्लापुरे महाचर्या कैवर्त्ती नग्नवाससा ।
चरुकाज्ञाप्रसादेन ज्ञानैश्वर्यं न संशयः ॥ १८
दिद्वन द्वसयल परिवलि आ हो अव्वा मे कुलसिद्धि आ अट्टहासभैरवि आ समयाचारु देहि मे चरुकम् ।
खट्टिकीमन्दिरे चर्या अट्टहासाकुले स्थिता ।
समयाज्ञाप्रसादेन चरुकेन तु सिद्धिदा ॥ १९
सुव्भरि सुव्भरि आहो कुडि कुडि हो माये महामाये एहि एहि भो हिनः भोजय भोजय भैरवी आ समयाचारु देहि मे चरुकम् ।
कन्दुकीमन्दिरे जाता जयन्तीकुलकन्दरे ।
तस्याः चरुकदानेन वीरेन्द्रो योगिनीकुले ॥ २०
लम्बे लम्बे न होमालि लिलिविज्जे समर सवक् कहजन्ती सा चरित्रभैरवी आ समयाचारु देहि मे चरुकम् ।
जम्बुकी च परानन्दे उन्मनानन्दचेतसा ।
तस्याः श्रीचरुकं प्राप्य भैरवो भैरवीकुले ॥ २१
अव्व हो सव्व हो स ल वट्ट हो शतयोजनपरमानन्दे आ कन्दुकीभैरवी आ समयाचारु देहि मे चरुकम् ।
शिल्पीमन्दिरमध्ये तु या करोति समागमम् ।
योगिनां चरुकार्थीनां ददेत् सिद्धिमनेकधा ॥ २२
मातङ्गी विमलमती प्रकटयोगिनी समयसिद्धि माये समयाचारचक्रे वन्दितत्रिभुवनदिव्ययोगिनी देविकोट्टभैरवी आ समयाचारु देहि मे चरुकम् ।
अनादिविमलमातङ्गीकुले जाता मतङ्गिनी ।
प्रसादबुद्ध्या चरुकं संप्राप्य खेचरो भवेत् ॥ २३
इति कुलाष्टककुलचर्यासूत्राधिकारः ॥
श्रीनाथ उवाच
समयलोपानि सर्वाणि मेरुराशिस्त्वसंख्यया ।
तेषां संशोधनार्थाय या विद्या समुपस्थिता ॥ २४
पीठस्तवेन सहिता यथा भवति कौलिनि ।
प्रमादाल्लोपमायाते सिद्धे समयमण्डले ॥ २५
साधकस्य भवेद् ग्लानिर्नानाविघ्नैः प्रबाध्यते ।
अपमृत्युभयं तस्माद् दारिद्र्यं कलहं तथा ॥ २६
दुःस्वप्नं कार्यहानिश्च लोकद्वेषं मुहुर्मुहुः ।
का गतिस्तस्य देवेशि कथं संशुद्धिमाप्नुयात् ॥ २७
श्रीवक्रा उवाच
साधु साधु महाशम्भो यन्मे निगदितं शृणु ।
विस्तरेण बहुभेदैस्तत्सर्वं कथयामि ते ॥ २८
पीठोपपीठसंदोहक्षेत्रोपक्षेत्रमेव च ।
द्वारोपद्वारस्थानानि सेवनान्निर्मलो भवेत् ॥ २९
अथाशक्तः प्रमादी वा विद्यापीठौघसेवनात् ।
सम्यक् संशुद्धिमाप्नोति प्रातरुत्थाय यः पठेत् ॥ ३०
तदहं संप्रवक्ष्यामि समयलोपविशुद्धये ।
चतुःषष्टिस्तु चक्राणि कूटभेदेन संस्थिताः ॥ ३१
चतुःषष्टिस्तथा पीठान् क्रमेण कथयाम्यहम् ।
पश्चिमेन क्रमेणैव शाक्तं प्रणवपञ्चकम् ॥ ३२
मातृकूटसमायोगात् पीठस्तवमुदीरयेत् ।
अट्टहासे कदम्बस्थां सौम्यास्यां वज्रधारिणीम् ॥ ३३
महाघण्टसमोपेतां प्रणमामि शिवंकरीम् ।
चरित्रायां करञ्जस्थां कृष्णाख्यां शक्तिधारिणीम् ॥ ३४
महाबलसमोपेतां प्रणमामि सुसिद्धिदाम् ।
अग्निकेन समोपेतां दण्डहस्तां नगौकसाम् ॥ ३५
कौलगिर्यां महालक्ष्मीं नौमि लक्ष्मीविवर्धनीम् ।
ज्वालामुखीं जयन्त्यायां निम्बस्थां खड्गधारिणीम् ॥ ३६
महाप्रेतसमोपेतां नौमि सर्वार्थसिद्धिदाम् ।
अश्वत्थस्थां महामायामुज्जैन्यां पाशधारिणीम् ॥ ३७
महाकालयुतां नौमि सर्वार्थप्रतिपादिनीम् ।
उडुम्बरतलावस्थां वायुवेगां ध्वजायुधाम् ॥ ३८
प्रयागे पवनोपेतां नौमि शत्रुविनाशनीम् ।
वाराणस्यां तु तालस्थां ऊर्ध्वकेशीं गदायुधाम् ॥ ३९
प्रणौमि शिरसा देवीं शाङ्करीं शाङ्करान्विताम् ।
कर्णमोटीं वटस्थां तु सशूलां हेतुकान्विताम् ॥ ४०
श्रीकोटे श्रीप्रदां नौमि राज्यसंपत्प्रदायिनीम् ।
विरजायाम्बिकादेवीं मुद्रापट्टिशधारिणीम् ॥ ४१
अनलेन समोपेतां प्रणमामि जयावहाम् ।
एरुडे अग्निवक्त्रां तु वज्रशक्तिधरां शुभाम् ॥ ४२
घण्टारवसमोपेतां नमामि रिपुनाशनीम् ।
मुशलायुधहस्तां तु महाजङ्घसमन्विताम् ॥ ४३
नमामि शत्रुभङ्गार्थे पिङ्गाक्षीं हस्तिनापुरे ।
एलापुरे खरास्यां तु पाशहस्तां महाबलाम् ॥ ४४
गजकर्णसमोपेतां नौमि दुष्टप्रमर्दनीम् ।
कुमारीं चैव गोकर्णे मुद्रालकुटधारिणीम् ॥ ४५
तडिज्जङ्घसमोपेतां नमामि रिपुमर्दनीम् ।
इन्द्राणीं मरुदेशे तु त्रैलोक्याकृष्टिकारिकाम् ॥ ४६
करालेन समोपेतां नमाम्यंकुशधारिणीम् ।
रोमजङ्घसमोपेतां नगरे तु हलायुधाम् ॥ ४७
वक्रां गच्छनिवासिन्यां नमामि वरसिद्धये ।
कुम्भकेन समोपेतां खट्वाङ्गकरभूषिताम् ॥ ४८
नमामि पापशुद्ध्यर्थं चामुण्डां पौण्ड्रवर्धने ।
पुरस्तीरे प्रसन्नास्यां वज्रशृङ्खलधारिणीम् ॥ ४९
नमामि त्रिजटोपेतां बन्धस्तम्भनकारिकाम् ।
पृष्ठापुर्यां विद्युन्मुखीं दण्डशक्त्यायुधोद्यताम् ॥ ५०
नौमि घण्टारवोपेतां दैत्यस्तम्भनकारिकाम् ।
उल्कामुखसमोपेतां ऊर्ध्वकेशीं महाबलाम् ॥ ५१
मुद्रालकुटहस्तां तु नौमि दुष्टाङ्गभञ्जनीम् ।
पिशिताशसमोपेतां नौमि कट्टारिकोद्यताम् ॥ ५२
सोपारे अग्निवक्त्रां तु अशेषपशुघातनीम् ।
क्षीरिके लोकमातां च खड्गहस्तां नमाम्यहम् ॥ ५३
महासेनसमोपेतामहितौघनिकृन्तनीम् ।
वज्रांकुशधरां नौमि भीमसेनसमन्विताम् ॥ ५४
स्तम्भाकृष्टिकरीं देवीं मायापुर्यां प्रकम्पिनीम् ।
महाक्रोधसमोपेतां पूतनाम्रातिकेश्वरे ॥ ५५
गदाहलायुधां नौमि ताडनाकृष्टिकारिकाम् ।
भग्ननासां राजगृहे महाकर्णसमन्विताम् ॥ ५६
वज्रशक्तिधरां नौमि अशेषफलदायिकाम् ।
गुह्येश्वरीं महाभोगां नित्यं पशुपतेर्युताम् ॥ ५७
नेपाले संस्थितां नौमि भवघोरान्धहारिणीम् ।
काश्मीरे शारदां देवीं विद्येश्वरसमन्विताम् ॥ ५८
विद्यापीठसमोपेतां विद्याज्ञानप्रदायिकाम् ।
गद्दिहरणे महाशक्तिं नौमि दुःखक्षयंकरीम् ॥ ५९
महाशरसमोपेतां पार्वतीं पर्वतस्थिताम् ।
जयेश्वरीं कुलूतायां चक्रेशीं नग्नवाससाम् ॥ ६०
कपालीशसमोपेतां भोगमोक्षफलप्रदाम् ।
सिंघुहारे कुलालाख्यां चित्रभोगसमन्विताम् ॥ ६१
भैरवेन समोपेतां नौमि किल्विषनाशनीम् ।
भोजपुर्यां महाचम्पां लुलन्तीं परमां कलाम् ॥ ६२
कैलासेन समोपेतां नौमि दुःस्वप्ननाशनीम् ।
स्त्रीराज्ये अम्बिकादेवीं दुर्गमार्गक्षयंकरीम् ॥ ६३
नटेश्वरसमायुक्तां नौमि ज्ञानार्थसिद्धये ।
महेन्द्रे तु महामायां खड्गहस्तां नमाम्यहं ॥ ६४
महामेरुसमोपेतां महदार्तिनिकृन्तनीम् ।
अन्तर्वेद्यां महारक्तां सर्वज्ञानौघदायिनीम् ॥ ६५
चण्डेश्वरसमोपेतां नित्यं नौम्यपराजिताम् ।
मुशलहस्तां महामायां त्रिलोचनसमायुताम् ॥ ६६
क्रूरहस्थां महाकालीं सर्वद्वन्द्वविनाशनीम् ।
महाश्मशाने घण्टाले घण्टालीं परमायुधाम् ॥ ६७
अहिनोघसमोपेतां भैरवीं प्रणमामि ताम् ।
चिञ्चिणीं तु कदम्बस्थां चिञ्चिनीवृक्षनायिकाम् ॥ ६८
नौमि भद्रेश्वरयुतां महापापक्षयंकरीम् ।
करवीरे श्मशाने तु ऊर्ध्वकेशीं भयंकरीम् ॥ ६९
नग्नवाससमोपेतां पानपात्रधरां शुभाम् ।
लंगुडे च्छिन्नमुण्डाख्यां क्रोधराजसमन्विताम् ॥ ७०
कर्तरीकरहस्तां तु नौमि पापक्षयंकरीम् ।
कामशरे श्मशाने तु कामलक्ष्मीं जगत्पतिम् ॥ ७१
मन्मथेन समायुक्तां त्रिकोणाकारसंस्थिताम् ।
एककोणे श्मशानाख्ये त्रिकोणां रक्तवाससाम् ॥ ७२
त्रिशिरेण समोपेतां नृमुण्डकरभूषिताम् ।
एकवीरे श्मशाने तु मातङ्गीं कुलनायिकाम् ॥ ७३
मातङ्गीशसमोपेतां नौमि नूपुरहस्तिकाम् ।
डोहरे तु शिवादूतीं असुरसुरवन्दिताम् ॥ ७४
हयशीर्षसमोपेतां धनुबाणधरां पराम् ।
श्रीपर्वते महासिद्धां सिद्धमार्गविकासिनीम् ॥ ७५
ज्योतिलिङ्गसमोपेतां महायुधधरां शुभाम् ।
ओणके तु महाशक्तिं अपवर्गविकासिनीम् ॥ ७६
परानन्दसमायुक्तां पुष्पचापकरोद्यताम् ।
च्छायाच्छत्रे तु चण्डिन्यां ऊर्ध्वकेशीं महौजसीम् ॥ ७७
ऊर्ध्वकेशसमोपेतां मन्त्रमातृकरोद्यताम् ।
शैलपृष्ठे तु त्रिजटां शैलराजसमायुताम् ॥ ७८
महाडमरुकहस्तां च तमान्धभयहारिणीम् ।
हक्कडोक्के रुद्रशक्तिं भगाख्यां सिद्धवासनाम् ॥ ७९
श्रीकण्ठसहितां नौमि अग्निज्वालाकलान्विताम् ।
देवीकोट्टे महामायां इषुपाशकरान्विताम् ॥ ८०
विकरालसमोपेतां संसारभयनाशनीम् ।
महामायावने घोरे चण्डकापालिनीं शुभाम् ॥ ८१
प्रचण्डसंयुतां नौमि सरसृङ्गकरोद्यताम् ।
श्रीमच्चन्द्रपुरे रम्ये चिञ्चिनीकुलमालिनीम् ॥ ८२
लम्बोदरसमायुक्तां तडित्कोटिकरोद्यताम् ।
महामलयदेशे तु महामन्त्रमहेश्वरीम् ॥ ८३
चक्रेश्वरसमोपेतां कूष्माण्डायुधहस्तिकाम् ।
मालवे तु महाकालीं कालकङ्कालहस्तिकाम् ॥ ८४
मेघनादसमायुक्तां ज्ञानविज्ञानदायिकाम् ।
श्रीमत्केदारनिलयां संस्थितारे (?) तु मालिनीम् ॥ ८५
सदाशिवसमोपेतां नौम्यहं शूलहस्तिकाम् ।
महालक्ष्मीवने घोरे महालक्ष्मीं जगत्सुखाम् ॥ ८६
नौमि तुम्बुरुसंयुक्तां वरदाभयगोचराम् ।
क्षेत्रोपक्षेत्रसंदोहाः चतुःपञ्चाश कीर्तिताः ॥ ८७
पीठोपपीठसंदोहान् दशान्यान् कीर्तयामि ते ।
पूजाक्रमविधानेन कथयामि समासतः ॥ ८८
चन्द्रद्वीपे कुलालाख्यां विद्याराजसमन्विताम् ।
टङ्कटीकरहस्तां तु पश्चिमे प्रणमामि ताम् ॥ ८९
रक्तां करालां चण्डाक्षीं महोच्छुष्मां तु भैरवीम् ।
ओंकारे चाग्निकां नौमि जप्यमालाकरोद्यताम् ॥ ९०
जालन्धरस्थितां देवीं कामलक्ष्मीं जगत्प्रभाम् ।
फलेश्वरसमोपेतां अलक्ष्मीतमनाशनीम् ॥ ९१
पूर्णगिर्ये महाग्रीवां मुण्डखट्वाङ्गधारिणीम् ।
पूर्णेश्वरसमायुक्तां वन्देऽहं सर्वमङ्गलाम् ॥ ९२
मनोद्भवां कामरूपे काद्यखट्वाङ्गहस्तिकाम् ।
कामेश्वरसमोपेतां नित्यं नौम्यपराजिताम् ॥ ९३
तिस्रपीठे त्रिभुवनां त्रिदशाधिपतीश्वरीम् ।
कपालदण्डहस्तां तु वरदां विश्वरूपिणीम् ॥ ९४
कृतिवाससमोपेतां चामुण्डां मुण्डधारिणीम् ।
एकाम्रे संस्थितां देवीं नमाम्यशुभहारिणीम् ॥ ९५
अग्निकेन समोपेतां क्षुरधारकरार्पिताम् ।
कामकोट्टे मोक्षलक्ष्मीं नमामि श्रीविवृद्धये ॥ ९६
अस्वरां तु महादेवीं नित्यमर्बुदवासिनीम् ।
अर्बुदेश्वरसंयुक्तां नौमि विघ्नार्तिहारिणीम् ॥ ९७
हिरण्यपुरसंस्थां तु परां शिवसमायुताम् ।
ज्ञानपुस्तकहस्तां तु परमार्थफलप्रदाम् ॥ ९८
क्षेत्रोपक्षेत्रसंदोहे स्थिता भूचक्रमातरः ।
क्षेत्रपालसमोपेताः कीर्तयेद् यः समाहितः ॥ ९९
प्रातरुत्थाय मन्त्रज्ञः स्वप्नकालेऽथवा सुधीः ।
आद्यपीठे क्रमाग्रे तु योगे समयमण्डले ॥ १००
युक्तोऽपि पातकैर्घोरैर्देवीनां सम्मतो भवेत् ।
पितृहा मातृहन्ता च ब्रह्महा गोघ्न एव च ॥ १०१
ब्रुणहा पशुहन्ता वा पापिष्टो गुरुतल्पगः ।
वीरद्रव्यापहारी च प्रमादात् समयच्युतः ॥ १०२
मन्त्राचारविलुप्तात्मा पीठानां कीर्तनादपि ।
सर्वपातकनिर्मुक्तो नैव पश्यति दुर्गतिम् ॥ १०३
यः पुनः शुद्धभावात्मा त्रिकालं परिकीर्तयेत् ।
प्राप्नोति चिन्तितान् कामान् मातॄणां वल्लभो भवेत् ॥ १०४
कुण्डे वा मण्डले वापि प्रतिमायां पटेऽपि वा ।
लिङ्गे दक्षिणमूर्तौ वा जलमध्यगतोऽपि वा ॥ १०५
त्रिकालमेककालं वा यः पठेत् सुसमाहितः ।
विषशस्त्रजलाग्निभ्यो व्याधिभूतग्रहैरपि ॥ १०६
अजितः सुचिरं कालं जीवते निरुपद्रवः ।
सबीजं साधयेत् सम्यक् सफलं नात्र संशयः ॥ १०७
निष्फलं बीजरहितं अरण्ये रोपितं यथा ।
अट्टहासात् समारभ्य यावत् तं हाटकं पुरम् ॥ १०८
तावद् मन्त्रान्वयो ह्येष अणिमादिफलप्रदः ।
श्रीनाथ उवाच
अट्टहासादिपीठाणां हेमपीठान्तकावधिः ॥ १०९
तावत् पीठेषु सर्वेषु अशक्तोऽबीजपञ्चके ।
मातृकूटसमायोगात् तदुपायं वदस्व मे ॥ ११०
श्रीवक्रा उवाच
अट्टहासादिपीठेषु कृत्वा वै दीपपञ्चकम् ।
तथैव मातृहृदयं हेमकूटस्य उच्चरेत् ॥ १११
आद्यन्तोच्चारयोगेन सर्वे मातृकुले गताः ।
आद्यन्तकरणं योगं सबीजकरणोत्तमम् ॥ ११२
अशक्तानां समाख्यातं श्रीगृहे तस्य सांप्रतम् ।
तस्माद् भुक्तिश्च मुक्तिश्च पीठानां कीर्तनाद् भवेत् ॥ ११३
आधाराः स्तवराजस्य प्रणवाः पूर्वपश्चिमे ।
गुप्तोच्चारकृते सिद्धिर्यदि योगी च मन्त्रवित् ॥ ११४
महाभये समुत्पन्ने कपिलागोमयेन तु ।
अष्टाष्टविधानेन कारयेद् वृत्तमण्डलम् ॥ ११५
शिवरत्नं तथान्येषु एकान्ते यागमन्दिरे ।
साधकानां पुत्रकानां स्तवराजस्य सेवनात् ॥ ११६
सुगन्धैः श्वेतपुष्पैश्च कुंकुमेन सुवासितैः ।
धूपैः श्रीखण्डगन्धाद्यैः सुमनेन पलालिना ॥ ११७
नैवेद्यभक्षपानाद्यैर्दीपैर्नानाविधैः शुभैः ।
मध्ये तु कलशं स्थाप्य वीरद्रव्यप्रपूरितम् ॥ ११८
ऐंकारमासनं दत्वा तेन कन्दं तु लाञ्च्छितम् ।
स्वयं चार्णं महापिण्डं करौ देहे तु विन्यसेत् ॥ ११९
पिण्डान्वितेन देहेन पीठयागं तु कारयेत् ।
मध्ये हिरण्यं संपूज्यं पश्चिमं सर्वकामदम् ॥ १२०
अन्ये विलोममार्गेण यावद् वै अट्टहासकम् ।
पीठयागं तु कर्तव्यं पाद्वन्तं श्रीपुरादिना ॥ १२१
पीठोपपीठसंदोहक्षेत्रोपक्षेत्रनायकाः ।
सर्वे ते द्वारभूतास्तु शिवपीठस्य मध्यतः ॥ १२२
युक्तास्ते प्रेतनाथेन शिवव्याप्त्या हरन्ति ते ।
तत्रस्थाः पूजिता मन्त्राः क्रियामार्गावलम्बकाः ॥ १२३
ज्ञानं ददन्ति सर्वेषां भक्त्या संतर्पिताः शुभाः ।
तस्मात् सर्वं प्रयत्नेन हैरण्यं पीठमुत्तमम् ॥ १२४
तत्र पूजा कृता नित्यं सर्वकामानवाप्नुयात् ।
दिग्विदिक्षु गताः पीठा बाह्यतो मध्यमासने ॥ १२५
गर्भस्थाने महापीठं त्वेवं क्रमेण योजयेत् ।
चतुःषष्टिस्तु दीपानि पीठानि परिवर्तयेत् ॥ १२६
अहोरात्रोषितो भूत्वा स्वपेकाकी सुयन्त्रितः ।
ब्रह्मचारीव्रतस्थश्च पिशितालिविवर्जितः ॥ १२७
तत्र जप्यं प्रकर्तव्यं मात्रत्रिंशतिजं यतः ।
प्रभाते विमले मन्त्री वीरभोज्यं तु कारयेत् ॥ १२८
ततः क्षमापयेत् पीठान् प्रणिपत्य मुहुर्मुहुः ।
निर्विघ्नस्तु ततो मन्त्री सर्वं भवति सिद्धिदम् ॥ १२९
उपसर्गग्रहादीनि यक्षकूष्माण्डगुह्यकाः ।
शत्रोरुत्कटदेशे तु राजाभङ्गे विशेषतः ॥ १३०
मुच्यते स उपसर्गेभ्यो धनधान्यमवाप्नुयात् ।
परोपघाटकृत्येषु मारणोच्चाटनादिषु ॥ १३१
पापपङ्काद् हि मुच्येत निर्मलं वास्त्रं वर्तते ।
पीठानां क्रमयोगेन पापात्मा न पुनर्भवेत् ॥ १३२
प्राप्नुयादभीप्सितान् कामान् मृतवत् सोऽपि यो भवेत् ।
जीववत्सा भवति पुत्रिणी तदभिषेचनात् ॥ १३३
पुत्रार्थी लभते पुत्रान् सुभगत्वमवाप्नुयात् ।
विद्यार्थी लभते विद्यां धनार्थी धनवान् भवेत् ॥ १३४
दारार्थी लभते दारां रूपयौवनगर्विताम् ।
भूम्यर्थी लभते भूमिं पानार्थी पानमाप्नुयात् ॥ १३५
ज्ञानार्थी लभते ज्ञानं समयार्थी समयं लभेत् ।
मन्त्राराधनशीलस्तु जायते निरुपद्रवः ॥ १३६
योगाभ्यासरतो नित्यं प्राप्य सिद्धिं परं व्रजेत् ।
पादविद्याप्रसङ्गेन पीठस्तवप्रकाशितम् ॥ १३७
समस्तव्यस्तप्राप्तिस्तु मन्त्रोच्चारणधारणात् ।
अन्वयेऽस्मिन् समस्तं तु स्तवपाठमुदाहृतम् ॥ १३८
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते कादिभेदे पीठस्तवाधिकारे विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते विद्याधिकारो नामानन्दः ॥ १६ ॥
Kumārikākhaṇḍa – Kapitel १७
॥ ॐ स्वस्ति ॥
श्रीनाथपादुकाभ्यां नमः। श्रीगणेशाय नमः।
मन्थानभैरवतन्त्रे कुमारिकाखण्डे
सप्तदशानन्दः
श्रीवक्रा उवाच
अन्वयस्य तु यत् सारं दिव्यौघे संप्रदर्शितम् ।
षोडशात्मकसंकेतमधुना कथयामि ते ॥ १
सन्तानं मेरुमार्गे च अन्वयं तत्र देवता ।
निर्गमं चैव ओंकारे सिद्धान्वये प्रकीर्तितम् ॥ २
तुष्णीदेवं गुहावासी वृक्षं चैव कदम्बकम् ।
सिंहसंकेतकं चैव अव्वा च गुहवासिनी ॥ ३
गृहं चन्द्रपुरं प्रोक्तं भेदं मन्थानभैरवम् ।
गोत्रम् अमरिका देवी वाममार्गे प्रकल्पिता ॥ ४
अन्वये प्रत्ययं सारं अधिकारं तु कोङ्कणे ।
जन्मब्रह्मशिला सिद्धस्थितिर्वै कामरूपके ॥ ५
कीर्तिश्चिञ्चिणिवृक्षं तु सिद्धिश्चैव तु सागरे ।
तुष्टोऽहं तस्य देवेश यो जानाति कुलक्रमम् ॥ ६
अयं तु कौलिकं सारं कुलक्रमविनिर्गतम् ।
षोडशात्मकसंकेतं ज्ञात्वा चान्वयिको भवेत् ॥ ७
श्रीनाथ उवाच
किं मेरुमार्गं देवेशि अन्वये कात्र देवता ।
ओंकारनिर्गमं ब्रूहि सिद्धौ चैव वदस्व मे ॥ ८
गुहावासान्तरं किं तु कदम्बं प्रकटं कुरु ।
सिंहकं च न मे ज्ञातं चन्द्रपुर्यं विशेषतः ॥ ९
गोत्रं मन्थानभेदं च प्रकटं कुरु कौलिनि ।
अन्वये प्रत्ययं किं तु अधिकारं तथाम्बिके ॥ १०
जन्मब्रह्मशिलां योनिं निगदस्व महेश्वरि ।
स्थितिः किं कामरूपे तु कीर्तिं कथय चिञ्चिणीम् ॥ ११
सागरे तु कथं सिद्धिः एतत् पृच्छामि कौलिनि ।
स्फुटं कथय एकैकं संशयं छेतुमर्हसि ॥ १२
श्रीवक्रा उवाच
संकेतानि च देवेश कुलाम्नाये व्यवस्थिताः ।
चन्द्रपुर्यस्य बिम्बस्य अन्वयं षोडशात्मकम् ॥ १३
तस्य सन्तानसूत्रं तु षड्विधस्य क्रमस्य च ।
अधुना श्रूयतां शम्भो अमृतं सारसंग्रहम् ॥ १४
पदे पदे मया ख्यातं भेदे भेदे पृथक् पृथक् ।
अतिगूढमिदं प्रश्नं देवदेवावतारितम् ॥ १५
तदहं कथयिष्यामि येन विन्दसि सर्वशः ।
मेरु भुवन विख्यातं देवतालयशोभनम् ॥ १६
त्रिकूटं शृङ्गरचितं त्रिभिर्देवैरधिष्ठितम् ।
ब्रह्मा विष्णुश्च रुद्रश्च एते सिद्धक्रमे स्थिताः ॥ १७
आनन्दं विमलं चिञ्चं एषां संज्ञा त्रिशुद्धिषु ।
आनन्दं व्यापकं देव सर्वभूतेष्ववस्थितम् ॥ १८
सृष्टिर्विमलरूपेण चिकाराज्ञागृहे स्थिता ।
एतैर्विज्ञातमात्रैस्तु मोक्षं यास्यन्ति मानवाः ॥ १९
व्यापिन्या च महादेवी एकैकस्य व्यवस्थिता ।
तरङ्गिनी महाचण्डा काये कायेषु व्यापिनी ॥ २०
त्रिरत्नभूषितैस्त्वङ्गैः स्वभावेन तु दीपिता ।
मार्गं चैव ऋजुं स्पष्टं सुशुद्धममृतोपमम् ॥ २१
अमा नाम कला सा तु आश्रमं गुह्यमण्डले ।
आगता सा परा देवी दाडिमीकुसुमोपमा ॥ २२
द्वौ पक्षौ गुहका माया दृश्येते ऋतुकालयोः ।
विचित्रा नाम विख्याता तया व्याप्तमशेषतः ॥ २३
एषा सा देवता देवतया ख्याता मया प्रभो ।
गुहाश्रमाद् विनिष्क्रान्ता अस्वरा स्वरवाहिनी ॥ २४
शुद्धस्फटिकसंकाशा शक्तिभिः सह संस्थिता ।
निष्क्रान्ता कूर्मनाड्या या इन्दुबिम्बसमायुता ॥ २५
सिद्धौ द्वाविति विख्यातौ भूषितं मेरुमण्डलम् ।
सृष्टिसंहारकर्तारौ पुनश्चान्तपदे स्थितौ ॥ २६
ओंकारनिर्गमं देव सादाख्यं परिगीयते ।
अयं ब्रह्म अयं विष्णुरयं रुद्रो महेश्वरः ॥ २७
सर्वदेवमयो ह्येष ओंकार इति गीयते ।
मेरोर्मध्यमतुङ्गे तु स्थिता समुद्रमालया ॥ २८
त्रिकोणायां गुहामध्ये ओंकारस्तत्र दृश्यते ।
अमृतमध्ये गुहावासी बिन्दुना गीयते तु सा ॥ २९
संकेतं वृक्षमूलं तु योनिमध्ये कदम्बकम् ।
तेन व्याप्तमिदं मेरु आलयं सर्वयोगिनाम् ॥ ३०
संज्ञाभेदस्थिता देवी हरया बिन्दुसंज्ञया ।
भाषामुद्राणि चिन्हानि संकेतेन प्रकीर्तिताः ॥ ३१
सिंहकं शृणु देवेश अम्बा यत्र स्वयं स्थिता ।
भैरवी रमते तत्र क्रीडते भैरवैः सह ॥ ३२
अधिष्ठानं महास्थानं समुद्रालयवेष्टितम् ।
सिंहकं तं विजानीयात् सिंहासनमुदीरितम् ॥ ३३
अम्बरस्थं महाबिम्बं षोडशस्वरभूषितम् ।
तन्मध्ये तु अमा देवी गृहमेतत् प्रकीर्तितम् ॥ ३४
कूर्मयन्त्रप्रवाहेन मन्थयेच्च परस्परम् ।
मन्थानं सृष्टिरेवोक्तं कौलिकं कलसंभवम् ॥ ३५
तस्मिन् मध्ये रमेद् धीमान् यत्र माता निरामया ।
अस्मिन् गोत्रं प्रवक्ष्यामि अमरत्वं शृणु प्रिय ॥ ३६
पञ्चरत्नस्य मध्यस्थं श्रीकण्ठादि प्रकीर्तितम् ।
एष देव्यादिगोत्रो ऽयं न गोत्रं नामसंज्ञया ॥ ३७
वामभागे स्थिता या तां वामाचारेण पूजयेत् ।
अमरत्वेति विज्ञेयं लम्बकं नाम विश्रुतम् ॥ ३८
सा कला भावये द्रव्यं पिबस्व अमृतोपमम् ।
एषा परं महास्थानं मेरुमण्डलवेष्टितम् ॥ ३९
प्रत्ययं शृणु देवेश महाविश्वेति दृश्यते ।
वर्तुलं रत्नतुङ्गाभं वर्णावर्णान्तप्रत्ययम् ॥ ४०
तच्च पश्यन्ति योगिन्यो मर्त्यानां प्रकटं हर ।
महापर्वतबिम्बस्य पूजां कुर्वन्ति योगिनः ॥ ४१
क्रमार्चनं प्रकुर्वन्ति ये स्थिता विश्वमध्यतः ।
दिव्याक्षरं तु तं पश्येत् कौलिनीपरिलेखितम् ॥ ४२
स एष प्रत्ययं रुद्र प्रत्यक्षं समुदाहृतम् ।
कृतं मयाधिकारं तु पूर्णपीठे ह्यधोमुखी ॥ ४३
पुनः कोंकणावतारे कमलाव्वा प्रकीर्तिता ।
एतद् वै अधिकारं तु कोंकणे प्रकटीकृतम् ॥ ४४
ब्रह्मस्थाने भवेत् पद्मं सृष्ट्यर्थं समुपागतम् ।
जन्मस्थानं शिलामध्ये तत्र चांकुरदेवता ॥ ४५
तया च सा शिलाक्रान्ता जन्मब्रह्मशिला स्मृता ।
कन्दमूलमधःस्थाने वर्तुलं चातिशोभनम् ॥ ४६
तच्छ्रवेत् कामिनीचक्रे देवदेव महेश्वर ।
कामाख्यं गुह्यसंस्थाने स्थित्वाश्रमं ममेति च ॥ ४७
करिष्यामि ह्यहं कीर्तिं चिञ्चाख्ये वृक्षसंज्ञके ।
मयापि व्यापितं मेरु रमन्ती च अहं स्थिता ॥ ४८
सागरे हृदि मध्ये तु नानासिद्धीन्यनेकशः ।
तत्र मन्त्रा हि योगदा विज्ञानं चात्र संस्थितम् ॥ ४९
भोगमोक्षालयं देव यत् किञ्चित् सचराचरम् ।
एतत् सारं महाशम्भो ज्ञातव्यं कौलिकैः सह ॥ ५०
यस्य तुष्टा च अव्वाहं स विन्दति कुलक्रमम् ।
कुलपिण्डे तु हे नाथ मिथ्या क्लिष्यन्ति योगिनः ॥ ५१
न विन्दन्ति रहस्येदं यत् सारं कौलिकान्वये ।
तेन ते सिद्धिनिर्मुक्ता विचरन्ति महीतले ॥ ५२
स्वानुभवं मेरुबिम्बे तु सिद्धीनां क्लिन्नमण्डले ।
कुलस्यास्य प्रभावेन तस्मात् सिद्धिर्न दूरतः ॥ ५३
कुलकौलस्य मध्ये तु यो रमेत् साधकोत्तमः ।
स मुक्तो मोचयेज्जन्तून् योगिनीसमतां व्रजेत् ॥ ५४
अयं तु कौलिकं सारं कुलक्रमविनिर्गतम् ।
संकेतषोडषं शम्भो मया तदुपलक्षितम् ॥ ५५
न कथेद् भिन्नभावस्य भक्तिहीनशठस्य च ।
व्याख्येयं भक्तियुक्तस्य गुरुदेवरतस्य च ॥ ५६
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीसन्तानसूत्राधिकारवर्णने क्रमोदयो नामानन्दः ॥ १७ ॥
Kumārikākhaṇḍa – Kapitel १८
अष्टादशानन्दः
श्रीनाथ उवाच
किञ्चिच्चोद्यं मम भद्रे बुद्धिकौशल्यविस्तरम् ।
केन बुद्धिस्वरूपेण वससे मम देहगा ॥ १
केन ज्ञानभूयिष्ठेन तन्मे ब्रूहि सुरार्चिते ।
किं कुलं किं कुलाचारं किं मूलं अन्वयं तथा ॥ २
संज्ञाभेदविधानानि रूपं वर्णाः स्वरूपतः ।
कुले पिण्डस्य न्यासं हि पदस्थानविभूषणम् ॥ ३
कस्मिन् स्थाने तु न्यस्तव्यं योगं धारणलक्षणम् ।
समयविद्यां च आज्ञां च न्याससूत्रं वदस्व मे ॥ ४
श्रीवक्रा उवाच
साधु साधु महाशम्भो यन्मे निगदितं शृणु ।
विस्तरेण बहुभेदैस्तत्सर्वं कथयामि ते ॥ ५
वाग्जालैः किं प्रभावैश्च तूष्णीं त्वं तिष्ठ शङ्कर ।
एकया जिह्वया देव कथं वर्णयितुं क्षमा ॥ ६
शृणु रहस्यं परमं सद्भावं वर्णयामि ते ।
यथा क्षीरे स्थितं सर्पिः अव्युच्छिन्नं न दृश्यते ॥ ७
तथाहं तव सर्वाङ्गैः व्यापयित्वा व्यवस्थिता ।
मया विना च त्वं देव अज्ञानी मूढचेतनः ॥ ८
पंगुलो जडवच्चान्धो मूको बधिर वत्सल ।
मया प्रबोधमात्रया प्रबुध्यन्ते पुनस्तथा ॥ ९
स्पन्दनं चलनं चैव भ्रमणं जल्पनं विभो ।
क्रीडनं सृष्टिकर्तृत्वं यत् किञ्चित् करोतीच्छया ॥ १०
सर्वावस्था मया देव प्रेरिता मम सर्वतः ।
न मया रहितं किञ्चित् पश्यसि च त्रिलोचन ॥ ११
यथा रश्मिसमूहेन व्यापयेच्च दिवाकरः ।
तथाहं व्यापिनी तुभ्यं देहे तिष्ठामि सर्वदा ॥ १२
यथा वह्नेः स्थिता ज्वालाशीतांशुरश्मिमध्यतः ।
एवं व्याप्तं मया सर्वं अशेषं भुवनान्तिकम् ॥ १३
व्यापितं तु मया शक्त्या मायाजालेन मोहितम् ।
करणं कर्तृ कर्माणि कुर्वामि न करोम्यहम् ॥ १४
सर्वशास्त्राण्यनेकानि चित्रिता मम पुस्तके ।
शोभनानि च वाक्यानि शृणु भैरव यत्नतः ॥ १५
श्रीमतेदं महादेव सर्वागममनुत्तमम् ।
येन विज्ञातमात्रेण निर्मलः साधको भवेत् ॥ १६
विचरेत महीं सर्वां निःशङ्को वनहस्तिवत् ।
श्रीनाथ उवाच
न्याससूत्रं महादेवि वद मे शंकरार्चिते ॥ १७
येन न्यसितमात्रेण दिव्याम्नायः प्रवर्तते ।
श्रीवक्रा उवाच
पुनरन्यं क्रमं वक्ष्ये मालिन्या देहसन्ततिम् ॥ १८
मेरुमार्गाद् विनिष्क्रान्ता षोढान्यासस्य पद्धतिः ।
मालिनी शब्दराशिश्च त्रिविद्याघोरिकाष्टकम् ॥ १९
सिद्धाङ्गपञ्चकाङ्गानि विद्यया बीजपञ्चकम् ।
पीठपञ्चकमेवं तु षोढान्यासं प्रकीर्तितम् ॥ २०
समयाद्वादशाङ्गानि तथा क्षेत्रपरिग्रहम् ।
अधिकारत्रयं कृत्वा तथान्यं रत्नपञ्चकम् ॥ २१
एवं न्यासक्रमं कृत्वा पश्चाद् यजनमारभेत् ।
मालिन्यादिसुविन्यासं समयं मण्डलक्रमम् ॥ २२
प्रथमं कुलकौलस्य कृत्वा यजनमारभेत् ।
तत्र न्यासं यथा देव अवतारं कलौ युगे ॥ २३
आदिपीठस्य वक्ष्यामि शृणु एकाग्र सुन्दर ।
उद्धारं च यथा देव शृणु वक्ष्याम्यनन्तरम् ॥ २४
रावस्याधःस्थितं रत्नं शिखा स्याच्च अधोमुखी ।
तथा च पद्मयोनिश्च शिरोऽस्माकं महेश्वर ॥ २५
एकपादान्तचत्वारि “ विलोमाच्छिरमालिका ।
आद्यं शक्तिपुरस्यास्य नयनं च तृतीयकम् ॥ २६
तथा धूम्रध्वजस्याधौ लोचनौ द्वौ प्रकीर्तितौ ।
एकपादशिरं गृह्य द्वावेतौ कर्णयोर्न्यसेत् ॥ २७
तथाभ्यां भूषणौ श्रेष्ठौ ठडान्तौ च स्थितौ हर ।
ई–ऊमध्ये गता नासा शिवरूपा मनोन्मनी ॥ २८
पुटोभयसमायुक्ता विसर्गान्तेऽपि भेदिनी ।
तस्याधः परवक्त्रं तु सृष्टिपूर्वं महेश्वर ॥ २९
हनुमानुजवर्णाद्यं खाद्यं वै खशिरं पुनः ।
द्विशिरं पञ्चभिर्मध्यादुभयोर्दन्तमालिका ॥ ३०
तस्यां ललनया माया कपालशिरभुषणम् ।
स्वराद्यममृतं यच्च तस्यां वागेश्वरीं न्यसेत् ॥ ३१
अनङ्गासन कण्ठं तु छहान्तस्कन्धयोभयोः ।
उठासनौ तु द्वौ तस्याः कुर्यात् तौ बाहुदण्डयोः ॥ ३२
गौर्याधःस्थं जटाहारं कुर्याद् हस्ततलावुभौ ।
पुद्गलस्य विसर्गाद्यं उभयोः करपृष्ठयोः ॥ ३३
ज–अन्तं च इ–अन्तं च हस्तांगुलिनखाग्रगौ ।
वामहस्तस्थितं पात्रं कपालं ईयमध्यगम् ॥ ३४
उत्तानममृतं पूर्णं पञ्चरत्नैरधिष्ठितम् ।
त्रिशूलं दक्षिणे हस्ते अधोदण्डान्निधानकम् ॥ ३५
तस्य चोर्ध्वं मुखं कुर्यात् हरस्य सुरसुन्दर ।
एतद् वै राजसं शूलं रजोभावेन सुन्दर ॥ ३६
ताराद्यं यत् परं वर्णं प्राणे हि परिगीयते ।
हृदि स्थितं प्रकर्तव्यं सर्वपापहरं हर ॥ ३७
तस्मात् वर्णमनङ्गाद्यं प्राणात्मानं स्वयं गतम् ।
हृदयं त्रिविधं प्रोक्तं शाक्तं शाम्भवमाणवम् ॥ ३८
दक्षिणोत्तरतस्तस्या हराद्यं वान्तगं द्वयोः ।
कुचौ दिव्यौ तु देव्यायाः साव्यासाव्यौ विजानतः ॥ ३९
तयोः क्षीरं झकारान्तं तेजोरूपं सुरार्चितम् ।
महाशङ्खाद्यमुदरं वर्तुलं कुम्भकं पृथु ॥ ४०
अष्टमममृतस्याधो नाभ्यकाराग्निभैरवम् ।
आसनं च द्विरभ्यासं देव्याया वा नितम्बकम् ॥ ४१
षवान्तस्थं भगान्तं तं गिरिजासनपुद्गलम् ।
शुक्रेदं योनिरन्ध्रस्थं ह्यमृतं श्रवमाणकम् ॥ ४२
थणान्तं च द्विरभ्यासं देव्यायाः स्फिजकावुभौ ।
रावणजान्तगौ गृह्य विलोमाज्जानुकौ स्मृतौ ॥ ४३
पुद्गलान्तान्तगौ जंघौ सव्यासव्यक्रमेण तु ।
औशिरेण शिरे द्वे च देव्यायाः पादयुग्मके ॥ ४४
नादिफान्तसमुच्चारं कृत्वा खेचरतां व्रजेत् ।
खगतिः खेगती चैव मालिन्यायाः प्रभावतः ॥ ४५
न्यस्त्वा वै मालिनीन्यासं द्वादशाब्दैस्तु सिद्ध्यति ।
सकृदावर्तयेद् यस्तु सततं न्यसतेऽपि वा ॥ ४६
तस्य तीव्रतरा आज्ञा भवते नात्र संशयः ।
वर्णदेव्योऽधुना वक्ष्ये मालिन्याः पूर्ववत् क्रमात् ॥ ४७
नादिनी ग्रासिनी चैव निवृत्तिश्च प्रतिष्ठिका ।
विद्या चैव तथा शान्तिश्चामुण्डा प्रियदर्शिनी ॥ ४८
नारायणी च मोहन्या प्रज्ञाशक्तिस्तथापरा ।
गन्धशक्तिश्च वज्रिण्या कङ्कटा कालिका विदुः ॥ ४९
शिवा च घोरघोषा च विचित्रा अजया पुनः ।
वागेश्वरी शिखिवाही भीषणा वायुवेगिका ॥ ५०
सुलामा च विनायकी तथा चैव तु पूर्णिमा ।
इच्छाशक्तिस्तु सकाया रक्ता चैव कपालिनी ॥ ५१
नन्दिनी च जयन्ती च पद्मिनी परजाम्बिका ।
छगला पूतना चैव आमोटी लम्बकोदरी ॥ ५२
संहारी च महाकाली तथा च कुसुमायुधा ।
गुह्यशक्तिश्च ताराक्षी ज्ञानशक्तिस्तथैव च ॥ ५३
क्रियाशक्तिश्च गायत्री सावित्री तदनुक्रमात् ।
दहनी फेत्कारिका च नादिफान्ते समाश्रिताः ॥ ५४
आश्रमपूर्वतो वर्णं बीजं देव्यस्तथा पुनः ।
त्रिभिरेकसमायोगान्मालिनीन्यासमारभेत् ॥ ५५
नादिफान्ताक्षरा ये च पञ्चाशत् पूर्वमुद्धृताः ।
यथा कुर्याच्च संस्थानं सृष्टिन्याये क्रमेण तु ॥ ५६
शिरोहीनमनङ्गं तु तथा चाखण्डमण्डलम् ।
चन्द्रोर्ध्वाङ्कितमेवं तु उन्मन्यन्तं तथा पुनः ॥ ५७
एवं चतुःप्रकारस्थं मालिनीन्यासमारभेत् ।
चतुष्टयविनिर्मुक्तं न्यासं यः कर्तुमर्हति ॥ ५८
नासौ न्यासं न सः शिष्यः कृतं भवति निष्फलम् ।
नादबिन्दुकलाज्योतिर्येषु वर्णेषु संस्थितः ॥ ५९
बीजास्ते सर्वतः ख्याताः शेषा वर्णाश्च केवलाः ।
केवलेषु च वर्णेषु न मुक्तिर्भवबन्धनात् ॥ ६०
सम्यक्ज्ञातेषु बीजेषु पुनर्जन्म न विद्यते ।
प्राकृतं पूर्वकर्मं तु तैलबिन्दुरिवाम्भसि ॥ ६१
जनानां वर्तमानस्य ज्ञातैर्बीजैः क्षयो भवेत् ।
तस्मादभ्यासकरणं मालिनीन्यासरूपतः ॥ ६२
शक्तिस्तु मालिनी ज्ञेया प्राणशक्तिश्चिदात्मिका ।
सुषुम्नान्तरयोगेन गमागमक्रमेण तु ॥ ६३
रविचन्द्रसमायोगात् तदा प्रसादभैरवम् ।
प्रसादं बिन्दुचक्रं तु ऊर्ध्वं चांकुशवर्तुलम् ॥ ६४
गम्भीरनादवेगेन तेषां सम्पद्यते सुखम् ।
सुखाह्लादमनानन्दं अवस्था प्राप्यते पदम् ॥ ६५
तदा सा मालिनीशक्तिर्वह्निरुत्पद्यते कला ।
सा च तुर्यस्वराकारा वक्रदेहोद्भवा कला ॥ ६६
चन्द्रार्कानलकुण्डेषु मालिन्यायाधिकारणम् ।
विषवह्निगता मध्ये आवर्तान्ते व्यवस्थिता ॥ ६७
तस्मात् सा तिर्यगा रेखा मालिन्याकारवेश्मनि ।
तेन सा मालिनी प्रोक्ता स्थूला सूक्ष्मा तथा परा ॥ ६८
परतः परयोगेन परापरपरायणा ।
गृहीत्वा बीजरूपाणि बिन्दुरूपानुयोगिनी ॥ ६९
तया व्याप्तं जगत् सर्वं अशेषभुवनान्तिकम् ।
तस्याप्येतन्महाबीजं वाग्भवं गर्भसंयुतम् ॥ ७०
मायाबीजं द्वितीयं तु लक्ष्मीबीजं तृतीयकम् ।
एवं ते दीपकं त्रीणि बीजे बीजे पृथक् पृथक् ॥ ७१
शिखाग्रादिनखाग्रान्तं कुलविन्यास सुन्दरम् ।
दीपकेषु विनिर्मुक्तं न्यस्त्वा न्यासं च मालिनीम् ॥ ७२
शिष्यं तत्र न मुच्येत प्राकृतं पूर्वकर्मणा ।
पूर्वकर्मविनाशार्थं न्यासेदिदं सुदीपितम् ॥ ७३
कथितं कुलयोगीनां कौलयोगात् परं नहि ।
श्रीनाथ उवाच
पुरुषस्यान्तरात्मानं चैतन्यं व्योमविग्रहम् ॥ ७४
शिरश्छेदकनामेन प्रज्वलन्तं नभस्थितम् ।
स एव पुरुषो व्यापी अव्यक्तो ज्योतिरूपकः ॥ ७५
शब्दाढ्यं च गुणातीतं प्रभुत्वे संव्यवस्थितम् ।
किं तस्य बन्धनं प्रोक्तं रतिचक्रे तु भाविनि ॥ ७६
किमेतन्मालिनीन्यासं मुक्तं भवति किं प्रभो ।
एतद् विज्ञातुमिच्छामि मालिनीक्रमहेतुना ॥ ७७
श्रीवक्रा उवाच
एतत् प्रश्नवरं गुह्यं सिद्धिनाथावतारितम् ।
तस्योत्तरं प्रवक्ष्यामि शृणु एकाग्र भैरव ॥ ७८
क्षीरमध्ये स्थितं सर्पि अव्युच्छिन्नं न दृश्यते ।
तथासौ पुरुषो लोके मालिनीहृदिमण्डले ॥ ७९
यदा न पश्यते जीवं स्वमनेन तु साधकः ।
तदासौ वर्तते कर्म प्राकृतं दुरतिक्रमम् ॥ ८०
सुखदुःखवशं गच्छेत् न ज्ञातः पुरुषो यदा ।
तदा ते पञ्चभूतैस्तु पुरुषोऽसौ वशंगतः ॥ ८१
विदिते पुरुषे देव क्षयस्तेषां न संशयः ।
एवं च प्राकृतं कर्म पुरुषस्य व्यवस्थितम् ॥ ८२
आदौ च पुरुषो व्यापी पश्चात् कर्म प्रवर्तते ।
पुरुषेण विना कर्म न प्रवर्तेत भूतले ॥ ८३
पृथिव्यादिषु तत्त्वेषु संस्थितः पुरुषो हि सः ।
सत्त्वरजस्तमैकत्वे कृतं कर्म प्रवर्तते ॥ ८४
पुरुषेण विना कर्म न प्रवर्तेत केवलम् ।
तस्माच्चादौ च पुरुषं ततो भूतादिपञ्चकम् ॥ ८५
पश्चात् त्रीणि गुणान्येषां ततः कर्म प्रवर्तते ।
यस्मात् पाशाः प्रवर्तन्ते शुभानि अशुभानि च ॥ ८६
प्रकृत्यान्तर्गतं ज्ञात्वा मालिनीकुण्डमध्यतः ।
पञ्चभूतानि मुच्येत साधको मोक्षदो भवेत् ॥ ८७
एतत् सर्वं समासेन मालिन्याः क्रमसंस्थितिः ।
सा चैव चन्द्ररूपेण पुंसः शक्तिश्च चिन्मया ॥ ८८
सा च माता च मालिन्या स्थूला सूक्ष्मापराजिता ।
बीजभूता समाख्याता मालिनी भुवनाकृतिः ॥ ८९
वक्त्राद् वक्त्रगता ज्ञेया गुरुवक्त्रे प्रतिष्ठिता ।
संस्थिता चेश्वरे भागे वाममार्गे विसर्पिता ॥ ९०
तस्यामभ्यासकरणं षडङ्गं च यथा भवेत् ।
मेरुमध्यगतं वक्त्रं षड्विधं कारयेत् पुनः ॥ ९१
दीर्घैः षड्भिः स्वरैर्भेद्यैः नादबिन्दुलयं कृतम् ।
षडन्तरगता वै च कुर्यात् षड्विधमासनम् ॥ ९२
षड्विधं कामराजानं मालिन्या योनियोजितम् ।
हृच्छिरश्च शिखा वर्मलोचनास्त्रं च षड्विधम् ॥ ९३
देवताषड्भिः संयुक्तं मालिन्याङ्गक्रमेण तु ।
शवरी विद्युज्जिह्वा च शर्वरी च कुलाम्बिका ॥ ९४
मोहनी मारणी षष्ठी पृथगङ्गेषु देवताः ।
कुर्याद् बीजत्रयं चादौ तथा कामेश्वरं पुनः ॥ ९५
देवतामाश्रमं षड्भिः आद्यन्तेषु विलोमतः ।
पृथक्कूटविधानेन अङ्गान्येतानि मालिनी ॥ ९६
सकृदावर्तयेद् यस्तु सततं न्यसतेऽपि वा ।
आज्ञा प्रवर्तते तीव्रा दिव्यावेशः प्रवर्तते ॥ ९७
न शृणोति न पश्येत तदासौ मुक्तिभाजनः ।
मण्डलाग्रे गुरोराज्ञा सुविनीतः प्रसन्नधीः ॥ ९८
वक्त्राणि संप्रवक्ष्यामि यथावदनुपूर्वशः ।
च्छायाच्छत्रं महादेव उकारं शिरसाहतम् ॥ ९९
बिन्द्विन्दुनाङ्कितं देव ऊर्ध्ववक्त्रं तु मालिनी ।
हंसं च मूर्ध्नि विन्यस्य वायुबीजं च पूर्वतः ॥ १००
एकपादयुतं कृत्वा अग्निना दीप्ततत्त्वतः ।
बिन्द्विन्दुशिरसाक्रान्तं तृतीयं वक्त्रमण्डलम् ॥ १०१
अग्निधाम च संगृह्य पञ्चमेन समन्वितम् ।
बिन्दुचन्द्रयुतं देव दक्षिणे वक्त्रमण्डले ॥ १०२
वारुणं मायया सार्धं दीपन्याया अधोयुतम् ।
बिन्दुचन्द्रयुतं देव वामवक्त्रं तु मालिनी ॥ १०३
पूतना दीपनीयुक्ता मोहन्याधः कृतालया ।
बिन्दु–इन्दुसमाक्रान्ता पश्चिमे वक्त्रसंस्थिताः ॥ १०४
एते वक्त्रा महादेव मालिन्यायाः प्रकाशिताः ।
न्यासेदमारभेत् श्रेष्ठं सद्यःप्रत्ययकारकम् ॥ १०५
असंख्यानि च पापानि ये कृताः पूर्वजन्मनि ।
इहलोके च ये चान्ये कृता वाथ करिष्यति ॥ १०६
ते च सर्वे विनश्यन्ति मालिनीन्यासयोगतः ।
एतच्चातिरहस्यं वै मेरुमार्गविनिर्गतम् ॥ १०७
शशिचारवशाच्छम्भो एकचक्रे अधिष्ठितम् ।
तस्य योगप्रयोगोऽयं गुरोराज्ञावधिष्ठितम् ॥ १०८
जानात्ययं यदा देव मालिनीक्रमराजकम् ।
स मुक्तः सर्वबन्धेभ्यो न भूयो बन्धमाप्नुयात् ॥ १०९
तान्त्रिकानां तार्किकानां परशिष्ये विडम्बके ।
न दद्यान्मालिनीन्यासं दत्तं वा मरणं भवेत् ॥ ११०
तावद् भ्रमति संसारे घोराकारे महार्णवे ।
यावन्न प्राप्यते देव मालिनीक्रमराजकम् ॥ १११
तथा कुलं क्रमं न्यासं का चिन्ता भवसागरे ।
सौभाग्यं श्रेयसंपत्तिः अष्टैश्वर्यः प्रवर्तते ॥ ११२
भवते नात्र संदेहो रुद्रवत् साधको भवेत् ।
एतद् वै मालिनीन्यासं सद्भावं कौलिकान्वये ॥ ११३
तवाख्यतं तु सिद्धस्य नादिफान्तस्वरूपकम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशतिसहस्रसंहितायां अव्वाक्रमभाषिते मालिनीन्यासक्रमाधिकारवर्णने क्रमोदयो नामानन्दः ॥ १८ ॥
Kumārikākhaṇḍa – Kapitel १९
ऊनविंशानन्दः
श्रीवक्रा उवाच
अथ चान्यक्रमं वक्ष्ये शब्दराशिस्वरूपतः ।
अमृतादिविसर्गान्तं क्रमं पञ्चाशद्रूपिणम् ॥ १
सुशुद्धे भूप्रदेशे तु पांशुगोमयलेपिते ।
पुष्पप्रकरसंकीर्णे सुगुप्ते पशुवर्जिते ॥ २
गुरोराज्ञाप्रसादेन शब्दराशिं समुद्धरेत् ।
योऽसौ सर्वगतो देवो विभुः कर्ता सुरेश्वरः ॥ ३
स चामृततरङ्गेषु तुर्यस्थं बिन्दुमण्डले ।
अखण्डमण्डलाकारं योगिनीरवभेदितम् ॥ ४
तं परं व्योम्नि चक्रस्य तस्य शब्दमधिष्ठितम् ।
शब्दराशिक्रमेणोक्तं वर्णरूपाधिकारकम् ॥ ५
पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ।
निरञ्जनपदावस्थं तदा मुक्तं महेश्वर ॥ ६
शब्दब्रह्म भवेत् पिण्डं पदं बीजाक्षरं स्मृतम् ।
रूपं च मण्डलं योगं रूपातीतं च भैरव ॥ ७
निरञ्जनं पिण्डस्थं च रूपस्थं रूपवर्जितम् ।
निरञ्जनपदे ज्ञेयास्तदाधोर्ध्वे प्रशस्यते ॥ ८
गुरोर्गुरुतराश्चैव ये चान्ये क्रमधारकाः ।
सर्वे निरञ्जनावस्थास्तदा ते मोक्षदायकाः ॥ ९
शब्दब्रह्म परं ब्रह्म ब्रह्माक्षरसमुद्भवः ।
तल्लयं तत्परात्मानं ब्रह्मवृक्षं च गोलकम् ॥ १०
तस्य शाखाक्षरा देव पञ्चाशद्रूपसंख्यया ।
मन्त्ररूपास्तु ते सर्वे पञ्चाशत्तनुमण्डिताः ॥ ११
व्याप्तिस्तेषां क्रमाचारं आधारचन्द्रपुर्यके ।
चन्द्रपुर्यस्य विन्यस्य शब्दराश्याधिकारकम् ॥ १२
आनन्दं तु नवात्मानं तदा रुद्रान्वयं भवेत् ।
रुद्राणां मातृकान्यासं खेचरक्रमनिर्णयम् ॥ १३
खेचरं च खमध्यस्थं मध्यस्थं च खखेचरम् ।
एतच्चतुःप्रकारेण शाम्भवं शब्दराशिकम् ॥ १४
अनुक्रमं मेरुमार्गे मुद्रातत्त्वविभेदितम् ।
तन्मध्ये च क्रमं देव त्वं रुद्र शब्दराशिकम् ॥ १५
त्वं च पञ्चाशद्भिर्भेदैः प्रकृतिर्ज्ञेयरूपतः ।
विज्ञानभूमिकायोगं कारिकाक्रमसन्ततिः ॥ १६
सन्तानमेकमाकाशं भेदास्ते सप्तविंशतिः ।
तेषां मूर्तिधरं देवं वर्णराश्या तु केवलम् ॥ १७
श्रीनाथं देवतैर्युक्तं स च उलित्रये गुरुः ।
उलित्रये क्रमाः त्रीणि तेषां राशिप्रयोजनम् ॥ १८
पूर्वोक्तं संहितायां तु आदिनाथेन स्वामिना ।
तस्य मन्त्रक्रममेवं प्रत्ययं पूर्वभाषितम् ॥ १९
भाषामुद्रासमोपेतं भैरवं शब्दराशिकम् ।
तच्च च तृतीयकं मार्गं आद्यपीठं सुरेन्द्रराट् ॥ २०
अस्योद्धारं पुनर्ह्येव यथा सृष्टिक्रमेण तु ।
आत्मानं रुद्रवत् ज्ञात्वा रुद्रमात्मानवद् धर ॥ २१
सबाह्याभ्यन्तरं ज्ञात्वा शब्दराश्यावतारयेत् ।
अमृतादिहकारान्तं एतद् वर्णपरिग्रहम् ॥ २२
मातृकाकुलमेकं तु भगजातं तु प्रत्ययम् ।
तच्च पञ्चाशद्भिर्भेदैः न्यस्त्वा क्षोभोऽभिजायते ॥ २३
एतदक्षरविन्यासं पूर्वसंस्कारसंस्कृतम् ।
तदा बीजक्रमन्यासं अविज्ञातं न मुच्यते ॥ २४
अनङ्गस्य शिरं न्यस्य ललाटं तव मूर्धनि ।
तथा चैव ञवर्णस्य भवेत् तद् वक्त्रमण्डलम् ॥ २५
तथा प्रान्तं तु तेजस्य षोढं न्यस्य तथैव च ।
द्वावेतौ नयनौ देव चन्द्रादित्यावभासकौ ॥ २६
तथा चैव कला प्रोक्ता महेन्द्रस्य तु मस्तकम् ।
एतत् कर्णद्वयं देव सव्यासव्यौ उदाहृतौ ॥ २७
द्वे कलान्ते विलोमेन नासाद्वारयुतावुभौ ।
महेन्द्राद्यं द्वयं पात्यं मुखगण्डस्थलावुभौ ॥ २८
रावणान्तौ विलोमेन अधोर्ध्वे दन्तपंक्तिषु ।
राजेन्द्राद्यं द्वयं चेष्टौ अध ऊर्ध्वे सुभाविते ॥ २९
गिरिजासनमुद्धृत्य ब्रह्मरन्ध्रे महेश्वर ।
तस्याद्यं यद् विसर्गाख्यं जिह्वामूलं विधीयते ॥ ३०
अकारादिविसर्गान्तं स्वरचक्रमिति स्मृतम् ।
ब्रह्माणी देवता तत्र संस्थिता शम्भुमण्डले ॥ ३१
अथाङ्गानि वदेदानीं शृणु तथ्यं स्वरूपतः ।
द्विजासनं प्रभु पात्यं तेन स्कन्धं तु दक्षिणम् ॥ ३२
सिंहस्य आसनं बाहु आसनाद्यं च कूर्परम् ।
हनुमन्तं शिरं पात्यं दक्षहस्तं तदोपरि ॥ ३३
सिंहान्तं घान्तरं तस्माद् दक्षहस्तनखाग्रगम् ।
कवर्गं पञ्चधा देव माहेश्वर्या समायुतम् ॥ ३४
शक्तिपुरस्य बिम्बस्य यदाद्यं स्कन्धमुत्तमम् ।
तथा तस्य शिरं पात्यं वामबाहुनियोजितम् ॥ ३५
भशिरं कूर्परं चैव आ–आद्यं करपृष्ठगम् ।
मायाद्यं च करांगुल्योः नखाग्रेषु च विन्यसेत् ॥ ३६
चवर्गं चैव कौमार्या तव देव प्रकाशितम् ।
गौर्याया आदिमं कार्यं दक्षिणे च स्थिरं कुरु ॥ ३७
तस्यासनं दक्षत रुद्र अधो जानुजङ्घयोः ।
डकाराद्यं गतं पादं दक्षिणे तलपृष्ठगम् ॥ ३८
तद्ग्रहं चांगुलीयोज्यं नखास्तथा वै कौलिक ।
टवर्गं वैष्णवीसारं दक्षमार्गे विराजते ॥ ३९
पृथिव्याधः स्फिजवामं नीराधश्चोरुकं भवेत् ।
महाशङ्खासनं जानु जंघायां च गतं स्मृतम् ॥ ४०
तथा धूम्रध्वजस्याधः पादपृष्ठमधः स्मृतम् ।
अनङ्गशिरमाश्रित्य पादांगुल्यो नखाग्रतः ॥ ४१
वाराह्याधिष्ठितं वर्गं विन्यसेत् क्रमपद्धतौ ।
एवं वर्णोदये पार्णं पार्श्वदक्षिणकुक्षिगम् ॥ ४२
नचान्तरगतः कुक्षौ तदन्ये सर्वतोमुखः ।
षशिरं पृष्टिवंशे तु सृगूर्ध्वमुदरं विदुः ॥ ४३
तदगतान्तं महादेव हृदयं शब्दराशिकम् ।
इन्द्राण्यधिष्ठितं वर्गं हृदयं कुलयोगिनी ॥ ४४
त्वचं कपालमूर्ध्वस्थं शोणितं जटाहारादि ।
अनन्तरगतं मांसं अनङ्गाधःस्थितं स्नायु ॥ ४५
चत्वारो व्यापकास्तत्त्वा आग्नेया रविमण्डले ।
विद्धि तत्त्वं यवर्गेदं स्वपिण्डकलयोजितम् ॥ ४६
एवं शिरं कुवेरस्य तच्चास्थिविनियोजितम् ।
तथा मज्जा फकारान्ता हराधः शुक्रमण्डलम् ॥ ४७
मध्यस्थं मध्यगं प्राणं पायुतत्त्वमधोमुखम् ।
चामुण्डाधिष्ठितं वर्गं अष्टमं परिसंख्यया ॥ ४८
वर्गातीतमधःस्थं तु विसर्गसहितात्मकम् ।
प्रतिमायां गतं देव कोपस्थानगतं विदुः ॥ ४९
तस्य सा नवमी देव्या महालक्ष्म्यधिकारिणी ।
अमृतादिहकारान्तं परं वर्णपरिग्रहम् ॥ ५०
मातृकाक्रममेवं तु भगजातं तु प्रत्ययम् ।
एवं पञ्चाशद्भिर्भेदैरादिक्षान्तं क्रमेण तु ॥ ५१
एतदक्षरविन्यासं पूर्वसंस्कारसंस्कृतम् ।
वर्णबीजक्रमन्यासं अविज्ञातं न मुञ्चति ॥ ५२
शब्दब्रह्माक्षरा यान्ति संस्कारकृतरश्मयः ।
कृतकृत्यक्रमाद्यौघं प्राकृतं तु सुराधिप ॥ ५३
शब्दवर्णाक्षराणां तु सृष्टिराद्या क्रमोदयः ।
अनुलोमेन सिद्धस्य तेन त्वं शब्दराशिकम् ॥ ५४
शब्दं तु पृथिव्यन्तस्थं पृथिव्यां हर मालिनी ।
मालिन्या शब्दराश्या तु ओतप्रोतं जगत्त्रयम् ॥ ५५
दीपनेन विनिर्मुक्तं अन्तःशून्यं महेश्वर ।
तस्मात् तच्छब्दराश्यादौ दीपनं समुदाहरेत् ॥ ५६
यानुजं खरमध्यस्थं गजेन्द्रभुजभेदितम् ।
चन्द्रकान्तिशिखाभिन्नं हृदयं कुलखेचरी ॥ ५७
बीजे बीजे पृथक् देव कृत्वादौ वीरविग्रहम् ।
सुदीप्तं भवते न्यासं मालिनीप्रणवत्रये ॥ ५८
आद्यन्ते संपुटं कृत्वा शब्दराश्यामनेन तु ।
तथा संपुटितं न्यासं न्यसेत् वक्त्राङ्गसंयुतम् ॥ ५९
वृषभं मध्यगं गृह्य शक्त्यासनव्यवस्थितम् ।
संवर्तं च महाकालं पिनाकी तदधस्थितम् ॥ ६०
एतत् कूटं समाख्यातं षड्विधं कारयेत् पुनः ।
ह्रस्वैः षड्भिः स्वरैर्भेद्यं इन्दुबिन्दुरलंकृतम् ॥ ६१
ऊर्ध्वमूर्ध्वे तथा पूर्वे पश्चिमे दक्षिणोत्तरे ।
वक्त्रन्यासं महादेव पूर्वबीजैः प्रदीपितम् ॥ ६२
तूष्णीशं च कुलीशं च श्रीकण्ठाघोरभैरवम् ।
उत्तरेश अनन्तीशं पश्चिमेन सदाशिवम् ॥ ६३
एते सिद्धा नियुक्तव्या वक्त्रषट्के वरानन ।
अथाङ्गानि प्रवक्ष्यामि संक्षेपेण वदाम्यहम् ॥ ६४
वृषभं मध्यमं स्थाप्य हरस्यासनभेदितम् ।
अतादिषु सुतं कुर्यात् हृच्छिरेण विभेदितम् ॥ ६५
नीलकण्ठशिरं कृत्वा कूटेदं षड्विधोद्धरेत् ।
दीर्घैः षड्भिः स्वरैर्भिन्नं कलाबिन्दुशिवाङ्कितम् ॥ ६६
अघोरं हृदि संयुक्तं अमोघं शिरभूषणम् ।
नीलकण्ठं शिखा योज्यं वर्मस्थमेकवीरकम् ॥ ६७
पिङ्गलं नेत्रयोर्न्यस्य कपिलास्त्रं च भैरवम् ।
एवं तु भैरवैः षड्भिर्युक्ता अङ्गानि विन्यसेत् ॥ ६८
दीपनाद्यं ततः कृत्वा भवेन्न्यासं तु संपुटम् ।
संपुटेन तु रिक्ताङ्गा अन्तःशून्या गभस्तयः ॥ ६९
व्यापकत्वेन तिष्ठन्ति सुदीप्ता व्यापकास्तु ते ।
एषो वै शब्दराशिस्तु सुदीप्ताङ्गसमायुतः ॥ ७०
क्रमस्याग्रे न्यसेद् यस्तु ब्रह्महा अपि शुद्ध्यति ।
सततं न्यसते यस्तु जीवन्मुक्त्यरिहो भवेत् ॥ ७१
निरामयो भवेद् विद्वान् कृतैः पापैर्न लिप्यते ।
सिद्धतुल्यो भवेत् सोऽपि शब्दराशिप्रभावतः ॥ ७२
आज्ञाक्षोभस्तथा घूर्मिः आवेशं च मुहुर्मुहुः ।
भवते परसंवित्तिर्यत्र सा रमते परा ॥ ७३
परस्थानपदप्राप्तिर्मुक्तो भवति बन्धनात् ।
एतद् वै शब्दपुरुषं ब्रह्मशब्दैरधिष्ठितम् ॥ ७४
अधिष्ठानं तु कौलस्य प्रत्ययं शब्दराशिकम् ।
राशौ पञ्चाशद्भेदानि शब्दैकं वाग्भवोदितम् ॥ ७५
शब्दराशिः स्मृतस्तेन रुद्रत्वमूर्तिर्भैरव ।
तस्य मूर्तिर्नवात्मानं शासने कुलदीपकम् ॥ ७६
तस्योद्धारं प्रवक्ष्यामि शृणुष्वेकाग्र सुन्दर ।
भृगुलाकुलसंवर्तो महाकालं पिनाकिनम् ॥ ७७
खड्गीशं च भुजङ्गाख्यं वालीशं चार्घनायकम् ।
कलाबिन्द्वङ्कितं नादं ज्योतिरूपं चतुर्थकम् ॥ ७८
एषु देवं नवात्मानं वृक्षीशं वृक्षनायकम् ।
मूर्तिभूतं कलायाश्च परमानन्दभैरवम् ॥ ७९
तस्याश्रमं ब्रह्मवृक्षं त्रिवलीतरमार्गगम् ।
तुर्यान्तं मण्डलं शाक्तं तत्रानन्दः प्रवर्तते ॥ ८०
तत्र संभावयेत् पिण्डं दीपनं शब्दराशिकम् ।
हिमकुन्देन्दुधवलं शतार्कवपुषोज्ज्वलम् ॥ ८१
तस्योत्सङ्गगता देवी अहमेव तु मालिनी ।
तद्धर्मधर्मिणी देव तस्य मूर्तिधरी शुभा ॥ ८२
मायाबीजेन तेजाढ्या अर्घस्थाने नियोजिता ।
दाडिमोदकसंकाशा स्फुरणाढ्या विराजते ॥ ८३
अंकुराकाररूपेण ब्रह्मग्रन्थी ह्यधोमुखी ।
कुब्जिका पररूपेण अकारान्ता शिवावधिः ॥ ८४
शिवशक्तिर्विलोमाभ्यां विश्रामं हृदि मण्डले ।
ऊर्ध्वे शिवमधः शक्तिः प्रसरं मध्यभूमिका ॥ ८५
तत्र चोत्पद्यतेऽवस्था ज्ञात्वावेशं मुहुर्मुहुः ।
तुर्यस्थः शब्दराशिस्तु योनिस्था मालिनी स्वयम् ॥ ८६
गुरुवक्त्रं तयोर्मध्ये आनन्दं च अधोमुखम् ।
यथाक्रमं महौघोऽयं आख्यातं शिवशक्त्ययोः ॥ ८७
मूर्तिन्यासं प्रवक्ष्यामि यथा विहितोऽनुक्रमात् ।
ब्रह्मरन्ध्रे ललाटे च वक्त्रे हृदयमण्डले ॥ ८८
नाभौ गुह्ये च उरुभ्यां जङ्घयोः पादयुग्मके ।
एवं न्यासं समाख्यातं पञ्चरत्नैरधिष्ठितम् ॥ ८९
तथा ह्यङ्गविधीदानीं यथा वक्ष्यामि तच्छृणु ।
शुद्धस्फटिकसंकाशा हृदि देव्या विराजते ॥ ९०
शिरं मञ्जिष्ठसदृशं शिखा ह्युल्काग्निवद् भवेत् ।
आरक्तं शुद्धधवलं नेत्रौ रक्तौ तथोभयोः ॥ ९१
अस्त्रं चाघोरसदृशं शुद्धाकाशं यथा विदुः ।
एतद् वर्णविभागं तु ज्ञात्वा सिद्ध्यरिहो भवेत् ॥ ९२
मालिनी शब्दराशिस्तु रुद्रयोगिनिबृंहितम् ।
दीपनैस्तु समायुक्तं षडङ्गक्रमभेदितम् ॥ ९३
स्थानलक्षसमायुक्तं ध्यानधारणसंयुतम् ।
उमामहेश्वरं चक्रं तवाख्यातं वरानन ॥ ९४
जातिभेदविहीनाङ्गा ज्ञातव्याः पूर्ववत् क्रमात् ।
कुलकौलक्रमाधारं मालिनी शब्दराशिकम् ॥ ९५
कथितं कुलसिद्धान्तं ज्ञेयं मार्गं महेश्वर ।
इत्याज्ञावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारे विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते शब्दराश्याधिकारवर्णने क्रमोदयो नामानन्दः ॥ १९ ॥
Kumārikākhaṇḍa – Kapitel २०
विंशानन्दः
श्रीनाथ उवाच
मालिनी शब्दराशिश्च उभावेतौ श्रुतौ मया ।
अधुना श्रोतुमिच्छामि त्रिविद्यां कौलिनीं पराम् ॥ १
श्रीवक्रा उवाच
शब्दराशिप्रसिद्धस्य पुनरन्यविकल्पकम् ।
इदानीमाकर्णय शम्भो विद्यात्रितयकौलिकम् ॥ २
परा च अपरा चैव तथा चैव परापरा ।
तेषामुद्धारं अन्यं तु कथयिष्यामि सुव्रत ॥ ३
प्रथमा परापरा पञ्चचत्वारिंशाक्षरा भवेत् ।
आद्यामृतं च खशिरं गजेन्द्राद्यविभूषितम् ॥ ४
तद्ग्रहस्य शिरं पात्यं तद्ग्रहासनभेदितम् ।
पद्मयोनिशिरं गृह्य पार्थिवान्तसमन्वितम् ॥ ५
कपालान्तकृतं बिन्दु अर्धचन्द्रकृतान्वितम् ।
पदमेकं तु प्रथमं द्वितीयं च यथा भवेत् ॥ ६
ताराद्यं च ठकाराद्यं तथा चानङ्गमस्तकम् ।
पाद्रै (?) चैकशिरे भद्र तद्ग्रहस्याधिमस्तकम् ॥ ७
मध्यमं च अनन्ङ्गं च अग्निधामविभेदितम् ।
खशिरं खशिराक्रान्तं कपालासनमण्डलम् ॥ ८
र एव वेधकाक्रान्तं वर्णाद्यस्य तु मस्तकम् ।
एकपादस्थितं शम्भो तथा वै मेरुमध्यगम् ॥ ९
कान्तयुक्तं महेशान तृतीयं पदमुद्धृतम् ।
नपूर्वाद्यन्ताधःसंस्थं यढान्तं भानुभेदितम् ॥ १०
हशिरं पङ्कजस्थं तु घाधःस्थं मायया युतम् ।
चतुर्थपदमाख्यातं पञ्चमं चाधुना भवेत् ॥ ११
माद्यं गौरीसमायुक्तं तथा चैव भानान्तगम् ।
जासनं ईश्वराक्रान्तं रावान्तं राधगं च इ ॥ १२
वाद्यं चैवैकवीरं तु द्विरभ्यासेन षष्ठमम् ।
घनान्तं मायया सार्धं अनङ्गासनमण्डलम् ॥ १३
द्वावेतौ च द्विरभ्यासात् पदमेव तु सप्तमम् ।
सयान्तं च द्विधाभूतं एकारेण द्वितीयकम् ॥ १४
अष्टमं पदमेवं तु ठ–अन्तं पङ्कजस्थितम् ।
वर्गातीतं तु संभिन्नं द्विधाभूतं नियोजयेत् ॥ १५
नवमं पदमाख्यातं विसर्गस्थाग्निधामकम् ।
केवलं तु द्विरभ्यासं दशमं पदमुद्धृतम् ॥ १६
विच्चेकादशमेवं तु पदक्रमक्रमेण तु ।
वाग्भवं मायया सार्धं तथा प्रसादभैरवम् ॥ १७
आद्यमन्ते कृतं देव उद्धृता च परापरा ।
पञ्चचत्वारिंशती प्रोक्ता तस्यामासनपक्षकम् ॥ १८
विद्या परापरा ह्येषा आधारात् तु विनिर्गता ।
एषासनं क्रमस्योक्तं आसनं न मृगाजिनम् ॥ १९
विद्यारूढं कृतात्मानं अपरां च समभ्यसेत् ।
मायापिण्डं सफेरं तु रावस्योर्ध्वमधःकृतम् ॥ २०
एवं त्रिरक्षरा विद्या आदिमेन तु योजिता ।
आदिमं तु यदा चान्ते तदा सार्धं पदं भवेत् ॥ २१
अध्युष्टा ज्वलिका देवी विद्या अपरभैरवी ।
एषा वै मूर्तिपक्षस्य अनाहतविनिर्गता ॥ २२
तस्योर्ध्वं परमं शम्भो पक्षं तु जगतः पृथुः ।
तव चैकाक्षरा विद्या सा च पञ्चप्रकारतः ॥ २३
मेरुकर्णिकया ज्वाला शङ्खमस्तकभेदिता ।
कुवेरासनमूर्ध्वे तु विसर्गान्तमिति स्मृतम् ॥ २४
एषा सा भगवती देवी नाम्ना सा वह्निवासिनी ।
एकाकारा परा माता विश्वमाता प्रतिष्ठिता ॥ २५
शम्भुमार्गे स्थिता विद्या शाम्भवीसृष्टिरूपतः ।
तदधःस्थासनं मार्गं सूक्ष्मं हृदयवल्लभम् ॥ २६
तस्यासनं परं नाथ तत् शाक्तमिति कौलिकम् ।
शाक्तशाम्भवयोर्मध्ये आणवं नाम पक्षकम् ॥ २७
एतत् त्रिकण्टकं मूलं न्यस्त्वा क्षोभो विजायते ।
मालिन्याः शब्दराशेस्तु एतद् विद्याक्रमत्रयम् ॥ २८
अब्दैकेन तु अभ्यासात् परावस्था प्रवर्तते ।
ये योगिनीकुले जाता तेषां तुष्टा ह्यहं पुरा ॥ २९
ते ज्ञास्यन्ति त्रिके भेदान् शब्दराशिसमायुतान् ।
पञ्चाशद्रुद्ररचितं स्थानवर्णपरिग्रहम् ॥ ३०
एतद् देव परं गुह्यं न्यासं त्रिदशपूजितम् ।
त्रीणि विद्यास्त्रिसिद्धाश्च त्रिपीठं च त्रिदेवतम् ॥ ३१
त्रीणि वृक्षा गुहास्त्रीणि त्रिशक्तिर्गुणमुज्ज्वला ।
त्रिनाडिमार्गगं ज्ञात्वा विद्यात्रितयमारुहेत् ॥ ३२
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां देव्याक्रमभाषिते त्रिविद्याधिकारो नामानन्दः ॥ २० ॥
Kumārikākhaṇḍa – Kapitel २१
एकविंशानन्दः
श्रीवक्रा उवाच
अथान्यं संप्रवक्ष्यामि अघोराष्टकमुत्तमम् ।
गमागमेन कर्तव्यं शिवेन तु पुटीकृतम् ॥ १
पदभेदक्रमं शम्भो इदानीं कथयाम्यहम् ।
अघोरेति पदं पूर्वं अघोर्या–ई द्वितीयकम् ॥ २
एषा सा प्रथमा घोरा द्वितीया च यथा भवेत् ।
परमघोरेति पदं परमघोर्या–ई परम् ॥ ३
घोररूपे हविसर्गं घोररूपा ई चान्तगम् ।
तृतीयाघोरिका प्रोक्ता चतुर्थीं त्वथवा शृणु ॥ ४
घोरमुखि घोरमुखा ईकारस्वरभेदितम् ।
भीमभीषणीति पदं अपरं भीमभीषणा ॥ ५
गौर्या चतुर्थिका गौर्या पञ्चमा च महेश्वर ।
वम पिव हेति पदं वम पिव हायीसंयुतं ॥ ६
षष्ठीयं कथिताघोरा अपरा सप्तमा भवेत् ।
रुरुशब्द ररश्चैव रुरुशब्द ररः पुनः ॥ ७
अकारस्थास्त्विमे रेफा गौर्यायाक्षरदीपिताः ।
एषा सा सप्तमा घोर्या अष्टमा चाधुना भवेत् ॥ ८
फेत्कारी चैव फेत्कार्या चतुर्थस्वरभेदिता ।
अघोर्यष्टकमेतद् हि पदषोडशभेदतः ॥ ९
द्विपदक्रमयोगेन कथितं घोरिकाष्टकम् ।
दीपनैस्तु विनिर्मुक्तं अघोर्याद्यष्टकोद्धृतम् ॥ १०
न तु सिद्धिप्रदं देव बीजहीनं न साधयेत् ।
तस्मात् सबीजकरणं इदानीं शृणु भैरव ॥ ११
मातृकाक्रमलिङ्गस्य पूर्णिमानलभेदितम् ।
गौर्यायामलमाक्रान्तं आज्ञावर्तिसमुज्ज्वलम् ॥ १२
एतद् बीजं महेन्द्रस्य तथा प्रसादभैरवम् ।
तस्यान्ते मध्यगं पात्यं महेन्द्रशिरभेदितम् ॥ १३
शक्तितोमरमाविष्टं अधिकारार्णभेदितम् ।
तत्पदस्थं विसर्गस्थं व्योमबीजं महेश्वर ॥ १४
बविलोमाच्चतुर्थं तु तोरणशिरभेदितम् ।
तस्याधःस्थस्तथा चोर्ध्वं चन्द्रासनं सुसंस्थितम् ॥ १५
तस्योर्ध्वे तु पुनः क्षोभं संयोगाद् रावबीजकम् ।
वकारस्य मकारस्य अन्तस्थं च समुद्धरेत् ॥ १६
कुबेरासनमाविष्टं बिन्दुभिन्नगुरूपरि ।
एषैव कौलिनीबीजं सुरसिद्धनमस्कृतम् ॥ १७
प्रथमादि चतुर्थं तु अग्निवेधकभेदितम् ।
शशाङ्कांकितबिन्दूर्ध्वे षट्त्यागात् सप्तमे हितम् ॥ १८
एष कालाग्निरुद्रस्तु प्रोक्तः सर्वजनप्रियः ।
भलमध्यमकं नाथ बाद्येनाहत औशिरम् ॥ १९
बिन्दुनादकलाक्रान्तं महारुद्रपुरोद्धृतम् ।
अन्यं धूम्रध्वजस्याद्यं तोरणासनभेदितम् ॥ २०
तोरणं शिरचन्द्रार्धं आनन्दं च अखण्डितम् ।
योगिनीबीजराजानं रावावस्थोत्तमोत्तमम् ॥ २१
एतद् बीजाष्टकं कुर्याद् घोर्याया अष्टकस्य तु ।
पदानां षोडशानां तु बीजान्यष्टौ द्विधा कुरु ॥ २२
अवसाने पदानां तु ते बीजाः षोडश स्मृताः ।
भविष्यन्ति च देवेश आद्यन्तशिवयोजिताः ॥ २३
प्रसादस्य तु जीवस्य शिरं कृत्वा चतुर्दशम् ।
भवते शिवराजानं कृत्वा न्यासं समारभेत् ॥ २४
पदाभ्यां जानुजङ्घाभ्यां आधारे हृदि मण्डले ।
कुक्षिभ्यां पृष्ठवंशे च तथा बाहुद्वये पुनः ॥ २५
वक्त्रमण्डलमेवं तु अष्टस्थानेषु विन्यसेत् ।
संहारं पूर्वतः कृत्वा ततः सृष्टिक्रमं पुनः ॥ २६
अघोर्याद्यात्मकं न्यासं त्रिकण्टावरणोद्धृतम् ।
कथितं तव देवेश पुर्यष्टकसमायुतम् ॥ २७
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
मनो बुद्धिरहंकारं पुर्यष्टकमिति स्मृतम् ॥ २८
ब्रह्माण्यादेवताद्यष्टौ चतुःषष्टिस्तु संख्यया ।
एवं व्याप्तिक्रमेणैव अघोर्यष्टक विन्यसेत् ॥ २९
अथ विद्याक्रमं न्यासं सिद्धगाङ्गसमायुतम् ।
करन्यासक्रमेणैव पूर्वं यत् ख्यापितं मया ॥ ३०
साम्प्रतं बीजविन्यासं तथा वै पीठपञ्चकम् ।
विसर्गाद्यं महावर्णं पञ्चधा कारयेत् स्वरम् ॥ ३१
महद्भूतमतः कृत्वा दीर्घपङ्कजभेदितम् ।
कलाबिन्द्वङ्कितं देव एतद् वै बीजपञ्चकम् ॥ ३२
विन्यस्तव्यं हि देव्यायास्तत्त्वपञ्चकसंयुतम् ।
पृथिवी शक्तिबीजं तु आपो वै सोमबीजकम् ॥ ३३
तेजो वै सूर्यबीजं तु वायुर्वै बिन्दुबीजकम् ।
आकाशं नादबीजं तु एतद् वै बीजपञ्चकम् ॥ ३४
तेषां स्थानानि वै पञ्च गुरुवक्त्रे प्रतिष्ठिताः ।
पृथिवी कन्दचक्रे तु आपो वै योनिमण्डले ॥ ३५
तेजो वै नाभिचक्रस्थं वायुर्हृदयमण्डले ।
आकाशं च भ्रूवोर्मध्ये बीजस्थानानि पञ्च च ॥ ३६
बीजबीजाश्रमाः पञ्च कृत्वा आद्येन संयुतम् ।
लब्ध्वा गुरूपदेशं तु न्यस्तव्यं बीजपञ्चकम् ॥ ३७
अन्यथा न भवेऽवस्था बीजहीना च सुन्दर ।
पृथिव्यादिषु तत्त्वेषु बन्धं चास्तमनं भवेत् ॥ ३८
सदाभ्यासेन कौलेऽस्मिन् पुनर्जन्म कुतो भवेत् ।
एतदुन्मनीकरणं न्यासेदं बीजपञ्चकम् ॥ ३९
तत्त्वानां पञ्चकं देव अधिकारक्रमे स्थितम् ।
उपदेशे भवेदेव न्यासेदं पीठपञ्चकम् ॥ ४०
उक्ता ये पूर्वं ते पञ्च प्रणवानि समभ्यसेत् ।
तेषामग्रे तु पीठानि कृत्वा न्यासं समारभेत् ॥ ४१
उत्तरं पूर्वपीठं तु पञ्चमाद्यन्तभूषितम् ।
भ्रूमध्ये कृष्णवर्णाभं तथा जालन्धरं पुनः ॥ ४२
द्वितीयाद्यन्तरूपं तु आरक्तं हृदि मण्डले ।
तथा पूर्णगिरिर्नाम तृतीयाद्यन्तरोपितम् ॥ ४३
पीतवर्णं च नाभिस्थं कामरूपं तथापरम् ।
प्रथमाद्यन्तमध्यस्थं हिमकुन्देन्दुगुह्यतः ॥ ४४
तिस्रोर्ध्वे पञ्चमं पीठं चतुर्थाद्यन्तयोजितम् ।
हरितं तन्महारौद्रं कन्दस्थाने प्रकाशितम् ॥ ४५
उदयं कामरूपे तु स्थितिर्वै पूर्णगिर्यके ।
संहारं दक्षिणे पीठे निर्वाणं पञ्चमे स्थितम् ॥ ४६
विश्राममाद्यपीठे तु न्यासेदं पीठपञ्चकम् ।
यथा ध्यानं तु पीठानां कामरूपादि भैरव ॥ ४७
तथा क्रमेण तत्त्वानां कुर्याद् वै ध्यानपञ्चकम् ।
यथा तत्त्वानि बीजानि तथा वै पीठपञ्चकम् ॥ ४८
सबाह्याभ्यन्तरं ज्ञात्वा को न मुञ्चति बन्धनात् ।
पीठन्यासे कृते देव किञ्चित् पश्यन्ति योगिनः ॥ ४९
अदृष्टमण्डले देव अखण्डपुरमण्डलम् ।
तत्र सा कौलिनी विद्या अन्तःकरणभेदिता ॥ ५०
तत्त्वानां चाधिकारं तु प्रत्ययं तु यदा भवेत् ।
तस्मात् न्यासवरं प्रोक्तं यत् सुरैरपि दुर्लभम् ॥ ५१
आख्यातं तव सिद्धस्य सिद्धमार्गे प्रसिद्धकम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते तत्त्वपञ्चकारवर्णने क्रमोदयो नामानन्दः ॥ २१ ॥
Kumārikākhaṇḍa – Kapitel २२
द्वाविंशानन्दः
श्रीवक्रा उवाच
अतः परं प्रवक्ष्यामि न्यासं त्रिदशपूजितम् ।
षोढा द्वादशभेदेन न्यासं कुर्याद् गमागमे ॥ १
षोढा शक्तिः समाख्याता परा एकाक्षरा शुभा ।
तस्यासनं षोढासंज्ञा षोढाशक्तिपुरं विशेत् ॥ २
तस्य ते षोडशो भेदाः शृणु मार्गेण सुन्दर ।
जटाहारं गौर्या स्थाप्य द्वादशधा पुनः ॥ ३
बिन्दुना भेदितं कृत्वा चन्द्रार्कशिरसाहतम् ।
तस्याङ्गा द्वादश ख्याताश्च्छायाच्छत्रमनुक्रमात् ॥ ४
सिंहासनं तु प्रथमं चाद्यासनं द्वितीयकम् ।
तृतीयं ह्येकवीरं स्यात् चतुर्थं हरमण्डले ॥ ५
पञ्चमं शक्तिबीजं तु मकारासन षष्ठकम् ।
सप्तमं जिह्मभागस्य अष्टमं हरमस्तकम् ॥ ६
हशिरं नवमं देव दशमं तारणं शिरः ।
राज्यमेकादशं चेति द्वादशं तारकं न्यसेत् ॥ ७
वेधके वेधयेत् सर्वान् एकवीरेण भूषितान् ।
चन्द्रज्योतिकलाशुद्धाः रुद्रद्वादशभेदिताः ॥ ८
पुनरेव हि देवेश गौर्या द्वादशभिः पुनः ।
रुद्रशक्तिसमायोगात् षोढान्यासं ममाकृतिः ॥ ९
न तस्या दीपनं किञ्चिद् गौर्याद्वादशदीपिता ।
एषा वै रुद्रशक्तिस्तु षोढाशक्तिर्नपुंसका ॥ १०
तस्या द्वादशधान्यासं आदौ सृष्टिक्रमेण तु ।
पश्चात् कुर्यादङ्गन्यासं गमागममिति स्मृतम् ॥ ११
कोपस्थाने च नेत्राभ्यां कर्णनासापुटावुभौ ।
कण्ठे च हृदये नाभौ योनौ आधारमण्डले ॥ १२
षोढान्यासं क्रमेणोक्तं गौर्याकादिर्गमः स्मृतः ।
आगमं सृष्टिबीजादौ इन्दुबिन्दुविकासितम् ॥ १३
मकारादिक्रमेणैव गमागमे पदद्वयम् ।
सदा न्यस्तेन देवेश मण्डलाग्रे क्रमाग्रतः ॥ १४
वर्षैकेन च अभ्यासात् दिव्याज्ञा संप्रवर्तते ।
द्वादशाब्दे तु संप्राप्ते पाषाणानपि वेधयेत् ॥ १५
चूर्णयेत् पर्वतशृंगान् मुद्रास्फोटान्यनेकशः ।
कुरुते विविधाश्चर्यान् आज्ञावेशप्रभावतः ॥ १६
यं सोऽवलोकयेज्जन्तुः पाशानां वज्रपञ्जरम् ।
तं तु संशोधयेत् शक्त्या कलिस्यां साधयेत् प्रिय ॥ १७
विद्यासिंहासनेदं तु न्यस्त्वा शक्तिः प्रवर्तते ।
कालान्तराद् गुणोत्पत्तिमचिराल्लभते ध्रुवम् ॥ १८
गुरोर्वक्त्रं च निर्वाणं तथा द्वात्रिंशदक्षरा ।
आज्ञा सा च क्रमे गुरोरधिकारं समारभेत् ॥ १९
विद्यात्रितयसंयुक्तं मण्डलं देवताक्रमम् ।
तथा च द्वादश श्लोका उलित्रितयनिर्णयम् ॥ २०
ज्ञात्वा तु प्रथमं देव चित्रं दमयते ततः ।
मन्त्रपादेन चैकेन विद्यापादार्धमेव च ॥ २१
मुद्रा चैवाष्टभागेन गुरुपादैकसंज्ञकः ।
निर्वाणे च निरंशे च तदा सिद्धिं लभेन्नरः ॥ २२
एतत् पूर्वक्रमं ज्ञात्वा पश्चात् षोढां समभ्यसेत् ।
तच्च द्वादशभिर्भेदैः सिंहासनं समुद्धृतम् ॥ २३
तस्यैव नायकी विद्या परा चैकाक्षरा भवेत् ।
मेरुमध्ये तु कौलेशः कपालासनसंस्थितः ॥ २४
अधः सृष्टिसमायुक्तः त्रयोदशविभूषितः ।
विसर्गस्था परा ह्येषा प्लुतस्वरविवर्जिता ॥ २५
नपुंसकपदेनैव न स्त्रीकारणपुंगवम् ।
तस्याधिकारमायातं श्रीमच्चन्द्रपुरे गृहे ॥ २६
पारम्पर्योपदेशं तु तस्याध्यात्मिकनिर्णयम् ।
आदौ सा सकला प्रोक्ता कूटभूता ह्यधोमुखी ॥ २७
हिमकुन्देन्दुधवला श्रवमाणा मनोन्मना ।
कोपान्ते विन्यसेद् देव सिंहरूपक्रमेण तु ॥ २८
न चास्या दीपनं देयं स्वभावेनैव दीपिता ।
लक्षजापाद् भवेत् सिद्धिस्ततो याति परां गतिम् ॥ २९
इत्याद्यावतारे मन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते षोढाधिकारवर्णने क्रमोदयो नामानन्दः ॥ २२ ॥
Kumārikākhaṇḍa – Kapitel २३
त्रयोविंशानन्दः
श्रीवक्रा उवाच
अधुना तद्ग्रहं वक्ष्ये विद्यात्रितयभेदितम् ।
वर्गाष्टकविधानेन अमूलात् तु विनिर्गतम् ॥ १
अ अ न अ इति पदं पूर्वं आ थ घो तु द्वितीयकम् ।
इ ऋ रे तृतीयं स्यात् ई ॠ ह्रीँ चतुर्थकम् ॥ २
उ ऌ प पञ्चमं स्यात् ऊ लॄ र षष्ठं स्मृतम् ।
ऋ च म सप्तमं चैव अष्टमं ॠ ध घो इति ॥ ३
ऌ ण रे नवमे दत्तं लॄ उ ह्रौं दशमं स्मृतम् ।
ए ऊ घो दशमेकं च ऐ ई रमिति द्वादशम् ॥ ४
ओ ब रु त्रयोदशमं औ क पेति चतुर्दशम् ।
अं ख हः त्रिपञ्चमं च अः ग घो इति षोडशः ॥ ५
क घ र सप्तदशं च ख ङ मु च दशाष्टकम् ।
ग इ खि ऊनविंशञ्च घ अ भी इति विंशमम् ॥ ६
ङ व म एकविंशं च च भ भी द्वयविंशमम् ।
छ य ष त्रयोविंशं ज ढ णि चतुर्विंशकम् ॥ ७
झ ड व पञ्चविंशञ्च ञ ठ म षड्विंशमम् ।
ट झ व सप्तविंशञ्च ठ ञ म चाष्टविंशमम् ॥ ८
ड अः पि ऊनत्रिंशेति ढ ट व त्रिंशमं पदम् ।
ण र पि एकत्रिंशञ्च त ज व द्वयत्रिंशमम् ॥ ९
थ प हेति त्रयस्त्रिंशम् द स हे चतुस्त्रिंशकम् ।
ध ह रु पञ्चत्रिंशञ्च न च्छ रु च षट्त्रिंशकम् ॥ १०
प ल र सप्तत्रिंशञ्च फ आ र अष्टत्रिंशकम् ।
ब ष वि ऊनचारिंशं भ क्ष च्चे चत्वारिंशतिः ॥ ११
म म ऐं एकचारिंशं य श ह्रीँ द्विचत्वारिंशम् ।
र अं हूं त्रिचत्वारिंशं ल त ह्रीं चतुश्चारिंशम् ॥ १२
व ए ऐं पञ्चचारिंशं श ऐ ह्रीं षट्चत्वारिंशम् ।
ष ओ ऐं सप्तचारिंशं स औ क्षं अष्टचारिंशम् ॥ १३
ह द ह्रीँ ऊनपञ्चाशत् क्ष फ हस्रौं शतार्धकम् ।
पञ्चाशत्पदसंयोगात् संग्रहेण तु तद्ग्रहम् ॥ १४
शब्दराशिक्रमेणैव न्यासं कुर्याच्च तद्ग्रहे ।
भवेद् दिव्यतनुर्मर्त्यो अस्य न्यासस्य सेवनात् ॥ १५
षण्मासात् पठिते सिद्धिः अथवाब्देन निश्चयात् ।
शस्त्रघातैर्न भिद्येत अच्छिद्रो वज्रयोगिनः ॥ १६
कृत्वादौ रावबीजं तु पदस्यान्ते तथा पुनः ।
रावबीजपुटान्तस्थं विद्यात्रितयभेदतः ॥ १७
सुदीप्तं तद्ग्रहं तस्माद् बीजरिक्तं परांमुखम् ।
परदेहाद् विनिष्क्रान्तं योगिनीमुखसंचयम् ॥ १८
एवं तद्ग्रहक्षेत्रं तु विधानवदशेषतः ।
एवं वै कुलसंचारं कुलाचारे प्रतिष्ठितम् ॥ १९
यस्येदं वक्त्रगं न्यासं सोऽपि शान्तपदे स्थितः ।
पूर्वाभ्यस्तं न संदेहो अन्यायं न प्रवर्तते ॥ २०
श्रीवक्रा उवाच
पुनरन्यं प्रवक्ष्यामि न्यासं तु समयक्रमम् ।
पदभेदक्रमेणैव विद्या पीठेश्वरी भवेत् ॥ २१
च्चे वि चेति पदं पूर्वं णिकि णिकि च द्वितीयकम् ।
च्छ र ई च सचन्द्रार्धं च्छ र आ सार्धचन्द्रमा ॥ २२
उभयोस्तृतीयं रेघो विरभै येमस पुनः ।
ग ल ऊ सशशिं कृत्वा चतुर्थपदमुद्धृतम् ॥ २३
कहशब्दं द्विरभ्यासं संयोगात् पदषष्ठमम् ।
सहशब्दं द्विरभ्यासं देवताष्टपदं स्मृतम् ॥ २४
हर औ चन्द्रशून्यस्थं द्विधाभूतं नवमं स्मृतम् ।
णिककों द्विपञ्चं च णिककों दशैकाधिकम् ॥ २५
हशक्तिः शून्यचन्द्रार्धं कला रेफं च चन्द्रमा ।
गौर्या शून्यं क्रमादेकपिण्डमेवं तु द्वादशम् ॥ २६
मेनणञङ पदं तु इदमेव त्रयोदशम् ।
हरगौरी शशिः शून्यं हरा शून्यं च मौलिनी ॥ २७
चतुर्दशपदं ख्यातं खिमुराघो अ एव च ।
पञ्चदशं समाख्यातं राव रेघो–अ षोडशम् ॥ २८
रेघोर सप्तदशं स्यात् रे रा रा च दशाष्टमम् ।
केब्जिकु हसौः विंशेति श्रीँ ह्रीँ ऐँ पद विंशमम् ॥ २९
सिंहक्रमेण वाख्यातं ऐंकारादि अनुक्रमात् ।
उदयं सूर्यमार्गेण सोममार्गेण रोधनम् ॥ ३०
चन्द्रसूर्यक्रमेणैव वर्णैश्च चतुःषष्टिभिः ।
समयाख्या कुले कौले आदिमे नाम योजिता ॥ ३१
आद्यन्तेन समायुक्ता बीजयुक्ता मनोन्मना ।
सा च पीठेश्वरी माया समया कुलमालिनी ॥ ३२
सा दीप्ता बीजसंयुक्ता बीजरिक्ता अदीपिता ।
महानेषाधिकारी यः सेव्यमाना स सिद्ध्यति ॥ ३३
बीजैश्चतुर्दशैः प्रोक्ता कोंकणा ज्वलभूषिता ।
लक्षैकेन तु जप्तेन रुद्रशक्तिः प्रवर्तते ॥ ३४
अनया ज्ञातमात्रया सकृदावर्तनादपि ।
विद्यायाः स्मरणादेव उद्धारोद्धृतमात्रतः ॥ ३५
स्मरणादपि सौभाग्यं महापापक्षयो भवेत् ।
सप्तजन्मकृतं पापं पठनादेव नश्यति ॥ ३६
तत्क्षणान्मुच्यते शिष्यो चक्रे वा मण्डलान्तरे ।
विद्यापीठोपपीठे च योगिनीचक्रमध्यतः ॥ ३७
एकवृक्षे श्मशाने च मेलके वा चतुष्पथे ।
तर्पणात् पात्रसंपूर्णे विश्वामित्रकपालके ॥ ३८
अथवा नृकपाले च पूजयेत् तर्पयेत् ततः ।
समयलोपाद् मुच्येत तेजश्चायुः पराक्रमम् ॥ ३९
वर्तते ज्ञानसद्भावं योगिनीकुलमेलकम् ।
लभते समयायुक्तो वीरद्रव्यं चरुं तथा ॥ ४०
प्राशनाद् भवते सिद्धिः अन्यथा मरणं भवेत् ।
निर्विशङ्के पदे प्राप्ते संग्राह्यं समयाक्रमम् ॥ ४१
समयाचरुकं प्राश्यं सर्वसिद्धिफलप्रदम् ।
व्रतस्थो व्रतहीनो वा असमयी समयी भवेत् ॥ ४२
अदीक्षितो दीक्षितोऽसौ दुर्भगः सुभगो भवेत् ।
अल्पायुषो दीर्घमायुर्दरिद्रो धनवान् भवेत् ॥ ४३
समयविद्याधरो मन्त्री वीरद्रव्यसमाश्रितः ।
तस्याधिकारमतुलं शास्त्रेऽस्मिन् कौलिनीपुरे ॥ ४४
समयविद्याविनिर्मुक्तो कुलाचारविवर्जितः ।
मन्त्राचारविलुप्तस्तु दीक्षितोऽपि पशुर्भवेत् ॥ ४५
समयभङ्गेषु दारिद्र्यं मरणं गुरुलङ्घनात् ।
आज्ञाभङ्गे कुतः सिद्धिरचिरान्नरकं व्रजेत् ॥ ४६
गोपयेत कुलाचारं गुर्वौघं च कुलागमम् ।
नैवेद्यं चरुद्रव्यं च यत् किञ्चित् क्रमसंस्थितम् ॥ ४७
मम विद्याव्रतस्थस्तु प्राशयेद् समयाग्रतः ।
गुरूच्छिष्टं तु चरुकं समयायुतमन्त्रितम् ॥ ४८
साष्टाङ्गप्रणिपातेन कृत्वा मण्डलकं पुनः ।
हस्तयोरुभयोः कृत्वा देह्यनुज्ञां प्रसादतः ॥ ४९
एवमुक्तस्तु शिष्येण गुरुवक्त्रप्रसादतः ।
प्राशनात् कौलिकी सिद्धिर्निर्विकल्पस्य नान्यथा ॥ ५०
न्यासं विद्याधुना वक्ष्ये सृष्टिन्यायेन कौलिकम् ।
आद्यार्णसप्तकं वक्त्रे रा रा चक्षुद्वये स्मृतौ ॥ ५१
रेफं तृतीयकं चक्षुषे कोपान्ते च विन्यसेत् ।
रा रा कर्णौभयोर्देव कुब्जिके कुलनायिका ॥ ५२
अघोरे नासिकाग्रे तु त्रिशूलं विन्यसेदिति ।
जिह्वायां रावबीजं तु अघोरा चासनत्रये ॥ ५३
मुखि उष्टद्वयारोप्य ह्रां ह्रीं गण्डस्थलावुभौ ।
ङकारं चिबुके न्यस्य ञकारं कण्ठमेखला ॥ ५४
णकारं चक्रकाद्यायां क्र इति गलमेखला ।
मेकारं हृदयात्मानं हूंकारं प्राणमध्यतः ॥ ५५
कोंकणि स्तनयोरेतत् त्रिकमेवानुविन्यसेत् ।
कोंकणं उदरे न्यस्य इकारं नाभिमण्डले ॥ ५६
ह्रौं ह्रौं * करयोः कहौ हसशब्दं तु पृष्ठतः ।
हसशब्दान्वितं चैव स्कन्धयोः कह विन्यसेत् ॥ ५७
कहान्यं बाहुयुग्मे तु ग्लूँकारं योनिमण्डले ।
सहशब्दं कराभ्यां तु समयेति करांगुली ॥ ५८
भैरवीति तथाघोरे च्छ्राँ च्छ्रीँ ऊरुकयुग्मके ।
किणीति जानुजङ्घाभ्यां किणि पादद्वये न्यसेत् ॥ ५९
विच्चे पादांगुलीप्रान्ते वाग्भवं वक्त्रमध्यतः ।
यत्र स्थानात् समारभ्य कृतं न्यासं च विद्यया ॥ ६०
पादान्तात् पुनस्तत्रैव उच्चारो यत्र तल्लयः ।
उदयास्तममेवं तु संपुटं परिगीयते ॥ ६१
एषा सा समया विद्या अपसव्याद् विनिर्गता ।
तद्ग्रहस्य तु क्षेत्रस्य एषा एवाधिकारिणी ॥ ६२
विद्यान्यासेन सिद्ध्येत कूटेनैव विधानतः ।
पञ्चोपचारपूजायां मण्डलाग्रे गुरोग्रतः ॥ ६३
विद्यापीठेऽथवा चक्रे यत्र क्रमाग्रतः कृतम् ।
तत्र तस्य महावस्थाप्रत्ययं कौलिकं भवेत् ॥ ६४
तस्य देव्याश्च कारुण्यं कुरुते स्वप्नदर्शनम् ।
सर्वद्वन्द्वविनिर्मुक्तः अचिरात् खेचरं पदम् ॥ ६५
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अवाक्रमभाषिते तद्ग्रहसमयविद्याधिकारवर्णनक्रमो नामानन्दः ॥ २३ ॥
Kumārikākhaṇḍa – Kapitel २४
चतुर्विंशानन्द
श्रीनाथ उवाच
श्रुतं वक्रे मया वाक्यं कुमारीखण्डनायिके ।
कथं सा मातृका नाम श्लोकद्वादशभेदिता ॥ १
न ज्ञाता च मया देवि श्लोकार्थं कथय स्फुटम् ।
श्रीवक्रा उवाच
महानन्दविकासेन यत् त्वया पृच्छिता ह्यहम् ॥ २
तत्सर्वं कथयिष्यामि मातृकाक्रमनिर्णयम् ।
योऽसौ परापरोऽनन्तः विभुः कारणमव्ययं ॥ ३
प्रशान्तमपरं नाम शान्तातीतमनामयम् ।
पूर्वसंकृत्यमाकारं भैरवस्य महेश्वर ॥ ४
कल्पे पराम्परे पूर्वं मन्वन्तरशतैरपि ।
युगैश्चतुरशीतिः पाषणवत् या तु संस्थिता ॥ ५
एकाहं भैरवे यज्ञे भैरव त्वमहं पुनः ।
न स्त्री न पुरुषाकारं नाकारं विद्यते क्वचित् ॥ ६
शून्याकारे तमैकत्वे रमणानन्दचेतसम् ।
शमनं कुलसंकाशं किञ्चिज्जानाम्यहं हर ॥ ७
न वाचा श्रुतिचक्षुभ्यां न च बुद्ध्याम्यहं हर ।
कैवल्यानन्दमाह्लादं संवर्तान्तं शतार्धकम् ॥ ८
तस्येच्छा किञ्चिच्चिन्मात्रं अव्यक्तं व्यक्तिरूपिणम् ।
तदाहं विस्मयमापन्ना किमिदं शून्यरूपकम् ॥ ९
इति मत्वा गहनं घोरं भीताहं सुप्तचेतसा ।
प्रविष्टा भैरवे यज्ञे स्थिताहं पररूपतः ॥ १०
परमाणुस्वरूपेण किञ्चिद्रूपं च सिंहकम् ।
सिंहसंवर्तकं नाथ व्यावृतं तमसाकुलम् ॥ ११
अकुलादिकुलं चैव व्याकुलं कुलकौलिकम् ।
कलनात् ध्वनिनादान्तं तन्नादं पञ्चधागतम् ॥ १२
तच्च च वर्णादितत्त्वं च कलानां च महोदयम् ।
कलाढ्यं च तथा शान्तं सविसर्गादि चालयम् ॥ १३
महोग्रं कालिकं रावं रूपाख्यं च तथापरम् ।
कुलावलितयोगेन विन्यसेत् कुलपद्धतिम् ॥ १४
द्वादशानि तु श्लोकानि कर्णात् कर्णगतानि च ।
सदोच्चारप्रयोगेन गृह्णते साधकोत्तमः ॥ १५
तस्य देयमिदं ज्ञानं अन्यथा न कदाचन ।
पञ्चप्रणवसंघातैः सामान्यैरेव भैरव ॥ १६
हंसाख्यैर्महतैर्दिव्यैः परामूर्तिरधिष्टितैः ।
उद्धरेद् द्वादश श्लोकान् षट्कूटाधिष्ठितान् शुभान् ॥ १७
चत्वारः षोडशैर्भेदैस्तथा षट् नभान्तरे ।
सृष्टिमध्यगता ये च हक्षस्था द्वयभेदतः ॥ १८
कथं युग्मं कथाख्यं च अनङ्गं सृष्टिसंयुतम् ।
तदधो हनुमान् नाथ रावमार्गसमन्वितम् ॥ १९
गजेन्द्रशिरसाक्रान्तं बिन्दुनादकलाङ्कितम् ।
आज्ञाज्योतिसमायुक्तं श्लोकद्वादशनिर्णये ॥ २०
द्वितीयमक्षरं प्रोक्तं तृतीयं तु यथा भवेत् ।
व्योमबिन्दुशिरोभिन्नं अग्निवेधकभेदितम् ॥ २१
नादशक्तिकलायुक्तं महोग्रमिति कथ्यते ।
अमृतं स्रवमाणं च शान्तयुक्तं समुच्चरेत् ॥ २२
द्विरभ्यासं महाशम्भो यावद् वै मातृकाक्षरम् ।
एतद् विन्यासविज्ञानं परमं देवदुर्लभम् ॥ २३
कुलावलितयोगेन उद्धार्या कुलपद्धतिः ।
संहितार्थमिदं सत्यं अकथ्यं तव दर्शितम् ॥ २४
योऽसौ परापरो देवो भैरवो भवच्छेदकः ।
तस्य इच्छा ह्यनामाख्या किञ्चिच्चेता चिनोति यत् ॥ २५
सा च वै व्यापकत्वेन संपूर्णा कौलिनी परा ।
अमा सूक्ष्मा अनामा च निरानन्दे लयंगता ॥ २६
सा च वै भैरवी शान्ता अनन्तेन विभाजिता ।
तस्मान्मन्थानभेदेन भेदितं च परापरम् ॥ २७
एवं सृष्टिगतानङ्गं अनङ्गं कामनाशनम् ।
तच्च हंसं महात्मानं ज्वलनादमृतोद्भवम् ॥ २८
द्वावेतौ शिवशक्त्याख्यौ ओतप्रोतं जगत्त्रयम् ।
एतद् रहस्यमाख्यातं महामन्थानसंज्ञया ॥ २९
श्रीनाथ उवाच
कथं नाथे का मे संज्ञा कुत्रोत्पत्तौ निरामये ।
व्याकुलोऽहं समुत्पन्नो निःसंदिग्धं वदस्व मे ॥ ३०
श्रीवक्रा उवाच
सरहस्यं कृतं प्रश्नं अमोघाज्ञां कुलेश्वर ।
कथयामि न संदेहो इच्छां कामदुग्धां कलाम् ॥ ३१
यथाहं चिद्घनानन्दा आनन्दतनुतां गता ।
तेन तृप्तिः पुरास्माकं भवते पृथिवी हर ॥ ३२
पृथिव्याहं त्वं महच्छब्दं शब्दब्रह्माक्षराणि च ।
सा च श्रीशाम्भवेच्छाख्या सुशान्तमिति लक्षणम् ॥ ३३
अहं काचित् कला काली विकला कुलशाम्भवी ।
इच्छा ह्यहं परोत्पन्ना अव्यक्ता व्यक्तरूपिणी ॥ ३४
कुलाली कुलकौलेशी अकुलाद् व्यापकी भवेत् ।
व्यापकत्वेन रूपेण संयोगादुपजायते ॥ ३५
संयोगेन तु संवर्ता निरावर्तात् प्रवर्तिता ।
प्रथमं च अनामाख्यं नित्यं च शिरशेखरम् ॥ ३६
महाभैरवज्योतिश्च व्यापकं पश्चिमे गृहे ।
एवं षट्कक्रम त्वं हि विद्या व्योमेन वेष्टिता ॥ ३७
उदयं विमलं नाम अमृतं बिन्दुभैरवम् ।
संयोगेन समुत्पन्ना तदान्ते द्वादशः स्मृताः ॥ ३८
मम मूर्तिगतां कुर्यात् सृष्टिहेतूपलक्षणाम् ।
अहं सा च परा चैका अपरा सिद्धिसागरे ॥ ३९
सागरं मन्मथं नाम कुलाकुलकुलान्तगम् ।
त्रिकुलं त्रीणि तत्त्वानि त्रिधा मन्त्री च शक्तयः ॥ ४०
त्रीणि सिद्धास्त्रयस्रोतस्त्रितत्त्वं त्रिपथान्तरम् ।
तत्परं च महास्थानं मया व्याप्तं तु सागरम् ॥ ४१
सागरं शशिसूर्यान्तं अखण्डमिति मण्डलम् ।
अखण्डमपरं चैव अनन्तश्चाक्षयं तथा ॥ ४२
अकुलं पञ्चमं नाथ विज्ञेयाः कुलभूषणाः ।
एवं नादः समुत्पन्नः पञ्चधा तु क्रमागतः ॥ ४३
क्रमात् सृष्टिः स्थिता योनौ एका एव ह्यधोमुखी ।
सद्भावा सा महामूर्तिर्ज्योतिरूपा मनोन्मनी ॥ ४४
उन्मना मनवेगेन शक्तिः कुण्डलिनी कला ।
अमा नाम कला काली स्थिताहता च भैरव ॥ ४५
अस्याश्चैवासनं पात्रं इडानामेन गीयते ।
इडा सा भैरवी शान्ता शक्तिपात्रमुदाहृता ॥ ४६
उदयं शशिबिम्बस्य सूर्यं मुञ्चति भास्वरम् ।
तच्च बिन्दु घनं घोरं घर्घरामृतसंभवम् ॥ ४७
शाम्भवं षट्कभेदेन कला कलति कौलिनी ।
मफ्रेखसहरावेण स्थिताग्निप्रकृतिरूपिणी ॥ ४८
सत्त्वरजतमैकत्वे स्थिता व्योमान्तवर्तिनी ।
व्योम्न्यादितत्त्वसंघातं तत्त्वाद् वर्णा ह्यजायन्त ॥ ४९
आक्रान्ताश्च कलैर्ज्ञेयाः पञ्चकादिस्वभावतः ।
पञ्च भूताः स्वराः पञ्च सूक्ष्मशाम्भवसंभवाः ॥ ५०
शाम्भवं सरहस्येदं रेफखसहकारकम् ।
तस्यैव वक्त्रमाद्यं च अनामानामसंयुतम् ॥ ५१
यथा सृष्टिक्रमेणोक्तं तथा शृणु महेश्वर ।
व्योम जीवसमायुक्तं वह्निरर्घीशसंयुतः ॥ ५२
अनुग्रहशिराक्रान्तं सूक्ष्मनादेन भेदितम् ।
बिन्दुचन्द्रकलाक्रान्तं अक्षरं भैरवं हर ॥ ५३
शून्यं खेचरसंयुक्तं फरमन्ते समाश्रितम् ।
एकपादेन संभिन्नं नादबिन्दुकलाङ्कितम् ॥ ५४
एषा सा खेचरीविद्या त्रैलोक्याकर्षणी परा ।
यसमध्यगतं देवं हधमध्यगतं पुनः ॥ ५५
णटमध्यगतं गृह्य तदन्तरगतं विदुः ।
गौरीशिखरमाक्रान्तं इन्दुबिन्दुकलान्वितम् ॥ ५६
कथिता शाङ्करी विद्या तृतीया कुलनायिका ।
चतुर्थी मायया नाम हर व्योमासनस्थिता ॥ ५७
अग्निधामेन संभिन्ना इ–उ–मध्यगतेन च ।
बिन्दु–अर्धकलायुक्ता रौद्ररूपा च अम्बिका ॥ ५८
अकथ्यमातृका शक्तिः हसफ्रेकारभेदिता ।
नादबिन्दुकलायुक्ता वाग्भवाकाररूपिणी ॥ ५९
कौलिनी कुलनाथानां सिद्धानां ज्ञानभूमिका ।
शाम्भवाः प्रणवाः पञ्च षष्ठं चैतन्यमुत्तमम् ॥ ६०
षडङ्गवक्त्रसंयुक्ता पूर्णा देवी परापरा ।
षड्बीजानुक्रमेणैव उच्चरेद् गुरूपदेशतः ॥ ६१
द्विषट्कदिव्ययोगेन श्लोकद्वादशपद्धतिम् ।
यो वेत्ति महतीं शम्भो श्लोकार्थपदसंयुताम् ॥ ६२
सोऽपि एकेन जन्मेन कौलिकाज्ञाधरो भवेत् ।
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ॥ ६३
यं यं स्मरति भावेन सर्वं संपद्यते क्षणात् ।
दुष्टान्यनेकक्रूराणि भूचरोरगराक्षसाः ॥ ६४
तस्यालोकनमात्रेण पलायन्ति दशो दिशः ।
इति सत्यं मया प्रोक्तं श्लोकार्थमतमुत्तमम् ॥ ६५
ये न्यस्यन्ति त्रिकालज्ञास्ते यान्ति परमां गतिम् ।
श्रीवक्रा उवाच
अथ चान्यक्रमं वक्ष्ये श्लोकद्वादशके स्थिताः ॥ ६६
द्वादश सिद्धयोगिन्यो अभिधानेन ताः शृणु ।
नन्दा भद्रा जया काली कराली विकृतानना ॥ ६७
क्रोष्टुकी भीमभद्रा च वायुवेगा हयानना ।
गम्भीरा घोषणी चैव योगिन्यो द्वादश स्मृताः ॥ ६८
कृत्वादौ वाग्भवास्त्रीणि अन्ते तेऽपि विलोमतः ।
संपुटेन युता देव्यो द्वादशाङ्गप्रसिद्धये ॥ ६९
नन्दा शिरसि विन्यस्या भद्राख्या च ललाटके ।
जया च दक्षिणे नेत्रे काली चैव तु वामके ॥ ७०
कराली दक्षिणे कर्णे वामे च विकृतानना ।
क्रोष्टुकी नासिकाग्रे तु भीमरुद्रा तथा मुखे ॥ ७१
वायुवेगा गले चैव हृदयस्था हयानना ।
गम्भीरा नाभिमध्ये तु घोषिन्या गुह्यमध्यतः ॥ ७२
एवं न्यासं तु देवीनां दिव्यदेहकरं परम् ।
एतदावरणं न्यासं द्वादशाङ्गमुदाहृतम् ॥ ७३
समयस्य तु सिंहस्य योगिन्यो द्वादश स्मृताः ।
एतन्न्यासं पुरा कृत्वा यत्र यत्र व्रजेन्नरः ॥ ७४
तत्र तत्र महालाभं ज्ञानं लभति पुष्कलम् ।
मेलकं योगिनीसार्धं गुप्तानां च महेश्वर ॥ ७५
द्वादशाङ्गप्रभावेन ज्ञानं ताः कथयन्ति हि ।
ददन्ति चरुकं दिव्यं प्रसन्नास्त्वरितां गतिम् ॥ ७६
दिव्यरूपधरो योगी यदि गुप्तो महेश्वर ।
पुनरन्यक्रमं वक्ष्ये न्यासं क्षेत्रपरिग्रहम् ॥ ७७
अमृतादि च जीवान्तं हक्षसंज्ञासमायुतम् ।
तावन्न्यासं प्रकर्तव्यं शब्दराशिक्रमेण तु ॥ ७८
उपदेशं प्रवक्ष्यामि परं देव्याः परिग्रहम् ।
दीपनं च प्रकर्तव्यं वर्णे वर्णे पृथक् पृथक् ॥ ७९
हक्ष संज्ञाद्वयं स्थानं प्राणं क्रोधं च खे बलम् ।
ताभ्यां न दीपनं देयं स्वभावेनैव दीपिताः ॥ ८०
वर्णदीप्तात्मकं पिण्डं आदिकादिक्रमेण तु ।
आदिकादिक्रमं क्षेत्रं परादेवीपरिग्रहम् ॥ ८१
दीपमानन्दयोगं च शक्तेर्ज्ञेयं परिग्रहम् ।
आदौ वै स्वरचक्रं तु तत्त्वषोडशनिर्णयम् ॥ ८२
ये च उक्ता ककाराद्या जीवं ते सर्वदेहिनाम् ।
विसर्गेण तु निष्पत्तिः एतत् क्षेत्रपरिग्रहम् ॥ ८३
क्रोधः प्राणकला चोक्ता रुद्रशक्त्या च वेष्टिता ।
ताभ्यां संयोगकरणं गुरुवक्त्रात् समभ्यसेत् ॥ ८४
सृष्टिन्यायेन मूर्धादिन्यासं क्षेत्रपरिग्रहम् ।
क्षेत्रपरिग्रहे हीने मर्त्यैः साध्यं न सिद्ध्यति ॥ ८५
तेषां तु साधनार्थाय आख्यातं च परिग्रहम् ।
अनेनाभ्यसिते देव आज्ञायामभिषेचनम् ॥ ८६
अभ्यासाद् हि मासैकेन प्रत्ययं संप्रवर्तते ।
न शृणोति न पश्येत तदा क्षेत्रपरिग्रहम् ॥ ८७
अतः परं प्रवक्ष्यामि अधिकारं पुनस्त्रयं ।
येन विज्ञातमात्रेण अधिकारः प्रवर्तते ॥ ८८
उलीनां त्रितयं देव ज्येष्ठं मध्यं कनीयसम् ।
बालक्रमं तु कौमारं वृद्धमेव क्रमत्रयम् ॥ ८९
तेषां कूटत्रयं शम्भो परादेहाद् विनिर्गतम् ।
प्राणात्माद्यन्तनिकरं आदिस्थं च नितम्बकम् ॥ ९०
वामस्तनं तथा कण्ठं दण्डं च स्कन्धदक्षिणम् ।
पुनः प्राणं पुनर्दण्डं क्षीरमेकत्र पिण्डितम् ॥ ९१
एवमेकादशा रुद्रा एकत्र विनियोजिताः ।
रुद्रकूटं समाख्यातं खं चन्द्रार्धविभेदितम् ॥ ९२
दीपितं छिन्नमुण्डेन एतद् वृद्धक्रमोद्धृतम् ।
तदेव क्षीरनिर्मुक्तं नासिकया विभेदितम् ॥ ९३
कौमारक्रमकूटेदमाख्यातं तव सुन्दर ।
तच्चैव चैव नासया रिक्तं वामकुण्डलभेदितम् ॥ ९४
तृतीयं च कनिष्ठं च बालक्रममुदाहृतम् ।
ओलित्रितयविन्यासं कुर्यात् कूटत्रयं गुरुः ॥ ९५
ज्येष्ठं च विन्यसेच्चक्रे भ्रूमध्ये कोपमण्डले ।
मध्यमं नाभिदेशे तु कनिष्ठं कामरूपतः ॥ ९६
त्रिभिरौलिक्रमे जाता ये शिष्याः सिद्धसन्ततौ ।
तेषां तु त्रिविधं न्यासं आख्यातं सततं हितम् ॥ ९७
क्रमेणानेन देवेश इत्याज्ञा पारमेश्वरी ।
तत्क्षणात् तत्र तच्छापं क्रमं तत्र परांमुखम् ॥ ९८
स्वतुल्यां गुरुडद्यं (?) तु निर्बीजं पूजयन्ति ये ।
संसारे वर्तते भूयः संसारान्न निवर्तते ॥ ९९
न तेषां दीपनं किञ्चित् शाम्भवकूटदीपिताः ।
तस्मात् कूटस्थविन्यासं त्रिधा मन्त्रक्रमोद्धृतम् ॥ १००
विपर्यायक्रमेणैव ते च सिद्धास्त्रिभिः पुनः ।
ओकारश्च षकारश्च मिकारश्च त्रि–उलिकाः ॥ १०१
नायकास्तत्र विन्यस्य तेषां पिण्डं स्वरूपतः ।
उपदेशेन विन्यासं करोत्यावेशमुत्तमम् ॥ १०२
कनिष्ठं मध्यमं ज्येष्ठं मध्यमं योनिमध्यतः ।
अपरं यत् कनिष्ठं च योनिमध्ये तृतीयकम् ॥ १०३
एवं क्रमेण विन्यासं न कुर्यादपि चान्यथा ।
अधिकारत्रयं शम्भो ज्ञात्वा यजनमारभेत् ॥ १०४
रत्नपञ्चकविन्यासं वक्ष्याम्याहमतः परम् ।
सिद्धसंकेतसिद्धानां प्रोक्तं सर्वत्र पञ्चकम् ॥ १०५
तृतीयं दशनं देव्यास्तस्यात्मानं हृदि पुनः ।
नितम्बं च शिखा तस्या दक्षस्तनविभेदितम् ॥ १०६
वामकुण्डलसंपूर्णं खशक्तिशिवभेदितम् ।
रत्नपञ्चकमाख्यातं प्रोक्तं सर्वजनप्रियम् ॥ १०७
ओषमैत्रचसिद्धानां सिद्धं ह्यमरिकाक्रमम् ।
लाभ्यं तेन च गूढार्थं प्रकटं कुलकौलिकम् ॥ १०८
कर्मक्षयान्महादेव विद्येयं पञ्चधा भवेत् ।
सेव्या सन्ताने सततं ततः कर्मारिहो भवेत् ॥ १०९
रत्नाद्यं यत् परं पिण्डं तच्च आधारमण्डले ।
चतुर्थं कण्ठदेशे तु पञ्चमं तुर्यमण्डले ॥ ११०
एकवीरान् न्यसेत् पञ्च न तेषां दीपनं क्वचित् ।
ऐंकारान्तरयोगेन भगमध्ये लयंगताः ॥ १११
क्षेत्रस्था विन्यसेत् पञ्च स्वभावेन च दीपिताः ।
चिरायुर्न्यासमात्रेण अच्छिद्रो भवते नरः ॥ ११२
दिव्यपीठपुरक्षोभं वीरसिद्धिमवाप्नुयात् ।
प्राप्नोति विविधान् भोगान् वीरैः पञ्चाशद्भिः सह ॥ ११३
यद्यावर्तयते देव स्मरणात् पठनादपि ।
सर्वसिद्ध्यालयं तस्य योगिनस्तु प्रवर्तते ॥ ११४
दिव्यदृष्टिः पुरक्षोभं सिद्धिः पञ्चाश्रितेन तु ।
दशलक्षकृते जाप्ये तीव्राज्ञा संप्रवर्तते ॥ ११५
पञ्चरत्नेन संसिद्धिः निर्वाणं प्राप्यते पदम् ।
मतार्थं पूर्वतो ज्ञात्वा मन्त्रपदं स्फुटम् ॥ ११६
एतद् वै कौलिकं सूत्रं षोढान्यासेन वेष्टितम् ।
षोडशान्वयमन्त्रौघं क्रमं षोडशरूपिणम् ॥ ११७
एतद् विमलविज्ञानं कुलमार्गविनिर्गतम् ।
कुलं च षोडशैर्भेदैः सन्तानं षोडशैः पुनः ॥ ११८
षोडशाज्ञाप्रसूतिस्तु न्यासमञ्जूषकोद्धृतम् ।
गोपनीयं प्रयत्नेन तान्त्रिकानां न दर्शयेत् ॥ ११९
एवं प्रभावमाख्यातं षोढान्यासस्य सुन्दर ।
गुरूपदेशतो ज्ञेयं संहितार्थसमुच्चयम् ॥ १२०
विस्तरं पूर्वमाख्यातं लक्षपादाधिके मते ।
अत्र संक्षेपतः प्राप्तं चतुर्विंशत्सहस्रके ॥ १२१
षोढान्यासस्य सूत्रं तु आख्यातं तव सुन्दर ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते षोढान्यासमञ्जूषाक्रमवर्णने क्रमोदयो नामानन्दः ॥ २४ ॥
Kumārikākhaṇḍa – Kapitel २५
पञ्चविंशानन्दः
श्रीनाथ उवाच
कुलं च षोडशैर्भेदैर्मया ज्ञातं महेश्वरि ।
विपर्यायेण अपरं स्वाभाविककुलं कथम् ॥ १
षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् ।
संस्फुटं च न मे ज्ञातं कुलमार्गक्रमेण तु ॥ २
इदानीं कथ्यताम् देवि कुलभेदं यथा भवेत् ।
श्रीवक्रा उवाच
एतत् प्रश्नं महाश्रेष्ठं देवदेवावतारितम् ॥ ३
विचारं तस्य वक्ष्यामि कुलपञ्चाशिकाक्रमम् ।
कुलमूलक्रमं शम्भो शृणु वक्ष्यामि भैरव ॥ ४
अधोमुखं तु प्रथमं कन्दनालसमुद्भवम् ।
गुप्तं तं कन्दचक्रं तु अधोमुखव्यवस्थितम् ॥ ५
चतुर्दलसमायुक्तं पद्मरागसमप्रभम् ।
चत्वारस्तस्य भेदाश्च आधारे चक्रनायकाः ॥ ६
पिण्डं तस्य प्रसादं तु हिमकुन्देन्दुनिर्मलम् ।
तस्य ऊर्ध्वे द्वितीयं च योगराजमधोमुखम् ॥ ७
वह्निकपिलसंकाशं ज्वालाज्वलितविग्रहम् ।
तस्य भेदाः षडिर्ज्ञेयाः चक्रेशं स्वाधिष्ठानकम् ॥ ८
तस्य पिण्डं महारावं आरक्तं शुद्धवासनम् ।
तस्य ऊर्ध्वे तृतीयं तु चक्रं नाभिहुताशनम् ॥ ९
महारत्नं महादीप्तं तस्य भेदानि वै दश ।
स्वरषष्ठसमाक्रान्तं बिन्दुसंस्थशशाङ्कधृक् ॥ १०
दाडिमीकुसुमप्रख्यं ज्वलन्तं भैरवानलम् ।
तं पिण्डं मणिपूरस्य सिद्धस्य इति निश्चयम् ॥ ११
चक्रनायकविख्यातं सुरसिद्धनमस्कृतम् ।
चतुर्थं तस्य ऊर्ध्वे तु हृदि चक्रमधोमुखम् ॥ १२
वर्णं तद्गैरिकाभासं तस्य भेदानि द्वादश ।
चक्रनायकविख्यातं तत्रानाहतभैरवम् ॥ १३
खेचरीहृदयं तस्य पिण्डं द्वादशवर्णकम् ।
ध्यानं तस्य भवेद् रक्तमीषद्श्यामविमिश्रितम् ॥ १४
अतोर्ध्वं संप्रवक्ष्यामि अपरं चक्रनिर्णयम् ।
हिमकुन्देन्दुधवलं तस्य भेदानि षोडश ॥ १५
विशुद्धं भैरवं तत्र कथितं चक्रनायकम् ।
तस्य पिण्डं भवेद् वाहं त्रिपदेन विभेदितम् ॥ १६
हरितं तस्य वर्णं तु नीलजीमुतसन्निभम् ।
तस्योर्ध्वं परमं चक्रं तुर्यस्थानगतं पृथु ॥ १७
गोक्षीरसदृशानन्दं तेजोरूपं भगाकृतिः ।
तस्य भेदद्वयं प्रोक्तं आज्ञाचक्रेश्वरं प्रभो ॥ १८
वाग्भवं तस्य तत् पिण्डं सिन्दूरारुणसन्निभम् ।
षट्त्यागात् सप्तमं ऊर्ध्वं आकाशे शून्यमण्डले ॥ १९
तुर्यातीतं तु तत् प्रोक्तं तस्मात् षट्कं विनिर्गतम् ।
सृष्टिक्रमेण ऊर्ध्वाद्धि चक्रौघं तत् विभाव्यते ॥ २०
द्विरारं तुर्यचक्रं तु कण्ठे वै षोडशारकम् ।
हृदयं द्वादशारं तु नाभिर्वै दशभिः स्मृतः ॥ २१
षडारं योनिचक्रं तु चतुरारं गुदं स्मृतम् ।
पुनः सिद्धक्रमं तेषां विशुद्धादिक्रमेण तु ॥ २२
विशुद्धं षोडशैर्भेदैः द्वादशैस्तु अनाहतम् ।
दशभिश्च मणिर्भिन्नः स्वाधिष्ठानं षडात्मकम् ॥ २३
आधारे भेदाश्चत्वार आज्ञा भेदद्वयं विदुः ।
अकारादिविसर्गान्ता भेदानि षोडशः स्मृताः ॥ २४
ककारादिठकारान्ता द्वादशानि अनाहते ।
डकारादिफकारान्ता भेदानां दशकं मणौ ॥ २५
बकारादिलकारान्तं भेदषट्कं क्रमेण तु ।
स्वाधिष्ठाने महादेव आधारे तु यथा शृणु ॥ २६
वकारादिसकारान्ता भेदाश्चत्वाराधारगाः ।
षष्ठं चक्रं भ्रूवोर्मध्ये हक्षद्वयविनिर्मितम् ॥ २७
हक्षद्वयविनिर्मुक्ताः श्लोकानि द्वादशः स्मृताः ।
षट्त्यागात् सप्तमे मुक्तिस्तत्रानन्दं व्यवस्थितम् ॥ २८
अपरं षोडशाधारा लक्षत्रितयमेव च ।
अमृतादिविसर्गान्ताः कलाधाराणि षोडश ॥ २९
तेषां च योगिनीसिद्धाः स्वशरीरे व्यवस्थिताः ।
अनन्तं चैव आकाशं इन्दुः ईश्वरसंज्ञकम् ॥ ३०
उदयं ऊर्जनाथं च ऋक्षकर्णं च ऋषभम् ।
लिप्ताङ्गं लॄलिहश्चैव एकपादं महेश्वर ॥ ३१
तथा वै रावणो नाम ओवली नाम औमुनिः ।
अम्बुनाथं अह्ववाहं आधाराः षोडशः स्मृताः ॥ ३२
एते चैव महासिद्धा आद्यन्ते ऐँसमायुताः ।
एतैस्तु व्यापितं पिण्डं तेषां स्थानानि षोडश ॥ ३३
प्रथमं घण्टिकायां तु द्वितीयं तालुमण्डले ।
मज्जे मेदे तथा शुक्रे अन्यच्चैव तु कुण्डली ॥ ३४
स्नाय्वस्थित्वचरोमाणि केसरं च तथामृतम् ।
मांसं च रुधिरं चैव वाडवानल मारुतम् ॥ ३५
आकाशं च तथा देव एवमाधारषोडशः ।
तेषां ओलित्रयं देव सत्त्वरजस्तमस्त्रयम् ॥ ३६
लक्षत्रयं समासेन मनो बुद्धिरहंकृतिः ।
तेषां वै त्रीणि सिद्धाश्च कूटस्था ओषमित्र च ॥ ३७
एतेषां तु लयं देव पञ्चव्योमस्तु भैरव ।
आधारे हृदये चैव तथा कुले कपाटके ॥ ३८
पञ्चव्योमगतं लक्षं भित्त्वा चैव तु खेगतिः ।
सोममण्डलमध्यस्थं अपरं सूर्यमण्डलम् ॥ ३९
वायुमण्डलमध्यस्थं अपरं व्योममण्डलम् ।
आकाशं पञ्चधा प्रोक्तं अधो मध्ये च मूर्धनि ॥ ४०
एतेषां व्यापकाः पञ्च बिन्दुमार्गप्रभेदकाः ।
शिवाद्यन्तसमायुक्तं तेषां वै सिद्धपञ्चकम् ॥ ४१
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
एते पञ्च महाभूता निर्मिताः सृष्टिकारकाः ॥ ४२
श्रीकण्ठः शङ्करोऽनन्तः सादाख्यः पिङ्गलस्तथा ।
पञ्चैते सृष्टिकर्तारः सिद्धाः पञ्चकुले तथा ॥ ४३
श्रीकण्ठः पृथिवी ज्ञेयः शङ्करो आप उच्यते ।
तेजोऽनन्त इति प्रोक्तः सादाख्यो वायुरुच्यते ॥ ४४
आकाशः पिङ्गलो ज्ञेयः पञ्चैते सृष्टिकारकाः ।
एतद् वै कुलमार्गं तु तवाख्यातं रहस्यकम् ॥ ४५
गुप्ता कुलवधू यद्वत् तद्वद् गोप्यतरं कुलम् ।
उद्धारं पूर्वतो ज्ञात्वा पश्चाद् यजनमारभेत् ॥ ४६
एतत् कुलक्रमाचारं बिन्दुमण्डलभेदितम् ।
तत्र लक्षे मतिं कृत्वा रुद्रशक्तिः प्रवर्तते ॥ ४७
अधो मध्ये च ऊर्ध्वे वा आत्मतुल्याधिकारकम् ।
कुर्याच्चैव स्वदेहस्य चित्तं दमयते ततः ॥ ४८
बहिरन्तरभावेन तदा चोत्पद्यते सुखम् ।
तत्कुलाकुलमादाय शरीरं षट्कभेदितम् ॥ ४९
नवसंज्ञं पुनर्भूयः कुलभेदार्णवं भवेत् ।
शङ्खं शक्तिस्तथा योगं महागृहं चतुर्थकम् ॥ ५०
पञ्चमं च प्रभु प्रोक्तं पादं तु षष्ठमुच्यते ।
अतीतमावली चैव उत्तरौ परिकीर्तितौ ॥ ५१
तस्योत्तमं महादेव आनन्दं नवमं कुलम् ।
कुलं तु नवधा भिन्नं विख्यातं सर्वतोमुखम् ॥ ५२
उड्डामरं सिद्धकौलं गणाख्यं खेचरीमतम् ।
चन्द्राख्यं रौरवं देव वीराख्यं भूतडामरम् ॥ ५३
नवमं तु महाकौलं प्रत्ययं स्वाधिकारकम् ।
तेनावतारिता चाज्ञा लक्षपादाधिके मते ॥ ५४
तस्मात् तत् सिद्धकौलं तु तदा कौलस्य प्रत्ययम् ।
अवस्था उन्मनी भावं एतत् कौलोपदेशकम् ॥ ५५
कुलकौलं समाख्यातं आद्यान्तं तमनाहतं ।
कुलमेकं विजानीयात् व्योमपञ्चकभेदितम् ॥ ५६
आसनं भेदनं तेषां कुलपञ्चाशिकाक्रमम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते कुलपञ्चाशिकाधिकारवर्णने क्रमोदयो नामानन्दः ॥ २५ ॥
Kumārikākhaṇḍa – Kapitel २६
षड्विंशानन्दः
श्रिनाथ उवाच
किं कुलं किं क्रमाचारं का पूजा क्रममण्डले ।
कथयस्व महेशानि प्रसादाद् वद मे प्रभो ॥ १
श्रीवक्रा उवाच
क्रमाद्यं मूलसूत्रं तु वृत्ताध्युष्टप्रमाणतः ।
तस्यारभ्य क्रमात् सृष्टिः इत्याह खेचरसमम् ॥ २
या सा शक्तिर्भगाख्या त्रिविधगतियुता त्र्यक्षरा त्रिप्रकारा तस्यां श्री–ओड्डियाणं परकलसहितं मध्यसंस्थं सुदीप्तम् ।
तच्छ्रीजालन्धराख्यं प्रकटितनिलयं दक्षिणे चैव कोणे वामे श्रीपूर्णपीठं पशुजनभयकृत् कामरूपं तदग्रे ॥ ३
तस्योर्ध्वे तिस्रपीठं परमकलयुतं चन्द्रपीठं ललाटे त्रिकोणान्ते समस्तं परमशिवकलाक्षोभितं दिव्यमोघम् ।
तन्मध्ये वक्रलिङ्गं परमसुखकरं बिन्दुरूपं त्रिभिन्नं नित्यानन्दस्वरूपं तदुपरिमथनात् षट्प्रकाराधिकारम् ॥ ४
पूर्वाम्नायक्रमौघं तदुपरि अपरं वृद्धकौमारबालम् एवं व्याप्तं समस्तं स्थितिलयजननी रुद्रशक्तिस्त्रिभेदैः ।
चिञ्चाज्ञा कादिभेदैरकुलकुलमयानन्ददा बोधरूपा गुर्वाज्ञा षट्प्रकारा पशुभयहरणी चन्द्रबिम्बस्य मध्ये ॥ ५
नित्यक्लिन्ना सुरक्ताभयमुदितपरानन्दशक्तिः प्रसिद्धा कुर्वन्ती शाम्भवौघं क्षुभितवरतनुः श्रीकुजा दिव्यलिङ्गम् ।
मयावतारितं तुभ्यमाद्यसूत्रमधोमुखम् या सा शक्तिः पराख्याता सा च देवी भगाकृतिः ॥ ६
तस्यान्ते सा परा देवी पीठानां पीठदेवता ।
या सा शक्तिर्भगाख्याता गतिस्तस्यास्त्रिधा पुनः ॥ ७
आदिकादिथकारादिब्रह्मविष्णुमहेश्वराः ।
ज्येष्ठा वामा च रौद्री च द्वादशश्लोकभेदिताः ॥ ८
परा सा रुद्रशक्तिस्तु त्रिभिः स्थानैर्व्यवस्थिता ।
ललाटे हृदये योनौ क्षरते त्रिषु कारिषु ॥ ९
शुक्रं च शोणितं कृच्छ्रं नाडीत्रितयसन्धिषु ।
इडा च पिङ्गला चैव सुषुम्ना मध्यमा त्रयः ॥ १०
एवमानन्दयोगेन त्रिशक्तिः स्वाधिकारिका ।
तस्यायातं क्रमं देव बालकौमारवृद्धकम् ॥ ११
पीठपञ्चकसंयुक्तं क्रममेकं त्रयोलिषु ।
आनन्दानन्दबिन्दुश्च अक्षरं परमा कला ॥ १२
पीठान्येते क्रमात् पञ्च अन्तरङ्गे प्रतिष्ठिताः ।
बहिरङ्गे च ते कूटा ओजापूका च तिस्रकम् ॥ १३
समस्तं च कुलं कौलं शिवशक्तिकलावृतम् ।
आनन्दावृतवृन्दस्तु आनन्दे तु प्रवर्तते ॥ १४
उद्भवानन्दचित्तस्य समत्वं च प्रवर्तते ।
तन्मध्ये सूक्ष्मलिङ्गं तु दिव्यलिङ्गमधोमुखम् ॥ १५
परमाकाशमध्यस्थं चन्द्रमण्डलमध्यतः ।
तदा तत् सुषिरं याति लक्षितेनान्तरात्मना ॥ १६
पश्यते तु समाधिस्थो बिन्दुरूपं नभस्तलम् ।
चिदानन्दसमुत्पत्तिः आवेशः संप्रवर्तते ॥ १७
तद्रूपं च स्वरूपं च इत्याश्रावणप्रत्ययम् ।
मथिते चित्तचैतन्ये मथितं कर्मसंश्रयम् ॥ १८
मथनादपि चक्रस्य योगावेशं मुहुर्मुहुः ।
आरक्तं तत्कुले चक्रं तत्रस्थं बिन्दुमण्डलम् ॥ १९
भेदितं द्रावितं यस्मात् मथितं स्मरणेन तु ।
षट्प्रकारैर्विभिन्नं तु भेदैश्चैवाष्टविंशतिः ॥ २०
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः ।
षट्प्रकारक्रमं ह्येतत् यो वेत्ति स च कौलिकः ॥ २१
आदौ पीठचतुष्कं तु चत्वारः पीठदेवताः ।
सिद्धपञ्चकमन्यं तु ज्ञानषट्कसमन्वितम् ॥ २२
महन्तारीपञ्चकं च ओलित्रयकुलक्रमम् ।
अष्टाविंशतिभिर्भेदैः प्रकाराणि षडिः स्मृताः ॥ २३
एतैर्भिन्नं कुलात्मानं तदा आनन्दसन्ततिः ।
कलिस्यान्ते च कामाख्ये समीपस्थं च पञ्चकम् ॥ २४
अवस्था च कुले कौले तिस्राख्ये जायते हि च ।
स चाष्टाविंशमो भेदो भविष्ये च भविष्यति ॥ २५
एवं ते पञ्चभिः पीठाः पूर्वसूत्रे विसर्पिताः ।
तथा च देवतादीनि सृष्टिन्याये अतः शृणु ॥ २६
गजजिह्वा अग्निजिह्वा तडिज्जिह्वा तृतीयका ।
शुक्रजिह्वा च अमरा रसजिह्वा च पञ्चमी ॥ २७
तेषां सिद्धीः क्रमात् पञ्च इदानीं प्रवदाम्यहम् ।
चन्द्रार्कानलबिम्बस्थं बिन्दौ च गणपञ्चकम् ॥ २८
आवेशं घूर्णिरानन्दः ऊष्मा क्रोषणशोषणम् ।
एतद् वै ज्ञानषट्कं तु प्रकृतिस्थं प्रमेयतः ॥ २९
माया च शाम्भवी शक्तिः इच्छा ज्ञानी क्रिया तथा ।
एतच्चतुष्कमाख्यातं पञ्चकं महन्तारिका ॥ ३०
शब्दा स्पर्शा रसा देवी रूपव्यापी च गन्धिनी ।
एते वै त्वदहंकार्याः पञ्चकं परिकीर्तितम् ॥ ३१
विमलान्तरमात्मानं एवं ओलित्रिकं स्मृतम् ।
एवं ते क्रमभेदानि कथितान्यष्टविंशतिः ॥ ३२
एतैर्भिन्नं महालिङ्गं दिव्यमण्डलसंज्ञकम् ।
तेषां विद्यान्वयं यच्च परा सा परमा कला ॥ ३३
नित्योदिता सुसूक्ष्मा च नासाग्रे संव्यवस्थिता ।
ऊर्णतन्तुनिभाकारा गोक्षीरहिमशीतला ॥ ३४
तयासौ जीवते जीवो दिव्यलिङ्गं महेश्वर ।
तस्य सिद्धान्वयं सर्वं भेदाश्चैवाष्टविंशतिः ॥ ३५
तया प्राशितमात्रा या अन्तर्भावः प्रवर्तते ।
त्रिनाडिसंगमं स्थूलं एकत्र यत्र तिष्ठति ॥ ३६
तेन तं त्रिपुरं पीठं त्रिभिः स्रोतप्रवाहकम् ।
तिस्राख्यं च ललाटस्थं ब्रह्मग्रन्थिरधोमुखी ॥ ३७
ललाटसुषिरं चक्रं प्रत्ययं ज्ञानरश्मयः ।
एवं व्याप्तं क्रमं मेरोर्योगिनी च अधोमुखी ॥ ३८
सा शक्तिः परमा तत्र स्थिता विश्रामकारिणी ।
दक्षिणोत्तरयोः पार्श्वे जननी चलते पुरे ॥ ३९
भगमध्यमशृङ्गस्य तस्याग्रे तु लयं पुनः ।
एवं सा रुद्रशक्तिस्तु त्रिभिर्भेदैः प्रतिष्ठिता ॥ ४०
आदिस्थाने स्थिता तत्र देवदेवी कुलेच्छया ।
ददते ज्ञानसद्भावं कुटिलाङ्गी स्वतन्त्रतः ॥ ४१
तदानन्दः प्रवर्तेत मोक्षमार्गमहोत्सवः ।
आज्ञां गुरुमुखाद् लब्ध्वा रुद्रशक्तिः प्रवर्तते ॥ ४२
वक्त्राद् वक्त्रगता आज्ञा बन्धुभूता कुलक्रमे ।
वाचासिद्धिः कुले कौले भवनात् संप्रवर्तते ॥ ४३
कर्मणा मनसा वाचा त्रिशुद्धिर्भक्तिवत्सले ।
तस्याज्ञा वर्तते शिष्ये भावहीनो न सिद्ध्यति ॥ ४४
पशुपाशभयं शिष्ये अन्यथा च भवेद् ध्रुवम् ।
रुद्रशक्तिर्महादेवी अमोघा च जगत्सुता ॥ ४५
दिव्याज्ञायाः स्वरूपा सा सिद्धरूपा त्वनेकधा ।
नित्यक्लिन्नाप्रभावेन अतिरक्तस्वरूपतः ॥ ४६
उदयं लभते शिष्यः परमानन्दलक्षणम् ।
प्रतिरूपा च या शक्तिः प्रसिद्धा च्छायजा परा ॥ ४७
कुर्वन्ती नित्य कर्माणि मनेच्छया यथा सुधीः ।
मोचयेच्छक्तिचक्रस्थो दिव्यलिङ्गतनुर्धरः ॥ ४८
चन्द्रादित्यजले च्छाया अग्निसोमार्कदर्पणे ।
तथा सा तारकान्ते च परा देवी सुसूक्ष्मगा ॥ ४९
पशुर्धारां यथा पश्येत् कुटिलां च अधोमुखीम् ।
सा च देवी ह्यहं मूर्तिः कुब्जिका कुलकौलिनी ॥ ५०
तस्याः सूत्रक्रमं चोक्तं क्रम–ओघं विनिर्गतम् ।
प्रज्ञार्थं संगतं पश्येन्मूलसूत्रोपदेशकम् ॥ ५१
इत्यागमविशुद्धस्य प्रज्ञासूत्रमयं हर ।
मलस्यैवोपघातार्थं निर्णीतामिह संहिताम् ॥ ५२
अनेन सूचितं सूत्रं मूलसूत्रं तु मूलतः ।
प्रज्ञासूत्रविनिर्मुक्तो योऽन्यथा अवधारयेत् ॥ ५३
न तस्य सूत्रं न मूलं तु न ज्ञानं ज्ञेयरूपतः ।
न कुलं च क्रमं नैव नाचार्यं नैव पुत्रकम् ॥ ५४
तस्मात् सर्वप्रयत्नेन मूलसूत्रं समाश्रयेत् ।
श्रीनाथ उवाच
क्रमौघं मूलसूत्रं तु प्रज्ञासूत्रेण बोधितम् ॥ ५५
त्वन्मुखाच्च मया ज्ञातं सिद्धोऽहं नात्र संशयः ।
दिव्यानन्दप्रकाशोऽयं उत्पन्नस्त्वत्प्रसादतः ॥ ५६
ऐँ नमोऽस्तु ते महामाये अजिते तेजरूपिणि ।
सोममण्डलमध्यस्थे नादरूपे खमाश्रिते ॥ ५७
ऐंकारविग्रहावस्थे दिव्यलिङ्गे नपुंसके ।
कलिस्यां परमे मातः अन्ते अम्बे कुलाम्बिके ॥ ५८
आदिपीठसमुद्भूते पञ्चाशत्पीठमाश्रिते ।
वह्निकपिलसंकाशे स्फुरन्नाडीप्रबोधके ॥ ५९
विसर्गान्ते समुद्भूते वाग्भवे परमेश्वरि ।
हकारार्धकलाधारे शून्यभूते खगोदिते ॥ ६०
बिन्दुस्थे चैव चन्द्रस्थे खेचरीचक्रमाश्रिते ।
देवीनां गुरुमानाम्बे कुब्जिके परमेश्वरि ॥ ६१
ईश्वरान्तर्गते मातः आत्मानन्दविभेदिते ।
कूटस्थे देवदेवेशि योगपीठे व्यवस्थिते ॥ ६२
दुर्गमार्गोदिते भीमे मण्डलान्ते कलौ युगे ।
आवर्ते च निरावर्ते लये विश्रामकारिणि ॥ ६३
मङ्गला त्वं महादेवि ओंकारपीठमाश्रिते ।
देवि जालन्धरे माये पूर्णपीठे अधोमुखि ॥ ६४
त्वं च कामेश्वरी क्लिन्ने योगिनी कामरूपके ।
माया त्वं भैरवीशक्तिर्नायकी पीठपञ्चके ॥ ६५
काली त्वं चैव उज्जैन्यां अर्धपीठेश्वरेश्वरी ।
त्वं च पीठोपपीठेषु त्वमाद्या क्रममण्डले ॥ ६६
पञ्चप्रणवमध्यस्थे पूर्णान्ते कुलमातरे ।
मातृचक्रस्थिते देवि षड्योगिनिपरावृते ॥ ६७
त्वं च सा डाकिनी माया अप्रमेयातितेजसा ।
किङ्किणी ज्वालघोषाणां वीणापटहदुन्दुभी ॥ ६८
त्रिधामधामसंघट्टे त्रिधागतिसमाश्रिते ।
त्रिप्रकारगते शान्ते मातृमन्त्रतनुप्रिये ॥ ६९
ऐंकारासनमारूढे बिन्दुरूपे त्रिधागते ।
ह्रीँकारजननि देवि क्षाँ क्षाँ क्लीँकारभेदनि ॥ ७०
व्यापकि व्याप्तिवर्णानां याँराँलाँवाँनिवासिनि ।
हेमहेमावति देवि हंसिनि हंसमध्यगे ॥ ७१
हंसनादेश्वरि भीमे वक्रदेहे अधोमुखि ।
सुभगे विमले शान्ते प्रमेयज्ञानवल्लभे ॥ ७२
ब्रह्मरूपस्वरूपे च ऐँ–ह्रीँ–श्रीँ–समयावृते ।
ह्रीँकारत्रिगुणावर्ते ह्रीँ ह्रीँ मन्त्रतनु प्रिये ॥ ७३
मायारूपधरीदेवि गजजिह्वे गजेश्वरि ।
त्वमेव विद्युज्जिह्वा च ह्राँ ह्रीँ ह्रूँ च भगोद्भवे ॥ ७४
भवोद्भवे भवातीते तुर्यस्थे तुर्यमूर्धनि ।
प्रशान्तपदमारूढे षट्त्यागात् सप्तमेश्वरि ॥ ७५
सूक्ष्मे चैव सुसूक्ष्मे च सुस्थिते च सुराधिपे ।
आनन्दे च निरानन्दे अमरीक्रमभूषिते ॥ ७६
ग्लूँकारे पार्थिवे ब्राह्मी स्लूँकारे त्वं च वैष्णवी ।
प्लूँकारे त्वं कुले रौद्री म्लूँकारे त्वं च ईश्वरी ॥ ७७
न्लूँकारे नायकी नन्दा नित्यानन्दपरे रता ।
माया त्वं सर्वसिद्धीनां पीठानां संस्थिता उमे ॥ ७८
मे माते परमे माये मे शिवे मे सरस्वति ।
मे माता मे च मे भार्या मे च जीवान्तरालये ॥ ७९
प्रभुर्मे दिव्यशक्तिस्त्वं आरक्ते तत्त्ववाससे ।
सर्वाङ्गसुन्दरि क्लिन्ने जीवनाडिगते शुभे ॥ ८०
ह्राँह्रीँह्रूँकारमन्त्रैस्तु चलसे स्यन्दसे जगत् ।
मन्त्रावेशपदे गौरि शक्त्यन्ते च समाश्रिते ॥ ८१
कुलमातङ्गिनीचक्रे विद्यादेवीति कुब्जिके ।
पूर्णचन्द्रनिभाकारे चन्द्रपूर्णभगानने ॥ ८२
सप्ताविंशपदैर्भेदैः अष्टाविंशत्पदोद्भवे ।
चक्रनायकि कौलीशे ईश्वरीकुलमाश्रिते ॥ ८३
सिद्धपञ्चाशरूपेण कमले कमलेश्वरि ।
अट्टहाससमुद्भूते हंसमण्डलभूषिते ॥ ८४
सोममण्डलमध्यस्थे माया त्वं सूर्यमण्डले ।
त्वमग्निमण्डलान्तस्थे दीप्तजिह्वे महेश्वरि ॥ ८५
वायुवेगे मनान्तस्थे परापरविसर्पिते ।
शून्ये शून्यान्तरावस्थे मारुति सिद्धसेविते ॥ ८६
निरालम्बे गते देवि आकाशे दुरतिक्रमे ।
ज्ञानविज्ञानगम्भीरे ज्ञेयरूपे च केवले ॥ ८७
स्थितिलयकरीदेवि जननि तत्त्वमण्डले ।
तत्त्वानां क्षोभणी शक्तिः अज्ञानतमभेदनी ॥ ८८
मातरी सर्वदेवानां मम प्राणप्रिये उमे ।
विश्वेश्वरी जगद्धात्री संप्रदायप्रदायिनी ॥ ८९
नमस्ते परनिर्वाणे जगद्योनिमहाम्बिके ।
स्मर त्वं समयं पूर्वं स्नेहेन मनविग्रहम् ॥ ९०
तुष्टा भव परेऽस्माकं माता त्वं त्रिदशैरपि ।
इति मायास्तवं प्रोक्तं योगीवाणीक्रमागतम् ॥ ९१
तस्यावतारं कुरुते वक्रिका पीठदेवता ।
सुखमारोग्यसंपत्तिमवस्थां लभते नरः ॥ ९२
सर्वपापविनिर्मुक्तो भवते तत्क्षणादपि ।
न तस्य पुनरावृत्तिर्मायास्तवमुदीरणात् ॥ ९३
इहैव प्राप्नुयाद् भोगान् लाभं पूजायशः श्रियः ।
अवस्था क्रमयुक्तस्य पारम्पर्येण तस्य च ॥ ९४
समयाचारयुक्तस्य तीव्राज्ञा संप्रवर्तते ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते मूलसूत्राधिकारवर्णने मायास्तवाधिकारो नामानन्दः ॥ २६ ॥
Kumārikākhaṇḍa – Kapitel २७
सप्तविंशानन्दः
श्रीनाथ उवाच
देवि सिद्धे जगत्स्वामि आदिनाथे कुलोद्भवे ।
ब्रूहि ज्ञानोपदेशं तु यत् सारं पश्चिमान्वये ॥ १
प्रकटं कुरु कौलीशे पूजा–आगममण्डलम् ।
श्रीवक्रा उवाच
सारं शैवस्य जगतो भुवनाकृतिमण्डलम् ॥ २
बाह्यस्थं च स्वदेहस्थं अन्तरङ्गं चिदात्मकम् ।
तदहं संप्रवक्ष्यामि गुरुमण्डलकं यथा ॥ ३
योऽसौ अनादिरव्यक्तः शिवः परमकारणः ।
मन्त्रमूर्तिरभून्नाथ लोकानुग्रहहेतुना ॥ ४
अवतीर्णस्तु भूलोके अनुग्रहकरः परः ।
पूज्योऽसौ मण्डले देव नवात्मानन्दभैरवः ॥ ५
पञ्चमूर्तिधरो नाथः षोडशावयवान्वितः ।
नवधामूर्तिमाश्रित्य अवतीर्णः कलौ युगे ॥ ६
पञ्चाशद्रुद्रमूर्तिस्थो यथा पूज्यस्तथा शृणु ।
तस्योद्धारं महादेव श्लोकैः पञ्चभिः सूचितम् ॥ ७
अकारे चत्वरे मध्ये पञ्चमं च तथा पुनः ।
लकयक्षतनं रमडखं चेति विपर्ययेत् ॥ ८
ड ढ ठ ट दपर्यन्तं सृष्ट्या मेरोर्विनिर्गतम् ।
मण्डलं तं स्मृतं देव द्वितीयं चाधिकारयोः ॥ ९
इन्द्र आपस्तथा तेजो वायुराकाशमेव च ।
ज्ञानोऽयं कुण्डली कोटिः तृतीया वरवर्णिनि ॥ १०
हृदयं समयं चैव सर्वज्ञं च कदम्बकम् ।
खगीशं गुरुनाथं च रत्नबीजं चतुर्थकम् ॥ ११
कदम्बं विमलौघं च समयं भैरवावली ।
पादुकान्ते मनुं स्मृत्वा पूजयेद् गुरुमण्डलम् ॥ १२
विद्यापीठाग्रतो देव गुरुमण्डलपूजनम् ।
पूर्वक्रमे यथा चोक्तं पञ्चासनसमन्वितम् ॥ १३
प्रसादत्रयसंभिन्नं अर्चयेत् गुरु पञ्चधा ।
ईशकोणात् समारभ्य यावन्मध्यं तु पञ्चमम् ॥ १४
मण्डलं चाधिकारं च सिद्धाः समय योगिनी ।
पञ्चधा पञ्चभिर्भिन्नं पञ्चधाकौलिनीयुतम् ॥ १५
वाग्भवं मायया सार्धं लक्ष्मीप्रसादभेदितम् ।
नवात्मानन्दसंयुक्तं पञ्चभिर्गुरुमण्डलम् ॥ १६
पादुकान्तं महादेव पूजयेत् सततं वरम् ।
अन्तरङ्गगताः पूज्याः मण्डलानि तथात्मनि ॥ १७
आधारे प्रथमं प्रोक्तं द्वितीयं योनिमण्डले ।
तृतीयं नाभिचक्रे तु चतुर्थं च अनाहते ॥ १८
पञ्चमं कण्ठदेशे तु आदिनाथं तु मूर्धनि ।
श्रीकण्ठादि पिङ्गलान्तं पञ्चधा पञ्च कल्पितम् ॥ १९
प्रभाते चैव मध्याह्ने सन्ध्याकाले तु सुन्दर ।
विद्यापीठाग्रतः कुर्यात् गुरोरग्रे तु पञ्चधा ॥ २०
आराधनं तु कर्तव्यं संपूर्णं सिद्धिदं भवेत् ।
न रिक्तं मण्डलं कुर्यात् गुरोरग्रे कदाचन ॥ २१
यथावित्तानुसारेण कृत्वा संपूर्णपूजनम् ।
आरात्री चन्दनं दीपं वीरद्रव्यसमन्वितम् ॥ २२
निवेदनं प्रकर्तव्यं साष्टाङ्गं च नमस्करेत् ।
त्रिधा च पञ्चधा चैव साष्टाङ्गं दण्डवत् सुधीः ॥ २३
प्रदक्षिणशतं कृत्वा पूजयेद् गुरुपादुकाम् ।
एतदाचारसमयं पालयेत् सततं बुधः ॥ २४
पालनाद् भवते सिद्धिः अन्यथा नरकं व्रजेत् ।
ओलिपर्वेषु सर्वेषु नित्यनैमित्तिकेषु च ॥ २५
मण्डलक्रमपूजायां सर्वं संपूर्णतां व्रजेत् ।
अतः परं प्रवक्ष्यामि शृणु भैरव तत्त्वतः ॥ २६
श्रीक्रमं तु ततः पूज्यं यथोक्तं श्रीकुलागमे ।
तस्यावतारं संक्षेपात् पर्यङ्के सततं कुरु ॥ २७
मृगाजिने तु संकल्प्य आसने वाग्भवं शुभम् ।
श्रीखण्डचन्दनं शुद्धं कंकुमं चालिमिश्रितम् ॥ २८
अभिमन्त्र्य च विद्यायाः क्रमं लिख्य त्रिधाविधम् ।
आद्यक्रमस्य वृद्धस्य योगपीठं त्रिधोदितम् ॥ २९
तद्बाह्ये लिख्य षट्कोणं ऐंकारेण तु वेष्टयेत् ।
अष्टारं पद्मकं बाह्ये मेखलात्रितयावृतम् ॥ ३०
चतुष्कोणं तु तद्बाह्ये संलिख्यं च सुसूत्रितम् ।
षट्कोणचक्रसंयुक्तं कौमारस्य क्रमं लिखेत् ॥ ३१
अष्टारपद्मसंयुक्तं क्रमं बालक्रमस्य च ।
एवं ते क्रमभेदोऽयं मण्डलस्य प्रकाशितम् ॥ ३२
न्यासभेदं यथा देव वृद्धकौमारबालके ।
प्रथमः शब्दराशिस्तु द्वितीया मालिनी तथा ॥ ३३
विद्यात्रितयमेवं तु तदङ्गानि चतुर्थकम् ।
अघोर्यष्टकमेवं तु तथा सिद्धाङ्गपञ्चकम् ॥ ३४
षोढान्यासमिदं कृत्वा पश्चाद् यजनमारभेत् ।
वृद्धक्रमस्य ज्येष्ठस्य न्यासावरणमुत्तमम् ॥ ३५
अथ मध्यमसिद्धस्य कौमारस्य यथाक्रमम् ।
प्रथमं तद्ग्रहं क्षेत्रं द्वितीयं बीजपञ्चकम् ॥ ३६
द्वादशाङ्गं तृतीयं च सिद्धाङ्गं च चतुर्थकम् ।
पञ्चमं तु षडङ्गं स्यात् पीठन्यासं तु षष्ठकम् ॥ ३७
खेचरं सप्तमं नाम कृत्वा यजनमारभेत् ।
अथ तृतीयकं वक्ष्ये क्रमस्यावरणं पुनः ॥ ३८
प्रथमा समया विद्या सिद्धाङ्गं च द्वितीयकम् ।
तृतीयं तु षडङ्गं स्यात् श्लोकानि तु चतुर्थकम् ॥ ३९
पञ्चमं चाधिकारं स्यात् षष्ठं क्षेत्रपरिग्रहम् ।
सप्तमं रत्नविन्यासं विद्यान्यासं तथाष्टमम् ॥ ४०
एवं न्यासक्रमं न्यस्य पश्चाद् बालक्रमं यजेत् ।
क्रमाणां मण्डलं ज्ञात्वा एकचक्रे तु पश्चिमे ॥ ४१
सिद्धाङ्गं च षडङ्गं च द्वावेतौ तु विशोधयेत् ।
विश्वामित्रकपालं तु सुसिद्धं योगिनां शुभम् ॥ ४२
पीठाग्रे द्रव्यसंपूर्णं व्रतीनां नृकपालकम् ।
कोङ्कणास्त्रेण संशोध्य कवचेनावगुण्ठयेत् ॥ ४३
मूर्तिं प्रविश्य हृदये नेत्रे षण्मुखमाहरेत् ।
शिखासान्निध्यकरणं संपूर्णं तु शिरेण तु ॥ ४४
एवं षड्विधसंस्कारं मूलविद्यां नियोजयेत् ।
योनिमुद्रा महामुद्रा तयासौ मुद्रितो भवेत् ॥ ४५
अवतारं ततो देव करालाख्यं नियोजयेत् ।
मूलविद्यां त्रिधा जप्त्वा सान्निध्यं क्रममण्डले ॥ ४६
अपरं द्वितीयं पात्रं चन्दनामृतपूरितम् ।
पञ्चकाद्येन संस्थाप्य पुनस्तेनाभिमन्त्रितम् ॥ ४७
अथ तृतीयकं पात्रं स्थापितं रत्नपञ्चके ।
तेन यष्ट्वा पुनस्तत्र दक्षिणोत्तरमध्यतः ॥ ४८
एवं पात्रत्रयं पूर्वं कृत्वा पूजां समारभेत् ।
चन्दनेन तु विन्यासं विद्याया आत्मसन्ततौ ॥ ४९
भकारादिचकारान्तं स्थाने स्थाने पृथक् पृथक् ।
आत्मानं धूपितं कुर्याद् विन्यासं मूलविद्यया ॥ ५०
अङ्गन्यासं समारभ्य स्व–ओल्यां तु यथाक्रमम् ।
तिलतैलाष्टदीपानि पञ्चाद्येन प्रदीपयेत् ॥ ५१
दिग्विदिक्षु च पीठस्य अधिवासमनन्तरम् ।
चन्दनं धूपसौगन्धकुंकुमाक्षतसंयुतम् ॥ ५२
मूलमन्त्रस्य सिद्धस्य कुर्याद् दानं च सन्ततौ ।
मुद्रात्रितयं कृत्वादौ ततः पूजां समारभेत् ॥ ५३
पूर्वक्रमेण कर्तव्यं देहस्थं क्रमपूजनम् ।
पश्चाद् बाह्ये तु पीठस्थं सबाह्याभ्यन्तरं क्रमम् ॥ ५४
चन्दनाक्षतसंमिश्रैरादौ कुर्यात् क्रमार्चनम् ।
श्वेतपुष्पैः सुगन्धैश्च तैस्तु पूज्यं कुलक्रमम् ॥ ५५
अभावाद् रक्तपुष्पैस्तु तथा पीतैः सुगन्धिभिः ।
सुमनाचम्पकैः पद्मैस्तथा नीलोत्पलैः शुभैः ॥ ५६
देशाचारेण लब्धैस्तु तैस्तु पूज्यं कुलक्रमम् ।
निर्गन्धैश्च सकण्टकैर्भग्नैः संकुचितैर्द्रुमैः ॥ ५७
क्रमपूजा न कर्तव्या मनसापि सुरेश्वर ।
धूपार्चनं पुनश्चैव पृथक् आज्ञाक्रमं पुनः ॥ ५८
अलिपूजा ततः कार्या वैष्णवीपदमात्रतः ।
प्रत्ययं व्याकुलं तत्र महारावः प्रवर्तते ॥ ५९
सान्निध्यमतुलं चोग्रं पशूनां च भयावहम् ।
मूलमन्त्रेण विद्याया वामपाण्यक्षसूत्रकम् ॥ ६०
स्फाटिकं पुत्रजीवं वा मात्रा अष्टोत्तरं शतं ।
द्विमात्रां वा त्रिमात्रा वा इच्छया वा मनीषिणाम् ॥ ६१
स्थूलं वा सूक्ष्ममणिं वा न मेरुं लङ्घयेत् क्वचित् ।
अंगुष्टं वर्जयित्वा तु यथा प्राप्तं चतुष्टयम् ॥ ६२
मध्यमौ द्वौ तथा वर्ज्यौ वामावर्तपरिभ्रमात् ।
एतत् पाणिकृतं जप्यं अक्षसूत्रेण वा कृतम् ॥ ६३
चूलाग्रममलं शुद्धं उपरिस्थमक्षमालया ।
तं च मेरुं विजानीयाल्लङ्घनान्नरकं व्रजेत् ॥ ६४
वामावर्तक्रमेणैव सद्योजातं विधीयते ।
तदारूह्य परं ध्यानं मन्त्रं वापि च मुक्तिदम् ॥ ६५
स्व–ओल्यामात्मपीठस्य आत्मानं मण्डलेऽपि वा ।
मन्त्रत्रिष्कोणमध्ये तु अथवा पूर्णविद्यायाम् ॥ ६६
द्विचत्वारिंशत्संज्ञायां जप्यं ध्यानं त्रिकोणके ।
कुर्यात् तन्मानसं जप्यं आत्मकूटमथापि वा ॥ ६७
मुद्रितं योनिमुद्रायाममानामाङ्कितं शिवम् ।
आदौ तन्मूलविद्याया अग्निकुण्डस्य मध्यतः ॥ ६८
ध्यानमारक्तकृष्णं तु कुर्यात् कर्मानुरूपतः ।
ऊर्ध्वमध्यमधः कुर्यात् संस्कारं च तथा पुनः ॥ ६९
मम योनिगतं ध्यायेन्न बाह्ये विनियोजयेत् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते क्रममण्डलगुरुमण्डलाधिकारवर्णने क्रमोदयो नामानन्दः ॥ २७ ॥
Kumārikākhaṇḍa – Kapitel २८
अष्टाविंशानन्दः
श्रीनाथ उवाच
श्रुतं देवि मया सर्वं पूजाविधि यथाक्रमम् ।
अधुना श्रोतुमिच्छामि क्रममेकं त्रिधा कथं ॥ १
श्रीवक्रा उवाच
शृणु नाथ प्रवक्ष्यामि क्रममेकं त्रिधा यथा ।
ओलित्रितयभेदेन बालकौमारवृद्धके ॥ २
वृद्धक्रमं तु प्रथमं ज्येष्ठ – ओलिक्रमागतम् ।
मन्त्रिणां तु यथा देव आयातं ज्ञाननिर्णयम् ॥ ३
पीठानामाद्यवर्णाश्च ओजापूकाचतुष्टयम् ।
ते युगानि चत्वारस्ते पीठानि ऐहिकीभुवि ॥ ४
ते च पञ्चमहाभूताश्चतुर्व्यापकसंयुताः ।
ओंकारादिक्रमेणैव व्योमतत्त्वादितः क्रमात् ॥ ५
ओंकारं व्योमतत्त्वस्थं जाकारं तेजसि स्थितम् ।
पूकारमापतत्त्वस्थं काकारं पृथिवीगतम् ॥ ६
कुर्याच्छक्तिमधस्तेषां अधःशक्त्याङ्गसंस्थया ।
तेषामधोगतं पार्थं आपो दण्डश्च मालिनी ॥ ७
एवं पीठाश्चतुर्भिन्ना लाञ्छिता चन्द्रसूर्ययोः ।
आज्ञा मूर्ध्नि कृता ह्येषा ख्याता पीठचतुष्टयम् ॥ ८
तेषां चतुर्विधं ध्यानं वक्ष्ये आत्मगतं प्रिय ।
अघोरसदृशोद्याणं जाकारं पुरुषं विदुः ॥ ९
पूकारं वामदेवं तु काकारं सद्यरूपकम् ।
अन्तरङ्गे स्थिता देव्यो भ्रूमध्ये हृदि नाभिगाः ॥ १०
योनिमध्ये समाख्यातास्तेषु देव्याचतुष्टयम् ।
ककारादिषु चत्वारः स्त्रीनपुंसकभेदिताः ॥ ११
पीठेश्वर्यः समाख्याताः पीठध्यानसमायुताः ।
तेषु सिद्धाश्च चत्वारः पूज्याः पीठचतुष्टये ॥ १२
हरशब्दश्चतुर्न्यासं हरशब्दश्चतुष्टयम् ।
आद्यदीर्घैश्चतुर्भिन्नं आज्ञायाः शिखराङ्कितम् ॥ १३
पीठबीजाश्च चत्वारः ध्यानं तेषां च पूर्ववत् ।
अतः परं प्रवक्ष्यामि व्योमपञ्चकनिर्णयम् ॥ १४
व्योमं तु पञ्चधा स्थाप्य शक्त्याधस्तेजबृंहितम् ।
दीर्घपञ्चकसंभिन्नं बिन्दुनादैरलंकृतम् ॥ १५
व्योमपञ्चकमेतद्धि ध्यानं तेषामघोरवत् ।
आज्ञासंक्रामकं देव तस्य मन्त्रक्रमं भवेत् ॥ १६
ये चोक्ता व्यापकाः पञ्च तेजोरूपा महाबलाः ।
तेषां स्थानानि वै पञ्च अस्मिन् शास्त्रे प्रचक्ष्महे ॥ १७
श्रोत्रे नासापुटे वक्त्रे ज्ञातव्यं व्योमपञ्चकम् ।
पृथिवी चापतत्त्वं तु तेजो वायुः खसंज्ञकम् ॥ १८
शक्तितत्त्वं तथा षष्ठं तेषां चैवाधो रविः ।
तथा तद् वायुतत्त्वं च नादाक्षरविभेदितम् ॥ १९
बिन्दुस्थं नादशक्तिस्थं आज्ञाकूटं महेश्वर ।
गुदे योनौ तथा नाभौ हृदि कण्ठे भ्रुवोन्तरे ॥ २०
एतेषां कथितं षट्कं संकेतेन च षड्विधम् ।
श्वेता च प्रथमा वर्तिर्द्वितीया पीतरूपिनी ॥ २१
तृतीया नीलवर्णा च चतुर्थी हरिता भवेत् ।
पञ्चमा गैरिकाभा च षष्ठी आरक्तवर्णिका ॥ २२
पञ्चकं चापरं वक्ष्ये महन्तार्या मनोहरम् ।
हंसेति पञ्चधा स्थाप्य अ–इ–उ–ए–ओसमन्वितम् ॥ २३
नादशक्तिसमाक्रान्तं महन्तार्याश्च पञ्चकम् ।
कुक्षिभ्यां स्तनयोर्मध्ये कुर्यात् पृष्ठेऽपि कारकं ॥ २४
श्वेतं पीतं च आरक्तं हरितं गणपञ्चकम् ।
ध्यानं वै पञ्चधा तेषां त्रिकमध्ये यथा भवेत् ॥ २५
त्रिकण्टकं समाख्यातं विद्यात्रितयमभ्यसेत् ।
आधारे हृदये तूर्ये तेषां स्थानत्रयं भवेत् ॥ २६
आरक्तं प्रथमं ध्यानं द्वितीयं पीतकं भवेत् ।
तृतीयं शुद्धधवलं सत्त्वराजसतामसम् ॥ २७
सप्ताविंशतिभेदैस्तु मन्त्रक्रमं समुद्धृतम् ।
तस्य संज्ञाक्रमं वक्ष्ये साम्प्रतं शृणु भैरव ॥ २८
ओजापूकाचतुष्कं तु कापूजा–ओचतुष्टयम् ।
प्रकटं पीठदेवस्य मन्त्रपीठे निरन्तरम् ॥ २९
तेषां वै गुप्तनामानि अवि–मे–ते–असंज्ञया ।
मन्त्रदेव्यस्ततो देव तेषां नामचतुष्टयम् ॥ ३०
सममेति च साकारं इति देव्याः परिग्रहम् ।
उपदेशवशेनैव पीठदेव्याः समर्चयेत् ॥ ३१
व्योमपञ्चकमेवं तु मन्त्रयुक्तं समभ्यसेत् ।
तेषां वै देवताः पञ्च पूजाकाले प्रचक्ष्महे ॥ ३२
व्योमं तु पञ्चधा कुर्यात् तेषां पञ्चाधिकारकम् ।
कांसिरेफसिये पञ्चसंयोगाद् व्योमपञ्चकम् ॥ ३३
ततश्चाज्ञा भवेत् षट्कं गुप्ता संज्ञा क्रमस्य वै ।
आज्ञाकुकारसंभिन्नं षड्विधं च नियोजयेत् ॥ ३४
तेष्वग्रे संगता देव्यो अधिकारक्रमे स्थिताः ।
लवरहयशः षड्भिः संकेताश्च प्रकीर्तिताः ॥ ३५
तथा सिद्धाश्च चत्वारः पूर्वोक्तक्रमसंयुताः ।
असन्ततिसु पञ्चैतास्तेषां गुप्ताभिधानकम् ॥ ३६
विषुवं संक्रमणान्तं अनादिपञ्चक्षेत्रकम् ।
त्रिकं त्रिकण्टकादीनि विद्यात्रितयभूषितम् ॥ ३७
एकारं च अकारं च ककारं च तृतीयकम् ।
एषां गुप्ताभिधानानि कु कु कु देवतात्रयम् ॥ ३८
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं त्रिकम् ।
एतानि षट्प्रकाराणि भेदानि सप्तविंशतिः ॥ ३९
आदौ पीठचतुष्कं तु चत्वारः पीठदेवताः ।
व्योमपञ्चकमन्यं तु आज्ञाषट्कं तथापरम् ॥ ४०
पुनः सिद्धचतुष्कं तु अनादिरिति पञ्चकम् ।
त्रिकण्टकं तथा वाच्यं ज्येष्ठ–ओलिक्रमोद्धृतम् ॥ ४१
एतद् वृद्धक्रमाख्यातं पञ्चप्रणवदीपितम् ।
स्थानमन्त्रसमायुक्तं ध्यानधारणसंयुतम् ॥ ४२
देहस्थं पूजयेद् यस्तु स भवेत् कुलयोगिनः ।
ज्येष्ठ–ओलिक्रमाख्यातं पूजितव्यं तु देशिकैः ॥ ४३
विद्यापीठात् समारभ्य क्रमं पूज्यं यथार्थतः ।
उपदेशवशेनैव लब्ध्वा गुरुमुखाद् यजेत् ॥ ४४
अन्यथा विघ्नदा चक्रे गुरोराज्ञा न लङ्घयेत् ।
अथ द्वितीयकं वक्ष्ये कौमारं मध्यमोलिकम् ॥ ४५
वृद्धक्रमे क्रमेणैव उपदेशयुतं यथा ।
पूर्णपीठात् समारभ्य मध्यमोल्यां क्रमार्चनम् ॥ ४६
तेषां नामानि वर्णाश्च तत्त्वयुक्ता मनीषिणाम् ।
शक्त्याधिष्ठितचत्वारः हरमायासनस्थिताः ॥ ४७
आ–ई–ऊ–ऐस्वरैर्भिन्ना नादबिन्दुकलाङ्किताः ।
एवं पीठानि चत्वारि पीठदेव्याश्चतुष्टयम् ॥ ४८
आद्यं वर्णं चतुर्न्यासं नपुंसकत्रिकं तथा ।
चतुर्दीर्घसमाक्रान्ताः खशक्त्या शेखराङ्किताः ॥ ४९
उ–ऊ–शून्यकला चन्द्रः शिवबीजं चतुर्विधम् ।
तच्चैकं सर्वतो देव द्वितीयं द्विगुणीकृतम् ॥ ५०
तृतीयं तु त्रिधा स्थाप्य चतुर्थं च चतुर्गुणम् ।
पञ्चमं पञ्चगुणितमेतद् वै कुलपञ्चकम् ॥ ५१
पञ्चजो भ्रजमानोऽसौ प्रसादं शिवमक्षरम् ।
शम्भुशक्तेर्भवेत् षट्कं विद्याषट्कं यथा भवेत् ॥ ५२
हर–ईषट्कषट्कं च क्षोभकेन कृतं शिरम् ।
फ–र–ए–मेति चन्द्रार्कौ द्वावेतौ षड्विधा कुरु ॥ ५३
तेषामन्ते स्थिता षड्भिः दीर्घबिन्दुशिखान्विता ।
अक्षरा षडिभिर्विद्या स्वयम्भोः षट्कमित्यपि ॥ ५४
व्योमपञ्चकनामानि इदानीं व्याप्तिपञ्चकम् ।
पृथिव्यादि त्रिधा स्थाप्य ईश्वरेण विभेदितम् ॥ ५५
आप्तत्त्वं त्रिगुणीक्र्ट्य दीर्घत्रयविभेदिताः ।
चतुर्थं वायुतत्त्वं तु रत्नत्रितयभेदितम् ॥ ५६
पञ्चमं व्योमतत्त्वं तु त्रिकलाङ्कितभेदितम् ।
त्रिधास्ते व्यापकाः पञ्च बिन्दुनादपदाङ्किताः ॥ ५७
तदादौ बिन्दुतत्त्वं तु पृथिव्यासनमेव च ।
आ–ई–ऊ–कारभिन्नास्ते खचन्द्रशिखराङ्किताः ॥ ५८
एवं ते त्रीणि सिद्धास्तु संस्थिता ज्ञानरूपतः ।
यथाक्रमेण वृद्धस्य मन्त्रक्रमं समुद्धृतम् ॥ ५९
विधानं च महादेव यथा कौमारवृद्धकम् ।
तथा संकेतभाषा च नामसंकेतसूचनम् ॥ ६०
ओजापूकाश्च चत्वारः कापूजा–ओचतुष्टयम् ।
मा वि सज्ज समु चेति संकेतकमिदं पुनः ॥ ६१
एते गुप्ततराः पीठाः गुप्ताश्च पीठदेवताः ।
पीठसिद्धाश्च चत्वारः संकेतं सुसूक्ष्मकम् ॥ ६२
कुलपञ्चकमन्यं तु तस्य संकेत पञ्चधा ।
अकु सकु सकुश्चेति अंकु चैव अकुं पुनः ॥ ६३
कुलपञ्चकमेतद् हि अम्भाषट्कमतः परम् ।
अंभां च षड्विधां कुर्यात् चतुःस्वरविभेदिताम् ॥ ६४
तस्याग्रे चाधिकाराणि वृद्धदेव्याः षडिर्भवेत् ।
आप इति म अंकारं म अव्वा क्रमं तथा ॥ ६५
ख अ चेद् * भकाराव्वा अम्भाषट्कमिति स्मृतम् ।
एतद् वै कौलभाषायां मन्त्रक्रममुदाहृतम् ॥ ६६
योगपञ्चकमेवं तु तस्य संकेत पञ्चधा ।
असा सस वयोगेति सकु–ई ससकौ इति ॥ ६७
गुप्तं प्रकटसंयोगात् पूर्वक्रमसमायुतम् ।
सिद्धत्रिकं त्रिकस्यैव तेषु संकेतकं त्रिधा ॥ ६८
सि सि द्ध इति सिद्धास्तु सर्वे मन्त्रक्रमोदिताः ।
कृत्वा पूर्वक्रमाचारं प्रकाराणि समभ्यसेत् ॥ ६९
उपदेशवशेनैव कौमारक्रममुद्धृतम् ।
अधुना मध्यमोल्यायां क्रमेदं चैव षड्विधम् ॥ ७०
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं त्रिकम् ।
एतानि षट्प्रकाराणि भेदानि सप्तविंशतिः ॥ ७१
आदौ पीठचतुष्कं तु चत्वारः पीठदेवताः ।
पूर्णगिर्यं समारभ्य उदयं मध्यमोलिके ॥ ७२
अपरं च प्रवक्ष्यामि बालक्रममनुत्तमम् ।
पूर्वक्रमेण वक्ष्यामि मुद्रापीठादितः क्रमात् ॥ ७३
पीठानामाद्यलिङ्गानि चतूरत्नसमायुताः ।
आत्माकूटाः कृताः सर्वे पश्चात् पीठचतुष्टयम् ॥ ७४
मन्त्रदेव्यः पुनस्तेषां चत्वारः साम्प्रतं भवेत् ।
प्रथमं वाग्भवं बीजं मायाबीजं द्वितीयकम् ॥ ७५
तृतीयं सूर्यबीजं तु खेचरं तु चतुर्थकम् ।
विद्यात्मानं महाकूटं एकं देव चतुर्विधम् ॥ ७६
पञ्चमं नवधा पिण्डं शुक्रादीनां भवेद् यथा ।
शक्त्याकाशान्तजं रुद्रं इन्दुरानन्दबोधकम् ॥ ७७
तरङ्गं शक्तिपातं तु नवात्मानन्दविग्रहम् ।
खशक्तिमस्तकाक्रान्तं आक्रान्तं नादमूर्धनि ॥ ७८
ओजापूकेषु चेत्यादौ शक्त्यावेशं तु धारणा ।
आदिनाथक्रमाख्यातं पञ्चमं सिद्धनायकम् ॥ ७९
श्रीनाथं श्रीगुरुं मूलं आज्ञासन्ततिनिर्णयम् ।
सर्वं क्रमेषु साधारं आधारमिति भैरवम् ॥ ८०
तस्योच्चारणमात्रेण सर्वावस्थो भविष्यति ।
सिद्धपञ्चकमेवं तु चतुःपीठेषु संस्थितम् ॥ ८१
पञ्चमं यत् परं नाथं श्रीगुरुं मध्यनायकम् ।
सिद्धौ द्वाविति विख्यातौ आद्यपीठस्य सुव्रत ॥ ८२
अपरं ज्ञानषट्कं तु वक्ष्ये कौलस्य नायकम् ।
विद्यायाः कारणं चात्र तच्च एव चतुर्विधम् ॥ ८३
सहजं माययारूढं आनन्दकुलभेदितम् ।
म–एखफरपिण्डस्थं वाग्भवस्थं महेश्वर ॥ ८४
तुर्यतोरणशक्त्यधो व्यापकं कुलयोगिनाम् ।
तत् स बिन्दुरधो दण्डं अनिलार्णवपूरितम् ॥ ८५
घण्टानिर्घोषसहितं अंगुष्ठेन शिराहतम् ।
हंसवर्णोदये सिद्धं द्विनपुंसकभेदितम् ॥ ८६
आक्रान्तं नादवर्णाभ्यां तथान्यं व्यापकं भवेत् ।
चत्वारो व्यापकाकाशे तदधः शक्तिबिम्बकम् ॥ ८७
विसर्गस्थं महादेव्या व्यापकं सर्वतोमुखम् ।
सृष्टिक्रमेण मूर्धादि आज्ञाचक्रादिविग्रहं सुधीः ॥ ८८
ज्ञानषट्कमिदं तथ्यं देवानामपि दुर्लभम् ।
अपरं च महन्तार्याः पञ्चकं साम्प्रतं विदुः ॥ ८९
तृतीयस्य तु वर्गस्य द्वितीयवर्णनायकम् ।
कर्तव्यं पञ्चगुणितं दीर्घपञ्चकभेदितम् ॥ ९०
आज्ञामण्डलमध्यस्थं त्रिरावर्तं महेश्वरम् ।
स चैकं केवलं भूयस्तेषां चादिस्थितं कुरु ॥ ९१
ओलित्रितयसिद्धाश्च त्रिकं तेषां यथा भवेत् ।
अनुनासिक चत्वारि अधो बिन्दुकृतानि वै ॥। ९२
एकीभूतं महाकूटं योजयेत् त्रिविधं पुनः ।
ऊकारं चैव ईकारं आकारादि विभेदयेत् ॥ ९३
नादशक्तिकलाभिन्नं ज्येष्ठमध्यमकं न्यसेत् ।
त्रिभिरोलीषु ते देव मन्त्रचक्रं त्रिधोद्धृतम् ॥ ९४
एतन्मन्त्रक्रमं चक्रं संकेतं तस्य गीयते ।
देवीनामाद्यवर्णेन गुप्तं पीठचतुष्टयम् ॥ ९५
तथा तेनैव पीठानां ज्ञेयं देव्याचतुष्टयम् ।
अंकुनाथं च चिं चैव ककाराक्षरसंज्ञया ॥ ९६
एवं सिद्धं चतुष्कं तु युग्मसंज्ञा तु पञ्चकम् ।
शिखाशेखरमाक्रान्तं कु–इ–अवसमायुतम् ॥ ९७
सिद्धपञ्चकमेतद्धि पीठेषु च समारभेत् ।
ज्ञानषट्कस्य संकेतं इदमाकर्णतां प्रभो ॥ ९८
आखे इति विसश्चैव अविद्या च तथा परम् ।
मम चेति तथा स्वासू आ–मे–इ ज्ञानषट्ककम् ॥ ९९
अपरं च महन्तार्याः पञ्चकस्य च सूचनम् ।
अविमा ह्येकतो व्याप्तिः समु चेति च यो मुखः ॥ १००
स च अन्यक्रमेणैव समस्तेष्विति पञ्चकम् ।
एवं ते षट्प्रकाराणि भेदानि सप्तविंशतिः ॥ १०१
आदौ पीठचतुष्कं तु चत्वारः पीठदेवताः ।
सिद्धपञ्चकमन्यं तु ज्ञानषट्कं तथापरम् ॥ १०२
महन्तार्याः पञ्चकं च ओलित्रिकमनन्तरम् ।
एतद् बालक्रमाख्यातं पञ्चप्रणवभेदितम् ॥ १०३
लक्षाश्रमपदसंयुक्तं वृद्धकौमारकं स्मृतम् ।
आख्याता च कनिष्ठोलिः कामरूपादितः क्रमात् ॥ १०४
ज्येष्ठं मध्यमसंज्ञं च तथा बालं तृतीयकम् ।
आख्यातं पश्चिमाम्नाये क्रममेकं त्रिधाविधम् ॥ १०५
ओलिभेदेन कर्तव्यं स्व–ओल्यां क्रमपूजनम् ।
स्व–ओलिं मण्डलं चक्रं क्रमं मन्त्रोपदेशकम् ॥ १०६
पारम्पर्यमुखाम्नायं सिद्धसन्तानसन्ततौ ।
भाषासंकेतकं सूत्रं ज्ञात्वा आज्ञा प्रवर्तते ॥ १०७
पश्चात् कुलक्रमं पूज्यं अन्यथा न कदाचन ।
ओलिरन्या क्रिया चान्या अन्यं मन्त्रपरिग्रहम् ॥ १०८
पूजाविधानमन्यं तु मण्डलं व्युत्क्रमेण तु ।
वृद्धकौमारबालं वा अन्यं वा खेचरक्रमम् ॥ १०९
अशुद्धं श्रीक्रमं यस्मादभ्यस्तोऽपि न सिद्ध्यति ।
सिद्ध्यते वा प्रमादेन गुरुवक्त्राद् विनिर्गतम् ॥ ११०
अन्ते विघ्नप्रदं शिष्ये अशुद्धं चैव शोधयेत् ।
अशुद्धं पूजयेद् यस्तु दद्याद् यः शास्त्रलोपकृत् ॥ १११
स तस्य हनते नूनं शिष्यमाचार्यस्तत्क्षणात् ।
शिष्यस्य ग्रहणात् मृत्युरचिरादपि नान्यथा ॥ ११२
सद्भक्तस्य स्वशिष्यस्य शास्त्रलोपं न कारयेत् ।
अभक्ते च शठे देव क्रियालोपकरे तथा ॥ ११३
न तस्य दापयेद् ज्ञानं क्रमं मण्डलकादिकम् ।
तथा कुलागतां चाज्ञां उपदेशं च गोपयेत् ॥ ११४
भयात् प्रीत्यार्थलोभाद् वा महत्वपदकांक्षया ।
यो ददेत् क्रममोघानां स याति नरकं ध्रुवम् ॥ ११५
अवियोगाच्च मरणं संस्कारं नैवमर्हति ।
क्रमं विद्यागमं योगं गोपनीयं प्रयत्नतः ॥ ११६
सर्वस्वं रक्षयेत् ज्ञानं चौरेभ्यो द्रविणं यथा ।
पञ्चोपचारपूजायां अर्चयित्वा कुलागमम् ॥ ११७
आद्योघं चिन्तयेद् बुद्ध्या अन्तरङ्गेन सुव्रत ।
बहिरङ्गं यदा कुर्याद् दर्शयेदितरे जने ॥ ११८
आज्ञाभङ्गं न संदेहः ख्यापनान्नरके गतिः ।
कर्मणा मनसा वाचा त्रिशुद्धिर्भक्तिवत्सल ॥ ११९
सद्भक्तस्य विनीतस्य द्वादशाब्दपरीक्षिते ।
अनुग्रहं प्रकर्तव्यं शास्त्रं तस्यावतारयेत् ॥ १२०
अन्यथा नैव कर्तव्यं जिह्वोपस्थनिमित्तये ।
जिह्वोपस्थनिमित्तये श्रीक्रमं प्रवदन्ति ये ॥ १२१
कथयन्ति मुखाम्नायं आज्ञाशास्त्रमिदं कुलम् ।
न तेषामैहिकी सिद्धिः परत्र च न विद्यते ॥ १२२
अक्रमाल्लोभमोहाद् वा मिथ्याहंकारगर्वितः ।
अक्रमाद् गृह्यते शास्त्रं आम्नायं मुखकौलिकम् ॥ १२३
तत् तस्य निष्फलं सर्वं आकाशे कुमुदं यथा ।
तथा च निष्फला चेष्टा अक्रमाचरणाद् भवेत् ॥ १२४
क्रमपूजारताः शान्ता रागद्वेषविवर्जिताः ।
ते च योग्याः कुले कौले शेषास्त्वन्तरजातयः ॥ १२५
लोभाद् यो गृह्णते शास्त्रं ऐहिकार्थं च सुन्दर ।
कीर्त्यर्थं च यशार्थं वा पुत्रकस्य कृतेऽथवा ॥ १२६
मन्त्री क्रमपदस्यार्थे अधिकारं प्रयच्छति ।
स तस्य हनते देव महाद्रोहो न संशयः ॥ १२७
विष्ठामध्ये कृमिर्भूत्वा अमेध्ये सूपजीवति ।
प्रत्युत्तारं न विद्येत तद्वत् तस्याधमा गतिः ॥ १२८
क्रमं च त्रिविधं प्रोक्तं स्थूलं सूक्ष्मं तथा परम् ।
शाक्तं च शाम्भवं चैव आणवं च तृतीयकम् ॥ १२९
परापरं च अपरं परं चेति त्रिकण्टकम् ।
एकं त्रित्रिकभेदेन त्रिधा ओलिक्रमं विदुः ॥ १३०
स्थूलं वृद्धक्रमाख्यातं ज्येष्ठ–ओल्याधिकारकम् ।
सूक्ष्मक्रमं च कौमारं सुसूक्ष्ममिति गीयते ॥ १३१
परं बालक्रमं भाव्यं कनिष्ठोलितृतीयकम् ।
एक एव त्रिधा भिन्नं क्रममेकं त्रिकण्टकम् ॥ १३२
श्रीक्रमं तु त्रिधा प्रोक्तं त्रिधा ओलिक्रमं विदुः ।
मम देहाद् विनिष्क्रान्ताः क्रमाश्चत्वारि सुन्दर ॥ १३३
खेचरं च क्रमं चाद्यं वृद्धकौमारबालकम् ।
तेषां चतुर्युगा सिद्धिः स्व–ओल्यानुक्रमं तथा ॥ १३४
कृते तु खेचरं प्रोक्तं त्रेता वृद्धक्रमं तथा ।
द्वापरे क्रमकौमारं कलौ बालक्रमं क्रमम् ॥ १३५
एवं ते क्रमचत्वारः युगान्ते चावतारिताः ।
कलौ युगे महादेव क्रमं ज्ञेयं चतुर्विधम् ॥ १३६
तेषां च उदयं वक्ष्ये तथा चास्तमनं पुनः ।
उदयास्तमनेनैव ज्ञेयं क्रमचतुष्टयम् ॥ १३७
मम देहाद् विनिष्क्रान्ता विधानं तेषु तच्छृणु ।
अनामानामसंलग्ना तन्मध्ये खेचरं क्रमम् ॥ १३८
निर्गतं ज्ञानसामर्थ्यान्मज्जमध्ये लयंगतम् ।
अपरं यत् क्रमं वृद्धं मम क्रोधाद् विनिर्गतम् ॥ १३९
स्नायोरन्तर्गतं देव एतच्चास्तमनं स्मृतम् ।
कौमारं नाभिचक्रस्थं तस्मात् स्थानाद् विनिर्गतम् ॥ १४०
लयं च शोणिते तस्य उदयास्तमनं त्विदम् ।
तथा बालक्रमं नाम योनिचक्राद् विनिर्गतम् ॥ १४१
विलीनं शुक्रमध्ये तु उदयास्तमनत्रयम् ।
क्रमत्रयसमायुक्तं उदयास्तमनसंयुतम् ॥ १४२
स शिष्यः पश्चिमाम्नाये शेषाऽन्ये नामधारकाः ।
शृणु नाथ प्रवक्ष्यामि क्रममेकं त्रिधा यथा ॥ १४३
यस्मिन् काले लयं सर्वं मम देहे प्रजायन्ते ।
न चन्द्रार्कग्रहा ऋक्षा न लोको नैव पर्वतः ॥ १४४
नाहं देव न च त्वं वा शून्यं भूतं चराचरम् ।
तस्माच्चैव निराकाराद् दिव्याज्ञायाः समुद्भवः ॥ १४५
शिवेच्छा निर्गता शक्तिरंकुराकाररूपिणी ।
तडिल्लता समाकारा द्योतयन्ती नभस्तलम् ॥ १४६
तेन चीर्णं तपं चोग्रं दिव्याज्ञाया जितेन्द्रियम् ।
ततः सा उन्मना जाता वृद्धत्वं समुपागता ॥ १४७
अंकुरं तु द्विधाभिन्नं साकारं तु निरञ्जनम् ।
शिवशक्तिसमायोगः गीयते सर्वजन्तुषु ॥ १४८
त्वं शिवो देव कौलीश अहं सा कुब्जिनी परा ।
मम रूपत्रयो जातः खेचरकारणेन तु ॥ १४९
प्रत्यूषे बालरूपाहं युवाहं दिनमध्यतः ।
निशाचारेण वृद्धाहं मम एषा त्रिधा गतिः ॥ १५०
तस्मात् तु त्रिविधं प्रोक्तं क्रममेकं कुलक्रमे ।
बालक्रमे च बालाव्वा तदा बालक्रमं भवेत् ॥ १५१
मध्याह्ने युवकौमारं तेनासौ मध्यमः स्मृतः ।
वृद्धं तु वृद्धरूपी स्यात् सन्ध्याकालसमर्पितम् ॥ १५२
त्रिभिर्मूर्तिवशेनैव क्रममेकं त्रिधा भवेत् ।
तेषु विद्या ह्यहं देव्या षड्वक्त्राङ्गसमन्विता ॥ १५३
तथा कुलाष्टकं बाह्ये क्रममण्डलवेष्टितम् ।
मण्डितं यैस्तु त्रैलोक्यं नानारूपं नभाकृति ॥ १५४
तेन ते मण्डलाः प्रोक्ता उद्यास्तमनवर्जिताः ।
मण्डला द्योतगाः सर्वे त्रिधा बद्धमशेषतः ॥ १५५
क्रमोदयमिदं ह्येतत् त्रिधा बद्धमशेषतः ।
अतः परं प्रवक्ष्यामि कुलदेव्याष्टकं यथा ॥ १५६
अष्टवर्गाक्षरान्यष्टौ ऐंकारान्तविभेदिताः ।
नादबिन्दुसमाक्रान्ता नाभिस्थाः कुलदेवताः ॥ १५७
बीजत्रयं तु प्रासादं रावबीजं तु पञ्चमम् ।
अष्टावन्ते समासृज्या वर्गदेव्यस्त्वनन्तरम् ॥ १५८
ब्राह्मी माहेशि कौमारी वैष्णवी च वराहिका ।
इन्द्राणी चैव आग्नेयी चामुण्डा चेति चाष्टमी ॥ १५९
नवमी च महालक्ष्मी सविसर्गप्रदीपिताः ।
पञ्चप्रणवादितः कृत्वा संयोगान्नवकं प्रति ॥ १६०
विच्चेति पादुकान्तं तु कृत्वा यजनमारभेत् ।
ओलीनामेतत् समयं समयायुक्तविद्यया ॥ १६१
क्रमस्यावरणं प्रोक्तं ज्ञात्वा सिद्ध्यारिहो भवेत् ।
सप्ताविंशतिभेदानि त्रिविधेन क्रमेण तु ॥ १६२
उक्ता ये च मया देव तेषां संकेतकानि मे ।
पादुकानां च पीठानां सिद्धनाथक्रमेण तु ॥ १६३
देवता ये क्रमे सर्वे अव्वाशब्दं नियोजयेत् ।
पादुकान्तं तथाग्रे तु क्रमं पूज्यं यथाविधिः ॥ १६४
एतेषां च क्रमाणां च उदयास्तमनं पुनः ।
आद्यक्रमस्य देवेश उदयं चाद्यपीठके ॥ १६५
लयं वै तिस्रपीठे तु आद्यस्य खेचरस्य च ।
तथा वृद्धक्रमस्यैव उदयं तिस्रपीठके ॥ १६६
कामरूपे लयं तस्य कौमारस्य तथा पुनः ।
उदयं पूर्णगिर्यायां लयं तस्याद्यपीठके ॥ १६७
तथा बालक्रमस्यैव उदयं कामरूपके ।
लयमोंकारपीठे तु एतत् क्रमविनिर्णयम् ॥ १६८
आख्यातं पूर्वसूत्रेऽस्मिन् ज्ञात्वा चान्वयिको भवेत् ।
क्रमपूर्वे समाप्ते तु आज्ञासूत्रं तु योगिनः ॥ १६९
सकृदावर्तनात् तस्या आज्ञासिद्धिर्मलक्षयम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते क्रमत्रिधाधिकारवर्णने क्रमोदयो नामानन्दः ॥ २८ ॥
Kumārikākhaṇḍa – Kapitel २९
ऊनत्रिंशानन्दः
श्रीनाथ उवाच
अहं शिष्यः स्वरूपेण कृपां मे कुरु कौलिनि ।
यत् किञ्चिदाज्ञया देवि प्रसादं क्रियतां प्रभो ॥ १
अनादिनिधने शान्ते आदिनाथे कुलोद्भवे ।
कन्दगुह्यान्तरावस्थे नमामि परमामृते ॥ २
द्वादशान्ते त्रिकोणस्थे कन्दाधारसमुद्भवे ।
वामे वामान्तरालीने नमामि परमाव्यये ॥ ३
सर्वकामैः सुसंपूर्णे इच्छाशक्तिरधिष्ठिते ।
इच्छया सृजसे सर्वं त्रैलोक्यं सचराचरम् ॥ ४
कामेश्वरीति कामाख्ये कामरूपे स्वयंभुवे ।
कामपीठान्तरावस्थे कामरूपे नमामि ते ॥ ५
बिन्दुमध्याद् विनिष्क्रान्ते कामेश्वरि भगालये ।
गुप्तकामाख्यगुह्यान्ते महासिद्धैरलंकृते ॥ ६
सर्वरत्नेषु खचिते महामणिविभूषिते ।
मुक्ताफलप्रवालाद्यैर्भूषिते सुमनोरमे ॥ ७
वज्रवैडूर्यरचिते इन्द्रनीलैर्विचित्रिते ।
अनेकरत्नसंदीप्ते महारत्नविभूषिते ॥ ८
सुगन्धगन्धबहुले कुंकुमोदकचर्चिते ।
कर्पूरादिभिर्धूपैश्च मदिरानन्दनन्दिते ॥ ९
सुगन्धामोदबहुले पञ्चकाद्ये मनोहरे ।
नानाकुसुमजातीभिर्नानावर्णैरधिष्ठिते ॥ १०
पूज्यसे सिद्धवृन्दैश्च चन्द्रतारागणावृते ।
खेचरीचक्रमध्यस्थे मन्दरस्थे नपुंसके ॥ ११
पञ्चाशल्लिङ्गजननि योनिरूपे महाम्बिके ।
गुह्यान्तावस्थिते देवि गुहागहनवासिनि ॥ १२
न स्त्री न च पुंलिङ्गं आनन्दं तन्नपुंसकम् ।
रत्नैकादशसंस्थाने त्वं हि देवि विराजसे ॥ १३
ख्यातुं त्वां नैव शक्नोमि संक्षेपेणोदितं मया ।
महारत्नस्तवं गुह्यं दिव्यानन्दप्रवर्तकम् ॥ १४
स्तुतिं कृत्वा तु पृच्छामि कामरूपे शृणु प्रिये ।
कश्चाहं त्वं च का देवि किं नाम इह गीयते ॥ १५
न जानामि स्वरूपं ते तेजशक्त्याः प्रभावतः ।
प्रणामं वर्णरूपं वा पारम्पर्यव्यवस्थितम् ॥ १६
पीठं मन्त्रोपदेशञ्च क्रमाचारं यथा स्थितम् ।
मम लीना सदा मग्ना नाहं जानामि ते पदम् ॥ १७
देवदेवप्रिये देवि मम प्राणेषु वल्लभे ।
न त्वया रहितं किञ्चित् पश्यामि सचराचरे ॥ १८
प्रसादं कुरु मे गौरि भक्तस्य मां सुलोचने ।
किञ्चिद् रहस्यं देवेशि कौलज्ञानं सुदुर्लभम् ॥ १९
यस्यावतारमात्रेण सिद्धिर्भवति कलौ युगे ।
तदहं श्रोतुमिच्छामि निःसंशयं वदस्व मे ॥ २०
श्रीवक्रा उवाच
शृणु ईश्वर तत्त्वेन कारणं गूढमुत्तमम् ।
गुह्याद् गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ २१
योगिनीहृदयं गुह्यं अतिगुह्यं सुरक्षितम् ।
रक्षणीयं सदा शम्भो चौरेभ्यो द्रविणं यथा ॥ २२
परतेजाद् विनिष्क्रान्ता अव्यक्ता व्यक्तरूपिणी ।
दक्षभागे स्थितः शम्भुः वामे विष्णुः प्रकीर्तितः ॥ २३
मध्यवर्ती स्थितो ब्रह्मा बिन्दुरूपी महाबलः ।
तन्मध्यवर्तिनी चाहं तेजोरूपेण संस्थिता ॥ २४
भूर्भुवःस्वादिलोकेषु स्थावरेषु चरेषु च ।
नक्षत्रग्रहराशीषु कृमिकीटादिषु स्थिता ॥ २५
मातृकावर्णरूपा च मम योन्यान्तरे स्थिता ।
पीठोपपीठक्षेत्राणि चत्वाराणि तथा परे ॥ २६
योगिनीसिद्धनिलयं यत् किञ्चिद् वाङ्मयं स्थितम् ।
सृजामि सकलं विश्वं संहारिष्याम्यहं पुनः ॥ २७
गुह्ये हृदि तथा वक्त्रे स्थिताहं परमा कला ।
स्थूलसूक्ष्मविभागेन शृणु मूर्तिं यथा स्थिताम् ॥ २८
तां तेऽहं संप्रवक्ष्यामि दिव्यरूपां महाबलाम् ।
एकाक्षरा परा प्रोक्ता सिद्धानां ज्ञानभूमिका ॥ २९
योगविद्या महाविद्या रुद्राणां हृदये स्थिता ।
रुद्रखण्डे तु रुद्राणां परा ज्ञानानुवर्तिनी ॥ ३०
कामाख्ये समया प्रोक्ता पीठदेवी च पूर्णके ।
योगिसंज्ञा च ओंकारे मुद्रात्रितयमण्डले ॥ ३१
विद्यात्रितयसंयुक्तं अवतारं युगे युगे ।
ओलीनां गोत्रवर्गेऽस्मिन् अमर्यादिषु शासने ॥ ३२
परा एकाक्षरा पूर्वं तव देव निदर्शिता ।
तां प्रवक्ष्याम्यहं सम्यक् सुसूक्ष्मां लक्षमध्यगाम् ॥ ३३
आदौ ह्रस्वस्वरा प्रोक्ता उन्नता किञ्चिद् दृश्यते ।
नीलोत्पलदलश्यामा वीरभस्मसमप्रभा ॥ ३४
षड्वक्त्रा षट्प्रकारा च चिच्छक्त्यन्तरचारिणी ।
नेत्रैरष्टादशैश्चैव वर्तुलैश्चावलोकिनी ॥ ३५
द्वादशैश्च भुजैर्युक्ता नानास्रग्दाममण्डिता ।
प्रेतसिंहासनासीना नानाभरणशोभिता ॥ ३६
कुलकोटिसहस्राणां आरूढा कुलशासने ।
तस्याः पिण्डविधानोक्तं देवानामपि दुर्लभम् ॥ ३७
अनन्तं पादयोर्नित्यं नुपूरपरिमण्डणम् ।
तक्षकं कटिबन्धे तु मेखलायां विराजते ॥ ३८
कर्कोटकं कर्णौ देव्याः कण्ठे वासुकिभैरवम् ।
मुकुटे कुलिकं चैव गोनासः कर्णकुण्डले ॥ ३९
खर्जुरमुद्रिकांगुल्यैरन्ये नागकुलानि च ।
भ्रूदण्डे संस्थितः पद्मो महापद्मो द्वितीयके ॥ ४०
खट्वाङ्गं पाशमभयं अक्षसूत्रं सुशोभनम् ।
मञ्जरीं रत्नखचितं विद्युत्पुञ्जसमद्युतिम् ॥ ४१
कोट्यागमकरेणैव शङ्खपालस्तथोत्तरे ।
कपालं वरदं चैव त्रिशूलं कर्मदर्पणम् ॥ ४२
दक्षिणे च करे देव्या अमरीद्रव्यपञ्चकम् ।
कलशं द्वानवत्यायाः शतैर्द्विभिः विराजते ॥ ४३
स्वरमाला शिरे देव्या वर्णहारावलम्बिनी ।
वृश्चिकैर्गलके हारं शतार्धेन विराजते ॥ ४४
परादेवीमुखं पूर्वं ऊर्ध्वस्थं राजते शुभम् ।
गोक्षीरधवलं दिव्यं कलासप्तादशीयुतम् ॥ ४५
द्वितीयं मूर्ध्नि वक्त्रं तु गगनं नाम मालिनी ।
शङ्खेन्दुतुहिनाभासं सौम्यमूर्तिः सुशोभनम् ॥ ४६
तृतीयं पूर्ववक्त्रं तु पाण्डुरं क्रोधविह्वलम् ।
सिद्धयोगेश्वरीख्यातं मन्त्रविग्रहभूषितम् ॥ ४७
नीलोत्पलनिभप्रख्यं कालिकाख्यं तु दक्षिणे ।
दंष्ट्रं करालं रौद्रं च किञ्चिद्रक्तायतेक्षणम् ॥ ४८
दाडिमीकुसुमप्रख्यं सौम्यमानन्ददायकम् ।
पञ्चमं त्रिपुरा नाम पूर्णचन्द्रेव वर्तुलम् ॥ ४९
उमाखेचरिपूर्वं तु पश्चिमं श्वेतरूपकम् ।
सर्वानुग्रहकृद् दिव्यं ध्यातं मोक्षफलप्रदम् ॥ ५०
स्वच्छदर्पणसंकाशं हृदयं तु विराजते ।
बालार्ककिरणप्रख्यं शिरसं तेजवर्चसम् ॥ ५१
तडित्कोटिसहस्राभा शिखा भास्वररूपिणी ।
कवचं तेजदुर्भेद्यं दुष्प्रेक्ष्यं बहुरूपिणम् ॥ ५२
नेत्रौ चन्द्रार्कतुल्याभौ तृतीयं वह्निसन्निभम् ।
अस्त्रं कालानलच्छायं लेलिहानं सुदुःसहम् ॥ ५३
सर्वं संहारयेत् त्वेव तेजसा परिभावयेत् ।
पृथिवी जानुदेशे तु अपो नाभ्यां व्यवस्थितः ॥ ५४
तेजो हृदयमध्ये तु कण्ठस्थाने तु मारुतम् ।
आकाशं तु ललाटस्थं ब्रह्मा नाभिगतं विदुः ॥ ५५
हृदि मध्ये स्थितो विष्णुः कण्ठस्थं रुद्रसंज्ञकम् ।
ईश्वरं तु ललाटस्थं तदूर्ध्वे शिवमव्ययम् ॥ ५६
सर्वव्याप्तिस्वरूपेण विश्वरूपा यशस्विनी ।
अग्निवासपरीधाना तेजपुञ्जसमप्रभा ॥ ५७
ध्यायेद् देव्यास्त्विदं रूपं आपूर्यन्तं विचिन्तयेत् ।
एषा सा उन्मना सूक्ष्मा सा कला भुवनान्तरे ॥ ५८
उदिता कलिकाले तु देवदेवी जगत्सुता ।
आकाशे मर्त्यलोके च पाताले हाट्टकेश्वरे ॥ ५९
संस्थिता ओलिवर्गे तु आज्ञारूपा च कोङ्कणे ।
देव्या मूर्तिमिमां शम्भो ज्ञात्वा यजनमारभेत् ॥ ६०
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते देव्यामूर्तिध्यानोपदेशसूत्रं ॥ २९ ॥
Kumārikākhaṇḍa – Kapitel ३०
त्रिंशानन्दः
श्रीनाथ उवाच
एतद्रूपं त्वया देवि कथितं गूढमुत्तमम् ।
रहस्यं पुनः पृच्छामि पूजा–आगममण्डलम् ॥ १
व्याख्यालिखनकाले च विधानं संस्फुटं वद ।
श्रीवक्रा उवाच
लिख्यमाने महादेव चातुर्विंशसहस्रके ॥ २
श्रीमते मतराजाने खण्डत्रयमहाकुले ।
विधिहीनस्य विघ्नानि जायन्ते च यथा शृणु ॥ ३
उत्पाताः संप्रजायन्ते विघ्नानि च अनेकधा ।
व्याधयश्च प्रकुप्यन्ते राजानः स्वजने अपि ॥ ४
स्वगृहे कलहो नित्यं उद्वेगश्चातिदारुणः ।
सगोत्राश्च प्रकुप्यन्ते कलहं च परस्परम् ॥ ५
अर्थहानिरलाभश्च वियोगश्च सुहृद्बधः ।
कपोताश्च गृहे नित्यं आरुहन्ति विशन्ति च ॥ ६
गृद्राः काकाश्च काकोलाः पर्यटन्ति गृहोपरि ।
परिवेशं तु सूर्यस्य अकाले कुहुकं भवेत् ॥ ७
गर्भान् स्रवन्ति गर्भिण्यो गर्जनं चापि जायते ।
उल्कापाता दिशो दाघो पार्श्वतश्चाग्निदीपनम् ॥ ८
रात्रौ स्वप्नानि रौद्राणि पश्यते सततं प्रिय ।
चन्द्रस्वातिप्रकोपेन वाता वायन्ति भीषणाः ॥ ९
प्रविशन्ति गृहस्यान्ते व्यालाश्चातिविषोत्कटाः ।
पठेदनादराद् यस्तु जायते तस्य तदृशम् ॥ १०
रक्षन्ति सिद्धयोगिन्यः सिद्धाश्च दण्डधारकाः ।
कोटिकोटिस्त्वसंख्याता श्रीमतेदं महाकुलम् ॥ ११
अदृष्टविग्रहा नित्यं योगसिद्धा महाबलाः ।
रक्षन्ति श्रीमतं देव शासने कुलयोगिनः ॥ १२
दशदिक्षु प्रवर्तन्ते शिवारावा भयंकराः ।
पिङ्गलाश्च गृहे नित्यं शब्दं कुर्वन्ति दारुणम् ॥ १३
गृध्रचिता वरारोह विशन्ति तस्य मन्दिरे ।
एवमादि महोत्पाता विधिहीनस्य निश्चितम् ॥ १४
समयघ्नस्य विशेषेण विघ्नसंख्या न विद्यते ।
तदर्थस्तु विधिः कार्यो लिख्यमाने च प्रत्ययम् ॥ १५
संविधास्यामि ते देव सर्वविघ्नविनाशनम् ।
यत्नतो पुस्तकं रक्ष्यं संस्पर्शात् तद्बहिःकृतैः ॥ १६
यत्नेन तु विधिः कार्यो यावद् ग्रन्थः समाप्यते ।
तत्संस्थानविहीनत्वात् स्पष्टं नैव प्रजायते ॥ १७
तिथिं पूर्णां समासाद्य सूर्येण तु समन्विताम् ।
गुरुवारेऽथवा देव दुष्ट–ऋक्षं विवर्जयेत् ॥ १८
अष्टम्यां वा चतुर्दश्यां शुभ–ऋक्षणयोगतः ।
एकान्ते विजने रम्ये पशुदृष्टिविवर्जिते ॥ १९
गोमयेनोपलिप्ते च निम्नोन्नतविवर्जिते ।
कृत्वा मण्डलकं तत्र चतुरस्रं समन्ततः ॥ २०
पुष्पप्रकरसंकीर्णे स्वस्तिकोपरि शोभिते ।
विदिक्षु दीपकास्तत्र दातव्या घृतबोधिताः ॥ २१
स्वस्तिकोपरि संस्थाप्य कुम्भं चालिप्रपूरितम् ।
पूजयेत् तु त्रिखण्डं वै पुष्पमालाविभूषितम् ॥ २२
आसने तु त्रिखण्डं तु खण्डं वै मातृखण्डकम् ।
मन्त्रखण्डं तु वै मध्ये नवात्मानेन पूरितम् ॥ २३
तत्र पुस्तकमारोप्य लिखितं वा अलेखितम् ।
वेष्टयेद् वस्त्रयुग्मेन हेमगर्भं तु कारयेत् ॥ २४
पूज्यं पञ्चोपचारेण नैवेद्यं विनिवेदयेत् ।
बहिर्बलिः प्रदातव्यो आचार्येण विधानवत् ॥ २५
ततो मङ्गलनिर्घोषैर्लेखयेत् श्लोकपञ्चकम् ।
्* संवर्तामण्डलं सूत्रं अवतारं क्रमस्य तु ॥ २६
व्याख्येयं लेखयेत् क्वापि यथाविधिरनुक्रमात् ।
समयीसाधकान् पुत्रान् योगिन्यश्च कुमारिकाः ॥ २७
आरात्री पूर्वतः कार्या अलिपात्राणि पूरयेत् ।
शिरसा कुलकुम्भं तु नत्वा चैव ततः पुनः ॥ २८
कुमार्याह्वानयेच्चाष्टौ गन्धं धूपं प्रदापयेत् ।
योगीश्वरान् समीपस्थान् योगिनः कुलदीक्षितान् ॥ २९
पूजयेत् कुसुमैः श्रेष्ठैः श्रेष्ठधूपेन धूपयेत् ।
संतर्प्य अलिना सर्वं मत्स्यमांसानि दापयेत् ॥ ३०
तदन्ते प्रार्थयेच्चाज्ञां भगवत्याः कुलदीक्षितान् ।
श्रीमतं तु लिखिष्यामि अविघ्नेन प्रसिद्ध्यतु ॥ ३१
लब्ध्वानुज्ञस्तु योगीन्द्रः पूजयित्वा कुलक्रमम्ं ।
संपूज्य पुस्तकं तत्र विधिना च प्रयत्नतः ॥ ३२
देहस्था देवताः सर्वाः तर्पयेद् भक्तितत्परः ।
ततो मङ्गलनिर्घोषैः शंखवादित्रनिःस्वनैः ॥ ३३
दिव्याङ्गनासुगीतैश्च संवर्तामण्डलं लिखेत् ।
लेखकश्च ततः पूज्यः स्रगवस्त्रासवादिकैः ॥ ३४
माङ्गल्यैस्तूर्यनिर्घोषैः स्तोत्रवीणामहास्वनैः ।
प्रथमेऽहनि देवेश कुर्याच्चक्रप्रपूजनम् ॥ ३५
चक्रक्रीडां समाश्रित्य तुहिनं क्षेपयेत् सुधीः ।
एवं तु प्रथमे दिने प्रत्यहं शक्तितः पुनः ॥ ३६
क्रियते च विधिप्राज्ञैः बलिः रात्रौ दिने दिने ।
यावत् समाप्यते ग्रन्थः तावत् कुर्याद् विधिं त्विमाम् ॥ ३७
अन्यथा प्राप्नुयाच्छापं महान्तं योगिनीकुलात् ।
तदर्थं भक्तिना लेख्यं अन्यथा विघ्नदायकम् ॥ ३८
इति एवंविधं देव श्रीमतेदं महाकुलम् ।
नापुण्यो लभते मर्त्यो योगिनीगर्भवर्जितः ॥ ३९
इदं गुह्यं च सर्वस्वं चातुर्विंशत्सहस्रकम् ।
नैव देयमभक्तानां न शठान् क्रूरकर्मिणाम् ॥ ४०
तान्त्रिकानां न दातव्यं तार्किकाणां विशेषतः ।
न दाम्भिकाय मूर्खाय न देयं क्लीवक्रोधिने ॥ ४१
नाहंकृते च पापिष्टे च्छद्मके चोपजीवके ।
स्वर्गपातालिका भोगाः येन त्यक्ता हि सुन्दर ॥ ४२
संसारभयभीतात्मा गुरुस्मरणमाश्रितः ।
देयं गुर्वान्विते शिष्ये अभक्ते च न दापयेत् ॥ ४३
गुरुभक्ताय शान्ताय समयाचारनिःस्पृहे ।
गूढज्ञानसुशान्ताय सत्यवादीजितेन्द्रिये ॥ ४४
इहजन्मावधिर्येन संन्यस्तं गुरूणां प्रति ।
मनोवाक्कायकर्मणा गुरोरिच्छानुवर्तिनः ॥ ४५
तस्य देयमिदं गुह्यं द्वादशाब्दपरीक्षिते ।
संकेतं यो विजानाति तथा सांवत्सरं क्रमम् ॥ ४६
मूलसूत्रं क्रमं देयं पारम्पर्यगुरुक्रमम् ।
तथा वै षोडशः पर्वाः सूचितास्ते महीतले ॥ ४७
संप्रदायवशेनैव तस्य देयं कुलागमम् ।
नाभिवर्तिरहीका च वज्रसन्धिः कपाटयोः ॥ ४८
संकेतान् वेत्ति योऽप्यत्र तस्य देयं कुलागमम् ।
श्रीनाथ उवाच
तव शिष्योऽहं प्रीतः सिद्धोऽहं भैरवो हरः ॥ ४९
कृतमन्त्राधिकारी च अद्याहं कुलनायिके ।
कुलक्रमं च कौलं च उपदेशः कथं क्रिया ॥ ५०
ब्रूहि ज्ञानं सुरेन्द्राख्ये वक्राम्नायः कथं कुलम् ।
श्रीवक्रा उवाच
नाभिवर्तिरहिस्तार्क्ष्यो विद्या वज्रः कपाटयोः ॥ ५१
ज्ञानमष्टप्रकारोऽयं वैष्णवं पश्चिमान्वयम् ।
यो जानाति वरारोह स भवेन्मतबोधकः ॥ ५२
श्रीनाथ उवाच
का नाभिवर्तिका देवि अहिर्वृक्षश्च कौ पुनः ।
का विद्या कश्च वज्राख्यः कपाटौ च कथं वद ॥ ५३
श्रीवक्रा उवाच
मूलं नाभिः कुलं मेरुर्वर्तिरात्मा च मालिनी ।
पारम्पर्यमहिज्ञानं सन्धिराज्ञाक्रमोदयम् ॥ ५४
वृक्षं वज्रकुलं द्वीपं षट्कोणाख्यं कपाटयोः ।
एतद् दीपनविज्ञानं कादिभेदे उदाहृतम् ॥ ५५
पुनरन्यं तु भेदेन शृणु भैरव तत्त्वतः ।
नाभिर्मेरुक्रमं कीर्तिः भेदाज्ञा सप्तविंशतिः ॥ ५६
षट् पदाः षडि मुद्राश्च चतुरादौ चतुः पुनः ।
पञ्चकं च तथा षट्कं पुनः पञ्चात्मकं चतुः ॥ ५७
एवं क्रमोदयं यत् तत् कर्णात् कर्णोपदेशकम् ।
पूजाक्रमविधानं तु नाभिज्ञानं कुलक्रमम् ॥ ५८
तस्य वर्तिस्त्रिकोणे तु त्रिष्कोणा शक्तिरव्यया ।
सा भूमिः स्थितिविश्रामं तस्याम्नायं मुखागमम् ॥ ५९
अहिराकाशमुदधिः संवर्तमिति मण्डलम् ।
सद्यावेशक्रमारुह्य वामावर्तपरिभ्रमात् ॥ ६०
वायुमण्डलमाख्यातं तुर्यस्थमहिसंज्ञया ।
तत्र लक्षं विनिक्षिप्य भूमिकां ग्राह्य वैष्णवीम् ॥ ६१
सा कला द्रवते तत्र गोलकामृतचन्द्रिका ।
एतत् समाधिकरणं योगिनीनां प्रपद्यते ॥ ६२
ज्ञात्वाचारगतिं रुद्र अहिशब्दं समभ्यसेत् ।
तारणाद् गुरुतार्क्ष्यञ्च विद्याराजं नवात्मकम् ॥ ६३
स एव भैरवोऽनन्तः शुक्रादिः परिकीर्तितः ।
तार्क्ष्य एवं समाख्यातं गुरूणां परमो गुरुः ॥ ६४
भकारादिचकारान्ता विद्याराज्ञी शिवानना ।
गुरोरुत्सङ्गगा विद्या पञ्चान्ते पञ्चमूर्धनि ॥ ६५
विद्या चन्द्रकला ज्योत्स्ना महन्तार्या प्रकीर्तिता ।
अनया भावितात्मा तु स चात्मा नवधा स्मृतः ॥ ६६
विद्योपदेशमाख्यातं देवानामपि दुर्लभम् ।
वज्रात्मनः स्मृतं पिण्डं वज्रपिण्डं च षड्विधम् ॥ ६७
कुलं तत् षट्प्रकारं तु उक्तं वै सर्वदेहिनाम् ।
आधारादिभ्रुवोरन्तं षट्प्रकारमहार्णवम् ॥ ६८
वज्रसंकेतमाख्यातं नात्र कार्या विचारणा ।
तं च वृक्षं स्वकं पिण्डं वृक्षस्य बाह्यतः क्रमम् ॥ ६९
तस्योदयं च विलयं शिवशक्तिगमागमम् ।
शक्तिर्मूलं कलापूर्णं संपूर्णमिति पूरकः ॥ ७०
तस्योर्ध्वे श्वसनो यस्तु संहार इति रेचकः ।
स शिवः कुलवृक्षस्य प्रलयोदयकारकः ॥ ७१
द्वाविमौ च कपाटाख्यौ प्राणापानस्वरूपकौ ।
एवमष्टप्रकारोऽयं ज्ञानमालोक्य पश्चिमम् ॥ ७२
पश्चिमाज्ञाविशुद्धा ये श्लोकार्थप्रतिपादकाः ।
ते जानन्ति इदं शम्भो विमलं पारमेश्वरम् ॥ ७३
ज्ञानमष्टप्रकारस्य श्रीमतं सप्तकोटिकम् ।
देवतानां मुखाम्नायं गूढार्थमुपदेशकम् ॥ ७४
महत् कष्टतरं दुर्गं रुद्रांशो वेत्ति पश्चिमम् ।
न चापि विन्दते मर्त्यः संप्रदायमहौषधम् ॥ ७५
क्रियाकारकसंबन्धं विभक्तिलघुप्रत्ययम् ।
समासैः सप्तकैर्भेदं गुप्तं कुलवधू इव ॥ ७६
क्लिष्टशब्दैर्विभज्येत तस्मात् क्लिष्टं त्यजेद् बुधः ।
अपशब्दैश्च सरलैस्तैस्तु शैवोऽभिगम्यते ॥ ७७
संकेतवर्णमेकेन मुखाम्नायेन शोधयेत् ।
न चापि लटलोटैस्तु शुष्कतर्कादिभिस्तथा ॥ ७८
व्याख्यायामागमे देव दिव्या वाणी स्वतन्त्रस्था ।
विपरीतमिदं ज्ञात्वा दिव्याम्नायः प्रवर्तते ॥ ७९
एवं पाण्डित्यमुत्सृज्य सरलं कौलिकागमम् ।
श्रोतव्यं च मुखाम्नायं कर्णात् कर्णान्तरागतम् ॥ ८०
अक्षरार्थोपदेशश्च संप्रदायश्च कौलिकः ।
निगर्भश्च षडेवैते संप्रदाया उदाहृताः ॥ ८१
सारं श्लोकोपदेशं च निर्णीतं तव भैरव ।
कौलिकाज्ञापरं नास्ति श्रीमतात् परतरं न हि ॥ ८२
मुखाम्नायात् परं नास्ति शेषं त्यज्यं पलालवत् ।
एवं सञ्चिन्त्य यत्नेन मुखकौलं समभ्यसेत् ॥ ८३
आज्ञावर्तिः शिवः पन्था वृक्षच्छाया सोमो रविः ।
परं परमहंसं च कुवेरं पीठमावली ॥ ८४
कुमारी कर्तरी भाषा मात्रात्मा मातरी तथा ।
पूर्वपश्चिममध्यं च वामदक्षिणकोणकम् ॥ ८५
योनिषट्कं च शृङ्गाटं आदिक्षान्तं कुलेश्वरम् ।
यो हि वेत्ति इदं ज्ञानं स साक्षाद् भैरवः स्वयं ॥ ८६
एवं क्रमार्थतस्तत्त्वं सप्तकोट्याद् विनिर्गतम् ।
यो हनेत् पशुभावात्मा गुरुस्तेन हनीकृतः ॥ ८७
परत्रं हारितं तेन मेरु तेनैव लङ्घितम् ।
इदं मतमिदं योगमिदं तत्त्वं कुलार्णवम् ॥ ८८
कुलौघं क्रम–ओघं तु ज्ञानौघं च तथोत्तमम् ।
पूजनीयं प्रयत्नेन हन्यते न कदाचन ॥ ८९
पञ्चस्रोतात्मके शैवे षष्ठे कुलविनिश्चये ।
अजवक्त्रात् परं शान्तमिदं तत् सारसंग्रहम् ॥ ९०
सिद्धसन्तानसुभगं प्रत्ययाज्ञाविशारदम् ।
नाम्ना क्रमोदयज्ञानं श्रीखगेशीमहामतम् ॥ ९१
श्रीनाथ उवाच
सत्यमेतत् त्वया प्रोक्तं कौलिकं प्रत्ययात्मकम् ।
कौलज्ञानात् परं नास्ति दुर्लभं मतसंग्रहम् ॥ ९२
कोटिकोटिरसंख्याता मया शास्त्रावतारिताः ।
पृच्छकानुमतेनैव सर्वे ते च पलालवत् ॥ ९३
विभागं च प्रमाणं च शास्त्रमञ्जूषकं शृणु ।
सप्तकोटिप्रमाणेन मतं वै पारमेश्वरम् ॥ ९४
कोटिपञ्चाशल्लक्षैकं सहस्रं शतसंख्यया ।
शतार्धं शतपादं च सद्योजाताद् विनिर्गतम् ॥ ९५
नवनवतिर्लक्षाणि लक्षकोटिस्तथैव च ।
तथान्याः कोटिपञ्चाशद् वामदेवाद् विनिःश्रिताः ॥ ९६
कोटीन्ययुतचत्वारि लक्षाः पञ्चाशकोटिकाः ।
सहस्रशतसंख्या च सहस्रैकं शतं तथा ॥ ९७
शतलक्षसहस्रं च अघोरात् तु विनिर्गतम् ।
अर्बुदं चार्बुदं चैव खर्वश्चैव परापरम् ॥ ९८
षट्सहस्राणि कोटिश्च लक्षपादं सहस्रकम् ।
शतमर्धं च पादाख्यं तत्पुरुषाच्च विनिर्गतम् ॥ ९९
ईशानस्य तु वक्त्रस्य पञ्चमस्य महात्मनः ।
विचार्यतोऽपि यत्नेन शास्त्रसंख्या न विद्यते ॥ १००
एवं वै शास्त्राम्नायं तु मतं ज्ञात्वा समभ्यसेत् ।
पञ्चश्रोतोद्भवा ह्येते ग्रन्थसंख्यासमन्विताः ॥ १०१
लोकाचारस्य हेत्वर्थे मया ते परिकीर्तिताः ।
षष्ठमं यन्महावक्त्रं तद् गुप्तं तु मया कृतम् ॥ १०२
ग्रन्थानां तु शतं सार्धं तस्माद् वक्त्राद् विनिर्गतम् ।
स्थितं तत् खेचरीचक्रे निगूढे संप्रकाशितम् ॥ १०३
शास्त्रावतारमञ्जूषं किञ्चिद् वक्ष्याम्यहं शृणु ।
निःशेष (१) – प्रवर (२) – प्रचुर (३) – रत्नचूडामणि (४) – तिलकमञ्जूष (५) निःश्वास (६) – हारीत (७) – सोमार्कप्रलयसमोपेत (८) – महाकालभैरव (९) – सोमार्क (१०) – त्रिपुरान्तर (११) – वैहाय (१२) – कुलमञ्जरी (१३) – उदधि (१४) – पञ्चरात्र (१५) – वामनभट्टारक (१६) – भट्टिनी (१७) – भट्टकुल (१८) – अनन्त (१९) – गर्भ (२०) – गरुड (२१) – अनन्त (२२) – रुद्र (२३) – ईश्वर (२४) – लाङ्गलि (२५) – मातङ्ग (२६) – मातङ्गी (२७) – मदनोन्मत्त (२८) – नीलाम्बर (२९) – नील (३०) – कनकावली (३१) – निर्वाणयोगसिद्धान्त (३२) – संख्योपेत (३३) – महात्रैलोक्य – लोकलोकेश्वर (३४) – वज्रवृन्द (३५) – योगपट्टा (३६) लोकविचार (३७) – सृष्टिविचार (३८) – अकुलशृङ्ग (३९) – शृङ्खली (४०) – सद्य (४१) – वाम (४२) – तत्पुरुषेश्वर (४३) – परब्रह्मबोधि (४४) – ब्रह्मशान्ति (४५) – ब्रह्म्योपाख्यान (४६) – शब्दब्रह्म (४७) – सूक्ष्मब्रह्म (४८) – अनन्तादि (४९) – पृथु (५०) – स्कन्द (५१) – नन्दि (५२) – महाकाल (५३) – वाथुल (५४) – शवर (५५) – अघोर (५६) – कपिल (५७) – जटेश्वर (५८) – गौरीश्वर (५९) – महाबोध्यन्तम् (६०) ।
श्रीनाथ उवाच
किमेभिर्वर्णितैर्देवि न च किञ्चित् प्रयोजनम् ॥ १०४
चतुर्विंशतिसाहस्रं श्रीमतं वक्रिकामतम् ।
तदहं श्रोतुमिच्छामि प्रसादाद् वक्तुमर्हसि ॥ १०५
श्रीवक्रा उवाच
क्रियापादं तथा ज्ञानं योगपादं तृतीयकम् ।
चर्यापादं चतुर्थं तु चतुःपादा तु संहिता ॥ १०६
रक्षणीया प्रयत्नेन मृगवत्ससुतो यथा ।
श्वेतैः पुष्पैः सुगन्धाद्यैश्चन्दनेनाधिवासितैः ॥ १०७
अलिना दिव्यधूपेन दीपकैश्चरुकैः शुभैः ।
पूजनीयं हि सततं महाभक्तिसमन्वितैः ॥ १०८
व्यावृत्ताक्षिप्तचित्तेन क्रमपूजा न सिद्ध्यति ।
गुरुमण्डलं कृत्वादौ पूजयेत् गुरुपञ्चकम् ॥ १०९
सिंहासनमिदं पूज्य त्रैलोक्यं पूजितं भवेत् ।
प्राणवद् रक्षणीयं तु पालनीयं गुरोर्वचम् ॥ ११०
* * * नैव * * * (?) पशूनां न प्रदर्शयेत् ।
एकान्ते विजने रम्ये दुष्टसत्त्वविवर्जिते ॥ १११
सुगन्धगन्धबहुले मिष्टधूपाधिवासिते ।
चन्द्रोदयपरिच्छन्ने पूजासंभारसंवृते ॥ ११२
दीपार्घचरुकैश्चैव क्रमिकैर्भक्तिवत्सलैः ।
हेमवस्त्राद्यलंकारैर्गुरुं संपूज्य भक्तितः ॥ ११३
कुमारी योगिनी पूज्या हेमदानादिसुवरैः ।
अनुज्ञाताभिषिक्तैस्तु अच्छिद्रं तु मतं मम ॥ ११४
एवं भवतु तैरुक्तं अर्चिता पृच्छ्यते शुभम् ।
अवधार्य गुरोर्वक्त्राद् दीपनं मन्दबुद्धिनाम् ॥ ११५
आगमश्रवणादाशु महावेशः प्रवर्तते ।
गृहीतव्यं महादेव सर्वस्वं योगिनीकुले ॥ ११६
श्रीमतेदं कुले दीपं दुर्लभं पारमेश्वरम् ।
विधिहीने न व्याख्येयं न लेख्यं तु कदाचन ॥ ११७
म्लेच्छपत्रे न लेख्यं तु न लेख्यं ताडिपत्रके ।
लिखितव्यं परे भूर्जे सुशुद्धे ग्रन्थिवर्जिते ॥ ११८
भवेत् सिद्धिप्रदं देव अन्यथा न कदाचन ।
मसिं च संप्रवक्ष्यामि यादृश्या लिख्यते मतम् ॥ ११९
अन्यथा विघ्नदं देव न लिखेत कदाचन ।
तच्छृणुष्व महाभाग मसीकरणमुत्तमम् ॥ १२०
सिन्दूरं लाक्षया तोयं दूतीकुंकुममिश्रितम् ।
स्त्रीपुष्पमलिनाथं तु तथा वै वैष्णवं रसम् ॥ १२१
उपदेशवशेनैव अङ्कयेल्लोहकर्परे ।
अर्धशेषं तु संगृह्य अघोरास्त्रेण मन्त्रवित् ॥ १२२
तच्च ते संप्रवक्ष्यामि विघ्ननिर्नाशनं परम् ।
ऐँ ह्राँ ह्रीँ ह्रूँ प्रस्फुर प्रस्फुर घोर घोरतर तनुरूप चट चट प्रचट प्रचट कह कह वम वम घाटय घाटय हूँ हूँ हूँ फट् फट् फट्।
अघोरास्त्रमिदं देव मम क्रोधाद् विनिर्गतम् ॥ १२३
सप्तोच्चारणमात्रेण षोढान्यासफलं लभेत् ।
षट्प्रकारा मसी प्रोक्ता तया लेख्यं मतं त्विदं ॥ १२४
अन्यथा न लिखेद् देव लिखितं विघ्नदायकम् ।
यथा व्याख्याविधिः ख्याता तथा लेखनकर्म च ॥ १२५
लेखकं भक्तं शुद्धं च पारम्पर्यविशारदम् ।
गुरुभक्तिरतं शान्तं कुलागमप्रपूजकम् ॥ १२६
कुमारीयोगिनीभक्तं ब्रह्मचर्यपरायणम् ।
कुलशास्त्ररतं दक्षं दम्भमायाविवर्जितम् ॥ १२७
सुस्नातं मन्त्रपूतं च यक्षकर्दमचर्चितम् ।
वस्त्रयुग्मं परीधाय पुष्पमालाविभूषितम् ॥ १२८
सुधूपधूपितं कृत्वा अनामां हेममुद्रिकाम् ।
कटकङ्कणहारैश्च हेमगोदानदक्षिणैः ॥ १२९
तोषयित्वा तु स्वगुरुं यथाविभवविस्तरम् ।
आरात्रीं कारयेत् पश्चात् कुलकुम्भं प्रपूरयेत् ॥ १३०
तत्रस्थमागमं पूज्यं दिव्यवस्त्रविभूषितम् ।
क्रमं च पूजयित्वा तु गुरुमण्डलपूर्वकम् ॥ १३१
दातव्या दीपमाला तु मतराजस्य सुन्दर ।
वीरभोज्यं प्रकर्तव्यं यथा ख्यातं पुरा मया ॥ १३२
परशिष्ये न दातव्यं ददेदादेशपूर्वकम् ।
अन्यथा ददते यस्तु स विघ्नैश्चाभिभूयते ॥ १३३
सुपरीक्ष्य प्रदातव्यं दूतीनां क्रमभाषितम् ।
कर्मणा मनसा वाचा त्रिशुद्धिर्भक्तिवत्सले ॥ १३४
तस्येदं श्रीमतं दद्याद् अथवा स्वगुरोज्ञया ।
अन्यथा न प्रदातव्यं गुरुशुद्धिविवर्जिते ॥ १३५
अर्थलोभाद् भयात् प्रीत्या न दद्याच्च कदाचन ।
एतत् समयं देवेश प्रयत्नाद् धारितो मया ॥ १३६
भक्तिहीने शठे क्रूरे निःसत्ये कलहप्रिये ।
तान्त्रिके द्वेषदुष्टे च गर्विते च अहंकृते ॥ १३७
पारम्पर्यविनिर्मुक्ते नैव लोभात् प्रदापयेत् ।
ओलिशुद्धिविनिर्मुक्ते क्रमशुद्धिविवर्जिते ॥ १३८
समयभ्रष्टे च पापिष्टे वञ्चके गुरुदूषके ।
ईश्वरे चित्तलोभिष्टे तथा पापरते जने ॥ १३९
ज्ञानोपजीवकासक्ते कायस्थे हेतुवादिने ।
लक्षरागचले शिष्ये कार्यार्थी भक्तिवत्सल ॥ १४०
अभक्ते चैव कृपणे चपले पानलम्पटे ।
देवार्चनविनिर्मुक्ते शौचाचारविवर्जिते ॥ १४१
कपटव्रतचारिणे मतराजं न दापयेत् ।
स्थिरचित्ताङ्गभावे च सर्वस्वविनिवेदके ॥ १४२
कर्मणा मनसा वाचा विशुद्धे भक्तिवत्सले ।
भिन्नदेहाङ्गभावे च गुर्वाम्नायविशारदे ॥ १४३
मतराजं प्रदातव्यं द्वादशाब्दपरीक्षिते ।
नार्थलोभाद् भयात् प्रीत्या नोपरोधेन विद्यया ॥ १४४
न दातव्यमिदं रत्नं ज्ञानकोषं कुलागमम् ।
पुत्रस्यापि न दातव्यं किं पुनरितरे जने ॥ १४५
विशेषेण न दातव्यं कार्यार्थी भक्तिवत्सल ।
कलौ युगे महाघोरे स्वल्पचित्तैस्त्वचेतनैः ॥ १४६
आचार्यैः शक्तिहीनैश्च ज्ञानहीनैश्च निश्चयैः ।
ते तु ये दीक्षिता देव शिष्याश्चैवापरीक्षिताः ॥ १४७
प्रमादेन कथञ्चित् स्यात् दुःखान्यनुभविष्यन्ति ।
भक्तिहीनं क्रियाहीनं भावहीनं तु चुम्बकम् ॥ १४८
न ज्ञानं निर्मलं तस्य नैव दद्यात् कुलागमम् ।
आज्ञापहारः कर्तव्यः परिहार्यः प्रयत्नतः ॥ १४९
तदा सिद्धिं लभेन्मन्त्री अन्यथा पापकृन्मतः ।
निर्वाणोत्तरयोगे च तथा कालोत्तरे परे ॥ १५०
ऊर्ध्वस्रोते च करणे तथा स्वच्छन्दभैरवे ।
नित्यातन्त्रे यामले च तथा च त्रिपुरार्णवे ॥ १५१
यामले रुरुभेदे च तथा च ब्रह्मयामले ।
ओडामरे डामरे वा तथा वै चर्चिकाक्रमे ॥ १५२
पिच्वाख्ये तु महादेव अथवा कालिकाक्रमे ।
तन्त्रे च भैरवे वापि सोमसिद्धान्तलाकुले ॥ १५३
तुम्बुरे चैकवीरे वा जयातन्त्रे तु वासुके ।
मातङ्गे ब्रह्मतन्त्रे च प्रतिष्ठापारमेश्वरे ॥ १५४
आणवे पिङ्गले चैव रसस्वच्छन्दके तथा ।
वाचस्पते च आद्ये वा लक्षपादेऽथ सुन्दर ॥ १५५
वाममार्गे च गौर्यायाः सिद्धयोगेश्वरीमते ।
मते पिचुमते चैव तथा देव्यामते तु च ॥ १५६
शिवादूतीमते देव खेचर्याश्च मतोत्तरे ।
मते डामरदूती च तथा वै सुन्दरीमते ॥ १५७
मङ्गलाया मते चैव व्योमसन्तानसन्ततौ ।
व्योमगर्भे हृषीकेशे तथा चैव तु गह्वरे ॥ १५८
दीक्षिता ये कलौ देव शिष्यास्तन्त्रागमेषु च ।
कलौ युगस्य संसिद्धिं न ते प्राप्यन्ति पुत्रकाः ॥ १५९
यावन्न कुलसिंहस्य क्रमोदयं महीपते ।
पश्चिमस्य गृहस्यैव पुत्रकानां प्रवेशनम् ॥ १६०
तावत् तेषां कुतो भोग्यं कुतः प्रत्यय कौलिकम् ।
कुतो मोक्षं दरिद्राणां कुलक्रमविवर्जिताम् ॥ १६१
पुनर्दीक्षारिहाः सर्वे मेरुमार्गविवर्जिताः ।
भविष्यन्ति कलौ देव पश्चिमे सिंहदर्शने ॥ १६२
कृत्वा त्यागं गुरोः पूर्वं त्यक्त्वा पूर्वाश्रमक्रमम् ।
ततश्चानुग्रहं कुर्यात् सविशेषं तु पश्चिमे ॥ १६३
अन्यथा पशवः सर्वे भ्रामितास्ते मया कलौ ।
युगानुरूपतो मोक्षं दर्शनं दर्शनं प्रति ॥ १६४
कृतयुगे ऊर्ध्वस्रोतं वै त्रेतायां दक्षिणं तथा ।
द्वापरे वामस्रोतं तु पश्चिमं कलिरुच्यते ॥ १६५
कलौ तु पश्चिमं स्रोतं सद्योजातं कुलक्रमम् ।
उदयं चतुर्धा प्रोक्तं युगानां शैवदर्शने ॥ १६६
यस्य यस्य युगस्यैव अन्तर्धानं गतस्य च ।
तस्य तस्य भवेत् सिद्धिरन्यथा न कदाचन ॥ १६७
युगोऽन्यं दर्शनं चान्यं तथा चान्यं गुरुस्तथा ।
सर्वं तं निष्फलं तस्य यथाज्यं भस्ममध्यतः ॥ १६८
एवं ज्ञात्वा तु प्रथमं कलिस्यां पश्चिमं गृहम् ।
गुरुश्चाहं च पूर्वेषां श्रीमतार्थे महेश्वर ॥ १६९
मम ओंकारपीठे तु अवतारं महेश्वर ।
तथाधिकारं सिंहस्य आख्यातं दक्षिणापथे ॥ १७०
तत्रैव प्रत्ययं शुद्धं चतुष्पादेषु संस्थितम् ।
क्षेत्रमाहात्म्य शिष्याणां वर्तते च गृहे गृहे ॥ १७१
मुद्रास्फोटादि वेधञ्च कोङ्कणे दक्षिणापथे ।
तत्राज्ञा ख्यापिता पूर्वं मया पूर्णाख्यसंज्ञके ॥ १७२
नाख्यातं मानवे गुह्यं गुरुणा दक्षिणापथे ।
तवाख्यातं तु सिद्धस्य रहस्यं मेरुमार्गगम् ॥ १७३
पीठोद्याणे त्रिमुद्रायां मण्डलं च कुलागमम् ।
चतुर्विंशतिसाहस्रं उद्धृतं लक्षपादकात् ॥ १७४
मयापि खेचरात् प्राप्तं हिमवन्तान्मुखागमम् ।
प्राप्ते कलियुगे शंभो म्लेच्छराज्ये तथोत्तरे ॥ १७५
मधुमन्थनावतारे रावणस्य समागमे ।
तस्मिन् चैवाद्यपीठस्य श्मशाने करवीरके ॥ १७६
रुद्रांशकस्य सिद्ध्यस्य विद्धचित्तस्य भैरव ।
अधिकारं प्रदातव्यं एतत् सिद्धकुलागमम् ॥ १७७
उपदेशं यथावस्थं निशाचारेण कौलिकम् ।
संहितार्थं महत्यर्थं कथनीयमदृष्टवत् ॥ १७८
दद्याद् ज्ञानं क्रमाम्नायं कीर्त्यर्थं दक्षिणापथे ।
सविशेषं च हृदयं चातुर्विंशत्सहस्रकम् ॥ १७९
दातव्यं धीपुरे शक्त्या रूपमाश्रित्य मानवम् ।
मानवस्य तु शिष्यस्य भावशुद्धस्य सुन्दर ॥ १८०
तस्य दद्यान्न दोषोऽस्ति अन्यथा दोषभाग् भवेत् ।
तेनैवाराधिता पूर्वं अहं त्रिदशमण्डले ॥ १८१
तस्य तुष्टा ह्यहं शम्भो निर्मितो मर्त्यलोकतः ।
मानवेन तु रूपेण सिद्धोऽसौ नात्र संशयः ॥ १८२
जन्मजन्मान्तराभ्यासात् अहमाराधिता हर ।
पूर्वं रुद्रांशको यस्तु स लभेद्धि कुलागमम् ॥ १८३
सिद्धो मानुष्यरूपेण निर्मितो मर्त्यलोकतः ।
उपकाराय जन्तूनां स लभेत्परमं मतम् ॥ १८४
वेत्त्यसौ संहितार्थं तु दुर्बोध्यं देवदुर्लभम् ।
सूत्रसंकेतभाषार्थं पारम्पर्यक्रमागतम् ॥ १८५
तत्राहं मन्त्रमूर्तिस्था त्वं तत्र परमो गुरुः ।
तत्र पूजा त्रिकालं तु कर्तव्यं मण्डलं पुनः ॥ १८६
यथाहं च तथा त्वं च तथा वै खेचरं क्रमम् ।
यथागममहाज्ञानं तथासौ मतबोधकः ॥ १८७
पश्यते ज्ञानचक्षुभ्यां न द्वैतं गुरुणा सह ।
तस्यापमानं द्रोहं च वचनलङ्घनं तथा ॥ १८८
न कर्तव्यं कदाचिद् वा विद्वेषं न समाचरेत् ।
अन्धकारे यथा दीपो निशायां तु निशाकरः ॥ १८९
तथासौ दीपको मन्त्री ओलीनां गोत्रसन्ततौ ।
तस्यैव यत् कृतं किञ्चित् परार्थं चैव पुत्रकैः ॥ १९०
तत् सर्वं मे प्रमाणं तु तस्य तिष्ठाम्यहं पुरे ।
मन्त्रसिंहासनं तस्य अधिकारं त्रयोलिषु ॥ १९१
मतबोधकसिद्धस्य आख्यातं दक्षिणापथे ।
योजनशतदूरस्थं पश्यते ज्ञानचक्षुषा ॥ १९२
रिक्तहस्तैर्न सिद्धिः स्यात् पूर्णहस्तेन सिद्धिभाक् ।
पश्यत्यसौ महामन्त्री गुरुं प्रत्यक्षभैरवम् ॥ १९३
अन्यगोत्रस्य शिष्येन चर्चां नैव तु कारयेत् ।
कन्यसोऽपि गुरोरोघे स ज्येष्ठ इति मन्यते ॥ १९४
स्व–ओल्यां च क्रमं तस्य शोध्यं वक्राकुलागमे ।
ततः सिद्धिर्भवेच्छिष्ये अन्यथा न कदाचन ॥ १९५
यस्येदं श्रीमतं देव गृहे तिष्ठति पूजितम् ।
तस्य लक्ष्मी सदाकालं अहं तिष्ठामि तत्पुरे ॥ १९६
यत्र यत्र शुभं किञ्चित् तत्राहं चाधिकारिणी ।
पठते यस्तु तत्त्वज्ञः सकलं वा तदर्धकम् ॥ १९७
अर्धार्धमथ पादं वा श्लोकमेकं तदर्धकम् ।
तस्य ज्ञानफलावाप्ति इहलोके च भुक्तिभाक् ॥ १९८
स पुनर्विन्दते सर्वं चतुःपादं क्रमेण तु ।
प्रत्यक्षं चिञ्चिणीनाथं मायारूपेण मानवः ॥ १९९
यो योऽवलोक्यते जन्तुः सोऽपि याति परे पदे ।
दर्शनात् स्पर्शनादेव आलापात् सह संगमात् ॥ २००
पापीनां जायते सिद्धिर्ज्ञानदीक्षा प्रवर्तते ।
पठितं शृणुते यस्तु श्रीमतेदं कुलागमम् ॥ २०१
मन्त्रोद्धारं तु यः पश्येत् प्रमादादविभावितः ।
तत्क्षणाद् दीक्षितोऽसौ वै गतोऽसौ पश्चिमे गृहे ॥ २०२
गुरुमण्डलकं कार्यं आगमस्य गुरोग्रतः ।
साष्टाङ्गप्रणिपातैस्तु त्रिप्रदक्षिणपूर्वकैः ॥ २०३
नमस्कारेन्महाभक्त्या अभिवन्द्य पुनः पुनः ।
तस्य वेत्ता पुर्नर्मन्त्री पूर्णसिद्धिः प्रवर्तते ॥ २०४
ते शिष्याः क्रमिकाः शुद्धाः यैर्दृष्टं श्रीमतं त्विदम् ।
ते मुक्ता जीवमान्तोऽपि अन्ये जीवन्तका मृताः ॥ २०५
इह जन्म समासाद्य येनाभ्यस्तं न श्रीमतम् ।
तथा नाकर्णितं भक्त्या वृथा तस्य तु जीवितम् ॥ २०६
येनावधारितं नैव महारत्नं कुलागमम् ।
पुनस्तद् दुर्लभं तस्य अन्यजन्मनि जन्मनि ॥ २०७
प्राप्तो मणिर्यथा शुद्धः चन्द्रकान्तिं त्यजेन्नरः ।
भूयोस्तं दुर्लभं तस्य तथा श्रीश्रीमतं नृणाम् ॥ २०८
यो द्विषेत् श्रीमतं देव आचार्यं मतबोधकम् ।
यात्यसौ नरकं घोरं यावद् भूतसंप्लवम् ॥ २०९
श्रीनाथं भैरवं चैव पादुकामिति उच्चरेत् ।
अग्रतः पार्श्वतो वापि क्रमतः स्वगुरोग्रतः ॥ २१०
यत्र यत्र गतो मन्त्री त्रितयं तु समुच्चरेत् ।
शिवायेति न वक्तव्यं मन्त्रमेतत् षडक्षरम् ॥ २११
नोच्चार्यं कौलिके मार्गे पादुकामिति उच्चरेत् ।
मण्डलं च क्रमोद्धारं कारयेन्मतसन्निधौ ॥ २१२
अथवा भव्यते भक्त्या गुरुमण्डलपूजनम् ।
कृत्वादौ क्रमपूजां च पुष्पधूपादिभिः क्रमात् ॥ २१३
चन्दनं कुंकुमं चैव कस्तूर्या च विलेपयेत् ।
अलिपिशितसंयुक्तं दीपं प्रज्वाल्य शोभनम् ॥ २१४
पुष्पप्रकरं कर्तव्यं सुगन्धं गन्धमोदितम् ।
कुमारीं पूजयेदेकां तथा आचार्यपुत्रकम् ॥ २१५
आदौ मन्त्राश्च मुद्राश्च गुरुपञ्चकमण्डलम् ।
मम विद्यामूलसूत्रं नत्वा ध्यायेत् कुलागमम् ॥ २१६
एकान्ते विजने रम्ये दुष्टजन्तुविवर्जिते ।
आचार्यं स्वगुरुं वाथ गुरोर्मातामथापि वा ॥ २१७
एषामाज्ञां प्रर्थयित्वा ददादेशमिति ब्रूयात् ।
मतार्थं भवत्वस्माकं तथा सिद्धिस्तु कौलिकी ॥ २१८
ईदृशेन विधानेन ततो वाच्यं महेश्वर ।
अन्तरङ्गीसुभाषादिशुद्धं चातिमनोहरम् ॥ २१९
किञ्चित्काकलिशब्देन सिद्धान्तं तत्र कारयेत् ।
सद्यातिललिता भाषा गान्धर्वादेरनेकशः ॥ २२०
तया समयमेवोक्तं श्रद्धया तत् पठेन्नरः ।
अन्यथा सिद्धिहानिः स्यात् साधकस्य भवेत् ततः ॥ २२१
निशाचारेण व्याख्यातं कुलाचारेण कारयेत् ।
व्याख्याने या विधिः पूर्वं तवाख्याता वरानन ॥ २२२
कृत्वा चाकर्णयेदेव नान्यथा तु कदाचन ।
दिव्ये मनोरमे स्थाने पशुदृष्टिविवर्जिते ॥ २२३
पुष्पप्रकरसंकीर्णे सुगुप्ते चाधिवासिते ।
महाधूपसुगन्धाढ्ये आचार्यः पूर्वसंमुखः ॥ २२४
पश्चिमाभिमुखैः शिष्यैः श्रोतव्यं च कुलागमम् ।
गुप्ते प्रकाशयेच्छिष्यं दातव्यं च मुखागमम् ॥ २२५
तथा गूढार्थचित्तं स्यादचिरं वा भविष्यति ।
तन्मूलक्रमविद्यां च षोढान्यासं यदुद्धृतम् ॥ २२६
अलिना कुंकुमेनैव लिख्य पूज्य प्रदापयेत् ।
गृहीत्वा क्षाम्यते शिष्यः अलिना शोधितं पिबेत् ॥ २२७
तत्पश्चात् समया श्राव्या संक्षेपेणाष्टकं च यत् ।
न निन्द्याद् योगियोगिन्यो नेक्षेन्नग्नां परस्त्रियम् ॥ २२८
न जातु कुत्सितं ब्रूयात् अनिच्छन्तीं न कामयेत् ।
गुरुपत्नीं वीरभार्यां वक्रिकां वामनीं तथा ॥ २२९
कुमारीं व्रजिकां चैव च्छिन्ननासां न कामयेत् ।
एवं वै समयाः श्राव्याः संक्षेपेण वरानन ॥ २३०
पूरतः कथयिष्यामि चतुःषष्टिसमयान् यथा ।
गुरोराज्ञां न लङ्घेत लङ्घनान्नरकं भवेत् ॥ २३१
पालनाद् भवते सिद्धिः पदं प्राप्नोति शाश्वतम् ।
कुगृहे कुजने देव स्थाने चैव तु कुत्सिते ॥ २३२
पशुमध्ये न चाख्येयं आगमार्थं मुखागमम् ।
नैव दद्यात् तु सहसा पशूनां न प्रदर्शयेत् ॥ २३३
संवृत्य तूष्णीमास्थाय तदा मौनं समाचरेत् ।
गुर्वोघं यस्तु जानाति तथा सांवत्सरं क्रमम् ॥ २३४
मण्डलं मूलसूत्रं तु तस्य देयं मुखागमम् ।
अन्यथा निर्गुणं शिष्यं ज्ञात्वा भक्तिसमन्वितम् ॥ २३५
स्वशिष्यं च ततः कृत्वा तदा देयं मुखागमम् ।
अन्यथाभावुकं शिष्यं नैव दद्यान्मुखागमम् ॥ २३६
अवस्थां उन्मनीभावं आज्ञाप्रत्ययपूर्वकम् ।
जानाति देहजं चिन्हं सोऽस्ति शिष्यः कुलागमे ॥ २३७
स्फुरते प्रत्ययावस्था यस्य तिष्ठति भावना ।
सहजमेलकं शम्भो स भवेन्मतभाजनः ॥ २३८
क्रमभक्तिरता ये च पीठाराधनतत्पराः ।
तेष्वग्रे दर्शयेत् देव भक्तिहीनान् विवर्जयेत् ॥ २३९
गुरोरुपजीवका ये च कपटव्रतधारिणः ।
न तेषां सह संभाषं श्रीमतं न प्रकाशयेत् ॥ २४०
मतमेकमिदं सारं देव्यादेशात् प्रकाशयेत् ।
ये बुध्यन्ति नरा देव ते मुक्ता नात्र संशयः ॥ २४१
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीकुलागममाहात्म्यवर्णने लिखनव्याख्यानविधिर्नामानन्दः ॥ ३० ॥
Kumārikākhaṇḍa – Kapitel ३१
॥ ॐ स्वस्ति ॥
श्रीनाथपादुकाभ्यां नमः। श्रीगणेशाय नमः।
मन्थानभैरवतन्त्रे कुमारिकाखण्डे
एकत्रिंशानन्दः
श्रीनाथ उवाच
कुलागमविधानं तु मया ज्ञातं महेश्वरि ।
अधुना श्रोतुमिच्छामि दीक्षाविधिं यथाक्रमम् ॥ १
तदहं श्रोतुमिच्छामि यत् सारं पश्चिमान्वये ।
दीक्षायानन्तरं सर्वं पूजा–आगममण्डलम् ॥ २
दीक्षाशब्दं किमित्युक्तं प्रसादाद् वक्तुमर्हसि ।
श्रीवक्रा उवाच
शृणु नाथ प्रवक्ष्यामि दीक्षां ते प्रवदाम्यहम् ॥ ३
दीयते ज्ञानसद्भावं क्षीयते पाशपञ्जरम् ।
दानक्षपणधर्मित्वाद् दीक्षा तेनेह कीर्तिता ॥ ४
श्रीनाथ उवाच
कतिविधं भवेद् वेधं कस्मिन् स्थाने प्रयोजयेत् ।
कथमाज्ञाप्रभावं तु पशूनां मलशोधनम् ॥ ५
समयी पुत्रकश्चैव साधकस्तु कथं भवेत् ।
आचार्यत्वं समासेन चतुराश्रमनिर्णयम् ॥ ६
सर्वं कथय देवेशि यदि तुष्टासि वक्रिके ।
श्रीवक्रा उवाच
अथार्घपात्रसंशेकात् क्रमपूजावलोकनात् ॥ ७
समयानां श्रवणाद् वाथ समयित्वं लभेन्नरः ।
दन्तकाष्टेन संजल्पात् पुत्रकत्वं प्रपद्यते ॥ ८
वेधितश्चाभिषिक्तश्च साधकः सिद्धशासने ।
संक्रान्तज्ञानविज्ञानः क्रमौघसुविशारदः ॥ ९
अभिषिक्तः प्रमुक्तिज्ञो देशिकः प्रविधीयते ।
अथायत् परमं गुह्यं वेधविज्ञानमुत्तमम् ॥ १०
अध ऊर्ध्वविभागेन वेधक्रममिहोच्यते ।
मन्त्रवेधं तु नादाख्यं बिन्दुवेधमतः परम् ॥ ११
शाक्तं भुजंगङ्गवेधं तु परं वेधमुदाहृतम् ।
मन्त्रवेधं तु मन्त्रेण चक्रादिपरिभावनात् ॥ १२
ज्वालामालाकुलं ध्यायेत् षडारं चक्रमुत्तमम् ।
द्वादशारेऽथवा व्याप्तिः श्वासकुम्भकयोगतः ॥ १३
परं चित्तं प्रबोधव्यं मन्त्रवेधमुदाहृतम् ।
हृच्चक्रे च महेशान बिन्दुज्वालाकुलप्रभा ॥ १४
तेन संबोधयेच्छिश्यं बिन्दुवेधमुदाहृतम् ।
शाक्तं शक्तिं समुच्चार्य ऊर्ध्वचारेण सुन्दर ॥ १५
शृङ्गाटकासनस्था तु कुब्जिका कुटिलाकृतिः ।
आधारादिसमुच्चार्या दीपाकारा शिखोपमा ॥ १६
स्थिरचित्ताङ्गभावेन वेधयेदखिलं जगत् ।
भ्रमदण्डमहावेगः शाक्तवेधमुदाहृतम् ॥ १७
एषा सा परमा शक्तिः परानन्दविकासिनी ।
जन्मस्थानात् परं याति पञ्चपञ्चकभूषिता ॥ १८
तान्येव परतत्त्वाच्च कलापञ्चकं दक्षिणे ।
व्योमा शान्ता च विद्या च प्रतिष्ठा च निवृत्तिका ॥ १९
नन्दा भद्रा जया रिक्ता पूर्णा सूक्ष्मा परामृता ।
कुलपञ्चकसंयुक्ता व्योमपञ्चकभूषिता ॥ २०
ब्रह्मपञ्चकसंयुक्ता पञ्चकारणसंयुता ।
एवं पञ्चप्रकारा तु ब्रह्मस्थानाद् विनिर्गता ॥ २१
ब्रह्मस्थाने तु विश्रान्ता तडिद्रूपा विराजते ।
प्रतिष्ठा वेधयेत् कायं परात्मानं च बोधयेत् ॥ २२
एवं भुजङ्गवेधं तु कथितं कुलशासने ।
संस्फुरकादिवेधं तु कलापादाध्वोदाहृतम् ॥ २३
नाख्येयं कस्यचिद् देव गोपनीयं प्रयत्नतः ।
गुह्याद् गुह्यतरं गुह्यं रक्षणीयं शरीरवत् ॥ २४
क्षीणे चित्ते सुरेशान परानन्दमुदाहृतम् ।
नेन्द्रियाणि न च प्राणं नान्तःकरणगोचरम् ॥ २५
न मनो नापि मन्तव्यो मन्तान्यो नैव विद्यते ।
सर्वभावपरिक्षीणे परं वेधमुदाहृतम् ॥ २६
एतत् ते कथितं सर्वं भक्त्या परमया मया ।
गोपितव्यं प्रयत्नेन चौरेभ्यो द्रविणं यथा ॥ २७
मध्यमेनैव चारेण मध्यमान्ते प्रवेशनम् ।
मध्यमा रुद्रशक्तिस्तु अधश्चोर्ध्वं प्रपीडयेत् ॥ २८
बिन्दुरूपी तदा प्राणं शक्त्यग्रे विनियोजयेत् ।
तद्रूपं लक्ष्येदात्मा सूक्ष्मं खद्योतसन्निभम् ॥ २९
पादांगुष्ठात् समारभ्य विशतेऽलक्ष्यलक्षितम् ।
यावन्नाभिप्रादेशे तु रुद्रशक्तिं नियोजयेत् ॥ ३०
पुरे शृङ्गाटकाकारे कुण्डलाकृतिविग्रहाम् ।
सुसूक्ष्मां भ्रममाणां च ज्वालामालासमप्रभाम् ॥ ३१
ज्वलन्तीं सर्वरन्ध्रेषु मध्यदेशे विचिन्तयेत् ।
मुहूर्तं यावद् देहे तु शक्तिस्तिष्ठति रन्ध्रगा ॥ ३२
तदा चोत्पद्यते मूर्छा सर्वव्याप्तिस्वरूपिणी ।
एजते नात्र संदेहो च्छिन्नमूलं द्रुमं यथा ॥ ३३
निःशंको विह्वलश्चैव काष्ठवत् पतते भुवि ।
अमृताख्या तु या शक्तिः पूर्णचन्द्रस्वरूपिणी ॥ ३४
तया व्यापितमात्रस्तु ससंज्ञो भवते ततः ।
अधो वेधः समाख्यातः ऊर्ध्ववेधमतः शृणु ॥ ३५
उन्मनान्ते मनं कृत्वा परा सामनरूपिणी ।
पूरयन्ती जगत् सर्वं आसप्तभुवनान्तिकम् ॥ ३६
तस्यान्ते व्यापिनी शक्तिर्मेरोः शृङ्गाटशेखरे ।
सा एव ब्रह्मरन्ध्रस्था हिमकुन्देन्दुनिर्मला ॥ ३७
संघट्टे शशिसूर्यान्ते भूतासननभाकृतिः ।
नाभिपद्मस्य मध्ये तु भित्त्वाहता विनिर्गता ॥ ३८
सुसूक्ष्मां भावयेद् देव कण्ठनालान्तरे परा ।
भुजङ्गकुटिलाकारा यावद् ब्रह्मबिलं गता ॥ ३९
तत्र लयं कृत्वात्मना ब्रह्मद्वारं विभेदयेत् ।
पूर्णिमा कामरूपेण अमावास्या प्रवर्तते ॥ ४०
धरातत्त्वाच्छिवान्तं च विद्युज्जिह्वा महाज्वला ।
निर्गच्छेदूर्ध्वरन्ध्रेण यावत् साध्यस्य मूर्धनि ॥ ४१
द्वादशार्कसमाकारा प्रलयाग्निसमप्रभा ।
मध्यमाकर्षणं प्रोक्तं सर्वज्ञानप्रदर्शकम् ॥ ४२
षट्चक्रे षोडशाधारे उल्लसन्ती परा कला ।
काकचञ्चुपुटस्था सा अक्षपक्षक्षयंकरी ॥ ४३
तालुमध्ये तु नादान्ते बिन्दुं वेधयते परा ।
काकिनी काकरूपेण हंसिनी हंसविग्रहा ॥ ४४
विश्वेशी विश्वसंहारी संसारसरसारसी ।
एषा सा उन्मना सूक्ष्मा सर्वद्वन्द्वनिकृन्तनी ॥ ४५
अतीतानागता चैव वर्तमाना तु योगिनी ।
खेचरीचक्रसामान्या स्वेच्छया भवते ततः ॥ ४६
तस्योर्ध्वे खेचरीसिद्धिर्जायते वीरवन्दित ।
खगमा खगतिश्चैव खगतिखगमध्यगा ॥ ४७
खस्वरूपा खगेशी च कुब्जिका खगमा परा ।
षट्प्रकारा खगेशी सा सुषुम्णा व्योमरूपिणी ॥ ४८
तत्र संपश्यते योगी सिद्धांश्चैव अनेकधा ।
तदूर्ध्वे मोक्षमालयं भेदयित्वा च सुस्फुटम् ॥ ४९
प्रयत्नाद् दिव्ययोगीन्द्रः पूरयेच्छक्तिमुत्तमाम् ।
विशेन्निरामये तत्त्वे व्यापके निर्गुणे परे ॥ ५०
सर्वज्ञता सुतृप्तिश्च अनादिबोधमालयम् ।
स्वतन्त्रं नित्यमलुप्तमनन्तं शाश्वतं ध्रुवम् ॥ ५१
व्यापिनं व्योमरूपान्तं अनन्तनाथेनाश्रितम् ।
सुसूक्ष्मं च परं शान्तं गमागमनवर्जितम् ॥ ५२
तं ध्यायेद् नित्ययुक्तात्मा घनमाकाशसन्निभम् ।
निरञ्जनं परं शान्तं निर्वाणं निर्विकारकम् ॥ ५३
कुलोद्भवं कुलं कौलं अकुलं तु परापरम् ।
सा च रौद्री मयाख्याता राहुमुक्तो रविर्यथा ॥ ५४
सूर्यकोटिप्रतीकाशा कालानलसमप्रभा ।
ध्यायेत् तां नित्ययुक्तात्मा यावच्छक्त्या लयंगतः ॥ ५५
सन्निरीक्षत्यसौ तत्र रुद्राणां चरणं सदा ।
एवमभ्यस्यमानस्तु योगी तत्रैव लक्षयेत् ॥ ५६
नाभिमध्याद् विनिष्क्रान्ता शिखा दीपशिखोपमा ।
पश्यते तत्र मध्ये तु हुताशकणिकाकृतिः ॥ ५७
बिन्दोर्विसर्पते सा तु स्फुरमाणा स्वतेजसा ।
प्रवेशे हृदयान्तस्था कृत्वा तस्यैव कल्पनाम् ॥ ५८
ऊर्ध्वे तु सर्पते तस्मात् स्निग्धदीपशिखोपमा ।
स्फुरल्लिङ्गनिभां तन्तुं सूक्ष्मरूपां तु भेदयेत् ॥ ५९
सा च देवी ह्यहं तत्र कुब्जिकाकाररूपिणी ।
कण्ठरन्ध्रमनुप्राप्य विरमेत् सूक्ष्मरूपिणी ॥ ६०
ऊर्ध्वं सा च विनिष्क्रम्य तालुरन्द्रान्तगोचरे ।
घण्टिकाद्वारमार्गेण क्रमाख्ये बिन्दुगोचरे ॥ ६१
लक्षयेद् बिन्दुमध्ये तु शब्दस्तत्र नानाकृतिः ।
बिन्दोरूर्ध्वं विनिष्क्रान्ता कला सा कालकर्षणी ॥ ६२
ज्योतिरूपस्वरूपा सा निर्धूमाङ्गारवर्चसा ।
निर्वाणा शान्तरूपाख्या प्रसुप्ता अहिरूपिणी ॥ ६३
निराभासा सुप्रकाशा द्वादशान्ते समाश्रिता ।
शब्दाम्बरधराकारा श्वासनिःश्वासवर्जिता ॥ ६४
निःशब्दं परमं तत्त्वं अव्यक्तस्थानमुच्यते ।
तं वै स्थानं तु संप्राप्य योगी दिव्यगुणान्वितः ॥ ६५
दिव्यज्ञानं दिव्यचक्षुर्दिव्यतेजो नभाकृतिः ।
दिव्यदेहे प्रविष्टोऽसौ संसारत्यक्तचेतसः ॥ ६६
कालत्रयस्य वेत्तासौ अदृष्टज्ञानविग्रहः ।
स्वयं कर्ता स्वयं हर्ता इच्छारूपधरो भवेत् ॥ ६७
दिव्यं च कुरुते कर्म व्रतिनो योगवित् सदा ।
रन्द्रत्रयेण निर्गत्य पश्यते सूर्यबिम्बवत् ॥ ६८
कदम्बगोलकाकारं स्फुरन्तं तेजवर्चसम् ।
लक्षयेत् शिखा सूक्ष्मा द्वारत्रयविनिर्गता ॥ ६९
लीयते मण्डले तस्मिन् कदम्बाकारगोलके ।
भित्त्वा सूर्यं च सोमं च तृतीयं वह्निमण्डलम् ॥ ७०
इच्छाज्ञानीक्रिया तत्र ब्रह्मविष्णुमहेश्वराः ।
तत्र देवगणाः सर्वे सशैलवनकाननाः ॥ ७१
रेखात्रयं ततः पश्येन्महानासाग्रसंगमे ।
भस्मे वा सलिले वापि ज्ञानशूलं च विन्यसेत् ॥ ७२
तेन विन्दितमात्रेण प्रत्यक्षं देविदर्शनम् ।
तत्क्षणात् कुरुते वेधं जगत्स्थावरजङ्गमे ॥ ७३
प्रत्यक्षे वा परोक्षे वा शङ्खे पुष्पाञ्जलीघटे ।
चालनावेशनं कम्पं तडित्तरलगोचरम् ॥ ७४
कुरुते तानि कर्माणि अस्य योगप्रभावतः ।
तदासौ मानवो सिद्धः सिद्धिं प्राप्नोत्यखण्डिताम् ॥ ७५
दिव्या च जायते कान्तिं अणिमादिगुणाष्टकम् ।
भूतवेतालयोगिन्यो गुह्यका मातृकास्तथा ॥ ७६
एतेभ्यः सिद्धिमाप्नोति वेधसिद्धो वरानन ।
पद्मपत्रे फले तोये स्थावरे जङ्गमेषु च ॥ ७७
काष्ठे लोष्टे च पाषाणे योगी सर्वत्र वेधकः ।
नातः परतरं किञ्चित् त्रिषु लोकेषु विद्यते ॥ ७८
ज्ञात्वा वेधक्रमं देव त्रिषु लोकेषु दुर्लभम् ।
वेधयेन्मन्त्रतन्त्राणि परतत्त्वावलोकनात् ॥ ७९
अमृताख्या तु या शक्तिश्चन्द्रगर्भाद् विनिर्गता ।
ब्रह्मरन्ध्रं तु संप्राप्ता वेधयेद् भुवनान्तरम् ॥ ८०
भुवने भुवने वेधं विग्रहे विग्रहे स्मरेत् ।
आकारे तु महावेधं विग्रहे तरलकारकम् ॥ ८१
निर्धूमे धूमजं वेधं अर्केण चार्कजं विदुः ।
अनाख्ये तीव्रवेधं तु कथितं ते महेश्वर ॥ ८२
खद्योतेन महावेधं ज्योतिरूपं तथैव च ।
बिन्दोर्वेधं तथा नादे कलायां च तृतीयकम् ॥ ८३
घटवेधं महादेशं खवेधस्तथैव च ।
शक्तिवेधं तथा चोग्रं नानाश्चर्यप्रवर्तकम् ॥ ८४
शक्तिगर्भस्तथा हक्को व्योमचक्रे प्रवर्तते ।
वर्णजालं च शब्दस्थं व्यापकं तमनुस्मरेत् ॥ ८५
मनोबुद्धिरहंकारं यत्नतः सर्वरन्ध्रतः ।
प्रथयेत् परमे धाम्नि हृत्कण्ठे तालुमध्यतः ॥ ८६
नासिकान्ते यथा प्राप्तं कुरु कर्म यथेच्छया ।
वेधयेत् काष्ठपाषाणान् वृक्षाणि च वरानन ॥ ८७
काष्ठेन काष्ठवेधं तु तच्च ज्ञानविवर्जितम् ।
एवंयोगविधौ देव लब्धलक्षस्तु योगवित् ॥ ८८
प्रत्यक्षं कुरुते सर्वं यत्र यत्रैव योजिता ।
योगसिद्धो महादेव जायते भैरवः स्वयम् ॥ ८९
मदीयाज्ञाप्रभावेन कुलक्रमरतः सदा ।
अभिषेकं तस्य संजातं श्रीमच्चन्द्रपुरे गृहे ॥ ९०
कुचन्द्रशेखरो नाम आज्ञाधरो महाबलः ।
श्रीनाथं मित्रसंज्ञोऽयं श्रीकण्ठः तूष्णिसंज्ञया ॥ ९१
षष्ठमोडीशाचार्योऽयं सदाख्यं पिङ्गलं महत् ।
नवनामकृतं नाथं चिञ्चिवृक्षावलोकनात् ॥ ९२
नवधा तत्त्वमाख्यातं भूगृहं देवतालयम् ।
योऽसौ आज्ञापयेद् देवान् नाम्ना करणसंज्ञया ॥ ९३
भविष्यन्ति भवे ह्येते भविष्यन्ति हि दक्षिणे ।
एकधात्रिस्वरूपेण पञ्चसप्तनवार्णकम् ॥ ९४
षोडशान्तं क्रमान्तं च आयातं क्रमपद्धतौ ।
युग्ममष्टादशैर्भेदैः कथिता क्रमपद्धतिः ॥ ९५
एवं यो विन्दते देव वेधमार्गं कुलागमे ।
अग्निना दह्यते नैव शस्त्रैश्चापि न भिद्यते ॥ ९६
नोदके मृयते देव न च दुष्यति जन्तुभिः ।
भुञ्जते विविधान् भोगान् सदेवासुरमानुषान् ॥ ९७
दिव्यरूपो महाकान्तिः त्रिष्कालज्ञो भवत्यसौ ।
विद्धोऽयं तत्त्वतः प्रोक्तो यावद् देवं निरामयम् ॥ ९८
दर्शयेत् सर्वलोकस्य मायां च रचनाकुलाम् ।
शक्तिं तु कमलाकारां सूर्यकोटिसमप्रभाम् ॥ ९९
चन्द्रकोटिसहस्राणि विद्युत्कोटिशतानि च ।
हुताशनान्यनेकानि वायुवेगान् बहून्यपि ॥ १००
ईदृशं चिन्तयित्वा तु शक्तिरूपं विशेत् क्षणात् ।
वेधयेच्च जगत् सर्वं दिव्यशक्तिप्रभावतः ॥ १०१
सर्वध्यानमशेषस्य शाक्तं ध्यानं विशिष्यते ।
एवं यो जानते देव स च कौलीशमीश्वरः ॥ १०२
स चात्मा सर्वलोकानां स एव शाश्वतं पदम् ।
स वै ब्रह्मा स शक्रश्च चन्द्रादित्यौ स वै वह्निः ॥ १०३
यमश्च स च धर्मो वै स च वै मरुतो भवेत् ।
सर्वगः स विमुक्तात्मा तिष्ठते हंसवत् स्वयम् ॥ १०४
भवितस्तारणार्थाय अवतीर्णः कलौ युगे ।
यथाहं च यथा त्वं च तथासौ साधकोत्तमः ॥ १०५
संसाराच्चैव सारस्य सारमुत्तारणक्षमः ।
यो जानाति इदं शम्भो अग्रजन्मः स उच्यते ॥ १०६
वेधक्रमं च देवेश यो जानाति स देशिकः ।
पशुग्रहणवेधं तु सद्यःप्रत्ययकारकम् ॥ १०७
करोत्याज्ञाप्रसादेन कुलभेदेन भैरव ।
एका शक्तिः परा सूक्ष्मा विज्ञानानेककारिका ॥ १०८
गोपनीया प्रयत्नेन यदीच्छेद् दीर्घजीवितम् ।
श्रीनाथ उवाच
ईदृशं वेधविज्ञानं महदाश्चर्यकारकम् ॥ १०९
कीदृशं करणं चैव पशुवेधं वद प्रभो ।
श्रीवक्रा उवाच
शृणु नाथ प्रवक्ष्यामि सारात् सारतरं परम् ॥ ११०
षट्त्रिंशदंगुलाधारात् हृत् कण्ठं द्वादशांगुलम् ।
पशुं सन्मुखमास्थाय शक्तेरुच्चारसंवृतम् ॥ १११
लोलीभूतं ततो गृह्य आनयेच्च स्वकं पुरम् ।
रेचकेन तु विश्राम्य कुम्भकेन विदारयेत् ॥ ११२
संस्कारं पूरकेणैव प्रशान्तेन तु शोधनम् ।
निष्कले निर्मले शान्ते निष्प्रपञ्चे निरामये ॥ ११३
रेचकेन तु उद्धृत्य पूरकेन तु निक्षिपेत् ।
कुम्भके कुम्भवत् तिष्ठेदुद्भवं गोलकामृतम् ॥ ११४
तत्त्वे तत्त्वे तु संयोज्या विद्रुमाकाररूपिणी ।
शक्तिः कुटिलरूपेण सर्वसिद्ध्यर्थदायिका ॥ ११५
श्रीनाथ उवाच
सूचिता वेधदीक्षेयं उपायरहिता प्रभो ।
शाम्भवं ब्रूहि देवेशि न च योन्यां पुनर्भवः ॥ ११६
श्रीवक्रा उवाच
सरहस्यं कृतं चोद्यं संस्फुटं शृणु भैरव ।
श्रूयतां परमं ज्ञानं प्रत्यक्षं सर्वतोमुखम् ॥ ११७
योगिनीनां यथा बीजं त्वया गोप्यं तु सर्वदा ।
काकचञ्चुमयं स्थानं अध–ऊर्ध्वविवर्जितम् ॥ ११८
तालुमण्डलमध्यस्थं षोडशारं महाद्युतिः ।
तत्र सा रमते काचित् सर्वकामिकसंज्ञिका ॥ ११९
तस्मिन् स्थाने यदा स्पर्शस्तदा वेधयते पशून् ।
विन्दते च परं स्थानं शिवं सर्वगतं स्मरेत् ॥ १२०
एतत् ते कथितं वेधं श्रीमताख्ये मतोत्तमे ।
यो विजानाति तत्त्वेन तस्य तुष्यन्ति देवताः ॥ १२१
चतुःषष्टिमहाचक्रे खेचरीचक्रनायके ।
खेभूपातालवासिन्यो गुह्यकाश्चान्त्यजाश्च ये ॥ १२२
सहजाः कुलजाश्चैव तुष्यन्ति च पदे पदे ।
स्निग्धपद्मदलाकारैस्तारैस्तरलतारकैः ॥ १२३
आकर्णजातैः सरसैर्ललितैर्लोचनैः प्रिय ।
वीक्षन्ति योगिनीजस्य साधकस्य न संशयः ॥ १२४
यत्रस्थः स लभेदेव विधिना सुसमाहितः ।
निग्रहानुग्रहं वाथ सिद्ध्यते ह्यविचारतः ॥ १२५
चलचक्रविभागेन षट्चक्रे लक्ष योजयेत् ।
पुनश्चाल्य पुनावेश्य पुनश्चाल्य प्रसन्नधीः ॥ १२६
चालनावेशनाच्चैव तदा वेधयते पशून् ।
योगेन वेधयेत् पिण्डं पिण्डोदरपुटीकृतम् ॥ १२७
पिण्डेन वेधयेत् पिण्डं पिण्डं पिण्डेन साधयेत् ।
स्वमात्मा बहिरात्मा च एकत्र विनिवेशितौ ॥ १२८
आत्मनात्मा पुरा शोध्यः शक्तिपातेन तत्त्ववित् ।
एतन्मे कथितं देव तव भक्त्या तु भैरव ॥ १२९
अकुलास्ते विभाषन्ते सर्ववर्णाद् विजातयः ।
भविष्यन्ति युगस्यान्ते म्लेच्छराज्यसमुद्भवे ॥ १३०
अल्पायुषोऽल्पचैतन्या नराः पलितयौवनाः ।
अगम्यगमनाश्चैव सदाचारविवर्जिताः ॥ १३१
अतिलौल्याः प्रसक्ताश्च विप्लवन्ति यतस्ततः ।
गुरुसुश्रुषणं नास्ति न मातापितृसुश्रुषाः ॥ १३२
भविष्यन्ति कलिस्यान्ते साधकाः कौलसंस्थिताः ।
चातुर्वर्णा भविष्यन्ति ब्राह्मणाश्च विशेषतः ॥ १३३
उत्तमा वेदविद्वांसा अन्त्यजाश्च तथापरे ।
अन्त्यजानां द्विजानां च एकत्र चरुभोजनम् ॥ १३४
भविष्यति कलिस्यान्ते तवाख्यातमशेषतः ।
तेन मन्दतरा आज्ञा भविष्यति न संशयः ॥ १३५
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते वेधदीक्षाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ३१ ॥
Kumārikākhaṇḍa – Kapitel ३२
द्वात्रिंशानन्दः
श्रीवक्रा उवाच
अधुना संप्रवक्ष्यामि मेरुमध्योदयं महत् ।
येन विज्ञातमात्रेण अवतारः प्रवर्तते ॥ १
सुमन्तः प्रमुखो भूतिः सुमुखो बलवान् निधिः ।
प्रतापी च प्रमाधी च प्रहर्षो विजयोऽनुरक्तः ॥ २
सुधन्यो धनवान् धारी कालो वै श्रवणो यमः ।
मरीचिर्विरजो वाग्मी विपुलश्च कुली पतिः ॥ ३
इन्द्रजित् हिमवान् मौली कामदः शंखबोधकौ ।
विश्वाङ्गी शुभदः क्रूरः अचिन्त्यो विजयी पतिः ॥ ४
सुमाली शर्वरः कान्तः शुचिर्वादी शुचिव्रतः ।
कुलजिह्वः समः शक्रः सुमन्त्री वनवान् मधुः ॥ ५
गान्धारी टंकवृत् शार्वः शूरो भट्टश्च विक्रमः ।
उद्घोषो भृगुः श्रीवत्सः कौस्तुभो मलयो रथी ॥ ६
विकटः शंकरो गर्वः सुनन्दो हनुमन्तकः ।
विश्वाङ्गो विश्वजिद् वाग्मी कश्मलश्चामलस्तथा ॥ ७
भीमसेनः सुभीमश्च भीमरूपो महाबलः ।
वसुर्वसुभृतो धाता वसवो वासवो गुरुः ॥ ८
तेजस्वी सर्वदर्शी च सर्वात्मा प्रियवादिनः ।
प्रेतवासः प्रियः स्वाती विशाल अभयः शशिः ॥ ९
शृङ्गारी सुन्दरो रत्नः विचित्रो भोगडम्भकः ।
महाहर्षो महाजिह्वः क्रकचः शूलदण्डिनः ॥ १०
शतक्रतुश्च दक्षश्च वर्षमेतच्छतक्रतुः ।
अब्दोदयमिदं प्रोक्तं सुमन्तादौ दक्षान्तिकम् ॥ ११
चक्रवत् परिवर्तन्ते सुमन्ताद्युदयो भवेत् ।
दक्षान्ते तु क्षये प्राप्ते सुमन्ते च प्रवर्तते ॥ १२
उदयास्तमने चैव ज्ञातव्यास्तु कृतादिषु ।
दक्षः शतशतातीते शताब्दशतकेन तु ॥ १३
ततो दक्षांशके शेषे शिवमासे शिवाष्टमी ।
पश्चिमे उदयं जातं सिद्धनाथाभिषेचितम् ॥ १४
एवमब्दोदयं नाम दैविकं समुदाहृतम् ।
वेत्ति यो देशिकेन्द्रस्तु सोऽधिकारी कुलान्वये ॥ १५
श्रीनाथ उवाच
ऐहिकामौष्मिकं चैव पशूनां पापमोचनम् ।
कथं गुरुं परीक्ष्येत वेधविज्ञानपारगम् ॥ १६
बहवो विचरन्त्यस्मिन् गुरवः पृथिवीतले ।
सद्गुरोर्लक्षणं ब्रूहि श्रोतुमिच्छामि तत्त्वतः ॥ १७
शिष्याणामपि देवेशि लक्षणं तु यथार्थतः ।
ब्रूहि दीक्षाविधानेन स्फुटार्थं पुनरेव हि ॥ १८
समयाचरणं चैव निर्वाणं च वदस्व मे ।
श्रीवक्रा उवाच
साधु साधु महाशम्भो पृच्छसे मां सुविस्तरम् ॥ १९
सर्वं यथाक्रमेणैव वक्ष्यामि शृणु साम्प्रतम् ।
येन सर्वत्र योगीनां महाव्याप्तिः प्रवर्तते ॥ २०
मायारूपधरा देव आचार्याः पृथिवीतले ।
देशिकाचारमाश्रित्य जीविकां कल्पयन्ति ये ॥ २१
कुलभ्रष्टाः कृपाहीनाः कुत्सिते सर्वदा रताः ।
मद्यमांससमासक्ताः चपलाश्च सडम्बकाः ॥ २२
पैशुन्यनिरताश्चैव क्षूद्रकर्मरताः सदा ।
अहंकृताः शठाः क्रूराः मिथ्याज्ञाज्ञानभाषकाः ॥ २३
कलिकर्ता मदोन्मत्ताः सततं परनिन्दकाः ।
लोभासक्ताश्च मोहाढ्या वञ्चने सततोद्यताः ॥ २४
परोपदेशं चिन्वन्ते कृत्रिमव्यवहारकाः ।
एतैरेव गुणैर्युक्ता आचार्यनामधारकाः ॥ २५
भक्षाद्वैतरता नित्यं न ते पूज्या महीतले ।
गुरुद्रव्याभिलाषिन्यो योगिनीद्रव्यभक्षकाः ॥ २६
चण्डाश्च हिंसकाश्चैव कापालिका विशेषतः ।
वीरद्रव्याभिलाषिनः च पूजासंस्कारवर्जिताः ॥ २७
प्रायाश्चित्तीचलाचार्या अभक्षभक्षणे रताः ।
अपेयपाननिरताः परिहार्याः प्रयत्नतः ॥ २८
गुर्वाज्ञां लङ्घयेद् यो हि नरकान्न निवर्तते ।
तैस्तु ये दीक्षिताः शिष्या न ते कल्याणभाजनाः ॥ २९
दीक्षयन्ति च लोभेन मोहविषयकंक्षया ।
वेधदीक्षाविहीनाश्च चुम्बकाः क्रमतल्पगाः ॥ ३०
ते पूजारहिता देव पतन्ति नरकार्णवे ।
तरुस्तारयते नद्यां न शिलां तारयते शिला ॥ ३१
तथैव निर्गुणाचार्यस्तारयेन्न भवार्णवात् ।
वर्जनीयः प्रयत्नेन मतबाह्यो विधीयते ॥ ३२
चातुर्वर्णेषु आचार्यान् श्रूयतां कमलानन ।
ब्राह्मणः क्षत्रियो वाथ वेश्यः शूद्रोऽपि मद्यपः ॥ ३३
चातुर्वर्णं मया चोक्तं आचार्याणां लक्षणं यथा ।
तीव्राज्ञाबोधसंपन्नाः श्रीमतार्थावबोधकाः ॥ ३४
ज्ञानविज्ञानसंपन्ना गुर्वाज्ञाप्रतिपालकाः ।
निर्मला निष्प्रपञ्चाश्च निर्ममा निष्परिग्रहाः ॥ ३५
अनुद्विग्नाः सदानन्दा निर्लेपा निर्विकल्पगाः ।
क्षमान्विता दयायुक्ता सत्यवादी जितेन्द्रियाः ॥ ३६
अहिंसातत्परा सर्वे सर्वजीवदयापराः ।
शान्तचित्ताः सदाचाराः द्वन्द्वत्यागी दृढव्रताः ॥ ३७
न स्त्रीलोल्या न च क्रूराः क्षुद्रकर्मपरान्मुखाः ।
दिव्यज्ञानेन संतृप्ताः उदाराश्च प्रसन्नधीः ॥ ३८
गोत्रवात्सल्यसद्भक्ताः राजद्रव्यमुपेक्षकाः ।
गुरुपर्वाधिकारिनो आज्ञापरा महाबलाः ॥ ३९
योगिनः प्रियवादिनो दाता भोक्ता अयाचकाः ।
वेदान्तं वाथ सिद्धान्तं तथान्यं वामदक्षिणम् ॥ ४०
न दूषयन्ति शास्त्राणां सद्भक्ताश्च कुमारीनाम् ।
योगियोगिनिवीराणां देशद्रष्टा न क्षुद्रकः ॥ ४१
त्रिष्कालज्ञानिनो धीरः शापानुग्रहकारकः ।
प्रत्यक्षे च परोक्षे वा वेधदीक्षाविशारदः ॥ ४२
अनुष्ठानरतः शान्तो लघ्वाशी च सुयन्त्रितः ।
दिव्यानन्दरतो नित्यं नित्यं शुचिः पवित्रकः ॥ ४३
कुलकौलाप्तविभवः पश्चिमान्वयपारगः ।
अजुगुप्सी सर्ववेत्ता धातुर्वरमुपेक्षकः ॥ ४४
समयाचारपालज्ञः पारम्पर्यविशारदः ।
संकेतज्ञानी विद्वांसः सतताव्यक्तलिङ्गिनः ॥ ४५
साधुमार्गप्रपन्नस्तु असन्मार्गमुपेक्षकः ।
लोकधर्मप्रपन्नश्च वेलाशी निष्परिग्रहः ॥ ४६
क्रियाकाण्डरतः शान्तः एकान्तः पुरवासिनः ।
सुभट्टो मानधारी च सर्वशास्त्रार्थपारगः ॥ ४७
सर्वदा हृष्टमानसः त्यागी सर्वजनप्रियः ।
दीक्षाप्रतिष्ठाकुशलः तत्तदर्थपरिग्रही ॥ ४८
स त्यागी धर्मपालज्ञः कालसेवी न हिंसकः ।
वीरमार्गप्रपन्नात्मा मद्यगोष्टिमुपेक्षकः ॥ ४९
भट्टभार्यो विशुद्धस्तु पशुमार्गमुपेक्षकः ।
उन्मनो मदनावस्थः तन्त्राचारविवर्जितः ॥ ५०
प्रतिष्ठादिविनिर्मुक्तः सत्यशौचरतः सदा ।
शिष्यवर्गविचारज्ञः निर्मुक्तः शुद्धचेतसः ॥ ५१
श्वेतवस्त्रपरीधानः मुक्तकेशी दिगम्बरः ।
सुभगो दर्शनी वाग्मी नानाव्रतमुपेक्षकः ॥ ५२
स्वेच्छावेशधरो वाथ सुधौतो मतिलम्पकः ।
रागद्वेषसमासक्तो दुराचारोऽथ वा भवेत् ॥ ५३
प्रत्यन्तवासी आचार्यः दूरतः परिवर्जयेत् ।
साधुदेशसमुद्भूतो निग्रहानुग्रहक्षमः ॥ ५४
आचार्येदृक् समाख्यातः अन्वयेऽस्मिन् शुभप्रदः ।
ईदृशं तु गुरुं प्राप्य को न मुच्यति बन्धनात् ॥ ५५
आचार्यलक्षणं प्रोक्तं शिष्याणामधुना शृणु ।
नापरीक्षितशिष्याणां योग्यता पश्चिमान्वये ॥ ५६
सुभक्तश्च विनीतश्च पितृमातृप्रपूजकः ।
सदा धर्मरतः शान्तः त्यागी आचारवान् सदा ॥ ५७
गुरुपादार्चनरतः देवाग्निगुरुपूजकः ।
संसारभयभीतात्मा मुक्तिमार्गाभिलाषिणः ॥ ५८
अधूर्तो मतिमान् शान्तस्तर्कशास्त्रमुपेक्षकः ।
योगिनीनां सदा भक्तः कुमारीणां प्रपूजकः ॥ ५९
अक्रोधिनो अपिशुनः यत्नेन सुपरीक्षितः ।
उदारार्थपरिच्छेदी अशठः सत्यवाक् सदा ॥ ६०
शरीरं प्राणसर्वस्वं गुरवे विनिवेदकः ।
कर्मणा मनसा वाचा त्रिशुद्धो भक्तिवत्सलः ॥ ६१
शाठ्यमात्सर्यनिर्मुक्तः परदारमुपेक्षकः ।
मुक्तिज्ञानाभिकांक्षी च शिष्योऽयं कुलदीपकः ॥ ६२
अविवादी न विद्वेष्टो नतो ज्येष्ठजने सदा ।
समयाचारपालज्ञः निमित्तक्रमपूजकः ॥ ६३
देवार्चनरतो नित्यं गोत्रवात्सल्यतत्परः ।
एवंभूतगुणी शिष्यः नानात्वेन परीक्षितः ॥ ६४
दीक्षार्हो हि भवेत् सो वै तीव्राज्ञयावलोकनात् ।
अन्यथा विपरीतार्थयुक्तो दीक्षयते शिशुः ॥ ६५
स आचार्यः स शिष्यस्तु रौरवं नरकं व्रजेत् ।
व्राह्मणा क्षत्रभृच्छूद्रा अन्ये वा अन्त्यजातयः ॥ ६६
सर्वे शिष्याः प्रकर्तव्या नात्र कार्या विचारणा ।
भावभक्तिविशुद्धा ये विरक्ताः पृथिवीतले ॥ ६७
जातिं तेषां न गृह्णीयाद् भक्तिमेषां परीक्षयेत् ।
ब्राह्मणस्तु अभक्तश्च चण्डालः स विधीयते ॥ ६८
भक्तिमान् यदि चण्डालो ब्राह्मणः स विधीयते ।
जातिभेदेन किं तेन भक्तिरेवात्र कारणम् ॥ ६९
पण्डितोऽप्यविवेकी तु मूर्खतुल्यो महीतले ।
मूर्खोऽपि हि विविक्तश्चेत् विशुद्धो भक्तितत्परः ॥ ७०
विबुधस्तु स विज्ञेयः स योग्यः कुलसन्ततौ ।
कुपात्रे कुत्सिते मूर्खे भक्तिहीने कुसंगते ॥ ७१
शठे च दूषके चैव कौलत्वं न समाचरेत् ।
अथवाप्याचरेद् यो वै द्रव्यलोभेन मोहितः ॥ ७२
योगिन्यस्तस्य कुप्यन्ति भक्षयन्ति वसामिषम् ।
तस्मात् सर्वप्रयत्नेन दीक्षां लोभान्न कारयेत् ॥ ७३
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिकारे आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते गुरुशिष्यलक्षणाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ३२ ॥
Kumārikākhaṇḍa – Kapitel ३३
त्रयस्त्रिंशानन्दः
श्रीवक्रा उवाच
सुपरीक्षितशिष्यस्य कुलदीक्षां ब्रवीम्यहम् ।
योगदा भोगदा चैव दीक्षा च द्विविधा स्मृता ॥ १
परोक्षे योगदा प्रोक्ता प्रत्यक्षे भोगदा भवेत् ।
द्वावेतौ संप्रवक्ष्यामि तव भक्त्या च भैरव ॥ २
हृदयं चलते वेगादग्निज्वालामिवात्मनि ।
तालुरन्ध्रं व्रजत्याशुः स्फोटशब्दं तदा भवेत् ॥ ३
तन्मनश्चञ्चलं विद्धं मनो निश्चलतां व्रजेत् ।
दीपवत् दृश्यते रौद्री हंसस्य गतिपूरणात् ॥ ४
पश्यते तेन शक्तिं * उच्छालत्वं प्रपद्यते ।
तत्त्वदृष्टिः समायाति त्रितीयं नयनं भवेत् ॥ ५
निर्वाणस्य तदा प्राप्तिर्बिन्दुरूपं प्रपश्यति ।
अद्वैतपदसंप्राप्तिर्यदा निश्चलतां गतः ॥ ६
द्वन्द्वत्यागं कालग्रन्थ्या लोलीभूतं परे पदे ।
दृढलक्षाजडत्वं च मातृचक्रपरिग्रही ॥ ७
भूतं चैव भविष्यं च वर्तमानं हितायते ।
जलधारा पतत्याशुर्नाडीसंकोचनं तथा ॥ ८
अग्निप्रवेशमपरं समाधौ च प्रपश्यति ।
वेतालैः सह संवादमाशीर्वादं च श्रूयते ॥ ९
दिव्यज्ञानं प्रपश्येत दिव्यकान्तिश्च जायते ।
एवं ते चतुराशीतिः अवस्थाः परिपाठतः ॥ १०
यथा ह्येका तथा सर्वाः चिन्हमेतत् कुलक्रमे ।
निर्दिष्टं शिष्यपुत्राणां तेषां ये मुक्तिभाजनाः ॥ ११
अवस्थाहीना ये शिष्याः क्रमिकं लङ्घयन्ति च ।
न ते मुक्तिमवाप्यन्ते कल्पकोटिशतैरपि ॥ १२
बीजहीनान् विजानीयात् तेषां नैवोद्भवं क्वचित् ।
पुनर्दीक्षाहीनाः सर्वे मलक्षयविवर्जिताः ॥ १३
तीव्राज्ञा शक्तिपातेन वेधाज्ञाया महेश्वर ।
अवस्थाज्ञां विना देव प्रत्ययं नैव जायते ॥ १४
प्रत्ययेन विहीना ये पशवस्ते प्रकीर्तिताः ।
परोक्षवेधं देवेश अवस्थाः संप्रवक्ष्यते ॥ १५
षडध्वकृतसंस्कारा अवस्थापरिवर्जिताः ।
दीक्षितास्तेऽपि पशवः कीर्तिताः सिद्धशासने ॥ १६
परोक्षवेधविद्धानां अवस्थाः प्रभवन्ति हि ।
मलक्षयं तदा जातं इत्याज्ञा पारमेश्वरी ॥ १७
योगदा कथिता दीक्षा आज्ञाया योजनाशतैः ।
तत्त्वदीक्षा षडध्वनि तत्त्वमन्त्रपदात्मिका ॥ १८
वर्णभुवनसंयुक्ता रजकुण्डसमण्डला ।
अस्मिन् श्रीकुलसन्ताने दीक्षा च द्विविधोदिता ॥ १९
तन्त्रकौलिकभेदेन होत्री वेधवतीति च ।
मन्त्रजापप्रसक्तानां होत्री सर्वत्र दर्शिता ॥ २०
आज्ञापूर्वा योगदा च वेधदीक्षा सुदुर्लभा ।
स्वगुरोः पादुकाध्यानात् कम्पते देहपञ्जरम् ॥ २१
विधानं वेधदीक्षायां साम्प्रतं कथयाम्यहम् ।
वेधान् च मानवे शिष्ये दीक्षाकाले प्रयोजयेत् ॥ २२
पुष्पं शङ्खाभिषेकं च तुलाप्रत्ययमेव च ।
स्तोभनं पालनं चैव दीक्षा पञ्चविधा स्मृता ॥ २३
पुष्पैरञ्जलिमापूर्य स्वयमारुह्य मस्तके ।
मन्त्रशक्तिप्रभावेन तदा पुष्पाभिषेचनम् ॥ २४
करस्थं शङ्खपात्रं यत् पुष्पाक्षतसमन्वितम् ।
आरुहेत् क्रमशो मूर्ध्नि तदा शङ्खाभिषेचनम् ॥ २५
तुलया शोधितः शिष्यो दीक्षयेत् तदनन्तरम् ।
कर्मच्छेदात् लघुत्वं हि तुलाप्रत्ययः स्मृतः ॥ २६
लिखित्वा षड्दलं पद्मं बाह्यतो वज्रमण्डलम् ।
तन्मध्ये स्थापयेच्छिष्यं योगिनीद्रव्यसंयुतम् ॥ २७
संपूज्य योगिनीवृन्दं गन्धधूपस्रगादिभिः ।
अवलोकनात् तदा व्याप्तिः सर्वाङ्गेषु प्रकम्पनम् ॥ २८
विद्धः पतति निःसंज्ञो नात्र कार्या विचारणा ।
एवं दीक्षाविधिर्भाव्या पारम्पर्यक्रमागता ॥ २९
दीक्षा च त्रिविधा प्रोक्ता आणवा शाक्तशाम्भवा ।
प्रत्यक्षे आणवा प्रोक्ता शाक्ता या सा च पञ्चधा ॥ ३०
षडध्वकृतसंस्कारा दीक्षा सा शाम्भवा स्मृता ।
येन केनापि मन्त्रेण पाशस्तोभोऽभिजायते ॥ ३१
कालान्तरगतातीता आणवा संप्रकाशिता ।
दर्शनात् स्पर्शनाच्चैव वाचिका मानसी तथा ॥ ३२
एवं चतुःप्रकारा च आणवा सा विधीयते ।
दण्डं कन्था पटं पात्रं इत्यादिस्पर्शनेन तु ॥ ३३
अङ्गस्य स्पर्शनाद् वापि स्पर्शवेधस्तदुच्यते ।
योजनानां शतैर्वापि पञ्चभिर्वा वरानन ॥ ३४
दूरादपि क्रमेदाज्ञा त्रिशुद्धिर्भक्तिवत्सल ।
तस्य शक्तिर्गुरोराज्ञा कारुण्याद् देवता भवेत् ॥ ३५
तदेव गुणसंप्राप्तिर्मानसीवेध उच्यते ।
मानसं वेधनं शम्भो स्पर्शवेधं द्वितीयकम् ॥ ३६
दृष्टिवेधं तृतीयं तु दुर्गवेधं चतुर्थकम् ।
एवं चतुष्प्रकारा तु ज्ञानदीक्षा प्रतिष्ठिता ॥ ३७
अन्तजं दीक्षयेच्छिष्यं दृष्टिवेधः स उच्यते ।
एवमुक्ता महादीक्षा सद्यःप्रत्ययकारिका ॥ ३८
ज्ञानदीक्षाविधानेन शिष्यो लब्धगुर्वाज्ञो यः ।
दीक्षोपकरणं सर्वमानयेद् गुरुसन्निधौ ॥ ३९
सुगन्धमक्षतं पुष्पं धूपं दीपं चरुं तथा ।
भक्षं भोज्यं तथा पानं वस्त्रादिसहिरण्यकम् ॥ ४०
गजाश्ववाहनादीनि द्रव्योपकरणानि च ।
कृत्वा संपूर्णतः सर्वं विनिवेद्य गुरोग्रतः ॥ ४१
पूजयेद् योगिनीवृन्दं कुमार्याश्चैव भक्तितः ।
कटकंकणवस्त्राद्यैर्दिव्यैराभरणैस्तथा ॥ ४२
गुरुपूर्वाणि सर्वाणि परिधाय स्वशक्तितः ।
ततः पश्चाच्छरीरं स्वं श्रीगुरुभ्यो निवेदयेत् ॥ ४३
अथवा वित्तहीनोऽसौ गुरोः क्लेशपरायणः ।
कृत्वा दण्डनमस्कारं सर्वस्वं विनिवेदयेत् ॥ ४४
धनाढ्यं धनहीनं वा त्रिशुद्धिर्भक्तिवत्सल ।
ज्ञात्वा परीक्ष्य आचार्यः कारुण्यादवलोकयेत् ॥ ४५
भवते दृष्टिविश्रामात् स विद्धः पतति क्षणात् ।
अकथ्यं ज्ञानसद्भावं स शीघ्रं समुदीरयेत् ॥ ४६
आनन्दमुद्भवः कम्पो निद्रा घूर्मिस्तु पञ्चमी ।
तत्त्वविद्धस्य शिष्यस्य पञ्चावस्था प्रपद्यते ॥ ४७
भूमित्यागं पुरक्षोभं मुद्रावेधास्त्वनेकधा ।
दूराच्छ्रवणविज्ञानं कौलभाषाप्रवर्तनम् ॥ ४८
सर्वमन्त्रमनोन्मादो गीतं च हसितं तथा ।
नृत्यं च वलनं चाद्यं स्वेच्छया संप्रवर्तते ॥ ४९
पूर्वोक्ता हि गुणाः सर्वे उत्पद्यन्ते न संशयः ।
तद्विश्रामात् सहस्रं तु तल्लीने लक्षमेव च ॥ ५०
तस्मिनेव लयातीते तीव्राज्ञायाः प्रभावतः ।
प्राप्नोति परमं स्थानं जरामरणवर्जितम् ॥ ५१
एवं दीक्षाविधानं तु त्रिविधं योगनायक ।
मानवः स्मरणाच्चैव तृतीयश्चावलोकनात् ॥ ५२
एवं सा विविधा दीक्षा पञ्चावस्थाप्रपादिका ।
श्रीभैरव उवाच
अद्य मे सफलं जन्म येन त्वं वरदा मम ॥ ५३
योगदीक्षा मया ज्ञाता सद्यःप्रत्ययकारिका ।
षडध्ववर्जिता या सा ज्ञाता मे त्वत्प्रसादतः ॥ ५४
किन्तु पृच्छाम्यहं देवि तत्त्वाम्नायकमागतम् ।
षडध्वदीक्षाभेदं च ब्रूहि मे परमार्थतः ॥ ५५
श्रीवक्रा उवाच
शृणु नाथ प्रवक्ष्यामि यत् त्वया परिपृच्छितम् ।
तत् सर्वं निपुनं देव तथ्येन मुनिनायक ॥ ५६
षडध्वसंस्कृता दीक्षा योगदा तत्त्वविस्तरात् ।
विद्यमाना कुलाम्नाये तत्र तेऽद्य ब्रवीम्यहम् ॥ ५७
आदौ परीक्षयेद् भूमिं वास्तुविद्याविशारदः ।
खानयेत् सप्तहस्तानि पुनः खातं प्रपूरयेत् ॥ ५८
पांसुरभ्यधिका यत्र सा भूमिः सर्वकामदा ।
शोधयेत् तां प्रयत्नेन तुषशल्यविवर्जिताम् ॥ ५९
कण्टकाङ्गारकेशाद्यैः कारयेत् तां प्रयत्नतः ।
मध्याज्यं च तथा क्षीरं तक्रं पञ्चद्रुमत्वचा ॥ ६०
त्रिफला बीजवृक्षस्य सारं चैव तु खादिरम् ।
एतैस्तु उदकं कृत्वा सिञ्चयेत् तां पुनः पुनः ॥ ६१
ईशान्यां तु प्रकर्तव्यं मण्डलं सर्वकामदम् ।
तच्च पूर्वक्रमेणैव मूलसूत्रेण कथ्यते ॥ ६२
अष्टम्यां वाथ भूताख्या पौर्णमास्याथ सप्तमी ।
दशमी नवमी वाथ तृतीया द्वादशी भवेत् ॥ ६३
कृष्णपक्षेऽथ शुक्ले वा कारयेन्मण्डलं शुभम् ।
ग्रीष्मे वाथ वसन्ते वा शिशिरे शरदेऽपि वा ॥ ६४
उपसन्ना महावीरा भक्तिवन्तः शुचिव्रताः ।
परीक्षा यैः समुत्तीर्णा यथा शास्त्रे निदर्शिता ॥ ६५
शूद्रो द्वादशभिर्वर्षैर्वेश्यो नवभिरेव च ।
क्षत्रियः षड्भिरब्दैश्च ब्राह्मणस्तु तदर्धतः ॥ ६६
परीक्षेद् विपरीतेन कर्मणा कथयाम्यहम् ।
अधमश्चोत्तमे कर्मे उत्तमोऽधमकर्मणि ॥ ६७
एवं नानाप्रकारैस्तु सुपरीक्ष्याः प्रयत्नतः ।
परीक्षायाः समुत्तीर्णाः सुयोग्याश्च सुशासिताः ॥ ६८
तेषामनुग्रहः कार्यो यथायोग्यं फलस्य तु ।
विलोमान् वर्जयेद् यत्नान्न ते चान्वयभाजनाः ॥ ६९
नायोगिनीकुले जाता दीक्षां विन्दन्ति शासने ।
कुशिष्यान् यदि लोभेन मोहाद् वा यदि दीक्षयेत् ॥ ७०
उभयोरचिराद् विघ्नं जायते नात्र संशयः ।
एवं ज्ञात्वा महामन्त्री उपसन्नो महाधीमान् ॥ ७१
आज्ञापयेत् तदाचार्यो द्रव्यसंभारसंभृतिम् ।
क्रियतामविकल्पेन ततः पूज्या कुमारिका ॥ ७२
पूजयेत् तत्र देवेशं महाश्रीयागमण्डपे ।
लोकपालैः समायुक्तं द्वारपालैः समन्वितम् ॥ ७३
चूतपल्लवसंच्छन्नं स्रगमालावलम्बितम् ।
कलशाष्टकं दिग्विदिक्ष्वीशान्यां कुलकुम्भकः ॥ ७४
अस्त्रवर्धनिसंयुक्तं पुष्पमालासुपूजितम् ।
पूजयेत् तत्र देवेशं नवात्मानन्दभैरवम् ॥ ७५
कुण्डं तु कारयेद् देव विधिविस्तरशोधितम् ।
हस्तमात्रमधः खातं त्र्यश्रं चैव त्रिमेखलम् ॥ ७६
एवं कृत्वा तु देवेश पश्चाद् यजनमारभेत् ।
आदौ तु मण्डले पूजां कारयेत् सुसमाहितः ॥ ७७
पूजयेद् देवदेवेशं नवात्मानं महाद्युतिम् ।
तस्योत्संगगता देवी परा चैकाक्षरा भवेत् ॥ ७८
पद्महस्ता महाकाया शान्तरूपा वरप्रदा ।
पिबन्तीं मदिरां दिव्यां विहसन्तीं मदोत्कटाम् ॥ ७९
तथा मातृगतां बाह्ये यथोक्तं संप्रपूजयेत् ।
नैवेद्यं द्विविधं दद्यात् सुरासवसमन्वितम् ॥ ८०
एवं पूजा प्रकर्तव्या क्रमं संपूज्य भक्तितः ।
पूर्वं यत् सूचितं तुभ्यं दिव्यसंभारसंभृतम् ॥ ८१
तथा संपूज्य देवेशं विज्ञायेत् परमेश्वरम् ।
अच्छिद्रं कुरुते नाथ अस्मिन् श्रीयागमण्डपे ॥ ८२
तथा संसिद्धिदं देव भवते त्वत्प्रसादतः ।
गत्वा चाग्निसमीपे तु यथानुक्रमयोगतः ॥ ८३
गर्भाधानादिकं कर्म शिवान्तं यावदेव हि ।
कर्तव्यमविचारेण आहुतिं पञ्चपञ्चभिः ॥ ८४
हुत्वा चैव ततः पश्चात् पूजनं पूर्ववत् कुरु ।
तर्पयेन्मण्डलान्तःस्थं द्वात्रिंशाक्षरविद्यया ॥ ८५
स्थण्डिलस्थं वरारोह आत्मस्थं च विशेषतः ।
कर्तव्या विधिवत् पूजा सदा एकान्तसत्क्रिया ॥ ८६
बलिं च वटुकं देवं क्षेत्रपालादि योगिनीम् ।
दत्वा निवेद्य संकल्प्य विद्यापीठे क्रमस्य च ॥ ८७
ततः प्रवेशयेच्छिष्यं पुष्पहस्तं सुयन्त्रितम् ।
देवस्य पश्चिमे भागे पुष्पं मुञ्चापयेत् ततः ॥ ८८
प्रणिपत्य महादेवं गच्छेत् कुण्डसमीपतः ।
षडध्वं मनसा ध्यात्वा शरीरे विनिवेशयेत् ॥ ८९
तर्पणं सन्निधानार्थं आदिक्षान्तस्य सुव्रत ।
चरुकं प्राशयेन्मन्त्री क्षीरेणामृतवत् सदा ॥ ९०
श्यामाकन्दलैर्देव शालिना वा प्रियंगुभिः ।
मसुराश्च यवा देव तथा गोधूमव्रीहिभिः ॥ ९१
सौवर्णे रौप्यताम्रे वा अथवा मृन्मयेऽपि वा ।
पात्रे च निर्व्रणे स्निग्धे बालबालुकवर्जिते ॥ ९२
अस्त्रेण शोधयित्वा तु ज्वालयेन्मूलविद्यया ।
शिवाग्नौ चोल्मुकं गृह्य बहिरन्ते तु दीपयेत् ॥ ९३
स्थापयेत् तत्र चाग्नौ तु कृतरक्षः प्रसन्नधीः ।
घृतादिना ततः स्थालीं कृत्वा क्षीरपरिप्लुताम् ॥ ९४
स्थापयेद् वह्निमध्ये तु यथा सा निश्चला भवेत् ।
चालनं मूलमन्त्रेण द्वात्रिंशाक्षरविद्यया ॥ ९५
सितासितपिधानं तु कर्तव्यं मूलविद्यया ।
प्रोक्षणं चालनं चैव कर्तव्यं सततं बुधैः ॥ ९६
सिद्धपात्रं स्थितं कृत्वा दशभागानि कारयेत् ।
प्रथमं स्थण्डिले देयं द्वितीयमुत्तरे दिशि ॥ ९७
तृतीयं चैव आग्नेयं चतुर्थमात्मनस्य तु ।
नैवेद्यं तु त्रिभिः स्थानैः बलिं दत्वा तु बाह्यतः ॥ ९८
पालानां तु मातराणां तु क्षेत्रभूतप्रपालकान् ।
एवं संतर्पयित्वा तु पश्चादाचमनं कुरु ॥ ९९
प्रणिपत्य ततो देवं स्तुत्वा चैव समासतः ।
दन्तकाष्ठं ततो दद्यात् सक्षीरं ग्रन्थिवर्जितम् ॥ १००
तालमेकायतं कार्यं ऋजुः स्निग्धं सुशोभनम् ।
चूतमर्जुनवृक्षोत्थमश्वत्थमथापि वा ॥ १०१
अथाश्वत्थादिकं देव उक्तं पुष्पादिसंहितम् ।
दद्यान्मन्त्राणि मन्त्रित्वा सर्वकामफलप्रदः ॥ १०२
पातं तस्य विलक्ष्येत शोभनं वाप्यशोभनम् ।
वारुण्यां भवते श्रेष्ठं सन्मुखश्चोत्तमं भवेत् ॥ १०३
उत्तरा सा शुभा विद्याद् ईशान्यां च तथोत्तमम् ।
अन्येषु तु महादेव दिशेषु च विलोमतः ॥ १०४
लक्षयेत प्रयत्नेन आचार्यः सुसमाहितः ।
शुभे सिद्धिमवाप्नोति अशुभे होममाचरेत् ॥ १०५
संस्वयेन्द्र जनीं तौ तु सखायैः सहितः स्थितः ।
स्वप्नमानवकं तेषां शिष्याणां प्रतिपादयेत् ॥ १०६
प्रत्युषे विमले गत्वा सन्ध्योपासनपूर्वकम् ।
देवान् पितॄन् नमस्कृत्वा आगत्य गुरुसन्निधौ ॥ १०७
स्वप्नं प्रकाशयेच्छिष्यः शुभं वा यदि वाशुभम् ।
शुभे सिद्धिमवाप्नोति अशुभे होममाचरेत् ॥ १०८
एवं कृते भवेत् सिद्धिर्विघ्नोपशमनं भवेत् ।
पिष्ठगोवलकान् कृत्वा श्रीवराश्रयने प्रिय ॥ १०९
उन्मत्तपत्रबिल्वाद्यैराहवेत् तत् प्रयत्नतः ।
करणीं गृह्य कर्पासीकसमुद्भवम् ॥ ११०
खटिकां ग्राहयेत् शुद्धां शुक्लां चैव समाहरेत् ।
ब्रह्मस्थानगतं सूत्रं स्थापयेत् पूर्वतो दिशि ॥ १११
दक्षिणाच्च तथा देव सूत्रपातं विशिष्यते ।
उत्तरांशे तु योगेन साधयेत् तत् प्रयत्नतः ॥ ११२
चतुर्भागान् ततः कल्प्य पूर्वसूत्रे समाश्रितान् ।
चतुर्थं यद् भवेद् भागं तेन मत्स्यद्वयं भवेत् ॥ ११३
साधयेद् दिग्दिशाष्टौ च पूर्वपश्चिमपातनात् ।
दक्षिणोत्तरमेवं स्यात् पश्चात् कोणान् तु साधयेत् ॥ ११४
आग्नेयां नैरृतिं तावद् वायव्यान्तां यथाक्रमम् ।
एवं तु साधिते क्षेत्रे साधयेच्चतुरश्रकम् ॥ ११५
चतुरश्रीकृते क्षेत्रे पश्चात् पद्मं प्रकल्पयेत् ।
चतुर्विंशांगुलायातमालिखेत् पद्ममुत्तमम् ॥ ११६
अष्टपत्रं समं कार्यं कर्णिकाकेसरोज्ज्वलम् ।
प्रथमे कर्णिकाभागः केसराणि द्वितीयके ॥ ११७
त्रितीये दलसन्धीनि दलाग्राणि चतुर्थके ।
प्रतिवारणरेखां तु दद्यात् पद्मस्य बाह्यतः ॥ ११८
पत्रकं बाह्यतो देयं चतुरंगुलमानतः ।
तेषां तु बाह्यतो वीथीं हस्तमात्रप्रमाणतः ॥ ११९
पद्ममानं स्मृतं द्वारं तदर्धेन अथापि वा ।
एवं वै सूत्रयित्वा तु रजांसि विनिपातयेत् ॥ १२०
रक्ताः पीतास्तथा तथा शुक्लाः कृष्णास्ते समुदाहृताः ।
समा रेखा प्रकर्तव्या अव्युच्छिन्ना सुशोभना ॥ १२१
रेखानामन्तरं योगं यवमात्रं प्रकल्पयेत् ।
कर्णिका पीतिका कार्या पुष्करं रक्तवर्णकम् ॥ १२२
केसरा रक्तपीताढ्याः शुक्लाञ्चैव तु कारयेत् ।
दलाः शुक्लाः प्रकर्तव्याः सर्वतः समलंकृताः ॥ १२३
संक्षेपेण वरारोह विधियुक्तस्तु साधकः ।
अस्मिन् युक्तो महादेव न भूयो जन्ममाप्नुयात् ॥ १२४
तावद् भ्रमति संसारे यावत् तत्त्वं न विन्दति ।
एकीभावगते चित्ते न बद्धो न च मुच्यते ॥ १२५
वर्णाध्वानं समासेन कथयामि शृणुष्व तत् ।
सर्वसंहारकर्तारं स्वखपादतले बुधः ॥ १२६
अर्चयेद् भैरवं देवं व्योमचक्रे यथास्थितम् ।
गन्धैः पुष्पैश्च नैवेदैः सुधूपैश्चापरैः शुभैः ॥ १२७
पूजयित्वा प्रयत्नेन पश्चाच्छिष्यमाषेचयेत् ।
अङ्गन्यासविधानेन स्तोभयेत् तावत् तत्त्ववित् ॥ १२८
क्षकारादि–अकारान्तं शब्दराशिं प्रयोक्तव्यम् ।
क्षकारं विग्रहं ज्ञेयं तत्त्वन्यासस्य अध्वनि ॥ १२९
उक्तोऽयं मातृकान्यासः संहारतत्त्वसंपुटः ।
तत्त्वध्याते च विन्यस्ते ततो दीक्षा शुभप्रदा ॥ १३०
यथात्मनि तथा शिष्ये योजयेत् तत्त्वमातृकाम् ।
पाशस्तोभं ततः कृत्वा कलायोगेन योगवित् ॥ १३१
सन्मुखं योजयित्वा तु ततः शिष्यं तु वेधयेत् ।
श्रीनाथ उवाच
वर्णदीक्षा परं सारं संसारोत्तारणक्षमा ॥ १३२
साम्प्रतं तत्त्वदीक्षां तु श्रोतुमिच्छामि तत्त्वतः ।
श्रीवक्रा उवाच
तत्त्वदीक्षां प्रवक्ष्यामि शृणुष्वायतलोचन ॥ १३३
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
एतैः शुद्धैस्तु शुद्ध्येत षट्प्रकारं वरानन ॥ १३४
एवं कर्मेन्द्रियाः प्रोक्ताः पञ्च बुद्धीन्द्रियास्तथा ।
तन्मात्राः पञ्च विज्ञेया लक्षणं च अतः परम् ॥ १३५
शब्दः स्पर्शो रसो रूपं गन्धस्तन्मात्रपञ्चकम् ।
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं करणपञ्चकम् ॥ १३६
बुद्धीन्द्रियाणि कथिताः श्रूयतां पञ्चकात्मकम् ।
वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमः ॥ १३७
कर्माख्यः पञ्चको ह्येष कथितस्ते त्रिलोचन ।
मनो बुद्धिरहंकारः प्रकृत्यन्तं यथाक्रमम् ॥ १३८
सत्त्वं रजस्तमश्चैव प्रधानगुणसंभवाः ।
अव्यक्तं च समाख्यातं पञ्चविंशमुदाहृतम् ॥ १३९
षड्विंशं पुरुषं ज्ञेयं सुखदुःखनिवेदकम् ।
क्षेत्रज्ञः कर्मसंबद्धः प्रकृत्या यदुपार्जितम् ॥ १४०
तत् कर्मवासनाशेषं भोग्यं तत् समुदाहृतम् ।
तेन ज्ञानेन शुद्ध्यन्ते भवबीजान्यशेषतः ॥ १४१
शेषा ये क्रमशः सर्वे अध्वाने तु यथा स्थिताः ।
तदूर्ध्वे नियतिः ख्याता नियमिकाध्वनि स्थिता ॥ १४२
कालसंख्यौ प्रकर्तारौ यत् कृतं तस्य शोभने ।
कलया व्यापितं तत्त्वं कलितं तु यथा स्थितम् ॥ १४३
तेनैषा च कला प्रोक्ता रागाद् दलितचेतसः ।
रागेन रञ्जितो ह्यात्मा मायया वलितो भवेत् ॥ १४४
विद्या वेदनिका ज्ञेया विद्या वेत्ति शुभाशुभम् ।
पराविद्यार्थवेत्तारः शुद्धमार्गमवाप्नुयात् ॥ १४५
अदृष्टाधिष्ठितो भूयो जन्ममृत्युमवाप्नुयात् ।
मोक्षं वा यदि वा भोगमीश्वरेण प्रचोदितम् ॥ १४६
सदाशिवस्तु वेत्ता वै पशूनां मोचको भवेत् ।
मायाबीजपदं त्यक्त्वा भोगान् भुक्त्वा अशेषतः ॥ १४७
शक्तिस्तु व्यापिनी सूक्ष्मा शिवधर्मानुवर्तिनी ।
शिवं तु सर्वगं प्रोक्तं शान्तरूपं व्यवस्थितम् ॥ १४८
एवं शोध्यतमं देव अध्वानं तत्त्वसंख्यया ।
षट्त्रिंशतिपदा ह्येते शोधनीया मनीषिभिः ॥ १४९
नवतत्त्वस्वरूपेण प्रकृत्यादिक्रमेण तु ।
शोधनीया वरारोह अणूनां चित्तभोगिका ॥ १५०
आत्मविद्याशिवाख्यं तु तत्त्वत्रयमुदाहृतम् ।
मुख्यास्त्वेते समाख्याताः शोधनीयास्तु देशिकैः ॥ १५१
एतैः शुद्धैर्विशुद्ध्येत षडध्वानं त्रिलोचन ।
तद्वत्तैर्भाविताः सर्वे द्रष्टव्याश्च मरीचिभिः ॥ १५२
सांप्रतं तु कलाध्वानं तव वक्ष्यामि सुव्रत ।
कलाभिर्व्यापितं तत्त्वं तत्त्वं वै कलारूपिणम् ॥ १५३
कलारूपो महादेवः सर्वज्ञः परमेश्वरः ।
निवृतिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ १५४
शान्त्यातीता परा ज्ञेया पृथिव्यादिकलाः स्मृताः ।
सूक्ष्मा चैव सुसूक्ष्मा च व्यापिन्या देवेशस्य च ॥ १५५
व्यापिनी व्योमरूपा च अनन्ता नाथेनाश्रिता ।
कलाध्वानं समासेन कथितं च तवानघ ॥ १५६
एभ्यस्त्वेकमतः शोध्यं देशिकेन्द्रो महामतिः ।
मन्त्राध्वानं तु संशोध्यं विद्यया तु परापरम् ॥ १५७
भुवनाध्वं महेशान बोधयेत् तत्त्वचिन्तकः ।
कलादिमादितः कृत्वा शिवान्तं यावदेव हि ॥ १५८
षट्प्रकारा विधिस्त्वेषा वर्णार्थेषु यथाक्रमम् ।
कर्तव्यं हि महादेव शास्त्रदृष्टेन कर्मणा ॥ १५९
एभ्यो ह्येकमतो देव शोधनीयं प्रयत्नतः ।
संसारावधितः कृत्वा गुरुणाध्वानवेदिना ॥ १६०
कर्तव्योऽनुग्रहो देव पशूनां यथेच्छया ।
सृष्टिसंहारभेदेन ज्ञात्वा कर्मानुरूपतः ॥ १६१
संसारी पशुरेवोक्तं धर्माधर्मैरधिष्ठितः ।
पूर्वमायात्मके बन्धे वसते पाशपञ्जरे ॥ १६२
यस्त्वनादिमलो ह्येको बीजभूतो व्यवस्थितः ।
प्ररोहत्वमिति धर्मक्षेत्रमाश्रित्य क्षेत्रमाश्रित्य सुव्रत ॥ १६३
क्षेत्रं माया भवेत् तस्य सहजस्य पशोर्मलः ।
यथाश्वत्थस्य बीजं तु पतितं च प्ररोहति ॥ १६४
शाखास्कन्धसहस्रैस्तु क्षेत्रस्याश्रययोगतः ।
एवं मायाश्रितो ह्यात्मा नित्यं मायात्मको मतः ॥ १६५
माया या सन्निमित्तत्वात् प्रवर्तते अणोर्हि सा ।
अनिमित्तस्य देवेश नैव माया प्रवर्तते ॥ १६६
कदाचिद् भाविनोऽप्येवं शुद्धाध्वं न प्रवर्तते ।
न शिवो विद्यते देव माया ह्येका भवेत् तदा ॥ १६७
सा तु बन्धः स्वभावेन न मोक्षो विद्यते क्वचित् ।
विद्याशक्तिः स्मृता सा तु मोक्षयोगे स्मृता भवेत् ॥ १६८
न तेषां भवते मोक्षो अनिमित्तो यदा भवेत् ।
यथा राजा स्वदोषे तु बद्धो बन्धे प्रवर्तते ॥ १६९
न मोक्षो बन्धनं तस्य तत्त्वात्मा यत् प्रसह्यते ।
आश्रयः सहजः पुंसां मलो ह्येकः प्रबन्धकः ॥ १७०
तदा तस्य प्रवर्तेत माया सन्तानबोधिता ।
बोधितो मायया तत्त्वे विश्लेषं चाधिगच्छति ॥ १७१
कलावलितचैतन्यं विद्यादर्शितगोचरम् ।
रागेन रञ्जितश्चासौ बुद्ध्यादिकरणैर्युतः ॥ १७२
एवं मायात्मकं बन्धं प्रसज्जते शुभाशुभम् ।
तदाश्रयगुणोऽधर्मस्तद्धर्माच्च समासतः ॥ १७३
तदात्मकौ स्मृतौ पाशौ पाशितस्तैस्तु तिष्ठति ।
तेषां ज्ञात्वा तु विश्लेषं आत्ममायाशिवस्य तु ॥ १७४
पाशशैथिल्यतः पश्चात् यथा भवति तच्छृणु ।
अचेतनः प्रमादेन अहिदष्टोऽगतायुषः ॥ १७५
चलते स्पन्दते चैव तीर्थे वै प्रार्थयति च ।
दृश्यते मन्त्रसामर्थ्यं किमत्र प्रविचार्यते ॥ १७६
शिलानां कम्पनं स्तोभं स्तम्भनं गतिरागतिः ।
तेषां तु प्रवराः श्रेष्ठाः प्रत्ययास्तु वरानन ॥ १७७
धर्माधर्मात्मको बन्धः आत्मनस्य न चान्यथा ।
तस्यैव क्षपणं कार्यं दीक्षया परमेश्वर ॥ १७८
कृतानि यानि कर्माणि इदानीं यान् करोति च ।
क्षीयन्ते दीक्षया तस्य पिण्डपाते शिवं व्रजेत् ॥ १७९
क्षीणे धर्मात्मके पाशे अधर्मे ये व्यवस्थिताः ।
अपरो नास्ति देवेश येनासौ तिष्ठतेऽध्वनि ॥ १८०
पाशैर्मुक्तो यदा ह्यात्मा निराधारश्च तिष्ठति ।
पतते कम्पते चैव च्छिन्नमूलो यथा द्रुमः ॥ १८१
यथा वृक्षो बहिर्घातैर्च्छिन्नः कम्पति भूतले ।
पतते च न संदेहो तथा ह्यात्मा मलच्युतः ॥ १८२
वियोगश्चैव पाशानां कर्तव्यो दीक्षया बुधैः ।
वियोगस्तु यदा जातस्तदा स्तोभो न संशयः ॥ १८३
स्तोभो नाम समुद्दिष्टः कम्पनं पतनं तथा ।
कस्यापि तत्र संस्थस्य योगश्चैव निरामयः ॥ १८४
पाशस्तोभो भवत्येवं मुक्तो धर्मादिबन्धनैः ।
मोक्षं तु भवते तस्य इत्यागमप्रचोदनम् ॥ १८५
पाशस्तोभाद् भवेत् सिद्धिः संसिद्धः सोऽपि संवरे ।
संवरो नाम चित्तस्तु यथा मुक्तिरसंशयात् ॥ १८६
तस्मात् मुक्तिः स्फुटा ह्येषा योगदा भोगदा शुभा ।
यो जानाति महेशान स मुक्तो मोचयेत् पशून् ॥ १८७
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते सबीजदीक्षाधिकारो नामानन्दः ॥ ३३ ॥
Kumārikākhaṇḍa – Kapitel ३४
चतुस्त्रिंशानन्दः
श्रीनाथ उवाच
दीक्षितस्य च शिष्यस्य कथं होमो विधीयते ।
नित्यकर्मणि युक्तस्य सिद्धिर्नैमित्तिकी कथम् ॥ १
श्रीवक्रा उवाच
परोपजीवकानां तु रागोपहतचेतसाम् ।
न तेषां हुतिकर्माणि विद्याजापं न शस्यते ॥ २
गार्हस्थ्यनिरतानां तु देवाग्निगुरुपूजकाम् ।
व्यवस्थेयं गृहस्थानां विद्याहोमः प्रशस्यते ॥ ३
एकान्ते विजने रम्ये भूमिं संशोधयेत् ततः ।
वास्तुयागादिकं कृत्वा कारयेद् यागमण्डपम् ॥ ४
चक्रे दक्षिणभूमूर्तौ च त्रिरस्रं च त्रिरस्रकम् ।
कुण्डं सलक्षणं प्रोक्तं खातं कुर्याच्च तत्समम् ॥ ५
वेदीं कुर्वीत षट्भागे वर्तुलां भुवनाकृतिम् ।
ऊर्ध्वे पीठत्रयं कुर्यात् कापूजा तु क्रमेण तु ॥ ६
शतपञ्चैक सन्त्यादौ अङ्गुलानि समासतः ।
अज्ञत्वे विपुलत्वे च प्रजानां न विधीयते ॥ ७
त्रिःकोणं समुदायेन साधारं सर्वसिद्धिदम् ।
मुमुक्षूणां विमुक्त्यर्थमन्वये होमकर्मणि ॥ ८
आज्ञास्त्रैः प्रोक्षणं कुर्यात् कवचेनावगुण्ठनम् ।
उन्मूलनं तु नेत्रेण महन्तार्या अनन्तरम् ॥ ९
पूरणं खेचरीचक्रे समीकरनं वाग्भवैः ।
सिञ्चनं चन्द्रगर्भेन कुट्टनं भैरवेच्छया ॥ १०
मार्जनं परमानन्दैर्विद्याबीजैस्तु लेपनम् ।
प्रोक्षणामन्त्रणं कुर्यात् शोषणं पीठपञ्चकैः ॥ ११
प्रोक्षणागुण्ठनं चैव उन्मूलनं प्रपूरणम् ।
समीकरणं सिञ्चनं च कुट्टनं संमार्जनम् ॥ १२
लेपनं प्रोक्षणं चैव शोषणं नाम उच्यते ।
इत्येकादशसंस्काराः करणेनाभयप्रदाः ॥ १३
सम्यग्मूर्तिचतुष्कं तु कुण्डस्यात्र प्रवर्तते ।
असंस्कृतं कृतं यस्मात् तदा कुण्डमसिद्धिदम् ॥ १४
तत्रासनमघोरास्त्रं बिम्बमध्ये च कारयेत् ।
त्रिःकोणं कूटभुवनं शलाकास्त्रेण उद्धरेत् ॥ १५
सूर्यकान्तिसमुद्भूतं अथवा होमशालायाम् ।
आनयेदस्त्रराजेन वह्निं कपिलपिङ्गलम् ॥ १६
आदौ शक्तिं समुत्थाप्य वाग्भवाकाररूपिणीम् ।
रेचकेन परामुद्रां विनिवेश्य प्रसन्नधीः ॥ १७
भगवत्या च देवेशि कुलवागीश्वरीक्रमम् ।
आदौ कृत्वावतारं तु विच्चेपादान्तसंस्थितम् ॥ १८
हृदाद्यङ्गेन सकला वागीशी ज्ञानमण्डले ।
स्थानशुद्धिं ततः कृत्वा तन्मध्ये लिङ्गमध्यसेत् ॥ १९
कूटमेकं पुरा कृत्वा ततो बीजमनन्तरम् ।
सृष्टिं सृष्टिगतां कृत्वा चक्रं योनिगतं स्मरेत् ॥ २०
तस्य मध्ये तु चैतन्यं यावत् पूर्वक्रमेण तु ।
तदङ्गाज्जायते सृष्टिर्भवते चानुवर्तिनी ॥ २१
एवं संपूज्य सकलं पश्चात् कर्माणि होमयेत् ।
आत्मा तेजोमयं ध्यात्वा शुक्रवत् वह्निमण्डले ॥ २२
तेजोरूपधरं बीजं गर्भे तस्य प्रवर्तते ।
कालाग्निरुद्रविख्यातं भैरवे सकले कृतम् ॥ २३
जायते च परे तत्त्वे परमानन्दभूषिते ।
चन्द्रगर्भेण संभूते गर्भाधानक्रमं भवेत् ॥ २४
त्रिराहुतीन् हुनेदग्नौ हृदयेन तु पूजयेत् ।
ततः प्रसवनं तस्य हृत्कूटेन परान्मुखात् ॥ २५
आहुतिभिस्त्रिभिः कृत्वा शिखाबन्धेन पूजयेत् ।
सीमन्तोन्नयनं शक्त्या तदीकारसमायुतम् ॥ २६
आहुतिभिः शिरं पूज्य सीमन्तोन्नयनं भवेत् ।
सन्मुखीकरणं तस्य आहुतिभ्यां चतुष्कले ॥ २७
कवचेनार्चनं कुर्यात् ततो निवृत्तिपञ्चके ।
आहुतीनां समासेन नेत्रमन्त्रेण पूजयेत् ॥ २८
ततः कङ्कणकं केशैर्वामहस्ते तु सन्मतम् ।
विद्यास्त्रेण विशालाक्ष अतस्तत्त्वविनिर्णयम् ॥ २९
पृठिव्यापस्तथा तेजो वायुराकाशमेव च ।
शब्दः स्पर्शो रसो रूपं गन्धस्तन्मात्रपञ्चकम् ॥ ३०
वाक्पाणिपादं पायुश्च उपस्थः कर्मपञ्चकम् ।
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणेति करणपञ्चकम् ॥ ३१
मनो बुद्धिरहंकारो रागो विद्या कला तथा ।
माया कामेश्वरीतत्त्वं शुद्धविद्या शिवाख्यं च ॥ ३२
आज्ञादेवी परावस्था द्वात्रिंशत्तत्त्वनिर्णयम् ।
आदौ बिन्दुयुता विद्या कालाग्निरुद्रमण्डले ॥ ३३
वाषोऽर्थः रूणसंयोगात् देवो नादः सबिन्दुकः ।
महाबीजकरं बीजं बीजौघं तत् पुनः पुनः ॥ ३४
ततः सूतकसंशुद्धिर्विद्यास्त्रेण तथाहुतिः ।
त्रिभिः क्रमेण कथिता मुमुक्षूणां विमुक्तये ॥ ३५
केशकंकणकं मुक्त्वा अलिना भावितं हुनेत् ।
तेनैव शुद्धिमाप्नोति तदा नामाभिषेचनम् ॥ ३६
कलिकाले कुचन्द्राख्यं द्वापरे षष्ठसंज्ञया ।
त्रिते चर्याधरो वह्निः कृते मित्रो विधीयते ॥ ३७
एवं सिद्धचतुष्केन अग्नित्वं प्राप्नुवानसि ।
आत्मामन्त्रचतुष्केन आहुतिभिस्त्रिभिस्त्रिभिः ॥ ३८
संज्ञाकरणचत्वारि आदौ कृतचतुष्टये ।
दन्तानामुदयं शोध्यं कवर्गेण तु पञ्चधा ॥ ३९
बिन्दुभिर्देवदेवेश कर्तव्या आहुतिस्त्रिभिः ।
अन्नप्राशनमन्त्रेण त्र्यक्षरेण तु होमयेत् ॥ ४०
वाग्भवं नाममाश्रित्य जुहुयादाहुतित्रयम् ।
आहुतिभिस्त्रिभिश्चान्यैर्विद्युज्जिह्वा गरीयसी ॥ ४१
चूडाकरणमित्युक्तं यत् सुरैरपि दुर्लभम् ।
अतः परं प्रवक्ष्यामि मेखलासूत्रतबन्धनम् ॥ ४२
व्यापकादिचतुष्कं तु संहारं बिन्दुसंयुतम् ।
मन्त्रेण पञ्चधा हुत्वा सन्निधानाय योगिनीम् ॥ ४३
उपनयनसर्वस्वं शोध्यमध्वनि तत्पुरे ।
हृच्चक्रे व्रतबन्धं तु वह्निबीजे त्रितीयके ॥ ४४
हुत्वाचार्यो हुनेन्मन्त्री नवात्मानन्दभैरवम् ।
व्रतनिष्पत्तिसंसिद्ध्यै योगेश्वर विशोधयेत् ॥ ४५
आदौ मायापुरी बन्धं संहारं दीर्घबिन्दुना ।
गर्भाधानादिकं कुर्यात् संस्कारकृतकर्मणि ॥ ४६
चतुर्भिश्चाष्टभिः सर्वं तद्ध्यानेन तु होमयेत् ।
रुद्रैः परिवृतो मन्त्री पञ्चाक्षरविभूषितः ॥ ४७
निरालम्बगतश्चोर्ध्वं वह्निर्वै खेचराज्ञया ।
ब्रह्मविद्याधरः श्रीमान् होमयेद् ब्रह्मविद्यया ॥ ४८
आदौ शक्तिसमूहेन खेचरान्तमनुक्रमात् ।
तावद् विद्याक्रमे होमं संस्कारेण यथागतम् ॥ ४९
ब्रह्म विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पञ्चेते सृष्टिकर्तारः पञ्चार्णेन तु पूजयेत् ॥ ५०
ब्रह्मा दक्षिणमूर्तौ तु विष्णुरुत्तरतः स्थितः ।
रुद्रः पश्चिमदिग्भागे ईश्वरः पूर्वसन्ततौ ॥ ५१
सदाशिवो भगस्यान्ते पिण्डमेको हि पञ्चधा ।
ब्रह्मनः शुष्कगोमयं आसनं विष्टरेण तु ॥ ५२
तिलपिण्डिकया विष्णोः रुद्रस्यासनमागमम् ।
शिरोर्ध्वे ईश्वरस्यात्र द्रव्यासनं सदाशिवे ॥ ५३
विष्टरेषु पुरा कृत्वा पञ्चमूर्तिधरो भवेत् ।
बाह्यतो लोकपालान् च पूर्वादीशानमन्तगान् ॥ ५४
पूजयेदस्त्रविधिना रक्षाकुण्डस्य संस्कृते ।
इन्द्रमग्निर्यमो रक्षो वरुणो वायुरेव च ॥ ५५
कुवेरमीशपर्यन्ताः पूजनीया यथाक्रमम् ।
वज्रं शक्त्यायुधं दण्डं नागेन्द्रं कुण्डलं ध्वजम् ॥ ५६
मुद्गरं च त्रिशूलं च अष्टमं समुदाहृतम् ।
मायाश्रीमादितः कृत्वा पादं ततोऽभिधीयते ॥ ५७
ऊर्ध्वं ब्रह्मा अधो विष्णुः पद्मचक्रायुधद्वयम् ।
एवं संपूज्य यत्नेन सर्वविघ्नव्यपोहनम् ॥ ५८
ज्वलनं दीपनं चैव वेधनं त्रासनं परम् ।
अमलीकरणाप्यायं अभिषेकं च सन्मुख्यम् ॥ ५९
प्रकृत्यानलसंस्कारा अष्टाभिः पूर्वशासने ।
एतैः प्रजुह्वते वह्निर्जायते मुखपञ्चकम् ॥ ६०
उड्डियानसमूहेन उलिभेदे पृथक् पृथक् ।
विन्यसेत् पूर्वविधिना जिह्वान्यासं तु पञ्चधा ॥ ६१
कपाली चैव कापाली काकिनी च कुमारिका ।
कुब्जिका च क्रमादेता जिह्वा बीजत्रयेण तु ॥ ६२
होमयेद् योगपीठस्य ततोऽष्टकलमादिशेत् ।
नादिफान्ताक्षरवृन्दैः मालापञ्चाशदेवताः ॥ ६३
संस्मृत्य परया भक्त्या ततः सिद्धाङ्गपञ्चकम् ।
अङ्गानि पूर्वविधिना आदौ त्रिकण्टकादितः ॥ ६४
सकलं न्यासमार्गेण कृत्वा प्रत्ययमादिशेत् ।
प्रकृत्यात्मनि संस्कारं यजनक्रमनुक्रमात् ॥ ६५
कर्तव्यमुडनाथस्य ज्वलनादिसमूहतः ।
ऊर्ध्वाधोऽग्निं समासेन भानुमध्यगतं स्मरेत् ॥ ६६
त्रिपादेन अधः कृत्वा सृष्टिवर्गे समाहितः ।
ज्वलं नाम तदाख्यातं वायुषट्कसमन्वितम् ॥ ६७
आभ्यां मध्यगतं रेफं बिन्दुस्थं दीपनं भवेत् ।
षट्कं शक्तिगतं कृत्वा अधःशक्तिनियोजितम् ॥ ६८
वेधनं तत् समुद्दिष्टम् त्रासनं रावपञ्चकम् ।
अमलीकरणमन्त्रेण विद्यादेव्यावतारयेत् ॥ ६९
आप्यायं चन्द्रगर्भेन आज्ञायामभिषेचनम् ।
अस्त्रेण सन्मुखीकुर्यान्न कुर्यादन्यथाक्रमे ॥ ७०
सकलस्योडनाथस्य चक्रकालानलस्य च ।
ज्वलनाद्यैस्तु संस्कारैरष्टाभिः प्रत्ययः कृतः ॥ ७१
समाप्य सर्वतः ह्येवं विद्याहोममनुत्तमम् ।
एतदेव क्रियायातं संस्कारं होमपद्धतौ ॥ ७२
अविज्ञात्वा न होमोऽस्ति प्रत्ययो वा स्वतन्त्रता ।
कुण्डसंस्कारनिर्मुक्तो यः कश्चिद् होममाचरेत् ॥ ७३
विकर्मस्थः स विज्ञेयो न मोक्षाय विधीयते ।
नाभिस्थानात् समुत्थाप्य स्पन्दकुण्डलिनीं पराम् ॥ ७४
नादेन सहजा बोध्या त्रिःकोणान्ते च चित्पुरे ।
वक्त्रकूटमनुस्मृत्य आरक्तं वह्निवर्चसम् ॥ ७५
सा च देव्या ह्यहं नाथ स्मृता आवेशमाप्नुयात् ।
तद्गतं च मनः कृत्वा त्वप्येवं कृतमात्मनि ॥ ७६
मन्त्रं ध्यात्वा हुतिं कृत्वा क्रमविद्यामहेश्वर ।
दशांशे यवराजाभ्यां सिद्धिः कर्मानुरूपतः ॥ ७७
स्फाटिका चाक्षमाला च अनुलोमविलोमतः ।
हुतिकर्म समासेन दशांशस्य तु निर्णयम् ॥ ७८
मात्रैकया च आवेशं शरीरे संप्रवर्तते ।
सर्वशान्तिपदावाप्तिर्मात्राद्वितीयहोमतः ॥ ७९
मात्रात्रयेन मेधावी चतुर्भिः श्रेयमाप्नुयात् ।
मात्रापञ्चकृते होमे सौभाग्यं वर्तते सुखम् ॥ ८०
मात्राषट्ककृते होमे वपुस्थैर्यं प्रवर्तते ।
सप्तभिः प्राप्यते कीर्तिरष्टभिर्ज्ञानप्रत्ययम् ॥ ८१
नवमात्राकृते होमे वागीशत्वं प्रवर्तते ।
दशमात्राकृते होमे विद्यादेहमनामयम् ॥ ८२
द्विसहस्रकृते होमे परोक्षे पशुवेधनम् ।
घटकाष्ठादिषु स्तम्भं वर्तते मूलविद्यया ॥ ८३
मुद्रास्फोटं त्रिभिर्विद्या चतुर्भिर्वृक्षपातनम् ।
आगारस्फोटनादीनि सर्वकार्याणि साधयेत् ॥ ८४
पञ्चभिः पर्वतानां च समुद्रस्यापि शोषणम् ।
षड्भिर्द्वारावलीस्तम्भं पलितानां निवारणम् ॥ ८५
सप्तभिर्देवतानां च वश्यं नायति नान्यथा ।
किं पुरुषाश्च कन्याश्च यक्षकन्यास्तु का कथा ॥ ८६
अष्टभिर्ज्ञानमासाध्य ब्रह्मरूपधरो भवेत् ।
नवभिर्भैरवं रूपं रुद्ररूपं द्विपञ्चके ॥ ८७
खेगतिः पश्चिमे भागे उत्पतेन्नात्र संशयः ।
एवं सिद्धिविभागेन दशांशस्य विधीयते ॥ ८८
वीरभद्रेण कर्तव्यं विद्याहोममनुत्तमम् ।
* * * * * * * * वायुवर्गेण कारयेत् ॥ ८९
सिद्धिं होमविभागेन लिङ्गाग्रे तु समाचरेत् ॥ नित्यकर्मणि शान्त्यर्थं अष्टम्यां वा चतुर्दशी ॥ ९०
मात्राहोमं प्रकर्तव्यं दीक्षाकालेऽथवा सुधीः ।
होमयेच्च शतान्यष्टौ तदा ते सिद्धिभाजनाः ॥ ९१
एवमष्टशतान्येवं शिवरात्र्यादौ सर्वशः ।
सदा पवित्रके वापि पर्वकालेषु पूजयेत् ॥ ९२
वीरत्वं प्राप्यते सिद्धिः रुद्रलोकमवाप्नुयात् ।
क्रतुयज्ञसहस्रेषु अश्वमेधशतेषु च ॥ ९३
यत् फलं प्राप्नुयान्मन्त्री तस्माच्छतगुणं लभेत् ।
नित्यहोमकृते मन्त्री गङ्गास्नानफलं लभेत् ॥ ९४
अष्टम्यां च कृते होमे वाराणस्यां च तत् समं ।
चतुर्दश्यां कृते होमे केदारे सदृशं फलम् ॥ ९५
सर्वतीर्थाभिषेकं च होमराजपवित्रकम् ।
सर्वमन्त्राधिपत्यं तु सर्वहोमे कृते सति ॥ ९६
सिद्धिहोमप्रदानेन सर्वसिद्ध्यारिहो भवेत् ।
गृहस्थानां सदाचारं विद्याहोमं विधीयते ॥ ९७
क्रमस्य दक्षिणे मूर्तौ अलिना शोधितं हुनेत् ।
श्वेतार्कैश्च हयारैश्च श्वेतपुष्पैर्मनोरमैः ॥ ९८
नैमित्तिके महाद्रव्यैरणिमादिगुणाष्टकम् ।
अतीतानागतं किञ्चिद् वर्तमाने प्रवर्तते ॥ ९९
श्रीनाथ उवाच
द्रव्यमानं कथं चात्र सविधानं च निर्णयम् ।
होमसंभारमानं तु कथं मात्रा विधीयते ॥ १००
श्रीवक्रा उवाच
अत ऊर्ध्वं प्रमाणं तु द्रव्याणां परिभावना ।
नित्यकर्मणि सक्तानां शान्त्यर्थं सर्वकामदम् ॥ १०१
श्वेतार्कं तिलपात्रेण युक्तं कृत्वा तदश्नुते ।
सर्पिषा अग्निबीजेन अग्नीनां कृतकृत्यता ॥ १०२
प्रसिद्धश्चात्मज्ञानेन दक्षिणेन करेण तु ।
गुग्गुलगुटिका शस्ता वनराण्डप्रमाणतः ॥ १०३
तिलाक्तामर्दितां कृत्वा सर्पिषैकपलं हुनेत् ।
नगरे शुभकार्येषु आहुतीः सर्वसिद्धिदाः ॥ १०४
विद्यावक्त्रेषु पीठानां पक्वान्नाहुतिपञ्चकम् ।
पिशितस्य पलान् पञ्च गुटिकां होमयेत् ततः ॥ १०५
मात्रामानेन संसिद्धिर्नित्यहोमफलं महत् ।
रुद्रशक्त्या हुनेन्मन्त्री विचरेत यथासुखम् ॥ १०६
अणिमादीनि सिद्धीनां त्राता भवति नान्यथा ।
मात्राहोममयं कृत्वा ततश्चासौ अन्वयी भवेत् ॥ १०७
अतो नैमित्तिकस्यात्र विधानं संप्रगीयते ।
तिलाक्तासर्पिणा सार्धं प्रस्थान्यष्टशतानि च ॥ १०८
कृत्वा चैव तु गुटिकां अर्केन्दुफलमानतः ।
गुग्गुलेन पुरा कृत्वा होमयेत विचक्षणः ॥ १०९
एवं मासस्य मानं तु अप्रमाणं न होमयेत् ।
शतमष्टोत्तरं रक्तं गोक्षीरं सर्पिमेव च ॥ ११०
चतुर्वर्णानि पुष्पाणि होमयेत विधानतः ।
आदौ त्रिकण्ठकं न्यासं कुण्डमध्ये तथात्मनि ॥ १११
विद्यान्यासं तथैवेह अपरं सिद्धपञ्चकम् ।
षडङ्गमालिनीं कृत्वा मुखजिह्वान् यथाक्रमम् ॥ ११२
मात्राणां होमयेत् कुण्डे पृथग्रूपविभागशः ।
उड्डियाणं महावक्त्रं सिद्धयोगिनिसेवितम् ॥ ११३
कुण्डमध्ये स्मरेद् देवं जालवक्त्रं तु दक्षिणे ।
उत्तरे पूर्णगिर्यं तु कामरूपं तदग्रतः ॥ ११४
तदूर्ध्वे पीठमेकं तु पञ्चमं तिस्रनामतः ।
एते पीठमुखाः पञ्च तेषु जिह्वाः क्रमेण तु ॥ ११५
व्यापकादिचतुष्कं तु संहारं बिन्दुसंयुतम्। रेफषष्ठसमाक्रान्तं पूर्वनामविभागशः ॥ ११६
कुलदेवीं च कुब्जेशीं मध्यपीठे हि विन्यसेत् ।
वटुकयोगिनीनां तु बलिं बाह्ये विनिक्षिपेत् ॥ ११७
अपरं पूजयेत् तत्र विद्यादेव्या महाक्रमम् ।
वक्त्राङ्गैस्तु समोपेतं तथा पीठचतुष्टयम् ॥ ११८
देवतैश्चतुरोपेतं कुलदेव्या तथाष्टकम् ।
श्रुक्श्रुवं ज्वालयेद् देव अस्त्रराजेन बुद्धिमान् ॥ ११९
ज्वालयित्वा महेशान कवचेनावगुण्ठयेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च दर्भेषु हि पुरत्रयम् ॥ १२०
श्रुक्श्रुवं स्थापयेत् तत्र विद्याबीजेन सन्मुखम् ।
सर्पिपूर्णं श्रुवं कृत्वा विद्यादेवी प्रपूजिता ॥ १२१
योनिमुद्रा निरालम्बा पूरकेन तु होमयेत् ।
वामहस्तेन तत्सर्वं कर्तव्यं होमकर्मणि ॥ १२२
पुष्पाञ्जलिं ततो विद्यां विनिवेश्य प्रसन्नधीः ।
वक्त्राङ्गपूर्णतां कृत्वा होमयेत विचक्षणः ॥ १२३
षडङ्गेन तु संपूर्णं हुत्वा जिह्वाचतुष्टयम् ।
कुलदेव्यस्तथा चाष्टौ होमयेत् पूर्वमाहुतिम् ॥ १२४
इति पञ्चाहुतीः पञ्च हुत्वा होमः प्रवर्तते ।
गमागमेनाक्षमालावामहस्तेन चित्पुरे ॥ १२५
होमयेत् सात्विकं होमं विद्यासकलकामदम् ।
न मेरुं लङ्घयेत् कश्चिन्मेरुच्छायां न लङ्घयेत् ॥ १२६
तिलाश्च सर्पिणा भाव्या अग्निबीजप्रदीपिताः ।
होमयेच्च दशांशेन जपसंख्याप्रमाणतः ॥ १२७
पुष्पयुक्ते तिलाक्ते तु सर्वसिद्धिप्रदो भवेत् ।
अपामार्गं च शार्दूलं सोमराजा तु पिप्पलम् ॥ १२८
ईश्वरं च तथा ब्रह्म जीमुतं मेघवाहनम् ।
इत्यष्टौ समिधाः प्रोक्ता होमयेत् सर्पिणा सह ॥ १२९
तिलाक्तैश्च सुपुष्पैश्च सहस्राणि त्रयः स्मृताः ।
शतद्वयं वरारोह अर्धं वा सर्ववक्त्रेषु ॥ १३०
संक्षेपेण चतुर्भागं अत अर्धमसिद्धिदम् ।
आज्ञाविद्यां विशालाक्ष वक्त्राङ्गानि तथा पुनः ॥ १३१
जिह्वानां कुलदेवीनां लोकेशानामनन्तरम् ।
होमयेच्चाधिकं होमं अघोरास्त्रमतः परम् ॥ १३२
शतमष्टोत्तरं हुत्वा पश्चादाहुतिपञ्चकम् ।
वक्त्राणां तु षडङ्गस्य जिह्वानां कुलदेवीनाम् ॥ १३३
वृत्तं माषेण चारुकां आहुतिं देव तर्पयेत् ।
ततः पूर्णाहुतिं दद्याद् यजमानोऽपि साधकः ॥ १३४
सर्वसिद्धिप्रसादं तु गुरूणां पूजिते सति ।
दानं वित्तानुसारेण स्वशरीरं निवेदयेत् ॥ १३५
दक्षिणादानात् ते सिद्धिर्भवेद् यज्ञफलं तदा ।
वित्तशाठ्येन नरकं कृतं तदकृतं भवेत् ॥ १३६
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते होमनिर्णयो नामानन्दः ॥ ३४ ॥
Kumārikākhaṇḍa – Kapitel ३५
पञ्चत्रिंशानन्दः
श्रीनाथ उवाच
श्रुतं भेदं तन्त्रमार्गे वामदक्षिणसंग्रहे ।
त्रिकभेदं समस्तेषु यामलादिष्वनेकशः ॥ १
नित्यातन्त्राण्यनेकानि आगमा गह्वरादयः ।
अधुना श्रोतुमिच्छामि कुलभेदं त्रिकं यथा ॥ २
येन विज्ञातमात्रेण त्रिकभेदः प्रवर्तते ।
श्रीवक्रा उवाच
साधु साधु महाशम्भो सम्यक्पृष्टा त्वयाधुना ॥ ३
तथाहं कथयिष्यामि तव भक्त्या वरानन ।
न मया कस्यचित् ख्यातं तव प्रीत्या वदाम्यहम् ॥ ४
ममापि अशरीरेण पूर्वमीशेन भाषितम् ।
यस्मिन् देव निराकारे शून्यभूते चराचरे ॥ ५
अनन्तदेवा गन्धर्वा यक्षोरगराक्षसाः ।
न चन्द्रार्कौ ग्रहा ऋक्षा नाश्रमा ऋषयस्तथा ॥ ६
नाहं देव न त्वं तथा न गणाः शैलकाननाः ।
तमार्णवे निराकारे अद्वैते घोरदारुणे ॥ ७
निरानन्दात् परास्थानात् दिव्याज्ञा संप्रवर्तिता ।
शिवेच्छा निर्गता शक्तिः साहं चैव पुनः शिवा ॥ ८
शिवशक्तिरयं भेदः संजाता कुटिलाह्यहम् ।
त्रिधा सृष्टमिदं तेन त्रिःकोणाकारविग्रहा ॥ ९
अधोर्ध्वमध्यभागेन व्याप्याशेषमिदं स्थितम् ।
कुलमार्गगता देवी अव्यक्तपदचिन्तका ॥ १०
अव्यक्ता व्यक्तरूपेण तेन सृष्टिः प्रकाशिता ।
अव्यक्ताव्यक्तनादात्मा जाता प्रीतिः परस्परम् ॥ ११
उभौ तौ ईश्वर आज्ञा तयोः सृष्टमिदं जगत् ।
इच्छया सृज्यते सर्वं त्रैलोक्यं सचराचरम् ॥ १२
पीठोपपीठक्षेत्राणि चन्द्रार्कौ देवदानवाः ।
गणा नागा ग्रहा यक्षाः सिद्धगन्धर्वमानुषाः ॥ १३
शैलाश्चैव समुद्राश्च एवं सर्वे विनिर्मिताः ।
त्रिभिर्भागैर्गता देवी त्रैलोक्यं सृजते क्षणात् ॥ १४
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा विनिर्मिताः ।
पीठत्रिकं च देवेश समासाच्च विनिर्मितम् ॥ १५
यत्र स्थिता च देवेशी एकानेकस्वरूपतः ।
तया सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम् ॥ १६
क्रीडामात्रविनोदेन सृष्टिसंहारकारिका ।
त्रिधा च सृजते विश्वं श्रङ्गाटं पुरमुत्तमम् ॥ १७
तत्र देवास्त्रयो जाता ब्रह्माविष्णुमहेश्वराः ।
त्रिकोणाकाररूपेण पीठत्रयं विनिर्मितम् ॥ १८
तन्मध्ये चाधिकारिण्या सुखोपायेन कौलिनी ।
पूर्वकोणे तु कामाख्यं पूर्णगिर्यं तथोत्तरे ॥ १९
दक्षिणे जालपीठं तु उड्डियाणं तु पश्चिमे ।
उपपीठानि क्षेत्राणि संदोहानि ह्यनेकधा ॥ २०
दिशि च विदिशि चैव अत्र मध्ये व्यवस्थिताः ।
श्रीनाथ उवाच
पूर्वं बहिस्त्वया ख्यातं देव्याः पीठत्रिकं विभो ॥ २१
अधुना श्रोतुमिच्छामि समासात् कथयस्व मे ।
श्रीवक्रा उवाच
कथयिष्यामि ते नाथ अतिस्नेहेन भैरव ॥ २२
यन्न कस्यचिदाख्यातं स्कन्दनं हि पुरे गतम् ।
मह्यमीशेन कथितं देहे पीठत्रयं पुरम् ॥ २३
पीठाधिपा हि देवेश पीठदेव्यस्तथा पुनः ।
अधोर्ध्वमध्यभागेन देहे पीठत्रयं शुभम् ॥ २४
त्रिकोणाकाररूपेण त्रिभिः स्थानैर्व्यवस्थिता ।
स्वाधिष्ठाने तु कामाख्यं उड्डियाणमनाहते ॥ २५
नासा पूर्णगिरिर्ज्ञेया उज्जेनी बिन्दुसंस्थिता ।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तृतीयका ॥ २६
स्वे स्वे स्थाने स्थिता देव्यः परिवारेण संयुताः ।
इच्छाशक्तिस्तु कामाख्ये उड्डियाणे क्रियात्मिका ॥ २७
ज्ञानशक्तिस्तु देवेश पूर्णपीठे तृतीयका ।
षट्चक्राधारभेदेन भेदोऽयं परिकीर्त्यते ॥ २८
डरलकसहयादिभेदषट्कसमन्वितः ।
तेषां भेदं न जानन्ति अज्ञानतममोहिताः ॥ २९
श्रीनाथ उवाच
अतिसंशयमुत्पन्नं व्याकुलं हृदयं मम ।
न जानामि अहं देवि विज्ञानज्ञानदायिनि ॥ ३०
भैरवि देवदेवेशि सर्वज्ञे परमेश्वरि ।
कथं पीठत्रये देव्या उत्पन्ना सपरिग्रहा ॥ ३१
षट्चक्रे षडिदेव्यश्च एकानेकविभेदशः ।
त्रिधाभेदेन संभिन्नाः षट्प्रकारे व्यवस्थिताः ॥ ३२
श्रीवक्रा उवाच
अतिगुह्यतरं प्रश्नं त्वयोदितं सुरेश्वर ।
रक्षणीयं त्वया शम्भो नायिका पीठसंभवा ॥ ३३
एकापि बहुधा भिन्ना सबाह्याभ्यन्तरे स्थिता ।
क्षेत्रे क्षेत्रे स्थिता देव्या पीठे पीठे व्यवस्थिता ॥ ३४
यथाज्ञायाता ते देव नाम चिह्नं तथा शृणु ।
एकापि व्यापिका सूक्ष्मा कलानाहतवर्षणी ॥ ३५
चन्द्रपूर्येति सा ज्ञेया तुर्यातीतावलम्बिनी ।
हिमकुन्देन्दुधवला बालाग्रशतभागिका ॥ ३६
श्रवन्ती स्वेन रूपेण ओंकारे सा च गीयते ।
हकारार्धार्ध या मात्रा अर्धेन्दुपदमध्यगा ॥ ३७
उड्डियाणं तदाख्यातं अर्धचन्द्राद् विनिर्गतम् ।
शक्तिर्विमलरूपेण इच्छयाज्ञा विनिर्गता ॥ ३८
सुषुम्नानाडिभेदेन तालुरन्ध्रं समागता ।
वाडवानलयोगेन पूरयन्ती समन्ततः ॥ ३९
इदं तस्य परं दिव्यं पीठं चैवातिदुर्लभम् ।
तत्सकाशात् समुत्पन्ना ऋजुरेखा ह्यधोमुखी ॥ ४०
आकर्षयन्ती सर्वात्मा ज्वालामाला करालिनी ।
अनाहते तु संप्राप्ता या सा हंसविकासिनी ॥ ४१
ज्वालामुखी समाख्याता पीठे जालाख्यसंज्ञके ।
सा कला कालरूपेण काकिनी हंसविग्रहा ॥ ४२
मणिपूर्णे महानीला पूर्णिमाकाररूपिणी ।
पीताम्बरधरा दिव्या नागा सुप्ता च कुण्डली ॥ ४३
क्षोभयन्ती जगत् सर्वं पूर्णपीठे स्थिता स्वयम् ।
मणिनाभिस्थिता मध्ये त्रिकोणाकृतिविग्रहा ॥ ४४
कदम्बगोलकाकारा ज्ञानविज्ञानभैरवी ।
स्वयमुत्पन्ना सा देवी आदिकादिसमायुता ॥ ४५
थकारादि च सा भिन्ना सा शिला सिद्धनिर्मला ।
जननी सर्वदेवीनां सदेवासुरमानुषी ॥ ४६
उत्पन्ना कामरूपे तु कामिनी कलुषापहा ।
षट्पीठं च समाख्यातं षट् चक्राणि तथा शृणु ॥ ४७
आधारं प्रथमं चक्रं चतुर्दलसमन्वितम् ।
सिद्धकोटीश्वरं नाम डाकिनी तत्र देवता ॥ ४८
द्वितीयं स्वाधिष्ठानं तु दलषट्कसमन्वितम् ।
मुद्राकोटीश्वरं नाथं राकिनी तत्र जृम्भते ॥ ४९
तृतीयं दशपत्रं तु मणिपूर्णे विरामतः ।
मन्त्रकोटीश्वरं नाथं अम्बा चैव तु लाकिनी ॥ ५०
चतुर्थं द्वादशारं तु नाम्ना चैवमनाहतम् ।
विद्याकोटीश्वरं तत्र काकिन्यया समन्वितम् ॥ ५१
विशुद्धं पञ्चमं नाम षोडशारं तु शोभनम् ।
समयकोटीश्वरं नाथं साकी संज्ञास्वरूपिणी ॥ ५२
षष्ठमाजस्वरूपेण शिवशक्तिपदद्वयम् ।
बिन्दुकोटीश्वरं तत्र हाकी आज्ञास्वरूपिणी ॥ ५३
हंसेश्वरीति विख्याता सृष्टिसंहारकारिणी ।
एकापि व्यापिका सूक्ष्मा सा सृष्ट्यभिमुखी स्थिता ॥ ५४
ज्ञानशक्तिस्तदूर्ध्वे तु त्रिभिर्भेदैर्विनिर्गता ।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तृतीयका ॥ ५५
इच्छाशक्तिस्तु वामे तु क्रियाशक्तिस्तु दक्षिणे ।
ज्ञानशक्तिस्तयोर्मध्ये दिव्यज्ञानानुवर्तिनी ॥ ५६
रौद्रीभावे स्थिता देवी रुद्रशक्तिस्तु कथ्यते ।
तत्र पीठत्रयं देव परमेवं व्यवस्थितम् ॥ ५७
वामे तु कामरूपाख्यं पूर्णगिर्यं तु दक्षिणे ।
उड्डियाणं तयोर्मध्ये उज्जेनी बिन्दुसंस्थिता ॥ ५८
वामा ज्येष्ठा च रौद्री च नाम्नैताः परिकीर्तिताः ।
नवशक्तिस्ततो जाता ब्रह्माण्याद्याश्च मातरः ॥ ५९
श्रीनाथ उवाच
नवशक्तिप्रकारं तु चतुष्कं तु जयादिकम् ।
रुद्राण्येकादशो याश्च रुद्राणी च महेश्वरी ॥ ६०
तत् किमर्थं पुनश्चोक्तं भ्राम्यसे मम विस्तरात् ।
प्रसीद देवदेवेशि श्रीकुजाख्ये यथाक्रमम् ॥ ६१
एकापि बहुधा भेदैः कथं देवी व्यवस्थिता ।
परिवारं कथं तस्याः प्रसीद कथयस्व मे ॥ ६२
श्रीवक्रा उवाच
उत्तमानि च प्रश्नानि वाक्यानि विविधानि च ।
वदामि ते प्रसन्नाहं सावधानोऽवधारय ॥ ६३
शृणु देव प्रवक्ष्यामि भेदं तस्याः यथास्थितम् ।
इमे सर्वाणि तस्यास्तु भेदानि परमेश्वर ॥ ६४
वामा ज्येष्ठा च रौद्री च त्रिधा ह्येवं व्यवस्थिता ।
पुनरेतान् तु तस्या हि भेदान् शृणु यथा स्थितान् ॥ ६५
बिन्दुस्थाने तु या आज्ञा अर्धचन्द्रोपरिस्थिता ।
बिन्दुस्था सर्वभूतानां कला चामृतवर्षणी ॥ ६६
ज्योतिरूपा स्थितान्ते तु तारारूपा तथोपरि ।
गुरुवक्त्रं तदूर्ध्वे तु अजाख्यं तु निरामयम् ॥ ६७
ईश्वरान्ते स्थितं देवं शाश्वतं शिवमव्ययम् ।
नवात्मनस्ततो जातं नवधा देहपञ्जरम् ॥ ६८
तथा शक्तिः समुद्भूता नवस्थानगता परा ।
दशधा कारणं योगं द्विधा भेदोद्भवं प्रिय ॥ ६९
त्रिधा बद्धं जगत् सर्वं सबाह्याभ्यन्तरं तथा ।
उभौ तौ मन्मथायातौ द्वादशान्ताद् विनिर्गतौ ॥ ७०
तेन तेन क्रमेणैव रौद्रीभावमुपागता ।
कन्दाधारपुरस्था तु धुननावेशनी स्मृता ॥ ७१
कम्पनी रौद्री विख्याता घूर्मणी उद्भवात्मिका ।
एकाङ्गनर्तनीमाख्या अश्रुपाती कुरङ्गिणी ॥ ७२
सिंहशब्दी पुलिन्दी च एकादश प्रकीर्तिताः ।
रुद्रभागे स्थिता ह्येते द्वादशान्ते लयंगताः ॥ ७३
वामादित्रितयेनैव पीठक्रममुदाहृतम् ।
श्रीभैरव उवाच
किमहं चाल्पबुद्धिस्तु जडप्रायं हि मन्यसे ॥ ७४
येन मां भ्राम्यसे देवि किमर्थं च सुरेश्वरि ।
अहं सर्वगतः कर्ता त्वदीयाज्ञावधिष्ठितः ॥ ७५
तस्मात् कारुण्यतो देवि ब्रूहि ज्ञानं महोदयम् ।
श्रीवक्रा उवाच
साधु साधु महाभाग अमोघज्ञानभाजन ॥ ७६
कथयामि न संदिग्धं ज्ञानं भ्रान्तिविनाशनम् ।
कौलिनी यद् रहस्यं तु गुह्यं मन्त्रोदितं प्रिय ॥ ७७
यन्न कस्यचिदाख्यातं तद् यथा कथयाम्यहम् ।
पूर्वमादौ युगे देव दिव्याज्ञायाः समुद्भवः ॥ ७८
तत्रोत्पन्ना च सा देवी अङ्कुराकाररूपिणी ।
तया चीर्णं तपश्चोग्रं दिव्याज्ञया जितेन्द्रियम् ॥ ७९
ततः सा कुब्जिकाकारा कुटिला नग्नवाससा ।
त्रिस्वरूपा ह्यहं जाता वृद्धत्वं समुपागता ॥ ८०
शिवशक्तिसमायोगो गीयते सर्वशाम्भवम् ।
वामे शक्तिः समुद्भूता दक्षिणे तु शिवः स्मृतः ॥ ८१
वामे चैव तु ब्रह्माणी रौद्री चैव तु दक्षिणे ।
इडापिङ्गलभावेन गीयते सर्वजन्तुषु ॥ ८२
चन्द्रस्तु वामसंभूतः रौद्र्या चैव तु भास्करः ।
द्विधा भिन्नं जगत् सर्वं ओतप्रोतं वरानन ॥ ८३
त्रिविधभेदभिन्नं तु वक्ष्यते शृणु साम्प्रतम् ।
त्रिधा भिन्नं जगन्नाथ भूतग्रामं चराचरम् ॥ ८४
सुषुम्नाचरसंचारी विचित्रा नाम विश्रुता ।
चित्रितास्त्रिस्वरूपेण ब्रह्मविष्णुमहेश्वराः ॥ ८५
वामा ज्येष्ठा च रौद्री च त्रिधा देवी व्यवस्थिता ।
पुष्करान्ते सदा लीना महापथपदाश्रिता ॥ ८६
शिवानामेन विख्याता सदा शिवे लयंगता ।
अपरं वक्ष्यते देव येन भेदेन संस्थिता ॥ ८७
इडा च पिङ्गला चैव शिवा चैव त्वनामया ।
सत्त्वादिगुणसंभूता इच्छाद्याः शक्तयस्त्रिधा ॥ ८८
एवमेव प्रकारेण संस्थितस्तु त्रिधात्मकः ।
अधुना प्रोच्यते देव चतुर्धाभेदमुत्तमम् ॥ ८९
सुषिरादिविभागेन या विभिन्ना हि ते प्रिया ।
ज्ञातव्या कौलिकेनैव चतुर्धा ते कुलेश्वर ॥ ९०
वामदक्षिणमार्गेण चतुर्धा त्वष्टधा स्मृता ।
वामा चैव जया देवी विजया दक्षिणे तथा ॥ ९१
एता एतैस्तु भेदैस्तु अष्टधा पुनरेव हि ।
अष्टादशक्रमाम्नायं उन्मनाज्ञाविनिर्गतम् ॥ ९२
चतुःप्रकारसंयुक्तं पञ्च षट् च त्रिधात्मकम् ।
एतदेव मया ख्यातमष्टादशक्रमोदयम् ॥ ९३
चन्द्रसूर्यविभागेन वामदक्षिणयोगतः ।
उदयास्तमनं देव चतुर्धा तु वरानन ॥ ९४
पुनः सृष्टिप्रयोगेन पञ्चब्रह्मोदयेन च ।
पञ्चावस्थास्तु कुलजा विमलाद्यस्तु संज्ञया ॥ ९५
एवं पञ्चप्रकारेण जगद्योनिः स्थिता ह्यहम् ।
शृणु देव प्रवक्ष्यामि षड्विधोत्तरमुत्तमम् ॥ ९६
यन्न कस्यचिदाख्यातं तच्च ते कथयाम्यहम् ।
पूर्वकाले तु देवेश हिमवन्तमुखाच्छ्रुतम् ॥ ९७
षड्विधाहं समुत्पन्ना त्रिधा शृङ्गाटरूपिणी ।
पीठत्रयं समाख्यातं नानाभेदं तव प्रिय ॥ ९८
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।
पीठत्रितयविज्ञेया देव्य एते त्रयान्विताः ॥ ९९
एतेभ्यो देव्य उत्पन्ना एकैके च द्विकं द्विकम् ।
षट्कभेदेन ता ह्येव षट्चक्रेषु व्यवस्थिताः ॥ १००
द्वे द्वे पीठेषु विख्याताः संभूताः कुलभूषणाः ।
तासां नामानि वक्ष्यामि येषु पीठेषु संस्थिताः ॥ १०१
हाकिनी शाकिनी चैव उड्डियाणाद् विनिर्गते ।
काकिनी लाकिनी चैव पूर्णगिर्याद् विनिर्गते ॥ १०२
राकिनी डाकिनी चैव कामरूपाद् विनिर्गते ।
एवं देव्यः समुत्पन्ना निग्रहानुग्रहक्षमाः ॥ १०३
देशे देशे तु विद्यन्ते विख्याताः सिद्धशासने ।
कुलजाः सहजाश्चैव सप्तसप्तार्णवार्णवाः ॥ १०४
सहजा कुलजा चैव खेचरी भूचरी तथा ।
परिवारं तु देवेश अनेकाकाररूपतः ॥ १०५
वामाद्यानां चतुष्कानि शिवाद्यान्येव ये चतुः ।
चतुःषष्टिस्तथा देव्यो द्वात्रिंशच्च प्रजातिकाः ॥ १०६
ताः षोडशकलोपेताः द्वादशानि च सूर्यजाः ।
अष्ट देव्यः कुलोत्पन्नाश्चतुष्कं च त्रिकं तथा ॥ १०७
सर्वमेवं हि देवेश श्रीमत्कुब्जाविनिर्गतम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते त्रिकभेदसृष्ठिसाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ३५ ॥
Kumārikākhaṇḍa – Kapitel ३६
षट्त्रिंशानन्दः
श्रीनाथ उवाच
एतत् सर्वं मया ज्ञातं त्वत्प्रसादान्महेश्वरि ।
अधुना श्रोतुमिच्छामि अनुष्ठाज्ञा यथा भवेत् ॥ १
भुक्तिमुक्तिप्रदा देवि विज्ञानज्ञानभूमिका ।
निर्वाणं श्रोतुमिच्छामि अव्यक्तं च परापरम् ॥ २
श्रीवक्रा उवाच
साधु साधु महाप्राज्ञ संसारतरणक्षम ।
कथयामि न संदेहो निर्वाणाज्ञा यथा भवेत् ॥ ३
वक्ष्ये परापरं तत्त्वं श्रूयतां कमलानन ।
समयाचारमार्गेण यथा गुरुमुखागतम् ॥ ४
कर्णात् कर्णगतं तत्त्वं नित्योदितमखण्डितम् ।
सदोदितमहानन्दं अव्युच्छिन्नं निरन्तरम् ॥ ५
सर्वानन्दकरं देव साधकां सिद्धिकाङ्क्षिणाम् ।
गुरुवक्त्रस्थितं तच्च शास्त्रमुद्देशमात्रकम् ॥ ६
सदानुष्टानशीलस्य नित्यमेकस्तथासि ते ।
चित्तं चेत्यात्मचैतन्यं चेतितं येन पुद्गले ॥ ७
भरिताज्ञः सदानन्दो निरपेक्षोऽविशङ्कितः ।
निष्कले कुलचारी स न निद्रा न क्षुधा तृषा ॥ ८
न मनो नापि संज्ञा च विरक्तश्च सदात्मवान् ।
नायासो न रतिश्चैव न च शीतोष्णमेव च ॥ ९
सुखदुःखादिकं सर्वं न विजानाति किञ्चन ।
गीता च हसिका नित्यं वाद्यचेष्टादिकं तथा ॥ १०
धावनं वल्लनं चैव स्वेच्छयापि प्रवर्तते ।
एवमादि प्रकाराणि संपद्यन्ते यथा यथा ॥ ११
तथा तथा न भेतव्यं क्रीडितव्यं यदृच्छया ।
इत्येवं परमानन्द उन्मना च सदोदिता ॥ १२
अवस्था कथिता देव दुर्लभा तव भैरव ।
उपहास्यन्ति पशवो दिव्यज्ञानबहिष्कृताः ॥ १३
शास्त्रमार्गे यथा मूर्खः कुमारी स्त्रीसुखं यथा ।
तथा तत्त्वं न विन्दन्ति योगमार्गोपहासकाः ॥ १४
अन्यथा वेदमार्गोक्तं अन्यथागमवेदितम् ।
अन्यथा कौलिकं मार्गं अन्यथा पारमार्थिकम् ॥ १५
तस्माद् भ्रान्तिं त्यजेदेव निर्विकल्पं समाचरेत् ।
स्वयं गुरुः स्वयं शिष्यः स्वयं शक्तिः स्वयं शिवः ॥ १६
स्वयं स्थूलः स्वयं सूक्ष्मः स्वयमेव परापरः ।
आधारयेत् तु शान्तात्मा स्वशरीरे परापरम् ॥ १७
उन्मनान्तं तु यैः प्राप्तं सिद्धास्ते शाक्तशाम्भवाः ।
आराधना तु सर्वेषां मण्डले क्रियते भुवि ॥ १८
गुरुसिद्धक्रमाचार्यान् वृक्षनाथं तु शासने ।
न रिक्तं मण्डलं कुर्याद् यदीच्छेत् सिद्धिमात्मनि ॥ १९
यदा लोभेन मूढात्मा रिक्तं मण्डलकं गुरोः ।
तदा आज्ञा कुतस्तस्य कुतः प्रत्ययकौलिकम् ॥ २०
मायान्विताः शठाः क्रूरा योगिनीजननिन्दकाः ।
गतास्ते नरके घोरे ते च बद्धा महोदरे ॥ २१
दुस्तरे तु महाघोरे गताः कल्पाश्चतुर्दश ।
महाभक्त्यान्वितं पिण्डं विनिवेद्य प्रसन्नधीः ॥ २२
द्रव्यहीनो गुरोः सेवं कर्तव्यं दासवत् पुनः ।
भावोद्भवा पराशक्तिर्देहमध्ये व्यवस्थिता ॥ २३
देहं त्यक्त्वा परासूक्ष्मां आज्ञारूपामिमां शृणु ।
तत्त्वध्यानं सदा चिन्त्यं योगिनीनां महोदयम् ॥ २४
कुब्जिका च परा देवी सद्यःप्रत्ययकारिका ।
नमस्करेत् परां देवीं भैरवीं भरणात्मिकाम् ॥ २५
भैरवसहितां वन्दे आज्ञासिद्धिप्रदायिकाम् ।
योगेशीं सिद्धमात्रीं च खेचरीं भूचरीं तथा ॥ २६
कुटिलां च नमस्कृत्वा शिरे ध्यात्वा च पादुकाम् ।
आरभेत परं योगं प्रणम्य गुरुपादुकाम् ॥ २७
आधारचक्रमध्यस्थं सोमसूर्याग्निमध्यगम् ।
वह्निमण्डलकं मध्ये शुद्धदीपशिखाकृतिः ॥ २८
ध्यानमारभते योगी अचिरात् सिद्धिभाग् भवेत् ।
तडिद्वलयसंकाशं सूर्यकोटिसमप्रभम् ॥ २९
तप्तचामीकरप्रख्यं ज्वालारूपचिदुद्भवम् ।
रश्मिभिः पूरितं विश्वं आब्रह्मभुवनान्तिकम् ॥ ३०
तन्मध्ये मनमारोप्य दृढीभूत्वा विचक्षणः ।
ध्यायेन्महाद्भुतं योगं यत् सुरैरपि दुर्लभम् ॥ ३१
अचिरात् सिद्धिमाप्नोति इच्छया यत् समीहते ।
आवेशं भवते तस्य कम्पस्तोभादिप्रत्ययम् ॥ ३२
भ्रमणं कम्पनं स्तोभं महाघूर्णिः प्रवर्तते ।
सदाविष्टो भवेत् सोऽपि योगिनीनां च मेलकम् ॥ ३३
अतीतानागतं चैव परपुरप्रवेशनम् ।
प्रतिमाचालनं स्फोटं सैन्यस्तम्भं तथैव च ॥ ३४
महादेशान्तरं गच्छेदासमुद्रान्तमेखलाम् ।
करोति सिद्धवत् कर्म कृत्याकृत्यानि यानि च ॥ ३५
कुरुते नात्र संदेहो यदात्मा तत्त्वतां गतः ।
दुर्लभेदं महाज्ञानं न देयं यस्य कस्यचित् ॥ ३६
गुरुभक्ताय शिष्याय श्रद्धावतः प्रदापयेत् ।
काद्यागमे सदा भक्ताः सत्यवन्तो दृढव्रताः ॥ ३७
तेषां देयमिदं ज्ञानं त्रिदशैरपि दुर्लभम् ।
एतत् ते कथितं देव मूलचक्रस्य भूमिगम् ॥ ३८
शृणु देव जगन्नाथ अपरं ज्ञाननिर्णयम् ।
स्वाधिचक्रस्य मध्यस्थं उभौव्यापकभेदितम् ॥ ३९
कुण्डली या परा शक्तिर्मणिपूरे लयंगता ।
अहिसुप्तैव देवेशी कुण्डलाकाररूपिणी ॥ ४०
अप्रबुद्धान् सदा देवी महामुद्रा विबुध्यते ।
मनस्तत्रैव निक्षिप्य प्राणदण्डेन ताडयेत् ॥ ४१
स्पन्दते नात्र संदेहो रोमाञ्चं वै मुहुर्मुहुः ।
अनेनाभ्यासयोगेन पद्मरागसमप्रभाम् ॥ ४२
ध्यानात् खेचरतां योगी लभते नात्र संशयः ।
कदम्बगोलकाकारं बिन्दुकोटिविभूषितम् ॥ ४३
शक्तिसूत्रगतं तत्त्वं ध्यायेत् तत् निश्चलात्मनः ।
नाभिस्थानात् समुत्थाय हृदये तु लयं कुरु ॥ ४४
हृदयात् कर्षयेद् योगी कण्ठकूपे विनिक्षिपेत् ।
लम्बिकां प्लावयित्वा तु पिबेत् ज्ञानामृतं शनैः ॥ ४५
तदूर्ध्वमूर्ध्वगगनं ब्रह्मरन्ध्रं समाश्रयेत् ।
स्पर्शं विन्दति देवेश शीतलं योगदं परम् ॥ ४६
पुनरावृत्य देवेश मणिपूर्णे लयं कुरु ।
स्पर्शोपलब्धियोगोऽयं नाभिग्रन्थिविनिर्णयम् ॥ ४७
ग्रथितं शिवशक्तिभ्यां तिष्ठते योगमुत्तमम् ।
अवस्थाभ्यासनादेव व्रजते च सदाशिवम् ॥ ४८
अध–ऊर्ध्वविभागेन संसरेत् प्राणरूपिणी ।
शक्तिः सा परमाख्याता देवानामपि दुर्लभा ॥ ४९
एवं ते कथितं देव योगं परमदुर्लभम् ।
न दातव्यमभक्तानां समयद्वेषकारिणाम् ॥ ५०
सद्भक्तानां सुशिष्याणां सत्यवादी दृढव्रतः ।
सर्वस्वनिवेदकानां तत्त्वज्ञानस्य काङ्क्षिणाम् ॥ ५१
तेषां देयमिदं ज्ञानं योगिनां हृदयोत्तमम् ।
अन्यथा यस्तु जल्पेत स पापिष्ठतरो भवेत् ॥ ५२
श्रीनाथ उवाच
श्रुतं मे तत्त्वसद्भावं मणिपूर्णस्य निर्णयम् ।
साम्प्रतं श्रोतुमिच्छामि योगानाहतमुत्तमम् ॥ ५३
श्रीवक्रा उवाच
शृणुष्वैकमनो नाथ ज्ञानसद्भावदुर्लभम् ।
योऽसौ सर्वगतो देवः हंसो हृदान्तवाहकः ॥ ५४
साक्षादेति ध्रुवं स्थानं आत्मा हंसः स पुद्गलः ।
निरञ्जनः शिवो व्यापी देहिनां देहधारकः ॥ ५५
श्रीकण्ठ किं बहूक्तेन नामकोटिस्त्वसंख्यया ।
तस्य स्वरूपं वक्ष्यामि येन विन्दन्ति साधकाः ॥ ५६
खद्योततडिदाकारं शुद्धस्फटिकवर्चसम् ।
विस्फुरन् तं परं तत्त्वं शक्तिचारेण मोदितम् ॥ ५७
हृत्पद्मपीठमध्यस्थं पुष्करान्ते लयं गतः ।
नदते हंस हंसेति हंसो देवः सदाशिवः ॥ ५८
हनते शक्तिदण्डेन श्वासोच्छासस्वरूपतः ।
शक्तिना आहतो यस्मात् तस्मादनाहतोच्यते ॥ ५९
कुरुते दशधा शब्दं शक्तिदण्डसमाहतः ।
चिणीति प्रथमं शब्दं चिञ्चिणीति द्वितीयकम् ॥ ६०
चिरकाली तृतीयं तु शङ्खशब्दं चतुर्थकम् ।
पञ्चमं तन्त्रिनिर्घोषं षष्ठं वंशरवं तथा ॥ ६१
सप्तमं कंसतालाख्यं मेघशब्दं तथाष्टमम् ।
नवमं दाहनिर्घोषं दशमं दुन्दुभिस्वनः ॥ ६२
नवशब्दान् परित्यज्य दशमं मोक्षदायकम् ।
तद् विदित्वा महाभाग अचिरात् सिद्धिमाप्नुयात् ॥ ६३
सततं मानसपुष्पैः शुद्धैर्ध्यानसमन्वितैः ।
ध्यायेज्जपेत् ततो देव अचिरात् प्रत्ययं लभेत् ॥ ६४
श्रीनाथ उवाच
विस्तृताआनि च शास्त्राणि न शक्यन्तेऽवधारितुम् ।
यत् त्वयोक्तं महादेवि हंसाख्येति सुदुर्लभम् ॥ ६५
तत्त्वतोऽयं मयाज्ञातं विशुद्धं कथयस्व मे ।
श्रीवक्रा उवाच
शृणु नाथ महाप्राज्ञ विशुद्धज्ञाननिर्णयम् ॥ ६६
हृत्पद्मपीठमध्यस्थं ध्यायेद् हंसं सनातनम् ।
कदम्बगोलकाकारं तारारूपं व्यवस्थितम् ॥ ६७
ध्यायेत् स्वरश्मिजालेन शतार्कायुततेजसम् ।
यथा दीपो निर्वातस्थो निष्कम्पस्तिष्ठते स्थिरः ॥ ६८
मनसा निश्चलं कृत्वा देदीप्यार्चिसमुज्ज्वलम् ।
एवमभ्यस्यमानोऽयं सिद्धिस्तस्य न दूरतः ॥ ६९
दुराच्छ्रवणविज्ञानं परदेहप्रवेशनम् ।
प्रतिमास्फोटनं जल्पं सैन्यस्तम्भस्तथैव च ॥ ७०
दिव्यावेशः प्रजायेत अचिरात् सिद्धिरिष्यते ।
एतत् ते कथितं देव ज्ञानं परमदुर्लभम् ॥ ७१
सद्यःसिद्धिकरं शुद्धं किमन्यत् परिपृच्छसि ।
अनाहतमनामं च श्रीनाथं हंसरूपिणम् ॥ ७२
शिवशक्तिसमायोगं ज्ञातव्यं सिद्धिकांक्षिभिः ।
श्रीनाथ उवाच
श्रुतं मे तत्त्वसद्भावं विशुद्धं शुद्धनिर्मलम् ॥ ७३
पुनरन्यं श्रोतुमिच्छामि शुद्धात् सुशुद्धं परापरम् ।
श्रीवक्रा उवाच
साधु साधु महाशम्भो कौलानां हितकाम्यया ॥ ७४
पृच्छसे परमं तत्त्वं विज्ञानं परमामृतम् ।
ब्रह्माद्याश्चासुराः सर्वे सिद्धाः परमयोगिनः ॥ ७५
इदं ज्ञानं समासाध्य अमरत्वपदं गताः ।
शाश्वतं परमं दिव्यं कण्ठस्थाने लयं कुरु ॥ ७६
प्राप्यते शाश्वतं योगं अमृतीकरणमुत्तमम् ।
या सा रुद्रात्मिका शक्तिर्द्वादशान्ते लयं गता ॥ ७७
ध्यायेत् तां मनसा देव स्थिरां दीपशिखोपमाम् ।
तेनैवात्मानमात्मैव हृच्चक्रे ईश्वरं प्रभुम् ॥ ७८
संवित्तिं लभते देव अचिरादपि नान्यथा ।
शृणु नाथ परं भेदं तत्त्वज्ञानमनुत्तमम् ॥ ७९
हृत्पद्मपीठमध्यस्थं त्र्यक्षरं सहजं शिवम् ।
सूर्यचक्रसमारूढं शुद्धस्फटिकनिर्मलम् ॥ ८०
भ्रमते चक्रचक्रान्ते दलैकैके पृथक् पृथक् ।
एवमभ्यसते योगी षण्मासानि त्रिलोचन ॥ ८१
अचिरात् सिद्ध्यते तस्य महाव्याप्तिरखण्डिता ।
रसनाकुञ्चनं कृत्वा ध्यायेदावहलावधिम् ॥ ८२
एवमभ्यसते योगी सर्वव्याधिविवर्जितः ।
शक्तिशूलेन तं भित्त्वा पिबेदमृतमुत्तमम् ॥ ८३
दिव्यदेहो भवेत् योगी खेचरीणां प्रियो भवेत् ।
यान् यान् समीहते कामान् स्वर्गे मर्त्ये च भूतले ॥ ८४
तान् तान् प्राप्नोति योगीन्द्रो अचिरान्नात्र संशयः ।
एतत् ते कथितं देव विज्ञानममृतोपमम् ॥ ८५
किमन्यं पृच्छसे देव तदेव कथयाम्यहम् ।
श्रीनाथ उवाच
श्रुतं मे शुद्धतत्त्वं तु त्वत्प्रसादाद् गणाम्बिके ॥ ८६
अधुना श्रोतुमिच्छामि आज्ञातत्त्वं सुदुर्लभम् ।
श्रीवक्रा उवाच
संस्फुटं पृच्छितं शम्भो ज्ञानं ज्ञेयात्मकं परम् ॥ ८७
कथयामि न संदिग्धं आज्ञातत्त्वं महोदयम् ।
नादबिन्दुकलाज्योतिरानन्दं भैरवात्मकम् ॥ ८८
ध्रुवस्थाने तु सर्वे ते षट्चक्रक्रममागताः ।
एतैः स्मरितमात्रैस्तु कम्पते देहपञ्जरम् ॥ ८९
इडापिङ्गलमध्ये तु चन्द्रार्कपुटमध्यतः ।
तन्मध्यवर्तिनो योगी चिन्तयेत् तां च रौद्रिकाम् ॥ ९०
रुद्राणी रौद्ररूपेण रौद्री भिन्नकलोदिता ।
वह्नितेजसहस्राभा रौद्री ज्ञानशलाकया ॥ ९१
रूपरन्ध्राद् विनिष्क्रान्ता कालानलसमप्रभा ।
उच्चरन्ती परं नादं अलेख्यानामनामतः ॥ ९२
तालुरन्ध्रात् समुत्थाप्य पिबन्ती परमामृतम् ।
नादबिन्दुं स्रवन्ती सा वाडवानलरूपिणी ॥ ९३
आज्ञास्थाने सुदीप्ताभा उदिता सा कलौ युगे ।
चक्रे शक्तिरनन्तात्मा शान्ताख्या शुद्धवाससा ॥ ९४
आज्ञास्थानपदे प्राप्ते कृतकर्म यथेच्छया ।
चालनाच्चालयेत् सर्वान् सदेवासुरमानुषान् ॥ ९५
ब्रह्मविष्ण्विन्द्ररुद्रान् च सशैलवनकाननान् ।
वेधयेत ध्रुवस्थाने योगी तद्गतचेतसः ॥ ९६
तत्रस्थाने महाचक्रं द्वात्रिंशारं सुवर्तुलम् ।
सूर्यायुतसमप्रख्यं चन्द्रकोटिसमप्रभम् ॥ ९७
वह्निकोट्यर्बुदाभासं ज्वालामालासमाकुलम् ।
तत्र सा तिष्ठते देवी भैरवेण समन्विता ॥ ९८
आकारे आदिनाथं तु यत्र देवी व्यवस्थिता ।
तेन आज्ञाभिधानं तु महाचक्रं प्रकीर्तितम् ॥ ९९
श्रीनाथं भैरवी शान्ता कालिका सा च वक्रिका ।
भीमा खगेशी चित्रा च विचित्रा कुटिलानना ॥ १००
नन्दा भद्रा जयन्त्याख्या विजया चापराजिता ।
मोहनी कालसंकर्षी हेमा कूष्माण्ड चर्चिका ॥ १०१
तरङ्गा निर्मला चण्डा विद्युज्जिह्वा भयावहा ।
शवरी शावरी चैव शर्वरी च पुलिन्दिका ॥ १०२
नित्यक्लिन्ना सुरक्ता च क्रमभेदेषु देवताः ।
द्वात्रिंशारे महाचक्रे संस्थिता व्योममण्डले ॥ १०३
साकारे च निराकारे संस्मरेच्चक्रदेवताः ।
यो वेत्त्येता अनन्तात्मा तस्य आज्ञा स्फुरत्प्रभा ॥ १०४
वक्राशक्तिर्विरूपाख्या कूटाख्या परमाव्यया ।
शक्त्या शान्तिं विजृम्भन्ती उल्लसन्ती भगानना ॥ १०५
तत्त्वज्वाला समस्तानि ज्वालयन्ती मुहुर्मुहुः ।
आज्ञास्थाने महाचक्रे संस्मरेत् कुलकौलिनीम् ॥ १०६
तत्क्षणात् कुरुते कीर्तिं श्रीक्रमे वारुणे गृहे ।
भूमित्यागं पुरक्षोभं उत्क्रान्तवासलक्षणम् ॥ १०७
अतीतानागतं चैव वर्तमानं परापरम् ।
दुराच्छ्रवणविज्ञानं कुरुते च यथेच्छया ॥ १०८
एतत् ते पूर्वमाख्यातं सारात् सारतरं परम् ।
महाव्याप्तिकरं शम्भो षट्कूटं च षडात्मकम् ॥ १०९
आधाराधेययोगोऽयं षट्कभेदे समभ्यसेत् ।
षट्त्यागात् सप्तमे मुक्तिरक्षराक्षरशक्तिभिः ॥ ११०
मन्त्रविद्याक्रमाचारं सप्तान्तात् विनिर्गतम् ।
सप्तमान्ते लयं तत्र कर्मेन्द्रियसमन्विताः ॥ १११
यथा वाता शरीरस्था मनोङ्गीरयते पुरा ।
तथा शक्तिः शरीरस्था एवं सापि परापरा ॥ ११२
एका सानेकभेदैस्तु एका सापि षडानना ।
एका सा भैरवानन्दा मनोरूपा मनोन्मना ॥ ११३
रमते तत्र देवेशी विषयकुलसंकुले ।
यावन्न श्रीमतं श्रुतं पंक्तिभेदेन भैरव ॥ ११४
यावन्न गुरुकारुण्यं तावत् सिद्धिः कुतः कुले ।
तस्मादन्यत् त्यजेत् सर्वं आज्ञाचक्रं समाश्रयेत् ॥ ११५
स्मरणान्मुच्यते योगी संसाराद् दुःखसागरात् ।
ब्रह्महत्या सुरापानं स्त्रीहत्या वा सुदारुणा ॥ ११६
तत्क्षणान्मुच्यते योगी षट्चक्रक्रमसेवनात् ।
योगिन्यस्तस्य तुष्यन्ति अदिव्यदिव्यदेहगाः ॥ ११७
सहजाः कुलजाश्चैव सिद्ध्यन्ते योगिनश्च तु ।
इति आज्ञावतारोऽयं न देयं यस्य कस्यचित् ॥ ११८
अथ दत्तं प्रमादेन लक्षजापाद् विशुद्ध्यति ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां विज्ञानज्ञानाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ३६ ॥
Kumārikākhaṇḍa – Kapitel ३७
सप्तत्रिंशानन्दः
श्रीनाथ उवाच
भैरवि त्वत्प्रसादेन ज्ञाता दीक्षा कुलोदिता ।
होमकुण्डविधानं च उपदेशं यथाक्रमम् ॥ १
अधुना श्रोतुमिच्छामि समयाचारलक्षणम् ।
श्रीवक्रा उवाच
शिष्याणां समयाचारं यथागमप्रचोदितम् ॥ २
अनुक्रमेण देवेश तत् सर्वं शृणु साम्प्रतम् ।
बहुजन्मान्तरैः पूर्वं स्वकर्मक्षयमागतम् ॥ ३
दीक्षया भवते सिद्धिर्भवते गतिरुत्तमा ।
दीक्षितस्यापि यस्याशुः कर्मबन्धं न त्रुट्यते ॥ ४
न तस्य गुरुकारुण्यं समयाचारणं नहि ।
लब्ध्वा तु गुरुकारुण्यं समयाचारपालकः ॥ ५
मुच्यते कर्मबन्धैस्तु इत्याज्ञा पारमेश्वरी ।
दीक्षयापि विशुद्धश्च समयाचारदूषणः ॥ ६
न स मुच्यति बन्धैस्तु यदि नाचारवान् भवेत् ।
नित्यं गुरुमण्डलं कुर्याद् गन्धधूपाक्षतादिभिः ॥ ७
कुर्यान्मण्डलसंस्कारं गुरुदैवतपूर्वकम् ।
एकान्ते विजने स्थाने आदौ संपूज्य पुस्तकम् ॥ ८
तदुपदेशसंयुक्तं श्रोतव्यं च कुलागमम् ।
श्रुत्वागमोपदेशार्थं दासवत् पूजयेद् गुरुम् ॥ ९
मुमुक्षुणा च शिष्येण समयाचारपालनम् ।
श्रीमताग्रे अनुष्ठानं शास्त्रज्ञः कुलजोऽपि वा ॥ १०
साष्टाङ्गं च नमस्कारं तत्त्वज्ञगुरुसन्निधौ ।
अतिहास्यमवष्टम्भं लीलयाङ्गप्रसारणम् ॥ ११
विनोदं जल्पनं वादं न कुर्याद् गुरुसन्निधौ ।
नासाम्बु कौटिकं शब्दं विकारं दन्तधावनम् ॥ १२
स्वेच्छापर्यङ्कबन्धं च न कुर्याद् गुरुसन्निधौ ।
कुकार्यमविधेर्युक्तं अनुक्तं यदि गुरोर्भवेत् ॥ १३
गुरुरेव हि जानाति स्वयं तन्न विचारयेत् ।
आसनं शयनं छत्रं भूषणं यानमेव च ॥ १४
न कुर्याद् गुरुसादृश्यं यदि सिद्धिं समीहते ।
गुर्वीयमासनं पट्टं योगपट्टं तु पादुका ॥ १५
पात्रं वै चाक्षमाला च कौपीनं वस्त्रमेव च ।
शस्त्रं शास्त्रं महागुह्यं दिव्योपस्करणं च यत् ॥ १६
भक्तियुक्तेन ते पूज्या गोपनीयाः प्रयत्नतः ।
गन्धं धूपं च ताम्बूलं अन्नपानादिकं च यत् ॥ १७
निवेद्य गुरवेऽशेषं ग्राह्यमादेशपूर्वकम् ।
एवं कृत्वा गुरोर्भक्तिं शिष्यो निश्चलभक्तिमान् ॥ १८
स लभेद् गुरुकारुण्यं अभिषेको विधीयते ।
आज्ञा प्रवर्तते नित्यं शिष्ये लब्धगुर्वाज्ञया ॥ १९
स्वेच्छया चरते लोके सततं सिद्धिकांक्षिणः ।
यदि चर्यावधूतोऽसौ पीठे क्षेत्रे चरेत् क्रमात् ॥ २०
योगीशः सिद्धिकामस्तु आज्ञातीव्रत्वकारणात् ।
खर्परं भोजनार्थे तु गृह्णीयात् सपरिग्रहम् ॥ २१
शून्यदेवगृहे नित्यं वसेद् योगीश्वरः सदा ।
मित्रामित्रं सुखं दुःखं इष्टानिष्टं शुभाशुभम् ॥ २२
तथा मानापमानं च तथा निन्दाप्रशंसनम् ।
पाषाणं समहेमं च शाकः शाल्योदनं तथा ॥ २३
समत्वे वर्तते योगी यदि सिद्धिं समीहते ।
क्वचिद् भट्टः क्वचित् नटः क्वचित् प्रव्रजितो नरः ॥ २४
नानारूपधरो योगी पर्यटेच्च महीतले ।
गुरोर्भक्तिश्च ज्येष्ठेभ्यस्तथा चैव कुलागमे ॥ २५
योगिनीनां कुमारीणां भक्त्या संपूजयेत् सदा ।
लोभं मोहं तथालस्यं आज्ञाभङ्गं परिग्रहम् ॥ २६
लौल्यं च विषयासक्तिं न कुर्यात् सिद्धिकांक्षिणः ।
मन्त्रं रुद्राक्षसूत्रं च पादुकां गुरुमण्डलम् ॥ २७
दर्पणं च तथा लिङ्गं मुद्रां चैव कुलागमम् ।
तथा च शवरीज्ञानं न दद्याद् यस्य कस्यचित् ॥ २८
रागद्वेषमहंकारं पैशून्यं च सदम्भकम् ।
क्रोधं लोभं तथालस्यं हन्यादेतानि सर्वदा ॥ २९
अन्येषां समयाचारं कुमारीं योगिनीगणम् ।
सिद्धद्रव्याणि पीठानि सर्वथा च न निन्दयेत् ॥ ३०
योगिनीसिद्धचारित्रं पारम्पर्यकुलागमम् ।
अदृष्टं चाश्रुतं पूर्वं गुह्यशास्त्रं च देवता ॥ ३१
सर्वेषां स्तुतिः कार्या गुरुद्रोहं च वर्जयेत् ।
द्यूतं च इन्द्रजालानि पशुघातं च निग्रहम् ॥ ३२
मल्लकुक्कुटयुद्धं च सुनग्नां प्रकटस्तनीम् ।
कन्यायोनिं पशुक्रीडां न प्रेक्षेत् कुलयोगिनः ॥ ३३
मूर्खं कुष्ठाङ्गहीनं च बधिरं चान्धमेव च ।
मांसविन्मूत्रगन्धं च न जुगुप्स्येत् सुरां तथा ॥ ३४
वृक्षगुल्मं लतावल्यस्तृणानि स्थावराणि च ।
नोन्मूल्या नैव ते च्छेद्या न भेद्या नैव पीडयेत् ॥ ३५
गन्धपुष्पादि यत् किञ्चित् योगिनीद्रव्यमेव च ।
अप्रार्थितं च यल्लब्धं तेन पूज्यं कुलागमम् ॥ ३६
अनेनाचारयोगेन योगी सिद्धिपरायणः ।
सदा स्मरणपुष्पैस्तु पूजयेद् गुरुपादुकाम् ॥ ३७
कौटिल्यं वादगोष्ठीं च मात्सर्यं पशुसंगमम् ।
काष्टपाषाणदेवांश्च न निन्देत् सिद्धिकांक्षिणः ॥ ३८
लोकयात्रा न कर्तव्या पशुगोष्ठी विशेषतः ।
तृतीया पानगोष्ठी च वर्ज्यास्त्रीण्येव पातकाः ॥ ३९
गोत्रगोष्ठीं सदा कुर्यात् क्रमगोष्ठीं विशेषतः ।
तृतीया यागगोष्ठी च त्रीण्येतानि प्रपालयेत् ॥ ४०
न विषं भक्षयेत् प्राज्ञो न क्रीडेत् पन्नगैः सह ।
अतिसहासिकं कर्म न कुर्यात् सिद्धिकांक्षिणः ॥ ४१
नारीगतिं तथा हिंसानातीतं विषयं स्मरेत् ।
न संप्राप्य परीहार्या तस्माद् भूयाद् जितेन्द्रियः ॥ ४२
प्रजापतिगृहे वैश्ये वा वसेत् योगीश्वरः सदा ।
भावना यत्र यत्रैव तत्र तत्रैव गम्यताम् ॥ ४३
मनोरोधो न कर्तव्य अच्छिद्रां सिद्धिमिच्छतः ।
अद्वैताचारमार्गेण सततं विचरेत् महीम् ॥ ४४
मा मां स्पृश सदोषोऽहं लोकानां भाषयेत् सदा ।
कुलाष्टके भ्रमेद् भिक्षां योगीन्द्रो सिद्धिकांक्षिणः ॥ ४५
रेरेशब्दं न वक्तव्यं हेहेशब्दं तथैव च ।
गौरीशब्दं न चोच्चार्यं कालिकां चेति नोच्चरेत् ॥ ४६
खञ्जीशब्दं न वक्तव्यं नैव कुमारिका तथा ।
शाकिनीति न वक्तव्यं सेहारीं नैव चोच्चरेत् ॥ ४७
ग्रामधर्मं न कर्तव्यं शासने सिद्धिमिच्छतः ।
मेषी कुक्कुटि मायूरी हंसी वाराहिका तथा ॥ ४८
महिषी च उलूकी च चमरी गृध्रि एव च ।
छागी मृगी तथा पक्षी स्त्रीलिङ्गान्येऽपि प्राणिनः ॥ ४९
न भक्ष्यमामिषं तेषां प्रपन्नाद् वारितं मया ।
समयी पुत्रकं वापि साधकाचार्यमेव च ॥ ५०
न निन्देत वरारोह पूज्या वन्द्याश्च ते सदा ।
कैवर्तं कन्दुकं म्लेच्छं ध्वजं सूनाकरं भटम् ॥ ५१
कुरूपं विकृतं शठं क्लीवोन्मत्तं तथातुरम् ।
मल्लवन्दिनं कोशाढ्यं शिल्पकं चर्मकारकम् ॥ ५२
तिरस्कारं न कदाचित् स्यात् हूंकारेण न दर्पयेत् ।
वैरिभावं नैव कर्तव्यं साहसं न समाचरेत् ॥ ५३
शयनं च प्रकर्तव्यं एकवृक्षे चतुष्पथे ।
क्षेत्रस्थाने श्मशाने वा क्षूद्रकर्म न कारयेत् ॥ ५४
एकान्ते शयनं कुर्यात् न कुर्याद् देहपीडनम् ।
देवागारे नदीतीरे भस्मगोमयमध्यतः ॥ ५५
शयनं च प्रकर्तव्यं परावस्था च मैथुनम् ।
गोत्रभार्या न वक्तव्या स्ववर्गे च विशेषतः ॥ ५६
खट्वापादं घरट्टं च पूर्णवर्धनिका तथा ।
पेषणी कण्डनी चुल्ली मुशलं देहली तथा ॥ ५७
धनुर्नाराचखड्गं वा अन्ये ये चायुधाः प्रिय ।
न पादेन स्पृशेदेतान् न लङ्घेत कदाचन ॥ ५८
नाकाले भक्षयेद् भक्षं वामहस्ते न सुन्दर ।
वामहस्तान्न दातव्यं दातव्यं दक्षिणे करे ॥ ५९
गृह्णीयात् परदत्तं च वामहस्तेन भैरव ।
न दद्यादौषधं मन्त्रं विद्यारक्षां च कारयेत् ॥ ६०
न जल्पा शिवशास्त्रेषु कर्तव्या वा परस्परम् ।
न दूष्याच्छिवशास्त्राणि संग्रहेन्न कदाचन ॥ ६१
स्वदर्शनमतं देव श्रोतव्यं च प्रयत्नतः ।
पालनीयं सदाभ्यर्च्यं भुक्तिमुक्तिफलप्रदम् ॥ ६२
अवाच्यं नैव वक्तव्यं विरुद्धं न समाचरेत् ।
रुद्रस्थानानि सर्वाणि श्रीपूर्वाणि च भाषयेत् ॥ ६३
श्रीपूर्वं च नमस्कारं गुरोर्नाम समुच्चरेत् ।
तीर्थयात्रा न कर्तव्या योगाभ्यासं समाचरेत् ॥ ६४
प्रभूतं नैव वक्तव्यं गुरोर्वाक्यमनुस्मरेत् ।
अव्यक्तलिङ्गमादाय प्रकटं नैव कारयेत् ॥ ६५
तान्त्रिकैः सह देवेश एकत्र चरुभोजनम् ।
न कर्तव्यं च कुलजैः सिद्धिमुक्तिजिगीषुभिः ॥ ६६
सघृणां कुत्सितां वापि परचेष्टां न निन्दयेत् ।
एकपात्रं न कर्तव्यं यदि साक्षात् कुलेश्वरः ॥ ६७
मन्त्राः पराङ्मुखा यान्ति विघ्नाश्चैव पदे पदे ।
तस्मात् सर्वप्रयत्नेन एकपात्रं न कारयेत् ॥ ६८
गुरुमण्डलकं कार्यं आगमाग्रे गुरोग्रतः ।
शिरस्थं श्रीक्रमं पूज्यं भुक्तिमुक्तिफलप्रदम् ॥ ६९
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यापीठावतारिते विद्यापीठमार्गे विमले षट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अब्बाक्रमभाषिते कादिभेदे समयाचारवर्णने क्रमोदयो नामानन्दः ॥ ३७ ॥
Kumārikākhaṇḍa – Kapitel ३८
अष्टात्रिंशानन्दः
श्रीनाथ उवाच
अन्वयस्य तु यन्मूलं तन्मूलं च न मे श्रुतम् ।
कुलमूलं समाख्याहि कुलाम्नायोपदेशकम् ।
ब्रूहि मे परमेशानि कुलयोनिं महाप्रभो ॥ १
श्रीवक्रा उवाच
या सा शक्तिर्भगाख्या त्रिविधगतियुता त्र्यक्षरा त्रिप्रकारा तस्यां श्री–उड्डियाणं परकलसहितं मध्यसंस्थं सुदीप्तम् ।
तच्छ्रीजालन्धराख्यं प्रकटितनिलयं दक्षिणे चैव कोणे वामे श्रीपूर्णपीठं पशुजनभयकृत् पूरितं येन विश्वम् ॥ २
तस्याग्रे कामरूपं मदनकलयुतं सर्वसिद्ध्यालयं च तत्रान्यं तिस्रपीठं तदुपरि अपरं चन्द्रपीठं ललाटे ।
तस्योर्ध्वे मातृचक्रं त्रिवलयवलितं कोंकणं बिन्दुकोर्ध्वे षट् पीठाः पीठतत्त्वाः षडि षडि षडिभिः षट्सु षट्सु प्रसूतिः ॥ ३
सिद्धाः षट्चक्रदेव्यस्तदनु च अपरं वृक्षषट्कं च वल्ल्यः देवीनां षट् च मुद्रा त्रिविधगतियुता मातृकोणे च योनिः ।
योन्यन्ते वर्णराशिः षडिविधकलनाकारणं षड्भिः लोकैः षड्भिर्मध्ये च त्रीणि त्रिवलयवलितं श्लोकमेकोपदेशम् ॥ ४
मुद्रा तस्यास्त्रिचक्रे त्रिविधवरमुखं दिव्यलिङ्गं कुलीशं् तस्यान्ते लोकमेकं त्वकुलकुलगतं चिञ्चिणीमूर्तिनाथम् ।
तस्याग्रे त्रीणि लोका विरचितविधिवत् षड्भिः लोकैश्च दक्षे अन्ये तद्वामदेशे प्रकटितनिलये आलयं वर्णराशिः ॥ ५
एवं तन्मातृलिङ्गं शिवसकलमयं षट्कमोंकारनाथं सञ्चिन्त्यं व्योमलिङ्गं त्रिपुरपुरगतं आद्यपीठोड्डियाणम् ।
गुह्यं तन्मातृपीठं त्रिपथपदगतं पादमेकाक्षराणां लिङ्गानां मातृचक्रे क्रमपदनिलये आलयाकाशलिङ्गं ॥ ६
संवर्ताकोटरस्थं प्रमुदितभगवन्मुद्रनाथं स्वरीशं षट्चक्रैर्भेदभिन्नं परममृतकलावाममार्गे विलीनम् ।
त्रिष्कोणान्ते समस्तं परमशिवकलालंकृतं योगिवृन्दं तन्मध्ये दिव्यलिङ्गं परमसुखकरं बिन्दुरूपं खरूपम् ॥ ७
नित्यानन्दस्वरूपं तदुपरिमथनात् षट्प्रकारैर्विभिन्नं विद्याभोगाधिकारं सहजकुलभवं तिस्रमाज्ञाललाटे ।
क्लिन्नानाथं कदम्बं वरपुटनिहितं सिद्धकौडारनाथं बिन्दोरन्ते कपादं स च मुदितकलाभैरवस्तेजबिम्बम् ॥ ८
एवं व्याप्तं समस्तं स्थितिलयजननी रुद्रशक्तिस्त्रिभेदैः भेदानां सप्तविंशत्प्रसरमनुभवं वाग्भवं पञ्चभेदैः ।
आम्नायं द्वीपमध्ये निहितक्रमपदे चन्द्रपुर्ये त्रिभेदैः तत्रस्था देवदेवी अकुलकुलमयी नन्ददात्री स्वतन्त्रा ॥ ९
गुर्वाज्ञा षट्प्रसूता पशुभयहरणी सिद्धदिव्यौघरूपा नित्यक्लिन्नास्वरूपा भगमुदितपरानन्दशक्तिः प्रसिद्धा ।
सिद्धानां षड्भिरेकं प्रमुदितकिरणैः पिङ्गलं मातृकूटं कूटानां बीजराशिः कमलशशिपुरे रूपमाज्ञाखगेशम् ॥ १०
खसंज्ञा षड्भिर्भेदैः सह सृजति जगद्वीर्य वर्णाक्षराणां क्षेत्रस्थं बिन्दुकूटं शशिरविमथनाज्जायते पुष्पमेकम् ।
पुष्पात् पुष्पं भवेत् तच्छिवपरमगुरुस्तस्य शाक्तं च पुष्पं द्वौ पुष्पौ चान्यपुष्पं प्रभवति जलधौ दिव्यदेवी कुमारी ॥ ११
अन्यं तत् क्षोभपुष्पं त्वकुलकुलगतं जायते लोकमध्यात् एवं ते पञ्च पुष्पाः क्रमपदसहिता मूर्तिभूताः कुलस्य ।
पुष्पाम्नायोपदेशं सुरवररचितं युग्ममेकाधिकारं द्वौ पुष्पौ मूर्तिलिङ्गं क्रमप्रकटकृतं पूर्वमार्गस्य मुख्यम् ॥ १२
सन्मुख्यौ ह्यग्निसोमौ शिवशक्त्युभयरक्तमित्रैकभावात् आह्लादं चुम्बनं च तदुपरिगतं दिव्यसिद्धद्वयं च ।
कुब्जीशं कुब्जिकाख्या उभयपरिपुटं मन्त्रविद्याक्रमौघं लिङ्गस्यान्ते कलिस्यां कुलशिखिसुकला नित्यमाह्लादकोभौ ॥ १३
द्वावेतौ चन्द्रपूर्ये हरिहरपरमा मध्यमानन्दरश्मिः तस्येच्छयोदितोऽयं ररिररररुभिर्मेरुमार्गोदयं स्यात् ।
देव्येका चान्वयस्य प्रभवति सकला देवता वक्रिकाख्या आयाता तूष्णिनाथात् गिरिगुहरचिता द्योतिता सानलाख्या ॥ १४
द्वौ सिद्धौ मण्डलान्ते शिवशक्ति–उभयौ पुष्पबीजातिसिद्धौ मध्यस्थानैकवृक्षे भवभयशमनं तूष्णिभूतौ गुहान्ते ।
ताभ्यां सृष्टिः कृतान्या तदुपरि अपरं अन्वयौघीशभूतं संजातं पीठमादौ कलिमलहरणं करवीरं श्मशानम् ॥ १५
सिद्धास्तत्रैव पञ्च तदनु च विमलं सिद्धदेव्यश्च पञ्च आमूलोत्पत्तिमेतज्जगतशशिकलासृष्टिरेवोपपन्ना ।
पीठाद्या क्षेत्रलिङ्गा कलिमलदहना ज्ञानमार्गे प्रसिद्धा सर्वे तिष्ठन्ति पीठे उदितगिरितटादन्वयाज्ञाप्रसूतिः ॥ १६
पञ्चाशद् दिव्यरुद्रा अकुलकुलगता एकरस्योड्डियाणे याम्ये तस्यैव वीरा गहरजलगता मातृपिण्डाक्षराणाम् ।
पञ्चाशत् सिद्धिमार्गे अप्रतिहतबला अन्वये सिद्धमार्गे अन्ये वामे च कोणे त्रिपदपथगता भैरवा लिङ्गपूर्णाः ॥ १७
सन्ताने चान्वयस्य सुरवरनमिताः सिद्धवंशे प्रसिद्धाः सिद्धाः पञ्चाशदेते अनुभवगमना पूर्णपीठैकमार्गे ।
तेऽप्येवं कामरूपे त्वधिगतपरमाः सिद्धलिङ्गाङ्गनानां सन्ताने चान्वयस्य प्रमुदितविभवानन्ददाता स्वतन्त्राः ॥ १८
पञ्चाशद् रुद्र आदौ तदुपरिकलिता वीरमार्गे प्रसिद्धाः वामे ते भैरवा वै भरणभगपुरे रुद्रसंज्ञोड्डियाणे ।
सिद्धानामेव मार्गं शिवपुरकलितं सिद्धमार्गं कुलस्य संजातं वक्रिकाख्ये चतुर्युगसहितं मूलपीठे च तूष्णीम् ॥ १९
सन्तानं गोत्रमेतदनुभवरुचिरं देवदिव्यौघमेतत् तूष्णिस्थं सर्वमेतदुदितभग यथा योनिरेकौघमन्त्रः ।
विख्यातं कुब्जिकाख्ये प्रकटितशवरीतूष्णिदेवे खगेश्या देवी दिव्यखचक्रे विचरति खगवद् वाक्रिकामण्डलान्ते ॥ २०
एवं देव्यान्वयं च प्रसरति किरणैः पीठमध्यैकवृक्षे द्वौ सिद्धौ कीर्तितौ यौ अपरपुरवरे तूष्णिचक्रैकनाथम् ।
कल्पैकं तूष्णिभूतं परपुरविशनं निर्भरानन्दमौघं वृक्षस्यान्ते कदम्बं स च सृजति परां वाममार्गे च शक्तिम् ॥ २१
सद्यावेशेन वामा वमयति अमृतं साद्यमेतत् कदम्बं तत्रस्थं सिंहकं च डरलकसहजं प्रत्ययाज्ञोपदेशम् ।
रौद्री सिंहावलोकाद् प्रथनकुलनिधिर्निग्रहं प्रत्ययं च तीव्राज्ञा सिद्धतेजःसमरसगतिना सिंहमेवोपदेशम् ॥ २२
दिव्यान्यो वर्णराशिस्त्रिविधभगवती चन्द्रपुर्ये गृहेऽस्मिन् चन्द्रद्वीपः स चैव सुरवरनमितं पूर्णनामागृहं च ।
देवी तत्रैव पूर्णा क्रमपथसुगता अन्वये सा कुकारा भेदे भेदे च शक्तिः सुसुशिरगगने मेघजालैर्विमुक्ता ॥ २३
मन्थानं मन्थयन्ती मदनकलयुता भेदमन्थानराशौ भैरव्यां भैरवस्य भरतिपुरवरं गोत्रमेवोपदेशम् ।
मध्यस्थं मण्डलेकं स च दिशतु शिवं आश्रमे प्रत्ययाज्ञा सा चाज्ञा भिन्नपीठैः प्रसरति नियता कोंकणस्थाधिकारे ॥ २४
तज्जन्मं मध्यचक्रेऽप्रतिहतगतिना भद्रकूटे शिलायां सिद्धोऽसौ सिद्धवीर्यो रविशशिमथनात् कन्दमूले कदम्बम् ।
संस्था तत्रैव नित्यं अनुभवगमनाद् वर्णरूपा षडश्रे तस्याः कीर्तिः कुलाज्ञा व्यतरति तरसा चिञ्चवृक्षस्य मध्ये ॥ २५
तस्मात् सिद्धिः कुलौघे रविशशिकिरणैः क्षुभ्यते ज्ञानराशिः एवं तन्मध्यसंस्थं उदितभगपथे षोडशैर्भेदभिन्नम् ।
भेदान्ये सप्तविंशत् प्रचरितवसुधा बालकौमारवृद्धे अन्यं तत् खेचरं स्यात् तदुपरिनिभृतं अन्वयेदं प्रसिद्धम् ॥ २६
योगिनां मण्डलेदं त्रिभुवननमितं पीठमध्ये प्रसिद्धं मुद्रैका मूलसूत्रे तमपटलहरा मुक्तिदा तद्विदानाम् ।
आख्यातं चान्वयेऽस्मिन् शिवगुरुमुखगं मूलसूत्रं कुजाख्या कुर्वन्ती सा हि कामान् क्षुभितवरतनुः श्रीकुजा दिव्यलिङ्गम् ॥ २७
सूत्राकारोपदेशं शिवपदप्रथितं कौलिकं शक्तिभेदं पीठद्वारैर्विभिन्नं उदयति जगतः पीठपीठाधिपत्यम् ।
वन्दे चक्रं सुरीशं स्थितिलयविभवं सिद्धनाथं वरीशम् नाम्ना ऐंकारमूर्तिः प्रभवति वसुधां तत्त्वभेदैश्च युक्ताम् ॥ २८
आख्यातं योगपीठं प्रकटितवसुधां कोंकणे ओलिभेदैः तस्यान्ते मूलविद्या रविशशिसकला कूटविद्या प्रसिद्धा ।
हानोच्चारोत्थिता वा भवभयहरणी शुक्लपक्षे तु पूर्णा नाम्ना श्रीचन्द्रपुर्ये प्रकटितनिलये पीठक्षेत्राधिकारे ॥ २९
तस्याः श्रीयाम्यदेशे ग्रसनविधिपरा घोरयुक्ता अघोरा वामे श्रीनाथसिद्धं शशिप्रकटकृतं कामराजं तदग्रे ।
तस्योर्ध्वे यत् पराख्या मधुमथनकरी अर्धचन्द्रे सुलीना मन्थानं तस्य मध्ये कलिमलदहनं तत्र जाता त्रिशक्तिः ॥ ३०
इच्छाज्ञानीक्रियाख्या पर–अपरपरा अन्वयाज्ञाप्रसूता तत्राज्ञा वाममध्ये व्रजति च परमा ब्रह्मग्रन्थौ निगूढा ।
भेदित्वा चक्रसंघं व्रजति च गगने सुषुम्नानिर्गमेण भेदित्वा ब्रह्मरन्ध्रं अटति नभपथे दिव्यमार्गत्रयेण ॥ ३१
वामावर्तेन शक्तिः कुटिलतनुगता रुद्रशक्तिस्त्रिकोणा षट्चक्रं पूरयन्ती मदमथनरता मारुतं पञ्चभेदैः ।
द्वौ पक्षौ हीनपूर्णौ वहति चरमतं मारुतं स्नेहपूर्णं संहारं सृष्टिभेदं रविशशिसकले अर्धरात्रे स्वतन्त्रा ॥ ३२
सा वै श्रीकुब्जिकाख्या वसति च हृदये तूष्णिमध्ये कदम्बे कुर्वन्ती तृप्ति नित्यं पशुभयशमनी दिव्यशक्तिः पराख्या ।
षट्चक्रैः क्रीडमाना परतनुसरती अक्षरूपा भ्रमन्ती पुष्पन्ती पिण्डसंस्था अमृतशशिकला लिङ्गमध्ये सुलीना ॥ ३३
सा ज्ञेया लिङ्गमूर्तिः अपहरतु भयं गुह्यशक्तिस्त्रिकोणा दिव्याज्ञा लोकमाता सृजति जगदिदं आगमस्था च लक्ष्मी ।
सूत्राकारौघमेतत् कलियुगविदितमन्वयस्यादिसूत्रं नानाभेदैर्विभिन्नं क्रमपदकलितं मुखरैर्वृत्तबन्धैः ॥ ३४
ख्यातं कौलीशतुल्यं पशुमललयकृच्छक्तिमार्गोपदेशम् सूत्राकारोपसूत्रं प्रकटयति कलौ मूलसूत्रं कुलोऽयम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यापीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते कुलचर्याभाषाधिकारे कुलाम्नायार्णवयोनिमूलसूत्राधिकारवर्णने क्रमोदयो नामानन्दः ॥ ३८ ॥
Kumārikākhaṇḍa – Kapitel ३९
ऊनचत्वारिंशानन्दः
श्रीनाथ उवाच
पारम्पर्यक्रमायातं आज्ञाशेखरभाषितम् ।
नमामि सिद्धसन्तानं श्रीनाथं तु जगद्गुरुम् ॥ १
ऋषिभिः किन्नरैः सार्धं भूतवेतालपन्नगैः ।
राक्षसैर्यक्षसंघातैर्मरुतैश्च मरुद्गणैः ॥ २
ब्रह्मविष्ण्विन्द्ररुद्राद्यैर्बिन्दुतारागणैस्तथा ।
यमवरुणकुवेराद्यैर्वसुभिर्वसुधादिभिः ॥ ३
नन्दिस्कन्दमहाकालैर्भृङ्गिश्चण्डविनायकैः ।
वीरभद्रादिभिर्मुख्यैः समग्रैः परिवारितम् ॥ ४
पुत्रकैः समयज्ञैश्च साधकाचार्ययोगिभिः ।
तत्त्वविद्भिरनेकैश्च योगिभिः परिवारितम् ॥ ५
समस्तयोगिनीवृन्दैः कुलजैर्ज्ञानयोगजैः ।
ज्ञानविज्ञानसंपन्नैः सहजैर्मन्त्रतन्त्रजैः ॥ ६
पीठजैर्गर्भजैश्चैव क्षेत्रजैर्योनिजैस्तथा ।
समयसंदोहजैश्चैव डाकिनीराकिनीषु च ॥ ७
लाकिनीकाकिनीभिश्च शाकिनीहाकिनीषु च ।
अन्यैश्च विधिभिर्दिव्यैरावृतं तु निरामयैः ॥ ८
गुह्यकैः पूतनाभिश्च योगिनीभिर्विभूषितम् ।
आस्थानं मण्डपं दिव्यं विचित्रं सुमनोरमम् ॥ ९
विचित्रचित्ररचितं मणिमालाविभूषितम् ।
अनेकवस्त्रसंच्छन्नं नानाद्रूमलतावृतम् ॥ १०
प्राकारतोरणोपेतं बहुरत्नोपशोभितम् ।
महारत्नैः सुशोभाढ्यं निर्मितम् विश्वकर्मणा ॥ ११
तत्रस्थां देवदेवेशीं सुखावस्थां कुलेश्वरीम् ।
दृष्ट्वा तं विनयाविष्टः श्रीनाथः परिपृच्छति ॥ १२
भगाख्ये श्रीकुजेशानि अनाख्ये परमेश्वरि ।
संशयोऽयं ममाद्यापि अस्मिन् देवि कुलार्णवे ॥ १३
पारम्पर्यक्रमायातं पृच्छामि त्वां कुलेश्वरि ।
सद्योजातक्रमाम्नायं सिद्धाज्ञायोगसन्ततौ ॥ १४
गृहभेदं तु विमलं बहुभेदार्थविस्तरम् ।
सर्वसंकेतकोपेतं गुह्यमत्यन्तदुर्लभम् ॥ १५
आज्ञाभाषासमायुक्तं गुरुवक्त्रे कथं स्थितम् ।
तमेवमभ्यर्थनं ब्रूहि देवि निःसंशयं मम ॥ १६
कारुण्यं कुरु मे देवि शिलाशेखरभैरवि ।
श्रीवक्रा उवाच
साधु शम्भो प्रवक्ष्यामि दिशादिशं क्रमोदयम् ॥ १७
संकेतकार्थविपुलं कुकारान्वयमर्णवम् ।
उत्तरषट्कभेदोऽयं यथा लब्धं मया पुरा ॥ १८
तथा ते कथयिष्यामि शृणुष्वायतलोचन ।
श्रीनाथ उवाच
अद्य मे सफला देवि तपश्चर्या कुलान्वये ॥ १९
अद्य मे मोक्षसंप्राप्तिस्त्वत्प्रसादान्महाप्रभो ।
भूयो मे तत्त्वतो ब्रूहि यथालब्धं त्वया पुरा ॥ २०
श्रीवक्रा उवाच
अकुलं च कुलं चैव कुलाकुलविनिश्चयम् ।
विकलादिकलैर्भिन्नं तदूर्ध्वे चन्द्रिकाकुलम् ॥ २१
कादिभान्तस्वरूपेण वामाचारं कुलात्मकम् ।
मादिक्षान्तं गता योनिर्दक्षयोनिः अयोगिनी ॥ २२
त्रिमात्रामुद्रितं चक्रं पू–का–ओ–जाचतुष्टयम् ।
तद्बाह्ये षट्प्रकारं तु आधाराद्याज्ञमन्तगम् ॥ २३
षट्प्रकारमिदं कौलं षट्कोशकुलसंभवम् ।
परमं परमपरं हृत्कुलं कुलगोचरम् ॥ २४
अकुलं योनिमध्यस्थं ठकाराकृतिगोलकम् ।
तस्यान्ते तु कलाशेषं तदूर्ध्वे शकटार्धकम् ॥ २५
तस्यार्धार्धं तदर्धार्धस्फुरिताभा सुदीपवत् ।
तत्रस्था परमा शक्तिस्त्रिविधा या च मूर्धनि ॥ २६
वामा ज्येष्ठा च रौद्री च विज्ञेया त्रिविधा च सा ।
दक्षिणे निर्गता ज्येष्ठा वामा चोत्तरमार्गगा ॥ २७
ताभ्यां मध्यस्थिता रौद्री कलाशेषाद् विनिर्गता ।
त्रिविधा सा च विज्ञेया सूर्यावधिचरेण तु ॥ २८
कलाशेषांशको मध्ये तेन व्याप्ता भगाकृतिः ।
सा योनिर्निर्मला माया द्विगुणा सा च मेखला ॥ २९
शकटार्धं विजानीयात् ज्योतिरीश्वरभैरवम् ।
कारणं योगविख्यातं भैरवं भरणात्मकम् ॥ ३०
आनन्दशक्तिमध्यस्थं ज्ञानविज्ञानचोदितम् ।
क्रमानन्दं च संशुद्धं आज्ञानन्दात्मनन्दितम् ॥ ३१
नित्यानन्दकरानन्दं आनन्दं पश्चिमान्वयम् ।
आनन्दसन्ततिं ज्ञात्वा को न मुच्यति बन्धनात् ॥ ३२
शाश्वतं वा निरानन्दं पदे प्राप्ते निरामये ।
आनन्दं तु निरानन्दं लोकत्रयप्रकाशकम् ॥ ३३
प्रसरं सर्वभूतानां योनिगह्वरसंज्ञया ।
आनन्दोत्संगगा देवी नवदेवं नवात्मकम् ॥ ३४
अवस्था उद्भवानन्दाच्चिदानन्दस्तथात्मनि ।
शकटं सुषिरं तत्त्वं त्रितत्त्वगुणविश्रुतम् ॥ ३५
सत्त्वं कामाख्यविज्ञानं तमं जालन्धरोदितम् ।
रजं पूर्णगिरिः शम्भो त्रिपीठकुलनिर्णयम् ॥ ३६
पिण्डं भूतक्रमेणैव उड्डियाणं जगत्त्रये ।
तद्वै देवो ह्यनाकारं नभमध्ये कुलात्मकम् ॥ ३७
तद् ज्ञेयं ज्ञानविज्ञानं तन्मोक्षं सिद्धकौलिकम् ।
नाभिकोशस्य मध्यस्थं कौलीशं खगमीश्वरम् ॥ ३८
सा शक्तिः परमानन्ता कौलिनी भैरवेच्छया ।
कुलं तस्यास्त्रिधाभिन्नं त्रिबिन्दुश्च त्रिशेखरम् ॥ ३९
तत्र मध्यस्थितं लिङ्गं भैरवं तं नवात्मकम् ।
कलैर्युक्तं कलातीतं परायुक्तं च युक्तकम् ॥ ४०
तदिदं हंसरूपं तु आकाशस्थं विलक्ष्यते ।
कामयेत् सा च वै पिण्डं नाम्ना पिङ्गलभैरवम् ॥ ४१
सूर्यानन्दस्य मध्यस्थं चन्द्रानन्दं कुलाकुलम् ।
वृद्धिस्तस्यैव मध्यस्था परा रेखान्तरङ्गता ॥ ४२
तच्छिवं चन्द्रिकालीनं साक्षात् तत् खेचरं पदम् ।
एवं योगगतं चक्रं मात्रात्रयविभेदितम् ॥ ४३
उदयं मातृकायोगं चान्यद् जालन्धरोदयम् ।
वामे पूर्णक्रमं विद्याद् दक्षिणे सिंहशासने ॥ ४४
कामाख्यं च तदग्रस्थं योनि–ईकारमण्डितम् ।
खमध्यान्निर्गता सा तु क्रमेण प्रसरोद्भवम् ॥ ४५
एवं भगोदयं ज्ञानं पारम्पर्यक्रमागतम् ।
सप्ताविंशत्पदैर्भिन्नं गूढार्थं षट्प्रकारकम् ॥ ४६
एवं क्रमगतैर्भेदैर्भेदयेद् गुह्यमण्डलम् ।
मेखला भेदभिन्ना तु नाम्ना कौमारकं क्रमम् ॥ ४७
सिंच्यमानमिदं कौलं आब्रह्मभुवनान्तिकम् ।
धवलं कामदेवोऽयं अग्रे सृष्टिविशारदम् ॥ ४८
वामे पीतधरो विष्णुः स्थितेस्तत्त्वं समाश्रितः ।
दक्षे रक्ताम्बरो रुद्रो लयं कर्ता महाप्रभुः ॥ ४९
एवं ते त्रिस्वरूपोऽयं अनन्तं तु कुलक्रमम् ।
इदं कुलक्रमं कौलं कोंकणे संप्रगीयते ॥ ५०
चन्द्रपूर्ये गृहे रम्ये मेरुलिङ्गसमावृते ।
तत्रामृतं पिबेद् यस्तु तस्याज्ञा क्रमते ध्रुवम् ॥ ५१
संप्रदायामृतं देव शिवशक्तिसमागमम् ।
प्रधानाख्यौ तु तौ पुष्पौ अम्बानाथोभयात्मकौ ॥ ५२
तयोः सृष्टिः समायोगात् अवर्णं तेन उच्यते ।
आर्णवाज्ञा जगन्माता अष्टधामव्यवस्थिता ॥ ५३
ब्रह्माण्यादिस्थिता देव लक्ष्मी मोक्षस्वरूपिणी ।
पुनः सानेकधाभेदैः अष्टाष्टकविभेदिनी ॥ ५४
अतश्चैकविधाख्याता षड्विधाक्रमशोदिता ।
तस्यान्वयं विनिष्क्रान्तं सप्तकोटिप्रमाणकम् ॥ ५५
लक्षकोटिसमुत्तीर्णं मन्थानभैरवागमम् ।
तस्य मध्योद्धृतं सारं अन्वयं सप्तकोटिकम् ॥ ५६
सर्पिवद् विमलं शास्त्रं क्रियाजाललतावृतम् ।
सारभूतमिदं गुह्यं उत्तमं शैवशासनम् ॥ ५७
प्रथमावतारभेदोऽयं सृष्टिमार्गस्य निर्णयम् ।
अथ योगं प्रवक्ष्यामि योगिनीमुखनिर्गतम् ॥ ५८
भाषा मुद्रा च दृष्टिश्च मातृकाक्षरपंक्तिभिः ।
स्थानानि देहविन्यासे गुर्वाम्नायक्रमं त्रिधा ॥ ५९
यो वेत्ति षट्प्रकारं वै स साक्षात् पश्चिमान्वयी ।
मठमुद्रा गुहामुद्रा योनिमुद्रा तृतीयका ॥ ६०
कराला पद्मिनी चैव सिद्धिर्भेदे त्रिकोदितम् ।
सिद्धवल्लयस्त्रयं चैव कुलवृक्षत्रयं तथा ॥ ६१
क्रमं च त्रिविधं योगं बालं कौमारखेचरम् ।
स्थूलं सूक्ष्मं परं चान्यं त्रिभेदमिदमन्वयम् ॥ ६२
पञ्चरत्नक्रमाः पञ्च ब्रह्माद्या जगति स्थिताः ।
मुद्रात्रयं परं ज्ञानं मठमार्गं प्रकल्पितम् ॥ ६३
वसन्ताकृतिं संयोज्य षट्प्रकारमठं गृहम् ।
श्लोकज्ञानं महादिव्यं दिव्याद् दिव्यतरं स्मृतम् ॥ ६४
ठकारान्ते स्मृता पूर्वे कैलासं यावत् पश्चिमम् ।
आनन्दादिविभेदेन ज्ञातव्या मठिका च तु ॥ ६५
गुरुतः सम्यग् ज्ञात्वैवं मठपूजां समारभेत् ।
भुवनं च महास्थानं एकैकं च सुखोद्गतम् ॥ ६६
मठं मुद्रा क्रमं भेदं निर्णीतं सप्तकोटिषु ।
इदं भेदवरं गुह्यं यो जानाति स देशिकः ॥ ६७
आनन्दश्चावलिश्चैव प्रभुर्योगी तथैव च ।
अतीतश्चैव पादश्च षट्प्रकारं कुलक्रमम् ॥ ६८
षोडशारं महानन्दं द्वादशारं तु आवली ।
दशारं प्रभुरित्युक्तं षडारं योगिसंज्ञकम् ॥ ६९
चतुरारमतीतं च द्विकारं पदसंज्ञया ।
षट्प्रकारमिदं ज्ञानं श्लोकार्थस्य प्रबोधकम् ॥ ७०
यो वेत्ति श्लोकपाठज्ञः स कुले सिद्धिभाग् भवेत् ।
चतुष्कं पञ्चकं चैव त्रिकं अम्बासमन्वितम् ॥ ७१
त्रिप्रकारमिदं कौलं पारम्पर्यक्रमागतम् ।
इदं बालक्रमं शम्भो गोपितं तु मया पुरा ॥ ७२
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं त्रिकम् ।
षट्प्रकाराणि यो वेत्ति सबाह्याभ्यन्तराणि च ॥ ७३
स योग्यः क्रमिको ज्ञेयः अन्यथा नामधारकः ।
इदं कौमारकं देव क्रमं योगिनिवल्लभम् ॥ ७४
पूर्वैव तु मयाख्यातं क्रमं कौमाररूपिणम् ।
चत्वारि च चतुष्कानि पञ्चकाः पञ्च एव च ॥ ७५
षट् षट्कानि वरारोह त्रिकाणि त्रितयं तथा ।
षट्प्रकारमिदं देव खेचरक्रम निर्भयम् ॥ ७६
खेचरं सिद्धसन्तानं मयाद्य प्रकटीकृतम् ।
चतुष्कानि तु चत्वारि पञ्चकं पञ्चधागतम् ॥ ७७
षट्कं षड्विधाभिन्नं चतुष्कं चतुः प्रकारतः ।
पञ्चकं पञ्चधाभिन्नं त्रिधा त्रिकमतः परम् ॥ ७८
इदं वृद्धक्रमं स्थूलं सिद्धयोगिनिसेवितम् ।
वृद्धभावं मया देव तथैव प्रकटीकृतम् ॥ ७९
अभिगुप्ततरं कार्यं अन्वयं पारमेश्वरम् ।
षट्प्रकारं स्वरूपेण ज्ञातव्यं च कुलक्रमम् ॥ ८०
एवं चतुर्विधं ज्ञानं क्रमं प्रत्ययपूर्वकम् ।
सबाह्याभ्यन्तरैकत्वे यो वेत्ति स च देशिकः ॥ ८१
एवं क्रमत्रयं देव संहितार्थमुदीरितम् ।
यो वेत्ति श्रीमतं देव गुप्तसंकेतसंज्ञया ॥ ८२
स भवेन्नाथसायोज्यः श्रीकुलागमवेदकः ।
ठकारान्ते महापीठे कलौ प्राप्ते तु सुन्दर ॥ ८३
गोपितं श्रीगुहायां तु कनकमञ्जरिमन्दिरे ।
संकेतकेन गुह्येन कृतं समयपूर्वकम् ॥ ८४
नाभिवर्तिरहीका च वज्रसन्धिः कपाटयोः ।
संकेतान् वेत्ति योऽप्यत्र तस्य देयं कुलागमम् ॥ ८५
श्रीनाथ उवाच
संकेतकं महागुह्यं दुर्बोधं देवदुर्लभम् ।
कारुण्येन समाख्याहि परमार्थेन निर्भयम् ॥ ८६
श्रीवक्रा उवाच
मूलं नाभिः कुलं मेरुर्वर्तिरात्मा च मालिनी ।
पारम्पर्यमहिज्ञानं सन्धिराज्ञाक्रमोदयम् ॥ ८७
त्रिसिद्धोलित्रयं हृद्गं अवतारत्रयं तथा ।
एकधा * चतुर्भेदैः चतुर्धा च त्रिधा पुनः ॥ ८८
यो वेत्ति कुलभेदं तु स भवेत् क्रमपालकः ।
कूटत्रयं त्रिबीजं तु शक्तिबीजं परापरम् ॥ ८९
अष्टकं च नवात्मानं षोढा द्वादशभेदतः ।
खेचरं खेचरीमार्गं तथा च समयक्रमम् ॥ ९०
वृक्षं वज्रकुलो द्वीपं षट्कोणाख्यं कपाटयोः ।
एतद् दीपनविज्ञानं कादिभेदे उदाहृतम् ॥ ९१
कुलक्रमं च विद्या च समयमण्डलक्रमम् ।
एवं यो वै विजानाति स भवेत् मतबोधकः ॥ ९२
त्रितत्त्वं च त्रिबीजं च चतुष्कं षट्कमेव च ।
षट्कं तु अष्टकं चान्यं गुरुवक्त्रात् तु लभ्यते ॥ ९३
तत्त्वावतारमित्युक्तं क्रमं गुरुमुखाद् विदुः ।
पञ्च पञ्च परापञ्च अपरापञ्च एव च ॥ ९४
षट्कं षट्कं पुनः षट्कं षट्कं चैव तथापरम् ।
चतुष्कं चतुःसंयुक्तं द्विकं च द्विविधं मतम् ॥ ९५
दशकं तु मया प्रोक्तं सुन्दर क्रमकौमारम् ।
पञ्च पञ्च तथा पञ्च अपरं षट्कमेव च ॥ ९६
विमलक्रमभेदं तु पारम्पर्यक्रमागतम् ।
चतुश्चैव चतुष्कानि अपराणि चतुस्तथा ॥ ९७
अपरं तु त्रिकं विद्या बीजानि द्वादशानि वै ।
एवं पीठक्रमं देव पारम्पर्यक्रमागतम् ॥ ९८
एवं प्रकारं यो वेत्ति स क्रमे वीरवन्दितः ।
द्वादशानि तु श्लोकानि मुद्रासमयमण्डलम् ॥ ९९
गोपनीयं प्रयत्नेन पठ्यते न च लिख्यते ।
द्वादशानि च श्लोकानि सुगुप्तानि वरानन ॥ १००
प्रमादाद् दीयते नैव कर्णात् कर्णान्तगोचरम् ।
तं ज्ञात्वा तु भवेत् सिद्धिः उच्चारादेव जायते ॥ १०१
षट्प्रकाराधिकारज्ञः पञ्चरत्नविभूषितः ।
अम्बाद्वादशपाठज्ञः शक्तिबीजपरायणः ॥ १०२
आदृष्टा खेचरीमुद्रा तथा विद्यात्रयं गुरुः ।
एवं विज्ञायते यो हि स भवेन्मतबोधकः ॥ १०३
ईदृशं च गुरुं प्राप्य को न मुच्यति बन्धनात् ।
विद्याद्वयसमायुक्ता तथा वै महतारिका ॥ १०४
कूटषट्कं महाशम्भो तारकाष्टकमालिनी ।
एवं यो वेत्ति तत्त्वज्ञो स गुरुर्मोक्षदायकः ॥ १०५
आदौ पीठचतुष्कं तु चत्वारः पीठदेवताः ।
पञ्चकं रत्नसंज्ञं च योगषट्कं तथापरम् ॥ १०६
सिद्धाश्चत्वारमन्यच्च पञ्चकं विमलाज्ञया ।
सिद्धत्रिकं चापरं च अम्बानाथं तथैव च ॥ १०७
षट्प्रकारसमोपेतं पारम्पर्यक्रमागतम् ।
न्यासक्रियासमायुक्तं आदिपुष्पं चतुष्टयम् ॥ १०८
सिञ्च्यते नात्र संदेहो आज्ञाभङ्गं न कारयेत् ।
एवं देव मताख्यातं रहस्यं परमाद्भुतम् ॥ १०९
पीठमण्डलसंकेतं वर्णराशिस्तथैव च ।
लिङ्गं वै मालिनी चाष्टौ तथा चास्त्रचतुष्टयम् ॥ ११०
पञ्चमूलं तथा योगं चत्वारो गृहनिर्णयम् ।
नवभेदमिदं देव यो वेत्ति स च देशिकः ॥ १११
गृहाः क्षेत्राश्च पीठाश्च पीठद्वारचतुष्टयम् ।
उपपीठाश्च संदोहाः षड्विधं मुक्तिलक्षणम् ॥ ११२
मुद्रात्रितयसंकेतं पीठसंकेतमेव च ।
स्थानसंकेतकं चैव पुष्पसंकेतकं तथा ॥ ११३
अधिकारत्रयं चैव वर्णराशिस्तथैव च ।
मण्डलं तु महेशान मम मुद्रेति संज्ञया ॥ ११४
एतानि नवसंकेता यो जानाति स चान्वये ।
तस्य पट्टचतुष्कं तु आरावीचार्यमेव (?) च ॥ ११५
कृत्वा दण्डनमस्कारं सर्वस्वं विनिवेदयेत् ।
प्रदक्षिणशतं कृत्वा साष्टाङ्गेन नमस्करेत् ॥ ११६
यद्येवं न विजानाति तदा नैव नमस्करेत् ।
प्रणामे न कृते देव आज्ञाया हरणं भवेत् ॥ ११७
आज्ञाहीनो जपेल्लक्षं तीव्राज्ञा संप्रवर्तते ।
अथवा न जपेल्लक्षं च्छिद्रं तस्य प्रजायते ॥ ११८
म्रियते अचिराद् देव विषमे कुलगोचरे ।
श्रीक्रमस्याग्रतो देव तथा स्वगुरुसन्निधौ ॥ ११९
सुप्रसिद्धे तथा ज्येष्ठे डम्भमायाविवर्जिते ।
एतेषां मण्डलं कार्यं अन्येषां तद्विलोमकृत् ॥ १२०
कूटमेकं द्वियुग्मं तु तथा वै पुष्पपञ्चकम् ।
संज्ञाकूटक्रमं सूत्रं गुरुवक्त्राच्च लभ्यते ॥ १२१
तस्माद् गुरोः परं नास्ति इत्याज्ञा च कुलान्वये ।
अथान्यक्रमभेदं तु त्रिविधं तद् ब्रवीम्यहम् ॥ १२२
शाक्तेयं शाम्भवं चैव आणवं च तृतीयकम् ।
षट् सिद्धाः षड्युगाश्चैव षड्योगिन्यः षडध्वगाः ॥ १२३
षट्पीठानि च षड्मुद्रा यो वेत्ति स कुलक्रमे ।
स योन्यन्ते च सन्ताने शेषा पुस्तकवाचकाः ॥ १२४
सिद्धाश्चत्वार देवैश्च रत्नपञ्चकभूषितम् ।
महन्तारीपञ्चकं चैव तथा पीठचतुष्टयम् ॥ १२५
पुनरथ चतुष्कं तु षट्प्रकारं क्रमं त्विदं ।
एवं शाक्तेयभेदं तु कथितं ते मया पुरा ॥ १२६
शेषान्ये आणवाः प्रोक्ताः सिद्धाः पञ्चाशत् कौलिकाः ।
एवमाणवभेदं तु सर्वमेतच्चतुर्युगे ॥ १२७
योन्यार्णवं समाख्यातं उक्तं त्विदं क्रमोदयम् ।
मुद्रात्रयसमोपेतं मन्थानमठविश्रुतम् ॥ १२८
यक्षिणी रूपमध्यस्था गुप्तसंज्ञा तदग्रतः ।
तस्मादाज्ञा विनिष्क्रान्ता प्रत्ययश्चाधिकारिणी ॥ १२९
शङ्खिनी शङ्खिनी तत्र शङ्खमुद्रा द्वितीयका ।
प्रसिद्धं कामरूपं तु सुप्रसिद्धं गुरुक्रमम् ॥ १३०
मुद्रात्रयसमोपेतं शङ्खमठमुद्राहृतम् ।
देवीगुहा सिद्धगुहा कदम्बाख्या त्रितीयकी ॥ १३१
योनिमुद्रा तथा देव प्रसादात् लभ्यते क्वचित् ।
देवीमुद्रा त्रिधा चैव पुरा तव प्रकाशिता ॥ १३२
कुचुकुलाकुली चैव देवी नाम त्रिकं तथा ।
मि–ओ–षचर्यनामानि सिद्धसन्तानसंज्ञया ॥ १३३
शृङ्गाटकेश्वरं नाथं रत्नत्रिकं प्रकीर्तितम् ।
पीठाश्चोपपीठाश्चैव पीठसिद्धा वरानन ॥ १३४
चतुर्धा सिद्धसन्तानं तच्च उलित्रिके क्रमात् ।
अथ सिद्धं परं बिन्दुभैरवममृताम्बरम् ॥ १३५
कलिस्यान्ते मतङ्गीशं पञ्चमपीठनायकम् ।
तत्रस्थं युग्मभेदं तु एका मुद्रा कुलान्वये ॥ १३६
लिङ्ग–उली भवेत् तत्र बालानामेन विश्रुता ।
एवं पीठावतारं तु कलिस्यान्ते न संशयः ॥ १३७
शङ्खं शक्तिस्तथा योगं महागृहं चतुर्थकम् ।
पदं चन्द्रपुरं प्रोक्तं षट्कं चैव विरामणम् ॥ १३८
अतीतमावली चैव उत्तरौ परिकीर्तितौ ।
तस्योत्तमं वरारोह आनन्दं नवमं गृहम् ॥ १३९
कुले गृहान् च यो वेत्ति स कले सिद्धिभाग् भवेत् ।
उड्डामरं सिद्धकौलं गणाख्यं खेचरीमतम् ॥ १४०
चण्डाख्यं रौरवं चैव घोराख्यं भूतडामरम् ।
नवमं च महाकौलं आज्ञा यत्र प्रकाशिता ॥ १४१
एकमूलं स्थितं कौलं नवधा परिपाटितम् ।
सबाह्याभ्यन्तरं ज्ञात्वा को न मुच्येत बन्धनात् ॥ १४२
गुर्वाज्ञामाश्रयं भेदं गुप्तं वै पीठपञ्चकम् ।
अधिकारत्रयं देव सृष्टिनाथं सदाशिवम् ॥ १४३
शब्दराशिरघोर्यष्टौ तद्ग्रही तद्धहनं तथा ।
मालिनीषोढासंकेतं षोढा द्वादशभेदतः ॥ १४४
षोढा षष्ठा परा षोढा षोढा षोढ़िणी कौलिनी ।
शवरी षोढा सा षोढी अष्टधा षोढसंज्ञया ॥ १४५
एवं चाष्टविधा षोढा गूढार्थेन प्रकाशिता ।
यो वेत्ति षोढाविन्यासं स भवेत् कुलनन्दनः ॥ १४६
परा एकाक्षरा षोढा षोढी व्योम समाख्याता ।
चतुर्दशभुवनोपेता ठबिन्दुकुलशेखरा ॥ १४७
शक्तिकुण्डलिमध्यस्था सा देवी जगमातरः ।
सा परा परमा काली कला वै पारमेश्वरी ॥ १४८
तथा प्रकाशितामात्रा पुनरागमनं कुतः ।
जीवमुद्रा स्मृता ह्येषा निर्णीता सप्तकोटिषु ॥ १४९
गुरुवक्त्रं गुरुदीपं आलयं पारमेश्वरम् ।
तद्वक्त्राल्लभ्यते ज्ञानं तच्छ्रूत्वा नान्यथा यतः ॥ १५०
अथ ते नवसंकेताः सूत्रार्थेन शृणुष्व तत् ।
मुद्रा च त्रिविधा चैका गुप्ता वै पीठपञ्चके ॥ १५१
स्थानसंज्ञाश्रमं षट्कं पुष्पदेवकृतं युगम् ।
अधिकारत्रयं गुह्यं श्लोकार्थं वर्णराशिकम् ॥ १५२
मण्डलं त्रिविधं प्रोक्तं मुद्रा वै परमेश्वरी ।
तारकं समये सारं संज्ञा वै महतारिका ॥ १५३
अतिगुप्ततराः सर्वे लभ्यन्ते गुरुवक्त्रतः ।
एवं विचारयेद् यो हि स भवेत् सिद्धशासने ॥ १५४
अथ षट्कं स्वरूपेण निग्रहं परिभाष्यते ।
डका रक्तोदरा रका कराला लम्बकोदरा ॥ १५५
लका कुम्भा भगोदरा कका चैव कृशोदरा ।
शका यक्षोदरा घोरा हका रक्षोदरा कुला ॥ १५६
एवं सा षड्विधा कार्या चिञ्चामाता च विश्रुता ।
एतासां देवतानां च पूजां कुर्यात् कुलान्वये ॥ १५७
ज्योतिर्वस्त्रं तथा दीपं कपालं भैरवाश्रितम् ।
पुष्पाणि पिशितं दिव्यं दशदिक्षु निरीक्षणम् ॥ १५८
एवमेव प्रकर्तव्यं ततः सिद्धिः प्रवर्तते ।
ताडनं हरणं मोहं स्फोटनं जृम्भनं तथा ॥ १५९
स्तम्भनोच्चाटनं चैव मारणं तु यथेप्सितम् ।
षट्कस्याराधनादेव प्रत्ययानि बहून्यपि ॥ १६०
श्रीनाथ उवाच
षट्प्रकारं यथाध्यात्मे ब्रूहि देवि प्रसादतः ।
येन विज्ञातमात्रेण सर्वभूतानुकम्पना ॥ १६१
श्रीवक्रा उवाच
षट्प्रकारमयं ज्ञानं षट्प्रकारमयं शिवम् ।
षट्प्रकारमया विद्या षट्प्रकारमयं कुलम् ॥ १६२
षट्प्रकारमया पूजा कौलिकं षट्क्रमेण तु ।
षड्विधं मूलसूत्रं तु कौमारक्रमषट्क्रमे ॥ १६३
षट्क्रमे पीठमार्गं तु षट् षट्कानि क्रमेण तु ।
षट्क्रमेण तु संस्कारं स्वाधिकाराणि षट्क्रमे ॥ १६४
षट्क्रमे समयामार्गं कुलरत्नं तु षट्क्रमे ।
षट्क्रमे योगिनीवृन्दं कूटमेकं तु षट्क्रमे ॥ १६५
षट्क्रमे विमलार्थं तु मण्डलाः षट्क्रमे पुनः ।
षट्क्रमार्थेन देवेश कुलरत्नक्रमोदयम् ॥ १६६
मतार्थं यो विजानाति आचार्यः स कुलेश्वरः ।
साध्यादि भवते सर्वं आज्ञासिद्धिः कुलक्रमे ॥ १६७
एवं साध्यविहीना ये पश्चिमाम्नायवर्जिताः ।
न तेषामभिषेकं तु देशिकत्वं न विद्यते ॥ १६८
कुलार्णवेन यो हीनो नाधिकारी शिवागमे ।
दीक्षितास्तेषु ये शिष्या न ते कल्याणभाजनाः ॥ १६९
प्रकटं न लिखेद् देव क्रमार्थेदं मुखोद्गतम् ।
गुरुवक्त्रे स्थितं नित्यं गुरुवक्त्रात् तु लभ्यते ॥ १७०
एवं बोधसमायुक्तः कौलिकाज्ञाधरो भवेत् ।
असत्सङ्गं न कर्तव्यं सत्सङ्गं न परित्यजेत् ॥ १७१
असत्सङ्गाद् विनश्येत यदि साक्षात् कुलेश्वरः ।
विशुद्धिकारणं यद्वदसत्सङ्गाद् विनश्यति ॥ १७२
एवं शुद्धवतः सोऽपि पशुसंगाद् विनश्यति ।
सर्वद्वन्द्वपरित्यागात् सर्वभूतानुकम्पया ॥ १७३
शत्रुमित्रसमत्वेन मोक्षं प्राप्नोति नान्यथा ।
कुलाचार्यपदे प्राप्ते गृहस्था येऽभिषेचिताः ॥ १७४
प्रमादादपि वर्तन्ते समयाचारपारकाः ।
समयभङ्गान्न मुक्तिः स्यादित्याज्ञा पारमेश्वरी ॥ १७५
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते विमलभेदाधिकारो नामानन्दः ॥ ३९ ॥
Kumārikākhaṇḍa – Kapitel ४०
चत्वारिंशानन्दः
श्रीनाथ उवाच
श्रुतं देवि यथातथ्यं रहस्यं गूढगोचरम् ।
अन्वये पुनः पृच्छामि भ्रान्तिरद्यापि मे प्रभो ॥ १
वामदक्षिणमार्गाश्च मायादम्भसमन्विताः ।
सिद्धान्ताश्च सुरेशानि दशाष्टदशभेदतः ॥ २
अत्राचार्या वरा ज्ञेया योगज्ञानविशारदाः ।
सबीजा धारणा ह्येषा निर्बीजा च पृथक् पृथक् ॥ ३
अनेकोपाययोगेन संयोगो ह्यात्मनं प्रति ।
नादस्थं बिन्दुसंयुक्तं स्वस्थं च हृदि संस्थितम् ॥ ४
* * * * * * देव अदृष्टं रूपवर्जितम् ।
विसर्गस्थं भ्रुवोन्तस्थं ब्रह्मनाड्यां व्यवस्थितम् ॥ ५
तुर्यातीतपदान्तस्थं ब्रह्मद्वारान्तगस्तथा ।
उद्भवस्थं तु योगोऽयं विश्लेषस्थं तु शूलिनि ॥ ६
लयस्थं तु लयातीतं आदिसंस्थं सुरेश्वरि ।
सर्वान्तस्थं सुरेशानि यद् बीजं सिद्धिकारणम् ॥ ७
तत् किमर्थं पुनर्देवि गोपितं सुरसत्तमे ।
ये त्वया कथिताः सर्वे पूर्वैव वामदक्षिणाः ॥ ८
सप्तकोटिरसंख्याताः पशूनां नुग्रहार्थतः ।
किमर्थं ते न सिद्ध्यन्ति कल्पान्तेऽपि कृते सति ॥ ९
क्लिष्यन्ति मनुजात्यर्थं मुक्तिहेतोर्जगत्पते ।
कथं मोक्षं च सिद्धिं च न प्राप्नुवन्ति सुन्दरि ॥ १०
श्रीवक्रा उवाच
एतद् देव हि वक्ष्यामि यत् त्वया परिपृच्छितम् ।
मन्त्राणां जननी या सा वामाख्या शक्तिरव्यया ॥ ११
तया गुप्ताश्च देवेश कुण्डल्या ते लयं गताः ।
कथं सा ज्ञायते सूक्ष्मा तेजोरूपा परा कला ॥ १२
यथाग्नेर्दाहिकाशक्तिर्भगत्वं च गता तु या ।
तद्वदेव शिवस्यापि धर्मत्वेनोपचार्यते ॥ १३
कृतकृत्याः स्वयं सर्वे यैश्च तच्चावधारितम् ।
ते वै शक्तेरधिष्ठानात् सिद्ध्यन्ते मन्दबुद्ध्यापि ॥ १४
सर्वोपायकरं ज्ञानं सद्यःप्रत्ययकारकम् ।
योगिनीहृदयानन्दं पारम्पर्यक्रमागतम् ॥ १५
कथयामि समासेन त्वत्प्रीत्या सुरनायक ।
बिन्दुरात्मा समाख्यातः आत्मा बिन्दुरिति स्मृतः ॥ १६
व्यापकः परतो बिन्दुर्लयातीते व्यवस्थितः ।
बिन्दुद्वयं ततो ज्ञात्वा संसाराद् स विमुच्यते ॥ १७
चतुष्कलसमोपेतो हुताशकणिकाकृतिः ।
तिष्ठते भगवानीशो हृत्पद्मे सुरनायकः ॥ १८
मायोदरगतस्तिष्ठेत् विद्योत इव वर्चसा ।
माया प्रसुप्तनागाख्या संस्थिता कुण्डलाकृतिः ॥ १९
कुण्डली तेन सा प्रोक्ता चिद्रुपा ह्यात्मनस्य च ।
तया नीयत्यसौ जीव अधश्चोर्ध्वे च सुन्दर ॥ २०
सा च माया समाख्याता वामावर्ता तु कुण्डली ।
ज्येष्ठा नाम द्वितीया तु ऋजुरेखा च सा स्मृता ॥ २१
पद्मतन्तुनिभाकारा सृष्टिमार्गे प्रकीर्तिता ।
रौद्री शृङ्गाटकाकारा निरोधी सा तु गीयते ॥ २२
इच्छा ज्ञानी क्रिया विश्वी चतुष्कं तव कथ्यते ।
पञ्चमी शिवशक्तिस्तु या करोति गमागमम् ॥ २३
एकाकर्षयते ऊर्ध्वं प्राणं चाधो द्वितीयका ।
आभ्यां संयोगरूपेण अनच्कं जायते प्रिय ॥ २४
इच्छा सप्तादशी ज्ञेया संकल्पं या प्रकुर्वति ।
सा च त्रिभेदतो ज्ञेया सत्त्वराजसतामसा ॥ २५
ज्ञानशक्तिस्तथा ज्ञानं अवैराग्यवती स्थिता ।
ज्ञानमष्टप्रकारं तु करोति विकरोति च ॥ २६
संकल्पञ्च विकल्पञ्च व्यवहारार्थकर्मणि ।
क्रिया च कुरुते कर्म धर्माधर्मात्मकं पशोः ॥ २७
विश्वी बोधनी ज्ञेया चिच्छक्तिप्रतिबोधनी ।
पञ्चमी या स्मृता शक्तिस्तथाधारा व्यवस्थिता ॥ २८
एका एव पराशक्तिः क्रियाभेदेन संस्थिता ।
धर्मार्थकाममोक्षं च भुञ्जते तद्वशात् प्रिय ॥ २९
एतच्च मानसं सर्गं सत्त्वराजसतामसम् ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥ ३०
मनो बुद्धिरहंकारः पुर्यष्टक इति स्मृतः ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ३१
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।
प्राणो नाम महावायुस्तस्याधाराश्च नाडयः ॥ ३२
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी हस्तिजिह्वा च पूषा चैव यथा तथा ॥ ३३
अलुम्बुषा कुहुश्चैव शङ्खिनी दशमी स्मृता ।
एतैः सह महाशम्भो हृद्बिन्दुस्तिष्ठते ततः ॥ ३४
ब्रह्मादिदेवतास्तस्य अकाराक्षरवाचकाः ।
द्विधा भूत अकारस्तु तत्र कृत्यं प्रकुर्वति ॥ ३५
इच्छा याति लयं ज्ञाने ज्ञानाख्यं क्रियया पुनः ।
क्रिया याति लयं बिन्द्व्यां बिन्द्वी चैव शिवात्मके ॥ ३६
स्वे स्वे स्थाने लयं यान्ति ब्रह्मभागैरधिष्ठिताः ।
ब्रह्मा अपि स्वकार्याणि उपसंहृत्य गच्छति ॥ ३७
इकारान्तं परं स्थानं यत्र विष्णुः संतिष्ठति ।
विष्णुरपि कण्ठदेशे सर्वं संहृत्य गच्छति ॥ ३८
रुद्रोऽपि तत् परं स्थानं उकारो यत्र तिष्ठति ।
ताल्वन्तं तद् विजानीयात् सर्वेषां तु समागमम् ॥ ३९
रुद्रोऽपि ईश्वरं याति मकारो यत्र तिष्ठति ।
कथितेयं त्वया तन्त्रे वामदक्षिणयामले ॥ ४०
तत्र चर्या क्रिया योगो ज्ञानं च सुरनायक ।
तत्र ते भ्रामिताः सर्वे ये यस्मिन् तत्र पृच्छकाः ॥ ४१
न तत्र संस्फुटं ज्ञानं दिव्यानन्दप्रदायकम् ।
विज्ञाय योग्यतां नैषां कथितं वीरवन्दित ॥ ४२
मुद्रामण्डलमन्त्रैश्च व्रतैश्चान्द्रायणादिभिः ।
रेचकैः पूरकैर्योगैः कुम्भकैश्च तथा प्रिय ॥ ४३
भ्रामिताः कर्मकाण्डैश्च न ज्ञानं कथितं मया ।
तैस्तु ज्ञानावलेपेन नाहं पृष्टा अवज्ञया ॥ ४४
ब्रह्मा विष्णुश्च रुद्राद्याः शक्राद्या लोकपालकाः ।
स्कन्दनन्दिगणाः सर्वे ऋषयो यक्षकिन्नराः ॥ ४५
अविनाभावयोगेन सर्वत्रैवोपचर्यते ।
न शिवेन विना शक्तिः न शक्तिरहितः शिवः ॥ ४६
वियोगो नैव दृश्येत वायुरम्बरयोरिव ।
शक्त्या करणरूपा या सर्वमेवोपचर्यते ॥ ४७
न चान्यं करणं तस्य येन कृत्यं करोति सः ।
मन्त्रः शिवः समुद्दिष्ट अव्यया शक्तिरुच्यते ॥ ४८
विश्वस्य जननी या च मन्त्ररूपा कथं तु सा ।
निरोधी सा समुद्दिष्टा लम्बिकान्ते व्यवस्थिता ॥ ४९
ऊर्ध्वमार्गनिरोधिन्या रौद्री तेन प्रपद्यते ।
तस्या नादान्तजं लक्षं मकारो यत्र तिष्ठति ॥ ५०
शिवस्थानं तु तत् प्रोक्तं विसर्गान्ते तदेव हि ।
महाशून्यं तु तत् प्रोक्तं द्वादशान्ते तदेव हि ॥ ५१
कलान्तं च स्वरान्तं च मनान्तं चैव तत् स्मृतम् ।
तत्र चोत्पद्यते शब्दो रौद्री भिन्ना यदा भवेत् ॥ ५२
नादोऽपि गच्छते देव यत्र कुण्डलिनी स्थिता ।
नादान्तं तद् विजानीयाद् विसर्गादूर्ध्वतो भवेत् ॥ ५३
तस्योर्ध्वे ज्ञानशक्तिस्तु ऊर्ध्वश्रोता तु विश्रुता ।
व्यापिन्यन्ते तु देवेश नवमा समना स्मृता ॥ ५४
स्फोटमुत्पद्यते तत्र गुरुवक्त्रं ततो भवेत् ।
गुरुवक्त्रस्य ऊर्ध्वे तु ब्रह्मस्थानं तु तत् स्मृतम् ॥ ५५
शक्त्यन्तं च भवेत् तच्च लयं यच्च तदुच्यते ।
तस्यान्ते तु लयातीतं कथितं तु न संशयः ॥ ५६
एष बिन्दोस्तु संचारं प्रबुद्धानां वरानन ।
अप्रबुद्धास्तु ये देव निरोधिन्या निरोधिताः ॥ ५७
तेषां तिर्यग्गतिः प्रोक्ता संसारस्य निबन्धनी ।
एषोच्चारः समाख्यातः प्रवृत्त इति सर्वदा ॥ ५८
ग्रहणं तु पुनर्वक्ष्ये येन त्यागं भविष्यति ।
पञ्चकारणकं त्यक्त्वा स्वच्छन्दगतिमाप्नुयात् ॥ ५९
एवं सिद्धात्मको योगी शाक्तं ध्यानं समभ्यसेत् ।
तदा तस्य भवेद् देव अणिमादिगुणाष्टकम् ॥ ६०
ब्रह्मग्रन्थिसमुच्छेदात् यदा ऊर्ध्वमुखी भवेत् ।
तदा ब्रह्मासहैकत्वं शब्दस्पर्शं च गच्छति ॥ ६१
तौ त्यक्त्वा ऊर्ध्वतो याति कण्ठदेशे तु कारणम् ।
कार्यरूपी भवेद् ब्रह्मा यत्र विष्णुर्व्यवस्थितः ॥ ६२
स चैव प्राकृतैर्भवैस्त्यक्तैर्मुक्तो न संशयः ।
केशवोऽपि ललाटस्थो व्यापारत्यक्तचेतसः ॥ ६३
अधिकारनिवृत्तोऽसौ केशवो गुरुवेदकः ।
यत्र रुद्रः स्वयं तिष्ठेत् गुरुव्यपारसंयुतः ॥ ६४
रुद्रोऽपि याति देवेश तेजोरूपं तु ईश्वरम् ।
बिन्दुस्थानं तु तत् प्रोक्तं तेजोराशि विनिर्दिशेत् ॥ ६५
तेजात्मकविभागं तु प्राणव्यापारमेव च ।
तौ त्यक्त्वा व्रजते ऊर्ध्वं रुद्रस्य गुणवृत्तयः ॥ ६६
ईश्वरोऽपि तथा नादे शब्दाद्यैस्तु सदाशिवे ।
बुद्ध्यादिकरणैर्युक्तो अहंकारगुणान्वितः ॥ ६७
गच्छते च तदा ईशस्तथा व्यापारसंहृतः ।
शिवविद्यागुणाधारो यत्र देवः सदाशिवः ॥ ६८
तत्रैव निहितस्तिष्ठेदीश्वरो ज्ञानवेदकः ।
स्वकृत्यमुपसंहृत्य गच्छते च पुनर्लयम् ॥ ६९
लयातीतं तु तत् स्थानं यत्र कृत्यं न विद्यते ।
स्वभावोत्पादितो बुद्धिः शास्त्रदृष्टेन कर्मणा ॥ ७०
सर्वातीतपदं प्राप्य मुच्यते भवबन्धनात् ।
ब्रह्मा विष्णुस्तथा रुद्रो ईश्वरश्च चतुर्थकः ॥ ७१
क्रियारूपधराः सर्वे यत्र बिन्दुश्च तिष्ठति ।
उद्भवं च तथा श्लेषं लयं चैव पृथक् पृथक् ॥ ७२
लयातीता परा शक्तिर्या सा बिन्दुः शिवात्मिका ।
तत्राधारे सुरेशान संचरन्ति क्रमात् क्रमम् ॥ ७३
सदाशिवोऽपि संहारं कुरुते स्वेच्छया प्रभुः ।
उन्मनान्ते वरारोह योऽसौ वेत्ता महाध्वनि ॥ ७४
तेन संस्मृतमात्रेण काष्ठवत् तिष्ठते नरः ।
धर्माधर्मात्मकौ बन्धौ तदा नष्टौ न संशयः ॥ ७५
तैर्नष्टैर्देवदेवेश गच्छते च परं पदम् ।
यावद् देहो महाबन्धैः मुच्यते न कदाचन ॥ ७६
तावत् तस्य कुतो मोक्षः षड्विधार्थेऽपि शोधिते ।
एवं त्यागो मया देव ख्यापितो विद्यया तव ॥ ७७
शिवत्वं गच्छते येन समस्तगुणसंयुतः ।
यत्र सा कुण्डली शक्तिरनामाख्या मनोन्मनी ॥ ७८
शक्तित्रयसमोपेता बोधनी च निरोधनी ।
अधोगा रोधनी ज्ञेया ऊर्ध्वगा च प्रबोधनी ॥ ७९
द्विधा भावगता ह्येका पश्चाद् भिन्ना अनेकधा ।
सृजते सा जगत् कृत्स्नं आब्रह्मभुवनान्तिकम् ॥ ८०
सद्यते तन्न संदेहो कृत्यभेदेन भैरव ।
वामा सृष्टिः स्मृता सूक्ष्मा ज्येष्ठा पालनतत्परा ॥ ८१
रौद्री संहरणी प्रोक्ता एका ह्येव त्रिधा भवेत् ।
सा च पञ्चविधा प्रोक्ता अष्टधा नवधा पुनः ॥ ८२
पञ्चाशद्भेदसंभिन्ना अनन्तानन्ततां गता ।
सा एव पररूपेण ज्ञातव्या वीरनायक ॥ ८३
तया व्याप्तमशेषं तु यत् किञ्चिद् वांमयं जगत् ।
तेन माया समाख्याता ज्ञानरूपा च कुण्डली ॥ ८४
तामवाप्य भवेद् देव उन्मनो मनवर्जितः ।
गुणाष्टकसमोपेतः सर्वज्ञत्वादिसंयुतः ॥ ८५
ये धर्माः करणे देव तैर्युक्तः क्रीडयत्यसौ ।
पश्चाद् याति लयं कृत्वा शून्यं शिवात्मकं भवेत् ॥ ८६
मनातीतं तु तत् स्थानं सुषिरं द्वादशान्तगम् ।
तस्मिन् युक्तो यदा शून्ये स्वकृत्यमुपसंहृतम् ॥ ८७
तस्योर्ध्वे तु स्मृतो व्यापी निर्गुणो गुणसंयुतः ।
निश्चेतनः सचेतश्च गुणातीतो निरञ्जनः ॥ ८८
अनन्तः शाश्वतः सूक्ष्मः विकल्पातीतगः परः ।
नैव पुण्यमपुण्यं वा सर्वानन्दकरः स्मृतः ॥ ८९
स्वयं कर्ता स्वयं हर्ता संसारार्णवसंस्थितः ।
स्वात्मनात्मा पुनर्बद्धः मुक्तश्चैवात्मना आत्मा ॥ ९०
अनेन क्रमयोगेन योगबिन्द्वात्मको भवेत् ।
ज्ञातव्यं तु समासेन बिन्दुसंस्थं सदाभ्यसेत् ॥ ९१
अतः परं प्रवक्ष्यामि नादस्थं शृणु साम्प्रतम् ।
नादकुण्डलिनी ज्ञेया नाभिमध्ये व्यवस्थिता ॥ ९२
निर्गता ब्रह्मरन्ध्रेण त्यक्त्वा वै पञ्चकारणम् ।
ब्रह्मादिशिवपर्यन्तं भित्त्वा ऊर्ध्वगतिं व्रजेत् ॥ ९३
मनोबिन्दुं गृहीत्वा तु भित्त्वा वै व्योमपञ्चकम् ।
शरदसुशशिप्रख्या तडित्कोटिसमुज्ज्वला ॥ ९४
उदितार्ककराभासा प्रवालांकुरसन्निभा ।
ऊर्णातन्तुनिभाकारा पद्मसूत्रे च निर्गता ॥ ९५
तुहिनेन्दुकराभासा स्थिरदीपशिखोपमा ।
तस्यान्ते तु ततो बिन्दुर्हुताशकणिकाकृतिः ॥ ९६
एवं बिन्दुं गृहीत्वा तु ध्वनिना पूरितं यदा ।
पञ्चकारणकं त्यक्त्वा शङ्खबन्धं परिस्थितम् ॥ ९७
विसर्गेण ततो याति आकृष्टा च शनैः शनैः ।
पद्मनाले यथा तोयं अम्बरस्थश्च कर्षयेत् ॥ ९८
यथा दीपो निवातस्थो अव्युच्छिन्नगतिर्भवेत् ।
तदोर्ध्वे क्षेपगौ द्वौ तु भ्रुवौ चैव शुभेक्षण ॥ ९९
विक्षेपमूर्ध्वतः कृत्वाकुञ्चयेत् संपुटद्वयम् ।
त्रिशूलं खेचरान्तस्थं कर्तव्यं मोक्षकांक्षिणा ॥ १००
शक्त्यग्रे विनियोज्येत तुषारकणिकाकृतिम् ।
मध्यनाड्याः प्रवाहेन तदा कारणकान् त्यजेत् ॥ १०१
रेचकैः पूरकैश्चैव कुम्भकैश्चोपबृंहतैः ।
तदा कारणकान् त्यक्त्वा यदा शक्तिसमो भवेत् ॥ १०२
तदा तस्य भवेत् सिद्धिरणिमादिगुणाष्टकम् ।
अतीतानागतं ज्ञानं वर्त्मानं तथैव च ॥ १०३
विन्दते नात्र संदेहो रुद्रशक्तिप्रभावतः ।
नादस्थं कथितं देव बिन्दुस्थं पूर्वमेव हि ॥ १०४
साम्प्रतं शक्तिसंस्थं च यथा भवति तच्छृणु ।
अवर्णा वर्णयोगेन कुलयोन्यार्णवे यथा ॥ १०५
पूर्वैव कथिता तुभ्यं सप्तकोटिप्रमाणके ।
गोपिता तु पुनर्देव वर्णरूपा प्रकाशिता ॥ १०६
तेन ते नैव सिद्ध्यन्ति जप्त्वा कोटिशतैरपि ।
मन्त्राणां जीवभूता तु स्थिता या शक्तिरव्यया ॥ १०७
तया हीना वरारोह निष्फला शरदम्बुदाः ।
या सा वै मातृका देव परापरसमन्विता ॥ १०८
तया व्याप्तं जगत् कृत्स्नं आब्रह्मभुवनान्तिकम् ।
तत्रस्था तु यदा देव परापरसमन्विता ॥ १०९
अवर्णस्थं यथा वर्णं स्थितं सर्वगतं भुवि ।
तथाहं कथयिष्यामि निर्णयं तु महाप्रभो ॥ ११०
या सा शक्तिः परा सूक्ष्मा निराचारेति कीर्तिता ।
हृद्बिन्दुं वेष्टयित्वा तु प्रसुप्ता भुजगाकृतिः ॥ १११
तत्र सुप्तो महायोगी न किञ्चिद् मन्यते प्रभो ।
प्रबुद्धा सा निनादेन परमानन्दरूपिणी ॥ ११२
बिन्दुना क्षोभमायाता ऋजुरेखैव कुण्डली ।
रेखिनी नाम सा ज्ञेया बिन्दुद्वयपुटान्तगा ॥ ११३
त्रिपथा सा समाख्याता रौद्रीनामेति गीयते ।
निरोधी सा च निर्दिष्टा मोक्षमार्गनिरोधिनी ॥ ११४
शशांकार्धकला ज्ञेया अम्बिका मध्यचन्द्रिका ।
एका एव पराशक्तिस्त्रिधा सा च प्रजायते ॥ ११५
एभ्यो युक्तवियुक्तेभ्यः संजाता नववर्गजा ।
नवधा च त्रिधा सा तु नववर्गाक्षमालिका ॥ ११६
पञ्चमन्त्रगता देव सद्यादीनां यथाक्रमम् ।
तेन सा पञ्चधा प्रोक्ता ज्ञातव्या सुरनायक ॥ ११७
स्वरद्वादशगा देव द्वादशस्था उदाहृता ।
अकारादिक्षकारान्ता स्थिता पञ्चाशद्भेदतः ॥ ११८
एकाणवा तु हृद्देशे कण्ठे ज्ञेया द्विराणवा ।
त्र्याणवा वेदितव्या तु जिह्वामूले यदाश्रिता ॥ ११९
जिह्वाग्रे वर्णनिष्पत्तिर्नवभेदे व्यवस्थिता ।
एवं शब्दस्य चोत्पत्तिः सर्वस्यैव हि जृम्भते ॥ १२०
यथा ह्येकस्तथा सर्वे षोडशैते महाबलाः ।
पञ्चविंशत् ततः पश्चात् तस्योर्ध्वे तु नव तथा ॥ १२१
अनेन क्रमयोगेण पञ्चाशानां समुद्भवः ।
व्यवहारार्थे मया सृष्टाः शब्दविश्लेषणं प्रति ॥ १२२
न च व्यक्तिः विना तैस्तु भवते च कदाचन ।
तस्माद् देव विजानीयात् सर्वेदं मातृकोद्भवम् ॥ १२३
न मातृकात् परो मन्त्रो नावस्था उन्मनी परा ।
न गुरोरपरो देवः न मुद्रा खेचरीपरा ॥ १२४
न मातृकात् परं ज्ञानं न ध्यानं मातृकात् परम् ।
स्थूलसूक्ष्मविभागेन सर्वेदं मातृकोद्भवम् ॥ १२५
तस्मादुत्पद्यते सर्वं सर्वं तत्रैव लीयते ।
जले बिन्दुर्यथा देव उत्पत्तिश्च विनाशनम् ॥ १२६
तथा चैव हि भूतात्मा मनोबिन्दौ विलीयते ।
शिरे रौद्रीं परित्यज्य ज्येष्ठा चायुधरूपिणी ॥ १२७
वामा कुण्डलिनी शक्तिरम्बिका च वरानन ।
स भवेच्छक्तिमान् वीरः प्रणयी मम भैरव ॥ १२८
भवते नात्र संदेहः साधकेन्द्रैस्तु पूज्यते ।
ब्रह्मा वामाश्रितो देव ज्येष्ठा विष्णुः प्रकीर्तितः ॥ १२९
रौद्र्या रुद्रो महेशान अम्बिकामीश्वरं विदुः ।
संयोगाच्छब्दो देवः शिवो नादात्मकः परः ॥ १३०
पञ्चकारणकं ह्येवं व्यापकत्वे व्यवस्थितम् ।
उदयं वामयोद्दिष्टं ज्येष्ठा मध्यंदिनं स्मृतम् ॥ १३१
सन्ध्या रौद्र्या तु विज्ञेया तस्यामस्तमनं भवेत् ।
रेचको वामया प्रोक्तो ज्येष्ठया पूरकः स्मृतः ॥ १३२
रौद्र्या कुम्भकमुद्दिष्टं स्वभावस्था तथाम्बिका ।
इडा वामा समाख्याता ज्येष्ठा वै पिङ्गला स्मृता ॥ १३३
रौद्री तु सुषुम्नान्तस्था विषुवस्था निगद्यते ।
उद्भवे कुण्डली ज्ञेया वामा सा समुदाहृता ॥ १३४
विश्लेषस्था तथा ज्येष्ठा लये रौद्री निगद्यते ।
लयातीता तथा अम्बा ज्ञातव्या सुरनायक ॥ १३५
नाभिस्था कुण्डली ज्ञेया प्रसुप्ता भुजगाकृतिः ।
कण्ठस्था चोर्ध्वतो रौद्री यत्र रुद्रो जगत्पतिः ॥ १३६
प्रवाहे ज्येष्ठिका मध्ये बिन्दुद्वयपुटान्तगा ।
अम्बिका ब्रह्मरन्ध्रस्था ज्ञातव्या तत्त्ववेदिभिः ॥ १३७
मनस्था कुण्डली ज्ञेया जाग्रावस्था प्रकीर्तिता ।
ज्येष्ठया प्रेरिता रौद्री रौद्री उन्मनकारिका ॥ १३८
प्रसुप्ताख्या महादेव उन्मनान्ते लयं गता ।
अम्बिका तु मनातीता तुर्यस्थानगता तु सा ॥ १३९
कुण्डली प्रथमा ज्ञेया वामा चैव द्वितीयका ।
तृतीया रौद्रिका देव त्रिशक्तिकलितं जगत् ॥ १४०
उद्भवश्चैव विश्लेषो लयो ज्ञेयस्तृतीयकः ।
लयातीता परा शक्तिः मोक्षमार्गविकासिनी ॥ १४१
क्रियाकारणनिर्मुक्तं हेतुतर्कविवर्जितम् ।
हेयोपादेयरहितं ज्ञात्वा न भवबन्धनम् ॥ १४२
आमिषं तु यथा खस्थः पश्यते शकुनिः प्रिय ।
क्षिप्रमाकर्षयेद् यद्वदं आवेशेन तु सुन्दर ॥ १४३
तद्वदेव हि योगीन्द्रो मनोबिन्दुं तु कर्षयेत् ।
यथा रौद्र्या विलीनस्था मन्त्रमुच्चारणावधिः ॥ १४४
तथा बिन्दुर्वरारोह उच्चारेणानुगच्छति ।
खस्थं खकरणं कृत्वा खस्थाने योज्य खं स्थिरम् ॥ १४५
कूर्मं तु मङ्गले योज्यं स्वरान्ते तु द्विभिर्युतम् ।
प्रेरयेत् तदुदानेन तदा स खमुखं व्रजेत् ॥ १४६
मङ्गलं कूर्मसूत्रं तु परार्थेनैव शोधनम् ।
शुद्ध्यते नात्र संदेहो द्विजमार्गेण शोधयेत् ॥ १४७
अनेनैव तु मार्गेण ग्रहणं च विलक्षयेत् ।
नाभिस्थं कम्पनं ज्ञेयं जृम्भनं मुखमार्गतः ॥ १४८
अश्रुपातं च भ्रूभङ्गं चित्तव्याकुलतैव च ।
कण्ठस्थो धुनुते गात्रं रावं मुञ्च्यत्यनेकधा ॥ १४९
शिरःकम्पः प्रलापश्च हूंकारं च महारवम् ।
रुद्रस्थानं विजानीयाद् योगतो निष्ठतत्परः ॥ १५०
अभावस्थं पुनर्वक्ष्ये यथा भवति तच्छृणु ।
न निरोधो न चोच्चारो न ध्यानं लक्षयोजना ॥ १५१
स्वरूपस्थं ततो ज्ञात्वा मुक्तोऽसौ नात्र संशयः ।
संकल्पश्च महाबन्धो उच्छेदोद्भवकारणम् ॥ १५२
तं त्यक्त्वा मुच्यते योगी संकल्पे न तु मुच्यते ।
न मनो नापि मन्तव्यो न च मन्ता विभाव्यते ॥ १५३
यावत् संकल्पते देव तावद् द्वन्द्वं प्रवर्तते ।
न बिन्दुर्न च नादश्च न शक्तिः शिव एव च ॥ १५४
अविद्यावासना ह्येषा संसारस्य निबन्धना ।
अमूर्तौ नास्ति संकल्पस्त्राता कः किं करिष्यति ॥ १५५
तं त्यक्त्वा त्यजितं सर्वं आशापाशमशेषतः ।
आशा एव महाबन्धस्तया बद्धोऽखिलं जगत् ॥ १५६
यावन्न त्यज्यते सा वै तावन्मुक्तिः कुतो भवेत् ।
न बन्धं मोक्षवादीनां यत्र सर्वं लयं गतम् ॥ १५७
मोक्षेऽपि यस्य नोत्कण्ठः स मोक्षमधिगच्छति ।
न मोक्षे कल्प्यते स्थानं न ध्यानं न च धारणा ॥ १५८
सर्वत्र वितता दृष्टिः सर्वव्याप्युपलक्षणा ।
अलक्षस्य कुतो लक्षो अमनस्के कुतो मनः ॥ १५९
अमनस्य कुतः स्थानं कर्तव्या कल्पना बुधैः ।
नास्तित्वे कारयेच्चित्तं अस्तित्वं च परित्यजेत् ॥ १६०
नास्तिभावे यदारुह्येत् तदास्तीति विभावयेत् ।
अस्तिनास्तिपदं त्यक्त्वा सर्वं शून्यं विभावयेत् ॥ १६१
चलाचलात्मविज्ञानं चित्तवृत्तिमपेक्षते ।
सकलं निष्कलं ज्ञात्वा तदा मुच्येत बन्धनात् ॥ १६२
यावद् भावयते ज्ञानं विज्ञानाधारकेवलम् ।
वायुना केवलीभूतो अविद्यावासनां त्यजेत् ॥ १६३
प्राणायामादिभिः क्लेशैर्मनोबोधैस्तु वर्जितः ।
अन्यकालस्य कुर्वीत निष्कलं तु तदाश्रितम् ॥ १६४
तस्मादेवं तु विज्ञाय शून्यरूपं चराचरम् ।
भग्नघटवदाकाशं तत्तद्व्यापी अखण्डितम् ॥ १६५
मुक्त्यावस्थं जगत् सर्वं व्यामोहो बन्धकारकः ।
व्यामोहो यदि शाम्यते मुक्तिः स्वाभाविकी स्थिता ॥ १६६
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीज्ञानाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ४० ॥
Kumārikākhaṇḍa – Kapitel ४१
एकचत्वारिंशानन्दः
श्रीनाथ उवाच
महत् कौतूहलं दिव्यं समुत्पन्नं मम प्रिये ।
यन्नास्ति तत्र को लक्षः अलक्षे भवना कुतः ॥ १
भावना द्वन्द्वजननी भावहीनं निरामयम् ।
ध्यानं पूजा जपो योगो नानारूपा तु भावना ॥ २
किमर्थं सा त्वया देवि सूचिता परमेश्वरि ।
श्रीवक्रा उवाच
नानारूपाणि वर्णानि लक्षध्यानान्यनेकशः ॥ ३
मनःप्रसादनार्थाय मया ह्येते प्रकाशिताः ।
मनो हि चञ्चलं नित्यं प्रमादी बलवद् दृढं ॥ ४
तत् कथं शक्यते धर्तुं यस्य वाय्वधिका गतिः ।
यावद् भावयते ह्येकं तावदन्यदुपस्थितम् ॥ ५
न ध्यानं न च वा लक्षं न संकल्पं कदाचन ।
अनेन कारणाद् देव सर्वं त्यज्यमशेषतः ॥ ६
उल्काहस्तो यथा कश्चित् द्रव्यमालोक्य तां त्यजेत् ।
ज्ञानेन ज्ञेयमालोक्य तदा ज्ञानं परित्यजेत् ॥ ७
मनोद्भवं तु यल्लक्षं ध्यानं वा कल्पनात्मकम् ।
सर्वं विनश्यते देव नाहमस्मीति भावयेत् ॥ ८
नाहमस्मि न चान्योऽस्ति अद्वैतक्रियया रतः ।
नैव मन्यति मुक्तोऽहं न बद्धस्तु कदाचन ॥ ९
व्रतस्थोऽहं गृहस्थो वा अविद्यावासनां त्यजेत् ।
नैव मन्यति विप्रोऽहं नान्त्यजातिर्न देवता ॥ १०
न युवो वृद्ध बालो वा सुलीनस्य तु लक्षणम् ।
नाहं मन्यति स्वर्गस्थो न पातालान्तरीक्षगः ॥ ११
न चास्म्यहं न चास्तीदं सुलीनस्य तु लक्षणम् ।
न योगी न वियोगी च निराशी निष्परिग्रहः ॥ १२
सर्वज्ञो निरहंकारी सुलीनस्य तु लक्षणम् ।
नाहं मन्यति सर्वज्ञो न मूर्खो न च पण्डितः ॥ १३
यावन्न त्यजते ह्येवं तावत् तस्य न किञ्चन ।
अहमित्येव यो भावः सदा बद्धो गुणत्रये ॥ १४
यावन्न त्यजते देव स निरुद्धो भविष्यति यस्य तुल्यं सुखं दुःखं मित्रामित्रं शुभाशुभम् ॥ १५
मुक्तोऽसौ नात्र संदेहो जन्मसंसारबन्धनात् ।
क्षीरक्षयाद् यथा वत्सः मातराद् विनिवर्तते ॥ १६
तथा मनःक्षयात् पुंसां निर्वाणं परमं पदम् ।
पुत्रदारकुटुम्बेषु सक्तं सर्वमिदं जगत् ॥ १७
तान् त्यक्त्वा निर्गुणो भूत्वा निर्वाणं तु प्रवर्तते ।
भवाग्रमपि ये प्राप्ता योगं तन्निष्ठतत्पराः ॥ १८
तृष्णाहंकारग्रस्ताश्च ते पतन्ति भवार्णवे ।
अहंकारं परित्यज्य ममत्वं च परित्यजेत् ॥ १९
आशापाशान्यशेषाणि त्यक्त्वा योगं समभ्यसेत् ।
भ्रूणहा गुरुतल्पी च चतुर्वेदोऽपि यो द्विजः ॥ २०
न स मुच्यति पापेभ्यो यावद् योगं न चाभ्यसेत् ।
सर्वं पश्यति मुक्तात्मा आत्मा सर्वत्र केवलम् ॥ २१
यथाहं वै तथा सर्वं एकभावेन पश्यति ।
एकत्वं बहुधावस्थं ऊर्णातन्तुसहस्रशः ॥ २२
मानापमानयोस्तुल्यो तुल्यो मित्रारिपक्षयोः ।
स मुक्तो मोचयेत् सर्वान् नात्र कार्या विचारणा ॥ २३
निर्विकल्पो अनिर्देश्यो मनातीतगतः परः ।
मुच्यते नात्र संदेहो स्वरूपे संस्थितो यदा ॥ २४
स्वभावगतिसंस्थस्य भवेत् त्वाध्यात्ममीश्वरे ।
न तस्य कल्पना प्रोक्ता भावनानामवर्जितः ॥ २५
हिरण्यगर्भवद् ज्ञेयो येनेदं विततं जगत् ।
श्रीनाथ उवाच
सर्वद्वन्द्वविनिर्मुक्ते सर्वलिङ्गविवर्जिते ॥ २६
अद्वैते न द्वितीयोऽस्ति कथं स्थास्यति निश्चलः ।
श्रीवक्रा उवाच
विना चराचरं देव संयोगाच्च चलाचले ॥ २७
चलाचलात्मविज्ञानं चित्तवृत्तिमपेक्षते ।
येनेदं चाल्यते सर्वं योगिभिस्तदुपास्यते ॥ २८
शब्दस्पर्शरसोरूपगन्धतन्मात्रपञ्चकम् ।
एते संगाः स्मृता देव देहिनां सुमहाबलाः ॥ २९
सङ्गदोषेण बध्यन्ते शान्तियोगरता हि ये ।
सङ्गात् संजायते कामः कामादर्थपरिग्रहः ॥ ३०
परिग्रहाच्च वैकल्पं तस्मात् सङ्गं परित्यजेत् ।
कुसङ्गाल्लोकयात्रा च शास्त्रचिन्ता तथैव च ॥ ३१
सर्वसङ्गपरित्यागात् स गच्छेत् परमां गतिम् ।
श्रीनाथ उवाच
बिन्दुस्थं चैव नादस्थं शक्तिस्थं हृदि संस्थितम् ॥ ३२
शक्तिस्थं हृदि संस्थं च स्वरूपस्थं विशेषेण ।
यत् प्रोक्तं च त्वया देवि तत् सर्वमवधारितम् ॥ ३३
साम्प्रतं वर्णसंस्थं च उपदेशं च तत् कथम् ।
श्रीवक्रा उवाच
वर्णस्थं कथयिष्यामि शृणुष्वायतलोचन ॥ ३४
ग्रहणं नाभिदेशस्थं पूर्ववत् ते उदाहृतम् ।
योगं तत्र पुनर्देव लयं चैव निरामये ॥ ३५
एवं ज्ञात्वा तु देवेश योजयेत् परमे पदे ।
आत्मतत्त्वं हृदिस्थं तु विद्यातत्त्वं तु लम्बके ॥ ३६
शिवतत्त्वं लयस्थाने ब्रह्मरन्ध्रगतं भवेत् ।
शक्तिस्थं कथितं पूर्वं अध्वाने तु यथा स्थितम् ॥ ३७
साम्प्रतं भुवनीशस्थो यथा ते कथयाम्यहम् ।
एकैकं तु यथा वर्णं शक्तिस्थं भवते प्रिय ॥ ३८
चक्रमालागतं तूर्णं मन्त्रसिद्धिर्जिगीषूणाम् ।
श्रीकण्ठादि स्मृताश्चक्राः संवर्तान्तावसानगाः ॥ ३९
पञ्चाशच्च क्रमे प्रोक्ता यैर्व्याप्तमखिलं जगत् ॥ सर्वे ते शक्तिमध्यस्था ज्ञातव्यास्तु त्रिलोचन ॥ ४०
न तैर्विना भवेन्मन्त्रो दृष्टादृष्टार्थसाधकः ।
एकैकं वर्णमुच्चार्य द्वादशस्वरभेदितम् ॥ ४१
अनलानिलसंयुक्तं बिन्दुनादकलांकितम् ।
आत्मशक्तिशिवान् तत्र तेजोरूपान् विचिन्तयेत् ॥ ४२
लोलीभूतमिदं सर्वं शक्तिस्थाने लयं कुरु ।
स्फुरत्किरणसंकाशं तडित्कोटिसमुज्ज्वलम् ॥ ४३
यदा तल्लयतां याति कालज्ञानं तदा भवेत् ।
सदाशिवपदावस्थं पश्यते दिव्यचक्षुषा ॥ ४४
अवस्थान्तरितं पश्येत् तत्त्वव्रतं सदोदितम् ।
अन्तस्थं पश्यते सर्वमस्य चक्रप्रभावतः ॥ ४५
षण्मासादुत्पतेत् क्षिप्रं सत्यमेतन्न संशयः ।
गुह्याद् गुह्यतरं सर्वं गोपनीयं प्रयत्नतः ॥ ४६
नाशिष्याय प्रदातव्यं नापुत्राय कदाचन ।
अन्यशास्त्ररता ये च कपटव्रतधारिणः ॥ ४७
अन्यदेवतभक्ता ये शठा ये न कदाचन ।
डम्भकोटिल्यनिरता अद्वैताचारदूषकाः ॥ ४८
न दातव्यं च ते रत्नं ज्ञानकोशं कुलागमम् ।
प्रमादाद् ददते तेषां उपदेशं सुरार्चित ॥ ४९
योगिन्यस्तस्य कुप्यन्ति शोषयन्ति वसामिषम् ।
गुरुदेवसुभक्तानां अग्निकार्यरतानां च ॥ ५०
कुमारीयोगिभक्तानां शुचिव्रतरतानां च ।
दीक्षाकाले परीक्षेत पाशस्तोभादिप्रत्ययैः ॥ ५१
यत्र लीना तु सा शक्तिरमनस्के मनोन्मनी ।
तस्मिन् नियोजयेत् नीत्वा शक्तिसूत्रेण साधकम् ॥ ५२
तावत् स्तोभं भवेत् क्षिप्रं मुद्राबन्धान्यनेकधा ।
उद्गाथयति शास्त्राणि शक्तिना स्तोभितो यदा ॥ ५३
अतीतानागतं चैव पृष्टोऽसौ कथयिष्यति ।
उत्पतेन्निपतेद् भूमौ आवेशं च मुहुर्मुहुः ॥ ५४
एवं ते कथितं देव शृणु भेदं यथा भवेत् ।
नपुंसकगणं त्यक्त्वा द्वादशारमुदाहृतम् ॥ ५५
द्वात्रिंशद्वर्णसंयोगात् महाचक्रं निगद्यते ।
एवं तु मातृकाः सर्वाः चक्राम्नायव्यवस्थिताः ॥ ५६
पश्चिमगृहसंभूता सबाह्याभ्यन्तरस्थिता ।
तालुके षोडशारं तु यत्र सा अमृतावहा कला ॥ ५७
विसर्गस्थं यदा देव तदा दूरात् शृणोति च ।
स्पर्शं च विन्दते देव हिमशिखरसन्निभम् ॥ ५८
लम्बिकामृतसंतृप्तो वाङ्मयं वदतेऽखिलम् ।
वञ्चनं कुरुते मृत्यो रोगानां च क्षयं तथा ॥ ५९
शक्तिस्थः कुरुते ह्येवं मुच्यते विषयादिभिः ।
अणिमादिगुणावाप्तिर्भवते च न संशयः ॥ ६०
तल्लयो यदि तत्रैव स्थिरीभवति सुन्दर ।
तदा चोत्पतते क्षिप्रं सत्यं सत्यं न संशयः ॥ ६१
रन्ध्रस्थं सकलं ज्ञेयं तदतीतं तु व्यापकम् ।
घटमध्ये यथाकाशं परिच्छिन्नं च दृश्यते ॥ ६२
एवं शरीरविच्छिन्नं व्यापकं त्वनुभासते ।
घटे भग्ने यथा देव आकाशं तदवस्थितम् ॥ ६३
बहिरन्तरभावेन तद्वज्जीवो नभोपमः ।
यथा दीपो घटान्तस्थ एकदेशप्रकाशकः ॥ ६४
तथा चात्मा च लिङ्गस्थो मनोव्यापारपेशलः ।
घटे भग्ने यथा देव सर्वत्रैव प्रकाशकः ॥ ६५
तथा पाशैर्विनिर्मुक्तो व्यापकः परमेश्वरः ।
एवं व्याप्तिः समाख्याता तव भक्त्या च सुव्रत ॥ ६६
यथा ह्येकं तथा सर्वं पञ्चाशच्चक्रभैरवम् ।
अनलानिलसंयुक्तं नादबिन्दुकलांकितम् ॥ ६७
सर्वकर्मकरः प्रोक्तो यथाशक्तिः समीकृतः ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वयसप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते योगाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ४१ ॥
Kumārikākhaṇḍa – Kapitel ४२
द्विचत्वारिंशानन्दः
श्रीनाथ उवाच
मूलशक्त्यवतारं तु मूलान्वये क्रमागतम् ।
यथा त्वं तत्त्वतो वेत्सि तथा कथय कौलिनि ॥ १
श्रीवक्रा उवाच
अथातः संप्रवक्ष्यामि कुकारान्वयनिर्णयम् ।
सार्धवृत्तत्रयं ज्ञानं मूलसूत्रं कुलान्वये ।
क्रियासूत्रविकासज्ञः त्रैलोक्याकर्षणक्षमः ॥ २
या सा शक्तिर्भगाख्या त्रिपथगतियुता त्र्यक्षरा त्रिप्रकारा तस्याः श्री–ओड्डियाणं परकलसहितं मध्यसंस्थं सुदीप्तम् ।
तच्छ्रीजालन्धराख्यं प्रकटितनिलयं दक्षिणे चैव कोणे वामे श्रीपूर्णपीठं पशुजनभयकृत् पूरितं येन विश्वम् ॥ ३
तस्याग्रे कामरूपं मदनकलयुतं सर्वसिद्ध्यालयं च त्रिष्कोणान्ते समस्तं परमशिवकलालंकृतं योगिवृन्दम् ।
तन्मध्ये दिव्यलिङ्गं परमसुखकरं बिन्दुरूपं खरूपं नित्यानन्दस्वरूपं तदुपरिमथनात् षट्प्रकारैर्विभिन्नम् ॥ ४
विद्याभोगं क्रमार्थं सततमनुभवं तिस्रमाज्ञाललाटे एवं व्याप्तं समस्तं स्थितिलयजननी रुद्रशक्तिस्त्रिभेदैः ।
मध्यस्था देवदेवी अकुलकुलमयानन्ददात्री स्वतन्त्रा तस्याज्ञा बिन्दुभूता पशुभयहरणी सिद्धिदा बोधरूपा ॥ ५
नित्यक्लिन्ना सुरक्ता भगमुदितपरानन्दशक्तिः प्रसिद्धा कुर्वन्ती तत्र कामान् क्षुभितवरतनुं श्रीकुब्जिकाख्यां नमामि ।
त्रिप्रकारस्वरूपेण मूलसूत्रं प्रकाशितम् ।
प्रधानाः पीठाश्चत्वारः च्छायावृक्षैस्तु संयुताः ॥ ६
भुक्तिमुक्तिप्रदा या सा भगाख्या परमेश्वरी ।
या सा त्रिःकोणशक्तिः अकुलकुलयुता संप्रवाहती षट्कं मध्ये ओंकारपीठं मदनकलयुतं कामरूपं तदग्रे ।
दक्षांशे जालसंज्ञं परममृतमयं वामकोणे तु पूर्णं वामे श्रीशैलगिर्यां रतिसुखनिलयं भोगमाहेन्द्र दक्षे ॥ ७
अग्रे कैलासपूर्णं त्रिभुवनसहितं योगकैलासमेतत् वामान्ते पञ्चकोऽन्यं विमलकलयुतं तुर्यसिद्धाश्च पूर्वे ।
षट्कोणे योगिषट्कं तदनु कलमयं षट्प्रकारे तु षट्कं दक्षान्ते पञ्चकोऽन्यं परमपदगतं पश्चिमे ओलिनाथं ॥ ८
तस्यादौ एकपुष्पं तदपरमकुलं ओलिनाथस्य चान्ते पीठास्ते पीठदेव्यास्तदनुचरविभवं त्रित्रिभेदं त्रिदेशे ।
दक्षाष्टौ योगिनीभिस्तदनुपरिवृतं साधकैः पुत्रपूर्वैः ओड्डाव्वा आदिशक्तिः सकलगुणयुता वक्त्रषट्कं तदन्ते ॥ ९
तद्बाह्ये चाङ्गषट्कं तदनु कुलबहिर्मण्डलान्येकविंश मध्ये या कादिपूर्वं सकलगुणनिधिर्मण्डलानां विधानम् ।
अष्टाष्टौ तत्र बाह्ये वितरितपरमा दिक्षु अस्त्रप्रयोगात् खम्भाश्चत्वारि कोणैर्विदिशकुलगतं सिद्धमादिचतुष्कं ।
एवं कुर्यात् कुलाद्यं यजनक्रमपदं श्रीक्रमस्यादिसूत्रं ॥ १०
क्रियासूत्रमिदं शम्भो षट्क्रमे परिपठितम् ।
एवं पूज्य विधानेन परत्रं निर्मलं भवेत् ॥ ११
द्वावेतौ यावन्न ज्ञातौ द्वावेतौ तत् कुतो भवेत् ।
कारुण्येन विना मुक्तिः कुतो भवति श्रीक्रमे ॥ १२
बिन्दुस्थं कामरूपं तदनु शशिकलामध्ये पीठोड्डियाणं नादान्ते जालपीठं तदधपथगतं मन्त्रपीठं त्रिकोणे ।
पीठोत्पत्तिः कुलौघे स्थितिलयजननी प्रत्ययं तं ललाटे वन्दे सिद्धैः समेतां परमपदगतां दिव्यशक्तिं भगाख्याम् ॥ १३
पुनः सृष्टिक्रमं सूत्रं संहितार्थे ब्रवीम्यहम् ।
प्रथमं शक्तिकं रूपं अव्यक्तव्यक्तिगोचरम् ॥ १४
अव्यक्तो भैरवो ह्यात्मा आत्मानन्दः प्रकीर्तितः ।
त्रिकोणान्ते तु संजातं खमध्ये गगनान्तरे ॥ १५
पातङ्गरूपिणो वायुस्तेन ओद्याणकं भवेत् ।
तन्मध्याच्छ्र्योद्यानात् बिन्दुः पतितश्चाग्रकोणके ॥ १६
तत्र कामाख्यमुत्पन्नं सर्वसिद्धालयं स्मृतम् ।
बिन्दोश्च निर्गतस्तेजस्तद्गतो भगदक्षिणे ॥ १७
तत्र जालाख्यमुत्पन्नं तीव्रतेजः सुदुःसहम् ।
तेजसा त्यजिताभासा च वामांशे कुलोत्तरे ॥ १८
तेन पूर्णगिरिः प्रोक्तः एवं पीठचतुष्टयम् ।
सृष्टिमार्गेण कथितं पारम्पर्यक्रमागतम् ॥ १९
तेषां गुप्तानि नामानि संकेतेन ब्रवीम्यहम् ।
योगतन्त्रस्य मध्यस्थं मायापीठं भगान्तरे ॥ २०
मोक्षमार्गप्रदातारमव्यक्तात् संप्रवर्तते ।
सूर्यतत्त्वगतं विद्याद् विद्यापीठं तु दक्षिणे ॥ २१
ज्ञानसिद्धिप्रदातारं नादमध्याद् विनिर्गतम् ।
सोमतत्त्वप्रभामध्ये मन्त्रपीठं तथोत्तरे ॥ २२
ज्ञानसिद्धिप्रदातारं तेजमध्यात् प्रवर्तितम् ।
ब्रह्मतत्त्वं विजानीयात् मुद्रापीठं तदग्रतः ॥ २३
पिण्डसिद्धिप्रदातारं बिन्दुदेहात् प्रवर्तितम् ।
इदं संकेतकं गुह्यं क्रमस्यादि प्रकीर्तितम् ॥ २४
नाम्ना पीठावली ह्येव योगिनीचिह्नलक्षणम् ।
संकेतस्य प्रभावेण अन्वये चान्वयी भवेत् ॥ २५
इति सूत्रार्थमुद्दिष्टं निर्णीतं सप्तकोटिषु ।
अथ भाषाक्रमं देव कुलमार्गे ब्रवीम्यहम् ॥ २६
कुला कुशा कुवे कुया कुभु कुक्षिः कुनिः कुमा ।
इदं संकेतकं कोशं भावमार्गे प्रकल्पितम् ॥ २७
अस्य भाषार्थविज्ञानं गुरुवक्त्रात् तु लभ्यते ।
कुलावलीति इत्युक्त्वा कुशा शाकिनि एव च ॥ २८
कुवे वेश्यावली नाम कुया याकिनिभैरवी ।
कुभु भुक्तिवती या तु कुक्षे क्षेमंकरीति च ॥ २९
कुनि निष्क्रमणा देवी कुमा वै मङ्गला सा च ।
एवं चाष्टविधा ह्येका कुब्जिका गृहदेवता ॥ ३०
तया चर्या कृता पूर्वं अद्वैतगृह अष्टके ।
प्रयागा वरुणा कोला अट्टहासा जयन्तिका ॥ ३१
चरित्रैकाम्रकं चैव देवीकोट्टं तथाष्टमम् ।
गृहाष्टकं समाख्यातं सद्यःप्रत्ययकारकम् ॥ ३२
दिव्याधिकारं सर्वेषां ज्ञानदं भोगदं भवेत् ।
अतीताश्च स्वयं देव्या वेश्याद्याश्च गृहाष्टके ॥ ३३
वेश्या शुण्डिनि कैवर्ती खट्टिकी कञ्चुकी तथा ।
रजकी च तथा शिल्पी अष्टमी कौशिकी तथा ॥ ३४
अष्टावेताः समाख्याता गृहाश्चोदयकारिकाः ।
प्रयागे तु स्थिता वेश्या वाराणस्यां तु शुण्डिनी ॥ ३५
कौल्लगिर्ये तु कैवर्ती अट्टहासे तु खट्टिकी ।
जयन्त्यां कञ्चुकी प्रोक्ता चरित्रे रजकी तथा ॥ ३६
एकाम्रे शिल्पिका देव कौशिकी देवकोटके ।
एवं चाष्टविधा भाषा कुकारा चाष्टधा स्मृता ॥ ३७
मन्त्रजा सहजा चैव योगजा तन्त्रजा तथा ।
कुलजा ज्ञानजा चैव योनिजा व्योमजा तथा ॥ ३८
शक्तिश्चाष्टविधा प्रोक्ता वेश्यादिसमुदीरिता ।
मन्त्रजा सकला प्रोक्ता सहजा रौद्रिका भवेत् ॥ ३९
योगजा च क्रियाक्रान्ता तन्त्रजा क्षुद्रकर्मसु ।
कुलजा प्रियसंवादी ज्ञानजा समयार्थिनी ॥ ४०
योनिजा मोहयेद् भूतान् व्योमजा मारयेद् ध्रूवम् ।
एवं क्षेत्राष्टके ज्ञेया ब्रह्माण्याद्यष्टकं विदुः ॥ ४१
अष्टावेते च बोधव्याः पूजितव्याः प्रयत्नतः ।
तदा श्रेयस्करा ज्ञेया अपमान्य मरणं भवेत् ॥ ४२
इदं भाषाष्टकं दिव्यं कुलाम्नाये प्रकाशितम् ।
रक्षितव्यं प्रयत्नेन परशिष्ये न दापयेत् ॥ ४३
आकहा हाकहा चैव कुकहा डाकहा तथा ।
राकहा लाकहा चैव काकहा साकहा तथा ॥ ४४
हाकहा कुकहा सिद्धा जगतश्च चतुर्युगे ।
ज्ञानं प्रकाशयेद् यस्य कहाशब्दस्तदुच्यते ॥ ४५
ज्ञानतत्त्वस्वरूपेण कुलभाषा मयोदिता ।
तद्भाषादशकं मे चोक्तं कहार्थेन तु योजितम् ॥ ४६
अनया भाषया देव कुलं तत् प्रकटीकृतम् ।
यो न वेत्ति इमां भाषां नासौ योग्यः कुलान्वये ॥ ४७
कै कखमा आगजाद्या कुशदीपी च षट्कोऽयम् ।
इयं द्वादशिका भाषा आदिदेव्या प्रकाशिता ॥ ४८
योगभाषाक्रमो ह्येष आचार्यपददायकः ।
कैलासं कमलं बिन्दुः खमध्ये समयं प्रभो ॥ ४९
मातङ्गं कौलमद्वैतं जगतः प्रलयोदयम् ।
आदिकादिशिवं सिद्धं याकिनीयोनिमुद्रितम् ॥ ५०
यजनं पादुकान्तं च कुकारान्वयदर्शनम् ।
शवरी–अधिकारं तु दीपवर्तिश्च मालिनी ॥ ५१
ओंकारादितः पीठाश्च सिद्धं योगेश्वरं पदम् ।
इयं द्वादशिका भाषानिर्णीता श्रीकुलागमे ॥ ५२
भाषाभेदं च यो वेत्ति आचार्यः स कुलान्वये ।
खेखकौखशिकाश्चैव कुषा भाषाचतुष्टयम् ॥ ५३
गवि सग पवि त्रीणि मावि मामश्च पञ्चमम् ।
डाहो गमे लधू त्रीणि काहि साहा च खेचरी ॥ ५४
काकुमातरिका सप्तषट्कभेदमुदाहृतम् ।
ओजापूकाचतुर्भाषा ओचषमिचतुष्टयम् ॥ ५५
अवि यवि च यो त्रीणि मवि यविस्तु पञ्चमम् ।
अकुसि कु अकु त्रीणि कविमुषचतुष्टयम् ॥ ५६
आस्वाम अवि आ षट्कं गुप्ता भाषा मयोदिता ।
अष्टषष्टिस्त्विमा भाषा अन्वये परिपठिताः ॥ ५७
एवं प्रश्नानि यो वेत्ति स भवेत् पश्चिमे गृहे ।
इति भाषाक्रमं ज्ञानं अतिगूढार्थविस्तरम् ॥ ५८
यो न वेत्ति महादेव स कथं देशिकोच्यते ।
अष्टषष्टिः प्रभेदेन भाषाश्चैव कुलान्वये ॥ ५९
गोत्रमार्गे प्रयुञ्जीत मोक्षमार्गविनिर्णये ।
अथ मेलकसंयोगं यथा भवति तच्छृणु ॥ ६०
एकांगुलिप्रदेशिन्या स्वागतं मन्त्रिणां वदेत् ।
द्वाभ्यां सुस्वागतं चैव क्षेममंगुष्ठपीडनात् ॥ ६१
गगनस्था यदा दृष्टिः सुक्षेमगृहमागतः ।
एवं चतुर्विधा मुद्रा गोत्रसंकेतके स्मृता ॥ ६२
ऐन्द्री च चञ्चला दृष्टिर्याम्ये दृष्टिस्तु भीषणा ।
सौम्ये तथास्तु विज्ञेया अन्तरीक्षे तु निश्चला ॥ ६३
चतुर्विधा चक्षुर्मुद्रा पीठमार्गे प्रकीर्तिता ।
स्वरैः षोडशभिर्भिन्ना ब्रह्ममात्रा तु मूर्धनि ॥ ६४
कादितान्तं गता देव विष्णुमात्रा तथोत्तरे ।
थादिसान्तविभेदेन रुद्रमात्रा तु दक्षिणे ॥ ६५
इति पंक्तित्रयं प्रोक्तं मातृकाक्षरडम्बरम् ।
दिव्यन्यासं स्वयं देहे नाम्ना वै वर्णराशिकम् ॥ ६६
स्थानषट्कं प्रवक्ष्यामि उपदेशार्थविस्तरम् ।
विशुद्धं षोडशैर्भिन्नं द्वादशैस्तु अनाहतम् ॥ ६७
दशभिश्च मणिर्भिन्नः स्वाधिष्ठानं षडात्मकम् ।
आधारे भेदाश्चत्वार आज्ञाभेदद्वयं विदुः ॥ ६८
गुर्वाज्ञायाश्च दशकं सारं संसारसागरे ।
खेचरं वै कृतयुगे आत्म–ओलिस्तथैव च ॥ ६९
त्रेतायुगे वृद्धक्रमं ज्येष्ठ–ओलिक्रमागतम् ।
मध्यमं द्वापरे ज्ञेयं कलौ बालक्रमं भवेत् ॥ ७०
त्रिविधं क्रम–ओलं तु बालकौमारवृद्धकम् ।
चतुर्थं व्यापकं सूक्ष्मं एकमेव क्रमं त्रिधा ॥ ७१
श्लोकमेवमिदं सारं देव्याज्ञयाः प्रकाशितम् ।
ये बुद्ध्यन्ति नरा देव ते मुक्ता नात्र संशयः ॥ ७२
शुभाशुभैर्न लिप्यन्ते ब्रह्महत्यादिपातकैः ।
निर्मलास्ते भविष्यन्ति श्लोकार्थस्य विदास्तु ये ॥ ७३
शास्त्रार्थेन विना भ्रान्तिः कुतः शम्यति पश्चिमे ।
तेन श्रीमतबोधो यः निर्मलहेमवद् यथा ॥ ७४
दर्शनात् स्पर्शनाद् वाथ पशूनां पापहा भवेत् ।
स भवेत कुलाचार्यो वेधज्ञानविशारदः ॥ ७५
आज्ञाधरोऽथ भवेत उपदेशधृतव्रतः ।
शोभते स कुले देव श्रीमतार्थप्रबोधकः ॥ ७६
मतार्थे च परीक्ष्य यो यो हि मिथ्यावभाषकः ।
आचार्यः सह शिष्यैस्तु नरकं रौरवं व्रजेत् ॥ ७७
अन्यथा आगमार्थं तु बुध्यते नैव तत्त्वतः ।
स्वयमेवोत्पादयेदर्थं स याति नरकं ध्रुवम् ॥ ७८
स्वयं हर्ता च पापिष्टो न स वै पाशहा भवेत् ।
भैरव्याधिष्ठितं ज्ञानं भैरवस्य तु लीयते ॥ ७९
भैरव्या प्राप्यते भुक्तिर्मुक्तिर्वै भैरवाद् भवेत् ।
इति भैरवभाषेयं गूढार्था विमलोत्तरा ॥ ८०
सर्वदानन्दसन्तानं भैरवात् संप्रवर्तते ।
तच्चिदानन्दबोधेन ये विद्धाश्च महाव्रताः ॥ ८१
ते मुक्ता नात्र संदेहो संभवन्ति युगत्रये ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते सृष्टिक्रमसूत्राधिकारवर्णने क्रमोदयो नामानन्दः ॥ ४२ ॥
Kumārikākhaṇḍa – Kapitel ४३
त्रिचत्वारिंशानन्दः
श्रीनाथ उवाच
युगे युगे समाचारं सिद्धयोगिनिसंकुलम् ।
अवतारं युगावस्थं वद मे शंकरार्चिते ॥ १
श्रीवक्रा उवाच
साधु साधु महाप्राज्ञ आदिनाथ जगत्पते ।
कथयामि न संदिग्धं यत् त्वया परिपृच्छितम् ॥ २
चतुर्युगावतारं तु संक्षेपेण वदाम्यहम् ।
पारम्पर्यक्रमं देव यन्मया भाषितं पुरा ॥ ३
सादाख्यो नाम सिद्धस्तु अधिकारी कृते युगे ।
उत्तरानन्ददेव्यायाः अव्वागृहं समागतः ॥ ४
तस्य पुत्राश्च संजाताश्चत्वारः कुलनायकाः ।
तेषां नामानि वक्ष्यामि एकैकस्य पृथक् पृथक् ॥ ५
प्रथमममरो नाम अजरश्च द्वितीयकः ।
ओंकारश्च तृतीयः स्याच्चतुर्थश्चामृतोद्भवः ॥ ६
अमरीभिर्दीक्षिता देवाः संख्यां शृणु उमापते ।
सप्तसप्ततिकोटीनि एकैकेन तु दीक्षिताः ॥ ७
खेचरत्वं गताः सर्वे मदीयाज्ञाप्रभावतः ।
एवं कृतयुगे देव कथिता सिद्धसंख्या सा ॥ ८
अतः कुदण्डमध्यस्थं अमृतोद्भवसंभवम् ।
दिव्यकायं महादीप्तं देवानुग्रहकारकम् ॥ ९
द्वितीययुगसद्भावं कथयामि सुरार्चित ।
पारम्पर्यक्रमादेव यन्मया भाषितं पुरा ॥ १०
यस्यैव शंकरो नाम सिद्धस्य वरदस्य च ।
व्रजेत् स दक्षिणे मार्गे मङ्गलार्थे गृहाश्रमम् ॥ ११
तस्यैव पुत्राः संजाताः चत्वारः कुलदीपकाः ।
अनुष्ठानरता देव मन्त्रयोगसमाधिना ॥ १२
तेषां नामानि वक्ष्यामि पृथक् न्यायेन सुन्दर ।
अरुणो वरुणश्चैव वरदश्च तृतीयकः ॥ १३
चतुर्थः संचरो नाम कथितस्तव सुव्रत ।
पुत्रसुदीक्षिताः सिद्धाः संख्यां शृणु महेश्वर ॥ १४
नवनवतिकोटीनि एकैकेन तु दीक्षिताः ।
बालार्कोदितवद्रूपं सुतप्तकनकप्रभम् ॥ १५
गुहामध्यगतं पीठं शूलिना चोत्तरे स्थितम् ।
द्वितीये च युगे प्राप्ते सिद्धानुग्रहकारकम् ॥ १६
द्वापरे च युगे देव अधिकारक्रमं यथा ।
तव स्नेहेन वक्ष्यामि एकचित्तः शृणु प्रिय ॥ १७
पश्चिमाम्नायिकादेव्याः पिङ्गलो गृहमागतः ।
तस्य पुत्राश्च संजाताः एकैकवरदायकाः ॥ १८
विजयं विन्ध्यनाथं च मार्तण्डो मेषमेव च ।
एभिस्तु दीक्षिताश्चान्ये वक्ष्यामि तव सुन्दर ॥ १९
लोकपालाश्च नक्षत्रा ध्रुवं नक्षत्रमण्डलम् ।
कोटिद्वादशसंख्या च दीक्षितान्येकमेकतः ॥ २०
तृतीयं सूचितं दिव्यं पीतवर्णं समुज्ज्वलम् ।
नक्षत्रा लोकपालाश्च अनुग्रहात् परमेश्वर ॥ २१
चतुर्थे च युगे देव अधिकारक्रमं शृणु ।
अवतारं कृतं येन वक्ष्यामि तव शंकर ॥ २२
पूर्वाम्नायस्थिता देवी अव्वा भैरवरूपिणी ।
श्रीकण्ठो नाम सिद्धश्च तस्यास्तद्गृहमागतः ॥ २३
तेनापि यत् कृतं चान्यं शृणु तत्त्वेन सुन्दर ।
वेदसिद्धान्ततत्त्वज्ञा दीक्षिताश्च बलोत्कटाः ॥ २४
चतुर्युगे तु सिद्धा ये पूर्वाम्नायेऽधिकारिणः ।
ते सिद्धा दीक्षिताः सर्वे श्रीकण्ठपश्चिमान्वये ॥ २५
खगेन्द्रः कूर्ममीनाख्यौ मच्छेन्द्रश्च चतुर्थकः ।
एभिस्तु दीक्षिताः सिद्धाः काद्यः षोडश षोडश ॥ २६
एवं ते कथितं सर्वं युगानुयुगरूपकम् ।
कृद्युगे दीक्षिता देवाः त्रेते सिद्धास्तथा यथा ॥ २७
द्वापरे गणगन्धर्वाः कलौ चैव तु मानवाः ।
असंख्या दीक्षिता देव चतुर्थे तु महायुगे ॥ २८
अन्तिमे च युगे प्राप्ते भ्रमराञ्जनसमप्रभे ।
कलौ युगे महाघोरे किल्विषेन परिप्लुते ॥ २९
सिद्धावतारमर्थे तु भेदे भेदेऽवतारितम् ।
ओड्डीशं तूष्णिचिञ्चीशं स्थानुसंज्ञं चतुर्थकम् ॥ ३०
पदे पदे च विख्यातं युगानुयुगरूपकम् ।
रहस्यं परमं शंभो तीव्राज्ञाद्योतितं महत् ॥ ३१
चतुर्युगावतारं तु दिव्यौघं गुरुमण्डलम् ।
यो न विन्दति तत्त्वेन स कथं चान्वयी भवेत् ॥ ३२
इत्याद्यावतारे महान्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरस्वामिनीमते श्रीचतुर्विंशतिसहस्रे चतुर्युगावतारसूत्रवर्णनो नामानन्दः ॥ ४३ ॥
Kumārikākhaṇḍa – Kapitel ४४
चतुश्चत्वारिंशानन्दः
श्रीवक्रा उवाच
अथान्यं विमलं वक्ष्ये क्रमोदयं तु दुर्लभम् ।
योऽसौ सर्वगतो देव बिन्दुः कारणमव्ययम् ॥ १
तस्येच्छा निर्गता शक्तिश्चिद्रूपा तु कुलालया ।
तद्धर्मधर्मिणी सा तु अग्राह्या गुणचित्परा ॥ २
तत्त्वभासा स्फुरन्ती च ऋजुरेखैव कुण्डली ।
सा च वामा समाख्याता ज्येष्ठा रौद्री षडात्मिका ॥ ३
अधो नादनिरोधाच्च शान्त्याख्या उन्मनाव्यया ।
महापीठस्थिता तत्र कुलकौलावतारिका ॥ ४
रूपातीतं तथा रूपं पदं पिण्डमनुक्रमात् ।
पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः ॥ ५
रूपं बिन्दुमयं प्रोक्तं रूपातीतमनामयम् ।
तत्र पीठचतुष्कं तु संजातं तु कुलेच्छया ॥ ६
रूपातीतं तु कामाख्यं रूपं पूर्णगिरिर्महान् ।
पदं जालन्धराख्यं तु पिण्डमोड्डं प्रकीर्तितम् ॥ ७
का–पू–जा–ओचतुष्कं तु मूलकौलक्रमागतम् ।
सादाख्यं तु महासिद्धं सदाशिवपदे स्थितम् ॥ ८
विभज्यते स चात्मानं पुनरेव त्रिधाकृतम् ।
शिवः शक्तिस्तथात्मा स एक एव त्रिधा स्थितः ॥ ९
अघोरः परमो नाथ घोराख्या शक्तिरुच्यते ।
श्रीकण्ठश्च तथात्मानं स च एव चतुर्विधः ॥ १०
योऽसौ मित्राभिधानो वै स च देवो उमापतिः ।
एषा व्याप्तिः समाख्याता ओड्डीशो गोलकं भवेत् ॥ ११
षष्ठो नादः समाख्यातः चर्य आनन्दमुच्यते ।
पिण्डं चैव पदं रूपं रूपातीतं चतुर्थकम् ॥ १२
दिव्यक्रमात् क्रमं जातं सृष्टि–ओघेन कौलिकम् ।
या सा शक्तिः परानन्दा सृष्टिरूपा व्यवस्थिता ॥ १३
श्वेता पीता तथा रक्ता श्यामा देवी कुलात्मिका ।
एवंवर्णा समुत्पन्ना स्वररूपेण पीठका ॥ १४
अकारश्च इकारश्च ओकारैकारमेव च ।
ओंकारं यत् समाख्यातं तस्याः सृष्टिर्विनिर्गता ॥ १५
पृथिव्यादिक्रमेणैव ओजापूकाचतुष्टयम् ।
पञ्चमं यत् समाख्यातं पीठं मातङ्गसंज्ञया ॥ १६
व्यापकं परमं सूक्ष्ममगम्यं गुरुवर्जितैः ।
ऋग्वेदश्च यजुर्वेदः सामवेदो ह्यथर्वणः ॥ १७
ओमिति सदाशिवं प्रोक्तं एकारो मित्रसंज्ञकः ।
ओकारमोड्डीशो नाम इकारः षष्ठ उच्यते ॥ १८
अकारेण तु चर्याख्यः सिद्धाम्नायावतारकाः ।
ऋग्वेदी भवते मित्रो यजुर्वेदी उड्डमेव च ॥ १९
सामवेदी भवेत् षष्ठश्चर्यानाथो ह्यर्थर्वणः ।
तथा पीठानि चत्वारः संजातानि वरानन ॥ २०
ऋकारं चैव ॠकारं ऌ लॄकारं तथैव च ।
ऋकारे कामरूपं तु ॠकारे पूर्णपीठकम् ॥ २१
ऌकारे जालसंज्ञं तु लॄकारे चोड्डियाणकम् ।
ऋकारे तु ॠकारे तु ऌ लॄ चैव तु संभवाः ॥ २२
ओलिश्चैव समाख्याता ए औ आत्मानमेव च ।
ॐ मषं यामलं विद्या कुब्जा इत्यष्टशांभवम् ॥ २३
सादाख्यं तु विसर्गाख्यं एवं सृष्टिक्रमं स्मृतम् ।
पीठाद्यां योगिनीम् आहुर्नपुंसकचतुष्टयम् ॥ २४
विमलादिविभेदेन श्रीमतं कथयाम्यहम् ।
एकारे विमला प्रोक्ता ओकार तु पुलिन्दिका ॥ २५
इकारे योगिविमला अकारेण तु चम्पका ।
ओंकारे समया प्रोक्ता यस्मात् सृष्टिः प्रवर्तते ॥ २६
आधारभेदं एकारं स्वाधिष्ठान ओकारकम् ।
इकारं मणिमित्युक्तं अकारे हृद्यनाहतम् ॥ २७
उकारेण विशुद्धं स्याद् विसर्गाज्ञा प्रकीर्तिता ।
षट्प्रकारामिमां सृष्टिं षट्चक्रेषु कुलक्रमे ॥ २८
तव वै कौलिनी ह्येका सृष्टिरूपा व्यवस्थिता ।
वकारे तु डकाराख्या शकारे राकिसंज्ञया ॥ २९
षकारे लाकिनी ज्ञेया सकारे काकिनीं विदुः ।
क्षकारे साकिनी प्रोक्ता हकारे हाकिनी मता ॥ ३०
एवं डादिमहावृन्दे विसर्गे याकिसंभवः ।
योगिनीषट्कमाख्यातं दिव्यं ज्ञानप्रदायकम् ॥ ३१
पकारे गगनाख्या तु फकारे स्वर्गसंभवा ।
बकारे पवनाख्या च भकारे मर्त्यसंभवा ॥ ३२
मकारे नागलोके हि पञ्चरत्नमुदाहृतम् ।
शिला शेखरसंज्ञा तु मकारे संव्यवस्थिता ॥ ३३
नकारे संघसंज्ञा च ककारे तु कुमारकम् ।
श्रीमते तत् समाख्यातं वर्णभेदक्रमेण तु ॥ ३४
अष्टाविंशतिभेदानि यो विन्दति स सिद्ध्यति ।
अवर्गे तु भवेद् ब्राह्मी कवर्गे तु महेश्वरी ॥ ३५
कौमारी च चवर्गस्था टवर्गे वैष्णवी स्मृता ।
वाराही च तवर्गस्था ऐन्द्राणी च पवर्गगा ॥ ३६
यवर्गे च भवेत् शुष्का महारावा प्रकीर्तिता ।
शवर्गस्था महालक्ष्मी अष्टावेताश्च मातरः ॥ ३७
श्रीकुजा चाष्टधा ह्येका विख्याता पीठदेवता ।
एवं पश्चिमतः सृष्टिः संवर्ता मालिनी स्वयम् ॥ ३८
जगद्योनिर्भवेदेका तस्मात् सृष्टिरनेकधा ।
ये मन्त्रा देवताः सर्वे मुद्रा विद्या ह्यसंख्यया ॥ ३९
भवयोनिः पराख्याता सृष्टिरूपा चिदात्मिका ।
कुब्जीश कुब्जिनी माता तनुबद्धा तु मालिनी ॥ ४०
अवर्गेण शिरो देव कवर्गं बाहुदक्षिणम् ।
चवर्गं वामबाहुश्च दक्षजङ्घा टवर्गजा ॥ ४१
तवर्गे वामजङ्घा च पवर्गे कुक्षिद्वयं स्मृतम् ।
पृष्ठं च हृदयं नाभि ऊरुः चैव नितम्बकम् ॥ ४२
शवर्गेण भवेत् देव देहं देवस्य राजते ।
त्वचं रक्तस्तथा मांसं स्नायुरस्थिसमंकलम् ॥ ४३
प्राणं शुक्रं तथा क्रोधं क्षयमध्ये व्यवस्थिताः ।
कुजीशस्य तनुश्चैवं पराशान्ताद् विनिर्गतः ॥ ४४
जगद्योनीति विख्याता सृष्टिरूपा महाम्बिका ।
सा योनिः सर्वभूतानां वर्णरूपा व्यवस्थिता ॥ ४५
ये वर्णदेवताः सर्वे वीराश्च भैरवास्तथा ।
रुद्राः सिद्धाश्च तेऽप्येवं वर्णरूपा विनिर्गताः ॥ ४६
कालाग्न्यादिशिवान्ते च सा योनिः संव्यवस्थिता ।
एवं दिव्यं महादिव्यं दिव्यादिव्यैर्न गोचरम् ॥ ४७
तदेवमन्वयं तत्त्वं गोचराचारमेलकम् ।
कथितं ते महाशंभो रहस्यमतिदुर्लभम् ॥ ४८
दिव्येदं विमलं ज्ञानं उद्धृतं सप्तकोटितः ।
ये विन्दन्ति नरा देव ते मुक्ता नात्र संशयः ॥ ४९
विना विमलभेदेन दीक्षां शिक्षां च यो ददेत् ।
न दीक्षा नैव शिक्षा च अहुतीनां निरर्थका ॥ ५०
मातृका विदिता ह्येषा सिद्धज्ञानेन संयुता ।
न देया कस्यचिद् देव विशेषाद् भक्तिवर्जिते ॥ ५१
क्रमपूजारते शान्ते रागद्वेषविवर्जिते ।
तेषां देयमिदं देव नान्येषां तु कदाचन ॥ ५२
पापिष्ठा निन्दकाः क्रूरा रागद्वेषसमन्विताः ।
न ते योग्याः कुले कौले विचरन्ति नराधमाः ॥ ५३
न ते यान्ति परं स्थानं निषिद्धास्ते मया पुरा ।
श्वानेन तु यथा श्वानो दृष्टो बुद्धः प्रवर्तते ॥ ५४
तथा च निष्फला चेष्टा अज्ञानतमसावृता ।
संसारार्णवगम्भीरे ये मग्ना भुवि मानवाः ॥ ५५
दीक्षितापि न मुच्यन्ति क्रोधलोभपरायणाः ।
विष्ठामध्ये कृमिर्यद्वदमेध्यमुपजीवति ॥ ५६
एवं ते कुलविभ्रष्टाः पतन्ति नरकार्णवे ।
भजन्ते मेऽप्रतिष्ठा ये अहंकारवशानुगाः ॥ ५७
न तेषामैहिका सिद्धिः परत्र च न विद्यते ।
पारम्पर्यक्रमारूढा दीक्षिताः सिद्धशासने ॥ ५८
अभिषिक्तास्तथा शंभो विनयेन विवर्जिताः ।
नयहीना न सिद्ध्यन्ति इहलोके परत्र च ॥ ५९
विनयात् प्राप्यते सर्वं तस्माद् विनयमाचरेत् ।
एवं विनयहीना ये पापिष्ठा भुवि गर्विताः ॥ ६०
न ते योग्याः कुले कौले भवन्ति ज्ञानवर्जिताः ।
विनयामृततृप्तानां शान्ताचारपरायणाम् ॥ ६१
मुर्खानामपि या सिद्धिर्न साहंकृतपण्डिताम् ।
इदं ज्ञानोदयं नाम शैवसारं तु कौलिकम् ।
कथितं देवदेवेश सत्येन तु मया तव ॥ ६२
तत् ख्यातं ज्ञानखण्डं निहतकलिरिपुर्ध्वंसितः पापराशिः योनौ संगृह्य वेगात् क्रमति अहनिशं तत्त्वं सन्ध्याक्षरेण ।
तं नादं चित्स्वरूपं प्रणमत सततं वन्दनीयं सुराणां दातारं भुक्तिमुक्तिं नमत गुरुवरं श्रीमहानादिनाथम् ॥ ६३
मोक्षार्थं ज्ञानहेतोः प्रकटितनिलये सिद्धशब्दं अमोघं विघ्नव्याघातदक्षं स्थितममलमजं मङ्गलानां निधानम् ।
ज्ञानभावैः प्रपन्नं बहुविविधफलं दिव्यमानन्दभूतं श्रीमदोडीशनाथं व्यपगतकलुषं पादपद्मं नमामि ॥ ६४
यस्यानन्तं न दूरं न च दिवसनिशा कालवेला न चैव जाग्रत्सुप्ते सुषुप्ते गगनमतिरतं मोक्षकामानुरक्तम् ।
मर्त्यानां तारणार्थं भवभयहरणं तीव्रमाज्ञाधरं च लीलाभावैः प्रपन्नं नमत गुरुवरं श्रीमहातूष्णिनाथम् ॥ ६५
आज्ञासिद्धैरमाद्यैः कलिकलुषहरैः तर्पते दिव्यपानैः दृष्टं चादृष्टरूपं पतति * * * * शुद्धकायो भवेत् सः ।
पश्चात् क्रीडास्वरूपः सुसमविधिपरो जायते दिव्ययोगी सर्वेषां वन्दनीयो जयति स भगवान् पातु मां चर्यनाथः ॥ ६६
येनेदं सिद्धमार्गं प्रकटित – भुवने कीर्ति कोल्लापुरे वा बिल्वस्फोटं विधाय पुनरपि च गतः संस्थितश्चन्द्रपुर्याम् ।
चिञ्चामालोकयित्वा त्रिभुवनविदितां यस्य कीर्तिर्बभूव तीव्राज्ञाया वरो यो कलिकलुषहरो नौम्यहं वृक्षनाथम् ॥ ६७
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमतेश्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते श्रीक्रमसृष्ट्यधिकारो नामानन्दः ॥ ४४ ॥
Kumārikākhaṇḍa – Kapitel ४५
पञ्चचत्वारिंशानन्दः
श्रिवक्रा उवाच
अतः परं प्रवक्ष्यामि त्रिकभेदविनिर्णयम् ।
* * * * * * * * परापरमनुत्तमम् ॥ १
परं चैव तु बीजस्थं निर्बीजं परमं पदम् ।
अद्वयं परमं ज्ञानं मन्त्रातीतमगोचरम् ॥ २
एवं त्रिविधभेदः स्यात् सं * * * * * * तम् ।
कृता येन महाचर्या प्रत्ययं प्रकटीकृतम् ॥ ३
प्रत्ययाज्जायते मुक्तिर्मुक्तेर्बन्धो न विद्यते ।
एवं सृष्टिक्रमं प्रोक्तं त्रिकभेदस्य निर्णयम् ॥ ४
दिव्याम्नायक्रमाज्जातं पश्चिमे परमेश्वर ।
प्रथमावतारसंकेतं उक्तं कुलक्रमोदयम् ॥ ५
यश्चावधारयेत् श्रीमान् श्रीकुजाख्यामहामतम् ।
स मुक्तः स कुलाचार्यः परमानन्दनन्दितः ॥ ६
एवं शक्तिस्वरूपोऽयं अव्यक्तं च ब्रवीम्यहम् ।
अव्यक्ताज्जायते सिंहः सिंहात् संवर्तविभ्रमः ॥ ७
विभ्रमाज्जायते शक्तिः शक्तेः किञ्जल्कभैरवम् ।
भैरवादकुलं जातं अकुलाद् विकुलं तथा ॥ ८
विकुलात् पुंकुलं चैव पुंकुलात् खकुलं पुनः ।
खकुलात् पञ्चधा ह्यात्मा अकुलात् कुलसन्ततिः ॥ ९
भविष्यन्ति न संदेहः कलिस्यान्ते महातप ।
सिद्धज्ञानमिदं दिव्यं कुलाम्नायमुदाहृतम् ॥ १०
आद्यावतारं यो वेत्ति सोऽन्वयी कुलशासने ।
इदं सृष्टिक्रमं ज्ञानं सिद्धसन्ततिनिर्णयम् ॥ ११
न कस्यचिन्मयाख्यातं त्वदृते परमेश्वर ।
रक्षितव्यं प्रयत्नेन अप्रकाश्यं तु कारयेत् ॥ १२
इत्याद्यावतारसूत्रं तु पारम्पर्यविनिर्णयम् ।
यो जानाति वरारोह तस्य आज्ञा चतुष्टये ॥ १३
प्रथमं तु कुलाम्नायं क्रमाम्नायं द्वितीयकम् ।
द्वीपाम्नायं तृतीयं तु पीठाम्नायं चतुर्थकम् ॥ १४
सिद्धाम्नायं पञ्चमं च देव्याम्नायं तु षष्ठकम् ।
एतदाम्नायषट्कं च अन्वये परिकीर्तितम् ॥ १५
प्रथमं दिव्यपुष्पं तु युग्मसंज्ञमतः परम् ।
एकमेवमिदं गुह्यं पुष्पसंकेतपञ्चकम् ॥ १६
पुष्पपञ्चकमेतद्धि कुले च प्रकटीकृतम् ।
कौमारमूर्ध्वतो दिव्यं शिरस्थं यो हि धारयेत् ॥ १७
कौलिकः स च विज्ञेयः आचार्यमतबोधकः ।
खेचरत्वमवाप्नोति सिद्धिस्तस्य करस्थिता ॥ १८
कविमुखं पुष्पस्येदं पश्चिमे तु विनिर्णयम् ।
पारम्पर्यक्रमायातं दिव्यमेतत् कुलोदयम् ॥ १९
आद्यन्तं स्मरते यो हि कौमारे तु परे पदे ।
कुलसिद्धिर्भवेत् तस्य खेगतिश्च न संशयः ॥ २०
खेगतिं खेचरीं चैव खेगतवीरवन्दित ।
लभते नात्र संदेहो आनन्दं स्वाधिकारकम् ॥ २१
खेचरं खेचरीसिद्धिः गमनात् खेचरस्य तु ।
खेचरीसिद्धिसिद्धस्य सिद्धिश्चैव तु खेचरी ॥ २२
एतत् ते खेचरं मार्गं दिव्याज्ञा नात्र संशयः ।
कुलाम्नायमिदं ह्येषा कौलभाषा उदाहृतम् ॥ २३
अथातः क्रमभेदं तु कुलाम्नाये व्यवस्थितम् ।
ओजापूकाचतुष्कं तु देवीचतुष्कभूषितम् ॥ २४
खसमतासमोपेतं सार्धं विद्याचतुष्टयम् ।
मि–ओषचेति चत्वारः सर्वविद्यायुताः पृथक् ॥ २५
गसपमनान्तरे रत्नं संज्ञा रत्नं च पञ्चकम् ।
रत्नोत्थं पञ्चकोपेतं विनिविविससंज्ञकम् ॥ २६
योगिनीभिर्डकाराद्यैः षट्कं सप्तमसंयुतम् ।
अपरकर्तरी विद्या तथा सप्तसमस्तेषु ॥ २७
असंयोविसमध्ये तु विद्यायुक्तं च पञ्चकम् ।
त्रियुग्मं च त्रिकूटं च असिक्तं त्रिकसंज्ञकम् ॥ २८
क्रमभाषा इयं देव भेदानि सप्तविंशतिः ।
योगमार्गेण सिद्ध्यन्ति ध्यायमानाश्चतुर्युगे ॥ २९
एवं क्रममिदं देव युग्मनाथेन दीपितम् ।
भाषा चैकाक्षरा विद्या पुरा वै या समाख्याता ॥ ३०
स्वगुरुस्तत्त्वमाला तु तथा पञ्चाशिकाक्रमम् ।
समया मालिनी विद्या तथा तु भैरवाष्टकम् ॥ ३१
ततः कुलाष्टकं दिव्यं अष्टाष्टकसमन्वितम् ।
एवं पूजाक्रमं प्रोक्तं कौमारं तु युगे युगे ॥ ३२
आम्नाये पश्चिमाम्नाये दिव्यमेतत् कुलक्रमम् ।
दक्षिणतः शतातीते शताब्दशतकेन तु ॥ ३३
ततो दक्षान्तकेऽशेषं सिद्धिनाथस्य भाषितम् ।
न लिखेत् पुस्तके देव क्रमौघमिदमुत्तमम् ॥ ३४
कर्णाकर्णगतं ज्ञेयं मतार्थं विमलं क्रमम् ।
पूजनात् प्राप्यते मोक्षो जन्मसप्तविमोचनम् ॥ ३५
दिव्यमेतत् क्रमाम्नायं सप्ताविंशत् कुलाज्ञया ।
एवं वै विन्दते यो हि स भवेत् कौलभाजनः ॥ ३६
स मुक्तः सर्वपापेभ्यो गत्वासौ पश्चिमे गृहे ।
कैलाशस्योपरि दिव्ये विचरेत यथासुखम् ॥ ३७
जरामरणनिर्मुक्तः सिद्धतुल्यो भवत्यसौ ।
यमोऽपि वञ्चितस्तेन येनाम्नायः प्रपूजितः ॥ ३८
क्रमिकः स च विज्ञेयः पश्चिमे योगिनीगृहे ।
सोऽधिकारी कुलकौले देशिकः सोऽभिधीयते ॥ ३९
अन्यथा विन्दते यो हि क्रमभेदान् पृथक् पृथक् ।
न मुक्तः सर्वपापेभ्यो नरकान्न निवर्तते ॥ ४०
दारिद्र्यं वर्धते तस्य स्वल्पायुः संप्रजायते ।
अन्यथा तु क्रियाचारं मुद्रामण्डलकं यथा ॥ ४१
पीठं च पादुकां देव्याः संज्ञामन्त्रार्णवं यथा ।
यो वदेत् सिद्धसन्ताने स पापिष्ठतरो भवेत् ॥ ४२
दिव्यक्रममिदं देव भुक्तिमुक्तिफलप्रदम् ।
एतद् देव तवाख्यातं कौमारक्रमनिर्णयम् ॥ ४३
श्रीनाथ उवाच
एतद् वै क्रमकौमारं दिव्यभाषासमन्वितम् ।
ज्ञानसाध्यं स्फुटं भद्रे कथं पीठान्वयं भवेत् ॥ ४४
विस्तरेण मम ब्रूहि यदि तुष्टासि वक्रिके ।
श्रीवक्रा उवाच
अथान्यं क्रमसंदेशं विमलार्थं यथा स्थितम् ॥ ४५
पीठादिक्रमचत्वारस्तथा बालक्रमोदयम् ।
बालक्रमस्य संयोगात् कौमारं कथितं तव ॥ ४६
कौमारक्रमसंयोगाद् भवते खेचरं क्रमम् ।
खेचरक्रमसंयोगात् वृद्धक्रमं स्फुटं भवेत् ॥ ४७
षट्प्रकारमिदं कौलं गुह्यसंकेतकं क्रमम् ।
गुरुक्रमं नवात्मानं मायाचक्रसमन्वितम् ॥ ४८
देव्याष्टकक्रमं चैव अष्टाष्टकमतान्तरम् ।
एवं तु क्रमशो ज्ञात्वा तथा वै खेचरीक्रमम् ॥ ४९
सिद्धक्रमं निराचारं मालिनीक्रमराजकम् ।
शब्दराशिक्रमं चान्यं तथा वीरावलीक्रमम् ॥ ५०
वीरावलीक्रमं चैव मातृकाक्रमनिर्णयम् ।
योगिनीक्रममाद्यं च तथा वै समयाक्रमम् ॥ ५१
रत्नमालाक्रमं दिव्यं मण्डलक्रमनिर्णयम् ।
गृहभेदक्रमं चान्यं दिव्यक्रममतः परं ॥ ५२
मेरुक्रमं शिवमेभिः सप्ताविंशत्क्रमोदयम् ।
एवं वै क्रमसंजातं ज्ञात्वा मुक्तिर्न संशयः ॥ ५३
अतः क्रमोत्तरं नाम मन्त्राणां मातरीगृहम् ।
पूर्वपश्चिममध्यं च वामदक्षिणकौलिकम् ॥ ५४
योनिषट्कं च शृङ्गाटं आदिक्षान्तं कुलेश्वरम् ।
एवं वै यो विजानाति स साक्षाद् भैरवः स्वयम् ॥ ५५
एवं क्रमार्थतस्तत्त्वं सप्तकोट्याद् विनिर्गतम् ।
इदं मतमिदं ज्ञेयं इदं तत्त्वं कुलार्णवम् ॥ ५६
कुलोऽयं क्रम–ओघं च ज्ञानौघं च तथोत्तमम् ।
पूजनीयं प्रयत्नेन निन्दते न कदाचन ॥ ५७
पञ्चश्रोतात्मके शैवे षष्ठे कुलविनिश्चये ।
आख्यातं तु क्रमाम्नायं इदं तत्सारसंग्रहम् ॥ ५८
सिद्धसन्तानं सुभगं प्रत्ययाज्ञाविशारदम् ।
नाम्ना क्रमोदयं ज्ञानं श्रीकुजेशीमहामतम् ॥ ५९
सद्योजातमिदं कौलं सद्यः सृष्टिक्रमोदयम् ।
सद्यो आदिः स्मृतश्चैव असद्योद्भवकारकः ॥ ६०
खेगतिं कुरुते सद्यो सद्यो कौलस्य निर्णयम् ।
खेगतिं कुरुते सद्यो सद्यो शेखरभाषितम् ॥ ६१
सत्यं कुलाश्रमं श्रेष्ठं योगिनीपश्चिमं गृहम् ।
सर्वानन्दं स्मृतं सद्यः सद्यो वै सप्तकोटिकम् ॥ ६२
संप्रदायमिदं सद्यः सद्योऽनुग्रहनिग्रहम् ।
पारम्पर्यक्रमं सद्यः सद्यो शैवस्य निर्णयम् ॥ ६३
सद्यो हि भवते सर्वं श्रीमतं पश्चिमं गृहम् ।
एवं सद्योविहीना ये पश्चिमाम्नायवर्जिताः ॥ ६४
न तेषामभिषेकं तु देशिकत्वं न विद्यते ।
कुलान्वयेन हीनो यो नाधिकारी शिवागमे ॥ ६५
दीक्षितास्तेन ये देव न ते मोक्षस्य भाजनाः ।
प्रकटं न लिखेद् देव क्रमार्थेदं मुखोद्गतम् ॥ ६६
गुरुवक्त्रे स्थितं नित्यं गुरुवक्त्रात् तु लभ्यते ।
एवं सद्यःसमायुक्तः कौलिकस्तु यदा भवेत् ॥ ६७
पशुसंगाद् विनश्येत यदि साक्षात् सदाशिवः ।
असत्सङ्गं न कर्तव्यं असत्सङ्गाद् विनश्यति ॥ ६८
विशुद्धं काञ्चनं यद्वन्नागसङ्गाद् विनश्यति ।
एवं शुद्धवतः सोऽपि असत्सङ्गाद् विनश्यति ॥ ६९
पशुसङ्गान्न मुक्तिः स्यादभिषेकान्न मुच्यति ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते क्रममञ्जूषाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ४५ ॥
Kumārikākhaṇḍa – Kapitel ४६
षट्चत्वारिंशानन्दः
श्रीवक्रा उवाच
अथान्यं संप्रवक्ष्यामि तत्त्वपीठोदयं शुभम् ।
कामाख्ये पृथिवी ज्ञेया तेजो दक्षिणपीठके ॥ १
आपः पूर्णगिरिस्थितः वायुरोंकारसंस्थितः ।
आकाशं सर्वपीठेषु पीठभूतानि मे स्मृताः ॥ २
शब्दोद्याणे विजानीयात् स्पर्शं तस्यैव चाग्रतः ।
रसं तदुत्तरे मार्गे रूपं दक्षिणकोणके ॥ ३
कैलाशान्ते तु गन्धत्वतन्मात्रमिति पञ्चकम् ।
आकाशे संस्थिता तु वाक् पाणिश्चाग्रे सदाशिवः ॥ ४
पादौ दक्षिणपीठे तु पायुश्चोत्तरकोणगः ।
उपस्थं तिस्रमध्ये तु पञ्चकर्मेन्द्रियाणि मे ॥ ५
श्रोत्रं जालन्धरे पीठे त्वचोक्तं पूर्णगिर्यके ।
चक्षुर्मध्ये विजानीयाज्जिह्वा कामाख्यमण्डले ॥ ६
नासिका तिस्रपीठे तु एवं ज्ञानेन्द्रियाणि तु ।
कामाख्ये तु मनः प्रोक्तं बुद्धिश्चोद्याणमण्डले ॥ ७
दक्षिणस्थमहंकारं प्रकृतिः पश्चिमे विदुः ।
पुरुषो मध्यमे पीठे पञ्चैते कुलभूषणाः ॥ ८
पञ्चविंशतितत्त्वानि योगपीठे उदाहृताः ।
ज्ञातव्यास्तु प्रयत्नेन गुणत्रयसमन्विताः ॥ ९
सत्त्वमग्रे विजानीयाद् रजमुत्तरमण्डले ।
तमं तु दक्षिणे मार्गे पञ्चरत्नमतः शृणु ॥ १०
कामरूपे स्थितो ब्रह्मा विष्णुश्चोत्तरपीठके ।
रुद्रो जालाख्यसंज्ञे तु ईश्वरस्तिस्रपीठके ॥ ११
सदाशिवस्तयोर्मध्ये पञ्चैते सृष्टिकारकाः ।
गुप्तां संज्ञां प्रवक्ष्यामि यथोक्तां सप्तकोटिषु ॥ १२
शंकरोऽनन्त श्रीकण्ठः पिङ्गलश्च चतुर्थकः ।
सादाख्यः पञ्चमो देव पञ्चैते अमरकारकाः ॥ १३
पूजनीयाश्च सततं सिद्धि–ऋद्धिप्रदायकाः ।
योनिमुद्रा तु कामाख्ये करालां दक्षिणे विदुः ॥ १४
पद्मिनी पूर्णगिर्यायां घटमुद्रान्तरालके ।
कदम्बिनी तिस्रपीठे मुद्राणां पञ्चकोदयम् ॥ १५
चतुर्विधं स्मृतं ध्यानं श्यामवर्णोड्डियाणकम् ।
रक्तं जालन्धरं प्रोक्तं पीतं वै वामगोचरे ॥ १६
श्वेतं तु चोत्तरं ध्यानं कामाख्ये तु विजानतः ।
निश्चलं मध्यमं ध्यानं चलं दक्षिणतः स्थितम् ॥ १७
उत्तरे द्विस्वभावं तु सुस्थिरं ध्यानमग्रतः ।
मध्ये कृतयुगं देव त्रेता दक्षिणकोणगा ॥ १८
उत्तरे द्वापरं ज्ञेयं अग्रतः कलिरुच्यते ।
एवं चतुर्युगं प्रोक्तं मुद्राचक्रे महेश्वर ॥ १९
वृक्षत्रयं त्रिकोणस्थं कदम्बं चाग्रतो विदुः ।
दक्षिणे कथितं बिल्वं चिञ्चाख्यं तु तथोत्तरे ॥ २०
एवं तत्त्वविभागेन योगपीठमुद्राहृतम् ।
कुलवृक्षत्रयं वक्ष्ये कुलमार्गेण सुन्दर ॥ २१
तेजमध्यगता बुद्धिश्चित्तवृत्तिरुभावपि ।
अद्वैतवासनायां तु त्रिधा त्रीणि व्यवस्थिताः ॥ २२
समरसं तत्र विद्येत भगाह्लादेन चिञ्चिणी ।
कलाशेषं मनो गत्वा भ्रमते तु कदम्बकम् ॥ २३
मणिपूर्णकलाधारे जायते म्रियते सदा ।
आत्मा च वदते नित्यं विरुते तु कदम्बकम् ॥ २४
बिल्वं च जायते बिन्दुः ऊर्ध्व ऊर्ध्वविघट्टनात् ।
दृष्टादृष्टविभेदेन चिञ्चिणीवृक्षसंज्ञकम् ॥ २५
वृक्षोपदेशमाख्यातं कुलवृक्षत्रयं बहिः ।
यो जानाति महादेव मतार्थी स निगद्यते ॥ २६
श्रीनाथ उवाच
पीठानां कीर्तनं ज्ञानं येन सिद्ध्यन्ति साधकाः ।
अन्यद् मे संशयं देवि कथयस्व प्रसादतः ॥ २७
श्रीवक्रा उवाच
न कस्यचिन्मयाख्यातं तव देव वदाम्यहम् ।
ब्रह्मादिदेवतादीनां न मया संप्रकाशितम् ॥ २८
यथावतारितं तेन देवेन परमेष्ठिना ।
तत् तेऽहं कथयिष्यामि आत्मासंवित्तिकारणम् ॥ २९
यादृशं पूर्ववृत्तान्तं तादृशं कथयामि ते ।
श्रीकण्ठः शङ्करोऽनन्तः सादाख्यः पिङ्गलस्तथा ॥ ३०
पञ्चैते व्यापका लोके भूतग्रामे चतुर्विधे ।
श्रीकण्ठः पृथिवी ज्ञेयः शङ्कर आप उच्यते ॥ ३१
तेजोऽनन्त इति ख्यातः सादाख्यो वायुरुच्यते ।
आकाशः पिङ्गलो ज्ञेयः पञ्चैते सृष्टिकारकाः ॥ ३२
एवं पञ्चात्मकं देवं निग्रहानुग्रहे स्थितम् ।
चिञ्चिणीनाथदेवोऽयं आज्ञासिद्धिमहातपः ॥ ३३
विद्यात् सर्वज्ञभावेन लोलीभूतेन चेतसा ।
उन्मत्तचर्यचारेण चरत्येवं चराचरे ॥ ३४
यदुक्तं पिङ्गलं नाम सिद्धनाथमनामयम् ।
सर्वज्ञं सर्वगं नित्यं अवतीर्णं धरातले ॥ ३५
क्षीरोदस्योत्तरे कुले हेमरत्नमयोत्तमे ।
विचित्रमणिशोभाढ्ये रत्नकूटाचले शुभे ॥ ३६
महाक्षीरोदकल्लोले नित्यं धौतशिलातले ।
सिद्धर्षिगणगन्धर्वसुरासुरनिषेविते ॥ ३७
उमा दाक्षायणी कन्या तत्र तेन अनुग्रहम् ।
कृत्वा तु भारते वर्षे चतुर्मूर्त्यावतारकम् ॥ ३८
त्रैलोक्यनगरे सर्वलोकानां तारकं परम् ।
भवार्णवनिमग्नानां गोत्रभेदकृतं प्रिय ॥ ३९
प्रथमं मित्रनाथं वै चर्यानाथं द्वितीयकम् ।
तृतीयं षष्ठसंज्ञाख्यं ओड्डीशाख्यं चतुर्थकम् ॥ ४०
आद्यमेतच्चतुष्कं तु चतुर्युगे मुखाम्बुज ।
चतुःपीठाधिकारार्थमवत्तीर्णं दिनोत्तमे ॥ ४१
श्रीमदोड्डीशनाथोऽयं तूष्णीशाख्येन विश्रुतः ।
तदेकं स्वेच्छया देहमालम्ब्य नवधा पुनः ॥ ४२
शिष्यत्वेन स्वयं देव भविष्यत्यात्मनः कलौ ।
अनुग्रहार्थं जगतः संज्ञाभेदमिहोच्यते ॥ ४३
गगनेन्द्रो महाकुब्जो रत्नेशः पद्मभास्करः ।
देववक्त्रामृतश्चान्यो भैरवाब्जश्च पञ्चमः ॥ ४४
कमलार्कः शिवाम्भोजो रामतत्त्वात्मा एव च ।
कृष्णमार्तण्डनाथश्च नवैते सिद्धनायकाः ॥ ४५
पौण्ड्राख्ये च अहिच्छत्रे पुरे श्रीभोगवर्धने ।
पाटलीनगरे रम्ये मायापुर्यां वरानन ॥ ४६
कन्यकुब्जे अलम्पुरे अयोध्यां वर्धमानके ।
स्थानेष्वेतेषु देवेश दिव्यमानुषयोनिजाः ॥ ४७
ज्ञानयोगबलोपेताः स्वाधाराः कौलिकान्वये ।
अनुगृहीता देवेश देवेनाज्ञार्कबिम्बजैः ॥ ४८
दिव्यरश्मिकरैर्भुक्तिमुक्तिदैस्त्रिविधैः क्रमात् ।
श्रावणाषाढवैशाखचैत्रकार्त्तिकपञ्चभिः ॥ ४९
संपूर्णदिवसैर्देव अवतारं क्रमेण तु ।
गगनेशादिनाथानां पञ्चानां तत्त्वतोदितम् ॥ ५०
कौमारमृगचैत्रस्य शुक्लायामष्टमी तथा ।
द्वादश्यां चार्कसप्तम्यां भूताह्ने फाल्गुनस्य च ॥ ५१
चतुर्णां कमलादीनां सिद्धीशानामुदाहृतम् ।
नाख्येयमेतत् सहसा रहस्यं भुवि दुर्लभम् ॥ ५२
प्रथमं च द्वितीयं च व्यत्ययेनाष्टमं तथा ।
त्रय एते परे धाम्नि लीनाः सन्तानवर्जिताः ॥ ५३
तृतीयं पञ्चमं यच्च षष्ठं चैव तथापरम् ।
मुनीनां स्वामिनादिष्टाः कृपयानुग्रहं प्रति ॥ ५४
कल्पग्रामं गता ह्येते त्रयोग्रा ऊर्ध्वरेतसः ।
नवमं सप्तमं वाथ चतुर्थं तानि पूर्ववत् ॥ ५५
श्रीसन्तानकुले त्रीणि ज्येष्ठं मध्यं यवीयसम् ।
क्रमेण गदिताः सृष्टिनाथाद्याः सिद्धनायकाः ॥ ५६
तीक्षणाज्ञाः सुकरा व्यग्रा निग्रहानुग्रहे रताः ।
चराचरस्य विश्वस्य भुक्तिमुक्त्यमृतप्रदाः ॥ ५७
ज्ञानासवमदोन्मत्ता आनन्दललितेक्षणाः ।
स्वरूपानन्दसंतृप्ता आज्ञासिद्धिकराः स्मृताः ॥ ५८
सर्वे सर्वज्ञभावेन लोलीभूतेन चेतसा ।
कृच्छ्रमुन्मत्तचर्याख्यं चर्यया वसुधातले ॥ ५९
कर्मभूमौ नियुक्तास्ते भविष्यन्ति युगे युगे ।
विचरन्तस्तु संप्राप्ताः चन्द्रद्वीपवरे शुभे ॥ ६०
मणिरत्नहिरण्याद्यैः अशेषविभवान्विते ।
परानन्दपुरे तस्मिन् सप्तयोजनविस्तृते ॥ ६१
त्रिकोणे मठिकास्त्रीणि तिष्ठन्ति शुभलक्षणाः ।
ऊर्ध्वाह्न्यर्कप्रभाढ्याश्च ज्ञानविज्ञाननिर्भराः ॥ ६२
सौम्यरक्षा नलाशायां विज्ञेयानुक्रमाव्ययाः ।
वसन्ति तेषु ते सिद्धा ज्ञानयोगबलोत्कटाः ॥ ६३
शतमेकाधिकाब्दानां दिव्यानुष्ठानतत्पराः ।
एतस्मिन्नन्तरे काले संजाते कुसुमागमे ॥ ६४
अतीते शिशिरानन्दे हरकान्तमहोत्सवे ।
चैत्रशुक्लतृतीयायां अद्वैताचारचर्चितः ॥ ६५
कृत्वात्मारौद्रसन्ध्यांशकाले सकले श्रीनगरान्तरे ।
प्रतिष्ठोन्मत्तरूपेण क्रीडार्थे परमेश्वरः ॥ ६६
गगनेन्द्राभिधानेन वृक्षनाथेति विश्रुतः ।
विश्वेऽस्मिन् कूर्मसंज्ञोऽसौ राजवेश्मावधिं गतः ॥ ६७
राज्ञः श्रीचन्द्रबिम्बस्य दुहिता गगनावती ।
कुमारी षोडशाब्दा तु रूपयौवनशालिनी ॥ ६८
पुंस्त्रीनपुंसकैर्डिम्भैः कन्यकाभिस्तथोत्तमैः ।
वृत्ता परित सा कन्या लक्षेणांशाधिकेन च ॥ ६९
तया तस्योपहास्यं तु कृतं कोऽयमिहागतः ।
पिशाचोच्छुष्मचर्यायामपूर्वं लोमहर्षणम् ॥ ७०
श्रुत्वैवं तेन हास्यं तु तत्राष्टगुणभीषणम् ।
कृत्वा रावं क्षणार्धेन जगामान्तर्हितः पुनः ॥ ७१
विस्मिता राजशार्दूलकन्या पौरजनैः सह ।
विसंज्ञा भयसंत्रस्ता विभ्रमाकुलितेक्षणा ॥ ७२
क्षपायान्तःपुरे सुप्ता तरला तरलेक्षणा ।
तस्यादेशमिदं जातं उत्तिष्ठासौ जगत्पतिः ॥ ७३
साक्षात् श्रीमूलनाथोऽसौ अवतीर्णो चराचरे ।
अनुग्रहार्थं भूतानां तमेव शरणं व्रज ॥ ७४
वसतीन्दुप्रभामध्ये सदानन्दमयः प्रभुः ।
तेन संपूजितेनेष्टा सिद्धिर्भवति शाश्वती ॥ ७५
दिव्यगन्धोत्कटैर्माल्यैर्धूपामोदविलेपनैः ।
भक्षैश्च विविधास्वादैर्बहुलैर्दिव्यमोदकैः ॥ ७६
खण्डखाद्यैरनेकैश्च षड्रसैर्विविधासवैः ।
सुरामांसवरैर्दिव्यैः स्तुतिस्तोत्रैरनेकधा ॥ ७७
अदृष्टविग्रहं देवं स्तुत्वा सा रजनीं क्षिपेत् ।
प्रोत्थिता हृदयानन्दनिर्भरा कृतमण्डना ॥ ७८
सर्वसंभारसंपन्ना सचेटपरिचारिका ।
गता तत्राश्रमे कन्या यत्र सिद्धेश्वरः स्थितः ॥ ७९
विनयेनोपसंगम्य विधिवत् सपरिच्छदा ।
तया सुपूजितं नाथं सर्वज्ञं कारणेश्वरम् ॥ ८०
तेन तुष्टेन वै तेषां कथितं खेचरीक्रमम् ।
गतास्ते खगतिं सर्वे श्रीनाथाज्ञावलोकिताः ॥ ८१
ततो देवगणाः सर्वे विस्मयोत्फुल्ललोचनाः ।
परस्परं निरीक्षन्ति अन्योन्यं प्रवदन्ति च ॥ ८२
रुद्रोपेन्द्रविरिञ्चाद्या महदाश्चर्यभाविताः ।
न जपैर्न तपैर्होमैर्विविधैर्नापि साधनैः ॥ ८३
न क्रिया कापि बहुला आज्ञामात्रेण लीलया ।
प्रसादात् सिद्धिनाथस्य संप्राप्ता परमा गतिः ॥ ८४
ततस्ते विबुधाः सर्वे कुलाज्ञानन्दमुत्सुकाः ।
भक्त्या परमया युक्ता वसवो मारुतश्च ये ॥ ८५
ससुताश्च सदम्पत्यो मुनयः संश्रितव्रताः ।
अत्र्यङ्गिरौ पुलस्त्यश्च मरीचिर्नारदस्तथा ॥ ८६
विश्वामित्रो याज्ञवल्क्यो मानवोऽन्ये तदात्मजाः ।
दानवेन्द्रा ग्रहाश्चान्ये गन्धर्वाः खगनायकाः ॥ ८७
तथान्ये षोडशः कोट्यो रुद्रमुख्यामरोत्तमाः ।
जमदग्निर्भृगुर्दक्षो भरद्वाजोऽथ कश्यपः ॥ ८८
किन्नराप्सरसो नागाः लोकेशान्ये तदंशजाः ।
सप्तकोट्यः सपत्नीकाः देवा विष्णुपुरोगमाः ॥ ८९
क्रतुर्वसिष्ठः पुलहो गौतमश्च प्रचेतसः ।
ब्रह्माद्या दशसंख्याश्च कोटयः सुरनायकाः ॥ ९०
एवमेते यथोद्दिष्टा आदिमध्यान्तसंस्थिताः ।
क्रमेण सिद्धनाथस्य चरणान्ते समागताः ॥ ९१
ततः सुरवरास्तस्य समभ्यर्च्याङ्ग्पिङ्कजौ ।
आनीतं परमानन्दजननं पानमुत्तमम् ॥ ९२
विविधं तालजं पत्रवृक्षजं पुष्पजं तथा ।
द्राक्षमिक्षुरसोद्भूतं माध्वी गौडी च पिष्टजा ॥ ९३
खर्जूरी पिष्टजा लोध्री तथा वै शालिकादयः ।
असंख्याता ह्यनेकाश्च कस्तान् वर्णयितुं क्षमः ॥ ९४
विविधानि च नामानि स्वादवर्णान्यनेकधा ।
आनीतं विविधैर्भक्त्या पिशितानि बहून्यपि ॥ ९५
सुस्वादूनि च दिव्यानि भक्ष्यभोज्यानि सुव्रत ।
लेह्यपेयानि चोष्याणि गन्धधूपस्रगानि च ॥ ९६
निवेदितानि विधिवत् प्रणम्य शिरसा क्षितौ ।
ततो गीतमहावाद्यस्तुतिस्तोत्रवरोत्तमैः ॥ ९७
आराधितः सुरैः सम्यक् श्रद्धाविनयशालिभिः ।
ततः सिद्धवरैर्दिव्यपात्राणां पानमुत्तमम् ॥ ९८
उद्धृत्वाधेय मार्गस्थः पाणिभिः प्रथमं ततः ।
स्वयं पीत्वा तदुच्छिष्ठं पानं त्रिदशनायक ॥ ९९
दत्तं तुष्टेषु नाथेषु योगावस्थेषु सुन्दर ।
स्वभावस्वच्छरूपेषु घूर्णमाणैस्तु लोचनैः ॥ १००
संगृहीत्वा सुरश्रेष्ठैर्लोकपालैस्तपोधनैः ।
मूर्ध्नाभिनन्द्य विनतैः पीतं तदमृताधिकम् ॥ १०१
श्रीनाथाज्ञाप्रभावेण सर्वे ते विकलेन्द्रियाः ।
सर्वे ते परमानन्दनन्दिता चरलोचनाः ॥ १०२
तेन पानस्य संज्ञा वै सुरापानं प्रकीर्तितम् ।
यैर्न तत् प्राशितं देव असुरास्ते च राक्षसाः ॥ १०३
तामसो यातुधानाश्च स्वरूपविभवोज्झिताः ।
संतुष्टेनाथ तेष्विदं श्रीनाथेन च पार्वती ॥ १०४
वरं श्रीवीरपानस्य दत्तं दृष्ट्वा महत्सुखम् ।
अक्षयेदं परानन्दस्थापनं भवते सुरा ॥ १०५
मन्त्राराधनयागेषु योगिभिस्तु समन्ततः ।
यज्ञे श्राद्धे विवाहे च प्रतिष्ठामङ्गलेषु च ॥ १०६
योगिनी–ऋषिभिः सिद्धैर्देवाग्निगुरुतर्पणैः ।
ज्ञानविज्ञानसंक्रामे काले सैन्यमहाहवे ॥ १०७
न हि तत्र भवेत् सिद्धिः सुरा यत्र न विद्यते ।
नित्यं सन्निहिता तस्य पूज्यमाना भवेत् सुरा ॥ १०८
क्रियाज्ञानविहीनानां भावभक्तिविवर्जिताम् ।
लौल्यार्थे भिन्नवृत्तीनां अपेया भवते सुरा ॥ १०९
नास्तिकानां निःसत्यानां भावहीनां तु निर्दयाम् ।
गुरुदेवाग्नियोगिन्यामन्त्रसंस्कारवर्जिताम् ॥ ११०
वीरपानान्मयादिष्टं रौरवं नरकं नृणाम् ।
पतन्ति पशवो येन कर्मणा नरके ध्रुवम् ॥ १११
त्रिष्कालज्ञाश्च तेनैव ज्ञानिनश्चोत्पतन्ति हि ।
देवाग्निगुरुभक्तानां संस्कृतानां तथाणुभिः ॥ ११२
भुक्तिमुक्तिप्रदं सत्यं भविष्यत्यासवं सदा ।
सिद्धद्रव्येण विख्यातं अलिफल्गु च कौलिकम् ॥ ११३
यदा तदा व्रजेत् येषां दूषको नरकं भृशम् ।
तिष्ठते तावद् देवेश यावद् ब्रह्मादिनाष्टकम् ॥ ११४
रसो विष्णुस्तथाधारो ब्रह्मामूर्तिर्महेश्वरः ।
आनन्दः कुब्जिका देवी नित्यं समरसे स्थिता ॥ ११५
मूलनाथो विभूत्वे वै तस्मात् समरसं कुरु ।
यावन्न कुरुते चैक्यं तावत् सिद्धिः कुतो भवेत् ॥ ११६
अयष्ट्वा श्रीक्रमं देव अकृत्वा योगितर्पणम् ।
पशुभिः सह संपीत्वा वीराणां नरकं भवेत् ॥ ११७
सुरा शक्तिः शिवो मद्यं आनन्दं मोक्ष उच्यते ।
चराचरमिदं विश्वमनन्तादि शिवान्तगम् ॥ ११८
अशेषं षड्विधार्थं तु स्थूलं सूक्ष्मं परं च यत् ।
बिन्दुमात्रप्रदानेन अलिना तर्पितं भवेत् ॥ ११९
यज्ञतीर्थतपोदानव्रतचर्यादिकानि च ।
शतकोटिसहस्राणि जपहोमार्चनानि च ॥ १२०
सर्वे ते हर्षदेवस्य कलां नार्हन्ति षोडशीम् ।
इत्युक्तं परमेशश्च कृत्वा चानुग्रहं पुरा ॥ १२१
कृपया स्वेच्छया ते च तत्रैवान्तरधीयताम् ।
गतेषु तेषु नाथेषु प्रयाताः स्वपुरं सुराः ॥ १२२
परमामृतसंतृप्ता अमरास्तेन ते स्मृताः ।
अथाष्टाष्टकहीनानां चत्वारि स्वेच्छतः कलौ ॥ १२३
व्यतीते लौकिकाब्दानां चैत्रमाश्विनकार्त्तिके ।
नवम्यां पूर्णपक्षस्य भूयस्तैस्तु मयाज्ञया ॥ १२४
कृत्वावतारं श्रीशैले पारिपात्रेऽर्बुदे तथा ।
क्रमान्नागवरोच्छेषु तीव्रवज्रनरोत्तमाः ॥ १२५
मौनमास्थाय सूर्याब्दं श्रीक्रमाराधनं प्रति ।
कुलयज्ञं वरं यष्ट्वा परानन्दपुरं पुनः ॥ १२६
प्रयातास्तत्र वै तेषां स्वाधिकारपदे स्थिताः ।
सद्रहस्यं नामानन्दः स्वाधिष्ठाने मुखोत्थितम् ॥ १२७
श्रेष्ठमध्यान्तिमानां च ये जाताः स्वसुतान्वये ।
दिव्यादिव्ये विभागेन भविष्यन्ति कलौ युगे ॥ १२८
पिङ्गेशं श्वेतनाथं च क्रूराभ्रं मतिविभ्रमम् ।
अर्धेन्दुर्मदनोन्मत्तकौलार्कः कुलभास्करम् ॥ १२९
कौलेशं कुलमातङ्गं रुद्रमार्तण्डमेव च ।
अघोरश्चण्डवेगश्च षष्ठानन्दः खगेश्वरः ॥ १३०
कुमुदश्चोडदेवश्च रश्मिरूपा व्यवस्थिताः ।
बीजत्रयविभागस्थाः सर्वज्ञाः सर्वगाव्ययाः ॥ १३१
चराचरस्य विश्वस्य षोडशाधारवर्त्मगाः ।
दिव्या ह्येते महावीर्या आधाराश्चेति विश्रुताः ॥ १३२
ते एवापरभेदेन श्रीक्रमज्ञाः समीरिताः ।
अदिव्ये मानुषे लोके दिव्याज्ञाबलशालिनः ॥ १३३
नरा मार्तण्डरूपेण अज्ञानतिमिरापहाः ।
भविष्यन्ति हि मर्त्यानां तेषां नामानि बोध मे ॥ १३४
चन्द्राब्जं वत्सगुल्मार्कः स्तम्भशक्त्यानलं परम् ।
कर्पासगर्भमातङ्गो वटः सिंहैकविक्रमम् ॥ १३५
त्रैलोक्यविरजं षष्ठं श्रीपूपात्मा जयाह्वकम् ।
कांसालं त्वभयानन्दं श्रीभोगरत्नेशः शोभवान् ॥ १३६
श्रीबिम्बविमलानन्दं तीक्ष्णाख्यं विजयं तथा ।
वराङ्गरुद्रं वीरेशं श्रीधारः केशवेश्वरम् ॥ १३७
सहसामलमुद्राख्यं वंकविबुद्धडामरम् ।
भोजाख्यः षोडशश्चैव वर्गाद्यं द्वित्रितुर्यकम् ॥ १३८
षष्ठमेकादशं चान्यं सप्तैते सिद्धनायकाः ।
ज्येष्ठ–ओल्याधिकारस्थाः सप्ताष्टनवमास्तथा ॥ १३९
दशमं द्वादशं चान्यं कोटिपूर्व्वं त्रयोदशम् ।
बाल–ओल्याधिकारस्थाः सप्तैते परिकीर्तिताः ॥ १४०
पञ्चमं मनुसंख्यं च युग्ममेतद् वरानन ।
मध्यमोल्याधिकारस्थं बालसूर्यानलप्रभम् ॥ १४१
बहवोऽन्येऽपि ते चन्द्रबिम्बाद्यास्तत्पुराद् बहिः ।
निर्गत्याज्ञामृतौघेन निमित्तार्थेन धीमताम् ॥ १४२
इत्येतैः पुरुषैः सिद्धैः सन्तानत्रयनिर्गतैः ।
कृतं दिव्याधिकारं वै नानास्थानवराश्रमैः ॥ १४३
एतेषां पुत्रपौत्रादिसन्तानास्त्रिविधा अपि ।
असंख्याता भविष्यन्ति अदिव्याश्चेतरेतराः ॥ १४४
एवं ते गगनेशाद्या सृष्टिरेषा कुलान्वये ।
कृत्वा श्रीमूलनाथस्य लीनाश्चिद्व्योमविग्रहाः ॥ १४५
द्वात्रिंशाक्षरदेवस्य बहुरूपस्य देहजाः ।
पञ्चत्रिंश समाख्याताः श्रीनाथा भुक्तिमुक्तिदाः ॥ १४६
कुब्जाद्याप्येवमेवं वै योगिन्यः कुलजाव्ययाः ।
क्रमेण सिद्धनाथानां दम्पत्यस्ता इहोच्यते ॥ १४७
ज्ञानाम्बा श्रीकुजाम्बा च रौद्राम्बा वामसंज्ञका ।
ज्येष्ठाम्बा चाम्बिकाम्बा च कामाम्बा सप्तमा स्मृता ॥ १४८
जालाम्बा पूर्णसंज्ञा च ओड्डाम्बां दशमां विदुः ।
गगनाम्बा महासिद्धरत्नाम्बा पद्मचम्पका ॥ १४९
सुरवक्त्रामृताम्बा च तथा ललितभैरवी ।
कमलाम्बा शिवाम्बा च रामाम्बा कृष्णपिङ्गला ॥ १५०
चन्द्राम्बा कल्पविश्वाम्बा वटाम्बा गुल्मशेखरा ।
स्तम्भाम्बा विरजाम्बा च रक्ताक्षी कुलशासना ॥ १५१
लक्ष्म्याम्बा सुन्दराख्या च कुटिलाम्बा तथानघ ।
विकराम्बाथ वेगाम्बा उन्मन्याम्बेष्टकामदा ॥ १५२
मोहिन्या च मनोह्लादा इत्येताः परिकीर्तिताः ।
परमामृतसंबोधसर्वज्ञा दीपनोद्यताः ॥ १५३
दुःखत्रयमहामृत्युपाशौघक्षपणक्षमाः ।
अथैषां पूर्वमुद्दिष्टं श्रीनाथानां यथाक्रमम् ॥ १५४
रहस्यं संप्रवक्ष्यामि संज्ञाभेदनिबन्धनम् ।
येन विज्ञानमात्रेण विधिना पठितेन च ॥ १५५
सततं श्रीक्रमस्याग्रे आज्ञासिद्धिः प्रवर्तते ।
श्रीविमलात्मजैर्दिव्यै रश्मिभिः सर्वदेवताः ॥ १५६
शान्त्यातीताध्वगा येन दीक्षिताः कुलशासने ।
आद्यं तं विजयं नौमि भक्त्या श्रीनाथभास्करम् ॥ १५७
शब्दब्रह्मात्मको योऽसौ शान्त्यध्वपदवर्तिनाम् ।
अनुग्रहकरं वन्दे सादाख्यं प्रवरं गुरुम् ॥ १५८
अनन्तमव्ययं कारुण्यानुग्रहे स्थितम् ।
विद्यावर्त्मगतं रुद्रमनन्तं तं नमाम्यहम् ॥ १५९
शुभं करोति यो नित्यं प्रतिष्ठान्तरवासिनाम् ।
वीरमातृगणं रुद्रं तं वन्दे शंकरं प्रभुम् ॥ १६०
निवृत्त्यध्वगतं येन नानारूपावतारकम् ।
कृत्वा मायामलं दग्धं श्रीकण्ठं तं नमाम्यहम् ॥ १६१
येन दत्तां स्वयं पीत्वा दिव्याज्ञाममृतां सुराम् ।
ब्रह्माण्डोदरमार्गस्थं तं वन्दे पिङ्गलं विभुम् ॥ १६२
यः प्रीत्या पूर्वपीठे तु श्रीदेव्या मित्रतां गतम् ।
ज्ञानार्थी मित्रनाथं तं श्रीगुरुं प्रणमाम्यहम् ॥ १६३
श्रीमद्दक्षिणपीठाब्जे कुलचर्याव्रतेन तु ।
कृतं येनाधिकारं तं चर्यानाथं नमाम्यहम् ॥ १६४
पूर्णगिर्याश्रमे येन विज्ञाय कुलपञ्चकम् ।
कृतं षष्ठाधिकारं च श्रीषष्ठनाथं नमाम्यहम् ॥ १६५
महतोड्डामरं रूपमालम्ब्य जगदुद्भवम् ।
श्रितं श्रीमध्यपीठाब्जे ओड्डीशं तं नमाम्यहम् ॥ १६६
येन ज्योत्स्नासुधाग्रासात् प्रविश्य पदवीं पराम् ।
जालभृदग्निसोमार्कनिग्रहानुग्रहं कृतम् ॥ १६७
कुलकल्पद्रुमच्छायाचन्द्राब्जे चित्तभाश्रमे ।
तीव्रशक्त्याधिकारं तं वन्दे गगनपादपम् ॥ १६८
सत्यसंकल्पसन्तानं हि विशुद्धबलेन च ।
येन कुब्जीकृतं विश्वं नागानां चावलोकनम् ॥ १६९
पञ्चात्मानं महाकुब्जं रत्नेशं नौमि शाश्वतम् ।
महापद्मवने सर्वयक्षवीरेशमातराम् ॥ १७०
कृतं येनाधिकारं तं वन्दे श्रीपद्मभास्करम् ।
विबुधस्याश्रमे येन राक्षसः गुह्यकैः सह ॥ १७१
दीक्षिताः श्रीगुरुं देववक्त्रं तं प्रणमाम्यहम् ।
काश्यां श्रीभैरवे यज्ञे क्षेत्रपालाष्टकं तथा ॥ १७२
नैमिषे मुनयो यक्षा येन क्रोधावलोकिताः ।
तीव्राज्ञाभैरवाब्जं तं श्रीगुरुं प्रणमाम्यहम् ॥ १७३
महेन्द्रकमलोद्याने पुरा येन शतक्रतुम् ।
अभिषिञ्च्य गतं गुह्यं महालक्ष्मीनिकेतनम् ॥ १७४
लीलयानुक्रमे तत्र शोषप्लोषविदारणम् ।
कीर्त्यर्थं सर्ववृक्षाणां पुनराप्यायनं परम् ॥ १७५
कृतं तं कमलार्काख्यं श्रीनाथं प्रणमाम्यहम् ।
पूर्णकालानले स्वौ द्वौ येन दिव्यामृतेन तु ॥ १७६
दीक्षितौ तं शिवाम्भोजं वन्दे श्रीनाथमव्ययम् ।
त्रिचतुःपथसन्ध्यां तु पदान्ते सर्वदेहिनाम् ॥ १७७
रमते रत्ननाथस्य कारुण्याद् येन नुग्रहम् ।
कृतं तं श्रीगुरुं रामं आत्मानं प्रणमाम्यहम् ॥ १७८
कामं कुब्जाम्रके कृष्णं द्वारकायां क्षितीश्वरम् ।
श्रीनगर्यां गणाध्यक्षं स्त्रीराज्ये मलयाचले ॥ १७९
जितेन्द्रयुगलं चैव यस्य किंकरतां गताः ।
नौमि तं कृष्णमार्तण्डं नाथं भक्त्यासितानलम् ॥ १८०
आद्याधारगतं नित्यं पिङ्गलश्मश्रुलोचनम् ।
ज्ञानासवमदोन्मत्तं चन्द्राब्जं तं नमाम्यहम् ॥ १८१
द्वितीयाश्रममध्यस्थं चन्द्रकोटिसमप्रभम् ।
बालरूपधरं श्वेतं गुल्मनाथं नमाम्यहम् ॥ १८२
शरद्गगनसंकाशं क्रूरभ्रू कमलेक्षणम् ।
तृतीयात्मपदे स्तम्भं शक्त्यग्निं तं नमाम्यहम् ॥ १८३
चतुर्थ्याधारशक्त्यब्जे राजते मतिविभ्रमम् ।
आनन्ददरदाभासं श्रीकर्पासाख्यं नमाम्यहम् ॥ १८४
सूर्याब्जे पञ्चमाधारे रश्मिरूपं सदोदितम् ।
अर्धेन्दुवदनाख्यं तं तद् वटसिंहं नमाम्यहम् ॥ १८५
कुलषष्ठाम्बुजे षष्ठे व्योमपञ्चकमस्तके ।
आरूढोन्मत्तकौलार्कं विरजेशं नमाम्यहम् ॥ १८६
नित्यं यत् सप्तमाधारे उदितं कुलभास्करम् ।
श्रीपूपात्माजयानन्दनाथं तं प्रणमाम्यहम् ॥ १८७
यस्त्रिधामकलाग्रासपदे लक्ष्म्यालयाष्टमे ।
ध्वनितेजोऽभयानन्दकौलेशं तं नमाम्यहम् ॥ १८८
चिदाभोगरसास्वादमदेन विकलेन्द्रियम् ।
नमामि कुलमातङ्गं रत्नेशं नवमाश्रमे ॥ १८९
दशमे रुद्रमार्तण्डं भूरिकालानलद्युतिम् ।
श्रीबिम्बं विमलाख्यं च श्रीगुरुं तं नमाम्यहम् ॥ १९०
अघोरं घोरसंसारकर्मबन्धनिकृन्तकम् ।
एकादशाश्रमे खड्गं विजयाख्यं नमाम्यहम् ॥ १९१
प्रविश्य द्वादशानन्दपदे येन वशीकृतम् ।
क्षेत्रपालमसौ चण्डवेगात्माचण्डविग्रहम् ॥ १९२
वराङ्गरुद्रवीरेशं श्रीनाथं प्रणमाम्यहम् ।
निरालम्बपदे योऽसौ राजते कनकाधिकः ॥ १९३
खवक्त्रं केशवाख्यं श्रीषष्ठानन्दं नमाम्यहम् ।
देवेन्द्रं नीलवर्णाभं सहसात्माखगेश्वरम् ॥ १९४
द्विसप्ताधारगं सर्वमुद्राग्निं प्रणमाम्यहम् ।
तिथिसंख्यात्मवेश्माब्जे कुमुदं सूर्यवर्चसम् ॥ १९५
वङ्कं विबुधगोत्रेशं नौमि श्रीनाथडामरम् ।
विसर्गाख्ये पराधारे आज्ञानन्दे हि संस्थितम् ॥ १९६
अनुग्रहार्थं जगतो भूरिकालानलेक्षणम् ।
अनन्तमव्ययं पूर्वं भोजदेवेन विश्रुतम् ॥ १९७
आनन्दरश्मिना भक्त्या श्रीगुरुं तं नमाम्यहम् ।
चतुः पञ्च षडष्टार्धं पञ्चकं च चतुर्युतम् तु ॥ १९८
त्रिषट्काष्टकमुख्येन धृतं परितनु क्रमात् ।
श्रीपीठे विमलज्ञानं सिद्धरत्नकुलाज्ञया ॥ १९९
आनन्दाद्येन जगतो निग्रहानुग्रहेण च ।
ब्राह्म्यादिसहितं मूलं कुब्जाम्बा चाव्ययं विभुम् ॥ २००
श्रीनाथमचलं नित्यं सर्वज्ञत्वादि कामदम् ।
वन्दे मूलाधिकारस्थं बोधरूपं जगद्गुरुम् ॥ २०१
इतीदं परमं गुह्यं सर्वाज्ञादीप्तिवर्धनम् ।
यः पठेन्मानसंयुक्तः कृतमूर्धाञ्जलिः सदा ॥ २०२
श्रीमताग्रेऽथवा सिद्धमण्डलाग्रे क्रमेण तु ।
तस्याज्ञा स्फुरते तीव्रा दुरितौघमहद्भयाः ॥ २०३
व्याधयः प्रलयं यान्ति वशे तिष्ठन्त्यरातयः ।
भुक्त्वा श्रीविपुलान् भोगान् परसामान्यतां व्रजेत् ॥ २०४
नवलक्षकृताम्नायं विद्यानुष्ठाननिश्चयात् ।
इति सत्यं पुरा प्रोक्तमजेनाव्यक्तमूर्तिना ॥ २०५
श्रीषष्ठाख्यं तु यत् सिद्धनाथं तेनावतारिताः ।
ये च तेषां प्रमाणं वै संज्ञातीतं निगद्यते ॥ २०६
शिलाशेखरके पूर्वं पञ्चसिद्धावतारिताः ।
कदम्बगुह्यके चान्ये पञ्चभिः श्रीपुरे तथा ॥ २०७
शतार्धं श्रीकुलूतायां सप्तानां नुग्रहं कृतम् ।
दशानन्दपुरे श्रीमत्कामरूपे चतुर्दश ॥ २०८
त्रीणि जालन्धरे विद्यात् तारासंख्यास्तु पश्चिमे ।
तिथिसंख्यास्तथा ज्ञेया मणिभद्रवटाश्रमे ॥ २०९
चतुर्भिर्विरजायां तु हंसद्वारे तु सप्ततिः ।
वर्षसंख्या महावाटे सिंहले तु शतत्रयम् ॥ २१०
अट्टहासे शतं सार्धं देवीकोटे शतार्धकम् ।
अष्टाष्टकं पूर्णगिर्ये तदर्धं पूर्णपादये ॥ २११
श्रीमत्कोल्लापुरे चान्ये दीक्षिता दशपञ्च च ।
चत्वारिंशत् सतादेष्टे गोकर्णे पञ्चसप्ततिः ॥ २१२
बालुकायां तथा देव चन्द्रबिम्बगिरौ शुभे ।
एकादशार्कसंख्यानां नाथेनानुग्रहं कृतम् ॥ २१३
यन्नाशौ पश्चिमे तीरे चतुर्भिश्चावलोकिता ।
कालञ्जरे शतार्धार्धं तीव्राज्ञामनुकम्पया ॥ २१४
त्रयोदश बदर्यायां शालिग्रामेकविंशतिः ।
कुरुक्षेत्रे शतान्यष्टौ तदर्धं नैमिषे तथा ॥ २१५
कन्याकुब्जे त्रिपञ्चाशत् सप्त वीराः सुरालये ।
तत्त्वसंख्या महातीर्थे चित्रकूटे शतद्वयम् ॥ २१६
एकाशीतिः समाख्याताः त्रिपथाविन्ध्यसंगमे ।
सिन्धुसागरसंघट्टे चतुर्विंशति कीर्तिताः ॥ २१७
शतमष्टाधिकं देव सेतुबन्धेऽवतारिताः ।
सप्त गोदावरीक्षेत्रे कच्छदेशे च कोङ्कणे ॥ २१८
क्रमेण चतुराशीतिः चतुर्विंशश्च सप्ततिः ।
संध्यां सप्तत्रिंश स्थाने षट्चत्वारिंशत् कीर्तिताः ॥ २१९
रुद्रकोट्यां षोडशश्च अयोध्यायां च तत्समाः ।
कामकोट्यां चतुःषष्टिर्द्विगुणेन तथार्बुदे ॥ २२०
पौण्ड्रवर्धनके चैव काश्यां परापरेऽपि च ।
उड्रदेशे च गान्धारे पञ्चनद्यां च पुष्करे ॥ २२१
उरसायां कलिङ्गे च वर्धमानपुरे तथा ।
पम्पातीरे चलत्यायां सप्तादौ सप्तवृद्धतः ॥ २२२
स्थानेष्वेतेषु सिद्धानां नाथेनानुग्रहं कृतम् ।
षण्णवत्युत्तरे गङ्गातीरे श्रीमन्महोदधौ ॥ २२३
श्वेतद्वीपे त्रयस्त्रिंश द्वौ महेन्द्रगिरौ तथा ।
मलये वाष्टविंशं वै षट्शतानि हिमालये ॥ २२४
चत्वारिंश तथा पञ्च श्रीगिरौ चण्डिकाश्रमे ।
द्वारिकायां सुरेशान एकाशीत्यधिकं शतम् ॥ २२५
स्त्रीराज्ये बर्बराख्ये च मरुभूमौ सुरालये ।
त्रयोदश दशाष्टौ च शतमेकाधिकं क्रमात् ॥ २२६
एकोनार्धशताः सप्त गङ्गातीरेऽवलोकिताः ।
कृपया परया सम्यक् श्रीनाथेन महात्मना ॥ २२७
इत्येते कथिताः सर्वे भुक्तिमुक्तिप्रदायकाः ।
व्यक्ताव्यक्तविभागेन दिव्यादिव्यक्रमेण तु ॥ २२८
त्रिविधाज्ञाधिकारं वै कृत्यातीता परे शिवे ।
श्रीनाथ उवाच
नैष्ठिकानां च तन्त्रेषु सूचितं वरवर्णिनि ॥ २२९
ब्रह्महत्या सुरापानं स्तेयं गर्वं मनोगतम् ।
चत्वारि पातकान्येतत् तत्संयोगी च पञ्चमः ॥ २३०
भवते नारकी देवि मद्यपानकृते सति ।
कुशाग्रबिन्दुमात्रेण रौरवे पतनं भवेत् ॥ २३१
ब्रह्महत्यासमं देवि मद्यपानमुदाहृतम् ।
किं निमित्तं महादेवि त्वया पीतं महाम्बिके ॥ २३२
अस्मिन् तन्त्रागमे श्रेष्ठा महापुण्यफलोदया ।
सुरा चैव महेशानि निर्णीता कुलशासने ॥ २३३
अयं मे संशयोऽद्यापि च्छेतुमर्हसि साम्प्रतम् ।
मद्यं किमुच्यते देवि सुरा नाम किमुच्यते ॥ २३४
एतन्मे तत्त्वतो ब्रूहि यदि तुष्टासि वक्रिके ।
श्रीवक्रा उवाच
ममाद्यं देवदेवेश परमानन्दलक्षणम् ॥ २३५
मद्यं तेन समाख्यातं तव देव प्रकाशितम् ।
सुरा रसायणं प्रोक्तं परमानन्दनिर्भरम् ॥ २३६
उमादेहात् समुत्पन्नं शशिमध्याच्च सुन्दरम् ।
समरसे व्यापको देवः परमानन्दलक्षणम् ॥ २३७
मदिरानन्दमुत्पन्नं तदा मद्यमुदाहृतम् ।
या सुरा सुन्दरी प्रोक्ता सा च कुण्डलिनी स्मृता ॥ २३८
घण्टिकायां भवेत् नित्यं वारुणी सा परा कला ।
सुरा साध्यात्मिका प्रोक्ता वीराणां देहसंस्थिता ॥ २३९
यद् मद्यं तत् परं शौर्यं यत् शौर्यं तच्च वीरराट् ।
पीत्वा यो वीरवृत्तिस्तु आचरेत् सुरसंगमम् ॥ २४०
वीरपानं स्मृतं तेन भुक्तिमुक्तिफलप्रदम् ।
श्रीमद्गिरिवरे दिव्ये कैलासे पर्वतोत्तमे ॥ २४१
मदनोत्सवकाले तु चक्रं संपूजितं पुरा ।
आदिनाथेन देवेश अष्टाष्टकं महाबलम् ॥ २४२
तस्मिन् चक्रवरे दिव्ये परमानन्दमहोत्सवे ।
चतुःषष्टिस्तु नामानि एकैका या उदाहृता ॥ २४३
पीत्वा तु देवतैः सर्वैश्चक्रस्थैश्चतुःषष्टिभिः ।
आनन्दितैः पृथक् नाम कृतमानन्दनन्दितैः ॥ २४४
वीरपानमलिं चैव खार्जूरं कुम्भकाम्भसा ।
कादम्बरी रुद्रः सिद्धिः चाश्वं कौस्तुभसुन्दरम् ॥ २४५
पात्रं पूर्णं पुण्डरीशं ध्वजं गोरोचनं तथा ।
साध्यं व्यापकयोगीन्द्रं नागेन्द्रं कर्परं गिरिः ॥ २४६
मुक्तं चन्द्रकला ज्योतिः प्रशमं जगतारकम् ।
मोक्षं शीधुबकौ भातिः मुद्रा ज्ञानशलाकया ॥ २४७
अवस्था चोन्मनं भावं मन्त्रं पात्रं कुलेश्वरम् ।
विमलं पञ्चरात्रं च द्रव्यं सुरगणं तथा ॥ २४८
समयं पीतरागं च अघोरं तुम्बुरु तथा ।
सिद्धान्तं रुद्रमूर्तिस्थं गन्धर्वं शङ्खशुक्तिकम् ॥ २४९
अधिकारं महारत्नं योगेश्वरं महाकुलम् ।
नटेशं बैन्दवं तारं योगिनीकमलाननम् ॥ २५०
घटकोड्डामरं भूतिश्चतुःषष्टिरुद्राहृताः ।
योगिचक्रे स्मृता देव अभिधानाः परिस्फुटाः ॥ २५१
एतान् ज्ञात्वा पिबेद् देव विमलं कुलगोचरे ।
अलिविलासभेदोऽयं यावन्न ज्ञायते स्फुटम् ॥ २५२
तावन्मद्यं न पीतव्यं आज्ञाभङ्गः प्रजायते ।
श्यामा रक्ता सुरूपाढ्या गन्धामोदविभूषिता ॥ २५३
सामृतं न सुरापानं लोके मद्यं प्रतिष्ठितम् ।
देवतै ऋषिभिः सिद्धैर्योगिनीयोगिकिन्नरैः ॥ २५४
तैस्त्ववधारितं पूर्वं मयाद्य प्रकटीकृतम् ।
समरसं सुन्दरं पानं शेषं मद्यं विडम्बना ॥ २५५
सुरतागमकाले तु उत्पन्ना सा रजस्वला ।
ततः सुरा सा विख्याता सुरसिद्धाभिनन्दिता ॥ २५६
संपूर्णा समया विद्या पात्रस्था चाभिमन्त्रिता ।
मण्डलाग्रे पिबेद् यस्तु विद्यापीठे गुरोग्रतः ॥ २५७
स याति परमं स्थानं कुलानां तारयेच्छतम् ।
धूपेन च समायुक्तं विप्रूषा तर्पणं यदा ॥ २५८
कृतं भक्तिसमायुक्तः स कुलं तारयेच्छतम् ।
अयष्ट्वा श्रीक्रमं देव अकृत्वा तर्पणं यदा ॥ २५९
पशुपानविधौ पीत्वा वीराणां नरकं गतिः ।
अन्तरङ्गक्रमे पीत्वा रुद्रत्वं प्राप्यते पदम् ॥ २६०
यः पिबेत् प्रकटं देव स याति नरकं ध्रुवम् ।
तस्यागमं न दातव्यं महाद्रोहो भविष्यति ॥ २६१
तेनैव सह संभाषं न कुर्यात् कुलदेशिकः ।
भवते योगिनीद्रोहो आज्ञाभङ्गः प्रवर्तते ॥ २६२
मद्यं नाम परं प्रोक्तं समयं पारमेश्वरम् ।
असमयिनामिदं देव गोपनीयं प्रयत्नतः ॥ २६३
समयभङ्गेषु दारिद्र्यं मरणं गुरुलङ्गने ।
आज्ञाभङ्गे कुतः सिद्धिर्लङ्घनान्नरकं व्रजेत् ॥ २६४
कृत्वा त्रिवर्तितं मन्त्री क्षमाप्य अलिमण्डलम् ।
एकाङ्गुल्या प्रदेशिन्या वामहस्तकनिष्ठिका ॥ २६५
या मुष्टिस्तत्र बध्वा तु अलिद्रव्यं पिबेत् ततः ।
दीपकं चरुकं भक्षं कृत्वा पानं पिबेत् तदा ॥ २६६
पुष्पं धूपं प्रदत्वा तु स्वगोत्रं सहितैकतः ।
समयपात्रं प्रकर्तव्यं निर्विकल्पेन सुन्दर ॥ २६७
एकतः सर्ववर्णानि सदा चक्रे उपस्थिताः ।
चक्राद् बहिर्विनिष्क्रान्ताः सर्वे वर्णाः पृथक् पृथक् ॥ २६८
तर्जन्या तर्पणं कृत्वा अन्तरिक्षे क्षमण्डले ।
सन्धाने तर्पिता यान्ति तृप्ताः सिद्धिं ददन्ति च ॥ २६९
मध्यमातर्पणं कृत्वा अन्तरिक्षे खमण्डले ।
पितरः संतर्पिता देव तृप्ता यान्ति परां गतिम् ॥ २७०
अनामातर्पणं कृत्वा क्रमं च गुरुमण्डलम् ।
तत् सर्वं तर्पितं तेन त्रैलोक्यं सचराचरम् ॥ २७१
कनिष्ठातर्पणं कृत्वा सिद्धा भैरवमातरः ।
वीरयोगिनि–आचार्याः तृप्ता यान्ति न संशयः ॥ २७२
सर्वे तृप्यन्ति मनुजाः ये सिद्धा मर्त्यलोकतः ।
अङ्गुष्ठतर्पणं कृत्वा रुद्रास्तृप्यन्ति नान्यथा ॥ २७३
देवताश्चैव तृप्यन्ति मातरिभ्यः समन्विताः ।
तृप्ता यान्ति न संदेहस्तर्पणं कुरु पञ्चधा ॥ २७४
खेगती रुद्रसिद्धिश्च अजरामरतां गतिः ।
सिद्ध्यष्टकं पुरक्षोभं इच्छाकाममवाप्यते ॥ २७५
विप्रुषा पदमावेशः तर्पणेन कृतेन तु ।
कोटिकोटिफलं तस्य इहलोके परत्र च ॥ २७६
इहलोके यशः कीर्तिर्वीरत्वं प्राप्यते पदम् ।
दीप्तिश्च भवते देहे वशीकरणसंपदः ॥ २७७
कामक्रीडाविनोदेन कालो गच्छति तस्य वै ।
यान् यान् वाञ्च्छयते कामान् तान् तान् लभति पुत्रकः ॥ २७८
परलोकं निर्मलं तस्य मोक्षं गच्छति साधकः ।
अलिक्रमविधानं तु देवतातर्पणादिकम् ॥ २७९
कृत्वा पिबेत देवेश परां सिद्धिमवाप्नुयात् ।
वीरद्रव्यं विना सिद्धिर्न च दृश्यति पश्चिमे ॥ २८०
तदर्थं सिद्धमार्गेऽस्मिन् अलिफल्गुरुदाहृतम् ।
विचिकित्सा न कर्तव्या प्राणैः कण्ठगतैरपि ॥ २८१
अलिना पश्चिमं मार्गं सिद्ध्यते नात्र संशयः ।
नासौ कुलक्रमे शिष्यः स पशुर्योगिनीकुले ॥ २८२
एवं हर्षविहीनं तु यो जपेत् पश्चिमं क्रमम् ।
पराङ्मुखं भवेत् तस्य कुलभ्रंशं च दारुणम् ॥ २८३
पूजितं निष्फलं तस्य भवते नात्र संशयः ।
तस्य दर्शयतेऽज्ञानं न मन्त्रं न च मण्डलम् ॥ २८४
न क्रमं न कुलं कौलं रहस्यं तु प्रगोपयेत् ।
यागभूमौ प्रवेशं तु न दद्याच्च कदाचन ॥ २८५
परिहार्य प्रयत्नेन मशकं परिवर्जयेत् ।
प्रस्तारमागमं तस्य न दर्शेत कदाचन ॥ २८६
सर्वशङ्काविनिर्मुक्तो वीरपानाभिनन्दकः ।
स एव योग्यतामेति पश्चिमे कुलशासने ॥ २८७
पशुत्वं च स्मृता शङ्का न पशुः प्राणिषु क्वचित् ।
पशुभावं परित्यज्य कुलकौलं समभ्यसेत् ॥ २८८
कुलकौलपदे प्राप्ते कुतः शङ्का कुतो मलम् ।
विचरेत् स्वेच्छया मन्त्री न भयं भवसागरे ॥ २८९
एकपात्रं न कर्तव्यं यदि साक्षात् कुलेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति विघ्नानि च पदे पदे ॥ २९०
शशाङ्कमध्यगा तन्वी उन्मना मनवाहिनी ।
निरानन्दपदे लीना सा सुरा न सुरा सुरा ॥ २९१
मया च गोपितं मार्गं न बाह्ये प्रकटीकृतम् ।
मानुषा नैव जानन्ति तेन ते पशवः स्मृताः ॥ २९२
सर्वदेवर्षिसंघैश्च गुह्यकैः सिद्धकिन्नरैः ।
मयापि धारिता कण्ठे तथा नागगणैर्वरैः ॥ २९३
सुरा सुरतमानन्दं सुरा कामाख्यसंभवा ।
सुरा सुरतकाले तु सुचक्रं योगिनीस्थितम् ॥ २९४
कर्णिकायां च या वामा पराभामृतवाहिनी ।
सा सुरा देहजा श्रेष्ठा नित्यानन्दकरी शुभा ॥ २९५
तया पूज्यं क्रमं कौलं सुखविज्ञानमुद्रया ।
तृप्यते परमं ब्रह्म पशुमध्ये न कारयेत् ॥ २९६
तद् रहस्यं सदा गोप्यं गोपनात् कौलिनी सिद्धिः ।
विद्यासमयसंयुक्तः यः पिबेन्मुद्रया युतः ॥ २९७
मण्डलाग्रे तु तां पीत्वा विद्यापीठस्य चाग्रतः ।
स याति परमं स्थानं कुलानां तारयेच्छतं ॥ २९८
आत्मक्रमं सुसंज्ञात्वा ततः पानं समाचरेत् ।
पात्रं सूर्योदयं ध्यायेत् मन्त्रं चन्द्रोदयं पिबेत् ॥ २९९
तन्मध्ये चिन्तयेद् बिन्दुं पद्मरागसमप्रभम् ।
परामृतसुसंपूर्णां कलां सप्तादशीं पिबेत् ॥ ३००
महाभैरवतेजो वै तत्कलागलितामृतम् ।
तन्मद्यं देवदेवेश न यद् द्राक्षेक्षुसंभवम् ॥ ३०१
योगपानं पिबेन्मद्यं परावस्था च मैथुनम् ।
नादबिन्दुः परं मांसं योगी योगेन भक्षयेत् ॥ ३०२
नादेनानन्दचित्तेन स्वबुद्ध्योदधिमन्थनम् ।
शून्यनेत्रप्रकर्षोऽयं यत्तद्धौतं रसायणम् ॥ ३०३
नैवेद्यं मानसं कार्यं आनन्दं पानगं प्रिये ।
विद्यात् कमलभ्रूमध्ये क्षेत्रे श्रीबिन्दुभैरवीम् ॥ ३०४
परविज्ञानतिलके उदयं मन्त्रकोटिषु ।
एतद् देव तवाख्यातं विक्षेपानन्दमुत्तमम् ॥ ३०५
सर्वसिद्धिकरं देव ज्ञात्वा सर्वं समाचरेत् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते विक्षेपाधिकारमाहात्म्यवर्णने क्रमोदयो नामानन्दः ॥ ४६ ॥
Kumārikākhaṇḍa – Kapitel ४७
सप्तचत्वारिंशानन्दः
श्रीनाथ उवाच
हर्षदेवस्य माहात्म्यं विधानं च यथाक्रमम् ।
ज्ञातमद्य स्फुतं भद्रे वटुकं च न मे श्रुतम् ॥ १
किं तस्य वटुकत्वं हि कुत्रोत्पन्नं वरानने ।
किं तेन पूजितेनैव कथं बलिनिवेदनम् ॥ २
एतन्मे वद देवेशि ध्यानं पूजा यथाक्रमम् ।
श्रीवक्रा उवाच
षण्मुखो वटुकेन्द्रस्तु मम पुत्रो महाबलः ॥ ३
अधिकारं मया दत्तं समस्ते कुलशासने ।
स्वामिना च महात्मना बलिभागं प्रगृह्यते ॥ ४
यावन्न दत्तं वटुके तावन्नैव कुलागमे ।
कपिलोग्रमहारूपं जटाजूटं तु धारिणम् ॥ ५
पिङ्गाक्षं दण्डहस्तं च सर्पाभरणभूषितम् ।
नानासंविघ्नसंघातं पुरतः परिभावयेत् ॥ ६
श्रीनाथ उवाच
वटुकस्य विधानं तु मया ज्ञातं कुलेश्वरि ।
अपरं श्रोतुमिच्छामि क्षेत्रपालागमं यथा ॥ ७
श्रीवक्रा उवाच
अधुना शृणु वक्ष्यामि महावीरेन्द्रवन्दित ।
यथा ते प्रतिबुध्यन्ति वर्णराशिं वदाम्यहम् ॥ ८
तेषां नामानि वक्ष्यामि एकैकस्य पृथक् पृथक् ।
अधुना आसुरिश्चैव इन्द्रगर्भस्तथा परः ॥ ९
ईश्वर उग्रतेजश्च ऊष्माकरो रिपुघ्नकः ।
निरीहश्च तथा देव लिप्ताङ्गो लीनमस्तकौ ॥ १०
एकाम्रकस्तथा ऐन्द्र ओघवाहस्तथापरः ।
औषधिस्तम्रवर्णश्च विसर्गाख्यः परोऽनघः ॥ ११
कन्थकारश्च गोपालोऽपस्मरश्च तथापरः ।
व्योमश्च वक्रनाम च च्छेदको जन्मदाहकः ॥ १२
ऋषिश्च औत्तरो टङ्कठोऽण्डदेहश्चण्डवरः ।
दृढकर्णेण चोत्तानः पाण्डुर्दामनमेव च ॥ १३
धर्मारम्भो नलो नाम पलितान्तोऽथ पुंस्कृतः ।
बृहद्वक्षो भवाण्डश्च मतोऽह्लादो यमान्तकः ॥ १४
रक्ताक्षो लम्बबाहुश्च वक्षायतः शशिस्तथा ।
षठः समाधिर्हंसाख्यः क्षपान्तकस्तथापरः ॥ १५
एते वै क्षेत्रपालाश्च कौलनामाः प्रकीर्तिताः ।
असंख्याताश्च देवेश ज्ञातव्याः साधकोत्तमैः ॥ १६
नीलाञ्जननिभाः सर्वे रक्तान्तायतलोचनाः ।
उन्मत्ता विह्वलाः सर्वे पिबन्ति मदिरासवम् ॥ १७
कपालेन विचित्रेण मुण्डमालैरलङ्कृताः ।
महाशवशिराम्भोजमालिनो योगिनीप्रियाः ॥ १८
प्रेतस्कन्धसमारूढा वीरेशा वीरवन्दिताः ।
बलिप्रदाने पूजायां सर्वे ते वरदायकाः ॥ १९
यावन्न ज्ञायते देव क्षेत्रपालविधानकम् ।
तावद् विघ्नानि भूयन्ते साधकानां न संशयः ॥ २०
श्रीनाथ उवाच
क्षेत्रपाला मया ज्ञातास्त्वत्प्रसादेन भैरवि ।
अधुना श्रोतुमिच्छामि शिष्याणां तु हिताय वै ॥ २१
दीक्षितस्य सुशिष्यस्य नाममाला कथं वद ।
श्रीवक्रा उवाच
शासने दीक्षितानां तु शिष्याणां भक्तितत्पराम् ॥ २२
अभिधानं यथा तेषां कर्तव्यं च तथा शृणु ।
अ प्रसूतानन्दः आ लोचनानन्दः ।
इ हृदानन्दः ई प्रतिमानन्दः ।
उ उदयानन्दः ऊ उत्पन्नानन्दः ।
ऋ शक्त्यानन्दः ॠ लीलानन्दः ।
ऌ ललितानन्दः ।
लॄ रौद्रानन्दः ए सोमानन्दः ।
ऐ चन्द्रानन्दः ओ पद्मानन्दः ।
औ विजयानन्दः अं क्षोभानन्दः ।
अः शेषानन्दः क कुलानन्दः ।
ख सुषिरानन्दः ग भावानन्दः ।
घ पूर्णानन्दः ङ शिखानन्दः ।
च पात्रानन्दः छ भूम्यानन्दः ।
ज परानन्दः झ रक्तानन्दः ।
ञ नागानन्दः ट वासानन्दः ।
ठ रुद्रानन्दः ण उमानन्दः ।
त नित्यानन्दः थ भैरवानन्दः ।
द देवानन्दः ध सुखानन्दः ।
न इष्टानन्दः प सूक्ष्मानन्दः ।
फ विपुलानन्दः ब शिवानन्दः ।
भ भोगानन्दः म वीरानन्दः ।
य प्रवरानन्दः र विचित्रानन्दः ।
ल रुपानन्दः व आत्मानन्दः ।
श शोभानन्दः ष वज्रानन्दः ।
स नेत्रानन्दः ह आज्ञानन्दः क्ष ज्वालानन्दः ।
नामसंज्ञाक्षरा देव कथिता मया तव ॥ २३
अकथ्याश्च अदेयाश्च तव स्नेहात् प्रकाशिताः ।
न मया भाषिता देव हिमवतो मुखात् श्रुताः ॥ २४
भुक्तिमुक्तिप्रदा ज्ञेयाः शिष्याणां च वरप्रदाः ।
श्रीनाथ उवाच
श्रुतं देवि मया सर्वं शिष्याणां साभिषेचनम् ॥ २५
अधुना श्रोतुमिच्छामि तेषां समयलक्षणम् ।
श्रीवक्रा उवाच
शृणु देव प्रवक्ष्यामि समयाचरणं यथा ॥ २६
दीक्षितस्य तु शिष्यस्य नाममाला प्रकाशिता ।
समयं श्रवयेत् पश्चाद् यथा ते प्रवदाम्यहम् ॥ २७
इत्याद्यावतारे महामन्थानभैरवयज्ञे सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते समयाचारवर्णनो नामानन्दः ॥ ४७ ॥
Kumārikākhaṇḍa – Kapitel ४८
॥ ॐ स्वस्ति ॥
श्रीनाथपादुकाभ्यां नमः। श्रीगणेशाय नमः।
मन्थानभैरवतन्त्रे कुमारिकाखण्डे
अष्टचत्वारिंशानन्दः
श्रीनाथ उवाच
श्रुतं देवि मया सर्वं भूमिकार्थमशेषतः ।
अधुना श्रोतुमिच्छामि पूजासूत्रस्य निर्णयम् ॥ १
श्रीवक्रा उवाच
शृणु नाथ प्रवक्ष्यामि पूजासूत्रस्य तु विधिम् ।
येन विज्ञानमात्रेण कुलाम्नायः प्रवर्तते ॥ २
एकान्ते विजने रम्ये दुष्टसत्त्वविवर्जिते ।
पुष्पप्रकरसंकीर्णे सुगुप्ते धूपवासिते ॥ ३
दंशमेशकहीने च पशुदृष्टिविवर्जिते ।
एवंविधे महास्थाने प्राङ्मुखस्तु सुराधिप ॥ ४
वारुणं मण्डलं कुर्यात् भूमिजानुगतेन तु ।
चतुष्कं कारयेत् पूर्वं सुसूत्रैश्च न खण्डितैः ॥ ५
अलिना मण्डलं कुर्यात् पञ्चप्रणवविद्यया ।
व्यापकाय समुच्चार्य मध्ये पुष्पं प्रदापयेत् ॥ ६
चण्डचन्दनकस्तूर्या पञ्चबीजाभिमन्त्रितम् ।
क्षिप्त्वा मण्डलमध्ये तु मुण्डं रत्नाकरं त्रिधा ॥ ७
गुरुणा भ्रामयेत् पूर्वं गुरुणा भेदयेत् पुनः ।
गुरुणा स्थापयेत् तत्र गुरुरेको हि पञ्चधा ॥ ८
अथ चैतद् द्वयं युक्तं सामान्यैः पञ्चभिः क्षिपेत् ।
पुष्पं स्थण्डिलमध्ये तु पश्चिमाभिमुखं करम् ॥ ९
सहितं वामहस्तेन वामावर्तपरिभ्रमात् ।
पञ्चप्रणवमुच्चार्य तन्मध्ये पुष्पपञ्चकम् ॥ १०
सामान्यैरासनपक्षं मुष्टौ चाङ्गुष्ठमग्रतः ।
अखण्डादि क्रमात् पञ्च पूजयेत विधानवित् ॥ ११
पश्चान्यासं तु नवधा अमृतादिविभागशः ।
उत्तरे विन्यसेत् सोमं सूर्यमीशानमण्डले ॥ १२
नैरृत्ये विन्यसेत् कूटं बिन्दुचक्रं तु दक्षिणे ।
पूर्वे पुरन्दरं देवं वरुणं पश्चिमादिशि ॥ १३
वह्निकोणे न्यसेदग्निं वायुकोणे चलं न्यसेत् ।
ततो हस्तं समुद्धृत्य कनिष्ठाङ्गुष्ठमध्यमाः ॥ १४
मुद्रात्रितययोगेन मेखलात्रितयं क्रमात् ।
करयोरधः कर्तव्यं नवमं बीजनायकम् ॥ १५
श्रीनाथं पूजयेन्मध्ये पुष्पांजलिभिः पञ्चभिः ।
दक्षिणे तु तथा वामे अलिना मण्डलद्वयम् ॥ १६
वामावर्तेन कर्तव्यं नाभ्या बीजद्वयं न्यसेत् ।
प्राणबीजं न्यसेद् वामे नाभिदक्षिणतो न्यसेत् ॥ १७
आसनं तु समाख्यातं वटुकेश्वरयोगिनी ।
मुद्रामण्डलस्याग्रे तु मण्डलं च पृथक् पृथक् ॥ १८
पञ्चादि विन्यसेद् बीजान् इतीष्टौ कारयेत् सदा ।
तत्रैव पश्चिमे मार्गे पञ्चाङ्गुले च मण्डले ॥ १९
बिन्दुना सह शक्त्याख्यं कूटं मध्ये विनिक्षिपेत् ।
एवं कूर्मासनस्थेन नवमण्डलमण्डितम् ॥ २०
गुरुमण्डलमेवं हि आख्यातं च त्रयोलिषु ।
तोयं गन्धमलिं पुष्पं पिशितं चार्घधूपकम् ॥ २१
संपूर्णं कारयेत् पात्रं दक्षहस्तेन त्वनघ ।
दक्षेण दण्डमुद्रां तु क्षेत्रपालस्य दक्षिणे ॥ २२
उत्तरे योगिनीनां तु वामहस्तेन सुन्दर ।
पात्रं दक्षकरे कृत्वा स्थाप्य मण्डलमध्यतः ॥ २३
बलित्रयमिदं दत्त्वा आचमनं च ततः पुनः ।
उपविश्यासनं बद्ध्वा शम्भुशक्तिं तु विन्यसेत् ॥ २४
कराभ्यां पञ्चधा न्यस्त्वा शुद्ध्यर्थं दहनं तथा ।
तडिद्विद्युत्स्वरूपेण कारयेत करसंपुटम् ॥ २५
आप्यायनं कराभ्यां तु उत्तानाभ्यां समभ्यसेत् ।
सविसर्गेण चन्द्रेण मन्त्रपादेन कारयेत् ॥ २६
कालानलसमप्रख्यं पश्चादस्त्रं तु भ्रामयेत् ।
आग्नेया चिञ्चिणीमुद्रा चिञ्चिण्याज्ञाधरा * * ॥ २७
धर्माधर्मौ परित्यज्य अधश्चोर्ध्वं प्रपीडयेत् ।
अधोमुखं तु यत् पद्मं रक्तं विकसितं स्मरेत् ॥ २८
तत्र मध्ये महालक्षं चन्द्रकोटिसमप्रभम् ।
विद्रुमाकाररूपेण महावह्निशिखा इव ॥ २९
मध्यनाडीप्रवाहेन शक्त्यूर्ध्वे नीयते परे ।
शनैः शनैर्दह्यमाना यावत् समरसं पदम् ॥ ३०
दहनं तावदाख्यातं दग्धे देहे लयं व्रजेत् ।
पुनराप्यायनं मूर्ध्नः शमनान्तात् परा कला ॥ ३१
श्रवन्ती परमा सूक्ष्मा मृणालतन्तुरूपिणी ।
चिन्तयेन्नाडिमध्यस्थां यावद् वै जन्ममण्डलम् ॥ ३२
तावदाप्यायनं शम्भो कृत्वा न्यासमतः परम् ।
करमध्ये मूर्तिपक्षं आज्ञां मुष्टिद्वये न्यसेत् ॥ ३३
कराग्रे ऊर्ध्ववक्त्रं तु मूर्धमङ्गुष्ठके न्यसेत् ।
तर्जनीं पूर्ववक्त्रं तु मध्यमायां तु दक्षिणम् ॥ ३४
उत्तरोऽनामिकायां तु पश्चिमं तु कनिष्ठिके ।
अङ्गुष्ठे हृदयं न्यस्य उत्तमाङ्गं तु तर्जनी ॥ ३५
शिखा वै मध्यमायां तु कवचं तु अनामिके ।
नेत्रं वै कन्यसायां तु अस्त्रं तु करपृष्ठतः ॥ ३६
करन्यासमिदं प्रोक्तं मूर्तिपक्षादितः क्रमात् ।
हृदये विन्यसेन्मूर्तिं मूर्धादिचरणावधिम् ॥ ३७
आज्ञातत्त्वं समाख्यातं शक्त्यन्ते ऊर्ध्वमाननम् ।
मस्तके मूर्धवक्त्रं तु पूर्ववक्त्रं मुखे न्यसेत् ॥ ३८
दक्षिणं हृदि मध्ये तु उत्तरं गुह्यमण्डले ।
पादाभ्यां पश्चिमं वक्त्रं दण्डन्यासं प्रकीर्तितम् ॥ ३९
पुरोर्ध्वे ऊर्ध्ववक्त्रं तु मूर्धं मूर्धनि विन्यसेत् ।
पूर्वतः पूर्ववक्त्रं तु दक्षिणे दक्षिणाननम् ॥ ४०
उत्तरे चोत्तरं न्यस्य पश्चिमे पश्चिमं न्यसेत् ।
हृदये हृदयं न्यस्य शिरं शिरसि विन्यसेत् ॥ ४१
शिखायां तु शिखा न्यस्य सर्वाङ्गेषु तनुत्रकम् ।
नेत्रं वै नेत्रयोर्न्यस्य अस्त्रं तु करपृष्ठतः ॥ ४२
कुजान्यासमिदं कृत्वा पश्चात् पात्रं तु विन्यसेत् ।
धूपं चैव तथाधारे अर्घं श्रीकारमण्डले ॥ ४३
प्रसादेन भवेद् गन्धं रावस्य कुसुमानि च ।
हसौंकारं मण्डलस्यान्ते वरुणे तु समुच्चरेत् ॥ ४४
अस्त्रेण शोधयेत् सर्वं कवचेनावगुण्ठयेत् ।
आप्यायनं तु नेत्रेण कारयेद् धेनुमुद्रया ॥ ४५
मालिन्यादि न्यसेद् पश्चाद् यथा भवति तच्छृणु ।
मालिनी शब्दराशिश्च त्रिविद्याघोरिकाष्टकम् ॥ ४६
द्वादशाङ्गसमुद्भूतं षडङ्गं रत्नपञ्चकम् ।
श्लोकद्वादशिका माला पादादौ शिखयावधिः ॥ ४७
मेखलायां न्यसेद् देव विलोमेनोपदेशतः ।
ब्रह्मसूत्रोज्ज्वला शम्भो स्कन्धोभौ तद्ग्रहान्वितौ ॥ ४८
षोडशग्रन्थिसंयुक्तं नवात्मानन्दनन्दितम् ।
मुखकोशं च विन्यास इष्टं चैव पटार्गलम् ॥ ४९
षोढान्यासं समाख्यातं भेदैः षोडशभिः स्थितम् ।
षोढान्यासमिदं कृत्वा क्रममण्डलमुद्धरेत् ॥ ५०
गुरुमण्डलमेवं हि आख्यातं पश्चिमान्वये ।
श्रीवक्रा उवाच
गुरुमण्डलनिर्मुक्तः कारयेत् गुरुमण्डलम् ॥ ५१
त्रिःकालं कूटनाथेन तत्र पञ्चकमारुहेत् ।
युग्मभेदं ततो नाथ अन्तरङ्गे समभ्यसेत् ॥ ५२
महाबलविनियुक्तं बलिद्वयं समुद्धरेत् ।
मुद्राबन्धसमायुक्तं प्रसादं तव खण्डितम् ॥ ५३
लब्ध्वा कारुण्यमुदयं पश्चाद् देहे परिग्रहम् ।
अन्तरङ्गेण सूत्रेण ज्ञानसूत्रेण भेदितम् ॥ ५४
सूत्रज्ञानविनिर्मुक्तो भेदयेत् कूटमण्डलम् ।
कूटं जप्त्वा लक्षमेकं मन्त्रजापसमाहितः ॥ ५५
पुरावेशं ततो देहे गह्वरस्यापि वर्तनम् ।
तत् गह्वरं तथा देहे स्वात्मनः बहिः कारयेत् ॥ ५६
परदेहे समुत्तीर्णं परदेहात् समुद्धरेत् ।
समूर्ते च परे तत्त्वे पदं पदं द्विकं द्विकम् ॥ ५७
त्रिकं त्रिकं चतुष्कं तु चतुष्कं षट्कमेव च ।
षट्कं च अपरं भित्त्वा भित्त्वा स्थाने पृथक् पृथक् ॥ ५८
कुटिलां पूर्वमास्थाय * * करेण पञ्च च ।
पूर्णिमान्त्यस्फुरं कृत्वा अमावस्यां प्रवर्तते ॥ ५९
पक्षद्वयविनिर्मुक्ता मध्ये प्रतिपदा स्मृता ।
आज्ञामृतप्रवाहेन सकलीकृतविग्रहः ॥ ६०
पञ्चचक्राणि वै हित्वा षष्ठं पूर्वं निरामयम् ।
विन्यसेत् ज्ञानमासाद्य तस्यैते पञ्च व्यापकाः ॥ ६१
सृष्टिक्रमेण सततं संहारेण तु योगिनाम् ।
तत्राज्ञानि समुत्सृज्य उपाङ्गानि तु विन्यसेत् ॥ ६२
ओलित्रितयभेदेन मुद्रात्रयं तु विन्यसेत् ।
मुद्रात्रिकं पुरा न्यस्त्वा क्रममण्डलमुद्धरेत् ॥ ६३
गह्वरं चालिखेत् पूर्वं गह्वरेणापि भेदयेत् ।
ऊर्ध्वतो गह्वरेणापि वृत्तराजेन वेष्टयेत् ॥ ६४
चतुर्विंशतितत्त्वैश्च संभृतं कारयेत् तदा ।
दलान्यष्टौ क्रमेणापि दिशासु विदिशासु च ॥ ६५
मेखलात्रितयं बाह्ये क्रमेण परिवर्तयेत् ।
चतुरस्रं पुरं कृत्वा विभज्य तदनन्तरम् ॥ ६६
मध्ये खपुष्पं संस्थाप्य उपदेशेन गह्वरम् ।
इत्युक्तं मण्डलं नाथ तत्र लक्ष्मीं समुद्धरेत् ॥ ६७
पश्चात् पात्रत्रयं देव पुरस्थाने समुद्धरेत् ।
पञ्चब्रह्मविभागेन आदौ वामे प्रकल्पयेत् ॥ ६८
तत्र मन्थानभेदेन उपदेशं तु पञ्चधा ।
तत्रानन्दपुरे मध्ये समयं तस्य विन्यसेत् ॥ ६९
हृष्टिं तुष्टिं तदा कृत्वार्घपात्रं तु दक्षिणे ।
अर्घपात्रविनिर्मुक्तो गायत्र्या भेदितं ततः ॥ ७०
अर्घं परमबीजेन शिवेन सह अर्चयेत् ।
पुष्पधूपादि यत् किञ्चित् स्वविधिषु यथाक्रमम् ॥ ७१
सर्वसंभारमेतद्धि अन्तर्यागे समुद्धरेत् ।
गुर्वौघं ओलिपीठं तु पुष्पसंकेतकं स्मरेत् ॥ ७२
तेष्वधः पूजयेदात्मा ओलिपीठादितः क्रमात् ।
यावत् पीठचतुष्कं तु तेषां देशचतुष्टयम् ॥ ७३
चत्वारो नायकाः सिद्धा ओलिपीठादितः क्रमात् ।
ओंकारे पञ्चमं नाथं आज्ञाषट्कं क्रमेण तु ॥ ७४
अग्रकोणं समारभ्य पूर्वादौ यावन्मध्यमम् ।
पुनः सिद्धास्तु चत्वारः पूर्वपीठादितः क्रमात् ॥ ७५
योगिनीगणमेवं हि सिद्धस्थानेषु पूजयेत् ।
त्रिकं त्रिषु च कोणेषु पूजयेदुपदेशतः ॥ ७६
सप्ताविंशतिभेदानि वक्त्रषट्कं क्रमेण तु ।
ऊर्ध्ववक्त्रं कोटिमध्ये मूर्धं चोर्ध्वमात्रतः ॥ ७७
पूर्वं तदस्त्रकोणे तु दक्षिणे दक्षमाननम् ।
उत्तरे वामवक्त्रं स्यात् मध्ये पश्चिममाननम् ॥ ७८
हृदयं कामरूपे तु शिरः पूर्णगिरौ स्मृतः ।
शिखा जालन्धरे पीठे कवचं तिस्रपीठके ॥ ७९
नेत्रं चैवार्धचन्द्रे तु अस्त्रं वै बिन्दुमण्डले ।
मध्ये आज्ञा प्रपूज्या च द्वात्रिंशार्णी कुरूपिणी ॥ ८०
दलेषु पूर्वमारभ्य वामावर्ते कुलाष्टकम् ।
मेखलायां पुरुषौघं भेदैश्च पञ्चविंशतिः ॥ ८१
उपदेशेन वै ज्ञात्वा मण्डलान्यष्टविंशतिः ।
तृतीयमेखलायां तु चतुःषष्टिस्तु देवताः ॥ ८२
सर्वौघं प्रथमं सारं क्रमौघं तु द्वितीयकम् ।
विद्यौघं च तृतीयं स्यात् कुलौघं तु चतुर्थकम् ॥ ८३
पञ्चमं पुरुषौघं तु षष्ठं दिव्यौघमुत्तमम् ।
विद्यौघं षड्विधाभिन्नं ज्ञात्वा यजनमारभेत् ॥ ८४
ओघान्येव दिशान्यष्टौ पूर्वादारभ्य तु क्रमात् ।
क्षेत्राण्याष्टौ यजेद् देव प्रयागादिक्रमेण तु ॥ ८५
समयां च त्रिभिर्भेदैर्यजेत् कोणत्रयेषु च ।
स्तुत्यग्रे मातरो दक्षे मन्त्रखण्डोत्तरे भवेत् ॥ ८६
कोणत्रयं समासाद्य द्वानवत्या शतद्वयम् ।
त्रिखण्डाभैरवीदेवीं यजेद् यत्नान्महेश्वर ॥ ८७
उपदेशत्रयं भित्त्वा अष्टधासिद्धिरिष्यते ।
तन्मध्ये देवतालिङ्गं तिथ्योदयं प्रवर्तते ॥ ८८
यजेत् तद्गतचित्तात्मा सृष्टिन्यायेन भैरव ।
यस्य या भवते विद्या तस्य सा श्री–ओड्डियाणके ॥ ८९
यावत् द्वात्रिंशसंख्यया तावत् संशोधयेत् पुरम् ।
पुरे शुद्धे सर्वशुद्धिरित्याज्ञा पारमेश्वरी ॥ ९०
समयलोपानि सर्वाणि शुद्ध्यन्ते च चतुर्युगे ।
कोणत्रये तदन्ते च ज्ञात्वा विद्यार्थिनो महत् ॥ ९१
अधिकारं च कर्तव्यं श्रीमच्चन्द्रपुरे गृहे ।
अन्तर्यागमिदं शम्भो ओलित्रितयशासने ॥ ९२
शाम्भवाज्ञाविनिष्क्रान्तं यो जानाति स योगिनः ।
इत्युपदेशसूत्रं तु भावितानां पदे पदे ॥ ९३
देवताज्ञां प्रकुरुते पाशस्तोभादिप्रत्ययम् ।
सूत्रोपदेशनिर्मुक्तं क्रमं योऽत्रावतारयेत् ॥ ९४
पराङ्मुखं भवेत् तस्य परत्र नानुवर्तते ।
अप्रकाश्यं जगन्नाथ हृदयानन्दकारकम् ॥ ९५
गुप्ताद् गुप्ततरं कार्यं शाम्भवाज्ञाप्रकाशकम् ।
इत्याद्यावतारे चतुर्विंशतिसाहस्रे क्रमसूत्राधिकारः ॥ ४८ ॥
Kumārikākhaṇḍa – Kapitel ४९
ऊनपञ्चाशानन्दः
श्रीकौलीश उवाच
अन्तर्यागं न मे ज्ञातं मानसं यद् व्यवस्थितम् ।
तस्य ध्यानं च सकलं दिव्यपिण्डं सलक्षणम् ॥ १
कारुण्याद् वद देवदेवेशि यदि तुष्टासि कुब्जिके ।
श्रीकुब्जिका उवाच
अतिगोप्यतरं प्रश्नं त्वयोद्गीतं सुरेश्वर ॥ २
रक्षेत् प्राणवद् रुद्र सर्वं गोप्यं सुयत्नतः ।
समयमुद्रां गृह्णीयात् पद्मकं स्वस्तिकासनम् ॥ ३
प्रभाते समये स्नात्वा पश्चिमाभिमुखस्थितः ।
मृद्वासनोपविष्टस्तु एकचित्तः समाहितः ॥ ४
आक्रम्य सुतलस्थानं अधश्चोर्ध्वं विघट्टितम् ।
रेचकं पूरकं कृत्वा कुम्भके मनरोधनम् ॥ ५
स्वकीयं पीठं संस्मृत्वा तन्मध्ये शक्तिमण्डलम् ।
तेजोराशिसमप्रख्यं द्योतयन्तं नभस्तलम् ॥ ६
तन्मध्ये वेधयेद् बिन्दुं ज्वालाज्वलनसन्निभम् ।
अखण्डमण्डलाकारं वायुपञ्चकभेदितम् ॥ ७
स्वरूपं पश्यते बिम्बं चन्द्रमण्डलवर्तुलम् ।
तत्र पूजा प्रकर्तव्या अन्तःस्थानुभवेन तु ॥ ८
कन्दस्थानात् समुत्थाप्य स्पन्दकुण्डलिनीं पराम् ।
नादेन सहजा बोध्या आधारे रविमण्डले ॥ ९
दीप्तकाञ्चनसंकाशा तमध्वंसविनाशिनी ।
तडिद्वलयचक्रात्मा लोहचूर्णविनिसृता ॥ १०
सानुस्वारेण मन्त्रज्ञः प्रविशेच्चन्द्रमण्डले ।
माया बिन्दुस्तथात्मा वै नादः शक्तिः शिवस्तथा ॥ ११
क्रमेण क्रमशो योज्याः क्रमं भित्त्वा हनुक्रमात् ।
सुसूक्ष्मं कलितं रावं अव्युच्छिन्नं प्रवर्तते ॥ १२
तद् गत्वा रमते योगी कौलिनीं कुलनायिकाम् ।
तत्र मध्ये स्थितं दिव्यं हंसाख्यं परमेश्वरम् ॥ १३
अदेहे देहसंस्थं तु चिच्छक्त्याधिष्ठितं क्रमात् ।
तस्योपलब्धिमात्रेण क्रमभेदः प्रवर्तते ॥ १४
भग्नकांसमय शब्दं श्रूयते ज्ञानकर्णेन ।
घण्टा शब्दमिति प्रोक्तं तेन सूर्ये च मण्डले ॥ १५
नायिका समया घण्टा घटिता विश्वकर्मणा ।
अन्तरङ्गे स्मृता घण्टा सा दूती सर्वकामदा ॥ १६
बहिः कांस्यमया दूती स्थित्यर्थं समुपागता ।
दीपं चक्षून्मनीभावं अवस्था इति प्रत्ययम् ॥ १७
द्वादशान्ते स्मृतं तोयं पतते योनिमण्डले ।
मलयं चेति कैलासं शमनमिति चन्दनम् ॥ १८
या कल्पा शुक्रसंपूर्णा त्रिष्कोणाख्ये तु मण्डले ।
सा च कामातुरा देव शमनेन विभेदयेत् ॥ १९
तेनामृतेन मानसा क्षीबोन्मत्ताश्च योगिनः ।
तन्मद्यामृतमास्वाद्य नैव मद्यविडम्बना ॥ २०
आगोपालाङ्गना म्लेच्छाः शूद्राः प्राकृतकास्तु ये ।
पीतेनैव तु मद्येन क्षीबोन्मत्ताः समन्ततः ॥ २१
मद्यं तु कृत्रिमं बाह्यं सामान्यं सर्वजन्तुषु ।
लोहितं पद्मरागेन त्रिःकोणे पट्टं राजते ॥ २२
तमेव पिशितं प्रोक्तं एतद् ग्राह्यं क्रमार्चने ।
जुष्ठचण्डालिनी नाम विद्याख्या च तवान्वये ॥ २३
विद्याभूतखलिङ्गेन सकलं ध्यानमाचरेत् ।
मम तु योक्तविद्या या आख्याता तव सुन्दर ॥ २४
ओलित्रये त्रिकोणान्ते अधोमार्गावलम्बिनी ।
वाडवेन तु रूपेण ध्यातव्या कुब्जिका ह्यहम् ॥ २५
त्रिनेत्रा षड्भुजाकारा षड्वक्त्रा च महाबला ।
श्यामा रक्ता च वक्रा च सर्वरत्नैस्तु मण्डिता ॥ २६
कटकेयूरहारैस्तु कुण्डलैः सुमनोहरा ।
कर्णपूरौ तु चन्द्रार्कौ बालेन्दुकृतशेखरा ॥ २७
मस्तकाभरणा शक्तिर्मणिमालासुशोभिता ।
बर्बरा केशभारा तु तन्वङ्गी चारुलोचना ॥ २८
नग्ना मुक्तशिखा देवी नग्नवासा दिगम्बरा ।
चपला चन्द्रपूर्णा च नेत्राभ्यां वर्तुलानना ॥ २९
त्रिष्कोणाननसंदीप्ता विद्युत्पुञ्जसमप्रभा ।
स्फिजैः शैलैः सुसंपूर्णा जर्जरा सिद्धवन्दिता ॥ ३०
चरणौ नुपूरसंलग्नौ कटिका पूर्णमण्डिता ।
मञ्जरी रत्नखचिता वामहस्ते प्रतिष्ठिता ॥ ३१
दक्षिणे शूलहस्ता च वामहस्ते कपालकम् ।
दक्षिणे खड्गविधेयं दक्षहस्ते सदोदिता ॥ ३२
वासुकीहारनिचया सर्वाभरणभूषिता ।
रक्तानना च ह्रस्वा च गर्जन्ती मेघशब्दवत् ॥ ३३
क्रुद्धदृष्टिर्महासिंहा सिंहासनसमाश्रिता ।
अट्टाट्टहासवदना नृत्यन्ती वह्निमण्डले ॥ ३४
सर्वावयवसंपूर्णा नानाविधैरलङ्कृता ।
कुटिलाङ्गी तथा स्तब्ध्वा वक्ररूपा भयङ्करी ॥ ३५
मातङ्गी मदिरानन्दा मदोन्मत्तातिलालसा ।
अमोघमोघवर्षन्ती अमृतरूपं विचिन्तयेत् ॥ ३६
महाव्योमे समालीना ब्रह्मरन्ध्रप्रवाहिनी ।
आप्यायेत् सर्वभूतानां भैरवी भरणात्मिका ॥ ३७
नितम्बग्रीवस्फिजौ गावौ किञ्चित्कुञ्चितलोचना ।
शक्त्यन्ते वेधयेल्लक्ष्यं महाव्योम निरीक्षयेत् ॥ ३८
तत्र नग्नवसा देवी परिपूर्णा सुशोभिता ।
देवैः परिवृता देवी महायोनौ परिस्थिता ॥ ३९
पश्यन्ती साधकान् वीरान् सर्वेषां च फलप्रदा ।
कौलिनी कथिता तुभ्यं अतिगोप्या गुरूपमा ॥ ४०
यत् किञ्चिद् वाञ्छितं कामं तत् सर्वं कथितं मया ।
एतत् दिव्यौघसूत्रं तु निर्णयं पीठदेव्यास्तु ॥ ४१
मुद्रैषा षड्भिः पीठैस्तु ध्यानलक्षं नियोजयेत् ।
पश्चात् षड्विधं विन्यासं ध्यानसूत्रं च षड्विधम् ॥ ४२
संज्ञाक्रमसमायुक्तं योगं पुजीतनन्तरम् ।
साक्षात् मम क्रमाम्नायं सूचितं न विचारितम् ॥ ४३
हेमपुष्पैश्च विविधैः सुगन्धैश्च सुकल्पितैः ।
चन्दनैरलिपात्रैश्च नैवेद्यैः फल्गुषादिकैः ॥ ४४
निवेद्य विधिवद् भक्त्या देव्याग्रे तु सुभाविताः ।
दीपका विविधाकारा गोधूमादिविनिर्मिताः ॥ ४५
अथवा यवचूर्णेन संख्यया कुलदेवताम् ।
द्विरङ्गुलोच्छ्रयेणैव च्छत्रं कुर्याद् द्विरङ्गुलम् ॥ ४६
भगाकाराः प्रकर्तव्याः प्रमाणेन तु दीपकाः ।
कृत्वा रात्रौ पठेत् स्तोत्रं मालिनीदण्डकं शुभम् ॥ ४७
देव्यावृताष्टकं वापि तथा ओलित्रयेण वा ।
पूजान्ते तु नमस्कारं विधानेन नमस्करेत् ॥ ४८
त्र्यङ्गेन त्रिरङ्गं तु प्रणवत्रयपुटीकृतम् ।
पञ्चप्रणवं ततो न्यस्त्वा पञ्चाङ्गेन नमस्करेत् ॥ ४९
अथ वर्गान् ततो न्यस्त्वा अष्टाङ्गेन नमस्करेत् ।
त्र्यङ्गं चैव तु पञ्चाङ्गं अष्टाङ्गं च तृतीयकम् ॥ ५०
नमस्कारत्रयं कृत्वा दण्डवत् तु पुनः पुनः ।
नमस्करेत् कुमार्यष्टौ चत्वारो द्वे च एका वा ॥ ५१
कुलविद्यां जपित्वा तु नैवेद्यं तु निवेदयेत् ।
तिलकानुक्रमे कृत्वा नैवेद्यं तु निवेदयेत् ॥ ५२
मुद्राबन्धैर्विसर्जित्वा भैरवीं समयां यजेत् ।
यष्ट्वा नमस्करेद् देव मूलसूत्रेण भक्तिमान् ॥ ५३
तिलकानुक्रमे कृत्वा स्वगोत्रे समयान्वितम् ।
कूर्मासनोपविष्टे तु मुद्राबन्धकरद्वये ॥ ५४
चरुकं कौलिकं श्रेष्ठं देवानामपि दुर्लभम् ।
प्रथमं कुलदीपानि अलिद्रव्यमतः परम् ॥ ५५
चरुं पिशितसंमिश्रं निर्विकल्पेन प्राशयेत् ।
सप्ताक्षरा महाविद्या सर्वसिद्धिकरी स्मृता ॥ ५६
सप्तजप्तेन पूतोऽयं वटुकं सिद्धिदायकम् ।
न द्वैतं साधकैः सार्धं गुरुणा च महाद्वैतम् ॥ ५७
विरुद्धं भ्रातृभिर्ज्येष्ठैः विरुद्धं पूर्वदीक्षितैः ।
शुवेधि (?) चैव ज्येष्ठानां मन्त्रिणां मतबोधकाम् ॥ ५८
नोच्छिष्टं चरुकं दद्यात् पुष्पं ज्येष्ठोऽपि यो भवेत् ।
अन्यथा कुरुते देव आज्ञाभङ्गः प्रवर्तते ॥ ५९
प्राशयित्वा विधानेन चरुकं पिशितासवम् ।
आचम्य च शुचिर्भूत्वा विद्यां च समयां यजेत् ॥ ६०
तदतिरिक्तं यत् किञ्चित् शुद्ध्यते नात्र संशयः ।
शिरे कृत्वा तु नैर्माल्यं मण्डलं तु विसर्जयेत् ॥ ६१
आकर्षयेत् ततः पश्चाद् विलोमान्मूलविद्यया ।
क्रमार्चनमिदं प्रोक्तं पर्वकाले तु कारयेत् ॥ ६२
ये योगिनीकुले जाता लभन्ते शाश्वतं पदम् ।
अन्या जातिः क्रिया चान्या कालं मन्त्रोऽपि चान्यथा ॥ ६३
मण्डलं पादुका देव्याः पूजा आगममन्यथा ।
यो वदेत् सिद्धसन्ताने स पापिष्ठतरो भवेत् ॥ ६४
सत्यं सत्यं पुनः सत्यं त्रिसत्यं कथितं मया ।
नाशिष्याय प्रदातव्यं न च पुत्रस्य भैरव ॥ ६५
भ्रतुरपि न दातव्यं अभक्तेषु विशेषतः ।
उपरोधान्न दातव्यं न चैवार्थस्य लोभतः ॥ ६६
गुरुभक्ताः क्रमे भक्ताः समयाचारपालकाः ।
तेषां देयमिदं सूत्रं यस्य तुष्टो भवेत् किल ॥ ६७
अक्रमेण गुरोराज्ञां यो ददति च गृह्णते ।
उभौ तौ नरकं यातौ यावदायुतसंप्लवाः ॥ ६८
इति श्रीचतुर्विंशतिसहस्रे अन्तर्यागमूर्तिध्यानसूत्रम् ॥ ४९ ॥
Kumārikākhaṇḍa – Kapitel ५०
पञ्चाशानन्दः
श्रीवक्रा उवाच
ध्यानं कुर्याद् यथावस्थः अभ्यसेद् योनिमुद्रया ।
क्रमं पूज्यं शरीरस्थं यथा सूत्रे प्रकाशितम् ॥ १
श्रीकौलीश उवाच
स्वशरीरे महादेवि क्रमपूजा यथा भवेत् ।
येषु येषु च स्थानेषु मन्त्रोद्धारसमन्विता ॥ २
चतुर्विद्या तथा देवि सुचिता न प्रकाशिता ।
कारुण्याद् वद देवेशि मम भक्तस्य भैरवि ॥ ३
श्रीवक्रा उवाच
ततः पूजाक्रमं सर्वं वर्तते तु यथाक्रमम् ।
मस्तके गुरुपंक्तिस्तु कामरूपाग्रतो यजेत् ॥ ४
आत्मा नाम च हृदये पीठौघं मस्तके स्थितम् ।
अग्रकोणे तथा वामे दक्षिणे मध्यतः क्रमात् ॥ ५
यजेत् पीठचतुष्कं तु पञ्चकं वक्त्रमण्डले ।
वक्त्रमध्ये वामचक्षुर्भ्रूमध्ये दक्षचक्षुषि ॥ ६
नासिकाग्रे तथा पूज्यं ज्ञानषट्कमतः परम् ।
हृदये वाममार्गे तु वामस्कन्धे तथापरम् ॥ ७
भ्रूमध्ये दक्षिणे स्कन्धे दक्षमार्गे त्रिकं भवेत् ।
षट्कं देव्या इदं चक्रं सृष्टिन्यायेन पूजयेत् ॥ ८
ततः सिद्धचतुष्कं तु तत्राधस्तात् प्रपूजयेत् ।
जन्मचक्रे तु वै पूज्यं योगिनीगणपञ्चकम् ॥ ९
उपदेशं तु वै पूज्यं स्वपीठे तु महेश्वर ।
अष्टाविंशतिभेदानि पारम्पर्यस्थितानि तु ॥ १०
षट्प्रकाराणि पूज्येतः आज्ञाचक्राद्यनुक्रमात् ।
पादादौ जानुपर्यन्तं समस्तव्यस्तशासनम् ॥ ११
यष्ट्वा सकलकामानि प्रत्ययानि बहून्यपि ।
इत्याश्रमे सुसंपन्ने मूर्तिपक्षं तु विन्यसेत् ॥ १२
आज्ञातत्त्वं तु तत्रैव सवक्त्राङ्गानि कल्पयेत् ।
वक्त्रैर्वक्त्राणि वै पूज्यं अङ्गैरङ्ग नि पूजयेत् ॥ १३
कुलाष्टकं महाशम्भो पादाद् पूज्यं यथाक्रमम् ।
ब्रह्माणी पादयोः पूज्या जानुदेशे महेश्वरी ॥ १४
कौमारी गुह्यदेशे तु वैष्णवी नाभिसंस्थिता ।
वाराही जठरे पूज्या इन्द्राणी हृदिमण्डले ॥ १५
तृतीयं मणिपूरे तु चतुर्थं पञ्चमं तथा ।
पुनराधारे संपूज्य षष्ठं वै स्वाधिष्ठानके ॥ १६
सप्तमं नवमं यावत् तुर्यातीते प्रपूजयेत् ।
नव सिद्धाः समाख्याताः षोडशाप्यथवा शृणु ॥ १७
अष्टौ कपालमालायां नवमं नाभिमण्डले ।
द्विपञ्चात् षोडशं यावत् भगमालां प्रपूजयेत् ॥ १८
मण्डलानि यथा देव स्वशरीरे व्यवस्थिताः ।
ह्रीँ श्रीँ पूर्वक्रमेणैव तथोच्चारं समभ्यसेत् ॥ १९
प्रथमं दक्षिणे चक्षुर्गण्डे कर्णे ततः पुनः ।
शिखरे च भुजे दक्षे बाहौ मध्यकरे तथा ॥ २०
कुक्षौ स्फिजे जानुजङ्घे पादे चैव तु दक्षिणे ।
वामे पादे जङ्घे जानुस्फिजे वामे च चक्षुषि ॥ २१
करे वै बाहुमध्ये तु वामस्कन्धे च कर्णतः ।
तथा कपोले वक्त्रे च ललाटे च कृकाटिकाम् ॥ २२
पृष्ठमध्ये तथाधारे हृदये वक्त्रमण्डले ।
एतेषु मण्डलाः पूज्या अष्टाविंशतिसंख्यया ॥ २३
अष्टाष्टकं यजेद् देव दिशासु विदिशासु च ।
चतुःषष्टिर्महादेव्याः पूजयेद् विधिपूर्वकम् ॥ २४
एतत् ते कथितं शम्भो क्षेत्राणि कथयाम्यहम् ।
क्षेत्रं नाम परं शान्तं शरीरे तत्त्वसंयुतम् ॥ २५
क्षेत्रज्ञश्चरते तत्र स्थानाष्टकगतिस्थितः ।
तेनेदं देवदेवेश क्षेत्राष्टकमुदाहृतम् ॥ २६
ये पीठास्ते च वै क्षेत्राः क्षेत्राः पीठा उदाहृताः ।
नामपर्यायं वै तेषां शास्त्रे शास्त्रे पृथक् पृथक् ॥ २७
प्रयागं नाभिदेशे तु वरुणा हृदि संस्थिता ।
कोल्लगिर्यं तु वै कण्ठे भीमनादं तु तालुके ॥ २८
बिन्दुस्थाने जयन्त्याख्यं नादाख्ये तु चरित्रकम् ।
एकाम्रं शक्तिमध्ये तु ज्ञातव्यं विदितात्मभिः ॥ २९
गुरुवक्त्रगतं प्रोक्तं कोटिवर्षं तथाष्टमम् ।
एते स्थाना मया प्रोक्ता अटने पौद्गले स्थिताः ॥ ३०
समाख्याय यजेद् देव त्रिभिर्भेदैरनुक्रमात् ।
ख्यातं मूर्ध्नि स्तुतिखण्डं मातृखण्डं हृदि यजेत् ॥ ३१
मन्त्रखण्डं तु वै गुह्ये यजेद् देव महेश्वर ।
एतत् क्रमोपदेशं तु भुक्तिमुक्तिफलप्रदम् ॥ ३२
न स्यादतः परं किञ्चिदित्येतत् परमार्थतः ।
ये केचित् शास्त्रसंघाताः पारम्पर्यक्रमागताः ॥ ३३
अस्य शास्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् ।
क्रमौघं षड्विधं ज्ञात्वा देहस्थं पूजयेत् सदा ॥ ३४
मण्डलस्थं तथा पूज्यं यथाविहिततत्क्रमात् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे श्रीक्रमसूत्राधिकारः ॥
Kumārikākhaṇḍa – Kapitel ५१
एकपञ्चाशानन्दः
सिद्धान्ते पञ्चकं सारं चतुष्कं वामगोचरे ।
दक्षिणे त्रिकमित्याहुः पूर्वाम्नाये द्विकं मतम् ॥ १
पश्चिमोलिक्रमाम्नाये गुरुरेव कुलान्वये ।
षडन्तं सप्तमान्तं च रुद्रस्य चाष्टमोलिकम् ॥ २
व्यापकस्यादिमं देव तृतीयं च चतुर्थकम् ।
द्वितीयं चञ्चलाद्यं च नादाख्यं सूक्ष्मपञ्चकम् ॥ ३
नवात्मानन्दयोगीन्द्रं शासने वृक्षनायकम् ।
चिञ्चानाथं त्रिभेदस्थं एकाशीतिपदैर्युतम् ॥ ४
कलाभिः षोडशैर्दीप्तं भिन्नं सिद्धैस्तु षोडशैः ।
अनुलोमविलोमेन पञ्चप्रणवदीपितम् ॥ ५
विद्यात्रितयमाविष्टं पदविद्यासमायुतम् ।
सन्ध्यात्रयान्वितं श्वेतं आरक्तं कृष्णपिङ्गलम् ॥ ६
ब्रह्मसूत्रधरं देव मेखलानुपुरान्वितम् ।
पञ्चारूढं बिन्दुमध्ये चर्यैकादशकान्वितम् ॥ ७
नृत्यद्वादशसंयुक्तं वाद्यद्वादशसंयुतम् ।
विद्याव्रतधरं वीरं सूत्रद्वादशगोचरम् ॥ ८
नवधाज्ञाधरं श्रीमान् शासने तु क्रमाधिपम् ।
दशसप्तकलान्तस्थं ह्रस्वदीर्घविभेदितम् ॥ ९
गुरुपंक्तित्रये नाथं आदिनाथं त्रयोलिषु ।
तेन सार्धं क्रमं पूज्यं यो जानाति स देशिकः ॥ १०
अन्यथा नैव जानाति संभाषं नैव कारयेत् ।
चर्याक्रमस्य देवेश भोजनं शयनं तथा ॥ ११
गुरुवक्त्रे तु समयं न तेन सह कारयेत् ।
आदिनाथक्रमं यस्तु गुरुमण्डलकं क्रमम् ॥ १२
यो विजानाति तत्त्वेन स भवेत् कुलनन्दनः ।
त्रिधा ज्येष्ठं नमस्कुर्यात् कण्ठे बालं समाश्रयेत् ॥ १३
हृदये धातरं कुर्यात् गोत्रजैस्तु करद्वयम् ।
अन्यथा आचरेद् यस्तु प्रयश्चित्ती भवेद् ध्रुवम् ॥ १४
लक्षजापाद् विशुद्धात्मा गोत्रमध्ये पुनर्भवेत् ।
वृक्षनाथस्य सूत्रेदं पारम्पर्यक्रमागतम् ॥ १५
चन्द्रद्वीपाद् विनिष्क्रान्तं गुर्वाम्नायस्य निर्णयम् ।
कामरूपं हस्कडोकं नेपालं पुण्ड्रवर्धनम् ॥ १६
पुरस्तीरं कन्याकुब्जं पूर्णगिर्यं तथार्बुदम् ।
आम्रातकेशरैकाम्रं त्रिश्रोत्रं कामकोट्टिकम् ॥ १७
कैलासं भृगुनगरं केदारं चन्द्रपूर्यकम् ।
श्रीपीठं चैव एकोणं जालन्धरं च मालवम् ॥ १८
कुलूतं देविकोट्टं च गोकर्णं मरुकेशरम् ।
अट्टहासं च विरजं राजवेश्म महापथम् ॥ १९
कोल्लगिर्यः कोल्लापुरं सोपारं तु जयन्तिका ।
उज्जयिन्या चरित्रं च क्षीरिका हस्तिनापुरम् ॥ २०
उदकेशं प्रयागाख्यं पीठं मायापुरी तथा ।
उरसा मलयं चैव शैलं भेरुण्डकं तथा ॥ २१
महेन्द्रं वरुणा चैव हिरण्यपुरमेव च ।
महालक्ष्मी तथोद्यानं च्छायाच्छत्रमतः परम् ॥ २२
एते पीठाः समाख्याताः पञ्चाशत् परिकीर्तिताः ।
सृष्टिन्यायेन संजाता वामावर्तपरिभ्रमात् ॥ २३
वामादिनवशक्तीनां मध्ये त्रैकूटमण्डले ।
उदयं स्वरवर्णानां उक्तं वै पीठविग्रहम् ॥ २४
मुद्रामण्डलमध्ये तु मायया गहनीकृतम् ।
स्वरवर्णविभागं तु मेरुश्रीगह्वरक्रमम् ॥ २५
आद्यप्रस्तारमाख्यातं सन्ताने सिद्धशासने ।
अधः कालाग्निरुद्रं तु तदूर्ध्वे तु त्रयोदश ॥ २६
दण्डयश्च समाख्याता भगाद्या ऊर्ध्वगावधिः ।
पुरोर्ध्वैकादशा रुद्राः सन्ताने अधिकारिणः ॥ २७
नवसिद्धास्तदूर्ध्वे तु पुरोर्ध्वे सप्त योगिन्यः ।
एवं मण्डल ऊर्ध्वे तु अखण्डाद्याः क्रमेण तु ॥ २८
शक्तित्रयं तदूर्ध्वे तु तत्रोर्ध्वे नाथचिञ्चिणी ।
कालाग्न्यादि हि नाथान्तमुक्तं वै गह्वरं क्रमम् ॥ २९
गह्वरन्यासनिर्मुक्तं सिद्धसन्तानवर्जितम् ।
न पूज्यं पश्चिमाचार्यैरित्युक्तं कादिभेदके ॥ ३०
इति गह्वरक्रमम् ।
इति श्रीकादिभेदे पञ्चाशत्पीठमेरुप्रस्तारसूत्रं ॥ ५१ ॥
Kumārikākhaṇḍa – Kapitel ५२
द्विपञ्चाशानन्दः
नवधाकलितं नाथं पूजनीयं पृथक् पृथक् ।
कुलनाथमनन्ताख्यं कन्दर्पं विमलस्तथा ॥ १
अद्वैतं तूष्णिनामानं समयं शिरशेखरम् ।
शाम्भवाज्ञावरं देवं नवमं परिकीर्तितम् ॥ २
नवनाथैर्नवात्मानं नवमूर्तिधरं भवेत् ।
इति कादिभेदे श्रीचतुर्विंशतिसाहस्रे आदिनाथसूत्रम् ॥ ५२ ॥
Kumārikākhaṇḍa – Kapitel ५३
त्रिपञ्चाशानन्दः
श्रीवक्रा उवाच
सूत्रसन्तानकं प्रज्ञं गूढार्थेन ब्रवीम्यहम् ।
सन्तानं द्वितीयं पुष्पं मेरुविज्ञानभैरवम् ॥ १
नादिफान्तं स्मृतं मार्गं अन्वये देवताः षडिः ।
निर्गतं द्वादशं रत्नं खमपुष्पद्वयेन तु ॥ २
संवर्तमण्डलोद्यानं शून्यं गुहाद् विनिर्गतम् ।
मि–ओसिद्धद्वयं तत्र गुहातूष्णीसमाधिषु ॥ ३
प्रत्ययाज्ञा भवेत् तत्र वृक्षं चैव कदम्बकम् ।
सिंहवत् तिष्ठते विद्या शापानुग्रहसिंहका ॥ ४
कुटिलाज्ञा अधोमार्गे वक्रिकेऽनुग्रहालये ।
षट्प्रकारं गृहं शाक्तं गृहं चन्द्रपुरोदयम् ॥ ५
सप्ताविंशतिभिर्भेदैर्भेदं मन्थानभैरवम् ।
शिवशक्तिसमाचारं अद्वैतामरगोत्रकम् ॥ ६
सिद्धा शुष्का महाच्छाया त्रिकूटे चापरे पदे ।
कल्पनाकल्पितं यत् तु पश्चिमाम्नायकल्पितम् ॥ ७
ऊर्ध्वशक्तिरधःशक्तिराश्रमं कल्पनं विदुः ।
सा च हंसश्च मालिनी प्रत्ययं बीजसंगमम् ॥ ८
त्रयः सिद्धाः कोणायां अनुष्ठानाधिकारकाः ।
चित्तवृत्तिपरित्यागादधिकारं तु कोणे ॥ ९
दिव्या सप्तशिला शुद्धा जन्मनि नामरूपिका ।
ब्रह्मा तु कौलिकाम्नायं वासना शुद्धचेतसा ॥ १०
द्वन्द्वत्यागात् प्रसादस्तु जन्मब्रह्मशिला शुभा ।
यत्र यत्र व्रजेदिच्छा समाधिस्थे वरानन ॥ ११
स्थितिर्योगसमायोग स्थितिर्वै कामरूपके ।
भगमध्ये मनं कृत्वा कीर्त्यमाना समाविशेत् ॥ १२
चित्ताह्लादं मनस्तुष्टिः कीर्तिश्चिञ्चिणिवृक्षके ।
सिद्धं यस्य महार्थं तु षट्प्रकारमहार्णवम् ॥ १३
भ्रान्तिज्ञानपरित्यागात् सिद्धिश्चैव तु सागरे ।
तस्य तुष्टा ह्यहं देव यो जानाति कुलक्रमम् ॥ १४
प्रज्ञासूत्रमिदं ज्ञात्वा को न मुच्येत बन्धनात् ।
उन्मनादिक्रमेणैव यावत् श्रीनाथचिञ्चिणी ॥ १५
पुनर्नवक्रमे नाथ सिद्धिस्तु गह्वरे क्रमे ।
इति श्रीकादिभेदे चतुर्विंशतिसाहस्रे पञ्चाशद्भेदभिन्नं सन्तानसूत्राधिकारम् ॥ ५३ ॥
Kumārikākhaṇḍa – Kapitel ५४
चतुःपञ्चाशानन्दः
श्रीवक्रा उवाच
वाग्भवं प्रणवं नाम हिमकुन्देन्दुनिर्मलम् ।
स्फुरत्पावकसंकाशं योनौ मध्ये विचिन्तयेत् ॥ १
कामरूपं महापीठं आदौ कृतयुगे स्थितम् ।
लक्षजापात् प्रत्ययाज्ञा शरीरे क्षोभमाविशेत् ॥ २
द्वितीयं प्रणवं चैव पीठे जालन्धरे हर ।
बालार्कमुदितं ध्यात्वा सिद्धगन्धर्वसेवितम् ॥ ३
निशाचारे चैकवृक्षे जपेल्लक्षमथ द्वयम् ।
पाशस्तोभं करोत्याशु देवीनां मेलकं महत् ॥ ४
वीरसिद्धिमवाप्नोति परपुरप्रवेशनम् ।
इत्यानन्दं महाबीजं प्रणवं च तृतीयकम् ॥ ५
पीतरूपं महाकान्तं नाभिमध्ये व्यवस्थितम् ।
पूर्णगिर्यां महापीठं ससुरासुरवन्दितम् ॥ ६
लक्षत्रितयजापेन निशाचारे चतुःपथे ।
घूर्मिप्रत्ययविज्ञानं वर्तते साधकस्य तु ॥ ७
पुरक्षोभं न संदेहो निर्विकल्पस्य सिद्ध्यति ।
भिन्नाञ्जननिभं रौद्रं कण्ठमध्ये विचिन्तयेत् ॥ ८
तिस्रपीठे भविष्ये तु कलेरन्ते भविष्यति ।
शून्यदेवकुले रात्रौ जपेल्लक्षचतुष्टयम् ॥ ९
नित्यानन्दं सदा शिष्ये अदृष्यत्वं प्रजायते ।
द्रव्याकर्षणसिद्धिश्च वश्यावेशमनुत्तमम् ॥ १०
एष भैरवराजं तु रक्तालक्तकसन्निभम् ।
भ्रूमध्ये तु विजानीयात् पीठोद्यानं प्रकल्पयेत् ॥ ११
स्वयम्भूलिङ्गपूर्वतो निशाचरेण पञ्चभिः ।
जपैर्लक्षैर्योगनिद्राप्रत्ययं जायते ततः ॥ १२
अतीतानागतं चैव वर्तमाने प्रवर्तते ।
पञ्चप्रणव–उच्चारात् लक्षमेकं जपेद् यदि ॥ १३
शून्यदेवगृहे रात्रौ अणिमादिगुणाष्टकम् ।
एवं ते प्रणवाः पञ्च प्रथमं श्रीकुजान्वये ॥ १४
मन्त्राग्रेऽनुक्रमेणैव अन्ते तेऽपि विलोमतः ।
अमावास्या भवेत् पूर्णा कलिकाले तु मुक्तिदा ॥ १५
इति श्रीचतुर्विंशतिसाहस्रे पञ्चप्रणवसूत्रम् ॥ ५४ ॥
Kumārikākhaṇḍa – Kapitel ५५
पञ्चपञ्चाशानन्दः
श्रीवक्रा उवाच
अन्तरिक्षे परानन्दे उन्मने व्योमपञ्चके ।
परा देवी परादेहे शुद्धनिर्वाणमण्डले ॥ १
पञ्च व्योमानि जातानि परा देवी जगान्तरे ।
बिन्दुचक्रे विशुद्धाख्ये हृदये योनिमण्डले ॥ २
कन्दाधारे क्रमात् तेषां पञ्चके व्योमनायकी ।
व्योमचक्रस्य मध्ये तु स्थिता सा व्योमपञ्चके ॥ ३
एवं व्योमानि जातानि परा देवी कृते युगे ।
स्थानसंकेतकं ज्ञात्वा ज्येष्ठो भ्राता तदा भवेत् ॥ ४
अथवा पितृदैवत्यं भवते वा पितामहः ।
प्रपितामहेति संज्ञो वै वृद्धो वै यादृशो भवेत् ॥ ५
तेषां मण्डलकं कृत्वा साष्टाङ्गेन नमस्करेत् ।
न रिक्तं मण्डलं कुर्याद् यदीच्छेत् सिद्धिमात्मनि ॥ ६
चिन्ताभावेन आत्मानं विनिवेद्य प्रसन्नधीः ।
तत्रापि मण्डलं कुर्यात् कूर्मासनसमन्वितम् ॥ ७
दक्षिणे वीरद्रव्यं तु दक्षिणा मध्यमोत्तरे ।
चतुष्कं कारयेत् श्रेष्ठं सुसूत्रं च सुशोभनम् ॥ ८
पात्रं पूर्वं समासाद्य सर्वलक्षणसंयुतम् ।
कम्बुग्रीवोच्छितं स्वर्णं बालबालुकवर्जितम् ॥ ९
वामहस्तयुतेनापि मध्ये श्रीनाथपादुका ।
वाग्भवेन प्रकर्तव्यं वृक्षत्रितयमुत्तरे ॥ १०
चिञ्चिणी पूर्वतो ज्ञेया द्वितीयं च कदम्बकम् ।
तृतीयं बिल्वमित्याहुर्वाग्भवेन समन्वितम् ॥ ११
मातरीषट्कमग्रे च डकारादि विधानवत् ।
क्रमेणानेन षट्कं स्यात् बीजं तासां च षड्विधम् ॥ १२
स्वयोनिमिश्रितं कृत्वा वाग्भवेन विभूषितम् ।
अम्बापादान्तं सर्वेषां स्वस्थाने ओलिनाथकम् ॥ १३
तस्मिन् स्थाने गुरोः पंक्तिः सृष्टिन्यायेन सुन्दर ।
वाग्भवादि ततः पञ्च ऊर्ध्वकोणादि आरुहेत् ॥ १४
मध्यस्थाने ततः कृत्वा दिशासु विदिशासु च ।
ज्येष्ठमण्डलमित्युक्तं गुरूणां सिद्धिहेतवे ॥ १५
एवंविधिविहीनस्तु आराध्य यो न मन्यते ।
योगिन्यस्तस्य सीदन्ति भक्षयन्ति वसामिषम् ॥ १६
इहेत्यर्थपरिभ्रष्टः परत्र सिद्ध्यते कुतः ।
तस्मात् सर्वप्रयत्नेन ज्येष्ठानामभिनन्दनम् ॥ १७
व्रतीनां च यतीनां च योगीन्द्राणां विशेषतः ।
पुरुषाणां स्त्रियाणां वा आचार्याणां गुरोज्ञया ॥ १८
ये जाताः कोंकणे पूर्वे ये स्थिता जरयन्ति च ।
तेषां मण्डलकं कुर्याद् द्रव्यहीनमसिद्धिदम् ॥ १९
न कुर्यात् पुत्रकानां तु समयाचारमेलके ।
इति श्रीकादिभेदे आराध्यमण्डलविधानसूत्रं ॥ ५५ ॥
Kumārikākhaṇḍa – Kapitel ५६
षट्पञ्चाशानन्दः
विश्वाकर्षणयोगेन सम्यक् सर्वं निरामयम् ।
स्वानन्दं स्वस्वरूपं च श्रीचन्द्रपूर्येति संज्ञया ॥ १
अनाहतसमुत्थानं शून्यं शून्यालयं व्रजेत् ।
निराश्रयं परं भित्त्वा श्रीगुल्मनाथं द्वितीयकम् ॥ २
निजपदसमुद्भूतं चन्द्रस्यार्धनिरोधितम् ।
स्वक्रमोदयविज्ञानं श्रीस्तम्भदेव तृतीयकम् ॥ ३
त्रिकोणचक्रसंलीनं एकनाड्यां समुत्थितम् ।
द्वादशार्कसमप्रख्यं श्रीकर्पासाख्यं चतुर्थकम् ॥ ४
घण्टिकान्तरसंलीनं द्रवते वह्निमण्डले ।
चिच्चक्रं सर्वसुस्थानं श्रीमद्घटपुरं भवेत् ॥ ५
भेदद्वयं गतोऽसौ वै द्वादशान्ते लयं गतः ।
हृद्व्योमोभयमध्ये तु विरजं देव षष्ठकम् ॥ ६
कुलपञ्चकमुद्राया व्योमवक्त्रं तु दीपयेत् ।
बिन्दुस्थानं तु संभित्त्वा श्रीप्रयागं तु सप्तमम् ॥ ७
महाप्रलयनिर्घोषं व्योमवक्त्रे तु चालयेत् ।
दीप्यमानं तु सर्वेषां श्रीकांसाख्यं तथाष्टमम् ॥ ८
महाव्योम्नि प्रतिष्ठोऽसौ विष्णुलिङ्गाङ्गधारिणः ।
महावज्रपदे लीनो भोगदेवेति संज्ञया ॥ ९
खस्थाने तु परे प्राप्ते वह्नौ सूर्ये लयं गते ।
तत्र आज्ञा भवेत् तस्य बिम्बदेवं द्विपञ्चकम् ॥ १०
अवर्णरसमाकृष्य शून्यं व्योमं समाश्रयेत् ।
महानादे प्रविष्टोऽसौ श्रीखड्गदेवं तु सिद्ध्यति ॥ ११
तिरस्कारं तिरस्कृत्वा लोकस्य वञ्चनम् भवेत् ।
मनोनिरोधनं कृत्वा द्वादश रुद्रमेव च ॥ १२
रसानन्दे प्रबुद्धात्मा ब्रह्मतत्त्वे लयं गतः ।
निर्वाणपदसंप्राप्ता धारा शिवेति संज्ञया ॥ १३
महानादे प्रविष्टोऽसौ अवस्थाशाम्भवे स्थितः ।
एकाकारस्वरूपेण श्रीमुद्रास्फोटश्चतुर्दशः ॥ १४
ज्योतिरूपस्तथा नादं एकीभावं गतावुभौ ।
परव्योम प्रबुद्धस्य श्रीवंकापुरसंज्ञया ॥ १५
महाशून्यालयं गत्वा समरसत्वेन संस्थितः ।
प्रबुद्धस्तिष्ठते तत्र भुर्जदेवेति षोडशः ॥ १६
इति षोडशसिद्धानां सूत्रम् ॥ ५६ ॥
Kumārikākhaṇḍa – Kapitel ५७
सप्तपञ्चाशानन्द
श्रीवक्रा उवाच
अष्टादशक्रमाम्नायं भूमिकार्थेन कथ्यते ।
खचक्रे कुलजानन्दं खसुखं खप्रचोदितम् ॥ १
खस्था निवर्तिताकारा तस्मात् सा उन्मना परा ।
उन्मनाख्यामनाख्या च अनाश्रयपदोत्थिता ॥ २
निस्तरङ्गा निराभासा मोक्षलक्ष्मी महेश्वर ।
सर्वा सर्वेश्वरी सूक्ष्मा निस्तत्त्वा संवृतालया ॥ ३
आलयं सृष्टिवर्गस्य उन्मनाहं निरामया ।
महती सर्वमन्त्रज्ञा मातङ्गी चान्त्यजे कुले ॥ ४
मनमेकाग्रतः कृत्वा द्वादशार्चिसमाकुला ।
मालिनी मेघनादेन पारयेत् परकौलिके ॥ ५
मनोन्मनपदे ज्ञेया अटते सा अशङ्किता ।
षोडशान्ते चिदाकाशे विकासे गुप्तमण्डले ॥ ६
तत्रस्था या पुरा भाति आनन्दबोधरश्मिभिः ।
समनेति कला सूक्ष्मा शाश्वता बोधविग्रहा ॥ ७
समनान्ते विजानीयात् शाम्भवाज्ञा स्वरूपतः ।
तत्त्वहीना अविच्छिन्ना चिद्घनाभरणोदधिः ॥ ८
ऊर्ध्वस्था कुलनाथं च व्यापयन्ती स्वयम्भुवा ।
तेन सा व्यापिनी प्रोक्ता परदेहाद् विनिर्गता ॥ ९
शोधनी शिवतत्त्वस्य अन्तःकरणयोजनी ।
यज्ञकोटिसुविस्तीर्णा नित्यानन्दा महेश्वर ॥ १०
अन्त्यजा मण्डले क्षीणा अव्यक्ता परमाव्यया ।
तस्योत्पत्तिलयं नास्ति संचरेत महापथे ॥ ११
निस्तरङ्गे नभे व्याप्तिर्नन्दिन्या कुलकौलिनी ।
सप्तकोटिस्तु मन्त्राणां प्रस्तारे ये च भाषिताः ॥ १२
मेरुमध्याद् विनिष्क्रान्ता मन्त्रत्वं सप्तधा भवेत् ।
मन्थानं शिवशक्त्यादौ उभाभ्यां रविसोमयोः ॥ १३
त्र्यक्षरं तं महात्मानं मन्थानं सप्तधा भवेत् ।
षट्त्यागात् सप्तमे मुक्तिनिर्धूमा निर्मला द्युतिः ॥ १४
सा योनिः परमाकाशे त्र्यक्षाख्या चैव पश्चिमे ।
हेलया क्रीडकारणे संस्पर्शे च अनुक्रमात् ॥ १५
चैतन्यचितचेतस्का हेरुका क्षुद्रविग्रहा ।
क्षुरधारा शताकारा अकारा षोडशाधिका ॥ १६
समनाज्ञाविनिष्क्रान्ता हिमकुन्देन्दुनिर्मला ।
दिव्यभुवनपदान्तस्था अट्टहासान्तसंभवा ॥ १७
सततानन्दबोधज्ञा समयाक्षी निगद्यते ।
अक्षरक्षरयोर्मध्ये चिन्तामणिकुलेश्वरी ॥ १८
ब्रह्मरन्ध्रान्तरे लीना या भाति परमा कला ।
शाम्भवान्ते च सात्युग्रा ज्वालामाला च लेलिहा ॥ १९
विस्फुल्लिङ्गनिभाकारा उदितार्कसमप्रभा ।
दश चैकावतारे च दिव्यरत्नकुजाम्बिका ॥ २०
आलये सर्वसिद्धानां त्रिकूटे पश्चिमे गृहे ।
गृहमेकं पुरारभ्य कालकर्षी च देवता ॥ २१
हिमवन्तगृहे जाता संवर्ता पश्चिमे गता ।
गतस्य पुनरावृतिरिच्छारूपा महेश्वरी ॥ २२
चन्द्रार्कोपरि नाथस्य भवच्छेदकरी तु सा ।
नीलाञ्जननिभा भाति द्वादशान्ते तु चन्द्रिका ॥ २३
चर्यावीर्यकुलेच्छा या प्रत्यक्षा सा कलौ युगे ।
त्रैलोक्यसुप्रभातोऽयं सुगोप्यं प्रकटीकृतम् ॥ २४
संघट्टोभयमध्यस्थं त्रिकूटत्रिपथोदयम् ।
त्रिकौल त्रिकलाक्रान्तं त्रिखण्डं कुलविग्रहम् ॥ २५
जठरार्धकलाधारं कालिकासनमण्डलम् ।
प्रकाशशिखरान्तस्थं चन्द्रपूर्यं निगद्यते ॥ २६
चन्द्रचारगतिं ज्ञात्वा लयान्ते ज्योतिभास्करम् ।
नदते तुर्यगोर्ध्वस्था नादाख्यकुलपंचके ॥ २७
मन्त्रमार्गोदयं देव खेचरक्रमनिर्णयम् ।
कथितं तव नाथस्य रहस्यं परमाद्भुतम् ॥ २८
अभावं भवयेन्नित्यं स्वभावोदयशासने ।
संसारसागरं घोरं तत् तत्त्वं च चिदात्मकम् ॥ २९
रुद्रभैरववीराद्यः अप्रबुद्धाश्च मोहिताः ।
न विन्दन्ति रहस्येदं दिव्यौघक्रमनिर्णयम् ॥ ३०
दिव्यौघसेवनात् सिद्धिर्न सिद्धिर्भावशंकया ।
अभावज्ञानखड्गोऽयं त्रिशून्याधारकन्दरम् ॥ ३१
हन्ति कलिरिपुं क्रुद्धं च्छेदयेत् पापराशिकम् ।
अभावविमले दीपे पश्यते ज्ञानचक्षुषा ॥ ३२
तममायात्ममूर्कत्वपशुपाशविमोचनम् ।
यद् गृहीतं स्वभावेन अभावपरिभावनात् ॥ ३३
निरन्तरमविच्छिन्नं यस्याज्ञाज्योतिभास्करम् ।
निर्मला जायते तस्य ज्ञानदृष्टिः परं प्रति ॥ ३४
अज्ञानतमसंघातं स्मरणादपि नश्यति ।
यस्य दिव्यौघमानन्दं उन्मनायाश्च गोचरम् ॥ ३५
खञ्जीनाथावलीपूर्णं त्रिशून्यान्ते लयोदयम् ।
त्रिवल्लीवलयाकारं त्रिकैकं षोडशाधिकम् ॥ ३६
त्रिभिरेको भवेत् श्रीमान् त्रि–उल्याक्रमनिर्णयम् ।
अष्टादशप्रकारेण स्वभावोदयकारणम् ॥ ३७
अभावं खमहानन्दं दिव्यौघमतनिर्णयम् ।
अभावगिरिमेरुं च दुर्गकन्दरवर्तिनम् ॥ ३८
लीलया क्रमते सिद्धः क्रमं दिव्यौघभावनात् ।
स्वभावसंभवं ज्ञानं सर्वगं शाश्वतमजम् ॥ ३९
पंक्तिक्रमेण दिव्येन गुणातीतं निरञ्जनम् ।
प्राप्य सिद्धिं खमार्गेण अचिराच्च गुरोज्ञया ॥ ४०
त्रिशुद्धिक्रममार्गेण को न मुच्यति बन्धनात् ।
बन्धमोक्षकरी वक्रा सालम्बा च निराश्रया ॥ ४१
प्रसरोभयमध्यस्था देवदेवी परापरा ।
आमूलात् प्रसरं तस्याः क्रमवृक्षसमाश्रिता ॥ ४२
मूलमाज्ञाक्रमं वृक्षं त्रिशाखं नाभिसंभवम् ।
वर्तिज्ञानाङ्कुराच्छन्नं अभिमात्रालतावृतम् ॥ ४३
च्छायाबिन्दुविचित्राढ्यं पत्रेन्दुकरभूषितम् ।
पुष्पमेकमनङ्गाख्यं गन्धं ज्योतिश्चिदात्मकम् ॥ ४४
फलानन्दरसं आज्ञा तृप्तिः कालस्य वञ्चनम् ।
आह्लादकरणं योगं मोक्षाज्ञासिद्धिसागरम् ॥ ४५
तद्रतं चोन्मनावस्थं सुषुप्तिगतचेतसम् ।
सर्वभावपरिक्षीणं पश्यते ज्ञानचक्षुषा ॥ ४६
सबाह्याभ्यन्तरैकत्वे अधोर्ध्वे कन्दरन्ध्रगा ।
निरानन्दे समुत्पन्ने मुक्तिर्दिव्यौघशासने ॥ ४७
सहजयोगोद्भवं कौल कुलपिण्डं त्रिधात्मकम् ।
एकत्रीणि तथा पञ्च षट् त्रिकं क्रमनिर्णयम् ॥ ४८
श्रीनाथ कथितं तुभ्यं अदृष्टकुलविग्रहम् ।
दशसप्तैकभेदेन पुष्पसंख्यां निगद्यते ॥ ४९
सिद्धाद्या सा परा खञ्जी नवपुलिङ्गभैरवम् ।
श्रीनाथादीह मन्त्रज्ञ वन्दे गुरुं निरन्तरम् ॥ ५०
गुणतत्त्वसमायुक्तं शाम्भवाज्ञाप्रकाशकम् ।
पश्चिमे उदयं जातं का–पू–जा–ओ–अनुक्रमात् ॥ ५१
अकुलादिसमुत्पन्नं कुलभेदं त्रिधा स्थितम् ।
कलाक्रमं तु दिव्यौघं अनादिपदमव्ययम् ॥ ५२
उन्मनाज्ञा मनातीता तया ज्ञानं प्रवर्तते ।
मायामलविनिर्मुक्तः पश्यते तां परापराम् ॥ ५३
गतिरगतिचित्तस्य खेगतिनिरतस्य च ।
खगतिर्न च संदेहो दिव्यौघक्रमसेवनात् ॥ ५४
दिव्यशक्तिः कुलालम्बी चिद्रूपा चिन्मया परा ।
या चिनोति चिदानन्दं सा वक्रा तु प्रगीयते ॥ ५५
विकासानन्दसंयोगात् सा विकासरता सदा ।
परमामृतनिर्वाणं शाम्भवी ज्ञानभूमिका ॥ ५६
भूमिका भुवनान्तस्य उन्मनादिक्रमस्य च ।
तन्मयाज्ञाप्रभावेण दिव्यौघकुलनिर्गतम् ॥ ५७
सामरस्यपदं दिव्यं स्वानन्दानन्दचिन्मयम् ।
अनाख्यं चिन्मयाकारं उन्मनात्र विलीयते ॥ ५८
मनेनाक्रमते सर्वं शिवाध्वनिगोचरम् ।
अदिव्यदिव्यभूतस्थं पश्यते च मनोन्मनम् ॥ ५९
शान्तातीतसचैतन्यं समनोन्मनकल्पनात् ।
स्वविकासपराह्लादं विश्रामाश्रयकौलिकम् ॥ ६०
व्यापिनी खेचरावस्था अभावपदबोधनी ।
निराकारे पराधारा अवस्थाज्ञानदायिनी ॥ ६१
अव्यक्ता व्यापिनी शक्तिर्व्यक्ताव्यक्तोभयोरपि ।
अव्युच्छिन्नप्रभावेण या चिनोति सा शाम्भवी ॥ ६२
शाम्भवाज्ञा मनोन्मन्या नदते चित्कला कुले ।
नन्दिन्यापदविन्यासे ध्येयमात्मा निरञ्जनम् ॥ ६३
मध्यमन्थानयोगेन ज्ञानाग्निर्ज्वलते तदा ।
सा चोर्ध्वे कलते ऊर्ध्वं प्रज्वलन् परवासनात् ॥ ६४
परापरा अधोर्ध्वस्था संचरन्ती सुखोन्मुखा ।
खेचराज्ञा तु सा काली हेरुका च निरन्तरा ॥ ६५
समयाज्ञाप्रभावेण सामरस्यं प्रयच्छति ।
स्वभावोद्भवचैतन्यं समयं क्षीणकल्मषम् ॥ ६६
जगत्क्षोभकरी भाषा लयोत्पत्तिविवर्जिता ।
शून्यधामान्तरे खस्था अवस्था जम्भला भवेत् ॥ ६७
कला कलान्तकी काली निर्लक्षा लक्षगोचरा ।
आकर्षेत् या परं तत्त्वं कालकर्षी सा उच्यते ॥ ६८
द्वादशान्ते निरालम्बे चण्डरावा अशङ्किता ।
चञ्चलाहमनोपम्या विश्वग्रासैकलम्पटा ॥ ६९
अघोराहं परा शार्वी भीमा मनसि वर्त्मनि ।
मन उत्पद्यते वाचा वाचा तत्रैव लीयते ॥ ७०
त्रैलोक्या उपघातोऽयं निराशाकृतपञ्जरम् ।
ममाज्ञावेशगा तिष्ठेत् प्रेरिता च कुलाकुले ॥ ७१
विषवह्निशिवेच्छा या निरञ्जनपदात्मिका ।
खलिङ्गं विनयत्वेन नयकौले विचारयेत् ॥ ७२
कन्दरन्ध्रखमध्यस्था एकवीरा महाबला ।
करङ्किणी कुरङ्गीशं कन्दमध्ये विसर्पितौ ॥ ७३
चराचरे च त्रैलोक्ये चित्रकाशविकासकौ ।
चिदचिद् भाति मन्त्रज्ञा चर्चिका सा चतुर्युगे ॥ ७४
निराधारपदान्तस्था सावलम्बा गतिर्भवेत् ।
श्रीनाथ तव शक्त्या च अवतीर्णा कलौ युगे ॥ ७५
चतुर्युगे ह्यहं त्वं हि ज्ञानज्ञेयविचारकौ ।
अस्मिन् कुलवरे रम्ये दिव्यौघे शाम्भवे पदे ॥ ७६
अस्ति सिद्धिर्न संदेह इत्याज्ञा कुलखेचरी ।
खेचरी सा कुलालम्बा स्वभावोन्मनचेतसा ॥ ७७
महाव्यक्ताक्षरे लीना गुणहीना च हंसगा ।
प्रसरोन्मनरूपेण कालवेलां निदर्शयेत् ॥ ७८
उन्मनत्वे गता दृष्टिः सृष्टिरूपा ह्यधोमुखी ।
अनाश्रिता कुले व्याप्तिः कौलिनी भैरवी कला ॥ ७९
भैरवं रूपमादाय वमते यत् पुरार्जितम् ।
रमेद् दशाष्टभेदेन भैरवी तेन भैरव ॥ ८०
भावमेकत्वमायातं इच्छान्तर्गतचेतसा ।
श्रीनाथस्त्वमहं कुब्जा मन्थानस्य समुद्भवा ॥ ८१
तन्त्रीकला कुलालम्बी मन्थानसुषुमा अमा ।
वज्रं खल्वाटकं ज्वालं खञ्जीमन्थानभास्वरम् ॥ ८२
तत्रोत्पन्नं जगत् सर्वं आदौ नाथावतारकम् ।
श्रीमच्चन्द्रपुरे सिद्धं चिन्मयं मनरूपिणम् ॥ ८३
मनप्राणमहं ह्यात्मा संवर्ता बिन्दुमण्डले ।
खेचरं मदनांशांगं सकलं वडवामुखम् ॥ ८४
तस्यैव गलिता सृष्टिः किञ्चिच्चिन्मयरूपिणी ।
चण्डवाडवरूपाहं उदधिस्त्वं महाधिप ॥ ८५
संवर्ता प्रलयाकारा अमृतादिहमन्तगा ।
साहं वक्रात्मिका रूपा च्छायाच्छन्नं शिवात्मकम् ॥ ८६
उन्मना मनवेगेन पञ्चत्वं साधयेत् पुनः ।
कालं कूर्मासने कृत्वा अहिमात्मस्वरूपिणीम् ॥ ८७
शिवाध्वनिपर्यन्तं एकतत्त्वे नियोजितम् ।
संवर्तामण्डलान्ते तु वेदितव्यं महात्मना ॥ ८८
मन्थानं तच्च विज्ञेयं मातृका–उदधेर्हर ।
कला जलं हि कल्लोलास्तत्त्वा वर्णाश्च मत्स्यकाः ॥ ८९
मन्थ्यं तद् धीवरेणार्थं प्राप्तं श्रीमतराजकम् ।
नवात्मानाथवीरेण सहितार्थं निदर्शितम् ॥ ९०
चतुर्विंशसहस्राख्यं ज्ञानकोशं महार्थकम् ।
ये बुध्यन्ति महामतं दिव्यौघगतचेतसा ॥ ९१
ते यान्ति परमे स्थाने यत्र देवः कुलेश्वरः ।
अजराश्चामरास्ते वै जन्म तेषां न विद्यते ॥ ९२
दिव्यौघं शाम्भवं शम्भो दिव्यौघं कुलपद्धतिः ।
दिव्यौघं च निरालम्बं दिव्यौघं च निरामयम् ॥ ९३
मुक्तिज्ञानं च दिव्यौघं दिव्यौघे खगतिर्भवेत् ।
दिव्यौघेऽत्र मतिर्येषां गतास्ते पश्चिमे पदे ॥ ९४
निरन्तरमविच्छिन्ना श्रीनाथं या च चिञ्चिणी ।
तावल्लोलैकभावेन उन्मनात्मा तथावधिः ॥ ९५
शब्दराश्यादि संवर्तं अनन्तः खेचरः स्मृतः ।
अमोघं बिन्दुनाथं च अनादि शुक्रसंज्ञया ॥ ९६
अजातानन्दं रक्ताख्यं क्रीडानाथस्तथैव च ।
आशानन्दौघनाथश्च रसानन्दस्तथा ध्वजः ॥ ९७
ज्वालादेवस्तथा नग्नं कुब्जानन्देति कीर्तितम् ।
नाथमष्टादशं ज्ञेयं उन्मनादिक्रमागतम् ॥ ९८
उन्मनामनव्यापिन्या यावद् वै चर्चिकावधिः ।
तावत् ते युग्मभेदेन पूज्यास्ते नाथपद्धतौ ॥ ९९
खेचरास्ते सुराः सर्वे अदृष्टकुलविग्रहाः ।
श्रीनाथ तव सिद्धाज्ञा उन्मनाद्या ह्यनुक्रमात् * * ॥ १००
तावद् युग्मं त्वया पूज्यं आत्मना सह चिञ्चिणी ।
एकोच्चाराद् विशुद्धात्मा निराशी निष्परिग्रहः ॥ १०१
भावाभावविशुद्धात्मा चरेत् तत् कौलिकं व्रतम् ।
ऊर्ध्वदृष्टिनिरालम्बमानन्दगतमात्मनः ॥ १०२
खलोलीकुलपुष्पाज्ञासेवनाद् नाथ सिद्ध्यति ।
चित्तवृत्तिसमैकत्वं पुष्पात् पुष्पं कुलान्वये ॥ १०३
अन्तरिक्षे निरालम्बे दिव्यौघक्रमपूजने ।
निनादध्वनिमात्रेण ऊर्मितत्त्वप्रबोधकः ॥ १०४
संवृत्य चिदचिन्मात्रं तदासौ खेचरो भवेत् ।
खेचरक्रमसंप्राप्ते खञ्जिनीमतसंग्रहे ॥ १०५
तदा मुक्तिर्न संदेह इत्याज्ञा शाम्भवे पदे ।
शाम्भवाज्ञाविनिर्मुक्ता ये शिष्याः सिद्धसन्ततौ ॥ १०६
न ते मुक्तिमवाप्यन्ते इत्याज्ञा पारमेश्वरी ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते उन्मनादिक्रमदिव्यौघभूमिकाधिकारवर्णने क्रमोदयो नाम आनन्दः ॥ ५७ ॥
Kumārikākhaṇḍa – Kapitel ५८
अष्टपञ्चाशानन्दः
श्रीनाथ उवाच
अधुना श्रोतुमिच्छामि भूमिकाज्ञानमुत्तमम् ।
मूलसूत्रस्य देवेशि कथयस्व प्रसादतः ॥ १
श्रीवक्रा उवाच
कुलाम्नायार्णवा योनिर्मूलसूत्रमुदाहृतम् ।
भूमिकां मूलसूत्रस्य सद्भावं शृणु साम्प्रतम् ॥ २
योन्येका मूलषट्कस्य योनिलिङ्गं षडात्मकम् ।
योन्यात्मानन्दचिन्मात्रं कारणं पीठषट्ककम् ॥ ३
आद्यपीठं सुरेन्द्राणां महेन्द्र शृणु साम्प्रतम् ।
विख्यातं कुब्जिकाख्येऽस्मिन् सुकृष्णं कृष्णमम्बरम् ॥ ४
आलयं बीजराश्यादेः पञ्चप्रणवभूषितम् ।
भवते च विनाशार्थं विश्रामं गर्भभैरवम् ॥ ५
गगनस्थं यदा गर्भं दिव्यदेहाद् विनिर्गतम् ।
तच्च लिङ्गं भगीशाख्यं कारणं प्रसरोद्भवम् ॥ ६
प्रोतुङ्गमेरुचक्रस्य वलयाकारसंस्थितम् ।
अर्धचन्द्रोपर्यासीना लिङ्गाकाशमहागुहा ॥ ७
गुहानाथं गुहागं च गुहान्ते चन्द्रं संस्थितम् ।
तच्च बिन्दूर्ध्वतः स्वामी चन्द्रबिम्बान्ततोऽनघः ॥ ८
ततो ह्येकं तु जन्तूनां यानं शक्तिर्महेश्वरी ।
महाव्योम महापीठं पीठलिङ्गासनाङ्गकम् ॥ ९
महदाकाशचित्तस्य या रण्डा परमाक्षरा ।
सापि लिङ्गं विशेषस्य उद्भवानन्दविग्रहम् ॥ १०
तच्च मूलं महाद्वीपं द्वीपनायक सर्वगम् ।
स * * * कपालस्य खलिङ्गं कामदः शिवः ॥ ११
मनो मेरुस्थितं मेरु मेरुमध्याद् विनिर्गतम् ।
तच्च मूलमशेषस्य सूत्रस्य प्रसरालयम् ॥ १२
सूत्रं शक्तिस्त्रिभेदेन मूलमाश्रित्य मण्डलम् ।
मूलसूत्रं परं चात्र ज्ञात्वा वीरेश्वरो भवेत् ॥ १३
अकुलं कुलमध्यस्थं कुलमेकं त्रिकोणकम् ।
त्रिकोणे कोटरा शक्तिः सृष्टिचक्रं निरञ्जनम् ॥ १४
तस्य पीठत्रयौघं तु षट्षट्कूटक्रमागतम् ।
क्रमागतं स्मृतं मेरु आलयं कुलदेवता ॥ १५
मेरुमध्यादधोमार्गे निरोधात् शिवशक्तयोः ।
उदयं कुरुते यस्मात् तस्माच्चिञ्चिणिभैरवः ॥ १६
एवं मूलं पराशक्तिर्मण्डलत्रयसंस्थिता ।
जगतः क्षोभणी शक्तिः प्रोतुङ्गशिखरे स्थिता ॥ १७
भगयोगिनी विख्याता भावदाकाशरूपिणी ।
सर्वसामान्या भूतानां उत्पत्तिप्रलयान्तकी ॥ १८
स्वरमात्रा स्वरैर्युक्ता स्वरचक्रसमुद्भवा ।
स्वरमातृकरूपेण ब्रह्माणी देवता हि सा ॥ १९
पञ्च पञ्च तथा पञ्च चतुः पञ्च क्रमादपि ।
लिङ्गमेतत् परा माता लिङ्गस्था वामदेवता ॥ २०
वैष्णवी विष्णुमध्यस्था वैष्णवी विष्णुमातृका ।
शिवेच्छा निर्गता सूक्ष्मा प्रसराप्यायकारिणी ॥ २१
षट्कोणे तन्महालिङ्गमन्तस्थोभयसंयुतम् ।
हक्षलिङ्गोभयोयुक्ता रौद्री भिन्नकलोदिता ॥ २२
सा च वै दक्षिणे मार्गे रुद्रमात्रा स्वयंभुवा ।
भेदनी रोधनी ह्येषा जगत्संहारकारिका ॥ २३
स्वरमात्रा तु या देव सा ज्येष्ठा ऊर्ध्वसंस्थिता ।
तस्यास्त्वपरशब्देन वामा संभवते सदा ॥ २४
वामा विश्वं वमेत् स्वाङ्गात् सा व्याप्तिः शांकरी कला ।
द्वैताद्वैतमभेदत्वात् रौद्री माताभिजायते ॥ २५
एवं शक्तित्रयं चक्रं पञ्चाशल्लिङ्गपूरितम् ।
तच्च देवगृहं पश्येद् स भवेत् कुलपुत्रकः ॥ २६
शक्त्याख्या शाम्भवाख्या च आणवाख्या त्रितीयका ।
शक्तित्रयस्य मन्थनादेकवृक्षं च लिङ्गकम् ॥ २७
संजातं षट्कमध्यस्थं तदा योन्यार्णवं कुलम् ।
चन्द्रद्वीपं समाख्यातं षड्भिराधप्रयोजितम् ॥ २८
वाग्भवं मेरु एतद्धि अर्धमात्रोर्ध्वलंकृतम् ।
नादोर्ध्वे चन्द्रिका शक्तिरेका एव तथोपरि ॥ २९
एवं योन्यक्षरं नाम कौलिनी रुद्रसंज्ञया ।
रुद्रशक्तिस्त्रिभेदैस्तु रुद्राज्ञाकारणं शिवम् ॥ ३०
शिवं सर्वमशेषस्य मातृचक्रविचारकम् ।
रसास्वादं क्षणाद् भूत्वा वाग्भवं संप्रगीयते ॥ ३१
संवर्ता वाग्भवस्यान्ते गोलकं कुण्डमण्डलम् ।
उन्नतं शिवभागीनां प्रोतुङ्गकमलार्णवम् ॥ ३२
तन्मध्ये कर्णिकाबिम्बं कमलं च अधोमुखम् ।
दिव्याश्रमामनस्काख्यं कलाशेषाक्षरं परम् ॥ ३३
तन्मध्ये महदाकाशं षोडशस्वरभूषितम् ।
विसर्गहृदयान्तस्था सा शक्तिः पद्मगर्भगा ॥ ३४
कर्णिकानायकी सा च स च लिङ्गं शिवात्मकम् ।
अमृतं सर्वयोगीनां कुब्जीशं बिन्दुभैरवम् ॥ ३५
भैरवं बिन्दुनादाख्यं त्रिवलीदरसन्निभम् ।
तत्र मध्ये भगाह्लादं महाह्लादं भगोद्भवम् ॥ ३६
उद्भवं कौलिकं योगं लिङ्गौघाणं च देवता ।
स्वयम्भू मातृपक्षस्य सबाह्याभ्यन्तरस्थितम् ॥ ३७
बाह्यस्थं च स्वदेहस्थं भेदैः षोडश भेदितम् ।
षोढाशक्तिः परा ख्याता विशुद्धिः कामरूपके ॥ ३८
षट्कमध्ये क्रमपदं उत्कटं मातृभैरवम् ।
मुद्राकूटमिति ख्यातं कूटैकं मुद्रकूटकम् ॥ ३९
मुद्राकूटं परस्थानं तच्चाकाशं पदोत्तमम् ।
दक्षिणकोणसंस्थाने क्षेत्रनाथाम्बरीशकम् ॥ ४०
कलां चन्द्रस्य सूर्यस्य विकास्वरां विचिन्तयेत् ।
करणं क्षेत्रलिङ्गस्य विद्या च महन्तारिका ॥ ४१
भगलिङ्गं समाख्यातं कपालं शशिशेखरम् ।
ब्रह्माण्डमुदरं नाभिर्वर्तिर्भैरवदेवता ॥ ४२
अहिश्च परमा कीर्तिः सन्धिदेव्याथ कौलिनी ।
वज्रं शृङ्गाटकाकारं अधोमुखं व्यवस्थितम् ॥ ४३
उदयास्तमनं तस्य मातृमुद्रा च देवता ।
उभौ देव्याक्रमे ज्ञेयौ आद्यान्ते वाग्भवाक्षरम् ॥ ४४
आकाशपीठके मध्ये योगिनीहृदयोदयम् ।
चतुःपीठकमध्यस्थं आनन्दं परमेश्वरम् ॥ ४५
तस्य तेजप्रभावेण तेजलिङ्गं तु दक्षिणे ।
तच्च जालाख्यकं लिङ्गं मूर्तिदेवं शिवेच्छया ॥ ४६
सदामृतभरात् तृप्ता चान्द्रीयममृता कला ।
उदिता तत्र देवेशी उदये वामदेवता ॥ ४७
वामलिङ्गक्रमं तस्माद् वाममार्गे प्रकल्पितम् ।
तृतीयमाकाशलिङ्गं पूर्णलिङ्गं कुलक्रमे ॥ ४८
तदामृतभरानन्दं द्रवते व्योममण्डले ।
बिन्दुवज्जायते ह्यग्रे कामराजं भवोद्भवम् ॥ ४९
कामलिङ्गं समाख्यातं कामेश्वरप्रभावतः ।
कामरूपं समभ्यर्च्य मोक्षार्थे कुलयोगिनाम् ॥ ५०
मन्थनाच्चन्द्रसूर्योभौ त्र्यक्षरं त्रिषु चार्णवम् ।
जातं लिङ्गोद्भवानन्दं मारुतं त्रिस्वरूपतः ॥ ५१
तदूर्ध्वे प्रसरं शुद्धं निर्वाणं बिन्दुमण्डले ।
अधिकारं च विश्रामं जातमात्रं तु कोंकणे ॥ ५२
तदासौ कोंकणं लिङ्गं षडेते लिङ्गमूर्तयः ।
पूज्यास्ते मण्डलान्तस्था मङ्गलं लिङ्गं षड्विधम् ॥ ५३
भरणादपि चित्तस्य स्वमन्त्रज्ञानसेवनात् ।
तदासौ प्रकटं लिङ्गं कीर्तिदेवं च कोंकणे ॥ ५४
कोटरस्थं च क्रोडोरं क्रोडाख्याशक्तिसंयुतम् ।
उभयोरन्तरगतौ द्वे तु कुब्जीशं कुब्जिकातनुः ॥ ५५
तनुर्वै कौलिनी माया सा च पञ्चाश देवताः ।
अनामाक्षरभेदैस्तु अक्षरं जायते परम् ॥ ५६
पराक्षरं स्मृतं तस्मात् प्रथमं वाग्भवं कुलम् ।
तस्य रावं त्रिधा भूतं खकारोर्ध्वमलंकृतम् ॥ ५७
हृदयं देवदेवीनां दुर्विज्ञेयं कुलार्णवम् ।
गुह्यं देवोपदेशं तु ज्ञात्वा मुक्तिर्न दूरतः ॥ ५८
सन्तानं षोडशैर्भेदैर्लिङ्गं तं षोडशात्मकम् ।
षोडशी षोडशा शक्तिः सन्तानं षोडशाङ्गकम् ॥ ५९
सन्तानं शेखरानन्दं मेरुलिङ्गं च षड्विधम् ।
तत्र लक्षं पुरा कृत्वा तत्क्षणात् खेचरं पदम् ॥ ६०
तदा मेरोर्विनिष्क्रान्तं अनन्तं शक्तिमण्डलम् ।
मातृका च त्रिभिर्भेदैः सन्तानं मेरुमार्गयोः ॥ ६१
तत्रान्वयं समुत्पन्नं त्रीणि पुष्पाण्यतः क्षरेत् ।
वामदक्षिणयोर्निडी मध्यस्था कुलकौलिनी ॥ ६२
अम्बिका हेरुका नाम अन्वयोत्तमदेवता ।
सा च देवी कुकाराख्या ईकारत्रययोजिता ॥ ६३
निष्क्रान्तौंकारपीठाच्च सिद्धा सिद्धा तु सन्ततिः ।
तत्र संस्थौ महासिद्धौ मौनी तूष्णी कदम्बयोः ॥ ६४
वृक्षस्थोभौ महासिद्धौ द्वौ सिद्धौ प्रकटीकृतौ ।
उभौ शून्यगुहावासे आश्रमे पारमेश्वरे ॥ ६५
तत्र कीर्तिं करिष्येऽहं गुहां लिङ्गं च वृक्षकम् ।
वामावर्तप्रयोगेन देवता यत्र संस्थिता ॥ ६६
वाममार्गे कदम्बाख्यं वृक्षं तस्मात् कदम्बकम् ।
तन्मध्यादुद्भवानन्दं नादशक्तिः पराजया ॥ ६७
बिन्दुं चैव पुरा कृत्वा सिंहसंकेतकोद्भुतम् ।
तस्या तु परशब्देन आवृत्तिमुपचर्यते ॥ ६८
सा च देवी परा नाम कुब्जिकाख्या गुहालया ।
शीतांशोर्निर्मला च्छाया कलाङ्गं या प्रपद्यते ॥ ६९
चन्द्रपूर्यं समाख्यातं गृहमेतत् कुलान्वये ।
मथनाद् भेदबिम्बस्य घटिता कुलदेवता ॥ ७०
मन्मथं जायते बिन्दु द्वादशान्ते विभेदितम् ।
भेदनाद् घर्षणात् तृप्तिरानन्दमनुमीयते ॥ ७१
मन्थानभेदमाख्यातं बिन्दुचक्रं प्रकाशितम् ।
तदा पञ्चोद्भवं गोत्रं जायते मेरुकर्णिका ॥ ७२
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
दृढं लक्षं पुरा कृत्वा प्रत्ययं क्षोभमात्मनि ॥ ७३
उद्भवानन्दविश्रामं प्रत्ययाश्रयणोद्भुतम् ।
प्रत्ययं चोद्भवं वेधं शरीरे पाशशोधनम् ॥ ७४
ओलिकुलक्रमेणैव अधिकारः प्रवर्तते ।
उन्मनी प्राणशक्त्यात्मा परस्थाने प्रतिष्ठिता ॥ ७५
तत्र ध्यानं समाधिश्च पूजा पञ्चोपचारतः ।
परं ब्रह्म परा व्याप्तिः शिला चैव कलोदया ॥ ७६
अर्धचन्द्रकलां दृष्ट्वा जन्मब्रह्मशिला भवेत् ।
तत्र संस्थं मनः कृत्वा निश्चलं परमात्मनि ॥ ७७
ऋज्विनी चन्द्रखण्डाख्या तर्पणस्था तु जायते ।
तदा चोत्पद्यतेऽवस्था पिण्डं क्षुभ्यति तत्क्षणात् ॥ ७८
परमास्वाददं स्थानं भगाह्लादेन चिञ्चिणी ।
मनश्चित्तं परा बुद्धिरेकत्र मथनादपि ॥ ७९
ब्रह्मद्वारार्गलं भित्त्वा दृश्यते सा च कीर्तिभिः ।
एवं च षोडशैर्भेदैः संकेताः षोडशैव च ॥ ८०
षोडशात्माकुलाख्यातो मूलसूत्रोत्थितोऽनघः ।
सन्तानस्य च मूलस्य एकं संमिश्रकं कुरु ॥ ८१
तदा चोत्पद्यते ज्ञानं क्षिप्रमेव न संशयः ।
क्षितिभूततमाकाशे शक्त्युत्थानं वराङ्गना ॥ ८२
विचरेत् सर्वगुह्यानां ज्ञात्वा शक्तिः प्रवर्तते ।
भक्तिनोद्भवजन्तूनां लक्षैकं सप्तपिण्डकम् ॥ ८३
अजामरपदं ध्यात्वा लभते निर्विशङ्कितः ।
सर्वशंकां परित्यज्य गुह्यज्ञानामृतं पिब ॥ ८४
पीत्वा तु सुस्थिरं पिण्डं क्रमभागी भविष्यति ।
क्रमान्वयकुलैकं तु कृत्वा सर्वं परापरम् ॥ ८५
यां यां चेच्छां लभेद् योगी तदासौ विदितात्मनः ।
आत्माकाशं तु यद् बीजं निराकाशं परात् परम् ॥ ८६
मीलनोन्मीलनं कृत्वा भगीशं पूज्य तत्क्षणात् ।
स्वकायस्थं भगं पूज्य शक्तिरन्ध्रे च देवताम् ॥ ८७
तत्र चोत्पद्यतेऽवस्था भगाह्लादं पुरागतः ।
प्राप्यते परमानन्दं शक्तिरानन्ददेवता ॥ ८८
उभौनिर्मथनात् किञ्चित् स च मोक्षः परं तपः ।
स्वाभाविका च सा मुद्रा त्रिमुद्रा त्रिस्वरूपतः ॥ ८९
मुद्रीशः परमो वृक्षो मीलनाज्जायते पदम् ।
पञ्च त्रयश्चतुः पञ्च सप्तविंशः षडिस्तथा ॥ ९०
लीयन्ते परमे धाम्नि तदासौ विमलो भगः ।
विसर्गकलया युक्तः उच्चारात् पृथिवीतले ॥ ९१
योगिना संप्रपद्येत आकाशमुदधिः शिवः ।
वर्णात्मकं च निर्वाणं द्वादशस्वरमण्डलम् ॥ ९२
अधिष्ठानं तु पिण्डस्य पश्चिमस्य गृहस्य च ।
गृहं व्योमं महारत्नं बहुरत्नप्रपूरितम् ॥ ९३
योगिनीनां च हृदयं मेलकं तच्चतुष्पथे ।
चतुष्पथं परं स्थानं श्मशानं तच्च कौलिकम् ॥ ९४
तत्रोन्मीलनकं तिष्ठेद् वाग्भवं द्वादशाक्षरम् ।
परमाक्षरमाकाशं मूर्तिज्ञानोपदेशकम् ॥ ९५
तच्च उलिश्चतुर्भेदैरधिष्ठानं कुलक्रमम् ।
कुलस्य षट्प्रकारस्य सप्ताविंशक्रमस्य च ॥ ९६
आम्नाययोगपीठोऽयं योगिनीनां गृहे गृहे ।
परमेश्वरमुद्राख्यं चतुष्कादिप्रयोजितम् ॥ ९७
षट्प्रकारस्य सुभगं प्रधानं पश्चिमान्वये ।
तस्य चक्रस्य देवेश विचारं सप्तकोटिकम् ॥ ९८
श्रीमतं च त्रिभेदैस्तु तदान्वयकुलार्णवम् ।
गूढार्थज्ञानसद्भावं मर्त्यलोकेऽवतारितम् ॥ ९९
महाद्वीपे समाख्यातं निर्णीतं कामरूपके ।
तत्सारं मूलसूत्रं तु ज्ञानिनां कुलनिश्चयम् ॥ १००
प्रथमं तु कुलाम्नायं ज्ञात्वा योगं समभ्यसेत् ।
आनन्दं मूलसूत्रस्य सार्धवृत्तत्रयेषु च ॥ १०१
मूलसूत्रं तु संक्षेपादुद्धृतं चन्द्रद्वीपतः ।
मूलसूत्रस्य आनन्दं भूमिका शतश्लोकतः ॥ १०२
निर्णीतं कुलमार्गेऽस्मिन् ज्ञात्वा सिद्धिः कुलान्वये ।
अन्यथा पठनाद् देव पूजारिक्तं महद्भयम् ॥ १०३
यो ददेत् प्राणहानिः स्यात् स याति नरकं ध्रुवम् ।
अन्यथा नैव जानाति नासौ योग्यः कुलक्रमे ॥ १०४
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अव्वाक्रमभाषिते मूलसूत्रभूमिकाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ५८ ॥
Kumārikākhaṇḍa – Kapitel ५९
ऊनषष्टितमानन्दः
श्रीकौलीश उवाच
देवि सिद्धे उमे स्वामि आदिनाथे कुलोद्भवे ।
ब्रूहि ज्ञानोपदेशं तु यत् सारं पश्चिमान्वये ॥ १
प्रकटं कुरु कौलीशे सप्ताविंशविधाक्रमम् ।
श्रीवक्रा उवाच
सारं शैवस्य जगतो भुवनाकृतिमण्डलम् ॥ २
बाह्यस्थं च स्वदेहस्थं अन्तरङ्गचिदात्मकम् ।
त्रिकूटकूटरचितं कुलकौलस्य निर्णयम् ॥ ३
तस्य ज्ञानोपदेशं तु भूमिकार्थप्रभावतः ।
एकाराकारविमलं चन्द्रकान्तिरलंकृतम् ॥ ४
इन्दुबिन्दुश्चिदाशक्तिभूमिका पारमेश्वरी ।
उद्भवं भरितानन्दं ईकारं त्रिगुणीकृतम् ॥ ५
मकारं शक्तिना पूर्णं कला विज्ञानभैरवम् ।
आकाशचारिकलना शिवोऽयं षट्प्रकारकम् ॥ ६
कोंकणास्वामिकौलीशो विकल्पक्षीणकल्मषः ।
तरुणादित्यमातङ्गी उन्मना परमा कला ॥ ७
शिखादीपमहोच्छुष्मा विज्ञानं परमेश्वरः ।
गुहान्ते उदितौघं तु मेरुमार्गविकासिनम् ॥ ८
अन्तःस्वानुभवानन्दमानन्दो बोधचिन्मयः ।
प्रबुद्धस्थानमादाय ज्ञानवर्तिशिलातलम् ॥ ९
लिङ्गौघं दिव्यलिङ्गं तु दिव्यलिङ्गं नपुंसकम् ।
दिव्यामृतभराकाशं मुद्रात्रितयकौलिकम् ॥ १०
प्रसरोन्मनयोगीनां कोंकणं कलाभिर्युतम् ।
कलाकारणकर्तृत्वे बिन्दुस्त्रिवलयात्मिका ॥ ११
मूलाधारप्रभा व्याप्तिः सहितार्थं तु षड्विधम् ।
संकेतं नवराश्यादौ स्वाभाविकं निरन्तरम् ॥ १२
हकाराकारमेकत्र दृश्यन्ते बोधरश्मयः ।
अकुलं कलया भिन्नं तद् रूपं पारमेश्वरम् ॥ १३
ईश्वरी सस्वरा शक्तिः रुद्रशक्तिस्त्रिभेदतः ।
आर्णवाज्ञा चिदाकाशं भैरवः षड्विधस्तदा ॥ १४
निरोधाद् डामरीमूर्तिस्तदा क्षोभोऽभिजायते ।
मालिनी महती वामा अनामाक्षरपंक्त्ययोः ॥ १५
त्रैगुण्याक्षरविन्यासैर्बिन्द्रक्षरपराकला ।
निरक्षरा परा माया दुर्विज्ञा त्रिवलीकृता ॥ १६
त्रिविधाक्षरभेदेन सा च देवी कुमारिका ।
कौमारकूटमध्यस्था सान्तरीकृतविग्रहा ॥ १७
ज्ञानोदरपराव्याप्तिस्तया त्वयमशेषतः ।
उघज्ञानं स्वरौघं तु षड्विधकरणादपि ॥ १८
भावः पुष्पः सुरीशश्च मण्डलं त्वथ पार्थिवम् ।
उलीश्वरो मदोन्मत्तः निस्तरङ्गशिवेच्छया ॥ १९
परज्ञानप्रभावेण अन्वयं षड्विधं भवेत् ।
ओंकारकुलमानन्दं उड्डियानामरगोलकम् ॥ २०
शुद्धस्फटिकभासं च मातृभैरवशेखरम् ।
शशिमध्यान्तरावली त्रिवल्ली चाष्टधा कला ॥ २१
षट्पत्रमध्यमं प्राणं महाबोधदिगम्बरम् ।
भ्रमामि सकलजालं कल्पनाक्रमषड्विधम् ॥ २२
विकासः पश्चिमाम्नाये निराशीकृतविग्रहे ।
अचिरात् ज्ञानवीरौघं पीठौघं तन्मनोत्थितम् ॥ २३
परोऽन्तर्भावितात्मानं मूलाब्जगोलकोपरि ।
तस्य भेदस्त्रिधा शक्तिर्भूतेषु देवि संस्थिता ॥ २४
विलीना सर्वभेदानां क्रमं तस्या च षड्विधम् ।
विकासः पश्चिमाम्नाये निराशीकृतविग्रहे ॥ २५
कूटं पीठाः कूटं शक्तिः कूटं सिद्धाः परापराः ।
मथनात् कुलवृक्षस्य तदा मूलोऽभिजायते ॥ २६
आनन्दः पिङ्गलो ह्यात्मा एको ह्येकप्रकाशकः ।
मण्डलस्थमभेद्यत्वात् तदा विन्द्याच्छिवं जगत् ॥ २७
जगद्विद्या महामातृ समयव्रतचारिणी ।
वीरेश्वरप्रभाव्याप्तिः शम्भो विगतकल्मषा ॥ २८
सा च बन्धप्रकारेण कुण्डली भुवनोज्ज्वला ।
नैरास्यान्तरवृक्षस्य तदा सा चिञ्चिणी कुले ॥ २९
सर्वानन्दभरानन्दा अनन्ता वर्णभेदिता ।
एकोनेकसमैका च तया किल्विषनाशनम् ॥ ३०
विकासः सर्वभूतानां क्षोभादुत्पद्यते जगत् ।
अजरामरमीशश्च कल्पान्ताग्निगुहेश्वरः ॥ ३१
गुह्यान्तरे गुहामध्ये गुर्मि*णी नाम देवता ।
तयाधिष्ठितमात्मानं षट्प्रकारं स्वकं गृहम् ॥ ३२
तदा क्षोभोद्भवा शक्तिस्त्रिविधा त्रिप्रकारगा ।
त्रिकूटाक्षरभेदेन विक्षरन्ती परामृतम् ॥ ३३
परा च सापरा चैका या मूलान्वयभैरवी ।
भरणात्मकलावल्ली अन्वये सा च देवता ॥ ३४
सा च सप्तप्रकारेण आकारकरणादपि ।
करणं कार्यकर्तृत्वं एकाराख्या मनोन्मनी ॥ ३५
चिच्छक्तिशाक्तनिरता अघोरदमनादपि ।
विहङ्गक्षीणपक्षस्य इत्याज्ञा पारमेश्वरी ॥ ३६
तस्य भेदाः षडिस्त्वन्ये सृष्टिराज्ञाक्रमेण तु ।
अधिष्ठानविशेषस्य मन्थानं परमाज्ञया ॥ ३७
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः ।
महाबोधविकासेन भेदा वै सप्तविंशतिः ॥ ३८
चतुष्के चतुर्विधा शक्तिर्ब्रह्माण्डस्योदरोत्थिता ।
वृक्षस्था कौलिका ज्ञेया चतुष्कस्य विनिर्णयम् ॥ ३९
पञ्चकं पञ्चधा चैका स्वशक्तिर्गर्भसंस्थिता ।
अमा नाम पराशक्तिर्मातृचक्रप्रकाशिका ॥ ४०
षट्कोणे षड्विधा काली खलिङ्गमुखशोषणी ।
खमध्ये षड्विधा चर्या षड्विधा गतिरागतिः ॥ ४१
चत्वारश्चतुरो भेदैः स्वशक्तिः कमलोत्पला ।
षट्त्रिंशपञ्जराकाशे विकासज्ञानरूपिणी ॥ ४२
पञ्चके पञ्चधा ह्येका परापरविभागशः ।
विमलं पञ्चरूपस्थं पञ्चकाज्ञाप्रभावतः ॥ ४३
लिङ्गाकाशपदं भित्त्वा लिङ्गं योनिर्भगाकृतिः ।
निर्मथ्य ज्ञानसद्भावं विद्यामूर्तिर्निगद्यते ॥ ४४
स्वाधिसंस्कारवीरेन्द्रपदानि क्रमशासने ।
आकाशमूर्तिलिङ्गानां निराकाशकुलाज्ञया ॥ ४५
विज्ञेया तु कदम्बाज्ञा मूलं चिञ्चिणिवृक्षके ।
तथा द्वैतक्रियाव्याप्तिर्यावद् वृक्षं न विन्दति ॥ ४६
कुलवृक्षं परानन्दं प्राप्य व्याप्तिः प्रवर्तते ।
तुष्णीशः सहजो नाम द्वौ सिद्धौ तु चिदात्मकौ ॥ ४७
वर्तिज्ञानप्रभावेण मौनीशमिति संज्ञया ।
कोंकणं कामरूपं स्यात् कामरूपं च कोंकणम् ॥ ४८
काञ्चि कोंकणं कैलाशं अधिष्ठानं च कोंकणम् ।
कोंकणं कमलो रारि विकासश्चैव भैरवः ॥ ४९
अरारि रारिनि च यौ योगं स्वात्मानमानलम् ।
कमलान्तः सकारान्तः वकारान्त इकारकः ॥ ५०
स्वशक्तिः पद्मकिञ्जल्को भरणादपि भैरवम् ।
अमोघज्ञानमाकाशं कुकारोकारं केवलम् ॥ ५१
अर्धचन्द्रकलाज्योतिश्चन्द्रसूर्यप्रकाशकम् ।
चन्द्रकोटिकला काली विकाली विकलोज्झिता ॥ ५२
निराकाशपदे गुप्तं कीर्तिलिङ्गमनामयम् ।
रकाराक्षरमन्त्रज्ञः कोंकणे मायया पुरे ॥ ५३
डञणनमेकारस्य पञ्चपीठोद्भवानलः ।
मुद्राज्ञानं परानन्दं तत्स्वभावाधिकारणम् ॥ ५४
कपाटांकुरभेदेन जायते तूष्णिदेवता ।
एकपादस्त्रिपादश्च दिक्चक्रं भूचरो हरिः ॥ ५५
कन्दानलद्वयोर्भेदाः सिद्धिं प्राप्नोति कौलिकीम् ।
द्वीपामृततरङ्गैश्च कौमारक्रमदेवता ॥ ५६
मन्त्रचक्रप्रयोगेन विमलं तदुपस्थितम् ।
अहोरात्ररजो माया शक्तिस्तोरण पार्थिवम् ॥ ५७
खेचरी च पराशक्तिर्मालिनी गुहवासिका ।
त्रिनालपंकजो ह्यात्मा नवनालप्रभेदकः ॥ ५८
षट्सप्ताष्टके योगी स योगिनीगणवल्लभः ।
मृणालनालनाडीनां नीलोत्पलदलाम्बरः ॥ ५९
विगतमलकान्तिश्च नागकूट इवोज्ज्वलः ।
ज्वालायोगविद्योगेन त्रियोगानन्दविग्रहः ॥ ६०
गुणत्रयविभागज्ञः शिवो हंसः परापरः ।
तत्त्वेकादमना भूरिर्भू रिस्तं (?) तु जीवराट् ॥ ६१
जीवान्तरगतो वह्निः स च लोहितभैरवः ।
एकोऽनेकः परो ह्येक एकश्चैव परापरः ॥ ६२
स्वाधिकारे चिदाकारे कृष्णपक्षोपदेशकः ।
विशुद्धः शाम्भवोऽनन्तः परधाम्नि प्रकाशकः ॥ ६३
अकामः सर्वभूतानां भारभूत्युपदेशकः ।
अतिथीशो विसर्गाख्यो विकारोच्चाररूपतः ॥ ६४
आचारः संचरेत्यर्थः निराचारोऽपि निरंशकः ।
विपरीतक्रमेणोभौ त्रिकोणे मध्यगौ यदा ॥ ६५
तदा वै द्वादश श्लोकाः भूमिकाश्च हि द्वादश ।
भूमिरेकाक्षरा शक्तिः सप्ताष्टनवभिस्तदा ॥ ६६
चतुःषष्टिप्रकारेण श्लोकनायकिदेवता ।
छायाच्छत्रोदिताकाशं व्योम हंसः परापरम् ॥ ६७
विज्ञानं ब्रह्मवृक्षस्य आनन्दं षडिभेदतः ।
नित्यविक्लिन्ना त्रिभेदेन बालयौवनवृद्धका ॥ ६८
जडस्याप्यायकर्तृत्वं आनन्दं त्रिपथाश्रयम् ।
संज्ञाभेदविकासजचक्षुरुन्मीलनयोगतः ॥ ६९
आवेशः कमलानन्द आनन्दः पश्चिमान्वये ।
अन्वयं शक्तिना पूर्णं हकारं त्रिगुणीकृतम् ॥ ७०
करणात्मक्रियोपेतं कारणं तच्चं षड्विधम् ।
ज्ञानविज्ञानसंपूर्णं विरामं चन्द्रपूर्यकम् ॥ ७१
वंकापुरकथाम्नायं पारम्पर्यमचेतनम् ।
अचेतनं चेतनं स्यात् कुर्याच्चिञ्चिणी चेतनम् ॥ ७२
उद्भवानन्दयोगेन तदा वै चिञ्चिणीपुरम् ।
पश्चिमस्य तटाकस्य महावृक्षस्य पक्षयोः ॥ ७३
मुद्राशक्तिः परं तत्त्वं क्षोभणात् पश्चिमं गृहम् ।
गृहमेकार्णवा योनिः सा चाष्टादशभेदतः ॥ ७४
समुद्रज्ञानकल्लोलं कल्लोलं भैरवामृतम् ।
नाभिकोश महारत्नं प्रसुप्तं यदि भावितम् ॥ ७५
आक्रान्तं पूर्वकरणैस्तदा पूर्णशिला भवेत् ।
एका नाडी परा माया त्रिकोणकूटभूषिता ॥ ७६
सप्ताविंशतिभिः कूटैर्जायते शुद्धवासना ।
त्रिपुरं तत् तदा षट्कं सप्तमातरभेदतः ॥ ७७
दक्षिणस्थं विभाव्येत तदा मन्त्रोपदेशकम् ।
अहिपूर्णा तदा काली रुद्रदेहात् समुद्भवा ॥ ७८
अवस्था षड्गुणा यस्मात् तस्माल्लिङ्गोद्भवानलम् ।
कूटैकदमना शक्तिः बिन्दुमण्डलमण्डिता ॥ ७९
कीर्तिदेवः कषाख्यश्च तदा कन्दर्पभैरवम् ।
शिलाशेखरपूर्यस्थं टंकटशतशोभितम् ॥ ८०
निःस्पन्दगतिरुद्धा तु तदा ज्ञानोपजीवनम् ।
संसारदमनाख्या तु पञ्चपीठान्तनायकी ॥ ८१
प्रसूतिर्व्यापिनी शान्ता गुणभेदक्रमादपि ।
संवर्ती त्रिगुणीकृत्वा मध्यस्था च मनोन्मना ॥ ८२
आज्ञाचतुष्कभेदेन भूषितं शशिमण्डलम् ।
एकानेकविभेदेन आकाशं पञ्चधागतम् ॥ ८३
शिखाशिवैकभावेन परिपूर्णनभोद्युतिः ।
पञ्चाशीत्यात्मको ह्यात्मा त्रिगुणावलिभूषितः ॥ ८४
आर्णवं संयतात्मा वै सदा तेजसमाद्युतिः ।
मनोवाक्कायकर्मस्य मालिन्यष्टपरिवृतः ॥ ८५
परकायप्रवेशेन बोधिसत्त्वपरागतिः ।
गतिरागतिभेदत्वाद् या नाडी सूक्ष्मवाहिनी ॥ ८६
सप्तस्कन्धपरित्यागाद् बीजांकुरं प्रपद्यते ।
क्रोधस्थाननिरुद्धेन अनच्ककलना हरिः ॥ ८७
हरिणास्वाद्य भूयस्तं रमणं कुलकौलिकम् ।
वामाज्येष्ठाक्रमाचारं विचारः कलनात्मनि ॥ ८८
मथनादपि चक्रस्य योगनिद्रा कुलक्रमे ।
विचारं शृङ्गाटाकारं कूटैकं वमनादपि ॥ ८९
निर्बीजं जायते यस्मात् तदा लिङ्गाभिधानकम् ।
आरुह्यैकं सकाराख्यं हकारश्च प्रबोधकः ॥ ९०
बोधज्ञानशलाकया वेधक्षोभो न संशयः ।
वेधस्य करणं माया या च रौद्री षडात्मिका ॥ ९१
दिक्चक्रचारुचारेण वेधं सा परिगीयते ।
बोधानन्दपरावस्था वामावर्ती सुखोदिता ॥ ९२
स च मालिनिको हंसो निष्कलः परिगीयते ।
वेधकी बोधिका शक्तिर्बोधशक्तिः परा कला ॥ ९३
वेधकर्मविपाकेन वेधमुत्पद्यते यदा ।
तदा बिन्दून्मनः स्वामी निष्कलः परिगीयते ॥ ९४
तूष्णीवत् तिष्ठते कायः तूष्णीवृक्षगतो यदा ।
तदा स्मरितमानन्दं सप्तजन्माद् विमुच्यते ॥ ९५
तस्यैव करणं तिष्ठेत् कर्मसंस्थं कलासनम् ।
शक्तिस्थं विदितं यस्मात् तस्मात् करणकारणम् ॥ ९६
कारणञ्च सकाराख्यं एकारान्तरितं यदा ।
मेरुमार्गप्रवाहेन तदा संचरणं भवेत् ॥ ९७
ब्रह्मवत् करणं सिंहं सिंहवच्च परोन्मुखम् ।
तदा सृष्टिः कुलेच्छा या अग्निसोमप्रभावतः ॥ ९८
व्योमारूढं यदा बिन्दुं आब्रह्मभुवनोदितम् ।
अष्टादशप्रकारेण तदा मुक्तिः कुलक्रमे ॥ ९९
पुष्पाम्नायं हृदान्तस्थं नित्योदितकलान्तगम् ।
विलोमात् सिंहरूपस्य भुवनादपि चन्द्रमाः ॥ १००
एकाङ्गनर्तना भाषा अट्टहासा विरूपिका ।
कामदा भूमि मन्त्रस्य मण्डलं भुवि षड्विधम् ॥ १०१
ओंकारस्वामिनोच्चारं रकारतेजबृंहितं ।
व्यापकः प्रथितानन्दः कारणेदं चतुर्युगे ॥ १०२
कुलाष्टौ कुलविज्ञानं सूदधिः सर्वतोदितम् ।
शृङ्गाटावस्थितो मौनी तदा मौनीशभैरवः ॥ १०३
स चाकाशः परो हंसः स च शक्तिरधिष्ठितः ।
आसाद्य कृतकृत्यं स्यात् सुखाह्लादेन भैरवम् ॥ १०४
शतभूमिविशुद्धस्य भूमिकातत्त्वशोधनम् ।
भूमिकाज्ञानसद्भावं प्रत्ययाज्ञाप्रभावतः ॥ १०५
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अम्बाक्रम– भाषिते खटिकार्णवाधिष्ठाने पीठचतुष्कभूमिकाधिकार– वर्णने क्रमोदयो नामानन्दः ॥ ५९ ॥
Kumārikākhaṇḍa – Kapitel ६०
षष्टितमानन्दः
श्रीकौलीश उवाच
श्रुतं देवि मया सर्वं चक्रज्ञानाधिकारणम् ।
अधुना श्रोतुमिच्छामि सिद्धौघं सृष्टिसंभवम् ॥ १
श्रीवक्रा उवाच
विद्यानाथं महाज्ञानं करणज्ञानरश्मयः ।
नाभिकूर्मकलाग्रासविज्ञानं पारमेश्वरम् ॥ २
ईश्वरश्चेश्वरीशक्तिः पञ्चबिन्दुविभूषिता ।
कुलविज्ञानसिद्धौघं सृष्टिवर्गविभेदतः ॥ ३
योगिनीयोगमन्त्रजं स्वमन्त्रज्ञानबोधनम् ।
भवनानन्दमाश्रित्य ततः शान्तोदितो भगः ॥ ४
विभागः सर्वभेदानां आज्ञाचक्रविभेदतः ।
विभागो भगमानन्दं उड्डीशकारणात्मकम् ॥ ५
सा शक्तिर्मदनाकारा भैरवी परमा कला ।
मथनादपि चक्रस्य तदा युग्माद् प्रकाशकः ॥ ६
आकाशपदसंलीनो व्योमारूढः परापरः ।
अपरं ज्ञानमासाद्य शिवशक्तिः परंतप ॥ ७
स एव मण्डलानन्दो वर्णराशिविभेदितः ।
समुद्रज्ञानमाकाशयोगज्ञानप्रकाशकः ॥ ८
आधारचक्रमारूढ अस्तिनास्तिपदान्तगः ।
अपदं च पदात्मानं परमानन्ददीपकम् ॥ ९
मन्त्रनाथमधिष्ठानं योनिराकाशसंज्ञया ।
आपूर्णमणिचक्रान्ते जाठराग्निरधोज्ज्वलः ॥ १०
सा च षट्सु प्रकारेषु योगिनी नाम देवता ।
अधिकारः सुशान्तात्मा कोंकणे प्रतिबोधकः ॥ ११
षड्विधश्चोपदेशस्तु स च षट्सु प्रकारतः ।
नित्योदितः पराकाशः निर्मलज्ञानरश्मयः ॥ १२
अस्योर्ध्वे यत् परं स्थानमालयं हृदि पंकजम् ।
शब्दानाहतमन्त्रजः उदयास्तमनद्युतिः ॥ १३
ऊर्ध्वं मूर्धमधः प्राणो विशुद्धिचक्रबृंहितः ।
तत्रानन्दमनोल्लासः कारणत्रयवर्जितः ॥ १४
आज्ञाचक्रं पराध्यक्षं कल्पवल्लीरधिष्ठितम् ।
षड्गुणाक्षरबोधेन वेधाज्ञाज्ञानसागरम् ॥ १५
षट्चक्रपरमानन्दः षड्विधानन्दगोलकः ।
अर्धचन्द्रकलाधारः स्वासोच्छ्वासे परंतप ॥ १६
योगिनीयोगचारित्रं मुद्रामण्डलमण्डितम् ।
आवर्तप्रसराकारा सृष्टिरेषा च पार्थिवी ॥ १७
सा च व्यक्तिस्वरूपेण अव्यक्तात्मा निराश्रयः ।
व्यक्ताव्यक्तमभेदत्वात् सृष्टिसंहारकावुभौ ॥ १८
जीवनाडिकलाज्योतिः शशांकश्चामृतीकृतः ।
अकथ्यज्ञानसद्भावं उपदेशं हि कौलिकम् ॥ १९
वृक्षं तस्माद् भवेल्लिङ्गं कीर्तिर्ज्ञेया तु भैरवी ।
त्रिकत्रयसमायोगाल्लिङ्गं तं त्रिकभेदतः ॥ २०
अलिङ्गं चन्द्रद्वीपान्ते उभौ पञ्चपुटीकृतौ ।
संपुटान्ते च यल्लिङ्गं तल्लिङ्गं मन्त्रभैरवम् ॥ २१
तस्य शून्यं पुनः शून्यं शून्यं शून्यं च शून्यकम् ।
पञ्चशून्यपराव्याप्तिः पञ्चव्यापकवृत्तिभिः ॥ २२
व्यापके व्यापिका शक्तिः सा च पञ्चप्रकारतः ।
सप्ताविंशतिभिर्भेदैः कौमारः कुलपर्वतः ॥ २३
कुलवृक्षं परानन्दं अन्वयोद्यानभैरवम् ।
चतुःपीठकमध्यस्था वह्निज्वालावलीधरा ॥ २४
तस्य दक्षिणदिग्भागे ब्रह्मवल्ली निरामया ।
तेजोलिङ्गविभेदेन तदा जालन्धरोदयम् ॥ २५
सोमोत्तरे पराह्लादं पूर्णलिङ्गाक्षराणि च ।
विभवाप्यायकर्तृत्वे भवेत् पूर्णाधिकारकम् ॥ २६
अग्रस्थं च यदा पदं तदा प्रसरकारकम् ।
विपरीतक्रियात्मानं तदा कामेश्वरः शिवः ॥ २७
चत्वारोर्ध्वं कलिस्यान्ते उदयं यत्र कौलिकम् ।
नाड्यस्त्रीणि त्रिभिःश्रोतैस्तिस्राख्यं पीठपञ्चमम् ॥ २८
पञ्चैतानि प्रलीयन्ते समन्तादपि पञ्चसु ।
षष्ठं च यद् भवेत् पीठं कोंकणे च चतुर्युगे ॥ २९
पीठषट्कं षडाधारं षड्देव्यः सिद्धरश्मयः ।
आज्ञाबोधशलाकायाः विश्रामश्चन्द्रपीठके ॥ ३०
अन्ये च षोडशः पीठाः सहजज्ञानसंयुताः ।
आचारः षड्विधं ज्ञानं तदा चिञ्चीशभैरवम् ॥ ३१
रुद्रं च वैष्णवीशक्तिर्ब्रह्मग्रन्थिः परापरः ।
परापरपदे यस्मात् रुद्राणी रुद्रशक्तिका ॥ ३२
रुद्रज्ञानी परा काली विकराली रवेः कुले ।
अकुलं कुलसद्भावं मण्डलं षड्विधं स्मृतम् ॥ ३३
कुलैकं षडिभिर्भेदैः सा च दक्षिणसंस्थिता ।
वायव्यादिकलादीप्तिः स्फुरितानन्दभैरवम् ॥ ३४
कारणं कुलमार्गस्य मायया भरितात्मकम् ।
नाडित्रयसमोपेतं षट्कस्थं मध्यतेजसम् ॥ ३५
ये मन्त्राः कौलिकाज्ञायाः सन्तानं षोडशात्मकम् ।
पीठानां भैरवीमुद्रा त्रिधामान्ते प्रतिष्ठिता ॥ ३६
सा चैवाष्टप्रकारेण अष्टकमिति गीयते ।
कुलैकं परमानन्दं छायाच्छत्रसमन्वितम् ॥ ३७
मायाबीजनिरोधेन कलाः पीठा बहिः स्मृताः ।
तावत् पीठक्रमाचारं यावदोद्यानभैरवम् ॥ ३८
प्राप्नुवन्ति परं तत्त्वं सिद्धा ये च परे पदे ।
अमूर्तमपि मूर्तं च मण्डलस्य क्रमादपि ॥ ३९
चित्तवृत्तिपरित्यागात् गम्भीराश्चित्तवृत्तयः ।
आर्णवाज्ञा त्रिभिर्भेदैस्तदा पञ्च प्रकारतः ॥ ४०
भगाह्लादकरी माया मुद्रा कूटप्रदीपिका ।
वृक्षस्था चिञ्चिणी या तु भगाह्लादेन चिञ्चिणी ॥ ४१
पञ्चपञ्चात्मिका शक्तिः पञ्चतत्त्वसमन्विता ।
प्राप्ता त्वकुलवीरस्य न कर्म न च वै क्रिया ॥ ४२
कुण्डली चन्द्रिका शुद्धा विपरीतात्मिका क्रिया ।
तदा चोद्भवमानन्दं क्षणमात्रेण चामलम् ॥ ४३
योगिनीनां प्रपद्येत तदा पापक्षयात्मिका ।
सप्तजन्मनि जन्मानां मूढत्वं चापि मूर्कता ॥ ४४
अन्वयाज्ञाप्रभावेण कामोत्सर्गः प्रपद्यते ।
भवेत्रात्रैहिकं कर्म अच्छिन्नो मम दीक्षया ॥ ४५
क्रियायोगः सचितानां मुद्रामण्डलमण्डितः ।
भवच्छेदकरं याति तदन्वये विशेषतः ॥ ४६
एवं कर्मस्य च्छेत्तारो विभवानन्दविग्रहः ।
अन्वयं षड्विधं भिन्नं तदा क्षोभोऽभिजायते ॥ ४७
श्लोकद्वादशसंयुक्तं मुद्रितं नात्र संशयः ।
मुद्रास्फोटकरं कूटं बीजद्वादशकं क्रमात् ॥ ४८
सिद्धद्वादशिका व्याप्तिस्तदा दिव्योपचारतः ।
ज्ञानेदं भुवनानन्दं आनन्दं षट्सु भेदतः ॥ ४९
अवस्था उन्मनीभावं तदा पीठान्वयं भवेत् ।
मेरुमार्गप्रभावेण सन्तानं च कुलाष्टभिः ॥ ५०
एवं वैष्णवनादात्मा कुलविज्ञानभैरवः ।
निरीहश्च निरानन्दस्तत्तेज उपगम्यते ॥ ५१
भावप्राप्तिं पुरा ज्ञात्वा सन्तानं षोडशात्मकम् ।
विपरीतकुलाम्नाये तत्र सिंहो न संशयः ॥ ५२
सिंहकः पररूपेण मथनादपि चन्द्रमाः ।
सिंहावलोकनाद् भाति स सिंहः पुरुषः स्मृतः ॥ ५३
तत्र सिद्धादयः प्रोक्ता अनामाक्षरकावुभौ ।
तयोर्हृत्पद्ममथनात् सिंहाज्ञा संप्रपद्यते ॥ ५४
आकर्ष्यमन्त्रपूतात्मा त्रिनाडी त्रिगुणीकृता ।
मदानन्दमाश्चर्य तदात्माकर्षते जगत् ॥ ५५
विपरीतक्रियानन्दः कौलीशः कुलदेवता ।
अन्वयं बोधसिद्धानां तदा मुक्तिश्च योगिनाम् ॥ ५६
विलीना सर्वगानन्दा विमलकमलामृतम् ।
नित्यानन्दभराकाशं विपरीतक्रियात्मिका ॥ ५७
मायोच्चारगतिर्भाव्या रुद्राज्ञा तत्त्वगा प्रभा ।
त्रिगुणानन्दचिन्मात्रो व्योमव्यापी परः शिवः ॥ ५८
मूर्तिलिङ्गमभेदत्वात् तदा मूर्तिर्विराजते ।
चतुर्युगे क्रमादेव चत्वारश्च चतुष्टयम् ॥ ५९
मूर्तिरेका बहुभेदैः कोटिकोटिस्त्वसंख्यया ।
प्रधानाः सप्तविंशश्च भेदानि समुदाहृताः ॥ ६०
प्रथमं यच्चतुष्कं च ते पीठाश्च प्रसिद्धिदाः ।
कूटास्ते दीपनैर्युक्तास्तथा तैः प्रथमोदयः ॥ ६१
खेचरं खगमध्यस्थं खगमाच्चापि खेचरम् ।
निरंशं परमाकाशं तदा चोद्यानभैरवम् ॥ ६२
कौमारः शक्तिमध्यस्थस्तेजोऽस्य मणिपूरकम् ।
तमोच्छेदकरं पीठं जालन्धरसमुद्भवम् ॥ ६३
शेखरं शशिमध्यस्थं रूपानन्दमहोज्ज्वलम् ।
अधिकारीश्वरानन्दं पूर्णपीठेति संज्ञया ॥ ६४
कामदः परमानन्दः विश्रामः कामरूपके ।
उदितौघः स्वरूपेण तदासौ कामरूपकम् ॥ ६५
चतुस्तत्त्वविभेदेन चतुर्मुद्रा चतुष्टयम् ।
मूर्तिलिङ्गमभेदत्वात् तदा मूर्तिर्विराजते ॥ ६६
चतुर्युगे क्रमादेव चत्वारश्च चतुष्टयम् ।
कामरूपोत्तरे भागे नदीस्रोत्रत्रयेष्वपि ॥ ६७
विपरीतक्रमादेव तिस्राख्यमुपजायते ।
ब्रह्मरन्ध्रगतो मध्ये कूटस्थानन्दचिन्मयः ॥ ६८
कलेरान्ते भवेद् अन्यं पञ्चमं पीठनायकम् ।
विलीनाः सर्वसत्त्वास्तु नाडित्रयनिरोधतः ॥ ६९
स चात्मा व्यापयेन्नित्यं ब्रह्मद्वारनिरोधनात् ।
मुद्राः सिद्धाश्चतुःपीठाश्चन्द्रद्वीपेऽवतारिताः ॥ ७०
प्रधानाः पश्चिमाम्नाये अप्रसिद्धान्यदर्शने ।
भवति दक्षिणे द्वारे दक्षिणापथकोंकणम् ॥ ७१
कूटस्थं जायते पीठं पञ्चानां चाधिकारकम् ।
अपरं चाधिकारं स्याद् बालोल्यामविकारिणम् ॥ ७२
अधिकारं स्मृतं पीठं षष्ठीशेन प्रकाशितम् ।
तच्चैवं कलिमासाद्य आज्ञया प्रकटीकृतम् ॥ ७३
कोंकणेन तु ये रिक्ता न ते सिद्ध्यन्ति पञ्चभिः ।
पीठमेतत् समाख्यातं स्वदेहे कोंकणं स्थितम् ॥ ७४
कोंकणे कोंकणेशश्च मथनादपि कोंकणम् ।
बिन्दुस्थं चन्द्रपूर्यस्थं तदासौ कोंकणस्थितिः ॥ ७५
भगमूर्ध्नि गतं तिष्ठेद् गोलकस्थं सुसिद्धिदम् ।
तिस्रकोंकणपीठस्थौ द्वाविमौ चन्द्रसूर्ययोः ॥ ७६
प्रकाशोभयचक्रस्य अन्वये दीपकावुभौ ।
पीठं पीठावतारं तु पञ्चतत्त्वसमायुतम् ॥ ७७
एतेषां चाधिकारं तु यत्र स्थाने भविष्यति ।
तद् भवेदुत्तमं पीठं कोंकणं चाधिकारकम् ॥ ७८
षट् पीठाः षट्प्रकारस्य षट्प्रकारक्रमादपि ।
बहिरङ्गयुताः पीठा अन्वये प्रथमा मताः ॥ ७९
समासाद्य क्रमेणैव बाह्यरूपगभस्तयः ।
मण्डलस्थाश्च सिद्ध्यन्ति ज्ञातव्याः प्रथमास्तु ते ॥ ८०
शेषान्ये च ततः पश्चात् क्रमभेदे पृथक् पृथक् ।
पीठषट्कं पुरा ज्ञात्वा भवेदन्वयिकस्तदा ॥ ८१
अज्ञात्वा भवते दोषं कारणं पीठषट्ककम् ।
सूक्ष्मेऽन्ये हि प्रपद्यन्ते सांप्रतं ते वदाम्यहम् ॥ ८२
स्वदेहे च महापीठं पीठमेकं च षड्विधम् ।
भुवनाकृतिर्यच्छून्यं वामावर्तपरिभ्रमात् ॥ ८३
विहंगमिव चात्मानं भ्रमेदोद्याणपीठके ।
तदा तेन विनिर्गत्य रविस्थानगतात्मनि ॥ ८४
भुवनानां विलीनत्वं जालाख्यमिति निष्कलम् ।
वायुनिलयसंयोगात् कला चन्द्रस्य जायते ॥ ८५
सर्वानन्दोद्भवाह्लादं उत्तरस्थं च पूर्णकम् ।
वायुनिलय आनन्दं मथनाज्जयते शनैः ॥ ८६
रुद्रशक्तित्वं भेदित्वा शुक्रस्थं कामरूपकम् ।
शुक्रादुद्भवते नादः नादात्मानन्दविग्रहः ॥ ८७
भगाह्लादेन मथनात् त्रिकभेदप्रभावतः ।
तिस्राख्यं कीर्त्यते तस्मात् स्वदेहे ब्रह्मरन्ध्रगम् ॥ ८८
विश्रामं परभावेन तदाकाशप्रभेदकम् ।
अपरं च परं योगं परापरविभागशः ॥ ८९
अवस्था जायते पश्चात् पञ्चत्यागपदे स्थिता ।
कोंकणस्य तु बिम्बस्य व्योम्नि गतं कदम्बकम् ॥ ९०
कदम्बगोलकान्तस्थं कोंकणं शिवसंस्थितं ।
ज्ञेयप्रकाशनार्थाय विज्ञानकुलपीठकम् ॥ ९१
आत्मस्थं सर्वभूतानां तस्माच्चोत्पद्यते मनः ।
मनोवाग् जायते तत्त्वे तत्त्वानन्दे प्रलीयते ॥ ९२
मथनादपि चित्तस्य ओंकारमनिलस्थितम् ।
अनिलेन यदा वह्निः प्रज्वलेत् परवासनाम् ॥ ९३
तदा तेजःप्रभावेण अर्कं जालं ज्वलालयम् ।
मनो मेढ्रे विलीनत्वात् शशांके ज्योतिरुद्भवः ॥ ९४
मथनात् सर्वकलाग्रासं यस्मादानन्दकौलिकम् ।
श्रवते यत् पराह्लादं रसं तत् कामरूपकम् ॥ ९५
रसं स्नेहप्रभावेण सात्त्विकं परवासनात् ।
स्मरणादपि चक्रस्य तिस्राख्यमर्धमात्रकम् ॥ ९६
अर्धमात्रा पराशक्तिः रुद्रशक्तिस्त्रिभेदतः ।
आत्मासंकोचनं भाति कोंकणं कुण्डगोलकम् ॥ ९७
षट् पीठाः षडिरानन्दाः पीठैकमपि षड्विधम् ।
षड्विधार्थप्रबोधेन चतुःपादविचारणात् ॥ ९८
षट् पीठाः सिद्धषट्कश्च पीठदेव्यश्च षड्विधाः ।
षट् मुद्राः षट्प्रकारं च षट् युगाः षट्कसंज्ञया ॥ ९९
षट् षट्त्रिंशभेदैस्तु षट्कज्ञानप्रकाशकम् ।
निर्णीय पीठसद्भावं कथितं भूमिकार्थतः ॥ १००
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्ष– पादाधिके आद्यपीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशतिसहस्रसंहितायां अम्बाक्रमभाषिते पीठभूमिका– विकारवर्णने क्रमोदयो नामानन्दः ॥ ६० ॥
Kumārikākhaṇḍa – Kapitel ६१
एकषष्टानन्दः
श्रीकौलीश उवाच
यदि तावत् षडिः पीठा भूमिकार्थे विशोधिताः ।
पीठदेव्यो विभूतिश्च स्वदेहे भूमिकार्थतः ॥ १
साम्प्रतं ब्रूहि मन्त्रज्ञे कथं पीठान्वयं भवेत् ।
श्रीवक्रा उवाच
पीठानां नायकी चैका भेदषट्के प्रकाशिनी ॥ २
सा चाद्वैतस्वरूपेण अद्वैतपदसुस्थिता ।
विलीना षडिपीठानां सन्ताने क्रमशोत्थिता ॥ ३
क्लिन्ना चैकाक्षरा योनिः सा च षट्सु प्रकारतः ।
एकाराकारनिचया भवेदाकाशसन्निभा ॥ ४
विहीना सुखदुःखानां खमध्यस्था खगेश्वरी ।
सा चाक्षरप्रभेदेन संकोचाकुलचन्द्रिका ॥ ५
कुब्जिका कमलाम्भस्य पीठोद्याने च देवता ।
क्लिन्नैका शावरी सा च तेजोवृद्धिः प्रकाशिनी ॥ ६
परतेजाभिलाषेण संचारं तपसा चरेत् ।
तपसा शावरी नाम सिद्धयोगविकासिनी ॥ ७
सिद्धयोगिनिविख्याता चामुण्डा कुलशावरी ।
नायकी जालपीठस्य पीठनायकिदेवता ॥ ८
व्यापिनी षडिपीठानां आकाशस्यात्मविग्रहा ।
कुलपर्वतराजस्य कुलकौलविभेदिका ॥ ९
शशांकाङ्कितशेषस्य आनन्दं शावरीगणम् ।
कोंकणांशकयोगिन्यः कोंकणा नाम देवता ॥ १०
देवता पूर्णपीठस्य शवरी चेति कोंकणा ।
क्लिन्ना किञ्जल्कमध्यस्था क्लिन्नस्थाने प्रभेदिनी ॥ ११
स्वासोच्छ्वासपरित्यागात् शवरीशक्तिलीलया ।
मथनादपि चक्रस्य मन्मथस्य रसो भवेत् ॥ १२
मङ्गला शावरी नन्दा कामरूपस्य देवता ।
देवता कामरूपा सा समा सा उदिता परा ॥ १३
बोधचिन्मात्ररूपेण शवरी समनोन्मना ।
मातंगस्थानवारे सा मदनाक्षरभूषिता ॥ १४
मदना सा समाख्याता मातङ्गसमया ह्यपि ।
पञ्चमस्य तु पीठस्य शावरीज्ञानजं तपः ॥ १५
साधिकारेश्वरी शक्तिः कलिस्यान्ते भविष्यति ।
समा सा सर्वयोगिन्या देवदेवी कुमारिका ॥ १६
सा च कोशलमध्यस्था चिञ्चिणीकुलकौशला ।
देवता कोंकणा शेषा कोंकणोज्ज्वलभूषिता ॥ १७
विक्षरन्ती च षट्कोणे षट्पीठे षडिदेवता ।
स्फुटीकृतमशेषस्य त्रिकोणं भूधरस्य च ॥ १८
भुवनादपि शुक्रस्य मथनाद् षडिदेवताः ।
स्थूलरूपाः षडिः पीठाः स्थूलदेव्यः षडुच्छृताः ॥ १९
निहिता मन्त्रनाथेन संवृतास्त्रिगुणैरपि ।
भावदाकाशलिङ्गस्य षडिशक्तिः षडात्मिका ॥ २०
सा तु षट्सु प्रकारेषु जाताजा मातृमण्डले ।
तदा भेदः स्वमन्त्रस्य स्वकायदमनादपि ॥ २१
पीठे पीठाधिकारस्य सूक्ष्मा अध्यात्मिका क्रिया ।
बिन्दुस्था घूर्मणी नाम अनामा ह्यपि चिन्मयी ॥ २२
बुद्धितत्त्वे पराकाशे कुब्जिका रुद्रदेवता ।
दक्षावर्तपराकाशे अपरार्कविशोधनी ॥ २३
निरोधस्थानमादाय शवरी ज्ञानदेवता ।
रुद्रज्ञानप्रभाव्याप्तिः शक्तिराद्या स्वयंभुवा ॥ २४
संपूर्णशशिमध्यस्था कोंकणा वामदेवता ।
वामदक्षिणसंयोगात् सा भाति शांकरी कला ॥ २५
उद्भवानन्दरूपेण मङ्गला नाम चिञ्चिणी ।
चतुःकीर्तिपरित्यागात् चतुर्मात्राक्षराणि च ॥ २६
विपरीतक्रियाशक्तिर्मातङ्गी त्रिस्वरूपतः ।
उदानप्रेरिता शक्तिः कुण्डली त्र्यक्षरोद्भवा ॥ २७
अनामाक्षरयोगेन कोंकणा कोंकणे गृहे ।
गृहषट्के षडिः पीठाः दिव्यशक्तिप्रभावतः ॥ २८
सबाह्याभ्यन्तरैकत्वे युक्तेरस्योपदेशिका ।
दिव्यौघमिदं पीठानां पीठौघं कुलषड्विधम् ॥ २९
गुरुवक्त्रं पराशक्तिं ज्ञात्वा पीठान् समर्चयेत् ।
सिद्धौघमपरं तेषां स्वाधिकारं तु षड्विधम् ॥ ३०
उघज्ञानप्रभाव्याप्तिं ज्ञात्वा सिद्धान्वयं भवेत् ।
श्रीसमुद्रतटान्तस्थं कौलीशं खामलम्बरम् ॥ ३१
स चोड्डीशो महासिद्धो भगानां स्वाधिकारकः ।
कुलपर्वतराजस्य वहेर्वै तत् विबोधनम् ॥ ३२
खमन्त्रो ज्ञानचर्या च जालाख्ये चर्यभैरवम् ।
भरितानन्दमध्यस्थं तरुणारुणपीठजम् ॥ ३३
शशांकेन धृतानन्दं पूर्णस्थं षष्ठभैरवम् ।
भुवनावलिमध्यस्थं मायया संपुटीकृतम् ॥ ३४
देव्या आज्ञाप्रभावेण अवस्थानन्दभैरवम् ।
समुद्रशैलमध्यस्था महाज्ञानपरिवृता ॥ ३५
मदनोन्मत्तमातङ्गी मातङ्गी शक्तिरव्यया ।
विमलज्ञानमध्यस्थं कोङ्कणं च क्रियात्मकम् ॥ ३६
भरणादपि चित्तस्य विमला शक्तिः कोंकणा ।
षट् सिद्धाः पीठषट्कं च पीठदेव्योऽथ भैरवाः ॥ ३७
भैरवाज्ञाप्रसादेन एकस्थानोदयात्मकाः ।
सिद्धक्रमविचारोद्यं ओघज्ञानक्रमोदयम् ॥ ३८
षड्विधार्थप्रयोगेन चिञ्चिणीनाथं षड्विधम् ।
खमध्यस्थं खकारैकं खत्रिकं खपरापरम् ॥ ३९
विज्ञाननिरतोडीशं वायुनाकाशपूरितम् ।
पूर्वाक्षरक्षकारेण त्रिमात्रपदपूरकम् ॥ ४०
चर्याकाशामृतव्याप्तिः चर्या चिञ्चिणिचेतनम् ।
ऊर्ध्वाधोमध्यगं प्राणं घटोदरविघट्टिनम् ॥ ४१
घण्टिकापर्वतः षष्ठो हृत्पद्मे तु विकासकः ।
अमृतमृतयोर्मध्ये यां मित्रामित्रकल्पना ॥ ४२
विकल्पक्षीणचित्तस्य सिद्धाख्या मदनोद्भवा ।
मत्तमातङ्गामध्ये मदनो जीवनांशकः ॥ ४३
वर्णग्रामप्रभेदेन यां व्याप्तिस्तन्मदाङ्गा ।
विलोमाद् निर्मलानन्दः कमलस्थं हुताशनम् ॥ ४४
विलीनं षट्पदान्तस्थं विमलं कूटसंपुटम् ।
षट्स्थाननिरतो योगी स्वाधिकारमनामृतम् ॥ ४५
षड्योगभरितात्मानं षट्सिद्धान्वयपीठेषु ।
सिद्धं सिद्धक्रमाचारं सिंहकसिंहिकोभयोः ॥ ४६
मथनादपि चक्रस्य तदा ज्ञानं च षड्विधम् ।
षड्विधं करणोपायं षड्विधं कुलनिर्णयम् ॥ ४७
षड्विधार्थप्रयोगात्मा षट्पीठमुपचर्यते ।
चर्याचरणकर्तृत्वं कर्तृत्वं परमात्मनः ॥ ४८
बहिर्भावगतात्मानं तदात्मानं च षड्विधम् ।
षडिषट्कं परा च्छाया षडिषट्कं परा कला ॥ ४९
विमलः कमलोऽनन्तः कमलामृतसंग्रहः ।
* * * * * सर्वोप ऐँकारमिति षड्विधम् ॥ ५०
सिद्धानन्दविकासज्ञः भुवनभूतिकुण्डलम् ।
कुण्डली च कपालं च विरामं च कपालकम् ॥ ५१
विभवानन्दकैलासं कैलासमुपदेशकम् ।
कूटान्तस्थं च कैलासं चतुर्भेदं क्रमादपि ॥ ५२
त्रिमात्रबिन्दुचक्रस्थं त्रिचक्रं च परापरम् ।
न दोषो विद्यते यस्मात् पीठानां सिद्धभैरवम् ॥ ५३
तदा चैका परा व्याप्तिर्व्यापकः परमः शिवः ।
तदा चन्द्रोदयौघं तु सूर्यस्यात्मनि संस्थितम् ॥ ५४
चन्द्रसूर्यनिपातेन चन्द्रिका च विजायते ।
चान्द्रकरणकर्तृत्वे स्वकाये करणादपि ॥ ५५
इन्द्रियज्ञानबोधेन तदा शम्भूपदेशकम् ।
एवं तच्चन्द्रपुर्यस्य पुरप्रकाररश्मयः ॥ ५६
विकासज्ञानमाणिक्यभरणाच्चन्द्रपुर्यकम् ।
स चैव प्रकृतानन्दः ऐँकारः कलनात्मनि ॥ ५७
हक्षस्था परमा कान्तिर्जगस्याप्यायकारिका ।
आप्यायं परमेशस्य शिवस्य कुलजीवनम् ॥ ५८
अर्धचन्द्रकला काचिद् अकारः सुरसत्तम ।
तया जीवं प्रवर्धेत कोंकणे कामरूपके ॥ ५९
वृक्षत्रयप्रभेदत्वाज्जीवाख्यं लभते नरः ।
एवं जीवपराशक्तिः प्राणापानादिपञ्चके ॥ ६०
प्राणस्य च अपानस्य समानं जायते पदम् ।
समानमयचन्द्रस्य सिद्धिं प्राप्नोति कौलिकीम् ॥ ६१
आकाशं परमं तिष्ठेत् सुशान्तमुपदेशकम् ।
ऊकारश्च उकारश्च चकारश्च तृतीयकः ॥ ६२
अर्धचन्द्रकलाज्योत्स्ना एकीभूतः परः शिवः ।
ई र इ व उकारश्च ऋ ऋ रि वं ऋ वन्तरा ॥ ६३
लृकारश्च लुकारश्च हकारश्चान्तमक्षयम् ।
ऊकारस्वरमेकत्र उरद्वयपुटीकृतम् ॥ ६४
चन्द्रोन्मीलननादाख्यं अकारस्वररञ्जितम् ।
आरुभरितरूपेण कुकुद्वयपुटीकृतम् ॥ ६५
अपुटं संपुटं कृत्वा उदयास्तमनावुभौ ।
पुटैककरणो रारि विराविः कल्पसंज्ञया ॥ ६६
रा रिरिरानन्दः रा रिवर्णस्तु षड्विधः ।
तदा शक्त्युद्भवानन्दं वैष्णवाख्यं त्रिभेदतः ॥ ६७
चिच्छक्तिप्रेरणाद् हंसो हंसोदरकुलक्रमम् ।
कुलं कौलकलान्तं तु विकालः कलनात्मकः ॥ ६८
कलनात् कालिका काली कालकंकालकौलिकी ।
उद्योत कुले कालं कालोज्झितमनाकुलम् ॥ ६९
कौलीशं कुलमध्यस्थं कौलीशं कुलवाचकम् ।
कपालं कलाभिर्युक्तं तदा काकीमुखा कला ॥ ७०
कालिकाकुलसिंहस्थः कालिकाशक्त्यलंकृतः ।
कृतकृत्यविभेदेन कालिकाक्रमपद्धतिः ॥ ७१
संकोचश्च विकासश्च प्रकाशः परमात्मनः ।
उल्लासचिन्मयज्योतिर्निष्क्रान्तमिति गोलकम् ॥ ७२
काकाकारो मकारश्च कुकाराक्षरडम्बरम् ।
आडम्बरं गणेशश्च गगनं च हकारराट् ॥ ७३
आटश्च मटहश्चैव ईटपति अनादिमम् ।
अन्तस्थं भवनाकाशं टकारश्चठकारयोः ॥ ७४
तदा सा शावरीशक्तिः शशांककृतशेखरा ।
महाचिन्मात्ररूपेण महाकाली प्रकाशिका ॥ ७५
उदयश्च कटाहश्च हटमध्यश्च वाट्योः ।
कटहविख्यटोपं विरामं कोंकणं गृहम् ॥ ७६
आढरूपकं माटं च पटलं पटलामृतम् ।
अत्रामृततरङ्गस्य अहिच्छत्रं परामृतम् ॥ ७७
अवतारोदयं ईशं ईशश्च मितिषोभयोः ।
चिकोपाटयमूलश्च अमृतश्चन्द्रपुर्यकम् ॥ ७८
चन्द्रचान्द्री परा छाया चन्द्रं चन्द्रार्धशेखरम् ।
अर्धशेखरगं नादं शिलाशेखरसंज्ञया ॥ ७९
रविचन्द्रकलाशेषं षोडशस्वरमण्डलम् ।
निर्मलगतिमारूढा परा सप्तादशी कला ॥ ८०
षट्त्यागात् सप्तमं स्थानं विश्रामं चाष्टमं लयम् ।
आलयं परमानन्दं अकारः शिवचिन्मयः ॥ ८१
तदा कालक्षया शक्तिः अमावास्या तथाम्बिका ।
हंसस्थाननिरोधेन हंसाख्या परमा कला ॥ ८२
हंसादिर्हंसमध्यस्था हंसिनी नाम देवता ।
परापरविभागेन पदानां शिवबोधकी ॥ ८३
मेरुमध्यगतं प्राणं प्राणमध्यगतः शशिः ।
शशेश्चान्तर्गतो भानुर्मेरुशक्तिविसर्गयोः ॥ ८४
विसर्गद्वयमध्यस्थं विसर्गमुदयात्मकम् ।
एकस्थं च विसर्गस्थं एकानेकं विसर्गयोः ॥ ८५
विसर्गातीतनादाख्यं निनादपदरूपधृक् ।
त्रिपदः षट्पदव्यापी तदा क्षुभ्यति कोंकणे ॥ ८६
कोंकणं कमलस्थं तु कमलादपि कोंकणम् ।
कोंकणं शशिनादाख्यं नादाख्यं कोंकणं शिवम् ॥ ८७
शिवमध्ये शिवो बिन्दुर्बिन्दुमध्ये शिवं च यत् ।
नादान्तं शिवमध्यस्थं तदन्तं शिवतेजसम् ॥ ८८
तेजस्यान्ते शिवानन्दः शिवः सूक्ष्मस्तु षड्विधः ।
षड्विधशक्तिसंयुक्तः शिवः शक्तिः परापरौ ॥ ८९
परापरपराकाशे परापरपदक्रमम् ।
क्रमाक्रमपरापूर्णो विहङ्गः प्राणशक्तिगः ॥ ९०
शक्तिमध्यगतस्तूष्णी तूष्णीमध्ये कदम्बकम् ।
कदम्बान्ते भवेद् बिल्वं बिल्वान्ते चित्तचिञ्चिणी ॥ ९१
चिञ्चिणी परमा शक्तिर्भगस्था तु भगात्मनि ।
अन्तःस्थं महिमानन्दं महिमाज्ञा कुलक्रमे ॥ ९२
महिमा च परा शक्तिः महिमा च अनामिका ।
मनना च मनाद्या च अनन्ता सा अनामिका ॥ ९३
अनामान्तर्गता ज्येष्ठा सा च भिन्नकलोदिता ।
स्वपक्षज्ञानकर्तारः पक्षापक्षविभेदकः ॥ ९४
अभेद्यभेदकानन्दः शिवो हंसप्रकाशकः ।
ज्ञात्वा पञ्चप्रकारौघं संकेतं सिंहकं स्मृतम् ॥ ९५
सिंहकं विपरीतस्थं ऐंकारं करणादपि ।??? विलोमादुद्भवेच्छ्रेयं निस्तरङ्गं तदा पदम् ॥ ९६
पदक्रमं पदोच्चारं विचारं समनावरम् ।
अमृतीशकलातत्त्वं सिंहत्वं च महाधिपः ॥ ९७
सर्वान्तपदमुद्धृत्वा विशेत् तत् परं पदम् ।
पदपिण्डाक्षरौघे तु पदपिण्डाक्षराक्षराः ॥ ९८
क्षराक्षरनिरोधेन सञ्चिन्त्यात्मपरिग्रहम् ।
तिष्ठाम्यहं तदा काये निरानन्दे निरौपमे ॥ ९९
तदा कुर्यात् त्रिधानन्दं त्र्यक्षरा त्रिपथा गतिः ।
त्रिविधागतिसंरूद्धा आकाशे गतिरागतिः ॥ १००
गतिमागतिं सञ्चिन्त्य बिम्बोपकरणात्मकम् ।
नित्यानन्दं परानन्दं आनन्दं भैरवात्मकम् ॥ १०१
त्र्यक्षरं त्रिपथातीतं त्र्यक्षरं च त्रिधागतम् ।
क्षरं सर्वमशेषस्य शृङ्गाटाक्षरमेलकम् ॥ १०२
कैलासे मेरुशृङ्गस्य मेरुशृङ्गाटभैरवः ।
मन्थानभैरवे यज्ञे अन्वये सप्तकोटिकम् ॥ १०३
अदिव्ये मानुषे लोके सिद्धं भूम्युपदेशकम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरषट्क– निर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्र– संहितायां अम्बाक्रमभाषिते सिद्धदेव्याभूमिकाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ६१ ॥
Kumārikākhaṇḍa – Kapitel ६२
द्विषष्टानन्दः
श्रीकौलीश उवाच
देवीनां चैव सिद्धानां भूमिकार्थ मया श्रुतम् ।
पञ्चरत्नस्य षट्कस्य पञ्चकत्रिकभूमिकाः ॥ १
कारुण्यात् ब्रूहि मन्त्रज्ञे कथं ज्ञानार्णवं भवेत् ।
श्रीवक्रा उवाच
पञ्चेन्द्रियगुणव्याप्तिः पञ्चरत्नोदयक्रिया ॥ २
क्रियायोगं समासेन पञ्चरत्नानि पञ्चसु ।
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ॥ ३
शिवकरणं चैकत्र चिरायुर्भवते तदा ।
पञ्चैतानि कलायुक्त्या पञ्चरत्नान्वितानि च ॥ ४
पञ्चमुद्राप्रयोगेण कारणं रत्नपञ्चकम् ।
रत्नैकं रत्नमध्यस्थं रत्नोदरपुटीकृतम् ॥ ५
रत्निकारत्नमासाद्य रत्नवज्जायते मनः ।
मनोरत्नं समैकत्वे स्थिरप्रकृतिबुद्धिमान् ॥ ६
तदा रत्नोदिताम्नायं ज्ञेयवृत्तिः प्रजायते ।
ज्ञानमध्यगतं ज्ञेयं व्याप्तिर्ज्ञेयान्तरे स्थिता ॥ ७
तदा पलितनिर्णाशं कल्पैकेन तु जायते ।
एवमाम्नाययोगेन पञ्चरत्नानि चाभ्यसेत् ॥ ८
विकल्पक्षीणचित्तस्य सिद्ध्यते तु रसायणम् ।
विकल्पमोहनाशे तु विकल्पस्त्वमने स्थितः ॥ ९
विकल्पस्य क्षयं कृत्वा तदा सिद्धिर्न संशयः ।
चान्द्रयोगमशेषात्मा प्रकृतिः स्वात्मपञ्जरम् ॥ १०
गुणत्रयनिरोधेन दृश्यते चन्द्रवत् पदम् ।
चान्द्रचारक्षयं लक्षं रविलक्षं परित्यजेत् ॥ ११
त्यजनादपि शुक्राभ्या परा व्याप्तिर्निगद्यते ।
परस्य परतत्त्वस्यापरतत्त्वं निराकृतम् ॥ १२
पराकाशे परो बिन्दुः पञ्चरत्नानि पञ्चकम् ।
तच्छक्तिपद्मगर्भस्थं त्रिकुलकुलवृक्षकम् ॥ १३
कुलवृक्षं च देवीनां ज्ञात्वा सिद्धो भवेन्नरः ।
भैरवं शक्तिगर्भस्थं त्रिकुलं षट्करोधितम् ॥ १४
गगनाकाशवत् तिष्ठेद् गगनं गगनोपमम् ।
गकारं गगनानन्दं गगनस्थं परामृतम् ॥ १५
सविसर्गं विसर्गस्थं समनाम्बाधिकारकम् ।
परापरपरा शक्तिः पद्मपत्राक्षराक्षरम् ॥ १६
अक्षरं च पकाराख्यं पवनाकृति चाक्षरम् ।
मकारं कालपर्यन्तं मकारं शक्तिविग्रहम् ॥ १७
आपूर्णं सर्वरत्नेषु मकारं च चतुर्थकम् ।
मकाराकाशमध्यस्थं स्वयं मातरविग्रहम् ॥ १८
कलैर्युक्तं नकाराख्यं नकाराख्यमिति ध्रुवम् ।
गसपमनरत्नान्ते लीयते च परे पदे ॥ १९
पदपञ्चकभेदत्वाज्जीवनं ब्रह्मग्रन्थ्यगम् ।
परे धाम्नि गतः शक्त्या शक्तिविकरणात्मकः ॥ २०
करणेन्द्रियकर्मस्य क्षयं कर्मस्य तत्क्षणात् ।
सटकः पटहश्चैव साटकः पटलस्तथा ॥ २१
संयोगमुभयोर्ज्ञात्वा चिरायुर्भवते तदा ।
असृकपात्रसरोजत्वं विरजज्ञानपर्वतः ॥ २२
कुलवृक्षं च देवीनां ज्ञात्वा सिद्धो भविष्यति ।
नर नार नगा चैका नर नारान्तकस्तथा ॥ २३
नरभावगतिं ज्ञात्वा तदा भावाभिषेचनम् ।
सेचनं चाभिषेकस्य पिण्डं क्षुभ्यति तत्क्षणात् ॥ २४
आकाशं विमलानन्दं समुद्रादभिषेचनः ।
विभवानन्दयोगेन तदा मुक्तो दिगम्बरः ॥ २५
भरणादपि रत्नस्य विरजस्य अभेदनम् ।
यावच्चोत्पद्यतेऽवस्था सा चाज्ञा रत्नपञ्चकम् ॥ २६
निराशीकृतचित्तस्य निरोधकरणाम्भसा ।
ज्ञात्वा रत्नोपदेशं तु रत्नाज्ञा सिद्ध्यते ध्रुवम् ॥ २७
रत्नैकं रत्नमध्यस्थं रत्नोदरपुटीकृतम् ।
रत्नाक्षरं तु कौलीश कौलिकं रत्नपञ्चकम् ॥ २८
एवमाद्यावतारं तु श्रीमच्चन्द्रपुरोद्धृतम् ।
आद्यं तव मया प्रोक्तं पञ्चरत्नं रसायणम् ॥ २९
रत्नोदरपरानन्दं विकासं चैव चिन्मयम् ।
मनोरत्नकलाढ्यं च रत्नमेकं परापरम् ॥ ३०
गुहान्तस्थं महारत्नं एकं षोडशधा स्थितम् ।
षोडशाक्षरभेदत्वाद् ऐँकारं रत्नमक्षयम् ॥ ३१
षोडशभिश्च संतिष्ठेद् भवभेदं मनोत्तरम् ।
योन्यार्णवं च ऐंकारं ईकाराक्षरभूषितम् ॥ ३२
कलियुगे स्थिताः सार्धं कुमुदस्थसुतेजसा ।
अ आ इ ई चतूरत्ना अग्रस्थाः कामरूपके ॥ ३३
उ ऊ ऋ ॠ च रत्नस्था दक्षस्था जालरूपगाः ।
त्रेतायुगसमुद्धृता दक्षकौमारभूषणाः ॥ ३४
लृ लॄ ए ऐ चतूरत्ना वामस्थाः पूर्णदेवताः ।
द्वापरयुगमासाद्य शेखराज्ञासमुन्नताः ॥ ३५
ओ औ अं अः चतूरत्ना मध्यस्थाश्च उडालये ।
कृते युगेऽक्षरा भान्ति खेचराज्ञा स्वयंप्रभा ॥ ३६
एवं षोडशधा रत्नाः कलारत्नानि षोडश ।
कथितास्तु क्रमात् सर्वे प्रधाना रत्नपञ्चकाः ॥ ३७
अकारं च इकारं च ए ऐ रत्नोदयेषु च ।
अःकारः पञ्चमो ह्येते पञ्चरत्नप्रदीपकाः ॥ ३८
चन्द्रपूर्यक्रमायाताः पञ्चैते पञ्चविंशतिः ।
उद्धृता दशभिर्भेदैर्ज्ञात्वा परपदं लभेत् ॥ ३९
साटकः पटकश्चैव सावकः पटहस्तथा ।
टटहः पटहानन्दं पञ्चरत्नोपदेशकम् ॥ ४०
अहिमध्यस्थितं रत्नं रत्नमध्यस्थितो रविः ।
तदा रत्नेश्वराख्यो हि विख्यातो वक्रिकामते ॥ ४१
कुम्भं कुम्भात् परं कुम्भं रविकुम्भाक्षरादिषु ।
आदिवर्गकलाः भेद्य पञ्चव्याप्तिः प्रवर्तते ॥ ४२
आवृत्तित्रिगुणावस्था वृत्तिः प्राणात्मिका भवेत् ।
भावनानन्दचैतन्यं रत्ननाथाधिकारकम् ॥ ४३
अरत्नस्य तरत्नस्य रत्नयोर्मणिपुद्गलम् ।
पुद्गलान्ते स्थिता रत्ना आनन्दं मणिरत्नकम् ॥ ४४
मणिरत्नोऽस्य रत्नस्य रत्नस्य मणिबन्धकम् ।
मणिरत्नप्रयोगेन रत्नयोगमुदाहृतम् ॥ ४५
रत्नस्य तु विचित्रस्य मणिरत्नप्रकाशकः ।
विपरीतक्रमादेव मणिरत्नं च काञ्चनम् ॥ ४६
काञ्चनं च हिरण्यस्य हिरण्यं ब्रह्मबीजकम् ।
ब्रह्मनाडीविभेदेन ब्रह्मजीवोपदेशकम् ॥ ४७
उपदेशोऽपवर्गस्य विरजस्य च गोलकम् ।
ब्रह्मांशकविशुद्धेन ब्रह्मवेधं सदोदितम् ॥ ४८
सदोदितचिदा भाति उन्मत्तब्रह्मचर्यकम् ।
ब्रह्मचर्यं च विमलं व्रतमेतच्च पञ्चकम् ॥ ४९
एवं ब्रह्माक्षराकाशं आकाशमिति पञ्चधा ।
पञ्चधात्मासमायुक्तं पञ्चात्मनः प्रकाशकम् ॥ ५०
आकाशं पञ्चधा भित्त्वा व्योम भित्त्वा तु पञ्चधा ।
पञ्चधाज्ञानमेकत्र पञ्चपञ्चोपदेशकम् ॥ ५१
पञ्चपञ्चात्मिका शक्तिः पञ्चपञ्चात्मिका क्रिया ।
पञ्चपञ्चकलाव्याप्तिः पञ्चरत्नानि चोच्चरेत् ॥ ५२
विसर्गस्थं यदा रत्नं तुर्यस्थं रत्नपञ्चकम् ।
मुद्रापञ्चकयोगेन अध्वानं रत्नपञ्चकम् ॥ ५३
नाडीरत्नत्रयं शोध्य एका नाडी विशिष्यते ।
शुद्धाशुद्धं पुरं कृत्वा विशुद्धिर्जायते तदा ॥ ५४
शिवीकरणचित्तस्य शिवा निःसंगता वपुः ।
स्थिरां पिण्डगतिं लब्ध्वा तदा वै ब्रह्मचर्यकम् ॥ ५५
व्रतं चर्या व्रतं शक्तिर्व्रतं चैकत्वतां गतम् ।
सुगतिविद्धचित्तस्य चैतल्लिङ्गगतिर्भवेत् ॥ ५६
एवं रत्नोपदेशं तु यत्रस्थं रत्नपञ्चकम् ।
एवं पञ्चोपदेशं तु वृक्षे तु पश्चिमे गृहे ॥ ५७
पश्चिमगृहनाथस्य वृक्षमूर्तिर्भगोदरे ।
भगस्योदरवृक्षं तु यत्रस्थं रत्नपञ्चकम् ॥ ५८
वृक्षान्तर्भावितानन्दो रत्नवृक्षं तदुच्यते ।
तदेयं पञ्चरत्नस्य कैलासोपरिसंस्थितम् ॥ ५९
एवं मन्त्रोदयौघं तु विख्यातं रत्नपञ्चकम् ।
एकानेकविभेदैस्तु गोत्रं तत् पञ्चरत्नकम् ॥ ६०
गोत्रलिङ्गं तदाकारं भेदैः षोडशभिः स्थितम् ।
पञ्चरत्नविभेदेन गोत्रममरिकाक्रमम् ॥ ६१
क्रमान्ते क्रममध्यस्थं पञ्चरत्नं शिवेच्छया ।
पराकाशप्रयोगेन तदानुष्ठानसंग्रहम् ॥ ६२
स्वकुलस्य अधिष्ठानं अधिष्ठानं च भैरवः ।
तच्च पञ्चप्रकारं तु पञ्चविंशात्मकं कुलम् ॥ ६३
कुलरत्नं कुलेशस्य कुलमार्गक्रमादपि ।
विचारं षड्विधं कृत्वा तदा ज्ञानोपदेशकम् ॥ ६४
दृढलक्षं स्मृतं ज्ञानं ज्ञानं च दृढलक्षणम् ।
लक्षलक्षणमध्यस्थं ज्ञानं तत्त्वस्वरूपतः ॥ ६५
कारणैकं मनो विद्वान् तूष्णीमध्यगतं मनः ।
तदा निर्वाणमायाति विभवानन्दकौलिकम् ॥ ६६
कौलीशस्य तु मध्यस्थं कमलाकृतिगोलकम् ।
स च वै कौलिकानन्दः सकलं तत् प्रगीयते ॥ ६७
सकलं निष्कले कृत्वा निष्कलं सकलात्मनि ।
तदा योगः प्रवर्तेत शान्तज्ञानोपदेशकः ॥ ६८
खर्परैकं कपाटं तु कपाटस्य तु खर्परम् ।
खर्परैकः परो भावः अन्ते व्याप्तिः स्फुटीकृता ॥ ६९
खर्परस्य खकारस्य उदितो वै शशिर्यदा ।
तदा सा शाम्भवीमूर्तिर्भावग्राह्या प्रपद्यते ॥ ७०
खकारस्य मकारं तु मकारस्य सकारकम् ।
सकारान्ते हकाराख्यं हकारान्ते विसर्गयोः ॥ ७१
पञ्चरत्नस्य पात्रेदं अष्टात्रिंशत्कलायुतम् ।
मुद्रापञ्चकसंपूर्णं शशिपात्रमुदाहृतम् ॥ ७२
आपूर्णगतिचित्तस्य मकारं संप्रयोजयेत् ।
अर्धचन्द्रपुरं कृत्वा वीरसिद्धिर्भवेत् तदा ॥ ७३
वीरवीरेन्द्रयोगीनां रत्नं रत्नाकरादपि ।
टकाराक्षरमध्यस्थं वीरशूलप्रकाशकम् ॥ ७४
अस्यैव रत्नपिण्डस्य सहजौजपदाङ्किताम् ।
कलां सप्तादशीं कृत्वा वीरपाशान् निकृन्तयेत् ॥ ७५
खकारं च फकारं च रकारतेजबृंहितम् ।
पञ्चपीठैश्च संभेद्य वह्निविषनियोजितम् ॥ ७६
कर्तरी सा समाख्याता पाशस्य त्रिविधस्य च ।
शोधनी देवता काली मर्मभेदपुरान्तिका ॥ ७७
कमलं कर्तरीशस्य विषस्य अमृतालयम् ।
प्रयोगेदं पुरा शोध्य अभक्षं भक्षयेत् तदा ॥ ७८
सुविलीनगतैर्भावैर्मुक्तोऽमुक्तो न संशयः ।
निःसंशयमति कृत्वा तदा कारणमादिशेत् ॥ ७९
षट्त्यागात् सप्तमे मुक्तिः पञ्चत्यागाद् जितो मनः ।
भवने नित्ययोगीनां रौद्री ज्ञात्वा पदं लभेत् ॥ ८०
आर्णवस्य अशेषस्य अमरिका परा क्रिया ।
सर्वद्वन्द्वपरित्यागात् हृदयं लभते नरः ॥ ८१
करवीरं करवीरं करवीरकरं तथा ।
विकरालं करालं च कराली पुनः कर्तरी ॥ ८२
उदयं संप्रदायं तु संवर्तं कर्तरीकरम् ।
कर्तरी मेरुमाला तु कपालं कर्तरीयुतम् ॥ ८३
कर्तृत्वे करणं ज्ञानं कार्यकारणयोगतः ।
तदा सा परमा शक्तिः संवर्तं करवीरकम् ॥ ८४
विपरीतस्य वृक्षस्य यदा जायेत कौलिकी ।
तदा उभयमेलापं रत्नानां च परस्परम् ॥ ८५
परस्परमनो माया पश्यते च गमागमम् ।
परापरप्रभेदस्य परापरपरस्य च ॥ ८६
एवं परस्परं ज्ञानं उदयास्तमनोभयोः ।
महदाकाशगा मूर्तिरपरपरमूर्तिमान् ॥ ८७
तदा ज्ञानशलाका च मूर्तामूर्ता ह्युभौ क्रमात् ।
गमूर्तश्च समूर्तश्च पमूर्तमनिलस्य तु ॥ ८८
ममूर्तमपरं तत्त्वं नमूर्तं पञ्चमं पदम् ।
मूर्तिपञ्चपुरैकत्वान्मथनादपि रश्मयः ॥ ८९
वर्तते च गुणावाप्तिः समुद्रादिव मन्थनात् ।
मन्त्रो मन्त्रोत्तरा मुद्रा मन्त्रमुद्रा च कर्णिका ॥ ९०
विकराला च मुद्राख्या प्रयोगं मन्थनात्मनः ।
विपरीतगतिज्ञानं विपरीतं च सिंहकम् ॥ ९१
विपरीतमनामा च विपरीतक्रमात् क्रमम् ।
तत्रैव चापरं ज्ञानं श्लोकानि द्वादशानि च ॥ ९२
श्मशानं वीरसिद्धानां चक्रमेलापकारणम् ।
कुर्यात् तन्मन्त्रमार्गे तु विद्यैका षट्सु भेदतः ॥ ९३
दीपकं पञ्चरत्नस्य पात्रस्य कमलस्य च ।
मुद्रा पञ्चशलाका या नाभिरेकाक्षरा भवेत् ॥ ९४
पञ्च कुर्याच्च आद्यन्ते पञ्चरत्नैश्च योजिताः ।
वीरवृत्तिस्तदा भाति वीरो वीरत्वमिच्छति ॥ ९५
वीरपञ्चकपञ्चानां पञ्च वीरा क्रमान्वये ।
अन्वयं पञ्चधा ज्ञात्वा वीरसिद्धिश्च पञ्चधा ॥ ९६
वीरमुद्रा तथा चैका वीरैका मुद्रमालिनी ।
भवच्छेदकरी माया षड्विधा ज्ञेया मालिनी ॥ ९७
मालिनी पञ्चकान्तस्था ऐँकाराक्षरदीपिता ।
षड्भिर्भेदक्रमं देव युग्मपञ्चविपर्ययात् ॥ ९८
कारणं पञ्चरत्नानां लिङ्गैकं षट्प्रभेदतः ।
मूलभूतं क्रमाचारं ज्ञात्वा पञ्चोपदेशकम् ॥ ९९
पञ्चपञ्चकमध्यस्थं पञ्च पञ्चाक्षराणि च ।
निरपेक्षः परो भावः दुर्विज्ञं रत्नपञ्चकम् ॥ १००
दुर्गमस्य उपायं तु कदम्बाख्यं विसर्गयोः ।
करणान्तर्गता शक्तिः शक्तिः कर्णान्तरे स्थिता ॥ १०१
शक्तिः कर्णं तथा मन्त्रं ज्ञात्वा तूष्णीशमाचरेत् ।
तूष्णीमध्यगतस्तूष्णी स च ऐँकारसंज्ञया ॥ १०२
पञ्चरत्नस्य विज्ञेयं ऐँकारं पञ्चरत्नकम् ।
भूमिका पञ्चरत्नस्य ओघज्ञानसुभास्वरा ॥ १०३
ज्ञात्वा मुक्तिर्न संदेहो इत्याज्ञा रत्नपञ्चके ।
इत्याद्यावतारे माहमन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यापीठावतारिते विद्यापीठमार्गे विमलषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे पञ्चरत्नभूमिकाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ६२ ॥
Kumārikākhaṇḍa – Kapitel ६३
त्रिषष्टानन्दः
श्रीवक्रा उवाच
भूमिकां ज्ञानषट्कस्य वक्ष्येऽहं शृणु साम्प्रतम् ।
योगिनीषडितत्त्वानां षडिः सप्तमकं तथा ॥ १
षडिः सप्तमिका विद्या षडिः सप्तमकं कुलम् ।
तेषां ज्ञानाधिकारं तु स्थितं कूटोपदेशतः ॥ २
षड्वर्णाक्षरमेकं च स्थितं चन्द्रपुरस्य च ।
चन्द्रबिम्बस्य राजस्य कुले जाता कुलेश्वरी ॥ ३
तच्छरीराद् विनिष्क्रान्ता गुहावासे कदम्बके ।
तत्रस्थाश्च षडिर्देव्यः स्वाभाविकपदाश्रिताः ॥ ४
सप्तधाज्ञात्मभेदस्य सप्तैताः कुलदेवताः ।
कुलपर्वतराजस्य मेरोर्दाता गिरौ हरः ॥ ५
हरानन्दे हरच्छाया संजाता षडिदेवता ।
गुहालयस्य बिम्बस्य गुहादेव्यश्च षट् स्थिताः ॥ ६
षडिपीठोपदेशेन सबीजकरणक्रिया ।
तदा शक्तिः षडिर्भेदैः सबीजस्थानगोचरा ॥ ७
विप्राः पूज्यन्ति सततं श्रीमच्चन्द्रपुरे गृहे ।
योन्येका रुद्रशक्तिश्च याक्षिणीनाम देवता ॥ ८
नायकी मन्त्रमार्गस्य तया क्रममधिष्ठितम् ।
अधिकारमशेषस्य सन्तानस्य विशेषतः ॥ ९
प्रथमान्वयमेतद्धि देवताः सप्त मातरः ।
आधारादि तु आज्ञान्तं गृहस्थानानि षड् विदुः ॥ १०
संस्थिता वाममार्गेण अनामा षडिदेवता ।
तेऽपि साकारभूताश्च इन्द्रियेषु सचेतसः ॥ ११
प्लवन्ति गगनाम्भोभिर्मातर्यो नात्र संशयः ।
तेषां च सारथी विद्या कर्तरी वामदेवता ॥ १२
तिष्ठते दक्षिणे द्वारे भगाह्लादेन दक्षिणा ।
डरलकसहया देव्यो मन्त्रस्याक्षरसप्तभिः ॥ १३
प्रथमान्वयविख्यातं आदि–आज्ञावतारितम् ।
सप्तमुद्रा गुहास्त्रीणि त्रीणि एकगुहालयम् ॥ १४
एवं गुहोपदेशं तु संवर्ते संप्रवर्तते ।
एतेषां मण्डले यागं षट्सु षट्सु प्रकारतः ॥ १५
संस्थितं मन्त्रमार्गेण घटस्फोटोपदेशकम् ।
डकारा चाम्बिकैका च एकाराक्षरत्रिक्रमा ॥ १६
एकारं सप्तभिर्भित्त्वा तदा निग्रहमाचरेत् ।
रकारा तेजसंभिन्ना हरमध्योदरा तथा ॥ १७
खसंज्ञाज्ञानमात्रा च षड्भिर्भेदक्रमात्मनि ।
लकारा चलमध्यस्था लत्रिका पञ्चभेदिता ॥ १८
नियोगज्ञानमेकत्र लकारे स्वाधिकारिका ।
ककारा च ककारान्ते कद्वये संपुटीकृता ॥ १९
कमध्यस्था खरूपस्य काकाकारात्मकाकिनी ।
शाकिनी शशिमध्यस्था शकारोदरभूषिता ॥ २०
क्षुद्रकर्मप्रभावेन शकारान्तरशाकिनी ।
हाकिनी हंसमध्यस्था हंसहंसचतुष्टये ॥ २१
विग्रहं च वियोगस्य हाकिनी व्योममध्यतः ।
याकिनी जन्ममध्यस्था कुलषट्कविभेदिता ॥ २२
कल्लोलनाडिदमना याकिनी परमेश्वरी ।
सप्तसप्तकभेदेन सप्तसप्तपुराज्ञया ॥ २३
सप्तकूटाः क्रमात् सप्त सप्तसप्ताष्टमं पदम् ।
अष्टमं च पदं नाम पदमष्टाक्षराणि च ॥ २४
वियोगादपि सिद्ध्यन्ते समुद्रादपि सप्तभिः ।
सप्तभिश्च स्वरा जाता रुद्राः सप्तकसप्तभिः ॥ २५
सप्तभिश्चौघसंकेतं सप्तसप्तकुलक्रमम् ।
सप्तोद्यता समुद्द्योताः सप्तमस्वरसंज्ञया ॥ २६
हृदयं सप्तदेवीनां हृदयं पञ्चभिर्युतम् ।
हृदयं सप्तधा भिन्नं सप्तभिन्नकुलस्य च ॥ २७
अकुलस्य अभिन्नाख्या मुद्रा कापालिनी भवेत् ।
सप्तमस्य कपालं तु कपालस्य तु सप्तमम् ॥ २८
सप्तमाज्ञा शिवोऽनन्तः कपालं सप्तधा गतम् ।
डकारस्य कपालस्य कर्कटीनामदेवता ॥ २९
विप्रयोगेन बलवान् कपालं डादिभेदितम् ।
डादिगं डादिमध्यस्थं उकारत्रयपञ्चभिः ॥ ३०
पञ्चाभिज्ञानबोधेन डकारं षट्प्रकारतः ।
रकारस्य कपालस्य हाटकी नाम राक्षसी ॥ ३१
महामेलापके युद्धे रकपालं रकत्रयम् ।
रकत्रयरकारादि रविरत्नकपालयोः ॥ ३२
विकपालकपालस्य कपालराक्षरं पदम् ।
लकारस्य कपालस्य लम्पटा नाम यक्षिणी ॥ ३३
तस्यान्तपुरशब्देन लकारद्वय त्रीणि च ।
वलामेकल लकेमोभौ ललीलाकपालकम् ॥ ३४
करालामलकं लक्षं लकपालं पराक्षरम् ।
ककारस्य कपालस्य कर्परी नाम गुह्यका ॥ ३५
समयाचारचक्रे च काक्रान्ताकारमागता ।
ककाराकारकाकारं ककारं कस्थकर्परम् ॥ ३६
काली कंकालकालस्य कपालामृतभैरवम् ।
शकारस्य कपालस्य शवरी दैत्ययोनिजा ॥ ३७
संग्रामे रुधिरं पीत्वा कर्दमं च कपालकम् ।
कर्दमं पुनः संग्रामं सकारत्रयरेफयोः ॥ ३८
अररेफखकारं तु खकारस्थं कपालकम् ।
हकारस्य कपालस्य हटदूती च देवता ॥ ३९
निशाचारप्रयोगेन हकारत्वे कपालयोः ।
हटनी सा कपालस्य हाक्षरज्ञानपञ्चकम् ॥ ४०
हकाराक्षरटकस्य हट्टसंज्ञाकपालकम् ।
यकारस्य कपालस्य विरजामूर्तिमक्षरम् ॥ ४१
तच्च षट्सु प्रकारेण त्रिशूलाख्यं कपालकम् ।
त्रिशूलस्य तु यच्छूलं त्रिशूलं शूलयोः क्रमात् ॥ ४२
रजोमध्ये पुरं भित्त्वा त्रिशूलं तु कपालकम् ।
सप्त देव्यः कपालं तु कपालं सप्तधा गतम् ॥ ४३
एका तु सप्तधा भेदैः सप्तभिः सप्त संस्थिताः ।
सप्तसप्तकलाग्रासं सप्तज्ञानशलाकया ॥ ४४
सप्तसप्तोपदेशं तु ज्ञात्वा सप्तकुलात्मकम् ।
सप्ताक्षरकुलाम्नायं समुद्राम्नायमध्यगम् ॥ ४५
पिण्डाम्नायमशेषस्य पीठानां सप्त देवताः ।
देवतानां च कूटस्था बीजानां प्रणवादिषु ॥ ४६
विद्यैका भेदकी शक्तिः सर्वग्रासा महाद्भुता ।
ग्रासमध्यगतं ग्रासं ग्रासकूटमनेकधा ॥ ४७
एका सा सप्तभिर्भिन्ना ग्रासीकरणवल्लभा ।
करणाज्ञा परा व्याप्तिर्व्याप्तिः करणदृक्क्रिया ॥ ४८
करणज्ञानकर्तृत्वे करणं मलनिग्रहम् ।
निर्मलीकरणैकत्वे गुहानां गुहदेवता ॥ ४९
गुह्यगुहाप्रकाशेन गुहैका पारमेश्वरी ।
गुहानन्दः कलानन्दः आनन्दौघो हि आज्ञया ॥ ५०
विज्ञानममृतं कालः कलाविज्ञानसप्तभिः ।
देव्यः सप्त कलाः सप्त गृहाः सप्त शलाकया ॥ ५१
तेषां बोधविकासेन विकासः सप्तमे पदे ।
विकासं सप्तधानन्दं विकासास्वादरश्मयः ॥ ५२
रश्मयौघकला ह्यष्टौ अष्टावेका परा कला ।
कलाविकलविज्ञानं कलनज्ञानसागरम् ॥ ५३
सागरान्तर्गता शक्तिर्महाशक्तिः षडिः स्मृता ।
षडिः षट्कं षडिः पञ्च षडिः पञ्चविधा कला ॥ ५४
षड्यार्णवा षडिर्मात्रा षड्भिर्मात्रोपदेशकम् ।
शिवाज्ञा शिवमध्यस्था शिवविज्ञानभूमिका ॥ ५५
शिवतन्तुकलात्मा स शिवः षट्त्रिंशदेवता ।
षडिः षट्त्रिंशभेदानि मुद्रा षट्त्रिंशभेदिता ॥ ५६
व्याप्तितत्त्वं षडात्मानं बोधषट्कविकासकम् ।
घटमध्यस्थिता मुद्रा सा च सप्त प्रकारतः ॥ ५७
त्रिप्रकाराक्षरव्याप्तिर्मुद्रैका व्यापयेज्जगत् ।
जगद्व्याप्तिकरी विद्या षोडशस्वरदीपिता ॥ ५८
विज्ञाने चेच्छया शक्तिः शक्तिभेदस्त्रिभेदतः ।
त्रिषु सा त्रिविधा शक्तिस्त्रिगुणाक्षरदीपिता ॥ ५९
त्रीणि भावा विकासेऽपि विकासानन्दभैरवी ।
वीरमार्गेण ये वीरा मातृचक्रसमुद्भवाः ॥ ६०
द्वीपसिद्धा द्वीपमुद्राः षट्कस्य प्रथमं कुलम् ।
कुलक्रमं च विद्या च कुलक्रमत्रयान्वयम् ॥ ६१
आम्नाये भैरवानन्दश्चक्रस्थो मातृमध्यगः ।
मातॄणां मध्यमा माता मातृविद्या च खिङ्खिणी ॥ ६२
खिङ्खिणी षड्विधा भेदैर्मुद्रैषा कामरूपिणी ।
मातृचक्रस्य चक्रस्य मातॄणां रतिशेखरम् ॥ ६३
शेखरान्ते च कैलासं कैलासे मातृमण्डलम् ।
मातरीणां च मेलापं भवत्योद्यानपीठके ॥ ६४
तत्रस्थाः कामयेद् देव्या भेदव्याः सप्त मातरः ।
मातरीणां च सर्वासां योगिन्यष्टशलाकया ॥ ६५
मण्डले भेदका शक्तिः शक्तिर्विद्या च कौलिकी ।
कौलिकी कुलमध्यस्था कौलज्ञानविकासकी ॥ ६६
सा चोदयप्रभेदेन जायते परवासना ।
वासनान्ते मनोमाया मायान्तेन पुटीकृता ॥ ६७
एकीभूतप्रकारेण वासनान्ते मनोन्मना ।
प्रकारोऽयं समाख्यातः प्रकारः षट्स्वरूपतः ॥ ६८
एवं च षड्विधो ह्यात्मा गुणत्रयनिरोधितः ।
निरोधनी तदा शक्तिर्डकाराम्बा व्यवस्थिता ॥ ६९
आहोरात्रगतिर्माया घण्टवत् तिष्ठते सदा ।
तदा घण्टालका शक्तिः रकारादिः प्रकीर्तिता ॥ ७०
उदयास्तमनैकत्वे शकारा सा च शांकरी ।
तदा षट्कौशिका शक्तिर्लकारादिव्यवस्थिता ॥ ७१
उभयोः परमानन्दा गतिरागतिभेदकी ।
तदा सा भेदकी शक्तिः ककारादिव्यवस्थिता ॥ ७२
बोधिनी षडिमुद्रायाः षडात्मानन्दविग्रहा ।
तदा सानन्दकौमारी प्रकारादिविभञ्जनी ॥ ७३
गुदमेढ्रान्तरे प्राणः प्राणान्ते भैरवोदयः ।
तदा चोद्घाटनी नाम हकारादिषु व्यापिका ॥ ७४
व्यापकान्ते मनो यच्च या च माया त्रिधा भवेत् ।
तदा सा त्रिगुणा रौद्री यकारादिव्यवस्थिता ॥ ७५
भगमध्ये भगाशक्तिर्भगमध्ये भगाकृतिः ।
भगानन्दोद्भवा शक्तिर्भगविग्रहव्यापिनी ॥ ७६
व्याप्तिभावः कलाव्याप्तिर्व्याप्तिः खे च त्रिधा भवेत् ।
त्रिधा च पञ्चधा मार्गे तदा मार्गविकासिनी ॥ ७७
मार्गं षट्कोणभुवनं मार्गं षट्कोणगोलकम् ।
मठमध्ये डकाराख्या डामर्या क्षेत्रपार्वती ॥ ७८
पर्वतोदरमध्यस्था अध्वशृङ्गाटभञ्जनी ।
विभज्य भगमात्मानं मनसः क्षोभकारकम् ॥ ७९
सिंहकारणकर्तृत्वे कर्तृत्वे सिंहकद्वयम् ।
द्वयं द्वयं विभागेन लकारपुरविग्रहम् ॥ ८०
लकारान्ते यदात्मानं निरासपदमुज्झितम् ।
या शक्तिरुदितानन्दा सकारं शिलशेखरम् ॥ ८१
शिलाशेखरयोर्मध्ये या च रण्डा ह्यधोमुखी ।
सिंहकं विपरीतेन सकारं सिंहसंज्ञया ॥ ८२
या शक्तिः पद्मगर्भस्था हंसिनी योगदेवता ।
योगात्मनो विपाकस्य आज्ञाक्षरं हकारकम् ॥ ८३
यकारान्तर्गता शक्तिर्हंसमध्योदरं भगम् ।
भगवद् मेरुगात्मानं यकारं भगवच्छिवम् ॥ ८४
एवं क्लिन्नात्मिका शक्तिः सृष्ट्यार्थे पञ्चधा गता ।
गमागमविभेदज्ञा रौद्री देवी तथा भवेत् ॥ ८५
या च रौद्री भवेन्माया सा वामामृतसुष्मना ।
सुषुम्ना सा स्मृता ज्येष्ठा ज्येष्ठास्थानप्रभञ्जनी ॥ ८६
भञ्जनी नाम उद्दिष्टा भगवर्णे व्यवस्थिता ।
रजोमध्ये विलीनत्वात् रजःशक्तिर्निपातनी ॥ ८७
निपातस्य तु चोत्पातं विद्योत्तमेन सिद्ध्यति ।
षडारपद्मपत्रस्थाः षट्पत्राः षडिदेवताः ॥ ८८
मात्रान्ते यत् परं पत्रं तत्पत्रं वाडवीमुखम् ।
तदा तुष्टिः स्मृतो योगः योगी स्मरति भैरवम् ॥ ८९
भैरवस्य तु पीठस्य या मूर्तिर्वीरविक्रमा ।
वीरचर्यानियोगेन वीरोऽमलः स्थितोऽनघ ॥ ९०
उत्थानं कौलिकी शक्तिः सा च ऊकारसंज्ञया ।
एकारे मध्यमा ज्ञेया ए–ऊ–वर्णात्मिका क्रिया ॥ ९१
ए–ऊ–ऊर्ध्वगता तिस्रे रेफात्मानं पुटीकृतम् ।
परमध्यगतांकारं ऊकारं शक्तिः सप्तधा ॥ ९२
सप्तधा योजयेद् योगं सप्तानां भुवनाकृतिः ।
आकृतिविकृतिः सप्त तदा तत् खेचरं पदम् ॥ ९३
खमध्ये च खगीशस्य खगीशस्थं च मण्डलम् ।
स्थानं च संपुटं तस्य ज्ञात्वा वै शाश्वतं पदम् ॥ ९४
चित्तवृत्तिनिरोधस्य यकारो यत्र तिष्ठति ।
विद्धशक्तिप्रभावेण सा शक्ति ऋजु जायते ॥ ९५
तदा चोत्पद्यतेऽवस्था धुननावेशकम्पनम् ।
चलनं च पदव्याप्तिरवस्था चेति पञ्चधा ॥ ९६
अवस्था प्रत्ययोत्पत्तिः उत्पत्तिरिति पञ्चधा ।
यकारे प्रेरणस्थानं तदा क्षुभ्यति कौलिकम् ॥ ९७
कौलीशं बिन्दुनादाख्यं नादबिन्दुविसर्गयोः ।
तस्यापि शक्तिबीजं तु बीजशक्तिस्त्रिधा भवेत् ॥ ९८
त्रिधा देवमशेषस्य ठकारं यस्तु पश्यति ।
कलाशेषविलीनत्वात् तदा हंसगतिर्भवेत् ॥ ९९
भुवनस्य तु हंसस्य उदरे प्रथमा कला ।
सा च चण्डा अमा नाम उमा बोधप्रकाशिनी ॥ १००
संबोधनं तु कौलस्य उदये षट्सु देवता ।
देवता च गुहाम्नाये सापि षट्सु प्रकारतः ॥ १०१
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अम्बाक्रमभाषिते आज्ञाषट्कभूमिकारवर्णने क्रमोदयो नामानन्दः ॥ ६३ ॥
Kumārikākhaṇḍa – Kapitel ६४
चतुःषष्टानन्दः
श्रीवक्रा उवाच
विमलस्य अशेषस्य पञ्चकस्य त्रिकस्य च ।
भूमिकासंप्रदायोऽयं अधुना संप्रगीयते ॥ १
विमलानां तु विश्रामं आक्रान्तकरणालयम् ।
आलयं विमलात्मानं विमलं पञ्चधा स्मृतम् ॥ २
तेषां च विमला शक्तिः भेदं विमलसंज्ञया ।
संज्ञाविमलभेदेन विमलं मण्डलक्रमम् ॥ ३
विमलं मण्डलं नाम विमलवृक्षसंज्ञया ।
पञ्चभेदप्रकारेण तदा विमलरूपिणी ॥ ४
विमलं पञ्चधा भिन्नं भिन्ना शक्तिस्तु पञ्चधा ।
परमात्मा द्विभिर्भेदैर्भगानां विधिविग्रहे ॥ ५
आसीदनाद्यनन्तानां अनादिविमलाज्ञया ।
आज्ञापञ्चकभेदेन विमलं पञ्च उदीरितम् ॥ ६
ससंज्ञाविमलात्मानं सर्वज्ञं शशिशेखरम् ।
शेखरं सर्वमात्मानं आत्मानं सर्वसंज्ञया ॥ ७
सर्वसंहारवेत्ता यो ज्ञानरश्मिप्रकाशकः ।
प्रकाशो निर्मलानन्द एकपादः शिखिध्वजः ॥ ८
शिखिध्वजध्वजा शक्तिः अहिच्छत्रध्वजामृतम् ।
पताकाध्वजमध्यस्थः प्रजानां अमरात्मकः ॥ ९
ध्वजमध्ये ध्वजा शक्तिः सा च रौद्री मनोन्मना ।
उन्मना पञ्चभेदैस्तु सर्वज्ञेति च संज्ञया ॥ १०
शिखिश्चन्द्रकलाज्योतिः ज्योतिः शिखरशेखरम् ।
शेखरे शेखरानन्दः शिखरं पञ्चधा गतम् ॥ ११
शिखरे पञ्चधा व्याप्तिः अध्वरं शिखरालयम् ।
आलयं मलयाकारं मलयात्मकपञ्चकम् ॥ १२
पञ्चकात्मानुभूतार्थं विभूतिः शिवशासनम् ।
शासनं पुष्कलानन्तं विकलाक्षीणवर्जितः ॥ १३
विरामो रमणानन्दो सर्वदा निर्भयः शुभः ।
शासनं वेधनत्यागात् विबुद्धः करणेन्द्रियः ॥ १४
आत्मानवेन शृङ्गस्य आरामं कल्पसागरम् ।
सागरस्य मनः सेतुरावलीसेतुबन्धकः ॥ १५
पञ्चत्रयप्रयोगेण संयोगनिधनोभयोः ।
विभवानन्दसारस्य तदासौ पञ्चकं भवेत् ॥ १६
पशुशृण्ङ्गत्रये लक्षं अलक्षं विरजो रजः ।
आप्यायनमशेषस्य विमलं पञ्चरात्रिकम् ॥ १७
विमलं पञ्चरात्रस्य पञ्जरं पञ्चरात्रिकम् ।
त्रिरात्रिचतुःपदाकाशं तदावृतोऽभिजायते ॥ १८
स्वमन्त्रज्ञानदेहस्थं रसनावलिसंज्ञया ।
एवं बन्धतमा शक्तिः दुर्विज्ञा त्रिवलीबलात् ॥ १९
विलीना सर्वसत्त्वानां मन्त्राणाममितौजसाम् ।
एका योनिः कुलेच्छा या विमलभेदसंज्ञया ॥ २०
कूटाः पञ्च कलाः पञ्च बीजपञ्चाक्षराणि वै ।
संयोगमुपचर्यायां अनादिरिति पञ्चकम् ॥ २१
पञ्चपञ्चकपञ्चानां पञ्चपञ्चकलावुभौ ।
विज्ञेयं मन्त्रसद्भावं दृढपक्षकरं तु यत् ॥ २२
आधारः सर्ववर्णानां देहिनामालयोद्धृतः ।
उद्धृतं ज्ञानषट्कस्य पञ्चपञ्चकभेदतः ॥ २३
अभेद्यभेदको देवः भेदभेदकशक्त्ययोः ।
परानन्दं क्रियानन्दमानन्दं पञ्चधागतम् ॥ २४
अधरा नादिफान्तश्च अन्तरश्चतुरः पदः ।
पदत्रयसमैकत्वे पदवृक्षं त्रयात्मकम् ॥ २५
तूष्णिमेकाक्षराकाशं विकासं शिखराजितम् ।
तत्रस्था विमलाशक्तिर्जडानुक्षोभकरी स्मृता ॥ २६
एवं तूष्णिः परं पिण्डं पिण्डमेकाक्षराक्षरम् ।
विहङ्गं पक्षमध्यस्थं हत्रिकं तूष्णिमण्डलम् ॥ २७
एवं संक्षेपतोद्देशं हकारत्रयपञ्चकम् ।
षडिः सप्ताष्टनवभिर्नवाष्टादशभेदतः ॥ २८
विपरीतक्रिया यत्र विपरीतपदात् पदम् ।
पदाः पदाक्षराः पञ्च पदमेकाक्षराक्षरम् ॥ २९
अक्षरैकं च जीवं तं विसर्गकलयायुतम् ।
अजितं परमं बीजं अन्तिमं आदिपञ्चकम् ॥ ३०
आदिपञ्चकनिर्मुक्तं मध्ये पञ्चविभूषितम् ।
अन्तपञ्चकपञ्चस्थं पञ्चविंशाक्षरं पदम् ॥ ३१
पदपञ्चक्रमाचारं वामाचारं च दक्षिणम् ।
दक्षिणं पश्चिमाचारं पश्चिमं सर्वतो लयम् ॥ ३२
लयालयमथैकत्वात् दुर्विज्ञमुच्यते पदम् ।
सर्वं पञ्चप्रकारेण पश्चिमं पञ्चधा गतम् ॥ ३३
पञ्च वै पञ्चधा पिण्डं दक्षिणं पञ्चधा गतम् ।
पञ्चधा पूर्वकं पिण्डं पिण्डकं च चतुर्विधम् ॥ ३४
चर्तुर्धा कथितं मार्गं सिद्धमार्गं चतुर्विधम् ।
चतुर्धाज्ञाविकासेन स्वभावानन्दकौलिकम् ॥ ३५
कुलकौलकुलानन्दं कुलमातङ्गभैरवम् ।
आर्णवं सर्वभूतानां महोद्याणं च व्यापकम् ॥ ३६
तत्रस्थं यत् स्वयं वृक्षं शाखापञ्चकभेदितम् ।
नादबिन्दुप्रयोगेण संजातं शक्तिपञ्चकम् ॥ ३७
अन्वयं प्रथमं ज्ञानं प्रत्ययं पञ्चधा गतम् ।
स्थितं पञ्चप्रकारैस्तु ज्ञात्वाज्ञा भवते क्षणात् ॥ ३८
अनादिशिलमध्ये तु वृक्षं मध्ये कदम्बकम् ।
गुहा कदम्बिनी मुक्तिर्देवता पञ्चधा गता ॥ ३९
अनादिविमला शुद्धा सा च एकारसंज्ञया ।
शृङ्गाटाग्रे च संजाता उत्तीर्णा हिमवद्गिरौ ॥ ४०
सर्वज्ञा गिरिमध्यस्था उ–ऊकारविघट्टिनी ।
कूर्मसंकेतके देव जाता सा जालरूपता ॥ ४१
आमूला योगदेवी च परदेहाश्रयासना ।
पूर्णोत्तरविलीनत्वाद् विमला योगदेवता ॥ ४२
सिद्धलिङ्गाक्षराकाशे शृङ्गाटाक्षरभैरवी ।
शवरी सिद्धलिङ्गानां ब्रह्मग्रन्थिः परे पदे ॥ ४३
शमने यत् परानन्दं विकासे चिञ्चिणीपदम् ।
जायते चम्पका देवी ओंकारस्था प्रसिद्धये ॥ ४४
पञ्चक्षेत्रक्रमे देवी पञ्चपीठविशोधनात् ।
शिवानन्देन मनसा तदा विमलपञ्चकम् ॥ ४५
सर्वस्था किङ्किणीमुद्रा करवीराक्षरो भवेत् ।
अनेकाकारवर्णैस्तु त्रिकमेकारसंज्ञया ॥ ४६
खशिरं च खकारं च हशिरं च हकारकम् ।
रशिरं च हकाराद्यं जशिरं च जकारकम् ॥ ४७
व्यापकं अशिरानन्दं पञ्चसंकेतपञ्चकम् ।
पञ्चकं च पुरा ज्ञात्वा विमलं जायते क्षणात् ॥ ४८
शिलैका कामरूपस्य शिला पञ्चाक्षरा शिवा ।
अक्षराणि पदाः पञ्च पदाः पञ्चशिलायुताः ॥ ४९
जन्मनी जन्ममध्यस्था शिला शक्तिर्विभेदकी ।
एकारकरणा कान्तिः सा शिला ब्रह्मवर्चसा ॥ ५०
जन्मोत्पत्तिस्तदा जाता जन्मशृङ्गाटकाक्षरे ।
पश्चिमस्य तु पीठस्य शिला जन्मशिला भवेत् ॥ ५१
सप्तजन्मक्षये प्राप्ते सा शिला लभ्यते भव ।
यत्रस्था पञ्चधा शक्तिः सानन्दो मातृमण्डले ॥ ५२
ज्ञानं ज्ञेयमशेषस्य मन्त्रमञ्जूषकस्य च ।
शिला सा प्रथमा प्रोक्ता देवतेयं च योगिनी ॥ ५३
जन्मब्रह्मशिला ह्येका वृक्षषट्कसमन्विता ।
कृत्वा मथनकर्म तु पञ्चावस्था प्रजायते ॥ ५४
महेन्द्रस्य हरेन्द्रस्य खगेन्द्रस्य वल्लीं लभेत् ।
स चैव त्रिविधोपायः त्रिकभेदः पुनर्भवेत् ॥ ५५
अशेषं चित्कलाजालं षोडशस्वरमण्डलम् ।
तत्रस्थाश्च त्रयो वर्णास्त्रिकस्येदं तु निर्णयम् ॥ ५६
अकारमध्य आकारं इकारं गुणवासरम् ।
सुरतात्मानियोगेन अकारं परमार्णवम् ॥ ५७
सकारमध्य ईकारं उकारं त्रीणि रश्मयः ।
मध्यमं पदविन्यासं सकारं शक्तिगोचरम् ॥ ५८
कुकारं मध्य ऊकारं त्रिगुणीकृतवाग्भवम् ।
अव्यक्तं तं परं लिङ्गं अशिरं व्याप्तिगोचरम् ॥ ५९
त्रिदशैर्भेदितं चक्रं तं चक्रं बिन्दुनिर्णयम् ।
संपूर्णकलया युक्तं वीरराशित्रिराशिकम् ॥ ६०
त्रिकण्टकाक्षरास्त्रीणि त्रिकण्टाकण्टकानि च ।
कटंर रकटाटश्च ठरयुश्च त्रिकण्टकम् ॥ ६१
त्रिकसंकेतकाख्यातं समुद्रादपि चोद्धृतम् ।
उद्धृतं वाममार्गेण चकारं त्रिगुणी भवेत् ॥ ६२
चकारस्य तु एकारं एकारान्ते द्वितीयकम् ।
द्विदीर्घकलितानन्दं तदा सिद्धिस्त्रिके भवेत् ॥ ६३
एकोऽपि त्रिगुणीकृत्वा त्रैगुण्यैककुलं यदा ।
तदा सा भैरवीमूर्तिः अद्वैतकरणादपि ॥ ६४
अद्वैतं च शिलानाथं साक्षाद् डामरभैरवम् ।
स बीजं प्राणिनां सर्वं देहमेकं ह्यनन्तकम् ॥ ६५
अनन्तं स्थिरबीजस्य निष्कलं चित्तचेतनम् ।
निरंशो सिंहको व्यापी सिंहबिम्बं परापरम् ॥ ६६
परापरस्य बीजस्य विरजस्य प्रभास्वता ।
आनन्दप्रसरौघं तु कुमारं तत् परापरम् ॥ ६७
परस्य अपरस्येच्छा इच्छाबीजं परापरम् ।
त्रिभिर्भावगतो योगी विन्दते च त्रिकण्टकम् ॥ ६८
पुनरेव शिलानाथं यत् प्रोक्तं ब्रह्मणः पदम् ।
तत् च प्रकृतिभूतस्थं ब्रह्माक्षरमशेषतः ॥ ६९
सुदूरस्थं यथा तोयं कर्षेच्छक्तिमृनालकम् ।
लसत्विद्युल्लताकारं लाकुलं विष्णुदेवता ॥ ७०
वह्निर्मध्यगतो विष्णुर्बीजाख्यं नभभास्करम् ।
भानुमध्यगतं सूक्ष्मं तदा रुद्रो दिगम्बरः ॥ ७१
आडम्बरपरित्यागात् मध्यस्थस्त्रिविधात्मनि ।
त्रिकयोगः क्रमाचारं पश्चिमं वामरूपतः ॥ ७२
वामं वामे च वामान्तं वामान्तरपुटीकृतम् ।
पूटद्वयं स्फुटं ज्ञात्वा ज्ञेयमार्गः प्रजायते ॥ ७३
प्रजापतिकुलेशस्य अंकुरं वह्निगोलकम् ।
गोलकाक्षरशब्दस्य सकारः शान्तरूपतः ॥ ७४
मनमेकाग्रतः कृत्वा बुद्धिः स्थिरा विलीनगा ।
तदार्णवं कुलीनानां कुलविज्ञानकौलिकम् ॥ ७५
अमरं चामरेशश्च अमरज्ञानलोकतः ।
आलोकं सर्वभूतानां भूतमेकं त्रिधागतम् ॥ ७६
त्र्यस्त्रं वै त्रिकलासिद्धं सिद्धशक्तिस्त्रिधा भवेत् ।
सिद्धानां देवतास्त्रीणि त्रिभेदाज्ञा त्रिसंज्ञया ॥ ७७
त्रिकूटस्था त्रिशृङ्गस्था त्र्यक्षरानन्दविग्रहा ।
गुहा च मेरुटङ्कश्च योगिनीत्रयसन्ततिः ॥ ७८
सन्ततिः सततानन्दं सन्तानं च निरन्तरम् ।
निस्तरङ्गा गता शक्तिः कुकाराक्षरदेवता ॥ ७९
कुमुदा नाम या देवी कुमारस्था च वायवे ।
वायवानां युवा देवी देवी तावत् शिवेच्छया ॥ ८०
इच्छया प्राक् कृता घोरा अघोरा ज्ञानसागरात् ।
समुद्रोर्मितरङ्गाङ्गा तरङ्गा शिवतत्त्वगा ॥ ८१
तत्त्वशक्तिः परा इच्छा या च ज्ञानी च चिन्मया ।
निरोधस्य वियोगस्य परा कीर्तिर्जिगीष्यते ॥ ८२
कीर्तिः कात्यायनी नाम कलानां चैकदेवता ।
विपर्ययकुले रक्ता कुजा नामेन देवता ॥ ८३
देवता च इयं देवी बुद्धिस्था बुद्धिनामिका ।
गमागमकुले शक्तिर्विज्ञानादपि भिद्यते ॥ ८४
भेदानां नायकी शक्तिरनामा च परा मता ।
सा पुराकृतकर्मस्य निष्कलात्माविशोधनी ॥ ८५
शोधनी सर्वसिद्धानां कुनामा चाक्षरस्य च ।
अक्षरस्य च वामस्य प्रकटा मातृभैरवी ॥ ८६
भैरवाक्षरमूर्तिनां तद्ध्यानगतचेतसाम् ।
आवर्तेन गुणाकारा तदा सा कुब्जिकार्णवे ॥ ८७
प्रकटा शिवतत्त्वानां शूराणां कर्दमे स्थिता ।
लिङ्गाकाशत्रिमुद्रा या मूर्तिलिङ्गं त्रिसिद्धये ॥ ८८
मूर्त्येका शिवमूर्तस्य मूर्तामूर्तौ तथावुभौ ।
अमूर्तः कौलिको भेदस्तदा लिङ्गं प्रकीर्तितम् ॥ ८९
प्रकाशः सर्वसत्त्वानां निरोधः स्वाधिकारकम् ।
कलाकरणकर्तृत्वे कायं लिङ्गं मनो ध्रुवम् ॥ ९०
एवं तच्छांभवं योगं शक्तिमध्यान्तरालयम् ।
अमृतमृतसंयोगात् योगोद्भवं परापरम् ॥ ९१
त्रिकं च त्रिकलावर्तं संवर्तोपरिमण्डलम् ।
षड्भिर्भेदक्रमाल्लिङ्गं अहिच्छत्रोदितार्णवम् ॥ ९२
या सा शक्तिः परेच्छा या भगाख्या षडिभेदतः ।
योगिनी बहुरूपेण इन्द्राणी ब्रह्मदेवता ॥ ९३
सा च वृक्षक्रमेणैव वृक्षस्यान्ते सुनिश्चला ।
अन्वयं विपरीतत्वान्मूर्तिर्विज्ञायते क्षणात् ॥ ९४
कामदेवश्च योगीन्द्रः काममध्ये निसेवनात् ।
कामेन सुखभोगानां भोगाश्च व्योमनिर्णयात् ॥ ९५
निर्णयं सर्वमन्त्राणां रौद्रीमात्रा परे गतिः ।
गतेरूर्ध्वं मनाद्यं च अरूपं पञ्चधा स्मृतम् ॥ ९६
आज्ञामन्थानकल्पेन कलाषट्कं त्रिधागतम् ।
संकल्पकल्पना भाति विज्ञानं पारमेश्वरम् ॥ ९७
त्रैलोक्यं च विपाकोऽयं उपोद्घातविचारणात् ।
आश्रितं परमं मन्त्रं मन्त्रातीतं परापरम् ॥ ९८
परा गर्भविगर्भस्था अतिथिश्चात्मपञ्जरम् ।
रमणानन्दकसंज्ञा कथिता तव भैरव ॥ ९९
भूमिकाज्ञाननिर्मुक्तः पण्डितो योऽर्थदूषकः ।
स्वयंभूज्ञानकर्तारो दूषको नरकं व्रजेत् ॥ १००
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आज्ञापीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कोटिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अम्बाक्रमभाषिते पञ्चत्रिकभूमिकाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ६४ ॥
Kumārikākhaṇḍa – Kapitel ६५
पञ्चषष्टानन्दः
श्रीवक्रा उवाच
परागर्भश्च विमलः अतिथिश्चात्मपञ्जरम् ।
रमणानन्दकैलासमाश्रमं पश्चिमं गृहम् ॥ १
पश्चिमे तु परे जन्मे सप्तजन्म क्षयं गते ।
प्रकटं ज्ञानमञ्जूषं आकाशकुसुमोपमम् ॥ २
कुसुमसदृशी माया नाभिरन्ध्रप्रवाहिणी ।
आहुतमिव चित्तस्य विज्ञानं चात्मसाधनम् ॥ ३
अध्वरं शोध्यरूपं तु अध्वरं नाम देवता ।
मेरुमार्गस्य क्षेत्रस्य ज्ञात्वा सन्तानमुच्यते ॥ ४
सन्तानं मूर्तिकुम्भस्य कुम्भवत् तिष्ठते स्थिरम् ।
अनुवृत्तिं पुरा ज्ञात्वा तदा सन्तानमुच्यते ॥ ५
पूर्वपश्चिमयोर्भावैर्वामदक्षिणयोः क्रमात् ।
मनो बुद्धिरकामस्य तदा चिन्तामणिद्युतिः ॥ ६
तद्द्युतेरुदयोऽयं तु अस्तं तस्यान्तिमं पदम् ।
ज्ञात्वा चोत्पद्यते चर्या चर्यावस्थो दिगम्बरः ॥ ७
अ आकारं च इकारं ईकारश्चार्धचन्द्रिका ।
चक्षुन्मीलनविद्या या विज्ञानं चित्तशोधनम् ॥ ८
षट्त्यागात् सप्तमं प्राप्य अष्टमं पदमव्ययम् ।
अनामयमनाद्यं च नादनादान्तगं पदम् ॥ ९
पञ्चरोधनिरुद्धस्य पदरोधः पराज्ञया ।
मनो–ऊर्मितरङ्गाद्यसागरं परमं पदम् ॥ १०
तत्त्वत्रिकार्णवा शक्तिः सिद्धलिङ्गा त्रिविक्रमा ।
मूर्तित्रिकं कुलाम्नायं उत्तीर्णं पीठभैरवम् ॥ ११
त्रिकैककरणाद् योगी भूमिकः परिकीर्तितः ।
कीर्तनं सर्वसामान्यं पश्चिमं च कुलार्णवम् ॥ १२
षट्पदक्रमबोधेन भेदानां सप्तविंशतिः ।
उद्धृतं भूमिकार्थेन ज्ञात्वा तत् परमं पदम् ॥ १३
योगिनां च निःसंदिग्धं भ्रान्तिनिरासनं परम् ।
भूमिकार्थोपदेशं तु अज्ञात्वा नैव मुच्यति ॥ १४
भ्रान्तिच्छेदं तु चास्तीति कौमारस्य क्रमस्य च ।
मूलान्वयकुलस्येदं सारं कौलक्रमागतम् ॥ १५
दुर्विज्ञेयं तु योगीनां भूमिकार्थं तवोदितम् ।
शतसूत्रक्रमौघेन ज्ञात्वा चर्यां प्रपद्यते ॥ १६
भूमिकार्थविशुद्धस्य पारम्पर्यरतस्य च ।
भवते परपदप्राप्तिः परे शान्ते निरामये ॥ १७
यद्यप्याज्ञाधरः कश्चित् स भ्रान्तश्चेन्न मोचकः ।
आचार्यस्य यदा भ्रान्तिः क्रमे च मण्डलस्य च ॥ १८
तदा शिष्यो न मुक्तः स्यात् संसारार्णवदुस्तरात् ।
तस्माद् भ्रान्तिं परित्यज्य कौलज्ञानं समभ्यसेत् ॥ १९
व्याख्यादीक्षा प्रकर्तव्या अन्यथा न कदाचन ।
अविज्ञाय संहितार्थं योऽधिकारं करोति च ॥ २०
स स्वयं द्रोहको देवि च्छिन्नमूलगतिर्भवेत् ।
प्रथमान्वये कौलस्य पश्चिमस्य गृहस्य च ॥ २१
संहितार्थमिदं ज्ञात्वा मोचयेत् मुक्तिभाजनः ।
सोऽधिकारी महादेव अन्यथा नामधारकः ॥ २२
चिद्व्योम चिद्घनानन्दं चेतसां यश्चिनोति यत् ।
तत् परं ब्रह्मणो रूपं आत्माचैतन्यमुच्यते ॥ २३
अभ्यासाद् योगिनां योगः खेचक्रे जायते सदा ।
तमासाद्य परं ब्रह्म मोक्षमार्गं स गच्छति ॥ २४
व्रजते परमे स्थाने भगाख्ये यत् विपर्ययात् ।
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ॥ २५
वैराग्यस्यापि मोक्षस्य षण्णां भग इति स्मृतः ।
चित्तवृत्तिनिरोधस्य स्थिरीकरणमेव च ॥ २६
षड्विधात्मा च योगीन्द्र निश्चयात्मा प्रवर्तते ।
एष त्रयत्रिदैवत्यं त्रिनाडीमथनादपि ॥ २७
महापथगतिं ज्ञात्वा को न मुच्येत बन्धनात् ।
सोमार्कानलकुण्डस्य त्रिप्रकारस्य तस्य च ॥ २८
भगाख्यं शक्तिबिम्बाख्यं उड्डियाणं च पीठकम् ।
महामोक्षपथे सिद्धिः परा कला इति स्मृता ॥ २९
यासौ ध्वनिनिनादेन अमृताख्या अनामिका ।
सा क्षोभाख्या जगन्माता सुदीप्ता कुलकौलिनी ॥ ३०
महाज्योतिशिखाकारा दक्षिणे जालपीठगा ।
रौद्ररूपे रुद्राणी प्रसिद्धा मोक्षविग्रहे ॥ ३१
वामामृतभरात् तृप्ता वामकोणे व्यवस्थिता ।
संपूर्णबिम्बजननी पूर्णगिर्ये गिरोदिता ॥ ३२
यस्याः पितृजना नित्यं मोक्षहेतोः प्रवर्तकाः ।
सिद्धं पूर्णमनःसृष्टिर्भैरवाश्रमपूर्णकम् ॥ ३३
जपध्यानार्चनं शून्ये तर्पणं शिशिरे स्मृतम् ।
उत्तरे देवतायानं पितृयानं तु दक्षिणे ॥ ३४
मध्ये सेतुः परा आज्ञा प्रवृत्त्याद्यं हि तत् स्मृतम् ।
तदग्रे चैव कामाख्यं पीठं सुरवरार्चितम् ॥ ३५
निग्रहानुग्रहकरं ज्ञात्वा भवति योगिनः ।
पशुमलक्षयकरं विश्वव्याप्तिर्जगत्यपि ॥ ३६
लयोत्पत्तिस्थितिमन्त्री संसारस्थितिकारणम् ।
विश्वव्याप्तिः परे चक्रे तन्मध्याल्लिङ्गरूपिणी ॥ ३७
चन्द्रविकला सा काली परमानन्दनन्दिनी ।
कन्दाधारोत्थिता शक्तिः कुण्डलाकारकौलिनी ॥ ३८
ध्यात्वा तां मनसाक्षयां समुत्थप्य शनैः शनैः ।
लक्षयेन्मनसा प्राज्ञो बिन्दुनादे परालये ॥ ३९
खेचक्रे खेचरी खस्था चन्द्रबिम्बस्वरूपिणी ।
शिवात्माशक्तिनामेका त्रयाणां समरसं भवेत् ॥ ४०
स्थितिर्भवति यद्रूपं भूमिकार्थे प्रवर्तते ।
शिवात्माशक्तिसंचारः खेचक्रे जायते यदा ॥ ४१
तदैकीभवतामेति परमानन्दलक्षणम् ।
अतो या परमा शक्तिः सुखकारणमव्ययम् ॥ ४२
बिन्दुनादपथातीतमित्युक्तं चोर्ध्वसंस्थितम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ४३
पञ्चब्रह्मात्मको ज्ञेयस्तेषां स्थानं वदाम्यहम् ।
ब्रह्मणो हृदये स्थानं विष्णुः कण्ठे व्यवस्थितः ॥ ४४
तालुदेशे स्थितो रुद्रो निरोधिन्यन्त ईश्वरः ।
लम्बिका–ऊर्ध्वतो यत्र ऊर्ध्वमार्गे निरुध्यते ॥ ४५
बिन्दुस्थानं तदेवोक्तं नादस्थानं तदूर्ध्वतः ।
तत्र स्थितः शिवो देवो गुणातीतः परापरः ॥ ४६
नित्यानन्दस्वरूपेण मथनादुपरि स्थिता ।
तस्यां भगाख्यमाख्यातं शक्त्यामुपरिपन्थिनी ॥ ४७
अभ्यासेन यदा ज्ञात्वा षट्प्रकारं महोदयम् ।
इच्छाज्ञानीक्रियारूपा आत्माशक्तिसमन्विता ॥ ४८
रसपूर्णा स्थिता सा तु उल्लसन्त्यमृतोपमा ।
भुजाङ्गकुटिलाकारा परमानन्दलक्षणा ॥ ४९
स्वरूपा च तया चैतत् षट्प्रकारे विलीयते ।
क्षयं यान्त्यपरावस्थाः परावस्था च योगिनाम् ॥ ५०
यत्र ब्रह्मकपाटं हि भित्त्वा परपुरं विशेत् ।
निर्वाणमार्गमासाद्य विश्वव्यापी सदाशिवः ॥ ५१
पदैः संघट्टयल्लीनो जयन्ती कल्मषापहा ।
चञ्चला परमा विद्या गगने बिन्दुमालिनी ॥ ५२
मुखेन तां शशिकलां सुधाबिन्दुद्वयं पिबेत् ।
नासापुटाभ्यां एवं तां मुक्त्यर्थं पुनराहरेत् ॥ ५३
योगी जयेज्जरामृत्युं सदाभ्यासाल्लयं गतः ।
व्याधिनां शमनमेव विनाशं राजयक्ष्मणः ॥ ५४
क्षयक्षीणोऽपि लभते योगीन्द्रः करणे स्थितः ।
नाभिपद्मे हृत्पद्मे तु मुखपद्मे तृतीयके ॥ ५५
नित्यं सा वसते शक्तिर्जीवेन समधिस्थिता ।
एकत्र भोगसंभावे चिन्मात्रवद्विभूषिते ॥ ५६
हृत्पद्मे तु स्थिरं बध्वा स्वसंभावं विचारयेत् ।
हृद्याकाशविलीनत्वात् पद्मसंपुटमध्यगम् ॥ ५७
अनान्यचेतसा भाव्यं परं भावमवाप्नुयात् ।
अक्षयं परमं स्थानं धारयेत् हृदये मने ॥ ५८
तत्राचलं सदाकालं शिखादीपे यथाबलम् ।
तत्र प्राणारणीमध्ये मनसा तु पुनः पुनः ॥ ५९
तदासौ भ्राजते देव मेघमुक्तो यथा रविः ।
या कला परमा दिव्या स्थिता वर्तेषु व्यापिका ॥ ६०
तां ज्ञात्वा मुच्यते योगी संसाराद् दुरतिक्रमात् ।
तालुरन्ध्रादधोभागे चित्तं योगी निरीक्षयेत् ॥ ६१
संरोधिते तदा चित्ते यावदास्ते मुहुर्तकम् ।
पिपीलकैर्यथाक्रान्तं तद्वत् स्पर्शे तदा भवेत् ॥ ६२
लब्धे संस्पर्शजे भावे पुनश्चित्तं न चालयेत् ।
लभते विवरं सूक्ष्मं बालाग्रशतभागिकम् ॥ ६३
तेन रन्ध्रेण निर्गत्य प्रविशेत् शाश्वते पदे ।
शाक्ते सदोदिते स्थाने अंगुलैकादशावधिः ॥ ६४
तत्रोपरि परं शुद्धं प्रलयानलसन्निभम् ।
लहरीतरङ्गकल्लोल–ऊर्मिमालासमाकुलम् ॥ ६५
पतनं चिन्तयेन्मन्त्री हृत्पद्मे स्वे सनातनम् ।
जायते च ततो योगी जरामृत्युविवर्जितः ॥ ६६
शक्त्यातीतं परं याति व्योमातीतं तु सर्वगम् ।
सर्वक्षोभाः प्रलीयन्ते तदा तत् परमं पदम् ॥ ६७
विज्ञायते च न संदेहो बलं याति पदे पदे ।
स्वदेहे तत्त्वविज्ञानं इति मे निश्चला मतिः ॥ ६८
भिद्यते च हृदि ग्रन्थिं च्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ति सर्वपापानि तस्मिन् दृष्टे परापरे ॥ ६९
परानन्दस्वरूपेण शनैः शनैस्तु भेदयेत् ।
भित्त्वा तु परमं स्थानं बुद्ध्या धृतिगृहीतया ॥ ७०
आत्माशक्तिचितं सूक्ष्मं निराधारं विभावयेत् ।
निराधारे मतिर्येषां ते सुस्था नात्र संशयः ॥ ७१
स्वयं वावस्थिता देहे स्वयमात्मनि गोचरे ।
उदयन्ती प्रबुद्धानां अप्रबुद्धे निवर्तते ॥ ७२
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अम्बाक्रमभाषिते आत्मभेदाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ६५ ॥
Kumārikākhaṇḍa – Kapitel ६६
षट्षष्टानन्दः
श्रीवक्रा उवाच
आधारं चक्रनाथस्य कौमारक्रमनायके ।
आकाशस्थौ गतौ पक्षौ समुद्रः प्रकटीकृतः ॥ १
प्रकटीकृतमशेषस्य जगतः षट्प्रभेदतः ।
मण्डलार्थं विशुद्धस्य आधारस्थं च षड्विधम् ॥ २
योनिचक्रमशेषस्य समार्थश्चैव भैरवः ।
चक्रस्थममलो भाति त्रिपक्षश्च क्षयं गतः ॥ ३
सदा भूमिक्रमे योगादाश्रमे योगचिन्तकः ।
अनादिनिधनानन्दस्तमोहृत्पद्मबोधकः ॥ ४
पूर्णचक्ररवीशश्च कुलवत्मातृभैरवः ।
विध्वंसकः समस्तानां वाग्भवो रिपुमर्दकः ॥ ५
आमोदः परमास्वादो विज्ञानं सुषिरं हरः ।
प्रकटा दर्शने कान्तिस्त्यक्तपक्षपरिग्रहः ॥ ६
आकाशचक्रमन्त्रस्य स नाथश्चैव कौस्तुभः ।
विभवाप्यायकर्तृत्वे समो वै सप्तजन्मनि ॥ ७
जन्मकायमलस्यास्य विषस्य अनिलस्य च ।
दाहकस्यास्य निचयं मुक्तपापमनाहतम् ॥ ८
शुद्धसन्धिकचक्रस्य श्रीनाथश्चार्धचन्द्रकः ।
उन्मीलनप्रयुक्तात्मा मुक्तिमार्गजिगीषिणः ॥ ९
मुक्तो मोचयते ह्यात्मा आत्मा वै मोचकः स्मृतः ।
अविमुक्तः सदा योगी मोचनात् सिद्ध्यते पदम् ॥ १०
आज्ञाघूर्माणचक्रस्य मथनाद् बोधरश्मयः ।
कर्मक्षयप्रभावेण मण्डलं प्रकटीकृतम् ॥ ११
प्रकृतं तूष्णिभूतैकं कदम्बावलिगोलकम् ।
हेलानन्देन भेदित्वा प्राप्यते कारणं परम् ॥ १२
चतुःषष्टिः स्मृताश्चक्राः बोधरूपा गभस्तयः ।
एतेषां नायिकान्तस्था षट्प्रकारा मनोज्झिता ॥ १३
प्रोद्गता मध्यमार्गेण अक्षरैः षड्भिरावृता ।
तदा ते कुलनाथस्य साक्षिका विवरोत्थिताः ॥ १४
विवरैका गुहा नाम कादम्बी बोधचिन्मया ।
तत्रस्था षडिचक्राणां परिज्ञानोपजीवदा ॥ १५
खचक्रं पुनर्भूचक्रं विश्वचक्रं चिदालयम् ।
चक्रत्रयमहाव्याप्तिः सा च व्याप्तिः कुलाज्ञया ॥ १६
षट्कोणभुवनस्यान्ते खचक्रं खपरादिकम् ।
विहङ्गक्षीणचित्तानां योगज्ञानस्वरूपकम् ॥ १७
भूचक्रं भूचरीणां तु भूचरो गर्भभेदकः ।
चित्तवृत्तिविलीनत्वात् क्षीणवृत्त्युदये स्थितः ॥ १८
चिच्चरं चिच्चरीशस्य दिग्देवानां प्रभञ्जकः ।
परमात्मा स * * * दिक्कालमुपहायते ॥ १९
एवं तु त्रिविधं चक्रं मन्त्रनाथं खमण्डले ।
शून्यस्थं सर्वमन्त्राणां शून्यचक्रमिति त्रिधा ॥ २०
त्रैगुण्यरहितं चक्रं रहितं षोडशैः स्वरैः ।
अस्वरं तद् भवेच्चक्रं राशीनां चक्रदेवता ॥ २१
देवीनां चक्रसिद्धानां मन्त्राणां वीर्यसंभवा ।
नायकः सृष्टिकर्तार आज्ञाचक्रपुरान्तगः ॥ २२
तस्यात्मानन्दबोधेन चन्द्रार्कौ उभयोः क्रमात् ।
तदोद्द्योत्य तमश्च्छायां च्छायायां द्योतकारकौ ॥ २३
आपूर्य तमसः सर्वं देहालोकावसायिनाम् ।
स्वयंभूज्ञानवेत्ता च आज्ञानलप्रदीपकः ॥ २४
अनलस्य कला द्वे च द्वे च त्रीणि रवेः कलाः ।
ध्रुवयोनिः परा माता यथा योन्यानलस्य च ॥ २५
अनलार्चिर्गतो भानुर्भान्वन्तरे शशिप्रभा ।
एवं ते च त्रयश्चक्राः खभूदिक्चक्रमातरः ॥ २६
मातरीणां गृहैकं तु अनलाज्ञा निरञ्जना ।
निरंशे परमे तिष्ठेत् तदा चोत्पद्यते कला ॥ २७
द्विस्वभावे स्वरूपेण चलनात्माक्रिया भवेत् ।
क्रियायोगं कुलज्ञानं आज्ञात्र मध्यनिश्चला ॥ २८
निश्चलं यत् परं चक्रं निरोधात् ज्ञानरूपधृक् ।
मातॄणां मेलकं रात्रौ आज्ञाचक्रे परे पदे ॥ २९
चक्रं मात्रा च मातॄणां मध्यरात्रे परे गते ।
रतिप्रीतिर्विवर्धेत रमणं लिङ्गवर्जितम् ॥ ३०
खमध्यस्थं खचक्रं तु खपञ्चकविभूषितम् ।
ध्यानमेतद् वियोगीनां तत्रानन्दं दिगम्बरम् ॥ ३१
संचरीशं तदा चक्रं योगिनां हृदयं परम् ।
खहृदयं च खचक्रं प्लाव्यमानन्दरूपधृक् ॥ ३२
तदा चक्रोदितानन्दमानन्दं खं परापरम् ।
आर्णवाद्यं पुरा शोध्यं हृदये परमं कुलम् ॥ ३३
कुलरत्नस्य भावस्य भावज्ञानस्य तस्य च ।
मन्त्रोदयमशेषस्य भैरवं परमाक्षरम् ॥ ३४
अक्षरं भैरवो नाम अनामकमहाप्रभुः ।
प्रभवो विभवानन्दः कौलीशो रमते प्रभुः ॥ ३५
प्रभाकान्तिद्वयोर्मध्ये सन्तानं मेरुमार्गयोः ।
विपरीतक्रमेणोभौ ज्ञात्वाचारगतिः स्फुटा ॥ ३६
स्फुटं कृत्वा स्फुटः सेतुः कूटकं चतुरक्षरम् ।
चतुष्कलापरात्मानं विकासं शून्यावस्थितम् ॥ ३७
तत्रस्थं देवदेवीनां संघट्टं परमान्तिकम् ।
अनाख्यं शिवनादाख्यं चक्रेदं शाम्भवीतनु ॥ ३८
तत्र देव्या वसेत् कृष्णा शङ्खस्था शङ्खिनी भवा ।
भावास्वादितदेहीनां भावग्राह्यं रसादिकम् ॥ ३९
उदधेः कर्णिकामूलं विसर्गद्वयभेदतः ।
कलानादोभयोश्चक्रं घण्टिकायां विशोधयेत् ॥ ४०
विशुद्धिः सर्वकार्याणां विपरीतक्रियात्मकम् ।
बिन्दुभेदकवर्णस्थं विश्वरूपविशोधनम् ॥ ४१
भरणात्मकयुक्तस्य चित्तस्य दमनस्य च ।
व्रतस्थदृढभक्तस्य विशुद्धिर्बिन्दुशोधनम् ॥ ४२
नानागतिसुरीशस्य अमरीशस्य साधनम् ।
साधनार्थं तु तत्त्वस्य तत्त्वशुद्धिर्विशोधनम् ॥ ४३
तत्त्वानां पञ्चधा मार्गं अमार्गं च क्रियात्मकम् ।
भावयेत् चिञ्चिणीनाथं कर्णमूले त्रिकालवित् ॥ ४४
तदा जीवं च योगीनां प्रकृत्या धारयेत् कला ।
आमूलाद् स्रवते बिन्दुः चक्रं सुरगणार्चितम् ॥ ४५
मूलादेकः परो हंसः भैरवानन्दचिन्मयः ।
विश्रामं दीपिका शक्तिः चारोच्चारविभागशः ॥ ४६
कलाशेषं स्मृतं मूलं तच्च मूलं कुलात्मकम् ।
कलाशेषः पुरस्तस्मात् टङ्किणी भवदेवता ॥ ४७
चक्रनायकिदेवेशी वृद्धावस्था कपालधृक् ।
कपालं पूर्णिमाकारं अमा सा तत्र देवता ॥ ४८
ऊर्ध्वलीना कपालस्य श्मशाने करवीरके ।
करन्धस्य पुरं भित्त्वा समना जायते तदा ॥ ४९
समस्तरूपमात्मानं बुद्धिगम्योपदेशकम् ।
ज्ञात्वानाहतमन्त्रज्ञः शशिचर्या सुगम्यते ॥ ५०
गमागमनिरोधत्वादध–ऊर्ध्वं विघट्टयेत् ।
मनमेकाग्रतं कृत्वा अनाहतपुरे सुखम् ॥ ५१
तदा चोत्पद्यते चक्रं वायुराशिर्महोदधिः ।
तदा चोद्भवते वृक्षं करवीरे मनोहरे ॥ ५२
हरशक्तिः परा च्छाया कमलस्य तु कर्णिका ।
आदिमा हृदिमार्गस्था नाम्ना विश्रामभूमिका ॥ ५३
भवतेऽनाहते चक्रे कुर्याद् निर्वाणदं पदम् ।
आलयं सर्वयोगीनां देहिनोऽनाहतं पदम् ॥ ५४
नादरूपं ककारान्तं सकारान्तपुटीकृतम् ।
अर्धचन्द्रकलायुक्तं त्रिकूटं नाम मन्त्रराट् ॥ ५५
मन्त्रानाहतचक्रस्य मन्त्रराजस्य पार्थिवः ।
पार्थिवं करणं कृत्वा करणं पार्थिवालयम् ॥ ५६
स च षोडशमध्यस्थः वह्निश्चन्द्रकलाङ्कितः ।
सुखदं सर्वयोगीनां कारणं प्रसरोद्भवम् ॥ ५७
कमलानन्दचित्तात्मा विज्ञानं तत्त्वभैरवः ।
अनाहतस्य चक्रस्य ज्ञायते वीरवृत्तिभिः ॥ ५८
अहोरात्रगतिं कृत्वा विकासेत् स्वरमण्डलम् ।
हृदयान्ते गुहावासं ध्यात्वा चिन्मयतां गतम् ॥ ५९
गतिमन्त्रं गतेर्ज्ञानं ज्ञात्वा वै च गतिमागतिम् ।
मणिपुद्गलयोर्मध्ये पूर्णचन्द्रनिभा द्युतिः ॥ ६०
चक्रेदं मणिपूर्णं तु शिवशक्त्युभयात्मकम् ।
अर्कचन्द्रविलीनत्वात् तदा वह्निः प्रजायते ॥ ६१
स चाकाशमनन्तश्च प्रकृतिर्जाठराग्निकः ।
शिवशक्तेः पुरं बध्वा मणिपूर्णस्तदा भवेत् ॥ ६२
सा च शक्तिरक्षराणां च लिङ्गानामोघशक्तयः ।
विसर्गोभयकौलस्य षण्मुखमयदेवता ॥ ६३
तत्रस्था वामदक्षोभौ यदा तिष्ठति तन्मया ।
तदाप्यायननाडीनां चन्द्रस्य जायते पदम् ॥ ६४
पदं नाडिविभेदेन नालैकं संप्रगीयते ।
मननं सर्वभावानां बोधमित्यनुभाव्यते ॥ ६५
स्वरस्य उदयं तत्र संकोचः सर्वनाडिकम् ।
विकासं सर्वलिङ्गानां मणिपूर्णं सुतेजसम् ॥ ६६
तेजादुत्पद्यते नादं नादाच्छब्दोऽभिजायते ।
दन्तौष्टतालुरसनाभञ्जनादपि नाडिभिः ॥ ६७
तदा चोत्पद्यते वर्णं अष्टवर्गाष्टदैवतम् ।
देवतानां च सर्वेषां आलयं पूर्णचन्द्रकम् ॥ ६८
कोंकणं मणिपूरस्थं चक्रं त्रिदशदीपितम् ।
नायकी देवता तत्र किङ्किणी श्यामदेवता ॥ ६९
देवदेवालयानां च दिव्यं देवालयं गुहा ।
निवासं सर्वमात्रॄणां चक्रेदं पारमेश्वरम् ॥ ७०
तस्यैवान्तर्विलीनस्थं योगिनीनां गृहं च यत् ।
नाभिराधारयोर्मध्ये तदार्कसोमविक्रमम् ॥ ७१
तदा खं च त्रिमात्राख्यं त्रिशक्तिस्थं प्रतिष्ठितम् ।
त्रिवर्गककलायुक्तं पञ्चाशल्लिङ्गभेदितम् ॥ ७२
स्वरचक्रेश्वरं चक्रं अधिष्ठानं च कोंकणम् ।
स्वाधिकारं तु देवीनां दिव्याधिष्ठानकारकम् ॥ ७३
स्वकायशुद्धिविज्ञानं तत्रस्थं तत्त्वनिष्ठितम् ।
चतुःपीठसमायुक्तं वह्नेरेकारचक्रकम् ॥ ७४
एवं स्वाधि स्मृतं चक्रं त्रिकोणोभयमध्यगम् ।
अधिष्ठानं समाख्यातं योनिचक्रं परापरम् ॥ ७५
गुडमेढ्रान्तरं चक्रं अग्निसोमस्वलंकृतम् ।
इन्दुबिन्दुसमाक्रान्तं खगेशं परमेश्वरम् ॥ ७६
कन्दचक्रं स्मृतं रत्नं नाडीनां मर्मभेदकम् ।
एकैका परमा शक्तिर्नादमालिनीसंज्ञया ॥ ७७
सा तु पञ्चप्रकारेण त्रिप्रकारा भगाकृतिः ।
मन्त्रचक्रान्तिका ह्यग्निसोमसूर्यभगानना ॥ ७८
आश्रमं सर्वयोगीनां शृङ्गाटाकृतिशेखरम् ।
चलद्वलयसंकाशं अभेद्यं दुरतिक्रमम् ॥ ७९
शक्त्या वेगेन वहते वायुरम्बरयोरिव ।
तत्र षष्ठः स्मृतो योगी स चाद्वैतस्वरूपतः ॥ ८०
तस्य शक्तिः स्मृता षष्ठा रौद्रीनामेन देवता ।
तस्या रोधनमात्रेण भगान्तस्थमशेषतः ॥ ८१
षट्त्यागात् सप्तमे स्थाने खगेशे व्योमविग्रहे ।
निग्रहानुग्रहे शाक्ते भवति शक्तिरव्यया ॥ ८२
तदा चोत्पद्यते ह्लादं जीवस्थं मणिपुद्गलम् ।
अधःस्थं जन्मकोणस्य आधारं जीवग्रन्थिकम् ॥ ८३
मन–ऊर्मितरङ्गेषु शब्दराश्योपदेशकम् ।
उद्भवे तत्र कौलीशं कौलीशं हंसभैरवम् ॥ ८४
तत् कपालाक्षरान्तस्थं कपालद्वारचक्रगम् ।
धरित्री च पुरे चक्रे महालक्ष्मी च नाभसः ॥ ८५
दशवायुनिरोधेन दशनाडीप्रभेदकम् ।
एवमाधारचक्रं तु सिद्धमन्त्रोदयं पुरम् ॥ ८६
तस्य शक्तिश्च मौनाख्या मलयस्था ह्यधोमुखी ।
सिद्धञ्चोर्ध्वमुखं यस्मात् तस्मात् तत् प्रत्ययं भवेत् ॥ ८७
प्रत्ययात्मा स्मृतं चक्रं तच्चक्रक्रमणादपि ।
विलीनैः सर्वगैर्भावैरूर्ध्वतो मोक्षमाप्नुयात् ॥ ८८
एवं च कुलविज्ञानं आज्ञाचक्रं च षड्विधम् ।
षड्विधाज्ञाक्रमोद्देशं स्वाधिष्ठानकुलं महत् ॥ ८९
अधिष्ठानं कुलं यस्माद् भूमिकार्थे विशोधनम् ।
भूमिकार्थस्य श्लोकेन विज्ञानकुलभास्करम् ॥ ९०
उदितं मोक्षधामस्थं अज्ञानविजिगीषिणाम् ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशतिसहस्रसंहितायां अम्बाक्रमभाषिते वक्राम्नायकुलाष्टकाधिकारवर्णने क्रमोदयो नामानन्दः ॥ ६६ ॥
Kumārikākhaṇḍa – Kapitel ६७
सप्तषष्टानन्दः
श्रीनाथ उवाच
मुद्रामन्त्रविकासेन अतः करणमण्डले ।
क्रमभेदानि चोक्तानि त्वया ह्यकुलकन्दरे ॥ १
तेषां तत्त्वोदयं सम्यक् आत्मसञ्चित्तिपूर्वकम् ।
तथा तत्त्वाधिकारं तु योगपीठे क्रमत्रये ॥ २
श्रीवक्रा उवाच
सृष्टिपीठात् समारभ्य यावत् वक्रतनुर्ह्यहम् ।
तावत् तत्त्वोदयं चात्र कथयामि समासतः ॥ ३
कामरूपे भवेदिन्द्रं कामना सृष्टिरुच्यते ।
आपः पूर्णगिरिः प्रोक्तः तेजो जालन्धरं स्मृतम् ॥ ४
ओंकारं भवते वायुस्तत्त्वमेकं भवेत् त्रिधा ।
तत्राकाशो भवेदिच्छा स कुमारः प्रकीर्तितः ॥ ५
तस्य ऊर्ध्वे च कामिन्या गन्धतन्मात्रनायकी ।
रसरूपात्मिका पूर्णा तेजस्तन्मात्र ज्वालिनी ॥ ६
शब्दरूपा भवेदोड्रा त्रिविधा सा व्यवस्थिता ।
स्पर्शतन्मात्रकं विष्णुः स च सिंहक्रमे स्थितः ॥ ७
श्रीकण्ठो वाग्विधानेन करात्मको महामतिः ।
ईश्वरात्मा च पादयोः पायुगो नन्दिरुद्रकः ॥ ८
उपस्थं भैरवाकारं सद्योजातात्मकं भवेत् ।
अनाहतात्मनः श्रोत्रं त्वचात्मा मणिपूरकम् ॥ ९
चक्षुराज्ञा विभुः श्वासो जिह्वा इन्द्रियमण्डले ।
विशुद्धं नासिका ज्ञेया आधारो मन उच्यते ॥ १०
बुद्धिर्मातङ्गिनीतत्त्वं अहंकारं पुलिन्दिका ।
प्रकृतिः शवरी नाम पुरुषो विजयोच्यते ॥ ११
स ब्रह्मा स च अद्वैतः सृष्टिकर्ता जगत्त्रये ।
तस्य कला तु सकलं सपिण्डस्थानगोचरम् ॥ १२
लिङ्गस्यांशाङ्गसहित्यं करोति विकरोति च ।
बाह्यात्मा चान्तरङ्गश्च जंगमः परिरूप्यते ॥ १३
उपभेदैश्च भेदेषु नियत्या कालचोदितः ।
उदिता सा शिवस्यापि शक्तिर्विमलरूपिणी ॥ १४
समना सा स्वरूपेण उन्मना महन्तारिका ।
स्वानन्दानन्दमाना तु सृजते सा जगत्त्रयम् ॥ १५
शिवस्याज्ञास्वरूपा तु कुब्जिकाहं नपुंसका ।
जितेन्द्रियवशेनापि अधिकारे च तापसे ॥ १६
संपुटेन हि विद्या च भकारादिविभागशः ।
न स्त्री न पुरुषोऽहं वा इच्छाशक्तिवरास्मि सा ॥ १७
पुरुषो बीजवन्मात्रः क्षेत्रज्ञः स च उच्यते ।
शुभाशुभात्मकः कर्ता कर्मसङ्गेन बध्यते ॥ १८
न कर्ताहं शिवो मन्ये पुरुषत्वात् करिष्यति ।
धरित्र्यादिशिवान्तं च तत्त्वपिण्डं स उच्यते ॥ १९
चतुर्विधे भूतसर्गे स एव हि पशुर्भवेत् ।
अष्टमे मानसे जन्म अष्टमं याति चाश्रमम् ॥ २०
कामरूपादिमारभ्य यावस्था सालयं भवेत् ।
यावन्न कर्मकोटिभिः शिवाहं नैव चार्चिता ॥ २१
तावत् प्राप्तिः कथं मर्त्यैः श्रीक्रमे गुणवत्तरे ।
येन यष्टेन संशुद्धिर्मलस्य त्रिविधस्य च ॥ २२
तत्त्वानि व्युत्क्रमं यान्ति सप्ताविंशत्पदानि च ।
तेषां विनाशनार्थाय क्रममार्गं निदर्शितम् ॥ २३
मण्डलेन यजनं जापं शिवविद्यामहाव्रतम् ।
सर्वोर्ध्वं भवते सम्यक् वाग्भवस्य यथा स्थितिः ॥ २४
तत्त्वानां च विभागं तु तव वक्ष्याम्यहं पुनः ।
कामरूपं भवेत् पृथ्वी आपः पूर्णगिरिः स्मृतः ॥ २५
जालन्धरं महातेजो वायुरोंकारमण्डलम् ।
आकाशं तिस्रपीठं तु श्रीमच्चन्द्रपुरं गृहम् ॥ २६
महाभूताः स्मृताः पञ्च तेषां तन्मात्रपञ्चकम् ।
गन्धस्तु पार्थिवे तत्त्वे आपस्तत्त्वे रसं भवेत् ॥ २७
तेजस्य भवते रूपं वायुः स्पर्शे त्वतो भवेत् ।
आकाशं तु महाशब्दः इन्द्रियकर्मपञ्चकम् ॥ २८
गन्धतत्त्वे स्मृता वाचा स्पर्शतत्त्वे करद्वयम् ।
शब्दमध्ये तथा पादं पायोस्तेजसि संभवः ॥ २९
उपस्थो जायते स्वादे तन्मात्रकर्मपञ्चकम् ।
अथ बुद्धेन्द्रियाण्याहुस्तथा कर्मेन्द्रियेषु च ॥ ३०
उपस्थस्थमिदं श्रोत्रं तथा पाणिगतं त्वचम् ।
पायुतत्त्वं महाचक्षु रसना पादमण्डले ॥ ३१
वाक्तत्त्वे च स्मृता नासा पृथिव्याद्या भवन्ति ते ।
तेषां मूर्ध्नि स्थितो ह्यसौ अनादिशिवमव्ययः ॥ ३२
बुद्धिः कर्मानुसारेण कामरूपे उपस्थिता ।
मनो बुद्धिबलेनैव पीठे जालन्धरे स्थितम् ॥ ३३
मनोवेगेन हंकारं ज्ञात्वव्यं तु पुराश्रमे ।
प्रकृतिर्वाममार्गे तु पूर्णगिर्ये व्यवस्थिता ॥ ३४
पुरुषो बीजवन्मात्रः स्थितश्चन्द्रपुरालये ।
तस्याश्रमं भवेन्नादं अन्तरात्मानिशाकरम् ॥ ३५
एवं भागवतो लिङ्गं भगाकारं प्रतिष्ठितम् ।
क्रियाशक्तिर्महापिण्डं प्रत्ययात्मा तदुच्यते ॥ ३६
साहं देव परित्राता मन्त्रमार्गे प्रतिष्ठिता ।
शिवस्य सा तु या मात्रा काचिद् भेदगुणान्विता ॥ ३७
तिस्रस्रोतोद्भवानन्दा आनन्दो भवमालिनी ।
सा माता सर्वजन्तूनां धरित्र्यादिविभागशः ॥ ३८
मध्य अनादिनिधनलयोत्पत्तिविवर्जितम् ।
खं किञ्चित् सुसूक्ष्मस्यापि शतांशस्य सहस्रकम् ॥ ३९
भावनामात्रं तच्छून्यं चैतन्यं शिवमुच्यते ।
एवं तत्त्वस्वरूपेण शाक्तं लिङ्गं प्रकीर्तितम् ॥ ४०
तदेव चिञ्चिणीवृक्षं कीर्तिदेवो नभस्तले ।
श्रीमच्चन्द्रपुरे जातं तत्त्वं पिण्डीकृतं च यत् ॥ ४१
स एव प्राकृतिस्वामी भुवनानां महालयम् ।
अनन्तादिशिवान्तं लीनं सर्वमिदं जगत् ॥ ४२
स्थित्युत्पत्तिर्विपत्तिश्च चतुर्द्वारोऽपि वर्तते ।
प्रधानत्वे स्थितं पाशं मायार्णवकोर्मिजम् ॥ ४३
एवं मार्गे तु सकलं प्रवृत्तं रमणादिषु ।
निवृत्तिश्चोपचारं तु उपदेशेन गीयते ॥ ४४
पिण्डं तस्या अधिष्ठानं सा चाहं परिकीर्तिता ।
पाशजाले यथा बद्धो विहङ्गो मुग्धचेतसः ॥ ४५
पश्चात् स भवते त्यक्त उत्पतेत् गगनान्तरे ।
तद्वदात्मा च पिण्डस्थः तिष्ठते मुग्धचेतसः ॥ ४६
पिण्डस्थोऽयं पदं मन्त्रः रूपलक्षणमादिकम् ।
रूपातीतं सर्वगतं सर्वेषामुपरिस्थितम् ॥ ४७
पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ।
तत्त्वपञ्चाशिका सम्यक् तवाख्याता मया प्रभो ॥ ४८
पीठपिण्डसमाचारं तत्त्वपञ्चाशिकाक्रमम् ।
आख्यातं तव देवेश सूत्राकारेण सूत्रतः ॥ ४९
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे श्रीमच्चतुर्विंशतिसाहस्रे तत्त्वक्रमाधिकारसूत्रम् ॥ ६७ ॥
Kumārikākhaṇḍa – Kapitel ६८
अष्टषष्टानन्दः
श्रीवक्रा उवाच
षट्प्रकारा महाकाया भारूपा योगवाससा ।
सावशेषा सवासना सर्वावस्था महत्तमा ॥ १
चिञ्चिणी परमा घोरा श्यामारक्तारुणोज्ज्वला ।
कुलमातङ्गिनी रौद्री कुजादेवी षडानना ॥ २
दशाष्टनयनाभासा मदिरानन्दलालसा ।
भगानना भगाकारा भगषट्कसमन्विता ॥ ३
भगमध्यस्थिता भीमा भगोदरपुटीकृता ।
द्वात्रिंशद्वर्णनिकरा कुब्जिका कुलनायिका ॥ ४
चतुराशीतिविन्यासैः व्यापिनी व्योम्नि मण्डले ।
सा वै खगेश्वरी देवी आमरी शुद्धकालिका ॥ ५
त्रिखण्डा भैरवी देवी संस्थिता त्रिपुरोत्तमा ।
मालिनीकुलमार्गस्था कुजा कमलहृद्गता ॥ ६
सा वै श्रीकुलदीपाभा बर्बरा बहुरूपिणी ।
रुद्रमाता सिद्धमाता महाभैरवमाता च ॥ ७
वीरमाता योगिमाता पीठमाता जगत्सुता ।
षट्प्रकारान्विता भीमा भुजाष्टादशगोचरा ॥ ८
त्रिशूलं कर्तरी खड्गं नाराचं त्रासणी तथा ।
पाशं डमरुकं चैव खेटकं चरुकौलिकम् ॥ ९
नवैते दक्षिणे मार्गे वाममार्गे तथा नव ।
कपालं चैव खट्वाङ्गं रत्नमाला च कार्मुकम् ॥ १०
अंकुशं पीठमुद्रा च खेटकं पुस्तकासनम् ।
देव्याष्टादशमुद्रास्तु चिन्तयेत् सपरिग्रहाम् ॥ ११
पदैः पञ्चभिः संयुक्ता अपटा नग्नवाससा ।
बिम्बाक्षिणी अधोवक्त्रा व्यालयज्ञोपवीतिनी ॥ १२
जिह्वाजैरुपवीतैर्वा मुद्रापञ्चकभूषिता ।
भुजाष्टादशसंयुक्ता मुद्रापीठोद्गिरावहा ॥ १३
स्वरमालाशिरोबद्धा वर्णाहारावलम्बिनी ।
भूषिता दिव्यव्योमेन कोटिद्वादशडामरैः ॥ १४
रत्नमाला गले बद्धा दिव्यरत्नविभूषिता ।
महाकुसुमजातीभिः शोभिता परमेश्वरी ॥ १५
चन्दनागुरुकर्पूरैरलिनामोदनन्दिता ।
सुगन्धगन्धदिग्वासा सुधूपामोदवाससा ॥ १६
दिव्यै रत्नैर्महावस्त्रैः संवृता परमेश्वरी ।
कलातीता सर्वगता सर्वेषामुपरिस्थिता ॥ १७
षट्प्रकारा कुजा देवी परमाक्षरविग्रहा ।
ईदृग्रूपधरा आज्ञा द्वाचत्वारिंशदक्षरा ॥ १८
स्वभावेन कुब्जाकारा विद्याभेदे कुजाम्बिका ।
चन्द्रद्वीपे महाकुब्जा स्थिता श्रीकण्ठानुग्रहे ॥ १९
त्रिविधेन तु मार्गेण कुजालक्षं तु भेदयेत् ।
ध्यानमेवं पुरा ज्ञात्वा स्वशरीरे समभ्यसेत् ॥ २०
क्रमार्चनं जपं योगं देहेनानेन कारयेत् ।
तदन्तःकरणातीतं पदान्तं यावद् भावयेत् ॥ २१
कुजाध्यानविनिर्मुक्तः कुजाम्नायविवर्जितः ।
स पशुश्च अशुद्धत्मा यः क्रमं पूजयेत् क्वचित् ॥ २२
क्रममण्डलविद्या च सर्वं तस्य निरर्थकम् ।
परत्रं न स्फुटं तस्य यावन्नोपासयेत् कुलम् ॥ २३
तावत् तस्य कुतो व्याप्तिर्विद्यते शाम्भवे कुले ।
श्रीकौलीश उवाच
श्रुतं च देवदेवेशि आगमार्थमशेषतः ॥ २४
अधुना श्रोतुमिच्छामि मुक्तिसूत्रोपदेशकम् ।
येन विज्ञातमात्रेण भवबन्धाद् विमुच्यते ॥ २५
श्रीकुब्जिका उवाच
मुक्तिमार्गं च देवेश कथयामि परिस्फुटम् ।
त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् ॥ २६
तन्त्रं पिचुमतं तन्त्रं सिद्धयोगेश्वरीमतम् ।
शिवादूतीमतं तन्त्रं तन्त्रं वामेश्वरीमतम् ॥ २७
सुन्दरी तु मतं तन्त्रं रत्नसुन्दरिकामतम् ।
तन्त्रं मातृमतं तन्त्रं तन्त्रं वै रूपिकामतम् ॥ २८
मतं सारस्वतं तन्त्रं तन्त्रं वै मङ्गलामतम् ।
शिखोत्तरमतं तन्त्रं सुतन्त्रं मालिनीमतम् ॥ २९
अम्बामतं महातन्त्रं तन्त्रं च खेचरीमतम् ।
भैरवी तु मतं तन्त्रं तन्त्रं श्रीकुलालिकामतम् ॥ ३०
मताः ओलित्रये षट्कं * * * * * * * * ।
स्फुटं क्रमाधिकाराणि निरालम्बानि पञ्च च ॥ ३१
कारणाः पञ्च ऊर्ध्वस्थाः एवं ते मतषोडश ।
आद्यारभ्य समनान्ते स्वे स्वे तत्त्वे तु व्यापकाः ॥ ३२
सकलावरणे शम्भो ते समनावधिस्थिताः ।
महच्छब्दमतः पूर्वं विमलं षट्कनिर्णयम् ॥ ३३
पराषट्कावतारं तु जात्युत्तीर्णं हि षड्विधम् ।
महामायोदरातीतं तन्त्रस्योपरि सर्वदा ॥ ३४
उलीनां पश्चिमाम्नायं स्वाधिकारं क्रमोदयम् ।
मायातीतं समनोर्ध्वे अंशके प्रथमोदयं ॥ ३५
अवतारं पुरा जातं भेदे मन्थानभैरवे ।
शाम्भवाज्ञाविनिष्क्रान्तं कादिभेदं सतार्णवम् ॥ ३६
येन विज्ञातमात्रेण सर्वज्ञत्वं युगे युगे ।
खण्डत्रयविधानज्ञः चतुःपादक्रियावित् तु ॥ ३७
कादिभेदक्रमे युक्तः स भवेन्मतबोधकः ।
मन्त्रमण्डलनिर्मुक्तो योगभ्रष्टः स विज्ञेयः ॥ ३८
* * * * * * * * आकाशे कुसुमं यथा ।
आज्ञाचक्रविनिर्मुक्तः षोढाशक्तिविवर्जितः ॥ ३९
संसारे वर्तते भूयः संसारान्न निवर्तते ।
अदत्वालिं विधानेन समयाज्ञाविवर्तितः ॥ ४०
भुञ्जते सततं यस्तु भुञ्जते नरकत्रयम् ।
स्नानत्रयविनिर्मुक्तो यस्तु पूजयते क्रमम् ॥ ४१
समयात्मा महामूढो भुञ्जते नरकत्रयम् ।
गायत्रीत्रयनिर्मुक्तो विद्यातद्ग्रहवर्जितः ॥ ४२
षडुत्थमण्डलोत्तीर्णः संसारान्न निवर्तते ।
सु–उल्यां गुरुगुह्यं तु निर्बीजं पूजयेत् तु यः ॥ ४३
संसारे वर्तते भूयः संसारान्न निवर्तते ।
कादिभेदक्रमेऽयुक्तः खटिकाद्वारवर्जितः ॥ ४४
प्रस्तारषोडशोत्तीर्णः अधिकारान्न मुच्यते ।
उन्मनादिक्रमेणैव यावत् श्रीनाथचिञ्चिणी ॥ ४५
पुष्पसंकेतकं शम्भो अज्ञात्वा नैव मुक्तिभाक् ।
समयानुष्ठानसूत्रम्
श्रीनाथ उवाच
कथं बौद्धे च देवेश आरहन्ते कथं कथम् ॥ ४६
वैष्णवे तु कथं सौरे शैवे मुक्तिः कथं कथम् ।
वामदक्षिणमार्गेषु कथं च मालिनीकुले ॥ ४७
मुक्तिमार्गं त्रिके देवि कथं नित्याक्रमेषु च ।
कथं मुक्तिस्त्रिखण्डाख्ये कालिकायाः क्रमे कथम् ॥ ४८
मुक्तिर्वै अमरिकाम्नाये तथा श्रीवक्रिकामते ।
तस्य ऊर्ध्वे यतो नास्ति मुद्रा मण्डलकं क्रमम् ॥ ४९
तदेच्छा शाश्वती व्याप्तिः सावधिः परिकीर्तिता ।
तत्राधो–आगमा चैव यावद् बौद्धं तु दर्शनम् ॥ ५०
यतस्तद् बुद्धितत्त्वं तु न सा मुक्तिस्तु सावधिः ।
तेषां निरवधिः प्रोक्ता शान्ते त्वात्मनि संस्थिता ॥ ५१
संतोषेण तु ये नष्टा अहंकारेण तु गर्विताः ।
तदा तेषां पुनर्जन्म संसारो न निवर्तते ॥ ५२
एवं मुक्तिस्वरूपेण कुजान्ते भावयेत् सदा ।
इति संक्षेपतः प्रोक्तं देहियोगाभिषेचनम् ॥ ५३
श्रीकौलिन्युवाच
अतिप्रश्नोत्तरं गुह्यं त्रिदशैरपि दुर्लभम् ।
कथयामि निःसंदिग्धं तव स्नेहेन कौलिकम् ॥ ५४
धरातत्त्वात् पुरुषान्तं ऊर्ध्वे माया तु विज्ञेया ।
सत्त्वशुद्धात्मरूपा च अष्टवर्गक्रमे स्थिता ॥ ५५
तदूर्ध्वं ईश्वरं तत्त्वं तस्योर्ध्वे तु सदाशिवम् ।
शिवं तस्योपरिस्थं तु व्योमव्यापी निरञ्जनम् ॥ ५६
इत्यार्णवं महादण्डं शिवाद्यवनिगोचरम् ।
तस्योर्ध्वे पञ्चधा शाक्तं ध्वनिरूपादितः क्रमात् ॥ ५७
समनावधिपर्यन्तं तावद् दण्डं महोदयम् ।
कलातीतं परानन्दं तृतीयं दण्डनायकम् ॥ ५८
भरणाद् भैरवाकारं शाम्भवं दण्डमुच्यते ।
एवं दण्डत्रयं ज्ञात्वा तस्य ऊर्ध्वे निरामयम् ॥ ५९
एवं व्याप्य स्थितं शान्तं सर्वज्ञं सर्वगं परम् ।
द्विविधा तु स्मृता मुक्तिः सावधिः ज्ञेयवेदिनाम् ॥ ६०
निरवधिस्त्वन्या मुक्तिः क्रियाज्ञानविदात्मनाम् ।
प्रथमा पौरुषं तत्त्वं मायातत्त्वं द्वितीयका ॥ ६१
तृतीया शुद्धविद्या च चतुर्थी ईश्वरोपरि ।
पञ्चमी सदाशिवान्ते षष्ठी मुक्तिः शिवावधिः ॥ ६२
शक्त्यान्ते सप्तमी प्रोक्ता समनान्ते तथाष्टमी ।
दशैका मुक्तिः क्लिन्नान्ते त्रिखण्डान्ते च द्वादशी ॥ ६३
त्रयोदशी च कल्पान्ते आद्यन्ते तु चतुर्दशी ।
त्रिपञ्चमी कुजान्ते तु द्वाचत्वारिंशतीपुरे ॥ ६४
निष्कला या परा विद्या निरौपम्या षडक्षरा ।
सकले षोडशी प्रोक्ता मुक्तिरेषा प्रकीर्तिता ॥ ६५
स्थिता षोडशभेदैस्तु निरवधित्वे व्यवस्थिता ।
तस्यान्ते सा परा मुक्तिः शून्यान्ते तु लयं गता ॥ ६६
अन्तःशून्यात्मिका शक्तिः शून्ये शून्यत्वमागता ।
यदा न किञ्चिद् विद्येत सावधिः परिकीर्तिता ॥ ६७
तस्य ऊर्ध्वे परं भावं भावातीतं परं पदम् ।
मन्त्रध्यानविनिर्मुक्तं मुद्राक्रमविवर्जितम् ॥ ६८
परान्तं तु निराधारं सर्वध्यानविवर्जितम् ।
यागक्रियासमुत्तीर्णं बिन्दुभेदविवर्जितम् ॥ ६९
करणत्रयनिर्मुक्तं हेयोपादेयवर्जितम् ।
अस्तिनास्तिविनिर्मुक्तं अवस्थानन्दवर्जितम् ॥ ७०
निस्तरङ्गं परं शान्तं निरानन्दं निराश्रयम् ।
परशून्यं महाशून्यं परान्तं शाम्भवं पदम् ॥ ७१
मुक्तिमार्गं द्विधा भिन्नं साकारं तु निरञ्जनम् ।
उपर्युपरिसंस्थस्य साकारस्य न निश्चयम् ॥ ७२
यदा शून्यावधिर्नास्ति अस्वतन्त्रं तदा भवेत् ।
कथं धत्ते परां मुक्तिं यावत् शून्यावधिर्न हि ॥ ७३
अन्वयावधिः शून्यान्ते परे प्राप्ते निरामये ।
अन्वयज्ञानमाश्रित्य पराषट्के तु साधिते ॥ ७४
यावदोर्ध्वे परे जन्म मन्त्रमार्गे महेश्वर ।
तावत् तु शाश्वती मुक्तिरवधिरेषा प्रकीर्तिता ॥ ७५
एवं मुक्तिस्वरूपं तु शून्यतत्त्वादि पौरुषम् ।
पौरुषं शून्यमाख्यातं माया तस्यैव शून्यता ॥ ७६
तथेश्वरं भवेच्छून्यं ततः शून्यं सदाशिवम् ।
शिवं सर्वगतं शून्यं नादान्तं शून्यमुच्यते ॥ ७७
कारणं व्यापिनी शून्यं समना तस्य शून्यता ।
भैरवान्तं स्मृतं शून्यं शून्यं वै भैरवीपदम् ॥ ७८
वीरावलीपदं शून्यं कालिकाक्रम शून्यता ।
शून्यममरिकाम्नायं कुजान्ता यस्य शून्यता ॥ ७९
द्विचत्वारिंशतीशून्यं संचरान्ते ह्यधिस्थितम् ।
तत्रोर्ध्वे परं शून्यं निस्तरङ्गं तु शाम्भवम् ॥ ८०
मन्त्रविद्याविनिर्मुक्तं हेयोपादेयवर्जितम् ।
कुजान्ते त्ववधिः प्रोक्ता मन्त्राणां नास्ति संग्रहम् ॥ ८१
तदधो निरवधिस्तु संबन्धमुत्तमोत्तरम् ।
मन्त्राणां तु यदा जातं षड्विधाज्ञा महत्परा ॥ ८२
शान्तेच्छा कारणं शून्यं शून्याम्नायमिदं स्फुटम् ।
स्थितं षोडशभेदैस्तु तस्यावधिर्न विद्यते ॥ ८३
यदा ध्यानात्मकं भावं मन्त्रमुद्राविभेदितम् ।
जाप्यार्चनरतं नित्यं मोक्षमेतन्निरवधिः ॥ ८४
स्थिता पौरुषतत्त्वादि शान्तेच्छा यावत् कारणम् ।
अस्वतन्त्रं समाख्यातं ध्यानत्यागे विनश्यति ॥ ८५
मन्त्रत्यागं विना शान्तं मुमुक्षूणां तु दुर्लभम् ।
यत् तच्छान्तं परं शून्यं सर्वावयववर्जितम् ॥ ८६
यत् तत् स्थानं कुले ध्यानं मुद्रामन्त्रा लयं गताः ।
पूजाजाप्यविधानं च द्रव्यानुष्ठानपञ्चकम् ॥ ८७
आज्ञाक्षोभलयं यत्र अणिमादिगुणाष्टकम् ।
भूत्यागं धारणावेधं मुद्रास्फोटादिप्रत्ययम् ॥ ८८
अतीतानागतं चैव वर्तमानं चिरायुष्यम् ।
यदा न विद्यते यत्र तन्मोक्षं शाश्वतमजम् ॥ ८९
इच्छान्ते तु ध्रुवं शान्तं यत्र सर्वे लयं गताः ।
सावधिस्तु समाख्याता स्वतन्त्रं सर्वतोमुखम् ॥ ९०
प्राप्तत्यागं यदा नास्ति नान्यं भवति किञ्चन ।
प्रभुत्वं सर्वजन्तूनां शान्तमित्यक्षरं द्वयम् ॥ ९१
तावत् क्रियाः प्रवर्तन्ते दर्शनानां पदे पदे ।
तावदाक्रम्य मन्त्राणां क्रियायुक्तिर्विधीयते ॥ ९२
परान्ते तु पदे प्राप्ते क्रियाज्ञानी निवर्तते ।
तावत् ज्ञानक्रियाव्याप्तिर्निरवधिः परिकीर्तिता ॥ ९३
यावन्न सावधिं प्राप्य शान्तावस्था प्रपद्यते ।
तत्क्रियाज्ञानरहितं कुजान्तं शाम्भवं पदम् ॥ ९४
तथान्तरहितं ज्ञानं क्रियामार्गेण विद्यते ।
शान्तं ज्ञानं क्रियाहीनं पूजा ध्यानं न विद्यते ॥ ९५
क्रियाज्ञानेन अभ्यासादिच्छातीतः प्रवर्तते ।
सिद्धमार्गप्रपन्नानां अन्ते ज्ञेया तु सावधिः ॥ ९६
सा च सोपानशक्तिस्तु अजान्ते अनुगम्यते ।
सोपानेन विना मुक्तिः शून्यमार्गे तु दुर्लभा ॥ ९७
सावधिस्तु क्रमान्ते वै शून्यान्ते तु लयंगता ।
कन्दुकं तु यथा गच्छेन्मुष्टिना तु समाहतम् ॥ ९८
आकाशं गहनं यस्मान्मिथ्याचारेण साधकः ।
तद्वत् सावधिमोक्षान्ते निराचारपदे स्थितः ॥ ९९
आमूलाद् यावत् शाखाग्रं कर्कटो वोपसर्पति ।
तथा श्रीश्रीक्रमं प्राप्य परान्तमनुवर्तते ॥ १००
साधकः सर्वभावज्ञो बौद्धमार्गादितः क्रमात् ।
आरुहेत् क्रमशो मूर्ध्नि बहुजन्मान्तरेष्वपि ॥ १०१
कुजाम्नायपदं प्राप्य परान्ते तु लयं व्रजेत् ।
न तस्य पुनरावृत्तिरधो जन्मनि जन्मनि ॥ १०२
बौद्धशास्त्रादितः सर्वं यावत् कुलालिकामतम् ।
अन्योन्यगुणयोगेन यस्य क्रिया निवर्तते ॥ १०३
सावधेस्तु पदं प्राप्य क्रिया तस्य निवर्तते ।
तावत् क्रियारूढो मन्त्री वृक्षन्यानेन कर्कटः ॥ १०४
मन्त्रातीतपदं प्राप्य तदा शास्त्रं परित्यजेत् ।
साकारस्य विनाशोऽस्ति मुद्रापञ्चक्रमेण तु ॥ १०५
निराकारस्य शान्तस्य मुक्तिरित्यक्षरद्वयम् ।
ज्ञात्वा सकलसारं तु * * * * परित्यजेत् ॥ १०६
न जन्मैके भवेद् व्याप्तिः परे शान्ते निरामये ।
शास्त्रव्याप्तिविधानेन मुक्तिमार्गमतः परम् ॥ १०७
ज्ञात्वा सम्यग्विधानेन तदा ऊर्ध्वगतिः भवेत् ।
बौद्धं बुद्धिपदं मोक्षं आरुहन्तं गुणत्रयम् ॥ १०८
प्रधानं वेदवादीनां चतुर्वेदविदात्मानाम् ।
पौरुषं सौरवादीनां सांख्यानां परमं पदम् ॥ १०९
मौशलायुधहस्तानां मायातत्त्वं परं पदम् ।
शुद्धज्ञानमया विद्या वैमलानां परं पदम् ॥ ११०
अष्टप्रमाणवेदज्ञा लाकुलार्थविशारदाः ।
व्रते पाशुपते चैव ऐश्वरं परमं पदम् ॥ १११
नवनित्यागमज्ञानां शिवतत्त्वं परं पदम् ।
तदूर्ध्वे कारणाः पञ्च त्यक्त्वा ऊर्ध्वं तु भैरवम् ॥ ११२
साष्टतन्त्रतान्त्रिकानां नित्यानन्दं परं पदम् ।
समनान्तकलातीतं वामदक्षिणसंस्थितम् ॥ ११३
पंक्तिक्रमेण मोक्षोऽस्ति सत्यं नास्त्यत्र संशयः ।
तस्य ऊर्ध्वे पराषट्कं उपर्युपरिसंस्थितम् ॥ ११४
षडारं प्रथमं भेदं भैरवाख्यं द्वितीयकम् ।
वीरावली तृतीयं तु चतुर्थं कालिकाकुलम् ॥ ११५
ततस्त्वाद्यावतारं तु तस्य ऊर्ध्वमनाहतम् ।
श्रीमत्कुलालिकाख्यं तु जातिभेदेन साम्प्रतम् ॥ ११६
तेष्वासौ आदिभेदं तु क्रमत्रयविवर्जितम् ।
तस्य ऊर्ध्वे कादिभेदं सप्तकोटिप्रमाणकम् ॥ ११७
सूत्रसंग्रहमाख्यातं आदिनाथावतारितम् ।
प्रधानं सर्वतन्त्राणां सप्तकोट्या विनिर्गतम् ॥ ११८
तत्सारं कोटिपादं तु लक्षपादाधिकं ततः ।
प्रमाणं सर्वशास्त्राणां विशेषं पश्चिमान्वये ॥ ११९
मयावतारितं तुभ्यं महाकुलालिकामतम् ।
क्रमोदयं समासेन मुद्रापीठोपरिस्थितम् ॥ १२०
मन्त्रविद्यासमुत्तीर्णं जातिभेदविवर्जितम् ।
रजमण्डलनिर्मुक्तं सर्वध्यानविवर्जितम् ॥ १२१
तन्त्राचारविनिर्मुक्तं साधिकारं त्रयोलिषु ।
सारात् सारतरं तस्माद् दुग्धाद् घृतमिवोद्धृतम् ॥ १२२
जिनसंख्यागमं मूलं मूलान्वयक्रमागतम् ।
खण्डत्रयं पराषट्कं विशेषाज्ञावधिष्ठितम् ॥ १२३
सिद्धसन्तानसंकाशं महाक्रमस्य शासनम् ।
शुद्धात्मकस्य सिद्धस्य पूर्णिमान्ते स्थितस्य च ॥ १२४
प्रस्तारषोडशोत्तीर्णं आद्यपीठे तु उद्धृतम् ।
शाम्भवं सरहस्यं तु आख्यातं तन्नपुंसकम् ॥ १२५
उत्तमं सर्वमार्गाणां बौद्धशास्त्रादितः क्रमात् ।
मालिनीविजयं कृत्वा यावच्छास्त्रं नपुंसकम् ॥ १२६
तावत् तेषां तु ते जाता भेदे भेदे पृथक् पृथक् ।
स्वस्थाने भवते मुक्तिर्मुनीनां तु कुलान्वये ॥ १२७
महाक्रमपरस्यापि पदान्ते तु परं लयं ।
सावधिर्मुक्तिमार्गेऽस्मिन् कुजाम्नाये तु साधिते ॥ १२८
बौद्धमारहन्तं वेदं सौरं सांख्यं च वैष्णवम् ।
योगव्रतं च विमलं तथा पाशुपतं महत् ॥ १२९
शैवं तस्य विशेषं तु भैरवाष्टकनिर्णयम् ।
पराषट्कं कुजान्तं च उपर्युपरिसंस्थिताः ॥ १३०
बौद्धशास्त्रमारहन्तं तस्माद् वैदिकदर्शनम् ।
वेदशास्त्रात् परं सौरं सौरात् सांख्यं च वैष्णवम् ॥ १३१
योगशास्त्रं च बहुधा ततस्तूर्ध्वं महाव्रतम् ।
तस्माच्च वैमलं सारं प्रमाणाष्टौ च लाकुलम् ॥ १३२
ततः पाशुपतं प्रोक्तं तस्माच्छैवमनेकधा ।
अतः परं तु स्वच्छन्दं निष्कलं सकलं ततः ॥ १३३
बहुरूपमघोरीशं व्याधिभक्षं च भैरवम् ।
चन्द्रगर्भं तु विज्ञानं तुम्बुरुं चामृतेश्वरम् ॥ १३४
क्रमेणापि षडर्धं स्यान्मालिनीविजयं कुलम् ।
ऊर्ध्वे क्लिन्नान्वयं योगं तस्यातीतं परं पदम् ॥ १३५
वीरावलीकुलाम्नायं अपरं कालिकाक्रमम् ।
ततः कुलकपाटं तु आद्यमध्वानशासनम् ॥ १३६
तत एवं कुजाम्नायं हितार्थं शुद्धकौलिकम् ।
तस्योर्ध्वे तु निरानन्दं शान्तमित्यक्षरद्वयम् ॥ १३७
शाम्भवं शाश्वतं मोक्षं क्रियाजालविवर्जितम् ।
मन्त्रोपदेशरहितं * * * * * * * * ॥ १३८
* * * * * रं प्राप्य सर्वावस्था भविष्यति ।
बौद्धशास्त्रात् समारभ्य यावत् काद्यं नपुंसकम् ॥ १३९
परान्तमनुगच्छेत मन्त्रत्यागेन सर्वदा ।
मुक्तिविशेषणमस्मिन् ऊर्ध्वाभ्यन्तरमद्वयम् ॥ १४०
मुक्तिसंग्रहसूत्रेदं कादिभेदात् परं नहि ।
विदित्वा ज्ञायते मुक्तिः शास्त्राम्नाआयेन नान्यथा ॥ १४१
वेदसिद्धं पशोश्चोर्ध्वं ऊर्ध्वं वामे * शुत्व * ।
वामदक्षिणमार्गे तु दक्षिणाम्बिकनिर्णये ॥ १४२
तं तु योभ्यर्त्तवे लीन ज्योति श्रीवक्रिकामते (?) ।
नातः परतरं किञ्चिदित्याज्ञा पारमेश्वरी ॥ १४३
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरे षट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते श्रीचतुर्विंशत्सहस्रसंहितायां अम्बाक्रमभाषिते मुक्तिसंग्रहसूत्राधिकारो नामानन्दः ॥ ६८ ॥
Kumārikākhaṇḍa – Kapitel ६९
ऊनसप्ततितमानन्दः
श्रीनाथ उवाच
त्वं गुरुर्मम देवेशि अहं तव विचारणे ।
रुद्रभैरववीराणां एषा आज्ञा न कस्यचित् ॥ १
मम मित्रत्वभावेन कारुण्येन प्रकाशितम् ।
श्रीवक्रा उवाच
आज्ञापितस्तदा देवः आज्ञापरिग्रहं प्रति ॥ २
श्रीकण्ठस्य महावृद्धं दत्तं कृतयुगे क्रमम् ।
प्रभवे वत्सरे मासे श्रावणे त्वसिताष्टम्याम् ॥ ३
बालस्यौल्यवतारं तु ततस्त्रेतायुगे पुनः ।
दुर्वासस्य तु देवेश ओड्डीशस्य त्वनुग्रहम् ॥ ४
दत्तमोडामरं तस्य क्रमं वीरावली स्फुटम् ।
वैशाखे त्वसिताष्टम्यां प्रमोदे हितवत्सरे ॥ ५
द्वापरे षण्मुखस्यापि दत्तमाज्ञां त्वनुग्रहम् ।
कौमाराख्यं व्रतं दत्तं श्रीवत्से त्वसिताष्टम्याम् ॥ ६
चैत्रमासे मध्यमोल्यां अवतारं युगे युगे ।
विदितं षष्ठनाथेन ततः कलियुगे पुनः ॥ ७
नन्दिरुद्रस्य सा आज्ञा चर्यानाथस्य त्वनुग्रहम् ।
करोत्याज्ञा स्वयं सम्यक् ज्येष्ठानुक्रमयोगतः ॥ ८
ज्येष्ठोल्यामवतारं तु एवमोलिक्रमत्रये ।
चतुर्थं सर्वसाधारं निरंशपदसंस्थितम् ॥ ९
वीरावलीक्रमं नाथ एवं क्रमचतुष्टयम् ।
भविष्ये पञ्चमं नाथं कलौ अन्ते न संशयः ॥ १०
क्षयसंवत्सरे जाते शिवरात्र्यां चतुर्दश्याम् ।
श्रीमत्पिङ्गलरुद्रस्य मतङ्गीशात्मकस्य च ॥ ११
आज्ञासंक्रमणं कृत्वा दत्तं तस्यापि खेचरम् ।
क्रमं मूलान्वयं सारं दिव्यलिङ्गाद् विनिर्गतम् ॥ १२
लिङ्गोल्यामन्वयं सर्वं युगान्ते संभविष्यति ।
पञ्चानां युगनाथानां आदिनाथं तु भैरवम् ॥ १३
नवात्मानन्ददेवेशं विद्याराजेश्वरेश्वरम् ।
श्रीकुजेच्छासमुत्पन्नं श्रीकुजेशं महात्मनः ॥ १४
कुचन्द्रशेखरो नाम समनान्ताद् विनिर्गतः ।
इत्युत्सङ्गावतारं तु चन्द्रद्वीपे कुलाम्बिके ॥ १५
इच्छानाथं स्थितं ह्येकं आज्ञासिद्धैस्तु पञ्चभिः ।
तेषां मध्यादोलित्रये अधिकारे स्थितास्त्रिभिः ॥ १६
श्रीकण्ठ एष भगवान् मैत्रीभावं कृते गतः ।
कामरूपे स्थितो यो हि जन्तूनां तारणार्थतः ॥ १७
पुरन्दरः स भगवान् ओडुनाथः त्रिते युगे ।
जालन्धरे स्थितो यो हि वीराणां सिद्धिदायकः ॥ १८
श्रीकुमारः स भगवान् षष्ठनाथस्तु द्वापरे ।
पूर्णगिर्यां स्थितो यो हि योगिनां योगसिद्धिदः ॥ १९
नन्दिरुद्रः स देवेश चर्यानाथः कलौ युगे ।
श्री ओंकारे स्थितो यो वै भोगमोक्षप्रदायकः ॥ २०
दक्षिणाशां गतो यो हि श्रीमच्चन्द्रपुरे गृहे ।
युगान्ते पिङ्गलो नाम मतङ्गीशो महाबलः ॥ २१
आज्ञाहेतोस्तिस्रपीठे पञ्चमं सिद्धनायकम् ।
व्यापकं च नवात्मानं अनादियुगसंस्थितम् ॥ २२
कुचन्द्रशेखरानन्दं चन्द्रपीठे जगद्गुरुम् ।
श्रीमित्रनाथादिसिद्धौघं चन्द्रद्वीपाद् विनिर्गतम् ॥ २३
पश्चिमे सिद्धसन्तानं पूर्वसन्तानवर्जितम् ।
पश्चिमे तु युगे देव म्लेच्छराज्ये च उत्तरे ॥ २४
इतरे गुरुशिष्ये तु लोभमोहवशं गते ।
आज्ञावेशे गते क्षीणे अधिकारे क्षयं गते ॥ २५
अवतारं करिष्येऽहं पञ्चमे पीठनायके ।
सिद्धस्तत्र मतङ्गीशः श्रीमातङ्गीसमन्वितः ॥ २६
तत्रारभ्य महापूजा भविष्यति चतुष्टये ।
इदं तथ्यं मया प्रोक्तं चतुर्विंशत्सहस्रके ॥ २७
श्रीमत्कुमारिकाखण्डे षट्साहस्रे मतोत्तमे ।
आदौ कुमारिकाखण्डं सिद्धखण्डं द्वितीयकम् ॥ २८
तृतीयमादिखण्डं तु चतुष्पादाः क्रमाद् विभो ।
वृक्षोऽयं कुब्जिकादेव्याश्चतुर्विशत्सहस्रकम् ॥ २९
शेषराजस्य हस्ते तु स्थापितं कारणार्थः ।
उक्तं देव्या त्विदं वाक्यं इदं यो वेत्ति तत्त्वतः ॥ ३०
तस्य अनुग्रहं दास्ये वेधमाज्ञासमन्वितम् ।
तस्य देयमिदं शास्त्रं सामर्थ्ये प्रकटीकृते ॥ ३१
नागराजेन शिरसा धृतमादेशपूर्वकम् ।
ततस्तु विश्वदेवेन सिद्धनाथेन भैरव ॥ ३२
आनीतोऽनुग्रहार्थाय भक्तानां तार्णाय च ।
ओंकारे तु महापीठे सिद्धयोगिन्यलंकृते ॥ ३३
कनकमञ्जरी नाम योगिनी च महाबला ।
स्थापितं तद्गृहे ज्ञानं कृत्वा समयपूर्वकम् ॥ ३४
नाभिवर्तिरहीका च वज्रसन्धिः कपाटयोः ।
संकेतान् वेत्ति योऽप्यत्र तस्य देयं कुलागमम् ॥ ३५
अन्यथा नैव दातव्यमित्याज्ञा पारमेश्वरी ।
इत्याद्यावतारे महामन्थानभैरवयज्ञे अन्वये सप्तकोटिप्रमाणे मेरुमार्गविनिर्गते लक्षपादाधिके आद्यपीठावतारिते विद्यापीठमार्गे विमलभेदोत्तरषट्कनिर्णये कादिभेदे आज्ञापारमेश्वरे स्वामिनीमते चतुर्विंशत्सहस्रसंहितायां आम्बाक्रमभाषिते श्रीमत्कुमारिकाखण्डं समाप्तं ॥ ६९ ॥
लक्षकोटिप्रमाणं तु मतं वै पारमेश्वरम् । एतस्मादुद्धृतं सारं सप्तकोटिप्रमाणतः ॥
सप्तकोट्याः सारतरं लक्षपादाधिकं ततः । एतस्मात् सारतरं स्याच्चतुर्विंशत्सहस्रकम् ॥
त्रिभिः खण्डैः कुजेशान्या मित्रस्यैव प्रकाशितम् । नन्दन्तु कुलयोगिन्यो नन्दन्तु कुलपुत्रकाः ॥
नन्दन्तु श्रीकुलाचर्या ये चान्ये कुलदीक्षिताः ।
Siddhakhaṇḍa – Zitatgruppe १
अपरं शाक्तवेधेन दहनं यन् मलक्षयम् ॥
त्वया चोक्तं च यत् पूर्वं अर्चनार्थं क्रमस्य च ॥
आप्यायनं तथा देवि न श्रुतं मे महेश्वरि ॥
उन्मनान्ते लयं कृत्वा कथं तं पुनर् आगमम् ॥
खचक्रे च स्थिरीभूय कथम् अर्चाविधिर् भवेत् ॥
अमृतीकरणं देवि शक्तिभेदं वद प्रभो ॥
श्रीवक्रा उवाच
या सा दीपशिखा रौद्री उन्मनान्ते लयं गता ॥
पूजनार्थं क्रमस्यात्र आनयेत् पुनर् एव हि ॥
द्वादशान्ते मनः कृत्वा उन्मना च गमागमे ॥
व्यापिनीं च कलां शुद्धां शिवभाषां समुच्चरेत् । आनन्दः परमावस्था तस्य योनिर् अनाहता ॥
स्रवन्तम् अमृताकारं किञ्चित् तेजोमयं विदुः ॥
तस्येच्छा निर्गता क्लिन्ना योनिर् भैरवरूपिणी ॥
अन्वये सा परा शक्तिर् ऋजुरेखैव कुण्डली ॥
अमा सप्तादशी पूर्णा कला अमृतवाहिनी ॥
शिवेन सहिता सा तु श्रीकुजाम्बा अधोमुखी ॥
नित्यक्लिन्ना महन्तार्या लुलन्ती सा करङ्किणी ॥
मध्यगाम् आनयेत् तां तु ऋज्वीं सूक्ष्मां शनैः शनैः ॥
संघट्टं भेदयित्वा तु त्रिधा तत्र स्वमण्डले ॥
आगमाप्यायनोपायं सृष्टिभेदं परान्वये ॥
सृष्टिसंहारभेदेन दहनाप्यायपक्षयोः ॥
गमागमेन वै प्रोक्तं अमाकरणपूर्वतः ॥
एवं षट्प्रकारेण आज्ञा भगवती परा ॥
सूक्ष्मक्रमेण कथिता नाडिरन्ध्रान्तरं गता ॥
स्वदेहे कुब्जिका या च क्रमत्रितयवाहिनी ॥
पूर्वं च हि समाख्याता मूलभेदे मनोन्मनी ॥
शिवस्येच्छा परा शक्तिः तस्येच्छा या विनिर्गता ॥
द्वादशान्ते तु संजाता तत्रस्थाने लयं गता ॥
कन्दाधारे जगस्यान्ते स्फुरन्ती तिष्ठते सदा ॥
अस्या मन्त्रैर् भवेत् पूजा स्थूलसूक्ष्मक्रमेण तु ॥
अन्तरङ्गे स्थिता सूक्ष्मा बहिर् अन्ते समुद्धृता ॥
विद्यारूपा भवेत् स्थूला आज्ञा संपूर्णमण्डला ॥
Yogakhaṇḍa YKh(१) – Kapitel १६ – Zitatgruppe २
उलिभेदे कथं सा तु नित्यक्लिन्ना सुरक्तिका ।
आद्या कुमारिकाखण्डे सिद्धा भेदे कथं स्थिता ॥ ५
Yogakhaṇḍa YKh(१) – Kapitel १८ – Zitatgruppe ३
इति श्रीकादिभेदे श्रीचतुर्विंशतिसहस्रे विद्यामाहात्म्ये जप्याधिकारो नाम योगखण्डे ॥ १८ ॥
Yogakhaṇḍa YKh(१) – Kapitel १९ – Zitatgruppe ४
इति श्रीकादिभेदे श्रीचतुर्विंशतिसाहस्रे देव्यामूर्तिध्यानं योगखण्डे ॥ १९ ॥
इति श्रीमध्यमोलिदेव्यामूर्तिध्यानसूत्रं योगखण्डे ॥
इति श्रीचतुर्विंशतिसाहस्रे परादेव्यामूर्तिध्यानसूत्रम् ॥
Yogakhaṇḍa YKh(१) – Kapitel २४ – Zitatgruppe ५
इति श्रीकादिभेदे चतुर्विंशतिसाहस्रे योगखण्डे मुद्राधिकारो नामानन्दः ॥ २४ ॥
Yogakhaṇḍa YKh(१) – Kapitel २३ – Zitatgruppe ६
इति श्रीचतुर्विंशतिसाहस्रे मृतसंजीवनीविद्या योगपदे ॥
Yogakhaṇḍa YKh(१) – Kapitel १२ – Zitatgruppe ७
इति श्रीचतुर्विंशतिसाहस्रे आद्यखण्डे क्रमागमावतारो नाम सूत्रं ॥ १२ ॥
Yogakhaṇḍa YKh(१) – Kapitel २२ – Zitatgruppe ८
इत्याद्यावतारे महामन्थानभैरवयज्ञे श्रीचतुर्विंशतिसाहस्रे आद्यखण्डे गुरुक्रमाधिकारसूत्रं ॥ २२ ॥
Yogakhaṇḍa YKh(१) – Kapitel ४० – Zitatgruppe ९
इति श्रीकादिभेदे चतुर्विंशतिसाहस्रे आद्यखण्डे सप्ताविंशतिक्रमोद्धारसूत्रम् ॥ ४० ॥
Yogakhaṇḍa YKh(२) – Kapitel २९ – Zitatgruppe १०
वाममार्गे यजेद् यत् तत् पञ्चरत्नक्रमेण तु ।
आद्यखण्डे तु सिद्धानां नाम्ना श्री - अमरिका परा ॥ ४१
परा सा त्रिस्वरूपा तु आज्ञाखण्डे प्रपूजयेत् ।
आदौ कुमारिकाखण्डं सिद्धखण्डं द्वितीयकम् ॥ ४२
Siddhakhaṇḍa SKh – Kapitel ११ – Zitatgruppe ११
एवं गुरुमुखात् प्राप्य सिद्धखण्डं विधानवित् । गुरुवक्त्रेण चैकेन सिद्धिर् भवति शाश्वती ॥ ४८
Siddhakhaṇḍa SKh – Kapitel ३१ – Zitatgruppe १२
अपरं सिद्धखण्डे तु मन्त्रमार्गे विधीयते ।
परापरं तृतीयं च आद्ये विद्याकुले स्मृतम् ॥ २४
Siddhakhaṇḍa SKh – Zitatgruppe १३
इति श्रीसिद्धखण्डं समाप्तम्.
Yogakhaṇḍa YKh(१) – Kapitel ३४ – Zitatgruppe १४
आज्ञाशास्त्रात् परं नास्ति पीठक्रमात् परं न हि ।
गुरुवक्त्रात् परं नास्ति शेषं त्यज्यं पलालवत् ॥ १३३
Yogakhaṇḍa YKh(१) – Kapitel ३४ – Zitatgruppe १५
इत्य् उक्तं सकलम् उक्तं संसारभयनाशनम् ॥
कौमार्याख्ये परे खण्डे रहस्यं परमाद्भुतम् । १३४
न देयं यस्य कस्यापि मतराजं महेश्वर ॥ १३५
Yogakhaṇḍa YKh(१) – Kapitel ३७ – Zitatgruppe १६
पीठक्रमं कुलायातं सृष्टिन्यायेन अर्चयेत् ॥ ४३
Yogakhaṇḍa YKh(१) – Zitatgruppe १७
इति कुलक्रमाधिकारनामसूत्रम्
Yogakhaṇḍa YKh(१) – Kapitel ९ – Zitatgruppe १८
आधारश् चक्रलक्षश् च पीठभ्रमणतत्परः ।
ईदृशो देशिकः साक्षात् भुक्तिमुक्तिप्रदायकः ॥ १३
Yogakhaṇḍa YKh(१) – Kapitel १४ – Zitatgruppe १९
ओंकारमादितः कृत्वा अव्यक्तान्तं तथावधिः ।
पीठाष्टकं तु विज्ञेयं देशिकैः क्रमदर्शिभिः ॥ १३
Yogakhaṇḍa YKh(१) – Kapitel ४ – Zitatgruppe २०
तत्र मण्डलकोद्द्योतं सिंहाष्टकपरिवृतम् । गृहाष्टकं कुलाचारं पीठाष्टकसमन्वितम् ॥ २३२
Yogakhaṇḍa YKh(१) – Kapitel ४ – Zitatgruppe २१
कृते श्रीशाम्भवः सिद्धः पश्चिमेन तु यद् गुरुः ।
पूजितं तेन चक्रं तु कुमारपर्वते तु च ॥ २८३
पीठाष्टकेन भेदेन त्रिरात्रं क्रममध्यतः । २८४
Yogakhaṇḍa YKh(१) – Kapitel १५ – Zitatgruppe २२
. . . . . . . . कौमारे मेरुमूर्धनि ।
पीठाष्टकम् इदं शंभो भुक्तिमुक्तिप्रदायकम् ॥ ७२
दिव्यमेरूर्ध्वपीठम् ॥ ५६
Yogakhaṇḍa YKh(१) – Kapitel ३३ – Zitatgruppe २३
उद्धृतं भूमिकार्थेभ्यो ज्ञात्वा बुद्धिप्रकाशकम् ॥ ११३
योगिनीनां न सन्देहो भ्रान्तिच्छेदम् इदं परम् ।
भूमिकार्थोपदेशं तु अज्ञात्वा नैव मुक्तिभाक् ॥ ११४
भुक्तिच्छेदो न चास्तीति कौमारस्य क्रमस्य च ।
मूलान्वयकुलस्येदं सारं कौलक्रमं मतम् ॥ ११५
दुर्विज्ञं सर्वयोगीनां भूमिकार्थसमुद्धृतम् ।
शतसूत्रक्रमौघेन सम्यग् ज्ञात्वा प्रगृह्यते ॥ ११६
भूमिकार्थविहीनानां तेषां भ्रान्तिः पदे पदे ।
यदि नाज्ञाधरो मन्त्री न त्राता न च मोचकः ॥ ११७
आचार्यस्य पदे भ्रान्तिर् मण्डलस्य क्रमस्य च ।
तदा शिष्यो न मुच्येत संसारार्णवबन्धनात् ॥ ११८
तस्माद् भ्रान्तिं परित्यज्य कौलज्ञानाभिकाङ्क्षिणः ।
दीक्षाव्याख्यानकं कुर्याद् अन्यथा नारकी भवेत् ॥ ११९
अविज्ञात्वोदयं शास्त्रं अधिकारं करोति यः ।
तेन मनो ऽहम्कारे तु छिन्नमूलगतिर् भवेत् ॥ १२०
प्रथमान्वयकौलस्य पश्चिमस्य गृहस्य च ।
संहितार्थम् इदं ज्ञात्वा अनुष्ठानं करोति यः ॥ १२१
सो ऽधिकारी विकासज्ञो ऽन्यथा न कदाचन ।
भूमिकाज्ञाननिर्मुक्तः संहितार्थसंबोधकः ॥ १२२
स्वयं भूमिकाकर्ता च दूषको नारकी भवेत् । १२३
Siddhakhaṇḍa – Zitatgruppe २४
अघोरे ह्रीं परमघोरे हूं घोररूपे ह्सौं घोरमुखि भीमभीषणे वम वम पिब पिब ह हे रुरु रुरु रर रर हूं फ्रें ख्फ्रें ह्रीं हूं हूं ह्स्रौं
सहक्षमलवरयूं
स क्ष ह भैरवानन्द भैरववीराधिपतये ॥
Siddhakhaṇḍa MS K – Zitatgruppe २५
ऐं घोरे ह्रीं ह्रीं परमघोरे हूं * ह्सौं घोरमुखि भीमभीषणे वम वम पिब पिब ह्रूः रु पि रु ह्रां रु रु ह्रीं र र ह्रूऔं रे र्फट् र्फट् ऐं
Siddhakhaṇḍa MS Kh – Zitatgruppe २६
ऐं घोररूपे ह्स्रौं घोरमुखि भीमभीषणे ह्स्रूऔं वम वम ह्स्रौं पिब पिब हूं रुरु ह्रीं रर क्रीं रर क्रौं फ्रें फ्रें * फट् ऐं
Yogakhaṇḍa YKh(१) – Kapitel १० – Zitatgruppe २७
क्रमार्चनं प्रकर्तव्यं स्थानं ज्ञात्वा स्वकं स्वकम् ॥ १८
अन्यथा विघ्नसंघातं दुर्योगं च पदे पदे ।
अक्रमं वर्तते सर्वं क्रमज्ञानविवर्जितम् ॥ १९
कुलज्ञानविनिर्मुक्तः क्रियाकाण्डं करोति यः ।
अक्रमी भवते ऽसौ वै प्रत्यङ्गिर्य् एव केवलम् ॥ २०
क्रमहीनो यजेत् कश्चित् स्थानभेदविवर्जितः ।
सिद्धोदयविनिर्मुक्तो यष्टो ऽपि हि निरर्थकः ॥ २१
स्वक्रमज्ञाननिर्मुक्तः सन्ध्यात्रयविवर्जितः ।
नाक्रमी क्रमिको ज्ञेयः स पापी पतितो भवेत् ॥ २२
भूमिकाक्रमनिर्मुक्तः क्रमद्वादशवर्जितः ।
न क्रमी भवते ऽसौ हि पातकी पतितो भवेत् ॥ २३
मण्डलमाननिर्मुक्तम् अपूज्यं मण्डलेश्वरम् ।
न सो ऽपि देशिको ज्ञेयः स पापी गुरुतल्पगः ॥ २४
स्वक्रमन्यासनिर्मुक्तः व्युत्क्रमं न्यसते यदा ।
स मूढः पशु - विज्ञेयः नान्वयी स कुलक्रमे ॥ २५
Siddhakhaṇḍa SKh – Kapitel ३ – Zitatgruppe २८
एवं ज्ञात्वा जगन्नाथ ओलिपूजारहो भवेत् । पीठपिण्डक्रमाचारं गुरुपङ्क्तिकुलक्रमम् ॥ १०
शरीरे यो विजानाति स भवेत् कुलनन्दनः । ११
Yogakhaṇḍa YKh(२) – Kapitel ६ – Zitatgruppe २९
बालक्रमं कौमारं वृद्धक्रमम् अतः परम् ।
कुजाम्नायाश् च ते चास्मिन् उपदेशं तु पूर्वतः ॥
वृद्धक्रमं त्रिधा भिन्नं मध्यमं च त्रिधा पुनः ।
त्रिधा बालक्रमं देव नवधा च कुलक्रमम् ॥ [. . .]
एकं तं चिञ्चिणीनाथं तत्रोर्ध्वे शाम्भवं पदम् ।
आनन्दो विमलं चैव चिञ्चिणी च तथैव च ॥ [...]
त्रिधा त्रिधा त्रिधा चैव नवधा च कुजाक्रमम् ॥ ९
ओलिभेदं तु तं ज्ञात्वा अधिकारः प्रवर्तते ।
प्रमदाद् अपि सिद्धानां नाधिकारश् चतुर्युगे ॥ १०
Siddhakhaṇḍa SKh – Kapitel ५ – Zitatgruppe ३०
न्यासाष्टकं पुरा कृत्वा तदा बालक्रमं यजेत् ॥ १३
नवसंकेतसहितं मूलसन्तानसंयुतम् ॥ १४
Yogakhaṇḍa YKh(१) – Kapitel २० – Zitatgruppe ३१
अतः परं प्रवक्ष्यामि श्रीमतस्यार्चने विधिम् ।
चतुष्कोणं समं शुद्धं पञ्चद्रव्यैः सुलेपितम् ॥ २२
मध्ये तु कलशं स्थाप्य अलिना पूरितं भृशम् ।
चतुर्दिक्षु तु चत्वारो वर्धन्याः सहिता न्यसेत् ॥ २३
रत्नवस्त्रान्विताः सर्वाश् चत्वारस् तोयपूरिताः ।
पीठभेदेन ते पूज्याः सर्वपिण्डपदाज्ञया ॥ २४
मध्यसंस्थं च यत् कुम्भं स्वस्तिकस्योपरि स्थितम् ।
नेत्रपट्टेन संस्थाप्य पूजयेद् विमलं क्रमम् ॥ २५
विशेषद्रव्ययोगेन सुगन्धैः पुष्पचन्दनैः ।
शशिनाभिसुधूपैश् च पूजयेन् मतराजकम् ॥ २६
पीठाक्षतैर् अखण्डैश् च दीपनैवेद्यभक्षकैः ।
रत्नैर् वस्त्रैर् विचित्रैश् च हारभूषणवाहनैः ॥ २७
पूजयेत् क्रमभेदेन मुद्रामन्त्रक्रियान्वितः ।
ध्यानधारणशुद्धाः पश्चाद् यजनम् आरभेत् ॥ २८
एकान्ते विजने रम्ये पशुशल्यविवर्जिते ।
पूर्ववन् मण्डपगुप्ते रविकिरणवर्जिते ॥ २९
आनयेत् पश्चिमे द्वारे स्वशिष्यं च प्रवेशयेत् ।
उत्तराभिमुखं देवं गुरुर् वै पश्चिमे मुखः ॥ ३०
पूजयेच् च मतं तस्य वामहस्तेन विद्यया ।
आरतीं कारयेत् पश्चाद् दीपकावलिपूर्विकाम् ॥ ३१
नमस्कारो महाभक्त्या दण्डपातैः पुनः पुनः ।
कुमारी योगिनी पूज्या गुह्ये पूज्या विधानतः ।
चरुकं प्राशयेत् पश्चाद् दीपकालिप्रपूरितम् ॥ ३२
एवं कृत्वा ततः पश्चात् सर्वस्वं विनिवेदयेत् ।
आशीर्वादं च चक्रस्य गृह्नीयात् सिद्धिम् इच्छतः ॥ ३३
योगिनी वा कुमारी वा तस्य हस्ते मतं ददेत् ।
ग्राह्यं मूर्ध्ना च श्रद्धया प्रसीदेति क्षमापयेत् ॥ ३४
पश्चाद् लेख्यम् अलेख्यं वा कारयेद् विधिपूर्वकम् ।
महाचक्रं पूजयित्वा हेमवस्त्रादिदक्षिणैः ॥ ३५
निर्विघ्नं भवते देव उभयोर् नात्र संशयः ।
गुरुं क्षमापयेत् पश्चात् सर्वस्वं विनिवेदयेत् ॥ ३६
आशीर्वादं च चक्रस्य ग्रहणात् सिद्धिदं भवेत् ।
यागकाले मतं पूज्यं पर्वकाले विशेषतः ॥ ३७
गमने स्मरकाले वा अभिषेके तथैव च ।
पूजितं वाञ्च्छितं देव ददते नात्र संशयः ॥ ३८
स्थण्डिलात् षड्गुणं पुण्यं सिद्धलिङ्गात् शतार्धकम् ।
बाणाच् चैव सहस्रार्धं लक्षं चैव स्वयंभुवः ॥ ३९
अनन्ता आगम पूजा तस्मात् पूज्यं कुलागमम् ।
सपादं लक्षपादं वा तस्यार्धार्धं तदर्धकम् ॥ ४०
तदर्धार्धं च पादं वै पूजयेच् छ्रद्धयान्वितः ।
तस्य भुक्तिश् च मुक्तिश् च भैरवो ‘सौ न संशयः ॥ ४१
पूज्यं वन्द्यं सदा देव त्रिकालं गुरुमण्डलम् ।
यत्रैव श्रीमतं तिष्ठेत् पदमन्त्रः प्रवर्तते ॥ ४२
तत् सर्वं पीठतुल्यं तु मतराजप्रभावतः ।
तस्माद् रक्ष्यं प्रयत्नेन अपरीक्ष्य न दापयेत् ॥ ४३
कोटियज्ञस्य यत् पुण्यं लिङ्गानां स्थापनाद् भवेत् ।
तद्भवे श्रीमते देव जीर्णोद्धारे कृते सति ॥ ४४
नित्यं पीठे च पूजायां चतुर्विंशसाहस्रके ।
जायते तस्य संसिद्धिः भारते कुलपर्वते ॥ ४५
नान्तरमते पुण्यं इत्य् आज्ञा पारमेश्वरी ।
नित्यम् अङ्गुष्टकाद् रक्षेन् नित्यं शिथिलबन्धनात् ॥ ४६
नित्यं याचनयाद् रक्ष्येद् नित्यं काण्डकुटीरकात् ।
विधिहीनं ददेद् यस् तु व्याख्यानं कथ्यते ‘पि वा ॥ ४७
Yogakhaṇḍa YKh(१) – Kapitel २० – Zitatgruppe ३२
प्रायश्चित्ती भवेत् सो हि लक्षजापाद् विशुद्ध्यति । पीठानां भ्रमणाद् वेधः इत्य् आज्ञा पारमेश्वरी ॥ ४८
Yogakhaṇḍa YKh(१) – Kapitel ३४ – Zitatgruppe ३३
अनादिविमलानन्ता देवदेवी खगेश्वरी ॥ ३५
चित्कला कुलरूपेण खञ्जिन्याहं चतुर्युगे ।
शुद्धबोधस्वरूपेण चिदाकाशे कुलेश्वरी ॥ ३६
संवृत्त्य सहजानन्दा आद्या देवी प्रकीर्तिता ।
आदिमध्यावसाने तु चिञ्चिणी स्रवते कला ॥ ३७
चिन्मात्राखण्डका संज्ञा अनादिशिवमध्यगा ।
निरालम्बं निराकारं शून्यभूतम् अचेतनम् ॥ ३८
इच्छाभावस्वरूपेण भैरवी बोधरश्मयः ।
भरणादपि विश्वस्य रमणात् कुलकौलिनी ॥ ३९
वर्षन्ती अमृतौघेन तेन भैरव भैरवी ।
खस्था निवर्तिताकारा सदोदितविकासिका ॥ ४०
स्वभावचेतनारूढा इच्छाशक्तिर् निगद्यते ।
इच्छया सृजते सर्वं संहरेत् पुनर् इच्छया ॥ ४१
भूमिकाज्ञास्वरूपाहं विमुक्ता कुलकौलिनी ।
अकुलीशकुलालम्बी भवोच्छेदकरी ह्य् अहं ॥ ४२
संभूता ओघमार्गेण तद्धर्मसमधर्मिणी ।
अध - ऊर्ध्वनिरोधेन संघट्टकरणाद् अपि ॥ ४३
खकला खचराख्यस्था अकथ्या परमेश्वरी ।
अव्यक्ता व्यक्तरूपेण निराभासा विभासिका ॥ ४४
सामरस्यपदैकाकी अकाया अकथा स्मृता ।
करणद्वयमध्यस्था काकिणी स्वरभेदिता ॥ ४५
अनङ्गा चित्कला काली मालिनी नाथभैरवी ।
समयावलिमन्त्रस्य मेरुमार्गप्रकाशिनी ॥ ४६
नानाकाराधिकारी च त्रिकूटशिखरेश्वरी ।
कूटरूपा त्रिकूटा च इच्छाज्ञानीक्रियात्मिका ॥ ४७
त्रिवलीतरङ्गभङ्गा भगभृत्या महेश्वरी ।
मालिनी मन्मथा चैव भैरवेच्छा महातनुः ॥ ४८
आर्णवे मातृकाकाराहं सा देवी निगद्यते ।
आज्ञारूपा महावक्रा अकार्या क्षीणकल्मषा ॥ ४९
तुर्यातीते सदा लीना अभावचिन्तचेतना ।
आदिनाथपदान्तस्था अवभासस्वरूपिणी ॥ ५०
अमृतान्ते सदा लीना भानुजा सा विधीयते ।
माया सा मन्मथा ज्ञेया ईश्वरस्य घटे स्थिता ॥ ५१
विख्याता तेन सा देव क्रमे कौलेश्वरी स्मृता ।
सा च तुर्यस्वराकारा गौरी पर्वतवासिनी ॥ ५२
शंकरस्य स्वभावेन संवृता कुलनन्दिनी ।
एकानेकप्रविष्टा सा नाथ निदानादानवर्जिता ॥ ५३
तमोध्वंसकलाध्वस्था प्रविकासे महेश्वरी ।
उन्मना मनवेगेन संक्रमति अनामया ॥ ५४
शान्तरूपा महावस्था बोधकी ज्ञानरश्मयः ।
लुतन्ती परमा सूक्ष्मा लुप्तवर्णस्वभाविका ५५
स्वयमेव सृजेत् काली लिङ्गाकारा वराङ्गना ।
महेन्द्रा सकला खस्था नपुंसकपदोदिता ॥ ५६
लीना सर्वत्र भावानां सत्येदं ख्यापितं मते ।
लीलया ललिता काली रावणस्य वधार्थतः ॥ ५७
तेन नादेश्वरी ख्याता भगवत्या न संशयः ।
भृकुटी कुटिलाकारा किष्किन्धपर्वते गता ॥ ५८
सेतुबन्धक्षमा देवी भवते नात्र संशयः ।
पुद्गलस्य स्वरूपस्था एकानेकक्रमे स्थिता ॥ ५९
रत्नमालेति विख्याता हिमवन्तस्य आश्रमे ।
सा भीमा परमेशान्या गजकर्णवनोदिता ॥ ६०
सृष्ट्रिर् माहेश्वरीचक्रे भैरवस्य वरप्रदा ।
उद्गीता गगनेशानी
बिन्दुव्योमनिरीक्षणात् ॥ ६१
कोटीश्वरमदोन्मत्ता तृप्ता यान्ती खगेश्वरम् ।
चतुर्दशस्वरा दीपादित्यासने सुसंस्थिता ॥ ६२
भविता सा न संदेहः खेचराज्ञा
प्रवर्तते ।
तथा इन्दुकला काली अन्तिमे तु युगस्य च ॥ ६३
अनाभासास्वभावस्था त्रिपञ्चस्वरबृंहिता ।
स्वरान्तस्था विसर्गाद्या सिद्धसागरगामिनी ॥ ६४
रविसोमकलाध्वस्था सृष्टिरूपा अधोमुखी ।
कर्मक्षयात् मदाभ्यासाद् * * * * महेश्वर ॥ ६५
काद्यागमे प्रसिद्धा सा भुक्तिमुक्तिप्रदायिका ।
खकला खस्वरूपस्था खेचरत्वे व्यवस्थिता ॥ ६६
हनुमान्परसिंहस्य अप्रमेया चिदात्मिका ।
गलिता गगने भाति वृषरूपेण शंकर ॥ ६७
शिवशासनं देवेश क्रमम् एतत् कुलालिका ।
घर्घरा सामृतौपम्या सिंहरूपा सुतेजसा ॥ ६८
पार्वती आसने युक्ता आदिनाथेश्वरेश्वरी ।
मातरः सप्तधा देव महता कुलकौलिनी ॥ ६९
मातृकोदरगर्भस्था अक्षराक्षरसाक्षरा ।
चन्द्रपूर्ये पुरे रम्ये सा कला स्वरते स्वयम् ॥ ७०
विश्वमूर्तिगता नभे हाटकेश्वररूपतः ।
द्विगुणा च द्विधावस्था जिह्मका
नाम कीर्तिता ॥ ७१
पीनोन्नतस्तनाकारा त्रिनेत्रा शिखरोद्यता ।
जया च जघना देवी जयन्ती शूलहस्तिका ॥ ७२
असुराणां क्षयं कर्त्री शंकरस्य च वल्लभा ।
स्वरूपाद् उन्मना शून्या निर्जरा च निरामया ॥ ७३
चन्द्रपूर्णस्य वेश्मस्य संहता शाम्भवे कुले ।
वीरवीरेन्द्रवीराणां संसाररिपुमर्दनी ॥ ७४
छेदनी पाशसंघातान् वीरबाहुर् न चान्यथा ।
कपालीशस्य देवस्य अर्धचन्द्रकलाङ्किता ॥ ७५
परिपूर्ण - इडापात्रे पिबते सुरवारुणीम् ।
सा जटाधरनाथस्य संपूर्णा विश्वरूपिणी ॥ ७६
संवर्ता कुलकौलस्य बिन्दुरूपा प्रकाशते ।
डम्भमायाविनिर्मुक्ता डामरी खेचरात्मिका ॥ ७७
नागाङ्गनास्वरूपा सा वासुकिरूपसन्निभा ।
षोढा षोडशन्यासज्ञा षोडशाधारकन्दरा ॥ ७८
प्रसुप्तकुटिलाकारा षोढा सानेन गीयते ।
सङ्कुलाधिकचित्तस्य ?
निर्नामानामनामतः ॥ ७९
भवते कलिकालस्य परायणी परापरा ।
तथाभेदं त्रिभेदेषु निस्तरङ्गं स्वरूपतः ॥ ८०
नीलकण्ठेन देवेन अर्चिता सा महेश्वरी ।
स्थापिता रुद्रभक्त्या तु स्थविरा नाम देवता ॥ ८१
परावर्ता महाशम्भो संवर्तान्ते व्यवस्थिता ।
देहम् आप्यायते देव कूटमाता सदोदिता ॥ ८२
कुबेरेण सदाभ्यर्च्या प्रज्वला नाम सा इव ।
धरातत्त्वादि आख्यातं यावत् शून्यं निरामयं ॥ ८३
तत्राक्षरम् इति ख्यातं धर्मराजा निगद्यते ।
नानारूपस्वरूपेण नादिनी नभसंस्थिता ॥ ८४
तारकाक्षररूपेण नभरूपा विकासिनी ।
वायव्या नुदनिर्मुक्ता परापरा अधोर्ध्वगा ॥ ८५
द्विजा विश्वाङ्गजननी ऊर्ध्वपदोर्ध्वमध्यगा ।
कुण्डलाकृतिरूपेण भुजगाकृतिर् भैरव ॥ ८६
तुष्टा हन्तृ क्षयहन्तृकला इति प्रगीयते ।
शक्तिर् एका क्रमे काली वर्षन्ती अर्चिता खगा ॥ ८७
एकानेकविभेदेन छेदनी कर्मपाशहा ।
पुरं नाम महारम्यं अभिधानं महेश्वर ॥ ८८
भैरवं तत्र चारूढं कौलिकानां प्रबोधकम्
अनङ्गशिखरे रम्ये एकवीरं सदोदितम् ॥ ८९
प्रकाशते कलाकाशे संवर्ता
नाम देवता ।
चञ्चलं चपलं चण्डं हयं तं वेगवाहनं ॥ ९०
योगिनीनां प्रबोधो ‘यं स्मरणात् कल्मषापहम् ।
चिद्रूपाकाररूपेण महावह्निशिखाशिखा ॥ ९१
रविरश्मिकलाज्वाला अग्निधाम्नि प्रवर्तते ।
पृथिव्यादिशिवाकाशं शिवशक्त्योभयात्मकम् ॥ ९२
एकीकृत्वा प्रयत्नेन लयं विज्ञानरूपतः ।
पद्मयोनिः शिवानन्दं आश्रमं कुलकेशरी ॥ ९३
हिमकुन्देन्दुधवला षोडशान्ते व्यवस्थिता । ९४
महाशङ्खेन्दुधवलं अनादिनिधनं परम् ॥
सा जीवं सर्वभूतानां सकलं सर्वगं परम् ।
वाडवानलरूपेयं धूम्रवर्तिस्वरूपिनी ॥ ९५
आधारचक्रनिलयं कालाग्निर् इव वर्चसं ।
शशिसूर्यक्रमेणोच्चैः संचरन्ती मुखान् मुखम् ॥ ९६
सा सृष्टिर् भैरवानन्ता नवनाथेश्वरेश्वरी ।
शून्यं शून्यं महाशून्यं कर्णिकानन्दभैरवम् ॥ ९७
यस्य स्मरितमात्रेण मोक्षं यास्यन्ति ब्रह्मनः ।
सा चाज्ञा कौलिकानां तु मेरुमार्गक्रमागता ॥ ९८
श्रीनाथ तव आख्याता छायाछत्र-म्-अधिष्ठिता ।
मेरुमध्योदयं नाम शास्त्रो ऽयं कुलकेशरी ॥ ९९
चिन्मात्रं चिञ्चिनीदेवं याति सा सर्वकौलिनां ।
तत्त्वपञ्चाशरूपेण खेचराज्ञा विनिर्गता ॥ १००
Yogakhaṇḍa YKh(१) – Kapitel ३४ – Zitatgruppe ३४
ये बुध्यन्ति रहस्येदं ते मुक्ता भवबन्धनात् ।
स्वभावोदयनामं तु माहात्म्यं परमात्मकम् ॥ १०१
Textgrundlage
Die vollständige Stellenzuordnung und die Lesungshinweise stehen in den entsprechenden Teilen von Manthana Bhairava Tantra. Die folgenden Nachweise gelten für diese eigenständige Sanskritseite.
Anusvāra (ं) und Chandrabindu (ँ) sind unterschieden. Isolierte graphische Zeichen der Leitquelle, etwa ein Virāma, bleiben als solche erhalten. Der technische Vergleich durch Rücktransliteration umfasst alle 6.935 aufgenommenen Positionen. Er bestätigt die Übereinstimmung der beiden Darstellungen; er ersetzt keine Quellen- oder Übersetzungsprüfung.
- ↑ Mark S. G. Dyczkowski: Manthānabhairavatantram Kumārikākhaṇḍaḥ, Text and Translation, Volume Five. Fotografischer Textbandscan, 237 PDF-Seiten. Die Titelseite nennt Kapitel 48–69; der tatsächlich vorliegende Scan endet nach Kapitel 62 auf Druckseite 229. Hier Leitquelle ausschließlich für Kapitel 48–62.
- ↑ Mark S. G. Dyczkowski (Herausgabe, Übersetzung, Kommentar): Manthānabhairavatantram Kumārikākhaṇḍaḥ. Digitales Editionskonvolut, 3655 PDF-Seiten. Digitaler Satz-/Arbeitsstand mit Text, Anmerkungen und Anhängen; keine durchgehende Kollation mit der Druckausgabe von 2009. Leitquelle für Kumārikākhaṇḍa 1–47 und 63–69 sowie bezeichnete Ergänzungen.
- ↑ Mark S. G. Dyczkowski: Manthānabhairavatantram Kumārikākhaṇḍaḥ, Introduction, Volumes I–III. Digitales Einleitungskonvolut, 1874 PDF-Seiten. Enthält die jeweils einzeln nachgewiesenen Sanskritzitate aus weiteren Werkabteilungen; keine vollständige Sanskritedition dieser Abteilungen.