Brahma Yamala Sanskrit Devanagari
Brahma Yamala Sanskrit Devanagari enthält den Sanskritumfang der zugehörigen deutschen Teilausgabe des Brahma Yamala. Die Devanagari-Schreibung wurde aus der für diese Ausgabe bearbeiteten IAST-Fassung transliteriert. Sie ist keine neue Handschriftenedition. Unsichere Lesungen und verderbte Stellen behalten ihre Markierungen.
Enthalten: 1730 Verse beziehungsweise erhaltene Versfragmente; Kapitel 1: 1–133; Kapitel 2: 1–18; Kapitel 3: 1–230; Kapitel 4: 498–500, 515, 538, 565, 595; Kapitel 12: 1–3, 36–39; Kapitel 14: 218, 260; Kapitel 15: 64; Kapitel 21: 1–146; Kapitel 25: 342; Kapitel 32: 42–46; Kapitel 39: 1–93; Kapitel 40: 1–33; Kapitel 44: 2–3, 8; Kapitel 45: 1–674; Kapitel 46: 3; Kapitel 48: 1–36; Kapitel 56: 99–156; Kapitel 74: 1–77; Kapitel 83: 1–7, 9–11, 13–25, 27–35, 37–186; Kapitel 87: 140; Kapitel 90: 101; Kapitel 100: 2, 25–26; Kapitel 102: 1–18. Die spirituelle Auswahl und die Mantras stehen unter Brahma Yamala 108 Verse für die spirituelle Praxis.
Kapitel: 1 · 2 · 3 · 4 · 12 · 14 · 15 · 21 · 25 · 32 · 39 · 40 · 44 · 45 · 46 · 48 · 56 · 74 · 83 · 87 · 90 · 100 · 102
Unterstreichungen kennzeichnen unsichere Lesungen, Dolche (†…†) verderbte Stellen. Bei verbundenen Schriftzeichen umfasst die Unterstreichung gegebenenfalls die ganze betroffene Silbenverbindung. Die Nummerierung folgt der Edition auch dort, wo eine Nummer drei Halbverse umfasst. Unnummerierte Sprecherzeilen stehen zusätzlich im Text. Die sprachlichen Erläuterungen stehen bei den gleichen Originalnummern in der Hauptausgabe. Die Transliteration wurde für alle enthaltenen Verse durch Rücktransliteration abgeglichen; die visuelle Kontrolle der Devanagari-Ausgabe erfolgte ergänzend an Stichproben.
Kapitel 1: Die Verknüpfungen der Offenbarung
Textgrundlage: Hatley 2018, Kapitel 1; IAST-Anhang F, S. 581–591; kritische Edition S. 303–330, Übersetzung S. 383–419.[1]
Unnummerierte Eingangsverehrung
ॐ नमः शिवादिभ्यो गुरुभ्यो योगीश्वरीणाम् ॥
1.1
यत् तत्वम् मन्त्रगर्भं सकलशिवमयं हेतुनिर्वाणविश्वं
दूतीनां पद्मसण्डे ऽसमसुखविलसल् लिङ्गरूपं बिभर्त्ति ।
नानाभोगाधिवासैर् विविधलयपदैः शक्ति-र्-आबद्धकाण्डे
तत् तत्वं विश्वगर्भं भवनगदलनम् भैरवम् वः पुनातु ॥
1.2
श्रुत्वा शास्त्रं पुरा देवी मूलतन्त्रम् महोदयम् ।
मुद्रामण्डलमन्त्रोघं विद्यापीठोपलक्षितम् ॥
1.3
सहस्राणि दश द्वे च चतुःपीठं तु भैरवम् ।
विमला निर्ग्गतं यत् तद् अघोरी भीमविक्रमा ।
प्रत्युवाच महादेवम् भैरवं मन्त्रविग्रहम् ॥
1.4
यत् पुरा सूचितन् देव तन्त्रम् उच्छुष्मसम्भवम् ।
विमलाह्वेति यत् प्रोक्तं ज्ञानोघं शक्तिपूर्व्वकम् ॥
1.5
यस्मिंस् तु संस्थितं ह्य् एतच् चतुःपीठन् तु भैरवम् ।
यस्माद् विनिर्ग्गतं सर्व्वं मन्त्रपीठं महोदयम् ॥
1.6
चतुःपीठस्य सम्बन्धे यत् त्वया चोदितं मम ।
तन्त्रावतारसंयुक्तम् आद्यं यत् सिद्धिकारणम् ॥
1.7
सरहस्यं ममाचक्ष्व ज्ञानोघात् सारपूजितम् ।
शिवशक्तिविभेदञ् च बिन्दुभेदन् तथैव च ॥
1.8
नवशक्तिविभेदञ् च सृष्टिभेदं सुविस्तरम् ।
एकाकिनी यथा शक्तिर् नवभेदैर् व्यवस्थिता ॥
1.9
गुह्यकाकिङ्करीभिश् च किंकर्योच्छुष्मसम्भवाः ।
योगिन्यो लाकिनीनां तु बहुभेदैर् व्यवस्थिताः ॥
1.10
एका एव महावीर्या व्यापिनी शक्ति चोत्तमा ।
तस्य यागम् अशेषन् तु क्रियते सुरपूजित ।
यथा तथा महादेव योगिनीसिद्धिकाङ्क्षिणाम् ॥
1.11
गुरुशुश्रूषनिरते वाममार्ग्गानुवर्त्तिने ।
अद्वैतभावनावस्थे निर्विकल्पे मने स्थिते ॥
1.12
सिद्धिर् यथा भवेद् देव तद् विधानं वद प्रभो ।
योगिन्यो स्वल्पबुद्ध्यास् तु अल्पचित्ताल्पसात्विकाः ॥
1.13
भर्त्तुः शुश्रूषणपरा गुरुभक्तिसमन्विताः ।
तासां सिद्धिर् यथा देव वद मे तत् समासतः ॥
ईश्वर उवाच ॥
1.14
साधु साधु महादेवि यत् त्वयाहं प्रोचोदितम् ।
निखिलन् तत् प्रवक्ष्यामि सर्व्वसन्दोहलक्षणम् ॥
1.15
यथा च तन्त्रसद्भावं बह्वर्थं गूढविक्रमम् ।
सरहस्यं महाभागे शृणुष्वेकाग्रमानसा ॥
1.16
पुरा -द्- अकस्माद् देवेशि क्रीडमानस्य स्वस्थितौ ।
यदि यागविज्ञाता स्याम् इच्छा याव ममोत्थिता ॥
1.17
इच्छया प्रेरितेनैव श्रीकण्ठो भक्तिवत्सलः ।
दिव्यं वर्षसहस्रन् तु इज्याञ्जलिपुरस्सरम् ।
आराधितो मया देवि भक्त्याविष्टेन चेतसा ॥
1.18
श्रीकण्ठेन ततो मह्यम् परा करुणया महत् ।
ज्ञानौघस् तु समाख्यातः पदबन्धक्रमेण तु ॥
1.19
श्रीकण्ठस्य प्रसादेन सर्व्वो ऽयम् परिणतो मम ।
मत्सम्पर्कात् त्वया चैव अशेषञ् चावधारितः ॥
1.20
ततस् त्वया हितार्थाय आदेशेन विना प्रिये ।
परिजनस्य समाख्यातुम् प्रारब्धम् भक्तिह्र्ष्टया ॥
1.21
विप्लाप्यमानं तन् दृष्ट्वा महातन्त्रं मया पुनः ।
क्रोधाविष्टेन शप्तासि ज्ञानन् ते नाशितं यया ॥
1.22
ततस् त्वया महाभागे त्रस्तया कम्पमानया ।
साश्रुलोचनया चैव भूम्यां गत्वाथ दण्डवत् ॥
1.23
कराञ्जलिपुटं कृत्वा भीतया ज्ञानविप्लवे ।
विज्ञप्तो ऽहम् महादेवि शोकाधिष्ठितया पुनः ॥
1.24
ततस् त्वां विह्वलान् दृष्ट्वा गृहीतः करुणया ह्य् अहम् ।
एवमुक्तासि कारुण्या महामन्युभृतेन तु ॥
1.25
भूर्लोकं गच्छ देवेशे अवतारं कुरुष्व थ ।
ब्राह्मणस्य गृहे देहम् अपरं गृह्ण सुव्रते ॥
1.26
तत्रस्थाया ततस् तुभ्यम् भक्त्याहं संप्रचोदितः ।
अनुग्रहं करिष्यामि तवाहं शक्ति-र्-आज्ञया ।
मया सार्द्धम् पुनस् त्वैक्यन् तत् सर्व्वम् प्राप्स्यसि प्रिये ॥
1.27
ततो ऽवतीर्ण्णा मद्वाक्या प्रयागस्य समीपतः ।
कणवीरे महाग्रामे मेघदत्तगृहे शुभे ॥
1.28
छन्दोगस्य महादेवि उत्पन्ना लक्षणान्विता ।
सत्तिका तत्र संजात तव नामन् न संशयः ॥
1.29
ततो महा त्वया भक्त्या बुद्धिसम्पन्नया ह्य् अहम् ।
आराधितो महादेवि सततं लिङ्गपूजया ॥
1.30
तत्र त्रयोदशे वर्षे सिद्धा त्वं शक्त्यनुग्रहात् ।
खेचरत्वम् अवाप्नोषि सम्प्राप्ता च ममान्तिकम् ॥
1.31
सा शक्तिस् त्वं महाभागे या शप्ता विप्लवे कृते ।
पुरा मया स्मरत्मानं अघोरी नाम ते ऽधुना ॥
1.32
मदीया त्वं महाशक्तिः सर्व्वानुग्रहकारिका ।
तत् प्रवक्ष्यामि ते ज्ञानं यद् भ्रष्टं विप्लवे कृते ॥
1.33
श्रीकण्ठेन यथा प्रोक्तम् भूत्वा सदाशिवःपदात् ।
सरहस्यं महादेवि शृणुष्वेकाग्रमानसा ॥
1.34
अचिन्त्यस्य परा शक्तिः शिवस्य परमात्मनः ।
इच्छा नामेन संजाता तया बिन्दुः प्रबोधितः ॥
1.35
प्रबुद्धस्य ततो बिन्दो ज्ञानौघं निष्कलन् ततः ।
अभिव्यक्तो महादेवि अकस्मान् मन्त्रविग्रहः ।
ज्ञानसम्पूर्ण्णदेहस् तु सदाशिवपदे स्थितः ॥
1.36
तस्मात् सदाशिवानुज्ञा ततः सृष्टिर् अभूत् पुनः ।
हूहुकान्तावधूतस्था तत्वमाला स्वभावतः ॥
1.37
लोकस्य हितकाम्यायाम् अमृताख्येन सुव्रते ।
निबद्धं तु समासेन ज्ञानोघन् विमलात्मकम् ॥
1.38
अनुष्टुप्छन्दबन्धेन सपादेन महात्मने ।
लक्षसंख्येन संक्षेपान् मन्त्रज्ञानक्रियात्मकम् ॥
1.39
निराचारपदे भूत्वा पुनश् चोभयदर्शनात् ।
परापरेण देवेन श्रीकण्ठाय प्रभाषितम् ॥
1.40
अस्मा ज्ञाना महादेवि श्रीकण्ठेन हिताय वै ।
कोटिकोटिप्रविस्तारैर् लोकानां हितकाम्यया ॥
1.41
पृच्छकाश्रयभेदेन क्रियाभेदविभागशः ।
शुद्धाशुद्धेन मार्गेण असत्वेन च सुव्रते ।
विस्तरितानि तन्त्राणि ज्ञात्वा सदाशिवःपदात् ॥
1.42
अयन् तु ज्ञानसन्दोहं स्वरूपावस्थितं प्रिये ।
सपादलक्षसंख्यातम् मया ज्ञातं यथार्थतः ॥
1.43
तवापि ज्ञानभ्रष्टायास् सम्प्रवक्ष्यामि साम्प्रतम् ।
सपादलक्षभेदेन श्लोकानां संस्थितं तु यत् ॥
1.44
अस्माद् विनिर्ग्गतं सर्व्वं त्रैलोक्यं सचराचरम् ।
त्वयापि कथनीयं हि लोकानां हितकाम्यया ॥
1.45
दिव्यादिव्यस्वभावेन स्थितया शक्त्यनुज्ञया ।
क्रोधभैरवदेवस्य सिद्धस्यैव शिवेच्छया ।
सपादलक्षसंख्यातम् एवं वै भैरवो ऽब्रवीत् ॥
1.46
सपादञ् चैव लक्षञ् च क्रोधभैरवसंज्ञकात् ।
कपालभैरवस्यैव कथयिष्यसि सुव्रते ॥
1.47
ब्राह्मणस्य कुरुक्षेत्रे उत्पन्नस्य महामतेः ।
श्रीधरेत्यभिधानस्य अधिकारस्थितस्य वै ॥
1.48
शक्त्यधिष्ठितचित्तस्य असिद्धस्य न संशयः ।
कपालभैरवो देवि लक्षञ् चैव सपादकम् ॥
1.49
चतुर्विंशतिभिश् चैव सहस्रैः संघरिष्यति ।
मूलतन्त्रविधानन् तु स्वरूपेण व्यवस्थितम् ॥
1.50
लोकानाम्म् अल्पचित्तानां चतुःपीठादिवर्जितम् ।
अस्मिन्न् एव ह्य् असौ तन्त्रे सिद्धिम् प्राप्स्यति नान्यथा ॥
1.51
कपालभैरवात् सिद्धाद् असिद्धस्यैव वक्ष्यसि ।
पद्मभैरवसंज्ञस्य एवं वै भैरवो ऽब्रवीत् ॥
1.52
ओड्रदेशे तु जातस्य देवदत्तस्य संज्ञया ।
चरणो बह्वृचास्याथ आदेशेन न संशयः ॥
1.53
असिद्धस् त्व् एव देवेशि पद्मभैरवसंज्ञकः ।
चतुर्विंशतिसाहस्रं ग्रन्थं द्वादशभिः पुनः ॥
1.54
संघारन् तु सहस्रैस् तु करिष्यति शिवेच्छया ।
अनेनैव तु तन्त्रेण ततः सिद्धिम् प्रयास्यसि ॥
1.55
एतत् तन्त्रम् असिद्धस्य सकाशात् तव एव हि ।
शृण्विष्यन्ति महाभागे शिष्याश् चैव चतुर्द्दश ॥
1.56
रक्तभैरवको नाम्ना ज्वालाभैरवको ऽपरः ।
हेलाभैरवकश् चैव त्रयो ऽप्य् एते महायशे ।
मध्यदेशसमुत्पन्नाश् चरणो ऽथर्व्वणं तथा ॥
1.57
वामभैरवको देवि विजयभैरवको ऽपरः ।
सौराष्ट्रायां समुत्पन्नौ शूद्रौ जात्या प्रकीर्त्तितौ ॥
1.58
भिभत्सभैरवो देवि गजकर्ण्णस् तु भैरवः ।
चण्डभैरवकश् चैव सिन्धुविषयसम्भवाः ॥
1.59
भिभत्सभैरवो देवि गजकर्ण्णभैरवो ऽपि च ।
क्षत्रियौ राजपुत्रौ तु चण्डभैरवको पुनः ।
ब्राह्मणो ऽथर्व्वणो देवि चरणेन न संशयः ॥
1.60
यज्ञसोमसुतो भव्यो बृहोदारीविशब्दिते ।
ग्रामे जातो महादेवि नात्र कार्या विचारणात् ॥
1.61
ग्रामबाह्ये तु देवेशि तत्र देवी बृहोदरी ।
तस्या नामेन सो ग्रामो बृहोदरी प्रकीर्त्तितः ॥
1.62
आराधयित्वासौ विप्रस् ततो देवीम् बृहोदरीम् ।
विद्यामात्रन् तु सम्प्राप्य जपन् तत्रैव सुव्रते ॥
1.63
करिष्यति महासत्वस् ततस् तस्य भविष्यति ।
आदेशो चास्य शास्त्रस्य श्रवणाय न संशयः ॥
1.64
शृण्विष्यति महादेवि पद्मभैरवपार्श्वतः ।
तत्र सिद्धस् त्व् असौ विप्रस् तन्त्रकर्त्ता भविष्यति ॥
1.65
गालयित्वा इमं चार्थं शतैर् अष्टादशैर् मितैः ।
संहरिष्यति तत्वज्ञस् तथा चैव त्रयोदशैः ॥
1.66
सप्तभिश् च तथा चैव संघरिष्यति सुव्रते ।
लोकानाञ् च हितार्थाय नात्र कार्या विचारणात् ॥
1.67
नाधिकारं यतः कृत्वा ज्ञानप्राप्तिर् न जायते ।
विद्यामात्रविधानन् तु संक्षेपेन हिताय वै ।
श्रावयिष्यति लोकानान् तत्र तृतयकेन तु ॥
1.68
कुमारभैरवो देवि अष्टादशशतन् तथा ।
चण्डभैरवकस्याथ श्रुत्वा विस्तारयिष्यति ॥
1.69
क्रोधभैरवको देवि त्रयोदशशतं तथा ।
चण्डभैरवकाच् चैव ज्ञात्वा विस्तारयिष्यति ॥
1.70
तेजभैरवनामानस् तथा सप्तशतं पुनः ।
चण्डभैरवाच् चैव श्रुत्वासौ विस्तरिष्यति ।
अवतारे तु संप्रोक्तं शिष्याणान् तृतयन् तथा ॥
1.71
भविष्यकीर्त्तिता ह्य् अत्र ये चतुर्द्दशमध्यतः ।
करालभैरवो नाम तथा उच्छुष्मभैरवः ।
मातङ्गजातिसंभूतौ पद्मभैरवशिष्यकौ ॥
1.72
यमभैरवकश् चान्यः काश्मीरे सम्भविष्यति ।
छन्दोगो ब्राह्मणो देवि तथा अन्यो भविष्यति ॥
1.73
विष्णुभैरवनाम्नो लम्पायां विषये तथा ।
वाजिमध्यम्दिनो विप्रो भविष्यति तथापरः ॥
1.74
दक्षिणभैरवः काश्याम् उत्पन्नो ब्राह्मणस् तथा ।
बह्वृचश् चापरश् शिष्यो भविष्यति न संशयः ॥
1.75
ओड्डियाने महादेवि तथा शेखरभैरवः ।
ब्राह्मणो तैत्तिरीकश् च अपस्तम्भो भविष्यति ॥
1.76
चतुर्द्दश समाख्याताः पद्मभैरवशिष्यकाः ।
ज्ञात्वा द्वादशसाहस्रं सिद्धिम् प्राप्स्यन्ति सुव्रते ॥
1.77
व्याख्यां चैव करिष्यन्ति शिष्याणां सिद्धिकाङ्क्षिणाम् ।
शक्त्याधिष्ठितचित्तानां चतुर्द्दशा तु संज्ञकाः ॥
1.78
पद्मभैरवकस्यैव षष्ठं वै स्थानम् आशृताः ।
स्वच्छन्दभैरवो श्रुत्वा सकाशात् क्रोधभैरवः ॥
1.79
अर्थं द्वादशसाहस्रं सहस्रैर् दशभिः पुनः ।
संहरिष्यति देवेशे शक्त्याधिष्ठितचेतसा ॥
1.80
तन्त्रावतारविच्छिन्नं योगिनीनाम् प्रभावतः ।
कथयिष्यति लोकानां दशसाहस्रकं प्रिये ॥
1.81
उज्जैन्यायान् तु संजातो †विप्रजोउकपुत्रकः† ।
देइका तस्य वै माता बहुगर्भप्रसारिता ॥
1.82
स्नाताचमति मातॄणाम् पुरतः पुत्रकाङ्क्षिणी ।
जप्तविद्यो महावीर्यः समयलङ्घप्रभावतः ॥
1.83
क्षिपिष्यन्ति ह्य् असिद्धत्वान् मातरः शक्तिचोदिताः ।
तस्या गर्भे महाभागे अमन्त्रिनामकस् तथा ॥
1.84
ततस् तस्य महादेवि तासां चैव प्रभावतः ।
विद्याम् प्राप्य जपं कृत्वा ततः शास्त्रं स वेत्स्यति ॥
1.85
ततो निबद्धग्रन्थश् च दिव्यसङ्गानुभावतः ।
दशसाहस्रकेनार्थम् अशेषं कथयिष्यति ॥
1.86
ततस् तेनैव ज्ञानेन पश्चात् सिद्धिम् स लप्स्यति ।
चण्डभैरवनामानः सहस्रैः सप्तभिः पुनः ॥
1.87
तद् एव दशसाहस्रं करिष्यति महाधिपे ।
द्वादशैव सहस्राणि कर्त्तुवाञ्छा भविष्यति ॥
1.88
न चार्थं दिव्यशिष्याणां संहर्त्तुम् सो करिष्यति ।
सप्तभिश् च सहस्रैस् तु विघ्नन् तस्य भविष्यति ॥
1.89
अनया वाञ्छया देवि बिन्दुभैरवसंज्ञकः ।
सप्तभिश् च सहस्रैस् तु तस्य विघ्नम् भविष्यति ॥
1.90
अनयैव महादेवि वाञ्छया दशसंज्ञके ।
मायाभैरवनामानो न च सिद्धिम् प्रयास्यति ॥
1.91
सप्तभिश् च सहस्रैस् तु विघ्नन् तस्य भविष्यति ।
अनन्तभैरवश् चैव विस्तरं कर्त्तुवाञ्छया ॥
1.92
सहस्रैस् सप्तभिश् चैव विघ्नन् तस्यापि सुव्रते ।
भविष्यति न सन्देहो एवं वै भैरवो ऽब्रवीत् ॥
1.93
सदाशिवेन देवेन द्वापरे भाषितम् महान् ।
ततो दिव्येन मानेन तस्मात् सप्ततिमे युगे ।
तव देवि मयाख्यातन् तन्त्रम् भैरवपूजितम् ॥
1.94
कलौ युगे न सन्देहः श्रीकण्ठस्याज्ञया तथा ।
अस्माद् वै सप्तमे चैव कपालीशस्य सुव्रते ॥
1.95
त्वम् वक्ष्यसि महादेवि त्रेतायाम् भैरवो ऽब्रवीत् ।
द्वापरे कलिसन्धौ तु पद्मभैरवसंज्ञकः ॥
1.96
सपादलक्षसंख्यातं संघरिष्यति नान्यथा ।
कलौ चतुर्थपादे तु तथा स्वच्छन्दभैरवः ॥
1.97
संघरिष्यति देवेशि एवं वै भैरवो ऽब्रवीत् ।
चण्डभैरवकश् चैव तथा च विभुभैरवः ॥
1.98
मायाभैरवकश् चैव विस्तारं कर्त्तुवाञ्छया ।
कलौ चतुर्थपादान्ते भविष्यन्ति वरानने ॥
1.99
अनन्तभैरवश् चैव कल्पान्ते विस्तरं तदा ।
न शक्नोष्यति वै कर्त्तुम् भक्त्याधिष्ठितचेतसः ॥
1.100
चतुर्विंशतिसाहस्रं मानयिष्यति सुव्रते ।
चण्डभैरवको देवि विभुभैरवम् एव च ॥
1.101
मायाभैरवकश् चैव तथा चानन्तम् एव च ।
एते वै पश्चिमा वीरास् तन्त्रं ज्ञात्वा न संशयः ॥
1.102
सिद्धिम् प्राप्स्यन्ति देवेशि कल्पान्ते भैरवो ऽब्रवीत् ।
एतच् छास्त्रं कलौ चान्ते योगिन्यः शक्तिचोदिताः ॥
1.103
अपहृत्य प्रयास्यन्ति सम्प्रदायञ् च सुव्रते ।
शक्त्यान्तं नात्र सन्देहो एवं वै भैरवो ऽब्रवीत् ॥
1.104
कृतौ युगे महादेवि त्रेतायां द्वापरे तथा ।
नावतारो ऽस्य शास्त्रस्य सूचितो भैरवेण तु ॥
1.105
कलौ युगे पुनश् चैव एवम् एव महाधिपे ।
अवतारो ऽस्य शास्त्रस्य करिष्यसि न संशयः ॥
1.106
द्वादशैव सहस्राणि नाधिकानि मनाग् अपि ।
कथयिष्यसि देवेशि लोकानां हितकाम्यया ॥
1.107
कुमारीद्वीपवास्तव्या ये लोकाः संस्थिताः प्रिये ।
तेषां शास्त्रस्य नान्यस्य प्राप्तिश् चैव भविष्यति ॥
1.108
कलापग्रामके देवि ततस् सः संघरिष्यति ।
कलियुगस्य आदौ तु अवतारं करिष्यति ।
द्वादशैव सहस्राणि नात्र कार्या विचारणात् ॥
1.109
सपादलक्षन् देवेशि कथयिष्यसि सुव्रते ।
स्वच्छन्दभैरवस्यैव एवं वै भैरवो ऽब्रवीत् ॥
1.110
द्वादशैव सहस्राणि संहृतानि महाधिपे ।
येन तस्य महाभागे नात्र कार्य विचारणात् ॥
1.111
दशभिस् तु सहस्रैस् तु मुक्त्वा वीरचतुष्टयम् ।
ततो ऽसौ चोदितो देवि त्वयैव वरवर्ण्णिनि ॥
1.112
कलापग्रामके स्थित्वा विष्णुभैरवकस्य तु ।
असिद्धश् चैव देवेशि शास्त्रं द्वादशसम्मितम् ॥
1.113
सहस्रैर् नात्र सन्देहः कथयिष्यति सुव्रते ।
विष्णुभैरवको देवि कुमारीद्वीपवासिनाम् ॥
1.114
कथयिष्यति लोकानां शक्त्याधिष्ठितचेतसाम् ।
सहस्राणि दश द्वे च एवं वै भैरवो ऽब्रवीत् ॥
1.115
गृहे गृहे महादेवि यथा सप्तशतानि च ।
तथा द्वादशसाहस्रो भविष्यति न संशयः ॥
1.116
शक्त्याधिष्ठितचित्तानां नात्र कार्य विचारणात् ।
गृहे गृहे महादेवि ये पुंसः सिद्धिभाजनाः ॥
1.117
स्त्रियो वा सिद्धिभागिन्यस् तेषाम्म् अपि गृहेष्व् अथ ।
प्रचरिष्यति देवेशि एवं वै भैरवो ऽब्रवीत् ॥
1.118
असिद्धिभाजना ये तु पुरुषो ऽथ स्त्रियो ऽथ वा ।
विद्यामात्रम् अपिश् चैव न प्राप्स्यन्ति महाधिपे ।
सरहस्यं महादेवि ज्ञास्यन्ते सिद्धिभाजनाः ॥
1.119
एतत् तन्त्रावतारन् तु श्रीकण्ठेन यथास्थितम् ।
कथितम् मम देवेशि तथापि कथितम् मया ॥
1.120
साम्प्रतं सरहस्यन् तु सर्व्वसन्दोहलक्षणम् ।
महाभैरवनामानम् शृणुष्वेकाग्रमानसा ॥
1.121
या सा शक्तिः परा ख्यातानन्ताद्यानन्तसम्भवा ।
तस्या भेदं महाभागे कथयामि यथाक्रमम् ॥
1.122
यो ऽसौ अचिन्त्यम् इत्य् आहुः शिवः परमकारणः ।
निःसंज्ञो निर्विकारश् च व्यापी शान्तस् तथैव च ॥
1.123
निःस्वभावो महादेवि क्रियाकारणवर्जितः ।
निष्कलो निर्विकल्पस् तु अरूपो गुणवर्जितः ॥
1.124
निर्ममो निरहङ्कार अद्वैतपदसंस्थितः ।
योगिनां ध्यानगम्यो ऽसौ ज्ञानरूपो महायशे ॥
1.125
निराचारपदावस्थः संज्ञामात्रः प्रभुः परः ।
तस्यापराज्योतिरूपः सर्व्वानुग्रहकारकः ॥
1.126
व्यापी ह्य् अव्यक्तरूपी च अमनस्को मनोन्मनः ।
तस्य शक्तिर् महादेवि स्वभावोत्था अकृत्त्रिमा ॥
1.127
ज्योत्स्नारूपा स्वरूपेण स्फटिकस्येव रश्मयः ।
तस्येच्छा निर्गता शक्ति ज्ञानरूपा मनोन्मनी ॥
1.128
प्रवर्त्तते निराभासा अवधूतेति सा स्मृता ।
प्रबोधयति सानन्ता बिन्दुनादौ क्षणेन तु ॥
1.129
कुण्डलाकृतिसंस्थाना स्वरादौ संव्यवस्थिता ।
चतुर्भागविभक्ता सा चतुर्भागविभाजिता ॥
1.130
एवं कुण्डलिनी शक्तिः स्वरैः षोडशभिः स्थिता ।
चतुष्कपथकोपेता पञ्चव्योम-अलंकृता ॥
1.131
एवं पञ्चविधा सा तु शक्तिर् आद्या मनोन्मनी ।
नवाक्षरविधानेन पुनश् चैव प्रजायते ॥
1.132
स्वरव्यञ्जनसंयुक्ता पञ्चाशाक्षरसंयुता ।
अवधूता महादेवि नवभेदैर् व्यवस्थिता ॥
1.133
अत्र देव्यो ऽथ दूत्यश् च योगिन्योच्छुष्ममातरः ।
सर्व्वास् ताः सृजते देवि शिवेच्छाम् अनुवर्त्तिनी ॥
Kolophon
इति महाभैरवे तन्त्रे द्वादशसाहस्रके पिचुमते नवाक्षरविधाने सम्बन्धपटलः प्रथमः ॥ १ ॥
Kapitel 2: Die Heraushebung der Mantras
Textgrundlage: Shaman Hatley, The Brahmayāmalatantra or Picumata, Band I (2018), Sanskritedition S. 331–334; IAST-Anhang S. 591–593; Kommentar S. 421–430.[1]
2.1
अथातः सम्प्रवक्ष्यामि अघोर्यार्च्चनम् उत्तमम् ।
निराचारो यदा मन्त्री अवधूततनुस्थितः ॥
2.2
तदा तु कुरुते पूजां योगेशीनां शिवस्य च ।
अवधूता तु सा शक्ति निराचारपदः शिवः ॥
2.3
एतेषां तु विधिं ज्ञात्वा ततो मन्त्री प्रसिद्ध्यति ।
अतस् तेषां प्रवक्ष्यामि मन्त्रोद्धारम् अनुक्रमात् ॥
2.4
शुक्लाम्बरधरो मन्त्री शुक्लगन्धानुलेपनः ।
भूप्रदेशे शुचौ दिव्ये दिव्यपुष्पैर् अलङ्कृते ॥
2.5
तत्र देव्याश् च दूत्याश् च योगिन्यो मातरस् तथा ।
उद्धरेत महाप्रज्ञः कपालीशपुरःसराः ॥
2.6
आदिमन् तु द्वितीयस्य प्रथमेन व्यवस्थितम् ।
एषा देवी स्मृता रक्ता बिन्दुमस्तकयोजिता ॥
2.7
तृतीयस्य तृतीयन् तु स्वरैकादशभूषितम् ।
एषा देवी स्मृता घोरा करालीति च विश्रुता ॥
2.8
आदिमन् तु द्वितीयेन ऊर्द्धनादेन योजितम् ।
एकविंशत् परा योनि द्वितीयस्वरयोजिता ॥
2.9
अष्टाविंश तृतीयेन विंशमन् तु तथा पुनः ।
द्वात्रिंश कूनत्रिंशेन ऊर्द्धनादेन योजितम् ॥
2.10
हंस एष द्वितीयेन प्रणवादिसमन्वितम् ।
एतद् गुह्यं मया प्रोक्तं मन्त्रभेदव्यवस्थितम् ॥
2.11
अथातः सम्प्रवक्ष्यामि योगेशीनां तु लक्षणम् ।
प्रणवादिनमस्कारं विद्यां संयोज्य यत्नतः ॥
2.12
एषा ते प्रथमा प्रोक्ता क्रोष्टुकी च महोदया ।
स्वाहाकारान्तसंयुक्तम् द्वितीया योगिनी स्मृता ॥
2.13
हूंकारेण तृतीया तु वौषट्कारे चतुर्थका ।
पञ्चमी वषट्कारेण फट्कारे षष्ठिका भवेत् ॥
2.14
षड्योगिन्यः समाख्याता अघोर्याङ्गविनिस्सृताः ।
अथातो मातरां वक्ष्ये तन्त्रे उच्छुष्मसम्भवे ॥
2.15
प्रणवे तु स्थितो देव बिन्दुके तु महेश्वरी ।
एकारे तु स्थिता ब्रह्मी आकारे चैव वैष्णवी ॥
2.16
अकारे चैव कौमारी ईकारे च विवस्वती ।
इकारे वासवी देवी स्वाकारे चैव चण्डिका ॥
2.17
हाकारेण परा शक्ति एता यस्या विनिर्ग्गताः ।
मातरस् ते मया प्रोक्ता यागे उच्छुष्मपूजिते ॥
2.18
या सा एव मया प्रोक्ता मातॄणाञ् चैव पूरणी ।
तस्येदं कथितं सर्व्वं यं ज्ञात्वा नावसीदति ॥
Kolophon
इति महाभैरवे मूलतन्त्रे द्वादशसाहस्रके पिचुमते नवाक्षरविधाने मन्त्रोद्धारपटलः द्वितीयः ॥ २ ॥
Kapitel 3: Das Mandala der neun Verbrennungsplätze und seine Einweihungsrituale
Textgrundlage: Kiss 2015, Band II, Sanskritedition S. 93–114; Übersetzung und Kommentar S. 175–211.[2]
3.1
अथातः सम्प्रवक्ष्यामि गृहयागं समासत ।
यैस् तु सिद्धिर् भवत्य् आशु साधके ऽब्दम् उपासिते ॥
3.2
प्रथमो देहलीयागो द्वितीयं कण्डनी स्मृता ।
तृतीय उदकुम्भस् तु चतुर्थं चुल्लिर् उच्यते ॥
3.3
पञ्चमः पेषणीयागः काञ्जिन्या चैव षष्ठकः ।
सप्तमो मौसलीयागः सेहारिकाष्टमं स्मृताः ॥
3.4
नवमो वर्धमानस् तु सर्वकामार्थसाधकः ।
नव यागा मया प्रोक्ताः नवशक्तिसमन्विता ॥
3.5
अथातः सम्प्रवक्ष्यामि श्मशाने तु भयावहे ।
येन यष्टेन योगित्वं लभते मण्डलदर्शनात् ॥
3.6
सत्त्वयुक्तः स्थितो धीरो गम्भीरोदार-म्-एव च ।
तस्येदं साधनं वक्ष्ये श्मशाने तु भयावहे ॥
3.7
तस्मिन् निरूप्य भूभागं शोभनं सुसमीकृतम् ।
गोरक्तं सुरया मिश्रं गोमयेन समन्वितम् ॥
3.8
तेन चालोड्य भूभागम् अवधूतेन भस्मना ।
तत्र भूभागदेशे तु प्रयागं कल्पयेद् बुधः ॥
3.9
श्मशानेन समं मन्त्री सर्वं वै कल्पये ततः ।
ब्रह्मस्थाने पटं लिख्य पुष्पं गृह्य वरानने ॥
3.10
श्मशाना चिन्तयित्वा तु प्रयागं वनसंस्थितम् ।
तस्याधस्ता न्यसे देवि त्रिशूलं मन्त्रसंयुतम् ॥
3.11
ईशाने तु ततः कोणे सरिद्वय सुशोभनम् ।
प्रतिहारयुगं चैव वामदक्षिणभागशः ॥
3.12
अस्थिचूर्णतदाङ्गारैः मन्त्रज्ञो आलिखेत् पुरम् ।
नवहस्तसुसम्पूर्णं चतुरस्रं समन्ततः ॥
3.13
तस्य मध्ये लिखेत् पद्मं हस्तमात्रं प्रमाणतः ।
वीथी तस्य प्रकर्तव्या येन चङ्क्रमणं भवेत् ॥
3.14
अर्धहस्तप्रमाणेन यजनवीथी तथैव च ।
पुनः क्रमणवीथी तु पुनः यजनवीथिका ॥
3.15
अनेनैव प्रमाणेन यागवीथ्यो यथाक्रमम् ।
अष्टाव् एव प्रकर्तव्या सुप्रमाणाः सुसम्मिताः ॥
3.16
ततो बहि पुरं लिख्य चतुर्द्वारोपशोभितम् ।
पुरस्य वाह्ये द्वारम् उत्तरं नात्र संशयः ॥
3.17
वीथीद्वारं ततो कुर्यात् पूर्वकं साधकोत्तमः ।
द्वितीयया तु वीथ्यायां दक्षिणं कारये बुधः ॥
3.18
वारुणे तु तृतीयायां चतुर्थ्यायां तथोत्तरम् ।
पञ्चमीयां पुनः पूर्वं षष्ठायां दक्षिणं तथा ॥
3.19
सप्तम्यायां प्रतीच्यं तु अष्टम्यायां तथोत्तरम् ।
एवं द्वाराणि संकल्प्य साधकस् तु समाहितः ॥
3.20
पीठे रेखात्रयं दद्यात् त्रिभि वर्णैस् तु सुव्रते ।
सितवर्णा भवेत् सत्त्व रक्तवर्ण रजः स्मृताः ॥
3.21
कृष्णवर्णेस् तमः प्रोक्तैर् ज्ञातव्या साधकेन तु ।
सितरेखा भवेद् वामा रक्ता वै दक्षिणा स्मृताः ॥
3.22
मध्यमा कृष्णवर्णा तु स्थितं शक्तित्रयं यथा ।
रेखा च वर्णरूपेण एवं वै भैरवो ऽब्रवीत् ॥
3.23
पुरे बहि त्रिकं दद्या चतुर्द्वारोपलक्षिते ।
त्रिभिर् वर्णैर् यथान्यायं क्रमेनैव न संशयः ॥
3.24
बाह्यतश् चोपशोभाभिर् यथाशोभास् तु वर्णकैः ।
नानापत्त्रलताकीर्णै नानापुष्पोपशोभितैः ॥
3.25
स्वविज्ञानप्रभावेण यथाशोभा तु कारयेत् ।
सखायैः सहित मन्त्री आलिखेत् पुरम् उत्तमम् ॥
3.26
एकाकी वा महादेवि स्वयागोक्तं समालिखेत् ।
एवं नवावरणं वर्ज्ये नवकादिषु चालिखेत् ॥
3.27
त्रितत्त्वयागे लेख्यं स्यान् नवावरणसंयुतम् ।
शेषं यागविधानेषु नवावरणवर्जितम् ॥
3.28
स्वयागस्य विधानेन पुरं चालिख्य सुव्रते ।
गोरक्तं सुरया मिश्रं गोमयेन समन्वितम् ॥
3.29
पोतकं दापयेन् मन्त्री क्रमा वीथ्यान्तरेषु वैः ।
उल्लोचैश् च पताकैश् च यथाशोभा तु सुव्रते ॥
3.30
महायष्टासमुत्थाभिः कारयेत् पञ्चवर्णकैः ।
एवं वै मण्डले लेख्य समन्ताद् उपशोभितम् ॥
3.31
द्रव्यैस् तु नात्र संदेहो निर्विकल्पस् तु साधकः ।
श्मशानोत्थेन सूत्रेण सूत्रकार्यं तु कारयेत् ॥
3.32
सूत्रयेद् मण्डलान् तेन यथाविधि नियोगतः ।
ब्रह्मस्थानं तु संकल्प्य पूर्वपश्चिमभागशः ॥
3.33
आद्यं सूत्रं तु संपात्य ततो मध्यं निरूप्य ऽथ ।
पूर्वेण मापयेद् धस्तं पश्चिमेन तथैव च ॥
3.34
चिह्नौ तु कारयित्वा तु सूत्रं तत्र प्रसारयेत् ।
उभयोर् हस्तयोर् गृह्य प्रमाणे साधकोत्तमः ॥
3.35
पूर्वचिह्ने-स्-तथा स्थाप्य हस्तं वै दक्षिणं बुधः ।
ससूत्रकं ततो वामं खटिकायां समुद्धरेत् ॥
3.36
उत्तरेण तथा मन्त्री हस्तं वै भ्रामयेद् बुधः ।
पश्चिमे तु ततो चिह्ने वामहस्तं तु स्थापयेत् ॥
3.37
ससूत्रकं तथा चैव उत्तरेण तथैव च ।
दक्षिणं भ्रामयेद् धस्तं साधको मत्स्यसाधने ॥
3.38
अनेनैव विधानेन दक्षिणं साधयेत् पुनः ।
खटिकासहितेनैव हस्तेन तु महामति ॥
3.39
मत्स्ययो साधनं कृत्वा मत्स्यस्वस्तिकयोर् अपि ।
सूत्रं प्रसारयेन् मन्त्री दक्षिण चोत्तरेण तु ॥
3.40
खटिकाया घृष्टकञ् चैव च्छोटये नवहस्तकम् ।
चतुरस्रं पुरं गृह्य ततो सूत्राणि पातयेत् ॥
3.41
सर्वावरणमार्गेण पद्ममार्गेण चैव हि ।
ब्रह्मस्थानार्धहस्तं तु पूर्वेणैव तु गृह्णयेत् ॥
3.42
पश्चिमेन ततो गृह्य अर्धहस्तं तथैव च ।
उत्तरेण तथा चैव दक्षिणेन तथैव च ॥
3.43
चिह्नानि कारयित्वा तु खटिकाया साधकोत्तमः ।
पश्चिमपूर्वभागे तु सूत्रं वै पातयेद् बुधः ॥
3.44
दक्षिणेन तु रेखायां अर्धहस्तेन चोत्तरम् ।
अनेनैव तु मार्गेण रेखाया चोत्तरेण तु ॥
3.45
पूर्वपश्चिमभागेन सूत्रं वै पातयेत् ततः ।
दक्षिणोत्तरभागेन रेखाया पूर्वकेन तु ॥
3.46
पातये तु परं सूत्रं पश्चिमेन तथैव हि ।
अनेनैव विधानेन दिक्षु सूत्राणि पातयेत् ॥
3.47
अर्धहस्तप्रमाणेन साधकः सुसमाहितः ।
सूत्राणि पातयित्वा तु नववाराणि संख्यया ॥
3.48
उपशोभानुसारेण पातयिता यथाक्रमम् ।
प्रकोष्ठादिविभागेन साधकः सुसमाहितः ॥
3.49
पद्ममानं भवे द्वारं प्रकोष्ठैश् च समन्वितम् ।
मध्ये पद्मं समालिख्यम् अष्टपत्त्रं सकर्णिकम् ॥
3.50
चतुर्द्वारं पुरं कृत्वा रजंसि विनिपातयेत् ।
अवधूततनुम् कृत्वा भस्मोद्धूलितविग्रहः ॥
3.51
निराचारपदावस्थो ध्यायेद् भीमं कपालिनम् ।
आत्मानं पूजयेद् देव्या भीमाद्याः पद्ममध्यगाः ॥
3.52
कर्णिकायां न्यसेद् देवं भीमरूपं कपालिनम् ।
पूर्वेण प्रथमा देवी द्वितीया दक्षिणे न्यसेत् ॥
3.53
तृतीया पश्चिमे भागे चतुर्थी चोत्तरे स्थिता ।
आग्नेय्यां दिशि-म्-आश्रित्य यावद् ईशानगोचरम् ॥
3.54
दूती विन्यस्य यत्नेन दूत्यन्ते योगिनी न्यसेत् ।
योगिन्यन्ते तथा मातॄन् पूर्वाद्यां विनिवेशयेत् ॥
3.55
द्वितीयावरणे प्रज्ञा मातराश् चण्डसम्भवाः ।
तृतीये विन्यसेद् देवीं लोकेशीं लोकमातरः ॥
3.56
चतुर्थे यागभवा देव्यः पञ्चमे तु मनोद्भवाम् ।
षष्ठे तु योगजां चैव सप्तमे पूतना न्यसेत् ॥
3.57
अष्टमे तु दिशां मन्त्री नवमे रुद्रमातरः ।
चतुर्विंशतियोगिन्यो अर्चयेत् परितः क्रमात् ॥
3.58
त्रिकं त्रिकं यथान्यायं सर्वसिद्ध्यर्थकारणम् ।
सुप्रभा देवमाता च विशाला योगवाहिनी ॥
3.59
हयवेगा सुवेगा च मन्मथी वायवी तथा ।
वानरी क्रोष्टुकी चैव मृगाङ्का शशिनी शिवा ॥
3.60
सिंहानना तथा व्याघ्री हरिणी केकरा तथा ।
मार्जारी चैव घण्टा च जाम्बवी वेगवाहिनी ॥
3.61
गौरी रम्भा शची चैव योगिन्या च प्रपूजयेत् ।
द्वारपालां चतुष्कां तु द्वारस्थानेषु योजयेत् ॥
3.62
गोकर्ण शङ्कुकर्णं च हयग्रीवं च रावणम् ।
विधिवत् पूजये देवि यथेष्टं सिद्धि-म्-ईहकः ॥
3.63
बाह्यतो मण्डलस्यैव अष्टौ ते योगजां द्रुमाम् ।
पूर्वेण विन्यसेद् वज्रं तत्र श्लेष्मान्तकद्रुमम् ॥
3.64
वृक्षमन्त्रेण देवेशि विन्यसेत् साधकोत्तमः ।
शूलप्रोता लिखे चाष्टौ दिक्षु-श्-चैव विदिक्षु च ॥
3.65
तत्रेशाने लिखेत् घोरां शिवा ज्वालामुखी तथा ।
चतुर्दिक्षु लिखेत् तत्र चतुरो राक्षसान् तथा ॥
3.66
नन्दिं चैवोपनन्दिं च गोपतिं सुमतिं तथा ।
नन्दि वै पूर्वतो न्यस्य योगवृक्षस्य सुव्रते ॥
3.67
उपनन्दि ततो देवि दक्षिणेन तु विन्यसेत् ।
षट्पत्त्रकेषु पद्मेषु राक्षसं कर्णिकोपरि ॥
3.68
गोपतिं पश्चिमे लिख्य पद्ममध्ये तु मन्त्रवित् ।
सुमतिं चोत्तरे चैव पद्ममध्ये समालिखेत् ॥
3.69
नन्दस्य पूर्वतो देवि धर्मनी पूर्वके दले ।
याम्याग्नेये तथा चैव पिवनी विन्यसेद् बुधः ॥
3.70
याम्यनैरृतके पत्त्रे रौद्रां चैव समालिखेत् ।
वारुणे तु दले देवि रुचिका विन्यसेद् बुधः ॥
3.71
सौम्यवायव्यके पत्त्रे सता चैव समालिखेत् ।
सौम्येशाने तथा चैव सर्वदा तु समालिखेत् ॥
3.72
सर्वेषां राक्षसानां तु योगिन्यो षट् समालिखेत् ।
एता एव लिखेन् मन्त्री प्रति प्रति न संशयः ॥
3.73
एवं श्मशानम् आलिख्य वाराणस्यां तु संस्थितः ।
योगवृक्षस्य चाधस्तान् महादेवं समालिखेत् ॥
3.74
चतुर्वक्त्रं महावीर्यं रौद्रं भैरवरूपिणम् ।
रुद्राष्टकसमोपेतम् अष्टपत्त्रे तु पद्मके ॥
3.75
बाह्यतो रुद्रचक्रस्य योगिन्य षट् समालिखेत् ।
पूर्वा दिशि समारभ्य यावद् ईशानम् आगतम् ॥
3.76
नन्दी च उपनन्दी च सुमना तु तथापरा ।
सानुवेगा महानासा दण्डिनी च तथापरा ॥
3.77
वाराणस्यां श्मशानं तु एतत् सर्व समालिखेत् ।
आग्नेय्यां विरजायां तु त्रिकूटं तत्र चालिखेत् ॥
3.78
नानावृक्षलताकीर्णम् उलूकैश् चोपशोभितम् ।
नन्दीश् च छगलं चैव कुम्भकर्ण महाबलम् ॥
3.79
हेतुकं तत्र देवेशं श्मशानेन समभ्यसेत् ।
तत्रोपरि लिखेच् छक्तिं करञ्जं च महाद्रुमम् ॥
3.80
तस्याधस्ता लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम् ।
कर्णिकायां लिखेद् देवं महाघण्टं तु भैरवम् ॥
3.81
कटिदेशे तथा चैव घण्टासप्तविभूषितम् ।
रुद्राष्टकसमोपेतं भैरवाकाररूपिभिः ॥
3.82
रुद्राणां बाह्यतो देवि योगिन्य षट् समालिखेत् ।
यमघण्टा कराला च महाजिह्वा खरानना ॥
3.83
कराली दन्तुरा चैव नामैश् चैताः प्रकीर्तिताः ।
रुद्रचक्रं तु संवेष्ट्य षट्दिक्षु चक्रम् आस्थिताः ॥
3.84
दक्षिणेन लिखेन् मन्त्री महाघोरं भयावहम् ।
महारौद्रं श्मशानं तु नाम्ना कोल्लगिरी तथा ॥
3.85
तत्र दण्ड समालिख्य मध्ये वै भीतकद्रुमम् ।
नानवृक्षसमाकीर्णं कोल्लागिर्योपरि-स्-तथा ॥
3.86
चितिभिः प्रज्वलन्तीभिः समन्तात् परिवारितम् ।
दिक्षु-श्-चैव विदिक्षु-श्-च बहिस् तस्य महायशे ॥
3.87
तस्यधस्ता लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम् ।
अग्निकं क्षेत्रपालं तु महालक्ष्मी भयावहम् ॥
3.88
तत्रोपरि न्यसेद् देवं महाहासं विचक्षणः ।
पद्मपत्त्रेषु देवेशि रुद्राष्टकसमन्वितम् ॥
3.89
बहि रुद्राष्टकस्यापि योगिनीपरिवारितः ।
त्रासनी भीषणी माया मृत्यु दूती विवस्वती ॥
3.90
याम्या दिशि समाख्याता योगिन्यो सुरपूजिता ।
योगिनीबाह्यतश् चैव चत्वारो राक्षसां लिखेत् ॥
3.91
पिङ्गलं पूर्वतो लिख्य गजकर्णम् तु दक्षिणे ।
दन्तिकं पश्चिमे लिख्य उत्तरे भृकुटीमुखम् ॥
3.92
नैरृते तु न्यसेद् देवि प्रभासं क्षेत्रम् उत्तमम् ।
खड्गं तत्र समालिख्य ततो निम्बं समालिखेत् ॥
3.93
सप्तदालं महाभीमं चितिभिः प्रज्वलन्तिभिः ।
एकिकस्मिं लिखे दाले नग्नम् उद्बद्धकं नरम् ॥
3.94
शिवा तत्र समालिख्य ज्वालाजिह्वा भयाननाम् ।
तस्यधस्ता लिखेत् पद्मम् अष्टपत्त्र तथैव हि ॥
3.95
तत्र मध्ये लिखेद् देवं भैरवं शशिभूषणम् ।
रुद्राष्टकसमोपेतं पद्मपत्त्रेषु सुव्रते ॥
3.96
बहि वीराष्टकं चैव योगिन्य षट् समालिखेत् ।
भट्टिनी भद्रकाली च खड्गिनी शशिभूषिणी ॥
3.97
विद्या चण्डा तथा चैव षट् योगिन्यस् समालिखेत् ।
पश्चिमे कल्पयेद् देवि उज्जैनी क्षेत्रम् उत्तमम् ॥
3.98
पाशं तत्र समालिख्य अश्वत्थं वृक्षम् उत्तमम् ।
तस्याधस्ताल् लिखेन् मन्त्री नाम्ना गन्धयवतीं नदीम् ॥
3.99
तस्य दक्षिणतीरे तु श्मशानं चालिखेद् बुधः ।
तस्यधस्ता लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम् ॥
3.100
महाकालं लिखेद् देवं द्रंष्ट्रोत्कटभयावहम् ।
रुद्राष्टकं लिखेत् तत्र पद्मपत्त्रे व्यवस्थितम् ॥
3.101
पिबन्तं रुधिरं वक्त्रे सुसम्पूर्णे कपालके ।
बहिर् वीराष्टकम् चैव योगिन्य षट् समालिखेत् ॥
3.102
गोकर्णी भद्रकर्णी च विडाली पूतना तथा ।
शकुनी भद्रकाली च षड् योगिन्यो महाबलाः ॥
3.103
षट् लाकिन्यो लिखेत् पश्चाद् बहिस् तासां महायशे ।
अन्त्रमालाकुलां सर्वां रक्तादिक्खड्गशोभिताम् ॥
3.104
पूर्वादिशि समारभ्य चतुरो राक्षसां लिखेत् ।
कैलासं नाडिजङ्घं च गोकर्णं च कपालिनम् ॥
3.105
शूलप्रोता लिखेच् चैव दिशासु विदिशासु च ।
वायव्यां कल्पयेत् क्षेत्रं नाम्ना भूतेश्वरं महत् ॥
3.106
ध्वजं तत्र समालेख्य कदम्बं तत्र चालिखेत् ।
श्मशानं तु लिखेत् तत्र चितिभिः प्रज्वलन्तिभिः ॥
3.107
कदम्बाधस्ताल् लिखेत् पद्मम् अष्टपत्त्रं तथैव हि ।
भद्रासनं ततो लिख्य श्मशाने तु सुभीषणे ॥
3.108
तत्र लिख्य गणाध्यक्षं रुद्राष्टकसमन्वितम् ।
रुद्राणां बाह्यतो देवि योगिन्य षट् समालिखेत् ॥
3.109
भ्रमणी भ्रामणी चैव वायुवेगा महाबला ।
कम्पनी धुननी चैव एता पूर्वादि-म्-आलिखेत् ॥
3.110
पूर्वा दिशि समारभ्य चतुरो राक्षसां लिखेत् ।
वैद्युतं स्तनितं चैव महामेघप्रवर्तनम् ॥
3.111
भयावहं समाख्यातं क्रमेणैव व्यवस्थिताः ।
उत्तरे कल्पयेद् देवि नाम्ना-द्-एकाम्रकं शुभम् ॥
3.112
अरलुकं तु समालिख्य गदा वै पृष्ठतो न्यसेत् ।
तस्यधस्ता लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम् ॥
3.113
भैरवं तत्र चालिख्य रुद्राष्टकसमन्वितम् ।
एकपादं महावीर्यम् भैरवाकारसंज्ञकम् ॥
3.114
बहि रुद्राष्टकश् चैव मातरो विन्यसेद् बुधः ।
माहेश्वर्य् आदितः कृत्वा परमाता न संशयः ॥
3.115
प्रेतारूढा महावीर्या आलिखेन् मन्त्रवित् क्रमात् ।
कपाले रक्तसम्पूर्णेर् अन्त्रस्रग्दामलम्बिभिः ॥
3.116
वरदोद्यतहस्तास् तु अन्त्रस्रग्दामभूषिताः ।
मातॄणां बाह्यतो देवि योगिन्यश् चालिखेद् बुधः ॥
3.117
सुमना देवकी चैव चक्रवेगा महारवा ।
भीमाक्री रत्नगर्भा च षट् योगिन्यो यथाक्रमम् ॥
3.118
दन्तिकं लोहजङ्घं च ऊर्ध्वकेशं महामुखम् ।
चत्वारो राक्षसां लिख्य शाकिनीभि समावृतम् ॥
3.119
कबन्धानि लिखेद् अष्टौ दिक्षु-श्-चैव विदिक्षु च ।
ईशाने तु दिशाभागे कोटिवर्षं प्रकल्पयेत् ॥
3.120
वटं तत्र समालिख्य तत्र शूलोदकं लिखेत् ।
दिक्षु-श्-चैव विदिक्षु-श्-च शूलप्रोता लिखेत् तथा ॥
3.121
शिला तस्याग्रतो लिख्य कुण्डस्यैव महातपे ।
पट्टिशं पूर्वतो न्यस्य वटस्याधस् ततो प्रिये ॥
3.122
अष्टपत्त्रं लिखेत् पद्मं तथैवेन न संशयः ।
हेतुकेश्वरम् आलिख्य सदाशिवतनु-स्-तथा ॥
3.123
कर्णिकायां महादेवि महाभैरवरूपिणम् ।
रुद्राष्टकसमोपेतं पूर्ववद् देवि चालिखेत् ॥
3.124
रुद्राणां बाह्यतो देवि योगिन्य षट् समालिखेत् ।
हेतुकी कम्पनी चैव क्षोभणी भीमविक्रमा ॥
3.125
क्रोष्टुकी भद्रकाली च योगिन्यः षट् समालिखेत् ।
योगिनीनां बहिश् चैव चत्वारो राक्षसां लिखेत् ॥
3.126
नन्दिं च छगलं चैव कुम्भकर्ण महाबलम् ।
पूर्वा दिशि समारभ्य विन्यसेत् मन्त्रवित् क्रमात् ॥
3.127
शूलप्रोता लिखेत् मन्त्री दिक्षु-श्-चैव विदिक्षु च ।
श्मशाननवकं प्रोक्तं मध्यमेन समन्वितम् ॥
3.128
रुद्रै व्याप्तम् यथान्यायं सर्वम् अष्टभिर् अष्टभिः ।
चतुर्भिर् गर्भसंस्थैस् तु सह रुद्रै भवन्ति हि ॥
3.129
अष्टषष्टिमिता रुद्रा श्मशाननवके तथा ।
गर्भस् त्रितत्त्वयागं तु व्याप्तिं वै भैरवेण तु ॥
3.130
भीम किङ्कररूपिण्या वीररूपेण च प्रिये ।
चतुर्विंशतियोगिन्यो शूलपद्मे व्यवस्थिताः ॥
3.131
ताश् च रुद्रैस् तथा व्याप्ता चतुर्विंशतिभिः क्रमात् ।
महादेवादिभिर् देवि क्रमेणैव व्यवस्थितैः ॥
3.132
पूर्वे महाश्मशाने-स्-तु महादेवं तु विन्यसेत् ।
कर्णिकायां लिखेन् मन्त्री पूर्वपत्त्रे तथैव च ॥
3.133
माहेश्वरं तथाग्नेये देवदेवं तु दक्षिणे ।
आलिखे तु दले मन्त्री नैरृत्ये प्रपितामहाम् ॥
3.134
पश्चिमे तु बिदुस्थानम् अजोगन्धं च वायवे ।
विश्वेश्वरं तथा चैव आलिखेद् उत्तरे दले ॥
3.135
ईशाने तु महानादं विन्यसेन् मन्त्रवित् क्रमात् ।
महावनं तथाग्नेये महाघण्ठेश्वरं लिखेत् ॥
3.136
महाव्रतं तथा चैव तथा चैव महोत्कटम् ।
तथा लिखेन् महातेजं तथा चैव महाबलम् ॥
3.137
महायोगं तथा चैव तथा स्थूलेश्वरं पुनः ।
हरिकेश्वरं तथा चान्यं सर्वत्र नव संस्मृतम् ॥
3.138
दक्षिणे तु वने देवि अट्टहासं समालिखेत् ।
पुनश् चैवाट्टहासं तु तस्य पूर्वे तु पत्रके ॥
3.139
ईशानं च तथा रुद्रं सहस्राक्षं तथैव च ।
भैरवं च तथा उग्रम् ऊर्ध्वरेतं कपर्दिनम् ॥
3.140
नैरृते वनके रम्ये आलिखेच् छशिभूषणम् ।
शशिभूषणं पुनश् चैव कृत्तिवासं तथैव च ॥
3.141
पुनः पूर्वदले चैव विन्यसेच् छशिभूषणम् ।
आम्रतिकेश्वरं चैव नीलकण्ठं तथैव च ॥
3.142
श्रीकण्ठं च महायोगी तथा च हाटकेश्वरम् ।
तथैव विजयं देवि नवमं परिकीर्तितम् ॥
3.143
पश्चिमे तु महाकालं कर्णिकायां समालिखेत् ।
पूर्वपत्त्रे तथा चैव महाकालं समालिखेत् ॥
3.144
शङ्करं च हरं चैव जटि सौम्यं तथापरम् ।
त्र्यम्बकं च तथा चान्यं तथा चान्यं त्रिलोचनम् ॥
3.145
त्रिशूनं तथा चान्यं नवमं परिकीर्तितम् ।
वायव्ये तु गणाध्यक्षं तथा च त्रिपुरान्तकम् ॥
3.146
लकुलीशं तथा चैव तथा चैव उमापतिम् ।
पशुपतिं च तथा देवं तथा कामेश्वरं लिखेत् ॥
3.147
अमरेश्वरं तथा चैव ओंकारं च तथापरम् ।
नवमं च तथा भीमं विन्यसेन् मन्त्रवित् क्रमात् ॥
3.148
उत्तरे तु वने देवि एकपादं तु भैरवम् ।
स्वयम्भुं च तथा चैव तथा चैव गणापतिम् ॥
3.149
विरूपाक्षं च तथा चैव भूर्भुवं तु समालिखेत् ।
तथा चैव हिमस्थानम् अनलेश्वरम् एव च ॥
3.150
भस्मगात्रं तथा चैव किरातेश्वरम् एव च ।
नवमं तु समाख्यातम् उत्तरे नात्र संशयः ॥
3.151
ईशाने तु महादेवि हेतुकेश्वरम् आलिखेत् ।
वाराहं च तथा श्रेष्ठं वरिष्ठं जम्बुकेश्वरम् ॥
3.152
प्रहसितं च तथा देवि तथा चैव जलेश्वरम् ।
अशुभं च तथा चैव वरदं नवमं स्मृतम् ॥
3.153
मूलासनस्य देवेशि ब्रह्मस्थानाब्जके तथा ।
कर्णिकायां चतुष्कं तु रुद्राणां विनिवेशयेत् ॥
3.154
सिंहरूपा महादेवि त्रितत्त्वस्यापि चोपरि ।
अमरेश्वरं च अग्नेये कर्णिकायां तु विन्यसेत् ॥
3.155
ओंकार नैरृते भागे दिण्डि वै वायुगोचरे ।
ईशाने च तथा चण्डि सिंहरूपास् तु विन्यसेत् ॥
3.156
तत्रोपरि न्यसेद् देवं भीमभैरवरूपिणम् ।
श्मशाने तु ततो यागं यष्ट्वा वै साधकोत्तमः ॥
3.157
बहिर् अस्त्राणि विन्यस्य ब्राह्मणाभ्यन्तरे तथा ।
दिक्षु-श्-चैव विदिक्षु-श्-च अस्त्राणां बाह्यतस् तथा ॥
3.158
लोकपालं न्यसेन् मन्त्री ततो रुद्रान् तु विन्यसेत् ।
पूर्वादिशि-म्-आरभ्य दशकं दशकं क्रमात् ॥
3.159
अधोर्ध्वं च यथान्यायं ब्रह्माण्डस्यैव मध्यतः ।
कपालीशो अजो बुद्ध वज्रदेह प्रमर्दनः ॥
3.160
विभूतिर् अव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
पूर्वायां दशकं ह्य् एत रुद्राणां सम्प्रतिष्ठितम् ॥
3.161
महाभूतैर् महादेवि पूजयेत् साधकोत्तमः ।
अग्निरुद्रो हुताशी च पिङ्गलो खादको हरः ॥
3.162
ज्वलनो दहनो बभ्रु भस्मान्तकः क्षयान्तकः ।
आग्नेयां दशकं ह्य् एतत् सह भूतैस् तु पूजयेत् ॥
3.163
याम्यो मृत्युहरो धाता विधाता कतृ-र्-एव च ।
कालरुद्रश् च विख्यातो धर्माधर्मपतिस् तथा ॥
3.164
संयोक्ता च वियोक्ता च इत्य् एते दक्षिणां दिशि ।
सह भूतैस् तथा पूज्यम् एवं वै भैरवो ऽब्रवीत् ॥
3.165
ऊर्ध्वशेफो विरूपाक्ष धूम्रो लोहितद्रंष्टवान् ।
नैरृतो मारणा हन्ता क्रूरदृष्टि भयानकः ॥
3.166
नैरृत्यां स्थिता रुद्रा सह भूतै प्रपूजयेत् ।
बलो ह्य् अतिबलश् चैव पाशहस्तो महाबलः ॥
3.167
श्वेतश् च जयभद्रश् च दीर्घबाहु जलान्तकः ।
वडवामुख भीमश् च वारुण्यां दिशि संस्थिताः ॥
3.168
सह भूतैस् तथा पूज्य साधकेन महायशे ।
शीघ्रो लघु वायुवेगः सूक्ष्मस् तीक्ष्ण क्षयान्तकः ॥
3.169
पाञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
इत्य् एते दश रुद्रास् तु वायव्यां सम्प्रपूजयेत् ॥
3.170
सह भूतैस् तथा पूज्या नात्र कार्य विचारणात् ।
निधीशो रूपवान् धन्यः सौम्यदेह प्रमर्दनः ॥
3.171
सुप्रसादो प्रसादश् च कामरूपी च सुप्रियः ।
सोमेश्वर समाख्याता उत्तरेण दशैव तु ॥
3.172
सह भूतैस् तथा पूज्य साधकेन महायशे ।
विद्याधिपो ज्ञानभुजो सर्वज्ञो वेदपारगः ॥
3.173
मातृवृतस् तु पिङ्गाक्षो भूतपालो बलिप्रियः ।
सर्वविद्याविधाता च सुखदुःखकरस् तथा ॥
3.174
दश रुद्राः समाख्याता ईशान्यां दिशि संस्थिता ।
सह भूतैस् तथा पूज्य स्वमन्त्रैस् तु यथाक्रमम् ॥
3.175
अनन्त पालको धीरः पातालीश पतिर् वृषः ।
स्रग्दामस् तु-स्-तथा शुभ्रो लोहितः सर्वतोमुखः ॥
3.176
दश रुद्रो महादेवि कालाग्ने ऽधस् तु पूजयेत् ।
सह भूतै यथान्यायं नात्र कार्य विचारणात् ॥
3.177
शम्भुर् विभुर् गणाध्यक्षस् त्र्यक्षस् त्रिदशवन्दितः ।
संवाहश् च विवाहश् च नभो लिप्सु विचक्षणः ॥
3.178
आकाशे संस्थिता रुद्रा दशैव तु यथाक्रमः ।
सह भूतैस् तथा पूज्य एवं वै भैरवो ऽब्रवीत् ॥
3.179
दीक्षाकाले श्मशानानि आलिखे तु प्रपूजयेत् ।
तथा प्रतिष्ठाकाले तु पूजनीयानि मन्त्रिणाम् ॥
3.180
लेख्यानि तु महादेवि महायागेषु पूजयेत् ।
रुद्रां तु शतं दिक्षु दीक्षाकाले तु पूजयेत् ॥
3.181
दश दिक्षु विभागेन सह भूतैर् यथाक्रमम् ।
प्रतिष्ठायां तथा चैव एवम् एव हि पूजयेत् ॥
3.182
प्रेतारूढां लिखेत् सर्वां देव्यश् चैव यथास्थिताः ।
खट्वाङ्गमुण्डधारिण्यो भीमवक्त्राश् च ता स्मृताः ॥
3.183
ततो गन्धैश् च माल्यैश् च बलिभिश् चरुभिस् तथा ।
पूजयेत् सर्वशक्त्या तु यद् इच्छेत् सिद्धिम् आत्मनः ॥
3.184
श्मशानोत्थानि भाण्डानि वस्त्रसूत्रादिकानि तु ।
वस्त्रै ध्वजा तु कर्तव्या सूत्रेण करणी तथा ॥
3.185
केशैर् दर्भा यथान्यायम् अच्छिन्नाग्राः प्रकल्पयेत् ।
वेष्टयेन् मण्डलं तैस् तु अस्त्रजप्तेस् समन्ततः ॥
3.186
मायूरपिञ्छकं जप्तं तेन संमार्जयेयु तं ।
एकैकस्य विधानेन आलिखेत् पुरम् उत्तमम् ॥
3.187
एकाकी विजने तस्मिं दक्षिणाभिमुखस्थितः ।
मुक्तकेशश् च दिग्वासाः कृतन्यासो विधानवित् ॥
3.188
अवधूततनुर् भूत्वा निराचारस् तु साधकः ।
प्रथमं पूजयेद् देवं कर्णिकायां परं शिवम् ॥
3.189
ततो देव्या यथान्यायं दूत्यन्ते तदनन्तरम् ।
योगिन्यो मातरश् चैव यजेत पुरम् उत्तमम् ॥
3.190
गोरक्तं पललं चैव सुराकिण्वसमन्वितम् ।
गन्धम् एतद् धि देवीनां आदाय् एव महोदयम् ॥
3.191
लशुनं गुग्गुलं चैव पलं लिङ्गमलं तथा ।
तुरुष्क देवदारुं च गोकर्णमलम् एव च ॥
3.192
शैलं हिङ्गुसमायुक्तो धूपो यागे प्रशस्यते ।
रथ्यामृतकनिर्माल्यैर् अवधूतैर् अथापि वा ॥
3.193
पूजयेन् मण्डलं दिव्यम् अघोरीपुरम् उत्तमम् ।
पूजयित्वा यथान्यायं ततः पूर्वं निवेदयेत् ॥
3.194
सुरा सीधुं मधुं चैव आसवाश् च निवेदयेत् ।
आमपक्वं सुगन्धं च च्छागमाहिष्यगोभवम् ॥
3.195
मत्स्यमांसा प्रयत्नेन कृशरं पललं तथा ।
सुस्विन्नां मुद्गम् आपाश् च धूपान् नानाविधान् तथा ॥
3.196
नृस्नेहेन ततो दीपं नृकपालैस् तु दापयेत् ।
अन्ते बाह्ये च सर्वत्र दिशासु विदिशासु च ॥
3.197
एवं चेष्ट्वा बलिं दद्यान् मन्त्रपूतां विचक्षणः ।
प्रविश्य च पुरं दिव्यम् जप्त्वा चाष्टशतं पुनः ॥
3.198
अवधूततनुर् भूत्वा प्रयोगम् इदम् आरभेत् ।
पशुबीजसमायुक्तम् ऊकारेणैव भेदितम् ॥
3.199
कर्षये तु समाधिष्ठो रक्तोघं रक्तया सह ।
तेन रक्तेन मन्त्रज्ञः परिपूर्णकपालके ॥
3.200
सुगन्धकुसुमैर् युक्तै तेनार्घं तु प्रदापयेत् ।
देवीनां देवदेवाय सर्वसिद्ध्यर्थकारणम् ॥
3.201
दत्ते ऽर्घे तु प्रसिध्येत त्रैलोक्यं नात्र संशयः ।
अथवा चैव ऊकारं पशुबीजसमन्वितम् ॥
3.202
चोदयित्वा उदानेन अवधूततनुह् सदाः ।
निराचारेण भावेन पशुदेहं विशेत् ततः ॥
3.203
तत्रस्थो ग्रहनं कुर्याद् भूतानां मन्त्रचिन्तकः ।
अपानेन ततः शीघ्रं स्वदेहं प्रविशेद् बुधः ॥
3.204
पञ्चभूतानि चाकृष्य पूजयीत कपालधृक् ।
रक्तेन प्रथमा देवी द्वितीया मांसभक्षणे ॥
3.205
तृतीया त्वचभक्षा तु चतुर्थी मेदभक्षणा ।
स्नेहेन तर्पयेत् देवं पञ्चव्योमान्तसंस्थितम् ॥
3.206
एतत् ते परमं गुह्यं योगेशीनां तु पूजनम् ।
सिद्ध्यर्थं चैव मन्त्रीणां खेचरत्वजिगीषिणाम् ॥
3.207
गूहितव्यं प्रयत्नेन यद् इच्छे दीर्घ जीवितुम् ।
आग्नेयी तु दिशं गत्वा अर्चयेद् अनलं बुधः ॥
3.208
अग्निकार्यं ततः कुर्यान् नरस्नेहेन मन्त्रिणः ।
गुग्गुलं घृतसम्मिश्रं होमयेत् सिद्धिकाङ्क्षिणः ॥
3.209
गोमांसं गुग्गुलं चैव पिन्याकं लशुनं तथा ।
सिद्ध्यर्थं गुडिका ह्य् एत होमयेन् नित्यकर्मणि ॥
3.210
मण्डले तर्पणं कृत्वा गोमांस सुरयान्वितम् ।
पायसं मधुसम्मिश्रं होमयेन् नित्यकर्मणि ॥
3.211
मध्वाज्याहुतयः पञ्च होमयेन् मण्डले बुधः ।
एकैकस्य शतं देयम् आहुतीनां तु मन्त्रिणाम् ॥
3.212
त्रितत्त्वस्यैव यागस्य प्रति देव्यास् तु वर्जितम् ।
ततः प्रवेशयेच् छिष्यां महोच्छुष्मेण मन्त्रवित् ॥
3.213
दीक्षयेन् मण्डले पश्चाद् आकृष्टाः पूर्व शक्तिभिः ।
एकतत्त्वविधानं तु विद्याम् उच्चार्य कारयेत् ॥
3.214
स्मरणं पुटिता देवि पुष्पं क्षिप्त्वा तथार्चयेत् ।
वामया योजयेत् तस्मिन् परे तत्त्वे विधानवित् ॥
3.215
स्थितिर् लयं तथा भोगं मध्यमायाः प्रकल्पयेत् ।
रौद्र्यां चोपकर्षित्वा तु हृदिस्थं कारयेद् बुधः ॥
3.216
पूर्णाहुतिविधानेन पातयेद् योजयेत् ततः ।
भैरवस्य महादेवि पार्थिवे नात्र संशयः ॥
3.217
महायागे तु दीक्षायां एकतत्त्वे विधानवित् ।
उत्केरं रक्तसम्मिश्रं पललेन समन्वितम् ॥
3.218
विकिरेन् मण्डले तस्मिन् मातॄणां चैव वल्लभम् ।
सुगन्धपुष्पसम्पूर्णं कपालस्थं सुरां तथा ॥
3.219
अर्घो देयस् तु देवीनां मातॄणां च तथैव च ।
दिग्बलिं तु ततो दद्याद् एकैके तु श्मशानके ॥
3.220
ततः प्रदक्षिणं कृत्वा मण्डलस्यानलस्य तु ।
ततः प्रवेशयेत् शिष्यां अर्चयित्वा यथाविधि ॥
3.221
महोच्छुष्मेण द्वारेण प्रविशेत् पुरमध्यतः ।
रक्तपूर्णकपाले तु अर्घो देयस् तु मन्त्रिणा ॥
3.222
देवीनां देवदेवाय सर्वसिद्ध्यर्थकारणम् ।
दत्ते ऽर्घे तु प्रसिध्येत त्रैलोक्यं नात्र संशयः ॥
3.223
पञ्चभूतविभागेन चरुकं साधयेद् बुधः ।
आग्नेयी दिशिम् आश्रित्य मन्त्रराजेन मन्त्रवित् ॥
3.224
नैवेद्यं देवदेवीनां सर्वेषां च यथाविधिः ।
ततो ऽग्नौ हुतशेषान् तु योगिन्यायाश् च दापयेत् ॥
3.225
शिष्यै सार्धे तथाचार्यो भक्षयेच् चरुम् उत्तमम् ।
दन्तैर् अस्पृश्यमानं तु धारामृतसमन्वितम् ॥
3.226
प्राशयीत चरुं दिव्यं यद् इच्छेत् सिद्धिम् आत्मनः ।
तेन प्राशितमात्रेण त्रिकालज्ञो भवेद् ध्य् असौ ॥
3.227
ततो हुत्वा तु चरुकं कृत्वा वै प्रणवे ततः ।
निराचारं ततो ध्यात्वा योजयेत् तत्र साधकः ॥
3.228
युक्तस् तु चरुकं भक्षे भैरवेव प्रजायते ।
त्रिकालज्ञो जितद्वन्द्वो यथेष्टं चेष्टते तु सः ॥
3.229
उत्पते गगनाभोगं सर्वां गच्छे यथेप्सया ।
परदेहे प्रवेशं च स्वतन्त्र तनु कुर्वते ॥
3.230
उत्क्रामयति देहस्थ देवदेवानी साधकः ।
गुरुपूजां ततः कृत्वा यथाशक्त्या तु साधकः ।
ततस् तु जायते सिद्धिं सम्प्रदायं च विन्दति ॥
Kolophon
॥ इति महाभैरवे द्वादशसाहस्रके पिचुमते नवाक्षरविधाने महायागपटलः ॥
Kapitel 4: Die Lotusgirlande – belegte Einzelverse
Textgrundlage: Hatley 2020; die exakten Seiten und Anmerkungen sind bei jedem Vers genannt.[3]
4.498
शिखादिपादयोर् अन्तं अवधूतं विचिन्तयेत् ।
नवग्रन्थिविभागेन तया प्रोक्ता पुनः क्रमात् ॥
Sanskritbeleg: Hatley 2020, S. 394, Anm. 19.
4.499
नवपद्मानि संचिन्त्य अष्टपत्राणि साधकः ।
युक्तानि केशरैश् चैव चतुर्व्विन्सतिभिः क्रमात् ॥
Sanskritbeleg: Hatley 2020, S. 394, Anm. 19.
4.500
कर्ण्णिकायां युतानीह चिन्तनीयानि मन्त्रिणा ।
शिखापद्मं समारभ्य आसनानि प्रकल्पयेत् ॥
Sanskritbeleg: Hatley 2020, S. 394, Anm. 19.
4.515
वामपार्श्वे ततस् तस्याः कपालीसस्य विन्यसेत् ।
बीजमात्रं महाप्राज्ञ वक्त्रनेत्राङ्गवर्ज्जितं ॥
Sanskritbeleg: Hatley 2020, S. 402, Anm. 38.
4.538
सर्व्वाङ्गे परमा शक्ति वक्त्रनेत्राङ्गवर्जिता ।
पद्मासनन्विहीना तु विन्यसेन् मन्त्रवित् क्रमात् ॥
Sanskritbeleg: Hatley 2020, S. 395, Anm. 24.
4.565
कण्ठग्रन्थिगते पद्मे नात्र कार्य विचारणात् ।
नाभिपद्मे तथैवेह चण्डाक्षीं विन्यसेद् बुधः ॥
Sanskritbeleg: Hatley 2020, S. 400, Anm. 33.
4.595
सर्व्वाङ्गे परमा शक्तिर् वक्त्रनेत्राङ्गवर्जिता ।
पद्मासनविहीना तु विन्यसेत् साधकोत्तमः ॥
Sanskritbeleg: Hatley 2020, S. 402.
Kapitel 12: Äußere und innere Setzung der Shakti – ausgewählte Textabschnitte
Textgrundlage: Hatley 2020; die exakten Seiten und Anmerkungen sind bei jedem Vers genannt.[3]
12.1
अथातः संप्रवक्ष्यामि आसनं पूर्व्वम् एव हि ।
यागं चैव महादेवि साधकानां हिताय वै ॥
Sanskritbeleg: Hatley 2020, S. 403, Anm. 45.
12.2
पूर्व्वोक्ते मण्डले चैव गन्धमण्डलके पि वा ।
पुष्पमण्डलके वापि शक्तितन्तु विचिन्तयेत् ॥
Sanskritbeleg: Hatley 2020, S. 403, Anm. 45.
12.3
तस्याधो प्रणवं दद्या कालाग्निन् तत्र विन्यसेत् ।
क्षीरोदं तन् तु विन्यस्य अवधूतं ततो न्यसेत् ॥
Sanskritbeleg: Hatley 2020, S. 403, Anm. 45.
12.36
पद्मासनोपविष्टस् तु चिन्तयित्वा तु साधकः ।
अवधूतं न्यसेन् मन्त्री पादयोर् उभयोर् अपि ॥
Sanskritbeleg: Hatley 2020, S. 404–405, Anm. 51.
12.37
पञ्चात्मिका महादेवि गुह्ये चतुर्ग्गुणन् तथा ।
हृदयं तृगुणं न्यस्य ललाटे द्विगुणं न्यसेत् ॥
Sanskritbeleg: Hatley 2020, S. 404–405, Anm. 51.
12.38
एकात्मिका तथा चैव शिखायां साधकोत्तमः ।
सकृत् सकृत् तथा चैव वक्त्रस्थानेषु विन्यसेत् ॥
Sanskritbeleg: Hatley 2020, S. 405, Anm. 51.
12.39
नेत्रस्थानेषु वै दद्याद् अङ्गस्थानेषु चैव हि ।
शक्तितन्तु ततो ध्यात्वा न्मस्तकात् पादयो न्तिका ॥
Sanskritbeleg: Hatley 2020, S. 405, Anm. 51.
Kapitel 14: Yogini-Begegnung und fremder Körper – belegte Einzelverse
Textgrundlage: Hatley 2020 und Hatley 2025; genaue Fundstellen bei den einzelnen Versen.[3][4]
14.218
तत्क्षणा देवि खादन्ति योगिन्यो योगदर्प्पिताः ।
न तम् रक्षयितुं शक्तो रुद्रो ऽपि स्वयम् आगतः ॥
Sanskritbeleg: Hatley 2025, S. 85, Anm. 19.
14.260
परदेहम् विशेत् मन्त्री अमृताकृष्टिञ् च कारयेत् ।
नाडीसंधानकं कृत्वा नात्र कार्य विचारणात् ॥
Sanskritbeleg: Hatley 2020, S. 404, Anm. 49.
Kapitel 15: Die Himmelfahrt am Ende der Vetala-Praxis – 15.64
Textgrundlage: Hatley 2025; genaue Fundstelle beim Vers.[4]
15.64
उत्तिष्ठति विमानस्थं विमानैः परिवारितं ।
तत्रारुह्य महाधीरश् चक्रवर्त्तीस्वरो भवेत् ॥
Sanskritbeleg: Hatley 2025, S. 83, Anm. 15.
Kapitel 21: Die Vidya-Observanzen
Textgrundlage: Kiss 2015, Band II, Sanskritedition S. 115–127 (21.1–146); Übersetzung und Kommentar S. 212–230.[2]
21.1
अतः परं प्रवक्ष्यामि व्रतान् उच्छुष्मसम्भवान् ।
नग्नव्रतं भवेद् एकं द्वितीयं तु कुचैलिनम् ॥
21.2
तृतीय मलिनं नाम चतुर्थोन्मत्तकं भवेत् ।
कपालं पञ्चमं प्रोक्तं षष्ठ मुक्तम् तु भैरवम् ॥
21.3
सप्तमं बालकं नामं क्रव्यादं चाष्टमं भवेत् ।
नवमं वर्धमानस् तु सर्वसिद्धिप्रदायकम् ॥
21.4
एते नव व्रता प्रोक्ता विद्याभेदे व्यवस्थिता ।
एतेषां तु यथान्यायं यथा चर्या भवे त्व् इह ॥
21.5
कथयामि महादेवि तन् मे निगदतः शृणु ।
नग्नव्रते सदा नग्नौ उत्तरीयविवर्जितम् ॥
21.6
भस्मोद्धूलितदेहस् तु मुक्तकेश सदा भवेत् ।
यागस्थानं सदा पूज्य मध्याह्ने भ्रमणं भवेत् ॥
21.7
ग्रामे वा नगरे वापि अवश्यं पर्यटे प्रिये ।
कृतन्यासः सदा मौनी पञ्चमुद्राविवर्जितः ॥
21.8
पूर्वाह्निकं तदा कृत्वा दिवा भ्रमणम् आचरेत् ।
मध्याह्निकं ततः कृत्वा रात्रौ तु अपराह्निकम् ॥
21.9
नक्तेन भोजनं कार्यं साधकेन व्रते सदा ।
अर्धरात्राह्निकं कार्यं पूजादिकपुरह्सरः ॥
21.10
रात्रौ तु भ्रमणं नित्यं वर्जनीय न संशयः ।
विद्याव्रतेषु देवेशि नात्र कार्य विचारणात् ॥
21.11
प्रथमं तु व्रतम् ह्य् एते द्वितीयं शृणु साम्प्रतम् ।
रथ्याचीरपरिधानो रथ्याचीरावृतः सदा ॥
21.12
रथ्याचीरशिरोष्णीषो मलदिग्धः सदा भवेत् ।
भ्रमणं पूर्वम् एवास्य आह्निकक्रमम् एव च ॥
21.13
भोजनं च तथैवेह व्रते नित्य कुचैलिने ।
तृतीयं तु व्रतं वक्ष्ये मलिनं शृणु साम्प्रतम् ॥
21.14
कृष्णरक्तपरीधान उत्तरीयविवर्जितः ।
निर्माल्यमालितं नित्यं शिवनिर्माल्यवर्जितः ॥
21.15
अन्येषां देवजातीनां निर्माल्यं न तु वर्जयेत् ।
करयो चैव बाहुभ्यां मस्तके गलके तथा ॥
21.16
ऊरुभ्यां जङ्घायो चैव माल्यमाली सदा भवेत् ।
कर्पटानि च बध्नीया शोभनानि च नित्यशः ॥
21.17
पुष्पाणि मालयेन् नित्यं यथालाभेन चैव हि ।
भ्रमणं पूर्वम् एवोक्तम् आह्निकक्रमम् एव च ॥
21.18
रात्रौ तु सततं नग्नौ मलिने तु व्रते भवेत् ।
नग्नरूपो भवेन् नित्य मुक्तकेशस् तथैव च ॥
21.19
रुदते हसते चैव क्वचिद् गेयं उदीरयेत् ।
क्वचिन् नृत्यन् क्वचिद् वल्गन् क्वचिद् धावति साधकः ॥
21.20
ब्रह्माहं विष्णुरूपो ऽहं ईश्वरो ऽहं ब्रवीति च ।
देवाः प्राप्तकरास्माकं किङ्करत्वं समागता ॥
21.21
ऐरावते समारूढ इन्द्रो ऽहं पश्य मां ब्रवीत् ।
इन्द्राणी मम भार्या च श्वानो ऽहं सूकरम् ह्य् अहम् ॥
21.22
अश्वमर्दो ह्य् अहं चैव घोटविग्रहकं तथा ।
रथ्यायां शयनं कुर्वाद् उत्तिष्ठे धावतेति च ॥
21.23
यागस्थानं न लङ्घेत पूजयेन् मनसापि वा ।
मूत्रेण वन्दयेत् संध्यां क्वचिन् मूर्ध्नि तु प्रक्षिपेत् ॥
21.24
स्त्रियो दृष्ट्वा नमस्कृत्य माता च भगिनीति च ।
एवं सम्भाषयेन् मन्त्री क्रोशनं तु न कारयेत् ॥
21.25
भ्रमणं तु तथैवेह आह्निकं तु तथैव हि ।
भोजनं तु दिवा नैव उन्मत्तो ऽपि समाचरेत् ॥
21.26
मस्तके तु तिलां क्षिप्य यूकां कृत्वा तु भक्षयेत् ।
सशब्दं मारयेद् वाथ लोकसम्मोहनं प्रति ॥
21.27
उन्मत्तकं महादेवि एवं संचार्य साधकः ।
नानारूपाभि चेष्टाभि योगिनां तु हितावहम् ॥
21.28
कपालं तु महादेवि शृणुष्व् एकाग्रमानसा ।
कपालं यष्टिकायां तु कृत्वा वै भ्रमते सदा ॥
21.29
सवासः सोत्तरीयस् तु मुक्तकेशो महामति ।
भ्रमते तु दिवा नित्यं मौनी ध्यानपरायणः ॥
21.30
आह्निकानि तथैवेह रात्रौ भोजनम् आचरेत् ।
कपालं तु समाख्यातम् अतो ऽन्यं तु निबोध मे ॥
21.31
मुक्तकेशो महायोगी पञ्चमुद्राविभूषितम् ।
सवासो भ्रमते नित्यं तथैवेह न संशयः ॥
21.32
देवकर्मे कृते रात्रौ मुद्रात्यागं तु कारयेत् ।
प्रभाते तु पुनश् चैव मुद्रायुक्तः परिभ्रमेत् ॥
21.33
आह्निकानि तथैवेह रात्रौ कुर्याथा भोजनम् ।
मुक्तभैरवनामं हि व्रतम् एतद् उदाहृतम् ॥
21.34
बालकं तु महादेवि कथ्यमानं निबोध मे ।
क्वचिन् नग्नो भवेन् मन्त्री बालकैः परिवेष्टितः ॥
21.35
परिधानं परित्यज्य मस्तके वेष्टयेत् क्वचित् ।
पांशुना क्रीडयेच् चैव शकटेन च क्रीडयेत् ॥
21.36
बलिवर्दं क्वचित् कृत्वा मृदया क्रीडयेत् क्वचित् ।
यष्टिकायां समारुह्य अश्व संवाहयेत् क्वचित् ॥
21.37
बालेव रमते चैव बालक्रीडा समाचरेत् ।
सवास भ्रमते नित्य मुक्तकेशश् च नित्यशः ॥
21.38
दिवा वा तेन मार्गेण मौनी ध्यानपरायणः ।
आह्निकानि तथैवेह रात्रौ कृत्वा-न्-महामति ॥
21.39
क्रव्यं प्राशयते नित्यं महारक्तेन साधकः ।
नान्यं किंचित् समश्नीया क्रव्यादे ऽस्मिन् व्रते स्थितम् ॥
21.40
पूर्वकारव्रतैर् अन्यैर् भक्षयेच् चामिषैः सह ।
यथालाभम् अथाश्नीयाद् अस्मिन् क्रव्यं तु भक्षयेत् ॥
21.41
भस्मोद्धूलितदेहस् तु मुद्रापञ्चकभूषितम् ।
बाहुभ्याम् अस्थिखण्डैश् च मस्तके मुण्डकं तथा ॥
21.42
खट्वाङ्गं धारयेन् मन्त्री शूलमात्र वरानने ।
कपाल दक्षिणे हस्ते चरेद् विद्याव्रतं शुभम् ॥
21.43
पूर्वोक्तेषु प्रदेशेषु रात्रौ पर्यटनं भवेत् ।
नक्तभोजी महावीरो आहारः पूर्वकल्पने ॥
21.44
वर्तयेद् व्रतम् आपन्नो मौनी ध्यानपरायणः ।
यागस्थानानि सर्वाणि पर्यटन् पूजयेन् निशौ ॥
21.45
शिवारावं प्रकुर्वीत डमरुकं वादयेन् मुहु ।
योगिन्य पूतनाद्याश् च नमस्कृत्वा पुनर् व्रजेत् ॥
21.46
नवमो वर्धमानस् तु व्रतम् एतत् प्रकीर्तितम् ।
नवग्रन्थिविभागेन न्यासम् अत्र प्रकल्पयेत् ॥
21.47
विद्याव्रतेषु सर्वेषु नात्र कार्य विचारणात् ।
मासं मासं चरेन् मन्त्री व्रतान्य् एतानि सुव्रते ॥
21.48
संयतो ब्रह्मचारी च सूत्रेणानेन साधकः ।
योगिन्यः पश्यते ऽवश्यं नात्र कार्य विचारणात् ॥
21.49
प्रच्छन्ने गुप्तदेशे तु देवकर्म समाचरेत् ।
आह्निकानि चत्वारि रात्रौ एव न संशयः ॥
21.50
यथा न पश्यते कश्चित् तूरम् चैवाक्षसूत्रकम् ।
तथा स्थापयितव्यं तु स्पर्शं चैव न जायते ॥
21.51
सखायैर् वा समेतस् तु चरेद् विद्याव्रतानि तु ।
आज्ञाते केनचि लोके तज्ज्ञानैर् वा भक्तिवत्सलैः ॥
21.52
समयज्ञानैर् महाप्राज्ञानैस् तन्त्रसद्भावभावितैः ।
शीलवन्तै जितद्वन्द्वैः क्रोधहीनैर् अलोलुपैः ॥
21.53
एवंविधैः समेतस् तु चरेद् विद्याव्रतानि तु ।
तस्मिन् देशे चरेन् मन्त्री अज्ञातो निपुणैर् अपि ॥
21.54
सहजातैर् न दृश्येत पूर्वदृष्टैश् च सुव्रते ।
नव व्रता मया प्रोक्ता नवयागसमाश्रिता ॥
21.55
अधुना सम्प्रवक्ष्यामि पञ्चकस्य व्रतानि तु ।
यैस् तु चीर्णैर् महादेवि खेचरत्वम् अवाप्नुयात् ॥
21.56
प्रथमं रूपसम्पन्नं व्रतं वक्ष्यामि तत्त्वतः ।
शुक्लाम्बरधरो मन्त्री शुक्लमाल्यानुलेपनः ॥
21.57
वामतो दन्तपत्त्रं तु दक्षिणे कर्णपूरकम् ।
†खिर्वरी† च ततो दद्याल् ललाटे चैव पट्टिका ॥
21.58
मस्तके पदवीं दद्याद् अर्धचन्द्रं विशेषतः ।
त्रिमणि कण्ठदेशे तु कण्ठिका तस्य चोपरि ॥
21.59
ग्रीवायां विन्यसेद् धारं वालिकां कर्णयोः ऽपरि ।
बाहुभ्यां चैव केयूरौ करे चूडां तु विन्यसेत् ॥
21.60
महाशङ्खमयी पत्त्रा कर्तव्या साधकेन तु ।
हस्तिदन्तमयं पत्त्रं कर्तव्यं नात्र संशयः ॥
21.61
दन्तपत्त्रस्य कर्णे ऽपि मुद्रा चास्थिमयी स्मृताम् ।
तस्योपरि न्यसेत् पत्त्रं दन्तजं यत् प्रकीर्तितम् ॥
21.62
कटकं तु ततो दद्याद् अङ्गुलीयाम् अङ्गुलीयकम् ।
मेखला कटिदेशे तु कटिसूत्रं तथैव च ॥
21.63
पद्भ्यां तु नूपुरं दद्याद् अङ्गुष्ठे चैव बिन्दुकौ ।
मुद्रां अङ्गुलीश् चैव पादौ लक्तकरञ्जितौ ॥
21.64
कपाल दक्षिणे हस्ते खट्वाङ्गं वामतो न्यसेत् ।
घण्टापिच्छकसम्युक्तं डमरुकं वादयेद् बुधः ॥
21.65
एकान्ते गुह्यदेशे तु चरेन् मन्त्री व्रतं क्रमात् ।
मासं वा यदि वा पक्षं द्विमासं षण्मास मन्त्रवीत् ॥
21.66
अब्दम् एकं चरेद् युक्तं द्विर् अब्दं त्रीणि षट् तथा ।
द्वादशाब्दं महायोगी शिवतुल्यो भवेद् असौ ॥
21.67
सकलो निष्कलश् चैव विश्वभूतो मनोद्भवः ।
षड्भिस् तु जायते सिद्धो रुद्रतुल्यपराक्रमः ॥
21.68
देवीनां हृदये लीनो भुवनीशपदं भवेत् ।
त्रिभिस् तु मातरासिद्धि योगिनीनां प्रियो भवेत् ॥
21.69
द्विभिश् तु गगनां-भोगां अब्दा सिद्धिस् तु मानुषी ।
षड्भिस् तु राजभोगां तु त्रिभिर् लोकैर् न बाध्यते ॥
21.70
द्विभिः कर्मसमर्थस् तु मासेन आचार्य उच्यते ।
पक्षेण साधको ह्य् एष भूतले मन्त्रविग्रहः ॥
21.71
प्रथमं तु व्रतम् ह्य् एतद् रक्तायाः परिकीर्तितम् ।
द्वितीयं तु प्रवक्ष्यामि कराली भीमविक्रमा ॥
21.72
रक्ताम्बरधरो भूत्वा रक्तमाल्यानुलेपनः ।
रक्तैर् आभरणैर् युक्तो खट्वाङ्गकरसंस्थितः ॥
21.73
कपालं धारये नित्यं डमरुकं च विशेषतः ।
खट्वाङ्गं धारये मन्त्री सचक्रध्वजखेटकम् ॥
21.74
पुष्पलोहमयं दिव्यम् अथवा मानुषास्थिषु ।
वज्रदग्धे द्रुमे वापि श्मशाने खादिरे ऽपि वा ॥
21.75
प्रदेशमात्रं कुर्वीत अथवा स्वप्रमाणकम् ।
पूर्वोक्तेन विधानेन चरेद् विद्याव्रतं शुभम् ॥
21.76
जपयुक्तसदात्मानं नक्तभोजी त्व् अयाचितः ।
मध्याह्ने तु चरेन् मन्त्री मौनी ध्यानपरायणः ॥
21.77
योगिनीपूतनाद्याश् च नमस्कृत्वा पुनः पुनः ।
मासेन तस्य सिध्येत भूर्लोकं नात्र संशयः ॥
21.78
भूर्लोके मातरो यास् तु तस्य सिद्धा भवन्ति हि ।
ऐश्वर्यफलभोगाश् च पक्षमात्रेण सर्वतः ॥
21.79
वश्याकर्षणकर्माणि सप्ताहाद् अभ्यसेद् यदि ।
सप्ताहेनाशु सिध्यन्ते कर्मे ऽच्छुष्मपदादिभिः ॥
21.80
तृतीयं सम्प्रवक्ष्यामि पीतस्रग्दामभूषितम् ।
पीताम्बरधरो मन्त्री काञ्चनाभरणैर् युतम् ॥
21.81
खड्गखेटकधारी च पाशखट्वाङ्गसंयुतम् ।
कपालकृतहस्तश् च चरेद् एकाग्रमानसः ॥
21.82
सप्ताहम् आदितः कृत्वा याव द्वादशगोचरम् ।
तावद् सिद्धिः प्रवर्तेत यथाकामं यथोदितम् ॥
21.83
सिद्धि स्याद् ईश्वरी पुष्टिर् नानारूपत्वधारिणी ।
क्रीडते सर्वकामेभ्यो यथा भैरव-म्-अब्रवीत् ॥
21.84
चतुर्थं सम्प्रवक्ष्यामि कृष्णभिन्नाञ्जनप्रभम् ।
दुश्चरं घोररूपं च चित्राश्चर्यादिदीपितम् ॥
21.85
महासिद्धिकरं नाम महोच्छुष्माप्रकीर्तितम् ।
कृष्णाम्बरधरो मन्त्री कृष्णस्रग्दामभूषितम् ॥
21.86
वलयाभरणं दिव्यं पादौ नूपुरभूषितौ ।
केयूर कटिसूत्रं च पादौ लक्तकरञ्जितौ ॥
21.87
कर्णालङ्कारमुकुटं वालिकाभरणं तथा ।
कपालं शूलखट्वाङ्गं धनुर् नाराचसंयुतम् ॥
21.88
पिञ्च्छकं डमरुकं चैव कण्ठिका दमरुकं तथा ।
वज्रपाशासिसंयुक्तं मुसलाङ्कुशखेटिकम् ॥
21.89
चक्रध्वजगदाहस्तं दण्डशक्तिसमन्वितम् ।
पद्मासनोपविष्टस् तु एकपाद तथैव च ॥
21.90
एकान्ते तु चरेन् मौनी जपध्यानपरायणः ।
श्मशाने वा महोच्छुष्मे रथ्यायां गोपुरेषु च ॥
21.91
ग्रामस्य दक्षिणे पार्श्वे रात्रौ पर्यटनं भवेत् ।
पटहिकं वाद्येत डमरुकं च मुहुर् मुहुः ॥
21.92
गुह्यषट्केन †तालब्धो† दूतीषट्कं च पादयोः ।
ऊरुभ्यां मातृषट्कं तु कट्यायां योगिनी न्यसेत् ॥
21.93
मन्त्रषट्कं तथा नाभ्यां हृदये बिन्दुयोजितौ ।
घण्टानादात्मकं देवं वक्त्रे शब्दप्रबोधकम् ॥
21.94
अनष्कं तु ललाटे तु लान्ता मूर्धनि विन्यसेत् ।
निराचारपदैर् युक्तो अवधूतातनुस्थितः ॥
21.95
चरेद् देवीव्रतं ह्य् एत निराचारो जितेन्द्रियः ।
अथवा क्षीरभोजी स्याद् घृतप्राशनम् आरभेत् ॥
21.96
दध्नाशनो महायोगी मध्वाज्यतिलसंयुतम् ।
सप्तरात्रं महामन्त्री चरे द्वादशरात्रकम् ॥
21.97
पक्ष मास ऋतुं चैव अयनम् अब्दम् एव च ।
द्वादशाब्द चरेद् यस् तु शिवो भवति शाश्वतः ॥
21.98
सदाशिवपदे लीनः सर्वव्यापित्वम् आप्नुयात् ।
विद्येश्वरादिभोगाश् च षड्भिर् एव विजानथः ॥
21.99
त्रिभि रुद्रादिभोगाश् च अब्द योगेश्वरो भवेत् ।
षड्भिस् तु खेचरीसिद्धि द्वाभ्याम् आचार्य उच्यते ॥
21.100
मासेन तु क्षितिं भुङ्क्ते सशैलवनकाननाम् ।
पक्षेणैश्वर्यभोगाश् च मण्डलाधिपतिर् भवेत् ॥
21.101
द्वादशाहं चरेद् यस् तु द्वादशाहं सुयन्त्रितः ।
ब्रह्मघ्नो ऽप्य् आशु सिध्येत यथाकामं यथेप्सितम् ॥
21.102
इत्य् एते व्रतम् आख्यातं विस्तरेण तु चोदितम् ।
अधुना समुदायेन वक्ष्ये विद्याव्रतं शुभम् ॥
21.103
भस्मोद्धूलितगात्रस् तु जटामकुटधारिणः ।
चन्द्रार्धशेखरं चैव शिरः कपालमण्डितम् ॥
21.104
कर्णौ शिरसि बाहुभ्याम् अस्थिखण्डैर् विभूषितम् ।
बालयज्ञोपवीती च मेखलाकटिभूषितम् ॥
21.105
कण्ठे तु कण्ठिकां दद्याच् छिखाग्रे मन्त्रविग्रह ।
खट्वाङ्गं शूलसंयुक्तं समुण्डं केशभूषितम् ॥
21.106
डमरुकं वापि वादित पटही च महायशे ।
घण्टां तु कारयेद् एकां मेखलासु च मालिकाः ॥
21.107
पादयो घुर्घुरं दद्याद् अङ्गुलीकरसंयुताम् ।
केयूरभूषणं दिव्यं ललाटे नेत्रम् आलिखेत् ॥
21.108
शिवारावं प्रकुर्वीत मुखमुण्डास्त्रसंयुतम् ।
एतन् महाव्रतं नामं दुश्चरं त्रिदशैर् अपि ॥
21.109
श्मशाने कानने घोरे महोदधितटेषु च ।
चरेद् भैरवनामं हि व्रतं सिद्धिप्रदायकम् ॥
21.110
यो न सिद्धो व्रतैर् अन्यै तस्येदं हि महाव्रतम् ।
स सिध्यति न संदेहो अभाग्यो भाग्यवर्जितः ॥
21.111
एकाहं यश् चरेद् युक्तो-स्-तस्य सिद्धि शृणुष्व मे ।
सकृद् उच्चारिते मन्त्रे व्रतात्मा यस् तु योजयेत् ॥
21.112
असाध्यं साधयत्य् आशु-र्-इति ते नात्र संशयः ।
तस्य सिध्यन्ति वै देव्य तुष्यन्ति च मरुद्गणाः ॥
21.113
स्वयम् आगत्य वै देवः कपाली गुह्यकैर् वृतः ।
मारुतैः स्तूयमानस् तु वरिष्ठो वरं आप्नुयात् ॥
21.114
साधु साधु महासत्त्व व्रतेनानेन सुव्रतः ।
दुश्चरं देवगन्धर्वैस् त्वया चीर्ण महाव्रतम् ॥
21.115
वरं वरेप्सितं वत्स उद्यतं तु ब्रवीहि मे ।
यदि तुष्टो ऽसि भगवान् प्रविश्य मम विग्रहम् ॥
21.116
वक्त्रं प्रसारयेश् चेति प्रविश्य भगवान् प्रभुः ।
हृदये भैरवो देवो गुह्यका तु गले स्थिताः ॥
21.117
मातरो ह्य् अङ्ग-म्-अङ्गेषु योगिन्यः सन्धिषु स्थिताः ।
शाकिन्यो रोमकूपेषु पूतनाद्या तथैव च ॥
21.118
स एवं तु शिवस् साक्षा भवेत् सकलनिष्कलः ।
व्यापी ह्य् अव्यक्तरूपी च अमनस्कोन्मनोन्मनः ॥
21.119
अनेकाकाररूपैस् तु विद्यामन्त्रगणैर् वृतः ।
तस्य देहाद् विनिष्क्रान्ता मात्रा मातृभिः पूजिताः ॥
21.120
मातरो ह्य् अङ्ग-अङ्गेषु योगिन्यः सन्धिषु स्थिताः ।
विद्येश्वरागणा रुद्रा महोच्छुष्म सकिङ्कराः ॥
21.121
दूतैश् च सहिता देव्यो विमानानि महात्मनैः ।
वरदः सर्वभूतानां योगिनीनां महोदयः ॥
21.122
दिवि भुवि-स्-तु पाताले खमध्ये तत्त्वगोचरे ।
दृश्यते सर्वतो देवि यथा देवो कपालधृक् ॥
21.123
एषा व्रतकरी सिद्धिर् न कस्यचिद् उदाहृता ।
आख्यातं तु वरारोहे गुह्यं शिवसमुद्भवम् ॥
21.124
शक्तितन्तुनिबद्धां तु पद्ममालां विचिन्तयेत् ।
नवग्रन्थिविभागेन ततो न्यासं प्रकल्पयेत् ॥
21.125
हृदये भैरवो न्यस्य वक्त्रनेत्राङ्गसंयुतम् ।
रक्ता वक्त्रे तु विन्यस्य चक्षुभ्यां तु करालिनी ॥
21.126
ललाटे चैव चण्डाक्षी महोच्छुष्मा शिखाग्रके ।
कराला वामपादे तु दन्तुरा जङ्घसंस्थिता ॥
21.127
दक्षिणे भीमवक्त्रां तु जङ्घयो च महाबलाम् ।
वक्त्रनेत्राङ्गसंयुक्तं कर्तव्या देवीदूतयः ॥
21.128
नाभ्यां वै वीर विन्यस्य ततो वामादि-म्-आशृताः ।
मेखलाकृतिसंस्थाना कट्यां वै योगिनी न्यसेत् ॥
21.129
दक्षिणापार्श्वकं यावद् वारं तु वरवर्णिनि ।
वक्त्रनेत्राङ्गसंयुक्ता कर्तव्या नात्र संशयः ॥
21.130
लिङ्गे वीरं तु विन्यस्य कट्याद् आरभ्य जानुनी ।
याव मातॄस् तु विन्यस्य चत्वार्य् एव क्रमेण तु ॥
21.131
दक्षिणा च कटिदेशे जानुनी यावद् एव हि ।
शेषास् तु मातरो देवि वक्त्रनेत्राङ्गसंयुताः ॥
21.132
वीराश् चैव यथान्यायं न्यस्तव्या नात्र संशयः ।
प्रणवषट्कं तथा नाभ्यां स्वशक्त्या सहितं तथा ॥
21.133
स्मरणं हृदि विन्यस्य शिवतत्त्वे व्यवस्थितम् ।
कण्ठे तु परमा शक्ति वक्त्रनेत्राङ्गसंयुता ॥
21.134
वामादिदिशिम् आश्रित्य दक्षिणा याव साधकः ।
दन्तपङ्क्ति मुखे न्यस्य स्वरैः षोडशभिस् तथा ॥
21.135
उपरिष्टाद् अधस्ता तु अनेनैव क्रमेण तु ।
विन्यसेद् वामपार्श्वे तु दक्षिणा यावद् एव हि ॥
21.136
द्वात्रिंशैव समाख्याता दशनाधोपरिस्थिता ।
निरस्तै कादिवर्णैस् तु हकारान्तैस् तथा पुनः ॥
21.137
कपालमाला विन्यस्य मस्तके तु ललाटके ।
वामादिदिशिम् आश्रित्य यावद् दक्षिणगोचरम् ॥
21.138
मकारं तु शिखास्थाने निरस्कं मुण्डरूपिणम् ।
विन्यस्य च ततो देवि क्षकारं तस्य चोपरि ॥
21.139
अग्राद् वामादिम् आश्रित्य याव दक्षिणकाग्रकम् ।
तस्याग्रतो वामाशृत्य यावद् दक्षिणपार्श्वकम् ॥
21.140
मुण्डमालात्रिका न्यस्य पार्श्वयोर् लान्तकस्य तु ।
अकारादिहकारान्तं क्रमेणैव महामति ॥
21.141
देवीनां किङ्करीनां तु योगिनीमातरं तथा ।
पद्ममाला विचिन्त्य् एष पद्मैर् न्यासं प्रकल्पयेत् ॥
21.142
वक्त्रनेत्राङ्गसंयुक्तं मानसैः पूर्वचोदितैः ।
भोगाङ्गैश् च समोपेतं पद्मपत्त्रैः स्वकै स्वकैः ॥
21.143
भैरव्यायस् तथाङ्गानि विन्यसेत् साधकोत्तमः ।
भैरवीयानि विन्यस्य तेषाम् उपरि सुव्रते ॥
21.144
शिवीकृत्वा ततो देहं शक्तिमान् शक्तिर् एव हि ।
चरेत् पञ्चकरूपाणि व्रतान्य् एतानि साधकः ॥
21.145
एषा व्रतकरी सिद्धि न कदाचिद् उदाहृता ।
भैरवेण पुरा चीर्णं देव्याश् चैव विशेषतः ॥
21.146
मया पूर्वम् हि देवेशि ज्ञानम् प्राप्तम् वरानने ।
अप्रकाश्यम् इदं गोप्यं गूहितव्यं प्रयत्नतः ।
ब्रह्मविष्ण्वादिभिश् चैव एतच् चीर्णं महाव्रतम् ॥
Kolophon
॥ इति पिचुमते व्रतपटलैकविंशतिमः ॥
Kapitel 25: Verehrung auf dem Weg zur Befreiung – 25.342
Textgrundlage: Hatley 2020; genaue Fundstelle beim Vers.[3]
25.342
भैरवाख्यस्य संप्रोक्तो यागो ऽयं मुक्तिलक्षणं ।
एतद् यागत्रयं प्रोक्तं मुमुक्षो साधकस्य तु ।
नान्यः कर्मनिवृत्तस्य योगमार्गस्थितस्य तु ॥
Sanskritbeleg: Hatley 2020, S. 405, Anm. 53.
Kapitel 32: Die kosmische Lotusgirlande Sadashivas – 32.42–46
Textgrundlage: Hatley 2020; die exakten Seiten und Anmerkungen sind bei jedem Vers genannt.[3]
32.42
एवंस्वरूपसंपन्नं चिन्तयीत सदाशिवम् ।
एवंस्थितो महादेवि आदिदेवः सदाशिवः ॥
Sanskritbeleg: Hatley 2020, S. 401–402, Anm. 37.
32.43
स्वयंस्थितो स्थितिं कुर्या त्रैलोक्ये तु न संशयः ।
संहारं तु सदा कुर्याद् इच्छया चैव संहरेत् ॥
Sanskritbeleg: Hatley 2020, S. 401–402, Anm. 37.
32.44
दह्यात्मनः पुनस् सर्वं त्रैलोक्यं सचराचरम् ।
सृजते तु यदात्मानं त्रैलोक्यं सृजते सदा ॥
Sanskritbeleg: Hatley 2020, S. 401–402, Anm. 37.
32.45
वामया सृजते सर्वं रौद्र्या चैव तु संहरेत् ।
जेष्ठया च स्थितिं कुर्या त्रितत्त्वतनुसंस्थितः ॥
Sanskritbeleg: Hatley 2020, S. 401–402, Anm. 37.
32.46
नवांभोजकृतां मालां शक्तिसूत्रेण भेदिताम् ।
नवग्रन्थिविभागेन बिभ्राणो परमेष्वरः ॥
Sanskritbeleg: Hatley 2020, S. 402, Anm. 37.
Kapitel 39: Die Ströme der Offenbarung
Textgrundlage: Hatley 2018, Sanskritedition S. 335–348, IAST-Anhang S. 593–600, Übersetzung und Kommentar S. 431–453.[1]
देव्य् उवाच ॥
39.1
यद् उक्तं दक्षिणं स्रोत्रं वामञ् चैव तथापरम् ।
मध्यमञ् च तथा स्रोतं चोदितं पूर्व्वम् एव हि ॥
39.2
दक्षिणं केन कार्येन वामं कस्माच् च कारणात् ।
मध्यमञ् च तथा चैव एतद् ब्रूहि महेश्वर ॥
39.3
यं यस्मिन् निर्ग्गतं स्रोत्रं तत्र जाता यथार्थतः ।
एतद् आचक्ष्व देवेश मन्त्रभेदञ् च किंकृतम् ॥
देवोवाच ॥
39.4
साधु साधु महादेवि यत् त्वया पृच्छितो ह्य् अहम् ।
कथयामि समासेन तत्वभेदार्थकारणम् ॥
39.5
शक्तित्रयं समाख्यातं मन्त्रमूर्त्तिस् तदासनम् ।
परापरस्य देवस्य सर्व्वकार्यार्थसाधनम् ॥
39.6
ताभिर् व्याप्तम् इदं सर्व्वं त्रैलोक्यं सचराचरम् ।
पशूनां पतयश् चैव ताभिर् व्याप्ता न संशयः ॥
39.7
दक्षिणाधिष्टितः कश्चिद् वामयाधिष्टितो ऽपरः ।
मध्यमाधिष्टितः कश्चित् त्रिधा जन्तुर् व्यवस्थितः ॥
39.8
सत्वाधिकस् तथा कश्चित् कश्चिच् चैव रजोधिकः ।
तमोधिकस् तथा कश्चिच् छक्तिभेदेन संस्थितः ॥
39.9
दक्षिणाधिष्टितः शुद्धो मिश्रो वामाश्रयस् तथा ।
अशेषमलसन्दोहरञ्जितो मध्यमाश्रयः ॥
39.10
अनेकजन्मकर्मा ये कोशीकार इवावृतः ।
तत्सिद्धिभाजनो यस् तु सर्व्वकामविवर्जितः ॥
39.11
मुक्तिमात्रं समाप्नोति शक्तिपाता प्रचोदितः ।
मध्यमा शोधितः शक्त्या नाद्यशक्तिः कदाचन ॥
39.12
बहिर् व्रीहितुषेणैव विश्लिष्टस् ताण्डुलो यथा ।
किञ्चिच्छेषमलावस्थो वामाश्रयसमुद्भवः ॥
39.13
तुषकम्बूकरहितो निर्मलो क्षालनादिना ।
पाकमात्रक्रियापेक्षी विशुद्धो दक्षिणाश्रयः ॥
39.14
पृच्छकाश्रयभेदेन तन्त्राणां कीर्त्तनं कृतम् ।
शुद्धाशुद्धविमिश्रेभ्यः त्रिभिः स्रोत्रैर् यथाक्रमम् ।
विनिर्ग्गतानि तन्त्राणि ज्ञानौघाद् भाषितानि तु ॥
39.15
नो भिन्नं सर्व्वथा ज्ञानं क्रियाभेदे स्थितानि तु ।
शुद्धाशुद्धविमिश्रेषु तन्त्राणि वरवर्ण्णिनि ॥
39.16
ज्ञानौघः परमो यस् तु त्रिभिः स्रोत्रैर् विनिर्ग्गतः ।
वामदक्षिणमध्यस्थो नानाभेदव्यवस्थितः ॥
39.17
सप्त कोट्यास् तु मन्त्राणां दक्षिणाया विनिर्ग्गताः ।
तम् आश्रित्य क्रियाभेदे नानातन्त्रप्रविस्तरैः ॥
39.18
तत्रापि आश्रयो भिन्नः शुद्धाशुद्धविमिश्रितः ।
दक्षिणास्रोत्रमार्गेण क्रियाभेदव्यवस्थितम् ॥
39.19
चतुःपीठं समुत्पन्नं तन्त्रं भैरवसंज्ञितम् ।
दक्षिणस्रोत्रसम्भूतं सर्व्वम् अस्माद् विनिर्ग्गतम् ॥
39.20
वामस्रोता तथा चैव वामतन्त्रादिको गणः ।
सप्तकोटिस् तु मन्त्राणां तेषाम् अधिपतिस् तु सः ।
चतुष्कयागमार्गेण क्रियाभेदप्रविस्तरः ॥
39.21
मध्यमस्रोतसम्भूतम् एतन् मन्त्रगणन् तथा ।
†सा तत्र जगजानान् तु† अस्या एव विनिर्ग्गतम् ॥
39.22
सार्द्धकोटित्रयन् देवि मन्त्राणां परिसंख्यया ।
मध्यमस्रोतसम्भूतो एवं वै भैरवो ऽब्रवीत् ॥
39.23
नवाष्टकं तथावाप्य सर्व्वसिद्धान्तजातकम् ।
क्रियामन्त्रप्रभेदेन संस्थितं वरवर्ण्णिनि ॥
39.24
अष्टाविंशतिभेदेन भेदितञ् च तथा पुनः ।
शाखोपशाखभेदेन प्रभिन्नम् विस्तरेण तु ॥
39.25
कथितानि कथिष्यन्ति श्रीकण्ठाद्या गुरूस् तथा ।
शिवभेदस्थितानि स्युः कामिकाद् वरवर्ण्णिनि ॥
39.26
रुद्रभेदेन चान्यानि संस्थितानि तथैव च ।
यत्र भेदे शिवो याज्यः शिवभेदस् तु सः स्मृतः ॥
39.27
अष्टाष्टकविभागेन यानि तन्त्राणि सुव्रते ।
स्थितानि रुद्रभेदेन तथा संप्रकीर्त्तितम् ॥
39.28
रौद्रया चोदितेनाथ श्रीकण्ठेन महायशे ।
दक्षिणेन तु वक्त्रेण दक्षिणस्रोत्रसम्भवम् ॥
39.29
चतुःपीठप्रभेदेन शुद्धाशुद्धविभेदितम् ।
पृच्छकाश्रयभेदेन बहुधा संव्यवस्थितम् ॥
39.30
विद्याश्रितानि यानि स्यु विद्यापीठं वरानने ।
मन्त्राश्रितानि यानि स्यु मन्त्रपीठन् तथैव च ॥
39.31
मुद्राश्रितानि यानि स्यु मुद्रापीठस् तु सुव्रते ।
मण्डलापीठकानि स्यु मण्डलं पीठ उच्यते ।
विनिर्ग्गतानि तन्त्राणि क्रियाभेदेन चैव हि ॥
39.32
स्वच्छन्दभैरवम् देवि क्रोधभैरवम् एव च ।
उन्मत्तभैरवम् देवि तथा चैवोग्रभैरवम् ॥
39.33
कपालिभैरवम् चैव तथा झङ्कारभैरवम् ।
शेखरञ् च तथा चैव विजयभैरवम् एव च ॥
39.34
रुद्रयामलम् अन्यञ् च तथा वै स्कन्दयामलम् ।
ब्रह्मयामलकं चैव विष्णुयामलम् एव च ॥
39.35
यमयामलकं चान्यं वायुयामलम् एव च ।
कुबेरयामलं चैव इन्द्रयामलम् एव च ॥
39.36
भैरवाष्टकम् एतद् धि विद्यापीठाद् विनिर्ग्गतम् ।
यामलानि तथा चाष्टौ निर्ग्गतानि न संशयः ॥
39.37
चतुर्भेदविभिन्नानि शृणुष्वेकाग्रमानसा ।
चतुष्कषट्कभेदस् तु सप्तकं नवकन् तथा ॥
39.38
प्रपञ्चयोगिनीजालं योगिनीजालम् एव च ।
योगिनीहृदयञ् चैव सिद्धा वै मन्त्रमालिनी ॥
39.39
अघोरेशी तथा चैव अघोरेश्वरीम् एव च ।
क्रीडाघोरेश्वरी चैव लाकिनीकल्पम् एव च ॥
39.40
मारी चैव महामारी उग्रविद्यागणस् तथा ।
बहुरूपौ द्विधा चैव अघोरास्त्रम् तथैव च ॥
39.41
तन्त्राण्य् एतानि देवेशी विद्यापीठाद् विनिर्ग्गताः ।
वीरो ऽथ भैरवश् चैव तथा वै चण्डभैरवः ॥
39.42
गुडिकाभैरवश् चैव महावीरेशभैरवः ।
एतानि मन्त्रपीठानि निर्ग्गतानि न संशयः ॥
39.43
यावन् मन्त्रगणो देवि भुक्तिमुक्तिफलप्रदः ।
ज्ञानौघा निर्ग्गतो ज्ञेयो क्रियाभेदे व्यवस्थितः ।
मन्त्रपीठाद् विनिष्क्रान्त एवं वै भैरवो ऽब्रवीत् ॥
39.44
मन्त्रमार्गानुसारेण मुद्राभेदसहस्रशः ।
सर्व्वस्रोत्रविभागेन मुद्रा मन्त्रविवर्जिताः ॥
39.45
मुद्रापीठे विनिष्क्रान्ताः शिवरुद्रादिभेदतः ।
मण्डलानि तु यानि स्युः सर्व्वन्तत्रेषु सुव्रते ॥
39.46
शिवभेदे तथा चैव रुद्रभेदे तथैव च ।
सर्व्वाणि मण्डला पीठा निर्ग्गतानि न संशयः ॥
39.47
सर्व्वकामिकम् आद्यन् तु तथा योगोद्भवं प्रिये ।
अचिन्त्यं कारणं चैव अजितञ् च तथापरम् ॥
39.48
दीप्ताभं चैव सूक्षञ् च साहस्रञ् च तथैव च ।
अंशुमां सुप्रभं चैव शिवभेदाः प्रकीर्त्तिताः ॥
39.49
मध्यमस्रोत्रसम्भूता ऊर्द्ध्ववक्त्राद् विनिर्ग्गताः ।
विजयं चैव निश्वासं स्वायम्भुवम् अतः परम् ॥
39.50
वाथुलं चन्द्रहासञ् च रौरवं माकुटं तथा ।
वीरेशञ् च तथाग्नेयम् ततः ऊर्द्धं निबोधतः ॥
39.51
चन्द्रज्ञानञ् च बिम्बञ् च प्रोद्गीतं ललितन् तथा ।
सिद्धिं सन्तानकं चैव शर्व्वोद्गीतम् अतः परम् ॥
39.52
किरणञ् च महादेवि पारमेश्वरम् एव च ।
रुद्रभेदाः समाख्याताः शक्तिमच्छक्त्यधिष्टिताः ॥
39.53
मन्त्रान्तरे तथा प्रोक्ता विद्याष्टदश संख्यया ।
तत्वभेदा महादेवि शिवज्ञानस्य संशृताः ॥
39.54
स्वर्लोकञ् च भुवर्लोकं भूर्लोकं तु भुविस् तथा ।
आगतस्य महादेवि एते भेदाः प्रकीर्त्तिताः ॥
39.55
ऋषिभिस् तु महाभागैस् तन्त्रकल्पविभावितैः ।
शिवज्ञानम् समाख्यातम् एभिर् देवैर् न संशयः ॥
39.56
ईश्वरश् च महादेवी आदाव् एव हि सुव्रते ।
ब्रह्मा वै वीरभद्रश् च कुमारश् च तथापरः ॥
39.57
नन्दीश्वरस् तथा चैव महाकालस् तथैव च ।
नन्दीश्वरपिता चैव उशना च बृहस्पतिः ॥
39.58
दधीचिश् च कचश् चैव लकुलीशस् तथापरः ।
चण्डश् च शतपर्ण्णश् च सनत्कुमारम् एव च ॥
39.59
विष्णुश् च महादेवि परमेश्वरम् एव च ।
ईश्वरो विजयोवाच देवी निश्वासम् एव च ॥
39.60
ब्रह्मा स्वायम्भुवञ् चैव वीरभद्रस् तथैव च ।
वीरभद्रं महादेवि प्रोवाच विधिविस्तरम् ॥
39.61
आग्नेयञ् च कुमारस् तु नन्दी रौरवम् एव च ।
महाकालश् च माकोट्यं चन्द्रभासेति चन्द्रमाः ॥
39.62
वीरं वै -र्- उशना चैव ज्ञानं चाङ्गिरसस् तथा ।
मुखबिम्बं दधीचिश् च प्रोद्गीतं कच एव च ॥
39.63
ललितं ललिता चैव चण्डः सिद्धिं प्रभाषत ।
शतपर्ण्णो च सन्तानं किरणं ब्रह्मणो ऽब्रवीत् ॥
39.64
शर्व्वोद्गीतं तथा चैव विष्णुः प्रोवाच सुव्रते ।
परमेश्वरस् तथा चैव पारमेश्वरम् उक्तवान् ॥
39.65
एते तन्त्रप्रणेतारः शिवज्ञानस्य पारगाः ।
तथा चान्या महाभागाः कुमाराद्याः शचीपतिः ॥
39.66
मन्त्रसिद्धास् तथा चैव ऋषयश् च तपोधनाः ।
मन्त्रकल्पविदो देवि शिवज्ञानस्य पारगाः ॥
39.67
मन्त्रपीठात् समाकृष्य मन्त्रभेदैर् अनेकधा ।
शिवरुद्रविभागेन शिवज्ञानम् प्रकाशितम् ॥
39.68
स्थापितञ् च महादेवि एतैर् एव महीतले ।
कोटिकोटिसहस्रैश् च मन्त्राणां परिसंख्यया ॥
39.69
प्रकाशितानि तन्त्राणि मण्डलैः संयुतानि तु ।
देवासुरास् तथा दैत्या विद्याधरगणास् तथा ॥
39.70
किन्नराप्सरसश् चैव तथा किंपुरुषा -द्- अपि ।
गन्धर्व्वयक्षरक्षाश् च पिशाचाः पन्नगास् तथा ॥
39.71
मनुष्या यातुधानाश् च ऋषयश् च तपोधनाः ।
सर्व्वे ते मन्त्रसिद्धास् तु तेषाम् आयुस् तु मन्त्रजा ॥
39.72
मन्त्रजापविधानेन सर्व्वे ते साधकाः स्मृताः ।
परतत्वं ततो ज्ञात्वा मुक्तिस् तेषां न संशयः ॥
39.73
मध्यया प्रेरितेनाथ ऊर्द्धवक्त्रेण सुव्रते ।
सर्व्वम् एतत् समाख्यातं त्रिविधाश्रयभेदितम् ॥
39.74
वामया प्रेरितेनाथ वामवक्त्रेण चैव हि ।
शुद्धाशुद्धविमिश्रेषु चतुष्काश्रितकानि तु ॥
39.75
सन्मोहञ् च तथा प्रोक्तं नयञ् चैव नयोत्तरम् ।
शौक्रं चैव तथा प्रोक्तं वामस्रोत्राद् विनिर्ग्गतम् ।
एतेषां बहवो भेदाः †संश्रिता निर्ग्गमे† स्थिताः ॥
39.76
मध्यमाचोदितेनाथ ऊर्द्धवक्त्रेण चैव हि ।
प्रकाशितानि तन्त्राणि त्रिविधे ऽपि हि साधके ॥
39.77
वाममध्यमया चैव चोदितेन तथैव हि ।
पश्चिमेन तु वक्त्रेण भाषितानि त्रिधाश्रयाः ॥
39.78
वाममध्यमया चैव चोदितेन तथैव च ।
उक्तानि पूर्व्ववक्त्रेण वेदादीनि तथाश्रयाः ॥
39.79
त्रिविधाश्रयवशा देवि पृच्छकेच्छा यथाक्रमम् ।
पूर्व्ववक्त्रेण चोक्तानि पूर्व्वाग्नेयदिशाशृतम् ।
अष्टकं तु समाश्रित्य रुद्रभेदस्थितानि तु ॥
39.80
दक्षिणेन तु वक्त्रेण दक्षणैरृतके ऽष्टके ।
संस्थितानि हि तन्त्राणि रुद्रभेदे न संशयः ॥
39.81
पश्चिमेन तु वक्त्रेण पश्चिमानिलकाष्टके ।
आशृतानि च तन्त्राणि रुद्रभेदे न संशयः ॥
39.82
उत्तरेण तु वक्त्रेण उत्तरेशानकाष्टके ।
रुद्रभेदाशृतानि स्युर् उक्तानि साधकेच्छया ॥
39.83
ऊर्द्धवक्त्रेण देवेशि त्रिविधाश्रयभेदतः ।
शिवभेदे स्थितानि स्युर् भाषितानि न संशयः ॥
39.84
चोदितेन तथा चैव वामदक्षिणमध्यया ।
अधस्रोतस्थितानि स्युस् तन्त्राणि च तथा पुनः ॥
39.85
माकोटञ् च विभूतिञ् च अव्ययं च तथापरम् ।
रुद्रभेदस्थितानि स्युर् कालाग्न्ये ऽधिष्टितानि तु ॥
39.86
तन्त्रत्रयम् अधस्रोतनिर्गतं वरवर्ण्णिनि ।
माकोटे तन्त्रकानि स्यु यानि तानि शृणुष्व मे ॥
39.87
नारसिंहविधानन् तु निधानक्षेत्रकल्पकाः ।
विवरान्तर्गता कल्पा वाराहस्य विधिस् तथा ॥
39.88
पञ्चरात्रविधानन् तु वैकुण्ठस्य विधिस् तथा ।
कुलाचारसमोपेता एवं वै भैरवो ऽब्रवीत् ॥
39.89
गरुडस्य विधानन् तु भूततन्त्रादिको गणः ।
ओषधिकल्पजातञ् च रसायनविधिस् तथा ॥
39.90
पञ्च मन्त्रशतानि स्युश् चतुर्मूर्त्तिस्थितानि तु ।
माकुटं तु समाख्यातं कालाग्न्ये सम्प्रचोदितम् ॥
39.91
आदिमो ज्ञानसन्दोहस् त्रिभिः स्रोत्रैर् विनिर्ग्गतः ।
सदाशिवेन देवेन श्रीकण्ठाय प्रभाषितम् ॥
39.92
सपादज्ञानसन्दोहः श्रीकण्ठेन महायशे ।
दशस्रोत्रविभागेन भाषितं साधकेच्छया ॥
39.93
कोटिकोटिप्रविस्तारैः कल्पकल्पसहस्रकैः ।
प्रचोदितो महादेवि तद्विदैर् बहुधा पुनः ॥
Kolophon
इति ब्रह्मयामले स्रोत्रनिर्ण्णयपटलः एकूनचत्वारिंशतिमः ॥ ३९ ॥
Kapitel 40: Das Gelübde der Schwertschneide
Textgrundlage: Hatley 2018, Sanskritedition S. 349–354, IAST-Anhang S. 600–602, Übersetzung und Kommentar S. 455–467.[1]
40.1
अतः परं प्रवक्ष्यामि असिधाराव्रतम् महान् ।
सर्व्वसिद्धिप्रदं प्रोक्तं सर्व्वयोगिनिपूजितम् ॥
40.2
पूर्व्वलक्षणसंयुक्तां योषितां सुरतोच्छुकाम् ।
अतिवरूपसम्पन्नां नवयौवनदर्प्पिताम् ॥
40.3
हास्यलास्यविलासिन्यां विभ्रमादिविधानकाम् ।
वस्त्रालङ्कारसम्पन्नां सर्व्वाभरणभूषिताम् ॥
40.4
हारकेयूरमणिक्यमुक्तावलिसुसंस्थिताम् ।
यथाविभवसम्प्राप्तां स्वल्पभूषणकापि वा ॥
40.5
सुगन्धमाल्यालक्ताक्ता गन्धपङ्काङ्किता सदा ।
पीनोन्नतस्तनोपेताम् आभोगपरिमण्डलाम् ॥
40.6
चूचुका स्रग्दामशोभा सघना तु पयोधरा ।
भक्ताञ् चैवानुरक्ताञ् च वलयाम् उत्तमोत्तमाम् ॥
40.7
प्रकृत्या शीलसम्पन्नां विदग्धाञ् च विलासिनीम् ।
राजनयोषितां वापि अन्यवर्ण्णगताम् अपि ॥
40.8
तादृग्विधोपभोगैश् च आत्मानं समलङ्करेत् ।
वामपार्श्वे स्थितायान् तु बहिन्यासन् तु कारयेत् ॥
40.9
शरीरे हस्तयोर् वर्ज्यं स्वयागोत्थं विधानवित् ।
हृद्यागपूर्व्वकं न्यासं तथात्मनि विकल्पयेत् ॥
40.10
चुम्बनालिङ्गनं कृत्वा बहिर्न्यासन् तु कारयेत् ।
शक्तिपीठे न्यासं कृत्वा आसने स्थापये तु ताम् ।
चुम्बनालिङ्गनं कृत्वा लिङ्गं तत्र विनिक्षिपेत् ॥
40.11
नित्यनैमित्तिकं काम्यं जपं कुर्याद् अवग्रहे ।
निराचारपदावस्थो व्योमार्ण्णवनिसेवकः ॥
40.12
प्रमादाद् यदि क्षोभो स्यात् स्वयम् एव अकारितः ।
जपेद् दशसहस्राणि तत्वयुक्तस् तु साधकः ॥
40.13
चुम्बनालिङ्गनैश् चैव सीत्कारैः सविलासकैः ।
परतत्वावलोकी च क्षोभं नैव समाचरेत् ॥
40.14
आह्निकानान्तरालन् तु क्रियायाः प्रेरयेद् बुधः ।
पूर्व्वोक्तेन विधानेन आह्निकानि तु कारयेत् ॥
40.15
मध्याह्ने चाह्निकां तत्र कर्त्तव्यं साधकेन तु ।
तृतीयसवनं कृत्वा भोजनाञ् च समारभेत् ॥
40.16
निवेदितन् तु देवीनां आमिषं चैव भक्षयेत् ।
अन्योन्यमुखदानेन भक्षयेत विधानतो ॥
40.17
भक्षं भक्षयतो प्राज्ञो मुखामुखे न संशयः ।
तृषितस् तु पिबेद् वारि शौचं नैव समाचरेत् ॥
40.18
अभिषेकं तथा शक्ति बहि निष्क्रम्य कारयेत् ।
नित्यव्रतं तु निष्क्रम्य तया सार्द्धं समाचरेत् ॥
40.19
सखायैर् दूरसंस्थैस् तु वेष्टितः स्वायुधोद्यतैः ।
ध्यानं जपन् तथा कृत्वा देवागारं ततो व्रजेत् ॥
40.20
मौनी ध्यानपरो मन्त्री शक्तिवर्जं समाचरेत् ।
तया सह स्वपेन् मन्त्री एकत्रैवाश्रितो भुवि ॥
40.21
अन्योन्यालिङ्गनै नित्यं विलासादिभि चेष्टितैः ।
ताम्बूलं भक्षयेन् नित्यं अन्योन्यादानम् आचरेत् ॥
40.22
सन्मुख तु स्वपेन् नित्यं न कदाचित् पराङ्मुखौ ।
क्षोभन् तु रक्षयेन् नित्यं निराचारपदे स्थितः ॥
40.23
स्वयं द्रुतो जपं कुर्याद् दशसाहस्रकं बुधः ।
कामतो क्षोभम् आयाति प्रायश्चित्तम् समाचरेत् ॥
40.24
एकाहेनामैथुनेन मासेन वरवर्ण्णिनि ।
असिधारं पुनः कुर्याद् असिधारव्रते विधौ ॥
40.25
मासम् एकं चरेन् मन्त्री संयतो ध्यानतत्परः ।
मासेन खेचरास् तस्य आत्मानं दर्शयन्ति हि ॥
40.26
एवं मासन् तु सञ्चारी यः पुनः क्षोभम् आचरेत् ।
इच्छया दर्प्पसामर्थ्यात् पुनर् मासं व्रतं चरेत् ॥
40.27
अनेन क्रमयोगेन अव्रतघ्नस् तु साधकः ।
मासद्वयं त्रिमासं वा चातुर्मास्यम् अथापि वा ॥
40.28
पञ्चषट्मासिकं याव चरे ध्यानपरायणः ।
प्रतिमासा भवेत् तस्य उत्तमा दिव्यगोचरा ॥
40.29
षट्मासेन प्रजायेत अणिमादिगुणान्वितो ।
समागमं सहैवात्र खेचरीनां समागमम् ॥
40.30
एतन् मन्त्री सदा कुर्या सिद्धिहेतौ न संशयः ।
सिद्धिकल्पोक्ततो वा तु कर्मकल्पोक्ततो ऽथ वा ॥
40.31
असिधारं चरेन् मन्त्री तालको मिश्रको ऽपि वा ।
चरुभोजी चरे ह्य् एतत् तद्विशेषविधिस्थितः ॥
40.32
रात्रौ वापि शयेन् मन्त्री क्षिप्त्वा लिङ्गं भगे ऽथ वा ।
क्षोभं न कारयेत् तत्र ध्यानयुक्तः सदा भवेत् ॥
40.33
एतच् च असिधारन् तु दुश्चरं त्रिदशैर् अपि ।
नानेन रहिता सिद्धिः सर्व्वकल्पेषु गीयते ।
तस्मात् सर्व्वप्रयत्नेन असिधारं चरेद् बुधः ॥
Kolophon
इति ब्रह्मयामले असिधारव्रतपटलश् चत्वारिंशतिमः ॥ ४० ॥
Kapitel 44: Das meditative Spiel – 44.2–3 und 44.8
Textgrundlage: Hatley 2020; die exakten Seiten und Anmerkungen sind bei jedem Vers genannt.[3]
44.2
हृद्देशे कमलं ध्यात्वा व्योमपङ्कजसंयुतं ।
बिन्दुमध्ये न्यसे ऽत्मानं विश्वदेहम् अयं शुभं ॥
Sanskritbeleg: Hatley 2020, S. 405, Anm. 52.
44.3
शक्तिभिः किरणोपेतं ताराष्टकविभूषितं ।
तं ध्यायेत् परमं रूपं बिन्दुलीनं शिवात्मकं ॥
Sanskritbeleg: Hatley 2020, S. 405, Anm. 52.
44.8
अन्तरीक्षे तथा भूमौ पातालेषु च देहिषु ।
अन्य-म्-अन्येषु रूपेषु विचरेन् नात्र संशयः ॥
Sanskritbeleg: Hatley 2020, S. 405, Anm. 52.
Kapitel 45: Die Disziplin des Sadhaka
Textgrundlage: Kiss 2015, Band II, Sanskritedition S. 128–174 (45.1–674), mit der zugehörigen wissenschaftlichen Teilübersetzung und dem Kommentar im selben Band.[2]
देव्य् उवाच ।
45.1
साधकस् तु त्रिधा प्रोक्तः कथं मे ब्रूहि लक्षणम् ।
कीदृशा तस्य चेष्टा वै तस्य कीदृश लक्षणम् ॥
45.2
आचारस् तु समाचक्ष्व सिद्धिश् चैव त्रिधा स्थिता ।
भोजनं कीदृशं तस्य त्रिविधस्यापि सम्मतम् ॥
45.3
अधमा मध्यमा चैव उत्तमा च कथं भवेत् ।
एतद् आचक्ष्व देवेश साधकानां हिताय वै ॥
भैरव उवाच ।
45.4
साधु साधु महाभागे साधकानां तु लक्षणम् ।
कथयामि समासेन सिद्धिश् चैव त्रिधा स्थिता ॥
45.5
शुद्धाशुद्धो ऽथ मिश्रश् च साधकास् तु त्रिधा स्थिता ।
तेषां सिद्धिर् यथा देवि तत् प्रवक्ष्यामि तत्त्वतः ॥
45.6
दीक्षाया जपहोमैश् च शुद्धकायो ऽन्यजन्मनि ।
समयभ्रष्टो न सिध्येत पुनर्जन्मम् अवाप्नुयात् ॥
45.7
†शुद्धाशुद्ध† इति ख्यात अशुद्धम् प्रोच्यते ऽधुना ।
अन्यजन्मनि न प्राप्तः समयो ऽपि वरानने ॥
45.8
जातः शक्तिनिपातस् तु इह जन्मे शिवेच्छया ।
स अशुद्ध-म्-इति ख्यातो दीक्षासंस्कारशोधितः ॥
45.9
सिध्यते ह्य् अविचारेण निजमार्गेष्व् अवस्थितः ।
अन्यजन्मनि सम्प्राप्तं दीक्षामात्रम् वरानने ॥
45.10
किंचिज् जपं समाप्नोति पुनजन्मम् स मिश्रकम् ।
शुद्धस् तु तालकः प्रोक्तं-श्-चरुभोजी त्व् अशुद्धकः ॥
45.11
शुद्धाशुद्धो भवेन् मिश्रं साधकस् तु न संशयः ।
लक्षणं कथितं सम्यक् त्रिविधस्यापि सुव्रते ॥
45.12
विधिश् च प्रोच्यते तस्य त्रिविधस्यापि साधके ।
अधिकारो भवे ह्य् एत द्विविधं साधकस्य तु ॥
45.13
त्रिविधस्यापि वै देवि स्नानपूर्वं वदाम्य् अहम् ।
अस्त्रेण शोधयित्वा तु मृदां गृह्य शुचिस्थितः ॥
45.14
तुषकेशास्थि वज्येत कृमिकिटविवर्जितः ।
कर्पराङ्गारवज्यं तु खत्वा मन्त्री शुभौ भुवि ॥
45.15
क्षालयित्वा तु तं स्थाप्य प्रदेशं मृत्तिका ततः ।
भागद्वयं तथास्त्रेण प्रोक्षयित्वाथ कारयेत् ॥
45.16
अपरा मृत्तिकां गृह्य कटिपादाञ् च क्षालयेत् ।
अस्त्रजप्तं तु वै कृत्वा भागम् एकं तु साधकः ॥
45.17
शरीरं गुण्ठयित्वा तु जलश् चैवाभिमन्त्रयेत् ।
मन्त्रयित्वा तु तां सर्वां मलस्नानम् समाचरेत् ॥
45.18
आचम्य च शिखां बद्ध्वा न्यासं कृत्वा स्वकीयकम् ।
द्वितीयं भाग संगृह्य दक्षहस्तस्थितं ततः ॥
45.19
त्रिभागभाजितं कृत्वा एकम् अस्त्रेण क्षालयेत् ।
द्वितीयं स्मरणेनैव विद्याजप्तं तृतीयकम् ॥
45.20
सर्वयागेन तां मन्त्रा साङ्गोपाङ्गानि विन्यसेत् ।
सप्तरूपाणि चोच्चार्य सर्वेषां मन्त्रगणं स्मृतम् ॥
45.21
अस्त्रजप्तं ततो गृह्य दिक्षु-श्-चैव दशास्व् अपि ।
उच्चाटनार्थं विघ्नानां क्षिपेद् अस्त्रेण मन्त्रवित् ॥
45.22
नाराचास्त्रप्रयोगेण अस्त्रध्यायी समाहितः ।
विघ्नानां दिग्विदिक्स्थानां खस्थानां च न संशयः ॥
45.23
जलस्थानेषु मन्त्रज्ञ उच्चाटं सम्प्रयोजयेत् ।
शिवजप्तं ततो गृह्य शिवतीर्थं प्रकल्पयेत् ॥
45.24
विद्याजप्तं ततो गृह्य शरीरं गुण्ठयेत् तया ।
गुण्ठयित्वा ततो ऽत्मानं तीर्थेषु दण्डवत् प्लवेत् ॥
45.25
उद्घृष्ययित्वा-म्-अङ्गानि ततः स्नानं समाचरेत् ।
स्निग्धेन प्रथमं मर्द्यः सुगन्धोद्वर्तनै तथा ॥
45.26
क्वचित् स्नेहं विवर्जन् तु सुगन्धामलकैस् तथा ।
चक्रवर्त्योपचारेण स्नानं कृत्वा तु साधकः ॥
45.27
कङ्कतादिभि संकट्य शिखां बद्ध्वा तथाचमेत् ।
न्यासं कृत्वा यथान्यायं शक्तिं तत्र विचिन्तयेत् ॥
45.28
परतत्त्वक्रमेणैव बिन्दु क्षोभ्याथ तत्त्ववित् ।
अमृतीभूत संचिन्त्य तीर्थं वै स्मरणेन तु ॥
45.29
मन्त्र चाष्टशतं यावत् ततो यागं प्रकल्पयेत् ।
तीर्थे वा कलशे वापि शङ्खे हस्तपुटे ऽपि वा ॥
45.30
तेनाभिषिञ्चये ऽत्मानं यागमन्त्रान् उदीरयेत् ।
दशवारं तु देवाय यागानां तु सकृत् सकृत् ॥
45.31
देवीभ्यो ऽथ सकृत् वैक योगिनीमातृणाम् अपि ।
बहिर् अस्त्राणि संचिन्त्य स्वयागं वा यथोदिताम् ॥
45.32
देवीनां प्रथमं दत्त्वा सुगन्धं मूध्नि चोच्चरेत् ।
आचम्य च शिखां बद्ध्वा न्यासं कृत्वा यथाक्रमम् ॥
45.33
सम्मार्जनं ततः कुर्यात् साधको यागमन्दिरे ।
तर्पणं तु ततः कृत्वा सर्वयागं उदीरयेत् ॥
45.34
हृस्थं कृत्वा महाभागे विद्याया-म्-अपकर्षणम् ।
सुगन्धपुष्पसम्पूर्णम् अन्यैर् वाथ जलेन वा ॥
45.35
सूर्यबिम्बे तु संचिन्त्य यागे अर्घं प्रदापयेत् ।
विद्यया तु ततो ऽर्घं तु नित्यकर्म निवेदयेत् ॥
45.36
सूर्यबिम्बगतं यागं हृस्थं कृत्वा तु मन्त्रवित् ।
ब्रह्मसंध्यां न वै कुर्यात् पितॄणां च जलाञ्जलिम् ॥
45.37
प्रथमे तु ततो मन्त्री भैरवी तु समाचरेत् ।
अथवा तर्पणं कृत्वा अर्घं दत्त्वा यथाक्रमम् ॥
45.38
सूर्यस्याभिमुखो भूत्वा सप्त रूपाणि चोच्चरेत् ।
तर्पणं तु जपं चैव भैरवाय हृदि-स्-ततः ॥
45.39
गुरूणां च पितॄणां च तृप्त्यर्थं विनिवेदयेत् ।
एवं स्नानं सदा कुर्याद् अभिषेकं च नित्यशः ॥
45.40
नित्याभिषेकयुक्तस् तु मन्त्रैर् विघ्नै न बाध्यते ।
दिक्षु-र्-अस्त्राणि विन्यस्य दिग्बन्धं च यथाक्रमम् ॥
45.41
अस्त्रमोक्षं ततः कृत्वा देवागारं मुखो व्रजेत् ।
प्रज्वलन्तं महावीर्यं पुरतो विघ्नानि चाटयेत् ॥
45.42
ध्यायमानं निजास्त्रं तु कवचेनावगुण्ठितम् ।
पुरभेदं ततः कुर्याद् धुंकारेणैव साधकः ॥
45.43
पुष्पं क्षिप्त्वा तु दिग्बन्धं कवचेनावगुण्ठनम् ।
नन्दिश् चैव महाकालं सरिद्वयं वृषस् तथा ॥
45.44
द्वारदेशे तु सम्पूज्य ततः ईशां व्रजे दिशिम् ।
विघ्नेशं पूजयेत् तत्र क्षेत्रपालं तथैव च ॥
45.45
श्मशानानि तु सम्पूज्य कुलविद्य च पूजयेत् ।
योगिन्यः पूतनान्याश् च वीरेशाश् च यथाक्रमम् ॥
45.46
शिवदूतीं तु सम्पूज्य विडाली कौशिकी-स्-तथा ।
रुद्राश् चैव यथान्यायं पूजयित्वा तु साधकः ॥
45.47
ततो ऽनुचिन्तयित्वा तु भास्करस्थानम् आश्रितम् ।
गुरुपङ्क्ति महाप्राज्ञो भावयुक्तेन चेतसा ॥
45.48
पुष्पाणि तु विनिक्षिप्य लब्धानुज्ञ तु साधकः ।
दिक्षु-र्-अस्त्राणि विन्यस्य कुर्याद् भूमिपरिग्रहम् ॥
45.49
प्राकारम् अचलं कृत्वा कवचेनावगुण्ठनम् ।
प्रणवासनं तु कृत्वा तु दर्भपिण्डं न संशयः ॥
45.50
दक्षिणाभिमुखो भूत्वा मौन संकल्पयेत् ततः ।
ध्यानं न्यासं शिवे कृत्वा शिवादिकलशान्विताम् ॥
45.51
यागं कृत्वाग्निकार्यं च कल्पोक्तं जपम् आचरेत् ।
संख्या गृह्य ततो मन्त्री आसवादिपरिप्लुतम् ॥
45.52
यथाशक्त्या तु मन्त्रज्ञो आह्निकद्वयम् आचरेत् ।
मौनं तु साधकः कुर्यात् कल्पोक्तं तत्र निश्चयात् ॥
45.53
उत्तरसाधकं मुक्त्वा प्रमादेनापि सुव्रते ।
न पश्येन् नाधिकारी तु समयज्ञो-स्-तथैव च ॥
45.54
पूर्वसेवाविधाने तु प्रयत्नेन विधिस्थिता ।
गुरु श्रुत्वा विनिष्क्रम्य दृष्ट्वा पूज्य यथाक्रमम् ॥
45.55
मौनभङ्गम् अपि कृत्वा प्रायश्चित्तं समाचरेत् ।
पुनः संख्या समापूर्य भैरवाय निवेदयेत् ॥
45.56
पुष्पमुद्रां ततो बद्ध्वा निराचारपदे स्थितः ।
तत्त्वध्यायी जपं कुर्याद् भैरवीकृतमानसम् ॥
45.57
सर्वयागावलोकी च कुम्भकस्थेसु पीडया ।
एवम् द्विर् आह्निकं कुर्यात् स्नानपूर्वं तु संख्यया ॥
45.58
तृतीयसवनं स्वल्पं कृत भोजनम् आचरेत् ।
एकान्ते विजने देशे देवीनां दृष्टिगोचरे ॥
45.59
दक्षिणाभिमुखो भूत्वा पत्त्राकीर्णे महीतले ।
शालिभक्तं च श्यामाकं षष्टिकोदनं एव च ॥
45.60
प्रियङ्गुं च यवान्नं च गोधूमान्नं तथैव च ।
एतान् शालि तु भक्षाणि शेषाणि तु न भक्षयेत् ॥
45.61
तिलान्नं नैव भुञ्जीत श्लेष्मं कृत्वा ज्वरो भवेत् ।
ग्राह्य ऽथ रक्तशाल्याथ गुण्डीरकस् तथैव च ॥
45.62
हस्तिलडुकं एवम् च नीवारा प्रसाधिकापि वा ।
भक्तान्य् एतानि वर्ज्ज्या शेषानि तु समाचरेत् ॥
45.63
तिलकेनापि यत्नेन वर्जितानि हि नित्यशः ।
अस्मिन् तन्त्रे न संदेहस् तालके ऽपि हि सुप्रिये ॥
45.64
गाव्यं छागं तु माहिष्य क्षीरं सर्पिस् तथैव च ।
भक्षणीयं विधिस्थेन शेषानि तु विवर्जयेत् ॥
45.65
श्रीफलं काञ्चलं जम्बुं लकुचं पनसं तथा ।
अम्ब्र अम्बलिकाश् चैव बदरं करमर्दकम् ॥
45.66
खर्जूरं च पियालं च फरुसं शालम् एव च ।
फिसरं द्विविधं भक्ष्यं शृङ्गाटोदुम्बरं तथा ॥
45.67
बटं च करवीरं च पिप्पलं लवलीफलम् ।
दाडिमा सलकं चैव कुष्माण्डं चिर्भटं तथा ॥
45.68
त्रपुसं बालकं चैव सेम्बि कर्कटिकास् तथा ।
†घोषेण्ड† कारवेल्लं च कक्कोटं च पटोलका ॥
45.69
वृत्ताकं च वृसोलं च चेटं माकुरं एव च ।
बृहतीफल पद्माक्षा मारुतं चैव भक्षयेत् ॥
45.70
हरीतकीफलं भक्ष्या इङ्गुदं चाक्षम् एव च ।
फलान्य् एतानि भक्षाणि सेम्बीजानि च मे शृणु ॥
45.71
सर्वा सेम्बिफला भक्षा सूवराकस् तथैव च ।
राजमाषफला चैव कलावफलम् एव च ॥
45.72
मुद्गश् चैव दृकीश् चैव भक्षयीत न संशयः ।
शृतास् चैवाशृताश् चैव साधकैर् आधने स्थितैः ॥
45.73
सालूकं †नदेनसञ्चके यूक्तर् कुटिकस्† तथा ।
कसेरु द्विविधं भक्ष्या वार्ताकं गृष्टिकं तथा ॥
45.74
आलूकानि तु सर्वाणि ससिद्धम् आद्रकं तथा ।
द्विविधं कवकं चैव मूलकं च व्यडम्बकम् ॥
45.75
शिग्रुश् चैव पलण्डुं च कदलीकन्दस् तथैव च ।
खर्जुरं च तथा कन्द कडेवं कोकिलाक्षकम् ॥
45.76
मौसली ऋषिमूलं च पिष्टकं च महायशे ।
एतानि कन्दजातिंनि भक्ष्यान्य् अन्यानि वर्जयेत् ॥
45.77
चोण्टिक सर्सपं चैव राजिका करटम् तथा ।
जीवको मारषश् चैव लवनको मारटिकास् तथा ॥
45.78
कुठेरश् चैव नीडी च चुच्चुहकन्दकं तथा ।
श्रीमालि अरणिकं चैव ताण्डुलीयं कुवेजकम् ॥
45.79
कालशाकं तदुलं च बिल्वं वै द्रोणपुष्पिका ।
क्षेत्रवस्तुकम् इत्य् उक्तं तृक्कवस्तुकम् एव च ॥
45.80
वरुणं कोटिकाशाकं सौलानी नालकास् तथा ।
निम्बं चैव क्वचं चैव नाडकं वेत्रम् एव च ॥
45.81
वंशजं कलिलं चैव आभीर किंशुकं तथा ।
काराकं काचमाची च अपामार्ग पुनर्न्नवा ॥
45.82
हेलाञ्जकं करञ्जं च मोमाटं †हरिझरूवकम् ।
मारीचकं पलं जम्बू आद्रकं मोद्रकं तथा ॥
45.83
पथ्या सुन्दरकं चैव भिलाटं चोरकं तथा ।
शाकान्य् एतानि भक्षाणि पूर्वसेवाविधिक्रमे ॥
45.84
स्थिरीकरणानि पुष्पाणि ज्ञात्वा युञ्जीत साधकः ।
खदिरपुष्पं च वस्थासं अगस्तिकं च नारकम् ॥
45.85
शल्वलं शणपुष्पं च कुटजं नागकेशरम् ।
एरण्डं च जयन्ती च पुष्पाण्य् एतानि भक्षयेत् ॥
45.86
सखायेनोपनीतानि संस्कृतासंस्कृतानि तु ।
स्वयं वा श्रावयित्वा तु चरुमार्गेण साधकः ॥
45.87
स्निग्धं लघु पुष्पं च अदशी भक्षयेत् प्रिये ।
अदशी चाप्रमादी च विधानेन साधकाः ॥
45.88
त्रिस्नायी नित्ययुक्तस् तु कल्पोक्तं तु समाचरेत् ।
नवलक्षाणि वै कुर्याद् विद्यायागे तु साधकः ॥
45.89
स्वयागे यद् उक्तं स्याद् यागपूर्वं समर्पयेत् ।
हृत्पङ्कजे स्थितस्यैव भैरवस्य न संशयः ॥
45.90
हस्ते समर्पयित्वा तु प्रणिपत्य विज्ञापयेत् ।
सिद्धिकाले तु देवेशे अर्पणीयो जपो ममः ॥
45.91
एवं समर्पयित्वा तु अग्निकार्यं समारभेत् ।
अस्त्रेण प्रोक्षयित्वा तु उल्लेखनविकीरणम् ॥
45.92
पुनः प्रलेपणं कृत्वा गोमयेन विशेषतः ।
दर्भं गृह्य ततो रेखां दक्षिणाभिमुखा नयेत् ॥
45.93
द्वितीयात् पश्चिमापूर्वं चतुःपथविधिक्रमात् ।
पूर्वमुख्यं ततस् त्रीणि एका रेखा तु दक्षिणे ॥
45.94
अस्त्रम् उच्चार्य वै कुर्याद् वज्रं वै कुण्डमध्यतः ।
कुशास्तरणकं कृत्वा दक्षिणादिशिम् आश्रितः ॥
45.95
पूर्वाग्रा दक्षिणाग्रं च विस्तरा तु तथैव हि ।
ब्राह्मणं दक्षिणे पूज्यः विष्णु चोत्तरतो न्यसेत् ॥
45.96
रुद्रं तु पूर्वदिग्भागे शिवं वै पश्चिमे न्यसेत् ।
इन्द्रं पूर्वेन विन्यस्य आग्नेये अग्निम् एव च ॥
45.97
दक्षिणे तु यमं न्यस्य नैरृत्यां निरृतिस् तथा ।
वारुणे वरुणं न्यस्य वायव्ये वायुर् एव च ॥
45.98
सोमं सौम्ये न्यसेन् मन्त्री ईशानं ईशगोचरे ।
ईशाने ब्रह्मणं न्यस्य ऊर्ध्वभागावलम्बिनम् ॥
45.99
विष्णुं च नैरृते भागे अधोभागावलम्बिनम् ।
अस्त्राणि विन्यसे दिक्षु दक्षिणादि विधानवित् ॥
45.100
माहेन्द्रान्तं तु मन्त्रज्ञ ऊर्ध्वाधश् चैव वै क्रमात् ।
अङ्गानि विन्यसेन् मन्त्री बहि कुण्डस्य रक्षणे ॥
45.101
मेखलां तु ततः पूज्य शक्तित्रितयविक्रमात् ।
पूर्वादिदिशिम् आश्रित्य यावद् ईशानगोचरम् ॥
45.102
पदयागैः पदैश् चैव पूज्यते देवि नान्यथा ।
अग्निं तु प्रोक्षयित्वा तु अस्त्रमन्त्रेण साधकः ॥
45.103
अवगुण्ठ कवचेनैव त्रिधा भ्राम्य समुद्गिरेत् ।
प्रणवमन्त्रं ततो क्षिप्त्वा स्पृश्य तोयं समीरकैः ॥
45.104
शक्तितन्तु ततो ध्यात्वा शिवाद्यवनिगोचरे ।
दक्षिणनयनातीतं तेजः संचिन्त्य पूजयेत् ॥
45.105
प्रणवपूर्वेन रेफेण नुत्यन्ते चैव साधकः ।
योन्यां वै वासनं कृत्वा आज्यपात्रस्य प्लावनि ॥
45.106
उद्वासनं ततो ऽस्त्रेण निरायणं तु-म्-एव च ।
योन्यां तु भाजनं कृत्वा यागं तत्रोपरि न्यसेत् ॥
45.107
अस्त्रान्तं नात्र संदेहः स्रुक्स्रुवौ-म्-आज्य तापयेत् ।
प्रोक्षयित्वा पुनस् ताप्य प्रोक्ष्य चार्चनविद्यया ॥
45.108
जाप्यमन्त्रेण मन्त्रज्ञो निजयागस्य चार्चने ।
शक्तितन्तु ततो ध्यात्वा कुण्डमध्ये तु साधकः ॥
45.109
भैरवं तत्र विन्यस्य स्वमन्त्रेणैव पूजयेत् ।
गन्धमाल्यं तथा धूपं दत्त्वा चैवाहुतिं हुनेत् ॥
45.110
पुनर् अर्घादिकं कृत्वा रक्ता मन्त्रेण पूजयेत् ।
पुनः अर्घादिकं कृत्वा तथैव चाहुतिं हुनेत् ॥
45.111
कराली चैव चण्डाक्षी महोच्छुष्मां तथैव च ।
पूजयित्वाहुतिं दद्या पञ्चकस्य न संशयः ॥
45.112
अग्निसंस्कारकं कर्म सर्वयागेषु नित्यशः ।
अग्नेस् तु हृदये सर्व आसनादिपुरःसरम् ॥
45.113
यागं सम्पूज्य मन्त्रज्ञ अर्घं दत्त्वा यथाक्रमम् ।
मुद्रांश् चैव ततो बद्ध्वा प्रति प्रति वरानने ॥
45.114
आज्यपात्रे तु दर्भेण द्विभागं परिकल्पयेत् ।
साधनं तु ततः कृत्वा नाडीसन्धानम् आश्रितः ॥
45.115
दक्षिणा दक्षिणं नेत्रं वामा वामं तु लोचनम् ।
ऊर्ध्वा ऊर्ध्वं क्रमेनैव त्रिधा भैरवलोचनम् ॥
45.116
आहुतिं तु ततो दद्याद् दक्षभागाथ वामकाः ।
मध्यमा च क्रमेनैव ध्यानयुक्तो समाहितः ॥
45.117
आग्नेये त्व् अथ सौम्यायां ताभ्यां चैव यथाक्रमम् ।
प्रणवेण महाप्राज्ञः स्वाहाकारान्तसंयुतम् ॥
45.118
नाडीसन्धानकं कृत्वा ततः पञ्चाहुतिम् हुनेत् ।
विद्यया नात्र संदेहो मण्डलस्य तु तर्पणे ॥
45.119
भैरवाय तत-म्-एकां विद्याम् उच्चार्य दापयेत् ।
प्रणवेन तथैवेह भैरवाय ततो हुनेत् ॥
45.120
सर्वेषां चैव दातव्या एकैका नात्र संशयः ।
लोकपालादी चास्त्राणां कुलविद्याश् च मृत्युजित् ॥
45.121
भाग्यारोहण मन्त्रस्य मूलमन्त्रेण भैरवे ।
पूर्णाहुतिं ततो दद्यात् समपादोर्ध्वसंस्थितः ॥
45.122
तत्त्वैकरणो कृत्वा हृस्थानस्थस्य मन्त्रवित् ।
मण्डलस्य तु मन्त्रज्ञः शिवकुम्भस्थितस्य तु ॥
45.123
समरसादिप्रयोगेन साधकः सुसमाहितः ।
शिवाद्यवनिपर्यन्तं शक्तितन्तु विचिन्त्य ऽथः ॥
45.124
पूर्णाहुतिं ततो दद्यान् मुद्राश् चैव प्रदापयेत् ।
निराचारपदो भूत्वा पादस्थाने निधापयेत् ॥
45.125
ज्वालां परीक्षयेन् मन्त्री लक्षणज्ञ समाहितः ।
व्यतिरेकविधौ तासां सूक्ष्मदृष्टिस् तथैव च ॥
45.126
स्निग्धप्रदक्षिणावर्तः काञ्चनाभास् तथैव च ।
जातिहिङ्गुलकप्रख्य स्निग्धश्वेताश् च यो भवेत् ॥
45.127
हरितालप्रभाश् चैव गम्भीरस्वरसंयुतः ।
संहता स्फुटिता नैव ज्वाला श्वेतास् शुभा स्मृताः ॥
45.128
मधुगन्धाः सुगन्धाश् च ज्वाला श्वेतास् तु शोभना ।
पृथक् पृथक् फलं तासां तं शृणुध्वं समाहिताः ॥
45.129
स्निग्धप्रदक्षिणावर्ता मुक्तिदा सा प्रकीर्तिता ।
भुक्तिकामस् तु तां दृष्ट्वा प्रायश्चित्तं समाचरेत् ॥
45.130
होमस्याष्टसाहस्रं स्याज् जपस्यैवायुतं तथा ।
कृत्वा शुद्धिम् अवाप्नोति भुक्तिकामो न संशयः ॥
45.131
सुवर्णाभा भवेद् या तु भुक्तिदा सा प्रकीर्तिताः ।
जातिहिङ्गुलकप्रख्या सर्वसिद्धिप्रदा स्मृताः ॥
45.132
स्निग्धा शिता च ज्वाला च क्षुद्रसिद्धिप्रदायकाः ।
हरितालप्रभा या तु सामान्य भुक्तिदा स्मृता ॥
45.133
धूम्रवर्णा-म्-अधूम्रा च राजावर्तनिभास् तथा ।
शुकपिञ्छनिभाश् चैव स्फुटिता विस्फुलिङ्गकाः ॥
45.134
अस्निग्धा रूक्षवर्णाश् च वामावर्ता त्व् अशोभनाः ।
दुर्गन्धाश् चोग्रगन्धाश् च विपरीतफलप्रदा ॥
45.135
व्याधिस् तु कुरुते धूम्रा सधूम्राश् च तथैव च ।
राजावर्तनिभा या तु शस्त्रपातं करोति सा ॥
45.136
शुकपिञ्छनिभा या तु स्फुटिता चैव या भवेत् ।
मारणं साधकस्यैव कुरुते नात्र संशयः ॥
45.137
सस्फुलिङ्गा भवेद् या तु सिद्धिहानिप्रदायिकाः ।
प्रायश्चित्तं वदाम्य् आसां साधकानां हिताय वै ॥
45.138
व्याधिं जनयते या तु मन्त्रं मृत्युञ्जयं जपेत् ।
तस्य लक्षार्धम् एवोक्तं कृत्वा श्रेयं अवाप्नुयात् ॥
45.139
शस्त्रपातप्रदा या तु विंशत्साहस्रकं भवेत् ।
मृत्युञ्जयस्य मन्त्रस्य †स्परस्यत् कल्पोक्तम् एव हि ॥
45.140
सिद्धिहानिप्रदा या तु दशसाहस्रकं भवेत् ।
शुभापि विपरीता च उत्तमा सिद्धिम् इच्छता ॥
45.141
कल्पोक्तं साधकः कुर्यान् नात्र कार्य विचारणात् ।
भुक्तेच्छो क्षुद्रजा या तु लक्षार्धं तु समाचरेत् ॥
45.142
काम्ययागे समारब्धे विपरीतफलप्रदा ।
तस्मिन् न वै ग्रहेतव्यं कल्पोक्तं नात्र संशयः ॥
45.143
प्रायश्चित्तम् अपि कुर्यात् तस्मिन्न् एव न संशयः ।
अन्ययागं समारभ्य पुनः काम्यं समारभेत् ॥
45.144
उपविश्य ततो मन्त्री मुद्रास् सर्वाः प्रदापयेत् ।
अर्चनं तु ततः कुर्यात् पुनर् गन्धादिकं क्रमात् ॥
45.145
भैरवादि ततः कृत्वा-द्-एकैकाद् आचरेत् पुनः ।
आहुतिं कुलविद्यान्ता पुनः पूर्णाहुतिं हुनेत् ॥
45.146
तेनैव क्रमयोगेन मुद्रां बद्ध्वा तथार्चयेत् ।
अर्घयित्वा ततो गच्छे देवीनाम् अग्रतः पुनः ॥
45.147
अर्घं दत्त्वा तु विज्ञाप्य अभिघारीकृतानि तु ।
यथाविभवलब्धानि नैवेद्यानि प्रकल्पयेत् ॥
45.148
वैशेषिकं ततो दद्याद् ईषिन्मात्रं तु भैरवे ।
न लोभेन बहुं दद्याद् आत्मार्थे साधकेन तु ॥
45.149
न त्यजन् नापि देयं स्याद् अनले ऽपि न च क्षिपेत् ।
शुद्ध्यर्थं प्राशयेन् मन्त्री यागान्ते त्व् अविसर्जिते ॥
45.150
अर्घपत्रोदकं प्राश्यम् अभिषेकं च दापयेत् ।
निष्क्रम्याचमनम् कुर्यान् न्यासं कृत्वा पुनर् विशेत् ॥
45.151
नैवेद्यानि ततो दत्त्वा कालो चिन्त्याश् च वामकाम् ।
कलशे ऽपि शिवस्याथ अस्त्रवर्धनिकान्य् अपि ॥
45.152
अग्न्यागारे ततो गत्वा-द्-अर्घं दत्त्वा यथाक्रमम् ।
देवं विज्ञाप्य तो मन्त्री अग्निकार्यं समारभेत् ॥
45.153
संखा गृह्य तु तत्रैव देवीनाम् अग्रतः स्थितः ।
मन्त्रस्य तर्पणं कृत्वा यथाशक्त्या तु साधकः ॥
45.154
अक्षसूत्रं ततो गृह्य मन्त्रं चैव समर्पितम् ।
परिकृत्वा तु होतव्यं न द्रुतं न विलम्बितम् ॥
45.155
गुग्गुलं पायसं वापि तिलान् वा घृतमिश्रिकां ।
शाल्यं षष्टिकहोमं वा कल्पोक्तं यद् उदाहृतम् ॥
45.156
दशांशेन तु होतव्यं जपं वै साधकेन तु ।
अग्निं विसर्जयेन् मन्त्री न चापि †चिरं आपयेत्† ॥
45.157
प्रमादाद् विरमे यद् वा पुनः संस्कारको विधिः ।
अलिप्ते कुण्डमध्ये तु पुनः संस्कार कारयेत् ॥
45.158
अग्नि ज्वाल्यन् ततः कुर्याद् अग्निसंस्कारको विधिः ।
एवं संख्याहुतिं कृत्वा भैरवाय समर्पयेत् ॥
45.159
यागपूर्णं तु कल्पोक्तं भैरवं †गुह्यतद्भूतम्† ।
निराचारपदे भूत्वा अवधूततनुस्थितः ॥
45.160
भैरवस्य करे ऽर्पित हृद्व्योमन् तु स्थितस्य तु ।
तेनैव क्रमयोगेन चरेद् विद्याव्रतानि तु ॥
45.161
त्रिस्नायी नक्तभोजित्वं गुरुभक्तो दृढव्रतः ।
ब्रह्मचर्यरतो नित्यं जपध्यानपरायणः ॥
45.162
अग्निकार्यरतो नित्यं समयाचारपालकः ।
पूर्वाह्णिकं ततः कृत्वा अटनं तु समारभेत् ॥
45.163
मध्याह्णिकम् तु कर्तव्यं तृतीयसवनम्-स् तथा ।
आग्निकार्यं तथा चैव रात्रौ चैव यथोदितम् ॥
45.164
भुक्त्वा चैवाटनं कुर्याद् अर्धरात्रे पुनः भ्रमेत् ।
एवं प्रतिदिनं कुर्यात् कुलविद्यां समुद्गिरन् ॥
45.165
योगिन्यः पूतनाद्याश् च नमस्कृत्वा पुनः पुनः ।
चत्वरे-म्-एकवृक्षे च श्मशाने वाल्मीके तथा ॥
45.166
कुलविद्या समुच्चार्य पुष्पाणि तु विनिक्षिपेत् ।
एतेष्व् एव हि स्थानेषु योगिन्यो पूतनादयः ॥
45.167
नमस्कृत्वा व्रजेन् मन्त्री उलूकम् पिङ्गलास् तथा ।
शब्दं श्रुत्वा नमस्कार्यो अन्याश् च निशिचारिणाम् ॥
45.168
एवम् आहु व्रतानि स्यु आचारं पश्यते यदा ।
समयज्ञस् तथा तन्त्र गुरु चैव विधिस्थितः ॥
45.169
आत्मानं गोपयेत् तेषाम् एकान्ते दर्शयेत् ततः ।
अन्यथा कुरुते मोहात् प्रायश्चित्तं समाचरेत् ॥
45.170
विद्याव्रतानि समाचर्य षण्मासात् साधकोत्तमः ।
मासं मासं चरेद् वापि पूर्वसूत्रेण चोदिताम् ॥
45.171
चीर्णविद्याव्रतः सिद्धे अन्यथा चैव नश्यति ।
समयज्ञो योगिभक्तश् च उद्युक्ताः साहसान्वितः ॥
45.172
निर्लज्जो निघृणस् चैव गुरुभक्तो जितेन्द्रियः ।
दिग्बन्धं पूर्वतः कृत्वा भूपरिग्रहम् एव च ॥
45.173
अस्त्रमोक्षं ततः कृत्वा ततो मन्त्री व्रतं चरेत् ।
नित्यव्रतं महावीरो रात्रौ पर्यटनं तथा ॥
45.174
रक्ता वाप्य् अथवा कृष्णो कौशेयं वासं आचरेत् ।
सुगन्धगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः ॥
45.175
पञ्चमुद्राव्रती वीरो गुप्तमुद्रो ऽथ वा भवेत् ।
खट्वाङ्गं धारयेन् मन्त्री सुप्रमाणं सशूलकम् ॥
45.176
प्रादेशं वाथवा कुर्या धनुर्नाराचसंयुतम् ।
खड्गखेटकधारी च चरेद् विद्याव्रतं शुभम् ॥
45.177
असिद्धो ऽपि महाप्राज्ञो सिद्धो ऽपि हि चरेद् बुधः ।
कृतरक्षः कृतन्यासस् तत्त्वयुक्तः समाहितः ॥
45.178
पूर्वोक्तेषु प्रदेशेषु मौनं तु कल्पयेद् व्रतम् ।
ब्रह्मचारी जितक्रोधो निर्भयो हृष्टमानसः ॥
45.179
पूर्वोक्तेषु प्रदेशेषु समाधिं कारयेद् बुधः ।
योगिन्यः पूतनाद्याश् च नमस्कृत्वा पुनः पुनः ॥
45.180
होमयुक्तो महामन्त्री डमरुकं वादयेत् क्वचित् ।
कृत्वा चाष्टशतं जप्त्वा भैरवाय निवेदयेत् ॥
45.181
मूलविद्याष्टशतं जप्त्वा नित्यकर्मे निवेदयेत् ।
योगिन्यां प्रीणनार्थं तु नमस्कृत्वा पुनः पुनः ॥
45.182
दर्शये तास् तु संतुष्टा नित्ययुक्ते ति साधके ।
आत्मानं दर्शयेद् देवि न भेतव्यं कदाचनः ॥
45.183
रक्षन्ति साधकं नित्यं पुत्रवन् नात्र संशयः ।
नियुक्तो भैरवेणैव साधकस्य हिताय वै ॥
45.184
एव मेलकम् आपन्नो आदिष्टं तैर् वरानने ।
तालमार्ग तदा कुर्याद् यदा शुद्धस् तु साधकः ॥
45.185
गुर्वादेशेन वा कुर्याद् योगिभिश् च समर्पितः ।
यदा तस्य भवेद् दूती साधकस्य मनोहरा ॥
45.186
तदा तालकमार्गं तु शुद्धकाय समारभेत् ।
गुरु-म्-आदेशसम्प्राप्ता शोभना लक्षणान्विता ॥
45.187
जितासना महासत्त्वा तन्त्रसद्भावभाविता ।
गुरुदेवतिपतिभक्ता क्षुत्पिपासाजितश्रमा ॥
45.188
अद्वैतवासिता नित्यं निर्विकल्पा ह्य् अलोलुपा ।
समाधिज्ञाथ योगज्ञा ज्ञानज्ञा संश्रितव्रता ॥
45.189
ताम् अवाप्य महाप्रज्ञो-ः-कल्पोक्तं तु समाचरेत् ।
त्रिष्काले स्नाननिरत एवं मन्त्रानुचिन्तकः ॥
45.190
कृतन्यासो विधानज्ञो देवागारं व्रजेत् ततः ।
प्रतिहारौ तु सम्पूज्य सरिद्वयं वृषं तथा ॥
45.191
विघ्नेशं क्षेत्रपालं च श्मशानानि तथैव च ।
कुलविद्या तु सम्पूज्य योगिन्य पूतनादयः ॥
45.192
वीराश् चैव ततः पूज्य शिवमार्जारिम् एव च ।
उलूकं च तथा पूज्य पिङ्गला मन्त्रवित् क्रमात् ॥
45.193
रुद्राश् चैव यथान्यायं गुरुपङ्क्ति ततो ऽर्चयेत् ।
अस्त्राणि विन्यसे दिक्षु-र्-अग्निप्राकारम् एव च ॥
45.194
कवचं तु ततो दत्त्वा प्रणवासनम् आचरेत् ।
दक्षिणाभिमुखो भूत्वा उपविश्य यथाक्रमम् ॥
45.195
यागं कृत्वा यथान्यायं कलशादिसमन्वितः ।
अग्न्यागारं ततो गत्वा पूजयित्वा यथाक्रमम् ॥
45.196
संस्कारां चानले कृत्वा एकतत्त्वविधिक्रमात् ।
पूर्णाहुतिविधानेन ततो देव्याग्रतः स्थितः ॥
45.197
उपविष्टो महामन्त्री मुद्रापञ्चकभूषितः ।
मुक्तकेशो ऽथ दिग्वासो वनभस्मावधूलितः ॥
45.198
अग्रतः शक्तिम् आरोप्य ऊर्ध्वरूपां दिगम्बराम् ।
मुद्रापञ्चकसंयुक्तां मुक्तकेशी दृढव्रताम् ॥
45.199
पीठं तु-म्-आर्चयेत् तस्या अस्त्रोदकसमन्विताम् ।
विलेपयित्वा गन्धैस् तु आसनं तत्र कल्पयेत् ॥
45.200
यागं पूर्वविधानेन अशेषं तत्र विन्यसेत् ।
भूम्यं तथासनं कृत्वा स्वल्पप्रस्तरणान्तिकम् ॥
45.201
उपविश्यापयेत् तत्र चुम्बनाद्यावगूहनम् ।
कृत्वा क्षोभं समारभ्य पवित्रं गृह्य साधकः ॥
45.202
प्राशयित्वा तु तौ हृष्टौ यागद्रव्याणि प्रोक्षयेत् ।
अर्चनं हि ततः कृत्वा नैवेद्यानी तु दापयेत् ॥
45.203
अग्नेश् च यजनं कृत्वा अग्निकार्यं समारभेत् ।
होमं कृत्वा यथोद्दिष्टं देवीनां विनिवेदयेत् ॥
45.204
विज्ञाप्य नियमं कुर्या जपसंख्याविधिं प्रति ।
शक्त्यासनाग्रत स्थित्वा लिङ्गं तत्र विनिक्षिपेत् ॥
45.205
अक्षसूत्रं ततो गृह्य कल्पोक्तं तु समाचरेत् ।
संख्याया-द्-आह्निकं कृत्वा-ल्-लक्षम् एकं जपेद् बुधः ॥
45.206
दूती मुक्त्वा न चान्यत्र मौनभङ्गम् समाचरेत् ।
नक्तभोजनम् आपन्नो लघ्वाहारो जितश्रमः ॥
45.207
एवम् आहुर् जपं कुर्यात् तालमार्गविधिक्रमात् ।
यागपूर्वं समर्पीत भैरवाय वरानने ॥
45.208
जपं समर्पयित्वा तु ततो होमं समाचरेत् ।
गोमांसयुतं कुर्यात् सुरया मिश्रितस्य च ॥
45.209
क्रोष्टुकस्य तथैवेह छागस्य पिशितस्य च ।
पूर्वोक्तानां पशूनां वा मांसैर् होमानि कारयेत् ॥
45.210
पारावतस्य मांसेन करिमांसेन चैव हि ।
खरमानुषकूर्मोष्ट्राश्वशृगालहयादिषु ॥
45.211
तनुभिश् च वराहश् च इत्य् एषां फल्गुनैस् तथा ।
मद्याक्ता होमयेन् मन्त्री सर्पिषा वा त्व् अभावतः ॥
45.212
महापशुं तथा चैव होतव्यं सिद्धिकाङ्क्षया ।
दशसाहस्रकं कुर्या यथालाभं महापशुं ॥
45.213
समर्पयित्वा देव्याय ततः कर्म समारभेत् ।
तालमार्गे तु वै शस्तं नित्यम् आमिषभोजनम् ॥
45.214
छागं वराह माहिष्य हरिणं शशकं तथा ।
मयूरं लावकश् चैव तित्तिराश् च कपिञ्जलाः ॥
45.215
वार्ताकं कुल्लकंश् चैव वर्गेटिकां कमेजकां ।
क्रौञ्चं च सारसं चैव पारावतकपोतकम् ॥
45.216
आटी च मधुकं चैव मटालं चैव सिद्धिकां ।
वनकुर्क्कुटका ह्य् एव जलकुर्कुटकां तथा ॥
45.217
कोकं चैव तथा भक्ष्य कच्चापं मेद्रकं तथा ।
†यवखण्डारत्त्लीटी† शल्यकं †इशकं† तथा ॥
45.218
गदरं च तथा भक्ष्य पूतिकेसन्नलीकरां ।
आरणेकविरालं च मेषं वा वनसम्भवम् ॥
45.219
पेचकं चटकं भक्ष्यं शुकं वै शारिका तथा ।
कडम्ब कर्णतासं च उदकम्भारकुर्कुटम् ॥
45.220
सर्वमत्सगतं भक्ष्य तालकस्य न संशयः ।
न मांसेन विना भोज्यं तालकेन कदाचनह् ॥
45.221
नियमस्थो विशेषेन कर्तव्यं पिशिताशनम् ।
दशसाहस्रकं जप्यम् अलाभे पिशितस्य च ॥
45.222
आमिषं नैव सर्वस्य सम्भवेत् साधकस्य तु ।
स्वल्पम् अप्य् आमिषं भुक्त्व् आमिषाहारत्वम् अश्नुते ॥
45.223
तालकेन महादेवि भोक्तव्यम् आमिषं सदा ।
निरामिषस् तु भुञ्जानो जपस्याष्टशतं हुनेत् ॥
45.224
स्वांशिकं यं तु नैवेद्यं स्वल्पं शक्त्या प्रदापयेत् ।
साधारणं ततो देयं स्थित्यर्थं साधकेन तु ॥
45.225
स्वकीयम् आत्मनः सर्वं स्थित्यर्थं भक्षयेद् बुधः ।
कदाचित् स्या बहुं दत्तं भक्षितुं नैव शक्यते ॥
45.226
स्थापयित्वा पुनर् भक्षेत् शक्त्या नैव प्रदापयेत् ।
कल्पोक्तेन विना देवि तालको विधिसंस्थितः ॥
45.227
गुरुगृहैकशुद्धस् तु नैवेद्यं भक्षयेन् सह ।
एकत्रैव महाप्रज्ञो विकल्पान् नैव कारयेत् ॥
45.228
विकल्पे तु कृते देवि प्रायश्चित्तं समाचरेत् ।
आदाव् एव न वै दद्यात् प्रवेशं कस्यचित् प्रिये ॥
45.229
प्रविष्टेन सहैकत्वं भक्षितव्यं न संशयः ।
स्वांशिकं तु न दातव्यं पुत्राणां भ्रातॄणां तथा ॥
45.230
स्वकीयं भक्षयित्वा तु सामान्यं भक्षये-स्-तथा ।
यदा न तृप्यते तेन दोषस् तत्र प्रजायते ॥
45.231
प्रलोभे न तु नैवेद्यं स्थापयेत् साधकोत्तमः ।
लडुकादीनि भक्षाणि नित्यार्थं तु दिने दिने ॥
45.232
बुभुक्षितः कदाचित् स्याद् गर्तः कुण्डाथवापि वा ।
नैवेद्यं गृहभक्तस्य न दोषस् तत्र विद्यते ॥
45.233
नियमेन विना देवि पूर्वाहाराणि भक्षयेत् ।
तत्रापि यान्य् अभक्षाणि भक्षितव्यानि कानिचित् ॥
45.234
माषाश् चरणकश् चैव चर्मरं नारग जम्बिरम् ।
मातुलङ्गं च वकुलं न पुनश् च तथैव हि ॥
45.235
कफलं हिंसलं चैव विविधान्य् अपि भक्षयेत् ।
आकोटनारकं चैव गङ्गेरुं तेन्दुकं तथा ॥
45.236
पेण्डारी द्विविधं चैव तेन्दुकं मर्कतस्य तु ।
कपित्थं करहाटं च खादिरं साखम् एव च ॥
45.237
मालाकण्ठो इका चैव सूरणं कन्दम् एव च ।
गोस्वोदुं वरिका चैव तोण्डीरं पीलुकं तथा ॥
45.238
गोल्फा चैव गुडं चैव विभीतक हरीतकी ।
द्राक्षां चैव नारिकेरं च पद्मानां †हिषं† एव च ॥
45.239
माक्षिक मधुकं चैव मधुर् †येलां† तथैव च ।
एतानि देव्य् अशुद्धं स्याद् भक्षयाणि न संशयः ॥
45.240
तालकस्य तु भक्षाणि नात्र कार्य विचारणात् ।
मांसानि यान्य् अभक्षाणि होतव्यानि विधिस्थिते ॥
45.241
आदेशेन विना तानि तालको नैव भक्षयेत् ।
आसवादीनि मद्यानि न पेयानि तथैव च ॥
45.242
अभक्षभक्षणे चैव अपेयापि च ते तथा ।
प्रायश्चित्तं ततः कुर्या नान्यथा सिद्धिभाग् भवेत् ॥
45.243
एकान्ते गुह्यदेशे तु एकस्मिन् भोजनं तयोः ।
अन्यथा कुरुते यद् वा दशसाहस्रकं जपेत् ॥
45.244
समर्पयित्वा कल्पोक्तं ततः कर्म समारभेत् ।
अधमा मध्यमा चैव उत्तमा सिद्धिम् इच्छता ॥
45.245
पूर्वोक्तेन विधानेन देवागारं समाविशेत् ।
दिग्वासो मुक्तकेशश् च कृतन्यासो न संशयः ॥
45.246
प्रणवासनोपविष्टौ च हृद्यागादिपुरह्सरम् ।
दक्षिणाभिमुखो भूत्वा अल्पप्रस्तरणं न्यसेत् ॥
45.247
तत्रासनं तु मन्त्रज्ञो मन्त्रैः कृत्वा यथाक्रमम् ।
तत्रासनं महादेवि शक्तिं वै संविशापयेत् ॥
45.248
अस्त्रोदकेन सम्मार्ज्य पीठं वै साधकोत्तमः ।
स्वयागं तत्र विन्यस्य आसनादिपुरस्सरम् ॥
45.249
चुम्बनालिङ्गनं कृत्वा पीठस्यापि वरानने ।
लिङ्गं प्रवेशयित्वा तु आसनादिपुरह्सरम् ॥
45.250
सर्वगतं ततो योज्य पुष्पगन्धादिभिस् तथा ।
क्षोभयित्वा ततः शक्तिं द्रव्यं गृह्य तदुद्भवम् ॥
45.251
प्राशयित्वा ततो द्रव्यम् अर्घयित्वा ततो ऽर्पयेत् ।
द्रव्यपूतोदकं मन्त्री ततो द्रव्याणि प्रोक्षयेत् ॥
45.252
कृत्वा मण्डलकं देवि चन्दनादिसुरासवैः ।
गोमयेन विमिश्रेण रजो वा पूर्वपातिते ॥
45.253
शिवकुम्भं यथान्यायं सुरापूर्ण विमिश्रितम् ।
द्रव्यपूतेन वा पूर्णम् उदकेन तथा प्रिये ॥
45.254
अस्त्रवर्धनिकापूर्वं यजेद् वै साधकोत्तमः ।
पद्मयागं पुनः कृत्वा यथाविधिपुरस्सरम् ॥
45.255
अग्न्यागारं व्रजेन् मन्त्री तर्पणादिकम् आचरेत् ।
एकतत्त्वविधानेन तर्पणं त्व् अनुतर्पणम् ॥
45.256
कृत्वा मुद्रा ततो बद्ध्वा अर्घं दत्त्वा यथाक्रमम् ।
देवीनाम् अग्रतः स्थित्वा अर्घं दत्त्वा महाधिपे ॥
45.257
मुद्रां बद्ध्वा विधानज्ञो नैवेद्यानि प्रदापयेत् ।
†घारिकैः† पूरिकैश् चैव पूपका घृतपूरकैः ॥
45.258
लडुकाशोकवर्तिभ्यां भक्षैः कन्दुकृतैस् तथा ।
मांसैस् सुगन्धिभिश् चान्यैः पक्वासवैर् यथा भवेत् ॥
45.259
मुद्राबन्धं ततः कृत्वा हृद्यागादिपुरह्सरम् ।
निवेदयीत देव्याय कल्पोक्ताय प्रसिद्धये ॥
45.260
अर्घं दत्त्वा तु मन्त्रज्ञः सिद्धे कल्पोक्तस्य च ।
प्रणिपातं ततः कृत्वा संख्या गृह्य यथेप्सया ॥
45.261
लब्धानुज्ञ ततो मन्त्री अक्षसूत्रं च चालयेत् ।
मन्त्रज्ञ चालयित्वा तु हृष्ठं कृत्वा ततो व्रजेत् ॥
45.262
तथैतत्संस्थितायास् तु शक्तिपीठस्य चाग्रतः ।
अचले तथा न्यासे अर्घं दत्त्वा तु साधकः ॥
45.263
चुम्बनालिङ्गनं कृत्वा लिङ्गं तत्र प्रवेशयेत् ।
तत्र क्रमेण संशोध्य हृद्यागं साधकोत्तमः ॥
45.264
स समाधिप्रयोगेन ततो हृष्ठं तु कारयेत् ।
बिन्दुमध्यगतं मन्त्री यागाद्यैस् तु विकल्पितम् ॥
45.265
सर्वयागावलोकी च भैरवार्पितमानसः ।
एवम् आहुर् जपं कुर्याद् यावशक्ति समाहितः ॥
45.266
पूर्वाह्निकं क्रमेणैव नक्तभोजी तथैव हि ।
त्रिस्नायी नित्ययुक्तस् तु कल्पोक्तानि समाचरेत् ॥
45.267
यागपूर्वं समर्पीत भैरवाय न संशयः ।
अग्निकार्यं ततः कृत्वा कल्पोक्तं पूर्वचोदितम् ॥
45.268
एवंकृते तु मन्त्रज्ञो योगिन्यः पश्यते ध्रुवम् ।
सिद्धियागं ततः कृत्वा इच्छासिद्धिम् अवाप्नुयात् ॥
45.269
अणिमादिगुणोपेतं खेचरत्वं न संशयः ।
प्राप्नोत्य् अमविनाशं तु पदं देवि न संशयः ॥
45.270
मध्यमा इच्छतो यद्ध देवागारं तु पूर्ववत् ।
कृतन्यासौ प्रविष्टौ तु योगपट्टोत्तरीयकौ ॥
45.271
दक्षिणाभिमुखो भूत्वा तथैव प्रणवासने ।
हृद्यागादिकृतन्यास इदं कर्म समारभेत् ॥
45.272
ऊर्ध्वरूपां तथा शक्तिं कृत्वा वै पीठ लेपयेत् ।
स्वयागे पूर्वसूत्रोक्तां न्यासं तत्र प्रकल्पयेत् ॥
45.273
पूर्वश्रिते तथा कृत्वा आसनं साधकोत्तमः ।
शक्तिस् तत्र निवेशी च दर्शयित्वा यथाक्रमम् ॥
45.274
मण्डले तु ततो यागं कलशादिविकल्पितम् ।
अग्न्यागारं ततो गत्वा तर्पणादिकम् आचरेत् ॥
45.275
नैवेद्यानि ततो दद्या होमं चैव यथेप्सया ।
मुद्रां बद्ध्वा ततो ऽर्घं तु दत्त्वा आगत साधकः ॥
45.276
अर्घं दत्त्वा तु देवीनां मुद्रां बद्ध्वा यथाक्रमम् ।
निवेदयेत् ततो यागं कल्पसिद्ध्यर्थकाक्षिणाम् ॥
45.277
संख्या गृह्य ततो मन्त्री अक्षसूत्रं तथैव च ।
शक्तिपीठे ततो ऽर्घं तु दत्त्वा कृत्वा तु चुम्बनम् ॥
45.278
लिङ्गं तत्र क्षिपेन् मन्त्री मनाक् चालनम् आरभेत् ।
शक्ति नाचालयेत् स्थानाद् यागहोमविधाव् अपि ॥
45.279
तत्र प्रविष्टलिङ्गं तु कल्पोक्तविधिं आरभेत् ।
अप्रवासी तथा मन्त्री नदर्शी नक्तभोजकः ॥
45.280
कल्पोक्तं पूर्ववद् कृत्वा यागं मन्त्री समारभेत् ।
पूर्वोक्तविधिना देवि देवागारं वरानने ॥
45.281
हृद्यागादि तथा न्यासं कृत्वा तेन न संशयः ।
ऊर्ध्वरूपं ततः कृत्वा न्यास पीठे प्रकल्पयेत् ॥
45.282
अस्त्रिते चासनं कृत्वा ततो ताव विशापयेत् ।
न चालयीत तां शक्ति तस्मात् प्रस्तरणाद् बुधः ॥
45.283
एकाकी याग निर्वत्यं कलशादिविकल्पितम् ।
तर्पणाद्य् अथ नैवेद्यं दत्त्वा होमं यथेप्सया ॥
45.284
कृत्वा यागं निवेद्याथ ईषिच् चालनम् आरभेत् ।
उत्थाय देवं विज्ञाप्य कल्पोक्तं तु समर्पयेत् ॥
45.285
तद्दिनैव यदा कुर्यात् कल्पोक्तं होमकर्म्मणि ।
संख्या गृह्य ततो मन्त्री ईषिच् चालनकं तथा ॥
45.286
कल्पोक्तं कारयेन् मन्त्री होमं तु पूर्वम् एव हि ।
अनेनैव विधानेन याग पूर्वं समारभेत् ॥
45.287
समर्पयित्वा तद् धोमं ततो ऽवग्रहम् आचरेत् ।
त्रिस्नायी साधको नित्यम् आह्निके क्षोभम् आरभेत् ॥
45.288
शतम् अष्टसहस्रं वा सहस्रार्धम् अथापि वा ।
शतद्वयं वा मन्त्रज्ञो आह्निके जपम् आचरेत् ॥
45.289
नित्यनैमित्तिकं कृत्वा आह्निकाद् आह्निकं बुधः ।
अवग्रहे जपं कार्यं सिध्यते शक्तिसंयुतः ॥
45.290
होमं चैवाथ कर्तव्यं साधकेन यदृच्छया ।
नित्यनैमित्तिकं कृत्वा होमस्यापि अयं विधिः ॥
45.291
कल्पोक्तं तु जपं मन्त्री यागे ऽस्मिन् तु समर्पयेत् ।
ततो होमस्य सामग्री कल्पोक्तस्य तु भावयेत् ॥
45.292
यागम् अन्यं ततः कृत्वा तेनैव विधिना बुधः ।
शक्त्यादिचालनं कृत्वा ततो होमं समर्पयेत् ॥
45.293
अवग्रहेन वर्तेत नित्यनैमित्तिकास् तथा ।
यागं कुर्याथ कामस्य सदा नित्यव्रतं चरेत् ॥
45.294
अनेन विधिना देवि योगिन्यः पश्यते ध्रुवम् ।
आदिष्टस् ताभ्यतः कुर्यात् सिद्धियागं तु साधकः ॥
45.295
तं कृत्वा सिध्यते मन्त्री सम्प्रदायं च विन्दति ।
खेचरत्वं भवेत् तस्य वीरो भवति शाश्वतः ॥
45.296
योगिनीहृदये लीनः समयी वर्तते यदा ।
क्षुद्रसिद्धिं यदा कुर्याद् भोगार्थी साधकोत्तमः ॥
45.297
अयं विधिस् तदा कुर्यात् कथयामि न संशयः ।
पूर्वोक्तेन विधानेन स्नात्वा देवगृहं ययुः ॥
45.298
कृतन्यासः प्रविश्याथ गुर्वादीं पूज्यतः क्रमात् ।
क्षोभं तु प्रथमं कृत्वा आसनन्यासवर्जितम् ॥
45.299
द्रव्यं गृह्य ततः प्राश्य तिलकं कारयेद् बुधः ।
हृद्यागं पूर्ववन् न्यासं कृत्वा वै यागम् आचरेत् ॥
45.300
शिवकुम्भादिविधिना तर्पणादिनिवेदने ।
होमं चैव यथाशक्त्या ततो यागं निवेशयेत् ॥
45.301
अर्घं दत्त्वा तु कल्पोक्तं देवं विज्ञाप्य साधकः ।
संख्या गृह्य जपं कुर्यात् पृथग्भूतां न संशयः ॥
45.302
प्रथमं क्षोभयित्वा तु पुनः शक्तिं न क्षोभयेत् ।
पृथग्भूता जपं कुर्या भोगार्थी नात्र संशयः ॥
45.303
अनेनैव विधानेन यागं कृत्वा समार्पयेत् ।
कल्पोक्तं नात्र संदेहस् ततो होम समर्पयेत् ॥
45.304
अनेन क्रमयोगेन राज्य सौभाग्यम् एव च ।
अर्थांश् च विविधाश् चैव मन्त्री सर्वान् अवाप्नुयात् ॥
45.305
भोगार्थसाधको मुक्त्वावग्रहं सिद्धिकाक्षिणाम् ।
सिद्धिहेतु ततो गृह्य ततः सिद्धिम् अवाप्नुयात् ॥
45.306
वश्याकर्षणपिण्डाह्वं निजसैन्यस्य रक्षणम् ।
यदा कुर्या तदा मन्त्री विधानम् इदम् आचरेत् ॥
45.307
स्नानं पूर्वोक्त तन् न्यासो देवागारं ततो विशेत् ।
गुर्वाद्यर्चनकं कृत्वा दिग्वासा साधकोत्तमः ॥
45.308
दक्षिणाभिमुखो भूत्वा स्थाप्य शक्तिं ततोर्ध्वकम् ।
पीठे न्यासं तथा कृत्वा पुष्पाद्यादीनि दापयेत् ॥
45.309
अस्त्रिते चासनं दत्त्वा शक्तिं वै संविशापयेत् ।
नासनाच् चालयेच् छक्तिं यावद् यागं तु पूर्वकम् ॥
45.310
कलशादिसमोपेतं तर्पणान्तं न संशयः ।
यागं कृत्वा तु तं देवि साधकेन तु मण्डले ॥
45.311
देवीं विज्ञाप्य तां मन्त्री ततो क्षोभं समारभेत् ।
प्राशयित्वा तु तं द्रव्यं स्पृष्ट्वा यागं पुनर् यजेत् ॥
45.312
नैवेद्यानि ततो दद्या अग्निकार्य समारभेत् ।
नासनाच् चालयेच् छक्तिं अग्निकार्यं यथेप्सया ॥
45.313
कृत्वा देवाय संकल्प्या यागं चैव वरानने ।
संख्या गृह्याक्षसूत्रं च शक्तिं गत्वा ततो ऽर्चयेत् ॥
45.314
पीठे प्रवेशयेल् लिङ्गम् ईषिच् चालनम् आरभेत् ।
अनेन क्रमयोगेन संख्या गृह्य ततो ऽह्निके ॥
45.315
कल्पोक्तं पूरयित्वा तु यागं पूर्वं समर्पयेत् ।
ईषिच् चालनकं कृत्वा अग्निकार्यं यथोदितम् ॥
45.316
कृत्वा देवस्य चार्पीत यागपूर्वं न संशयः ।
ह्रींशक्तिसम्पुटं मन्त्रं नुत्यन्तं प्रणवादिकम् ॥
45.317
जपेत् स्वाहान्तसंयुक्तं अग्निकार्यं न संशयः ।
पूर्वम् एव विधिं कृत्वा ततः कर्म समारभेत् ॥
45.318
समर्पयित्वा कल्पोक्तं वश्यार्थं सम्प्रयोजयेत् ।
स्वयागन्यासम् आस्थाय मन्त्रन्यासं यथोदितम् ॥
45.319
देहे कृत्वा बहिन्यासं ततो यागं बहिर् यजेत् ।
स्वबीजपुटितं मन्त्री यन्त्रोक्तं नात्र संशयः ॥
45.320
वश्याकर्षणपिण्डाह्वे शक्तिक्षोभं तु पूर्ववत् ।
यागपूर्वं तु यन्त्राणां लिख्याकृतिपुटादिकाम् ॥
45.321
अथवा कृत्यः कृत्वा स्वयन्त्रोदितमृत्तिका ।
मूर्ध्नितो बहवः स्थाप्य दत्त्वा †त्वं† धर्मचीरिकम् ॥
45.322
यन्त्रयागं ततः कृत्वा लेखं तत्रैव लेखयेत् ।
स्वयन्त्रोक्तं कृतिं गृह्य विधानं तत्र कारयेत् ॥
45.323
सिद्धयन्त्रे ततो देवि हृद्यालेख्य समुद्धरेत् ।
ततश् चान्येषु मन्त्रेषु उपयोगं तु कारयेत् ॥
45.324
वश्याकर्षणपिण्डाह्वे निजसैन्यस्य रक्षणे ।
यागं कृत्वा सहस्रस्य यन्त्रोक्त त्रिजपस्य तु ॥
45.325
निवेदयीत देवाय यन्त्रास्यैव प्रसिद्धये ।
होमस्याष्टसाहस्रं तु स्वयन्त्रोक्तस्य कारयेत् ॥
45.326
द्रव्यस्यविमिश्रितं फल्गुं यथालाभं न संशयः ।
निवेदयित्वा ततो होमं-स्-ततो यन्त्राणि कारयेत् ॥
45.327
यागं चैव महाप्राज्ञः सिध्यते नात्र संशयः ।
पूर्वक्रमेन वै विश्य स्वयागोक्तं समाचरेत् ॥
45.328
हृद्यागं च तथा न्यासं सदा चैव विधानवित् ।
तत्रोपरि बहिर्न्यासं लकारपुटितं तथा ॥
45.329
हृद्वर्जितं न्यसेन् मन्त्री कर्मकल्पोक्तसिद्धये ।
स्वयागेनैव कर्तव्यं स्तम्भनम् उभयोर् अपि ॥
45.330
ऊर्ध्व शक्तिस् ततः कृत्वा पीठं सम्मार्ज्य चैव हि ।
न्यासं कृत्वा यथान्यायं आसनम् परिकल्पयेत् ॥
45.331
भूम्यं तत्रोपविश्यासु पुनर् न्यासं तथैव च ।
पीठं कृत्वा तु पुष्पैश् च ततो विन्यस्यते बुधः ॥
45.332
लिङ्गं प्रवेशयित्वा तु ईषिच् चालनम् आरभेत् ।
उपविष्टा तु तां शक्तिं कृत्वा चैवात्मनो बुधः ॥
45.333
अधोमुखी ततः कृत्वा पशुवत् साधकोत्तमः ।
लिङ्गं प्रवेशयित्वा तु ततो क्षोभं समारभेत् ॥
45.334
प्राशयित्वा तु तं द्रव्यम् अर्घपात्रं तु पूजयेत् ।
कलशादि तथा यागं लकारपुटितं यजेत् ॥
45.335
अग्न्यागारे तथा कृत्वा नैवेद्यादि प्रकल्पयेत् ।
पुनस् तेनैव विधिना संख्या गृह्य तु साधकः ॥
45.336
पृथग्भूतं जपं कुर्याल् लकारपुटितं तथा ।
नुत्यन्तं प्रणवाद्यं च नक्तभोजी न संशयः ॥
45.337
यागपूर्वं समर्पीत होमं चैव यथोदितम् ।
स्तम्भयन्त्राणि सर्वाणि सिध्यते नात्र संशयः ॥
45.338
अनेनैव विधानेन यागं कृत्वा यथोदितम् ।
होमस्याष्टसाहस्रं स्याज् जपस्य च निवेदयेत् ॥
45.339
ततो यन्त्राणि सिध्यन्ते स्तम्भनाशनिस्तम्भनम् ।
परसैन्य तथा दर्शे जलस्य च न संशयः ॥
45.340
पूर्वोक्तविधिना स्नातो प्रविशेद् देववेश्मनि ।
स्वयागमार्गम् आस्थाय शक्ति चोर्ध्वागसंस्थिताम् ॥
45.341
कृत्वा न्यासे तु पीठे तु सरेफेणानिलेन तु ।
सविसर्गेण पुटितं स्वयागं तत्र विन्यसेत् ॥
45.342
भ्रामयित्वा तु तं शक्तिम् उपविश्यापयेत् ततः ।
आत्मनो वामपार्श्वे तु बहिर्न्यासं स्वदेहकम् ॥
45.343
तेनैव पुटितं सर्वं सह दूत्या न संशयः ।
भूम्यं तथासनं कृत्वा पुटितं संविशापयेत् ॥
45.344
शक्ति क्षोभ्य ततोत्थाय द्रव्यं प्राश्य न संशयः ।
अर्घपात्रादिकं सर्वं यागं कृत्वा च तत्पुटम् ॥
45.345
तेनैव क्रमयोगेन तत्पुटं जपम् आरभेत् ।
होमं चैव न संदेहः सम्मिश्रे ततः फाल्गुषम् ॥
45.346
स्वकुण्डे चैव कर्तव्यं नात्र कार्य विचारणात् ।
समर्पयेत देवाय जपहोमं च साधकः ॥
45.347
समर्पिते तु कल्पोक्ते विधिश् चायं प्रयोजयेत् ।
अनेनैव विधानेन यन्त्रयागं यजेद् बुधः ॥
45.348
स्वयन्त्रोदितहोमस्य हुत्वा अष्टसाहस्रकम् ।
तस्मिन्न् एवानले मन्त्री जपम् चैव तथैव हि ॥
45.349
कृत्वा अष्टसहस्रं स्याद् यन्त्रयागपुटीकृतम् ।
निवेदयीत देवाय ततो मन्त्रं समारभेत् ॥
45.350
विद्वेषोच्चाटनं चैव अङ्गहीनकरणम् एव च ।
उन्मादस् तु अशनीपातः परसैन्यस्य त्रासनम् ॥
45.351
यन्त्राण्य् एतानि चैवेह अनेन विधिना ध्रुवम् ।
सिध्यते नात्र संदेहः सत्यं सत्यं वदाम्य् अहम् ॥
45.352
स्नानपूर्वं विशेन् मन्त्री स्वयागविधि विन्यसेत् ।
न्यासं चैव यथान्यायं उभयोर् अपि नान्यथा ॥
45.353
शक्तिपीठे न्यसेन् मन्त्री ऊर्ध्वाया साधकोत्तमः ।
हूंफट्सम्पुटितं सर्वं विपरीतं न्यसेद् बुधः ॥
45.354
ततः क्षोभं समारभ्य विपरीतरतेन तु ।
द्रव्यं गृह्य ततो प्राश्य बहिर्न्यासं तु कारयेत् ॥
45.355
हूंफट्सम्पुटितं सर्वं विपरीतक्रमेण तु ।
ततो यागं समारभ्य कलशादिविकल्पितम् ॥
45.356
अग्न्यागारे तथैवेह होमं पूर्वोक्तम् एव हि ।
निवेदयित्वा देवाय संख्या गृह्य जपेत् ततः ॥
45.357
संख्या गृह्य ततो मन्त्री कल्पोक्तं चास्त्रसंयुतम् ।
जपं होमं तथैवेह यन्त्रद्रव्येण मिश्रितम् ॥
45.358
जपहोमं समर्पीत तेनैव विधिना पुनः ।
यागपूर्वाणि यन्त्राणि साधयेन् नात्र संशयः ॥
45.359
मारणे मोहनोच्छादे कलहे च वरानने ।
यन्त्राण्य् एतानि सिध्यन्ते अनेन विधिना ध्रुवम् ॥
45.360
स्नानं कृत्वा विशेन् मन्त्री सह शक्त्या तथैव हि ।
स्वयागं हृदये न्यस्त्वा न्यासं चैव यथोदितम् ॥
45.361
पीठन्यासं तथा कृत्वा स्मरणसम्पुटिते तथा ।
मन्त्रैस् तु अनुलोमैस् तु आसने ऽपि न संशयः ॥
45.362
भूम्यां चैवासनं कृत्वा शक्तिस् चैव विशापयेत् ।
क्षोभयित्वा ततो मन्त्री द्रव्यं प्राश्य पुनर् न्यसेत् ॥
45.363
हृद्यागं च बहिन्यासं स्मरणसम्पुटितं क्रमात् ।
अर्घपात्रं तथैवेह कलशं मण्डलं तथा ॥
45.364
अग्न्यागारं च मन्त्रज्ञो यजेत् स्मरणसम्पुटम् ।
नैवेद्यानि ततो दत्त्वा होमं कृत्वा यथोदितम् ॥
45.365
देवं विज्ञाप्य तो मन्त्री पुनः क्षोभं समारभेत् ।
भावते द्रव्यसंघातं स्पृष्ट्वा अर्घं प्रदापयेत् ॥
45.366
संख्या गृह्य जपं मन्त्री शक्तिपार्श्वे तथैव हि ।
कल्पोक्तं तु ततः कृत्वा होमं तद्द्रव्यमिश्रितम् ॥
45.367
स्वयागेनैव कर्तव्यं भैरवाय समर्पयेत् ।
यन्त्रयागं ततः कृत्वा विधानेन तु साधकः ॥
45.368
जपस्याष्टसाहस्रं तु होमं तद्द्रव्यमिश्रितम् ।
संख्यायाष्टसाहस्रं तु देवीनां विनिवेदयेत् ॥
45.369
शान्तिकं पुष्टिकं चैव मृत्युञ्जयविधिस् तथा ।
कोपप्रशमने चैव तथा निगडभञ्जने ॥
45.370
यन्त्राण्य् एतानि सिध्यन्ते विधिनानेन नान्यथा ।
स्नानपूर्वं न्यसेन् मन्त्री गृहं देवस्य साधकः ॥
45.371
हृद्यागं च बहिर्न्यासं स्वयागेनैव कारयेत् ।
शक्तिम् ऊर्ध्वा ततः कृत्वा ह्रींकारपुटितं तथा ॥
45.372
मन्त्र पीठे तथा न्यासम् अनुलोमैस् तु कारयेत् ।
आसनं तु ततो दत्त्वा तं चैव पुटितैस् तथा ॥
45.373
तां विशाप्य ततः शक्तिं चुम्बनालिङ्गनादिकम् ।
क्षोभं कृत्वाथ मन्त्रज्ञः प्राश्य द्रव्यं वरानने ॥
45.374
हृद्यागं च बहिर्न्यासं ह्रींशक्त्या पुटितं तथा ।
अर्घपात्रं तथैवेह कलशं मण्डलं तथा ॥
45.375
अग्न्यागारं तथा तर्प्य नैवेद्यानि प्रदापयेत् ।
होमं कृत्वा तु मन्त्रज्ञो होमद्रव्यविमिश्रितम् ॥
45.376
निवेदयागं देवाय कृत्वा चैव प्रदक्षिणम् ।
अष्टाङ्गप्रणिपातं तु कृत्वा विज्ञाप्य साधकः ॥
45.377
रक्तवासपरिधानो उभौ रक्तोत्तरीयकौ ।
रक्तगन्धविलिप्ताङ्गौ रक्तस्रग्दामभूषितौ ॥
45.378
नानाभरणसंयुक्तौ माणिक्यादिभि भूषितौ ।
अलाभे मणिमुक्तानां यथासम्भवभूषणैः ॥
45.379
संविशाप्य तथा शक्तिं परिधानै सहैव तौ ।
क्षोभयित्वा यथान्यायं द्रव्यं तु प्राश्य वन्द्य च ॥
45.380
स्पृष्ट्वार्घं तु ततो दत्त्वा संख्या गृह्य ऽथ साधकः ।
ह्रींशक्तिसम्पुटं चैव जपं कल्पोक्तम् आचरेत् ॥
45.381
होमं चैव यथोद्दिष्टं भैरवाय समर्पयेत् ।
अनेन क्रमयोगेन यन्त्रयागपुरह्सरम् ॥
45.382
यन्त्राणि साधयेन् मन्त्री यथोक्तविधिचोदितम् ।
भाग्यारोहणकं चैव जययन्त्रं तथैव च ॥
45.383
साधयेन् नात्र संदेहो विधिनानेन साधकः ।
शान्तिकं-पौष्टिकादीनां शुक्लवासानुलेपनम् ॥
45.384
शुक्लौ-स्रग्दामशोभौ तु मुक्तावलिविभूषितौ ।
हारकेयूरशोभौ तु भूत्वा क्षोभम् समारभेत् ॥
45.385
विभवालब्धवासानां नात्र कार्य विचारणात् ।
ह्रींकारसम्पुटं सर्वं आसनं परिकल्पयेत् ॥
45.386
अनुलोमं तु यजेद् यागं ह्रींकारपुटितं तथा ।
वश्याकर्षणपिण्डाह्वे निजसैन्यस्य रक्षणे ॥
45.387
एतद् यागविधानं तु कल्पोक्तं नात्र संशयः ।
प्रणवे चैव ह्रींकारं मन्त्रं दत्त्वा यथाक्रमम् ॥
45.388
ह्रींकारं च नमस्कारं कल्पोक्तं जपम् आचरेत् ।
लकारसम्पुटं सर्वं यागन्यासं न संशयः ॥
45.389
अनुलोमं यजेद् यागं कल्पोक्तं नात्र संशयः ।
मन्त्रं लकारपुटितं नुत्यन्तं प्रणवादिकम् ॥
45.390
अनुलोमं जपेन् मन्त्रं स्तम्भनादिं च साधने ।
भैरवं पादयोर् न्यस्य सविसर्गेण साधकः ॥
45.391
वायुना चार्धरेफेण योजितं नात्र संशयः ।
जानुभ्यां च तथा रक्ता करालीं गुह्यके न्यसेत् ॥
45.392
नाभ्यं चैव तु चण्डाक्षी महोच्छुष्मा हृदि न्यसेत् ।
कराला कण्ठदेशे तु दन्तुरा तु मुखे न्यसेत् ॥
45.393
ललाटे भीमवक्त्रा तु शिखायां तु महाबला ।
क्रोष्टुकी वामपादे तु विजया वामजानुनी ॥
45.394
गजकर्णास् तथा कट्यां दक्षपादे महामुखी ।
चक्रवेगाथ जानौ तु महानासा कटिस् तथा ॥
45.395
वीरां तु पादयोर् न्यस्य जङ्घयोस् तु महेश्वरी ।
ऊरुभ्यां चैव ब्रह्माणी नाभ्यां वै वैष्णवी न्यसेत् ॥
45.396
नाभिहृद्यास् तथा स्कन्दी कण्ठे चैव विवस्वती ।
चिपुके चैव माहेन्द्री अक्ष्णौ चैव तु भैरवी ॥
45.397
मस्तके परमा शक्तिस् तेनैव पुटितं न्यसेत् ।
हृद्यागेन तु कर्तव्यं विन्यासो नात्र संशयः ॥
45.398
बहिर्यागे यथा न्यासस् तां शृणुष्व समाहिता ।
कर्णिकायां न्यसेद् देवं महोच्छुष्मा तु पूर्वतः ॥
45.399
दक्षिणेन तु चण्डाक्षीं करालां पश्चिमे न्यसेत् ।
रक्ता चैवोत्तरे न्यस्य तेनैव पुटितस् तथा ॥
45.400
महाबाल तथाग्नेये भीमवक्त्रा तु नैरृते ।
दन्तुरां चैव वायव्ये करालां ईशगोचरे ॥
45.401
कर्णिकायां न्यसेद् देवं भोगाङ्गानि तथैव हि ।
विपरीतानि विन्यस्य कर्णिकायां यथाक्रमम् ॥
45.402
पूर्वादिदिशिम् आरभ्य योगिन्य विपरीतकः ।
पूर्वादिदिशिम् आश्रित्य विपरीतास् तु मातरः ॥
45.403
ईशानान्ता न संदेहः सर्वस् तु पुटिता न्यसेत् ।
दक्षिणे तु न्यसेद् अस्त्रं नाम्ना पाशुपतं महत् ॥
45.404
पश्चिमेन तकारं स्या उत्तरे सविसर्गकम् ।
फेट्कारं पूर्वतो न्यस्य हुंकारं ईशगोचरे ॥
45.405
नैरृते चैव ह्रींकारं हुंफडान्तानि विन्यसेत् ।
तेनैव पुटितानि स्यु नात्र कार्य विचारणात् ॥
45.406
विद्वेषोच्चाटने चैव विद्विष्टोच्चाटने तथा ।
उच्छेदे त्रासने चैव पातने ध्वंसने तथा ॥
45.407
एतद् यागं न संदेहः कल्पोक्ते यन्त्रकर्म्मणि ।
यन्त्रे यन्त्रे यद् उक्तं स्याद् बीजे तेनैव सम्पुटम् ॥
45.408
एतेषु देवि यन्त्रेषु विपरीतक्रमेण तु ।
मन्त्र यन्त्रोदितं जाप्यं नात्र कार्य विचारणात् ॥
45.409
अन्येषां चैव यन्त्राणां यागं वक्ष्यामि तां शृणु ।
अयम् एव तु विन्यासो मारणादिषु नान्यथा ॥
45.410
हुंफट्सम्पुटितं सर्वं कल्पोक्ते यन्त्रकर्म्मणि ।
मन्त्रं तत्पुटितं चैव जपकाले न संशयः ॥
45.411
यन्त्रयागे पुनः कार्य तद्बीजपुटितं तथा ।
यन्त्रे यन्त्रे यद् उक्तं स्यान् नात्र कार्य विचारणात् ॥
45.412
मारणे मोहनोच्छेदे परसैन्यस्य मर्दने ।
कलहं च तथा कुर्याद् यथायत्नेन पूर्ववत् ॥
45.413
स्मरणसम्पुटितं सर्वम् अनुलोमं यथाक्रमम् ।
निजयागे ऽपि कर्तव्यं पुनर् देहे ऽपि न्यासकम् ॥
45.414
कल्पोक्तयागमार्गेण यन्त्राण्य् एतानि साधयेत् ।
शान्तिकं पौष्टिकं चैव मृत्युञ्जयविधिस् तथा ॥
45.415
कोपप्रशमने चैव निगडभञ्जनम् एव च ।
यन्त्राण्य् एतानि सिध्यन्ति कल्पयागेन मन्त्रिणाम् ॥
45.416
स्मरणसम्पुटमन्त्रेण कल्पोक्तं जपम् आचरेत् ।
स्वयन्त्रबीजमार्गेण तथा यागेषु योजयेत् ॥
45.417
मन्त्र यन्त्रोदितं जाप्यं यन्त्रे यन्त्रे न संशयः ।
ह्रींकारपुटितं सर्वम् अनुलोमं तथैव हि ॥
45.418
ह्रींशक्तिपुटितं चैव कल्पोक्तं जपम् आचरेत् ।
स्वयन्त्रबीजमार्गेण तथा यागेषु योजयेत् ॥
45.419
मन्त्र यन्त्रोदितं जाप्यं यन्त्रे यन्त्रे न संशयः ।
ह्रींकारपुटितं सर्वम् अनुलोमं तथैव हि ॥
45.420
ह्रींशक्तिपुटितं सर्वं कल्पोक्तं जपम् आचरेत् ।
यन्त्रबीजोदितं कर्म यन्त्रयोर् उभयोर् अपि ॥
45.421
भाग्यसम्भविके चैव जययन्त्रे च नान्यथा ।
तालमार्गस्थितस्यापि साधकस्य वरानने ॥
45.422
विधिर् एष समुद्दिष्टः साधकानां हिताय वै ।
स्थाना तु चलते मन्त्री यदा कार्यवशा प्रिये ॥
45.423
अस्त्राणि दिक्षु संस्मर्य अस्त्रमोक्षं तु कारयेत् ।
कृतन्यासो जपेन् मन्त्री कृतरक्षस् तथैव च ॥
45.424
तत्त्वध्यायी न संदेहस् तदा विघ्नैर् न बाध्यते ।
सुप्तोत्थितो यदा रात्रौ मन्त्री कुर्याद् अवश्यकम् ॥
45.425
न्यासं कृत्वा हृदि ध्यानम् अस्त्रमोक्षादिकं-स्-तथा ।
निष्क्रम्याचान्य मन्त्रज्ञो न्यासं कृत्वा यथोदितम् ॥
45.426
ध्यानं कृत्वा महादेवि ततो मन्त्री तु संविशेत् ।
प्रातर् उत्थाय स्वस्थात्मा सकलीकृतविग्रहः ॥
45.427
कृतरक्षो व्रजेन् मन्त्री पादप्रक्षालनादिकम् ।
पवित्रं वन्दयेन् नित्यं कृत्वा विण्मूत्रम् एव च ॥
45.428
प्रत्यूषे निजने चैव अन्यथा दोषम् आप्नुयात् ।
अवश्येव विधानज्ञो गत्वात्मान गृहादिकम् ॥
45.429
दन्तधावनपूर्वं तु ततः स्नानं समारभेत् ।
पूर्वोक्तेन विधानेन कृत्वा सन्धानकं बुधः ॥
45.430
कृतरक्षो विशेन् मन्त्री देवागारं तथैव हि ।
एवं तु प्रत्यहं कुर्या तालकेन न संशयः ॥
45.431
मिश्रकेणापि कर्तव्यम् अयम् एव विधिः क्रमात् ।
मिश्रकेणापि कर्तव्यः पवित्रादिपुरह्सरम् ॥
45.432
शुद्धस्याचारेणैव शिखाबन्धवर्जितम् ।
चेष्टाभिस् ताभि वर्तेत तालकेव च मिश्रके ॥
45.433
लाभालाभविकल्पेन यथाविभवसम्भवम् ।
पूर्वसेवाविधानेन कल्पोक्तेन विधिस्थितः ॥
45.434
तेन मार्गेण चान्यानि कल्पकर्माणि कारयेत् ।
यन्त्रादीनि च कर्माणि पूर्वसेवाविधिक्रमात् ॥
45.435
ब्रह्मचर्यरतो नित्यं तालकेव समाचरेत् ।
मद्यादीनि च होमानि कर्तव्या-म्-अविशङ्किना ॥
45.436
आदेशेन विना देवि पानं भक्षं न कारयेत् ।
मिश्रेणापि न कर्तव्यं पवित्रादि-च-वन्दनम् ॥
45.437
तालके चैव शेषं तु शक्तिवर्ज न संशयः ।
अलाभेन विधिस् तस्य निषेधो नैव प्राषिते ॥
45.438
महामांसादिहोमानां मद्यानां च न संशयः ।
मिश्रकस्य विधि प्रोक्तः शक्तिवर्जस्य नित्यशः ॥
45.439
आदेशेन महादेवि आकृष्याकृष्य भुञ्जयेत् ।
साधयेत् सर्वकर्माणि शक्तियुक्तस् तु मिश्रकः ॥
45.440
आकर्षादिप्रयोगेषु यदा सिद्धि प्रजायते ।
कदाचिन् मिश्रको देवि कर्मयोगेन नित्यशः ॥
45.441
तालमार्ग समाप्नोति यदा शुद्धः प्रजायते ।
मिश्रस्य विधि प्रोक्तः शुद्धाशुद्धस्य शोभने ॥
45.442
अशुद्धस्यापि वक्ष्यामि तां शृणुष्व समाहिताः ।
ब्रह्मचर्यरतो नित्यं सर्वकल्पानि कारयेत् ॥
45.443
होमानि मांसवर्ज्यानि सर्वकर्मेसु कारयेत् ।
पूर्वसेवाविधानेन आज्ये कल्पे न संशयः ॥
45.444
उक्तानि यानि होमानि नित्यकर्म समाचरेत् ।
मद्यानि न स्पृशेन् मन्त्री नैवेद्याय न कल्पयेत् ॥
45.445
विपरीतानि कर्माणि न कदाचित् समाचरेत् ।
अन्यथा कुरुते देवि साधको ज्ञानवर्जितः ॥
45.446
होमम् अर्घस् तथा स्पर्शं प्रायश्चित्त समाचरेत् ।
दशसाहस्रकं जाप्यं मांसादीनां निवेदने ॥
45.447
मद्यादीनि न संदेह एवं चैव निवेदने ।
स्त्रीसङ्गं च न कुर्वीत मनसापि वरानने ॥
45.448
अन्यथा कुरुते मोह न सिद्धिफलभाग् भवेत् ।
व्याधयस् तस्य जायेत दारिद्रं च भयानकम् ॥
45.449
प्राणैर् वियुज्यते मन्त्री नात्र कार्य विचारणात् ।
अकामतः कृते सङ्गे नारीभि सह सुव्रते ॥
45.450
प्रमादाथ बला वापि लक्षार्धं नात्र संशयः ।
अकामतो ऽशितैर् मांसै मद्यपानैस् तथैव च ॥
45.451
प्रायश्चित्तम् तु कर्तव्यं लक्षपादं न संशयः ।
कामतस् तु यदा कुर्यात् प्रायश्चित्तम् न विद्यते ॥
45.452
अन्यजन्मे भवेत् तस्य सिद्धिम् नात्र विचारणात् ।
तत्रापि देवि कल्पोक्तं पूर्वसूत्रेण चोदितम् ॥
45.453
तेनैव वर्तयेन् नित्यं विधिना शिवम् आप्नुयात् ।
ब्रह्मचर्यरतो नित्यं त्रिस्नायी चरुभोजकः ॥
45.454
नक्तभोजी सदा भूत्वा ततो मन्त्री प्रसिध्यति ।
तृतीये सवने प्राप्ते देवागारे यथाविधिः ॥
45.455
चरुभाण्डं क्षालयित्वा अस्त्रमन्त्रेण साधकः ।
सौवर्णं राजतं वापि ताम्रं पित्तलसम्भवम् ॥
45.456
त्रिलोहं मृन्मयम् वापि स्वशुद्ध्या शोधितं तथा ।
उत्तरेन तु देवस्य चुल्लिं वै दक्षिणामुखम् ॥
45.457
कृत्वा स्थालीं समारोप्य तन्मध्ये चासनादिकम् ।
निजयागं यजेन् मन्त्री मुद्राभेदं तथैव च ॥
45.458
अस्त्राणि बाह्यतो दत्त्वा कवचेनावगुण्ठितम् ।
पुष्पाणि स्थालिमध्ये तु साधकः पातयेत् ततः ॥
45.459
तत्रोदकं विनिक्षिप्य क्षीरं वा पूर्वचोदितम् ।
अस्त्रेण अग्नि संस्थाप्य-म्-अर्चयित्वा यथाक्रमम् ॥
45.460
कवचेनावगुण्ठीत अस्त्रप्रोक्षितकानि तु ।
इन्धनानि ततो क्षिप्त्वा ज्वालयित्वा हुताशनम् ॥
45.461
अस्त्रक्षालितकं मन्त्री वस्त्रपूताम्भसा प्रिये ।
मूलमन्त्र समुच्चार्य तण्डुलं प्रक्षिपेद् बुधः ॥
45.462
अस्त्रक्षालितया चैव †दक्ष्या† तां चालयेत् ततः ।
तीर्थोदकं विनिक्षिप्य क्षीरं वा पूर्वचोदितम् ॥
45.463
अस्त्रेण अग्नि संस्थाप्य-म्-अर्चयित्वा यथाक्रमम् ।
मूलमन्त्रं जपेन् मन्त्री सर्वकर्म समाचरेत् ॥
45.464
मण्डं न पातयेत् तस्माच् चरुके साधोकोत्तमः ।
ततश् चरुं श्रावयित्वा उत्तार्य परिमूलये ॥
45.465
नैवेद्यं देवदेवीनां दत्त्वा चाग्नौ तथा हुनेत् ।
शेषं तु भक्षयेन् मन्त्री देवस्याभिमुखस्थितः ॥
45.466
अशेष भक्षयेन् मन्त्री हुतशेषं न संशयः ।
निष्क्रम्याचमनम् कुर्याद् यत्र लोको न पश्यति ॥
45.467
सखायो ऽपि न तं प्रेक्षेन् †नावातोर्† याव साधकः ।
कमण्डलुं ततो गृह्य आचमेद् अविशङ्कितः ॥
45.468
कमण्डलुं स्वयत्नेन कर्तव्यं साधकेन तु ।
वस्त्रपूतेन तोयेन दद्या कूपे व पोष्करे ॥
45.469
सखायेनोपनीतेन उदकेन तु पूरयेत् ।
न तस्य स्पर्शनं कार्यं सखायेन वरानने ॥
45.470
स्पृष्टस् त्यजेन् न संदेहः साधको विधिसंस्थितः ।
श्वानमार्जारस्पृष्टं तु मूषकैर् नकुलैस् तथा ॥
45.471
अग्निम् ततो परिज्वाल्य क्षालयित्वा तु तां ग्रहेत् ।
आचम्य विधिना देवि देवागारे तु स्थापयेत् ॥
45.472
न बहि स्थापयेन् मन्त्री कदाचिद् अपि सुव्रते ।
विण्मूत्रौ तु यदा कुर्यात् सखायस्याविशङ्कितः ॥
45.473
हस्ता-श्-चैवाचमेन् मन्त्री तत्र दोषो न विद्यते ।
नद्या वाथ तडागे वा कूपे वाथ स्वभावतः ॥
45.474
न्यासं कृत्वा ततो मन्त्री देवागारं विशेद् बुधः ।
उच्छेषेकं स्वयं गृह्य दत्त्वा गोर्वरीकां ततः ॥
45.475
अन्यगर्ते तु क्षिप्तव्यं जले वा नात्र संशयः ।
निर्माल्यस्य न मध्ये तु क्षिप्तव्य चरुभोजनम् ॥
45.476
तालकेन तु क्षिप्तव्यं नियमेनैव नान्यथा ।
तालको यदि वान्यत्र क्षिपेद् उच्छेषकं प्रिये ॥
45.477
जपेद् अष्टसाहस्रं तु ततः शुद्धिम् अवाप्नुयात् ।
चरुभोजी यदा तत्र क्षिपेन् निर्माल्यमध्यतः ॥
45.478
जपेद् अष्टसाहस्रं तु नात्र कार्या विचारणात् ।
साधकेनापनीतानि तण्डुलादीनि संश्रपेत् ॥
45.479
प्रोक्षितानि तु संगृह्य स्थापयेद् देवसन्निधौ ।
न स्पृशेत् ता सखायो ऽपि स्पृष्ट्वा त्यक्त्वा विशुद्ध्यति ॥
45.480
निर्वापं स्वयं कुर्याद् गृह्यर्थैश् चापि च स्वकैः ।
भिक्षाहारेण वर्तेत सततं चरुभोजनम् ॥
45.481
अस्त्रेण प्रोक्षयित्वा तु नैवेद्यानि प्रदापयेत् ।
मन्त्रजप्ता तु गृह्णीया अथवा भैक्षेण वर्तयेत् ॥
45.482
प्रतिग्रहं न गृह्णीया भिक्षावर्तननिश्चयात् ।
एकान्नं न च भुञ्जीत त्रिस्नायी तु विधिस्थिताम् ॥
45.483
अवग्रहं न मोक्तव्यं कर्मकल्पोक्तकाद् ऋते ।
कृत्वा कल्पोक्तकादीनि पुनश् चोग्रहं आचरेत् ॥
45.484
शतं वाथ सहस्रं वा जप्तव्यं चाग्रहे थवा ।
होतव्यं च शतं वापि नित्यनैमित्तिकाद् ऋते ॥
45.485
अनेन विधिना देवि चरुभोजी तु वर्तयेत् ।
पूर्वोक्तेषु प्रदेशेषु चरुकं साधयेद् बुधः ॥
45.486
श्मशानादिषु मन्त्रज्ञ अशुद्धविधिम् आश्रितः ।
क्षेत्रस्थानेषु वा कुर्याद् योगिन्यो यत्र संस्थिताः ॥
45.487
प्रयागादिविकल्पेषु पुण्यदेशेषु वा बुधः ।
प्रत्यक्षं न च साधीत चरुकं साधकोत्तमः ॥
45.488
प्रमादे यदि दृश्येत मन्त्रस्याष्टशतं जपेत् ।
नित्यनैमित्तिकं यागं कुर्याद् वै न व्यतिक्रमेत् ॥
45.489
यथाशक्त्या न संदेहः प्रायश्चित्तम् अथान्यथा ।
दशसाहस्रिकं कुर्या नित्यनैमित्तिकौ ऋयतौ ॥
45.490
नान्ययागस् तथा क्षेत्रे कर्तव्यो वश्यकाम्यया ।
अवग्रहं न मोक्तव्यं स्वसिद्धान्तं तु मन्त्रिणाम् ॥
45.491
प्रत्यूषे न्यासम् आस्थाय निष्क्रमेत विचक्षणः ।
आवश्यकं ततः कृत्वा दन्तधावनम् आचरेत् ॥
45.492
भक्षयित्वा क्षिपेन् मन्त्री समीपे नातिदूरतः ।
प्रक्षालयित्वा तोयेन वेष्टनं तस्य कारयेत् ॥
45.493
अलक्ष्मीप्रतिघातार्थं ततश् चाचम्य विधानवित् ।
न्यासं कृत्वा मृदां गृह्य ततः स्नानं समाचरेत् ॥
45.494
एवं प्रतिदिनं कुर्याच् चरुभोजनम् एव च ।
भैरवीयं सदा भक्ष्यं नैवेद्यं पूर्वचोदितम् ॥
45.495
प्राशयित्वा ततो हुत्वा आहारं पूर्वचोदितम् ।
पल्लवोदुम्बरो ऽश्वत्थो बटस्य च न भक्षयेत् ॥
45.496
व्रतिनां पल्लवं चैव माषपत्त्रम् न भक्षयेत् ।
तिलपत्रं न चाश्नीयात् तालको ऽपि हि नित्यशः ॥
45.497
अवग्रहं न मोक्तव्यं अग्निकार्य निशासु वै ।
अनेन विधिना देवि चरुभोजी प्रसिध्यति ॥
45.498
तालको मिश्रकश् चैव प्रत्यूषे विधिम् आचरेत् ।
पवित्रवन्दनं नित्यम् उभयोर् अपि विद्यते ॥
45.499
शक्त्या चैव विशेषेण कर्तव्यं वन्दनं सदा ।
अन्यथा तु कृते तेषां प्रायश्चित्तं न संशयः ॥
45.500
मन्त्रस्याष्टशतं जप्त्वा ततो मन्त्री विशुध्यति ।
तालको यत्रत्रस्थ साधयेत् साधनैः परैः ॥
45.501
मिश्रको क्षेत्रम् आसाद्य साधयीत विचक्षणः ।
पूर्वोक्तानि च क्षेत्राणि तत्रस्थः साधयेद् बुधः ॥
45.502
कल्पोक्तादिविधिं सर्वान् तालकश् चैव मिश्रकः ।
शक्तिवर्जं न संदेहः ब्रह्मचर्य सदा भवेत् ॥
45.503
नियमस्थेन कर्तव्यं नित्यम् आमिषभोजनम् ।
नियमेन विना देवि अलाभे चामिषस्य तु ॥
45.504
प्रायश्चित्तं न वै तस्य नियमस्थः समाचरेत् ।
दशसाहस्रिकं जाप्यं कर्तव्यं नात्र संशयः ॥
45.505
आकृष्याकृष्य भुञ्जीत दिव्यकन्यां मनोरामां ।
ताभि सार्धं चरेन् मन्त्री कल्पोक्तानि पुनः क्रमात् ॥
45.506
आकृष्टा या भवेन् मन्त्रै स शक्तिं नात्र संशयः ।
कर्तव्यं मिश्रकेणैव साधकेनाविशङ्किना ॥
45.507
अथवा ब्रह्मचर्येण वर्तयेन् मिश्रकः सदाः ।
सिध्यते ह्य् अविचारेण क्षेत्रम् आश्रित्य नान्यथा ॥
45.508
आकृष्टां न तु भुञ्जीत प्रायश्चित्तं समाचरेत् ।
दशसाहस्रिकं जाप्यं कर्तव्यं मिश्रकेण तु ॥
45.509
नित्यनैमित्तिकं काम्यम् आग्रहं नैव मुञ्चति ।
काम्यं कल्पोक्तम् आचार्य पुनः चावग्रहं चरेत् ॥
45.510
पूर्वं वै यो गृहीतस् तु सिद्ध्यर्थं निश्चयः प्रिये ।
यागे जप्ये ऽथव होमे मोक्तव्यो नात्र संशयः ॥
45.511
कर्मकल्पोक्तकाले तु त्र्याह्निके ऽपि यथार्थतः ।
कर्मकल्पोक्तयागं तु कर्तव्यम् अविशङ्किना ॥
45.512
नित्यनैमित्तिकं त्यक्त्वा काम्य जाप्यं च मन्त्रिणा ।
कर्मकल्पोक्तम् आचार्य पूर्वयागे ग्रहं तथा ॥
45.513
सिद्धिहेतो गृहीतव्यं नात्र कार्य विचारणात् ।
सिद्धियागैस् तु चैवेह कर्तव्यं क्षेत्रसन्निधौ ॥
45.514
नित्यव्रतं न मोक्तव्यं मुक्त्वा कल्पोक्तविधिस् ततः ।
भिक्षाहारो महाप्रज्ञो भैक्षेण याथ वर्तयेत् ॥
45.515
एकान्नं वाथवा कुर्या स्वयमार्जितम् एव च ।
समयिनां तु गृहे भुक्त्वा प्रायश्चित्तं न विद्यते ॥
45.516
नाधिकारिगृहे भुक्त्वा मन्त्रस्याष्टशतं जपेत् ।
नियमं वा यदा कुर्यान् न भोक्तव्यं कदाचनः ॥
45.517
सर्वकाल न संदेह एकान्तं परिवर्तयेत् ।
प्रत्यक्षभोजनं चैव मिश्रको नैव कारयेत् ॥
45.518
स्वार्जितं भक्षयेन् मन्त्री मन्त्रसंस्कारशोधितम् ।
सखायेनाश्रितं भक्ष्ये असखायेन तथैव च ॥
45.519
एकान्नं भक्षयेद् यत्र दशसाहस्रिकं भवेत् ।
त्रिस्नायी नित्ययुक्तस् तु सर्वकालं विवर्तयेत् ॥
45.520
यदा स्वस्थश् शरीरेण नातुरो स्नानम् आचरेत् ।
भस्मस्नानेन वर्तेत मन्त्रस्नानम् अथापि वा ॥
45.521
न स्पर्शं केनचित् कुर्यात् सहसा वापि नित्यशः ।
कदाचिन् मिश्रको देवि कर्मयोगेन नित्यशः ॥
45.522
तालमार्गम् अवाप्नोति यदा शुद्धः प्रजायते ।
आदेशेन तु कर्तव्यस् तालमार्गे न संशयः ॥
45.523
आदेशेन विना देवि शुद्धो ऽपि हि न कारयेत् ।
आदेशं तु विजानीयाद् यदासौ लक्षणान्वितः ॥
45.524
उपतिष्ठे स्वयं शक्तिः आदिष्टा शक्तिचोदिता ।
पुष्पकाले भवेन् नित्यं फलं यस्य न संशयः ॥
45.525
समयी भक्तिसम्पन्ना यदा तस्य प्रजायते ।
तदा देवि विजानीयाद् आदेशो मम नान्यथा ॥
45.526
योगिभिर् कथितो ऽप्य् एवं तदा मन्त्री विलक्षयेत् ।
नैवेद्यं भक्षयेन् नित्यं भैरवीयं न संशयः ॥
45.527
अर्घपात्रोदकं चैव प्राशयित्वान्न चाचमेत् ।
शुद्ध्यर्थे चैव रक्षार्थे पूर्वसूत्रेण चोदितम् ॥
45.528
अनेन विधिना वर्तेत मिश्रको नात्र संशयः ।
लक्षणं त्रिविधस्यापि अधिकारश् च कीर्तितः ॥
45.529
विधिस् तेषां समाख्यातो येन सिध्यन्ति नान्यथा ।
स्वयोनिदर्शनं कार्यं तालकेन न संशयः ॥
45.530
वक्ष्यामि साम्प्रतम् देवि शृणुष्वेकाग्रमानसा ।
कदाचित् कर्मबन्धैस् तु अन्यजम्मेषु-व्-अर्जितैः ॥
45.531
विबन्धकैर् न सिध्येत तदायं विधिम् आचरेत् ।
मिश्रकेणापि कर्तव्यं परसिद्धिजिगीषिणाम् ॥
45.532
आकृष्याकृष्य मन्त्रैस् तु दिव्यकन्यां मनोरामाम् ।
स्नानपूर्वः प्रविश्याथ कृतन्यासस् तथैव हि ॥
45.533
सर्वयागांस् तथा कृत्वा कलशादिसमन्वितम् ।
अग्नेश् च तर्पणं कृत्वा नैवेद्यानि प्रदापयेत् ॥
45.534
पुनस् तर्पणकं कृत्वा होमं चैव यथेप्सया ।
देवीनाम् अग्रत स्थित्वा प्रणवासनम् आश्रितम् ॥
45.535
दक्षिणाभिमुखो भूत्वा मुक्तकेशो दिगम्बरः ।
शक्तिं ततो ऽग्रतः स्थाप्य मुक्तकेशी दिगम्बराम् ॥
45.536
ऊर्ध्वरूपां तथास्त्रेण पीठं तस्या प्रमार्जयेत् ।
सुगन्धैर् लेपयेत् गन्धैर् अन्यैर् वा चन्दनादिभिः ॥
45.537
यागं पीठे न्यसेन् मन्त्री आसनादिपुरह्सरम् ।
ततो गन्धैश् च पुष्पैश् च धूपैश् चैव यथाक्रमम् ॥
45.538
पूजयित्वा तु मन्त्रज्ञो मुद्रां बद्ध्वा यथाक्रमम् ।
नाडीसंधानकं कृत्वा पीठयागे वरानने ॥
45.539
आत्मानं तत्र संयोज्य साधको ध्याननिश्चलः ।
अक्षसूत्रं गृहीत्वाथ जपं तद्भूतमानसः ॥
45.540
यथेष्टासनम् आस्थाय चलने नास्ति यन्त्रणा ।
यथाशक्त्या जपं कुर्याच् छ्रान्तश् चैव यदा भवेत् ॥
Sanskritbeleg: Kiss 2015, Sanskritedition S. 165 (45.540–543).
45.541
स्वतन्त्र वादयेन् मन्त्री स्तवं च पठते बुधः ।
वीणां वा वादये ज्ञानी गेयवादेन चाश्रितम् ॥
Sanskritbeleg: Kiss 2015, Sanskritedition S. 165 (45.540–543).
45.542
विनोदेन क्लमं त्यक्त्वा पुनर् न्यासं तथैव हि ।
कृत्वा पीठे जपेन् मन्त्री हृद्यागादिपुरह्सरम् ॥
Sanskritbeleg: Kiss 2015, Sanskritedition S. 165 (45.540–543).
45.543
आत्मानं तत्र संयोज्य मीलिताक्षो न संशयः ।
यावच्छक्त्या जपं कुर्यात् पुनः श्रान्तो विमुञ्चति ॥
Sanskritbeleg: Kiss 2015, Sanskritedition S. 165 (45.540–543).
45.544
आवश्यकानि तत्रैव नात्र कार्य विचारणात् ।
पुनर् विनोदम् आस्थाय पुनर् जाप्य समारभेत् ॥
45.545
श्रान्तश् चैव क्लमं त्यक्त्वा सह दूत्या महाधियः ।
मध्याह्निके ततः प्राप्ते उपलेपनपूर्वकम् ॥
45.546
पुनर् यागं यजेन् मन्त्री होम स्वल्पं समाचरेत् ।
मन्त्रस्याष्टशतं चैव पूर्व होमस्य कारयेत् ॥
45.547
नैवेद्यादीनि दर्शयेत् कश्चित् प्रेषयते पुनः ।
बहिर् मुक्त्वा व्रजेत् प्राज्ञः समयज्ञः सखायकृत् ॥
45.548
अदर्शी दूतिका कार्या ततस् ता विनिवेदयेत् ।
अनेनैव विधानेन द्वितीयाह्निकम् आचरेत् ॥
45.549
तृतीये सवने प्राप्ते यागं कृत्वा यथाविधिः ।
नैवेद्यानि ततो दत्त्वा अष्टोत्तरशतं जपेत् ॥
45.550
होमस्याष्टशतं चैव कृत्वा देव्याग्रतः स्थितः ।
तेनैव क्रमयोगेन पीठे यागं तथा यजेत् ॥
45.551
भूम्यां तथासनं कृत्वा शक्तिं विशापयेत् ततः ।
चुम्बनालिङ्गनं कृत्वा पीठस्य च विशेषतः ॥
45.552
क्षोभयित्वा तु तां शक्तिं द्रव्यं प्राश्य महामति ।
द्रव्यं गृह्य ततः स्पृश्य अथ यागं पुनर् यजेत् ॥
45.553
तेनैव क्रमयोगेन जपं कुर्यान् न संशयः ।
पुनर् विनोदम् आस्थाय ईषित् स्वप्न समाचरेत् ॥
45.554
यानि निद्रा भवेत् तस्य निद्राभावे तथैव च ।
न्यासं कृत्वा पुनर् मन्त्री ध्यायीत जपम् आचरेत् ॥
45.555
अर्धरात्रे ततः प्राप्ते पुनर् यागं समारभेत् ।
सर्वाह्निकेषु नैवेद्यं दापयेन् नात्र संशयः ॥
45.556
एवं दिनत्रयं कुर्यात् साधकः सुसमाहितः ।
पूजां नापनयेन् नित्यं स्नानं नैव समाचरेत् ॥
45.557
आत्मनो देवतानां च अग्ने च कलशस्य च ।
पुष्पाणि दापयेन् मन्त्री उपविष्टा न संशयः ॥
45.558
अवश्यके ऽपि शुद्धात्मा शौचं नैव समाचरेत् ।
एवं दिनत्रये पूर्णे आत्मानं पश्यते ततः ॥
45.559
जन्मे जन्मे तु या जातिम् त्रिजन्मम् याव नान्यथा ।
स्वरूपं पश्यते तत्र निजयोनिषु दर्शने ॥
45.560
दृष्ट्वा निष्क्रमते मन्त्री स्नानं तोयादिपूर्वकम् ।
मध्याह्निकं तु वै कृत्वा ततो भोजनम् आरभेत् ॥
45.561
पूर्वोक्तेन विधानेन सह दूत्या महामतिः ।
एकान्ते विजने देशे त्रिस्नायी नक्तभोजनः ॥
45.562
निजयोनिं तथा ज्ञात्वा प्रायश्चित्तं समारभेत् ।
मृगपक्षिविरालादिगोजातिश्वाशृगालयोः ॥
45.563
शशकः शल्यकः गोधा वृकाणां कच्छपस्य च ।
मकरादीनि सर्वेषां अष्टोत्तरशतं जपेत् ॥
45.564
हस्त्यश्वगर्दभादीनां गण्डकव्याघ्रयोर् अपि ।
चमरीगवयादीनां सिंह-र्-क्षादिकां तथा ॥
45.565
व्यालस्य वानरस्यैव शरभस्य वरानने ।
उष्ट्रकस्य तु चित्रस्य विजकादिषु चैव हि ॥
45.566
गोनासाजगरादीनां दीपका अहिलेण्डुकां ।
एवमादीनि चान्यानि जपेद् अष्टसहस्रकम् ॥
45.567
क्षत्रियस्य भवेत् पञ्च सहस्राणि न संशयः ।
वैश्यस्य अयुतं कुर्याच् छूद्रस्यैवायुतार्धकम् ॥
45.568
कैवर्तलोब्धकल्चालचर्मकराथ कन्दुका ।
श्वपाका तैलिकानां च †सिन्थकारक† शौचकम् ॥
45.569
व्याधः खट्टिक†च्छिष्याक†नापितानां च योनिषु ।
लोहसुवर्णकाराणां छेलकानां च योनिषु ॥
45.570
वेश्यायोनौ यथा देवि दशसाहस्रिकं जपेत् ।
चण्डाल†बुकसानां† च भिल्लानां शबरादिनाम् ॥
45.571
पुलिन्दानां तथा चैव मालानां चैव योनिषु ।
पञ्चसाहस्रिकं जाप्यं कृत्वा तत्रैव शुध्यति ॥
45.572
जपव्रत विशुद्धस् तु दीक्षासंस्कारशोधितः ।
समयघ्नो ऽथ मानुष्ये यदा योन्यां प्रजायते ॥
45.573
एवं ज्ञात्वा न संदेहः कल्पोक्तं तु समाचरेत् ।
स्वयोनिदर्शने देवि जन्मत्रितयसूचके ॥
45.574
विधिर् एष मया प्रोक्ता सप्तजन्मस्मृतिं शृणु ।
शक्तिम् आदितः कृत्वा षट्नार्यांश् चापरांस् तथा ॥
45.575
अधिकारिण्यस् तैः सार्धं स्नात्वा देवगृहं विशेत् ।
रक्ताम्बरोत्तरीया तु सखाया ताभिर् आवृतः ॥
45.576
तादृग्विधाभि मन्त्रज्ञो दक्षिणाभिमुखः स्थितः ।
पुरतः पङ्क्त्यां कृत्वा शक्त्याद्याश् चोर्ध्वसंस्थिताः ॥
45.577
पीठानि मार्जयित्वा तु चन्दनादिषु लेपयेत् ।
आसनादि तथा कृत्वा यथावत् तान् निवेशयेत् ॥
45.578
हृद्यागादिं ततः कृत्वा सर्वैः सार्धं तु साधकः ।
न्यासं यागं ततः कृत्वा कलशादि विकल्पयेत् ॥
45.579
ततस् तर्पणकं कृत्वा नैवेद्यानि तु दापयेत् ।
पुनस् तर्पणकं कृत्वा शक्त्या होमं समाचरेत् ॥
45.580
आगत्य देव विज्ञाप्य यागं चैव निवेदयेत् ।
समर्पयित्वा देवाय आसाम् अग्रे व्रजेत् पुनः ॥
45.581
पूजयित्वा तु तां सर्वां गन्धपुष्पादिभिः क्रमात् ।
पीठन्यासं तु पूर्वोक्तं यथावत् सम्प्रकल्पयेत् ॥
45.582
गन्धधूपं ततो दद्यात् पुष्पाणि च न संशयः ।
ततः सम्पूज्य विधिवद् ऊर्ध्व स्थाप्य यथाक्रमम् ॥
45.583
स्वशक्त्याग्रे स्थितो मन्त्री जपं तत्र समारभेत् ।
यथाशक्त्या जपं कृत्वा शक्तिं तां क्षोभयेत् ततः ॥
45.584
तं द्रव्यं प्राशयित्वा तु सर्वैस् सार्धं महामति ।
तेन द्रव्याणि सम्प्रोक्ष्य पुनर् यागं यजेद् बुधः ॥
45.585
पुनर् आगत्य तत्रैव जपं कुर्यात् तथैव हि ।
पुनर् द्वितीये सवने तथा पीठानि लेपयेत् ॥
45.586
यागं तादृग्विधं चार्य पूर्वपूजोपरि-स्-तथा ।
तासाम् अग्रे ततः स्थित्वा पीठन्यासानि कारयेत् ॥
45.587
द्वितीयाग्रतः स्थित्वा जपं शक्त्यथ कारयेत् ।
जपं समर्पयित्वा तु द्वितीया क्षोभयेत् ततः ॥
45.588
पुनर् द्रव्यं तथा प्राश्य पूजां कृत्वा तथैव हि ।
पूर्वोक्तेन विधानेन शान्तः शान्तः पुनः पुनः ॥
45.589
जपं तथा कृत्वा आह्निकाद् आह्निकं बुधः ।
परिपाट्या तथा क्षोभ्या आह्निके आह्निके क्रमात् ॥
45.590
एवं सप्तदिनं यावन् नक्ते नैवेद्यप्राशने ।
तृषितस् तु पिबेद् वारि स्वल्पम् अल्पं तु पूजया ॥
45.591
सप्ताह्ने नित्ययुक्तस् तु प्रति प्रति न संशयः ।
तृतीय दिवसारभ्य स्वयोनौ पश्यते तु सः ॥
45.592
सप्तजन्मान्तिकं दृष्ट्वा निष्क्रमेत विचक्षणः ।
पूर्वोक्तानि तथा चैव प्रायश्चित्तानि कारयेत् ॥
45.593
कल्पोक्तं साधकं कुर्यात् सिद्ध्यर्थं नात्र संशयः ।
सिद्धियागं ततः कुर्या चादेशेन तु नान्यथा ॥
45.594
आदेशेन विना देवि सिद्धियागं न कारयेत् ।
वर्तयेत् पूर्वसूत्रेण नित्यनैमित्तिकादिभिः ॥
45.595
काम्ये यागश् च मन्त्रज्ञो यावद्-ए-श्रेयम् आप्नुयात् ।
स्वयोनिदर्शने देवि तालमिश्रक-म्-आश्रितम् ॥
45.596
अनेन प्राक्तनं कर्म शोधयित्वा विशुध्यति ।
स्वयोनिदर्शने चैव साधकस्य परं शृणु ॥
45.597
शुद्धाशुद्धाश्रितं चैव अणिमादिफलप्रदम् ।
नार्यष्टक समाहृत्य शक्त्याद्या भक्तिवत्सला ॥
45.598
श्रद्दधानाधिकारी च निर्लज्जा निघृणास् तथा ।
भूगृहं शोधनं कृत्वा स्नानगृहसमन्वितम् ॥
45.599
तत्रैव कारयेन् मन्त्री पादप्रक्षालनादिकम् ।
आहारं च प्रवेश्याथ षण्मासस्य तु कारणा ॥
45.600
प्रवेश्यो चोदकं चैव षण्मासं स्नानपादयोः ।
बुकपुष्पाणि वै मन्त्री रथ्यानैर्माल्यम् एव च ॥
45.601
मृतनिर्माल्यं प्रविश्याथ पूजार्थं सर्वदा शुचिः ।
सौवर्णान्य् अथ पुष्पाणि कुर्याद् रौप्याणि वा प्रिये ॥
45.602
प्रवेशये महाप्रज्ञः पूजार्थं नात्र संशयः ।
गन्धां प्रवेशयेच् चैव चन्दनादिषु सुव्रते ॥
45.603
खण्डखाद्यानि भक्षाणि लडुकाशोकवर्तयः ।
प्रवेशयेन् महासत्त्व षण्मासस्यैव कारणा ॥
45.604
प्रस्तराणि प्रवेश्याथ ईषित् स्वापाय सुव्रते ।
आसनानि प्रवेश्याथ तूलकेन भृतानि तु ॥
45.605
मृदूनि सुकुमाराणि उच्चानि च शुभानि च ।
सर्पिं प्रवेशयित्वा तु दीपतैलादिकं क्रमात् ॥
45.606
दीपकं ज्वालयेन् नित्यं विरामं न च कारयेत् ।
विरामिते प्रदीपे तु प्रायश्चित्तं समाचरेत् ॥
45.607
लक्षपादं जपेन् मन्त्री नात्र कार्य विचारणात् ।
नाग्नि प्रवेशयेत् तत्र सकृ ज्वाल्य प्रवेशयेत् ॥
45.608
दीपकं नात्र संदेहस् तेन तं न विरामयेत् ।
योगपट्टकृताङ्गाभि दिग्वासाभिस् तथैव च ॥
45.609
रक्तवासोत्तरीयाभिर् मुक्तकेशाभिर् आवृतः ।
प्रविशेत् साधको धीरस् तादृग्भूतो न संशयः ॥
45.610
स्नात्वा पूर्वेण विधिना ताभिः सार्धं वरानने ।
कृतन्यासो न संदेहो नार्यष्टकविभूषितः ॥
45.611
मध्ये तु भूगृहस्याथ गुप्तवेश्मनि वा तथा ।
धवलगृहस्य मध्ये वा द्वार रोध्य न संशयः ॥
45.612
दक्षिणाभिमुखो भूत्वा आसने पूर्वचोदिते ।
उपविश्य ततो मन्त्री शक्ति पूर्वेण विन्यसेत् ॥
45.613
सम्मुखा प्रथमा तस्य द्वितीया दक्षिणे न्यसेत् ।
तृतीया पश्चिमे भागे चतुर्थी चोत्तरे न्यसेत् ॥
45.614
आग्नेये पञ्चमी चैव षष्ठिका नैरृते तथा ।
सप्तमी वायुदिग्भागे ईशाने चाष्टमी न्यसेत् ॥
45.615
एवं दिक्षु विदिक्षुश् च आसनं संन्निवेशयेत् ।
अग्रे मण्डलकं कृत्वा यागं तत्र प्रकल्पयेत् ॥
45.616
पूर्वोक्तेन तु मार्गेण हृद्यागादिपुरह्सरम् ।
कलशादिसमोपेतम् अग्निस्-तर्पणवर्जितम् ॥
45.617
इष्ट्वा यागं यथान्यायं नैवेद्यानि प्रदापयेत् ।
स्वशक्त्या साधको नित्यं यथाविभवसम्भवम् ॥
45.618
मुद्रां चैव यथान्यायम् अर्घं चैव प्रदापयेत् ।
पूर्वासने निविष्टानां पीठन्यासं तु कारयेत् ॥
45.619
ततो गन्धैश् च पुष्पैश् च धूपैश् चैव यथाक्रमम् ।
पीठे यागं तु सर्वासां कृत्वा क्षोभम् समारभेत् ॥
45.620
पूर्वदिग्भागसंस्थाया स्वशक्त्या प्रथमं बुधः ।
क्षोभं कृत्वा तु तद्द्रव्यं सर्वैः सह समाचरेत् ॥
45.621
स्पृष्ट्वा यागं पुनः पूज्य अर्घयित्वा यथाक्रमम् ।
निवेदयित्वा देवाय यागं विज्ञाप्य मन्त्रवित् ॥
45.622
अनेन देवयागेन सिद्धिर् भवतु मे ऽनघ ।
अक्षसूत्रं ततो गृह्य पूर्वाभिमुखसंस्थितः ॥
45.623
पीठे आत्मान संयोज्य निमीलिताक्ष न संशयः ।
यथाशक्त्या जपं कुर्या पूर्वमार्गेण साधकः ॥
45.624
जपं समर्पयित्वा तु संख्यायुक्तं तु पूर्ववत् ।
पूर्वोक्तैस् तु विनोदैस् तु मिश्रके साधकोत्तमः ॥
45.625
पुनर् न्यासं तथा कृत्वा पीठेषु ह्य् आत्मणेषु च ।
पुनर् जपेद् यथाशक्त्या पुनः संख्या समर्पयेत् ॥
45.626
द्वितीये सवने प्राप्ते उपलेपनपूर्वकम् ।
तूरं प्रक्षालयित्वा तु पुनः यागं समारभेत् ॥
45.627
तेनैव क्रमयोगेन शक्ति क्षोभ्य ऽथ दक्षिणे ।
पुनर् जपं यथाशक्त्या कृत्वा वै साधकोत्तमः ॥
45.628
तेनैव क्रमयोगेन नात्र कार्य विचारणात् ।
तृतीयसवनं कृत्वा शक्ति क्षोभ्य ऽथ पश्चिमे ॥
45.629
चतुर्थे चोत्तरां क्षोभ्य तन्मुखो जपम् आचरेत् ।
या शक्ति क्षोभयेन् मन्त्री ध्यानजप्यस् तु तन्मुखः ॥
45.630
आग्नेयी पञ्चमी क्षोभ्य षष्ठे नैरृतिकी तथा ।
सप्तमी वायुदिग्भागे अष्टमी ईशगोचरे ॥
45.631
एवं क्रमविभागेन क्षोभं कृत्वा तथाह्निकम् ।
नक्तभोजी सदा मन्त्री नैवेद्यं भक्षये तदा ॥
45.632
ताभि सार्धं न संदेह एकत्रैव विधिस्थितः ।
स्वयोनिदर्शनं दृष्ट्वा अष्टजन्मान्तिकम् बुधः ॥
45.633
प्रायश्चित्तं तथा कृत्वा कल्पोक्तं वा यद् आगतम् ।
तेनैव क्रमयोगेन वर्तयेत् साधकोत्तमः ॥
45.634
प्रत्याहा नात्र संदेहः षण्मासं याव नान्यथा ।
क्वचित् स्नानं प्रकुर्वीत सार्धम् एकाकिनो ऽपि वा ॥
45.635
विण्मूत्रौ तु यदा कुर्याच् छौच नैव विधिस्थिते ।
पञ्चमुद्राव्रतिनां च ताभिः सार्धं समाचरेत् ॥
45.636
चतुर्थात् पश्चिमं-पक्षे पञ्चमा प्रथमा तथा ।
मासाद् विघ्नानि जायन्ते महारौद्राणि सुव्रते ॥
45.637
तान् दृष्ट्वा तु न भेतव्यं प्राणैर् कण्ठगतैर् अपि ।
सर्पं भयानकं पश्ये खादयन्न् इव भीषणम् ॥
45.638
विडालं पश्यते तीव्रं द्रंष्ट्राविकृतरूपिणां ।
तां दृष्ट्वा तु न भेतव्यं न च कर्म प्रमादयेत् ॥
45.639
मूषकं तु महाघोरां पश्यते विघ्नरूपिणाम् ।
पूजां क्षिपन्ति चाकृष्य शरीरे चारुहन्ति च ॥
45.640
न क्षिपेन् न च भेतव्यं न च कोपम् समाचरेत् ।
उत्तिष्ठोत्तिष्ठशब्दानि खादयामीति भाषयेत् ॥
45.641
एवं शब्दाः प्रजायन्ते न भेतव्यं तु तैस् ततः ।
बहि शब्दाः प्रजायन्ते नानारूपा वरानने ॥
45.642
हन हनेति व्याहाराणि क्षिपाकृष्य च दुर्मति ।
अश्वखुररवो भीम हेषाशब्दः सुदारुणाः ॥
45.643
उत्तिष्ठोत्तिष्ठ दुर्बुद्धे राजादेशेन नीय मे ।
तां श्रुत्वा तु न भेतव्यं ध्यानचिन्तं न चालयेत् ॥
45.644
विकरालानि रूपाणि व्यावृतानि तु साधकः ।
लेलिह्यमानो जिह्वाभिः शक्त्याद्या दन्तिवत् प्रिये ॥
45.645
तां दृष्ट्वा तु न भेतव्यं ताभि सार्धं तु मन्त्रिणाम् ।
अर्घं तेषां प्रदातव्यं मनसा वा प्रपूजनम् ॥
45.646
विलीयन्ते न संदेहः सत्त्वं विज्ञाय साधके ।
प्रत्यहं क्रियमाणे तु जायन्ते प्रत्ययास् तथा ॥
45.647
अन्तर्धानादिका देवि उत्तमासिद्धिकाङ्क्षिणा ।
वर्तिस् तस्य प्रदर्श्येत-त्-सिद्धैस् त्रैलोक्यव्यापिनी ॥
45.648
षण्मासे तु ततः पूर्णे देव्यः प्रत्यक्षतां ययु ।
विकरालेन रूपेण न भेतव्यं तु मन्त्रिणा ॥
45.649
अणिमादिगुणैश्वर्यं तदा तस्य प्रजायते ।
मन्त्रा किङ्करतां यान्ति तदा देवि न संशयः ॥
45.650
ह्रीक्षमात्रम् अशेषं तु त्रैलोक्यम् पश्यते तु सः ।
स्वयोनिदर्शनं देवि त्रिधावस्थः प्रकीर्तितः ॥
45.651
हिताय साधकेन्द्राणां खेचरत्वजिगीषिणाम् ।
सर्वयागप्रपन्नानां विधिर् एषः प्रकीर्तितः ॥
45.652
त्रिधा भिन्नं महादेवि सिद्ध्यर्थं साधकेच्छया ।
तालको मिश्रकश् चैव विधिनात्र समाचरेत् ॥
45.653
चरुभोजी न वै कुर्या ब्रह्मचर्यरतः सदा ।
तालको मिश्रकश् चैव न शौचं कारयेत् क्वचित् ॥
45.654
पङ्क्त्यर्थं तु यदा कुर्या दर्शये न च तं तथा ।
तालके मिश्रके चैव एकान्ते भोजनं हितम् ॥
45.655
अथवा नगरे ग्रामे रथ्यायां गोपुरेषु च ।
भक्षान्तरितं सदा गच्छे तयो दोषा न विद्यते ॥
45.656
चतुष्केणापि कर्तव्यं निजयोनिषु दर्शनम् ।
पूर्वोक्तेन विधानेन शोभनाभिः समावृतः ॥
45.657
स्वयोनिदर्शने चैव साधनं तत्र कारयेत् ।
चतुजन्मोद्भवां दृष्ट्वा पूर्वसूत्रं समारभेत् ॥
45.658
सिद्धिस् तथाष्टके चैव कर्तव्या साधकेन तु ।
योनिदर्शनमात्रं तु सप्तकादिषु जायते ॥
45.659
अष्टके ज्ञानस्योत्पत्ति प्रत्यहं नात्र संशयः ।
आकृष्य सर्वभूतानां रूपान्यत्वम् अवाप्नुयात् ॥
45.660
वीरो भवति सो देवि योगिनीपरिवारितः ।
कौलिको ऽयं विधिः प्रोक्तः साधकानां हिताय वै ॥
45.661
चतुर्विधो मया देवि निजयोनिप्रदर्शने ।
कुलक्रमेण वै देवि तालको मिश्रकस् तथा ॥
45.662
आचरेन् नात्र संदेहस् तत्र स्थित्या महामति ।
चरुभोजी न कुर्यायं विधि योनिप्रदर्शने ॥
45.663
ब्रह्मचर्यरतो नित्यं योनिशो हि न संशयः ।
न च चर्याविधाने ऽपि भक्षं भ्रमणम् आचरेत् ॥
45.664
शौचं तु साधकः कुर्याद् यथा आवश्यके शृणु ।
त्रीणि लिङ्ग मृदा देया नव चैव गुदा स्मृताः ॥
45.665
वामहस्ते चतुर्विंशद् उभौ चैव चतुर्दशः ।
एतच् छौचं महादेवि अशुद्धस्य न संशयः ॥
45.666
नाशुद्धस् संत्यजेद् वामयागकाले ऽपि नित्यशः ।
न च मुक्तशिखो भूत्वा किंचिद् वस्तु समाचरेत् ॥
45.667
न च यज्ञोपवीतं त्यज्य-म्-उच्छिष्टो यागम् आचरेत् ।
त्रिस्नायी अथ शुद्धात्मा भस्मस्नानम् अथापि वा ॥
45.668
मन्त्रस्नानं सदा कृत्वा भस्मस्नानं समाचरेत् ।
मानसं च तथा कुर्या ज्ञात्वा विषयपाटवा ॥
45.669
भस्मस्नानेन वर्तेत यदा नोपहतो भवेत् ।
उपहतस् तु जलस्नानं कृत्वा भस्मिकम् आचरेत् ॥
45.670
भस्मस्नाने ऽपि कर्तव्यं मन्त्रस्नानं तु साधकैः ।
जपकाले तु सम्प्राप्ते वातकर्मकृते तथा ॥
45.671
निष्ठीवनं न कर्तव्यं मानसं चरुभोजिनाम् ।
मानसं तत्त्वम् आस्थाय ततः स्नानं समाचरेत् ॥
45.672
सकृद् दण्डकन्यासं च मन्त्रम् उच्चार्य साधकः ।
सकृद् उच्चार्य हृद्यागं ततो जाप्यं समाचरेत् ॥
45.673
भस्मस्नानं सदा कार्यं वन्दनं वा क्रियायुते ।
तालकेणापि मिश्रेण कर्तव्यं सिद्धिकाङ्क्षिणाम् ॥
45.674
क्षेत्रभस्मं सदा शस्तं त्रिविधे ऽपि हि साधके ।
अग्निकुण्डे तथा शस्तं कौभारा वाथ लाभतः ।
आरण्यके-त्-तत्देष्टानां गृहे वा नात्र संशयः ॥
Kolophon
॥ इति ब्रह्मयामले द्वादशसाहस्रके साधकाधिकारपटलः पञ्चचत्वारिंशतिमः ॥
Kapitel 46: Der Ort des Mahamanthana-Ritus – 46.3
Textgrundlage: Hatley 2025; genaue Fundstelle beim Vers.[4]
46.3
गत्वा निशि श्मशानन् तु यागोपस्करसंभृतः ।
सखायैस् शोभनैर् युक्त एको वाथ महाव्रतः ॥
Sanskritbeleg: Hatley 2025, S. 86, Anm. 23.
Kapitel 48: Die Grube der Vollendung – Garttayaga
Textgrundlage: Shaman Hatley: „Horror and Wonder in a Putrid Trench: The Brahmayāmala’s ‘Rite of the Pit of Power’ (siddhigarttāyāga)“, Asian Literature and Translation 12/1, 2025, S. 80–98; Sanskritedition und Übersetzung S. 86–96, Editionsprinzipien S. 85.[4]
Dieses Kapitel wird mit allen 36 Originalnummern wiedergegeben. Es schildert eine extreme Kāpālika-Observanz auf einer Verbrennungsstätte: Der Sadhaka verweilt in einer mit unreinen Stoffen gefüllten Grube, rezitiert die Vidya und erwartet die Begegnung mit Aghori und den Müttern. Die historische Textausgabe bewahrt diesen Zusammenhang; das Kapitel gehört nicht zur begleitenden Praxisauswahl.
Die Kapitelzahl folgt dem ausgeschriebenen Sanskritkolophon (aṣṭacatvāriṃśatimaḥ, „achtundvierzigster“) und Hatleys Handschriftenübersicht von 2018, S. 515. Der Aufsatz von 2025 nennt im Abstract und im englischen Kolophon sowie als Ziffer hinter dem Sanskritkolophon dagegen 46; seine Einleitung ordnet den Grubenritus Kapitel 48 zu. Die widersprüchliche Schlussziffer der Vorlage bleibt unten sichtbar. Blatt- und Zeilenangaben innerhalb der gedruckten Verse sind editorische Lokalisierungen und werden nicht als Sanskritwörter übernommen. Konjekturen der Ausgabe sind hier zusätzlich unterstrichen.
48.1
अथातः सम्प्रवक्ष्यामि सिद्धिगर्त्तां सुशोभनाम् ।
यां कृत्वा तु महासत्वो त्रैलोक्यं साधयेत् क्षणात् ॥
Sanskritbeleg: Hatley 2025, S. 86.
48.2
पूर्व्वोक्तचोदिते स्थाने तत्र गर्त्तां सुशोभनाम् ।
खानयेत् स्वप्रमाणेन ततस् तां शोधयेद् बुधः ॥
Sanskritbeleg: Hatley 2025, S. 86.
48.3
शोधयित्वा महागर्त्तां साधकस् त्र्यहपोषितः ।
ततो यागं प्रकुर्व्वीत तस्मिं गर्त्ते महार्ण्णवे ॥
Sanskritbeleg: Hatley 2025, S. 87.
48.4
पूर्व्वोक्तेनैव मार्गेण बलिहोमञ् च कल्पयेत् ।
पुनश् चार्घम् प्रदातव्यं कपाले पूर्व्ववद् बुधः ॥
Sanskritbeleg: Hatley 2025, S. 87.
48.5
ततः एकमनो भूत्वा साधकः सुसमाहितः ।
अनुज्ञा दद मे देवि सिद्धिगर्त्ता ममाम्बिके ॥
Sanskritbeleg: Hatley 2025, S. 87.
48.6
ततो पूरयित्वा ताञ् च पञ्चगव्येन शोभने ।
पिचु मद्या तथा मान्सं स्नायु पित्तं तथैव च ॥
Sanskritbeleg: Hatley 2025, S. 88.
48.7
गोमूत्रं गोमयं चैव दधिक्षीरघृतन् तथा ।
गोमान्सं नरमान्सञ् च शुनेश् चैव यथेप्सया ॥
Sanskritbeleg: Hatley 2025, S. 88.
48.8
गृह्णयेत् फल्गुषं प्राज्ञः प्राणिनां मनसेप्सितम् ।
एवन् तां पूरयेद् गर्त्तां साधकः सुसमाहितः ॥
Sanskritbeleg: Hatley 2025, S. 88.
48.9
गोचर्म्म प्रावरित्वा तु हस्तिचर्म -म्- अलाभतः ।
मुद्राष्टकं ततो बध्वा नमस्कृत्वा तु भैरवम् ॥
Sanskritbeleg: Hatley 2025, S. 88.
48.10
अट्टहासं शिवारावं घण्ठाडमरुवादनम् ।
पिञ्च्छकं भ्रामयेत् पश्चान् महाव्रततनुस्थितः ॥
Sanskritbeleg: Hatley 2025, S. 89.
48.11
प्रविशेत महागर्त्तां पिचुमद्यासुपूरिते ।
स्मृत्वा देवी महावीर्या अघोरी भीमविक्रमा ॥
Sanskritbeleg: Hatley 2025, S. 89.
48.12
सूर्यकोटिप्रतीकाशा कुण्डमध्ये विचिन्तयेत् ।
निःशङ्को निर्घृणो भूत्वा विद्यां स्मृत्वा विशेद् गिरि ॥
Sanskritbeleg: Hatley 2025, S. 89.
48.13
ततो जपेत विद्याम् वै अवधूततनुस्थितः ।
मूत्रपुरीष†म् आपेक्षा† न तिष्ठेद् अन्यथा क्वचित् ॥
Sanskritbeleg: Hatley 2025, S. 89.
48.14
दिनम् एकं याव तिष्ठेत सर्व्वपापैः प्रमुच्यते ।
द्विभिस् तु जायते तस्य मन्त्रसिद्धिः मनेप्सिता ॥
Sanskritbeleg: Hatley 2025, S. 90.
48.15
वश्याकर्षविधानञ् च साधयेत तृभिर् दिनैः ।
पूतना मातृसहिताश् चतुर्थे पश्यते ध्रुवम् ॥
Sanskritbeleg: Hatley 2025, S. 90.
48.16
पञ्चमे -म्- अर्द्धरात्रे तु यक्षा नागाश् च कर्षते ।
समुद्रां स्तम्भये चान्यं मृत्युश् चैव निवर्त्तते ॥
Sanskritbeleg: Hatley 2025, S. 90.
48.17
षट्भिस् तु साधयेद् योगी फलाकर्षञ् च गुह्यकाम् ।
सप्ताहं याव तिष्ठेत आकाशे पश्यते सुराम् ॥
Sanskritbeleg: Hatley 2025, S. 91.
48.18
सिद्धानि विविधाञ् चैव दिव्यभाषां शृणोति च ।
पूर्व्वोक्तानि तु विघ्नानि जायन्ते नात्र संशयः ॥
Sanskritbeleg: Hatley 2025, S. 91.
48.19
सर्व्वास् ता घातये देवि पूर्व्वोक्तास्त्रेण विद्यया ।
निर्विशङ्कमनो भूत्वा -द्- अनिवर्त्तपदे स्थितः ॥
Sanskritbeleg: Hatley 2025, S. 91–92.
48.20
साधयेन् मां त्वया सार्द्धं किम् अन्यैर् भूतनायकैः ।
अष्टमे पश्यते च्छायाम् अघोर्याया तु साधकः ॥
Sanskritbeleg: Hatley 2025, S. 92.
48.21
एवन् ददति सा तुष्टा साधु वत्स वरं वृणु ।
पृथ्वीशं वामरत्वञ् च पातालोत्तिष्ठम् एव च ॥
Sanskritbeleg: Hatley 2025, S. 92.
48.22
गगनाङ्गनचारित्वम् अद्रेश्यं रसरसायणम् ।
चिन्तामणि तथा खड्गं पादुका रोचनाञ्जनम् ॥
Sanskritbeleg: Hatley 2025, S. 92.
48.23
अथ किम् बहुनोक्तेन क्रीडयस्व मनेप्सितम् ।
ततः एकमनो भूत्वा अर्घयेत महाप्रभुम् ॥
Sanskritbeleg: Hatley 2025, S. 92.
48.24
याचयेत महादेवि वरम् एकं मनेप्सितम् ।
अथ वा यदि नेच्छेत वीराष्टपदकांक्षिणः ॥
Sanskritbeleg: Hatley 2025, S. 93.
48.25
प्रसादं मे महादेवि नमस्कृत्वा पुनः पुनः ।
दिने तु नवमे तस्य यद् भवे तन् निबोध मे ॥
Sanskritbeleg: Hatley 2025, S. 93.
48.26
उत्तिष्ठति महाशब्दो गर्त्तायां चैव दारुणः ।
सुगन्धो वायते वातः पुष्पवृष्टिः समन्ततः ॥
Sanskritbeleg: Hatley 2025, S. 93.
48.27
कम्पन्ति देवतास् सर्व्वा भीताः संस्त्रस्तलोचनाः ।
ततः प्रभाते विमले अघोर्यायाः सहस्रधा ॥
Sanskritbeleg: Hatley 2025, S. 93.
48.28
आगच्छन्ति महाभागा भूतानि विकृताननाः ।
प्रत्यक्षदर्शनीभूत्वा साधकं चाभिभाषते ॥
Sanskritbeleg: Hatley 2025, S. 93.
48.29
मातॄणां भक्तकस् त्वं हि त्वम् एको साधकोत्तमः ।
वत्स वत्स महावीर साधकेन्द्र महातपः ॥
Sanskritbeleg: Hatley 2025, S. 94.
48.30
वरं वृणीष्व मे रुद्र सिद्धो त्वन् नात्र संशयः ।
सत्यं सत्यं पुनः सत्यं साधकेन्द्र महातपः ॥
Sanskritbeleg: Hatley 2025, S. 94.
48.31
उत्तिष्ठस्व किम् अद्यापि तिष्ठसे पुरुषोत्तम ।
एतन् वा यदि नेच्छेत एवं ब्रूयात् पुनः प्रिये ॥
Sanskritbeleg: Hatley 2025, S. 94.
48.32
वीराष्टकपदं दिव्यं ददस्व मम शोभनम् ।
दत्तं दत्तं महाप्राज्ञ क्षणमात्रं पुनः स्मर ॥
Sanskritbeleg: Hatley 2025, S. 94.
48.33
क्षणमात्रं स्मरेद् याव गर्त्तामध्ये महातपे ।
उत्तिष्ठन्ति महाभागा मातरः सप्त एव तु ॥
Sanskritbeleg: Hatley 2025, S. 95.
48.34
तेषाम् अष्टमको देवि भवते नात्र संशयः ।
गुरुपादं नमस्कृत्वा उत्पते नान्यथा क्वचित् ॥
Sanskritbeleg: Hatley 2025, S. 95.
48.35
हठसाधनम् एतद् धि ज्ञातमात्रेण सिध्यति ।
तन्त्रज्ञस् साधको वीर गुरुभक्तिसमन्वितः ॥
Sanskritbeleg: Hatley 2025, S. 95.
48.36
न जपेन न होमेन न व्रत-न्-नियमेन च ।
ज्ञात्वा तन्त्रं प्रसाधेत हठसाधनम् उत्तमम् ।
न दातव्यं न दातव्यं आत्मनः सिद्धिम् इच्छता ॥
Sanskritbeleg: Hatley 2025, S. 95.
Kolophon
ब्रह्मयामले गर्त्तायागो ऽष्टचत्वारिंशतिमः पटलः ॥४६॥
Kapitel 56: Geheime Verständigung durch Worte und Handzeichen
Textgrundlage: Hatley 2007, Kapitel LV.99–156, Sanskrit S. 316–323, Übersetzung und Kommentar S. 378–391.[5]
Enthalten ist die vollständige wissenschaftlich edierte Teilstrecke 56.99–156, nicht das gesamte Kapitel. Die Verse schildern Erkennungszeichen zwischen Yoginis und Sadhakas sowie Zeichen, mit denen Schweigende Gegenstände erbitten. Körpergesten, Gottheitsvergegenwärtigung und Gruppenzugehörigkeit greifen dabei ineinander. Mehrere Stellen sind ausdrücklich als unsicher oder verderbt markiert.
Die Edition von 2007 bezeichnet diesen Text als Kapitel LV (55), die Handschrift zählt im Kolophon 53. Die Zählung 56 folgt Hatleys Übersicht von 2018, S. 515, anhand der Blätter 231v–235v; die edierte Teilstrecke steht auf 234r–235v. Der Kolophon der verwendeten Edition bleibt unten mit seiner Zahl 55 erhalten. Ihre Sternchen bezeichnen Blattwechsel und werden nicht als Sanskritzeichen übernommen.
देव्य् उवाच ॥
56.99
च्छोम्मकाः कीदृशा देव कुलानां साधकस्य च ।
प्रज्ञायते यथा भ्राता भगिनी वा विशेषतः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.99 (hier 56.99), S. 316.
56.100
चर्यायुक्तस्य देवेश यथा ज्ञास्यन्ति योगिनीः ।
परस्परञ् च वीराणाम् एकतन्त्रसमाश्रयाम् ।
आलापार्थे महादेव कथयस्व प्रभाषतः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.100 (hier 56.100), S. 316.
भैरव उवाच ॥
56.101
शृणु देवि प्रवक्ष्यामि च्छोमकानां तु लक्षणम् ।
येन विज्ञायते भ्राता भगिनी वा महेश्वरि ॥
Sanskritbeleg: Hatley 2007, Kap. LV.101 (hier 56.101), S. 316.
56.102
ज्ञात्वा च योगिनीं मन्त्री शिवेच्छाचोदितात्मवान् ।
साधकस् तु ततो दद्याद् वाचिकं मुद्रलक्षणम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.102 (hier 56.102), S. 316.
56.103
पोतङ्गेत्य् अभिवादनं प्रतिपोतङ्गे प्रत्यभिवादनम् ।
योगिनीनां तु वीराणां नारीशेत्य् अभिवादनम् ।
प्रतिनारीशशब्देन प्रोच्यते प्रतिवादनम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.103 (hier 56.103), S. 316–317.
56.104
एकाङ्गुलिदर्शनात् स्वागतं द्वाभ्यां सुस्वागतम् ।
कोष्ठप्रविष्टेनाङ्गुष्ठेन क्षेममुद्रा विधीयते ॥
Sanskritbeleg: Hatley 2007, Kap. LV.104 (hier 56.104), S. 317.
56.105
शिरं दर्शयते या तु वार्तां सा तु समीहते ।
तां दिशं वीक्ष्य दातव्या मुद्रा देशागमा तु या ।
अङ्गुल्या संस्पृशेत् पादं कथिता तु न संशयः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.105 (hier 56.105), S. 317.
56.106
ललाटं दर्शयेद् या तु कुत्र यास्यसि -म्- आदिशेत् ।
वीक्ष्य सूर्यं स्पृशेद् वक्त्रं यथेष्टं कीर्तितं भवेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.106 (hier 56.106), S. 317.
56.107
शिखां दर्शयते या तु कुत्र सूतो ऽसि सुव्रते ।
अनुस्मृत्य भवं लिङ्गं योनिं स्पृष्ट्वा शिवात्मकम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.107 (hier 56.107), S. 317.
56.108
वक्त्रं दर्शयते या तु गोत्रं ते कीदृशं गिरि ।
स्मृत्वा देवीं स्पृशेद् बाहुं वामं वामेन पाणिना ।
वामाचारस् तु मे गोत्रं शक्तयो वर्धमानजाः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.108 (hier 56.108), S. 317.
56.109
दशनं दर्शयेद् या तु किं पूर्वं ते निकेतनम् ।
अनुस्मृत्य शिवं सो हि स्पृशते -म्- उदरं प्रिये ।
मायोदराद् इदं प्राप्तं द्वितीयं तु शिवाश्रयम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.109 (hier 56.109), S. 317.
56.110
कर्णं दर्शयते या तु किं श्रुतं तु समादिशेत् ।
नभं संवीक्ष्य हस्तञ् च पञ्चस्रोतसमागमम् ।
विसृताङ्गुलिकं कृत्वा दर्शयेच् †छत†पाणिना ॥
Sanskritbeleg: Hatley 2007, Kap. LV.110 (hier 56.110), S. 317–318.
56.111
जिह्वां दर्शयते या तु रसितुं सा समीहते ।
मृतुञ्जयं स्मरित्वा तु दर्शयीत कमण्डलुम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.111 (hier 56.111), S. 318.
56.112
ग्रीवां दर्शयते या तु सुप्रियो ऽसि महात्मन ।
आत्मने तु परां मूर्तिं स्मृत्वा त्व् अत्यन्त मे प्रिया ॥
Sanskritbeleg: Hatley 2007, Kap. LV.112 (hier 56.112), S. 318.
56.113
स्कन्धं दर्शयते या तु स्वस्थानं कुत्र चादिशेत् ।
स्वगोत्रस्याश्रयं ज्ञात्वा स दिशम् अवलोकयेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.113 (hier 56.113), S. 318.
56.114
बाहुं संस्पृशते या तु भ्रातासि मम सुव्रते ।
वामहस्तस्य संस्पर्शाद् भगिनीति समादिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.114 (hier 56.114), S. 318.
56.115
वामाङ्गुलिं यदा वक्त्रे प्रक्षिप्यन् तु प्रदर्शयेत् ।
तदा सा भोजनं स्वेष्टं प्रार्थयेद् वीरपुङ्गवम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.115 (hier 56.115), S. 318.
56.116
तेनापि पञ्चभूतात्मं युक्तं सर्वार्थसंयुतम् ।
नानाविधं रसं वक्त्रे स्मर्तव्यं तु नवात्मकम् ।
भुक्त्वा तृप्ता तु सा भूत्वा वामेन परिवर्तते ॥
Sanskritbeleg: Hatley 2007, Kap. LV.116 (hier 56.116), S. 318.
56.117
हृदयं स्पृशते या तु †हन्नामेत† महाव्रतम् ।
त्र्योदशाङ्गशिवं स्मृत्वा आत्मलिङ्गम् अनुस्पृशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.117 (hier 56.117), S. 318.
56.118
स्तनं निरीक्षते वामं स्पृशते वा यदा प्रिये ।
प्रसार्य साधको वक्त्रं पुत्रो ऽहं ते प्रभाषितम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.118 (hier 56.118), S. 318–319.
56.119
जठरं स्पृशते या तु रक्षितव्यो ऽसि सुव्रते ।
सारसेन प्रणामं तु कर्तव्यं त्व् आत्मरक्षणम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.119 (hier 56.119), S. 319.
56.120
नाभिं संस्पृशते या तु महामेलापम् आदिशेत् ।
मध्यदेशे महावीर कुलसप्तादशस्य पि ॥
Sanskritbeleg: Hatley 2007, Kap. LV.120 (hier 56.120), S. 319.
56.121
कटिं संस्पृशमाना तु यां दिशां चावलोकयेत् ।
तत्कुलस्य समाख्याति मेलकं तु न संशयः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.121 (hier 56.121), S. 319.
56.122
गुह्यं संस्पृशते या तु सा तु पुत्र कृतात्मवान् ।
मनसा चिन्त्य स्वं यागं त्वत्प्रसादात् कृतं भवेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.122 (hier 56.122), S. 319.
56.123
ऊरुं संस्पृशते या तु क्षीणाहं सा समादिशेत् ।
अनुस्मृत्य तु मन्थानं तस्या देहे नियोजयेत् ।
तन्नियोगात् सुविश्रान्ता मन्थानीशविमर्दनात् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.123 (hier 56.123), S. 319.
56.124
जानु संस्पृशते या तु क्रियाक्षूणा तु सा भवेत् ।
क्रोञ्चबीजं ततोच्चार्य अक्षसूत्रं तु संस्पृशेत् ।
लक्षजापाद् विमुच्येत क्रियाक्षूणं तु योजयेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.124 (hier 56.124), S. 319.
56.125
जङ्घां च स्पृशते या तु सा प्रियान् तु नियच्छति ।
विमोचयेत् ततो मुष्टिं वामहस्तस्य मोचने ॥
Sanskritbeleg: Hatley 2007, Kap. LV.125 (hier 56.125), S. 319.
56.126
पादं संस्पृशते या तु पदभ्रंशं तु सादिशेत् ।
न स्थातव्यं तदा तेन तस्मिन् स्थाने विपश्चिता ।
प्रणवं तु समुच्चार्य गन्तव्यं नान्य मे गतिः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.126 (hier 56.126), S. 320.
56.127
नखं पादस्य या देवि स्पृष्ट्वा याति पराङ्मुखी ।
खेचरत्वाचिरेणैव कथते साधकस्य तु ।
ततः प्रभृति सो ऽप्य् एवं नित्यं वै संयतो भवेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.127 (hier 56.127), S. 320.
56.128
आत्मपादतलं या तु समुत्क्षिप्य प्रदर्शयेत् ।
पातालसिद्धिर् वीरस्य कथते साचिरेण तु ॥
Sanskritbeleg: Hatley 2007, Kap. LV.128 (hier 56.128), S. 320.
56.129
आकाशे मोचयेन् मुष्टिं धुनते च स्वकं तनुम् ।
तदा तु स्वर्गवासीनां †मेलकाम्यस् तु संयुतं† ॥
Sanskritbeleg: Hatley 2007, Kap. LV.129 (hier 56.129), S. 320.
56.130
ऊर्ध्वं संवीक्ष्य या पश्चाद् दिशालोकनम् आचरेत् ।
चतुर्णां मेलकं सा तु कथयेच् चार्धरात्रतः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.130 (hier 56.130), S. 320.
56.131
नितम्बस्थौ तु या हस्तौ कृत्वा प्रहसते मुहुः ।
मेलकं षट्कसंघस्य द्व्यर्धयामे ऽति सा कथेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.131 (hier 56.131), S. 320.
56.132
नासाग्रे तु यदा हस्तौ कृत्वा चालयते शिरम् ।
नवकस्य तथाख्याति मेलकं तु महावने ॥
Sanskritbeleg: Hatley 2007, Kap. LV.132 (hier 56.132), S. 320.
56.133
अधोमुखी तु या भूत्वा भूमिलेखनम् आरभेत् ।
पातालचारिणीनां तु मेलकं मातृमन्दिरे ॥
Sanskritbeleg: Hatley 2007, Kap. LV.133 (hier 56.133), S. 320.
56.134
स्वजिह्वालोकनं या तु कृत्वा पश्चात् प्रकम्पते ।
जलान्तर्वासिनीनां तु मेलकं कथते तु सा ॥
Sanskritbeleg: Hatley 2007, Kap. LV.134 (hier 56.134), S. 321.
56.135
आ पादान् मूर्धपर्यन्तं कृत्वा हस्तप्रकम्पनम् ।
या सा शिवादितत्त्वस्था तत्स्थं मेलकम् आदिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.135 (hier 56.135), S. 321.
56.136
सो ऽपि मुद्रापतिः पूज्य तथा मन्थानभैरवम् ।
भक्त्या पर्यटनं कुर्याद् यथातन्त्रप्रभाषितम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.136 (hier 56.136), S. 321.
56.137
नमो ऽस्तु दिग्भ्यो देवेभ्यः पूर्वसिद्धविनायकान् ।
दत्त्वार्घम् परया भक्त्या ततो मेलापकं भवेत् ।
तत्सामान्यं महादेवि सर्वकल्याणसम्पदम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.137 (hier 56.137), S. 321.
56.138
साधकस्य प्रवक्ष्यामि मौनस्थस्य यदा भवेत् ।
अक्षूणं तु महाभागे शृणुष्वेकाग्रमानसा ॥
Sanskritbeleg: Hatley 2007, Kap. LV.138 (hier 56.138), S. 321.
56.139
तर्जन्यङ्गुष्ठकाग्रे तु पुष्पमुद्रा प्रकीर्तिता ।
मूलपर्वभ्रमाङ्गुष्ठे प्रार्थितं तु विलेपनम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.139 (hier 56.139), S. 321.
56.140
उत्तानहस्ते सोल्लोले धूपमुद्रा सुशोभने ।
अधोमुखप्रचालने अङ्गुलीन् अर्घम् आदिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.140 (hier 56.140), S. 321.
56.141
कुम्भमुष्टिर् जलं विन्द्याद् धूपाङ्गारोर्ध्वगाङ्गुलिः ।
दृग्भ्रमञ् मार्जनं विद्धि जिह्वा लोलोपलेपनम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.141 (hier 56.141), S. 321.
56.142
हस्तमात्रेन्धनानां तु जानुकुर्परसंगमात् ।
नैवेद्यञ् च विजानीयाद् उत्तानाधोमुखं करम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.142 (hier 56.142), S. 322.
56.143
कन्यसाप्रसृता मुष्टिर् अधोवक्त्रा तु शस्त्रिका ।
मुष्टिं बध्वा खगालोकात् खड्गप्रार्थनम् आदिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.143 (hier 56.143), S. 322.
56.144
तिर्यक्प्रसाददेशिन्या दर्भमुद्रा प्रकीर्तिता ।
मृगी तिलां यवानान् तु शूकरी प्रसृतिः पुनः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.144 (hier 56.144), S. 322.
56.145
धान्यानां बिल्वपद्मानां सर्वाङ्गुलिप्रसारणात् ।
बिल्वमध्यसृताङ्गुल्य द्वितीये प्रसृतं तलम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.145 (hier 56.145), S. 322.
56.146
पञ्चाङ्गुलसमाग्रास् तु ऊर्ध्ववक्त्रा फलात्मकम् ।
†मुष्ट्यार्धात्मस†मुद्रा तु ऋजुस् तिर्यक्प्रहारणे ॥
Sanskritbeleg: Hatley 2007, Kap. LV.146 (hier 56.146), S. 322.
56.147
संहताङ्गुष्ठयोगेन मत्स्यकान् तु विनिर्दिशेत् ।
प्रोक्तं लोकविसर्गं तु स्वनासाग्रनिरीक्षणात् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.147 (hier 56.147), S. 322.
56.148
नासाघ्रायणरूपेण कृष्णाद्या मदिरासवाः ।
वामकर्णं स्पृशन् देवि गुडाज्यमधु कीर्तितम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.148 (hier 56.148), S. 322.
56.149
शिरसंस्पर्शनात् प्रोक्तं फलजं तु महासवम् ।
घृतादिमधु दुग्धानां स्रुवयोगो यथावरतम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.149 (hier 56.149), S. 322.
56.150
मुष्टिं मूर्ध्नि विनिक्षेपाद् भस्ममुद्रा वरानने ।
पृष्ठसंस्पर्शनात् प्रोक्तं योगपट्टकम् आदिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.150 (hier 56.150), S. 322–323.
56.151
स्फिचसंस्पर्शनाद् देवि आसनञ् च विनिर्दिशेत् ।
अनामामध्यमाङ्गुष्ठचालनाच् चाक्षसूत्रकम् ।
कक्षसंस्पर्शनेनैव स्मृतो †बोकानको† ऽनघे ॥
Sanskritbeleg: Hatley 2007, Kap. LV.151 (hier 56.151), S. 323.
56.152
मूर्ध्नादिकटिपर्यन्ते हस्ते मुद्रासु पञ्चकम् ।
भृतं कमण्डलुं देवि डमरुं रोचनापि च ॥
Sanskritbeleg: Hatley 2007, Kap. LV.152 (hier 56.152), S. 323.
56.153
अधोमुखप्रकम्पेन वामेन तु करेण तु ।
घण्टमुद्रा विनिर्दिष्टा वीना वीणाकृतिं करम् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.153 (hier 56.153), S. 323.
56.154
एतान्यम् अपि वीराणां सङ्केतं शास्त्रचोदितम् ।
स्वेच्छया वा प्रबोध्यादौ पश्चान् मौनं समाचरेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LV.154 (hier 56.154), S. 323.
56.155
लोकसङ्गविरक्तात्मा मौनी ध्यानपरायणः ।
एकान्तरतशीलस् तु सिध्यते विगतामयः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.155 (hier 56.155), S. 323.
56.156
अन्योन्यसम्मतं ज्ञात्वा वाक्यालापं तथैव च ।
च्छोम्मकं भाषमुद्राभिर् योजयीत विचक्षणः ॥
Sanskritbeleg: Hatley 2007, Kap. LV.156 (hier 56.156), S. 323.
Kolophon
इति च्छोम्माधिकारस् पञ्चपञ्चाशतिमः पटलः ॥ ५५ ॥
Kapitel 74: Geheimsprache und Merkmale der Yogini-Familien
Textgrundlage: Hatley 2007, Kapitel LXXIII, Sanskrit S. 324–333, Übersetzung und Kommentar S. 392–418.[5]
Dieses Kapitel ist mit seinen 77 Originalnummern vollständig enthalten. Auf einen Wortcode (74.3–14) folgen körperliche Verständigungszeichen (74.16–39) und Beschreibungen der sieben Yogini-Familien der Mütter (74.44–75). Die Buchstabenangaben sind überwiegend sprachliche Zeichen für Personen, Gegenstände und Handlungen; sie sind nicht automatisch selbstständige Mantras. Die Merkmale von Aussehen und Verhalten gehören zu den historischen Vorstellungen dieser Überlieferung.
Hatleys Dissertation führt den Text als Kapitel LXXIII (73), die Handschrift nummeriert ihn als 71. Die hier verwendete Nummer 74 folgt der Handschriftenübersicht von 2018, S. 517, anhand derselben Blätter 278r–280r. Der Sanskritkolophon der älteren Edition bleibt mit 73 erhalten. Die dortigen Sternchen für Blattwechsel werden weggelassen.
भैरव उवाच ॥
74.1
अथातः संप्रवक्ष्यामि छोमकानां यथा विधिः ।
रूपलक्षणकर्मञ् च कुलाचारविचेष्टितम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.1 (hier 74.1), S. 324.
74.2
यथा विज्ञायते वीरो योगिनी वा कुलोद्भवा ।
सिद्धासिद्धविभागा तु समञ् चोत्तरसाधकैः ।
यागचर्याविशेषस्थैस् तन् मे निगदतः शृणु ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.2 (hier 74.2), S. 324.
74.3
ना पुमान् स्त्री णिकारेण भू श्मशानं कृ डाकिनी ।
भ्रू लामा रौद्रिका घ्रू च खिः स्यान् मातृकुलोद्भवा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.3 (hier 74.3), S. 324.
74.4
अकारत्रितयेनैव शिवानां कुलजा स्मृता ।
देति डामरिका प्रोक्ता हिश् च डाव्या वरानने ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.4 (hier 74.4), S. 324.
74.5
सामृतं ब्रूश् च वामाख्यं हेति मांसं वरानने ।
यो भार्या भगिनी येन मकारोत्पत्तिर् उच्यते ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.5 (hier 74.5), S. 324.
74.6
लिकारेण स्मृतं भाक्षं वकारात् पानकं प्रिये ।
हिम् अप्पा भाजनं केन गेन वाच्यं तु भोजनम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.6 (hier 74.6), S. 324.
74.7
फकारेण विजानीयात् सुरतार्थे प्रभाषणम् ।
रक्तं वसा तथा शुक्रं शेषवर्णैः क्रमेण तु ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.7 (hier 74.7), S. 325.
74.8
क्षकारेणाटितं प्रोक्तं जकारेण विवर्जितम् ।
पकाराद् धृदयं प्रोक्तं वासनं सखिसंगमे ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.8 (hier 74.8), S. 325.
74.9
नकारेण तु नैवेद्यं पुष्पदानं तसंज्ञया ।
याचनं तु दकारेण थकारेण प्रतिष्ठानम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.9 (hier 74.9), S. 325.
74.10
कपालं तु टम् इत्य् उक्तं ठः स्फरो वै वरानने ।
शस्त्रिको डाक्षरेणैव फेति पातादिवन्दनम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.10 (hier 74.10), S. 325.
74.11
मुद्रालङ्करणं नेन चेन प्रोक्तं तु चुम्बनम् ।
विरुद्धकरणं सेन झकारेण तु कर्षणम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.11 (hier 74.11), S. 325.
74.12
†पञ्चनन्† तु डकारेण घेति घातनम् आदिशेत् ।
व्योमवीरासिसंज्ञानां यथाकालं क्षकारकम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.12 (hier 74.12), S. 325.
74.13
कुलषोडशकस्योक्ताः स्वराद्याः क्रमकल्पिताः ।
वीरेशभैरवीणां तु अंसंज्ञाश्वासपूर्वकम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.13 (hier 74.13), S. 325.
74.14
एवञ् चैकाक्षराः संज्ञाः प्रोक्ता याः संख्यया युताः ।
स्वांसदेव्†अक्ष†वर्णादिविभागेन सुविस्तराः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.14 (hier 74.14), S. 325.
देव्य् उवाच ॥
74.15
ज्ञाता वर्णात्मिकाः संज्ञाः तथान्या याः शुभा विभो ।
वद तत्त्वेन देवेश शरीरावयवात्मिकाः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.15 (hier 74.15), S. 325–326.
भैरव उवाच ॥
74.16
शृणु देवि महाभागे संज्ञा या देहसम्भवाः ।
वीरयोगिकुलानां तु ईहितार्थप्रदायिकाः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.16 (hier 74.16), S. 326.
74.17
शिरसंस्पर्शनेनोक्तं वन्दनं प्रतिवन्दनम् ।
शिखासंस्पर्शनेनैव ललाटेन तु स्वागतम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.17 (hier 74.17), S. 326.
74.18
सुस्वागतम् अपाङ्गस्य स्पर्शनात् संप्रतीयते ।
कस्माद् देशाद् इहायातः पृच्छितो हि भ्रुवाः स्पृशन् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.18 (hier 74.18), S. 326.
74.19
दक्षोत्तरसबाह्यं तु स्पर्शाद् देशं तदात्मकं ।
नासाग्रं प्राग्भवं देशं पश्चाद्देशं कृकाटिका ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.19 (hier 74.19), S. 326.
74.20
स्पृशन् संदर्शयेन् मुद्राः प्रतिवार्त्ताविधायिनः ।
गन्तव्यं स्वोष्ठसंस्पर्शात् कृते तद्दिशि वीक्षणात् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.20 (hier 74.20), S. 326.
74.21
कृतं भवति सुश्रोणि प्रतिमुद्राविधानकम् ।
क्षीणा स्वभुजसंस्पर्शाद् ऊर्वोः स्पर्शात् तु विश्रमेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.21 (hier 74.21), S. 326.
74.22
उपविश्य जानुसंस्पर्शात् स्फिचेनैव करोम्य् अहम् ।
न करोमि तदा यया स्पृष्टा जङ्घा तु भाषितम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.22 (hier 74.22), S. 326.
74.23
कर्णशष्कुलिकाङ्गुल्या श्रुतं ते मातृमण्डलम् ।
तत्पार्श्वस्पर्शनात् सिद्धं स्फुटमेलापकाश्रयः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.23 (hier 74.23), S. 327.
74.24
न चैवामोचयेन् मुष्टिं गगनस्त्वाह्यसंगमे ।
हृदयं तु स्पृशेद् या तु वामहस्तेन भाविता ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.24 (hier 74.24), S. 327.
74.25
भगिनी सा विनिर्दिष्टा साधकानां फलप्रदा ।
वामहस्ताग्रसंस्पर्शान् मातृमध्ये तु नायिका ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.25 (hier 74.25), S. 327.
74.26
गरुडस्य तु संस्पर्शात् डाकिनीति विनिर्दिशेत् ।
तिर्यक्चक्षुस्वदृष्ट्या तु रुद्रडाकिनिलक्षणम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.26 (hier 74.26), S. 327.
74.27
स्वांसदेशकरेणैव डामरित्यं तु सादिशेत् ।
कृकाटिकाकरेणैव दक्षिणेन वरानने ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.27 (hier 74.27), S. 327.
74.28
कुलं तु साधकाचार्याण् डाव्यात्मानं तु सा कथेत् ।
नासाग्रदृष्टिरोधेन ऊर्ध्वश्वासेन सा शिवा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.28 (hier 74.28), S. 327.
74.29
समस्तदेहभङ्गेन स्वहस्तभ्रमणेन च ।
मिश्राणां लक्षणं देवि स्वरूपकथने स्मृतम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.29 (hier 74.29), S. 327.
74.30
मांसं कपोलहस्तेन जिह्वादृष्ट्या तु मत्स्यकम् ।
दशनाङ्गुलियोगेन भक्ष्यं भोज्यं तु चेहितम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.30 (hier 74.30), S. 327.
74.31
नासास्पर्शनयोगेन गन्धा प्रोक्ता तु मुद्रया ।
वामसृक्विनिका जिह्वा भवेद् वामामृतं तु तम् ।
दक्षिणासृक्विनीयोगाद् विज्ञेयं दक्षिणामृतम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.31 (hier 74.31), S. 327–328.
74.32
वसा हस्ततलस्पर्शान् मज्जा कुर्परदर्शनात् ।
जठरे तु कृते हस्ते दक्षे पुत्रत्वम् आदिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.32 (hier 74.32), S. 328.
74.33
वामे तु दुहिता प्रोक्ता पिता मूर्ध्नि निरीक्षयेत् ।
माता तु कथिता सा तु वामकुक्षिप्रदर्शनात् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.33 (hier 74.33), S. 328.
74.34
संगृहीतं स्मृतं नाभौ पृष्ठे क्षिप्तं तु लक्षयेत् ।
भार्या नितम्बहस्तेन वामेन पति दक्षिणे ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.34 (hier 74.34), S. 328.
74.35
दूतः पादस्पर्शात् सिद्धो मित्रो वामभुजं स्पृशेत् ।
प्रकुञ्चकग्रहेनैव कुलटाभावम् आदिशेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.35 (hier 74.35), S. 328.
74.36
गुप्तं कक्षाकरेणोक्तं न गुप्तं दिगलोकनात् ।
सिद्धं वामाक्षिसंकोचाल् लुप्ताचारं तु दक्षिणात् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.36 (hier 74.36), S. 328.
74.37
साधिकारपदे वामे पूर्वो क्षिप्तं तथोत्तरम् ।
दक्षिणे तु विजानीयान् मेलकं वामके करे ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.37 (hier 74.37), S. 328.
74.38
एवं योगेशिवीराणां सम्मतोत्तरसाधकम् ।
मुद्रालापं समाख्यातं यदनन्तरविस्तरात् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.38 (hier 74.38), S. 328.
74.39
अन्योन्यसम्मतं कृत्वा वाक्यालापाथ वा प्रिये ।
स्वमुद्रालापयोगाद् वा गोपयेद् वामशासनम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.39 (hier 74.39), S. 328.
देव्य् उवाच ॥
74.40
चर्यायोगक्रियायोगाच् छिवेच्छा साधकस्य तु ।
यदा दृष्टिवशं याता योगिन्यो मर्त्यसंगताः ।
कथं ज्ञेयाः स्वरूपेण रूपं तासां तथा वद ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.40 (hier 74.40), S. 329.
भैरव उवाच ॥
74.41
अतः परं प्रवक्ष्यामि योगिनीनां तु लक्षणम् ।
येन विज्ञातमात्रेण त्रैलोक्यं वशगं भवेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.41 (hier 74.41), S. 329.
74.42
विज्ञायते सुदूरे ऽपि क्षेत्रमार्गे विशेषतः ।
भूतले चैव वर्तन्ते शिवेच्छास्वाधिकारिकाः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.42 (hier 74.42), S. 329.
74.43
चर्यायुक्तस्य देवेशि दृष्टेर् आयान्ति गोचरम् ।
तस्माज् ज्ञेयं तु वीरेण योगेशीनां तु लक्षणम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.43 (hier 74.43), S. 329.
74.44
तिस्रो रेखा ललाटे तु ऊर्ध्वसीमन्तम् आश्रिताः ।
गौरी चम्पकगन्धी च ब्रह्मचर्यरता सदा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.44 (hier 74.44), S. 329.
74.45
वेदघोषप्रिया नित्यम् अक्षोभ्या सत्यवादिनी ।
दण्डं कमण्डलुञ् चैव अजिनं योगपट्टकम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.45 (hier 74.45), S. 329.
74.46
स्रुचीदर्भोपवीतं तु पद्मञ् च लिखितं गृहे ।
लक्षितव्या प्रयत्नेन ब्रह्माण्यंशा वरानने ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.46 (hier 74.46), S. 329.
74.47
तदर्चनं तु वीरेण खेचरत्वजिगीषया ।
ब्रह्माणीकुलजा देवि स्वांससिद्धिप्रदायिका ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.47 (hier 74.47), S. 329.
74.48
गण्डयोः कूपके यस्याः कुण्डलाग्राग्रकेशिनी ।
प्रोत्तुङ्गनासिका सा तु पाण्डुगौरी सुलोचना ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.48 (hier 74.48), S. 329–330.
74.49
त्रिशूलं †सुललाटेषु† ललाटादिषु भूषिनी ।
त्रिकालज्ञानसम्पन्ना शूलाञ् च लिखते गृहे ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.49 (hier 74.49), S. 330.
74.50
वृषं कपालम् अथ वा अन्यं वा यद् वरायुधम् ।
दशनैश् चातिज्योत्स्नाभैर् ब्रह्मचर्यपरायणा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.50 (hier 74.50), S. 330.
74.51
शिवाराधनसम्युक्ता शिवलिङ्गिनि वत्सला ।
अष्टम्यां सा चतुर्दश्याम् उपवासरता भवेत् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.51 (hier 74.51), S. 330.
74.52
ईदृशीं प्रमदां दृष्ट्वा साधको वीरसाधनि ।
लक्षयेत् स्वांससंयुक्तो माहेश्वर्याः कुलोद्भवा ।
षण्मासाराध्यमाना तु योगमोक्षफलप्रदा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.52 (hier 74.52), S. 330.
74.53
कृशाङ्गी रक्तगौरा च हरिपिङ्गललोचना ।
सुवर्चा दीर्घसंग्रीवा रोमसा बर्बरोरुहा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.53 (hier 74.53), S. 330.
74.54
बालक्रीडारता नित्यं हसते गायते मुहुः ।
धावते वल्गते चैव अकस्माच् च प्रकुप्यते ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.54 (hier 74.54), S. 330.
74.55
दण्डहस्ता भवेन् नित्यं शक्तिञ् च लिखते गृहे ।
कौमारीकुलसम्भूता लक्षयेत् साधकोत्तमः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.55 (hier 74.55), S. 330.
74.56
आराधयेद् विधानेन भूतले सिद्धिकाङ्क्षया ।
यत् किञ् चित् प्रार्थितं भोगं साधकस्य ददाति सा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.56 (hier 74.56), S. 330.
74.57
छत्त्राकारं शिरो यस्या दृश्यते लक्षणान्विता ।
कृष्णेन्दीवरवर्णाभा शूलास्यदशना तु या ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.57 (hier 74.57), S. 331.
74.58
वामेनाचारचेष्टा च चर्या तस्याः स्वरूपकम् ।
चक्रमुद्रा लिखेत् सा तु दृष्टिश् चैवार्थवर्तिनी ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.58 (hier 74.58), S. 331.
74.59
शङ्खमुद्रा गदा चैव स्वगृहे लिखते सदा ।
सा तेन लक्षयेद् विद्वांश् चर्याशीलेन चेतसा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.59 (hier 74.59), S. 331.
74.60
मायारूपधरा कन्या वैष्णवी चर्याशीलिनी ।
सेवनात् स्वकुलानां तु सिद्धिदा साधकेश्वराम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.60 (hier 74.60), S. 331.
74.61
लम्बोष्ठी च विशालाक्षी पिङ्गलाग्राग्रकेशिनी ।
चित्रकर्मप्रिया नित्यं नृत्यगन्धर्वपेशला ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.61 (hier 74.61), S. 331.
74.62
मांसासवप्रिया नित्यं लोलुपा †सर्व†सात्त्विका ।
स्वगृहे दंष्ट्रमुद्रा तु दण्डशृङ्खलम् एव वा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.62 (hier 74.62), S. 331.
74.63
लिखते च तथा घोणं कोणं वाथ श्मशानकम् ।
पद्मं वा कर्परञ् चैव उभे पक्षे तु पर्वनी ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.63 (hier 74.63), S. 331.
74.64
द्वादशी तु विजानीयात् तस्याः सा वरवर्णिनि ।
वाराही वैष्णवी चैव एकपर्वरता सदा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.64 (hier 74.64), S. 331.
74.65
ज्ञातव्या साधकेन्द्रेण मन्त्राविष्टेन चेतसा ।
ईदृशं लक्षणं दृष्ट्वा प्रतिमुद्रानुसारिणा ।
मासैकात् सिद्धिदा देवि चर्यायुक्तस्य मन्त्रिणः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.65 (hier 74.65), S. 331.
74.66
श्यामा वैगन्धिनी चैव दीर्घग्रीवाङ्गुलि तथा ।
दशनाश् चातिकान्ताभा नयने चातिवर्तुले ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.66 (hier 74.66), S. 332.
74.67
रक्तवस्त्रप्रिया नित्यं स्कन्धवस्त्रावलम्बिनी ।
गन्धपुष्पप्रिया नित्यं धनाढ्या च प्रजायते ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.67 (hier 74.67), S. 332.
74.68
हसते रमते चैव योगायोगानुसारतः ।
वज्रमुद्रा लिखेत् सा तु गृहे तु स्वयम् एव हि ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.68 (hier 74.68), S. 332.
74.69
शूर्पपिञ्छपटञ् चैव लिखते ऽन्यं महायुधम् ।
इन्द्राणीकुलजातानाम् एतद् भवति लक्षणम् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.69 (hier 74.69), S. 332.
74.70
षण्मासाराधनेनैव सिद्धा दास्यन्ति मेलकम् ।
विचरत्य् अखिलां लोकान् सर्वाश्चर्यप्रवर्तकः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.70 (hier 74.70), S. 332.
74.71
शुष्काङ्गी भग्ननासा च कोटराक्षी च दंष्ट्रिणी ।
पिङ्गलाग्राग्रकेशी च ऊर्ध्वदृष्टिश् च भीषणा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.71 (hier 74.71), S. 332.
74.72
मृते रणे कथा नित्यं ब्रह्मचर्यरता सदा ।
श्मशानैककथा नित्यं साधकानां कथारता ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.72 (hier 74.72), S. 332.
74.73
स्वगृहे लिखते देवि कपालं पट्टिशं तथा ।
मद्यमांसप्रिया नित्यं सा ज्ञेया मातृनायिका ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.73 (hier 74.73), S. 332.
74.74
प्रतिमुद्राविधानज्ञे साधके ध्यानतत्परे ।
मेलकं सम्प्रदायञ् च वरञ् च ददते सदा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.74 (hier 74.74), S. 332.
74.75
सप्तैव मातराः ख्याता यामले सिद्धिदायिकाः ।
विमिश्रलक्षणाः देवि एतद्रूपविमिश्रिताः ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.75 (hier 74.75), S. 332–333.
74.76
सिद्धासिद्धविभागास् तु तदिच्छाया तु साधकः ।
वेत्ति लक्षणतो देवि बोधाल् लिङ्गविवेचनात् ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.76 (hier 74.76), S. 333.
74.77
तन्त्रस्य सारभूतं तु सिद्धिद्वारं वरानने ।
कथितं साधकेन्द्राणां प्रत्यक्षकरणं सदा ॥
Sanskritbeleg: Hatley 2007, Kap. LXXIII.77 (hier 74.77), S. 333.
Kolophon
इति पिचुमते छोम्माधिकारो नाम
त्रिसप्ततिमः पटलः ॥ ७३ ॥
Kapitel 83: Ursprung von Schädelschale und Schädelstab
Textgrundlage: Hatley 2018, Band I, Sanskritedition S. 355–382; IAST-Anhang F S. 602–616; Übersetzung und Kommentar S. 469–508.[1]
Das Kapitel erläutert die mythischen Ursprünge von Kapala und Khatvanga und deutet ihre Bestandteile als Verkörperung des Gottheitenkosmos. Der gesamte in Hatleys Edition lesbare Text dieses Kapitels ist hier wiedergegeben: 182 wenigstens teilweise erhaltene Verspositionen innerhalb der Zählung 83.1–186. Vier Positionen (83.8, 12, 26 und 36) sind vollständig verloren; 14 weitere enthalten sichtbare Teilverluste. Hinzu kommen Textverluste unbekannten Umfangs vor 83.1 und nach 83.91. Eine lückenlos erhaltene Fassung des Kapitels wird damit nicht behauptet.
Textlücke: Vor 83.1 fehlt Text unbekannten Umfangs.
83.1
तद्दक्षिणे तथा वह्निं हुत्वा †स्वंसिद्धिसंख्यया† ।
उभयोत्तरसंस्थन् तु पूर्व्वामुखम् अथारभेत् ॥
83.2
[…] स्य तु ।
तथा सिद्धार्थकं तालं रोचना समनश्छिला ॥
83.3
गैरिका चैव कासीसं […] ।
[…] ॥
83.4
[…] ।
[…] †तलाङ्गल† शारिका ॥
83.5
कुमारी सिङ्घिका व्याघ्री तथा च सुरमञ्जरी ।
सुरसा सुमना कृष्णा कुङ्कुमा सप्तपर्ण्णिका ॥
83.6
रिद्धिवृद्धि च भूधात्री भूकदम्बं सतालकम् ।
खर्ज्जूरकेसरं श्यामा अमृता च विदारिका ॥
83.7
स्वेष्टयागोपरि यष्ट्वा जपं चास्त्रादिकं भवेत् ।
प […] ॥
Textlücke: 83.8: vollständige Textlücke; kein Sanskritwortlaut und keine Übersetzung überliefert.
83.9
[…] तथा ।
संगृह्य चारभेत् पश्चात् साधनं तु वरानने ॥
83.10
चतुर्हस्तप्रमाणेन कृत्वा मण्डलकं शुभम् ।
गोमूत्रगोमयेनैव रोचनागन्धवारिणा ॥
83.11
कृत्वास्तार्य्य ततो मन्त्री पटं प्रेतगृहोद्गतम् ।
तस्योपरि ततो न्यस्य वृद्धिपात्रं सुविस्तृतम् ॥
Textlücke: 83.12: vollständige Textlücke; kein Sanskritwortlaut und keine Übersetzung überliefert.
83.13
स्वेष्टयागोपरि यष्ट्वा जपञ् चास्त्रादिकं भवेत् ।
पश्चान् मूलगुणं योज्य ऊर्द्धदृष्टिस् तु साधकः ॥
83.14
यावत् क्षपार्द्धमूलं वा तावद् ऊष्मा प्रवर्त्तते ।
धूमञ् चात्रस् ततो ज्वाला हस्तमात्रा प्रजायते ॥
83.15
यावद् दशदिशाभोगं रवाकुलितभीषणम् ।
देवी […] ॥
83.16
[…] ।
[…] ह समाचरेत् ॥
83.17
न च सम्भाषणं कुर्याद् याव शारन् न संस्थितम् ।
उपविष्टे ततस् तस्मिं समन्ताद् भैरवार्च्चिते ॥
83.18
अर्घपात्रं गृहीत्वा तु सुरासवसुपूरितम् ।
अर्घन् दत्वा नमस्कृत्वा कपालन् तु निवेदयेत् ॥
83.19
सिद्धम् एतन् महापात्रं प्रसादात् तव भैरव ।
[…] ॥
83.20
[…] ।
[…] ततो नाथ भैरवेशोल्बणाननः ।
उवाच साधु साध्विति सत्वेनानेन सुव्रत ॥
83.21
नाप्तं यद् देवगन्धर्वैः सिद्धरुद्रदिवाकरैः ।
तद् इदं दातुम् उद्यतो न त्वया सदृशो ऽखिले ॥
83.22
जगत्य् अस्मिन् महासत्व योग्यो वा भैरवीपदम् ।
मत्प्रसादान् महासत्व योगिनीकुलनन्दनः ॥
83.23
[…] ।
[…] बलदर्प्पिताः ।
त्वत्तेजानलसंदग्धा ध्वंसं यास्यन्ति निश्चितम् ॥
83.24
भैरव्या च तथाप्य् एवं कृतो मातृगणाधिपः ।
कपालसाधनेनायं द्वितीय इव भैरवः ॥
83.25
भयदाता च कर्त्ता च देवासुरमहोरगाम् ।
द्रव्याणि सुसहायेभ्यो दत्वोत्पतति खेतले ॥
Textlücke: 83.26: vollständige Textlücke; kein Sanskritwortlaut und keine Übersetzung überliefert.
83.27
धूमायिते ऽपि देवेशि सिद्धविद्याधराधिपः ।
कृतान्तर्द्धानसिद्धिस् तु विचरेत् मायागोचरम् ॥
83.28
ऊष्मायिते ऽपि देवेशि लवणाम्भोधरं क्षणात् ।
भ्रमते सप्तद्वीपांश् च न मज्जन्त्य् उदकादिषु ॥
83.29
नास्य रोधयिता कश्चिद् देवासुरमहोरगाम् ।
[…] ।
[…] ॥
देव्य् उवाच ॥
83.30
कस्मिं कपालम् उत्पन्नङ् खट्वाङ्गञ् च महेश्वर ।
येन धारयसे नित्यञ् गणमातृनिषेवितः ॥
83.31
प्रमाणञ् चैव मुद्राणां कस्यैव च कथम् विधिः ।
अधिदेवः फलञ् चैव येन विन्दन्ति साधकाः ॥
भैरव उवाच ॥
83.32
शृणु देवि परं गुह्यं सर्व्वसिद्धिप्रवर्त्तकम् ।
सम्भवन् तु कपालस्य खट्वाङ्गस्य तथैव च ॥
83.33
[…] ।
[…] दनाद्य् एव जगत् स्थितम् ॥
83.34
रुद्रैश् च शक्तिसंघैस् तु चितं सर्व्वं महात्मने ।
तदिच्छानुकरश् चाहम् […] ॥
83.35
सेयं क्रियात्मिका शक्तिस् सा चेच्छा त्वं विराजसे ।
माया शृष्टि तथा कान्ति धृतिर् बुद्धिर् वरानने ॥
Textlücke: 83.36: vollständige Textlücke; kein Sanskritwortlaut und keine Übersetzung überliefert.
83.37
[…] वपुषा त्वया ।
प्रेरयित्वा नियुङ्क्षामि सृष्टिसंहारवर्त्मनि ॥
83.38
संहारे ऽपि परार्द्धान्ते व्यतिक्रान्ते हुताशनः ।
कालरूपो ऽध्वसंस्थानङ् क्रमाद् अदहम् उद्यतः ॥
83.39
अनेकतुटिपर्य्यायैः स्वतत्वकृतसंख्यया ।
नरकादिकमायान्तन् ददाह प्रभु-र्-इच्छया ॥
83.40
सृष्टं सृष्टं पुनस् तस्मै महाप्रलयतां यदा ।
गतम् मयोदरे देवि तमोभूतं जगत् तदा ॥
83.41
एवं देहभृतां सर्व्वाङ् कपालानि जग्राह तां ।
कपालमालिनं रूपं कृत्वा क्रीडामि चेच्छया ॥
83.42
यानि नाराण्य् अनेकानि तदध्वाननिवासिनाम् ।
कटकेयूरसूत्राणि कटिदेशे च तानि तु ॥
83.43
मच्छरीरगतन् दृष्ट्वा सूक्ष्मेण वपुषाध्वनम् ।
लीनं लिङ्गाकृतित्वेन प्रख्यातो भुवनेश्वरैः ॥
83.44
कपालमालिनं दृष्ट्वा कालान्ते भुवनाधिपैः ।
कालेश्वरं कपालीशं पर्य्यायेन तु भाषितम् ॥
83.45
संहारन्तं स्वकालेन दृष्ट्वा रौद्रं महेश्वरि ।
भैरवं भैरवाकारं सर्व्वाध्वविहितेरितम् ॥
83.46
अनामो ऽपि हि देवेशे नामकोटिभिर् ईश्वरैः ।
यैर् यैर् एव यदा दृष्टस् तैस् तैस् तद्वद् उदाहृतः ।
त्वञ् च तेनैव रूपेण तदा तज्ज्ञैर् उदाहृता ॥
83.47
तमोमये ततस् तस्मिं प्रलीने सकलाध्वनि ।
कृताधारो निराधारः स्वशक्तिविहितासनः ॥
83.48
तत्वे सदेश्वरे देवि योगक्रीडासुलालसः ।
समाधौ तु परे तत्वे सति ज्ञाने समर्प्पिते ॥
83.49
तमसा व्यापितन् तूर्ण्णं शरीरं यज् जगाश्रयम् ।
योगनिद्रेव सा भाति वृत्तिस् तु मम सुव्रते ॥
83.50
गते परार्द्धकाले ऽन्त्ये शिवेच्छा बोधिते पुनः ।
मच्छरीरे विनिर्यातं यत् तत्वं यत्र संहृतम् ॥
83.51
भावभूतमयं विश्वं मायाद्यवनिगोचरम् ।
विसृष्टञ् कारणेच्छातो विचित्रन् तु यथा तथा ॥
83.52
परमाणुसमूहन् तु पार्थिवं तदसङ्गतम् ।
योगेन स्वेदम् उत्पाद्य संगृहीतं वरानने ॥
83.53
कृत्वा करतले तन् तु मथितं शक्तियोजनात् ।
अत्युष्णतां समायातम् दृशा तच् च निरीक्षणे ॥
83.54
तत्तेजसा विपक्वं हि कठिनं काञ्चनामयम् ।
विभाति करमध्यस्थं भानुकोटिसमप्रभम् ॥
83.55
त्रिगुणं त्रितयाधारं लोकपालनिकेतनम् ।
चतुर्द्दशकुलावासं तन्निधिर् भोगमोक्षयोः ॥
83.56
तत्त्रान्ते सत्वजन्मा वै ब्रह्मा क्षिप्तो गुरुत्वया ।
सृष्टौ तु प्राक्कृतः सो वै बुद्धौ व्यक्तिगतस् तु यः ॥
83.57
प्रजानां कारणं सो वै विवेकञ् सम्प्रकाशकः ।
द्वितीयो ऽपि ततो देवि तमसा सत्वयोजनात् ॥
83.58
उभाभ्यान् तु रजोमूर्त्तिः निर्मितः कारणेच्छया ।
सो ऽधिपालनयोगाय तदण्डे सन्निवेशितः ॥
83.59
स्वस्वभावस्थितौ तौ तु कर्त्तृत्वे तमसा हितौ ।
प्रेरितौ तु मया देवि तमसा सृष्टिहेतुना ॥
83.60
तद् रजोभावसम्पन्नं रूपं यद् ध्य् अभिलाषजम् ।
सत्वं संक्षोभयाम् आस ब्रह्मजं रजसा महान् ॥
83.61
विक्षोभितं यदा तन् तु मुक्त्वा सत्वात्मतां पुनः ।
मम द्विषति को ऽन्यो ऽस्ति मत्समो ऽत्र महीतले ॥
83.62
ददृशुश् चाग्रतो विष्णुम् अतिकान्तवपुष्मतम् ।
कस् त्वं भो इति संज्ञाय तमसा योजितो मया ॥
83.63
सङ्क्रुद्धस् तु ततोपेन्द्रो जगत्य् अस्मिं प्रभुर् वरः ।
अहङ्कर्त्ता इति सो ऽपि ऊचुर् विश्वात्मानं प्रति ॥
83.64
मनोबुद्धिभवौ द्वौ तु तयो ऽहं हङ्कृतात्मयान् ।
प्रेरको ऽहम् इति स्वेन ममत्वेनातिमोहिताः ॥
83.65
विवादानन्तरं युद्धं तयोर् जातं परस्परम् ।
दृष्ट्या वाचा भुजाभ्यां तु मुष्टिभिश् च ततो ऽयुधैः ॥
83.66
आजङ्घ्नतु महावीर्यौ कृतवन्तौ परस्परम् ।
दोर्दण्डशब्दनिर्घातं शस्त्रसङ्घपदाहता ॥
83.67
भूर् ननर्द्द दिशः सर्व्वाः स्फुटन्तीव महायशे ।
द्युधारित्री उभे यद्वत् मिलितुं तु समिच्छते ॥
83.68
गृध्रसञ्छन्नगगनं शिवाविपुलावितन् तथा ।
घनस्तनितनिर्घोषञ् ज्वलदग्निप्रवर्षणम् ॥
83.69
भ्रमद्भिः भ्रमते ऽत्यर्थं मण्डलञ् चक्रचोदितम् ।
पतन्त्य् अन्त्रकपालोग्राः सुनिर्घातमहास्वनाः ॥
83.70
प्रचण्डवातवलिता गिरिशृङ्गा दिशो दिशः ।
महाप्रलयम् आयान्तं दृष्ट्वा युद्धे तयोस् त्व् इदम् ॥
83.71
महार्ण्णवसुकल्लोलवीचिसङ्घट्टसंकुलम् ।
अत्यन्ततमसा लब्धं युद्धं दृष्ट्वा सुदारुणम् ॥
83.72
चिन्तयित्वा विना देवि विनाशम् उपगच्छतम् ।
दर्प्पोपशमनन् ताभ्यां कृतं स्वेनैव देहिना ॥
83.73
एकार्ण्णवे महाघोरे लिङ्गरूपिणतेजसम् ।
कृत्वा ताभ्यन्तरस्थन् तु विनिवार्य्य परस्परम् ॥
83.74
सङ्लग्नबाहुयुद्धन् तु गतरोषं महात्मने ।
क्षणाद् अमेयरूपो ऽहम् अधोर्द्धन् तु व्यवस्थितः ॥
83.75
महाकालाग्निरोचिभि त्रासयित्वा उभौ प्रिये ।
मूर्च्छाकुलीकृतौ तौ तु यथा स्युर् दीनताङ् गतौ ॥
83.76
विस्मितौ च वरारोहे लिङ्गन् दृष्ट्वा सुज्वलनम् ।
नैवाश्मकाञ्चनन् तारं नारकूटन् न लोहजम् ॥
83.77
त्रपुताम्रासिसजातिम् वा नैव कान्सं न चान्यजम् ।
तेजरूपं महातेजं दृग् मुषन्तं दिवौकसोः ॥
83.78
तौ समेत्य गतौ द्वौ तु अधोर्द्धं पुरुषोत्तमौ ।
अदृष्ट्वान्तङ् गतौ भीतौ स्तोतुम् आरब्धम् ईश्वरम् ॥
83.79
नमः कालानलोग्राय शिवायाशिवहारिणे ।
अव्यक्तव्यक्तरूपाय स्थूलसूक्ष्माय शम्भवे ॥
83.80
ज्ञानात्मवृत्तिचेताय नमो भूतक्रियात्मने ।
अनन्ताय अमूर्त्ताय अनाथानाश्रिताय च ॥
83.81
तेजस्विनां महातेज दीप्तज्वालाधाराय च ।
भूर्भुवःस्वःस्वरूपाय खरूपाय महात्मने ।
महासाम्य महालिङ्ग महादेवाय वै नमः ॥
83.82
एवं याव स्तुतो देवि तयोर् देवात्मिका गिरा ।
आविर्भूतस् तु वै ताभ्यां स्वरूपेण गणाम्बिके ॥
83.83
कृत्वा तु भैरवं रूपं कालन् द्वादशलोचनम् ।
कपालमालिनं भीमं विस्फुरच्छूलपाणिनम् ॥
83.84
महोरगोपवीतन् तु विस्फुलिङ्गं हविर्मुखम् ।
खट्वाङ्गधारिणन् त्र्यक्षङ् कपालकरभासुरम् ॥
83.85
घोणशब्दकृतोत्त्रासं देवासुरमहोरगाम् ।
द्रंष्ट्राकरालवदनम् विद्युलोलाविलोकितम् ॥
83.86
दृष्ट्वा तु भयम् आपन्नौ स्थितौ सन्मीलितेक्षणौ ।
प्राश्वासितौ महादेवौ पृच्छतो व्रतम् उत्तमम् ॥
83.87
किम् एतद् अद्भुतं रूपं किम् एतद् भूषणं विभो ।
किम् एतद् भ्राजते व्योम्नि त्रिशिखं शूलम् उज्वलम् ॥
83.88
उत्तमाङ्गं शुभं कस्य यत् ते करतलस्थितम् ।
महास्थिभूषणञ् चैतत् कंतनूत्थं विराजते ॥
83.89
ततो ऽहं प्रत्युवाचेदं तयोः संबोधकं वचः ।
अनेकमुण्डकोटिभिर् येयं माला विभाति मे ॥
83.90
असङ्ख्यभुवनीशानां प्रलये तनुजैस् तथा ।
विनिबद्धा तु हे ब्रह्म विनष्टानां पुनः पुनः ॥
83.91
यानि नाराण्य् अशेषाणि ग्रीवाबाहुकटिस्थिताम् ।
नारायण त्वदीयानि भुवनीशाञ् च संक्षये ॥
Textlücke: Zwischen 83.91 und 83.92 fehlt Text unbekannten Umfangs.
83.92
मायया मांसम् आवृत्य तत्क्षणात् क्षोभ्यम् उद्यतः ।
मयापि सो त्व् अनायासा हूंकारेण नियामितः ॥
83.93
खट्वासुरेति विख्यातो असुरो देवकण्टकः ।
तदन्ते लीलया देवि शक्त्याविष्टेन चेतसा ।
घातितो हि क्षणाद् दुष्टो विध्वंस्य बलदर्प्पितः ॥
83.94
तस्याङ्गं शीघ्रम् आदाय दिव्यवज्रमयं महां ।
धृतं महायुधं यस्मात् खट्वाङ्गन् तु ततस् त्व् इदम् ॥
83.95
एतच् छ्रूत्वा तु तौ देवौ प्रणिपत्य पुनः पुनः ।
जन्ममृत्युभयत्रस्तौ पुनश् चाश्वासितौ मया ॥
83.96
दत्वा वरसहस्राणि बुद्धिकामानुसारतः ।
सृष्टिङ् कुरुष्व हे ब्रह्म त्वं पालय जनार्द्दन ॥
83.97
अजितस् त्रिषु लोकेषु सुभगश् च भविष्यसि ।
मम तुल्यबलो वत्स मच्छरीरे भविष्यसि ॥
83.98
प्रजानाङ् कारणं ब्रह्म विवेक्ता वेदवादिनाम् ।
सत्व-म्-अर्थप्रवृत्तानां त्वं तु बोद्धा भविष्यसि ।
एवम् उक्त्वा पुनश् चाहम् अन्तर्द्धानम् उपागतः ॥
83.99
खट्वाङ्गस्य समुत्पत्तिः कपालस्य तु भैरवि ।
कथिता तु समासेन अधिदेवाम् अतः शृणु ॥
83.100
तस्याङ्गं शीघ्रम् आदाय सर्व्वदेवमयं कृतम् ।
तत्केशाङ् गृह्य तत्त्रैव मया देवि निवेशिताः ॥
83.101
तस्य वस्त्राणि रक्तेन चर्च्चयित्वा शुभेक्षणे ।
निर्मितानि विचित्राणि देवाङ्गानि ध्वजानि तु ॥
83.102
मयूरहन्सपत्त्राणि विनिबद्धानि तत्त्र तु ।
त्रिगुणेन तु सूत्रेण मायातन्तुमयेन तु ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 610.
83.103
ततः खट्वाङ्गमूलेन अनन्तं सन्निवेशितम् ।
शूलरूपस् तु बोद्धव्यो कालाग्निः काञ्चिदेशतः ॥
83.104
तस्योपरिष्टा नरका अङ्गुलान्तरितास् त्रयः ।
पातालाश् चैव लोकाश् च उपर्य् उपरि संस्थिताः ॥
83.105
सूत्रग्रन्थेर् अधस्ता तु ब्रह्मा तत्र व्यवस्थितः ।
तस्योपरि स्थितो विष्णुर् मूर्द्ध्निश् चाहं वरानने ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 610.
83.106
सितसूत्रे स्थितः सत्वो ब्रह्मा तत्त्राधिदैवतम् ।
रक्ते रजस् तु विज्ञेयो विष्णुस् तत्त्राधिदैवतम् ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 610.
83.107
तमः कृष्णे विजानीयाद् अहन् तत्त्राधिदैवतम् ।
मिश्रे चाव्यक्तम् इत्य् उक्तं रजसत्वतमोमयम् ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 610.
83.108
एवं पुन् नियतिः कालो माया च वरवर्ण्णिनि ।
पिञ्छानाम् उपरिष्टा तु संस्थितानि यथाक्रमम् ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 610.
83.109
उपरिष्टा तु या काञ्चि ग्रन्थिस् तत्र व्यवस्थिता ।
यत् त्रिशूलोपरिष्टा तु तत्त्र शक्तित्त्रयं विदुः ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 610.
83.110
वामा जेष्ठा च रौद्री च वामदक्षिणमध्यगाः ।
उपरिष्टा शिवं शान्तं स्थितं सर्व्वस्य मूर्द्धनि ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 611.
83.111
कला विद्या च रागश् च पादके संव्यवस्थिताः ।
वायु ध्वजे स्थितो देवि सर्व्वासुपरिवारितः ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 611.
83.112
केशैर् नागकुलान्य् अष्टौ ज्ञातव्यानि विपश्चितैः ।
भूतप्रेतपिशाचाश् च यक्षकिन्नरचारणाः ॥
83.113
राक्षसाश् चापि वेताला पिञ्च्छकेषु व्यवस्थिताः ।
घण्टिकायां स्थिता रुद्रा गणाश् च वरवर्ण्णिनि ॥
83.114
शब्दे सरस्वती देवी स्फोटे बिन्दुर् ध्वनिर् ध्वनौ ।
योगिन्यो मातरो लामा भगिन्यः पूतनास् तथा ॥
83.115
स्कन्दाद्यास् तु ग्रहाः सर्व्वे तथा सेहारिकादयः ।
जटाभिः संस्थिता ह्य् एते अस्त्राणि विविधानि च ॥
83.116
वेदाङ्गानि तथा विद्यास्थानान्य् एव चतुर्द्दश ।
ग्रहणे संस्थिता ह्य् एते गायत्री चैव मोक्षणे ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 611.
83.117
उद्धृते तु स्थितोङ्कारः सावित्री स्थापिते विदुः ।
सर्व्वदेवमयं ह्य् एवं खट्वाङ्गं वरवर्ण्णिनि ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 611.
83.118
मया कृतन् तु तत्काले पवित्रं परमं हितम् ।
ततः खट्वासुरः शान्तम् पदं प्राप्तो वरानने ॥
83.119
एषा खट्वाङ्ग-उत्पत्तिर् यो विजानाति तत्वतः ।
स याति ब्रह्मलोकन् तु भिन्ने देहे न संशयः ॥
83.120
यो पुनर् दीक्षितात्मानो धारयेद् युक्तचेतसः ।
स वीरेशपदे लीनो नावर्त्तति-र्-अधोमुखः ॥
83.121
षट्मासम् अब्दमात्रं वा मन्त्रयुक्तस् तु यो नरः ।
खट्वाङ्गन् धारयेद् देवि दिव्यसिद्धिम् अवाप्नुयात् ॥
83.122
प्रमाणं सम्प्रवक्ष्यामि शृणुष्वेकमाना सती ।
स्वशरीरप्रमाणेन कर्त्तव्यम् अधिकं पि वा ॥
83.123
चतुर्हस्तोर्द्धतो देवि न मर्त्येषु सुखावहम् ।
त्रिहस्तन् तु शुभं विद्धि मन्त्रसिद्धिकरं हितम् ॥
83.124
अङ्गुष्ठपर्व्वमानेन कुर्यात् पञ्चाशदङ्गुलम् ।
चतुरङ्गुलमानेन परिणाहो वरानने ॥
83.125
त्रिहस्तं पञ्चपर्व्वाणि परिणाहेन कीर्त्तितम् ।
अष्टाङ्गुलपरिणाहश् चतुर्हस्तस्य सुव्रते ॥
83.126
चतुरङ्गुला भवेत् काञ्चि कीलको द्वादशाङ्गुलः ।
चतुरङ्गुलप्रवेशन् तु अधस्ताष्टाङ्गुलो भवेत् ॥
83.127
एतत् प्रमाणम् आख्यातं न्यूनञ् किञ्चिन् न कारयेत् ।
पादको हस्तमात्रस् तु प्रकुर्याच् छास्त्रवित्तमः ॥
83.128
द्वादशाङ्गुलमानन् तु तृशूलं तस्य चोपरि ।
नवाङ्गुलन् त्रिहस्ते तु इतरेषु षडङ्गुलम् ॥
83.129
पादन् तद्वत् प्रकर्त्तव्यं ध्वजञ् कुर्याद् यथेप्सितम् ।
द्वादशाङ्गुलम् आरभ्य चतुर्विंशतिकं नरैः ॥
83.130
गृहस्थैर् अपि कर्त्तव्यं यथा गुप्तं प्रजायते ।
लक्षणेन विहीनं हि यदा कुर्व्वीत साधकः ॥
83.131
विभ्रमोद्वेगविद्वेषसिद्धिहानिकरम् भवेत् ।
न्यग्रोधपादपे ऋज्वे अथ वंशमयं शुभम् ॥
83.132
सरलं देवदारूञ् च करवीरार्क्कजं तथा ।
बुकश् चाशोकखदिरो बिल्वपिप्पलशिंशपाः ॥
83.133
सप्तपर्ण्णमयं वाथ श्रीखण्डे रक्तचन्दने ।
कार्यं श्मशानकाष्ठे वा तारकाञ्चनजं तथा ॥
83.134
ताम्रजं वा महेशानि पुष्पलोहमयन् तथा ।
यथालाभेन कर्त्तव्यं साधकेन महात्मना ॥
83.135
तम् आराध्यम् प्रयत्नेन यथायुक्तेन मन्त्रिणा ।
खट्वाङ्गं पूजितं येन त्रैलोक्यं तेन पूजितम् ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 612.
83.136
खट्वाङ्गं धारितं येन धृतन् तेन चराचरम् ।
मन्त्रचर्याविहीनो ऽपि ग्रामासक्तो ऽपि यो नरः ॥
83.137
खट्वाङ्गं धारयेद् यस् तु नासौ लिप्यति पातकैः ।
ब्रह्माधिदेवतन् देवि कपालं परिकीर्त्तितम् ॥
83.138
पवित्रं परमं दिव्यम् आग्नेयं ब्रह्मसम्भवम् ।
यस् तु धारयते नित्यम् मत्परो नियमस्थितः ॥
83.139
पापहा सर्व्वमर्त्त्यानान् दर्शनाद् एव पार्व्वति ।
ब्रह्महा पितृहन्तारो भ्रातृहा मातृघातकः ॥
83.140
द्वादशाब्दानि भिक्षाशी कपालव्रतम् आचरेत् ।
मन्त्रदीक्षाविहीनो ऽपि शुध्यत्य् एव न संशयः ॥
83.141
दीक्षितो यस् तु मन्त्रज्ञः शिवभक्तिसमन्वितः ।
ब्रह्महत्यासहस्रे ऽपि सप्ताहाद् विमलो भवेत् ॥
83.142
अपापी मन्त्रयुक्तस् तु षट्मासा सिद्धिभाग् भवेत् ।
रक्षयक्षपिशाचानां भूतवेतालगुह्यकाम् ॥
83.143
अप्रधृष्यो प्रजायेत षट्मासाभ्यन्तरान् नरः ।
जायते च महेशानि मत्पुत्रो ऽतीववल्लभः ॥
83.144
यक्षिणीगुह्यकानाञ् च योगिनीनां प्रियो भवेत् ।
किन् तु तास् तत्र सानैध्यम् मया पूर्व्वम् प्रकल्पितं ॥
83.145
ब्रह्मणस्योत्तमाङ्गन् तु अतीवात्युल्बणम् महत् ।
पञ्चमन् तु समुद्भूतन् तेन संच्छादितं जगत् ॥
83.146
आदित्याश् च ग्रहाश् चैव नक्षत्त्राणि च चन्द्रमाः ।
तेजसा न स्वयं भान्ति ताराः सूर्योदये यथा ॥
83.147
ततो ऽहं संस्तुतस् तैस् तु देवैः सऋषिपुङ्गवैः ।
ततो योगेन विज्ञाय कार्यम् एतद् दिवौकसाम् ॥
83.148
गन्धवत्यातटे रम्ये स्वरूपन् दर्शितं मया ।
महाकालं महारौद्रं प्रज्वलं स्वमरीचिभिः ।
छादितः स मया तूर्ण्णं स्वप्रभाभिः पितामहः ॥
83.149
नखेन वामहस्तस्य च्छिन्नम् अत्युल्बणाननम् ।
तद् गृह्य नृत्यमानो ऽहं गतो यत्र जनार्द्दनः ॥
83.150
तिष्ठते योगम् आसीनः पुराणपुरुषोत्तमः ।
ज्वलन्तम् तेजसा स्वेन सुरासुरनमस्कृतः ॥
83.151
प्रार्थितः स मया देवि भिक्षान् देहि महातपः ।
कपालमालिनं दृष्ट्वा ज्ञात्वा च पुरुषोत्तमः ॥
83.152
स्वभुजं दर्शयाम् आस महासत्वो महाबलः ।
ततो मया त्रिशूलेन हतस् तु शुभलोचने ॥
83.153
शोणितस्यातिवेगेन ततो धारा विनिर्गता ।
महाघोषेण पतिता कपाले चातिभास्वरे ॥
83.154
तस्याः शब्देन महता कम्पिता तु वसुन्धरा ।
वामहस्तेन तत् पात्रं ततो संघट्टितम् मया ॥
83.155
अहन्य् अहनि विक्षोभ्य नारायणि रमाम्य् अहम् ।
स्वच्छायान् तत्त्र पश्यामि तेजसातीव चोल्बणाम् ॥
83.156
विचित्रा तत्र मे सृष्टिर् जाता चातिभयङ्करा ।
वामहस्ते प्रपश्यामि योगिन्यो वीरसंयुताः ॥
83.157
विद्येश्वरी महाचण्डा रक्ता चैव करालिनी ।
गुह्यकाञ् चेश्वरन् देवि तत् प्रपश्यामि भैरवम् ॥
83.158
षड् योगिन्यः प्रपश्यामि मातरो भीमविक्रमाः ।
असंख्याता महादेव्यस् तत्रोत्पन्नास् तु सुव्रते ॥
83.159
किङ्कर्य्यः किङ्कराश् चैव द्वादशादित्यवर्चसः ।
मन्थानभैरवस् तेन गीतः स परमेश्वरः ॥
83.160
दिव्येनाब्दसाहस्रेण तत् पूर्ण्णं वीरवन्दिते ।
देव्यस् तत्त्र समुत्पन्नाः शोणितस्यलोलुपाः ॥
83.161
कपाले संस्थिता देव्यो दृष्ट्वा संपूजिता मया ।
विष्णुनापि च तत्त्रस्था देव्यः संपूजिताः सदा ॥
83.162
एवञ् च ब्रह्मणेनापि भावम् आश्रित्य पूजिताः ।
ब्रह्मणस्योत्तमाङ्गे तु विष्णुशोणितपूरिते ॥
83.163
मम दृष्टिनिपातेन उत्थिता चात्त्र रश्मयः ।
कपाले तेन सानैध्यङ् कल्पयन्ति वरानने ॥
83.164
कपालं पूजितं येन देव्यस् तेन प्रपूजिताः ।
कपालं पूरितं येन तृप्तास् तस्य गभस्तयः ।
कपालन् धारितं येन धृतन् तेन चराचरम् ॥
83.165
वन्दिते वन्दितं सर्व्वं लङ्घिते लङ्घितं जगत् ।
कपालं लङ्घितं येन पापात्मा वाथ निन्दितम् ॥
83.166
लङ्घितः समयास् तेन निन्दिता गुरवस् तथा ।
तस्मान् न लङ्घयेत् प्राज्ञः कपालं त्रिदशार्च्चितम् ॥
83.167
गायत्त्र्योंकारसावित्त्रिसर्व्वशास्त्रसमन्विताः ।
कपाले चतुरो वेदा द्रष्टव्या वीरवन्दिते ॥
83.168
तेन तत्त्रैव यत् किञ्चित् पतितं भिक्षभोजने ।
पावनन् तत् पवित्रञ् च कुत्सितन्नम् अपिर् भवेत् ॥
83.169
पापाचाररतेनापि स्त्रिया वा पुरुषेण वा ।
सद्यो मान्सासवन् दत्तन् तत् पवित्रं न संशयः ॥
83.170
एकान्नम् अपि भुञ्जानो प्रतिग्रहभयोज्झितः ।
किम् पुनर् भक्षयेत् तुष्टो विशेषान् मन्त्रम् आशृतः ॥
83.171
ब्रह्माधिदेवतन् देवि कपालं वरवर्ण्णिनि ।
सर्व्वदेवमयञ् चैव सर्व्वतत्वमयं हि तत् ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 615.
83.172
चूडामणि कपालेन शिखायां यो निवेशितः ।
ईश्वरस् तत्र विज्ञेयो अधिदेवो वरानने ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 615.
83.173
ज्ञानशक्तिः क्रियाख्या च कर्ण्णिके परिकीर्त्तिते ।
कण्ठस्थिता तु या मुद्रा अहन् तत्त्राधिदैवतम् ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 615.
83.174
रुद्रो मातृगणैस् सार्द्धं ज्ञातव्यस् तु वरानने ।
अनन्तो ह्य् उपवीते तु शक्तिस् सर्व्वोर्द्धगा परा ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 615.
83.175
हस्तबाहुकटिस्थैश् च विष्णु ज्ञेयो ऽधिदैवतम् ।
शिवः शुद्धः सुनिर्व्वाण्ण ज्ञेयो भस्माधिदैवतम् ।
शक्तयो विविधाकारा जटानाम् अधिदेवताः ॥
Sanskritbeleg: Hatley 2018, IAST-Anhang F, S. 615.
83.176
एतन् महार्थदन् देवि यो विजानाति तत्वतः ।
शिववत् स तु बोद्धव्यो विरुद्धाचरणो ऽपि यः ॥
83.177
यद्य् अपिः स विकर्म्मस्थः कुरुते ऽतिवसाहसम् ।
तथापि प्रेतराजानो भवते शिवभावितः ॥
83.178
स्थित्वा शिवेच्छया तत्त्र यावत् तत्कर्म्मसंक्षयः ।
ततो याति परं स्थानं यत् तत् पदम् अनामयम् ॥
83.179
एतत् पुरा महादेवि देवैश् चीर्ण्णम् महाव्रतम् ।
ततो मृत्युजरान् त्यक्त्वा मन्त्रसिद्धिपारङ्गताः ॥
83.180
शक्रेणापि पुरा चीर्ण्णं महेन्द्रेण महाव्रतम् ।
ततो दितेर् अपत्यानां मर्द्दिता तु वरूथिनी ॥
83.181
विष्णुनापि पुरा चीर्ण्णं चक्रस्यार्थे महाव्रतम् ।
तम् अवाप्याजितो लोके जातो देवारिसूदनः ॥
83.182
ब्रह्मणेनापि वेदेषु प्रनष्टेषु महाव्रतम् ।
चरित्वाराधितो पूर्व्वम् अहं सुरवरार्च्चिते ।
मया तुष्टेन तस्याशु पुनर् वेदाः प्रकाशिताः ॥
83.183
मातृभिर् योगिनीभिश् च ग्रहवेतालराक्षसैः ।
मम रूपन् तु विज्ञाय चीर्ण्णम् एतन् महाव्रतम् ॥
83.184
मासपक्षायनञ् चाब्दम् मन्त्रयुक्तश् चरेद् यदि ।
जायते सर्व्वयोगीनां सन्मतः साधकोत्तमः ॥
83.185
तस्माद् यः सिद्धिम् अन्विच्छेत् परापरगुणात्मिकाम् ।
तन्त्रम् भैरवम् आशृत्य तेन कार्यं महाव्रतम् ॥
83.186
वेलाव्रतं समाशृत्य सिध्यते गृहमेधिनः ।
मर्त्त्यभोगाविरक्तात्मा न चोत्पतति खेतले ।
पशोर् अभावतो देवि न मेऌअकविवर्जितः ॥
Kolophon
इति पिचुमते द्वादशसाहस्रके कपालखट्वाङ्गोत्पत्ति[स्त्र्य]शीतिमः पटलः ॥ ८३ ॥
Kapitel 87: Den inneren und äußeren Kreis vergegenwärtigen – 87.140
Textgrundlage: Hatley 2020; genaue Fundstelle beim Vers.[3]
87.140
आध्यात्मञ् चिन्तयेद् बाह्यं बाह्यम् अध्यात्मिकां तथा ।
चक्रे समानभावेन ततो विन्यासम् आरभेत् ॥
Sanskritbeleg: Hatley 2020, S. 388–389.
Kapitel 90: Innere und äußere Verehrung – 90.101
Textgrundlage: Hatley 2020; die exakten Seiten und Anmerkungen sind bei jedem Vers genannt.[3]
90.101
अनेन विधिना देवि जपहोमादिकर्मसु ।
बाह्याध्यात्मेव मन्त्रज्ञः पूजां कुर्वन् प्रसिध्यति ॥
Sanskritbeleg: Hatley 2020, S. 392, Anm. 15.
Kapitel 100: Yoga und die Begegnung mit den Gottheitenfamilien – belegte Schlussaussagen
Textgrundlage: Hatley 2020; die exakten Seiten und Anmerkungen sind bei jedem Vers genannt.[3]
100.2
कुलानां साधनं नाथ कथितन् तु पुरा यथा ।
तत् तथा विदितं सर्वं कुलसिद्धिप्रदायकम् ॥
Sanskritbeleg: Hatley 2020, S. 406, Anm. 59.
100.25
मातृयोगिनिकायानि शाकिनीनाङ् कुलानि तु ।
सिध्यन्ति साधकेन्द्रस्य योगेनानेन सुव्रते ॥
Sanskritbeleg: Hatley 2020, S. 406, Anm. 59.
100.26
येन सर्वगतो भूत्वा योगिनीसिद्धिम् आप्नुयात् ।
कथयन्ति च सद्भावं कुलजं ज्ञानम् उत्तमम् ॥
Sanskritbeleg: Hatley 2020, S. 406, Anm. 59.
Kapitel 102: Die Begegnung mit den Gottheitenfamilien
Textgrundlage: Shaman Hatley, The Brahmayāmalatantra and Early Śaiva Cult of Yoginīs, Dissertation, 2007, Kapitel XCIX: Sanskrit S. 334–336, Übersetzung und Kommentar S. 419–423.[5]
Dieses Kapitel ist mit seinen 18 Originalnummern vollständig enthalten. Es beschreibt Voraussetzungen der Begegnung mit Yoginis, unterscheidet gnadenhafte und gewaltsame Begegnungen und endet mit der Vergegenwärtigung des Kulakreises. Die schwierigen und teils gewaltsamen Aussagen werden als historische Textaussagen wiedergegeben.
Hatleys Dissertation von 2007 ediert das Kapitel unter XCIX (99). Die hier verwendete Zählung 102 folgt seiner Handschriftenübersicht von 2018, S. 519: Beide Nachweise beziehen sich auf die Blätter 353v–354r desselben Hauptzeugen. Die ältere Kapitelziffer bleibt im Sanskritkolophon erhalten; bei jedem Vers ist die alte Fundstelle zusätzlich genannt.
भैरव उवाच ॥
102.1
मेलापकं महेशानि यथा वृत्तं कुलात्मकम् ।
तथा ते -म्- अभिधास्यामि शृणुष्वायतलोचने ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.1 (hier 102.1), S. 334.
102.2
चर्यया नियमस्थस्य जपतो होमतत्परः ।
ध्यानस्थस्य वरारोहे कुलमेलापकं भवेत् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.2 (hier 102.2), S. 334.
102.3
कदाचिच् चरुमार्गेन ज्ञानसम्बोधनेन वा ।
मन्त्रवीर्यप्रधानेन देहशुद्धिभवेन वा ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.3 (hier 102.3), S. 334.
102.4
कुलाचारप्रदानेन स्वसंस्कारेण वा क्वचित् ।
अनुग्रहं प्रकुर्वन्ति कृत्वा मेलापकं प्रिये ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.4 (hier 102.4), S. 334.
102.5
यदा तु कुलसिद्धीनां भाजनस् तु महौजसः ।
तदावलोकनं कृत्वा हरते प्राकृतं भयम् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.5 (hier 102.5), S. 334.
102.6
वीरसत्त्वकृतस्य दृष्टेर् आयान्ति गोचरम् ।
नान्यथा तु महादेवि क्लिष्टस्यापि कदाचन ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.6 (hier 102.6), S. 334.
102.7
समयो ह्य् एष योगीनां मन्दसत्त्वे न दर्शनम् ।
न वादं स्नेहता देवि न च बाह्ये प्रकाशनम् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.7 (hier 102.7), S. 334.
102.8
जन्महीनापशुत्यागस् तिरस्कारे न मानिता ।
नाभिमानं स्वविज्ञाने नाशिवेच्छा त्व् अनुग्रहम् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.8 (hier 102.8), S. 335.
102.9
समयैर् नवभिर् युक्ताः क्रीडन्ते स्वेच्छया प्रिये ।
ददन्ति साधकेन्द्राणां कामान् शिवपदान्तिकान् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.9 (hier 102.9), S. 335.
102.10
मेलापकास् तथान्ये ये हठाᳶ प्रोक्ता वरानने ।
ते तु दाकिनीवृन्दानां न शुद्धानां नियोजयेत् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.10 (hier 102.10), S. 335.
102.11
एवं मेलापकं प्राप्ताः साधकेन्द्रा वरानने ।
प्राप्नुवन्तीप्सितान् कामान् विलोमात् तु विपर्ययम् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.11 (hier 102.11), S. 335.
102.12
यथा देवीपदं प्राप्ता विलोमाद् डाकिनी भवेत् ।
साधको ऽपि तथा देवि तन्मध्ये पशुतां व्रजेत् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.12 (hier 102.12), S. 335.
102.13
किं तु तेनैव मार्गेण शक्तिविज्ञानघातनात् ।
प्रभावेन कुलानां तु सो ऽपि सामान्यतां पुनः ।
मुक्त्वा देहम् अवाप्नोति जातिज्ञाश् च प्रजायते ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.13 (hier 102.13), S. 335.
102.14
यथा मेलापके सिद्धः प्रभुत्वं व्रजते प्रिये ।
न तथा पशुमार्गेण क्रूरसत्त्वस् तु सुव्रते ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.14 (hier 102.14), S. 335.
102.15
पुष्पधूपसुगन्धाद्यैः पूजयन् वा शिवाध्वरे ।
नित्योदयाद् अवाप्नोति शक्तिमेलापकं परम् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.15 (hier 102.15), S. 335.
102.16
एवं तु व्यक्तशक्तीनां स्फुटमेलापकं विना ।
कुलसप्तादशं चक्रं समभ्यस्यन् गुहं प्रिये ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.16 (hier 102.16), S. 335.
102.17
याः काश्चित् सिद्धयो देवि अधमा मध्यमोत्तमाः ।
मेलापके तु ताः सर्वा लभते साधकोत्तमः ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.17 (hier 102.17), S. 336.
102.18
भूतं भव्यं भविष्यं च आत्मनो ऽथ परस्य वा ।
सर्वं जानाति देवेशे कुलचक्रम् अनुस्मरन् ॥
Sanskritbeleg: Hatley 2007, Kap. XCIX.18 (hier 102.18), S. 336.
Kolophon
इति भैरवस्रोतसि ब्रह्मयामले द्वादशसाहस्रके
नवनवतिमः पटलः ॥ ९९ ॥
Quellen
- ↑ 1,0 1,1 1,2 1,3 1,4 Shaman Hatley: The Brahmayāmalatantra or Picumata. Volume I: Chapters 1–2, 39–40 & 83. Revelation, Ritual, and Material Culture in an Early Śaiva Tantra. Collection Indologie 133, Early Tantra Series 5. Institut Français de Pondichéry / EFEO / Universität Hamburg, 2018. ISBN 978-81-8470-226-2. Verlagsnachweis.
- ↑ 2,0 2,1 2,2 Csaba Kiss: The Brahmayāmalatantra or Picumata. Volume II. The Religious Observances and Sexual Rituals of the Tantric Practitioner: Chapters 3, 21, and 45. Collection Indologie 130, Early Tantra Series 3. Institut Français de Pondichéry / EFEO / Universität Hamburg, 2015. Digitalisat.
- ↑ 3,0 3,1 3,2 3,3 3,4 3,5 3,6 3,7 3,8 Shaman Hatley: „The Lotus Garland (padmamālā) and Cord of Power (śaktitantu): The Brahmayāmala’s Integration of Inner and Outer Ritual“. In: Dominic Goodall, Shaman Hatley, Harunaga Isaacson, Srilata Raman (Hrsg.): Śaivism and the Tantric Traditions. Essays in Honour of Alexis G. J. S. Sanderson. Brill, Leiden/Boston 2020, S. 387–408. DOI; frei zugänglicher Bandnachweis der Library of Congress.
- ↑ 4,0 4,1 4,2 4,3 Shaman Hatley: „Horror and Wonder in a Putrid Trench: The Brahmayāmala’s ‘Rite of the Pit of Power’ (siddhigarttāyāga)“. Asian Literature and Translation 12/1, 2025, S. 80–98. DOI. Die Kapitelzählung 48 ist mit Hatley 2018, Anhang A, S. 515, abgeglichen; zur widersprüchlichen Ziffer 46 siehe die Kapiteleinführung.
- ↑ 5,0 5,1 5,2 Shaman Hatley: The Brahmayāmalatantra and Early Śaiva Cult of Yoginīs. Dissertation, University of Pennsylvania, 2007. Digitalisat. Kapitelzählung mit Hatley 2018, Anhang A, abgeglichen; keine Vermischung mit den überarbeiteten Editionen der Kapitel 1 und 2.