Kalottara Sanskrit Devanagari

Aus Yogawiki

Kalottara – Sanskrit in Devanagari: Hier der Sanskrit Text des Kalottara Tantra, soweit er rekonstruierbar ist. Es gibt einige Lücken. Einleitung und Übersetzung: Kalottara. Die deutschen Überschriften dienen ausschließlich der Orientierung.

Kapitel 2 – Erschließung der Mantras

|| श्रीः ||
कालोत्तरम् ||
|| हरिः ओम् ||
तदेवं त्रिभिरुच्चार्य महेशस्य तु मन्त्रकम् |
मूर्तिर्माहेश्वरस्यैका सकलस्य प्रकीर्तिताः || १ ||

प्रथमं प्रथमं ग्राह्यं बिन्दुनादसमन्वितम् |
अनन्तेशस्य बीजं तु जपाकुसुमसुप्रभम् || २ ||

चतुर्भुजं त्रिणेत्रं तु परशुं शूलधारिणम् |
अष्टमस्य तृतीयं तु षष्ठेन तु समन्वितम् || ३ ||

बिन्दुनाद समायुक्तं सूक्ष्मबीजमिहोच्यते |
सूक्ष्मस्य च तृतीयं तु चतुर्भुजं त्रिणेत्रकम् || ४ ||

अष्टमस्य प्रथमं स्यात् प्रथमस्य तृतीयकम् |
बिन्दुनादसमाक्रान्तं शिवोत्तमस्य च बीजकम् || ५ ||

त्रिणेत्रं चतुर्भुजं चैव कुन्दपुष्पसमप्रभम् |
प्रथमस्यैकादशं ग्राह्यं बिन्दुनादसमन्वितम् || ६ ||

नीलजीमूतसंकाशं त्रिणेत्रं च चतुर्भुजम् |
पुनरेकादशं ग्राह्यं बिन्दुनादसमन्वितम् || ७ ||

एकरुद्रस्य बीजं तु * * * * * * * * * |
त्रिमूर्तिं कुङ्कुमप्रख्यं त्रिणेत्रं च चतुर्भुजम् || ८ ||

अष्टमं प्रथमं ग्राह्यं सप्तमस्य द्वितीयकम् |
चतुर्थस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ९ ||

श्रीकण्ठस्य तु बीजं तत् जपाकुसुमसन्निभम् |
त्रिणेत्रं चतुर्भुजं ज्ञेयं शूलं परशुधारिणम् || १० ||

इन्द्रस्य यं तृतीयं तु बिन्दुनादसमन्वितम् |
शिखण्डिबीजमाख्यातं भिन्नाञ्जनसमप्रभम् || ११अम् || १० ||

||

चतुर्भुजं त्रिणेत्रं तु शूलं परशुधारिणम् |
सर्वे वै वृषभारूढा जटामकुटधारिणः || १२ ||

एकवक्त्रयुताः सर्वे सर्वाभरणभूषिताः |
शिवस्य संहिता वत्स सर्वे पद्मासनस्थिताः || १३ ||

कस्मिन्नण्डे सप्तलोके कालाग्न्यादिशिवान्तके |
श्रीकण्ठनाथाधिपतिरिति नित्यं प्रकीर्तितम् || १४ ||

बहिरण्डस्य सप्तानां शूलं नित्यं षडानन |
सूक्ष्माण्डं शिवोत्तमाण्डमेकनेत्ररुद्राण्डकम् || १५ ||

अनन्तेशं त्रिमूर्त्यण्डं शिखण्डी सप्तमं भवेत् |
प्रथमस्य पञ्चमं गृह्य बिन्दुनादसमन्वितम् || १६ ||

उमाबीजं समाख्यातं राजावर्तसमप्रभम् |
त्रिवर्गं प्रथमं गृह्य बिन्दुनाद समन्वितम् || १७ ||

नीलजीमूतसंकाशं त्रिणेत्रं टङ्कधारिणम् |
पञ्चमं पञ्चवर्गस्य बिन्दुनादसमन्वितम् || १८ ||

भिन्नाञ्जनसमप्रख्यं त्रिणेत्रं द्विभुजं भवेत् |
षष्ठस्य पञ्चमं गृह्यं बिन्दुनादसमन्वितम् || १९ ||

बिसिनीपत्रसंकाशं द्विनेत्रं च द्विबाहुकम् |
सप्तमस्य तुरीयं तु प्रथमस्य तु सप्तकम् || २० ||

बिन्दुनादसमाक्रान्तं बृषभस्य तु रूपकम् |
विष्णुक्रान्तिसमप्रख्यं त्रिणेत्रं शूलधारिणम् || २१ ||

द्विवर्गस्य तृतीयं तु बिन्दुशेखरभूषितम् |
नीलाञ्जनसमप्रख्यं गणेशस्य स्वरूपकम् || २२ ||

गजाननं गजहस्तं गजकर्णं त्रिलोचनम् |
लम्बोदरं माणवकं श्वेतपद्मोपरि स्थितम् || २३ ||

मूषिकवाहनं देवं गणेशं विघ्ननायकम् |
भृङ्गीं रुटिं महात्मानं षष्ठस्य तु चतुर्थकम् || २४ ||

स्नायवस्थिकृतसंबन्धं द्विनेत्रं शङ्खकन्दवत् |
अष्टमस्य तृतीयं तु षष्ठं चैव विभूषितम् || २५ ||

चतुर्भुजं द्विनेत्रं तु डा(दा)डिमीकुसुमप्रभम् |
मयूरवाहनं देवं शक्तितोमरधारिणम् || २६ ||

घण्टावज्रसमायुक्तं कुक्कुटध्वजधारिणम् |
अभयं चोपवीतं तु दशसंवत्सराकृतिम् || २७ ||

उद्देशमात्रं कथितं विस्तारं प्रोच्यते पुनः |
बीजं चैवाष्टमूर्तेस्तु वक्ष्यामि शृणु षण्मुख || २८ ||

चतुर्थं षष्ठवर्गस्य बिन्दुनादसमन्वितम् |
शङ्खगोक्षीरधवलं त्रिणेत्रं तु चतुर्भुजम् || २९ ||

जटामकुटसंयुक्तं सर्वाभरणभूषितम् |
पूर्वदिक्स्थापयेद्वत्स श्वेतपद्मोपरिस्थितम् || ३० ||

पञ्चमं सप्तवर्गस्य बिन्दुनादसमन्वितम् |
चतुर्भुजं त्रिणेत्रं च मार्ताण्डोदयसप्रभम् || ३१ ||

सर्वाभरणसंयुक्तमाग्नेययां दिशि कल्पयेत् |
ईशानमीशं दिग्भागे चतुर्थे स्वरमेव तत् || ३२ ||

बिन्दुनाद समाक्रान्तं तुषाररजतप्रभम् |
चतुर्भुजं त्रिणेत्रं च शूलं परशुधारिणम् || ३३ ||

प्रथमं षष्ठवर्गस्य बिन्दुशेखरभूषितम् |
चतुर्भुजं त्रिणेत्रं च याम्यभागे व्यवस्थितम् || ३४ ||

पशुपतिं महात्मानं शूलं परशुधारिणम् |
रुद्रं निर्-ऋतिदिग्भागे द्विनेत्रं तु चतुर्भुजम् || ३५ ||

सप्तमस्य द्वितीयं तु प्रथमस्य तु पञ्चमम् |
बिन्दुशेखरमारूढं जटामकुटधारिणम् || ३६ ||

प्रथमे पञ्चमं गृह्य बिन्दुनाद समन्वितम् |
चतुर्भुजं त्रिणेत्रं च जटामकुटमण्डितम् || ३७ ||

वारुण्यां कल्पयेद्धीमान् शूलं परशुधारिणम् |
चतुर्थं षष्ठवर्गस्य चतुर्थस्वरसंयुतम् || ३८ ||

बिदुशेखरमारूढं वायव्यां दिशि कल्पयेत् |
चतुर्भुजं त्रिणेत्रं च शूलं परशुधारिणम् || ३९ ||

पञ्चमं षष्ठवर्गस्य बिन्दुनाद समन्वितम् |
चतुर्भुजं त्रिणेत्रं च याम्यायां कल्पयेद्गुह || ४० ||

जटामकुटयुक्तं च शूलं परशुधारिणम् |
सर्वे पद्मासनाह्येते सर्वशक्ति समन्विताः || ४१ ||

वामादि सर्वभूतान्तं क्रमशः परिकल्पयेत् |
महादेवो हरोरुद्रः शङ्करो नीललोहितः || ४२ ||

ईशानो विजयो भीमो देवदेवो भवोद्भवः |
कपालीशस्य विजेया रुद्रास्त्वेकादश स्मृताः || ४३ ||

सर्वे गोक्षीरधवलाः व्यालयज्ञोपवीतकाः |
स्वनामाद्यक्षरं ह्येषां बिन्दुनादसमन्वितम् || ४४ ||

चतुर्भुजं त्रिणेत्रं च शूलं परशुधारिणम् |
जटामकुटधारं च सर्वाभरणभूषितम् || ४५ ||

सर्वे पद्मासना ह्येते सर्वे शक्तिसमन्विताः |
पुष्टिस्तुष्टिस्तथा * * लक्ष्मीश्चैव सरस्वती || ४६ ||

श्रुतिः स्मृतिर्दया क्षान्तिः मेधा प्रज्ञा च सुव्रत |
एकाश्चैकादशाः शक्त्यो रुद्रास्त्वेका दशश्च वै || ४७ ||

वै कर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः |
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः || ४८ ||

आदित्यश्च तथा सूर्यः अंशुमाली दिवाकरः |
एते वै द्वादशादित्याः पूजयेत्पीठवाह्यतः || ४९ ||

स्वनामाद्यक्षरेणैव बिन्दुनाद समन्वितम् |
सर्वे ते द्विभुजा ज्ञेया एकवक्त्रा द्विवक्त्रकाः || ५० ||

सर्वाभरणसंयुक्ताः सर्वे मण्डलसंस्थिताः |
सर्वे शक्तिसमारूढाः पद्महस्ताश्च रक्तकाः || ५१ ||

उषा प्रभा च सन्ध्या च प्रज्ञा मेधा च मालिनी |
सावित्री चैव गायत्री धृतिः कान्तिर्मतिर्द्युतिः || ५२ ||

एता द्वादश शक्त्यश्च द्वादशादित्यशक्तयः |
गगन स्पर्शनस्तेजो रसश्च पृथिवीति च || ५३ ||

चन्द्रः सूर्यः स आत्मा च वसवश्चाष्ट पूजयेत् |
स्वनामाद्यक्षरेणैव बिन्दुनाद समन्विताः || ५४ ||

सर्वे ते द्विभुजा ज्ञेया एकवक्त्रा द्विनेत्रकाः |
सर्वाभरणसंयुक्ताः सर्वे पद्मासनस्थिताः || ५५ ||

द्रुतचामीकरप्रख्याः सर्वे शक्ति समन्विताः |
तेजी वापी च धारिणि सोमी सूर्यवती चैव || ५६ ||

श्रीमती चाष्ट कीर्तिताः गागनी वायवी चैव |
अष्टौ च वसुशक्त्यश्च क्रमशः परिकल्पयेत् || ५७ ||

गभस्ति स्पर्शनो वायुरनिलो मारुतस्तथा |
प्राणः प्राणेश जीवेशौ मरुतश्चाश्च पूजयेत् || ५८ ||

स्वनामाद्य क्षरेणैव बिन्दुनाद समन्वितः |
सर्वे ते द्विभुजाश्चैव द्विनेत्राश्चैकवक्त्रकाः || ५९ ||

सर्वे मरकत प्रख्यास्सर्वाभरणभूषिताः |
विलासिनी सम्मुखी च स्वरूपा च यशस्विनी || ६० ||

चन्द्रा चन्द्रमुखी चैव निर्मला पूर्णचन्द्रिका |
सर्वास्ते शक्तिबीजास्तु स्वनामाद्यक्षरं भवेत् || ६१ ||

बिन्दुनाद शिखाक्रान्तं शक्तीना दीर्घ उच्यते |
गन्धर्वाश्चारणाः सिद्धाः यक्षा नागाश्च किन्नराः || ६२ ||

विद्याधरा यातुधाना गारुडाश्च महोर्मिकाः |
जयश्चा स्पर्शरासश्च असुराश्च त्रयोदश || ६३ ||

स्वनामाद्यक्षरेणैव बिन्दुनाद समन्वितम् |
सर्वे ते द्विभुजा ज्ञेयाः द्विनेत्राश्चैकवक्त्रकाः || ६४ ||

बाह्यावरणे संपूज्य सर्वे सिद्धिमवाप्नुयात् |
शेषान् मातृगणान् सर्वान् स्वनामाद्येन पूजयेत् || ६५ ||

दश वै लोकपालानां अस्त्राणां तु तथैव च |
इन्द्रमग्निं यम रक्षो वरुणं वायुमेव च || ६६ ||

सोमेशानामनन्तं च ब्रह्मा च दशकं भवेत् |
वज्रं शक्तिश्च दण्डश्च खड्गं पाशस्तथाङ्कुशम् || ६७ ||

खड्ग दाभ त्रिशूलं च पद्मं चैव तु चार्चयेत् |
सर्वे ते द्विभुजा ज्ञेयाः एकवक्त्रा द्विलोचनाः || ६८ ||

चतुर्भुजं चैवेशानं त्रिणेत्रं चैकवक्त्रकम् |
जटामकुटधारं च नागयज्ञोपवीतकम् || ६९ ||

स्वनामाद्यक्षरेणैव बिन्दुनाद समन्वितम् |
सर्वे पद्मासना ह्येते शिवैक निहितेक्षणाः || ७० ||

सर्वेषां शक्तयश्चैव स्वनामाद्येन वै गुह |
शक्तीनामपि सर्वासां आधारत्वेन वै गुह || ७१ ||

स्वशक्त्याधिष्ठिता देवाः पद्मस्योपरि वै गुह |

इति श्रीकालोत्तरे मन्त्रोद्धारपटलो द्वितीयः || २ ||

Kapitel 3 – Rituelles Bad

ईश्वर उवाच-
अतः परं प्रवक्ष्यामि स्नानं पापहरं परम् |
मृत्काष्ठं गोमयं पुषपं तिलमामलकं शुभम् || १ ||

कुश द्रव्यं गृहीत्वा तु नदी गच्छतु संगतः |
प्रयत्नेन पुमान् स्नायात् न च गृह्योदकेन तु || २ ||

समुद्रगां विशेषेण तदलाभे बृहृत्सरः |
तदलाभे तटाकं स्यात् तदलाभे तु पुष्करः || ३ ||

तदलाभे दनुमुखं गत्वा चैव समाहितः |
प्रभूते सति नाल्पं तु स्नानाय स्यात्कदाचन || ४ ||

जलतीरे निधातव्या क्षालयित्वा तु देशिकः |
रविं दक्षिणतः कृत्वा दिवा विण्मूत्रसर्जनम् || ५ ||

शिरोऽव कुण्ठन कृत्वा मौनेन तु विसर्जयेत् |
नालिकेरफलं मात्रं शौचार्थं मृदमाहरेत् || ६ ||

दशकृत्वो मृदं दद्यात् गुदे वै गृहमेधिकः |
मेढ्रे तु त्रिमृदं दद्यात् वृषणे च तथैव च || ७ ||

वामं तु पञ्चभिः क्षाल्य द्वयोश्च दश वै भवेत् |
आमली फलमात्रेण पादमेकं तु क्षालयेत् || ८ ||

अन्यच्च तावदेवं तु आचम्य च विधानवित् |
त्रिः प्राश्यापो द्विरुन्मृज्य पादौ प्रोक्ष्य प्रमार्ज्य च || ९ ||

अङ्गुष्ठा नामिकाभ्यां च चक्षुणी समुपस्पृशेत् |
घ्राणद्वयं तथा स्पृश्य श्रोत्रे * * * * * * त् || १० ||

अङ्गुष्ठतर्जनीभ्यां तु बाहू चैव स्पृशेद्बुधः |
सर्वाभिरङ्गुलीभिस्तु नाभिं संस्पृश्य देशिकः || ११ ||

हृदयं करतलेन अङ्गुष्ठेन शिरः स्पृशेत् |
हृद्गाभिः शुध्यते विप्रः कर्णकाभिस्तु क्षत्रियः || १२ ||

वैश्यः प्राशिकमात्रेण शूद्रोऽद्भिः स्पृष्ट एव च |
हृदयेन मृदं वत्स त्रिभागं कारयेद्बुधः || १३ ||

पूर्वदक्षिणोत्तर तत्पुरुषाघोरवामतः |
पूर्वमृद्भागं वै वत्स दशदिक्षु विनिक्षिपेत् || १४ ||

शिवास्त्रेणैव मतिमान् उत्क्रमेण समाहितः |
दक्षिणेन मृदा चैव सर्वाङ्गं समुपस्पृशेत् || १५ ||

हृदयेन तु सर्वाङ्गं लेपयेद्धृतमुद्रया |
उत्तरेण मृदा चैव शिवतीर्थं तु कल्पयेत् || १६ ||

मलस्नानं पुरा कृत्वा मन्त्रस्नानं ततः कुरु |
नाराचास्त्र प्रयोगेण प्रक्षिपेज्जलमध्यतः || १७ ||

एवं स्नात्वा तीर्थमध्ये त्रिरुन्मृज्योदयेन तु |
पुनर्वै गोमयेनैव सर्वाङ्गं समुप स्पृशेत् || १८ ||

शिरं ईशानमन्त्रेण मुखं तत्पुरुषेण तु |
अघोरेणापि हृदयं गुह्य वामेन लेपयेत् || १९ ||

पादयोः सद्यमन्त्रेण लेपयित्वा तु मार्जयेत् |
पवित्रैव्योमममन्त्रेण मार्जयित्वा तु मन्त्रवित् || २० ||

प्रासादे नैव मन्त्रेण मार्जयेत्सप्त पञ्च च |
कलशमुद्रां तु संकल्प्य प्रासादेनाभिषिञ्चयेत् || २१ ||

पञ्चविंशति तत्सप्तविंशति तत्वकान् |
नाभिमग्रोदके स्थिवा संमुखं सूर्यसन्निधौ || २२ ||

तर्पयित्वा तु तत्रैव पवित्रैश्च शिवाङ्गकैः |
विद्येश्वरं शिवं चैव रुद्रैकादशकानपि || २३ ||

अष्टमूर्त्यधिपां चैव द्वादशादित्यकानपि |
तीर्थमासाद्य मन्त्रज्ञः कुशैः पुष्पैश्च संयुतम् || २४ ||

गोमयेन मृदा चैव हृदा वा शिवमन्त्रतः |
सर्वाङ्गं लेपयित्वा तु मार्जयित्वा पवित्रकैः || २५ ||

गोमयेन मृदं चैव पुष्पगन्ध समन्वितम् |
प्रक्षिपेन्मूलमन्त्रेण कुरुमज्य समाहितः || २६ ||

तत्रैव सूर्यमुद्दिश्य षडक्षरेणोदकं ददेत् |
तीर्थमासाद्य मन्त्रज्ञ आचम्य च विधानतः || २७ ||

उदक्षवामदेवेन प्राशयेत्सुसमाहितः |
आपः पुनन्तु वै वत्स अघोरात्पिण्डमन्त्रतः || २८ ||

ईशेन मार्जयित्वा तु आपो हिष्ठेति मन्त्रतः |
पिण्डेशे नैव वा वत्स मार्जयेद्व्योममन्त्रतः || २९ ||

प्रदक्षिणीकृत्य जले ततः सूर्याञ्जलिं ददेत् |
तत्पुरुषं जपेद्धीमान् अष्टोत्तरसहस्रकम् || ३० ||

तदर्धं वा जपेद्धीमान् अष्टोत्तरशतं तु वा |
तद्वज्जपेत् तु सावित्रं प्रासादं च पुनर्जपेत् || ३१ ||

प्रासादं जपेद्धीमान् सर्वकामार्थ सिद्धिदम् |
प्रासादेन महासेन सूर्याय सलिलं ददेत् || ३२ ||

उपस्थानं जपेद्वत्स पञ्चब्रह्मशिवाङ्गकैः |
अष्टविद्येश्वरान्मन्त्रान् रुद्रैकादशमन्त्रकान् || ३३ ||

अष्टमूर्त्याधिकान् मन्त्रान् आदित्यांश्च वसूस्तथा |
व्योमव्यापिनमावर्त्य ऊर्ध्वबाहुस्थितो बुधः || ३४ ||

उपा * * पादिरूपादीयं रुद्रसूक्तं तथैव च |
प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणमेत् क्षितौ || ३५ ||

अर्घ्यं दत्वा विधानेन त्र्यक्षरेणं षडक्षरैः |
रक्तचन्दनगन्धेन अक्षतं न च तण्डुलम् || ३६ ||

करंवीरं जपां वापि उभयं वापि सुव्रत |
ताम्रपात्रे तु संस्थाप्य हस्तमात्रे तु मण्डले || ३७ ||

आवाहयित्वा तं सूर्यं षडक्षरसमाहिताः |
पाद्यमाचमनं दत्त्वा अर्घ्यं तस्मै निवेदयेत् || ३८ ||

जयेत्त्रयक्षरं तत्त्वं अष्टोतरशतं पुनः |
विसर्जयित्वा देवेशं तर्पयेन्मन्त्रपूर्वकम् || ३९ ||

देवानृषीन् पितॄश्चैव वामाघोरेण सद्यतः |
शिवस्य दशवारं तु तर्पयेन्मूलमन्त्रतः || ४० ||

सदाशिव महेशं च नवधाष्ट च तर्पयेत् |
विद्येश्वरान्मूर्तिपांश्च रुद्रैकादश एव च || ४१ ||

आदित्यांश्च वसूंश्चैव ब्रह्म विष्णुगुहांस्तथा |
अश्विनौ मरुतश्चैव लोकपालगणेश्वरान् || ४२ ||

यक्षविद्याधरांश्चैव किं पुरुषान् गारुडांस्तथा |
गन्धर्वांश्चारणान् सिद्धान् नागान्वै यातुधानकान् || ४३ ||

ऋषींश्चाप्सरसश्चैव असुरांश्च पिशाचकान् |
भूतवेतालकुश्माण्डान् कुमारपाहपूतनान् || ४४ ||

देवग्रहांस्तथा चैव तर्पयेन्नामपूर्वकम् |
एतेषां चैव पत्नीनां कुमाराणां च वै बुधः || ४५ ||

तर्पणादि पठेनैव तर्पयेदेवमादरात् |
विष्णुब्रह्मेन्द्ररुद्राणां सप्तवारं तु तर्पयेत् || ४६ ||

आदित्यांश्च वसूंश्चैव यक्षान् वै पञ्च तर्पयेत् |
शेषान् वैणां सर्वदेवानां त्रिवारं चैव तर्पयेत् || ४७ ||

गन्धर्वांश्च त्रिवारेण अन्यांश्चैत्येकधा भवेत् |
देवपत्नीर्देवपुत्रान् त्रिवारं तर्पयेद्गुह || ४८ ||

देवानामुपवीतेन ऋषीणां कर्णलम्बितम् |
पितॄणां प्राचीनावीती तर्पयेत्सुसमाहितः || ४९ ||

दैविकेन तु तीर्थेन दैवतान् तर्पयेद्बुधः |
आर्षेणैव तु तीर्थेन ऋषीणां तर्पयेत्पुनः || ५० ||

पैतृकेन तु तीर्थेन पितॄणां तर्पयेत्पुनः |
कनिष्ठिकाङ्गुलिमूले तु दैविकं तीर्थमुच्यते || ५१ ||

अग्रैस्तु ऋषितीर्थं स्यात् पैतृकोङ्गुष्ठमूलतः |
मध्ये करतलस्यापि शैवं तीर्थमुदाहृतम् || ५२ ||

वैष्णवं तस्य वामे तु दक्षिणे ब्राह्ममुच्यते |
तस्य पूर्वे सूर्यतीर्थं पश्चिमे वारुणं भवेत् || ५३ ||

आग्नेययामग्नितीर्थं तु नैर्-ऋत्यामासुरं भवेत् |
वायव्यां पावनं तीर्थं ऐशान्यां रुद्रतीर्थकम् || ५४ ||

विप्राणां दक्षिणे हस्ते तीर्थाद्वादश कीर्तिताः |
तस्मात्सर्वप्रयत्नेन ब्राह्मणस्य कराच्च्युतम् || ५५ ||

तोयं गङ्गासमं वत्स सर्वपापक्षयं भवेत् |
मन्वगस्त्यवसिष्ठाश्च गौतमाङ्गिरसस्तथा || ५६ ||

विश्वामित्रभरद्वाजावत्रिर्नारद एव च |
पैङ्गदीर्घमतो व्यास शौनको मामतो यदि || ५७ ||

पराश रापस्तम्बौ च बोधायनसुमन्तुके |
शालिकिर्जमदग्निश्च उपमन्युर्वामदेवकः || ५८ ||

त्रिवारं तर्पयेदेतान् अन्यान् सर्वानृषीनपि |
आर्षेणैव तु तीर्थेन ऋषीन् सर्वांश्च तर्पयेत् || ५९ ||

पितृन् पितामहांश्चैव प्रपितामहसंज्ञिकान् |
मातामह महीश्चैव मातुर्मातामहीति च || ६० ||

मातामहीति काश्चेति तर्पयेत्पैतृकेण तु |
गुरुर्माता पिता चैव तन्माता तत्पितापि च || ६१ ||

मित्र पुत्र कलत्राणि तर्पयेत्पैतृकेण तु |
कुश पुष्पाक्षतेनैव देवानां तर्पयेद्बुधः || ६२ ||

कुशैः सर्व ऋषीणां तु पितॄणां च तिलेन च |
देवानां च ऋषीणां च जलेनैव तु तर्पयेत् || ६३ ||

पितॄणां जलतीरे तु नित्ये चैव यथाविधि |
प्रेतके कुम्भतो हस्ते मुकीशक्तिं तिलेन च || ६४ ||

तर्पयित्वा विधानेन आचम्य च विधानतः |
अध्यायनं ततः कृत्वा वक्त्रैर्वेदादिभिस्तथा || ६५ ||

व्योमव्यापि शिवं वस्त्रं त्र्यम्बकत्वरितं द्रुतम् |
अथैकादश रुद्रं च पुरुषसूक्तं जपेत्ततः || ६६ ||

अरुणं शिवसंकल्पं जपेन्नित्यं सुयन्त्रितः |
वामदक्षिणहस्ते तु तर्जन्यङ्गुष्ठ हस्तके || ६७ ||

प्रासादं च जपेत् पश्चात् याव * * समाहितः |
स्नानवस्त्रं प्रपीड्यैव तीर्थं संहृत्य बुद्धिमान् || ६८ ||

चक्रवत्सूपचारेण सुगन्धामलकादिभिः |
तैलं पिष्टं च गन्धं च अक्षवृक्षस्य चूर्णकम् || ६९ ||

अष्टमृद्भिः समायुक्तं शङ्खदुन्दुभिनिस्वनैः |
स्नानं कुर्यात्प्रयत्नेन पूर्वं ब्राह्म समाचरेत् || ७० ||

स्नाने देवार्चने चैव समाधौ च जपे तथा |
भोजने वैश्वकार्ये च मौनं षड्धा विधीयते || ७१ ||

एवं स्नात्वा विधानेन सर्वपापक्षयो भवेत् |
विघ्नानां विविधानां च क्षिप्रमुच्चाटनं भवेत् || ७२ ||

संहरेच्छैव तीर्थं तु हृदा तु हृदये न्यसेत् |
गच्छेदायतनं मन्त्री पुष्प हस्ते विचक्षणः || ७३ ||

इति कालोत्तरे स्नानपटलस्तृतीयः || ३ ||

Kapitel 4 – Das Aschebad

ईश्वर उवाच-
भस्मस्नानं प्रवक्ष्यामि सांप्रतं शृणु षण्मुख |
कपिला गोभयं श्रेष्ठं जरागोभयमेव || १ ||

वस्त्रं हृदा तु संगृह्य शुष्कं वै शिरसा पुनः |
शिरामन्त्रेण दग्धावै सद्योजातेन ग्राहयेत् || २ ||

अलाबुपात्रे मतिमान् भ* * * * * रे तु वा क्षिपेत् |
मृत्कुम्भे वा नवे स्थाप्य कवचेनाभिरक्षितम् || ३ ||

दक्षिणेन करेणैव वामहस्ते तु विन्यसेत् |
सर्वमन्त्रैः सकृद्वत्स अभिमन्त्र्य सकृत्सकृत् || ४ ||

भस्माधारे तु वा मन्त्री शङ्खे वा ताम्रपात्रके |
श्रेष्ठं सुवर्णपात्रं तु रजतं मध्यमं भवेत् || ५ ||

कन्यसं ताम्रपात्रं तु अलाभे मृण्मयं भवेत् |
अलाबुपात्र मधमं पोट्टली चाधमाधमम् || ६ ||

पञ्चब्रह्म विवाङ्गैश्च व्योमव्यापिन् जपेत्सकृत् |
शिर ऊर्ध्वं * * शेन मुखं तत्पुरुषेण तु || ७ ||

अघोरे हृदयं बाहु जठरं नाभिमेव च |
पृष्ठे ह्युरसि वै वत्स बहुरूपेण धूलयेत् |
वामदेवेन मन्त्रेण गुह्येऽपाने च बीजयोः || ८ ||

अरू च जानुनी चैव जङ्घेऽस्थि चौघटी तथा |
पार्श्वयोरुभयोश्चैव पृष्ठयोरुभयोरपि || ९ ||

पादयोर्हस्तयोश्चैव सद्योजातेन मन्त्रवित् |
नैष्ठिकानां च विप्राणां सर्वाङ्गस्नानमाचरेत् || १० ||

नृपाणां चैव वैश्यानां त्रिपुण्ड्रं कारयेद्बुधः |
त्रिसन्ध्यं भस्मना स्नानं त्रिपुण्ड्रं वा समाचरेत् || ११ ||

सर्वपाप विशुद्धात्मा शिवेन सह मोदते |
द्वात्रिंशत् षोडशाङ्गे वा त्रिसन्ध्यायां त्रिपुण्ड्रकम् || १२ ||

सर्वपापक्षयं चैव सर्वव्याधि विनाशनम् |
मूर्धाललाटकर्णौ च चक्षुषी घ्राणयोरपि || १३ ||

आस्यग्रीवे च स्कन्धौ च बाहुभ्यां कूर्परौ तथा |
मणिबन्धौ च हृन्नाभि मेढ्रपायू तथैव च || १४ ||

ऊरू च जानुनी चैव जङ्घयोस्थिकयोरपि |
पादयोस्तत्पृष्ठौ च त्रिपुण्ड्रं द्वात्रिंशदुच्यते || १५ ||

वक्ष्यामि षोडशं स्थानं समासाच्छृणु षण्मुख |
ललाट ग्रीवे स्कन्धौ च बाहुकूर्परयुग्मयोः || १६ ||

हृदये जठरे चैवं नाभौ पार्श्वे च पृष्ठके |
त्रिपुण्ड्रं षोडशस्थाने कारयेद्वै शिवा * * *मी || १७ ||

द्वात्रिंशत्पूर्वस्थानं च पादाङ्गुली कराङ्गुली |
द्वात्रिंशस्थाने त्रिपुण्ड्रं षट्त्रिंशत्तत्व देवता || १८ ||

षोडशस्थाने त्रिपुण्ड्रं कुर्यात् षोडश देवता |
शिवः सदाशिवश्चैव महेशो ब्रह्मपञ्चकम् || १९ ||

विद्येश्वराश्च वै वत्स षोडशस्याधिदेवताः |
अष्टस्थाने च वक्ष्यामि त्रिपुण्ड्रं दैवतं तथा || २० ||

शिरः स्थाने स्वयं ब्रह्मा ललाटे स्कन्द एव च |
कण्ठे विनायकः प्रीतो बाह्वोर्वै विष्णुरेव च || २१ ||

हृदये चैश्वरः प्रीतो नाभौ चैव वसुन्धरा |
पृष्ठेऽपि पितरः प्रीताः त्रिपुण्ड्रेऽष्टौ प्रकीर्तिताः || २२ ||

षडङ्गुलं तु विस्तारो ब्राह्मणानां विधीयते |
चतुरङ्गुल विस्तारं क्षत्रियाणां त्रिपुण्ड्रकम् || २३ ||

त्र्यङ्गुलं वैश्यजातीनां त्रिपुण्ड्रं सर्वकामदम् |
एकाङ्गुलं तु शूद्राणां स्त्रीणां चैव विशेषतः || २४ ||

तत्तज्जातीयजं स्त्रीणां तत्तदेव विधीयते |
मध्यमानामिकाभ्यां च तर्जन्या च त्रिपुण्ड्रकम् || २५ ||

देशिकानां तु सर्वेषां किञ्चित्संपूर्णचन्द्रवत् |
नृपाणां बालचन्द्रस्तु रेखामात्रं विशेषतः || २६ ||

शूद्राणां स्पृष्टमात्रं तु त्रिपुण्ड्रस्य तु लक्षणम् |
अङ्गुलीत्रितये तालदेहे कुर्वीत बुद्धिमान् || २७ ||

लक्ष्मीनाम्ना सुविख्यातं तत्त्रिपुण्ड्रं षडानन |
समयी पुत्रकश्चैव साधकाचार्य एव च || २८ ||

त्रिपुण्ड्रक विधानेन सर्वरक्षा विधीयते |
दुःस्वप्नंदर्शने चैव दुर्जनस्पर्शनेऽपि च || २९ ||

स्नानान्न शक्यं पुरुषाणामातुराणां च सर्वथा |
भस्मस्नानेन शुद्धिः स्यादर्चने योग्यतापि च || ३० ||

आग्नेयं वारुणं चैव वायव्यं मन्त्रमेव च |
शिवं पञ्चविधं स्नानं प्रवदन्ति मनीषिणः || ३१ ||

आग्नेयं भस्मना स्नानं अवगाहं तु वारुणम् |
आपो हिष्ठेति मन्त्रं स्यात् वायव्यं गोरजो भवेत् || ३२ ||

यत्तु सात?पवर्षं स्यात् शिवतीर्थमुदाहृतम् |
तेषु सर्वेषु वैवत्स शैवमाग्नेयमुत्तमम् || ३३ ||

देवाश्च ऋषयश्चैव यक्षगन्धर्वकिन्नराः |
मरुद्गणाः पितृगणाः सर्वामातृगणा अपि || ३४ ||

नित्यं सर्वप्रयत्नेन भस्मस्नानं प्रचसिरे |
रक्षार्थं मङ्गलार्थं च पवित्रार्थं षडानन || ३५ ||

भवनानां लिङ्गिनां चैव भस्मदत्तं पुरामया |
भोजने तुषकेशं च विराङ्गारनस्वान्यपि || ३६ ||

सरीसृपाणि सर्वाणि अन्ये मक्षिकमत्कुणाः |
सूका भ्रमरदाशाश्च क्षोपाच्छुध्यन्ति भस्मनाम् || ३७ ||

दधिक्षीरघृतं चैव तैल मधु गुलं तथा |
नालिकेरं च सलिलमुदकं चोपदशकम् || ३८ ||

केशाभिदिश्च दुष्टं हि आभनेऽनन्तयं च यत् |
तावन्मा समुद्धृत्य भस्मक्षेपेण शुद्ध्यति || ३९ ||

चतुर्वर्णे हि सर्व हि स्त्रीपुरुषं नपुंसकम् |
त्रिकालं वा द्विकालं वा एककालं त्रिपुण्ड्रकम् || ४० ||

सर्वरक्षा च वै वत्स शिवलोकं च गच्छति |
देवरक्षः पिशाचाश्च असुरा या तु धानकाः || ४१ ||

कुमार ग्रहाश्च भूताश्च कूश्माण्डा डागिनी तथा |
ब्रह्मराक्षस उच्छिष्टाः पूतनाकुष्ठगुल्मकाः || ४२ ||

भगन्तराणि सर्वाणि अशीतिवति रोगजाः |
चतुष्षष्टि पित्तरोगाः श्लेष्मषट्प्रतिपञ्चकः || ४३ ||

अली सर्वाभयं यच्च भस्मस्नानेन शुद्ध्यति |
भासकत्वान्मनुष्याणां भासकत्वाच्छुभस्य च || ४४ ||

भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् |
पूर्वाह्ने भोजने चैव स्वप्नेऽपि गमनेऽपि च || ४५ ||

भस्मना च त्रिपुण्ड्रं स्यात् सर्वरक्षा विधीयते |
अभयं ब्रह्मविष्णुभ्यां * * * * * * * * || ४६ ||

भस्मं च धारणं कृत्वा सर्वयत्नात् कृतं गुह |

इति कालोत्तरे भस्मस्नानपटलश्चतुर्थः || ४ ||

Kapitel 5 – Blumen und Duftstoffe

|| श्रीः ||
ईश्वर उवाच-
पुष्पाणां चैव सर्वेषां समासेन शृणुत्विह |
अवर्ज्यवर्ज्यपुष्पाणां फलानां च ग्रह शृणु || १ ||

अर्कपुष्प सहस्रेभ्यो करवीरं विशिष्यते |
बिल्वपत्रं सहस्रेभ्यो पत्रमेकं विशिष्यते || २ ||

अथ पत्रसहस्रेभ्यो पुण्डरीकं विशिष्यते |
पुण्डरीकसहस्रेभ्यो शतपत्रं विशिष्यते || ३ ||

शतपत्रसहस्रेभ्योः सहस्रपत्रं विशिष्यते |
सहस्रपत्र विशेषेभ्यो अपामार्गं विशिष्यते || ४ ||

अपामार्ग विशेषेभ्यः कुशमेकं विशिष्यते |
कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते || ५ ||

शमीपुष्प सहस्रेभ्यो व्याघातं तु विशिष्यते |
व्याघातक सहस्रेभ्यो बकपुष्पं विशिष्यते || ६ ||

बकपुष्पसहस्रेभ्यो एकं धुर्धूरकं परम् |
धुर्धूरकसहस्रेभ्यो द्रोणपुष्पं विशिष्यते || ७ ||

द्रोणपुष्प सहस्रेभ्यः सदाभद्रं विशिष्यते |
सदाभद्रसहस्रेभ्यो कृष्णानिर्गुण्डिका परा || ८ ||

कृष्णकुण्डि सहस्रेभ्यो बृहत्पुष्पं विशिष्यते |
बृहत्पुष्पसहस्रेभ्यः श्वेतार्कं च विशिष्यते || ९ ||

श्वेताकाणां सहस्रेभ्यः बृहद्द्रोणं विशिष्यते |
बृहद्द्रोण सहस्रेभ्यो श्रीमन्नीलोत्पलं परम् || १० ||

स्वर्णपुष्पसहस्रं तु नीलोत्पलसमं भवेत् |
नीलोत्पलं हेमपुष्पं निर्माल्यं वत्सराद्बह्वेत् || ११ ||

प्रक्षाल्यं पञ्चगव्येन पुनः पूजां समारभेत् |
मल्लिकाजातिपुष्पं च दुर्धूरक समं भवेत् || १२ ||

चम्पकं नागदन्ती च बिल्व बिल्वपत्रं समं भवेत् |
मालती कोविदारं च करजीर समं भवेत् || १३ ||

वकुलं पाटली चैव पद्मपुष्पसमं भवेत् |
अशोकं श्वेतमन्दारं व्याघातक समं भवेत् || १४ ||

रक्तोत्पलं श्वेतकुमुदं अपामार्ग समं भवेत् |
जपा कदम्बपुन्नागं द्रोणपुष्प समं भवेत् || १५ ||

मदन द्वीपवं चैव बृहत्पुष्प समं भवेत् |
लक्ष्मी च सहदेवी च बिल्वपत्र समं भवेत् || १६ ||

विष्णुक्रान्ति नृपं चैव अर्कपुष्प समं भवेत् |
चिबुका गूढपुष्पं च पद्मपुष्पसमं भवेत् || १७ ||

तुलसीं चन्द्रवल्ली च अर्कपुष्प समं भवेत् |
नीलनीरद पुष्पं च कल्हारं कुटिलं भवेत् || १८ ||

वेजिका चोत्पलं चैव अपामार्ग समं भवेत् |
पलाशमुसलीपुष्पं द्रोणपुष्प समं भवेत् || १९ ||

आधिका अतसीपुष्पं बकपुष्प समं भवेत् |
मयूरशङ्खपुष्पं च सूर्यावर्तं च नागकम् || २० ||

धुर्धूरकसमं ज्ञेयं सिंहकेसरिपालकम् |
कंसकं कृष्णतुलसी प्र * * * * * * * || २१ ||

  • * पुष्प समं ज्ञेयं एकपुण्यं प्रशस्यते |

धुर्धूरकसमाज्ञेया महाभद्रातृणावपि || २२ ||

वज्रं च पद्मरागं च मरकतं मौक्तिकानि च |
इन्द्रनीलं महानीलं सूर्यकान्तेन्दुतारकम् || २३ ||

नीलोत्पल समं ज्ञेयं सर्वरत्नानि चैव हि |
यवगोधूमनीवार शालीवैणवकानि च || २४ ||

तिलमुद्गं शिम्बनिष्पावममाष श्याममेव च |
बीजान्येकादशैतानि पाचयित्वा तु बुद्धिमान् || २५ ||

सप्तरङ्गमतीत्यैव अङ्कुराणि च पूजयेत् |
व्याघात पुष्पसदृशान्यङ्कुराणि पृथक्पृथक् || २६ ||

श्वेत गिरी कर्णिकी चैव नन्द्यावर्तं च पूजकम् |
कदलीकुसुमं चैव शारिबाकुसुमानि च || २७ ||

कदम्बार्जुनसिन्धूर कुसुमाकुसुमानि च |
करवीर समाज्ञेया मधूकं चूतमेव च || २८ ||

अष्टपुष्पाणि वज्राणि शिवस्य परमात्मनः |
केतकी माधवी कुन्दं यूथिका मदयन्तिका || २९ ||

शिरीष सर्जबन्धूकं अष्टपुष्पं च वर्जयेत् |
किंशुका हरितं चैव नीलकर्णिकमेव च || ३० ||

तलपोटपुष्पाणि * पिशाच कुसुमानि च |
शिग्नुं च * * न्यग्रोधमत्स्याक्षौ च विवर्जयेत् || ३१ ||

विसृज्यैतानि पुष्पाणि महाविष्णुं च पूजयेत् |
तलपोटक पुष्पाणि कोटपि पूजयेद्गुह || ३२ ||

कृष्णानि च सपुष्पाणि माहिषाक्षी च पुष्पिकाः |
सिंशु मारकपुष्पाणि उमादेवीं च पूजयेत् || ३३ ||

पलाशपुष्पं ब्रह्माणं तुलसीपुष्पकेशवम् |
इन्द्रवल्ली कनकपुष्पमिन्द्रप्रीतिकरं महत् || ३४ ||

श्वेतानि सर्वपुष्पाणि पूजयेच्छिवमादरात् |
पूजयेत्केतकी पुष्पैररण्यमालती तथा || ३५ ||

अर्चयेत् सर्वरत्नानि पुष्पाणि च समाहितः |
वर्जयेत् किंशुकं वत्स प्रयत्नेन तु साधकः || ३६ ||

अर्चयेत् सर्वरत्नानि तलपोटक वर्जनम् |
अर्चयेत् कृष्णपुष्पाणि पिशाचगिरिकर्णकः || ३७ ||

अर्चयेत् सर्वश्यामानि अमितानि च वर्जयेत् |
हरितानि च पुष्पाणि अर्चयेत् सर्वमेव च || ३८ ||

तीव्रज्यान्माकपुष्पाणि वर्जयेत्तौ प्रयत्नतः |
चन्दनं कुङ्कुमं चैव खड्गं पत्रं फलं तथा || ३९ ||

बिल्वीफलमुशीरं च गन्धं प्रीतिकरं महत् |
तुरुष्कं च घनं चेलं वनलोहं तु चाङ्गना || ४० ||

गन्धाः प्रीतिकरा ह्येते धूपा दशगुणं भवेत् |
अबलं चण्डी शङ्खं च कुङ्कुमं गुरमेव च || ४१ ||

शिवप्रीतिकरं गन्धं धूपं दशगुणं फलम् |
कुष्ठं मीससमोरं च मांसुसाकलमेव च || ४२ ||

शिवप्रीतिकरं गन्धं धूपं दशगुणं भवेत् |
मध्वशर्करगं खं च कुन्दुरुष्कं चतुर्गुणम् || ४३ ||

एवमन्येषु गन्धेषु शिवप्रीतिकरं महत् |
एकद्वित्रिचतुर्थानि खगचन्दनवायसैः || ४४ ||

तुरुष्क संमितं वत्स कृणेपरिवर्धितम् |
शीतानि धूपमेवं तु मधुना च परिप्लुतम् || ४५ ||

शङ्खरोहतुरुष्कं वा प्रस्थद्वयं चतुर्गुणम् |
मुलं त्वष्टगुणं देवं धूपं रुद्रेण निर्मितम् || ४६ ||

नासिका चूतपत्रस्य प्रियङ्गु घनमेव च |
गुलसज्जरसो धूपं कलभं शङ्करप्रियम् || ४७ ||

मरमांसी चतुर्थं तु पूतिकेशं तु तत्समम् |
न तु सज्जरसो धूपं गन्धं रूद्रेण निर्मितम् || ४८ ||

पूतिकेशं मरामांसि एकं द्वित्रिकमाश्रिता |
धूपिता गुलसर्पिष्या गन्धं स्याच्छिवनिर्मितम् || ४९ ||

फलत्रयं चन्दन कुङ्कुमं तु
तुरुष्कचण्डी घनशङ्खकम्बलम् |
रसार्थग्राहं न भस्मपादिकं
विलेपनं शम्भुविनिर्मितं परम् || ५० ||

वापिवारुणवकुराङ्गिकं?
हीनचन्दनशङ्खलताम्बुजम् |
कामी गुलागरु वानरधूपितं
शिवमतं वरगन्धमहावहम् || ५१ ||

घनघनोद्भव कङ्कुवराङ्गिकं
जलजलोद्भव शैलतमालजम् |
भ्रमर चुम्बितमुत्तमगन्धकम् || ५२ ||

वरण्डकुट्टमष्टकलशं द्वादशपत्रं द्विरेलमेक मं * * * |
आदित्यकिरण तैलतप्त चम्पकतैलं तु शिवकान्तम् || ५३ ||

इक्षुरस प्रविरपाकविपक्वं सज्जपुरागरुचन्दनधूपम् |
न वाप्य न * * * त्व च रोमविमिश्रं वासमिदं कुरु पूकफलानाम् लवङ्ग कर्पूरफलत्रयं त-
स्थामं हि चूर्णं मधुशर्करान्वितम् |
शुभप्रदं पापहरं शिवप्रियं निषेज्यमाणं मुखवासमुत्तमम् चन्दनकुन्दुरुशङ्खकपिता कर्पूराजागयुतानाम देवपरम् |
शिवनिर्मितमेतदेव गृहं हि सुधूपमिदं तत् || ५६ ||

अगुरुं चन्दनं चैव खगं कुङ्कुममेव च |
धूपयेद्गुलसर्पिभ्यां गन्धं रुद्रप्रियं सदा || ५७ ||

फलत्रयं करं मांसी चन्दनं कुङ्कुमागुरुम् |
मधुशर्करलोहं च तुरुष्केण तु धूपयेत् || ५८ ||

कर्पूरं मदनं मेधं च मल्लिकावकुलवासितम् |
शिवप्रियमिदं गन्धं सर्वयत्नेन लेपयेत् || ५९ ||

कल्पकोटिसहस्राणि कल्पकोटिशतानि च |
वसेच्छिव पुरेनित्यं शिवेन सहमोदते || ६० ||

पुष्पं गन्धं च धूपं च मुखवासं च दर्शितम् |
दीपमर्घ्यं च पाद्यं चाचमनीयं हविस्तथा || ६१ ||

मधुना प्रोच्यते वत्स रङ्गभागविधिस्तथा |

इति कालोत्तरे पुष्पगन्धपटलः पञ्चमः || ५ ||

Kapitel 6 – Blumen, Duftstoffe, Räucherwerk und Arghya

|| श्रीः ||
ईश्वर उवाच-
कपिलाघृतेन दीप च जराघृतमथापि वा |
अलाभेऽजघृतं दीपं शुद्धतैलेन वाधुना || १ ||

औष्ट्रं माहिषमाश्वं च घृतं हि परिवर्जयेत् |
उत्तमं कापिलं सिद्धिः सात्त्विकं दीपमुच्यते || २ ||

जराघृतं मध्यमं तु राजसं दीपमुच्यते |
सर्वेषां वृक्षतैलानां शिवदीपं तु वर्जयेत् || ३ ||

एलाकर्पूरसंयुक्तं फलत्रयसमन्वितम् |
पाद्यानामुत्तमं वत्स शिवपादाब्जधारिणम् || ४ ||

उशीरं पाकलं पत्रं समं कुष्ठसमन्वितम् |
मध्यमं पाद्यं विज्ञेयं शिवपादाब्जक्षालनम् || ५ ||

मांसीमिति त्वचं वत्स अधमं पाद्यमुच्यते |
तक्कोलं कटकं चैव जातिकोशं तुटीस्तथा || ६ ||

आचमनीयमिदं श्रेष्ठं शिवस्योपरि दापयेत् |
कुङ्कुदेविनतं चैव कुटिः पाकलचन्द्रमाः || ७ ||

आचमनीयमिदं देव वस्त्रपूतेन वारिणा |
अर्घ्यमष्टाङ्गमेवोक्तं हेमपात्रे तु कल्पितम् |
पलाशपत्र पद्माभ्यां मृत्पात्रेण समं भवेत् || ९ |
आपक्षीरकुशाग्राणि अक्षतं यवतण्डुलाः |
तिलाः सिद्धार्थकाश्चैव अर्घ्यमष्टाङ्गमुच्यते || १० ||

सुपुष्पगन्ध संयुक्ताञ्चार्घ्याच्छतगुणं फलम् |
शमीव्याघात पुष्पं च द्रोणं वै बिल्वपत्रकम् || ११ ||

नीलोत्पलस्य पुष्पं च श्वेतपङ्कजमेव वा |
अपामार्गं बृहती वापि सुपुष्पं न च कीर्तितम् || १२ ||

व्याघ्रा नखा रुद्रजटैस्संयुक्तमयुतं फलम् |
एला सुवर्णपुष्पं वा संयुतं प्रयुतं फलम् || १३ ||

श्वेतमन्दारकुसुमं लक्षं तु फलमादिशेत् |
तस्मात्सर्वप्रयत्नेन पुष्पगन्धसमायुतम् || १४ ||

अर्घ्यं निवेदयेद्वत्स सर्वयज्ञफलं भवेत् |
कीटकेशापविद्धानि लूतसूत्रावृतानि च || १५ ||

वस्त्रातीतं करानीतं काक संस्पृष्टमेव च |
स्वयं पतितपुष्पं च त्यजेदुपहृतानि च || १६ ||

पथ्युद्धरं च कुसुमं रात्रोत्पाटलमोचनम् |
नाभेरधस्तादानीतं पादसंस्पृष्टमेव च || १७ ||

आघ्रातं पक्षिभिश्चैव ध्वभिः कुक्कुटकादिभिः |
बिडालमूषिक स्पृष्टं महिषाजगवामपि || १८ ||

वासनोपहतं चैव स्पृष्टं वै पापरोगिणाम् |
रजस्वलादिभिः स्पृष्टं अन्त्यजैरपि दूषितम् || १९ ||

श्मशानाशुद्धभूजातं वर्जयेत् कुसुमं गुह |
द्रव्येण क्रीतपुष्पाणि मध्यमं फलमश्नुते || २० ||

आत्मारामोद्भवे पुष्पे उत्तमं फलमादिशेत् |
अन्यारामोद्भवे पुष्पे कन्यसं फलमादिशेत् || २१ ||

वनपर्वत संभूतादुत्तमं फलं आदिशेत् |
एकैकेन तु मासेन पुष्पमेकैकं वर्जयेत् || २२ ||

पुष्पाणि द्वादश मासेष्वेकादीनि क्रमात्यजेत् |
अर्कं बिल्वमपामार्गं द्रोणं चोत्पलपङ्कजम् || २३ ||

व्याघ्रती बृहती व्याघ्री शमी चम्पकपाटली |
मासे मासे चैकपुष्पं पुष्ट्यादावार्जयेद्बुधः || २४ ||

यदिष्टं फलमाप्नोति मृत्युनाशनमेव च |

  • * * * * गोत्रस्य सहस्राणां न संशयः || २५ ||

यजेत् संवत्सरं ह्येतत् अश्वमेधफलं भवेत् |
चन्दनं कुङ्कुमं चैव अपगरुं खगमेव च || २६ ||

तक्कोलं जातिकोशं च कटुकं फलमेव च |
निर्यासं पाकलं चैव मासेकैकं यथा क्रमम् || २७ ||

पूजयेद्विधिवद्वत्स पूर्वोक्ताद्द्विगुण भवेत् |
महिषागुग्गुलं श्रेष्ठं सर्वमासेषु सर्पिषा || २८ ||

पूर्वोक्ताद्दशगुणं पुण्यं धूपदीपोत्तरोत्तमम् |
निवेद्याद्दशगुणं पुण्यं शालिवैणवं संयुतम् || २७ ||

इति कालोत्तरे पुष्पविशेषगन्ध धूपार्घ्य पटलः षष्ठः || ६ ||

Kapitel 7 – Der innere Vollzug

श्रीः
ईश्वर उवाच-
अन्तःकरणं प्रवक्ष्यामि सांप्रतं शृणु षण्मुख |
भूतशुद्धिं पुरा कृत्वा ततोऽन्तःकरणं कुरु || १ ||

करन्यासं पुरा कृत्वा पश्चाच्छुद्धि समाचरेत् |
तलिकौ हस्तपृष्ठौ च अस्त्रबीजेन शोधयेत् || २ ||

अङ्गुष्ठादिकनिष्ठान्तं पञ्चब्रह्म न्यसेत्पुनः |
ईशानाद्यादिसद्यान्तं क्रमाद्विन्यस्य बुद्धिमान् || ३ ||

कनिष्ठिकाद्यङ्गुष्ठाद्यान्तं सद्यादीशान्त पञ्चकम् |
अङ्गुष्ठादिक निष्ठान्तं सृष्टिन्यास उदाहृतः || ४ ||

कनिष्ठिकाद्यङ्गुष्ठान्तं संहारन्यास उच्यते |
मध्यमादिकनिष्ठान्तं सृष्टिन्यास उदाहृतः || ५ ||

शिवाङ्गानि न्यसेदेव सृष्टिसंहारवर्त्मना |
व्योमव्यापिन्न्यसेत्ताभ्यां सर्वतोमुखमादिशेत् || ६ ||

गन्धपुष्पादिकैरर्च्य पाश्वाद्यजनं तु कारयेत् |
विद्येश्वरान्न्यसेत् पश्चात् सदाशिवमहेश्वरौ || ७ ||

अनन्ताद्येकरुद्रान्तां वामहस्ते तु विन्यसेत् |
त्रिमूर्त्यादीन् दक्षहस्ते अष्टदेवान्न्यसेत्पुनः || ८ ||

मण्डलत्रयमेवं तु गुणत्रयं पुनर्न्यसेत् |
आत्मत्रयं तु विन्यस्य सर्वाङ्गुलिमनुक्रमात् || ९ ||

नेत्रं हस्ततले न्यस्य पुनरङ्गानि विन्यसेत् |
कराङ्गुलिषु सर्वेषु प्रासादं विन्यसेत्पुनः || १० ||

शिवहस्तं भवेद्देव शिष्यमूर्धनि विन्यसेत् |
आत्मानं योजयेत् पश्चात् शिवे परमकारणे || ११ ||

शिखाग्रे द्वादशाङ्गुल्ये शुद्धस्फटिकनिर्मले |
शिवतत्वे परे सूक्ष्मे ज्योतीरूपे तु निर्मले || १२ ||

संहारमुद्रया चैव हृदयेन तु योजयेत् |
त्रिकोणे चाग्निभुवने त्रियक्तेय द्वितीयके || १३ ||

अङ्गुष्ठाग्रे च ध्यात्वा तु निर्दहेद्देहं काष्ठवत् |
भस्मकूटमिह ध्यात्वा निर्दग्ध्वा तु स्वकी तनुम् || १४ ||

तारमध्ये स्थितं चन्द्रं यवर्गस्य चतुर्थकम् |
श्वेतपद्मोपविष्टं तु योगपीठमधोमुखम् || १५ ||

शुद्धस्फटिक संकाशमकारं चात्मसंभवम् |
विद्यातत्त्वमुकारस्तु शिवतत्त्वं मकारकम् || १६ ||

अमृतेन प्लावयित्वा तु मध्ये देहान्तक स्थितम् |
तेनामृतेन सर्वाङ्गं संप्लाव्य तु विचक्षणः || १७ ||

प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् |
भूतशुद्धिं पुराकृत्वा ततोऽन्तःकरणं कुरु || १८ ||

हृद्बीजं पार्थिवे युक्तं पार्थवीं धारयित्सदा |
शिरोबीजेन शाप्यं तु धारयेत् सर्वकामदम् || १९ ||

शिखाबीजेन तेजस्तु धारयेत् सुसमाहितः |
सर्वपापक्षयं चास्य शत्रुनाशनमेव च || २० ||

कवेचेन वायुं संयुक्तं धारयेत्सर्वरक्षणम् |
प्रासादं तु शिवास्त्रेण धारयेन्मृत्युनाशनम् || २१ ||

पृथिव्यापस्तथा तेजो वायुराकाशमेव च |
शुद्ध्यन्ति पञ्चभूतानि शरीरस्थानि षण्मुख || २२ ||

पृथिवी पञ्चधा शोध्या पादादिजानु चान्ततः |
चतुर्धा पापशुद्धिः स्यात् जान्वाद्या नाभिकं गुह || २३ ||

त्रिधा वै तेजसः शुद्धिः आनाभेस्तु गलान्तकम् |
द्विधा वै वायुशुद्धिस्तु गलान्तं तु निधारयेत् || २४ ||

पाशुपतेन शास्त्रेण चतुर्ग्रन्थिं तु भेदयेत् |
सुषुम्नाग्रन्थिं शिवास्त्रेण आकाशग्रन्थिमेव च || २५ ||

पञ्चोद्धाम सहस्रश्च चतसृद्द्वयमेकशः |
शून्यं सर्वं निरालम्बं विज्ञानं केवलं स्थितम् || २६ ||

प्रक्रियान्तस्थममृतं पुनर्वै चिन्तयेच्छिवम् |
विग्रहे तु (सुषुम्नेष)सुष्ठुदेवं नित्यमेवं विचिन्तयेत् || २७ ||

सकलं निष्कलं चैव तथा सकलनिष्कलम् |
सकलं महेश्वरे विद्धि सदाशिवं सकल निष्कलम् || २८ ||

निष्कलं तु शिवं विद्धि त्रिस्थानं चिन्तयेद्बुधः |
सांप्रतं कथयिष्यामि सकलं शृणु षण्मुख || २९ ||

शुद्धस्फटिकसंकाशं गोक्षीरधवल प्रभम् |
त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम् || ३० ||

त्रिवक्त्रं च त्रिमूर्धं च सर्वाभरणभूषितम् |
दिव्याम्बरधरं देवं दिव्यहृद्गन्धभूषणम् || ३१ ||

बद्धपद्मासनं देवं श्वेतपद्मकसंस्थितम् |
वृषभवाहनं देवं त्रिशूलं परशुधारिणम् || ३२ ||

खड्गटङ्कधनुश्चैव वज्रतोमरधारिणाम् |
अग्निनागधरं देवं महेश्वरं जगदीश्वरम् || ३३ ||

सहस्रादित्यसंकाशं शुद्धस्फटिक सन्निभम् |
भुजैः षोडशभिर्युक्तं पञ्चवक्त्रं त्रिलोचनम् || ३४ ||

पञ्चवक्त्रं त्रिणेत्रं तु पञ्चमूर्धविभूषितम् |
यज्ञोपवीतसंयुक्तं सर्वाभरणभूषितम् || ३५ ||

दुकूलपट्टवर्णैश्च संच्छिन्नं परमेश्वरम् |
विभुं च मकुटं ज्ञेयं सर्वरत्नविभूषितम् || ३६ ||

ललाटे हेमपट्टं च सर्वरत्नैर्विभूषितम् |
छिन्नवीरैः पञ्चशरैः भूषितं परमेश्वरम् || ३७ ||

केयूरैः पञ्चभिर्युक्तं सर्वरत्नविभूषितम् |
श्वेतं पङ्कजमारुढं सहस्रदलशोभितम् || ३८ ||

गङ्गया यमुना गोमती नर्मदा च सरस्वती |
सरयूर्गण्डकी चैव चामरव्यग्रपाणयः || ३९ ||

दिव्यगन्धानुलिप्ताङ्गं दिव्यदामानुलम्बितम् |
तल्पकं भ्रमपुष्पैश्च मल्लिकोत्पलचम्पकैः || ४० ||

जातीवकुलमन्दारैः पञ्चमूर्ध्नि विभूषितम् |
नवशक्त्युपर्यासीनं देवदेवं सुनिर्मलम् || ४१ ||

सद्यं पश्चिमवक्त्रं तु शङ्खवर्णं विदुर्बुधाः |
वामदेवश्चोत्तरतो जपासिन्दूरसन्निभम् || ४२ ||

अघोरं दक्षिणमुखं नीलजीमूतसन्निभम् |
तत्पुरुषं मुखं पूर्वं मार्ताण्डोदय सन्निभम् || ४३ ||

ईशानमूर्ध्वं वक्त्रं तु गोक्षीरध्वलप्रभम् |
तत्तद्वर्णं तु मूर्ध्ना च विपुलं सर्वमेव हि || ४४ ||

विपुलैः पञ्चमुखैः युक्तं तदूर्ध्वं त्रिभिरेव च |
पञ्चरत्नैः विचित्रं तु पञ्चमूर्ध्नि षडानन || ४५ ||

ब्रह्मविष्ण्विन्द्रदेवेशं सर्वकारणकारणम् |
हृदये महेश्वर स्थानं नाभिदेशे सदाशिवम् || ४६ ||

शिवं तु शाश्वतस्थाने परं ब्रह्म सनातनम् |
निष्कलं निर्मलं शान्तं निष्प्रपञ्चमलक्षणम् || ४७ ||

अप्रतर्क्यं निरालम्बं नाशोत्पत्ति विवर्जितम् |
कैवल्यं केवलं शान्तं हेयोपादानवर्जितम् || ४८ ||

अस्ति नास्तीति रहितं सूक्ष्मात्सूक्ष्मतरं परम् |
कल्पनारहितं दिव्यं स्वसंवेद्यः शिवः पतिः || ४९ ||

मध्ये देहे तु निहितमनौपम्यमनामयम् |
अतीन्द्रियं परं तत्वं सर्वोपाधि विवर्जितम् || ५० ||

गुरुप्रसादगम्यं तत् सद (स)स्पतिमद्भुतम् |
विश्वतश्चक्षुरुतविश्वतोमुखः विश्वतोबाहुरुतविश्वतस्पात् | बन्धूभृते अभूयावा भूमी जनयन्तेव एक
एव तद्ध्यानगम्यमपरं तत्त्वमुद्वयं तमसस्परि || ५१ ||

शून्ये शून्येन यदित्वं भावयिष्यसि |
देहे शून्ये पदे ध्यात्वा मोक्षयिष्यसि षण्मुख || ५२ ||

मनसा महेश्वरं देवं हृत्पद्मे चिन्तयेत्सदा |
गन्धपुष्पादिभिश्चैव धूपदीपार्घ्यमेव च || ५३ ||

दधि क्षीरं घृता चैव मधुनैवेद्यकैरपि |
मानसेनैव भावेन महेशं चिन्तयेद्बुधः || ५४ ||

एवं सदाशिवं चैव शक्तिबीजाङ्कुरादिभिः |
पञ्चब्रह्मशिवाङ्गैश्च विद्येश्वर समायुतम् || ५५ ||

गणेश्वरैर्लोकपालैः अष्टमूर्तिभिरेव च |
अष्टाभिर्वसुभिश्चैव रुद्रैकादशभिस्तदा || ५६ ||

आदित्या द्वादशान्ये च सिद्धाश्च मरुतस्तथा |
विद्याधराश्च गन्धर्वाश्चारणा यक्षपन्नगाः || ५७ ||

असुरा राक्षसाश्चैव यातुधानाः पिशाचकाः |
उच्छिष्टा भूतसङ्गाश्च वेताला गुह्यका अपि || ५८ ||

ग्रहाश्च राशितिथयो नक्षत्राप्सरसस्तथा |
सप्तविंशत्यावरणं नाभिमध्ये तु पूजयेत् || ५९ ||

मानसेनैव पुष्पेण मानसेनैव धूपकैः |
नैवेद्यैरर्घ्यपाद्याद्भिः पूजयेन्मानसेन तु || ६० ||

पुनर्वै मध्यदेहे तु भावयेत् कुम्भके स्थितिः |
पूजयेत् षोडशैर्मात्रैः कुम्भकस्थस्य कारणम् || ६१ ||

द्वात्रिंशद्रेचयेद्धीमान् हृदि नाभौ षडानन |
षाण्मासयजनादेव मृत्युनाशमवाप्नुयात् || ६२ ||

रेचकं पूरकं त्यज्य कुम्भकं त्यज्य वै गुह |
साक्षात् सर्पस्वभावेन पूजयेत्सततं शिवम् || ६३ ||

शून्याशून्येन भावेन प्रत्यक्षं यजने गुह |
मृत्युञ्जयमवाप्नोति नात्र कार्या विचारणा || ६४ ||

एवं संविदमानन्दमध्यदेहे व्यवस्थितम् |
सना चिन्तयतो नित्यं मृत्युनाशनमुत्तमम् || ६५ ||

रेचकं पूरकं त्यज्य कुम्भकं स्मरणं न च |
स्वभावगतिसंपन्नं पिण्डस्थं मृत्युनाशनम् || ६६ ||

सकलं निष्कलं चैव तथा सकलनिष्कलम् |
त्रिविधमर्चनं श्रेष्ठं वरुणे वरुणे यजेत् || ६७ ||

आवरणं क्रमात्पूज्य शास्त्रदृष्टेन कर्मणा |
सप्तविंशत्यावरणं सप्तमातृगणानपि || ६८ ||

सर्वं वै मानसेनैव अर्चयेत् सुसमाहितः |
समाधिं च जपं स्तोत्रं प्रदक्षिणमथाचरेत् || ६९ ||

अग्निकार्यं पुनः कुर्यात् सुसमिद्धे हुताशने |

इति कालोत्तरे अन्तःकरणपटलः सप्तमः || ७ ||

Kapitel 8 – Shiva-Verehrung

|| श्रीः ||
ईश्वर उवाच-
अतः परं प्रवक्ष्यामि शिवार्चन विधिक्रमम् |
षट्त्रिंशदङ्गुलायामं दर्भैः षट्त्रिंशकैः शुभैः || १ ||

कूर्चं कृत्वा विधानेन प्राङ्मुखं विन्यसेद्बुधः |
पद्मासनं बन्धयित्वा करन्यासं समारभेत् || २ ||

गन्धादिभिरथाभ्यर्च्य कराङ्गुलितलान्वितम् |
अङ्गुष्ठादिकनिष्ठान्तं पञ्चब्रह्म क्रमान्न्यसेत् || ३ ||

मध्यमादितर्जन्यन्तं शिवान्तं विन्यसेद्गुह |
सदाशिवं महेशं च अष्टौ वै चक्रवर्तिनः || ४ ||

अङ्गुष्ठादिक्रमाद्वत्स करैर्दक्षिणवामकैः |
पुनरङ्गानि विन्यस्य शास्त्रदृष्टेन कर्मणाः || ५ ||

कादिपादान्त विन्यस्य अङ्गुष्ठानामिकेन च |
अकारादिक्षकारान्तं मातृकां विन्यसेद्बुधः || ६ ||

सिरोललाटे कूषौ च कण्ठे गण्डद्वयोरपि |
नासावोष्ठावुभौ चैव दन्तपङ्क्तिद्वयोरपि || ७ ||

कवर्गं दक्षिणे हस्ते पवर्गं वामहस्तके |
टवर्गं दक्षिणे पादे तवर्गं वामपादके || ८ ||

जिह्वायां तालुरन्ध्रे च स्वरैः षोडशभिर्न्यसेत्
पफौ दक्षिणपार्श्वे तु बगौ च वामपार्श्वके || ९ ||

कण्ठदेशे मकारं तु नाभ्यादि हृदयेषु च |
त्वग्रक्तं मांसमेदोऽस्थिमज्जाशुक्लादिधातुषु || १० ||

यकारादि सकारान्तं नाभ्यादि हृदयेषु च |
हृदये तु हकारान्तं लकारं वृषणे द्वये || ११ ||

क्षकारं मेढ्रदेशे तु प्रासादमपि मेढ्रतः |
प्रणवादिनमोन्तं तु एकैकं विन्यसेद्गुह || १२ ||

भूतशुद्धिमन्तः करणमात्मसंस्कारमेव च |
उद्घातो श्र इ * * * * हि षडानन || १३ ||

तन्मार्गं बाह्यं यजुषे धारयेत्सुसमाहितः |
हुकारं चास्त्रमन्त्रेण दशदिक्षु न्यसेद्बुधः || १४ ||

उदकभाण्डं वर्धनीं च पाद्यपात्रार्धं पौत्रकम् |
तथा च चमनपात्रं च गन्धपुष्पान्नपात्रकम् || १५ ||

दीपपात्रं धूपपात्रं चरुस्थाली तथैव च |
कुम्भैश्च गण्डुकैश्चैव मधुपर्काङ्गपात्रकैः || १६ ||

सर्वं हृदयमन्त्रेण क्षलयित्वा षडानन |
अस्त्रेण शोधयित्वा तु कवचेनावकुण्ठयेत् || १७ ||

शिखामन्त्रेण सन्धूप्य दीपं दत्त्वा तु चक्षुषा |
ब्रह्मभिस्तत्र वै वत्स उदकं सेचयेत्तदा || १८ ||

हृदयेन गन्धमालोड्य शिरसा कुङ्कुमं क्षिपेत् |
द्रव्याणि प्रोक्षयेद्विद्वान् शिवास्तं हृदयेन च || १९ ||

प्रथममात्मशुद्धिस्तु द्वितीयं स्थानशोधनम् |
तृतीयं द्रव्यशुद्धिस्तु हृदयास्त्रेण देशिकः || २० ||

चतुर्थं लिङ्गशुद्धिस्तु पञ्चमं मन्त्रशोधनम् |
पञ्चब्रह्म शिवाङ्गैश्च शिवं विद्येश्वरैरपि || २१ ||

व्योमव्यापि कलामन्त्रैरष्टत्रिंशत्कलैरपि |
सकृज्जप्त्वा तु तोये तु धूपदीपौ च दापयेत् || २२ ||

शिवास्त्रेणैव मन्त्रेण लिङ्गं प्रक्षालयेत्ततः |
अपनीय च निर्माल्यं चण्डेशाय प्रदापयेत् || २३ ||

पूजा पर्युषिताया तु पूर्ववत्परिकल्पयेत् |
पाशुपतेनैव शास्त्रेण पीठं प्रक्षालयेत् ततः || २४ ||

आसनं कल्पयेत्पश्चात् शास्त्रदृष्टेन कर्मणा |
शक्तिबीजं चाङ्कुरं च मध्ये वै विन्यसेद्बुधः || २५ ||

धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् |
आग्नेयादिसमारभ्य विदिक्षु विन्यसेद्बुधः || २६ ||

पूर्वगात्रं न्यसेत्पूर्वे दक्षिणे दक्षगात्रकम् |
पश्चिमे पश्चिमं गात्रमुत्तरे गात्रमुत्तरम् || २७ ||

स्वनामाद्येन बीजेन हृदये तु न्यसेत्क्रमात् |
मध्यपादं न्यसेत्पश्चात् स्वनामाद्येन केशवम् || २८ ||

अनन्तासनं तु प्रथमं द्वितीयं योगासनं भवेत् |
तृतीयं पद्मासनं न्यस्य चतुर्थं विमलं न्यसेत् || २९ ||

अधच्छन्दोर्ध्वदलं चैव हृदयेन तु विन्यसेत् |
कर्णिकां केसरं चैव पद्मस्योपरि कल्पयेत् || ३० ||

अष्टपत्रं न्यसेत्तत्र श्वेतपङ्कजमुत्तमम् |
शक्तयः कल्पनीयास्तु केसरेषु यथाक्रमम् || ३१ ||

पूर्वपत्रात्समारभ्य यावत्पुत्रं तु शाङ्करम् |
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी || ३२ ||

कलविकरिणी कलप्रमथिनी सर्वभूतदमनी तथा |
मनोन्मनीं न्यसेन्मध्ये शक्तिं वै करणात्मिकाम् || ३३ ||

सत्त्वं रजस्तमश्चैव उपर्युपरि विन्यसेत् |

  • * * * * * * * चित्रं बिम्बं न्यसेत्क्रमात् || ३४ ||

आत्मानमन्तरात्मानं परमात्मानमेव च |
उपर्युपरि विन्यस्य स्वनामाद्यक्षरेण च || ३५ ||

आवाहयेत् ततो देवं सद्योजातेन मन्त्रवित् |
स्थापयेद्वामदेवेन अघोरेण निरोधयेत् || ३६ ||

सान्निध्यं पुरुषेणैव ईशानेन तु पूजयेत् |
पादौ पाद्यं पुरा दद्यात् आगतस्य शिवस्य तु || ३७ ||

मुखेष्वाचमनं दद्यात् शिरस्यर्घ्यं निवेदयेत् |
शुद्धस्फटिकसंकाशं स्फुरन्तं दीप्ततेजसम् || ३८ ||

त्र्यक्षं पञ्चवक्त्रं च चन्द्रार्धकृतशेखरम् |
जटामकुटधारं च पद्मपत्रागतेक्षणम् || ३९ ||

पञ्चवक्त्रं तु देवेशं पञ्चमूर्धं सुखं युतम् |
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् || ४० ||

मकुटं कुण्डलं चैव केयूरं कटकं तथा |
स्वर्णयज्ञोपवीतं च कटिसूत्रोदरबन्धनैः || ४१ ||

मेखलानुपुरैश्चैव सर्वरत्नविभूषितैः |
दिव्याम्बरधरं देवं दिव्यस्त्रग्गन्धलेपनम् || ४२ ||

अर्चयेदासनं देवं चामरोत्क्षेपवीजितम् |
सद्यं वाममघोरं च तत्पुरुषेशानमेव च || ४३ ||

ईशानादिन्यसेद्वत्स वक्त्रं हृदि च गुह्यके |
सद्यं वै पादयोर्न्यस्य स्वस्वबीजेन विन्यसेत् || ४४ ||

सद्यः कलाभिरष्टाभिर्वामदेवास्त्रयोदश |
अघोरस्याभिचाष्टाभिश्चतुर्भिश्चैव वक्त्रकम् || ४५ ||

ईशानं पञ्चधा चैव अष्टत्रिंशत्कलां न्यसेत् |
पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा || ४६ ||

ऊर्ध्वमूर्ध्नापि संयुक्तमीशानं परिकल्पयेत् |
पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा || ४७ ||

ऊर्ध्ववक्त्रेण संयुक्तं पुरुषं पञ्चवक्त्रके |
हृदये गलेऽंसयोश्चैव नाभौ च जठरे न्यसेत् || ४८ ||

पृष्ठे ह्युरसि वै वत्स अघोरं चाष्टधा न्यसेत् |
लिङ्गे गुदे च ऊर्वोश्च जानुनोजङ्घयोरपि || ४९ ||

स्फिचोस्तथैव कट्यां च पार्श्वयोश्च द्वयोरपि |
त्रयोदश कला ह्येता वाममन्त्रेण विन्यसेत् || ५० ||

पादौ हस्तौ च नासायां शिरस्युभयबाहुके |
सद्यबीजं न्यसेद्वत्स अष्टस्थाने तु विन्यसेत् || ५१ ||

एवं विन्यस्य विधिना पश्चादर्चनमारभेत् |
यथा देहे तथा देवे अग्नौ होमे तथैव च || ५२ ||

हृदयेऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् |
ललाटे चेश्वरं ध्यायेत् वरदं सर्वतोमुखम् || ५३ ||

मेहेशं सदाशिवं चैव शिवं च त्रिविधं भवेत् |
मूर्ध्नि वै हृदि मध्ये च क्रमेण परिकल्पयेत् || ५४ ||

दक्षिणे ह्यात्मतत्त्वं तु विद्यातत्त्वं तु चोत्तरे |
मध्ये वै शिवतत्त्वं तु त्रीणि पञ्चं सुविन्यसेत् || ५५ ||

हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् |
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः || ५६ ||

अस्त्रं हस्तप्रदेशेषु नेत्रं नेत्रेषु विन्यसेत् |
दश पञ्चसु नेत्रेषु नेत्रमुद्रां प्रदर्शयेत् || ५७ ||

क्षुरिकां कल्पयेद्वत्स दक्षिणे कटिदेशके |
शिवास्त्रं विन्यसेत्तत्र बाहुमात्रप्रदेशतः || ५८ ||

दलाग्रेषु च सर्वेषु दशदिक्षु च विन्यसेत् |
शिवस्य दक्षिणे पार्श्वे बाहुमात्रादनन्तरम् || ५९ ||

अस्त्रं पाशुपतं दिव्यं स्वबीजेन तु विन्यसेत् |
अघोशस्त्रं पदे देशे विन्यसेत्तु तृतीयया || ६० ||

एवं न्यस्य विधानेन पश्चादर्चनमारभेत् |
पञ्चमन्त्रैश्च मन्त्रज्ञो हृदयेन तु संयुतम् || ६१ ||

अभिषेकं कारयेद्वत्स शास्त्रदृष्टेन कर्मणा |
रत्नोदकं सुवर्णाम्भः पुष्पोदकं यवोदकम् || ६२ ||

अष्टोत्तरशतैर्वापि चतुष्षष्टिरथापि वा |
द्वात्रिंशत् षोडशं वापि नवकुम्भथापि वा || ६३ ||

गन्धोदकैः पूरयित्वा अभिषेकं तु कारयेत् |
चक्रवर्त्युपचारेण सुगन्धामलकादिभिः || ६४ ||

दधि क्षीरं मधु घृतं पञ्चगव्यं तथैव च |
नालिकेरस्य सलिलं इक्षूदकमथापि वा || ६५ ||

पुनर्गन्धोदकैः स्नाप्य वस्त्रपूतेन वारिणा |
चन्दनं कुङ्कुमं वापि अगरुं शङ्खमेव च || ६६ ||

निर्यासं त्रिफला चैव उशीरं वालकेन च |
सुधूप्येन च गन्धेन गुण्यष्टफलमिष्यते || ६७ ||

  • * * * * * बिल्वैः जातिमल्लिक पाटले |

अर्चयेद्धृदयेनैव द्रोणैर्वा करवीरकैः || ६८ ||

पूर्वोक्तदीपं दत्त्वा तु दीपं दद्यात्समाहितः |
प्रथमावाहने ह्यर्घ्यं पूजां चेति प्रदापयेत् || ६९ ||

पूजनान्ते तु चार्घ्यं स्यात् त्रिरर्घ्यं परिकल्पयेत् |
आवाहने तु प्रथमं सुमुखार्घ्यं प्रदापयेत् || ७० ||

पूजान्ते सुमुखं दद्यात् पराङ्मुखं प्रदापयेत् |
पराङ्मुखं विसर्जने च हृदार्घ्यं तु दापयेत् || ७१ ||

मुद्रां च दर्शयेद्वत्स प्रच्छिन्नैः सुसमाहितः |
लिङ्गमुद्रा पद्ममुद्रा मूलमुद्रा तथैव च || ७२ ||

टङ्कं वज्रं च सुरभिः निष्ठुरा वृषभं तथा |
पाशं खड्गं धनुश्चैव नाराचं खण्डमेव च || ७३ ||

खट्वाङ्गं च कपालं च नाराचं डमरुं तथा |
दर्शयेद्धृदयेनैव गन्धपुष्पसमन्वितम् || ७४ ||

पञ्चवर्णैंश्च चरुभिः पञ्चवक्त्रे तु कल्पयेत् |
पायसं यवकं कृसरं हरिद्रान्नं गुलान्नकम् || ७५ ||

पञ्चवक्त्रेषु चाचाम्यं सद्यादि परिकल्पयेत् |
पृथक् कुडुबसर्पिश्च त्रयश्च कदलीफलम् || ७६ ||

गुडखण्डं पृथक्त्रयमुपदंश पञ्च पञ्चसु |
गोदधिप्रस्थं तु प्रथमं हृदयेन निवेदयेत् || ७७ ||

मुखवासं च ताम्बूलं कर्पूरफलसंयुतम् |
पानीयं च प्रदातव्यं पूर्वोक्तहृदयेन तु || ७८ ||

त्रिसन्ध्यं निवेदयेदेवं भक्तियुक्तो दृढव्रतः |
भक्ष्यं भोज्यं च पेयं च लेह्यं पोष्यं च पञ्चधा || ७९ ||

निवेदयेद्धृदा चैव अन्तरालत्रये तथा |
घृतपूरैर्योगवर्ति पृथुकं नालिकेरकम् || ८० ||

सानुसक्तैः शष्कुलीभिश्च भक्ष्यांश्च विनिवेदयेत् |
आम्रपनसनारङ्गमातुलङ्गफलादिभिः || ८१ ||

बदरीफलकपित्थं च कर्करीफलमेव च |
तरसीकं च पयसा हसा फलमेव च || ८२ ||

निवेदयेद्धृदयेनैव भक्तियुक्तः समाहितः |
निवेदयित्वा हृदितान् लेह्य चोष्यान् सुमेध्यकाम् || ८३ ||

अर्चयित्वा महादेवं पश्चात् ब्रह्माणि चार्चयेत् |
सद्यं पश्चिमतः पूज्य वामदेवं तु चोत्तरे || ८४ ||

अघोरं दक्षिणेऽभ्यर्च्य पुरुषं पूर्वे तु पूजयेत् |
ईशानं कर्णिकायां तु पूजयेद्गन्धपुष्पकैः || ८५ ||

आग्नेययां हृदये पूज्य ऐशान्यां तु शिरो यजेत् |
नैर्-ऋत्यां तु शिखां पूज्य वायव्यं कवचं यजेत् || ८६ ||

अस्त्रं दिशा सुसंपूज्य नेत्रमीशानगोचरे |
मध्यमे शिवतत्त्वं तु पूजयेद्गन्धपुष्पकैः || ८७ ||

सदाशिवं यजेन्मध्ये किञ्चिदाग्नेयमाचरेत् |
मध्यमे तु यजेद्देवं शिवं परमकारणम् || ८८ ||

सकलं महेश्वरं देवं निष्कलं तु शिवं यजेत् |
सकलं निष्कलं देवरूपं विद्धि सदाशिवम् || ८९ ||

स्थूलं महेश्वरं विद्धि सूक्ष्मरूपं सदाशिवम् |
परं शिवं हि विज्ञेयं शिवात्परतरं न च || ९० ||

जाग्रत्स्वप्नं महेशं तु सुषुप्तं तु सदाशिवम् |
अवस्थात्रयनिर्मुक्तं तुरीयं शिवमेव च || ९१ ||

मां वै महेश्वरं विद्धि त्वजा कातु मनोन्मनी |
त्वं साक्षान्मम रूपं तु मध्यं चापि ममाम्बिका || ९२ ||

एतद्दिव्यं समाख्यातं सर्वं शिवमयं भवेत् |
न शिवार्चनतुल्योऽस्ति धर्मोऽत्र भुवनत्रये || ९३ ||

इति विज्ञाय यत्नेन पूजनीयः सदाशिवः |

इति कालोत्तरे शिवार्चनपटलोऽष्टमः || ८ ||

[Die Vorlage vermerkt: „chepter 9, 10, 11 and 12 missing“.]

Kapitel 13 – Merkmale der Mudras

शीः
ईश्वर उवाच-
विद्येश्वरान् गणेशांश्च लोकपालास्तमेव च |
अष्टमूर्तिश्च विज्ञेया रुद्राद्येकादश स्मृताः || १ ||

आदित्यान् द्वादशाभ्यर्च्य वसूश्चाप्यष्ट पूजयेत् |
गन्धर्वाश्चारणाः सिद्धा यक्षा नागाश्च किन्नराः || २ ||

विद्याधरा यातुधाना गारुडाश्च महर्द्धिकाः |
ऋषयोप्सर(स)श्चैव असुरा द्वादशा मताः || ३ ||

अष्टाविंशत्यावरणं पूजयेत्सुसमाहितः |
अनन्तेशश्च सूक्ष्मश्च शिवोक्तश्चैकनेत्रकः || ४ ||

एकरुद्रस्त्रिमूर्तिश्च श्रीकश्च शिखण्डकः |
पीठान्ते पूजयेदेतान् प्रथमावरणे गुह || ५ ||

भवः शर्वस्तथोशानः पशुपतिं * * ततः |
रुद्रो भूतस्तथा भीमो महासेनोऽष्टमो भवेत् || ६ ||

गन्धपुष्पादिभिर्नित्यं द्वितीयावरणे यजेत् |
महादेवः शिवोरुद्रः शङ्करो नीललोहितः || ७ ||

ईशानो विजयो भीमो देवदेवो भवोद्भवः |
कपालीशश्च विज्ञेया रुद्रास्त्वेकादश स्मृताः || ८ ||

द्वितीयावरणे वत्स पीठे संपूजयेद्गुह |
गणेश्वरान् यजेद्बाह्ये आलयस्य षडानन || ९ ||

उमा चण्डेश नन्दीशौ महाकालो वृषस्तथा |
गणपतिश्च भृङ्गीशो सुब्रह्मण्यो गणोभवेत् || १० ||

चतुर्थावरणे ह्येतान् गन्धपुष्पैः पृथक् पृथक् |
पञ्चमावरणे वत्स द्वादशादित्यपूजनम् || ११ ||

वैकर्तनो विवस्वांश्च मर्ताण्डो भास्करो रविः |
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः || १२ ||

आदित्यश्च तथा सूर्यः अंशुमाली दिवाकरः |
एतान् वै द्वादशादित्यान् तद्बाह्ये पूजयेद्बुधः || १३ ||

गगनस्पर्शनस्तेजो रसश्च पृथिवीति च |
चन्द्रः सूर्यशमात्मा च वसवश्चाष्ट पूजयेत् || १४ ||

वज्रं शक्तिश्च दण्डश्च खड्गं पाशं तथाङ्कुशम् |
गदा त्रिशूलं चक्रं च पद्मं चेति यथाक्रमम् || १५ ||

गभस्ती स्पर्शनो वाटी नीलो मरुतस्तथा |
प्राणः प्राणेशजीवेशौ मरुतोष्टाविति स्मृताः || १६ ||

नवमावरणे चैव गन्धर्वानष्ट पूजयेत् |
चित्रसेनो महासेनः सुमित्रः सुमुखः स्मृतः || १७ ||

विश्वावसुः सुगाधी च स्वरज्ञः पञ्चभीतकः |
एकादशे चावरणे ईशं वै चारणान्न्यसेत् || १८ ||

खगचारी सुचारी च ब्रह्मगा ब्रह्मवित्तमः |
शाश्वतः सर्वगोपुष्टः सुपुष्टश्चाष्टमो मतः || १९ ||

द्वादशावरणे पूज्या अष्टौ वै सिद्धपङ्कितः |
मन्त्रज्ञो ब्रह्मवित्प्राज्ञो हंसरासिद्धपूजितः || २० ||

सिद्धवित् परमः सिद्धः इत्येतानष्ट पूजयेत् |
त्रयोदशे चावरणे यक्षेशानष्ट पूजयेत् || २१ ||

यक्षेशो धनदश्चैव जम्भलो मणिभद्रकः |
पूर्णभद्रश्च विमली डिविकुण्डिमष्व च || २२ ||

नरेन्द्रश्चैव वै वत्स अष्टौयक्षांश्च पूजयेत् |
अनन्तो वासुकिश्चैव तक्षकार्कोटकौ तथा || २३ ||

पद्मश्चैव महापद्मो गुलकः शङ्खपालकः |
चतुर्दशे चावरणे पूजयेद्गन्धपुष्पकैः || २४ ||

पञ्चदशे त्वावरणे विरजानन्दं पूजयेत् |
विराजः किन्नरज्ञश्च शूरसेनः प्रमर्दकः || २५ ||

अतिशयः सुप्रजो गीतो गीतज्ञश्चाष्टमो भवेत् |
षोडशे पूजयेद् वत्स अष्टौ विद्याधरानपि || २६ ||

सप्तदशे चावरणे हयग्रीवान् प्रपूजयेत् |
हयग्रीवो महाजम्भः कालनेमिर्महाबलः || २७ ||

सुग्रीवो मर्दकश्चैव पिशिताङ्गो देवमर्दकः |
अष्टादशावरणे तु ऋषीनष्ट प्रपूजयेत् || २८ ||

अगस्त्यो वासिष्ठोऽङ्गिरा मनुः काश्यपनारदौ |
उपमन्यो रुरुंश्चैव पूज्या वै गन्धपुष्पकैः || २९ ||

ऊर्वशी मेनका चैव रम्भा चैव तिलोत्तमा |
सुमुखी सुन्दरी चैव कौन्दकी कामवर्धनी || ३० ||

एकोनविंशदावरणे पूजयेदप्सराष्टकम् |
विंशत्यावरणे वत्स असुरानष्ट पूजयेत् || ३१ ||

बलश्च जम्बलश्चैव सुबलोभाबलस्तथा |
देवशत्रुरिन्द्रशत्रुर्विष्णुशत्रुस्सुकण्टकः || ३२ ||

एवं विंशत्यावरणे स्त्रियाद्याश्चाष्टशक्तयः |
श्रीदेवी धारिणी चैव दुर्गाचैव सरस्वती || ३३ ||

गायत्री च उषा गङ्गा शमीचेत्यष्ट पूजयेत् |
प्रभा सन्ध्या च मेधा च स्वधा स्वाहा वषट्कृता || ३४ ||

श्रुतिस्मृतिश्चेत्यष्टौ ता पूज्या द्वाविंशति स्थितिः |
त्रयोविंशत्यावरणे राशीन् द्वादश पूजयेत् || ३५ ||

सोमाङ्गारबुधाश्चैव जीवः शुक्रशनैश्चराः |
त्रयोविंशत्यावरणे ग्रहानष्टौ यजेद्बुधः || ३६ ||

राहुः केतुंश्चैव वत्स गन्धपुष्पादिभिर्यजेत् |
चतुर्विंशत्यावरणे राशीन् द्वादश पूजयेत् || ३७ ||

मेषो वृषभो मिथुनकटको सिंह एव च |
कन्या तुलावृश्चिकश्च धनुर्मकर एव च || ३८ ||

कुम्भो मीनश्च वै वत्स पूज्याः गन्धादिभिः शुभैः |
पञ्चविंशत्यावरणे यजेन्नक्षत्र मातृकाः || ३९ ||

अश्विनी भरणी चैव कृत्तिका रोहिणी तथा |
मृगशिरार्द्वा पुनर्वसुः पुष्य आश्लेष एव च || ४० ||

षड्विंशत्यावरणे मखादीनष्ट पूजयेत् |
महा वै पूर्व फल्गुनी उत्तराफल्गुनीति च || ४१ ||

हस्ता च चित्रा स्वाती च विशाखा चानुराधकाः |
सप्तविंशत्यावरणे ज्येष्टादीन् पूजयेद्गुह || ४२ ||

ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा तथैव च |
श्रवणं श्रविष्ठा शतभिषक् पूर्वप्रोष्ठपदापि च || ४३ ||

उत्तरा च प्रोष्ठपदा पौष्णश्चेति च पूजयेत् |
अष्टाविंशत्यावरणे प्रमथेन्द्राष्टकं यजेत् || ४४ ||

ज्वरः कुण्डोदरश्चैव शङ्कुकर्णो महाबलः |
जिह्वाशिखः शिखा जिह्वः पादाक्षश्चाक्षपादकः || ४५ ||

प्रेतजिदैव प्रमथः राजानष्टकोट्यधिराजकान् |
एकत्रिपञ्च सप्तैर्वा नव षोडश एव वा || ४६ ||

यथाविधं तथा पूज्या अष्टाविंशतिरुत्तमम् |
रुद्रभूतमहात्मानो ह्यष्टकोटि स तु वै भुवि || ४७ ||

पिशाचाः प्रेतसंघाश्च उच्छुष्मा राक्षसास्तथा |
देवग्रहाश्च कौमाराः डाकिन्यः पूतनास्तथा || ४८ ||

दिव्यान्तरिक्ष भूमिष्ठ पातालतलवासिनः |
भूतपीठे बलिं दद्यात् स्वनामाद्येन सर्वशः || ४९ ||

तृतीयावरणे बाह्ये मात्राणां दक्षिणे यजेत् |
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || ५० ||

वाराही चैव माहेन्द्री चामुण्डी च गणाधिपाः |
वीरभद्रेण सहिताः पूजयेद्गन्धपुष्पकैः || ५१ ||

धूपैर्दीपैः हविर्दद्यात् पूजयेत् सुसमाहितः |
सर्वावरणबाह्ये तु क्षेत्रपालाष्ट पूजयेत् || ५२ ||

तालजङ्घो लोहजङ्घः तथा पर्वतजङ्घकः |
समुद्रघोषो वायुघोषः अनलाक्षः प्रमर्दनः || ५३ ||

सुघोरदंष्ट्र इत्यष्टौ दण्डहस्ताः सुभीषणाः |
नीलजीमूतसंकाशाः अनेकायुध हस्तकैः || ५४ ||

और्ध्वकेशाः सुरक्ताक्षाः भीमरूपा भयानकाः |
प्राकारस्य तु बाह्ये तु क्षेत्रपालान् प्रपूजयेत् || ५५ ||

एवं पूजाविधानेन प्रासादं च विशोधयेत् |
गोमयेन लिपेत्तत्र पादं हस्तौ च क्षालयेत् || ५६ ||

आचम्य तु विधानेन अग्निकार्यं समारभेत् |
एवं विधिक्रमेणैव होमं कुर्यात्समाहितः || ५७ ||

समाधिश्च जपःस्तोत्रं प्रदक्षिणं च समारभेत् |
यावच्छक्ति समाधिस्स्याष्टाङ्गं योगसंयुतम् || ५८ ||

सहस्रमष्टाधिकारा अष्टोत्तरशतं तु वा |
प्रासादं तु जपेद्धीमान् मानसं च समाचरेत् || ५९ ||

दैविकं चार्षकं चापि सहस्रनामादिकं च यत् |
यावच्छक्तिजपं स्तोत्रं प्रदक्षिणमथाचरेत् || ६६ ||

लिङ्गे सव्यापसव्यं तु प्रदक्षिणविधिर्भवेत् |
प्रासादे सव्यमार्गं तु * * * अपवर्जयेत् || ६१ ||

अथाष्टाङ्गनमस्कारस्त्रयस्त्रिंशत्समाहितः |
अथवा एकविंशं तु नमस्कारं षोडशं तु वा || ६२ ||

देवानां तु नमस्कारं दशदिक्षु दशैव च |
ऋषीणामष्टगुणं कुर्यात् मनुष्याणां त्रिरेव च || ६३ ||

कुर्याद्दण्डनमस्कारं दशदिक्षु समाहितः |
पुरस्तात् त्रिगुणं कुर्यात् षडक्षरमनुस्मरन् || ६४ ||

देवदेवमनुष्याणां देवालय सुसंश्रितः |
उरसा शिरसा चैव सा पिशाच नमस्त्रिधा || ६५ ||

दृष्ट्या वाचा प्रबुद्ध्या च कण्ठात् नासिकयापि वा |
हस्ताभ्यां चैव वै वत्स नमस्कारोष्टाङ्ग उच्यते || ६६ ||

देवस्य पादकमले निवेदयेत्समाहितः |
हृदा पुष्पोदकैश्चैव निवेदयेत्तु पृथक्पृथक् || ६७ ||

एतत्सर्वं निवेद्याथ स्वात्मानं तु निवेदयेत् |
चुवकोदकेन कुसुमैः पादमूले निवेदयेत् || ६८ ||

पश्चाद्विसर्जये देवमीशेनैव समाहितः |
गमने * * * * * * * * * * * * * || ६९ ||

(अत्र ग्रन्थपातः)

  • * * * * * र्याथ घोरमुद्राः प्रकीर्तिताः |

उत्तानौ तु करौ कृत्वा वेणिबन्धं तु कारयेत् || ७० ||

तर्जन्यौ देव प्रसार्याथ मुद्रां तत्पुरुषस्य तु |
उत्तानौ तु करौ कृत्वा वेणिबन्धं तु कारयेत् || ७१ ||

  • * * * प्रसार्याथ ईशानस्य प्रकीर्तितः |

अञ्जली द्वौ प्रसार्याथ कुञ्चितौ द्वौ षडानन || ७२ ||

भैक्षमुद्रा भवेदेषा दक्षिणे वा विदुर्बुधाः |
दक्षिण प्रणतं कृत्वा प्रसार्यैव षडानन || ७३ ||

ग्राममुद्रा भवेदेषा सर्वकामार्थसाधिका |
या च मुद्रा तथा वत्स दक्षिणा च द्विजातिषु || ७४ ||

शूद्रस्य वामहस्ते तु अन्त्यजा न कदाचन |
उत्तानौ तु करौ कृत्वा समौश्लिष्टौ परस्परम् || ७५ ||

मध्यमा तर्जनी गोप्या कनिष्ठानामिका तथा |
अङ्गुष्ठौ द्वौ प्रसार्याथ सुरभिमुद्राः प्रकीर्तिताः || ७६ ||

उत्तानौ तु करौ कृत्वा अङ्गुष्ठौ मध्यगोऽपितौ |
प्रसार्य करशाखाश्च ईषत्कुञ्चितमेव हि || ७७ ||

धान्यमुद्रा भवेदेषा सर्वधान्यविवर्धिनी |
उत्तानौ तु करौ कृत्वा करशाखासु पर्वसु || ७८ ||

ईषत्कुञ्चितमग्रे तु उदकमुद्राः प्रकीर्तिताः |
उत्तानौ तु करौ कृत्वा अङ्गुष्ठस्तर्जनी उभौ || ७९ ||

तेषां वै मुष्टिं बद्ध्ना तु अन्नमुद्राः प्रकीर्तिताः |
घृतमुद्रा दधिमुद्रा क्षीरमुद्रा दधिस्तथा || ८० ||

तर्जन्यादि कनिष्ठान्तं प्रसार्योभौ परस्परम् |
दक्षिणाङ्गुष्ठतर्जन्यो ईषच्छाल्यङ्गुष्ठमेव च || ८१ ||

अक्षसूत्रस्य मुद्रा तु जपकाले च काम्यके |
पद्ममुद्रा पदावाह्यामङ्गुष्ठौ द्वौ तथैव च || ८२ ||

ऊर्ध्वं कृत्वा तु चाभाह मयः कृत्वा तु स्थापनम् |
निरोधं मुष्टिना वत्स सान्निध्यं पद्ममुद्रया || ८३ ||

विसर्गं चास्त्रमुद्रा तु उभौ वा एकमेव वा |
उत्तानौ तु करौ कृत्वा समौश्लिष्टौ समापयेत् || ८४ ||

परस्थौ स्तम्भमुद्रा तु ऊर्ध्वं कृत्वा तु निक्षिपेत् |
जपमुद्रा तु चोर्ध्वं तु मन्त्रिणा तानि निक्षिपेत् || ८५ ||

अङ्गुष्ठौ तर्जनीश्लिष्टौ कनकमुद्राः प्रकीर्तिताः |
मध्यमाङ्गुष्ठ संयोगाद्रजतमुद्राः प्रकीर्तिताः || ८६ ||

अङ्गुष्ठानामिकाश्लिष्टा ताम्रमुद्राः प्रकीर्तिताः |
वज्रमाणिक्य मरतकमौक्तिकमुद्राः प्रकीर्तिताः || ८७ ||

तर्जन्यादि कनिष्ठान्ता प्रसार्याङ्गुष्ठकुञ्चिता |
उभौ मुष्टिं प्रसार्याथ अक्षयं मन्त्रमुक्तया || ८८ ||

अङ्गुष्ठमध्यसंलीनो शेषांश्चैव अथोद्भवेत् |
पशुमुद्रा भवेदेषा पद्मपुष्पादिरेव च || ८९ ||

कनिष्ठाङ्गुष्ठौ संगोप्य दीपमुद्रां ततः शृणु |
कनिष्ठानामिकामध्ये अङ्गुष्ठेन तु पीठयेत् || ९० ||

तर्जनीमूर्ध्वतः कृत्वा दीपमुद्रां प्रदर्शयेत् |
उत्तानौ तु करौ कृत्वा द्वौ द्वौ चैव प्रसाधिनी || ९१ ||

अङ्गुलीनां तु सर्वासां मंत्रैः संश्लिष्य मन्त्रवित् |
निवेद्यमुद्रा भवेदेव नैवेद्ये चैव दर्शयेत् || ९२ ||

अञ्जली द्वौ प्रकर्तव्यमीषत्कुञ्चितमेव च |
मुद्रा दक्षिणं चाद्य अङ्गुष्ठौ चैव बन्धवत् || ९३ ||

शयनमुद्रा भवेदेषा शयनकाले तु दर्शयेत् |
अल्पसत्त्व पिशाचाश्च सर्पचूनादि लक्षणम् || ९४ ||

अ* * * * * * * * * * मरे षडानन |
वामाङ्गुष्ठेन मेधावी कनिष्ठामूल संस्थितः || ९५ ||

दक्षिणे तर्जनी चैव श्रोतव्यं कामविह्वले |
परदारेषु सर्वेषु सं * * * * * प्रवी || ९६ ||

  • * * * * * कृत्वा वामदक्षिणपीडयेत् |

अङ्गुष्ठे मध्यमौ लीनो निधिमुद्रा कामसाधनी || ९७ ||

पद्ममुद्रा पद्मनिधि विशेषाङ्गुष्ठ पीडयेत् |
सर्वासामङ्गुलीनां तु सम्यगेव तु पीडयेत् || ९८ ||

भवेद्ध रहस्यं न प्रकाशयेत् |
योनिमुद्रा उमाप्रीति श्रीप्रीतिं पद्ममुद्रिका || ९९ ||

  • * * * * * * प्रीतिर्विशेषं पुस्तकमुद्रया |

उत्तानौ तु करौ कृत्वा कनिष्ठादीन् मुष्टिबन्धयेत् || १०० ||

अङ्गुष्ठाद्वायुपर्यन्तं पीड्य भवेत्पुस्तक मुद्रया |
कराल * * * * * * * * द्धितौ सामाङ्गुष्ठौ तु षण्मुख || १०१ ||

भूमिमुद्रा भवेदेषा सर्वभूमिं तु साधयेत् |
कराङ्गुलीनां सर्वासां अधस्ताच्चलनं भवेत् || १०२ ||

अङ्गु * * * * * * * * * * * * * * |
उत्तानौ तु करौ कृत्वा मध्यमौ द्वौ प्रसारयेत् || १०३ ||

शेषान् वै मुष्टिबन्धं तु अङ्गुष्ठा मध्यगोपयेत् |
अग्निमुद्रा भवेदेषा सर्वशत्रून् दहेदपि || १०४ ||

दक्षिणाङ्गुष्ठेन मतिमान् वामाङ्गुष्ठे तु पीडयेत् |
वायुमुद्रा भवेदेषा सर्व * * * * * * कारयेत् || १०५ ||

करयोरुभयोश्चैव गगनमुद्राः प्रकीर्तिताः |
अङ्गुष्ठौ तर्जनी चैव कुण्डलाकारवद्भवेत् || १०६ ||

शेषान् वै मुष्टिं बद्ध्वा तु कर्णमुद्रां प्रदर्शयेत् |
मध्यमा तर्जनीचैव प्रसार्य शेषांस्तु बन्धयेत् || १०७ ||

घ्राणमुद्रा भवेदेषा सर्ववायुजयो भवेत् |
जिह्वां तु लालयेद्धीमान् उभौ हस्तौ तु चालयेत् || १०८ ||

जिह्वामुद्रा भवेदेषा लभेदन्नं घृतादिभिः |
उत्तानौ तु करौ कृत्वा समाश्लिष्टौ परस्परम् || १०९ ||

अङ्गु * * * * * हे धर्म (वाङ्) मुद्रा तु प्रकीर्तिताः |
करशाखा ऊर्ध्वं कृत्वा प्रासार्याङ्गुष्ठबन्धयेत् || ११० ||

पाणिमुद्रा भवेदेषा आवेष्टरकरावुभौ |
उत्तानौ तु समौ कृत्वा समौ श्लिष्टौ परस्परम् || १११ ||

अधस्तात् प्रक्षिपेत् द्वौ तु पादमुद्रां प्रदर्शयेत् |
उत्तानौ तु करौ कृत्वा पृष्ठपाणि तलावुभौ || ११२ ||

ऊर्ध्वाधः कम्पनं कृत्वा जिह्वां लालयते पुनः |
वाङ्मुद्रा तु भवेदेषा सर्ववाङ्मयसाधिनी || ११३ ||

मुष्टिं बद्ध्वा उभौ मन्त्री तर्जन्यङ्गुष्ठसाधयेत् |
अण्डोपस्थानमुद्रा तु प्रजार्थी दर्शयेद्गुह || ११४ ||

सव्यापसव्यौ कुण्डलौ अङ्गुष्ठेन तु पीडयेत् |
गुदमुद्रा भवेदेषा विण्मूत्रादि विसर्जयेत् || ११५ ||

अङ्गुष्ठतर्जनी चैव सर्वदा वर्तयेद्गुह |
आवेष्टनोद्देष्टनं च मरणमुद्रां प्रदर्शयेत् || ११६ ||

शब्दस्पर्शं च रूपं च रसं गन्धं तथैव च |
तद्वत्करौ तु कर्तव्यं मुद्रा तत्र प्रकीर्तितौ || ११७ ||

अङ्गुष्ठौ तर्जनी चैव संपीड्य च प * * * * रे |
अहंकारस्येय मुद्रा स्वदेहोर्ध्वं तु दर्शयेत् || ११८ ||

कर * * * * * र्वासु ऊर्ध्वं कृत्वा मुहुर्मुहुः |
अङ्गुष्ठौ बन्धयेद्विद्वान् मृदा चैव महान् भवेत् || ११९ ||

अङ्गुष्ठा सत्त्व संस्था स्यात् राजसां मध्यमोद्ध्यजैः |
तर्जनी * * * * * * * * * * * * मुद्रा प्रकीर्तिता || १२० ||

उत्तानौ तु करौ कृत्वा प्रोतव्यं तु परस्परम् |
अङ्गुष्ठौ अन्या सा मूले प्रकृतिमुद्रा प्रकीर्तिता || १२१ ||

उत्तानौ तु करौ कृत्वा अङ्गुष्ठौ तु प्रसारयेत् |

  • * * * * * * * पुरुषमुद्राः प्रकीर्तिताः || १२२ ||

रागो माया विद्या कलानियतिः पञ्चमुद्रया |
अङ्गुष्ठादि कनिष्ठान्तं प्रसार्य मुद्रा अनुक्रमात् || १२३ ||

विग्रहेशश्च * * * * * लश्च शुद्धमाया तथैव च |
शुद्धविद्या शुद्धकला कनिष्ठा तु प्रसारिता || १२४ ||

शेषाश्च मुष्टिं बध्वा तु सर्वत्रैव विचक्षणः |
सदाशिवं शिवमुद्रा पूर्वमेव प्रसारिता || १२५ ||

आदित्य बिम्बमुद्रा हस्तकोलकवद्भवेत् |
रुद्रैकादशकान् सर्वान् लिङ्गमुद्रां तु दर्शयेत् || १२६ ||

लिङ्गमुद्रात् स्तनान्तं तु शूलमुद्रां तु मूर्तिपान् |
नमस्कारो गणेशस्य विद्येशानां तु शूलता || १२७ ||

लोकपालाः * * * * * * स्वास्तुमुद्रा अज्ञ स्वे स्वे तु दर्शयेत् |
सप्तमात्रगणानां तु स्वे स्वे चायुधं दर्शयेत् || १२८ ||

सिद्धविद्याधरान् यक्षान् मरुद्गणांस्तु किन्नरान् |
असुरान् राक्षसान् गरुडानप्सरश्चारणानपि || १२९ ||

भूतान् पिशाचान् क्षेत्रपालान् नमस्कारो विधीयते |
विशेषं लिङ्गमुद्रा च ऋषिपत्नी ऋषीनपि || १३० ||

नमस्कारमुद्रा लिङ्गमुद्रा परमुद्रा तु सर्वशः |

इति कालोत्तरे अयुतत्रयसंहितायां मुद्रालक्षण पटलस्त्रयोदशः || १३ ||

Kapitel 14 – Mandala-Vorschrift

श्रीः
ईश्वर उवाच-
मण्डलस्य विधानं तु प्रवक्ष्याम्यनुपूर्वशः |
ब्राह्मणस्य मही श्वेता रक्तां वै क्षत्रियस्य तु || १ ||

वैश्यस्य वसुधापीता कृष्णा शूद्रस्य शस्यते |
मधुमा ब्राह्मणी भूमिः कषाया क्षत्रियस्य तु || २ ||

वैश्वस्य * * * * * सा ज्ञेया शूद्रस्य करका स्मृता |
आज्यगन्धा तु विप्रस्य रक्तगन्धा नृपस्य तु || ३ ||

वैश्यस्य मूत्रगन्धा तु शूद्रा विष्ठानुगन्धिनी |
वणगन्धं तथा स्वादं एतैर्ज्ञात्वा तु लक्षणैः || ४ ||

सर्वसिद्धिमवाप्नोति सिद्धीनां काङ्क्षितानि वै |
हस्तमात्रं खनेद्भूमिं पांसुमुद्धृत्य पूरयेत् || ५ ||

पांसुरभ्यधिको यत्र सा भूमिः सर्वकामदा |
मध्यमा समपांसुस्तु हीना चाप्यधमा भवेत् || ६ ||

धनुर्मात्रं खनित्वा तु विस्तारं पञ्च सप्त वा |
भस्माङ्गार तुषान् केशान् अस्थिचाप्युद्धरेद्गुह || ७ ||

पञ्चगव्यं क्षिपेत्तत्र ताम्रपात्रे तु बुद्धिमान् |
पञ्चरक्तं क्षिपेत्तत्र मूलमन्त्रेण देशिकः || ८ ||

दर्भे वै छादयित्वा तु धिष्ण्यं सम्यक् समारभेत् |
दर्पणोदरसंकाशं चतुरश्रं समन्ततः || ९ ||

कैलासे मन्दरे वापि निषधे नीलपर्वते |
हिमवद्धेमकूटे च विन्ध्ये च पारियात्रके || १० ||

महेन्द्रे मलये सह्ये श्रीशैले स्वामिपर्वते |
तेषां स्वाग्नौ च कर्तव्यं तीर्थे वा कारयेद्बुधः || ११ ||

गङ्गायमुनयोर्मध्ये यागस्थानं सुशोभनम् |
तयोः पार्श्वे च वा कुर्यात् सरयू गण्डकेपि वा || १२ ||

गोमत्याश्च समीपे च कुरुक्षेत्रे च वा भवेत् |
सारस्वती तीरकेऽपि दृषद्वत्याश्च तीरके || १३ ||

गोदावर्याः समीपे तु नर्मदायास्तटेपि वा |
क्षेत्रतीरे वाराणस्यां वा बदर्याश्रम एव च || १४ ||

उज्जयिन्यां भैरवे वा विरजायामथापि वा |
देवदारुवने वापि नैमिशे पुष्करेऽपि वा || १५ ||

गोकर्णे वापि तीर्थे च तीरे वाथ समीपतः |
पुण्योद्यानेऽथ गोष्ठे वा तत्र यागं समारभेत् || १६ ||

यत्र वा रमते भूमिः महातटाक तीरके |
देवालयसमीपे च पुण्यनद्याश्च तीरके || १७ ||

अथवा शुद्धगेहेपि शिवालयसमीपतः |
कूटं वा मण्डपं वापि अन्तस्तम्भ विवर्जितम् || १८ ||

चतुर्द्वार समायुक्तं चतुस्तोरणभूषितम् |
वितानेनोर्ध्वमाच्छाद्य घण्टाचामरभूषितम् || १९ ||

दर्भमालापरिक्षिप्त पुष्पमालावलम्बितम् |
दिव्यभूमिसुगन्धाढ्यं धूपदीपसमन्वितम् || २० ||

अर्घ्यपुष्पैश्च संकीर्णं स्वस्तिवाचन संकुलम् |
शङ्खदुन्दुभिनिर्घोषं ब्रह्मघोषसमन्वितम् || २१ ||

गन्धादिभिरथाभ्यर्च्य सूत्रपातं समाचरेत् |
द्र(दि)व्यान्तरिक्षभूमिष्ठ निमित्तान्युपलक्षयेत् || २२ ||

शुभेषु प्रसारयेत्सूत्रं अशुभेषु निवर्तयेत् |
प्राक्सूत्रं प्रथमं कुर्यात् पश्चिमे तु विसारयेत् || २३ ||

तृतीयं नैर्-ऋते कुर्यात् ऐशान्ये तु विसारयेत् |
चतुरश्रं समं कृत्वा वर्तयेत्पद्ममुत्तमम् || २४ ||

शङ्कुं निधापयेत्तत्र नवदिक्षु समन्ततः |
खादिराः शङ्कवः कुर्यात् चूतबिल्वकदम्बजाः || २५ ||

मधूकी देवदारुर्वा आसनं शार्वमेव वा |
षोडशाङ्गुलमुत्सेधं तदर्धं नाहमुच्यते || २६ ||

अग्रे तीक्ष्णं तु कर्तव्यं ऊर्ध्वव्रतं तु कारयेत् |
यावन्मण्डलमात्रं तु तावद्विन्दुं च लाञ्छयेत् || २७ ||

एवं कृत्वा विधानेन मश्चान्मण्डलवर्तनम् |
प्रथमं कर्णिकामध्यं द्वितीयं केसरान् गुह || २८ ||

दलानां तु तृतीयेन चतुर्थं तु दलाग्रके |
प्रतिवारणं ततो वर्त्य पीचीनां वर्तयेत्ततः || २९ ||

द्वाराणि वर्तयेत् पश्चात् शोभाच्चैव ततो भवेत् |
उपगः शोभं न तावत्यः पश्चान्मण्डलमालिखेत् || ३० ||

श्वेतं रक्तं तथा कृष्णं हरितं रक्षमेव च |
पञ्चक्रतुरजः प्रोक्तं पञ्चरत्नसमन्वितम् || ३१ ||

मुक्ताचूर्णेन संयुक्तं शालिगोधूमपिष्टकम् |
पद्मरागस्य चूर्णं तु गैरिकेष्टक चूर्णकैः || ३२ ||

इन्द्रनीलस्य चूर्णेन तुषाङ्गारस्य चूर्णकैः |
मरतकस्य चूर्णेन बिल्वपत्रस्य चूर्णकम् || ३३ ||

पद्मरागस्य चूर्णेन हरिद्राचूर्णसंयुतम् |
पीतवर्णं विजानीयात् पञ्चवर्णं प्रकीर्तितम् || ३४ ||

पञ्चरत्नस्य चूर्णैश्च मण्डलं लेखयेन्नृपः |
शेषांस्तु मिश्रवर्णैस्तु लेखयेन्मण्डलं बुधः || ३५ ||

प्रथमं श्वेतवर्णेन लेखयेत्पद्ममुत्तमम् |
अष्टपत्रं लिखेद्धीमान् श्वेतेन रजसा पुनः || ३६ ||

कर्णिका पीतवीथ्यां तु अरुणेन तु केसरान् |
मूले केसरतः शुक्लमग्रं वै ह्यरुणेन तु || ३७ ||

कनिष्ठिका परिणाहं तु रजोरेखां प्रकल्पयेत् |
अन्तरे तु यमं प्रोक्तं पुष्टिना पातयेत्पुनः || ३८ ||

श्वेतेन वापि रक्तेन प्रमाणं च षडानन |
प्रतिवारणत्रयं लेख्यमन्तरं द्व्यङ्गुलं भवेत् || ३९ ||

वीथयश्चतुरोलेख्या रत्नेन रजसा पुनः |
द्वारं चतुर्हि संलेख्य शोमांश्चैकं लिखेद्बहिः || ४० ||

वीथयः परितो लिख्यं पञ्चवर्णैः षडानन |
लेखयेत्प्राबलं यच्च वल्लिजाति सुशोभनाः || ४१ ||

हस्तमात्रं भवेत्पद्मं विधिना विस्तरं तथा |
वितस्तिमात्रं द्वारं तु हरितं पीतमेव च || ४२ ||

एकहस्तं द्विहस्तं वा चतुर्हस्तं तथापि वा |
अष्टौ द्वादशहस्तं वा षोडशं विंशतिस्तु वा || ४३ ||

हस्तं त्रिंशतिभिर्वापि अत ऊर्ध्वं न कारयेत् |
षोडशं पत्रमालिख्य पीतवर्णमथापि वा || ४४ ||

चतुः षष्टिपत्रं वा लिख्यं अष्टोत्तरशतं तु वा |
यावद्धस्तं भवेत्पद्मं तावत्पत्रं लिखेत्पुनः || ४५ ||

आवाहयेत् तदा देव पञ्च * * * *य? सम् |
यथार्चने तथा बाह्यस्था *?वापि तथैव च || ४६ ||

तथार्चयेन् महासेन गन्धपुष्पप्रधूपकैः |
एकावरणमारभ्य यावदावरणं शतम् || ४७ ||

अष्टाविंशत्यावरणे अष्टने तु प्रदर्शितम् |
तद्वद्वै मण्डले पूज्य विधिदृष्टेन षण्मुख || ४८ ||

चरुं वै पूर्ववत्पश्चात् निवेदयेन्मन्त्रपूर्वकम् |
शिवायार्धं निवेद्याथ शेषार्धं होमयेद्बुधः || ४९ ||

उपोषितानावशिष्यानां तदर्धं तु प्रदापयेत् |
पूर्वं वै दन्तकाष्ठं तु द्वादशाङ्गुलमात्रकम् || ५० ||

पिप्पलं वटवृक्षं च खदिरं वापि दापयेत् |
अघोरास्त्रेण मन्त्रेण जपित्वा खादयेद्बुधः || ५१ ||

उपस्पृश्य विधानेन वक्त्रं मन्त्रं जपेत्ततः |
पञ्चगव्यं ततो दद्यात् ईशानेनाभिमन्त्रितम् || ५२ ||

बाणसंख्या भवेद्वत्स आचम्याचम्य दापयेत् |
द्वात्रिंशदग्निकुण्डं वा षोडशं द्वादशं तु वा || ५३ ||

अष्टौ वा वेदसंख्या वा दरिद्राश्चन्द्र संख्यया |
पूर्वोक्तेन विधानेन होमकुण्डं तु कारयेत् || ५४ ||

पलाशखदिराश्वत्थ प्लक्षन्यग्रोध एव च |
बिल्वोदुम्बरशस्यं च वैकङ्कति शमी तथा || ५५ ||

उपामार्गन्तु व्याख्यातं समिधः समुदाहृताः |
समिदाज्यचरून् लाजान् तिलान् मालींश्च सर्षपान् || ५६ ||

यवान् भक्ष्यांश्च विविधान् होमयेत्तत्र पारगः |
दशगुणं होमयेद् वत्स शिवाय परमात्मने || ५७ ||

विद्येशान् सर्वरुद्रांश्च होमयेद्भूतसंख्यया |
गणेशान् लोकपालांश्च गुणसंख्यां तु होमयेत् || ५८ ||

एकाहुतिं भवेद् दद्यात् तत्तन्मन्त्रेण वै गुह |
शिष्यांश्चाधिवासयेत्तत्र मण्डलस्य तु दक्षिणे || ५९ ||

कलशान्नव विन्यस्य नवरत्नं तु विन्यसेत् |
सवस्त्रान् सापिधानांश्च सकूर्चान् सूत्रवेष्टितान् || ६० ||

धान्यराशौ निधातव्यं चन्दनोदक पूरितान् |
दर्भचर्यासमारूढः शिवध्यानपरायणः || ६१ ||

स्वप्नं माणवकं जप्त्वा स्वपेद्रात्रौ गुरोः सह |

इति कालोत्तरे अयुतत्रयसंहितायां मण्डलविधिः चतुर्दशः पटलः || १४

Kapitel 15 – Träume

ईश्वरः उवाच-
स्वप्नमार्गं प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः |
स्वप्नस्तु प्रथमे यामे परयत्रयपाकिनः || १ ||

द्वितीयेन द्वये पाकः तृतीयेऽप्येकवत्सरात् |
यामे तु पश्चिमे वत्स षाण्मासात्सिद्ध्यति ध्रुवम् || २ ||

उषःपूर्वे द्वादशाहात् ब्राह्मे पञ्चदशं दिनम् |
अरुणोदयवेलायां सप्ताहात् सिद्धिमाप्नुयात् || ३ ||

कलुषोदकप्लवं पश्येन्नद्यां वापि सरस्यपि |
महोदकं ततो स्नात्वा पारं गत्वा विबुद्ध्यति || ४ ||

स्वप्ने महोदके धीमान् धनधान्यमवाप्नुयात् |
पद्मं वा चोत्पलं वापि नन्द्यावर्तं च मल्लिकाम् || ५ ||

जातीवकुलमाल्यां वा अर्थानां च तथो भवेत् |
यस्तु पश्यन् स्वप्नान्ते भयं वा धेनुमेव वा || ६ ||

वराहं वा मृगं वापि शुकं वा शारिकां च वा |
लब्ध्वा तु प्रतिबुद्ध्येत कुटुंबं तस्य वर्धते || ७ ||

यस्तु श्वेतेन सर्पेण स्पर्शं वा दक्षिणे भुजे |
सहस्रलाभस्तेषां स्यात् सुपुत्रोवापि जायते || ८ ||

आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनाम् |
विष्ठानुलेपो रुधिरं मृतं च
स्वप्नेष्वगम्यागमनं च धन्यम् || ९ ||

गजं वा पश्यति स्वप्ने लब्ध्वा तु प्रतिबुध्यते |
महदर्थमवाप्नोति राजपूज भविष्यति || १० ||

वृषं लब्ध्वा प्रबुद्ध्येत पद्मपुष्पमथापि वा |
कुक्कुटं वापि स्वप्नेपि भूमिलाभं विनिर्दिशेत् || ११ ||

पुष्पितं फलितं वापि पक्व वा शुभवृक्षके |
पुष्पिते पुष्पितं कार्यं फलिते फलितं भवेत् || १२ ||

पक्वे पक्वं विजानीयात् दृष्टे दृष्टफलं शुभम् |
शालिं क्षेत्रं महत्पक्वं स्वप्नान्ते यदि पश्यति || १३ ||

शालिं लभेत्सुसुलभं दशाहे तु न संशयः |
गन्धशालिं महाशालिं कलमाशालिमेव वा || १४ ||

यस्तु पश्यति स्वप्नान्ते स्वत्सां गां सुभासिताम् |
आयुस्तस्य विवर्धेत इति सत्यं षडानन || १५ ||

वानरं वा जुलीकं वा सर्प संदृश्यते बृहत् |
धनधान्यसुपुत्रैश्च वर्धते पुत्रपौत्रकैः || १६ ||

यस्तु पश्यति स्वप्नान्ते दारिद्र्यं तस्य नश्यति |
सुरभिं पश्यन् स्वप्नान्ते सवत्सां गां सुभासिताम् || १५ ||

आयुस्तस्य विवर्धेत इति सत्यं षडानन |
वानरं वा जुबीकं वा सर्पं सदृश्यते बृहत् || १६ ||

धनधान्यसुपुत्रैश्च वर्धते पुत्रपौत्रकैः |
यस्तु पश्यति स्वप्नान्ते राजतं कनकामपि || १७ ||

देवज्ञं भूधरं वापि गृहे त्वर्थमवाप्नुयात् |
पादस्यैव शतो लाभः सहस्रं बाहुभक्षणे || १८ ||

  • * * * * * * * * वा शिरसश्चैव भक्षणात् |

पुष्करेण ततो यस्य पायसं घृतसंयुतम् || १९ ||

निषण्णं तु पुरे भद्रे तं विद्यात्पृथिवीपतिम् |
प्रासादे चैव यो भूत्वा स मुद्राणां तथैव च || २० ||

ये सदा स कुले जाते राजत्वमधिगच्छति |
आदित्यमण्डलं दृश्यते भक्ष्यतेऽपि वा || २१ ||

दर्शनाद्राज्यमाप्नोति भक्षणात्संपदो मताः |
दर्शनं भक्षणं वापि स्वप्नान्ते चन्द्रमण्डलम् || २२ ||

दर्शनादर्थमाप्नोति भक्षणाद्राज्यमाप्नुयात् |
सुरां वा पिबति स्वप्ने रुधिरं वा पिबेद्यदि || २३ ||

ब्राह्मणस्तु भवेद्विद्वान् क्षत्रियस्तु धनं लभेत् |
रुधिरनद्यां तु प्लवते रुधिरे प्लवते यदि || २४ ||

महदर्थमवाप्नोति राज्यं वा लभते नरः |
अमेध्यदर्शनं वापि भक्षणं लेपनं तु वा || २५ ||

दर्शने चाल्पमर्थं तु लेपने तु शतं लभेत् |
भक्षणैः सहस्रलभ्यं तु स्वप्नान्ते च प्रसिद्ध्यति || २६ ||

क्षीरपाने व्याधिहरं धृते मृत्युविनाशनम् |
दधिपाने राज्यमवाप्नोति तक्रपाने महद्भयम् || २७ ||

अस्थिवा निगलं वापि कार्पासर्पस्य तथापि वा |
यस्तु पश्यति स्वप्नान्ते महाव्याधिमवाप्नुयात् || २८ ||

रक्ताम्बरधरां नारीं रक्तगन्धानुलेपनाम् |
रक्तमाल्यधरा कृष्णा पाददेशे तु संस्थिता || २९ ||

स्वस्थिश्चेद्व्याधिमवाप्नोति व्याधितो मरणं लभेत् |
खरयुक्तरथारूढं दक्षिणस्यां दिशं नयेत् || ३० ||

मासान्मरणमवाप्नोति सत्यमेतत् षडानन |
रक्तवस्त्रधरो भूत्वा रक्तमाल्यानुलेपना || ३१ ||

  • * * * मा गच्छेत् कूपे निपति तोऽपि वा |

स्वस्थश्चेत् व्याधिमाप्नोति व्याधितो मरणं भवेत् || ३२ ||

वायसो लीयते सद्यः स्वप्ने शिरसि लीयते |
मासान्मरणमाप्नोति एवं सत्यं षडानन || ३३ ||

उलूकं मृगधूर्तं वा खरं वा श्येनमेव वा |
शिरसि वा स्वप्नभक्षं वा * * * * * * * * * * || ३४ ||

मासान्मरणमाप्नोति महाव्याधिहतेन व |
दन्ताश्च यस्य च्छिद्यन्ते करतले पतिता यदि || ३५ ||

पतन्ति पार्श्वदन्ताश्च भूतले यदि पश्यति |
मातरं पितरं वापि बन्धून् पुत्रान् सुहृतमान् || ३६ ||

मालिन्यं वस्त्रमाच्छाद्य रण्डा वा अपि शिष्यति |
महाव्याधिमवाप्नोति अर्थहानिमवाप्नुयात् || ३७ ||

शाक्त्यं क्षपणकं वापि सन्यासं व्रतधारिणम् |
यस्तु पश्यति स्वप्नान्ते तस्य मृत्युर्न संशयः || ३८ ||

ब्राह्मणं पुष्पहस्त वा शैवाचार्यमथापि वा |
सर्वाभरणसंयुक्तं रक्तवर्णां सुमङ्गलीम् || ३९ ||

(यस्तु पश्यति स्वप्नान्ते तस्य मृत्युर्न संशयः )
यस्तु पश्यति स्वप्नान्ते महाच्छ्रेयमवाप्नुयात् |
फलानि सर्वाणि शस्तानि तालफलं तु वर्जयेत् || ४० ||

रत्नपुष्पाणि शस्यन्ते सर्वं वै शुभमाप्नुयात् |
किंशु कस्य तु पुष्पाणि करवीरं तु वर्जयेत् || ४१ ||

श्वेतानि सर्वपुष्पाणि शस्यन्ते तु षडानन |
धुर्धूरं वर्जयेत्तत्र श्वेता च गिरिकर्णिका || ४२ ||

कृष्णं सर्वं विवर्ज्यं तु तिला नागाश्च पुष्टिदाः |
हरितं पीतमध्यफलं कृष्णं चाधममुच्यते || ४३ ||

नराणां ब्राह्मणः श्रेष्ठो नृपं मध्यममादिशेत् |
पक्षिणामपि सर्वेषां शुको हंसः प्रशस्यते || ४४ ||

मृगाणामपि सर्वेषां हरिणः सिंह उत्तमः |
पशूनामपि सर्वेषां धेनुर्वृषमजौ शुभाः || ४५ ||

सरीसृपाणां सर्वेषां श्वेतसर्पः प्रशस्यति |
गन्धं पुष्पं फलं गव्यं वस्त्रमाभरणं शुभम् || ४६ ||

यस्तु पश्यति स्वप्नान्ते तस्य वित्तं विनिर्दिशेत् |
कोद्रवमुद्गमरीचमप्रशस्तं च धातुभिः || ४७ ||

नालिकेरफलं स्वप्ने कदलीफलमेव च |
दाडिमं मातुलङ्गं वा पनसाम्रफलं तु वा || ४८ ||

यस्तु पश्यति स्वप्नान्ते धनं धान्यं समाप्नुयात् |
ब्रह्मविष्णुशिवान् वापि गुहं वै लोकपालकान् || ४९ ||

ऋषीन् अप्सरसो वापि देवानां पत्निकास्तु वा |
यस्तु पश्यति स्वप्नान्ते धनमायुर्यशो भवेत् || ५० ||

एतेषां स्वप्नकालेन देवानां पत्निभिस्तु वा |
यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धते || ५१ ||

व्याघ्रं वा महिषं वापि ऋषिं वा तस्करं तु वा |
यस्तु पश्यति स्वप्नान्ते राजपीडामवाप्नुयात् || ५२ ||

प्रहार मुष्टिभिर्वापि आयुधैर्हननं तु वा |
यस्तु पश्यति स्वप्नान्ते महाव्याधिमवाप्नुयात् || ५३ ||

स्वप्ने तु राजं पुरुषैः पश्यते पीडनादिकम् |
व्याधिं वा चार्थनाशं वा प्रवासं वा भविष्यति || ५४ ||

उपानत्पादुकौ वापि स्वप्नान्ते यस्य लभ्यते |
प्रवासं भवति तस्य दुःखं वापि भविष्यति || ५५ ||

वस्त्रं वा भरणं वापि आयुधं धनधान्यकम् |
फलपुष्पान्नपानाद्यैः गृहोपकरणानि च || ५६ ||

यस्तु पश्यति स्वप्नान्ते तस्य दुःखमवाप्नुयात् |
पाशेन निगलेनापि बध्यते राजशासनात् || ५७ ||

कारागृहमवाप्नोति कर्षणं केशबन्धनात् |
सद्योव्याधिमवाप्नोति कारागृहमवाप्नुयात् || ५८ ||

मांसं वापि च मत्स्यं वा लब्ध्वा स्वप्ने शुभं भवेत् |
भक्षणाद्दुःखमाप्नोति यवाग्रं (गूं) वापि पाययेत् || ५९ ||

तैलं स्वप्ने तु चाभ्यङ्गं गर्भै * * * * * * |
महाव्याधिमवाप्नोति समुद्रे वापि मज्जति || ६० ||

कलुषोदकं पिबेत्स्वप्ने सर्पालाप्लावमेव वा |
सद्यो व्याधिना मुच्यन्ते स्वस्थ एव नरो भवेत् || ६१ ||

कूपे वाप्यवटे वापि गह्वरे पर्वतेऽपि वा |
पुष्टे तु प्रहरेद्वामे हस्तेनैव विवर्जयेत् || ६२ ||

महाव्याधिमवाप्नोति कारागृहमथापि वा |
रुम्नादुन्नतमारुह्य श्वेतस्रग्दामभूषितम् || ६३ ||

कुटुम्बं तस्य वर्धन्ते नित्यं वै श्रियमाप्नुयात् |
प्राकारो पानकं वापि सभां वाटालयं तु वा || ६४ ||

श्रियमक्षयामाप्नोति शिरः पातेन वृष्टिकम् |
गजं तुरगयूथं वा नरयूथमथापि वा || ६५ ||

आयुधानां समूहं वा पश्यते वर्षमाप्नुयात् |
दुःस्वप्नं श्रावयेद्बाह्यस्सुस्वप्नं ग्राहयेन्नरः || ६६ ||

शुभं च प्रविशेद्दीक्षां अशुभं चेद्धोममाचरेत् |
कृष्णं च गोप्लवं पश्येत्कन्यकां स्वप्ने तु भक्षयेत् || ६७ ||

रण्डा स्त्री मण्डनं वापि नग्नस्त्रीं वापि पश्यति |
यस्तु पश्यति स्वप्नान्ते धनधान्यक्षयो भवेत् || ६८ ||

पुरु(री)षो विसर्जयेत्स्वप्ने मूत्रं वापि विसर्जयेत् |
पुरीषाद्धनक्षयं वत्स मूत्राद्धान्यक्षयं भवेत् || ६९ ||

शाल्यन्नं धृतयुक्तं तु सौवर्णे तु सुपात्रके |
हुंकृत्वा बुद्ध्यति स्वप्नान्ते आयुःश्रीकीर्तिवर्धनम् || ७० ||

देव ब्रह्मणो राजन * * * * * * * *
स्तुतं लाभस्तु शो * * * * *स्तु * * * *

  • * * * * * * * संयोगे मैथुनं शुभम् || ७१ ||

इति कालोत्तरे स्वप्नपटलः पञ्चदशः || १५ ||

Kapitel 16 – Die sechs Wege in der Einweihung

श्रीः
ईश्वरः उवाच-
दीक्षाविधिं प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः |
मुद्रामलकृतास्नातान् कृतशौच जितेन्दियान् || १ ||

दुकूल पट्टवस्त्रेण नेत्रं बध्वा प्रवेशयेत् |
अथवा कार्पासिकेनापि शितश्लक्ष्णेन वाससा || २ ||

जीर्णेन स्फटितेनैव दग्धेन मरणं भवेत् |
अदर्शं जनयेन्मरणं फलितेन व्याधिमाप्नुयात् |
तस्मात्सर्वप्रयत्नेन शुभवस्त्रेण बन्धयेत् || ३ ||

सुवर्णपुष्पसंयुक्तं पद्मपुष्पेण संयुतम् |
शतपर्णेन पुष्पं तु तदर्धेनापि कारयेत् || ४ ||

अथवा त्रिंशत्पर्णेन सुवर्णेन तु कारयेत् |
ईशानेनैव मन्त्रेण अञ्जलौ पुष्पमाक्षिपेत् || ५ ||

प्रदक्षिणत्रयं कृत्वा एकचित्तेन बुद्धिमान् |
ध्यात्वा तु देवदेवेशं क्षिपेत्पुष्पं समाहितः || ६ ||

यस्मिन्मन्त्रे पतेत्पुष्पं नामगोत्रं तदात्मकम् |
तन्मन्त्रं सिद्ध्यते तस्य कुरुते वाप्यनुग्रहम् || ७ ||

उदकेन तु संस्पृश्य अघोरास्त्रेण भस्मना |
शिष्यस्य शिरसि क्षिप्य गन्धादिभिरथार्चयेत् || ८ ||

ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् |
अघोरं हृदये न्यस्य गुह्यं वामं तु विन्यसेत् || ९ ||

सद्योजातं न्यसेत्पादे तत्तद्वर्णयुतं न्यसेत् |
हृदये हृदये न्यस्य त्रिके शिरश्शिरसि विन्यसेत् || १० ||

शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः |
अस्त्रं हस्तप्रदेशेषु नेत्रे नेत्रे तु विन्यसेत् || ११ ||

पलाशपत्रकूर्चं च आसनं तेषु विन्यसेत् |
देवस्य दक्षिणे पार्श्वे स्थाप विन्यसेत् || १२ ||

अथार्चनं न्यसेत्पश्चात् शिष्यदेहे षडानन |
मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनात्मकः || १३ ||

वर्णाध्वा च कलाध्वा च विंशत्येक शिवं पदम् |
मन्त्राध्वानं न्यसेन्मूर्ध्नि पदाध्वानं मुखे न्यसेत् || १४ ||

तत्त्वाध्वानं हृदि न्यस्य भुवनं नाभिदेशके |
वर्णाध्वानं मेढ्रमूले कलाध्वानं पदे न्यसेत् || १५ ||

पादयोस्तु कलाध्वानं तत्तन्मन्त्रेण देशिकः |
पूर्वदक्षिणतश्चैव पश्चिमोत्तर ऊर्ध्वतः || १६ ||

पञ्चकोटिस्तु मन्त्राणि पञ्चमन्त्रैस्तु संहरेत् |
पञ्चमन्त्रं न्यसेद्वत्स वाग्भवादि पञ्चभिः || १७ ||

पदाध्वानं न्यसेद्वक्त्रे चतुष्कोटि विदुर्बुधाः |
सद्यादिभिः पञ्चभिस्तु पदपञ्चसु योजयेत् || १८ ||

पदाध्वा तत्पुरुषे न्यस्य तत्तद्ब्रह्मेण संयुतम् |
प्रणवादि पदं मध्ये नमस्कारं नियोजयेत् || १९ ||

तत्त्वाध्वानं हृदि न्यस्य षट्त्रिंशत्तत्त्वमेव हि |
पृथिव्यापस्तथा तेजो वायुराकाशमेव च || २० ||

श्रोत्रं त्वक् चक्षुर्जिह्वा च घ्राणश्चैव तु पञ्च च |
वाक्पादपाणिपायूपस्थश्चैव तु पञ्च च || २१ ||

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः |
मनोऽहंकारो च महान् प्रकृतिः पुरुषस्तथा || २२ ||

रागो माया च विद्या च कालो नियति विग्रहः |
कालाश्च शुद्धविद्याश्च शुद्धः सदाशिवः परम् || २३ ||

षट्त्रिंशत्तत्त्वके वत्स क्रमेणैव तु विन्यसेत् |
अष्टाविंश तु भुवनाश्चतुष्षष्टिं च संहरेत् || २४ ||

मेढ्रादूर्ध्वं तु हृदयादधस्तात्परिकल्पयेत् |
कालाग्निश्चान्धकारादि नरकानेक विंशतिः || २५ ||

रौरवं कुम्भिपाकौ तु महारौरवमेव च |
क्षुराधारासितालं च ज * * पु शीतलेन च || २६ ||

उष्णं संतापनं चैव तप्तलोहस्तथैव च |
कूटशाल्मलीकूपं च तिलयन्त्रेक्षुयन्त्रकम् || २७ ||

धनुर्निर्योवज्रनिरयं स्थलं निरयमेव च |
पाषाणस्तस्तप्त पांसु वै तरणी च तथैव च || २८ ||

तलं च वितलं चैव नितलं च तलातलम् |
सुतलं महातलं चापि रसातलमथोपरि || २९ ||

भूलोकश्च भुवर्लोकः सुरलोकस्तथैव च |
महर्लोकं च विज्ञेयं जनलोकं तथैव च || ३० ||

तपलोकं सत्यलोकं गान्धर्वं यक्षलोककम् |
विद्याधराणां लोकं च सिद्धचारण लोककान् || ३१ ||

अप्सराणां लोकं चैव किन्नराणां च लोककान् |
इन्द्रलोकं चाग्निलोकं यमनिर्-ऋतिलोककम् || ३२ ||

वरुणलोकं वायुलोकं सोमलोकं तथैव च |
ईशानलोकं ब्रह्मलोकं विष्णुलोकमतः परम् || ३३ ||

अनन्तेशस्य लोकं च सूक्ष्मलोकमतः परम् |
शिवोत्तमस्य लोकं तु एकनेत्रस्य लोककम् || ३४ ||

एकरुद्रस्य लोकं त्रिमूर्तिलोकमतःपरम् |
श्रीकण्ठस्य तु लोकं तु शिखण्डिलोकमतः परम् || ३५ ||

वसुलोकं चन्द्रलोकं प्राधानिकमतः परम् |
गोलोकं योगिनां लोकं शुद्धलोकमतः परम् || ३६ ||

महेश्वरस्य लोकं तु सदाशिवस्य लोककम् |
लोकानां चैव सर्वेषां शिवलोकं परं विदुः || ३७ ||

शिवलोकोपरिष्टात्तु लोकमात्रं न विद्यते |
नाभिमूलात्समारभ्य यावद्धृदयदेशिकम् || ३८ ||

उपर्युपरि वै वत्स चतुष्षष्टि च विन्यसेत् |
वाग्भवं मध्यदेहं तु कर्णिकायां तु विन्यसेत् || ३९ ||

तस्योपरि न्यसेत्सान्तं शिवं परमकारणम् |
केसरेषु च सर्वेषु स्वरान् षोडश विन्यसेत् || ४० ||

अ आ विन्यस्य पूर्वे तु इ-ई वै अग्निकेसरे |
उ ऊ यमे तु विन्यस्य ऋ ॠ निरृतिकेसरे || ४१ ||

ऌ ॡ वारुणे न्यस्य ए ऐ वायुगोचरे |
ओ औ च सौम्यदेशे तु अं अः ईशानगोचरे || ४२ ||

कवर्गं पूर्वदले न्यस्य चवर्गं चाग्निपत्रके |
टवर्गं यमदले न्यस्य तवर्गं निर्-ऋतिगोचरे || ४३ ||

पवर्गं वारुणे न्यस्य यवर्गं वायुगोचरे |
पवर्गं वायुदले न्यस्य भवर्गं त्वीश गोशरे || ४४ ||

मृत्युञ्जयमिदं चक्रं दीक्षादन्यत्र चाभ्यसेत् |
नवत्रिंशत्कला वत्स मूर्धादिपादान्तरम् || ४५ ||

तारा सुतारा रमणी तारयन्ती सुतारणी |
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || ४६ ||

शान्त्यातीतं परं व्योमं नादं विन्यस्य तत्त्ववित् |
नमो होमाक्षया निद्रा मृत्युर्माया भयाजया || ४७ ||

रजा रक्षा रतिः पा मां तृष्णा मतिः क्रिया |
धृतिः कार्या च धात्री च ग्रामणी होमनी तथा || ४८ ||

सिद्धिः ऋद्धिः युतिर्लक्ष्मीर्मेधा कान्तिःस्वधा स्थितिः |
नवत्रिंशत्कला ह्येते देवदेवस्य धीमतः || ४९ ||

त्रयोदश कला वत्स मेढ्रादि परिकल्पयेत् |
वामदेवकलापूर्वं पश्चात्स्वस्थानके न्यसेत् || ५० ||

षडध्वानं न्यसेदेवं शिष्यस्यैव तु विग्रहे |

इति कालोत्तरे दीक्षाविधाने षडध्वः षोडशः || १६ ||

Kapitel 17 – Yoga-Einweihung

श्रीः
ईश्वर उवाच-
योगदीक्षां प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् |
पृथिव्यापस्तथा तेजो वायुराकाशमेव च || १ ||

एते पञ्च महातत्त्वा यैर्व्याप्तमखिलं जहेत् |
मन्त्रा वै मन्त्ररूपास्तु पदानि पदरूपकम् || २ ||

वर्णा तु वर्णरूपं तु कलाध्वा तु कलात्मकम् |
पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् || ३ ||

आजानौ पृथिवीं न्यस्य आनाभेः सलिलं न्यसेत् |
आगलात्तेजः संन्यस्य आमूर्ध्नो वायुं विन्यसेत् || ४ ||

मूर्धान्ते व्योमं विन्यस्य तत्तद्बीजेन विन्यसेत् |
प्रयोजकेन सूक्ष्मेण योगदृष्टेन मन्त्रवित् || ५ ||

दिव्येन योगमार्गेण प्रेर्यते सन्तु शक्तितः |
विषुवेन तु योगेन विन्यसेच्छाश्वते पदे || ६ ||

योगस्तु विषुवं प्राक्ष्यकोन मुच्येत बन्धनात् |
तं विदित्वा महासेनश्वपचानपि दीक्षयेत् || ७ ||

अविदित्वा त्विमं तत्त्वं यो दीक्षां कर्तुमुद्यतः |
वृथा परिश्रमं तस्य नैव तत्फलमाप्नुयात् || ८ ||

गन्धं पुष्पं च धूपं च दीपं चैवार्घ्यमेव च |
तत्त्वे तत्त्वेशमभ्यर्च्य षडध्वा तु पृथक् पृथक् || ९ ||

गर्भाधानादि कार्याथ चार्चयेत्तु पृथक् पृथक् |
हृदयेन गर्भाधानं पुंसवनं च होमयेत् || १० ||

मनोन्मनीं योनिमध्ये ऋतुमतीं सुलोचनाम् |
सम्यग्वै कल्पयित्वा तु पञ्चाशताहुतिं हुनेत् || ११ ||

गर्भाधानं भवेदेवं शिरसा पुंसवनं कुरु |
षष्टाहुतिं च हुत्वा तु अर्चयित्वा षडानन || १२ ||

भवेत्पुंसवनं ह्येतत् सीमन्तं शिखयां कुरु |
घृतेन सप्तम्या हुत्वा सीमन्तं च भवेद्गुह || १३ ||

कवचेन जातकर्मं तु अशीत्यां इति होमयेत् |
अस्त्रेण नामकर्मं तु उपनिष्क्रामणनेत्रतः || १४ ||

अन्नप्राशनं सद्येन चौलमीशेन कारयेत् |
उपनयनं पुरुषेणैव अघोरेण व्रतं कुरु || १५ ||

विवाहं वापि देवेन कारयेच्च षडानन |
अस्त्रेणैवेति होतव्यमुप निष्क्रामणे शतम् || १६ ||

द्विशतं जहुयाद्वत्स अन्नप्राशनकर्मणि |
चौले तु त्रिशतं जुहुयात् उपनयने चतुःशतम् || १७ ||

सप्तव्रतानामेकैकं शताहुतिं कारयेद्बुधः |
महानान्दि महाव्रत उपनिषद्गोदानमेव च || १८ ||

महेशव्रतं पञ्चमं षष्ठं चैव सदाशिवम् |
शिवव्रतं तु सप्तमं व्रतानां प्रवरोन्मतम् || १९ ||

दुर्धरणे तु होमं तु एकैकं तु शतं शतम् |
देहे वै शूद्रजातिस्तु अनलेन तु षण्मुख || २० ||

सच्छूद्रत्वं योजयित्वा क्रिया वै षोडशं कुरु |
साक्षाद्विप्रत्वमापन्ने पश्चाद्दीक्षां कुरुष्व हि || २१ ||

क्रिया चैव नमोन्तं तु कारयेद्विधिना पुनः |
अर्चनं ताडनं चैव आकर्षणं सन्निवेशनम् || २२ ||

प्रोक्षणं ताडनं चैव पाटनोद्घाटनं तथा |
वेदनं घटनं चैव पशुभ्रमणमेव च || २३ ||

पाशानां स्तोभनं चैव पुनः संस्थापनं तथा |
हृदयेन तु कर्तव्यं सर्वकर्म षडानन || २४ ||

वस्त्रं च उपवीतं च अजिनं दन्तकाष्ठकम् |
मेखलोष्णीषकं चैव कौपीनं भस्म एव च || २५ ||

वामदेवेन मन्त्रेण वस्त्रं च मेखलं ददेत् |
अघोरेण तु मन्त्रेण उपवीतं च दापयेत् || २६ ||

तत्पुरुषेण मन्त्रेण दन्तकाष्ठं च दापयेत् |
कौपीनं वामदेवेन भस्ममीशेन दापयेत् || २७ ||

तत्पुरुषेण मन्त्रेण रुद्राक्षं धारयेत् स्वयम् |
सुश्वेतं ब्राह्मणस्योक्तं क्षौभं वै क्षत्रियस्य तु || २८ ||

हरिद्रं वासो वैश्यस्य कार्पासं शूद्र उच्यते |
कार्पासं चोपवीतं तु विप्रस्य तु षडानन || २९ ||

शणसूत्रमयं राजा वैश्यस्य कटिसूत्रकम् |
कृष्णाजिनं ब्राह्मणस्य नृपस्य व्याघ्राजिनं भवेत् || ३० ||

भस्ताजिनं तु वैश्यस्य त्र्यङ्गुलं द्व्यङ्गुलैककम् |
नाभिं प्रदक्षिणं कृत्वा अजिनं चोपवीतकम् || ३१ ||

तीव्रतां ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा |
त्रितयं चाधिवा कुर्यात् द्वितीयं चोपवीतकम् || ३२ ||

पालाशं ब्राह्मणस्योक्तं खादिरं क्षत्रियस्य तु |
वैश्यस्य शिमापत्रं स्यात् दण्डान्वर्णक्रमाद्ददेत् || ३३ ||

ललाटोत्सेधं विप्रस्य नासामात्रं तु क्षत्रिये |
गलमात्रं वैश्यजातेः त्रयं चैतत्प्रकल्पयेत् || ३४ ||

द्विजातीनामयं धर्मः स्त्रीणामेव प्रकल्पयेत् |
स्त्रीणां चैव तु सर्वासां अनुग्रहार्थं शिवो भवेत् || ३५ ||

उमांशत्वात् स्त्रियः सर्वाः द्विजातित्वादयं विधिः |
उपनयनं तु दीक्षायां कारयेत्तु षडानन || ३६ ||

आराधनविधानेन शिखायज्ञोपवीतकम् |
द्विजातिस्त्रीणां सर्वासां शिखा चैवोपवीतकम् || ३७ ||

अधिकारं शिवेनोक्तं द्विजस्त्रीणां विशेषतः |
उपनयनं तु दीक्षायां तत्काले तु विवाहकम् || ३८ ||

चौलकादीनि कार्याणि पानीसयाजनादिकम् |
यागे चैवाग्निहोत्रे च मन्त्रब्रह्माभिधीयते || ३९ ||

तस्मात्सर्वप्रयत्नेन स्त्रीणां चैवोपवीतकम् |
अग्नीषोमादिभिर्यज्ञैः यजमानस्तु पत्निभिः || ४० ||

मन्त्रेण समिधाक्षेपं मन्त्रेण चरुभक्षणम् |

  • * व्रतं च मन्त्रेण सर्वयज्ञेषु चैव हि || ४१ ||

शिखायज्ञोपवीतं च सर्वमेव विधीयते |
एवं विधिं प्रकुर्यात्तु विना यज्ञक्रिया कृता || ४२ ||

मूलमन्त्रेणं वेदे वाधिकारं चोपवीतकम् |
उपवीतं विना सर्वं स्त्रीणां यागं तु निष्फलम् || ४३ ||

शिखायज्ञोपवीतं च सर्वमेव विधीयते |
एवं विधिं प्रकुर्याच्च पश्चाद्यज्ञं च कारयेत् || ४४ ||

हविर्यज्ञः पाकयज्ञः सोमयज्ञास्त्रिधा भवेत् |
अग्निष्टोमं प्रथमं अत्यग्निष्टोममेव च || ४५ ||

उक्थायज्ञस्तृतीयस्तु चतुर्थः षोडशी भवेत् |
पञ्चमं वाजयेयोऽथ अतिरात्रं षष्ठ उच्यते || ४६ ||

सप्तमो ह्यप्तोर्यामस्तु सोमः संस्थास्तु सप्तकः |
सद्यादि पञ्चमन्त्रैश्च व्योमव्यापि दशाक्षरम् || ४७ ||

पृथक् पृथक्ततः कुर्यात् अग्निष्टोमादि सप्तकान् |
अष्टका पर्वणिश्राद्धं श्रावणाग्रायणी तथा || ४८ ||

चैत्रिकाश्वयुगश्चैव पाकयज्ञं विदुर्बुधाः |
एकैकं षष्टिर्जुहुयात् बिन्दुमुख्यया || ४९ ||

ग्रहणे विषुवे चैव अयने दर्शपूर्णके |
हृदयेन तु मन्त्रेण एकैकं त्रिंशतिं हुनेत् || ५० ||

अभिजिद्विश्च जिच्चैव राजसूयस्तथैव च |
सौत्रामणी पौण्डरीका त्रित्राण्येनं तथैव च || ५१ ||

महाव्रतं कामुकं च बहुरूपेण होमयेत् |
एकैकं द्विशतं चैव घृतेन पयसा ततः || ५२ ||

अश्वमेधं महायज्ञं सर्वयज्ञोत्तमोत्तमम् |
प्रासादेन तु मन्त्रेण होमयेदयुतं गुह || ५३ ||

पश्चात्पूर्णाहुतिं दद्यात् प्रासादेन तु देशिकः |
षोडशगृहीतं गृहीत्वा होमयेज्जुहुयात्ततः || ५४ ||

ततः स्विष्टकृतं चैव अनुपातेन पञ्चभिः |
प्रायश्चित्तं ततो जुहुयात् ईशानेन ततो हुनेत् || ५५ ||

एवं समाप्यते दीक्षा जननादि विसर्जयेत् |
रसस्पृष्टं यथा ताम्रं न भूयस्ताम्रतां व्रजेत् || ५६ ||

शिवतत्त्वं वरं सूक्ष्मं अनौपौम्यमनामयम् |
अप्रतर्क्यं निरालम्बं निष्कलं शान्तमव्ययम् || ५७ ||

कल्पनारहितं नित्यं परं ब्रह्म सनातनम् |
वाच्यवाचकरहितं हेयोपादेयवर्जितम् || ५८ ||

शुद्धं सर्वगतं शून्यं स्वसंवेद्यं परापरम् |
शिष्यस्यैव तु वाग्घोरे भ्रूविक्षेपौ तु योजयेत् || ५९ ||

शिष्यस्यैव तु * * * * * मात्मनि योजयेत् |
मुच्यते नात्र संदेहो भ्रूणघ्नो हि षण्मुखं || ६० ||

अधिवास्य घटात्पञ्च भिन्नैकं तत्र कारयेत् |
ईशानेन तु मन्त्रेण प्रासादेन समन्वितम् || ६१ ||

आचार्यं पूजयेत्तत्र मकुटं कुण्डलादिभिः |
केयूरैः कर्णिकैश्चैव कटकैः कटिसूत्रकैः || ६२ ||

उदरबन्धोच्छन्नवीरैः स्वर्णयज्ञोपवीतकैः |
स्वर्णाङ्गुलीयकैश्चैव चित्रैश्चामरपिञ्छकैः || ६३ ||

दासी दासैरनेकैश्च शययावाहनकर्मणि |
अनुडुहैर्दोहमहिषैः क्षौमवस्त्रैरनेकशः || ६४ ||

गजैर्हंसैरथैरिष्टैरन्यग्रामैरलंकृतैः |
गृहोपस्करणैश्चान्य भुक्तभाण्डैः कटाहकैः || ६५ ||

निष्ठीवनादिमित्रैश्च स्यालीमुसललूखलैः |
हृदयेन तु मन्त्रेण पुरुषेण निवेदयेत् || ६६ ||

वेदाश्रं वेदहस्तं तु गोमयेन तु मण्डलम् |
शालिपिष्टैर्विचित्रैश्च मध्ये पद्मं समालिखेत् || ६७ ||

अष्टपत्रं लिखेत्तत्र कर्णिकादि समन्वितम् |
भद्रं सुविन्यसेत्तत्र गुरुस्तत्र निवेशयेत् || ६८ ||

गन्धैः पुष्पैस्तथा धूपैर्दीपैरर्घ्यैश्च पूजयेत् |
ईशानेन तु मन्त्रेण पूजयेद्देशिकोत्तमः || ६९ ||

वस्त्रैराभरणै रत्नैर्वामदेवेन पूजयेत् |
केयूरैः कर्णिकैः हारैरघोरेण तु पूजयेत् || ७० ||

मकुटैः कुण्डलैः पट्टैः ईशानेन तु पूजयेत् |
कटकैरङ्गुल्यैश्च नूपुरैश्च गजादिभिः || ७१ ||

सद्योजातेन दातव्यं भक्तियुक्तो दृढैर्व्रतः |
गृहोपस्करणैश्चान्यैः हृदयेन तु दापयेत् || ७२ ||

एवं पूज्य विधानेन प्रणिपत्य ततो भवेत् |
प्रणम्य दण्डवद्भूमावष्टाङ्गं त्रिभिराचरेत् || ७३ ||

हे गुरो त्वत्प्रसादेन लब्ध्वा दीक्षा सुदुर्लभा |
चतुर्वर्णशिवज्ञानं प्राप्तमन्यत्सुरेश्वरम् || ७४ ||

इत्युक्त्वा वचनं त्यक्त्वा देवदेवं गुरुः शिवम् |
देशिकस्तु ततो वत्स मले द्वे कर्णदक्षिणैः || ७५ ||

हे पुत्र मुञ्च मुञ्चेति ईशानेनाभि मन्त्रयेत् |
धर्मार्थ काममोक्षांश्च भुङ्क्ष्व राज्यं नराधिप || ७६ ||

एवं जप्ये तु मन्त्रज्ञः त्रिधा पायस्तु शिष्यकः |
आचार्यं भवने सर्वं स्वयं नीत्वा तु भक्तितः || ७७ ||

ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् |
वैश्यस्तु धनमाप्नोति शूद्रः पापात्प्रमुच्यते || ७८ ||

इहैव धनवान् श्रीमान् सोन्ते रुद्रत्वमाप्नुयात् |
चण्डयागं ततः कुर्यात् शास्त्रदृष्टेन कर्मणा || ७९ ||

इति कालोत्तरे योगदीक्षापटलस्सप्तदशः || १७ ||

Kapitel 18 – Das Opfer für Chandeshvara

|| श्रीः ||
ईश्वर उवाच-
चण्डेश्वरस्य यागं तु प्रवक्ष्याम्यनुपूर्वशः |
अष्टपत्रं लिखेत्पद्मं कर्णिकाकेसरान्वितम् || १ ||

सितेन रक्तवर्णेन कृष्णपीतेन वा लिखेत् |
हरितेन लिखेद्वत्स त्रिरत्नं मण्डलं शुभम् || २ ||

पूर्वं लेखयित्वा तु चण्डमावाहयेत्ततः |
वस्त्रयुग्मेन संपूज्य गन्धपुष्पादिनार्चयेत् || ३ ||

द्रोणेन तण्डुलेनैव सिद्धमन्नं निवेदयेत् |
मुद्गं माषं कुलुत्थं च शिम्बं निष्पावमेव च || ४ ||

शालिनीवारगोधूम यव वैणवतण्डुलैः |
रक्तशालिं महाशालिं गन्धशालिं तथैव च || ५ ||

कलमश्यामतण्डुलैः प्रियङ्गुश्यामतण्डुलैः |
कोद्रवं वर्जयित्वा तु तण्डुलैर्वापि वर्धयेत् || ६ ||

ग्राहयेत्सर्वतण्डुलान् सर्वगन्धसमन्वितम् |
शिंशुकन्दं बृहत्कन्दं सूरणस्य तु कन्दकम् || ७ ||

शम्बकन्दं वल्लकन्दं कदलीफलपञ्चकम् |
बृहतीद्वयफलं चैव कूश्माण्डं कर्करीद्वयम् || ८ ||

पनसफलं तद्बीजमात्रं बृन्दारमेव च |
पञ्चमं राजमाषस्य मेघनादं पुनर्भवम् || ९ ||

भक्षपात्री समायुक्तं विधूरीफलशतैर्युतम् |
मरीचं सिद्धार्थकं हिङ्गुं जीरकद्वयसंयुतम् || १० ||

हरिद्रं क्षीर संयुक्तं तिन्त्रिणीफलसंयुतम् |
द्वात्रिंशच्च गुणफलं मत्स्यमण्डी तदर्धकम् || ११ ||

द्वात्रिंशत्प्रस्थं क्षीरं तु द्विप्रस्थं घृतमेव च |
षोडशप्रस्थ मुद्गं तु सर्वमेकत्र वाचयेत् || १२ ||

निवेदयेच्चरुं धीमान् चण्डेशाय समन्त्रकः |
चण्डस्य मूलमन्त्रेण अष्टोत्तरशतं हुनेत् || १३ ||

शिवस्य द्विगुणं कृत्वा पञ्चाशत् चक्रवर्तिनम् |
अष्टमूर्तींश्च रुद्रांश्च वसुरुद्रादित्यकामपि || १४ ||

मातृकाण्डान् लोकपालान् सिद्धान् ऋषिमरुद्गणान् |
विद्याधरांश्चारणांश्च नागान् साप्सरपन्नगान् || १५ ||

शिवास्त्रं पाशुपत्तास्त्रं अघोरास्त्रं तथैव च |
लोकपालान् क्षेत्रपालान् द्वारपालांश्च सर्वतः || १६ ||

एकामेकामाहुतिं च सर्वमन्त्रेण मन्त्रवित् |
शक्ति चैव शिवाङ्गं च रुद्राणां पञ्चविंशकैः || १७ ||

होमयित्वा विधानेन बलिं सर्वत्र दापयेत् |
आचार्यं यजमानं च तद्बन्धून् सर्वमेव च || १८ ||

सखे पुरजनाथैव अक्षमात्रं तु दापयेत् |
तत्रैव भोजनं कुर्यादाचार्यः शिष्य संयुतः || १९ ||

तयोः पुत्रकलत्रैश्च भृत्यैश्च सहभोजयेत् |
भोजनान्ते चरुं वत्स सर्वव्याधिहरं परम् || २० ||

धनधान्यविवृद्धिं च पुत्रपौत्र विवर्धनम् |
सुभिक्षं गोबहुलमायुष्यं मङ्गलं महत् || २१ ||

चण्डेश्वरस्य यागेन निर्व्याधिर्निरुपद्रवः |
दीक्षान्ते यत्नतः कुर्यात् यागं चण्डेश्वर सा तु || २२ ||

इति कालोत्तरे द्वादशसहस्रसंहितायां चण्डेश्वरयागपटलोऽष्टादशः || १८ ||

Kapitel 19 – Königsweihe

श्रीः
ईश्वर उवाच-
महाभिषेकमार्गं तु प्रवक्ष्याम्यनुपूर्वशः |
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने || १ ||

हस्तेतिष्ये वारुणे च वायव्ये रोहिणीमके |
मृगाख्ये चोत्तरे चैव अभिषेकं तु कारयेत् || २ ||

कुम्भे वा मकरे वापि वृषमे कर्कटे तथा |
सिंहे वा मिथुने वापि अभिषेकं नृपस्य तु || ३ ||

द्वितीयां पञ्चमीं वापि नन्दायां वा जपेत् तु वा |
सोमशुक्रौ बुधे वापि जीववारस्तु शोभनाः || ४ ||

बृहस्पत्युदये श्रेष्ठं शुक्रोदयमथापि वा |
बुधोदये वा कर्तव्यमभिषेकं नृपस्थ तु || ५ ||

त्रिषष्ठेकादशे क्रूराः ग्रहा एकादश स्थिताः |
जीवो वा सप्तमस्थानेऽन्यत्र स्थानेऽथवा भवेत् || ६ ||

बन्धुस्थाने तु शुक्रः स्यात् सोमो वाप्यर्ध स्थानतः |
त्रिस्थान आयस्थाने वा चन्द्रः श्रेष्ठोऽभिषेचने || ७ ||

सप्तमे दिवसे पूर्वे अङ्कुरार्पणपूर्वकम् |
पालिकाष्टोत्तरशतं दशाष्टा च तथैव च || ८ ||

शरावं च तथा प्रोक्ता प्रत्येकं द्विशतं तु वा |
नीवारयवशाली च तिलं वैणवमेव च || ९ ||

मुद्गमाषकुलत्थं च शिम्बं निष्पावमेव च |
रक्तशाली महाशाली कलमाशालिरेव च || १० ||

गन्धशालिप्रियङ्गुश्च त्रिद्रोणं सर्वमेव च |
एकद्रोणेन वा मन्त्री प्रासे(सा)देन तु वापयेत् || ११ ||

देवालये सुसान्निध्ये पुण्यतीर्थे तु वा कुरु |
गोष्ठे वा नदीतीरे वा नदीसागरसङ्गमे || १२ ||

कूटं वा मण्टपं वापि षट्त्रिंशद्धस्तमात्रतः |
वृत्तं वा चतुरश्रं वा चतुरायतमेव वा || १३ ||

वृत्तायतं वा कर्तव्यं अन्तःस्तम्भ विवर्जितम् |
चतुस्तोरणसंयुक्तं चतुर्द्धा(द्वा)र समायुतम् || १४ ||

वितानोपरिसंछन्नं दर्भमालाविभूषितम् |
नवदिग्गज संयुक्तं मङ्गलाङ्कुरशोभितम् || १५ ||

फलं पल्लवमालाढ्य घण्टाचामरभूषितम् |
अष्टमङ्गलसंयुक्तं गन्धपुष्प समाकुलम् || १६ ||

धूपदीप सुसंकीर्णं द्वारे कलशभूषितम् |
अष्टोत्तरशतं वापि चतुष्षष्टिमथापि वा || १७ ||

द्वात्रिंशत् षोडशाष्टौ च अग्निकुण्डैरलङ्कृतम् |
पूर्वोक्तलक्षणैर्युक्तं कुण्डैः सर्वैः सुशोभनम् || १८ ||

विप्रैः वेदव्रतैः शुभ्रैः वेदयज्ञव्रतेस्थितैः |
सर्वलक्षण संपन्नैः नाभ्रहीनैः द्विजोत्तमैः || १९ ||

ऋग्यजुः सामसंपन्नैः तन्त्रमन्त्र विदैः शुभैः |
होमं कुर्याद्यथा नाथामाचार्यमथ संस्थितैः || २० ||

कलशैः सहस्रैः रन्ध्रैर्वा तदर्धैरष्टोत्तरे तु वा |
एकाशीतिं चतुःषष्टिर्द्वात्रिंशत्षोडशं तु वा || २१ ||

नवकुम्भैस्तु वा कुर्यात् हीनवित्तस्तु मानवः |
हैमराजतताम्रैर्वा पार्थिवैर्वा सुशोभनैः || २२ ||

अकालमूले कलशैः सर्वदोष विवर्जितैः |
आढकद्वयसंपूर्णैः द्वितीयैकमथापि वा || २३ ||

सवस्त्रैः सापिधानैश्च सकूर्चैः सूत्रवेष्टितैः |
सपल्लवयुतैः शुभ्रैः आम्रपिप्पलचन्दनैः || २४ ||

अर्चितैर्धूपितैः धौतैः श्वेततण्डुलचर्चितैः |
पञ्चविंशश्च कोष्ठानि कारयित्वा षडानन || २५ ||

सहस्रद्रोणशालीभिः स्थण्डिलं कारयेद्बुधः |
अथवार्धं तदर्धं वा शतद्रोणेन शालिना || २६ ||

पञ्चाशत्पञ्चविंशैर्वा दशद्रोणेन वा पुनः |
तदर्धं तण्डुलं गृह्य पद्ममष्टदलं लिखेत् || २७ ||

जलजं द्रव्यमन्त्रांश्च विन्यसेच्चानुपूर्वशः |
मध्यगे नवमे नैव कोणं तत्रैव विन्यसेत् || २८ ||

पद्मरागं मरतकं मौक्तिकं विद्रुमं तथा |
पुष्परागं शक्रनीलं सूर्यकान्तेन्दु कान्तकम् || २९ ||

ऐन्द्रादीशानपर्यन्तं अष्टौ विद्येश्वरान् न्यसेत् |
ऐन्द्रे तु नवके मध्ये स्वर्णं तत्रैव विन्यसेत् || ३० ||

तारताम्रायसं चारं नागसं विमलं तथा |
सकाशं विदुलं चैव इन्द्राद्यैशान मन्त्रतः || ३१ ||

आग्नेययां नवके मध्योदरविन्दं न्यसेद्बुधः |
तालं च गन्धकलशं सौराष्टं तैरिकं तथा || ३२ ||

माक्षकं विकरं चैव अञ्जनं चाष्टमङ्गलम् |
पूर्ववद्विन्यसेद्धीमान् इन्द्राद्यैशान्तमेव च || ३३ ||

याम्यायां नवके मध्ये चूतवृक्षत्वचं न्यसेत् |
वटोदुम्बरमश्वत्थं पलाशत्वचमेव च || ३४ ||

शमी बिल्वं च व्याघातं मधूकत्वचमेव च |
पूर्ववद्विन्यसेद्वत्स इन्द्रादीशान्तमेव च || ३५ ||

नैर्-ऋत्यां नवके मध्ये वेदिमृद्विन्यसेद्बुधः |
नदी नागविषाणोत्थं वराहकुशमूलतः || ३६ ||

क्षेत्रान् कोष्ठस्य वल्ली(ल्मी)काद्धता मृत्सां च विन्यसेत् |
पूर्ववद्विन्यसेद्वत्स स्वस्वमन्त्रेण मन्त्रवित् || ३७ ||

वारुणे नवके मध्ये पद्मपुष्पं विनिक्षिपेत् |
करवीरं तथा शोकं नन्द्यावर्तं च मल्लिका || ३८ ||

श्वेताब्जमुत्पलं बिम्बं पूर्ववद्विन्यसेद्बुधः |
वायव्यां नवके मध्ये कर्पूरं विन्यसेद्बुधः || ३९ ||

चन्दनं कुङ्कुमं लोहं जीतके कालवानरम् |
समालपत्रकटुकं वायव्यामष्टके न्यसेत् || ४० ||

सौम्यायां नवके मध्ये महालक्ष्मीं च विन्यसेत् |
विष्णुक्रान्तिः सहादेवि इन्द्रवल्ली तथैव च || ४१ ||

सूर्यावर्तं भृङ्गराजं शङ्खपुष्पं तथैव च |
बला चातिबला चैव पूर्ववद्विन्यसेद्बुधः || ४२ ||

क्षीरं दधि घृतं चैव मधु चेक्षुरसं तथा |
नालिकेरस्य सलिलं हरिद्राम्भः कुशाम्भसा || ४३ ||

पाद्यमाचमनं चार्घ्यं लाजाम्भः सक्तु वारि च |
सर्वगन्धोदकं चैव सर्वपुष्पोदकं तथा || ४४ ||

कुशाग्रं च तदद्भिश्च समुद्रसलिलेन च |
गङ्गायमुनामृदं च सरस्वती मृदमेव च || ४५ ||

तुषारसलिलं चैव लाङ्गलीफलवारिणा |
चूतपक्वफलाम्भश्च मातुलङ्गफलाम्भसा || ४६ ||

नारङ्गसलिलं चैव आम्रकं चोदकं तथा |
दाडिम्याश्च फलाम्भश्च तथ बिल्वफलोदकम् || ४७ ||

एवमष्टोत्तरं दिव्यं कुम्भे कुम्भे प्रकीर्तितम् |
सहस्रे प्रधानकुम्भे तु स्थापयेत्तु विचक्षणः || ४८ ||

नित्ये नैमित्तिके चैव स्नानकर्मणि योजयेत् |
गन्धं पुष्पं धूपदीपमन्नेन सह योजयेत् || ४९ ||

गन्धेन स्थापयित्वा तु मन्त्रवित्सर्वमाचरेत् |
शेषाच्छुद्धोदकैः पूर्य प्रासादेन पृथग्न्यसेत् || ५० ||

ईप्सितान् कलशान् न्यस्य स्वस्वमन्त्रेण मन्त्रवित् |
गन्धैः पुष्पैस्तथा धूपैर्दीपैरर्घ्यैश्च पूजयेत् || ५१ ||

प्रासादेन तु मन्त्रेण हृदयेन तु संयुतम् |
पृथक् पृथग्यजेद्वत्स सुगन्धिकुसुमैः शुभैः || ५२ ||

सुगन्धिगन्धैः सम्पूज्य शाक्राद्येन तु पूजयेत् |
वस्त्र युग्मेन संछाद्य पृथगेवाथ वा यजेत् || ५३ ||

महादिक्षु विदिक्ष्वत्र होमं कुर्याद्द्विजोत्तमैः |
पलाशखदिराश्वत्थ प्लक्षन्यग्रोधबिल्वकैः || ५४ ||

औदुम्बरं शमी चैव पूर्वादि परिकल्पयेत् |
समिधाज्य चरून् लाजान् तिलशालियवानपि || ५५ ||

प्रियङ्गुं सिद्धार्थकं चैव प्रत्येकं तु सहस्रकम् |
सहस्रे सहस्रं हुतेनार्धेन पञ्चशतं हुनेत् || ५६ ||

यावद्वै कुम्भसंख्या तु तावत्संख्या तु होमयेत् |
प्रत्येकमष्टोत्तरशतं स्थापयेत्कुम्भसंख्यया || ५७ ||

पुण्याहं वाचयेत्तत्र त्वष्टदिक्षु द्विजोत्तमैः |
अध्ययनं चाष्टदिक्षु ऋग्यजुः सामपाठकैः || ५८ ||

ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे |
सामे पश्चिमे वत्स उत्तरेऽथर्वपाठकैः || ५९ ||

वसोर्धारां मध्यमे कुर्यात् चतुर्वेदविदैः शुभैः |
देवमाराध्य विधिवत् गन्धपुष्पादिभिर्महत् || ६० ||

यागस्थानस्य पश्चिमे महादेवस्य पूर्वतः |
अभिषेकं कारयेत्तत्र येन केन तु मन्त्रवित् || ६१ ||

भद्रपीठे हेमजैश्च राजते ताम्रजेऽथवा |
अधिदारूज पीठे वा राजानं स्थाप्य मन्त्रवित् || ६२ ||

शङ्खभेरी निनादैश्च तालतूर्यरवैः शुभैः |
वेणुवीणामृदङ्गैश्च ब्रह्मघोषैश्च सर्वतः || ६३ ||

गोशृङ्गेणाभिषेकं तु उत्तमं फलमाप्नुयात् |
गोशृङ्गेण समं हैमं तत्पात्रे मध्यमं फलम् || ६४ ||

सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा |
पञ्चद्रोणसुसंपूर्णं महाभाण्डं सुशोभनम् || ६५ ||

शतधाराशीतिधारा पञ्चाशत्पञ्चकानि च |
विंशत् षोडशधारा वा नवधारा च पञ्च वा || ६६ ||

आचार्यैरष्टभिर्वाथ चतुर्भिर्वाभिषेचयेत् |
त्रिपाद्यां चैव भाण्डं च स्थापयित्वाभिषेचयेत् || ६७ ||

भाण्डे कलशौदकैर्द्वौ च द्वौ संस्पृश्य जपेदनुः |
अविच्छिन्नाभिषेकं तु श्रेष्ठमाहुर्मनीषिणः || ६८ ||

गोशृङ्गेणाभिषेकं तु उत्तमोत्तममेव च |
शङ्खे च हेमपात्रे च मध्यमं फलमादिशेत् || ६९ ||

पुरुषसूक्तैः रुद्रसूक्तैः विष्णुसूक्तैस्तथैव च |
अरुणं नारायणं च पवनं हि हिरण्यकम् || ७० ||

एकादशत्व रौद्रं शतरुद्रीयमेव च |
ब्रह्मसाम ज्येष्ठसाम ब्रहद्रथन्तरमेव च || ७१ ||

बहिष्पावनविकारं चाथर्वं ब्रह्मशिरस्तथा |
अमृतरुद्रं महारुद्रं पिप्पलादमहस्तथा || ७२ ||

ब्राह्मं वैष्णवमाहेशं बार्हंस्प?त्यं तथैव च |
कौमारं च तथा वत्स त्र्यम्बकं जातवेदसम् || ७३ ||

शौनवन्यं च न वर्गं ब्राह्मं घोषं तु कारयेत् |
शिष्यं वा कारयेदेवं दीक्षितं चापि षण्मुखा || ७४ ||

ऐश्वर्यं विपुलमाप्नोति आयुरारोग्यवर्धनम् |
धनधान्यसमृद्धिं च मृत्युनाशनमेव च || ७५ ||

नष्टराज्यस्तु नृपतिः चक्रवर्तित्वमाप्नुयात् |
प्रासादेन तु वै वत्स आद्यन्तं योजयेद्बुधः || ७६ ||

व्योमव्यापि समन्त्रेण बीजमुख्ययुते नं च |
पादे पादे तु मेधावी प्रासादेन विधिर्भवेत् || ७७ ||

अभिषेकमुत्तमं ह्येतत् चतुर्वेदाधिकं भवेत् ||
अथवा पञ्चब्रह्मेण प्रासादेन तु संपुटेत् || ७८ ||

अभिषेकं कारयेद्वत्स स बाह्यो भाग्यवान् भवेत् |
महामाया लक्ष्मीबीजेन प्रासादे संपुटीकृते || ७९ ||

अभिषेकमुत्तमं ह्येतज्जन्ममृत्युविनाशनम् |
प्राणान्तान्तेन मतिमान् मान्तान्तेन तथैव च || ८० ||

योतोन्तेन च वै वत्स चतुर्थेन तु चैव हि |
चतुर्थेन तु वै मन्त्री यश्चतुर्थेन चैव हि || ८१ ||

चतुर्थस्य चतुर्थं तु तृतीयस्य चतुर्थकम् |
द्वितीयस्य चतुर्थं तु मायानलसमन्वितम् || ८२ ||

बिन्दुनादसमायुक्तं मन्त्रराजं प्रकीर्तितम् |
एतैर्मन्त्रैस्तु मन्त्रज्ञो अभिषेकं कारयेन्नृपम् || ८३ ||

सर्वरोगहरं ह्येतत् मृत्युनाशनमेव हि |
ग्रहणे विषुवे चैव अयने वापि कारयेत् || ८४ ||

संवत्सरान्ते संक्रान्तौ जन्मनक्षत्र एवं वा |
रोहिण्यां श्रवणे वापि हस्ते पुष्ये मखोत्तरे || ८५ ||

पौषे च वारुणे चैव वायव्ये मृगशीर्षके |
अयुतायुर्मवेद्व त्स इति शास्त्रस्य निश्चयः || ८६ ||

शनिरोहिण्यां चाभिषेकात् पञ्चसहस्रं च जीवति |
सोमवारे च सौम्ये चाभिषेकं सम्यगाचरेत् || ८७ ||

विपुलां श्रियमाप्नोति षट्सहस्रं स जीवति |
भृगुपौष्णे चाभिषेकं सद्योमृत्युविनाशनम् || ८८ ||

भौमाश्विन्योरभिषेके सद्योराज्यमवाप्नुयात् |
वृषभे मिथुने चैव सिंहे च मकरेपि च || ८९ ||

कुम्भे पापे च कर्तव्यं अभिषेकं नृपस्य तु |
मीनवृश्चिक तुले मेषं चैव तु वर्जयेत् || ९० ||

कन्याकर्कटकं चैव मध्यमं फलमादिशेत् |
महाभिषेकवेलायां ब्राह्मणानां च भोजनम् || ९१ ||

पुण्यां वाचनं चैव वसोर्धारा इति स्थिता |
भोजनं ब्राह्मणानां च घृतस्नानं शिवस्य तु || ९२ ||

गोदानं तिलदानं च हिरण्यं दानमेव च |
वस्त्रदानं भूमिदानं कारयेत् तु विधानतः || ९३ ||

महाभिषेक काले तु एकां द्वादश कारयेत् |
विधिना चैव कर्तव्यं चक्रवर्तित्वमाप्नुयात् || ९४ ||

अपमृत्युविनाशं च एकोत्तरशतस्य तु |
मृत्योस्तु पञ्चकं वर्ज्यं पुत्रपौत्रविवर्धनम् || ९५ ||

अभिषेकं कारयेद् वत्स वेदवेदाङ्गपारगैः |
मन्त्रं महाभिषेकं तु सर्वशास्त्रविशारदः || ९६ ||

दशाष्टादश तन्त्रज्ञः पञ्चरात्रविशारदः |
चतुर्दश विद्यातन्त्रपारगो देशिकोत्तमः || ९७ ||

तेनाभिषेकं कुर्वीत ब्रूणहा मिश्र एव च |
अभिषेके कृते पश्चात् राज्यं चाप्यं व कुण्ठयेत् || ९८ ||

क्षौमवस्त्रेण संछाद्य अञ्जनेन तु मार्जयेत् |
खजचन्दनकुङ्कुमैः कस्तूरीकपिलत्रयैः || ९९ ||

आलेप्य धूपशीताद्यैरष्टमङ्गलदर्शनैः |
सुमुहूर्ते दिने चैव सुतिथौ च सुधान्तिके || १०० ||

बृहस्पत्युदये चैव बुधशुक्रोदयेपि वा |
बृहस्पत्युदये आदौ न्यसेद्वा सर्वकामदम् || १०१ ||

चक्रवर्तित्वमाप्नोति परमायुरवाप्नुयात् |
शुक्रोदये तु मकुटं विन्यसेन्मूलमन्त्रतः || १०२ ||

चक्रवर्तित्वमाप्नोति गजाश्वरथमाप्नुयात् |
बुधोदये मकुटं न्यस्य ज्ञानयोगमवाप्नुयात् || १०३ ||

जैवेः निरीक्षणे कुर्यात् मण्डलादिपतिर्भवेत् |
सर्वरत्नमयं मकुटं शातकुम्भेन कारयेत् || १०४ ||

वज्रमरकतमाणिक्य मुक्ता विद्रुमसंयुतम् |
पञ्चरत्नमयं मकुटं त्रिसहस्रेणोत्तमं भवेत् || १०५ ||

द्विसहस्रेण कनकं मध्यमो मकुटो भवेत् |
सहस्रेण कन्यसं विद्यात् मकुटस्य प्रमाणकम् || १०६ ||

वितस्तिमात्रमुत्सेधं पादानाहत्रितालिकम् |
अर्धाधिकं त्रितालं वा त्रिप्रदेशमयापि वा || १०७ ||

मकुटस्य ततो मूर्ध्नि पञ्चरागं च विन्यसेत् |
वज्रं मरतकं मुक्ता सर्वत्रैव विभूषयेत् || १०८ ||

अतिवृद्धं वेदविदुषं विप्रे मुकुटं विन्यसेत् |
यद्यद्वयसा विप्रेण तत्तदायुर्नृपस्य तु || १०९ ||

परमेशमनुस्मृत्य प्रासादेन तु विन्यसेत् |
षडक्षरं सदा जप्त्वा अर्पितं मण्डलं स्मरेत् || ११० ||

एवं मकुटं विन्यस्य अभिषेकं तु देशिकः |
कर्णिकारुचकं चैव केयूरमकुटं तथा || १११ ||

स्वर्णयज्ञोपवीतं च कटिसूत्रोदरबन्धनैः |
प्रासादेन तु मन्त्रेण पूजयेद्देशिकोत्तमः || ११२ ||

क्षौमवस्त्रेण संछाद्य तस्मिन्नहनि कारयेत् |
यथोपयोगद्रव्याणि गोभूमिकाञ्चनादिकम् || ११३ ||

आचार्याय प्रदातव्यं भक्तिपूर्वं नृपेण तु |

इति कालोत्तरे राजाभिषेकपटलः एकोनविंशतिः पटलः || १९ ||

Kapitel 20 – Das Nadi-Chakra

|| श्रीः ||
ईश्वर उवाच-
नाभिचक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः |
नाभेरधस्तात्कन्दं तु अङ्कुरास्तत्र निर्गताः || १ ||

द्विसप्तति सहस्राणि नाभिमध्येऽप्यव स्थिताः |
तिर्यगूर्ध्वमधैश्चैव व्यापितं तैस्तु सर्वतः || २ ||

चक्रवत् संस्थिता ह्येताः प्रधाना त्रात्रिंशनाड्यधः |
इडा च पिङ्गला चैव सुषुम्ना च तथैव च || ३ ||

गान्धारि हस्तिजिह्वा च पूषा चैव यशस्विनी |
अलम्बुषा कुहूश्चैव शङ्खिनी पालिनी तथा || ४ ||

ह्रादिनी मोहिनी चैव कम्पिनी पुनिनी शुभा |
विकृतिर्विषमा मान्या हंसिनी विश्वमालिनी || ५ ||

अङ्गिनी घोषिणी चैव तेजिनी रसवाहिनी |
वाहिनी धरणी चैव रसभैमी रसक्रिया || ६ ||

शीतवीर्याश्चौष्ण वीर्या * * * * * * * * |
स्पर्शनावशिका चैव प्रोक्ता द्वात्रिंशनाडिका || ७ ||

प्राणोपानः समानश्च उदानो व्यान एव च |
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः || ८ ||

दश प्राणवहा नाड्यो द्वात्रिंशत्तु षडानन |
अष्टाविंशतिकोट्यस्तु नाड्यस्तु वहते सदा || ९ ||

सर्वेषामपि वायूनां प्रधानैर्दशवायुभिः |
प्राणापानमयो प्राणा विस * * * * पूरणं प्रति || १० ||

नित्यमापूरयत्येषः प्राणिनामुरसि स्थितम् |
निश्वासोच्छ्वास काशैश्च प्राणो जीवं समाश्रितः || ११ ||

प्रयाणं कुरुते यस्मात् तस्मात्प्राणः प्रकीर्तितः |
वायुस्तेजस्तथाकाशं तृतीयं जीव संस्थितम् || १२ ||

पुर्यष्टकसमायुक्तं पुरुषो हृदि संस्थितः |
पुरुषो जीवः प्राणं च त्रिविधा देहपारगाः || १३ ||

जीवतत्त्वसमायुक्तं धर्मज्ञानं प्रवर्तते |
रजसा सहसंयुक्तं भुञ्जते विषयान् प्रति || १४ ||

तमसा सह संयुक्तं ततः पापं प्रवर्तते |
जपध्यानं समाधिश्च ज्ञानदेवार्चनं तथा || १५ ||

इष्टां पूर्तां च विविधां दानानि विविधानि च |
वेदसिद्धान्ताध्ययनं योगशास्त्राणि चैव हि || १६ ||

यमनियमादि शौचं च देवालयसहादि च |
तटाक मुदकप्रयागोभिर्वस्त्रादि दानकम् || १७ ||

भूमिरत्नं गजाश्वौ च तिलकन्यादिदानकम् |
पुरुषः सत्त्वस्संयुक्तो धर्मज्ञानं प्रवर्तते || १८ ||

गीतं नृत्तं च वाद्यं च हिरण्यगोभूमिसंग्रहम् |
दासीदासमनह्वाहमजं महिषमेव च || १९ ||

शब्दादिविषयान् भोगान् स्त्रीसंग्रहणमेव च |
वज्रं मरतकं पद्मरागं मौक्तिकविद्रुमौ || २० ||

गन्धपुष्पादिधूपं च वस्त्रशययादिरेव च |
गृहोपस्करणान्यानि कटाहोलूखलादिभिः || २१ ||

रजोगुणसमायुक्तः पुरुषः सर्वसंग्रहः |
रजतो? गुणमेवं तु समासात्कथितं तव || २२ ||

आलस्य काममिश्रा च अतिनिद्रा च मैथुनम् |
चौर्यं पिशुनता चैव तस्करोपाधमेव च || २३ ||

अज्ञानमतिधूर्तं च परस्वहरणं तथा |
सदा चानृतवादित्वं गोधान्यं भूमिचोरता || २४ ||

सदा हिंसा परक्षुद्रं वार्धरुष्यं मृगघातकम् |
निष्ठुरः सर्वभूतानां देवब्राह्मणदूष?णम् || २५ ||

तामसैश्च गुणैर्युक्तं पुरुषः कुरुते सदा |
ब्रह्मविष्णु महेशाश्च शक्रायाः सर्वदेवताः || २६ ||

आदित्त्या वसवो रुद्राः सत्त्वेनैवाव संस्थितः |
गन्धर्वाश्चारणा यक्षा सिद्धविद्याधरादयः || २७ ||

नागाश्च गरुडाश्चैव किन्नराश्च महर्षिका |
पिशाचभूतवेताला शबराश्च पुलिन्दकाः || २८ ||

तमोगुणेन संयुक्ताः पुरुषाः पूर्वतोमुखाः |
सगोत्रसिद्धा मुनयः सिद्धा वै संशितव्रताः || २९ ||

पुरुषायत्तजीवं तु इन्द्रनीलमणिप्रभम् |
अङ्गुष्ठमात्रं पुरुषं मण्डलत्रयमध्यगम् || ३० ||

अङ्गुष्ठार्धार्धजीवं तु अधस्तात्पुरुषस्य तु |
तदर्धं तु प्रमाणं तु तस्यार्धं प्रमाणसंस्थितम् || ३१ ||

जीवमध्ये प्रमाणं तु राजावर्तमणिप्रभम् |
तस्य मध्ये ह्यपानस्तु इन्द्रकोपक संनिभः || ३२ ||

व्यानस्तस्य च मध्ये तु गोक्षीरसदृशप्रभः |
उदानस्तस्य मध्ये तु तुषाररजतप्रभः || ३३ ||

समानस्तस्य मध्ये तु शरदिन्दुसमप्रभः |
नागस्तस्य च मध्ये तु मार्ताण्डोदयसप्रभः || ३४ ||

कूर्मस्तस्य च मध्ये तु अतसीकुसुमप्रभः |
कृकरस्तस्य मध्ये तु किञ्जल्कसदृशप्रभः || ३५ ||

तस्य मध्ये देवदत्तो जपाकुसुमसन्निभः |
धनञ्जयस्तस्य मध्ये गोक्षीरसदृशप्रभः || ३६ ||

प्राणो हृन्नाभिनासाग्रं पादाङ्गुष्ठान्तमाश्रितः |
अपानो मेढ्रगुदयोः मुण्डल्यादौ च संस्थिताः || ३७ ||

व्यानस्तु सर्वसिद्धौ तु जान्वो गुल्फैश्च बाहुषु |
कृकरस्तु ललाटे तु गलकूर्परपाणिषु || ३८ ||

उदानः पार्श्वयोश्चैव कटीवक्षसिसन्धिषु |
वृषणौ ऊरुजानू च जङ्घे पृष्ठे च बाहुषु || ३९ ||

समानः सर्वमङ्गेषु श्रोत्रनासौ तु चक्षुषी |
जिह्वायां तालुरन्ध्रे च जठरे नाभिपादयोः || ४० ||

हस्तयोरुभयोश्चैव अङ्गुलीषु च सर्वशः |
समानः सर्वमङ्गेषु व्याप्यते च * * * * || ४१ ||

  • * * न्यत्य पानस्तु आहारमनुजाघमः |

वैश्वानरसुपाकं तु अन्नपानाद्यभक्षकैः || ४२ ||

विष्ठा शुक्लं च मूत्रं च वायुक्षोभं च सर्वशः |
अधोनयति सर्वं तु अपानस्तेन कीर्तितः || ४३ ||

व्यानो व्यानोशयं इ* * ने व्याधिप्रकोपकः |
वातं पित्तं च श्लेष्माणं त्रिकोपसान्निपातकम् || ४४ ||

प्रमेहकुष्ठगुल्मैश्च ज्वरशोष भगन्धरान् |
आरोपां बाह्ययागं च महोदरं पाण्डुरोगकम् || ४५ ||

सर्वव्याधिप्ररोहं च यतस्तस्माद्विनार्थितम् |
स्वनयत्यधरं वज्रं (क्रं) गोत्रतेत्र प्रकोपनम् || ४६ ||

श्रोत्रा घ्राणं च रसनं त्वचं पादौ च पाणी च |
पादको पायूपस्थत्वापूरकं रेचकं तथा || ४७ ||

उद्वेदयति मर्माणि उदानो नाम मारुतः |
प्रीतिर्विनाशकथनं जार्धक्यं च जराश्च हि || ४८ ||

पीतं भक्षितमाघ्रातं रक्तपित्तकफानि च |
समस्तगतिगात्राणि ज्वरकुष्ठप्रमेहकान् || ४९ ||

क्षयगुल्मोदराणी च सर्वव्याधिजरानपि |
अधिकं न कुरुते वायुः सर्वभूत हितेषु च || ५० ||

समं नयति गात्राणि समानो नाम मारुतः |
उद्गारो नाग इत्युक्तः कूर्म उन्मीलने स्थितः || ५१ ||

कृकरस्तु क्षुते चैव देवदत्तो विजृम्भते |
धनञ्जयस्थितो वाक्षो मृतस्यापि न मुञ्चति || ५२ ||

दश प्राणवहा नाड्यो द्वात्रिंशत्परिकीर्तिताः |
जीवः प्राणः सुषुम्नायां चलतो सर्वकालिके || ५३ ||

इडायां पिङ्गले वत्स समानोदानचारकौ |
अल्पवृक्षे या कुम्बां चापान एव तु सञ्चरेत् || ५४ ||

व्यानो वै चक्षुषोः कण्ठे नासास्ये चापि सञ्चरेत् |
मुखे नासे च नेत्रे च नागः कूर्मस्तु सञ्चरेत् || ५५ ||

कूर्मः कृकरो देवदत्तो श्रोत्रयोः सञ्चरेत्सदा |
देवदत्तो धनञ्जय पादमेढ्रे च सञ्चरेत् || ५६ ||

शेषेषु सर्वनाडीषु दश प्राणे वहेत्सदा |
चक्रवत्संस्थिता नाड्यः तेषु मध्येषु चानिलः || ५७ ||

दशारं चक्रमेतत्तु अष्टदिग्द्वारकारका |
ऊर्ध्वाधश्च द्वयोद्वारं नाडीचक्रं प्रकीर्तितम् || ५८ ||

सौर्यः कलाः षोडशैताः तथा चन्द्रकला भवेत् |
द्वे द्वे कटी भवेद्वत्स इडा पिङ्गलकावपि || ५९ ||

द्वेचार्धक घटिका वत्स वामदक्षिणतश्चरेत् |
दक्षिणे पञ्चघटिका वामके पञ्च चैव च || ६० ||

चक्रे तु पटले वत्स * * * * प्रवक्ष्यते |
(ग्रन्थपातः)
इदानीमुद्देशमात्रं तु कथितं हि षडानन |
दशारपङ्कजे नित्यं पुरुषा घटिकाद्वयम् || ६१ ||

वामे पञ्चदले वह्निः दक्षिणे पञ्च वै पुनः |
उत्तरं दक्षिणे चैव वामदक्षिणसंस्थितम् || ६२ ||

मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःसृतम् |
संक्रान्तिर्विषुवं चैव अहोरात्राध(य)नानि च || ६३ ||

अधिमासमृणं चैव औमत्रात्रं धनं तया |

  • * * त्रं भवेद्धिक्का अधिमासो विजृम्भिका || ६४ ||

ऋणं च जायते कासं निश्वासो धनमुच्यते |
संक्रान्तिः पुनरध्यैव संस्थानात् स्थानमेव तु || ६५ ||

इडा चैव सुषुम्ना च अमा चैव समन्विता |
सुषुम्नामध्येष्वेषङ्गे एषा संक्रान्तिरुच्यते || ६६ ||

कटीमूलाद्विनिष्क्रान्ते इडा वै पिङ्गला उभे |
नाभिग्रन्थिं समाश्रित्य वा दक्षिणसंस्थितौ || ६७ ||

पुनर्भूग्रन्थिमाश्रित्य गलगन्धौ तु संगतौ |
मूर्ध्निग्रन्थिं समाश्रित्य नासापुटविनिःसृतौ || ६८ ||

द्वादशाङ्गुलं संविश्य नासाग्रात्कौतुकं पिबेत् |
परवेदिकदेहे तु परमात्मनि संविशेत् || ६९ ||

कालाग्निरुद्रं निष्ठान्ते सुषुम्ना षोडशान्तका |
मध्यमे उभयोश्चैव ब्रह्मरन्ध्रे तु विश्रिता || ७० ||

गान्धारी हस्तिनी चैव मूला चैव समारभेत् |
समाहृतौ नाभिग्रन्थौ तु पुनर्भूग्रन्थिसंगतौ || ७१ ||

गलग्रन्थिं पुनर्गत्वा कं पीत्वा द्वादशाङ्गुलात् |
दर्शनं सर्ववस्तूनां पुनर्वै मध्यसंविशेत् || ७२ ||

पूषा यशस्विनी चैव शूल * * * * * * |
विनिर्ग * * स * * पुनर्भूग्रन्थिसंगतौ || ७३ ||

गलग्रन्थिं समाश्रित्य मूर्ध्नि ग्रन्थौ तु संगतौ |
पुनःश्रोत्रद्वये चैव गत्वा चैव तु संविशेत् || ७४ ||

खं पीत्वा द्वादशान्ते तु तन्मार्गे पुनराविशेत् |
मध्ये देहं तु संविश्य सर्वशब्दं शृणोति तम् | ७५ ||
अलंपुरुषा कुहूश्चैव मेढ्रपायुविनिर्गता |
शङ्खिनी द्वौ मालिनी तु कन्दमूलौ समाश्रितौ || ७६ ||

अधस्ताद्गतौ तु तौ वत्सालम्बुषा च कुहूस्तथा |
शङ्खिन्मूर्ध्वमधश्चैव ऊर्ध्वं नाभेर्विनिर्गता || ७७ ||

अधस्ताद्वायुमेढ्रा तु शङ्खिनी तु विनिर्गता |
ह्लादिनी मोहिनी चैव कम्पिनी मेघनी शुभा || ७८ ||

नाभिमूलाद्विनिष्क्रान्तात् दक्षिणं पादमागता |
कटिग्रन्थिं समावेश्य जानुग्रन्थिं तु संगतौ || ७९ ||

गुल्फग्रन्थिं तु संगत्य पञ्चाङ्गुलिषु निर्गता |
विकृतिर्विषमामात्या हंसिनी विश्वमालिनी || ८० ||

वामपादे विनिष्क्रान्तात् कन्दमूलात्समागता |
कटिग्रन्थौ तु वाश्लिष्य जानुग्रन्थिं समाश्रिता || ८१ ||

गुल्फग्रन्थिं तु संगत्य पञ्चाङ्गुलिषु निर्गता |
गगिनी घोषणी चैव तेजिनी रसवाहिनी || ८२ ||

धरणी चेति पञ्चैते कन्दाच्चैव तु निर्गता |
नाभिग्रन्थौ तु संगत्य हृदयग्रन्थिसंगता || ८३ ||

गलग्रन्थिं समाश्रित्य कक्षग्रन्थिं समाश्रिता |
दक्षिणे तु करे सन्धिकूर्परग्रन्थिसंगताः || ८४ ||

मणिग्रन्थिं पुनर्श्लिष्य पञ्चाङ्गुलिषु निर्गताः |
धरणी रसभोजी च संक्रियाशीतवीर्यका || ८५ ||

उष्णवीर्या तु पञ्चैते कन्दाच्चैव विनिर्गताः |
नाभिग्रन्थिं समाश्रित्य हृदयग्रन्थिमाश्रिता || ८६ ||

गलग्रन्थिं समाश्रित्य वामबाहुर्विनिर्गता |
बाहुकूर्परग्रन्थिं तु मणिग्रन्थिं समाश्रिता || ८७ ||

पञ्चाङ्गुलीषु वै वत्स निर्गताः पञ्चनाडिकाः |
स्पर्शावकाशिका चैव वामदक्षिण पार्श्वगाः || ८८ ||

द्वात्रिंशन्नाडिका वत्स प्राणाद्या वायुवारकाः |
महानाडी महाबद्धा द्वात्रिंशन्नाडिकाः पराः || ८९ ||

द्विसप्तति सहस्राणां मध्यमानाडिका शुभाः |
अष्टाविंशतिकोटिस्तु प्रधानास्ते प्रकीर्तिताः || ९० ||

जीर्णे पिप्पलपत्रे वा तिर्यगूर्ध्वमधः स्थिताः |
रोमकूपेषु सर्वेषु नाड्यस्तेषु प्रकीर्तिताः || ९१ ||

सर्वं सञ्चरते जीवः प्राणैस्तु सहिताश्च तु |
क्षेत्रज्ञः पुरुषः स्वस्थः अज्ञो भोगसमन्वितः || ९२ ||

सुखप्रियो दुःखद्वेषी हृत्सरोरुहकोटरे |
क्षेत्रज्ञो जीवप्राणैश्च सर्वप्राणिषु सर्वदा || ९३ ||

ब्रह्मादिस्तम्भपर्यन्तं क्रीडते भगवान् शिवः |
शुष्क पत्रमिवाकाशे नीयते वायुना यथा || ९४ ||

तथा भ्राम्यति जीवोऽसौ प्राणाद्यु(द्धृ)त्पङ्कजे शिवगुह |
पतन्त्युत्पतते शान्तो विग्रहे च पुनः पुनः || ९५ ||

साक्षाद्वै मध्यदेहस्तु सर्वकार्यविवर्जितः |
शाश्वतः पुरुषः सूक्ष्मो निरालम्बः परः शिवः || ९६ ||

हृत्पङ्कजे स्थितपुरुषो जीवप्राणः सुसङ्गतः |

  • * * * चन्द्रदले आग्नेये तु तथैव च || ९७ ||

चतुष्करो याम्यदले नैर्-ऋते तु तथैव च |
वरुणे दिग्दले चैव वायव्ये तु तथैव च || ९८ ||

सौम्ये चतुर्घटिका ऐशान्ये तु तथैव च |
एवं द्वात्रिंशद्घटिका संचरेत्पुरुषो महान् || ९९ ||

करणत्रयेण वै वत्स नवद्वारेषु संचरेत् |
अष्टभागैकभागं तु द्वात्रिंशच्चरतोः सदा || १०० ||

शतभागैकभागं तु द्विसप्तति सहस्रकाः |
परते तव महासेन सेन्द्राश्चैव? पलभ्यते || १०१ ||

अष्टाविंशतिकोटिस्तु नाभिषु संचरेद्गुह |
नवनाड्यः सहस्रांशं चरते तेषु नाडिषु || १०२ ||

मध्यदेहे स्थितो देवो निर्विकारो निरञ्जनः |
सर्वज्ञः सर्वगः शान्तः सर्वदा सर्वतोमुखः || १०३ ||

परं ब्रह्म स विज्ञेयो व्योमव्यापी सदाशिवः |
परमात्मा महाहेतु क्षेत्रज्ञो हृदि संस्थितः || १०४ ||

अन्तरात्मा द्वादशान्तः सर्वभूते व्यवस्थितः |
मरणकाले तु वै वत्स नाडीमध्ये तु संस्थितः || १०५ ||

पुनर्हृदयमात्मेषु संविदा सर्वमेव हि |
इत्येतद्वायवं बृन्दं हितचक्रे प्रतिष्ठितम् || १०६ ||

निश्वासोश्वासकाशैश्च * * * * * * सनमुरमथः कम्पते वायुतश्च |
नित्यानित्यानि जन्म व्यसनयति तरमथोवने बाल्याभावादा * * * न्तेव * * * *
जननमरणजैः* * * * * क्रीडते सर्वतत्त्वैः || १०७ ||

नीडीचक्रं यथावस्थं कथयामि तवाखिलम् |
ऊर्ध्वः प्राणोऽप्यधः प्रोक्त अपानो रात्रिरेव च || १०८ ||

ऐन्द्राद्वारुणसंगे तु दक्षिणायनमुच्यते |
दक्षिणे चाश्वयुग्मेषु उत्तरे चैत्रके विषु || १०९ ||

त्रिंशद्दिवसं महासेन सूर्यश्चान्ये तु मासके |
सम्यक्संक्रमते देव संक्रान्तिस्तेन मु(उ)च्यते || ११० ||

चन्द्रक्षयममावास्थां वृद्धिस्तु पूर्णमासिकः |
अमावास्यादितो दोमावासी तेन उच्यते || १११ ||

चन्द्रस्य षोडशकलो देवैरापीयते गुह |
पञ्चदश * सौ नित्यं कलापूर्णस्तु चन्द्रमाः || ११२ ||

पञ्चदशपूर्वपक्षैककला एकैका वर्धते |
कलापूर्णे पौर्णमासी तन्त्र विद्भिरुदाहृता || ११३ ||

अमावास्यासिनी वाली ऊर्ध्वे वै पौर्णमासिके |
चन्द्रादित्यौ पौर्णसेवी व * * * * * स्यं तु || ११४ ||

चन्द्रादित्य समायोगममावास्यां विदुर्बुधाः |
सर्वं संहृत्य मतिमान् प्राणानां हृदये गुह || ११५ ||

प्रासादे नैव बीजेन कण्ठतालुश्च रन्ध्रकः |
भ्रुवोर्मध्ये तु मूर्धौ तु नयेत्प्राणं तु बुद्धिमान् || ११६ ||

हित्वार्गलकपालं तु जीव ऊर्ध्वं तु गच्छति |
सदाशिवपदं गत्वा न भूयो जन्मचाप्नुयात् || ११७ ||

इति कालोत्तरे नाडिचक्रपटलः विंशतिः || २० ||

Kapitel 21 – Das Rad der Zeit

|| श्रीः ||
ईश्वर उवाच-
कलाचक्रं प्रवक्ष्यामि कालज्ञानं परं शुभम् |
स्वस्थानराक्षनीमेषश्चतुर्भागोपलक्षितः || १ ||

कालस्त्रुटिरिति वदन्ति तज्ज्ञानात् निष्क्रमस्थितः |
त्रिटिद्वयं क्षणं प्रोक्तं तृतीयं क्षणिकं भवेत् || २ ||

त्रुटिचतुष्कं निमेषं तु निमेषार्धं च तच्छृणु |
त्रुटिर्द्वात्रिंशत्कला ज्ञेया कलाष्टं करणं भवेत् || ३ ||

करणाष्टकृतं वासि विधिरेषा प्रचोदिता |
अतीतानागतं चैव वर्तमानं तथैव च || ४ ||

लाभालाभं सुखं दुःखं * * * * * * * * |

  • * मस्ति ज्ञानविज्ञानं मृत्युपञ्चकं तथा || ५ ||

दशारं चक्रमाख्यातं सर्वप्राणिषु वर्तते |
ऐन्द्रमाग्नेययाम्यं च नैर्-ऋतं वारुणं तथा || ६ ||

वायव्यस्याथ सौम्यं च ऐशान्यमष्टकं भवेत् |
ऊर्ध्वं च नवमं प्रोक्तं अधाश्च दशमं भवेत् || ७ ||

पुष्यमासे तु संप्राप्ते मार्गशीर्षक उच्यते |
तत्संक्रान्तौ परिक्षेतश्वासं चैव षडानन || ८ ||

सामं तु पञ्चघटिका दक्षिणं पञ्च एव हि |
षष्ट्युच्छ्वासो भवेत्प्राणः षट्प्राणो घटिका भवेत् || ९ ||

षष्टिघटिकाहोरात्रं जपसंख्यां करोति सः |
पञ्चघटिका भवेद्वामे सर्वारिष्टविवर्जितम् || १० ||

सप्तघटिका चरेद्वामे किञ्चिदुष्ण समन्वितः |
अशीत्यायुर्हवत्येव सम्यक् ज्ञानेन वै बुधः || ११ ||

अष्टघटिका भवेद्वामे परुषयुक्तं सुखोष्णतः |
सप्तति चैव आयुष्यं शिवेन परिभाषितम् || १२ ||

नवघटिका वामे तु उष्णमीषत्समन्वितः |
चरते मुहुर्मुहुर्वत्स समाः षष्टिं स जीवति || १३ ||

दशघटिका इडायां तु चरते च मुहुर्मुहुः |
पञ्चत्रिंशत्स जीवेत्तु इति शास्त्रस्य निश्चयः || १४ ||

चतुर्दशघटिकायामेव देहं स एव हि |
त्रिंशत्संवत्सरं जीवेत् हृन्नाभिजठराश्रितः || १५ ||

चतुर्दशार्धघटिका वहते वाममेव हि |
सप्तविंशत्संवत्सरं जीवतीति षडानन || १६ ||

पादहीनं चतुर्दशघटिका वहते इडाम् |
षड्विंशत्संवत्सरं तस्य जीवितं वै नरस्य तु || १७ ||

दिनार्धं दिवसं चैव अहोरात्रं तथैव च |
सार्धयुग्मगुणां वतानादित्यवसुषोडशान् || १८ ||

पञ्चम्यः पञ्चविंशद्दिवसगति रूपारोहते पञ्चवृद्धः
तस्यादेकोत्तरेण त्रिगुणितदशकं त्र्यक्तरं यावदेव |
काले पौषे समाप्ते त्रिनयनशशिना षट्त्रियुग्मे कलेशा-
स्तास्ते हानिशेषास्तिशिदिगुषु गुणर्धेन्दवो जीवितस्या || १९ ||

पुनरन्यत्प्रवक्ष्यामि कालचक्रं समासतः |
उत्तरायणवामे तु तस्य ज्योतिर्न दृश्यते || २० ||

संवत्सरत्रयं कृत्वा जीवत्येव षडानन |
दक्षिणायनवामे च ऊर्ध्वज्योतिस्तु दृश्यते || २१ ||

संवत्सद्वयामृत्युः प्राप्यते नात्र संशयः |
वामे चैव अधोज्योतिर्न दृश्यते चार्ध * * के || २२ ||

वत्सरैकं स जीवेत कालविद्भिरुदाहृतः |
वामदक्षिणतज्ज्योतिर्दृश्यते ब्राह्मिके यदा || २३ ||

षण्मासं तस्य वै जीव ईश्वरेण प्रभाषितम् |
दक्षिणे दक्षिणे ज्योतिर्दृश्यते नार्धरात्रके || २४ ||

त्रिमासा मृत्युमाप्नोति वायुना नात्र संशयः |
दक्षिणे चोत्तरे ज्योतिर्बाह्ये चैव न दृश्यते || २५ ||

मासान्मरणमाप्नोति सर्वे न तु षडानन |
गुल्फाज्जीवो न दृश्येत पादयोस्तु यदा नरः || २६ ||

घर्घरावयुतं तस्य नात्र कार्या विचारणा |
कूर्परस्य अधोभागे जपं यस्य न विद्यते || २७ ||

दशाहान्मरणं तस्य कालविद्भिरुदाहृतः |
समुद्रद्योणोन श्राव्यो यत्र बिन्दुं न पश्यति || २८ ||

पञ्च * * * * * * * * * * * * * * |
वायसो लीयते मूर्ध्नि श्वानो वा यदि लीयते || २९ ||

त्रयस्त्रिंशत्सजीवोऽसौ चरते च इला मुहुः |
पञ्चत्रिंशच्च घटिका स जीवति न संशयः || ३० ||

करीषगलेरन्त्री रक्तवस्त्रयुतेन * * च |
दण्डेन प्रहरेत्पुरुषः सप्ताहान्मरणं भवेत् || ३१ ||

रक्ताम्बरधरा नारी रक्तमाल्यानुलेपना |
आलिङ्गनं भवेत्स्वप्ने जाग्रे वा यदि पश्यति || ३२ ||

दशाहान्मरणं तस्य नात्र कार्या विचारणा |
रजस्वला चोष्ट्ररूढा विधवामुण्डितश्शिरः || ३३ ||

आश्लिष्यते वै स्वप्ने च जाग्रे वा यदि पश्यति |
अष्टहानि स जीवेत इति शास्त्रस्य निश्चयः || ३४ ||

शाक्यं शपणकं वापि स्वप्ने वा जापातेऽपि वा |
आलिङ्गनं भवेद्यस्य तस्य मृत्युर्न संशयः || ३५ ||

खरूरूढस्तु वै स्वप्ने मार्गं वा दक्षिणं नयेत् |
रक्ताम्बरधरओ भूत्वा रक्तमाल्यानुलेपनः || ३६ ||

ज्वरेण मृत्युमाप्नोति नात्र कार्या विचारणा |
ऊर्ध्वदीपं च पश्येत चञ्चलं वापि शाम्यति || ३७ ||

मासान्मरणमाप्नोति इति सत्यं षडानन |
अधोज्योतिर्न पश्येत मध्यदेहे तु वै बुधः || ३८ ||

सप्तविंशद्दिनान्मृत्युरिति सद्भिरुदाहृतम् |
याम्यादिदिग्दले ज्योतिरतसीकुसुमप्रभम् || ३९ ||

त्रयस्त्रिंशद्दिनान्मृत्युवतिरोगेण नित्यशः |
नैर्-ऋत्यां दिग्दले ज्योतिः राजावर्तमणिप्रभम् || ४० ||

दृश्यते चार्धरात्रे च मृत्युर्मासं न संशयः |
वारुणे दिग्दले ज्योतिर्दृश्यते स्फटिकप्रभम् || ४१ ||

चत्वारिंशद्दिनान्मृत्युः शास्त्रज्ञैः समुदाहृतः |
वायव्यां दिग्दले ज्योतिः हरिद्रारससन्निभम् || ४२ ||

न दृश्यते यदा रात्रौ पञ्चाहान्मरणं भवेत् |
मध्याह्ने तु अमावास्यां महद्भाण्डे जले गुह || ४३ ||

सुषिरा सूर्यबिम्बे तु दृश्यते घटिकैकतः |
तस्य मृत्युर्ध्रुवं नित्यं त्रिपक्षान्निश्चयं भवेत् || ४४ ||

अमावास्यां घृते मायां चक्षुरूपं न पश्यति |
तस्य मृत्युर्न संदेहो नात्र कार्या विचारणा || ४५ ||

गङ्गायमुनाभ्यां च घटिकात् घटिकां वहेत् |
अष्टादशदिनान्मृत्युरिति शास्त्रस्य नित्यशः || ४६ ||

महत्सु तापे मध्याह्ने गगने दशपादतः |
ध्वयापुरुषमापश्येत् त्रिमासान्मरणं भवेत् || ४७ ||

पुरुषः पाण्डराकारो दृश्यते गगने महत् |
षण्मासान्मृत्युमाप्नोति सशिवस्तं न पश्यति || ४८ ||

पूर्वाह्ने चाष्टमपदे पुरुषं वै न पश्यति |
कबन्धं दृश्यते तस्य त्रिमासान्मरणं भवेत् || ४९ ||

वामहस्ता कृष्णवर्णा गगने दृश्यते महत् |
जाग्रे वा यदि वा स्वप्न त्रिमासं तस्य जीवितम् || ५० ||

खड्गहस्ता कृष्णवर्णा पाशहस्ता सुदारुणा |
शिरस्युपरि गगने दृश्यते नररूपका || ५१ ||

द्विप * * * * प्नोति इति प्राहुर्मनीषिणः |
छिन्ननासा कृष्णवर्णा पाशखड्गधरा महत् || ५२ ||

रक्ताम्बरधरा नारी रक्तमाल्यानुलेपना |
गगने दृश्यते वत्स पाशेनैव तु बध्यते || ५३ ||

खड्गेन प्रहरेच्छासौ पञ्चाहान्मरणं भवेत् |
कृष्णश्वा तु सुषुम्नाग्रे प्रविशेद्गृहमेव वा || ५४ ||

त्र्यहान्मरणमाप्नोति इति सत्यं षडानन |

  • * * * वालिपानं भवेच्चैव मुहुर्मुहुः || ५५ ||

पक्षान्मरणमाप्नोति इति शास्त्रस्य निश्चयः |
रथेन करयुक्तेन रक्तवस्त्रवृतेन च || ५६ ||

रक्तमाल्याम्बरधरो दक्षिणायनमाश्रितः |
यदि वा यदि वा स्वप्ने स पक्षान्मरणं भवेत् || ५७ ||

महोल्कापतितं मध्याह्ने चन्द्रादित्यमथापि वा |
अकामो भूमिकम्पं वा दशाहान्मरणं भवेत् || ५८ ||

झनझन घनघनस्तनवाथ अशनिर्वा तटिध्वनिः |
यदि पश्येन्मध्यदेहे द्विदिनेन स जीवति || ५९ ||

कौशिकं पिङ्गलं वापि बिलाव(डाल)ध्वनिमेव वा |
मध्यदेहे यदा पश्येत् विशे * * * * * * || ६० ||

दशाहामध्यमाप्नोति मधुमेहेन वै ध्रुवम् |
शास्ता स्वरं वा शास्तारं हृदये मध्यदेहके || ६१ ||

मुहुर्मुहुर्विरोत्तत्र भूलोकान्मरणं दश |
कृष्णां गवां शृङ्गयोर्द्वे गृहीत्वा धावते यदि || ६२ ||

जठरेशूलं मुहुस्तत्र आक्षेपान्मरणं भवेत् |
कोदण्डे शाश्वतस्थाने मूर्धान्ते द्वादशाङ्गुले || ६३ ||

बिन्दुदेशेन दृश्येत दिनानि त्रीणि जीवति |
मृत्युनाश्रितं ध्यानं च सांप्रतं शृणु षण्मुख || ६४ ||

मध्यदेहे सपत्नी तु कर्णिकायां * * * * |
प्रासादं चन्द्रबिम्बेन संपुटीकृत्य बुद्धिमान् || ६५ ||

आत्मप्रासादकबलं सदा ध्यायेत्समाहित |
विवत्सरेण वै वत्स मृत्युनाशनमुत्तमम् || ६६ ||

ध्यायेद्वै द्वादशाब्दं तु सहस्राब्दं सजीवति |
इन्द्रकोपनिभं ध्यायेत् प्रासादं शशिबिम्बकम् || ६७ ||

आत्मानं संपुटीकृत्य चतुर्थेन तु पण्डितः |
बिन्दुनादशिखाक्रान्तं घटिका सप्तमा भवेत् || ६८ ||

वत्सरानेकविंशं तु पञ्चसहस्रं स जीवति |
शङ्खकुन्देन्दुधवलं प्रासादं मध्यदेहके || ६९ ||

इन्दुना संपुटीकृत्य घटिका दश प्रत्यहम् |
द्वात्रिंशद्वत्सरं ध्यायेत् षट्सहस्रं स जीवति || ७० ||

गोक्षीरधवलप्रख्यं प्रासादं मध्यदेहके |
तस्य मध्ये तु चात्मानं चन्द्रबिम्बेन संपुटेत् || ७१ ||

द्वादशं घटिका वत्स त्रयोविंशत्तु वत्सरान् |
स जीवेत्सप्तसाहस्रं वत्सरं तु षडानन || ७२ ||

द्रुतचामीकरप्रख्यं प्रासादान्मध्यदेहके |
अधोर्ध्वं चन्द्रबिम्बेन सम्पुटीकृत्य बुद्धिमान् || ७३ ||

हृत्पिण्डं शातकुम्भेन घटिका पञ्चदशो भवेत् |
चतुर्विंशद्वत्सरं तु सहस्राष्टौ स जीवति || ७४ ||

हृत्पद्मकोटरे धीमान् प्रासादं शङ्खसन्निभम् |
तस्य मध्ये तु चात्मानं चतुर्थेन तु संपुटेत् || ७५ ||

पञ्चविंशद्वत्सरांस्तु घटिका षोडशो भवेत् |
नव सहस्रं स जीवेत इति सत्यं षडानन || ७६ ||

प्रासादं चिन्तयेन्नित्यं हिमकुन्देन्दुसन्निभम् |
स चतुर्थेन वै हन्त बिन्दुनादसमन्वितम् || ७७ ||

अमृतेन प्लावयेत्तत्र प्रासादं शशिना युतम् |
सप्तदश घटिका ध्यायेत् षड्विंशति तु वत्सरान् || ७८ ||

अयुतं जीवति वै तत्र मन्त्रवीर्यप्रभावतः |
हृत्पद्मे मण्डले तत्र क्षेत्रज्ञं संपुटेन्नरः || ७९ ||

प्रासादं मध्ये भावयेत् चतुर्थेन तु धीमता |
बिन्दुयुक्तो तु मेधावी सप्तविंशतिवत्सरान् || ८० ||

अष्टादश घटिकासु एकचित्तेन भावयेत् |
अयुतं द्विसहस्रं तु स जीवेन्नात्र संशयः || ८१ ||

कोदण्डद्वयमध्ये तु चन्द्राग्निरविमध्यगम् |
प्रासादं चिन्तयेद्वत्स हृदये सव्यमध्यगम् || ८२ ||

प्रजापतेर्द्वादशेनैव बिन्दुयुक्तेन संपुटेत् |
जपासुमसमप्रख्यं नित्यमेव विचिन्तयेत् || ८३ ||

प्रासादमुच्चरेद्धीमान् मात्राषोडशमेव च |

  • * * * * * * * एकचित्तेन बुद्धिमान् || ८४ ||

एकोनविंशद्घटिकामात्रे चैव सदा न्यसेत् |
पञ्चदश सहस्रं तु स जीवति षडानन || ८५ ||

सुषुम्नाग्रे चिन्तयेत्पद्मं अष्टपत्रं सकर्णिकम् |
प्रासादं चिन्तयेत्तत्र षोडशस्वरभूषितम् || ८६ ||

ध्यायेद्भृङ्गनिभं वत्स शशिना संपुटेत्सदा |
बिन्दुयुक्तेन वै वत्स चतुर्थेन समन्वितम् || ८७ ||

प्लावयेदमृतेनैव आपूर्य तु समाहितः |
होमकूपेषु सर्वेषु कृष्णरूपं विचिन्तयेत् || ८८ ||

मूर्धादितलपर्यन्तमिति कृष्णममृतं स्मरेत् |
पलितस्तम्भनं ह्येतत् वत्सरैकोनविंशति || ८९ ||

विंशद्घटिका नित्यं तु अभ्यसेत्प्रयतो नरः |
अयुतद्वयं स जीवेत ब्रह्मचर्यव्राते स्थितम् || ९० ||

सुषुम्नान्ते चतुरङ्गुल्ये श्वेतपद्मं सुशोभनम् |
शतदलं चन्द्रबिम्बेन संपुटीकृत्य बुद्धिमान् || ९१ ||

प्रासादं चिन्तयेन्मध्ये अमृतेनैव प्लावयेत् |
कालाग्निशिवपर्यन्तमिति श्वेतं विचिन्तयेत् || ९२ ||

मृत्युञ्जयमिदं योगं त्रिंशद्वत्सरमभ्यसेत् |
जरामरण निमुक्तमयुतत्रयं स जीवति || ९३ ||

शङ्खगोक्षीरधवलं सहस्रदलपद्मकम् |
आत्मानं तत्र मध्ये तु प्रासादाग्रे विचिन्तयेत् || ९४ ||

सप्तवर्गचतुर्थेन बिन्दुनाद समन्वितम् |
चन्द्रबिम्बामृतेनैव विग्रहं प्लावयेत्ततः || ९५ ||

पञ्चत्रिंशत्समा वत्स द्वात्रिंशद्घटिका स्मरेत् |
अयुतं चतुर्थकं जीवेत् द्विरष्टवर्णकृतिः || ९६ ||

तस्योर्ध्वं चतुरङ्गुल्यं अयुतं दलशोभितम् |
तस्य मध्ये तु प्रासादं शशिना संपुटीकृतम् || ९७ ||

स्रवन्तममृतं ध्यायेत् सुषुम्ना भिन्नमस्तकम् |
तेन प्लावितमात्मानं आपूर्यन्तं विचिन्तयेत् || ९८ ||

द्वात्रिंशद्वत्सरं ध्यायेत् द्वात्रिंशद्घटिका (भवेत्त्) भवेत् |
अयुतं पञ्चकं जीवेन्नात्र कार्य विचारणा || ९९ ||

शतस्सहस्रदलं पद्ममतिश्वेतं तु निर्मलम् |
प्रासादं चिन्तयेद्विद्वान् आत्मानं तस्य मध्यगम् || १०० ||

शशिना संपुटीकृत्य योगपीठमधोमुखम् |
स्रवन्तममृतं ध्यायेत् आपूर्य प्लावयेद्बुधः || १०१ ||

पञ्चत्रिंशद्वत्सरं ध्यायेत् घटिका तावदेव तु |
गोक्षीरधवलं सौम्यमापादतलमध्यगम् || १०२ ||

आपूर्यं चिन्तयेद्योगी लक्षमेकं स जीवति |
रेचकं तु परित्यज्य पूरकं तु सदाभ्यसेत् || १०३ ||

किञ्चिन्निर्व्याण मायान्तमथ सा मृत्युनाशनम् |
आत्मनासिकयाभ्यन्तं जठराभ्यन्तरान्तकम् || १०४ ||

स्फटिक प्रथमं सूक्ष्ममाधारं चिन्तयेद्बुधः |
तस्य मध्ये तु चात्मानं शशिना संपुटीकृतम् || १०५ ||

समरसं भावयेत्तत्र मृत्युनाशनमुत्तमम् |
खमध्ये कुरुचात्मानं आत्ममध्ये तु खं कुरु || १०६ ||

अशरीरात्मकः कृत्वा न किञ्चित् विचिन्तयेत् |
साक्षान्मृत्युञ्जयो योगो महाप्रलयं स जीवति || १०७ ||

रक्तबुद्बुदसंकाशमाकाशं बिन्दुदैवकम् |
समरसी भावयेद्योगी तेन मृत्युविनाशनम् || १०८ ||

  • * * * * * * * उत्तरे नर?सन्निभम् |

समरसं भावयोगी मृत्युनाशनम् || १०९ ||

कदम्बगोलकाकारं रक्तबुद्बुदसन्निभम् |
तस्य मध्ये तु चात्मानं सततं भावयेद्बुधः || ११० ||

  • * * * * * * * * * न किञ्चिदपि चिन्तयेत् |

मृत्युञ्जयं परं ह्येतत् अम्बरत्वमवाप्नुयात् || १११ ||

अच्छस्फटिक संकाशं बिन्दुरी(रु)पमनौपमम् |
समरसीभावयोगेन मृत्युनाशनमुत्तमम् || ११२ ||

गोक्षीर धवल प्रख्यं बिन्दुरूपं सुनिर्मलम् |
मध्यदेहे तु सततं समरसं भावयेद्बुधः || ११३ ||

एषमृत्युञ्जयो योगमजराजरमाप्नुयात् |
चुलुकां वा पिबेत्प्रातः सोमामृतजलोषितम् || ११४ ||

ध्यात्वा प्रासादममृतं मृत्युं जित्वा न संशयः |
स्वरेण पेषयेच्चन्द्रः चन्द्रमध्ये शिवं भवेत् || ११५ ||

शिवमध्येन? चात्मानमभ्यसेन्मध्य शुके? |
रेचकं पूरकं त्यज्य कुम्भकं तु समभ्यसेत्? || ११६ ||

स्मरसीन्द्रमवस्थाय मृत्युनाशनमुत्तमम् |
अकारं मूर्ध्नि विन्यस्य आकारं तु ललाटको || ११७ ||

इ ई च क्षुद्वये न्यस्य उ ऊ श्र * *? योर्न्यसेत् |
ऋ ॠ सा?माद्वये न्यस्य ऌ ॡ गण्डंद्वये न्यसेत् || ११८ ||

ए ऐ लोलुद्वये न्यस्य ओ औ ओष्ठद्वये न्यसेत् |
अं अः दन्तद्वये न्यस्य * *? तं विन्यसेद्बुधः || ११९ ||

कवर्गं दक्षिणहस्ते चवर्गं वामके न्यसेत् |
टवर्गं दक्षिणे पार्श्व?मवर्गं वामपादके || १२० ||

पपौ दक्षिणपार्श्वे तु बभौ वै वामपार्श्वके |
हकारं हृदये न्यस्य मकारं नाभिदेशतः || १२१ ||

यकारं त्वक्प्रदेशेषु रेफं रुधिरदेशतः |
लकारं मांसदेशे तु वकारं मेददेशके || १२२ ||

शकारमस्थिदेशे तु षकारं मज्जदेशतः |
सकारं शुक्लमित्युक्तं हकारं मेढ्रदेशतः || १२३ ||

लकारं वृषणयोर्न्यस्य वकारं पादमध्यगे |
बिन्दुयुक्तेन सर्वं तु न्यसेदेता ननुक्रमात् || १२४ ||

एवं त्यक्त्वा विधानेन पश्चाद्ध्यानं समारभेत् |
सर्वकर्मसु मेधावी मातृकां न्यस्य तत्त्वतः || १२५ ||

अर्चनं जपनं ध्यानसमाधिं हुतमेव च |

इति कालोत्तरे अयुतक्षयसंहितायां कालचक्रपटलः एकविंशतिः || २१ ||

Kapitel 22 – Sparsha-Yoga und die zehn Lebenswinde

|| श्रीः ||
ईश्वर उवाच-
स्पर्शयोगं प्रवक्ष्यामि भावयोग समाधनम्? |
सर्वव्यापिवरं? शुभ्रं वयसः स्थापनं परम् || १ ||

वलीपलीमलाशं च सदा सौम्यायवर्धनम् |
यद्वयसि स्पर्शाभ्य? वपनबीजः? पद्यनन || २ ||?

तद्वयसि मेधावि? नात्र कार्या विचारणा |?
कलियुगे * * *? तु शास्त्रोक्त तु समारभेत् || ३ ||

षडंशे द्वापरे प्रोक्तं त्रेतायां तु त्रिंशकम् |
कृतयुगे सिद्धिमाप्नोति शास्त्रोक्तं च न संशयः || ४ ||

शुभदेशे तु वै वत्स समं कृत्वा प्रयत्नतः |
नैमिशे पुष्करे वापि कुरुक्षेत्रे सुखप्रदे || ५ ||

गङ्गाद्वारे प्रयागे वा गङ्गासागरसंगमे |
अष्टभासे प्रभासे वा देवदारुवनेऽपि वा || ६ ||

कैलासमन्दरे वापि मेरुपर्वतमस्तके |
हिमवद्धेमकूटे च निषेधे नीलपर्वते || ७ ||

महेन्द्रमलये सह्ये विन्ध्यपर्वतमस्तके |
श्रीशैलेस्वामिशैले वा गोदावर्यां सरस्वतौ || ८ ||

गोकर्णे शङ्कुकर्णे वा कन्यातीर्थे तु कारयेत् |
सिन्धुसरस्तीरे वा सरस्वत्यास्तटेपि वा || ९ ||

  • * * * * * * * समाधिस्थानमारभेत् |

ब्राह्मणस्य महीश्वेता रक्तभूमिस्तु भूपतेः || १० ||

वैश्यस्य वसुधा पीतां कृष्णभूमिश्चतुर्थके |
विप्रस्य घृतगन्धातु रक्तगन्धा नृपस्य तु || ११ ||

वैश्यस्य मूत्रगन्धा तु शूद्रं विष्टेनुगन्धिनी |
वर्णं गन्धं रसं ज्ञात्वा योगवेश्म समारभेत् || १२ ||

दीक्षास्थानं शिवस्थानं स्नपनस्थानमेव च |
योगस्थानानि सर्वाणि विधिरेष प्रकीर्तितः || १३ ||

प्रासाद मण्डपं वापि कूटं वा गृहमेव वा |
त्रिभूमिं वा द्विभूमिं वा एकभूमिमथापि वा || १४ ||

मृददादृष्टया केशैर्वा कारयेद्भवनं शुभम् |
कवाटार्गलसंयुक्तं प्राकारैर्दीर्घकैर्युतम् || १५ ||

कुसुमद्रुमसंकीर्णं पनसाम्रादिभिर्युतम् |
नालिकेरैः कमुकैश्च पुंनागवकुलैर्युतम् || १६ ||

शमी बिल्वपलाशाद्यैः कुशाकाशादिभिर्युतम् |
गावो वसेयुः सप्ताहं मपतिर्दशभिर्नव || १७ ||

लक्ष्मीखचितचैत्यादि अग्रे चोरादिवर्जितम् |
उत्तरे तु जलग्रामं पश्चिमे पद्ममण्डपम् || १८ ||

दक्षिणे तु बहिस्थानं सत्यस्थानं तु पूर्वके |
बर्बरैश्च पुलिन्दैश्च किरातैश्च विवर्जितम् || १९ ||

कुथचेलाजिनास्तीर्णं प्राङ्मुखो वाप्युदङ्मुखः |

  • स्ति? त्वासनं बद्धा नाडीशोधनमारभेत् || २० ||

उरुस्थोत्तानचरणः सव्ये न्यस्येतरं करः |
तालुस्था चलजिह्वा च संवृतास्यः सुनिश्चयः || २१ ||

नासाग्रदिक्समासीनो दन्तैर्दन्तेन संस्पृशन् |
प्रणिपत्य शिवं शान्तं योगीन्द्रः शशिशेखरम् || २२ ||

भवं भवकरं योगमारभेदनुपूर्वशः |
नासाग्रे शशभृद्बिम्बंवत् ज्योत्स्नाजालवितानितम् || २३ ||

नीय तुरीयसंयुक्तं चन्द्रमध्ये तु संस्थितम् |
पञ्चाकृत्याथ निष्क्रम्य इडया वर्मणा सह || २४ ||

आपूर्यं रेचयेत्पश्चात् पिङ्गाया चाग्निवर्मणा |
यद्द्वितीयं बिन्दुयुक्तं त्रिकोणे अनलायुते || २५ ||

पूर्ववत्पुरतो ध्यात्वा ज्वरज्वालावलीयुतम् |
पूर्ववत्पूरयेन्नाड्या प्राणं दक्षिणया गुह || २६ ||

तद्वद्विरेचयेत्पश्चात् इडायां शनकैः क्रमात् |
त्रिचतुः सवनं मासं पक्षं वै मासमभ्यसेत् || २७ ||

नाडीविशुद्धिमाप्नोति पृथक् चिह्नोपलक्षितम् |
ईषद्वैशेषिकोपायं मानसप्रणवेन च || २८ ||

रेचकाद्यांश्च क्रम? पूर्ववत्सततोऽन्यथा |
मासत्रिकं त्रिषवणेष्वनया शुद्धिरीरिता || २९ ||

शरीरलघुतादीप्तिः वह्नौ जठरवर्जितः |
ज्ञानाभिव्यक्तिरित्येतच्छिन्नं तच्छुद्धिसूचकम् || ३० ||

इ *? शुद्धा लिखान्तस्था नाडीमार्गो जितानसः |

  • * * न? समानस्तु व्यानोऽथोदान एव च || ३१ ||

कला? कर्मश्च कृकरो देवदत्तो धनञ्जयः |
एतेषां विजयं वत्स * * * * * * र्णकान् || ३२ ||

प्राणे ** भिनासाभूपादाङ्गुष्ठान्तगोचरा |
नीलवर्णप्रतीकाशं रेफादि बिन्दुसंयुतम् || ३३ ||

हृदादिस्थानयोगेन पादाङ्गुष्ठान्तरेचकम् |
रेचकं पूर्वकं चैव कुम्भकं तु सदाभ्यसेत् || ३४ ||

प्रथमं द्वात्रिंशमात्रं तु पूरकं चाभ्यसेद्बुधः |
कुम्भकस्तु चतुष्षष्टिदिवसः शिव संयुतम् || ३५ ||

कुम्भकाम् द्विगुणं रेचकं शनैरेव विरेचयेत् |

  • * * * समभ्यस्य द्विगुणं पुनराचरेत् || ३६ ||

चतुर्थे वत्सरे वत्स द्वात्रिंशद्गुरुराचरेत् |
पञ्चमे वत्सरेमन्त्री चतुष्षष्टिगुणं भवेत् || ३७ ||

सर्वप्राणजयोपायं वर्षितं हि षडानन |
मरूद्विजयमार्गेण विकल्पं केशवेन च || ३८ ||

अङ्गुष्ठानाभिनासाग्रं स्थानेष्वेष्वपि धारणम् |
गत्यागतिप्रयोगोऽयं पूर्ववत्क्रमशोऽपरम् || ३९ ||

पूरकादिविवृद्ध्या तद्रेचकाग्रास संश्रियान् |
उक्तः क्रमाद्द्विवर्षोऽयं केशवेनानुवर्णितम् || ४० ||

कृष्णः कानिष्ठकः पुना?युपार्ष्णिं समाश्रितम् |
वि * *? जानुगुल्फं च उभौ सन्धिश्च पृष्ठसौ || ४१ ||

  • ? प्रतिलोमस्थः पृष्ठे बिन्दुनियोजितः |
  • *? तु संयुक्तः पूरकादीन् स पूर्ववत् || ४२ ||
  • *? कादिकयाज्ज्ञेयो वालप्रस्थो नियोगतः |

अ * * कं? शवोऽप्येवमभ्यासः परिगीयते || ४३ ||

गतात्मनिः? प्रयोगो वा रोगवान् स्थानयोगतः |
इति रेचकः प्रस्थानः? पूरके हंससंश्रियात् || ४४ ||

विजयोपाय इत्याहं ईश्वरः शिवसंयुतः |
हृन्नाभिः सर्वसिद्धिस्थः कटिकूर्परजानुकः || ४५ ||

द्वात्रिंशत्सन्धिदेशेषु शुक्लवर्णः प्रकीर्तितः |
सौम्यन्बी?जसमोपेतं प्रासादं बिन्दुसंयुतम् || ४६ ||

समाधिस्थान संरोधो *? ने विजयवर्णितम् |
अनारतः क्रियायोगात् रेचकः पूर्वयोः क्रमात् || ४७ ||

हस्तमात्रद्वयाद्याति विजयं शीघ्रमेव च |
हृत्कण्ठतालुभ्रूमध्ये कर्णयोरक्षयोरपि || ४८ ||

मूर्ध्ना तु काटिकः पृष्ठः इति संस्थानिलोहितः |
प्रसादेन तु संयुक्तः अनिलात्तु तृतीयकः || ४९ ||

पार्श्वयोरुभयोर्वत्स हस्तयोरुभयोरपि |
करयोरुभयोश्चैव कक्षयोरुभयोरपि || ५० ||

उदानस्थानमेवं तु वर्णरूपमथा शृणु |
भृङ्गवर्णं उदानस्तु यकारस्थोत्तरद्वयम् || ५१ ||

जङ्घोरु मणिबाहू च कण्ठकूपे हृदि स्थितः |
न? कुक्षिश्च पृष्ठश्च सर्वाङ्गसर्वसन्धिषु || ५२ ||

इकारं रक्तवर्णं तु शिवेन तु समायुतम् |
पूर्वत्पूरकं चैव रेचकं कुम्भकं तु वा || ५३ ||

गत्यागतिप्रयोगेण व्यानोदानजयं भवेत् |
यकारादिचतुर्थं तु भान्तमेव तु पञ्चमम् || ५४ ||

प्राणादिबीजसंयुक्तं प्रासादेन न संशयः |
प्रासादेन तु देवेन नाथादिविजयं कुरु || ५५ ||

पूरकं कुम्भकं चैव रेचकं च तथा कुरु |
प्रतिलोमक्रमं कुर्यात् केशवस्य तु धीमतः || ५६ ||

हृत्कण्ठनाभि चक्षूषि सर्वाङ्गं च धनञ्जयः |
सर्ववायुजयमिच्छेत् विद्याभ्यासप्रयोगतः || ५७ ||

प्राणावृत्तिमपानेन संयोज्योत्कृष्य संहृदि |
उदानमानीय तत्रैव व्यानेन तु समन्वितम् || ५८ ||

समानं तत्र वानीय नागं कूर्मं तथैव च |
कृकरं देवदत्तं च धनञ्जय कृष्यतत्त्ववित् || ५९ ||

  • * * * * * * * प्रासादेन समन्वितम् |

कर्णतालुमुखं * * * * * * * * * * || ६० ||

नासाग्रनेत्रं भ्रूमध्ये ललाटतटमूर्धनि |
कृत्वा कुर्यात्तदूर्ध्वं वै सर्वशक्तिं नयेत्पुनः || ६१ ||

बिन्दुनादं न * * * * * * * * * |
ततो नयेच्छिवपदं शाश्वतं मोक्षमव्ययम् || ६२ ||

इत्येवं सर्ववायूनां युगपज्जयमार्गतः |
पवनं जयमार्गोऽयं तन्त्रेऽस्मिन् विजये परे || ६३ |
सप्तमार्गप्रकारं तु स्पर्शयोगः प्रवक्ष्यते |
पूरकं रेचकं चैव कुम्भकोऽप्यधरे परः || ६४ ||

प्रत्याहारो निरोधश्च स्वभेदास्त्वभिसंमताः |
नासामुखैर्ब्रह्मरन्ध्रैः यद्वायुं पूरयेदिह || ६५ ||

कोणस्य पूरकं वायुप्रासादेन समाहितः |
देशकलाद्यवच्छिन्नं कर्तव्यो विजितात्मना || ६६ ||

संपूर्णकुम्भवद्वायुः अङ्गुष्ठान्मूर्ध्निदेशतः |
कुम्भकं तु स विज्ञेयः स्पर्शयोगे तु सप्तमम् || ६७ ||

मूर्ध्नि ललाटभ्रूमध्य * *? तालुरन्ध्रयोः |
कर्णहृज्जठर नाभिगलेमेढ्रे च मामुनि? || ६८ ||

जठरे स्फिचो च चरणाषड्गुष्ठौ रेचयेत्क्रमात् |
कुम्भकात्त्रिगुणः वत्स षड्गुणं नवगुणं तु वा || ६९ ||

द्वादशं षोडशं वापि वत्सराद्रेचयेत् क्रमात् |
अपामात्पूरकस्तद्वत् कुम्भकस्थं तिरोधनात् || ७० ||

नाभिहृत्कण्ठदेशेषु कालसंख्या समन्वितः |
वानप्रस्थश्चार्दनोक्त रूपमकुम्भः प्रकीर्तितः || ७१ ||

रेचितस्य बहिः कुम्भो वायुकुम्भो वनोमतः? |
अपानादूर्ध्वमाकृष्य हृदयादिषु धारणम् || ७२ ||

उत्तरस्तु स विज्ञेयो विपरीतस्ततोऽधरः |
अङ्गुष्ठादि च मूर्धान्तं पूर्वोक्तस्थानमागतः || ७३ ||

  • ?नात्स्थानान्तरोत्कर्षः प्रत्याहारो निगद्यते |

देहं वासान्तरं व्याप्तं निर्वाणे तु लयं गतः || ७४ ||

निरोधस्तु स विज्ञेयो मृत्युनाशनमेव हि |
एवं वै सर्ववायूनां विजयोपायसंग्रहः || ७५ ||

अथवा सर्ववायूनां देहमध्ये तु सर्वभेत् |
प्रासादेन तु कूटेन पूरयित्वा तु कुम्भकम् || ७६ ||

निर्गगे? रेचयेद्वत्स लघूयाय विनिर्णयम् |
समा? प्रच्छदनं पूर्वं अं किंचित्स्पर्शं तु कोष्ठके || ७७ ||

पुनर्वै पूरकं कुर्यात् कुम्भकं तदनन्तरम् |
निर्वाणे जीर्णस्पर्शं तु केशवेन तु वर्णितम् || ७८ ||

नाभिहृत्कर्णकेशेषु * * * * *? संयुतः |
वानरच्छ * *?मुक्तं * * * * * * * * * तम्? || ७९ ||

रेचिकस्य बहिस्तम्भां * * * * * परोमतः |
अपि वोर्ध्वं समुत्कृष्य नाभिदेशे तु धारणम् || ८० ||

तवर्गं वरुणाचारे पवर्गं वायुचारके |
यवर्गमुत्तराचारे रवर्गमीशानचारके || ८१ ||

प्रासादं नाभिचारे तु षकारं न मिरुच्यते |
क्रमात्सञ्चिन्त्य वै वत्स आपूर्य कुम्भकेन च || ८२ ||

नादं बिन्दुं च शक्तिं च महेशं च सदाशिवम् |
शिवं नयेत्पुनर्वत्स ? निरुपद्रववैभवम् || ८३ ||

चक्राधारमिदं वत्स स्पर्शनानाजयं परम् |

इति कालोत्तरे स्पर्शयोगे दशवायुचक्रध्यानपटलो द्वाविंशत्तमः || २२ ||

Kapitel 23 – Eintritt in andere Körper

|| श्रीः ||
ईश्वर उवाच-
मन्सालोच्य सर्वं तु संरोध्य प्रतिशर्वरी |
मध्यदेहे तु चित्तं तु शिवे परमकारणे || १ ||

ततस्तन्मयतां याति शिव एव न संशयः |
कपालरन्ध्रे रेच * * * * * गमेव च || २ ||

अनुमानं प्रवक्ष्यामि बीजं वर्णं च दैवतम् |
प्रासादं चिन्तयेन्नाभौ नादबिन्दुसमन्वितम् || ३ ||

निरुद्धसर्ववायुंश्च नाभिमध्ये तु स्थापयेत् |
पूरकः तु इडायां वा सुषुम्नायां तु पूरयेत् || ४ ||

हृत्सरोरुहमध्ये तु राजावर्तमणिप्रभम् |
संचिन्त्य मनसा युक्तं द्वारोद्घाटनमुत्तमम् || ५ ||

तालुरन्ध्रेण संयोज्य सुषुम्ना तु नयेच्छनैः |
हृत्कण्ठतालुभ्रूमध्य सुषुम्नायां नयेच्छिवम् || ६ ||

मनसस्पर्शयुक्तेन पूरावू(पू)रित वै निलः |
उद्घाटित शिखद्वारः प्रासादेन तु शक्तिः || ७ ||

आसने तु विते योगे प्राणायामेवमिर्जितः |
परकायं प्रवेशायोपायं यत्नेन चाभ्यसेत् || ८ ||

हृत्सरोरुहसंलीनं मण्डलत्रय मध्यगः |
गुणत्रयसमोपेतो जीवोऽहं स स्वरूपधृक् || ९ ||

साष्टपद्मापसव्ये तु स वेनोकारलक्षितः |
मकारं मध्यदेहे तु नादबिन्दुर्विरोधस(तः) || १० ||

धर्माधर्मेक्षणं पुरुषः पुर्यष्टकसमायुतः |
चिद्देहं सर्वशुक्लं तु वर्णेनैव समायुतम् || ११ ||

रजस्तमोस्य वंश्यस्तु मञ्चेदं पङ्कजासनम् |
ब्रह्मग्रन्थिं विनिर्भिद्य गच्छेद्वायुपुरात्ततः || १२ ||

पिङ्गलायां विशेद्योगी हृत्सरोरुहकर्णिकाम् |
तत्र स्थित्वा समस्तानि स्वस्वस्थाने निवेशयेत् || १३ ||

प्राणापानसमानश्च उदानोव्यान एव च |
नागः कूर्मस्तथा प्रोक्तः कृकरो देवदत्तकः || १४ ||

धनञ्जयश्च दशमः स्वस्वस्थाने निवेशयेत् |
श्रोत्रं त्वक्चक्षुषीजिह्वा घ्राणश्चैव तु पञ्चमः || १५ ||

बुद्धीन्द्रियाणि पञ्चैव स्वस्वस्थाने निवेशयेत् |
वाक्पादौ पाणिपायूवा उपस्थश्चैव तु पञ्चमः || १६ ||

कर्मेन्द्रियाणि पञ्चैव स्वस्वस्थाने निवेशयेत् |
मनोबुद्धिरहंकारो महानन्तश्चतुष्टयम् || १७ ||

हृदये निवेदयेद्वत्स उपर्युपरि बुद्धिमान् |
एतेन देहयोगेन पूर्ववन्मोदते वशीन् || १८ ||

देहान्त्यराण्यनेकानि विशेदेकोपदेच्छया |
इति प्रवेशनविधिः मृतदेहस्य षण्मुख || १९ ||

जीवदेहप्रवेशनं प्रवक्ष्यामि समासतः |
पूर्वोक्तद्वारं निष्क्रम्य शक्तिबीजपुस्सरम् || २० ||

वायुद्वारेण चाविश्य नाभिचक्र समाश्रितः |
महामायेन निर्गच्छेत् पूर्वोक्तपयबीजतः || २१ ||

नाभिचक्रं ततो गच्छेत् सुषुम्नाया समाहितः |
मण्डलाश्रयमध्ये तु हृत्सरोरुहकर्णिकम् || २२ ||

तत्र तत्प्राणसंचारं निरुध्यात्मीयचानिलैः |
यावद्विगत चेष्टस्तु तावदेव निरोधयेत् || २३ ||

असौ पतति भूमौ तु तावत्तिष्ठेत्सुधीरतः |
इन्द्रियाणि समस्तानि प्राणादिकचतुष्टयम् || २४ ||

आशाक्रियां निरोध्येत स्वस्वस्थाने तु पण्डितः |
देहान्तेन विनिर्मुक्तो संविभक्तेन्द्रियः क्रमात् || २५ ||

तिष्ठेत् सर्वेषु कार्येषु पूर्वदेहं यथा परम् |

  • * * * वै वत्स सहस्रदेहं विशेद्बुधः || २६ ||

स्वदेहजीर्णे तु मतिमान् अन्यदेहं विशेत्सदा |

इति कालोत्तरे स्पर्शयोगविधाने मृतकार्यजीवकार्यप्रधानं नाम त्रयोविंशतिः पटलः || २३ ||

Kapitel 24 – Dharana und Meditation über Brahma und Kalagnirudra

|| श्रीः ||
ईश्वर उवाच-
अथ वै ज्ञानवैराग्यं संस्कारात्सत्यमेव हि |
महायोगं प्रवक्ष्यामि सर्वकामार्थसाधनम् || १ ||

ज्ञानसागरविस्तीर्णाच्छिवस्यैव अनुग्रहात् |
पद्ममध्ये प्रविश्यैतत्प्रासादाख्यं शिवं पदम् || २ ||

तत्र स्वं मण्डलं ध्यायेत् कूपैः प्रकृतिरूपकम् |
शशाङ्कमण्डलं तत्र किञ्चिद्धीनं विचिन्तयेत् || ३ ||

पुरुषात्मकं तस्योपरि ज्योतिरूपमनौपमम् |
कृशानुमण्डलं पूर्वं त्रिकोणं बीजमन्त्रतः || ४ ||

तस्योपरि चन्द्रबिम्बं यच्चतुर्थेन संयुतम् |
अग्निबिम्बत्रयं हीनं सूर्यमण्डलमुत्तमम् || ५ ||

सूर्यबिम्बान्मन्त्रयोगी चन्द्रबिम्बमनुत्तमम् |
तस्योपरिष्टात्पुरुषं पञ्चविंशक संयुतम् || ६ ||

राजावर्तमणिप्रख्यं अतसीकुसुमप्रभम् |
माणिक्कवत्प्रभादिव्यं किञ्चिद्भृङ्ग समप्रभम् || ७ ||

अङ्गुष्ठमात्रमुत्सेधं बालार्कशतकल्पितम् |
ईश्वराख्यं तु तत्तत्त्वं तेनेदं प्रेर्यते जगत् || ८ ||

तन्मध्ये तु शिखा तन्वी स्फुरत्सौदामिनीप्रभा |
विद्याशक्तिं तु तामाहुः तत्परः परमः शिवः || ९ ||

एवं क्रमाद्विचिन्त्याथ चेतसा शिव तन्मयः |
तिष्ठेत्समभ्यसंस्तावं निरुद्धाशेषवृद्धिकान् || १० ||

चेतस्तन्मयतां याते तावत्तद्भावभावतः |
इति साक्षात्कृताशेषः सर्गसंहारकारकः || ११ ||

तत्र त्वं प्राप्य वै सम्यक् ब्रह्मरन्ध्राद्विनिर्गतः |
रश्म्यहः शुक्लपक्ष षण्मासोत्तरवत्सरान् || १२ ||

सुरालयसमुद्भाव स्वच्छशाङ्ककलितक्रमः |
एते द्वादशादित्यास्तु रुद्रैकादश ईश्वरः || १३ ||

नवशक्ति नवालक्ष्मी सावित्री धरणीति च |
ईश्वरस्य महाशक्तिर्मनोन्मनी परावरा || १४ ||

मूर्तिर्द्वादशशक्तिस्तु अधिष्ठित महादशाः |
तेन नीतं शिवं गच्छेद्विगताशेष कल्मषः || १५ ||

नित्यं विशुद्धं संतृप्तमानन्दमनिलं ध्रुवम् |
सर्वज्ञं सत्यसंकल्पं सर्वकारणकारणम् || १६ ||

शिवरूपं परं प्राप्य सर्वसंक्लेशनाशनम् |
जिताशेषामरुद्वृत्तैः मोक्षोपायस्तु वर्णितः || १७ ||

पूर्वतत्त्वकृताभ्यासादन्यदेव तु देशिकः |
अनेन याति निर्वाणं मृत्युर्देहे व्यवस्थितः || १८ ||

उक्तसमासक्तचित्तो तेन वायुजयं विना |
स्वेच्छयानिर्गतो देहात् मुक्तिं याति यथानरः || १९ ||

दिव्योपायं प्रवक्ष्यामि बीजसारसमन्वितम् |
तृतीयवर्गमन्त्रस्थमथो वह्निमरुद्धृतम् || २० ||

दशषष्ठस्वरोपेतं बिन्दुशेखरभूषितम् |
विन्यस्य नाभौ बीजेशं हृदिन्यस्य तथा परम् || २१ ||

यत्तृतीयसुसंयुक्तं पूर्ववर्णेन संयुतम् |
वर्णं वर्णेश्वरं पश्चादर्वाक् शिरसि विन्यसेत् || २२ ||

पूर्ववर्ण समायुक्तं हृदयादि क्रमान्न्यसेत् |
प्रासादेन तु संयुक्तं पवित्रैरङ्गसंयुतम् || २३ ||

मध्यदेहे न्यसेद्वत्स समरसं भावमाश्रयेत् |
मनोयात्यमहीभावं ततो निर्वाणमाप्नुयात् || २४ ||

निर्वाणं मृत्युनाशं तु अयं वै एकमेव तु |
मृत्युञ्जयमिदं योगं मध्ये देहे तु भावयेत् || २५ ||

पूर्वं हृदयनाभिं तु तत्तो गच्छेत्तु मध्यगम् |
शिवस्य परतो ध्यायेत् पश्चिमद्वारमुत्तमम् || २६ ||

संपूज्य विधिवद्देवं ध्यायेन्नित्यमतन्द्रितः |
सर्वज्ञं सर्वकर्तारं सर्वतोऽक्षि शिरोमुखम् || २७ ||

सकलीकृत्य चात्मानं ध्यायेच्छिवमनामयम् |
ज्योतिरूपं परं दिव्यमष्टदिगीशसंयुतम् || २८ ||

ध्यायेद्यामस्तन्त्रित्वात् पूरकादिविवर्जितम् |
मृत्युञ्जयं परं ह्येतत् षण्मासाभ्यासयोगतः || २९ ||

अष्ट प्रत्ययमाप्नोति त्रिमासान्नात्र संशयः |
अथवा * * * * * * * ब्रह्मणः पदम् || ३० ||

तत्त्वान्तर्गतवित्तः सन् जपेदष्टोत्तरं शतम् |
क्षणात्प्राप्नोति तत्स्थानं यत्तन्निर्वाण संज्ञितम् || ३१ ||

परमं ध्येयमेवं हि तन्मार्गस्येन * * * |

  • * * * * रामन्त्री शिवं तत्स्थैक मानसः || ३२ ||

एवं वशीकृतप्राणो धारणादिसमभ्यसेत् |
धारणा शिवतत्त्वादौ वृत्तिरोधं चरेषु तत् || ३३ ||

तद्वृत्तिसन्ततध्यानं तदर्धाभासमात्रकम् |
स्वरूपेणैव शून्यं तत् समाधिर्योग उच्यते || ३४ ||

इति तृतीय निवृत्तिरेकस्मिन् द्विजोत्तम (?) |
उक्तस्थि * सनासीनो विरेच्य पवनं शनैः || ३५ ||

पूरयेद्वै इडायां तु पादाङ्गुष्ठान्तमादितः |
पादाङ्गुष्ठे चिरं रुद्ध्वा मनस्तत्रैव संस्थितः || ३६ ||

पार्ष्णिदेशे तथा गुल्फे जङ्घाजानुद्वये क्रमात् |
ऊरौ च मेढ्रे नाभौ च इति कर्णे तु धारयेत् || ३७ ||

तालुरन्ध्रे भ्रुवोर्मध्ये सुषुम्नान्ते द्वादशे स्थितः |
घटिकार्धं क्रमादूर्ध्वं शिवे यामस्तु संस्थितः || ३८ ||

मृत्युञ्जयमिदं वत्स साक्षान्निर्वाणमृच्छति |
अभ्यसेद्वत्सरं चैक मयुतायुर्भविष्यति || ३९ ||

यावद्ब्रह्मपुरं तस्मात् नयेदुक्तेन वर्त्मना |
पादाङ्गुष्ठान्तमानीय मध्यदेहे तु संस्थितः || ४० ||

ततो विरेचयेद्वायुं प्राणसंस्थेन वर्त्मना |
पूर्वोक्तस्थानयोगेन धारणा घटिका भवेत् || ४१ ||

यामं निरुद्ध्य ऊर्ध्वाधस्ततो मृत्युं जयिष्यति |
इत्युक्ता धारणा दिव्या मृत्युनाशनमेव हि || ४२ ||

याममभ्यस्य चिद्योगी प्राप्नोति परमं शिवम् |
अतः परं प्रवक्ष्यामि धारणां मोक्षदायिनीम् || ४३ ||

अणिमादिगुणैश्वर्यं षड्भिर्मासैर्न संशयः |
ऊर्ध्वाधस्तिर्यगप्येव जगद्व्याप्तं चराचरम् || ४४ ||

प्रक्षिपेत्क्रमयोगेन मनसा भुवनत्रयम् |
भुवनानां सप्तकं वापि प्रक्षिपेत्पिण्डमध्यमे || ४५ ||

त्रिमण्डले तु वै वत्स प्रासादं बीजसंयुतम् |
आनीय शनकैश्चित्तद्वीपार्णवनगैर्युतम् || ४६ ||

जम्बूद्वीपेन संक्षिप्य तत्प्राप्तिं प्राप्य योगतः |
आनीय तं क्षिपेच्चेतः पिण्डस्ये परमात्मनि || ४७ ||

सर्वकालेषु वै वत्स सर्वलोकस्य मूर्धनि |
मण्डलत्रयमध्ये तु मनस्पर्शं तु तत्र तु || ४८ ||

सप्तलोकसमस्तं च षण्मासात्तत्र पश्यति |
सर्वज्ञत्वमवाप्नोति सर्वगं शिवमाप्नुयात् || ४९ ||

मृत्युञ्जयं भवेत्तस्य वत्सरान्नियतं भवेत् |
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च || ५० ||

अमापञ्चकधाराणां तत्तदेव भविष्यति |
हृत्सरोरुहमध्यस्थो ब्रह्मा ध्यातश्चतुर्मुखः || ५१ ||

बुद्धितत्त्वात्मको रक्तः प्रणवेन स्वबीजतः |
चतुर्मुखश्चतुर्बाहुः सृष्टिकारणमुत्तमम् || ५२ ||

ज्ञानेनाप्रतीपे नैव वैराग्येन च संयुतः |
ऐश्वर्येणा धर्मेण वरदाभयपाणिना || ५३ ||

बिभ्रत्कमण्डलं सव्येऽपसव्ये चाक्षसूत्रकम् |
हंसारूढस्तथा राधं मृत्ज्ञानग्रन्थिभेदनम् || ५४ ||

तारकज्ञान निर्वृत्तिं ऐश्वर्यमखिलं तथा |
विशेषयोगसंसिद्धिर्विविधा योगसंभवम् || ५५ ||

अभिमानात्मकश्यामा चतुर्वक्त्रोऽष्टबाहुकः |
बिन्दुमत्पृष्ठनादेन हृदि ध्यातस्त्रिशूलधृक् || ५६ ||

कालाग्निं सर्वहस्तेन बिभ्रदाजगवं शरम् |
खड्गं परशुं कालाग्निं सभुजङ्गसमानगः || ५७ ||

शशाङ्कधारिणं देवं कृत्तिवासं त्रिलोचनम् |
ऐश्वर्यादिगुणोपेतं हृदि ध्यानगुणाष्टकम् || ५८ ||

ध्यानमात्रेण वै वत्स प्रकृतिर्वश्यकं तथा |
मृत्युञ्जयमवाप्नोति सदा सद्भावभावितः || ५९ ||

यथाभिमतसिद्धिश्च सर्ववस्तुषु योगिनः |
संवत्सरकृतात्पापात् शिवलोकमवाप्नुयात् || ६० ||

इति कालोत्तरे स्पर्शयोग धारणामार्गे कालाग्निरुद्रब्रह्मध्यानश्चतुर्विंशति पटलः || २४ ||

Kapitel 25 – Pratyahara

|| श्रीः ||
ईश्वर उवाच-
अष्टाङ्गस्पर्शयोगश्च शृणु वक्ष्यामि संप्रतम् |
यमनियमौ चासनं प्राणायामस्तथैव च || १ ||

प्रत्याहारं धारणा च ध्यानं समाधिरेव च |
एतदष्टाङ्गमुद्दिष्टं स्पर्शयोगं विदुर्बुधाः || २ ||

यमादिप्राणयामान्तं बहिरङ्गं चतुष्टयम् |
प्रत्याहारात्समाध्यन्तमन्तरङ्गमुदाहृतम् || ३ ||

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमाधृतिः |
दया ज्ञानं स्वरूपाणां अन्तरङ्गं विभागतः || ४ ||

यमाश्च दर्शया प्रोक्तास्तन्त्रेऽस्मिन् विजये शुभे |
शौचं सन्तोषश्च तपःस्वाध्यायेश्वरपूजने || ५ ||

सिद्धान्तश्रवणं चैव जपं हुतं च श्रीमति |
नियमं दशधा प्रोक्तं सर्वशास्त्रेषु पूजितम् || ६ ||

यावत्सिद्धिस्पर्शयोगं जयं तावदनुष्ठितम् |
आसनं विंशति प्रोक्तं तन्त्रेऽस्मिन् विजये शुभे || ७ ||

पद्मकं स्वस्तिकं चैव गोमुखं विकटं तथा |
सूचिं वै एकपादं तु कुक्कुटं वीरमेव च || ८ ||

पद्मासनं चैकपृष्ठं कूर्मं विमलमेव च |
दण्डं विदण्डं गोकर्णं सिंहासनमतः परम् || ९ ||

वृत्तं चोत्कुटिकं चैव गजास्यं गजकर्णकम् |
आसनं विंशतिः प्रोक्तं वाञ्चितैकं समभ्यसेत् || १० ||

स्थिरं सुखासनं प्रोक्तं सर्वतन्त्रेषु पूजितम् |
यथा काकादिभाण्डानां त्रिपादे सम्यगास्थिता || ११ ||

समाधिं चिरकालस्थ सुखांसुखमाश्रितः |
तस्मात्सर्वप्रयत्नेन आसनं सर्वमभ्यसेत् || १२ ||

स्वर्गापवर्गफलदं प्राणायामेन वै गुह |
सर्ववेदफलं चैव सर्वयज्ञफलं च यत् || १३ ||

सर्वदानफलं चैव सर्वतीर्थफलं च यत् |
प्राणायामेन वै वत्स शिवार्चनफलं भवेत् || १४ ||

मृद्वासरोपरि कुशं प्रावरणाजिनं ततः |
तस्योपरि सुखासीनः प्राङ्मुखो वाप्युदङ्मुखः || १५ ||

अतिभुक्तिमभुक्तिं च वर्जयित्वा समासतः |
निवाते निर्भये गेहे कृमिकीटादिवर्जिते || १६ ||

समग्रीवाशिरो भूत्वा दन्तैर्दन्तान संस्पृशन् |
नासाग्रदृक्समासीना दिशश्चा नवलोकयन् || १७ ||

नाडीनां शोधनं कृत्वा मद्वितीयेन मन्दिरे |
दक्षिणं पूरयित्वा तु वामेनैव तु रेचयेत् || १८ ||

वारुणं मण्डलं वत्सं ल द्वितीयेन संयुतम् |
पूर्ववत्पूरयेद्धीमान् वामेन तु समाहितः || १९ ||

पादाङ्ष्ठात्समारभ्य यावत्प्राणमिडैव तु |
दक्षिणे पिङ्गले चैव रेचयेत्सर्वमेव हि || २० ||

एवं वै पञ्च षट्सप्त षण्मासं वत्सरं तु वा |
नाडीशुद्धिमवाप्नोति ग्रन्थिस्त्रिदोष वर्जितम् || २१ ||

प्राणायामं भवेत्पश्चात् प्रासादेन तु षण्मुख |
पूर्वं षोडशमात्रं तु पूरयेदुदराद्बुधः || २२ ||

चतुष्षष्टिमात्रं कुम्भकं संपूर्ण कुम्भवद्भवेत् |
रेचयेन्मूर्ध्निवायुं च द्वात्रिंशं मात्रया गुह || २३ ||

एवं प्राणायाममस्तु रेचपूस्ककुम्भकः |
षोडश प्राणायामैस्तु नित्यं षोडशमेव च || २४ ||

परां गतिं समाप्नोति प्राणायामेन वै गुह |
प्राणादिविजयं पश्चात् बीजं वर्णं च सारगम् || २५ ||

यकारं प्राणबीजं तु नीलजीमूतसप्रभम् |
रकारं चापानमेवं तु स्फुरद्धृदयसप्रभम् || २६ ||

लकारंमपान इत्युक्तं शाकं बन्धूकसन्निभम् |
पकारं उदान इत्युक्तं वारुणं शङ्खसन्निभम् || २७ ||

भकारं समानं इत्युक्तं स्फटिकाभं शिवं भवेत् |
हृन्नाभिनासिकर्णश्च पादाङ्गुष्ठं तु संस्थितम् || २८ ||

प्राणस्य स्थानमित्युक्तं ब्रह्मग्रन्थिमुरस्तथा |
अपानमेढ्रपायू च ऊरू वं क्षणजानुनी || २९ ||

उदरे जङ्घयोश्चैव कटिदेशे नाभिमूलके |
व्यानश्रोत्रौ च चक्षुश्च ध्यानयोर्गलदेशतः || ३० ||

पार्श्वयोश्च कुकाट्यश्च स्थितेश्च गुल्फयोरपि |
उदानः सर्वसिद्धिस्थः पादौ हस्तौ च चाङ्गुली || ३१ ||

समानः सर्वदेहे तु पादाङ्गुष्ठादिकान्तकम् |
द्वासप्तति सहस्राणि नाडिमार्गेषु संस्थितः || ३२ ||

अष्टाविंशति कोटीषु रोमकूपेषु संस्थितः |
समानप्राण एकं तु जीवस्तौ * * मेव हि || ३३ ||

शनैःसमस्तमाकृष्य हृत्सरोरुहकोटरे |
पूर्ववत्पूरयित्वातु कुम्भकं पूर्ववद्भवेत् || ३४ ||

रेचकं पूर्ववत्कृत्वा कर्णे वै तालुरन्ध्रके |
कोदण्ड द्वयमध्ये तु ब्रह्मरन्ध्रे तु शक्तिमत् || ३५ ||

रश्मिर्नज्योत्स्नानादं च बिन्दुं माहेश्वरं पदम् |
सदाशिवं शिवं पश्चात् तयोर्देवेन देशिकः || ३६ ||

ततो निर्वाणमायाति मृत्युं जित्वा न संशयः |
सृष्टिमार्गं नयेत्पश्चात् शिवश्चैव तु यामके || ३७ ||

सदाशिवे षट् घटिका * श घटिकापञ्चकम् |
बिन्दोर्वै चतुर्घटिका नादे चैव त्रयं भवेत् || ३८ ||

ज्योत्स्नायां तु द्विघटिका अशरेकेन संस्थितः |
रश्मिरर्धघटिकेन तदर्धं शक्तिगोचरे || ३९ ||

भ्रूमध्ये तालुरन्ध्रे च * * * * नस्थिर्गुह |
हृदये शिवार्धं कुर्वीत प्राणायामेन देशिकः || ४० ||

संवत्सरत्रयं ह्येवं प्रासादेन तु सोऽभ्यसेत् |
बहिरङ्गे प्रसादं तु प्राणायामं तु षण्मुख || ४१ ||

मृत्युञ्जयमवाप्नोति ततो वायुजयं भवेत् |
प्रसरं तु प्रवक्ष्यामि सोपानं धारणस्य तु || ४२ ||

मनो मारुतयुक्तेन सर्वमाकृष्य मन्त्रवित् |
पादाङ्गुष्ठे चिरं रुध्य घटिकात्रयमेव हि || ४३ ||

सर्वाङ्गुष्ठेन द्विगुणं प्रासादेनैव दण्डतः |
ततो गुल्फं तु सव्ये तु सव्यं चैवापसव्यके || ४४ ||

घटिकाषट्कमेकैकं निरुध्य कुम्भकमेव तु |
जङ्घयोश्चैव मध्ये तु उपविन्मूले तु रोधयेत् || ४५ ||

यावन्निरोधयेत्तत्र सर्वमाकृष्य चानिलम् |
घटिकाष्टकं निरोद्धव्यं परकुम्भकसंस्थितम् || ४६ ||

पुनरूरुद्वये वत्स स्पर्शमाकृष्य रोधयेत् |
द्वारसंख्यां निरोद्धव्यं प्रासादेन तु देशिकः || ४७ ||

पायुमूले मेढ्रमूले आकृष्य स्पर्शनाद्गुह |
सम्यङ्निरोधयेन्नित्यं मनोमारुतसक्तया || ४८ ||

पायुमूले मेढ्रमूलं तत्क्षणं नश्यते गुह |
पुनर्वै कुण्डलीमध्ये नाभिमध्ये तु कुण्डली || ४९ ||

दिक्संख्यां घटिका रोध्य स्पर्शमाकृष्य मन्त्रवित् |
प्रासादेन तु बीजेन रोधयेत् * * नन्ततः || ५० ||

प्रत्याहारे प्रधानं तु कुण्डलीस्थानमुत्तमम् |
अष्मीलं प्लहगुल्फं च वातरोगांश्च नाशयेत् || ५१ ||

बाह्यायामं विद्रुधिं च आक्षेपं च धनुर्गुह |
अशीतिर्वातजाद्रोगात् प्रत्याहारेण नाशयेत् || ५२ ||

पुनर्वै हृदये मन्त्री * * * * * * * * |
प्रासादयेत्समस्तं च घटिकैकादशे स्थितः || ५३ ||

बलीपलितनाशं च मृत्युनाशनमेव च |
कण्ठ(र्ण)कूपं निरुध्याथ सर्वमाकृष्य योगवान् || ५४ ||

इडायां पूरयित्वा तु * * * * * * * * |
द्वादशं घटिकं वापि तदर्धं वा निरोधयेत् || ५५ ||

क्षुत्पिपासे विनश्यन्ति तृष्णां उष्णज्वरं तथा |
तालुरन्ध्रे निरोद्धव्यमनिलं मरुता युतम् || ५६ ||

त्रयोदशं घटिकां वाथ योधशक्तिमथापि वा |
सर्वद्वार प्रधानस्तु प्रासादं च तृतीयकम् || ५७ ||

सविसर्गेण वै वत्स सर्ववृत्तिं निरोधयेत् |
सर्वव्याधिहरं ह्येतत् पित्तं श्लेष्मं च वातजम् || ५८ ||

मृत्युञ्जयं परं ह्येतत् तालुरन्ध्रे च बुद्धिमान् |
सदा तत्सर्वमाकृष्य कोदण्डद्वयमध्यगम् || ५९ ||

प्रासादं हंससंवृत्तं आकृष्य स्पर्शनः सुखी |
चतुर्दशघटिकां वत्स तदर्ह्दं वा निरोधयेत् || ६० ||

रेच्यरेचकशक्तिश्चेत् सततं रोधयेद्गुह |
सर्वज्ञत्वमवाप्नोति वेदशास्त्राणि विन्दति || ६१ ||

सप्तलोकाश्च तत्रैव पश्यते योगचक्षुषा |
सुषुम्नाग्रे रोधयेत्पश्चात् आकृष्य स्पर्शनं ततः || ६२ ||

प्रासादे चन्द्रबिम्बेन मनोमारुतयुक्तया |
यामत्रयं निरोध्यं तु आकृष्याकृष्य मन्त्रवित् || ६३ ||

कृष्णभृङ्गनिभेनैव रोमकूपेषु प्लावयेत् |
सपत्नस्तम्भमेवं तु मृत्युनाशनमेव च || ६४ ||

सर्वस्पर्शनं तत्रैव मनसा तु निरोधयेत् |
निरोध्य प्लावयेदमृतैश्शनैशनैः शिवचन्द्रकौ || ६५ ||

रत्यग्निज्योत्स्नायां पश्चादाकृष्य वायुभिः |
निरोधयेत्ततः सर्वान् शिवचन्द्रेण संयमी || ६६ ||

षोडश सप्तदशे चैव ततोऽष्टादश वै घटी |
सर्वं निरुद्ध्य मतिमान् अमृतत्वेन प्लावयेत् || ६७ ||

घटिकां सहस्रं आयुष्यं लभते नात्र संशयः |
रहस्यमेतदाख्यातं प्रत्याहारं सुदुर्लभम् || ६८ ||

अग्रवायुजयाद्वत्स परकायप्रवेशनम् |
मृते जीवे च सर्वं तु तज्जनात्संप्रवेशनम् || ६९ ||

एकोनविंशद्घटिका प्रासादं हंसचन्द्रकम् |
आपादतलपर्यन्तं कादिनादित्रयेन तु || ७० ||

प्लावयेदमृतेनैव अयुतायुर्भवेन्नरः |
नादस्थाने चरं रोध्य घटिका चैक विंशतिः || ७१ ||

अनिलं समस्तं वै वत्स आकृष्यं तत्र रोधयेत् |
महानादशिवेनैव शशिना च समन्वितम् || ७२ ||

प्लावयेत्खादिपादान्तं अयुतद्वयं स जीवति |
पुनः सदा च वै वत्स आयुष्यं सर्ववायुभिः || ७३ ||

धिया संरोधयेत्तत्र घटिकात्रिंशतिं गुह |
पुनराप्याययेद्वत्स शिवश्चक्रेण हंसदः || ७४ ||

लक्षकोटिं स जीवेत प्लावयेत्सर्वविग्रहम् |
एवं पूर्वे प्रत्याहारं सुखं वायुजयं भवेत् || ७५ ||

आरोहं अवरोहं च स्थानात्स्थानं तु वै गुह |
इडया पिङ्गला चैव पूरकं तु क्रमेण तत् || ७६ ||

रोपयेत पुनर्धीमान् सगुणं दुर्गमात्रयम् |

इति कालोत्तरे प्रत्याहारपटलः पञ्चविंशतितमः || २५ ||

Kapitel 26 – Dharana

|| श्रीः ||
ईश्वर उवाच-
धारणां वायुजां वक्ष्ये भुक्तिमुक्तिफलप्रदाम् |
सह सौभाग्यमाप्नोति धनमायुर्बलं श्रियम् || १ ||

एकान्ते निर्जने स्थाने वातातपविवर्जिते |
चत्वारिं बहिरङ्गानि अत्यज्य च यथाविधि || २ ||

प्रत्याहाराजि न स्पर्शधारणा च समभ्यसेत् |
पृथिव्यादिपञ्चवक्त्रं धारयेत्पूर्वमेव हि || ३ ||

महच्चक्रं धारयेत्पश्चादीश्वरादि पुनर्भवेत् |
पृथिवीं धारयेद्वत्स त्रिकालं वा द्विकालकम् || ४ ||

पृथिवी सिद्ध्यते योगी सार्वभौमत्वमाप्नुयात् |
शब्दस्पर्शं च रूपं च रसो गन्धश्च पञ्चमः || ५ ||

पञ्चभिस्तु गुणैर्युक्तं ध्यायेत्पृथिविमण्डलम् |
मृत्युञ्जयमवाप्नोति सर्वैश्वर्यसमृद्धिदम् || ६ ||

एवं ध्यायेद्विधिवत् अर्धचन्द्राब्जसंस्थितम् |
गोक्षीरं धवलं सौम्यं शङ्खकुन्दसमप्रभम् || ७ ||

हृषष्ठ बिन्दुसंयुक्तं ब्रह्मरन्ध्रं तु ध्याययेत् |
अधोमुखममृतं ध्यायेत् ध्यायेच्चैवं ततो गुह || ८ ||

तेन प्लावितमात्मानं आपूर्यकुम्भके स्थितम् |
पूर्वात्तु द्विगुणं वत्स ध्यानं सम्यग्व्यवस्थितम् || ९ ||

मृत्युञ्जयमवाप्नोति सर्वव्याधिविवर्जितम् |
स्थावरं जङ्गमं चैव कृत्तिमं विमताशमम् || १० ||

अजरामृतत्वमाप्नोति ध्यानं वारुणं मण्डलम् |
शब्दस्पर्शं च रूपं च रसं चैव चतुर्गुणम् || ११ ||

चतुर्गुणयुतं भद्रं वारुणं मण्डलं स्मरेत् |
आग्नेयं मण्डलं ध्यायेत् त्रिकोणं स्वस्तिकैर्युतम् || १२ ||

ज्वाला मालासहस्रैश्च रक्तवर्णं हुताशनम् |
षष्टमे दशसंयुक्तं बिन्दुयुक्तं षडानन || १३ ||

उदाराग्निं चिन्तयेद्देव त्रिगुणेनानु संयुतम् |
शब्दस्पर्शं च रूपं च अग्निबिम्बं विचिन्तयेत् || १४ ||

पूर्ववत्कुम्भकं कुर्यात् कुम्भकं चैव पूर्ववत् |
रेचकं पूर्ववत्कुर्यात् अनिलं मनसा जयेत् || १५ ||

अशीतिर्वातजान् रोगान् श्लेष्मजान् सप्तसप्ततिम् |
तत्क्षणान्नश्यते वत्स सिंहस्येव यथा गजः || १६ ||

वर्तुलं कृष्णवर्णं च बिन्दुलाञ्छनलाञ्छितम् |
गभस्ति दैवतं वत्स द्विगुणेन समन्वितम् || १७ ||

शब्दस्पर्शसमायुक्तं द्वितीयेन समन्वितम् |
बिन्दुशेखरमारूढं कण्ठकूपे तु ध्याययेत् || १८ ||

सर्ववायुं तत्रैव युगपद्ध्याययेद्गुह |
इडायां पिङ्गलायां तु सुषुम्नायां च पूरयेत् || १९ ||

कुम्भकं पूर्ववत्कृत्वा रेचकं तु शनैर्भवेत् |
एवं वै ध्याययेद्वत्स सर्ववायुजयं भवेत् || २० ||

मनोजयत्वमाप्नोति सर्वगत्वं च जायते |
हृत्सरोरुहजं ये तु आकाशं मेचकप्रभम् || २१ ||

शुद्धस्फटिकसंकाशं शब्दैकगुणसंयुतम् |
परमेश्वरं चाधिदैवं सर्वकारणकारणम् || २२ ||

अष्टवर्गं चतुर्थं तु बिन्दुशेखरभूषितम् |
ध्यायेद्व्योमं शिरोमध्ये शिवाधारं सुनिर्मलम् || २३ ||

समस्तवायुं तत्रैवाधिया चैव निरोधयेत् |
पूर्ववत्पूरकं कुर्यात् कुम्भकं रेचकं तथा || २४ ||

सर्वज्ञत्वमवाप्नोति सर्ववायुजयं भवेत् |
महाचक्रं पुनर्ध्यायेत् सर्वदेवैरनुष्ठितम् || २५ ||

षट्त्रिंशद्दलसंयुक्तं कर्णिकाकेसरान्वितम् |
महापद्ममिदं वत्स शिवपद्मं सुशोभनम् || २६ ||

प्रासादं कर्णिकायां तु सर्वविद्येश्वरेश्वरम् |
केसराष्टोत्तरशतं पृथग्देवं प्रकल्पयेत् || २७ ||

विद्येश्वराष्टभिश्चैव द्वादशादित्यकाश्च वै |
वसवश्चाष्ट ते चैव अष्टौ चैव गणेश्वरान् || २८ ||

लोकपालान् दश चैव अस्त्राणां च तथैव च |
रुद्रमातृगणानां च यक्षविद्याधरास्तथा || २९ ||

गन्धर्वाश्चारणास्सिद्धा किं पुरुषा गरुडास्तथा |
मरुद्गणाः पितृगणाः किन्नराप्सरसस्तथा || ३० ||

ऋषिराक्षसा सुराश्च यातुधानाश्च पन्नगाः |
नागाश्च विविधाश्चैव नक्षत्रग्रहराशयः || ३१ ||

देवपत्न्यः ऋषिपन्त्यश्च तथा देवकुमारकाः |
देवकन्या ऋषिकन्या भूता वै क्षेत्रपालकाः || ३२ ||

एते षट्त्रिंशत्पत्रेषु कल्पयित्वा यथा क्रमम् |
महाबाह्येन विन्यस्य त्रिगुणीकृत्य वेष्टयेत् || ३३ ||

बिन्दुयुक्तेन वै सर्वं बिन्दुशेखरभूषितम् |
व्यञ्जनानि च सर्वं तु गम्यकं * * * * * * || ३४ ||

श्रुत्वा मात्रेण लभ्येत गुरुप्रसादात्तु लभ्यते |

  • * * * * * सूक्ष्म बाह्याभ्यन्तर संस्थितम् || ३५ ||

प्रासादं सकलं विद्या महेशश्चात्र दृश्यते |
सकलं निष्कलं सुप्तं सुषुप्तं तु सदाशिवम् || ३६ ||

प्रासादे बिन्दुदेवं तु * * * * * * * * |
बिन्दुं तु वै शिवं विद्यात् तुरीयं परिकीर्तितम् || ३७ ||

तदेव सर्वव्यापीनि निष्कलं निर्मलं शिवम् |
वाच्यवाचकरहितं हेयोपादेनशून्यकम् || ३८ ||

नित्यं सर्वगतं ब्रह्म स्वसंवेद्यं शिवं पदम् |
कारणं सर्वदेवानां अक्षरक्षरवर्जितम् || ३९ ||

आधारे चिन्तयेदैवं समाधिस्थस्य योगिनः |
सुसंवेद्यहितं ब्रह्म कुमारी स्त्रीसुखं सदा || ४० ||

अयोगी नैव जानाति जात्यन्धो हि यथा घटम् |
घटो नियतिनाकाशं तद्वज्जीवो नभोपमम् || ४१ ||

श्रोत्रं विना शृणोत्यन्यश्चक्षुर्नास्ति स पश्यति |
प्राणं विना स जीवेति त्वग्विना स्पर्शं तु विन्दति || ४२ ||

जिह्वां विना रसं विन्देत् वह्निना प्रलपन्ति च |
पाणिर्नास्ति सगृह्णाति पादो नास्ति स गच्छति || ४३ ||

वायुं विनापि चोत्सर्गं सर्वकालेषु वै गुह |
मेढ्रं विनापि चानन्दं सर्वमेव हि नित्यशः || ४४ ||

मनो नास्ति ससंकल्पे त्रैलोक्ये सचराचरम् |
अहंकारं विना वत्स अहंकृतः स्वयमेव च || ४५ ||

महानासि महत्त्वं च तस्थुषा रूपमव्ययम् |
प्रकृतिं विना महादेवो जगत्सर्वं प्रजायते || ४६ ||

पुर्यष्टकसमायुक्तं पुरुषो नास्ति चेष्टक |
चर * * * दे सर्वं जोषते भुञ्जतेऽपि च || ४७ ||

पिबते गृह्णते चैव पश्यते स्पृशतेऽपि च |
गच्छति स्वं नृत्यति च गायते प्लवतेऽपि सः || ४८ ||

त्रिलक्षाशीति साहस्रं ब्रह्मादिस्तम्भसंज्ञितम् |
ओत प्रोतेन वै वत्स परिपूर्णेन वै सदा || ४९ ||

शून्यं शून्येन भावेन इति त्वं भावयिष्यसि |
देहे शून्यपदं ध्यात्वा मोक्षयिष्यसि षण्मुख || ५० ||

ऊर्ध्वशून्यमधश्शून्यमध्यशून्यं निरामयम् |
खशून्यं शक्तिशून्यं च नास्तिशून्यं च वै गुह || ५१ ||

मातृशून्यं बिन्दुशून्यं महेशं च सदाशिवम् |
ब्रह्मा विष्णुश्च रुद्रश्च सर्वशून्यं च भावयेत् || ५२ ||

षट्त्रिंशत्तत्त्वशून्यं च आधाराधेयशून्यकम् |
त्वमहं शून्यमेवं हि सर्वां नास्तीति भावतः || ५३ ||

स्वयं वेद्यसमाधीना ग्राह्यो देवः शिवः परः |
निर्बीजमिदं समाधिर्दृश्यते तु षडानन || ५४ ||

मध्यदेहं परं ब्रह्म बाह्याभ्यन्तरसंस्थितः |
पुष्पेषु गन्धवन्नित्यं तिले तैलमिव स्थितम् || ५५ ||

दध्नो घृतमिव ज्योतिः काष्ठे वह्निरिव स्थितः |
गुरुवक्त्रप्रसादेन लभ्यते सर्वतोमुख || ५६ ||

इति कालोत्तरे धारणाविधिः षड्विंशतिः पटलः |

Kapitel 27 – Bhavayoga

|| श्रीः ||
ईश्वर उवाच-
भावयोगं प्रवक्ष्यामि * * योगं सुदुर्लभम् |
ध्यानं धारणरहितं जपहोमविवर्जितम् || १ ||

तिथिर्न राशिर्नक्षत्रं नियमो नोपवासकम् |
यस्य कालश्च स्थानं च आसनानि च षण्मुख || २ ||

धारणाप्रत्याहारं च कुलक्षादिविवर्जितम् |

  • * * * ञ्च तीर्थं च न स्नानं शौचमेव च || ३ ||

रेचकं पूरकं चैव कुम्भकं च विवर्जयेत् |
न वर्णं नवबीजं च सकलं निष्कलं न च || ४ ||

हृत्पीडा नावनाभिं च न श्रवोर्मध्य एव तु |
इडा च पिङ्गला चैव सुषुम्नाप्राणिरेव च || ५ ||

  • * * * * ति पद्य बाह्याभ्यन्तरसंस्थितम् |

अष्टाविंशत्कोटिरूपकूपे संचरते सदा || ६ ||

ब्रह्मादि स्तम्भ पर्यन्तं ते पार्थे सचराचरम् |
योगसूर्य * * * * * * * * * * * य || ७ ||

आधारे ग्रन्थिमूले तु व्योमव्यापि परं शिवम् |
ज्योतिरूपं परं तत्त्वमेतत्प्रोत व्यवस्थितम् || ८ ||

क्षेत्रज्ञं तत्र संवेश्य शिवक्षेत्रज्ञके क्षिपेत् |
अशरीरं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ९ ||

विद्युद्दामप्रतीकाशं अन्तस्थावोष्ठ एव च |
अकारादिक्षकारान्तं मन्त्रैः षोडशभिर्युतम् || १० ||

पृथक् पृथक् न्यसिक्त्वा तु सर्वबिन्दुसमन्वितम् |
अवश्यं पूर्वदले व्यस्य शेषान्वै क्रमशो न्यसेत् || ११ ||

पञ्चब्रह्म शिवाङ्गं च कणिकायां तु मध्यगम् |
हुतभुङ्मण्डलं वत्स त्रिकोणं यद्द्वितीयकम् || १२ ||

ज्वालामाला * * * * * * * * * * * * |
तस्य मध्ये सूर्यबिम्बं जपाकुसुमसन्निभम् || १३ ||

सान्तं बिन्दु समायुक्तं रजोगुणसमायुतम् |
किञ्चिद्धीनमग्निबिम्बात् सूर्यमण्डलमुत्तमम् || १४ ||

ल द्वितीयेन संयुक्तं बिन्दुशेखरभूषितम् |
सूर्यबिम्बाद्धीनधरं चन्द्रबिम्बमनुत्तमम् || १५ ||

पूर्णचन्द्रनिभं वत्स श्वेतपद्मोपरि न्यसेत् |
सत्वेन तु * * * * * * * * क विन्यसेत् || १६ ||

सत्त्वं रजस्तमश्चैव मण्डले मण्डले न्यसेत् |
मण्डलत्रयमध्ये तु पुरुषं पञ्च विंशकम् || १७ ||

अङ्गुष्ठमात्रं पुरुषं पुर्यष्टकसमायुतम् |
अङ्गुष्ठमात्रं सदृशं राजावर्त मणिप्रभम् || १८ ||

तस्य मध्ये महेशानं षड्विंशकमुदाहृतम् |
द्रुतचामीकरप्रख्यं हृद्बीजं तु त्रिरभ्यसेत् || १९ ||

सदाशिवं तस्य मध्ये तु प्रसादहृदयान्वितम् |
विद्युदर्कनिभाभासं सूक्ष्मरूपं तु चिन्तयेत् || २० ||

तस्य मध्ये परं देवं सदाशिवमनामयम् |
सप्तविंशकदेवं हि ध्यायेत्सततमीश्वरम् || २१ ||

तस्य मध्ये शिवं वत्स अष्टाविंशकमुत्तमम् |
सर्वज्ञं सर्वगं शान्तं योगिगम्यं परापरम् || २२ ||

कल्पनारहितं शान्तं निर्विकल्पं निरञ्जनम् |
ध्यानमात्रेण वै वत्स गच्छेन्मोक्षमनामयम् || २३ ||

तस्य वामे तु सततं विष्णुं ध्यायेत्सनातनम् |
चतुर्भुजं द्विनेत्रं च शङ्खचक्रगदाधरम् || २४ ||

सर्वलक्षणसंयुक्तं श्यामवर्णं किरीटिनम् |
वाग्भवं विष्णुरूपं तु ध्यायेन्नित्यं सयन्त्रितम् || २५ ||

विष्णुरूपमवाप्नोति अणिमाद्यष्टसाधनम् |
तस्य दक्षिणपार्श्वे तु चतुर्मुखं चतुर्भुजम् || २६ ||

पद्म किञ्जल्क सदृशं कृष्णाजिनधरं शुभम् |
कमण्डलुं चाक्षसूत्रं दधानं सृष्टिकारणम् || २७ ||

रजोगुणसमायुक्तं ब्रह्माणं लोककारणम् |
विष्णुं सत्त्वगुणोपेतं नारायणमनामयम् || २६ ||

तमोगुणसमायुक्तं संहारं रुद्रमेव हि |
ब्रह्माणं चिन्तयेद्वत्स सर्ववृत्तिनिरोधनात् || २९ ||

सृष्टिकर्ता भवेन्नित्य मणिमाद्यष्ट साधयेत् |
इन्द्रमग्निं यमं वरुणं सोमं गन्धर्वं तथा || ३० ||

ध्यायेद्वै पद्ममध्ये तु तत्तत्फलमाप्नुयात् |
पूरकं कुम्भकं चैव सर्ववृत्तिनिरोधनम् || ३१ ||

रेचकं वर्धयेद्विद्वान् निर्वाण स्पर्शजीर्णकम् |
चक्रवर्ती चाष्टमूर्ति रुद्रैकादश एव च || ३२ ||

आदित्यान् वसवश्चैव गणेशान् सर्व एव च |
ध्यायेद्रव्यग्रमनसा तत्तत्पदमवाप्नुयात् || ३३ ||

समाधिमार्गं वक्ष्यामि तच्छृणुष्व हि षण्मुख |
तदर्धमात्रं निर्हासं रूपशून्यं तु भावयेत् || ३४ ||

प्राकृतं भावमुत्सृज्य शिवमेवं तु भावयेत् |
अथवा समरसीभावं समाधिस्तेन चोच्यते || ३५ ||

आत्ममध्ये शिवं कुर्यात् शिवमध्ये चात्ममेव तु |
सदाशिवमहं भूत्वा न किञ्चिदपि चिन्तयेत् || ३६ ||

सूक्ष्मं सर्वगतं ब्रह्ममानन्दमचलं ध्रुवम् |
तिर्यग्गतं परं तत्त्वमहमेव तु तद्भवेत् || ३७ ||

रेचकं पूरकं त्यज्य कुम्भकं तु समभ्यसेत् |
मध्ये चैव तु वै वत्स साक्षाच्छिवमनामयम् || ३८ ||

दृष्टं मृश्यत्वं भावं तु परम * * * स्सदा |
जाग्रत्स्वप्नविहीनं तु सुषुप्तं च विवर्जयेत् || ३९ ||

ज्योतीरूपं परं दिव्यं प्रलयानलवर्चसम् |
शिवाकाशं परं सूक्ष्मं सर्वज्ञं सर्वतोमुखम् || ४० ||

गुह्यं पवित्रमग्राह्यमानन्दमचलं ध्रुवम् |
गुहाशयमनादिं च सर्वद्वन्द्वविवर्जितम् || ४१ ||

एकं विभुं कारणमप्रमेयमचिन्त्यकम् |
सूक्ष्मं शिवं कारणमप्रतर्क्यमनामयम् || ४२ ||

क मध्ये कुरु चात्मानमात्मा मध्ये तु खं कुरु |
अशरीरात्मकः कृत्वा न किञ्चिदपि चिन्तयेत् || ४३ ||

एतद्रहस्यमाख्यातं मृत्युनाशनमुत्तमम् |
सरोरुहमध्ये तु सूर्यकोटिसमप्रभम् || ४४ ||

कदम्बगोलकाकारं विद्या वि * * * शुभे |
तत् वै मध्ये तु चात्मानं कुरु नित्यं षडानन || ४५ ||

आत्ममध्ये तु खं कुर्यात् न किञ्चिदपि चिन्तयेत् |
एष मृत्युञ्जयो योगः समरसीभावमाश्रितः || ४६ ||

कण्ठकूपे परस्थानं क्षुत्तृष्णानाशनं परम् |
तालुरन्ध्रे परं ज्ञानं विद्युत्पावक स प्रभम् || ४७ ||

कदम्बगोलके वत्स व्योमशक्ति स्वमीश्वरम् |
गुणसंख्या स्मरेन्नित्यं मृत्युनाशनमुत्तमम् || ४८ ||

कोदण्डमध्ये नित्यं हि मण्डलत्रय मध्यगे |
भुवनानि सप्त तत्रैव प्रक्षिप्य शिवमध्यगे || ४९ ||

तन्मध्ये कुरु चात्मानं नात्ममध्ये ततः कुरु |
चक्षुषे दृश्यते योगस्सप्तलोकान् समुच्छ्रयः || ५० ||

सर्वज्ञत्वामवाप्नोति समरसी भावयोगतः |
ब्रह्मरन्ध्रे तु मेधावी भू संख्यां तु विमिश्रयेत् || ५१ ||

व्योमशक्तिं न्यसेत्तत्र कदम्बगोलं तु तत्र तु |
तन्मध्ये शिवरूपं तु स्फुरत्सौदामिनीप्रभम् || ५२ ||

प्रेङ्खन्यह्नि निभे वत्स शुद्धं मरतकप्रभम् |
तत्र कृत्वा तु चात्मानं षट्कौशिके तु विग्रहे || ५३ ||

परं ब्रह्मत्वमाप्नोति समरसीभावयोगतः |
इत्थं भूसंख्यमासे तु वत्सरत्रयभावनात् || ५४ ||

बलीफलितनाशं च मृत्युवञ्चनमेव च |
तस्योर्ध्वे चतुरङ्गुल्ये रश्मिसंज्ञा तु गोलके || ५५ ||

व्योमशक्तिस्थमध्ये तु सूक्ष्मस्फटिकसन्निभम् |
अमृतं चिन्तयेत्प्राज्ञः अनन्तश्चाक्षयोः शिवम् || ५६ ||

तन्मध्ये कुरु चात्मानं आत्ममध्ये तु तं कुरु |
अशरीरं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ५७ ||

समरसीभावयोगेन मृत्युवञ्चनमुत्तमम् |
ज्योत्स्नासंख्याकलक्षेत्र * कदम्बस्य गोलके || ५८ ||

व्योमशक्तिं न्यसेत्तत्र शक्तिमध्ये शिवं न्यसेत् |
शिवमध्ये कुरु चात्मानं शिवमात्मान्वितम् कुरु || ५९ ||

चन्द्रोकोटिसमप्रख्यं समरसीभावयोगतः |
षण्मासाभ्यासयोगेन मृत्युनाशनमुत्तमम् || ६० ||

प्रभुशक्तिं गोलमध्ये तु व्योमशक्तिं तु निक्षिपेत् |
तन्मध्ये तु परं ब्रह्म शिवं परमनायकम् || ६१ ||

तन्मध्ये कुरु चात्मानं आत्ममध्ये तु तं कुरु |
अशरीरं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ६२ ||

समरसीभावयोगेन लक्ष्मीं जीवेन्न संशयः |
नादं महेश्वरं तत्त्वं गोलकं परमं पदम् || ६३ ||

ज्ञानशक्तिं न्यसेत्तत्र तन्मध्ये तु शिवं क्षिपेत् |
तन्मध्ये कुरु चात्मानं आत्ममध्ये तु तं कुरु || ६४ ||

समरसी भावयोगेन प्लावयेदमृतमुत्तमम् |
कोटिलक्षं स जीवेत शिवेन परिभाषितम् || ६५ ||

सुषुम्नाग्राप्त विज्ञानं एकैकं चतुरङ्गुलम् |
सप्तमं परमं तत्त्वं शिवं परमनायकम् || ६६ ||

नित्यं सव्यगतं शून्यं निर्विकल्पं निरञ्जनम् |
सव्याश्रयमचिन्त्यं च सर्वज्ञं सर्वतोमुखम् || ६७ ||

योगिगम्यं निरालम्बं सूर्यकोटिसमप्रभम् |
प्रभुशक्ति ज्ञानशक्तिं च विद्याशक्तिनिरामयम् || ६८ ||

व्योमशक्तिं परं ज्ञानं * * नीति प्रकीर्तितम् |
तेषां मध्ये शिवं सूक्ष्मं सर्वकारणकारणम् || ६९ ||

तन्मध्ये कुरुचात्मानं तदात्मनि सदा कुरु |
अशरीरं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ७० ||

समरसी भावयोगेन सर्वमृत्युविनाशनम् |
महाप्रलयसहस्रं तु स जीवति न संशयः || ७१ ||

आधारे चिन्तयेदेवं शुद्धमाणिक्कसन्निभम् |
नाभेरधस्तात्प्रादेशं मध्ये देशं प्रकीर्तितम् || ७२ ||

फलकाद्वयमध्ये तु वृषवह्निं तु मस्तके |
ऊरुद्वयात्तु चोर्ध्वे तु तुटीभट्टीभवादयः || ७३ ||

चतुरङ्गुलमात्रं तु मध्यदेहमुदाहृतम् |
चतुश्शक्तिं न्यसेत्तत्र मध्ये शिवं क्षिपेत् || ७४ ||

अशरीरं मनः कृत्वा न किञ्चिदपि चिन्तयेत् |
समरसीभावयोगेन अभ्यसेत्सततं सुखी || ७५ ||

तस्य मृयुर्न विद्येत्प्रयुतकल्पं स जीवति |

इति कालोत्तरे द्वादशसहस्रसंहितायां सप्तविंशतिः पटलः || २७ ||

Kapitel 28 – Der Mantra-Weg

|| श्रीः ||
ईश्वर उवाच-
षडध्वानं प्रवक्ष्यामि तत्त्वतः शृणु षण्मुख |
मन्त्राध्वा च पदाध्वा च तत्त्वाध्वा भुवनात्मकम् || १ ||

वर्णाध्वा च कलाध्वा च विंशत्येकं शिवं पदम् |
मन्त्राध्वानं पृथक्चैव सांप्रतं शृणु षण्मुख || २ ||

सप्तकोटिसहस्राणि कोटिलक्षं तथैव च |
नियुतानि चतुष्षष्टी वामदेवाद्बहिर्गताः || ३ ||

चत्वारिंशत्तु कोटिस्तु सहस्राणि तथैव च |
त्रिकोटिलक्षं वै वत्स अघोराच्च विनिर्गतः || ४ ||

अशीतिकोटिसहस्राणि चतस्रः कोटिलक्षकम् |
तत्पुरुषाद्विनिष्क्रान्तं मन्त्रभेदं ततः शृणु || ५ ||

कल्पकोटिसहस्राणि कल्पकोटिशतानि च |
ईशानस्य मुखाज्जातमन * * * जातकम् || ६ ||

विचार्यमाणे यत्नेन परिसंख्या न विद्यते |
अनन्तेशस्य मन्त्रस्तु अयुतं परिकीर्तितम् || ७ ||

सूक्ष्मस्य चायुतं मन्त्रं शिवोत्तमे त्रियायुतम् |
एकनेत्रे चतुरयुतं एकरुद्रं तु पञ्चमम् || ८ ||

अमूर्तं षडयुतं विद्यात् श्रीकण्ठं सप्तायुतं भवेत् |
शिखण्ड्ययशीत्ययुतं च चक्रवर्तीस्तु मन्त्रकान् || ९ ||

महेश्वरस्य मन्त्राणि शतलक्षं प्रकीर्तितम् |
अष्टमूर्तेस्तु मन्त्राणि पृथक्लक्षं षडष्टकम् || १० ||

रुद्रैकादशमन्त्राणि पृथक् लक्षत्रयं भवेत् |
आदित्या द्वादशलक्षं तु वसूनामष्टलक्षकम् || ११ ||

गणेश्वरादिमष्टौ च पृथगेवार्धलक्षकम् |
दश वै लोकपालानां अयुतत्रयमेव च || १२ ||

अस्त्राणां तु तदर्धं स्यात् गन्धर्वादितदर्धकम् |
सिद्धचारणयक्षाद्यैस्तदर्धं परिकीर्तितम् || १३ ||

गारुडा विद्याधराश्चैव किन्नराप्सरसो गणाः |
ऋषयः पितृभूतानि तदर्धं परिकीर्तितम् || १४ ||

नागाश्च पन्नगाश्चैव * * * परिचक्षते |
असुरा राक्षसाश्चैव यातुधानाः पिशाचकाः || १५ ||

कूश्माण्डभूतवेतालास्तदर्धं परिकीर्तितम् |
एवं संक्षेपतः प्रोक्तं मन्त्रजालं षडानन || १६ ||

सर्वमन्त्राणि तन्त्राणि वेदशास्त्राणि सर्वशः |
प्रासादसंभवाः सर्वे वाङ्मयं च चराचरम् || १७ ||

पञ्चब्रह्मशिवाङ्गानि व्योमव्यापिन्तथैव च |
प्रबोध हृदिमन्त्रश्च सहस्राक्षरदेवताः || १८ ||

अयुताक्षरदेवश्च नियुताक्षरमेव तु |
नादमुख्यं प्रसादं च क्षुरिकं पाशुपतास्त्रकम् || १९ ||

चक्रवर्त्याष्टमन्त्रश्च अष्टमूर्त्यष्टमन्त्रकम् |
रुद्रैकादशमन्त्रश्च आदित्यवस्तुमन्त्रकाः || २० ||

गणेशाष्टकमन्त्रस्तु गन्धार्वाद्याश्च मन्त्रकाः |
सप्तमातृगणा मन्त्राः तत्तन्मन्त्रेषु चोद्धृताः || २१ ||

मन्त्रोद्धारेषु कथितं मन्त्रकोशं समासतः |
ईशानमुखनिष्क्रान्तं मन्त्रजालं सुदुर्लभम् || २२ ||

व्योमव्यापि समुद्भूताः पूर्वोक्ता कथिता गुह |
एकाशीति पदं ह्येतत् मन्त्रराजं त्वनुत्तमम् || २३ ||

त्रिशतं षष्ट्यधिकाक्षरं व्योमव्यापीति संज्ञितम् |
सहस्राक्षरदेवं तु वामदेवाद्विनिर्गतम् || २४ ||

वदत्रिंशत्सहस्रपदं मन्त्रराजं प्रकीर्तितम् |
सर्ववश्यकरं मन्त्रं नवग्रन्थेषु पूजितम् || २५ ||

अयुताक्षरदेवं तु तत्पुरुषाच्च विनिर्गमम् |
लक्षत्रयं विनिर्दिष्टं त्रिसहस्रपदं भवेत् || २६ ||

यामले मातृतन्त्रे च भूततन्त्रे च गारुडे |
सप्तभैरवतन्त्रे च चतुष्षष्टिगुलतन्त्रके || २७ ||

पूजितं तन्महातन्त्रे मन्त्रराजमनुत्तमम् |
ईशानस्य तु मन्त्राणि कर्मयोग्यं वदाम्यहम् || २८ ||

(ओं) ओं व्योमव्यापिने व्योमरूपाय | सर्वव्यापिने शिवाय | अनन्ताय | अनाथाय | अनाश्रिताय | ध्रुवाय |

शाश्वताय योगपीठसमाश्रिताय | नित्यं योगिने | ध्यानहाराय | ओं नमश्शिवाय | सर्वप्रभवे |
ईशानमूर्ध्नाय | तत्पुरुषवक्त्राय |

अघोरहृदयाय | वामदेवगुह्याय सद्योजातमूर्तये | ओं नमो नमः | गुह्याति गुह्याय | गोत्रे | अनिधनाय | सर्वयोगाधिकृताय | ज्योतिरूपाय | परमेश्वरपराय | अचेतनाचेतन | व्योमिन् व्योमिन् | व्यापिन् व्यापिन् | अरूपिन् अरूपिन् | प्रथम प्रथम | तेजस्तेज | ज्योति ज्योति | अरूप | अनग्ने | अधूम | अभस्म | अनादे | नाना नाना | धू धू धू धू | ओं भूमणि कारयेत् |
तत्पुरुषं महामन्त्रं सर्वपापहरं परम् |
सहस्राक्षरदेवस्तु जातं तत्पुरुषं महत् || २९ ||

नैवेद्यं धूपदीपं च सान्निध्याच्चैव कारयेत् |
रुद्रगायत्रीमन्त्रोऽयं महापातकनाशनम् || ३० ||

इष्टसिद्धिमवाप्नोति जपहोमार्चनादिभिः |
तत्पुरुषाय विद्महे महादेवाय धीमहि | तन्नोरुद्रः प्रचोदयात् | तत्पुरुषमेव हि || ३१ ||

सहस्रं वा तदर्धं वा अष्टोष्टतशतं तु वा |
त्रिसन्ध्यायां जपेद्वत्स सर्वपापक्षयो भवेत् || ३२ ||

अयुताक्षरदेवात् तु अघोरमन्त्रं विनिर्गतम् |
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च |
सर्वतश्शर्व सर्वेभ्यो नमस्ते अस्तु विश्वरूपेभ्यः || ३३ ||

स्नापनं तु महादेव अघोरेण निरोधयेत् |
कर्णिका कटकं चैव केयूरोदरबन्धनैः || ३४ ||

छिन्नवीरं चोपवीतं च दिव्यगन्धाङ्गराहकम् |
अघोरेण प्रदातव्यं सर्वकर्माणि बुद्धिमान् || ३५ ||

विषयुक्तं भोजनं च विविधाविषमेव च |
आभिचारादिकर्माणि जपादेव प्रमुच्यते || ३६ ||

अन्यजस्पर्शनानां तु अन्यभाण्डस्थितं जलम् |
अघोरमष्टोत्तरं जप्त्वा सद्य एव प्रमुच्यते || ३७ ||

नियुताक्षरदेवात् तु वाग्देवाद्विनिर्गतम् |
शिवस्थापनमन्त्रं तु सप्तमन्त्रप्रधानकम् || ३८ ||

शिवस्सदाशिवो रुद्रविद्येश्वराष्टमूर्तिभिः |
रुद्रैकादशकान् सर्वे वामदेवेन स्थापयेत् || ३९ ||

मेखलाकटिसूत्रं च वस्त्रं वै सर्वरत्नकम् |
शक्तिकर्माणि सर्वं तु वश्याद्याकर्षणादिकम् || ४० ||

वामदेवेन तत्सर्वं कारयेद्वै षडानन |
वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः | कालाय नमः | कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः | सर्वभूतदमनाय नमो मनोन्मनाय नमः || ४१ ||

वामदेवमयं मन्त्रं शान्तिकं पौष्टिकं कुरु |
सर्वमन्त्राधिकं वत्स गृहप्रवेशे जपेद्गुह || ४२ ||

अर्घ्यदाक्षरदेवात् तु सद्योजातं विनिर्गतम् |
आवाहनादिकं कर्म सर्वमङ्गलमेव च || ४३ ||

भूमिप्रवेशने चैव गृहप्रासादगोपुरे |
सर्वाभरणभूषेण कृषिः काले तु वै जपेत् || ४४ ||

भोजने स्नानकाले च सन्ध्योपासनं एव च |
पितृकार्येषु सर्वेषु सद्योजातं जपेन्नरः || ४५ ||

सद्यः कलाभिरष्टाभिः वामदेवं त्रयोदश |
अघोरं अष्टकला वत्स पुरुषं तु चतुःकलाः || ४६ ||

ईशानस्य कलाः पञ्च अष्टत्रिंशत्कलामयम् |
सर्वमन्त्राणि वै वत्स पुरुषं तु चतुष्कलाः || ४७ ||

प्रासादे सर्वसंभवम् |
दीक्षाकाले तु मन्त्रज्ञः सर्वमन्त्राणि शोधयेत् |
प्रतिष्ठाकाले सर्वमन्त्रान् योजयेत्सुसमाहितः || ४८ ||

इति कालोत्तरे मन्त्राध्वापटलोऽष्टाविंशतितमः || २८ ||

Kapitel 29 – Der Wort-Weg

|| श्रीः ||
ईश्वर उवाच-
पदाध्वानं प्रवक्ष्यामि ज्ञात्वा मोक्षं यदाप्नुयात् |
लक्षकोटिसहस्रं तु शिवपदं संप्रकीर्तितम् || १ ||

तत्पदेषु विनिष्क्रान्तं अष्टोत्तरशतं पुनः |
तत्पदेषु विनिष्कान्ते पदैः षट्त्रिंशदुच्यते || २ ||

तत्पदेषु विनिष्क्रान्तं ईशानं तु हि पञ्चकम् |
शोधयेन्मूर्ध्नि देहे च शिवं गच्छेदनामयम् || ३ ||

सदाशिवपदं वत्स शतलक्षं प्रकीर्तितम् |
तत्पदेषु विनिष्क्रान्तं षण्णवतीति प्रकीर्तितम् || ४ ||

तस्माच्चतुष्पदं वत्स तत्पुरुषस्य प्रकीर्तितम् |
चतुष्पदेषु संशोध्य गच्छेच्छिवमनामयम् || ५ ||

अघोरस्य पदं वत्स पञ्चशल्लक्षमेव च |
तत्पदेषु विनिष्क्रान्तं एकाशीतिप्रकीर्तितम् || ६ ||

तत्पदेषु विनिष्क्रान्तमघोराष्टपदं भवेत् |
तत्पदं क्रमशः शोध्य गच्छेच्छिवमनामयम् || ७ ||

महेश्वरपदाज्जातं लक्षं वै पञ्चविंशतिः |
तत्पदेषु विनिष्क्रान्तं मन्त्रं दशपदं पुनः || ८ ||

शोधयेत्क्रमशो वत्स वामदेवपदं पुनः |
त्रयोदशपदं शोध्य गच्छेच्छिवमनामयम् || ९ ||

लक्षद्वादशसंजातमष्टविद्येश्वरास्तु वै |
तत्पदेषु विनिष्क्रान्तं द्वात्रिंशत्पदमुच्यते || १० ||

तत्पदेषु विनिष्क्रान्तमष्टौ वै सद्यतो गुह |
सद्योजातपदं चाष्टौ शोधयित्वा पदं व्रजेत् || ११ ||

लक्षं वै चाष्टमूर्तिस्तु पदाग्रैव विनिर्गताः |
तत्पदेषु विनिष्क्रान्तं हृदयादिषडङ्गतः || १२ ||

हृदयं च शिरश्चैव शिखाकवचमेव च |
नेत्रमस्त्रं च विज्ञेयं शोधयित्वा शिवं व्रजेत् || १३ ||

रुद्रैकादशसंभूताः पदे लक्षत्रयं विदुः |
तत्पदेषु विनिष्क्रान्तं बीजमुख्यत्रयं विदुः || १४ ||

त्रैलोक्यबीजमाख्यातं भूर्भुवः सुवरेव च |
बीजत्रयं समाशोध्य गच्छेच्छिवमनामयम् || १५ ||

द्वादशादित्यसंजातं पदं लक्षदशं भवेत् |
तत्पदेषु विनिष्क्रान्तमिह पाशुपतास्त्रकम् || १६ ||

पाशुपतं क्रमाच्छोध्य गच्छेच्छिवमनामयम् |
वसवश्चाष्टसंभूताः पदलक्षं प्रकीर्तितम् || १७ ||

तत्पदेषु विनिष्क्रान्तं * * * * * * * * |
क्षुरिकाबीजं संशोध्य गच्छेच्छिवमनामयम् || १८ ||

गणेशाष्टकसंजातं पदलक्षाधिकं भवेत् |
तत्पदेषु विनिष्क्रान्तं हृल्लेखापदमन्त्रकम् || १९ ||

आदौ माया समुद्दिष्टं सर्ववश्यकरं परम् |
सप्तमातृगणाज्जातं चतुष्षष्टिसहस्रकम् || २० ||

महासंमोहनं मन्त्रं महामाया परापरा |
हृल्लेखां शोधयित्वा तु गच्छेच्छिवमनामयम् || २१ ||

अयुतत्रयं ब्रह्मपदं सृष्टिरूपं प्रकीर्तितम् |
तत्पदेषु समुद्भूतमघोरास्त्रं सुदुर्लभम् || २२ ||

स्थितिरूपं विष्णुरूपं सृष्टिरूपं पितामहः |
संहाररूपरुद्रस्तु कालाग्निरिति संज्ञितम् || २३ ||

रजोगुणं ब्रह्मरूपं सात्त्वं गुणं तु वैष्णवम् |
रुद्रस्तमोगुणः प्रोक्तः त्रिगुणः संप्रकीर्तितः || २४ ||

गुणत्रयमतीतं तु शिवं परमकारणम् |
सर्वे वेदाश्च शास्त्राणि विद्यास्थानं चतुर्दश || २५ ||

चतुष्षष्टिकलाश्चैव षट्तन्त्रं योगशास्त्रकम् |
सिद्धान्ततन्त्रमाप्तं च प्रणवेन तु निर्गुणः || २६ ||

तत्प्रणवं शिवेजातं वाङ्मयं सचराचरम् |
प्रासादं प्रणवं चैव शोधयेद्विधिपूर्वकम् || २७ ||

प्रणवं संशोध्य पश्चात् प्रश्चात्प्रासादशोधनम् |
द्वौ बीजौ शोधमानेन गच्छेच्छिवामनामयम् || २८ ||

जाग्रत्स्वप्नं तु प्रणवं प्रासादं सुषुप्तं तुरीयकम् |
जाग्रत्स्वप्नं तु ब्रह्मा स्यात् सुषुप्तिर्विष्णुरुच्यते || २९ ||

तुरीयं ब्रह्मपदं विद्यात् अवस्थाश्चत्वार एव च |
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ३० ||

पञ्चधा पञ्चदैवत्यं * * वं परिपठ्यते |
ब्रह्मणो हृदयं स्थानं कण्ठे विष्णुः प्रकीर्तितः || ३१ ||

तालुमध्ये स्थितो रुद्रो ललाटे तु सदाशिवः |
नासाग्रे तु शिवं विद्यात् तस्मात्तेन परात्परम् || ३२ ||

परात्परतरं नास्ति इति शास्त्रस्य निश्चयः |
त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च || ३३ ||

अर्धमात्रपरं सूक्ष्मं तस्यार्धं तु परं परम् |
एता एव त्रयो लोकाः त्रयोदेवास्त्रयोऽग्नयः || ३४ ||

त्रिगुणं च त्रिवर्गं च त्रिसन्ध्यं च त्रिमण्डलम् |
सवनत्रयं च शक्तिश्च आत्मत्रितयमेव च || ३५ ||

  • * करयात्रियवैर्याद्दान्यत्संगतं त्रयम् |

भूलोकश्च भुवर्लोकः स्वर्गो लोकस्त्रिधा भवेत् || ३६ ||

ब्रह्मा विष्णुर्महेशश्चत्रयो देवाः प्रकीर्तिताः |
आहवनीयं गार्हपत्यं दक्षिणाग्नित्रयं भवेत् || ३७ ||

सत्त्वं रजस्तमश्चैव त्रिगुणाः परिकीर्तिताः |
धर्मार्थौ चार्थकामौ च त्रिवर्गाः परिकीर्तिताः || ३८ ||

प्रातर्मध्याह्नसायं च त्रिसन्ध्यं परिकीर्तितम् |
अग्निमण्डलं प्रथमं द्वितीयं सूर्यमण्डलम् || ३९ ||

तृतीयं चन्द्रमण्डलं च मण्डलत्रयमुच्यते |
प्रातस्सवनमध्याह्नं तृतीयं सवनत्रयम् || ४० ||

प्रभुशक्तिः ज्ञानशक्तिः शिवशक्तिस्त्रयं भवेत् |
आत्मा चैवान्तरात्मा च परमात्मत्रयं भवेत् || ४१ ||

महानहंकारो मनश्चान्तः क्ररणत्रयं विदुः |
एतत्त्रयं समस्तश्च प्रासादश्च विनिर्गतम् || ४२ ||

संशोधयेत्क्रमाद्वत्स शिवां गच्छेदना मयम् |
गन्धर्वाः सिद्धविद्याधरा यक्षश्चाप्सर(स)स्तथा || ४३ ||

किन्नराः गरुडाः सर्वे नागाः सर्पाश्च पन्नगाः |
असुरा राक्षसाश्चैव यातुधानाः पिशाचकाः || ४४ ||

सर्वैश्चेक पदात् वत्स क्रमशः परिशोधयेत् |
एतेषां सम्यक् शोधयेत् शिवाङ्गचोदनामयाम् || ४५ ||

ऋषयः प्रमदा योज्याः पदैः षोडशसंस्थितम् |
क्रमाद्वै एकहीनास्तु पिशाचान्ताः प्रकीर्तिताः || ४६ ||

शिवादिपिशाचपर्यन्तं पदाध्वा परिकीर्तितः |
दीक्षाकाले तु शिष्यस्य देहे संरोधयेद्गुह || ४७ ||

इति कालोत्तरे पञ्चाध्वापटलः एकोनविंशतितमः || २९ ||

Kapitel 30 – Der Tattva-Weg

|| श्रीः ||
ईश्वर उवाच-
तत्त्वाध्वानं प्रवक्ष्यामि येन मोक्षोदयं भवेत् |
शिवं पदमवाप्नोति सम्यक् ज्ञात्वा विचक्षणः || १ ||

पृथिव्यापस्तथा तेजो वायुराकाशमेव हि |
श्रोत्रं त्वक्चक्षुर्जिह्वा च घ्राणं चैव तु पञ्चमः || २ ||

वाक्पादपाणिपायुश्च उपस्थं चैव पञ्चमम् |
शब्दस्पर्शश्च रूपं च रसोगन्धश्च पञ्चमः || ३ ||

मनोबुद्धिरहंकारः प्रकृतिः पुरुषस्तथा |
रागोविद्या कमला माया नियतिर्वृद्धिग्रहेश्वरः || ४ ||

कलाशुद्धिकलाश्चैव शुद्धविद्या शु तथैव च |
महेशस्सदाशिवश्चैव षट्त्रिंशत्तत्त्वमेव च || ५ ||

पृथ्वी पञ्चगुणा ज्ञेया आपश्चैव चतुर्गुणाः |
त्रिगुणोग्निरविज्ञेयो वायुर्द्विगुण उच्यते || ६ ||

आकाशं चैकगुणं गुणास्तत्परिकीर्तिताः |
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः || ७ ||

धारणे पृथिवी ज्ञेया आपः पिण्डीकरे गुह |
तेजो वै पाचनं ज्ञेयं व्यूहनं वायुरुच्यते || ८ ||

आकाशमवकाशं तु कार्यमेतत्प्रकीर्तितम् |
श्रोत्रं शृणोति वै वत्स त्वक्चैव स्पर्शनं भवेत् || ९ ||

चक्षुर्दृश्यत्वमेवं हि जिह्वा चैव रसं विदुः |
घ्राणं गन्धं विजानीयाद्विषयाः परिकीर्तिताः || १० ||

वाक्कायविनियोगं तु कर्ता वाणी प्रकीर्तिताः |
पादाभ्यां चैव गच्छन्ति पायुरुत्सर्गमेव हि || ११ ||

उपस्थमानन्दमाप्नोति कर्मेन्द्रियमिति च वै |
शब्दो ध्वनिर्विजानीयात् आकाशात्तु प्रजायते || १२ ||

स्पर्शतन्मात्रवायुश्च रूपतन्मात्रकोऽनलः |
शीततन्मात्रकश्चापस्सर्वलोकस्य जीवनम् || १३ ||

गन्धतन्मात्रा पृथिवी उत्पन्नं हि षडानन |
यत्कठिनं तत्पृथिवी यद्द्रवं सलिलं हि तत् || १४ ||

यदुष्णं तेज इत्युक्तं संचरं वायुरुच्यते |
यत्सुषिरं तदाकाशं देवाधारः प्रकीर्तितः || १५ ||

हरतश्चाप्यहंकारमहङ्कारान्मनो भवेत् |
प्रकृतेर्महान् समुत्पन्नः पुरुषात्प्रकृतिर्भवेत् || १६ ||

पञ्चविंशति तत्त्वं तु संख्यास्य दर्शनं विदुः |
षड्विंशक विष्णु * * * * * * * * * * || १७ ||

हैरण्यगर्भयोगे तु सप्तविंशतिरुच्यते |
रागो माया च विद्या च कञ्चुकत्रयमुच्यते || १८ ||

प्रभुशक्तेः समुत्पन्ना नानाविद्यादिकञ्चुकाम् |
काला नियतिर्विग्रहेशो ज्ञानशक्तेः समुद्भवाः || १९ ||

कालश्च शुद्धविद्या च शुद्धकालास्त्रिकञ्चुकाः |
शिवशक्तेः समुत्पन्नाः सर्वलोकस्य मोहकाः || २० ||

महेशात् शक्तित्रयं जातं शिवं सदाशिवोद्भवम् |
शिवस्य प्रलयेत्वस्ति न जातं वै षडानन || २१ ||

पञ्चत्रिंशति तत्त्वात्तु शिवतत्त्वाद्विनिर्गताः |
तत्रैव तु स्थितिर्विद्धि तत्रैव तु लयं भवेत् || २२ ||

सृष्टिर्वै ब्रह्मरूपेण शक्तिर्वै विष्णुना भवेत् |
अहं संहारमेकं तु गुणत्रयसमन्वितः || २३ ||

रजोगुणेन सृष्टिस्तु सत्त्वेनैव स्थितिर्भवेत् |
तमःसंहार एवं तु मया सर्वं प्रकीर्तितम् || २४ ||

दीक्षाकाले महासेन तत्त्वानि विनिवेशयेत् |
मूर्ध्या(र्धा)दिपादपर्यन्तं शिष्यदेहे तु योजयेत् || २५ ||

शोधयेत्क्रमशो वत्स पादादिमूर्ध्नि चान्तकम् |
प्रतिष्ठाकाले लिङ्गस्य योजयेद्विधिपूर्वकम् || २६ ||

महाभिषेककलशे विन्यसेद्विधिपूर्वकम् |
अभाग्ये विन्यसेद्धीमान् सौभाग्यमतुलं भवेत् || २७ ||

कन्या सत्पतिमाप्नोति पुत्रपौत्रमवाप्नुयात् |
षडध्यानं न्यसेत्कुम्भे स्नानं कुर्यात्षडानन || २८ ||

वन्ध्यापि लभते पुत्रं सौभाग्यमतुलं भवेत् |

इति कालोत्तरे द्वादशसहस्रसंहितायां तत्त्वाध्वपटलः त्रिंशतितमः || ३० ||

Kapitel 31 – Welten und kosmische Hüllen

|| श्रीः ||
ईश्वर उवाच-
कालाग्निरुद्रादि सदाशिवान्ते
क्षेत्रज्ञरुद्रप्रवरे कुलोऽस्मिन् |
मार्गे च यावत्प्रकरोति शक्ति-
र्भावाभवौ वा तु हिना परस्यः || १ ||

संसारगेह स्थिति सर्ववास्तु-
यथाम्यहं दर्शनयोग्यमेकम् |
ज्योतिं नमस्कृत्य जगल्ललामं
लपामि तत्प्रावरणोपमार्गम् || २ ||

कालाग्निर्नलया पलानि धरणी लोकात्परं शाङ्करं
रुद्राः पञ्चपदाष्टकानि विहिता मुख्यानि यामान्यपि |
सत्कार्यं करणं गुणस्वपुरुषो रागश्च विद्याकला
ये चान्यानि यतिस्सकालगणयन्मायाप्रबुद्धः शिवः || ३ ||

अयमिव सूत्रश्लोकः | अस्याः व्याख्यायते |
अस्ति सकलजगदुदयसमाप्तिहेतोः सरसीरुह जन्मनो ब्रह्मणः सन्तत चतुष्षष्टिकोटि योजनगतिपराशिवरजतकनकमयपरावरभागं योजनसहस्रलक्ष बहलकाटा-हगोलकाकारमण्डलान्तस्योर्ध्व भागसन्निविष्टानेक शतसहस्ररुद्रपरिवार-शोभितनिखिललोकसंहारकारणोर्ध्व ज्वजज्वलन ज्वालाकलापकबलितनभोभागस्य भगवतः कालाग्निरुद्रस्य निरतिशय भोगप्रचारफणीयस्थानमस्मिन् परमात्मत्रिकोटियोजनपरिमितं तस्य संख्यापरिच्छिन्नं समन्ततो

  • * न्धकारगहनं | अतः परतो द्विजानिहनन सुरोपयोगगुरुशयनारोहणकनकापहार भृतिदुरितकरणसाहसीकृतचेतसां तत्फलसेवनाद्यर्थार्थननामभेदभाजाम्

इन्द्रनीलगिरिशिलास्तम्भनिर्मितैरिव नीलमहाकायैरतिनिष्ठुरवचन भर्त्सनजनित भ्रुविभुगुरुललाटैश्चन्द्रकलाकारे दंष्ट्राख्यात पानस्थलैः प्रलयकालहुतवह शिखाकलापकुटिलकेशनाशैः पृथुतरवक्षस्थल प्रलम्बमानशिरोदामभिश्चरणदेशशिञ्चत्किङ्किणीभिर्नामभिः हरिकरिगजघनचरणैरतिनिशितलोभघण्टाघण्टितदण्डमण्डीनवामेत्तर-बाहुभिः | पृष्ठप्रेङ्खद्यमपाशवलयैरनिकेतेरैस्सकलभुवन प्राणापहार-व्यापारनिरतैः यैः पुरुषैः बाध्यमानानां चेतनविशेषाणां यातनास्थानानि द्वात्रिंशत्संख्यापरिज्ञातानि धरामधस्तच्चापि चक्रनियमद्वयवैतरणीकूटशाल्मली(नी?) यमलगिरिनिश्वासपूतिमांसद्रवन्नपुतप्तजतु पङ्कजैपास्तिति भागकृकच्छेदमोदोऽसृक्पूयहृदा तीक्ष्णायसखण्डशकुन्यङ्गार राशिमवलाम्बरीषकुम्भीपाकासितालद्रुमगहनक्षुरधारापर्वतपनसूची-मुखकालसूत्र महापद्मसंजीवनयोरुष्णशीततमो महारौरवनामानि | अत्रान्धकारगहनाद्योजनकोटयो वीचिः | अस्य सप्त नरका परिवाराः | अतः परं प्रत्येकं त्रिंशद्योजनलक्षसंख्यापरिच्छिन्न प्रदेशान्तराः कृमिनिचयाद्यम्बरीषान्ताः पञ्चदशनरकाः एतेषां मध्ये एकैकस्य त्रयस्त्रियोजनसंख्यास्त्रयो नरकाः | परिवारितोऽपि योजनकोट्या कुम्भीपाकः सप्तभिः नरकैः परिवृतं सस्मादपि कर्त्रे सद्योनरकैः षड्भिरसितालद्रुमगहनादिमहारौरवान्ताः चातुर्दशोत्तरोत्तरनरकाः तेषां मध्ये एकैकस्य त्रिभिस्त्रिभिर्नरकैरपिवृतं ततोऽपि योजनकोटिरौरवस्तम्भाः सप्तभिर्नरकैः परिवृणोति |
एवमेतत्प्रधाने अ * * सज्जनभासश्चत्वारिंशत् भानरकैश्शतं * * अस्य चोपरि कूश्माण्डस्तस्मादपि नवलक्षाधिकावस्त्रिंशत्सहस्रोत्तरया योजनलक्ष सप्तत्या महाविपुला वैतरणी नाम नदी | तस्याश्चोपरि महातल रसातल तलातल नितल सुतल वितलातलाभिधानाद्येकैकं त्रयोदशयोजन सहस्रसंख्या परिच्छिन्नान्तरालाद्युपर्युपरि सोपान परम्पराकृतीनि यथाक्रमं कृष्णपाण्डुरक्तपीतशबलशिलामयकनकनिभभूमिभागादितितनयदनुसुत-गजराजगरुडा राक्षसप्रभृतीनां निवासभूमि भूतानि सप्तसंख्या परिच्छिन्नानि पातालानि | एषु परितस्समन्ततो * * * * त्रिंशत्कोटियोजना परिच्छिन्ना भूमिः |
अथ च कण्ठकप्रभृति यावल्लोकालोकवलयिनः विंशतियोजन सहस्रान्यूनमर्धतिसृभिः सप्ततिलक्षादूनाभिर्योजनाकोटिभिः परिच्छिन्ना समन्ततः तमोराशिः | स च गर्भोदो नाम समुद्रराजः | तस्मादर्वाक् दशयोजन सहस्रविस्तारोच्छ्रेयो लोकालोको नाम पर्वतः | तस्यार्धमर्वागवभासयन्तो भानवीया भानवः अपरार्धं न प्रकाशयतीति अतोऽयमेवमभिधीयते | तस्याधारभूतशिरसि चत्वारो निवसन्ति | लोक पाचलाः पूर्वेण च सुधानामा
दक्षिणेन शङ्खवान् पश्चिमेन केतुमानुत्तरेण हिरण्ये ऐवमेत्य स्वादनिभिरेत्यर्वा न च भूतगिरिपरितः
लतागुल्मप्रकार स्वकनिकरावभासिनः यो भागा दशयोजनसंख्यापरिच्छिन्ना शातकुम्भमयी दिवौकसां
विहारभूमिशर्याण संयुक्तशरीरपरिपूरितषतुष्षष्टियोजनसंख्या परिच्छिन्न स्वदूतो नाम
यथार्थनामा महोदधिः अस्मादर्वाक् सादूत (द?) संख्या परिमितः पुष्कराभिधानो महाद्वीपः | यस्य
च मध्ये पूर्वदक्षिण पश्चिमोत्तर प्रदेशसंनिविष्टा इन्द्रयमवरुणकुबेरराजधानी वस्वोकसारा
सव्यनिसुभावतीति (?) नामभिरलंकृत शिखरदेशो पराकृतिपरिमण्डलो मानसोत्तरोनाम धराधर | अस्य
द्वीपस्य सर्वनरो नाम राजा | तस्याप्यात्मजा एवं भूताभिधा राधातजिश्चोदाद्यन्तनामाङ्कितानि द्वौ
वर्षौ वर्ष भेदावदासन् | भूपालस्तत्र मानसोत्तरस्य बहिः महाद्वितोधातकिरभ्यन्तरतः अश(त्र)
निवासतां दशवर्षसहस्रसंख्यपरिच्छिन्नमायुः | अस्मादर्वाक् तावत्संख्या परिच्छिन्नः शाकद्वीपः |
तत्र दण्डधरो सव्यनामा योनयो बभूवुश्चास्य महीभुजः सप्तसूनवस्ते च जलाकुमार
सुकुमारकुमारमलिनकुमुदोन्नत महाद्रुमनामानः | तेभ्यस्तदभिधान लक्षितानि सप्तवर्षाणि
दिग्देशस्थराजा तद्वर्षविभागसीमानः पूर्वापरपर्यन्ताव गाढोभयसमुद्राः उदयधरजलैः
जलधरैरिव तस्यां जाता आम्बिकेयकेसरीनामानः क्षितिभृतः |
तस्मादर्वाक् षोडशयोजनलक्षसंख्या परिमितो दधिसमुद्रः | तस्मादर्वाक् तावत्संख्यापरिमित प्रदेशः
क्रौञ्चाभिधानो रा * * * * आसीदस्मिन्नवनिपालो द्वितिमानः | तस्याप्यासन् सप्तसूनवः कुशलमनोनुगोष्णा
प्रावरकार्धकारमुनिदुन्दुभय इति | एषामाख्यात नाम विहितान्येव वर्षाणि तावन्ति तेषामवनि
दशवनपतिं एषां वर्षाणांमधिभूताः | तत्रापि सप्तकुलशैलाः क्रौञ्चद्वामकार्धकारो देव
पौण्ड्रक मुनिदुन्दुभिसंज्ञाः | पूर्वोक्तगिरिसमानायां विस्तारः | ततोपि चार्वागष्टयोजनलक्षसंख्या
परिच्छिन्नो घृतसमुद्रः |
तस्मादर्वाक् तावत्संख्यापरिच्छिन्नः प्रदेशः शाकद्वीपः | तत्रात्मसुतानामुद्भिजवेणु
मण्डलरथकाललम्बाधृतिमतः प्रभाकरयाख्यानस्सप्तैव तन्नामानस्सदृशाभिधानानि
विद्रुवच्छिवहेमपर्वतं निरमत्कुशेशयहरिगरिमन्दराभिधानैर्धराधरैः समानवर्षाणि ददौ
ज्योतिष्मान्नाम तस्य राजा | तस्मादर्वाक् चतुर्लक्षयोज सुकरो देशवृतः तत्समासंख्य * * च्छिन्नशाल्मली
नाम द्वीपमितं (दं) परिपलयतो पुष्मत(?) क्षितिनि सप्तभिः कुलधराधरैरालमन्त सप्तवर्षाणि
तस्मादर्वाक् द्विलक्षयोजनविस्तीर्णेन इक्षुरसोदेन वृतस्तत्सम * * * संख्यापरितप्रदेशं प्लक्षाभिधानो
द्वापा तं परिपालयता या तिथिनामधेयेन भूर्भुजा स्वशरीरजन्मन
शान्ततनयश्शरीरसुखोदयानन्दशिववक्षेव समाह्वया सप्तसूनवः स्वनामचिह्नितानि सि * * * * *
गोमदचन्द्रनाददुन्दुभिसमानो वै भूभुजकुलभणिव सप्तवसदा प्रस्थाप्य न * * * * * तस्मादर्वाग्योजन
लक्षसंख्या परिच्छिन्नः क्षारोदः | तं च स्वपक्षबलगर्वित * * * * धरनिवहपक्षच्छेदेन
व्यापृतकुलिशमण्डितबाहुदण्डादखिललोकव्यापारादर्शन चलनकृतलोचन-सहस्रात् सहस्रादात्मानं
रक्षितुमपारयन्तो भयादाविशन् पक्षिणो द्वादशमहानागाः तेष * * * *
भद्रन्द्रभिधूम्राभिधानास्त्रयोभिरयश्शातकृतविदिशमलङ्कुर्वन् चन्द्रकंकन्द्रोहनामा वै
दक्षिणेतरां काष्ठामाश्रितवतः सोमकनाम * * * नारदसमाह्वया त्रयो वारुण्या* * * * * मगच्छत |
चक्रमैनाकबलाहकसंज्ञा वैवस्वतीदेशमभ्यगच्छन् | तत्र चक्रमैनाकपर्वतनाम्ना पवतयोरन्तराले
शिवाकलपक्वथितनगनिवहो घृतमिव सलिलराशि सलिलमापिबन्त * * * * मरनिवह * * किततपः प्रभावो
बडबामुखोनाम पावकराजः | अग्न्येकं प्रभावाकारेण जलनिधिना परिक्षिप्तपर्यन्तस्सकलद्वीपः
सामन्तनिकरपरिवारितः समन्ततो योजनलक्षसंख्या परिमितप्रदेशाभोगसकलद्वीपपरमेश्वरः
जम्बूद्वीपोनाम द्वीपरा च | इमं च कुरु नामानः
तेभ्यः स राजा सोमतन्नामा * * * * * हि दा वर्षभेदनार्चधोस्य नाभिनाभाज्येष्ठसूनु * * * सोम
लभतेन्यमन्यूषनामानः तद्वृषभमकरोत्मानां पूजा तस्मिन् परित्यजति प्रथमं वयः तमभिलक्षित
सकलविषयोपभोगक्षमं यौवनं भरतनामनि सुते सविता कृतश्च नर्मदातटे आषाढीवल्लकी मौनी
चात्माना भूत्वा सकलमयनि भारमस्मिन्निक्षिप्यानुशमनान्तेन उपेक्ष्यमानमिदं भारतवर्षम् | अस्यापि
वर्षभेदस्य द्विपानभेरन्ति भेदाः चन्द्रद्वीपकशेरुताम्रपर्णीगभस्तिमन्तागकद्वीपसौम्या
गान्धर्ववरुणकौमारी द्वीपानस्सहस्रयोजनसंख्या परिच्छिन्नाद्भिरेव सागरैरन्तरिताः
पञ्चदशयोजनस्थालसंचारस्तावत्संख्या जलनिधि * * * धनि ** परितः परस्परगमना एवमिदं हि
भारतीवर्षं योजनसहस्रसंख्या परिच्छिन्नमहोदधि बिन्दुसरसोन्तरालवन्ति विज्ञेयकम् | अस्मिन्नेव
भारतवर्षे भेदे कुमारद्वीपे काश्चिदमावनभोगोपदायिन्यः काश्चित्परापरविभागदर्शन
निवारणोचिततमः पटलबहुलमलिनयोनयः प्राणभूतबहुविधारा भूमन्त्री भ्रमणवीथयः तत्रैव
दर्शितसकललोकवृत्तान्ताः स्वर्गापवर्गप्रमाणभेद प्रणव मुखामुखाः |
ऋग्यजुस्सामाथर्वणाश्चत्वारोवेदाः विचरन्ति धरासु धरणीपालार्यशूद्रवर्णप्रभृतयोऽप्यत्रैव
सन्त्यजातिविशेषां कालव्यापि भेदाः प्रसङ्गेन | तद्यथामधुराक्षिनिमेषचतुर्थाभाग कटिः |
कटिद्वयं लयः | लवद्वयं त्विमे पञ्चदशनिमेषाः काष्ठा त्रिंशत्काष्ठा कला | त्रिंशत्कला
मुहूर्तः त्रिंशन्मुहूर्तमहोरात्रम् | पञ्चदशाहोरात्राणि पक्षः | पक्षद्वयं मासः | मासद्वयं
ऋतुः | तेजश्रवणे प्रोष्ठपदो वर्षाः | आश्वयुजकार्तिकौ शरत् | मार्गशीर्षपौषौ हेमन्तः |
माद्यफाल्गुनौ शिशिरः | चैत्रवैशाखौ वसन्तः | ज्येष्ठ आषाढौ ग्रीष्मः | इत्येते षदृतवः |
दक्षिणमुत्तरं च शिशिराद्युत्तरायणम् | वर्षादिदक्षिणायनम् | अमनद्वयं संवत्सरः | तेन
चतुःसहस्रलक्षाणि चतुस्सहस्राणि कृतयुगम् | षट्च्छतसंवत्सरसन्ध्यां कलियुगकृतयुगयोर्मध्ये च
चतुर्णां युगानां सम्पिण्डितेन मानेन द्वादशसहस्राणि दिव्यसंवत्सराणि | एतदेव चतुर्युगम् | एतानि
चतुर्युगानि एकोनमना * * * ते चतुर्दश मनवः कल्पः एकः द्वाकल्पादहोरात्रौ ब्रह्मणः | ते च
विंशत्यधिकसप्तदशकल्पा ब्राह्मं संवत्सरान्ते च संवत्सरशतानि ब्राह्ममायुः | एवं ब्रह्मायुः
सहस्रं विष्णोर्मात्रा श्रीकण्ठनाथस्य क्रमाद्वर्षो कोटिशतं महेश्वरसदाशिवानां कालं मया
युगसहस्रकोटिं विद्यन्ते | इत्थमनेकप्रकारभेदभिन्नस्य परमेश्वस्य अनादिनिधनस्यानन्तस्य शिवस्य
योगिगम्यस्य परावरस्यामृतस्य हेयोपादेशशून्यस्य परमेश्वर एक एव कालव्यवहारस्यातिबन्धनमिदमेव
भारतवर्षेत्रापि सप्तकलशैलाः
मलयसह्य महेन्द्रमेरु हि मवान् विन्ध्यकैलासाः इति | महामेरुः लक्षयोजनयोच्छ्रितः |
अर्धलक्षयोजनविस्तीर्णादधस्तात् षोडशसहस्रयोजनविस्तीर्ण षट्सहस्रयोजनमायामं जाम्बूनदमयं
वज्रमाणिक्कपद्मरागमुक्ताफलसोपानभित्तिफठः | एतदचलप्रभालाञ्छितगङ्गा कौशिकी
गौमतीगण्डकीयमुनासिन्धुसरस्वतीसरयूचन्द्रभागा लोहितापिपाशा नर्मदाशतद्रुवेद च सुप्रयाग
महानदी गोदावरी भैरवी तुङ्गभद्रापञ्चनदी शोणकृष्णवर्णा कावेरी ताम्रपर्णी प्रभृतयो
नद्यश्चा एतत् पयद्वायश्च पाण्ड्यचोलद्रमिलकर्णाटकान्ध्रकोसलपाञ्चालाङ्गवङ्गसीमानः |
मध्यप्रभृतयो जनपदाः एव सितश्च प्राणाद्यं दातारः पाराण किरातप्रायाः पश्चिमेन यवनमुखाः
मध्येन चतुर्वर्णप्रबलाः | प्रायः संचरन्ति | तस्मिन्नेव चतुष्कृतादि परमेश्वरशक्तिनी
पातालग्रहीतं च सैन्यविशेषाः शिवभट्टारकास्य स्वयम्भूस्थानानि-
श्रीदाक्षीडिण्डिमुण्डिभारभूतिलकुलीशाभिधानाः प्राप्यानुग्रहकारकाश्चत्वारोरुद्राः |
प्रतियुगमनागपरतत्त्वज्ञाच्छन्दो विचित्प्रभृतिभिरङ्गैश्च षड्भिरुपशोभमानामष्टादश
धर्माङ्गमपाल्यमानार्था वितथाः | आसन्नेववस्त्रापदरुद्रुकोट्यविमुक्तमहालयगोकर्णभद्राकर्ण
स्वर्णाक्षास्थाणुचलद्विरण्डमाकोटमण्डलेश्वर कालाञ्जलदारुवनाशङ्कुकर्णस्थलेश्वर स्थूलेश्वर
कुरुक्षेत्र नखनाखल विमलाट्टहास भीमेश्वरहरिश्चन्द्र श्रीपर्वत
महाकालाम्रातिकेश्वरजल्पेश्वर मध्यमकेदार महाभैरवामरेश्वर प्रभासनैमिशपुष्करा
भगवन्मूर्तिसन्निधानविशेषरमणीयानि धामानि भारतवर्षे एवं संक्षेपमात्रं कथितम् |
भूलोके सप्तसमुद्रसप्तद्वीपसप्तकुलपर्वतस्वादूदकसमुद्रात् परलोकालोकपर्वतस्थस्य सौ दिवाकरः
पर्यटति | लोकस्योपरि भुवर्लोकस्त्रिंशत्कोटियोजनं नक्षत्रराशिनवग्रह ऋषिगणाः निवसन्ति | सुरलोक
इन्द्राग्नियमनिर्-ऋतिवरुण वायुकुबेररैशानाः एकादशरुद्राः द्वादशादित्याः अष्टवसवोऽश्विनौद्वौ
सिद्धचारणगन्धर्वयक्षमरुद्गणकिन्नर किम् पुरुषविद्याधरादयो निवसन्ति | अष्टाविंशति
कोटियोजनविस्तारायां स्वर्गलोकान्तरस्योपरि महर्लोक चतुर्मुख प्रजापति धाताविधाता
त्रियष्टावष्टाश्चेति षट्ब्रह्माणो निवसन्ति | पितामहस्य मानसपुत्राः सनकसनन्दने
सनातनसनत्कुमारादयः चतुर्दशमनवो निवसन्ति |
तस्योपरि जनलोकः | विष्णुमहाविष्णु वासुदेवसंकर्षण प्रद्युम्नानिरुद्धमत्सकूर्म वाराह-नारसिंह
वामनरामत्रय कृष्णकर्कि(ल्कि?) विष्वक्सेनादयो गरुडादयो निवसन्ति |
षड्विंशतिकोटियोजनायामविस्तारः जनलोकः | तस्योपरि महेश्वरानन्तेशसूक्ष्मशिवोत्तम एकनेत्रैक
त्रिमूर्ति श्रीकण्ठ शिखण्डिभवं शर्वेशानपशुपतिरुद्रोग्र भीममहादेवाः-
महादेवः शिवो रुद्रः शङ्करो नीललोहितः |
ईशानो विजयो भीमो देवदेवो भवोद्भवः |
कपालीशश्च विज्ञेयो रुद्रास्त्वेकादश स्मृताः |
अनेन शतरुद्राश्च सहस्ररुद्रास्तथैव च |
अयुतानि युताश्चैव अर्बुदा न्यर्बुदास्तदा |
अनेक कोटिरुद्राश्च निवसन्ति तपोलोके | चत्वारिंशत्कोटिविस्तारायामस्तपलोकः | तस्योपरि सत्यलोकः
सदाशिवः साक्षात् सकललोकसृष्टि स्थितिसंहार हेतुः | अनेककोटिसहस्रलक्षं सदाशिवसदृशा
निवसन्ति | द्वाविंशत्कोटियोजनायां विस्तारपरिच्छिन्नः सत्यलोकः | योगीश्वराः ब्रह्मविदः
आनन्दैकरसास्तृप्ताः निवसन्ति | अनादिनिधनाः सन्तुष्टाः अतिसूक्ष्मा निरालम्बा
निष्प्रपञ्चहेयोपादेयरहिताः आदित्यमण्डलभेदसुषिरगताः योगिनो निवसन्ति | नन्दा सुभद्रासुरभिः
सुशीला सुमनाः पञ्च कपिलाः निवसन्ति सिवप्रिया गावः तस्योपरि अण्डकपालम् | ब्रह्माण्डधारकाः
शतरुद्राः दिशि दिशि व्यवस्थिआ कपालीशायुः वज्रदेहप्रमर्दन विभूत्यव्ययशास्तापिनाकी
त्रिदशाधिपनामानः पूर्वस्यां दिशि
संनिविष्टाः दशरुद्राः |
इत्यस्य फलमाक्रम्य प्रभुशक्तिसमन्विताः |
अग्नीरुद्रो हुताशी च पिङ्गलः पावको हरः |
ज्वलनो दहनो बभ्रुः भस्मान्तक क्षपान्तकः |
आग्नेययां दिशि दशरुद्राः ब्रह्माण्डस्य धारकाः |
आग्नेयफलमाक्रम्य प्रभुशक्तिसमन्विताः |
याम्यायां दिशि ब्रह्माण्डधारका रुद्रा याम्यो मृयुर्विधाता कार्तरुद्राः धर्माधर्मपतिः संयोत्रविधोत्तारो रुद्राः दक्षिणस्यां दिशि व्यवस्थिताः
यमस्य फलमाक्रम्य प्रभुशक्तिसमन्विताः |
नैर्-ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकाः |
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः |
दशरुद्राः नैर्-ऋत्यां दिशि ब्रह्माण्डधारकाः |
निर्-ऋतेर्बलमाक्रम्य प्रभुशक्तिसमन्विताः |
बलोऽतिबलः प्राशहस्तः महाबलश्चेतो जयभद्रदिर्घबाहुर्जलान्तकः बडबामुखो भीषणश्च वारुण्यां दिशि ब्रह्माण्डधारकाः दशरुद्राः |
वरुणस्य बलमाक्रम्य प्रभुशक्तिक्षमन्विताः |
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः |
पञ्चान्तकः पञ्चशिखः कपाली मेघवाहनः |
वायव्यां दिशि ब्रह्माण्डधारकाः दशरुद्राः |
वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः |
जटीकुठारी नानारत्नधारी निधीशो रूपवान् धन्यः सौम्यदेहः प्रकाशकः | ल* * * न् कामरूपी वा दश रुद्राः | कौबेर्यां दिशि स्थिताः ब्रह्माण्डधारकाः |
सोमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः |
विद्याधिपतिः ज्ञानभुक् सर्वतो वेदपारगाः |
मातृपितृविशाला भूतवहा बलिप्रियाः सविता च वी * * * सुखदुःखकरोऽपरः ऐशान्यं दिशि ब्रह्माण्डधारकाः दशरुद्राः |
ईशानस्य बलमाक्रम्य प्रभुशक्ति समन्विताः |
अनन्तः पालको धीरः प्रतापो वेगीवृषधरः |

    • र्युदम्बरीशो ग्रसा * * सर्वतोमुखाः |

अधस्तात् ब्रह्माण्डधारकाः दशरुद्राः |
अनन्तबलमाक्रम्य प्रभुशक्ति समन्विताः |
शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षस्त्रिदशवन्दितः |
संवाहश्च विवाहश्च नभोलिप्सुस्त्रिलोचनः |
ऊर्ध्वं ब्रह्माण्डधारकाः दशरुद्राः | चतुर्मुख बलमाक्रम्य प्रभुशक्ति समन्विताः | एवम् एतेषां दशरुद्रव्यवस्थितिः | रुद्राणामेकैकस्य भूयोपि शतं रुद्राः परिवाराः | तेषामेकैकस्य शतसहस्ररुद्राः परिवाराः एता * * * * वच्च समन्ततस्त्रिंशत्कोटिलक्षशतधावृतं जलावरणाच्छतधा वृतं वारणं अनलावरणाच्छतावृतः वायव्यावरणं वायव्यावरणाच्छतं आकाशावरणं आकशावरणान्तच्छतवृतं शक्त्यावरणं शक्त्यावरणाच्छतावृतं नादावरणं नादावरणाच्छतावृतं महेश्वरावरणम् | महेश्वरावरणाच्छतावृतं सदा शिवावरणं सदाशिवावरणाच्छतावृतं
शिवावरणमपरावर * * * * * * * * मिदं जाग्रतिस्वप्नसुषुप्तितुरीयं च महासेन सर्वं शिवमयं भवेत् |
मध्यदेहे स्थितं सर्वं जगत्स्थावरजङ्गमम् |
तल्लीनस्तन्मना भूत्वा तद्भावगतमानसः |
योगसंस्थान् वदति गुरुवक्त्र प्रसादतः |

इति कालोत्तरे एकत्रिंशत्पटलः || ३१ ||

Kapitel 32 – Der Weg der Laute

|| श्रीः ||
ईश्वर उवाच-
वर्णाध्वानं प्रवक्ष्यामि सर्वपापहरं परम् |
सर्वसिद्धिमवाप्नोति सद्यः प्रत्ययमुत्तमम् || १ ||

सिसृक्षेत परे सूक्ष्मे बिन्दुरुत्पद्यते मया |
बिन्दोर्नादः समुत्पन्नः नादाच्छक्तिरजायत || २ ||

शक्तेस्तु वाङ्मयं जातं वाङ्मयात् षोडशः कलाः |
कलाभ्यो व्यञ्जनं जातं वाग्भवानलवाग्भवेत् || ३ ||

अकारात्सर्वं संजातं वाग्भवं सर्वमेव हि |
सकलं निष्कलं शून्यं कलाढ्यं कमलं कृतम् || ४ ||

क्षवणं क्षयमलस्थम् कण्ठोष्ठं चाष्टमं स्मृतम् |
शिवाष्टभेदं वै वत्स हकारे संप्रजायते || ५ ||

वामा ज्येष्ठा च रौद्री च त्रिशिखे तु व्यवस्थिताः |
काली चैव तु विज्ञेया कलविकरणी तथा || ६ ||

बलविकरणी चैव बलप्रमथनी तथा |
सर्वभूतदमनी मनोन्मनी ग्रीवे व्यवस्थिताः || ७ ||

उमाश्रिया सरस्वत्या दुर्गा ज्येष्ठा वसुन्धरा |
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || ८ ||

वाराही चैव माहेन्द्री चामुण्डा च उषा प्रभा |
उषादिकोट्यं वन्यत्तन्तु गले स्थिताः || ९ ||

शान्ता तुरीयमंशं तु अकारे संव्यवस्थिताः |
आकारे विष्णुदैवत्यं कोटिशक्तिसमन्वितम् || १० ||

बिन्दुशक्तिसमाक्रान्तं साक्षाच्छ्रीकण्ठनायकम् |
इकारं सर्वरक्षा च बिन्दुमस्तकभूषितम् || ११ ||

अनन्तेशस्वरूपं तु वासुदेवं षडानन |
बिन्दुमस्तकमाक्रान्तं सर्ववश्यकरं परम् || १२ ||

सूक्ष्मरूपं तु ईकारं साक्षादैव विष्णुरूपकम् |
बिन्दुमस्तकमारूढं राजवश्यकरं परम् || १३ ||

शिवोत्तममुकारं तु संकर्षणमतः परम् |
पुरुषं वैश्यमूकारं बिन्दुमस्तकभूषितम् || १४ ||

एकनेत्रश्च ऊकार प्रद्युम्नस्यामलं भवेत् |
बिन्दुमस्तकमारूढं पुरुषवश्यमिदं परम् || १५ ||

शुक्लवर्णं तथा रक्तं हरितं नीलमेव च |
पारावतनिभं चैव षड्वर्णं संप्रकीर्तितम् || १६ ||

अकारतत्त्वे यत्प्रोक्तं अकारे तु षडानन |
सर्वरक्षा सर्ववश्यं विषनाशनमेव च || १७ ||

ऋषारमेकरुद्रं तु अनिरुद्रं नात्र संशयः |
बिन्दुमस्तकमाक्रान्तं अशीतिर्वातनाशनम् || १८ ||

त्रिमूर्तिरूपं ऋकारं प्रभुशक्तिस्वरूपकम् |
ज्वरकुष्ठविषश्लेष्मं सर्वापस्मारनाशनम् || १९ ||

ऌ ॡ चाश्वनिरूपं तु सर्वव्याधिहरं परम् |
बिन्दुमस्तकमाक्रान्तं अशीतिर्वातनाशनम् || २० ||

  • त्वधारूपमेकारं सर्ववश्यकरंपरम् |

बिन्दुमस्तकमारूढं द्रुतचामीकरप्रभम् || २१ ||

एकारमनिलं प्रोक्तं भिन्नाञ्जनसमप्रभम् |
सर्वरक्षाकरं चैव बिन्दुयुक्तं तु वै गुह || २२ ||

उच्चाटने बिन्दुरहितं फट्कारेण तु मारणम् |
ओकारं शिखण्डिरूपं तु बिन्दुयुक्तं सदङ्ककम् || २३ ||

बिन्द्वन्तं शिवमेवाहुः ज्योतिरूपमनौपमम् |
शुद्धस्फटिकसंकाशं दिव्यरूपमनामयम् || २४ ||

जपेन भुक्तिर्मुक्तिश्च मृत्युं जित्वा न संशयः |
श्वेतपङ्कजमध्ये तु अधोमुखं विचिन्तयेद्बुधः || २५ ||

अजरामरत्वमाप्नोति प्रणवेन षडानन |
ओकारं रक्तवर्णं तु महेशं परमं महत् || २६ ||

सेनास्तम्भमवाप्नोति त्रिगुणं च च मूं जपेत् |
अकारं परमं तत्त्वं भवरूपं महानपि || २७ ||

महारजतसप्रख्यं विषस्तम्भमुदाहृतम् |
अकारमनन्तरूपं तु शुद्धस्फटिक सन्निभम् || २८ ||

शर्वरूपं परं ह्येतत् विषसंहारणं परम् |
निर्विषं वा सुमनसा सदष्टं वा सुजिना अपि || २९ ||

अयुतं जपेन्मानसं परोक्षेणापि विषं हरेत् |
षोडशस्वरमेवं तु साक्षाच्चन्द्रकला महत् || ३० ||

अमृताप्यमृतस्यापि अमृतोद्भवमेव च |
प्लाविनी शीतवीर्या च उष्णघ्ना मृत्युनाशिनी || ३१ ||

संजीवनी ह्लादकरी तृष्णघ्ना व्याधिनाशिनी |
तुषारादर्वाक् ज्योत्स्नाया मृतसंजीवनी परा || ३२ ||

नक्षत्रनायिका चैव चन्द्रस्य तु कला स्मृता |
विश्वरूपा षोडशकला विसर्गान्ता प्रकीर्तिता || ३३ ||

अकारं पितामहं विद्धि पद्मकिञ्जल्क सन्निभम् |
विषसंहारणं सर्वं सर्वसृष्टिप्रवर्तनम् || ३४ ||

खकारं गरुडं विद्यात् शातकुम्भसमप्रभम् |
स्थावरं जङ्गमं चैव कृत्रिमं विषनाशनम् || ३५ ||

गणपतिं गकारस्तु साक्षाद्विघ्नविनायकम् |
गजकर्णं गजाननं गजहस्तं त्रिलोचनम् || ३६ ||

भिन्नाञ्जनसमप्रख्यं बृहोदरं हि चतुर्भुजम् |
श्वेतपद्मोपरिष्टात्तु सर्वभक्षप्रियं सदा || ३७ ||

त्रिपुरान्तकं घकारं तु अतसीपुष्पसन्निभम् |
चतुर्भुजं त्रिनेत्रं तु शूलं परशुधारिणम् || ३८ ||

सर्वशत्रुहरं बीजं सर्वरक्षोघ्नमुच्यते |
घकारं भूमिदैवत्यं द्विभुजं भृङ्गसन्निभम् || ३९ ||

द्विनेत्रं द्विभुजं विद्यात् तज्जपाद्भूमिसाधनम् |
चकारं मुण्डिरूपं तु कालमेघसमप्रभम् || ४० ||

अष्टभुजं त्रिणेत्रं तु नागघण्टा डमरुकः |
शिरोमालाधरं रौद्रं सर्वासुरविमर्दनम् || ४१ ||

छकारं भद्रकालं तु राजावर्तमणिप्रभम् |
भुजैः षोडशभिर्युक्तं त्रिणेत्रं भूमिरुपिणम् || ४२ ||

रक्तपङ्कजमध्यस्थं घोरदंष्ट्रं भयावहम् |
कपालं शूलधनुषी चक्रं वज्रं परश्वयम् || ४३ ||

खड्गं घण्टा च नादं च शरं तोमरधारिणम् |
अङ्कुशं भिण्डिपालं च परिघं च शुभंकरम् || ४४ ||

शुकं च वामं यद्वामे सव्ये चाष्टभुजेषु च |
जकारं जृम्भलं विद्याद्यनदेवो न संशयः || ४५ ||

द्विनेत्रं द्विभुजं विद्यात् श्यामवर्णं शुभाननम् |
सर्वाभरणसंयुक्तं सर्वरत्नोपशोभितम् || ४६ ||

जलेन तर्पयेन्नित्यं अष्टोत्तरशतं गुह |
चुलकोदकेन नित्यं तु जलं स्पृष्ट्वा तु तर्पयेत् || ४७ ||

महानिधानं पश्यन्ति वत्सरत्रयतर्पणम् |
साक्षादमृतीशरूपं तु झकारं परमाक्षरम् || ४८ ||

एकपादमेकभुजं ऊर्ध्वहस्तं त्रिलोचनम् |
बिन्दुशेखरमारूढं नादशक्ति समन्वितम् || ४९ ||

क्वचिच्छ्वेतं क्वचिद्रक्तं क्वचित्पीतं हिरण्मयम् |
जपाकुसुमसप्रख्यं क्वचिदिन्द्र धनुष्प्रभम् || ५० ||

अष्टभुजं त्रिणेत्रं च क्वचिदेकभुजं भवेत् |
क्वचिद्वै एकपादं तु क्वचिद्वै एकनेत्रकम् || ५१ ||

अर्धनारीश्वरे वत्स झकारेशो न संशयः |
लक्षेण जपमात्रेण जपेत्पुरुष वर्तते || ५२ ||

द्विलक्षेण सेनास्तम्भं त्रिलक्षेण मही जयेत् |
लोकवश्यं राजवश्यं पुरुषवश्यं तथैव च || ५३ ||

स्त्रीवश्यं सिंहवश्यं च हस्तिक्श्यं च जायते |
विषसंहारणं चैव दष्टं वासुकिनापि वा || ५४ ||

औकारं रेफसंयुक्तं शत्रुसेनाविनाशनम् |
ॡकारं कोद्दलीरूपं भृङ्गवर्णं त्रिलोचनम् || ५५ ||

द्विभुजं नग्नरूपं तु अरण्येवासिनं शुभम् |
असभ्यं प्रतिकरं वत्स नग्नं नृत्येन तुष्यति || ५६ ||

स्मरणमात्रेणं कोटवी सुखेन स्त्री प्रसूयते |
टकारं विश्वरूपं तु द्विभुजं तु त्रिनेत्रकम् || ५७ ||

बन्धूककुसुमप्रख्यं स्मरणाद्रोगनाशनम् |
चन्द्रसाक्षात् ठकारं तु शुद्धकुन्देन्दु स प्रभम् || ५८ ||

द्विभुजं च त्रिनेत्रं च सर्व एवावशोभितम् |
सर्वाभरणसंयुक्तं एकावर्तं तथैव च || ५९ ||

साक्षादमृतरूपं तु श्वेतपद्मोपरि स्थितम् |
ध्यानमात्रान्महासेन विषस्थावरजङ्गमम् || ६० ||

नश्यते तत्क्षणादेव सकृदुच्चारमात्रतः |
विषस्तोभं तु दीर्घेण ह्रस्वेन विषनाशनम् || ६१ ||

प्लुतेन स्तम्भमायाति विषं स्थावरजङ्गमम् |
डकारं यमरूपं तु द्विनेत्रं द्विभुजं परम् || ६२ ||

नीलजीमूतसप्रख्यं दण्डपाशधरं परम् |
जपेल्लक्षशतेनैव मृत्युञ्जयमवाप्नुयात् || ६३ ||

ढकारं कालरूपं तु पञ्चनेत्रं मुखत्रयम् |
सप्रहस्तं भीमरूपं महिषारूढमुत्तमम् || ६४ ||

स्मरणमात्रेण वै वत्स त्रिकालं संप्रवर्तते |
एकारं मृत्युरूपं तु अतिकृष्णं सुलोचनम् || ६५ ||

सप्तभुजं सप्तवक्त्रं पाशं खड्गं च धारिणम् |
रक्तमाल्याम्बरधरं घोरदंष्ट्रं भयावहम् || ६६ ||

स्मरणमात्रेण वै वत्स स मृत्युनाशनमाप्नुयात् |
जपेल्लक्षत्रयेणैव बिन्दुयुक्तेन षण्मुखः || ६७ ||

इति कालोत्तरे वर्णाध्वविधाने द्वात्रिंशतिः पटलः || ३२ ||

Kapitel 33 – Der Weg der Laute – weitere Unterweisung

|| श्रीः ||
ईश्वर उवाच-
तकारं स्यादुमेशं च वृषभवाहनमुत्तमम् |
त्रिणेत्रं च त्रिवर्गं च त्रिविधं चायुधत्रयम् || १ ||

शुद्धस्फटिकसंकाशं जटामकुटमण्डितम् |
स्मृतिमात्रेण वै वत्स महानिधिं प्रपश्यति || २ ||

थकारं शिखण्डिरूपं तु कृष्णाञ्जनसमप्रभम् |
चतुर्भुजं त्रिणेत्रं च शूलं परशुधारिणम् || ३ ||

जपेन स्मरणे नैव सर्वपापक्षयो भवेत् |
दकारं दुर्गारूपं तु श्यामवर्णं त्रिलोचनम् || ४ ||

अष्टभुजं महिषारूढं सिंहवाहनमुत्तमम् |
जपेन सिद्धिमाप्नोति संग्रामे विजयं भवेत् || ५ ||

धकारं धनरूपं तु द्विनेत्रं पिङ्गश्यामकम् |

  • * * * त्रिपादं तु सर्वरत्नविभूषितम् || ६ ||

जम्भवादिपरिवृतं शङ्ख पद्मायुधावृतम् |
जपेद्द्वादशवर्षेण निधिद्वयं च पश्यति || ७ ||

नकारं सावित्रिरूपं तु त्रिवर्णं तु चतुर्भुजम् |
प्रातश्च श्वेतवर्णं तु मध्याह्ने श्याममुच्यते || ८ ||

साये वै रत्नरूपं तु सर्वकामार्थसाधिका |
पकारं पर्जन्यरूपं तु अधिश्वेतं चतुर्भुजम् || ९ ||

त्रिनेत्रं मेधमारूढं वृष्टिदं जपलक्षणम् |
घृतेन पयसा होम म* * * सुभिक्षकम् || १० ||

फकारं पाशुपतास्त्रं तु षट्काराकारसंयुतम् |
आदि हुंकार संयुक्तं महापाशुपतं परम् || ११ ||

सहस्राक्षं सहस्रभुजं सहस्रशिर संयुतम् |
अयुतं जपेन्महासेन संग्रामे विजयी भवेत् || १२ ||

बकारं यमरूपं तु महाकायं चतुर्भुजम् |
अष्टादशभुजं दीप्तं दण्डहस्तं द्विलोचनम् || १३ ||

सकाराद्यन्तयुक्तेन जीवन्तेन तु संपुटेत् |
जपेल्लक्षत्रयेणैव मृत्युनाशनमुत्तमम् || १४ ||

भकारं बानुरूपं स्यात् कपालरुद्रं तु दक्षिणे |
कपालपाणी रुद्रस्तु वासुदेवं तु वामके || १५ ||

दक्षिणे पितामहं विद्धि तयोर्मध्ये कपालिनम् |
द्वादशभुजं स्पतनेत्रं सितं रक्तं तु श्यामकम् || १८ ||

गरुडं वृषभं हंसं वाहनं परिकीर्तितम् |
धर्मार्थौ च कामश्च स्मृतिमात्रेण साधयेत् || १७ ||

साक्षाद्विषहरं रुद्रं तु धकारं तु षडानन |
प्रलयानलवर्णं तु सहस्रशीर्षमेव च || १८ ||

सहस्रबाहुनेत्रं च सहस्रं मुख एव च |
सहस्रोदरबाहुश्च सहस्रायुध एव च || १९ ||

सदाशिवं चोर्ध्वरेखं संहारं दक्षिणे भवेत् |
अमृतेशं सव्यरेखां तु बिन्दुरूपं परं शिवम् || २० ||

महाविष्णुर्नादरूपं मोहकत्वात् षडानन |
अघोरास्त्रं विसर्गेण सर्वशत्रूंश्च नाशयेत् || २१ ||

यकारमनिलं नीलं प्रलयानिलमेव च |
दशभुजं त्रिणेत्रं च कालमेघसमप्रभम् || २२ ||

रेखा वै दक्षिणे वत्स चण्डरुद्रं त्रिणेत्रकम् |
वामरेखा प्रलयानिलं त्रैलोक्यं मोहनं परम् || २३ ||

उ(अ)च्चाटनादिकं कर्म अयुतं जपेन जायते |
नियुत पक्षेण वै वत्स मनोजवत्वमाप्नुयात् || २४ ||

रकारं क्रोधरुद्रस्तु प्रलयानलमेव च |
प्रलयाग्निं दक्षिणे रेखा वामेऽग्निं प्रलयं भवेत् || २५ ||

ऊर्ध्वं संहाररूपं तु शतबाहुं त्रिलोचनम् |
ब्रह्मादिस्तम्बपर्यन्तं बिन्दुयुक्तेन संहरेत् || २६ ||

वकारमिन्द्ररूपं तु सहस्राक्षं महाभुजम् |
साक्षात्पृथिवीरूपं तु द्विनेत्रं बाहुचतुर्थकम् || २७ ||

ऐरावतगजारूढं वज्रहस्तं तथैव च |
दक्षिणे रुद्ररेखा तु वामे चैव जनार्दनः || २८ ||

ऊर्ध्वरेखा मध्यदेहा नानाचित्रार्थसंहिता |
बिन्दुं सदाशिवं विद्यात् सर्वकामफलप्रदम् || २९ ||

चन्द्ररूपं वकारं तु श्वेतपद्मोपरिस्थितम् |
साक्षादमृतरूपं तु वायुरूपं षडानन || ३० ||

द्विनेत्रं चतुर्भुजं विद्यात् शङ्खकुन्देन्दु सन्निभम् |
वामे अमृतरूपं तु वरुणं दक्षिणरूपकम् || ३१ ||

स्मरणादेव सेनानि मृत्युभञ्जनकं भवेत् |
अयुतेन विषनाशं तु स्थावरं जङ्गमं च यत् || ३२ ||

नियुज्य मृत्युनाशं च प्रयुते साम संभवेत् |
साक्षाद्वै लक्ष्मीरूपं तु शङ्करं किञ्जल्क स प्रभम् || ३३ ||

वामा ज्येष्ठा च रौद्री च वामदक्षिणमध्यगे |
जया च विजया चैव अजिताचापराजिता || ३४ ||

मध्ये ऊर्ध्वे अधस्सर्वे रेखा ह्येषा प्रतिष्ठिताः |
मायाग्निबिन्दुसंयुक्तं जपेल्लक्षत्रयं सुधीः || ३५ ||

तत्क्षणात्सिद्धिमाप्नोति ब्रह्मघ्नोपि षडानन |
षकारं द्वादशादित्यं रक्तवर्णास्त्रिलोचनाः || ३६ ||

साक्षात् द्वादशभुजाश्चतुर्वर्णाः विश्वरूपकाः |
वै कर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः || ३७ ||

लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः |
आदित्यश्च तथा सूर्यश्चांशुपाली दिवाकरः || ३८ ||

एते वै द्वादशादित्याः वकारे तु व्यवस्थिताः |
साक्षात्सरस्वती रूपं सकारं शुक्लवर्णकम् || ३९ ||

श्रुतिस्मृतिर्महाकाया उमा श्रद्धा वसुन्धरा |
गायत्री चैव सावित्री वागीशी मेधया सहा || ४० ||

प्रज्ञा दया क्षमा श्रद्धा सकारे तु प्रतिष्ठिताः |
साक्षादृमृतरूपं तु जीवरूपं न संशयः || ४१ ||

जपेल्लक्षत्रयेणैव मृत्युनाशनमुत्तमम् |
अयुतं जीवेन्न संदेहो बिन्दुयुक्तं षडानन || ४२ ||

अयुतं जपेन मेधावी वाक्पतित्वमवाप्नुयात् |
नियुतं जपेन वै वत्स चतुर्वेदांश्च विन्दति || ४३ ||

वामा ज्येष्ठा च रौद्री च काली कलविकरणी तथा |
बलविकरणी बलप्रमथनी सर्वभूतदमनी मनोन्मनी || ४४ ||

विद्येश्वराश्च सर्वेषामुमाद्याश्शक्तिभिस्तथा |
हकारे सर्वमुत्पन्नं त्रैलोक्यं सचराचरम् || ४५ ||

अव्यक्तो नियतिः कालः कालाचेति चतुष्टयम् |
द्रव्यं गुणं च कर्म च सामान्यं च विशेषकम् || ४६ ||

समवायं च तत्सर्वं हकारे तु विनिर्गतम् |
न विना रुद्रभेदं तु नासाग्रे वसते जगत् || ४७ ||

न विना पिबते जन्तुः न विना भुञ्जते जगत् |
न विना जायते जन्तुः न विना लभते जगत् || ४८ ||

न विना धावते जन्तुर्न विना प्लवते जगत् |
न विना पश्यते जन्तुर्न विना शृणु ते जगत् || ४९ ||

न विना प्रायते जन्तुर्न विना बुध्यते रसम् |
न विना जिघ्रते जन्तुर्न विनोत्सर्गंकरो महान् || ५० ||

न विना मेढ्रमानन्दं न विना बुध्यते जगत् |
ज्ञानं ज्ञेयं जगत्सर्वं रो(ओ)तं प्रोतं च सर्वशः || ५१ ||

ब्रह्मादिस्तम्बपर्यन्तं क्रीडते सान्तमेव हि |
शुद्धस्फटिकसंकाशं दशबाहुं त्रिणेत्रकम् || ५२ ||

ऋषभ वाहनं देवं महेशं परमेश्वरम् |
बिन्दुयुक्तेन वै वत्स जपेल्लक्षं सुयन्त्रितः || ५३ ||

मृत्युञ्जयमवाप्नोति दशलक्षेण वै गुह |
लकारं पृथिवी ज्ञेया भूमिदेवी न संशयः || ५४ ||

पीतवर्णं द्विनेत्रं च चतुर्भुजं चैकवर्णकम् |
जपेद्वै भूमिलाभं तु अयुतेन षडानन || ५५ ||

क्षकारं विष्णुरूपं तु श्यामवर्णं चतुर्भुजम् |
क्षरते च जगत्सर्वं क्षकारं परिकीर्तितम् || ५६ ||

अतो रेफसमायुक्तं वासुदेवं तु चोपरि |
बिन्दुनाद समायुक्तं त्रयोदश समन्वितम् || ५७ ||

संहाररुद्रसंयुक्तं षष्ठस्वरविभूषितम् |
नारसिंहमिदं प्रोक्तं शत्रुनाशनमुत्तमम् || ५८ ||

अमरेशमिदं वत्स गरुडवाहनमुत्तमम् |
लक्षत्रयेण वै वत्स त्रैलोक्यविजयं भवेत् || ५९ ||

वर्णाध्वा तु मया प्रोक्तास्तव स्नेहात् षडानन |
शिष्यदेहे न्यसेद्वर्णान् बिन्दुनादसमन्वितान् || ६० ||

सर्वे त्रिशक्तिसंभूतास्त्रिरेखा सर्व एव हि |
अव्यग्रेण न्यसेद्देहे मोक्षं गच्छेन्न संशयः || ६१ ||

इति कालोत्तरे वर्णाध्वपटलस्त्रयस्त्रिंशतितमः || ३३ ||

Kapitel 34 – Der Kala-Weg

|| श्रीः ||
ईश्वर उवाच-
कलध्वानं प्रवक्ष्यामि संक्षेपात्सांप्रतं शृणु |
ऊर्ध्ववक्त्रं च पूर्वं तु दक्षिणं पश्चिमोत्तरम् || १ ||

तारा सुतारा मन्त्राणि तारयन्ति सुतारिणी |
ईशानस्य कलापं च पञ्चमूर्धसु विन्यसेत् || २ ||

पूर्वं च दक्षिणं चैव पश्चिमं चोत्तरं तथा |
ऊर्ध्ववक्त्रं च पञ्चैतत् पञ्चवक्त्रेषु विन्यसेत् || ३ ||

निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च |
शान्त्यतीतकलाः पञ्च ओंकारादिनमोन्तकम् || ४ ||

हृदिग्रीवांसमोश्चैव नाभौ वा जठरे तथा |
पृष्ठे ह्युरसि मन्त्रज्ञः त्वघोरस्य कलां न्यसेत् || ५ ||

तमो मोहाक्षयानिष्ठा मृत्युर्माया भयाजरा |
गुदस्थाने च लिङ्गे च ऊर्ध्वओश्चजानुनोस्तथा || ६ ||

जङ्घयोश्च स्फिचोः कट्यां पार्श्वयोरुभयोरपि |
वामदेवकलां वत्स त्रयोदशस्थानके न्यसेत् || ७ ||

रजा रजा रति पाल्या काम्या तृष्णा मतिः क्रिया |
धृतिः कार्या च धात्री च ब्राह्मणी मोहिनी तथा || ८ ||

हस्तयोः पादयोः घ्राणे शिरस्युभयबाहुके |
अष्टस्थानेन वै वत्स सद्योजातकलां न्यसेत् || ९ ||

सिद्धिः ऋद्धिर्धृतिर्लक्ष्मी मेधाकान्तिस्स्वधा स्थितिः |
अष्टस्थानेषु सद्येन क्रमेद्वै विन्यसेद्गुह || १० ||

नवत्रिंशत्कला ह्येताः कलाकोटिषु चोद्धृताः |
शिष्यदेहे तु मेधावी दीक्षाकाले तु विन्यसेत् || ११ ||

विधिवद्धोमं वै वत्स षडध्वा न्यास एव हि |
अवश्यं मोक्षमाप्नोति ऐहिके सिद्धिमेव च || १२ ||

इति श्रीकालोत्तरे कलाध्वपटलश्चतुर्त्रिंशतितमः || ३४ ||

Kapitel 35 – Das Tragen von Rudraksha

|| श्रीः ||
ईश्वर उवाच-
रुद्राक्षस्य विधानं तु प्रवक्ष्याम्यनुपूर्वशः |
मुखमेकं समारभ्य यावद्वै षोडशं मुख || १ ||

ब्राह्मणाः क्षत्रियाश्चैव वैश्या शूद्रास्तथैव च |
चातुर्वर्णं तु रुद्राक्षं तत्तज्जातेस्तु सिद्धिदम् || २ ||

ब्राह्मणोधारयेच्छ्वेतं क्षत्रियोरक्तं तु धारयेत् |
वैश्यस्तु धारयेत्पीतं कृष्णं शूद्रस्तु धारयेत् || ३ ||

ताम्राः स्निग्धा दृढाः स्थूलाः समुद्भिन्नशिखाः शुभाः |
कृमिदष्टाच्छिन्ना भिन्नाश्च कण्ठकोद्भिन्नमेव च || ४ ||

स्वयमेव कृतद्वारं प्रधानं रुद्राक्षमेव तु |
विपरीतद्वारमेवं तु मुखमेवं च वर्जयेत् || ५ ||

षट्दोषरहितं वत्स रुद्राक्षं धारयेन्नरः |
एकं वापि द्वयं वापि त्रयं वापि चतुर्थकम् || ६ ||

पञ्च षट्सप्त चाष्टौ वा नवमं दशमेव वा |
द्वादशं षोडशं वापि विंशद्वा पञ्चविंशकम् || ७ ||

त्रिंशद्वापि त्रयस्त्रिंशत् अष्टत्रिंशत्तथापि वा |
चत्वारिंशच्च वै वत्स पञ्चाशत् षष्टिमेव च || ८ ||

सप्तत्याशीतिनवतिशतमष्टोत्तरं तु वा |
द्विशतं पञ्चशतं वापि सहस्रं वापि धारयेत् || ९ ||

हस्ते शिरसि कण्ठे च रुद्राक्षं धारयेन्नरः |
कल्पकोटिसहस्राणि रुद्रलोके महीयते || १० ||

रुद्राक्षस्य त्रयेणैव फलमेतत्प्रकीर्तितम् |
एतत्सहस्रफलं ज्ञेयं सहस्ररुद्राक्षधारणात् || ११ ||

एकैकमेकगोदानफलं ज्ञेयं समासतः |
रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् || १२ ||

तं मालया सहा हस्ते रुद्रः संक्रमते क्षितौ |
यथाविधिर्दीक्षयित्वा पश्चान्मन्त्रेण धारयेत् || १३ ||

ईशानेन शिरोधार्यं कण्ठे तत्पुरुषेण च |
अघोरेण गलेधार्यमघोरेण हृदिर्धरेत् || १४ ||

बीजमुख्यैरघोरेण हस्ते चैव तु धारयेत् |
व्योमव्यापीति मन्त्रेण शतार्धमालां च धारयेत् || १५ ||

पञ्चब्रह्मेण मतिमांस्त्रिमालाः पञ्चसप्त च |
प्रासादेनैव मन्त्रेण रुद्राक्षं सप्त धारयेत् || १६ ||

हस्तमालाश्च वै वत्स शिरोमालाकण्ठमाला |
प्रासादे नैव मन्त्रेण रुद्राक्षं सर्वमेव हि || १७ ||

शिवमन्त्राणि सर्वाणि रुद्राक्षेण जपं भवेत् |
पत्रदीपैः शतं ज्ञेयं पद्माक्षैस्तु सहस्रकम् || १८ ||

मणिमुक्ता प्रवलैस्तु अयुतं फलमाप्नुयात् |
रक्तचन्दनपालाशैः श्वेतचन्दनदारुजैः || १९ ||

व्याघातबीजकुशग्रन्थि अयुतत्रयफलं भवेत् |
ताम्रजाक्षैश्चत्वारिंशत् पञ्चाशद्रजताक्षकैः || २० ||

स्वर्णाक्षैः शतसहस्रं तु रुद्राक्षः कोटिरुच्यते |
अङ्गुल्या तु जपेद्वत्स दारिद्र्यं व्याधिमाप्नुयात् || २१ ||

तस्मात्सर्वप्रयत्नेन रुद्राक्षैश्च जपो भवेत् |
मेरुं प्रदक्षिणी कृत्य जपं कुर्यात्समासतः || २२ ||

सप्तत्रिंशद्वाक्षसूत्रं चतस्रः पञ्चाशदेव च |
अष्टोत्तरशतं वापि कुर्याद्वै चाक्षसूत्रकम् || २३ ||

अङ्गुष्ठानामिका चैव ऐहिकामुष्मिकावहम् |
अङ्गुष्ठा मध्यमा चैव सर्ववश्येष्ट वै जपेत् || २४ ||

अङ्गुष्ठतर्जनी चैव आकर्षादिषु वै जपेत् |
कनिष्ठाङ्गुष्ठयोगेन विद्वेषोच्चाटनमारणैः || २५ ||

अङ्गुष्ठानामिका चैव नित्यमेव जपेद्बुधः |
धर्मार्थकाममोक्षं च अर्थपुत्रानवाप्नुयात् || २६ ||

धनं धान्यं हिरण्यं च गोमहिष्यादिसाधनम् |
दासीर्दासांश्चानडुहं भूमिं वस्त्रं कलत्रकम् || २७ ||

अङ्गुष्ठानामिके चैव सर्वकामफलप्रदम् |
अक्षसूत्रं विना वत्स जपं सर्वं च वर्जयेत् || २८ ||

तस्मात्सर्वप्रयत्नेन रुद्राक्षैर्जपमारभेत् |
एक मुखं तु रुद्राक्षं परं ब्रह्मशिवं भवेत् || २९ ||

रुद्राक्षं द्विमुखं वत्स अर्धनारीश्वरो भवेत् |
त्रिमुखं चाग्निदैवत्यं माहेशं च षडानन || ३० ||

चतुर्मुखं तु रुद्राक्षं चतुर्मुखं चाधिदेवतम् |
साक्षात्सदाशिवं विद्धि पितामहं षडानन || ३१ ||

पञ्चमुखं तु रुद्राक्षं नीलं रुद्रं न संशयः |
नारायणं च वै वत्स केचिदाहुर्मनीषिणः || ३२ ||

षण्मुखं चैव रुद्राक्षं त्वमेवं हि षडानन |
सप्तमुखं हि रुद्राक्षं सहस्रांशुर्दिवाकरः || ३३ ||

सप्तमातृगणांश्चैव महतीं प्रीतिमाप्नुयात् |
अष्टौ चक्रवर्ति महाप्रीतिमवाप्नुयात् || ३४ ||

नवमुखं तु रुद्राक्षं उमारूपं षडानन |
अष्टमुखं तु रुद्राक्षं उमेशो नात्र संशयः || ३५ ||

वामादिशक्तिनवभिः धरणी च सरस्वती |
दुर्गामष्टा च गायत्री सावित्री च शची तथा || ३६ ||

नवमुखं धारयेद्वत्स सर्वप्रीतिमवाप्नुयात् |
दशमुखं तु रुद्राक्षं यमरूपं न संशयः || ३७ ||

दशाशाप्रीतिमाप्नोति धारणा नात्र संशयः |
एकादशमुखं वत्स रुद्राक्षमिन्द्रदैवतम् || ३८ ||

रुद्रैकादशप्रीतिस्तु सदाशिवप्रीतिवर्धनम् |
रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् || ३९ ||

द्वादशादित्य प्रीतिस्तु सदा सौभाग्यवर्धनम् |
विष्णुसायुज्यमाप्नोति इमं कामं लभेन्नरः || ४० ||

वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकम् |
मत्स्यः कूर्मादिमूर्तिस्तु केशवादिस्तु द्वादश || ४१ ||

सर्वे प्रीतियुतो भूत्वा श्रियमायुर्बलं ददेत् |
त्रयोदशमुखं चाक्षं कामरूपं षडानन || ४२ ||

शतरुद्राः प्रीतिमाप्नोति नित्यं कामं लभेन्नरः |
चतुर्दशमुखं चाक्षं रुद्रनेत्रं सुदुर्लभम् || ४३ ||

अश्विभ्रं रूपमेवं तु अष्टौ वसव एव च |
सर्वव्याधिहरं वत्स सदारोग्यमवाप्नुयात् || ४४ ||

रुद्राक्षं पञ्चदशभिः मुखैश्चैव सुदुर्लभम् |
साक्षाद्वै चन्द्ररूपं तु वरुणरूपं न संशयः || ४५ ||

कुबेरं धनदं यक्षं जम्भलं मणिभद्रकम् |
गन्धर्वाप्सरसो नागांश्चारणान् सिद्धकिन्नरान् || ४६ ||

सर्वे प्रीतियुता नित्यं धारणाद्रुद्रलोचनम् |
कालवञ्चनमेवं तु अपमृत्युविनाशनम् || ४७ ||

विषग्रहपिशाचाश्च भूतवेतालजातयः |
रुद्राक्षधारणान्नित्यं सर्वोपद्रवनाशनम् || ४८ ||

षोडशमुखं तु रुद्राक्षं शिवविष्णुपितामहम् |
त्रयस्त्रिंशत्सुराश्चैव प्रीतिं यात्त्यभिधारणात् || ४९ ||

धनमायुर्यशोवीर्यं प्रभावमतुलं भवेत् |
वज्रं मरतकं चैव वैडूर्यं च प्रवालकम् || ५० ||

मौक्तिकं पञ्चमं ज्ञेयं पञ्चरत्नं प्रकीर्तितम् |
रुद्राक्षसृजेन सह धारयेद्विषनाशनम् || ५१ ||

पञ्चरत्नेन सहसा धारयेद्रुद्रनेत्रकम् |
ज्वरग्रहपिशाचाश्च मेहं कुष्ठं भगज्वरम् || ५२ ||

कुमारग्रहमपस्मारं धारणान्नाशमेव हि |
उपवीतेन संछाद्य रुद्राक्षं तु द्विजातिभिः || ५३ ||

मकुटे कुण्डले चैव कर्णिकाहारकेषु च |
केयूरकटके चैव उदरबन्धे तु बन्धयेत् || ५४ ||

छिन्ने वीरे सदाकालं रुद्राक्षं धारयेन्नरः |
अपमृत्युविनाशं च आयुश्च कीर्तिवर्धनम् || ५५ ||

धारयेद्यागकाले तु वेदाध्ययन एव च |
विप्राणां सर्वकाले तु धारयेन्मन्त्रसंयुतम् || ५६ ||

युद्धकाले नृपाणां तु गजभाण्डारदर्शने |
रुद्राक्षं धारयेन्नित्यं सदा विजयमाप्नुयात् || ५७ ||

कृषिकाले वणिक्काले पशूनां चैव दर्शने |
वैश्यस्य तु प्रशस्तं हि रुद्राक्षं धारयेत्ततः || ५८ ||

शूद्राणां दीक्षितानां च स्नानं कृत्वा तु धारयेत् |
शुश्रूषणे त्रयाणां च कृषिकाले तु धारयेत् || ५९ ||

विषज्वरग्रहाणां तु नाशयेद्रुद्रलोचनम् |
तक्षकैः शिल्पिभिः स्पर्शात् बीजमुख्येन होमयेत् || ६० ||

पञ्चगव्येन प्रक्षाल्य पञ्चब्रह्मेन मार्जयेत् |
व्योमव्यापिभिर्मन्त्रैस्तु प्रासादेन तु क्षालयेत् || ६१ ||

पुनर्होमं प्रकर्तव्यं शास्त्रदृष्टेन कर्मणा |
रुद्राक्षं धारयेत्पश्चात् त्रिमुखं वा चतुर्मुखम् || ६२ ||

पञ्चमुखं षण्मुखं वापि सप्ताष्टनवमेव वा |
पूर्वोक्तलक्षणैर्युक्तं एकं वापि च धारयेत् || ६३ ||

युगकोटिसहस्राणि शिवलोके महीयते |
यद्वत्स चालयेन्मालां तत्सर्वं जपमेव हि || ६४ ||

वणिग्वार्ता कृषिर्वापि राजवार्ता तथापि वा |
यावत्तु चालयेन्मालां तज्जपं स्यात् षडानन || ६५ ||

बीजमुख्यादिभिर्मन्त्रैः जप्त्वा कोटिकुगुणं भवेत् |
पञ्चब्रह्मजपाच्चाक्षैः लक्षं कोटिगुणं भवेत् || ६६ ||

वश्याकर्षणकर्माणि शान्तिके पौष्टिकेऽपि च |
रुद्राक्षमालया जप्यं सद्य एव च सिद्ध्यति || ६७ ||

रुद्राक्षं धारयेत्स्त्रीणां दीक्षा संसारसंयुतम् |
शावसूतकयोर्वत्स रुद्राक्षं परिवर्जयेत् || ६८ ||

रजस्वलां च चण्डालान् स्पृष्ट्वापि च विसर्जयेत् |
मैथुने वर्जयेन्नित्यं स्नात्वा चैव तु धारयेत् || ६९ ||

मत्स्यं मांसं च लशुनं कतकं शिग्रुमेव च |
श्लेष्मातकं वकं चैव वर्जयेत्तु प्रयत्नतः || ७० ||

रुद्राक्षे धार्यमाणे तु प्रयत्नेन न भक्षयेत् |
ग्रहणे विषुवे चैव अयने संक्रान्तिकेपि वा || ७१ ||

दर्शे च पूर्णमासे च पुष्येषु दिवसेषु च |
अर्चने होमकाले च स्वजन्मदिवसे तथा || ७२ ||

रुद्राक्षं धारयेन्नित्यं सर्वपापक्षयो भवेत् |

इति कालोत्तरे अयुतत्रयसंहितायां रुद्राक्षधारणविधिः पटलः पञ्चत्रिंशतितमः || ३५ ||

Kapitel 36 – Das Gelübde am achten Tag der dunklen Monatshälfte

|| श्रीः ||
ईश्वर उवाच-
अष्टमीति व्रतं वक्ष्ये सांप्रतं शृणु षण्मुख |
सर्वपापहरं चैव सर्वसिद्धिकरं परम् || १ ||

आयुरारोग्यदं चैव धनधान्यसुखप्रदम् |
ग्रहभूतविनाशं च ज्वरकुष्ठादिनाशनम् || २ ||

द्वादश नाम द्वादशमासा द्वादशमन्त्रा द्वादश गन्धम् |
द्वादश पुष्पं द्वादशधूपं द्वादशदीपं द्वादश अर्घ्यम् || ३ ||

द्वादश भोज्यं द्वादशभक्ष्यं द्वादशकाष्ठं यावनयोग्यम् |
द्वादश होमं द्वादशविप्रे दीक्षायुतैर्लक्षणयुक्तान् || ४ ||

द्वादशधेनुं द्वादश अर्चा द्वादश भाण्डं भोजनयोग्यम् |
द्वादश यष्टिर्द्वादश शस्तिर्द्वादशयुग्मं द्वादशसूक्ष्मम् || ५ ||

द्वादशसूत्रं द्वादशवाहनं द्वादश मुद्राङ्गुलीयकम् |
द्वादशकाष्ठं पादुग(क)युग्मं पायसमन्नं सघृतमन्नम् || ६ ||

सप्तद्वादशमेवं तु कृष्णाष्टमीव्रतं शुभम् |
एतत्सूत्रस्य व्याख्यानं तत्त्वतः शृणु षण्मुख || ७ ||

शङ्करश्च तथा शम्भु महेश्वरस्तृतीयकः |
महादेवः स्थाणुः शिवः पशुपतिश्चोग्र एव च || ८ ||

शर्वस्त्रयम्बकश्चैव हरो रुद्रस्तथैव च |
एते द्वादशनामानः मासाद्वादश नामतः || ९ ||

कृष्टाष्टम्यां प्रयत्नेन द्वादशव्रतमुच्यते |
मार्गशीर्षं च पुष्यं च माघफाल्गुनचैत्रकाः || १० ||

वैशाखं ज्येष्ठमाषाढं श्रावणं भाद्रमासकम् |
आश्वियुजं कार्तिकश्चैव मासा द्वादश मु(उ)च्यते || ११ ||

नानाद्यक्षरबीजं तु मायानलसमन्वितम् |
बिन्दुशेखरमारूढं प्रासादेन तु संयुतम् || १२ ||

बीजमुख्य * भिबरै * रेणु द्वादशाष्टमी |
मन्त्रा द्वादशमेवोक्तं शिवेनोदाहृतं पुरा || १३ ||

गन्धा द्वादश वक्ष्यामि शिवं यत्नेन कल्पयेत् |
चन्दनं कुङ्कुमं चैव जातीतक्कोलकारकम् || १४ ||

  • * * * * * * * सानं प्रत्ययमेव च |

पूतिकेशं च कुष्ठं च गन्धा द्वादशकीर्तिताः || १५ ||

पङ्कजं बिल्वपत्रं च उत्पलं वकुलं पाटली |
करवीरं नन्दिकावर्तं शोकं व्याहतमेव च || १६ ||

श्वेतार्कं कर्णिकारं च धुर्धूरं द्वादशं भवेत् |
कुन्दकुष्ठं सज्जरसं लोप्यचन्दनवानरम् || १७ ||

खड्गं शुद्धिगन्धरसं काश्मीरं चन्द्रवालकम् |
कृणिर्द्वादशमेवाहुः दूमयोग्यं षडानन || १८ ||

मण्डीगुलसंयुक्तं प्रत्येकं मासि चाष्टमी |
त्रिफलात्रयजातिं च खड्गं लोहं च चन्दनम् || १९ ||

उशीरं वापि कुञ्जरं दीपवर्तिस्तु द्वादश |
कपिलायाघृतं योज्यमजाघृतं वा योजयेत् || २० ||

गन्धशालिं महाशालिं रक्तशालिं तथैव च |
कलमाशालिनीवारा गोधूमयव वैष्णवीम् || २१ ||

व्रीहिं प्रियङ्गुं मुद्गं च द्वादशं परिकीर्तितम् |
कुशतण्डुलपुष्पं च गन्धं क्षीरं च सर्षपम् || २२ ||

गन्धशाल्यां द्वादशं हि एकैकेन तु योजयेत् |
मार्गशीर्षमासादि अर्घ्यं द्वादश योजयेत् || २३ ||

गोघृतं चैव गोमूत्रं गोक्षीरं तिलमेव च |
कुशोदकं चैव गोशृङ्गो गोशृङ्गोदकमेव च || २४ ||

बिल्वपत्रं गोमयं च तण्डुलोदकमेव च |
द्वादशं गोदधिं चैव क्रमेणैव तु भक्षयेत् || २५ ||

शालिनीवारगोधूमयववैणवश्यामकम् |
रत्नशालिं महाशालिं कलमाशालिमेव च || २६ ||

प्रियङ्गुगर्ह षष्टिं च राजानं द्वादशं भवेत् |
कुडकत्रयमन्नं च द्वितीयेकं तु चाढकम् || २७ ||

कदलीखण्डसंयुक्तं कपिलाघृतसंयुतम् |
कुडुबं घृतमेवोक्तं तदर्धं खण्डमुच्यते || २८ ||

कदलीफलत्रयं विद्याद्दधिप्रस्थं प्रदापयेत् |
मासे मासे निवेद्यं स्यात् तत्तन्मन्त्रेण देशिकः || २९ ||

तत्तन्मन्त्रेण प्राश्यं स्यादर्चनान्ते षडानन |
बिल्वोदकं च शामी च बिल्वं चन्दनकदम्बकम् || ३० ||

वटनागशाकबरी वकुलः खदिरोजनम् |
कपित्थमयहीदन्तकाष्ठमिह द्वादशमासे || ३१ ||

शिवः सदाशिवहोमं च महेश्वरो रुद्रहोमकम् |
विद्येश्वराष्टहोमं च होमं द्वादशकीर्तितम् || ३२ ||

पलाशाश्वत्थप्लक्षन्यग्रोधमेव च |
बिल्वोदुम्बर शामी च वै कङ्कतमयानि च || ३३ ||

अपामार्गं च वकुलं पाशा तद्द्वादशं भवेत् |
मासे मासे तु होतव्यं एकैकं तु पृथक् पृथक् || ३४ ||

समाप्तेष्टम्यां जुहुयात् द्वादशैश्च द्विजोत्तमैः |
आचार्यः शिवहोमं तु तेषां तु द्विगुणं भवेत् || ३५ ||

प्रणीता कलशमेकं तु ऐशान्यामनलस्य तु |
होमान्ते स्नानं कुर्वीत द्वादशाष्टमीकेषु च || ३६ ||

स्नानान्ते प्राशनं कुर्यात् * * * नं घृतादिभिः |
वाममन्त्रेण प्रासादं वीजमुख्यसमन्वितम् || ३७ ||

पवित्रैः पृथक् पृथक् जुहुयात् मासान्द्वादश बुद्धिमान् |
समिधाज्य चरुं लाजांस्तिलशालिं च सर्वपान् || ३८ ||

प्रत्येकमष्टोत्तरशतं जुहुयाद्वेदपारगैः |
प्रासादनाममन्त्रेण बीजमुख्यैः प्रकाशयेत् || ३९ ||

व्रते समाप्तेऽष्टमीं कुर्यात् प्रत्येकं तु सहस्रकम् |
होमं पूर्वे तु मतिमान् पूजयेदृत्विजः पृथक् || ४० ||

वस्त्रयुग्मं चोपवीतं भुक्तपात्रं तथैव च |
हेमाङ्गुलीयकं चैव छत्रं पादुकमेव च || ४१ ||

उपानकं ह * स्तनं वैष्णवं दण्डमेव च |
उष्णीवं फलकं चैव यथा शक्ति च दक्षिणाम् || ४२ ||

आचार्यं पूजयेत्सम्यक् मकुटैर्वस्त्रकुण्डलैः |
केयूरैरुपवीतैश्च कटकैः कटिसूत्रकैः || ४३ ||

गोभुमिकाञ्चनैर्द्रव्यैः दासीदासैश्च पूजयेत् |
पायसं घृतसंयुक्तं घृतेन तु परिप्लुतम् || ४४ ||

शिवाय कृष्णकपिलां रक्तां श्वेतांश्च पिङ्गलाम् |
हरिद्रामग्निवर्णां च पीतवर्णां सुशोभनाम् || ४५ ||

म* * युग स्वर्णाभं हरिद्वर्णां च सुन्दरीम् |
शतकुम्भनिभां कपिलां शिवाय द्वादशं भवेत् || ४६ ||

व्रतान्ते तु महास्नानं घृतेन तु षडानन |
महापूजा प्रकर्तव्या ब्रह्मणश्चैव होमयेत् || ४७ ||

सार्ववन्तिकमन्वाद्यं तस्मिन्महति कारयेत् |
सप्ताहं त्रियहं वापि उत्सवं कारयेद्बुधः || ४८ ||

रथमारोप्य देवेशं प्रदक्षिणमथाचरेत् |
नानाजनपदाकीर्णं नानाच्छत्रसमन्वितम् || ४९ ||

नानाध्वजसमायुक्तं नानापिञ्चकसंयुतम् |
ग्रामं वा नगरं वापि नत्तनं खेटकं तु वा || ५० ||

शनैः प्रदक्षिणं कुर्यात् बिलं सर्वत्र दापयेत् |
श्रीकण्ठनाथं ससुतं सोमं रथेन वाहयेत् || ५१ ||

हस्त्यारूढं तु वा कुर्यात् नीलं वै लिङ्गमेव च |
लाजासक्तु समायुक्तं शाल्यन्नं द्रोणभाजनम् || ५२ ||

तदर्धं वा दिशा बलिमाचार्येण प्रदापयेत् |
चतुष्पथे त्रिपथे चैव द्विपथैकपथे क्षिपेत् || ५३ ||

एवं सप्ताहसूत्सवं कृत्वा स्नपनमाचरेत् |
अष्टोत्तरशतैः कलशैरेकाशीतिमथापि वा || ५४ ||

चतुष्षष्टिकलशैर्वा त्रयस्त्रिंशैर्वापि कारयेत् |
पञ्चविंशैः षोडशैर्वां स्नपनं कारयेद्गुह || ५५ ||

एवं च कारयेत् पञ्चनदीस्नानं विशेषषतः |
चूर्ण * * * * * * कृत्वा * * * * * * || ५६ ||

हैमरजतताम्रैर्वा पार्थिवैर्वा सुशोभनैः |
महाभिषेकद्रव्याणि कथितं पूर्वमेव हि || ५७ ||

तद्द्रव्यैर्वा सितैः कुम्भैः स्नपनं कारयेद्गुह |
अवभृतं कारयेत्पश्चात् नदीस्नानं विशेषतः || ५८ ||

चूर्णस्नानं पुरा कृत्वा नदीस्नानं स्माचरेत् |
कृष्णाष्टम्यां व्रतं भक्त्या तस्य पुण्यफलं शृणु || ५९ ||

गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः |
शरणागतघाती च मिश्रविश्रम्भघातकः || ६० ||

पितृहा मातृहा चैव पुत्रहा भ्रातृहा तथा |
कृष्णाष्टमी व्रतेनैव सर्वपापक्षयो भवेत् || ६१ ||

राजसूयशतं चैव अश्वमेधशतं भवेत् |
अर्बुदमप्तोर्यामग्निखर्वं वा वाजपेयकम् || ६२ ||

अतिरात्रं खर्वफलं षोडशं वृन्दमेव च |
प्रयुतमुक्थ्यफलं चैव नियुताग्निष्टोममेव च || ६३ ||

अत्यग्निष्टोममयुतं वै प्रयुतं सौत्रामणीयकम् |
शतसहस्रस्त्रीयागं कोटिश्येनफलं भवेत् || ६४ ||

प्रत्येकं कालाष्टमीं च मासे मासे तु वै फलम् |
निखिलमेषां क्रतुफलमग्निचिच्छतफलं भवेत् || ६५ ||

सहस्रलिङ्ग प्रतिष्ठायां फलमाप्नोति मानवः |
सर्वेषां कर्मकाराणां कृष्णाष्टम्यां तु यत्कृतम् || ६६ ||

सर्वे स्वर्गमवाप्नुवन्ति पत्रपुष्पफलानि च |
स्वयं सायुज्यमाप्नोति तस्य नाशा(ग)मनं पुनः || ६७ ||

इति श्रीकालोत्तरे कृष्णाष्टमी व्रतफलं षट्त्रिंशतितमः (पटलः) ||

Kapitel 37 – Die achtundsechzig heiligen Stätten

|| श्रीः ||
ईश्वर उवाच-
अतिरहस्यं नास्तिकाय न दातव्य प्रियाय च |
शिवभक्ताय दातव्यं शिवेन कथितं पुरा || १ ||

ऋषिभिः शास्त्रतत्त्वज्ञैः तपोनिष्ठैर्जितेन्द्रियैः |
देवैश्च सेवितं तोयं क्षितौ तीर्थं तदुच्यते || २ ||

रुद्रावतार स्थानानि स्वयं भूक्ष्त्रपाणि च |
मृतानां तेषु सर्वेषु शिवक्षेत्रेषु देहिनाम् || ३ ||

भूलोके च महासेन स्वयंभुस्थानं महाफलम् |
अर्चनं च जपध्यानं समाधिस्थानमेव च || ४ ||

अक्षयं फलमाप्नोति मृतस्सायुज्यमाप्नुयात् |
अष्ट षष्टिमहास्थानं वक्ष्यामि शृणु सांप्रतम् || ५ ||

वस्त्रापदं रुद्रकोटिरविमुक्तं बहाबलम् |
गोकर्णं भद्रकर्णं च सुवर्णाक्षोऽतिदीप्तवान् || ६ ||

स्थण्वीश्वरं च विख्यातं त्रिषु लोकेषु विश्रुतम् |
स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेत्रं महोदयम् || ७ ||

वस्त्रापदादि स्थाण्वन्तं रुद्रसायुज्यकारकम् |
च कलं च द्विरण्डं च माकोटं मण्डलेश्वरम् || ८ ||

कालाञ्जनं शङ्कुकर्णं स्थूलेश्वरमिति श्रुतम् |
अट्टहासं च विज्ञेयं पवित्राष्टकमुदाहृतम् || ९ ||

सर्वयत्नेन गच्छन्ति शिवस्य परमं पदम् |
तथा चैव कुरुक्षेत्रं नाखलो नखलस्तथा || १० ||

विमलेश्वरं प्रभासं च माहेन्द्रं भीममष्टकम् |
एतद्गुह्याष्टकं नाम सर्वपापप्रमोचनम् || ११ ||

गत्वा तु पुरुषः श्रीमान् प्राप्नोति शिवमन्दिरम् |
श्रीपर्वतं हरिश्चन्द्रं महाकालवनं तथा || १२ ||

अमृतादिकेश्वरं चैव केदारं भैरवं तथा |
वारणासी वैद्यनाथं अष्टमं परिकीर्तितम् || १३ ||

एतद्गुह्यानि गुह्यं स्वयम्भुस्थानं षडानन |
सन्तार्य सपितॄन् सर्वान् शैवं याति पदं महत् || १४ ||

अमरेशं प्रभासं च नैमिशं पुष्करं तथा |
आषाढी दण्डिमुण्डी च भारभूतिलकुलीश्वरम् || १५ ||

प्रत्यात्मिकमिह क्षेत्रं शिवसायुज्यकारकम् |
कैलासो मन्दरं चैव मेरुं वै नीलपर्वतः || १६ ||

हिमवान् हिषयो विन्ध्यो मलयश्चाष्टमो भवेत् |
पर्वताष्टकमेवं तु स्वयंभुस्थानं शिवस्य तु || १७ ||

वीरज्ञयाति देहेन अनशनाच्छिवमेव हि |
विरजा वरुणा गोल्ला जयन्ति कोटिवर्षकम् || १८ ||

जालन्ध्रं चैव काश्मीरं देवदारुवनं तथा |
शुद्धाष्टकमिदं क्षेत्रं शिवसायुज्यकारकम् || १९ ||

मायापुरी मेरुधिं च भूतेश्वरं वटेश्वरम् |
माहेश्वरी माहिरिच्छत्रं पुण्ड्रवर्धनमेव च || २० ||

देविकोष्ठं च विज्ञेयं सिद्धक्षेत्रं महोदयम् |
देहिनां तत्र पञ्चकं शिवं सायुज्यकारकम् || २१ ||

इलां चोत्तरमेरुं च भद्रांशं केतुमारकम् |
चत्वारं तु अनौपम्य महाक्षेत्रं सुदुर्लभम् || २२ ||

अष्ट षष्टि महाक्षेत्रं स्वयंभूस्थानं विधीयते |
तमस्समाधिं च जपं दानं देवार्चनं तु यत् || २३ ||

मानवो मुक्तिं प्राप्नोति विनाशं च न विद्यते |
देवालयं प्रपां चैवं सभास्थानं मठस्तथा || २४ ||

वापीकूपतटाकानां अक्षयं फलमाप्नुयात् |
गोदानं गजदानं च कन्यादानं हिरण्यकम् || २५ ||

ग्रामदानं गृहदानं च महीदानं षडानन |
दासिदानं रथदानं च विद्यादानं तथैव च || २६ ||

अश्वदानं चान्नदानं पानीयदानमेव च |
प्रतिश्रय प्रदानं च मन्त्रदानं च षोडश || २७ ||

ब्राह्मणाय दरिद्राय सोमयाजितपस्विने |
शिवभक्ताय शान्ताय सदा शूद्रान्नवर्जिने || २८ ||

स्वयम्भूक्षेत्रे दातव्यं विषुवना?हणादिषु |
तदनन्तफलं दातुर्भवतीति क्रमाद्भुतम् || २९ ||

शिवभक्ताय शान्ताय बहुपुत्राय केवलम् |
श्रोत्रियाय दरिद्राय आहिताग्नितपस्विने || ३० ||

शुभं गृहं तु संपाद्य गृहोपस्करणानि च |
धनधान्यसुपूर्ण च शिवाय भुक्तपात्रकान् || ३१ ||

मुसलोलूखलाश्चैव दासीदासैरलंकृतम् |
पचनस्थालीजलभाण्डं दर्वीपानीय पात्रकम् || ३२ ||

उपदानं च पचनस्याली खट्वाचर्यासनानि च |
उपधानं कम्बलं च बहिस्तरणमेव च || ३३ ||

धूपं दीपं च पात्राणि शूर्पसेहनिमेव च |
निष्ठीवनपात्रं च ताम्बूलं धारमेव च || ३४ ||

उदकुम्भं ताम्रभवं उदक्सेचनपात्रकान् |
करकं कमण्डलुं चैव शूलं च करकाणि च || ३५ ||

यथाशक्ति चाभरणं कुण्डलं हारमेव च |
एतान् सर्वान् समापाद्य स्वजन्मदिवसे गुह || ३६ ||

शुभग्रहादि विप्ताय ग्रहणादिषु वा ददेत् |
न तद्वक्तुमहं शक्तः फलं युतां शतैरपि || ३७ ||

एतावच्छक्यते वक्तुं तस्य गेहस्य सुव्रत |
सोपि यागफलं कृत्स्नं लभते नात्र संशयः || ३८ ||

अश्वमेधसहस्रस्य प्रतिष्ठाशतमेव च |
तत्फलं लभते वत्स शुभग्रहं तु न संशयः || ३९ ||

इति कालोत्तरे अष्ट षष्टिस्थानपटलः सप्तत्रिंशतितमः || ३७ ||

Kapitel 38 – Sühnerituale

|| श्रीः ||
ईश्वर उवाच-
अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिं शृणु |
खण्डं वा स्फुटितं वापि तीर्णं वा कुलपर्ययात् || १ ||

विकटं चाग्निदग्धं च पतितोत्पाटितं च यत् |
कृत्वा संस्थापयेदन्यं पूर्ववत्परिकल्पयेत् || २ ||

प्रायश्चित्तं तथा कृत्वा लक्षहोमं तथैव च |
द्वात्रिंशच्च तदर्धं वसुभिर्वेदसंख्यया || ३ ||

इन्दुकुण्डसमायुक्तं होमं कुर्याद्विचक्षणः |
महापूजाविधिं कुर्यात् कलशैश्च सहस्रकैः || ४ ||

पश्चात्तु शिल्पिना कुर्यात् बाललिङ्गं प्रकल्पयेत् |
नव कर्म प्रकर्तव्यं यथोक्तं पूर्ववत्क्रमात् || ५ ||

प्रासादे जीर्णमर्मेण हुत्वा प्रसाद मन्त्रिणा |
किङ्गेन विहिते नेतुः प्रतिष्ठामन्त्राहुतं भवेत् || ६ ||

निष्कलं निष्कलार्धं च पुनःस्थापनं पूर्ववत् |
पीठके पूर्णजीर्णे तु शक्तिमन्त्रं घृताहुतिः || ७ ||

लक्षाहुतिर्भवेच्छक्तिः सद्येशं तु सहस्रकैः |
अनन्तेश सहस्रं तु त्रिगुणं प्रत्येकमुच्यते || ८ ||

लोकपालादि देवानां शतपञ्चकमाहुतिः |
अष्टादशगणानां तु प्रत्येकं तु दशाहुतिः || ९ ||

लिङ्गे च स्थापितं देवं तन्त्रोक्तविधिना कृतिः |
पुनः संस्कारकर्मं तु पूर्ववत् शिल्पिना विधिः || १० ||

अभिषिक्तानामिदं चैव व्यक्तलिङ्गमथ शृणु |
बलिलिङ्गपदे चैव प्रायश्चित्तविधिं शृणु || ११ ||

  • * * पुष्पलिङ्गं तु प्राकारे पत्तनेऽपि वा |

घृताहुतिसहस्रेण अस्त्रराजेति मन्त्रतः || १२ ||

स्थापनं निष्कले लिङ्गे पञ्चविंशतिकुम्भकैः |
तन्त्रोक्त दे * * * * * * * * * * * * त् || १३ ||

ग्रामे वा नगरे वापि केटके पत्तनेऽपि वा |
तेषां विधिप्रदेशे तु प्रमादात्पवनं तथा || १४ ||

यत्प्रथमं तत्पतितं क्रमं तद्ध्यानमुच्यते |
तत्तन्मन्त्राहुतिं श्रेष्ठं सहस्राहुतिरुच्यते || १५ ||

अनन्तेशः सहस्रेण विद्येशश्च सहस्रकैः |
अस्त्राणां च तदर्धे तु होमयेत्तद्घृताहुतिः || १६ ||

वास्तुहोमं ततः पश्चात् पूर्वोक्तेन यथाक्रमम् |
पतिते तु यथास्थाने एवं कृत्वा विचक्षणः || १७ ||

प्रासादं लिङ्गमूले तु स्नानं कुम्भसहस्रकैः |
अष्टदिक्षुतथा कृत्वा अथ सहस्राष्टमुच्यते || १८ ||

पश्चादुत्सवं कुर्यात् हुतस्ते तु विचक्षणः |
अष्टदिक्षु हुतं कृत्वा अष्टाङ्गं मन्त्रमुच्यते || १९ ||

महापूजाविधिं पश्चात् उत्सवं पूर्ववत्क्रमात् |
ग्रामाधिदेवता पार्श्वे पतने तत्र पूजितम् || २० ||

दर्शनं च समीपेतु राजक्षोभभयंकरम् |
शान्तिहोमं तथा कुर्यात् बहुरूपेण मन्त्रतः || २१ ||

पश्चाच्छेषं समं कुर्यात् पतितेन तु पूजयेत् |
मूलबिम्बे पुनः पूज्य पूर्वोक्तं तु तथा विधिः || २२ ||

प्रत्यङ्गेन विहीनं तु अङ्गमन्त्राहुतिः क्रमात् |
सहस्रेण घृतं हुत्वा तच्छेषं पूर्ववत्क्रमात् || २३ ||

एवं क्रमसमायुक्तं अन्यथा दोषमुद्भवम् |
राजक्षोभभयं चैव राजराष्ट्रं समाकुलम् || २४ ||

तस्मात्सर्व प्रयत्नेन प्रायश्चित्तं चरेद्गुरुः |
अग्निकार्यविहीने तु प्रायश्चित्तविधिं शृणु || २५ ||

प्रमादादग्निकीर्णे तु एकाहादि च वर्षकैः |
एकाहे अग्निबीजं तु अघोरास्त्रं शतं जपेत् || २६ ||

पञ्चविंशतिकुम्भैस्तु स्नानं कुर्यान्महेश्वरम् |
पुनरुत्पादनं चाग्नेः पश्चान्नित्यं समारभेत् || २७ ||

अग्निकार्यविहीने तु शिवमन्त्राहुतिर्भवेत् |
यत्सहस्रं घृतं हुत्वा पश्चान्नित्यं समारभेत् || २८ ||

एवं विधिं पुनः कुर्यात् पश्चाहान्तं प्रशस्यते |
दशाहे अग्निजीर्णे तु एकाहादि च वर्षकैः || २९ ||

एकाहे अग्निबीजं तु अघोरास्त्रं शतं जपेत् |
पञ्चविंशतिकुम्भैस्तु स्नानं कुर्यान्महेश्वरम् || ३० ||

पुनरुत्पादनं चाग्नेः पश्चान्नित्यं समारभेत् |
अग्निकार्यविहीने तु शिवमन्त्राहुतिर्भवेत् || ३१ ||

यत्सहस्रं घृतं हुत्वा पश्चान्नित्यं समारभेत् |
एवं विधिं पुनः कुर्यात् पञ्चाहान्तं प्रशस्यते || ३२ ||

दशाहे अग्निजीर्णे तु पूर्ववद्द्विगुणं तथा |
अर्धमासविहीने तु अग्निकार्ये दिनं प्रति || ३३ ||

सहस्राहुतिं घृतं हुत्वा स्नानं कुम्भशताष्टकैः |
पुनरुत्थापनं चाग्नेः नित्यं कर्मविधिं तथा || ३४ ||

आसनं चाग्निहीनं तु त्रिसहस्रघृताहुतिः |
पश्चाद्विंशाहुतिं कुर्यात् तन्त्रोक्तं पूर्ववत्क्रमात् || ३५ ||

तत्पश्चादनुसन्धानं यथोक्तं पूजनं तथा |
षण्मासं चाग्निहीने तु पूर्वोक्तद्विगुणेन तु || ३६ ||

नित्यहोमं समारभ्य तन्त्रोक्तं विधिना कुरु |
वर्षहीनं तथाचाग्निः दशलक्षं तु होमयेत् || ३७ ||

सर्वेषामेवमूर्ध्वं तु द्विगुणं द्विगुणं चरेत् |
नित्यार्चन विहीने तु पूर्वोक्तं तु चरेत्क्रमात् || ३८ ||

मन्त्रहीना भवेत्पूजा पूर्वोक्तं तु चरेत्क्रमात् |
नित्योत्सवविहीनं तु प्रायश्चित्तविधिं शृणु || ३९ ||

दिनं प्रति भवेत्कृच्छ्रं घृताष्टकशतं हुनेत् |
पञ्चविंशतिकुम्भैस्तु स्नानं कुर्याद्विचक्षणः || ४० ||

पश्चादुत्सवमारभ्य शेषं वृद्धिकरं शुभम् |
दिनं वृद्धिकरं कृत्वा श दिशेत्तु दिनं प्रति || ४१ ||

उत्सवस्नपने हीने घृताहुतिं सहस्रकम् |

  • * * * * तत्कुर्यात् पश्चान्नित्यं समारभेत् || ४२ ||

दिनहीना भवेत्पूजा एकसन्धिविनाशिनी |
घृताहुतिं सहस्रं तु कृत्वा पश्चात्सुपूजयेत् || ४३ ||

दिनवृद्धिकरं श्रेष्ठं प्रायश्चित्तं तथैव च |
हविषाहुतिहीने तु घृताहुतिसहस्रकम् || ४४ ||

पश्चात् निवेद्यमारभ्य होमं कुर्याद्विचक्षणः |
गन्धाज्यधूपहीने तु पाद्यमाचमनार्घ्यकम् || ४५ ||

बहुरूपेण मन्त्रेण घृताहुति सहस्रकम् |
अस्त्रमन्त्रशतं हुत्वा संपूर्ण द्रव्यमुच्यते || ४६ ||

उत्सवे यात्राकाले तु शिल्पिसंस्पर्श एव च |
अघोरास्त्रेण मन्त्रेण हुत्वा चैव सहस्रकम् || ४७ ||

स्फाटितं छिद्रं जीर्णं वा पुनः संस्कारकर्मणि |
हृदयेन तु मन्त्रेण त्रिसहस्रं घृताहुतिः || ४० ||

एवं हि विधिवत्कुर्यात् प्रायश्चित्तं यथाक्रमम् |
अनेन विधिना सम्यक् प्रायश्चित्तं विधिं शृणु || ४९ ||

सूतकी पुष्पसंस्पर्शे सर्वभाण्डं विवर्जयेत् |
अघोरास्त्रेण मन्त्रेण लक्षहोमं तथैव च || ५० ||

प्रेतकैः स्पर्शने दोषैः लक्षाहुतिं तथैव च |
स प्राणं ततः पश्चात्ततः शुद्धिः प्रशस्यते || ५१ ||

दूषितैः पुरुषैः चेष्टा घृताहुतिर्लक्षमन्त्रिणा |
चण्डालस्पर्शने कुर्यात् सर्वभाण्डविवर्जितम् || ५२ ||

परिचारुकादि पुरुषाणां अतिकृच्छ्रं भवेत्क्रमात् |
जलसंप्रोक्षणं कृत्वा पश्चाद्देवार्चनं क्रमात् || ५३ ||

इति कालोत्तरे प्रायश्चित्तपटलोऽष्टात्रिंशतितमः || ३८ ||

Kapitel 39 – Die Gabe des eigenen Gewichts

|| श्रीः ||
ईश्वर उवाच-
तुलाभारविधानं तु सांप्रतं शृणु षण्मुख |
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने || १ ||

ग्रहणे विषुवे चैव अयने चोत्तरे तथा |
पुष्यमासे जन्मदिने तुलाभारं कुरुष्विह || २ ||

माघे स्वजन्मनक्षत्रे फाल्गुने वा स्वजन्मनि |
चैत्रे स्वजन्मनक्षत्रे वैशाखे वा स्वजन्मनि || ३ ||

ज्येष्ठमासे जन्मदिने रोहिण्यां वाथ कारयेत् |
हस्ते च श्रवणे वापि उत्तरत्रय एव वा || ४ ||

पौष्णै वा मृगशीर्षे वा वायव्ये वरुणे तु वा |
उत्तरप्रोष्ठे वा कुर्यात् भाद्रपदे च वा भवेत् || ५ ||

गुरुपुष्ये योगं कुर्वीत बुधानुराधे तु वा कुरु |
शनिरोहिण्यां वा कुर्यात् मृगाह्वे सोमवारके || ६ ||

आदित्यहस्ते वा कुर्यात् शुक्रपौष्णे तु वा भवेत् |
भौमाश्विने वा कुर्यात् वारयोगे तु वा भवेत् || ७ ||

विपुलयोगे तु वा कुर्यात् महायोगे तु वा भवेत् |
सूर्यग्रहणे श्रेष्ठं तु तुलाभारं विदुर्बुधाः || ८ ||

ग्रहणाभावे त्वेवं स्यात् स्वजन्मदिवसे पुनः |
पुनर्वै सिद्धयोगे तु पुनर्वै विषुवा भवेत् || ९ ||

पुनर्वै चोत्तरायणे च वारयोगे पुनर्भवेत् |
रात्रिर्वा तु महासेन सोमग्रहणं तु वर्जयेत् || १० ||

शुक्लपक्षे तु पूर्वाह्ने कुम्भे तु वृषभे तु वा |
मिथुने कर्कटे वापि तुलाभारं प्रशस्यते || ११ ||

नैमिशे पुष्करे वापि कुरुक्षेत्रे सलेपि वा |
सालिग्रामे वैद्यनाथे गङ्गाद्वारे तु वा भवेत् || १२ ||

प्रयागे च तुलाभारं गङ्गासागरसंगमे |
गोकर्णे भद्रकर्णे वा महेन्द्रे श्रीपर्वतेऽपि वा || १३ ||

सरयूसरस्वतीतीरे सिन्धुगोमतितीरके |
स्वामि शैलेन्द्रश्रीकोटे कैलासे हिमविन्ध्यके || १४ ||

सह्ये वा मलये वापि कन्यातीर्थेपि वा भवेत् |
रामेश्वरे सेतुबन्धे मष्ट्रे च पुरुषोत्तमे || १५ ||

समुद्रगामिनीतीरे नदीसागरसंगमे |
पुण्ये देवालये वापि महतः सरसस्तटे || १६ ||

यत्र वा रमते भूमेरवटं तत्र कल्पयेत् |
चन्दनं खदिरं चैव मधूको देवदारु च || १७ ||

असनो बिल्ववृक्षश्च कदम्बार्जुनसालकाः |
विंशत्पञ्चाधिकश्चैव निमीशो शोक एव च || १८ ||

तिन्दुकं च प्रशंसन्ति तुलास्तम्भं तु शोभनम् |
अष्टहस्तप्रमाणं तु तुलास्तम्भो विधीयते || १९ ||

षट्चत्वारिंशदङ्गुलं नाहास्तम्भे विधीयते |
अर्धाधिकं हस्तमात्रं भूमौ संवेशयेद्बुधः || २० ||

पादे शिलैव कर्तव्या बाहुमात्र प्रमाणतः |
उत्तरं तयोः शिखरं षढस्तमतिशोभनम् || २१ ||

प्रादेशमात्रं विस्तारं विष्कम्भं तु वितस्तिकम् |
दक्षिणोत्तरतः स्तम्भं समं कुर्याद्विचक्षणः || २२ ||

त्रितलाधिकं व्योमं तु तुलायामं प्रकीर्तितम् |
षट्त्रिंशदङ्गुलं नाहं सुव्रतं श्लक्ष्णमुत्तमम् || २३ ||

अग्रयोर्मध्यमे चैव आयसेन तु बन्धयेत् |
बकारस्य त्रिकर्तव्यं दृढं सम्यक्प्रतारयेत् || २४ ||

मध्यं चोत्तरमध्ये तु बकारस्येदं प्रोत्तयेत् |
तयोर्वै कुण्डलं सम्यक् तथैवोत्तरमेव हि || २५ ||

यत्कुण्डलं बकारस्य दृढं चाङ्गुलमानतः |
अग्राच्च चतुरङ्गुल्यात् बद्धं कृष्णाय षण्मुख || २६ ||

कुण्डलं सम्यक् बद्ध्वा तु वकारस्त्रिर्द्वयं तु हि |
शक्यं साशं बकारस्य सम्यग्बद्ध्वा तु बुद्धिमान् || २७ ||

शक्याधस्ता चाधारौ ताम्रेणैव तु कारयेत् |
पञ्चप्रादेशविस्तारं सुदृढं वर्तुलं भवेत् || २८ ||

चत्वारश्च समोपेता अनामिकाङ्गुलिमध्यमा |
त्रिशतेन फलेनैव एकैकाधारमुच्यते || २९ ||

निम्नं त्रियङ्गुलं विद्यात् स्थालवत्कारयेद्बुधः |
तुला प्रत्यय एवं स्यात् तुलाभारे तु शोभनम् || ३० ||

सर्वायुधं तु राजानं सर्वाभरणभूषितम् |
पूर्वं संवेश्य मन्त्रज्ञः प्रासादेन षडानन || ३१ ||

पश्चिमे चैव आधारे सुवर्णं तत्र विन्यसेत् |
जाम्बूनदं शातकुम्भं रथकाञ्चनमेव च || ३२ ||

उत्तमं जाम्बूनदं चैव मध्यमं शातकुम्भकम् |
सुवर्णं काञ्चनमयं कुर्वात्मके तुं विन्यसेत् || ३३ ||

द्वयं सम्यक्समधृतं तुलाभारमिदं भवेत् |
दशनिष्कं च निष्कं वा सुवर्णे चाधिकं भवेत् || ३४ ||

शताधिकं सुवर्णं तु तुलाभारं चोत्तमं भवेत् |
मध्यं पञ्चाशाधिकं कन्यसं दशनिष्ककम् || ३५ ||

ऋग्यजुस्सामाथर्वैश्चोष्ट दिघोममारभेत् |
प्राच्यां चैव तु आग्नेययां बहुवृचौ होममेव तु || ३६ ||

दक्षिणे नैर्-ऋते चैव यजुर्विद्धोममारभेत् |
पश्चिमे चैव वायव्ये सामगेन होममारभेत् || ३७ ||

उत्तरे चैव ऐशान्यां आथर्वो होममाचरेत् |
देशिको मध्यमे जुहुयात् धनदस्यैव तु पूर्वतः || ३८ ||

वेदादीन् जुहुयात्पूर्वं पुरुषसूक्तं ततो हुनेत् |
विष्णुसूक्तं रुद्रसूक्तं ब्रह्मजज्ञानमेव च || ३९ ||

अरुणं च महावल्ली त्वरितं रुद्रं तथैव च |
त्रियम्बकं हंसशुचिः त्रिपदं जातवेदसम् || ४० ||

दशहोता सप्तहोता चतुर्होता च होमयेत् |
ब्रह्मसाम ज्येष्ठसाम बृहद्रथन्तरमेव च || ४१ ||

विकर्णं महाव्रतं चैव पुरुषाङ्गं च होमयेत् |
बहिः पवमानं जुहुयात् विष्णुसाम च होमयेत् || ४२ ||

रुद्रसामं चाग्निहोममिन्द्रं वै सौम्यमेव च |
नारायणं ब्रह्मशिलां अथर्वशिरसस्तथा || ४३ ||

चण्डरुद्रं नीलरुद्रं ब्राह्मं वै चन्द्रं होमयेत् |
पिप्पलादैर्बार्हस्पत्यं आङ्गीरसं सौरवैष्णवम् || ४४ ||

मुण्डप्रज्ञे च वै वत्स अध्यात्म ब्रह्ममेव च |
ऋत्विजानां च सर्वेषां व्याहृतिं च शतं हुनेत् || ४५ ||

तथैव जुहुयात्सावित्रीं गोघृतेन षडानन |
प्रत्येकमष्टसाहस्रं समिधः पृथगेव तु || ४६ ||

पलाशखदिराश्वत्थ प्लक्षन्यग्रोधमेव च |
बिल्वोदुम्बरशामी च अपामार्गमुदाहृतम् || ४७ ||

अष्टोत्तरसहस्रं तु प्रत्येकं त्रिसहस्रकम् |
पञ्चघटिका त्रिघटिका द्विघटिका वापि धारयेत् || ४८ ||

यावद्धोमं समाप्येत तावदेव तु धारयेत् |
प्रासादं तु जपेत्तावत्द्यावदारोपणं नृपः || ४९ ||

आदौ चान्त्ये तु पुण्याहं सवेदाध्ययनं भवेत् |
ब्रह्मघोषैः पुष्कलैस्तु जयशब्दैरथर्वभिः || ५० ||

शङ्खतूर्यनिनादैश्च भेरी वेणुमृदङ्गकैः |
वीणाकिन्नर शब्दैश्च गीतनृत्तादिशोभनैः || ५१ ||

तुलाभारकाले सर्वं तु कारयेत्सुसमाहितः |
समिदाज्यचरुं लाजं तिलं शालिं च सर्षपान् || ५२ ||

नीवारयववेणुं च पृथक् सहस्रं तु योजयेत् |
सहस्रं वा तदर्धं वा यथाशक्ति दक्षिणां ददेत् || ५३ ||

तुलाभार द्रव्य सर्वं तु वस्त्राभरणसंयुतम् |
द्विजानां वेदविदुषां दरिद्रश्रोत्रियार्थिनाम् || ५४ ||

मिश्रभूममहाचार्यं द्विजेभ्यश्च प्रदापयेत् |
विद्यानुष्ठानुसारेण शान्तो दान्ताय दापयेत् || ५५ ||

ऋत्विजः पूजयेत्तत्र अन्यद्द्रव्येण वै नृपः |
गोभूमिकाञ्चनै * र्धैस्स्वर्ण यज्ञोपवीतकैः || ५६ ||

मकुटैः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः |
अङ्गुलीयैरनेकैश्च पूजयेदृत्विजः पृथक् || ५७ ||

दशगुणं देशिकाय दापयेन्मन्त्रपूर्वकम् |
तत्रोपयोग द्रव्याणि देशिकाय प्रदापयेत् || ५८ ||

सर्वं वार्णिकमन्नाद्यं तस्मिन्नहनि कारयेत् |
एवं शास्त्रोक्तमार्गेण तुलाभारं तु कारयेत् || ५९ ||

तस्य पुण्यफलं सर्वं शृणु षण्मुख तत्त्वतः |
यावत्तद्रोमसंख्या तु कनकं यावत्फलम् || ६० ||

तावद्युगसहस्राणि शिवलोके महीयते |
तावद्रुद्रपुरे वत्स तावद्विष्णुपुरे वसेत् || ६१ ||

तावद्ब्रह्मपुरे वत्स तावदिन्दुपुरे वसेत् |
तावत्स्वर्गे वसेद्धीमान् देवस्त्री परिवारितः || ६२ ||

इन्दुलोकमवाप्नोति चतुर्वेदविदो भवेत् |
वेद वेदाङ्गतत्त्वज्ञो योगतत्त्व परायणः || ६३ ||

महाकुले समृद्धे तु महाधनपतिर्भवेत् |
ज्ञानाद्वैराग्यमाप्नोति वैराग्याद्योगमाप्नुयात् || ६४ ||

योगज्ञानेन मोक्षं स्यादित्या * * * * * वेः |
तुलाभारेण वै वत्स इह लोके सुखी भवेत् || ६५ ||

सर्वव्याधिविनिर्मुक्तः सर्वैश्वर्यसमन्वितः |
अपमृत्युशतं जित्वा दीर्घमायुरवाप्नुयात् || ६६ ||

गोघ्नश्चैव कृतघ्नश्च भ्रूणहा मित्रघातकः |
शरणागतघाती च मित्रहामातृहा तथा || ६७ ||

तुलाभारेण तत्सर्वं नाशयेन्नात्र संशयः |
घृतस्नानं शिवे कुर्यान्महदर्चनमेव च || ६८ ||

केशवेशं च गव्येन महदर्चनमेव च |
सर्वदैवतपूजा च तस्मिन्नहनि कारयेत् || ६९ ||

  • * * हगतान् सर्वान् बन्धं मोक्षं च कारयेत् |

सम्यग्ज्ञात्वा दर्शयेत्तु तुलाभारं समाहितः || ७० ||

शतवर्ष सहस्राणि स्वर्गलोके महीयते |
परिचारकस्तुलाभारे शाठ्यमात्सर्य वर्जितः || ७१ ||

शतवर्षसहस्राणि स्वर्गलोके महीयते |

इति कालोत्तरे तुलाभारपटलः एकोनचत्वारिंशत् || ३९ ||

Kapitel 40 – Das Hiranyagarbha-Ritual

|| श्रीः ||
ईश्वर उवाच-
हिरण्यगर्भविधानं तु समासाच्छृणु षण्मुख |
विधिना हिरण्यगर्भेण देवयोनिविनिर्गताः || १ ||

उमारूपणेश्वरण्यं तु तद्गर्भं देविकोष्ठकम् |
मन्त्रेण स्वरबीजं तु उमाक्षेत्रमुदाहृतम् || २ ||

हिरण्यगर्भेण मेधावी अमरत्वमवाप्नुयात् |
पूर्वोक्तस्थानकाले तु हिरण्यगर्भं प्रवेशयेत् || ३ ||

उत्तमं जाम्बूदनदं चैव मध्यमं जातकुम्भकम् |
सुवर्णं चाधमं विद्धि दीनारं शातकुम्भवत् || ४ ||

काञ्चनं त्रिषु सुषिरं जाम्बूनदसमं भवेत् |
षट्चत्वारिंशत्सहस्रैरुत्तमं हि षडानन || ५ ||

मध्यमं पञ्चविंशैस्तु सहस्रैर्गर्भमारभेत् |
द्वादशसहस्रेणाधमं हिरण्यगर्भमुदाहृतम् || ६ ||

अधः पात्रं कारयेत्पूर्णमष्टादश सहस्रकम् |
अष्टाविंशत्सहस्रेण ऊर्ध्वपात्रं तु कारयेत् || ७ ||

उत्तमं गर्भमित्याहुः मध्यमं प्रोच्यतेऽधुना |
दशसहस्रेणाधःपात्रं कारयेन्मध्यगर्भकम् || ८ ||

पञ्चदशेन मेधावी सहस्रेणोर्ध्वपात्रकम् |
मध्यमं गर्भमित्याहुः शिवेन परिभाषितम् || ९ ||

पञ्चसहस्रेणाधः पात्रं कारयेत्तत्र पारगः |
सप्तसहस्रेणोर्ध्वपात्रं सम्यक्कृत्वा षडानन || १० ||

उमारूपमधःपात्र कारयेद्द्विभुजं भवेत् |
संपूर्णं चन्द्रवदनं द्विनेत्रं चारुलोचनम् || ११ ||

घनस्तनं निम्ननाभिं कषां मध्यं सुबाहुकम् |
पृथु नितम्बं कुर्वीत कम्बुग्रीवं तु सुभ्रुवम् || १२ ||

कदलीदण्डवच्चोरुं दण्डयोश्शराधवद्भवेत् |
सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम् || १३ ||

अधः पात्ररूपमेवं ऊर्ध्वपात्रे तु केशवम् |
चतुर्भुजं द्विनेत्रं तु शङ्खचक्रगदाधरम् || १४ ||

सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् |
नवमालाधरं देवं शार्ङ्गायुधधरं परम् || १५ ||

पद्माक्षं पद्मवदनं पद्मपादकराम्बुजम् |
पीतवस्त्रधरं देवं हारकेयूरभूषितम् || १६ ||

नारायणं चोर्ध्वपात्रे कारयेत्सुसमाहितः |
अधःपात्रे महालक्ष्मीं पद्मकिञ्जल्कसप्रभाम् || १७ ||

सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् |
चारुचामीकरच्छायां सरोजकरपल्लवाम् || १८ ||

श्यामाम्बरधरां सौम्यां द्विनेत्रां द्विभुजांशुभाम् |
पीतोन्नतस्तनां शुभ्रां कुण्डलाभ्यामलंकृताम् || १९ ||

हारकेयूररशनां नूपुरैः पादशोभिताम् |
अनिम्नस्निग्धकेशान्तां किञ्चित्प्रहसिताननाम् || २० ||

श्रीरूपमेवं कुर्वीत अधःपात्रे षडानन |
अथवा सिंहरूपं तु हिरण्यगर्भं तु कारयेत् || २१ ||

अथ वर्षं स्वरूपं तु धेनुरूपमथापि वा |
गजरूपं वा प्रकर्तव्यं हिरण्यगर्भं समाविशेत् || २२ ||

अथवा ब्रह्मरूपं तु सावित्रीरूपमेव च |
द्यावापृथिव्योर्विश्वरूपं * सद्यं तु कारयेत् || २३ ||

जन्मनक्षत्रे कुर्वीत सिद्धं योगे तु वा पुनः |
चन्द्रसूर्यग्रहणे अयने विषुवेऽपि वा || २४ ||

हिरण्यगर्भं प्रविशेत् पञ्चगव्येन पूरयेत् |
पुरुषस्यासीनमात्रं तु हिरण्यगर्भं तु कारयेत् || २५ ||

स्वविस्ताराङ्गुलाधिक्यं उत्सेधं तु षडङ्गुलम् |
अथवा प्रादेशविस्तारं कुर्यात्तालाधिकं तु वा || २६ ||

अधः पात्र प्रमाणं तु गर्भशास्त्रविशारदः |
एतत्कालाधिकं कुर्यात् ऊर्ध्वपात्रं षडानन || २७ ||

पात्रद्वयं च सर्वत्र प्रादेशादधिकं हि तत् |
सुखं प्र * * * कुर्यात्पादौ हस्तौ तु वानलम् || २८ ||

प्रमाणयुक्तं पञ्चगजं गन्धपुष्पसमन्वितम् |
सम्यगापूरयित्वा तु ब्रह्मजज्ञानकेन तु || २९ ||

प्रविश्य विष्णुमन्त्रेण गर्भाधानन्तु वेदिकैः |
दशास्यां पुत्रानाधे हि गर्भाधानन्तु होमयेत् || ३० ||

प्राजापत्येन इत्येव अष्टोत्तरशतं हुनेत् |
प्रजावज्जीवपुत्राभ्यां इति प्रजापतेर्मतम् || ३१ ||

अजितामोषधीसैकं पुटे प्राणस्य दक्षिणे |
हविषा होमयेच्छेषं पालाशेध्मं तु कारयेत् || ३२ ||

भवेत् पुंसुवनं ह्येवं सीमन्तं व्याहृतिं हुनेत् |
एकविंशत्कुशान् शमीन् उदुम्बरफलानि च || ३३ ||

सावित्र्या व्याहृतिभिः प्रणवाद्यं योजयेद्बुधः |
धाता द्वितीयं राकामहमिति द्वितीयं प्रजापतेः || ३४ ||?

सीमन्तं तु बह्वेद्देवं जातकर्म ततःशृणु |
धृते ददामि मधुना घृतेनेति घृतं मधु || ३५ ||

अस्या भव इति द्वितीयमंशदेरे उपस्पृशेत् |
तैर्मन्त्रैश्च हुनेद्वत्स शतमष्टोत्तरं हुनेत् || ३६ ||

घृतेन हविषा चैव समित्क्षीरतिलेन च |
प्रत्येकमष्टोत्तरसहस्रं तु दर्धं वाष्टशतं तु वा || ३७ ||

जातकर्म भवेदेवं नामकर्म ततः शृणु |
नामधेयं दशम्यां तु द्वादश्यां वापि कारयेत् || ३८ ||

पुण्येति सुमुहूर्ते वा नक्षत्रे वा गुणान्विते |
हवतास्वर्मशर्मघोषान्यन्तं प्रयोक्तव्यम् (?) || ३९ ||

पुरुषसूक्तं रुद्रसूक्तं विष्णुसूक्तं तथैव च |
पूर्ववज्जुहुयान्मन्त्री तन्नामसंपुटं भवेत् | ४० ||
तृतीये वत्सरे वत्स चौलकर्म विधीयते |
ओषधे त्रायस्वैनमिति * * * * * * * || ४१ ||

स्वधिते मयनं हिंसेति नवनीतेन क्षुरधारा निवेशयेत् |
मन्त्रयोगं प्रकर्तव्यं एतैर्मन्त्रैस्तु छेदनम् || ४२ ||

मन्त्रत्रयैश्च वै वत्स कारयेद्वेदपारगम् |
न पक्वात्केशवचनच्छेदनं तु च कारयेत् || ४३ ||

एतैर्मन्त्रैः समस्तैश्च होमं कुर्याद्द्विजोत्तमः |
षोडशैर्द्वादशैर्विप्रैः नवविप्रैश्च होमयेत् || ४४ ||

विशेषं पवमानं च हिरण्यं शन्तवर्गकम्
पृथगष्टोत्तरसाहस्रं अष्टोत्तरशतं तु वा || ४५ ||

उपनयनं कारयेद्विद्वान् पञ्चमे पावके गुह |
गर्भाष्टमे वा कर्तव्यं श्रुतिदृष्टेन कर्मणा || ४६ ||

वस्त्रं च मेखलादण्डं उपवीतमजिनं तथा |
पित्रैः पञ्चभिर्दद्यात् दीप्ताग्निं तत्र मन्त्रकैः || ४७ ||

अग्न आयूंषि च त्रिभिः प्रजापते त्वर्यमेति च |
पुरुषसूक्तैर्विष्णुसूक्तैः रुद्रसूक्तैश्च होमयेत् || ४८ ||

सावित्रीपठनं चैव समिदाधानमेव च |
जलप्रदानं यत्किञ्चित्तत्सर्वं ब्रह्मयज्ञकम् || ४९ ||

व्रतानां व्रतपतेति इमं स्तोममर्हते |
त्रिभिर्महाद्यादिवेद * * वृत्तञ्च जुहुयात् || ५० ||

सावित्र्या इमं मे वरुण तत्त्वायामि जयप्रभृति राष्ट्रभृतं च जुहुयात् |
एक एव घटिकां च प्रत्येकं षोडश क्रिया || ५१ ||

कूश्माण्डाश्च जुहुयाज्जय प्रभृति हुतेऽपि वा |
एवं हि विप्रैर्भुक्त्वा तु तत्काले विप्रभोजनम् || ५२ ||

वसोर्धारा च तत्काले हिरण्यगर्भे तु होमयेत् |
पुण्याहं वाचयेत्तत्र आदावन्ते च षण्मुख || ५३ ||

पूर्वाह्ने सर्वं कुर्वीत सुपुण्ये दिवसे शुभे |
सिंहे मुखं गृहीत्वा तु तदास्येन विनिष्क्रमेत् || ५४ ||

गच्छेत् क्षुरिकां गृहीत्वा तदास्येन विनिष्क्रमेत् |
ब्रह्मणा ब्रह्मगर्भे तु स्वस्वत्या इति निष्क्रमेत् || ५५ ||

विभवे सति कुर्वीत हिरण्यगर्भं द्विजोत्तमैः |
वैश्यशूद्रैर्न कर्तव्यं विभवै सति वै गुह || ५६ ||

आपस्तम्बे प्रापच्छन्नेदधर्वे पिप्पलादिके |
अष्टादशसु धर्मेषु एतरायणसूत्रके || ५७ ||

विधिरेषु समन्नास्ति इतिहासपुराणके |
कालोत्तरे महाशास्त्रे हिरण्यगर्भं प्रदर्शितम् || ५८ ||

प्राच्यां मुखे प्रवेष्ट व्यमासीनः प्राची(ञ्च?) मेव हि |
पुण्याहं जयशब्दैश्च शङ्खतूर्यरवैः शुभैः || ५९ ||

अध्यायनञ्च कर्तव्यं घृतस्यान्नं शिवो भवेत् |
भूणमिश्रायदातव्यं हिरण्यगर्भं जलेन तु || ६० ||

अथवा सोमपानाय दरिद्राय प्रदापयेत् |
ऋत्विजः पूजयेत्तत्र गोभूमिकाञ्चनादिभिः || ६१ ||

दक्षिणाभिरनेकाभिः हारकेयूरकुण्डलैः |
अश्वमेधसहस्रस्य वाजपेयायुतस्य तु || ६२ ||

कपिलाशतसहस्रस्य तत्फलं लभते तराम् |
हिरण्यगर्भेण वै वत्स सर्वव्याधिहरं भवेत् || ६३ ||

सवोपपसर्गा नश्यन्तिं इति सत्यं षडानन |

इति कालोत्तरे हिरण्यगर्भपटलश्चत्वारिंशतितमः || ४० ||

Kapitel 41 – Der Sesamberg

|| श्रीः ||
ईश्वर उवाच-
तिलपर्वविधानं तु सांप्रतं शृणु षण्मुख |
सर्वेषामेव दानानां तिलदानं प्रशस्यते || १ ||

पूर्वोक्तस्थानकाले तु तिलपर्वतमुत्तमम् |
कारयेद्देशिको धीमान् वेदशास्त्र विशारदः || २ ||

भूतले सुसमे रम्ये शिवस्यायतनाग्रतः |
ऊर्ध्वबाहुः स्वयं सम्यग्यजमानस्य देशिकः || ३ ||

दण्डसंस्थानयत्नेन तिलांस्तु परिकल्पयेत् |
व्रीहिपाषाण निर्मुक्तान् कृमिकीटादिवर्जितान् || ४ ||

पुण्याहं वाचयित्वा तु तूर्यघोषैश्च वेणवैः |
पञ्चगव्येन संप्रोक्ष्य गर्भमालां प्रकीर्य च || ५ ||

तिलानां पूरणं कुर्यात् मानदण्डं प्रमाणतः |
सयोजातेन मन्त्रेण देशिको मूर्तियैः सह || ६ ||

तिलपर्वतमावेष्ट्य वस्त्रैः शुभ्रैस्तु सर्वतः |
परितः पुष्पमालाभिः फलैर्नानाविधैरपि || ७ ||

अलंकृत्य ततः कुर्यात् नवरत्नैः सुशोभितम् |
अष्टलोहसमाकीर्णं विदद्यात्तिलपर्वतम् || ८ ||

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः |
पञ्चैते मूर्तयः पूज्याः पञ्चभिः ब्रह्मभिः शुभैः || ९ ||

वारुण्यां पद्मजः पूज्य सद्योजातेन वै गुह |
वामदेवेन मन्त्रेण विष्णुमुत्तरभागतः || १० ||

रुद्रो दक्षिणतः पूज्यो ह्यघोरेण ततः प्रभुः |
ईश्वरं पूर्वदिग्भागे वक्त्रमन्त्रेण चार्चयेत् || ११ ||

यजेत्सदाशिवं देवं ऐशान्यां दिशि मन्त्रवित् |
सौवर्णं राजतं वापि प्रतिमां कारयेत् पृथक् || १२ ||

अर्चयित्वा यथान्यायं गन्धपुष्पादिभिः शुभैः |
दक्षिणाभिरनेकाभिराचार्यं पूजयेच्छुचिः || १३ ||

पञ्चब्रह्मशिवाङ्गाद्यैर्मूर्तिपा गुरुणा सह |
सोमादि तु ततः कुर्यात् सद्योजातादिभिः क्रमात् || १४ ||

अष्टोत्तरेषु तन्त्रेषु प्रत्येकं समुदाहृतम् |
लोकपालांस्तु संपूज्य स्वदिक्षु विधिना गुह || १५ ||

तिलपर्वतः संप्रोक्तो निष्कलः परमञ्जयः |
तस्मात्तमर्चयेद्देवं तिलपर्वतरुपिणम् || १६ ||

यजमानः प्रणम्यैनं तिलपर्वतमीश्वरम् |
शिवभक्ताय युक्ताय वेदानां पारदृश्वने || १७ ||

विदुषे सर्वशास्त्रेण दद्यात्तु तिलपर्वतम् |
यस्त्वेवं विधिना वत्स ददाति तिलपर्वतम् || १८ ||

अग्निष्टोमसहस्रेभ्यो वाजपेयशतस्य च |
गवां शतसहस्रस्य दत्तस्य फलमश्नुते || १९ ||

गोघ्नश्चैव कृतघ्नश्च ब्रह्महा पितृघातकः |
मुच्यते पातकैश्चान्यैः देहान्ते तु शिवं व्रजेत् || २० ||

आचार्यं पूजयेत्पश्चात् कुण्डलाभरणादिभिः |
गोभूमिकाञ्चनैर्वस्त्रैर्गेहोपस्करणादिभिः || २१ ||

अथवा परमेशानमष्टोत्तरशतैरपि |
कलशैः स्नापयित्वा तु समभ्यर्च्य यथाविधि || २२ ||

हुनेत्प्रासादमन्त्रेण गुरुरष्टोत्तरं सुधीः |
महादेवो हरोरुद्रः शङ्करोनीललोहितः || २३ ||

ईशानो विजयो भीमो देवदेवो भवोद्भवः |
कपालीशश्च विज्ञेयः वरुणादिदशास्त्विमे || २४ ||

समन्तात्सकलेशस्य पूजनीया यथाक्रमम् |
कृष्णाजिनेन संपूज्य तिलानां षोडशाढकैः || २५ ||

सुवर्णत्रयसंयुक्तं वस्त्रयुग्मेन वेष्टितम् |
शोभितं पुष्पमालाभिः फलैः पुष्पैरलंकृतम् || २६ ||

रुद्रानेकादशान् ध्यात्वा क्रमेण परिदापयेत् |
शिवभक्ताय दान्ताय श्रोत्रियाय द्विजन्मने || २७ ||

य एवं कुरुते भक्त्या विधिनानेन संयुतः |
आयुः श्रीविजयं कीतिमनुभूय शिवं व्रजेत् || २८ ||

इति कालोत्तरे तिलपर्वतपटलः एकचत्वारिंशतितमः || ४१ ||

Kapitel 42 – Die Gabe der Erde

|| श्रीः ||
ईश्वर उवाच-
अतः परं प्रवक्ष्यामि पृथिवीदानमुत्तमम् |
दानानामुत्तमं दानं पृथिवी सर्वकामिकाम् || १ ||

सर्वरत्नानि धान्यानि सर्ववस्तुरसानि च |
देवासुरमनुष्यांश्च यक्ष किं पुरुषादयः || २ ||

गावो गजा रथा दासी दासहेमवसूनि च |
सर्वं पृथिवीदानेन सर्वतः फलमाप्नुयात् || ३ ||

समुद्रा पर्वता द्वीपा समातिविषमा शुभा |
सर्वं दातुन्न शक्तत्वात् तदुपायः सुदुर्लभः || ४ ||

सुवर्णेन सर्वं कृत्वा द्विजेभ्यः प्रतिपादयेत् |
चराचरस्य दानफलं लभते नात्र संशयः || ५ ||

पूर्वोक्तस्थानकाले तु पृथिवीं कारयेद्बुधः |
लक्ष * * * कर्तव्यं पृथ्वीदानं नरोत्तमैः || ६ ||

जम्बीद्वीपेन चोत्तमं शातकुम्भं तु तत्समम् |
हिरण्येन मध्यमं कुर्यात् स्वर्णकाञ्चनकन्यसम् || ७ ||

होमेन मध्यमं विद्यात् कारयेद्वेदशास्त्रवित् |
द्रव्यत्याग * * षण्णां हेमजाम्बूनदादयः || ८ ||

शातकुम्भं जाम्बूनदं हिरण्यं हैममेव च |
क्षयञ्चयान्नित्यगेन एषामन्यतमेन च || ९ ||

चतुरश्रं कारयेत्पृथ्वीं मेरुमध्येन कारयेत् |
त्रिसहस्रेण महामेरुः कन्यसं हि षडानन || १० ||

मध्यमं दशसहस्रेण उत्तमं विंशतिर्भवेत् |
जम्बूद्वीपस्य मध्ये तु महामेरुं कारयेत्ततः || ११ ||

नीलनिषधपारियात्री हिमवान्विन्ध्यमहेन्द्रकान् |
ऋक्षसह्यमयं चापि श्रीशैलं स्वामिपर्वतः || १२ ||

गोवर्धनं सुपार्श्वं च विपुलः हरिशैलकम् |
महामेरुं चतुर्दिक्षु कारयेत्तत्र पारगः || १३ ||

गङ्गा यमुना गोमती सरयूंश्च सरस्वती |
सिन्धुशोणा पश्चिममुखा गङ्गादींश्चतुरो नदीन् || १४ ||

  • * * * * * * * पूर्वमुखांस्तु लेखयेत् |

द्वृषद्विहिवज्रहंसीप्लावनी पश्चिमामुखाः || १५ ||

गोदावरी तु कावेरी ताम्रपर्णीपूर्वमुखाः |
सुपार्श्वा च चतुश्शैला महामेरोः पूर्वदक्षिणतः || १६ ||

पश्चिमोत्तरं कारयेत्सह्यं दक्षिणोत्तरतः कारयेद्दिव्यं सुदिव्यं कुलशैलम् | महामेरोः पूर्वेण
कारयेत् | पश्चिमतः | धरधराजाकरणं शैलं कारयेत् | उत्तरतो विशालस्समुखेः | सुभद्रस्तु
क्षोणिः | चतुर्धाधाराधरन्धारयेत् | भारतवर्षं किंपुरुषं महामेरोर्दक्षिणतः कारयेत् |
भद्राश्वमिवावृतं पूर्वे कारयेत् | केतुमाल्यं हिरण्मयं विदद्यादुत्तरे कुरु | नाभिमुत्तरतो
जम्बूद्वीपमेवं कृत्वा महामेरोरन्यं कृत्वा तु पूर्वतः | एकैकशतेन हिरण्येन कारयेत् | श्रीकैलासं
राजतेन पञ्चसहस्रेण कारयेत् | शाककुशक्रौञ्च शाल्मलीगोमेदपुष्करान् |
क्षारक्षीरदधिसर्पिरिक्षुरसमदिरास्वादकसप्तसमुद्रान् कारयेत् |
समुद्रैरावृता द्वीपा द्वीपैस्तेऽपि समावृताः |
एवं द्विगुणतो वृद्ध्याप्युत्तरं ह्युत्तरोत्तरम् || १७ ||

समुद्रात्किञ्चिदुन्नताद्द्वीपान् कारयेत् | पुष्करद्वीपमध्ये मानसोत्तरं पर्वतं त्रिसहस्रेण कारयेत् |
शेषेषुद्वीपेषु कङ्कसुखं करमतङ्गशिंशुमारं भारते विष्णुपर्वतः | द्वीपेषु एकैकं त्रिंशतेन
हाटकेन कारयेत् | लवणमहोदधौ त्रिकूट महाशैलं सहस्रेण कारयेत् | सप्तसमुद्रान्
द्वीपैराद्यन्तरं कारयेत् | रत्निमात्रं क्षारसमुद्रं द्विगुणं द्विगुणं हेमशतेन कारयेत् |
महामेरोरुत्तरपूर्वे श्वेतद्वीपं त्रिसहस्रयोजन विस्तीर्णं कारयेत् | स्वादूदकसमुद्रात्परितो
लोकालोकपर्वतं वतुलाकारं कारयेत् | विंशतिसहस्रेण शातकुम्भेन समुद्रान् सर्वान् कारयेत् | पर्वतान्
सर्वान् सुवर्णान् कारयेत् | विन्ध्य हिमवन्तौ पूर्वापरसमुद्रगौ सहस्रेण कारयेत् | सप्तसमुद्रा सप्त
कुलशैला स्वनामाक्षरैः तत्प्रदेशे लेखयेत् | नदीनां च लोकालोकपर्वतशिखरेष्वष्टलोकपालान्
कारयेत् | पूर्वे इन्द्रः आग्नेययामग्निः याम्यायां यमः नैर्-ऋत्यां निर्-ऋतिः वारुण्यां वरुणः
वायव्यां वायुः सौम्यायां सोमः ऐशान्यामीशानः श्रीकैलासे महामेरोरधः प्रदेशे लेखयेत् |
गन्धपुष्पधूपदीपाद्यर्घ्यनैवेद्यादिभिः पृथक् पृथक् कारयेच्च | पङ्कजोत्पलचम्पकैः
करवीरजातिकर्णिकारतुलसीबिल्वशमी कुसुमैः पृथक्पृथक्पूजयेत् | स्नातो जितेन्द्रियः उपवासो जपः
पुण्याहमिति त्रिः प्रदक्षिणीकृत्य सर्वदेवान्नमस्कृत्य महामेरुशिखरे आरोहयेत् |
पश्चात्पार्श्वे ईषदधस्तात्सर्वदेवान् पश्चिमकृत सदाप्रासाद प्रणव जपतत्परः |
द्वात्रिंशत्षोडशावष्टौ वा वेदविदो होमं कुर्युः | महामेरोः पूर्वाशास्थाकुण्डे वसोर्धारां
कारयेत् | पूर्वोक्तमन्त्रैरष्टभिः पलाशखदिरपिप्पलान्यग्रोधप्लक्ष बिल्वशद्योदुम्बरापामार्गश्चेति
समिदाज्यचरु तिलसर्षपशालीयववैणव पञ्चगव्याश्चेति होमद्रव्याणि वेदाध्ययनं चतुर्वेदविद्भिः
त्र्यहं पञ्चाहं वा सप्ताहं वा स्वजन्मदिवसादेवं कृत्वा विधानेन द्विजेभ्यः प्रतिपादयेत् |
अयुतं चाश्वमेधस्य फलं प्राप्नोति मानवः |
कपिलाश्वसहस्रं च कन्यादानं तथैव च || १८ ||

तत्फलं लभते वत्स पृथ्वीदानेन वै नृपः |
समस्तपापनिर्मुक्तः सर्वव्याधिविवर्जितः || १९ ||

सर्वैश्वर्यसमायुक्तो जीवेद्वर्षशतं नृपः |

इति कालोत्तरे पृथ्वीदानपटलो द्विचत्वारिंशत् || ४२ ||

Kapitel 43 – Das Erscheinen des Linga

|| श्रीः ||
ईश्वर उवाच-
लिङ्गोद्भवं प्रवक्ष्यामि लिङ्गलक्षणमेव च |
प्रासादलक्षणञ्चैव प्रतिमालक्षणं तथा || १ ||

परिवारलक्षणं चैव प्रतिष्ठालक्षणं हि तत् |
सर्वदेव प्रतिष्ठा च रूपं वर्णं च बीजकम् || २ ||

स्थानं फलं च सर्वेषां स्थापनं हि यथा विधि |
ग्रामे वा नगरे वापि पत्तने खेटकेपि वा || ३ ||

एतेषां स्थापनं चैव गर्भलक्षणमेव च |
सर्वमेतत्प्रवक्ष्यामि समासाच्छृणु सांप्रतम् || ४ ||

आसीत्समन्तात्तमसाभिभूते
प्रणष्ट तारागण चन्द्रसूर्यके |
एकार्णवे चोर्ध्वजले शयेऽस्मिन्
विशीर्णभूम्या दिवनप्रदेशे || ५ ||

तत्रादिदेवः किल पद्मयोनिः
चक्रायुधः शङ्खगदायुधश्च |
द्वावेव तावेव वरौ पुराणौ
विचेरतु स्तोयनिधानमध्ये || ६ ||

कदाचिदम्भोरुहगर्भजन्मा
गोविन्दमायान्तमवेक्ष्य पूर्वम् |
उवाच पूर्वं सह सर्वं कृत्वा
विशालां भ्रुकुटिं ललाटे || ७ ||

कः को भवान् ब्रूहि किमत्रकार्यं
येनाभिवेगेन समागतस्त्वम् |
इत्येवमुक्तो मधुसूदनस्त्वं
पद्मोद्भवं स स्मितमेवमाह || ८ ||

पुराणमीशं महिमानमीड्यं
स्रष्टारमेकं जगतः प्रधानम् |
नवेत्सि किं मामपरादिदेवं
नारायणं चक्रगदादिहस्तम् || ९ ||

निशम्य तद्वाक्यमतिप्रगल्भं
विष्णो क्षणेन क्षुभितान्तरात्मा |
ब्रह्मा तदा प्राह हरिं विहस्यन्
निष्ठार्थयुक्तं वचनं सरोषम् || १० ||

मत्तोसि किं येन न वेत्सि मां तं
अहं हि सर्वस्य चराचरस्य |
कर्ता च धाता च तथा च भर्ता

  • * * * * * * * * * * * * * * * * * || ११ ||

एवं तयोर्हरिपितामहयोर्विवादे
घोरे महाभयंकरे खलु वर्तमाने |
लिङ्गाकृतिः प्रलयसूर्यसहस्रभासा
तत्रोत्थितं किमपि नाम तयोः पुरस्तात् || १२ ||

तत्कालाग्नि शिखाकलापकुटिलं संवीक्ष्य तावूचतुः
कोयं नाम किमत्र कारणमिदं प्रोद्भूतमेतत्कथम् |
धिक्कष्टं च मध्यमस्य महतों नारम्यमालोक्यते
क्रोधार्थः परिमोक्ष एव सहसा कं चावयोरागतौ || १३ ||

प्रणिपत्य पुनर्ब्रह्मा उवाच मधुसूदनम् |
शनैरूर्ध्वमधश्चैव यास्या व उपलक्षयेत् || १४ ||

अधः परीक्षितं विष्णु गतश्चोर्ध्वं पितामहः |
एवं तदाष्टसहस्रमेकं साग्रं व्यतीतं न च लब्धमन्तः |
ततस्सुखिन्नौ परिखिन्नचित्तौ
समागतौ तत्र पुनः क्षणेन || १५ ||

पवनजलशशाङ्कसूर्यवह्नि-
क्षितियजमान नभोमहीभिरेवम् |
तनुभिरन्विदमशेषमीशं
निहितमरेहि जगत्त्वया विभाति || १६ ||

अग्निस्त्वमीशो वरुणो विभावस्तुः
त्वं शकोसि देवो धनदोसि यमोसि कोसि |
आज्ञापयत्रिदशनाथ किमत्र कार्यम्
देव प्रसीद भवतो भवदुःखिताभ्याम् || १७ ||

नमो नमः सर्वविदे शिवाय स्थूलाय सूक्ष्माय नमो नमस्ते
नमो नमः कारणकारणाय सर्वात्मने सर्वशिवंकराय || १८ ||

शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमम् |
शिवमार्ग प्रणेतारं प्रणमामि सदाशिवम् || १९ ||

शाश्वतं शोभनं शुद्धं शंसकण्ठविशोधकम् |
विश्वविश्वेश्वरं देवं शंकरं प्रणमाम्यहम् || २० ||

आस्थान स्थान संस्थानं संस्थिति स्थिति भावनम् |
स्थिरमास्थानयोगस्थं स्थाणुमीनं नमाम्यहम् || २१ ||

सर्वं परापरं नित्यं सर्वपापहरं परम् |
सर्वपापहरं नाथं नमाम्यार्तिहरं परम् || २२ ||

ईशानं वरदं देवं ईशानं मन्त्रनायकम् |
ईशानं सर्वभूतानां ईशानं प्रणमाम्यहम् || २३ ||

एवं स्तुत्वा महादेवं नारायण चतुर्मुखौ |
महद्द्वौ दुःखमापन्नौ प्रणिपत्य मुहुर्मुहुः || २४ ||

लिङ्गमध्ये परं लिङ्गं सकलं परमेश्वरम् |
त्र्यक्षं चतुर्भुजं देवं चन्द्रार्धकृतशेखरम् || २५ ||

रूपं दृष्ट्वा महादेवं देवदेव्यङ्गमव्ययम् |
ऋग्यजुस्सामाथर्वैश्च दृष्ट्वा देवं महेश्वरम् || २६ ||

चराचरमिदं सर्वं सृष्टिकर्ता त्वमेव हि |
ब्रह्मादिस्तम्बपर्यन्तं स्थित्यैत्वं हि जनार्दन || २७ ||

किं वा लिङ्गं समाख्यातं कथं वा लिङ्गमुच्यते |
केन सर्वमिदं लोके महद्भूतं महेश्वरम् || २८ ||

ईश्वर उवाच-
लक्ष्मीस्थूललिङ्गमित्येवमादीन्यङ्गस्योस्यक्तान् वृद्धिपर्यायि शब्दपान् |
तस्माच्छब्दं ब्रह्मचैतद्धिलिङ्गं
ज्ञानेन नाना परमं ज्ञान एषः || २९ ||

मूले ब्रह्मा वसति नियतं मध्यभोगे च विष्णुः
सर्वैर्देवैः गणपतिवृतैः मूर्ध्नि चाहं निविष्टः |
सिद्धिः कीर्तिः कमलनिलया चात्र नित्यं विलीना
चन्द्रादित्यौ ग्रहगणयुतौ वायुरग्निर्दिशश्च || ३० ||

लीनस्तौम्याद्धन पतिरपि द्योतयन्नृत्तभागी
शक्रः प्राध्यान्त्रिदश महिनतो धर्मराड्दक्षिणेन |
लीने नित्यन्ननु जलपतिः पाशहस्तः प्रतीच्यां
एव * * * * लयमुपगता येन तस्माद्धि लिङ्गम् || ३१ ||

विश्वेदेवा लोकपाला मुनीन्द्राः
सिद्धाः साध्या गुह्यका पन्नगेन्द्राः |
देवा दैत्याराक्षसा यातुधानाः सर्वैर्देवैः दानवा मातरश्च || ३२ ||

वेदाः साङ्गाय धर्मकार्मार्थविद्या षड्जाद्युक्ता मण्डलश्च स्वराणाम् |
द्वीपाद्याः सागराः पन्नगेन्द्राः लीलास्तस्मिन् येन तस्माद्धि लिङ्गम् || ३३ ||

उच्छिष्टने ताल पिशाचभूतानां लयनाल्लिङ्गमुच्यते |
एतद्धिलिङ्गं प्रथमं तृतीयं सृष्टं पूर्वमनुग्रहार्थम् || ३४ ||

लोकस्य सर्वस्य चराचरस्य मद्भाग्ये तन्मयं परमं पवित्रम् |
एतद्धि लिङ्गं परमं पवित्रं सर्वात्मना नित्यमिहार्चनीयम् || ३५ ||

योऽभ्यर्चयेल्लिङ्गमनन्यचित्तः तेनार्चिताः सप्त भवन्तिलोकाः |
अस्यां जागरणोपेता नियता ब्रह्मचारिणः |
उपवासरताश्चैव बिल्वपत्रोत्पलादिभिः || ३६ ||

स्रग्धूपगन्धैर्विविधै कदाचिद्ये मानवाः लिङ्गमिवार्चयन्ति |
ते शूलहस्ता प्रथमा मदीया भवन्ति * * * रामि मुक्ताभिः || ३७ ||

गन्धस्रग्धूपदीपस्नपनबलियुतस्तोत्रमन्त्रोपहारैः
नित्यं येऽभ्यर्च्यन्ति त्रिदशपतितनुं लिङ्गमेतन्मदीयम् |
गर्भज्ञानार्तिजन्मक्लममरण जराव्याधिशोकैर्विहीना
त्र्यक्ष शूलासिहस्ता मम विषयगतास्ते गंतेशा भवन्ति || ३८ ||

कल्पान्ते तस्य लिङ्गस्य लीयन्ते सर्व देवताः |
दक्षिणे लीयते ब्रह्मा वामतश्च जनार्दनः || ३९ ||

चन्द्रादित्यौ चक्षुषी तु घ्राणे लीनस्तुमारुतः |
दिशस्तु श्रोत्रयोर्लीनाः हृदये गायत्री देवताः || ४० ||

वाचि वै सरस्वती लीना मूर्ध्नि तु द्यौर्विलीयते |
ललाटे भद्रकाली तु त्रि * * भूमिर्लीयते || ४१ ||

द्वीपाः समुद्राः पर्वता ऊरुदेशे तु लीनकाः |
जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् || ४२ ||

संक्षेपमात्रात्कथितं तव स्नेहात् षडानन

इति कालोत्तरे द्वादशसहस्रसंहितायां लिङ्गोद्भवपटलः त्रिचत्वारिंशत् || ४३ ||

Kapitel 44 – Linga und Verehrung

|| श्रीः ||
ईश्वर उवाच-
ग्रामे च नगरे चैव पत्तने खेटकेऽपि च |
प्राच्यां तु स्थापयेल्लिङ्गं भुक्तिमुक्तिकरं भवेत् || १ ||

शान्तिकं पौष्टिकं चैव पुत्रपौत्रविवर्धनम् |
आग्नेययां स्थापयेल्लिङ्गं सोमपानां हितं भवेत् || २ ||

वानप्रस्थगृहस्थानां ऋषीणां च सुखं भवेत् |
याम्यायां स्थापयेल्लिङ्गं मृत्युनाशनमेव च || ३ ||

सर्वव्याधिहरं चैव क्षयकुष्ठविनाशनम् |
नैर्-ऋत्यां स्थापयेल्लिङ्गं शत्रुनाशनमाप्नुयात् || ४ ||

संग्रामविजयं चैव सैन्यस्तम्भनमेव वा |
वारुण्यां स्थापयेल्लिङ्ग शान्तिकं पौष्टिकं भवेत् || ५ ||

पुष्टिदं सुखदं चैव सस्यवर्धनमेव च |
वायव्यां स्थापयेल्लिङ्गं ब्राह्मणानां सुखं भवेत् || ६ ||

आरोग्यं धनदं चैव पुष्टिशान्तिसुखावहम् |
सौम्यायां स्थापयेल्लिङ्गं नृपाणां विजयं भवेत् || ७ ||

गजाश्वरथमर्त्यानां भृत्यानां च सुखावहम् |
ऐशान्यां स्थापयेल्लिङ्गं सर्वकामफलप्रदम् || ८ ||

धर्मकामार्थमोक्षाश्च पुत्र पौत्रविवर्धनम् |
मध्ये तु स्थापयेल्लिङ्गं ऐहिकामुष्मिकावहम् || ९ ||

सुभिक्षं गोमहिष्याणां नृपाणां विजयं भवेत् |
चातुर्वर्ण्यहितं चैव आयुः श्रीकीर्तिवर्धनम् || १० ||

सुभिक्षं गोबहुलं चैव नित्यं कल्याणमाप्नुयात् |
महेन्द्रं वारुणं चैव आग्नेययां चा निलं च यत् || ११ ||

चतुर्धा भूमिराख्याता लिङ्गस्थापनकर्मणि |
माहेन्द्रं क्षत्रियाणां च ब्राह्मणानां तु वारणम् || १२ ||

आग्नेयं वैश्यजातीनां वायव्यं शूद्रजातिषु |
तोयं च सर्वसंपूर्णं सौम्ये तु क्षीरवृक्षां च पश्चिमे || १३ ||

दक्षिणे व्रीहिनिष्पत्तिः तृणभूमिश्च पूर्वतः |
अतिरक्ता भवेद्भूमिः कषायस्तु रसो भवेत् || १४ ||

रुधिरगन्धिर्भवेद्भूमिः माहेन्द्रं भूमिमादिशेत् |
जलपुष्प समाकीर्णं जलदुर्गसमावृतम् || १५ ||

कुशकाशादिभिर्युक्तं पद्मोत्पलसमन्वितम् |
श्वेतवर्णनिभं वत्स शङ्खकुन्देन्दु सन्निभम् || १६ ||

हंसकारण्डवाकीर्णं चक्रवाकोप शोभितम् |
जलपक्षसमाकीर्णं जलराशिसमन्वितम् || १७ ||

आज्यगन्धं च विज्ञेयं मधुरास्वादमेव च |
वारुणं भूमिरित्याहुः तल्लिङ्गं वारुणं स्मृतम् || १८ ||

पौष्टिकन्नाम तल्लिङ्गं सर्वकामफलप्रदम् |
कपोतसमरङ्गकीर्णं पलाशकाष्ठखादिरम् || १९ ||

मधुके भ्रमरा यत्र गृध्रं च पञ्चतित्तिरिम् |
स्वल्प पञ्चान्तर्गतं तोयं आग्नेयं भूमिनिर्दिशेत् || २० ||

कुमुदंगन्धं भवेन्नित्यं षड्रसाश्च समं भवेत् |
लिङ्गमाग्नेयमित्युक्तं वैश्यानां तु सुखप्रदम् || २१ ||

विहीतकपिलुकवृक्षैः स तु श्लेष्मातकैः स्मृताः
हेरण्डाः पाण्डुकूटस्थाः शृगाला मृगपक्षिणः || २२ ||

व्याघ्रसर्पवराहाढ्यं विषवृक्षे वनेपि वा |
वल्लीके कर्दमे चैव ऊषरे संकटेषु च || २३ ||

अन्ये च बहवो वृक्षाः जीमूतादिभिरावृताः |
समश्च शर्कराभिश्च निस्तृणं विगतोदकम् || २४ ||

अमेध्यगन्धा कृष्णवर्णा स्वादेन कटुकं भवेत् |
भूमिस्सा वायवी यत्र तल्लिङ्गश्चाभिचारकम् || २५ ||

मारणं द्वेषणं चैव रोगकृत्पुष्टिनाशनम् |
तस्मात्सर्वप्रयत्नेन वायव्यं न प्रयोजयेत् || २६ ||

मृणालमुक्ताफलचन्द्रगौरतुषारगोक्षीरसमानवर्णा |
शङ्खावदाता कुमुदप्रभा च कुम्भीन्द्रदन्तद्युतिसन्निकाशाः || २७ ||

एवं विधायाः कथिता मया तु
ताः शूद्रवर्णान् प्रति योजनीयाः |
मासं च ज्येष्ठा च तथा च चित्ता
नक्षत्रमासं च चतुर्थं योज्यम् || २८ ||

शूद्रलिङ्गं तथा वत्स त्रयाणां योगमेव हि |
ननु त्रयं तु शूद्रस्य न योग्यं हि कदाचन || २९ ||

वैश्यलिङ्गं द्वयोक्तं स्यात् द्वयं वैश्येन योजयेत् |
क्षत्रलिङ्गं तु विप्राणां योग्यमेवं षडानन || ३० ||

नृपस्य विप्रलिङ्गं तु न योग्यं हि षडानन |
अनुलोमं प्रकर्तव्यं प्रतिलोमं न कारयेत् || ३१ ||

इति कालोत्तरे चतुश्चत्वारिंशत्पटलः || ४४ ||

Kapitel 45 – Die Beschaffenheit des Linga

|| श्रीः ||
ईश्वर उवाच-
मेरुश्च मन्दरश्चैव कैलासो मेरुपर्वतः |
महेन्द्रो मलये सह्ये श्रीशैलः स्वामिपर्वते || १ ||

निषेधे पारियात्रे च नीले वै हिमवद्गिरौ |
भुक्तिमत्पारियात्रे च गोवर्धनगिरावपि || २ ||

एषां चैव तु सामीप्ये वनेऽप्युपवनेपि च |
कुलपर्वते तु वै वत्स उत्तमं लिङ्गमादिशेत् || ३ ||

तत्स्थाने मध्यमं लिङ्गं अधमं चान्येषु वै गुह |
वज्रेण लिङ्गं कृत्वा तु रुद्रो मध्येऽर्चयेत्सदा || ४ ||

रुद्रत्वं तेन संप्राप्यमनौपम्यगुणान्वितम् |
इन्द्रनीलमयं लिङ्गं विष्णुरर्चयते सदा || ५ ||

तेष्वना * तु विष्णुत्व मद्भुतैकं सनातनम् |
ब्रह्माभ्यर्चयते नित्यं लिङ्गं शैलमयं शुभम् || ६ ||

तेन ब्रह्मत्वमाप्नोति सृष्टिकर्तृत्वमेव च |
शक्रोऽपि देवराजेन्द्रः पद्मरागेण चार्चयेत् || ७ ||

तेन शक्रत्वमाप्नोति त्रैलोक्याधिपतिर्भवेत् |
कृताशनं चाग्निमयं लिङ्गं पूजयते सदा || ८ ||

तेन चाग्नित्वमाप्नोति देवानां हि विषाधरः |
यमोपि धर्मराजश्च लिङ्गं नीलमयं शुभम् || ९ ||

तेनार्चनेन वै वत्स धर्मराजत्वमाप्नुयात् |
कृष्णाय समयं लिङ्गं राक्षसेन्द्रं प्रपूजयेत् || १० ||

सदा तेनार्चनेनासौ राक्षसेन्द्रत्वमाप्नुयात् |
स्फटिकाद्धिकृतं लिङ्गं वरुणोऽर्चयते सदा || ११ ||

जलाधिपत्यमाप्नोति अमृतत्वं सुदुर्लभम् |
सप्तरागमयं लिङ्गं ईशानोऽर्चयते सदा || १२ ||

तेन संपूजनाद्वत्स सर्वरुद्राधिपो भवेत् |
मरतकेन लिङ्गेन पार्वती पूजयेत्सदा || १३ ||

तस्य संपूजनान्नित्यं रुद्रशक्तित्वमाप्नुयात् |
राजतेन तु लिङ्गेन लक्ष्मीः पूजयते सदा || १४ ||

तेन संपूजनाल्लक्ष्मीर्महाश्रीत्वमवाप्नुयात् |
दुर्गा पूजयते लिङ्गं महानीलमयं शुभम् || १५ ||

सर्वकालं यजेद्दुर्गा तेन दुर्गात्वमाप्नुयात् |
शचीका च मयं लिङ्गं पूजयेद्गन्धपुष्पकैः || १६ ||

तेन संपूजनान्नित्यं इन्द्रपत्नीत्वमाप्नुयात् |
वसवः कास्यकं लिङ्गं पूजयन्ति विधानतः || १७ ||

वसुत्वमाप्नुवन्त्येते अनौपम्यगुणोदयम् |
ताम्रलिङ्गं सदाकालं भक्त्या पूज्य दिवाकरः || १८ ||

सर्वेषां ज्योतिषां तेन पतित्वं प्राप्तमुत्तमम् |
अश्विभ्यां पार्थिवं लिङ्गं पूजयित्वा विधानतः || १९ ||

तेन तौ अश्विनौ देवौ दिव्यदेहं गतावुभौ |
लिङ्गं हेममयं कान्तं धनदोऽर्चयते सदा || २० ||

तेनासौ धनदो देवो धनदत्वमवाप्नुयात् |
विश्वे देवा महात्मानो रौप्यलिङ्गं सदार्चयेत् || २१ ||

तेन विश्वत्वमाप्तं हि गन्धपुष्पादिनार्चयेत् |
पांसुलिङ्गं सदाकालं मरुतः पूजयन्ति वै || २२ ||

तेन संपूजनान्न्तियं मरुद्गणत्वमाप्नुयुः |
पितृगणाजलं लिङ्गं पूजयन्ति विधानतः || २३ ||

पितॄणामाधिपत्यन्तु तेन संप्ताप्नुयुर्महत् |
त्रपुसीसमयं लिङ्गं असुराः पूजयन्ति वै || २४ ||

यजनात्तेन नित्यं असुरत्वं महाबलम् |
ऋषीयामपि सर्वेषां अग्निलिङ्गं सदार्चितम् || २५ ||

तेन संपूजनान्नित्यं ऋषित्वं चाप्नुयुर्महत् |
नागलिङ्गमयं नित्यं पिशाचाः पूजयन्ति हि || २६ ||

पिशाचत्वमवाप्तं हि सर्वगत्वमनोजवम् |
भूतानामपि सर्वेषां अग्निलिङ्गं सदार्चितम् || २७ ||

तेन भूतत्वमाप्तं हि शिवसामीप्यमाप्नुयुः |
मेधा प्रज्ञा च शुद्धा च श्रुति स्मृतिरुषा प्रभा || २८ ||

स * * * * * रतञ्च धृतिर्बुद्धिरेव च |
दरलिङ्गेन नित्यं हि पूजयित्वा विधानतः || २९ ||

तत्तत्पदमवाप्तं हि अनौपम्यगुणान्वितम् |
गन्धर्वाश्चारणा यक्षा सिद्धाविद्याधरादयः || ३० ||

  • * सौरार्चे * हन्तु पूजयन्तो विधानतः |

यजनात्पदमाप्तं हि नित्यमेवं षडानन || ३१ ||

देवपत्नी ऋषिपत्नी पुष्पलिङ्गं सदार्चयेत् |
विधानेनार्चनान्नित्यं तत्पत्नीत्वमवाप्नुयुः || ३२ ||

सरस्वती देव * * * * * * क्षरामयम् |
तेन सक्तजनान्नित्यं सरस्वतीत्वमवाप्नुयुः || ३३ ||

देवमात्रत्वमाप्नोति देवलिङ्गार्चनादपि |
एवं देवाः सगन्धर्वा पिशाचोरगराक्षसाः || ३४ ||

पूजयन्ति सदालिङ्गमीशानं सुरनायकम् |
वासुकिस्तक्षकश्चैव कार्कोटः शङ्खपालकः || ३५ ||

अनन्तो गुलिकः पद्मो महापद्मस्तथैव च |
प्रवालकमयं लिङ्गं पूजयन्ति विधानतः || ३६ ||

तेन संपूजनान्नित्यं नागराजत्वमाप्नुयुः |
मेरुश्च मन्दरश्चैव कैलासो हिमवान् गिरिः || ३७ ||

विन्ध्यस्सहस्रमलयौ महेन्दो गन्धमादनः |
श्रीपर्वतश्च मैनाकः स्वामि पर्वत एव च || ३८ ||

निषाधः पारियात्रश्च नीलपर्वत एव च |
महाशैलमयं लिङ्गं संपूज्य भक्तितः सदा || ३९ ||

धराधरपतित्वं तु आप्नुयुस्तेन पूजनात् |
जम्बुशाककुश क्रौञ्च शाल्मलीगोमेधपुष्करम् || ४० ||

एते वै द्वीपराजानो दरलिङ्गं समर्च्य वै |
तेन संपूजनान्नित्यं द्वीपराजत्वमेव हि || ४१ ||

ससुरासुरगन्धर्वा पिशाचोरगराक्षसाः |
सिद्धविद्याधरा यक्षा गारुडाः पूजयन्ति च || ४२ ||

न हि लिङ्गार्चनादन्यत्पुण्यं समधिको भवेत् |
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः || ४३ ||

इति कालोत्तरे लिङ्गकल्पे पञ्चचत्वारिंशत्पटलः || ४५ ||

Kapitel 46 – Fehler durch Adern, Höhlen und andere Merkmale

|| श्रीः ||
कार्तिकेय उवाच-
बहुप्रलापं सन्त्यज्य संक्षेपाल्लिङ्गलक्षणम् |
सूक्ष्मात्सूक्ष्मतरं सम्यक्संक्षेपात्कथयस्व मे |
ईश्वर उवाच-
अथातो लिङ्गलक्षणं यथा क्रमेण वक्ष्यामः | अथ खलु वत्स प्रिविधानि शिवलिङ्गानि भवन्ति निष्कलं
सकलं सकलनिष्कलमिति |
अङ्गप्रत्यङ्गसहितन्निष्कलं अङ्गप्रत्यङ्गविभागसंयुक्तं सकलं सकलनिष्कलं मुखलिङ्गम् | निष्कले परमेश्वरस्य धूमरूपमाराध्यते | सकलनिष्कले तेजो नियती सकले ऐहिकम् | अर्चाचिन्नं प्रथमं लक्षणं लिङ्ग * * * * छन्दोनुकूलं शरीरं स्थूलं व्यक्तमिति लिङ्गपर्यायः | तत्र निष्कललिङ्गलक्षणं वक्ष्यामः | शिलादारुमृल्लोहरत्नादीनि लिङ्गद्रव्याणि | तत्र शिलास्त्रिविधाः | स्त्रीपुंनपुंसकमिति | घण्टानादः पुमान् | कांस्यतालवत् स्त्री | दुन्दुभिनादो नपुंसकम् | पुंशैलेन लिङम् | स्त्रीशैलेन पीठम् | नपुंसकेन पादशिला | अंशशकुननिमित्ताद्यनुकूलेन प्रशस्ते दिने वातातपाद्यनुपहतां पूर्वपश्चिमायातां दक्षिणोग्रं वा शिलानां स्वयमाचार्यः कृतोपवासश्च बलिं दत्त्वा स्वप्नमाणवकं जपित्वाधिवास्य ओं नमः शम्भो त्रिनेत्राय पिङ्गलाय महात्मने वामाय विश्वरूपायं स्वप्नाधिपतये नमः | ओं हिलि हिलि हलपाणिने स्वाहा अष्टोत्तरशतं वा पलाशेन शम्या सर्पिषा तत्र जुहुयात् | एकाग्नि विधिना संस्पृश्य * * * कृत्यस्वप्ने शुभं च दृष्ट्वा लिङ्गं ग्राहयेत् | अशुभप्रायश्चित्तबीजमुख्ये त्रिभिः पञ्चभिः पृथगष्टोत्तरशतं जुहुयात् | तद्दोषः शाम्यति | पुनःशिलाभिः कर्मकराचार्यो यजमानश्च पूर्वोत्तरमुखों भूत्वा शिलाग्रहणं कारयेत् | पूर्वद्वारे स्थापनीयस्य पूर्व * * पार्श्वे मुखभावं स्यादेवं पश्चिमद्वाराभिर्योज्य तस्य दीर्घभागेषु चिह्नयेत् | विपरीतो राष्ट्रविभ्रमः |
लिङ्गं वा तु रूपं पासादं प्रासादानुरूपं लिङ्गमिति | गर्भगृहस्यार्ध लिङ्गायामतत्कनिष्ठगर्भगृहस्य पञ्चधा भक्तस्य त्रिभागायां मध्यमम् | गर्भगृहस्य त्रिधा विभक्तस्य द्विभागायामुत्तमम् | एकहस्तादिना चतुष्षष्टिहस्तानि |
लिङ्गानि कानि कार्याणि अत-ऊर्ध्वं न कारयेत् | तदायामस्य चतुर्यागैकभागो विष्कम्भः | आयामस्य नवधा विभक्तस्य षड्भागव्रतं सप्तांशमध्यमाष्टांशं समूलस्य नाभेर्मूलभागं चतुरश्रं ब्रह्मभागं अष्टार्धं विष्णुभागं ऊर्ध्वं शिवभागं षोडशाश्रं गर्भगृहस्य त्रिधाविभक्तस्य एकभागम् पीठिकामानम् अथवा तदुत्सेधमानाहं चतुरश्रस्य यदेवाष्टमभागस्य विस्तारं तदेवार्धं त्यज्य ऊर्ध्वभागस्य नाहं अथवा नाहार्धमष्टधा कृत्वा पञ्चभागो विष्कम्भः | अधिके व्याधिः राष्ट्रक्षोभबहुत्वं च हीने धनधान्यहानिः तत्र मूलभामौ पीठभागः पूजाभागः | आत्मतत्त्वमूलभागं विद्यातत्त्वं मध्यभागं शिवतत्त्वं ऊर्ध्वभागं पुनर्वृत्तो निस्तलः | तत्र मूलहीने व्याधिः मध्यहीने गोक्षयः पूजाभागहीने कर्मणः दुःस्थितिरिति पूजाभागसमं वृत्तं सार्वकामिकम् | एवं कुर्यात् सर्वकामार्थसाधनं सर्वशान्तिकरं भवति वर्धमानप्रकारेऽङ्गुलाधिकं वा कारयेत् | सार्वकामिकं पूजाभागं वित्तसंपत्करमिति | लिङ्गस्य शिरसि स्थानमिति कुक्कुटाण्डाकृतिश्चक्राकृति बुद्बुदाकृति स्त्रिपुरुषाकृतिरिति पञ्चभेदः | प्रशस्तम् कुक्कुटाण्डाकृति रायुरारोग्यप्रदम् | छत्राकृति रायुरारोग्यैश्वर्यप्रदम् |
रारोग्यैश्वर्यप्रदम् | बुद्बुदाकृतिः पूजाकरम् | स्त्रीपुरुषाकृतिः धनधान्यप्रदम् | एषामन्यतमे कुर्यात्पूर्णचन्द्राकृतिः सर्वकामप्रदम् | सिराविवरावर्तग्रन्थिमण्डगर्भयुक्तं भिन्नं च ररुक्षस्फुटितं हीनातिस्थूलातिलघुशब्दवर्जित सुषिरशूलाकृतिस्थूलशिरश्शर्करोष्णधूम्रवर्णकुशमूलहीनपार्श्वहीनादी-न्यग्राह्याणि | तत्र सिराविवरावर्तमण्डलगर्भयुक्तं यजमानाचार्यभूपतीनां सर्वप्राणिनाञ्चात्मभयं ग्रन्थे राज्ञां मण्डले धनधान्यनाशनं गर्भे सुखं सर्वप्राणिनां विशेषेण यजमानाचार्यभूपतीनां हीने सर्वप्राणिनां संतापः | रुक्षेभग्नलिङ्गानां मनक्षोभः | स्फुटिते यजमानत्वाचार्यभूपतीनां संबन्धः | बन्धा * * * * वानां प्राणभयं वक्त्रे सन्तो * * * सनहानिः | अथ राष्ट्रक्षोभादिबहुत्वं च * * * स्थूले व्याधिः मृदुल * * * सर्वप्रयोजने त्रियोनिनाम् | गर्भक्षोभं शब्दवर्जिते मनुष्याणाम् | कृशे धनक्षयः | अधिके कर्तुर्भ्रमः | स्थूलाकृतौ स्थूलशिरसि च यजमाना चार्ययोः प्राणभयम् | शकलेत्वनावृष्टिस्सचक्रयोर्राष्ट्रादिक्षोभश्च | उष्यक् * * * * मधुवर्णं ग्राह्यम् | कृशेधनक्षयम् | मूलहीने व्याधिः | पार्श्वहीने गोक्षयः | तत्र श्लोकाः-
माञ्जिष्ठवर्णसंकाशे गर्भो भवति दक्षिणः |
वीतके मण्डले गोधा कृष्णे विद्याद्भुजङ्गमः |
कपिले मूषिको विद्यात्कृकलासास्तु तारणे |
गुलवर्णे तु पाषाणे कपोते गृहगौलिका |
आहे निस्त्रिंशवर्णे तु भस्मवर्णे तु वालुकम्
विचित्रे वृश्चिको विद्यात् खद्योतो मधुवर्णके |
मृणाले श्वेतमडूकं कृष्णे वै मृगधूर्तकः |
पुण्डरीकस्य चर्मे तु व्याघ्रन्तत्र विनिर्दिशेत् |
अतिकृष्टैरेखात्यूर्ध्वमयश्चैव तु तत्र वैरिणन्तत्र विजानीयात्षडङ्गुलस्य प्रमाणकम् |
गृध्रश्वानौ च नकुलाश्चाष्टौ काकश्चश्येनकम् |
तत्तद्वर्णे तु लिङ्गे तु तत्तद्गर्भं विनिर्दिशेत् |
वा तद्विधिरहितं लिङ्गं द्विविधम् शुद्धं संकीर्णमिति | सिराविवरावर्त ग्रन्थिगर्भयुक्तं च वर्णसंपन्नम् | शुद्धं तच्छहन्तद्विपरीतं संकीर्णं सिराकीर्णवर्णे सिरादीन् शुभाशभलक्षणं वक्ष्यामः | पूजाभागस्य वामपार्श्वे सिरादयश्शुभा अशुभा वा षाण्मासाभ्यन्तरे दद्युः | दक्षिणे मासा त्रिमासाभ्यन्तरे पृष्ठे च षण्मासाभ्यन्तरे अग्रसद्य इति दक्षिणावर्तः श्रेष्ठः वामावर्ते गर्हितः लिङ्गध्वजच्छत्रचामरकलशवृषभनन्द्यावर्तशूल पद्मसिंहगजाश्वरथसोमसूर्या यज्ञोपवीती पर्वताक्षमालाचक्रहारसमुद्रवस्त्राङ्कुशमत्स्य स्वस्तिववृक्ष प्रसादवज्र कन्यामलनेत्र श्रीवत्सपुण्यादीन्यग्रतः पृष्ठतः पार्श्वयोर्मध्यके च शुभानि यजमानाचार्य राजराष्ट्रहितानि च | श्वेतरक्तपीतकृष्णरेखाश्चतस्रो * * * * नि विहिताः दोषप्रदाः |
इन्द्रायुधनिभारेखा सर्वशोभनरेखाच्छोकम् | एकच्छेत्रे पुत्रनाशः | द्विच्छेदे बन्धुनाशन्त्रिच्छेदे
यशमाननाशः | शकारे * * * * कारे ज्ञानलाभः सदंशे राजन्यनाशः काकोलूकश्च शृगालवरांह
गर्दमश्येन वृश्चिककर्कटकङ्क गृध्रकीटसर्पमार्जारे मम राजराज्य पिबेत् |

इति कालोत्तरे लिङ्गकल्पे सिराविवरादिदोषपटलः पञ्चचत्वारिंशत् || ४६ ||

Kapitel 47 – Merkmale des Linga

|| श्रीः ||
ईश्वर उवाच-
अधिगर्भा भवन्ति पद्मपत्र आवर्तेऽत्रं पांसुभिः कनकवर्णे श्वेतपांसुभिः स्निग्ध * * * *
पकाकवर्णे काके कपोतवर्णे गृहगविकाद्वये माञ्जिष्ठवर्णे मण्डलावर्ते रक्तदंशत्रय
कुम्भवर्णेऽपि दर्दुरत्रये शुक्लवर्णे पीतकृकलास * * * * गोधागुलवर्णे झर्झरपाषाणः
निस्त्रिंशवर्णे सलिलपांसुः षट्पदश्यामेशलाभः मधुवर्णे मधुद्योतं सारङ्गवर्णे वृश्चिकः ग्र *

  • * * गैरिकः कोकनदवर्णे स्फुटितः स्निग्धरूक्षः आवर्ते मूषिकद्वयं मण्डल-आवर्ते दर्दुरद्वयं

शुकपिञ्छवर्णे कर्तपीतकच्छपः आयते पीतकृष्णसर्परक्तायते रक्तसर्वमत्स्यवर्णे श्वेतपाषाणो
निस्त्रिंशवर्णे सलिलं पट्पदश्यामे मत्स्यशफरीगर्भः अतिरिक्ते बन्धूक इन्द्रको * * * * तस्कर
आवर्तग्रन्थौ
वा विचित्रवर्णे विचित्रवृश्चिकः | आवर्तग्रन्थौ वा वज्रे वज्रगर्भः सुवर्णे सुवर्णगर्भः रजते
रजतगर्भः रक्तश्यामायते रक्तपांसु सर्वयज * * * साधि हेतुः श्वेतपांसुराचार्यस्य गौलीकारज्ञां
स्फटिको बाह्मणानां मरणं गवां च शतयोजनं कृते यजमानाचार्यभूपतीश योजनमितरेषां
सन्तापः भस्मलिङ्गानां अन्तक्षोभं मूषिके चतुर्दशयोजने चोरभयं गृहगौलिकेऽष्टादशयोजनं वी

  • * * * चार्यभूपतीनां उदकापायं रक्तदर्दुरे राज्ञां जले मरणं पीतदर्दुरे सर्वप्राणिनां हृदि

भयं रक्तपीतकच्छपे दैवायतनवासिनां भटानां च * * * * * दशयोजनं च विविधपीनकृकलासे
विंशतियोजने दुर्भिक्षं यजमानाचार्यभूपतीनां भार्याकृत दुःखमिति पीतसर्पे षोडशयोजने
सर्पभयं शूद्राणामुरगभयं कृष्णसर्पे शूद्रम्लेच्छक्षयः | झर्झरपाषाणे
पञ्चविंशतियोजनं विचित्र स्निग्धपाषाणे अनावृष्टिः | सलिलपांसुयुक्ते तिर्यं * * * * * सलिलं
खद्योतमण्डूके द्विपदचतुष्पदानां प्राणभयं शलभतप्रयोजने सोपद्रवं यजमानाचार्य
भूपतीनां सर्वप्राणिनां पुत्रनाशोऽस्य द्वादशजनानां पीडेति खद्योतगर्भे यजमानाचार्य
भूपतीनां च सिरावर्तग्रन्थिकल्प गर्भसंयुक्ते शये वसुवर्णस्थके स्थापिते निर्दोषा भवन्ति * * * *
यजमानाचार्यभूपतीनां सर्वप्राणिनां धनधान्यसमृद्ध्ः | सुवृष्टिः सर्वप्राणिनां च सुखमिति |
अथ ब्रह्मसूत्रविवरा पूजाभागत्रि * * * त्सृज्यं भागस्योर्ध्वं सुवर्णेन कर्तव्यं तत्तु पद्ममुकुलाग्रं
वायव्याग्रं चेति सर्वे * * * रेखा ऋत्विक्पूजा भागस्य मूलभागनालकुमुदनालधनावं माषमात्रं
मनुनिम्नपार्श्वस्फुटोन्नतपृष्ठाश्लेषा भवति | उत्तमलिङ्गे पा* * * वामा ज्येष्ठा रौद्रीति त्रित्रिरेखा
ब्रह्मसूत्रं व्याचक्षते इतरेष्वपि लिङ्गेषु एतयानुमन्तव्येति | अथवा लिङ्गायामं नवधा विभज्य * * *
सृज्य मध्ये पञ्चसु भागेषु ब्रह्मसूत्रं कुर्यात् | पद्ममुकुलाग्रपद्मकर्णिकामूलाग्रं चाग्रं चेति | तत्र
मध्यमरेखाराज्यपूजा भागस्य मूलमागता कुमुद नालायता यवमाषमात्र निम्ना पापाश्वसंपुटोन्नत
पृष्ठाशेषकर्तव्या भवति | उत्तमलिङ्गपार्श्वयोरर्धाङ्गुष्ठ निम्ना अङ्गुलविस्तारा भवन्ति | इतरेषु
लिङ्गेष्वनुयानं मन्तव्येति | अथैकहस्तस्य यवमात्रमध्यरेखा द्विहस्तस्य द्वियवमात्रा त्रिहस्तस्य
त्रिवयमात्रा इत्येवं प्रवृद्धिः यावन्नवमात्रा भवन्ति | अथवा लिङ्गविस्तारमेकधा विभज्य
मध्यमेकाङ्गुलप्रमाणं मध्यरेखां कारयेत् | तत्पादप्रमाणं पार्श्वनिम्नेति | अथवा आमस्तकादिमूलात्
पूजाभागस्य मध्यरेखां कुर्यात् | दक्षिणे सर्वशक्तिरेकेर्धे दक्षिण * * * पार्श्वयोरापृष्ठभागात्
क्रमात् आनतनिकृष्ट कायते एता रौद्री वामा ज्येष्ठाख्या भवन्ति | उत्तमे शिवलिङ्गे
द्व्यर्धाङ्गुलमनिम्नेन पर्श्वे क्रमावनताभ्यन्तरे पार्श्वभागेङ्गुलविस्तारा भवन्ति
अतः इतरेष्वनया दिशा नमन्तव्येति भुवि विषं भागरहितं पीठाधिष्ठानां निष्कललिङ्गमर्ध
पीठलिङ्गं च कुर्वन्नृवस्थावशात्सर्वतश्चरलिङ्गे * * * न कृष्णोनादि गोचरश्ववदन्नकुखुन * * *
मादिविमुक्तश्शिवमुक्तः सर्वसत्वामकं कोलुण्डस्थिरमाषीकृत * * * * कामाचार्यन्नादृशैरेव
सहाचार्यैर्युक्तः चतुभिरष्टभिर्द्वादशभिः आचार्यैस्सहासतन्वस्त्रयुगल * * * परिधानैः
कटककटिसूत्र कुण्डलाङ्गुलीयकाद्याभरणैर्ज्वलद्भिर्महेश्वभ्योद्याकृत पञ्चकृतदक्षिणैर्विशैर्वेद
भक्तिर्मन्तव्यम् | अग्रतः प्रदक्षिणीकृत्य शुभे मुहूर्ते प्रविश्य सुवर्णेनशलाकय * * * * पूजाभागन्न
वधा विभज्याधस्तात् षड्भागमुत्सृज्य सप्तमे भागे कमलकमल (?) मुकुलं कुर्यात् | अङ्गुलमात्रमेकहस्ते
द्विहस्ते द्व्यङ्गुलमेवं वृद्धिक्रमादथवा पूजाभागं षोडशधा विभज्य द्वादशे भागे मुकुलं कुर्यात्
| ऋग्वेदो मध्यरेखा रुद्ररेव रौद्री यजुर्वेदो वामरेखा विष्णुर्वामा शक्तिः सामवेदो दक्षिणमुखा ब्रह्मा
ज्येष्ठाशक्तिः प्रणवं मुकुलं यवार्धं व * * * ष्यमुकुलमूले पार्श्वयोर्निर्गत्य पृष्ठे संश्लिष्टौ
भवतः | मधुरेखात्त मूलवर्त मूलमधस्ताद्गता नारायणस्य मतम् | चतुरङ्गुलीरूर्ध्वचतुर्मुखस्य
मतम् | मध्यमाङ्गुलिका स्तिस्रः अगस्त्यवसिष्ठादयो द्वयङ्गुलम् | उमया श्रिया सरस्वत्या धरणीगायत्री
दुर्गामातृगणादीनां मतम् द्व्यङ्गुलाधिकं पूर्वसूत्रपादषोडशधा ऊर्ध्वाधश्चतुर्विंशद्वा
षोडश वा कारयेत् |
वद * * * मिश्रं सितधातुना एव ब्रह्मसूत्रं शालिमध्ये पञ्चशयनैकशयनं वा न्यस्त्वा लिङ्गं
विन्यस्य पश्चिमाभिमुखो भूत्वा शिल्पिभिः कुठारेणाग्रेपणेतिर्यगूर्ध्वं यवनिकायुतं लक्षणं कुर्यात्
| कपिलादर्शनं तत्रैव तत्कपिलासुवर्णशलाकान्ययवनिकादीनि तक्षकेभ्यः प्रतिपादयेत् |
पुनरष्टमृदूदकैः अष्टवृक्षकषायैः पञ्चगव्यैः पवित्रपञ्चभिः बीजाख्येन प्रासादमुक्तैः
प्रक्षालयेत् | सर्वगन्धोदकैः हिरण्यवर्णपवमानशुद्धसूक्तैः सर्वगन्धोदकेन क्षालयेत् | पुनः
पुरुषसूक्तेन विष्णुसूक्तेन ब्रह्मज्ञानेन कुङ्कुमचन्दनकर्पूरोदकैः क्षालयेत् |
पुनः सर्वगन्धैरालिप्य पद्मनीलोत्पलबिल्वैरभ्यर्च्य क्षौमवस्त्रैः छाद्य बीजमुख्यैर्नगरं वालयं वा
प्रदक्षिप्रदक्षिणीकृत्य स्वस्तिसूक्तेन यागमण्डपं प्रवेशयेत् | रथं वा कुञ्जरं वा शिबिकां
वारोप्य प्रदक्षिणं कारयेत् | अनेकपोरजतं चातुर्वर्णैः परिवृत्यांशं
शङ्खदुन्दुभितूर्यरवैर्निर्घोष्य वेदघोषैर्जयशब्दरवैर्युक्तं शिवलिङ्गं प्रदक्षिणं कारयेत् |
शुभे मुहूर्ते मण्डपेऽलंकृते चाधिवासयेत् |

इति कालोत्तरे लिङ्गलक्षणं सप्तचत्वारिंशत्पटलः || ४७ ||

Kapitel 48 – Rituelle Vorbereitung

|| श्रीः ||
ईश्वर उवाच-
लिङ्गाधिवासनं वक्ष्ये समासाच्छृणु सांप्रतम् |
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने || १ ||

रोहिणीमृगशिरैश्चैव पुष्यं चापि पुनर्वसु |
उत्तरत्रयमे वाहुः प्रतिष्ठायामधिवासने || २ ||

वारुणे वायव्ये पौष्णे चैन्द्राग्नेययथवा भवेत् |
वारयोगे सिद्धयोगे चाधिवासनमुच्यते || ३ ||

सोमः शुक्रबुधा जीवो द्वितीया पञ्चमीयुते |
सप्तम्यां वा दशम्यां वा द्वादश्यां वा त्रयोदशी || ४ ||

नन्दं वा सप्तमी वापि प्रतिष्ठां चाधिवासने |
प्रासादस्याथ पुरतो मण्डपत्रातिदूरतः || ५ ||

दशहस्तं द्वादशं वा षोडशं विंशतिस्तु वा |
चमुर्द्वार समायुक्तं चतुस्तोरण भूषितम् || ६ ||

वितानोपरिसंचारदर्भमालावलम्बनम् |
तन्मध्ये कुट्टिमं कुर्याद्दृढं तद्द्वयमेव च || ७ ||

शालिना विकिरेत्तत्र षट्त्रिंशद्द्रोघमेव च |
तदर्धं तण्डुले नैव पद्ममष्टदलं लिखेत् || ८ ||

शयनं कल्पयेत्तत्र पञ्चभिस्त्रयमेव वा |
प्रासार्य कम्बलं तत्र परिस्तरणं तथोपरि || ९ ||

गन्धपुष्पादिभिस्तत्र अर्चयेद्बीजमुख्यकैः |
हृदा हि सर्वकर्माणि बीजमुख्यैस्त्रिभिर्युतैः || १० ||

पुण्याहं वाचयित्वा तु ऋग्यजुस्सामाथर्वकैः |
वामदेवेन मन्त्रेण प्रासादेन तु संयुतः || ११ ||

बीजमुख्यसमायुक्तं शन्नोदेवीरभिष्टये |
सकृज्जप्त्वा तु वै वत्स शयने शाययेच्छिवम् || १२ ||

अर्चयेद्गन्धपुष्पैश्च वस्त्रयुग्मेन च्छादयेत् |
कलशान् स्थापयेत्तत्र हैमराजतशुल्पजान् || १३ ||

प्रधानकलशं वत्स सौवर्णं राजतं तु वा |
अथवा ताम्रजं कुम्भं आढकैर्नवपूरितम् || १४ ||

तत्पात्रे तु घृतं पूर्णं शतपत्रं तु निक्षिपेत् |
तदर्धं वा क्षिपेद्धीमान् प्रशान्ते न तु विद्यया || १५ ||

शकृद्देशेन्यसेन्मन्त्री व्योमव्यापिमनुस्मरन् |
वस्त्रयुग्मेन मतिमान् शिवं वस्त्राणि मन्त्रतः || १६ ||

इन्द्रादीशानपर्यन्तं कलशानष्टविन्यसेत् |
अन्तन्तेशं पूर्वकलशे पञ्चरत्नोदकं क्षिपेत् || १७ ||

दक्षिणे कलशे सूक्ष्मं पञ्चगव्यं न्यसेद्बुधः |
शिवोत्तमं पश्चिमकलशे एकनेत्रं तु चोत्तरे || १८ ||

क्षीरं शिवोक्तं कलशे घृतन्न्यस्य घृतोत्तरे |
ऐशान्यामेकरुद्रं तु कषायं तत्र विन्यसेत् || १९ ||

आग्नेययां त्रिमूर्तिकलशमष्टमृत्सलिलं न्यसेत् |
श्रीकण्ठकलशे नैर्-ऋत्यां यवपुष्पोदकं न्यसेत् || २० ||

श्रीकण्ठकलशं वायव्यां सर्वगन्धोदकं न्यसेत् |
पृथग्वै वस्त्रयुग्मेन पूजयित्वा समन्ततः || २१ ||

कूर्चसूत्रविधानं च पृथग्वै क्षिप्रं वेष्टयेत् |
कलशान्न्यस्त्वा विधानेन पश्चाद्धोमं समारभेत् || २२ ||

स्तुहोमं गर्भगृहे प्रासादहोमं चतुर्दशी |
विशेषेषु च कर्तव्यं चतुरश्रं सर्वकुण्डकम् || २३ ||

अधिवासमण्डपे कुण्डान् प्रवक्ष्यामि विधानतः |
चतुरश्रं भवेत्पूर्वं आग्नेययां तु त्रिकोणकम् || २४ ||

याम्यायामर्धचन्द्राभं त्र्यश्रं च नैर्-ऋते भवेत् |
वारुण्यां वर्तुलं कुण्डं वायव्यां पञ्चकोणकम् || २५ ||

सौम्यायां चैव पद्माभं ऐशान्यां सप्तकोणकम् |
चतुरश्रे वास्तुहोमं च वास्तुविद्याविशारदः || २६ ||

ब्राह्मणैः पुत्रकाद्यैस्तु पूर्वोक्तैर्लक्षणान्वितैः |
हारकेयूरकटकैरूपवीताङ्गुलीयकैः || २७ ||

नववस्त्रयुग्मच्छन्नैस्सोष्णीषैस्सोत्तरीयकैः |
ऐन्द्रां? चैव तु आग्नेययां वस्त्रतो होममारभेत् || २८ ||

याम्यायामथ नैर्-ऋत्यां यजुर्वेदेन होमयेत् |
वारुण्यां चैव वायव्यां सामगो होममारभेत् || २९ ||

सौम्यायां चैव ऐशान्यां अथर्वैहोममारभेत् |
शिरसि स्थानमाचार्यो द्विगुणं होममारभेत् || ३० ||

चतुरश्रे तु कुण्डे तु होमं कुर्यात्तु शंकरम् |
पलाशखदिराश्वत्थ प्लक्षन्यग्रोध एव च || ३१ ||

बिल्वोदुम्बरशाम्यश्च अपामार्गन्नृपक्षकम् |
जातीवकुलराजार्क कदम्बं चूतमेव च || ३२ ||

शिरीषं पनसं चैव वैकङ्कतसमिद्भवेत् |
द्विप्रादेशं भवेदिध्मं समिद्वै तालमात्रतः || ३३ ||

स्रुवं दर्वीं स्रुचो वत्स पूर्वं हि कथितं मया |
मथिताग्निं विशेषात्तु श्रोत्रियस्य गृहेपि वा || ३४ ||

ताम्रपात्रे शरावे वा आनयेज्जात वेदसम् |
गर्भाधानादिकर्माणि कारयेत्तत्र पारगः || ३५ ||

आज्यपात्रं प्रणितां च प्रोक्षणीसमिधः कुशान् |
स्रुवं दर्वीस्स्रुवा चैव वलभृत्तण्डुलं घषम् || ३६ ||

गन्धं पुष्पं फलं तोयं अङ्गारं व्यजनं तथा |
कूर्चराजं तिलं चैव सर्षपं शालिवेणवम् || ३७ ||

नीवारं चैव गोधूममग्नेरुत्तरतो भवेत् |
चन्द्ररूपाणि वै वत्स साधयेत्सर्वमेव हि || ३८ ||

प्रयोगं सर्वं कथितं अग्निकार्यक्रिया अपि |
संस्कृत्य विधिवच्चाग्निमृत्विजेभ्यः प्रदापयेत् || ३९ ||

तदग्नौ दापयेत्पश्चात् ऋत्विजः सर्व एव हि |
पूर्वे तत्पुरुषं मन्त्रं इमा रुद्रेति होमयेत् || ४० ||

आग्नेययां हृदयमन्त्रेण त्र्यम्बकं चापि होमयेत् |
दक्षिणे तु अघोरन्तु परितो रुद्रेण होमयेत् || ४१ ||

शिखामन्त्रेण नैर्-ऋत्यां नमस्ते रुद्रमन्यवे |
पश्चिमे सद्यमन्त्रेण अग्न आयाहि वै गुह || ४२ ||

वायव्यां कवचमन्त्रेण पुरो जीयेन होमयेत् |
सौम्यायां वामदेवेन शन्नो देवीरभिष्टये || ४३ ||

शिरोमन्त्रेण ऐशान्यां चण्डरुद्रेण होमयेत् |
नवचत्वारिमन्त्रेण वास्तुहोमन्तु कारयेत् || ४४ ||

वास्तोष्पतेत्यनेनैव होमयेद्वास्तुविद्द्विजः |
प्रासादहोममष्टायुर्बीजमुख्येन होमयेत् || ४५ ||

रुद्रसूक्तं पुरुषसूक्तं विष्णुसूक्तं तथैव च |
हंसशुचिं शन्नवर्गं अन्नसूक्तं जातवेदसम् || ४६ ||

पवमानं हिरण्यं च चतुर्होता तथैव च |
सप्तहोता दशहोता रुद्रैकादश एव च || ४७ ||

अग्रं खलु होतारं शतरुद्रीयमेव च |
ब्रह्मसाम समज्येष्ठात् सामं विकर्णं रुद्रसामकम् || ४८ ||

महाव्रतिं पुरुषगतिं बहिष्पवमानमेव च |
नीलरुद्रं महारुद्रं अथर्वशिरसं तथा || ४९ ||

माहेन्द्रं बार्हस्पत्यं वैष्णवं सौरमेव च |
आज्येन होमविधिना स्वस्वशाखापरैर्द्विजैः || ५० ||

समिदाज्यादिभिः सर्वैः पृथगष्टोत्तरं शतम् |
सावित्र्या व्याहृतिभिः प्रत्येकं शतं होमयेत् || ५१ ||

पवित्रैः पञ्चभिश्चैव शिवाङ्गैर्बीजमुख्यकैः |
व्योमव्यापिञ्चाष्ट मूर्तिमष्टविद्येश्वरैः सह || ५२ ||

गणेशाल्लोकपालांश्च अस्त्रा मात्रागणा अपि |
गन्धर्वाप्सरसः सिद्धान् नागान् किं पुरुषानपि || ५३ ||

यक्षान्मरुद्गणांश्चैव गारुडान् राक्षसानपि |
विद्याधरान् यातुधानान् शतपञ्चाशदर्धकान् || ५९ ||

विंशत्पञ्चदशांश्चैव दश द्वादश एव हि |
अष्ट सप्त च षट्पञ्च चत्वारस्त्रय एव च || ५५ ||

द्वौ चैव एकमेवं तु राक्षसांश्च पिशाचकान् |
एवं हुत्वा विधानेन पूर्णाहुतिमथाचरेत् || ५६ ||

प्रासादेन तु मन्त्रेण पूर्णाहुतिमथाचरेत् |
घृतं हुत्वा स्पृशेन्मूर्ध्नि लाजं हुत्वा तु चेन्द्रियम् || ५७ ||

चरु हुत्वा स्पृशेद्वक्त्रं समिद्धुत्वा स्पृशेत्समनात् |
तिलान् हुत्वा दिवि प्रश्यशालिं हुत्वोदरं स्पृशेत् || ५८ ||

नीवारं हुत्वा * * * * ष्टौ तु प्रासादेन षडानन |
यवं हुत्वोरुसंगृह्य सकृच्छ्रेण तु षण्मुख || ५९ ||

तत्तन्मन्त्रेण मतिमान् प्रासादेन तु संयुतम् |
बीजमुखेन संयुक्तं स्पृशेत्प्रसृतमुद्रया || ६० ||

पञ्चवर्णचरुं वत्स निवेदयेदर्धरात्रिके |
प्रतिसरं बन्धयेत्तत्र पद्मसूत्रेण मुख्यया || ६१ ||

आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः |
विप्रानेकादशान् भोज्य तत्काले पायसं गुह || ६२ ||

रात्रौ महोत्सवं कुर्यात् शङ्खतूर्यरवैः शुभैः |
दिशाबलिं दापयेद्धि * * * * * * * * || ६३ ||

  • * * * * बुद्धिमान् कृसरापूर्पसंयुतम् |

रात्रौ होमं प्रकर्तव्यं प्रभाते स्थापनं भवेत् || ६४ ||

इति कालोत्तरे अधिवासनपटलोऽष्टाचत्वारिंशत् || ४८ ||

Kapitel 49 – Die Verbindung mit dem Sockel

|| श्रीः ||
ईश्वर उवाच-
प्रतिष्ठाविधिं प्रवक्ष्यामि सर्वसिद्धिकरं परम् |
गर्भगेहं सूत्रयित्वा अष्टदिक्षु यथा विधि || १ ||

ब्रह्मसूत्रं पुराकृत्वा बीजमुख्येन मन्त्रवित् |
गर्भगेहस्य पूर्वे तु द्वारं सम्यक्प्रकल्पयेत् || २ ||

द्वारं विभज्य यत्नेन एकविंशतिभागकम् |
एकं मध्ये तु तं कृत्वा त्रिभागं कुसुमाकरम् || ३ ||

पद्मपत्राकृतिं वापि कुमुदपत्राकृतिं तु वा |
कल्हारपत्रवत्कुर्यात् हंसिनी पुष्पवद्भवेत् || ४ ||

अष्टाविंशतिपीठं तु ईप्सितं वापि बन्धयेत् |
उपानं जगतीं कुर्यान्मेखलात्रयमेव च || ५ ||

विष्णुभागस्य चोत्सेधं पूजाभागस्य विस्तरः |
कालद्वयं चाप्यधिकं सर्वपीठे तु विस्तरम् || ६ ||

पूजाभागञ्चतुरंशं त्रिभागं नाभेश्चाधममम् |
पीठन्तु द्वारमात्मानं पीठं तस्य द्विगुणस्य || ७ ||

पीठभोगान् त्रिकमेकं घृतवारिहस्तं पीठं चतुरश्रोण्यसं * * * वृत्तम् | पूर्वे भागं हीनं तु
द्वयभागं भूमौ स्थाप्य सलम्बितलिङ्गसमपीठं गर्भं तु त्रीणि चतुर्थमिति शोभमधर्मद्वयं
वलयं वापि विस्तरम् (?) || ८ ||

योनिं कुर्याद्विधानेन महामायां तु बन्धयेत् |
द्विखण्डनेन कर्तव्यं एकेनैव उमा भवेत् || ९ ||

शैलेन कारयेल्लिङ्गं पीठं लोहेन कारयेत् |
दारवे दारवं कुर्यात् पार्थिवेन तु पार्थिवम् || १० ||

यद्यद्द्रव्येण लिङ्गस्य तत्तद्द्रव्येण पीठकम् |
वज्रं मरतकं माणिक्यं मौक्तिकं विद्रुममेव च || ११ ||

स्फटिकं पुष्यरागं च सूर्यकान्तेन्दुकान्तयोः |
लोहेन पीठं कर्तव्यं आरकूटेन वा कुरु || १२ ||

चनलं न च पृष्टं वा * * बन्धं षडानन |
पूर्वे तु चलनं लिङ्गं क्षत्रियाणां भयं भवेत् || १३ ||

आग्नेययां चलितं लिङ्गं प्रमादाद्युत्क्रमात्तु वा |
ब्राह्मणानां भयं तत्र नात्र कार्या विचारणा || १४ ||

याम्यायां चालयेल्लिङ्गं सद्योमृत्युर्भविष्यति |
नैर्-ऋत्यां चलिते लिङ्गे चतुष्पादभयं भवेत् || १५ ||

द्विपादं चतुष्पदानां च सद्योमरणमुच्यते |
अव्यग्रो चैव मतिमान् शनैः पीठं प्रपूजयेत् || १६ ||

ऐन्द्रादि सोम्याश्रयन्तु वर्जयेत्तत्र मन्त्रवित् |
ऐशान्यामाश्रयेल्लिङ्गं पूज्यमाचन्द्रतारकम् || १७ ||

यवं वापि यवार्धं वा ऐशान्यां किञ्चिदाश्रयेत् |
सुभिक्षं गोबहुलं च पुत्रपौत्रविवर्धनम् || १८ ||

तस्मात्सर्वप्रयत्नेन ऐशान्यां किञ्चिदाश्रयेत् |
स्नपनं कारयेत् पश्चात् शास्त्रदृष्टेन कर्मणा || १९ ||

लिङ्गं वस्त्रेण सञ्छाद्य पीठबन्धन्तु कारयेत् |
लिङ्गं साक्षान्महेशानः पीठं साक्षादुमा भवेत् || २० ||

पीठं साक्षान्महाविष्णुः लिङ्गं साक्षात्सदाशिवः |
साक्षात्पृथिवी पीठं तु लिङ्गं साक्षाद्धियत्परम् || २१ ||

तस्मात्सर्वप्रयत्नेन पीठबन्धं तु कारयेत् |
अष्टबन्धं प्रकर्तव्यं पीठलिङ्गस्य छिद्रके || २२ ||

इति कालोत्तरे पीठबन्धपटलः एकोनपञ्चाशत् || ४९ ||

Kapitel 50 – Einsetzung und Weihe

|| श्रीः ||
ईश्वर उवाच-
स्नपनस्य विधिं वक्ष्ये सर्वपापप्रणाशनम् |
सर्व शान्तिकरं चैव सर्वारिष्टविनाशनम् || १ ||

प्रतिष्ठान्ते स्थलसंस्कारे पुराणप्रासादसंस्कृते |
ग्रहणे विषुवे चैव अयने व्यतिपातके || २ ||

राज्याभिषेके माङ्गल्ये विवाहे मन्त्रसाधने |
दीक्षान्ते चाद्भुते चैव घोरदुःस्वप्न दर्शने || ३ ||

उत्सवान्ते च संग्रामे जानपदव्याधिपीडने |
भूमिकम्पे च दुर्भिक्षो प्रतिमाभेदनेऽपि च || ४ ||

सभाया भेदनेऽकस्मात् महामारीप्लवेन च |
पीठबन्धे सुधाकार्ये स्थलसंस्कारं कारयेत् || ५ ||

राजयक्ष्मा च व्यायामे स्नपनं कारयेद्गुह |
सौवर्णै राजतैस्ताम्रैः पार्थिवैर्वा सुसंस्थितैः || ६ ||

नियुतैरयुतैर्वापि निखर्वः खर्वकैस्तु वा |
अर्बुदैर्न्यर्बुदैर्वापि स्नपनं कारयेद्गुह || ७ ||

सहस्रैरर्धैस्ततोऽप्यर्धैः ततश्चाष्टाशतेन वा |
एकाशीतिश्चतुः षष्टिः स्नपनं तत्र कारयेत् || ८ ||

उत्तरं चैकगर्भं तु दक्षिणं तु द्वयोर्भवेत् |
तयोर्मध्ये बृहत्सूत्रं कारयेत्तन्त्रवित्तमः || ९ ||

प्रागुक्तानां तु सलिलं कुर्यात्तत्र विचक्षणः |
यवार्धमात्रं संलीनं गतन्तत्र च स्थापयेत् || १० ||

पादशिलायामविस्तारं कारयेल्लिङ्गमूलतः |
अधिकमङ्गुलं कुर्यात् विस्तारोष्टाङ्गुलं भवेत् || ११ ||

ब्रह्मभागस्याधस्तात्तु सम्यक्स्थाप्य विधानतः |
ब्रह्मजज्ञानमेवं तु सदसस्पतिमेव च || १२ ||

अनयोः स्थापनेऽधस्तात् दृढं सम्यक्प्रकल्पयेत् |
रत्नन्यासं प्रकर्तव्यं ब्रह्मपादशिलोपरि || १३ ||

रत्नं लोहं च धातुं च मृज्जलं गन्धमेव च |
बीजं चोषधिपुष्पं च नवकक्षं षडानन || १४ ||

वज्रं च पद्मरागं च मरतकं मौक्तिकं तया |
विद्रुमं पुष्यरागं च सूर्यकान्तेन्दुकान्तकम् || १५ ||

इन्द्रनीलं महासेन ब्रह्माद्येशानमन्त्रकम् |
सुवर्णं रजतं ताम्रं आयसं त्रपुसीसकम् || १६ ||

आरं च विदुलं कांस्यं पूर्ववद्विन्यसेद्गुह |
तालकं गन्धकं शीलं दरगैरिकमाक्षिकम् || १७ ||

सौराष्ट्रमञ्जनं सीसं पूर्ववद्विन्यसेद्गुह |
तदीनाङ्गो विषाणोत्थवराहकुशमूलतः || १८ ||

हृ(ह्र)दात्कोष्ठारिवल्मीकात् क्षेत्रं वैवेदिमध्यतः |
शुभमृत्प्रक्षिपेद्वत्स पूर्ववन्मन्त्रपूर्वकम् || १९ ||

पङ्कजस्य तु मूलं तु उत्पलस्य तु मूलकम् |
कुमुदकह्लारकोटी च नीलोत्पलमेव च || २० ||

नन्द्यावर्तं शतं वापि व्याघातन्नवमूलकम् |
पूर्ववद्विक्षिपेद्वत्स ब्रह्माद्येशानमन्त्रकम् || २१ ||

चन्दनं कुङ्कुमं चैव खड्गं लोहं फलत्रयम् |
कस्तूरिं पत्रनवमं पूर्ववत्परिकल्पयेत् || २२ ||

शालिनीवारगोधूमयववेणुप्रियङ्गवः |
तिलमुद्गास्समाषाश्च पूर्ववत्परिकल्पयेत् || २३ ||

लक्ष्मी च सहदेवी च विष्णुक्रान्ता नृपस्तथा |
शारिबा इन्द्रवल्ली च सूर्यावर्तं बलानि च || २४ ||

श्वेता च गिरिकर्णी च पूर्ववत्परिकल्पयेत् |
मल्लिकाजातिपुष्पं च वकुलं पाटलानि च || २५ ||

पङ्कजं चोत्पलं चैवं चम्पकं नन्दिवर्तकम् |
नवमं वकुलं वत्स पूर्ववत्परिकल्पयेत् || २६ ||

दश निष्कं शातकुम्भे पृथ्वीं कृत्वा क्षिपेद्बुधः |
स्वर्णं द्वादशनिष्केण कूर्मं कृत्वा तु निक्षिपेत् || २७ ||

त्रिंशन्निष्केण वै वत्स बालरूपं तु कारयेत् |
वृषभं केसरी नागं श्रीवत्सं भेरिमेव च || २८ ||

दर्पणं पूर्ण कुम्भं च दीपश्चैवाष्टमङ्गलम् |
तोरणं चैव भाण्डेन पूर्ववत्परिकल्पयेत् || २९ ||

एकैकं पञ्चनिष्केण बीजमुख्येन निक्षिपेत् |
पवित्रैः पञ्चभिर्जप्त्वा प्रासादं बीजमुख्यकैः || ३० ||

स्कन्द इन्द्रादिनवमं ऋचा जप्त्वा तु निक्षिपेत् |
पृथक्कपिलान्दोहयेत्तत्र पञ्च एते द्वयोर्-ऋचोः || ३१ ||

पायसं पाच्य विधिना त्र्यम्बकेन तु लेपयेत् |
सुमुहूर्ते दिने चैव सुनक्षत्रे तिथौ गुह || ३२ ||

देवदेवं महेशानं स्थापयेद्वाममन्त्रतः |
स्नात्वाचम्य विधिवदाचार्यस्तु समाहितः || ३३ ||

सद्योजातं समुच्चार्य उत्तिष्ठ ब्राह्मणर्त्विजः |
देवदेवं समुत्थाप्य शकटोपरि निर्वहेत् || ३४ ||

रथस्योपरि वा वत्स गजस्योपरि एव वा |
ग्रामं वा नगरं वापि पत्तनं वा प्रदक्षिणम् || ३५ ||

यजमानः पृष्ठतो गच्छेत् पुत्रभ्रातृकलत्रकैः |
आचार्यस्त्वग्रतो गच्छेत् अर्घ्यन्तस्य समाहितः || ३६ ||

नानापुरजनान् सर्वान् ब्राह्मणादीनपि क्रमात् |
शङ्खतूर्यनिनादैश्च पुण्याहजयमङ्गलैः || ३७ ||

शकुनसूक्तं विप्रस्तु पठेयुः परितः शुभैः |
देवालयं समागत्य प्रविशेद्गर्भमन्दिरे || ३८ ||

द्वारदेशं समानीय अर्घ्यं तस्मै निवेदयेत् |
निर्माल्यं सर्वतन्त्रैश्च विसृज्य प्रविशेद्गुहः || ३९ ||

घटिकार्धं तत्र विश्रम्य न द्रुतं न विलम्बितम् |
प्रासादशतकं दिव्यं बीजमुख्येन संपुटे || ४० ||

मूलमन्त्रेण मतिमान् शिवध्यानपरायणः |
सकलं निष्कलं ध्यात्वा न्यसेद्ब्रह्मशिलोपरि || ४१ ||

पञ्चब्रह्मन्न्यसेत्तत्र कलापिण्डन्न्यसेत्क्रमात् |
सद्येना पञ्चयेद्देवं वामदेवेन स्थापयेत् || ४२ ||

अघोरेण निरोद्धव्यं सान्निध्यं पुरुषेण तु |
ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च || ४३ ||

सद्यं पश्चिमतः स्थाप्य वामदेवन्तथोत्तरे |
अघोरन्दक्षिणे स्थाप्य पूर्वे च पुरुषं न्यसेत् || ४४ ||

ईशानन्तु शिरोमध्ये न्यसेद्वै सृष्टिमार्गतः |
त्र्यक्षं द्विभुजं देवं चन्द्रार्धकृतशेखरम् || ४५ ||

पञ्चवक्त्रैर्युतं देवं पञ्चमूर्धसमन्वितम् |
दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम् || ४६ ||

शुद्धस्फटिकसंकाशं श्वेतपद्मोपरि स्थितम् |
सर्वाभरणमध्यक्षं सर्वाभरणभूषितम् || ४७ ||

नवत्रिंशत्कलायुक्तं देवदेवं सदाशिवम् |
लिङ्गे तु विन्यसेद्देवं बीजमुख्येन चैव हि || ४८ ||

ध्यात्वा परमसद्भावं देवदेवं शिवं परम् |
निष्कलं निर्मलं शान्तं निष्प्रपञ्चमलक्षणम् || ४९ ||

अपृत * * म * * विज्ञेयं विनाशोत्पत्तिवर्जितम् |
वाच्यवाचकरहितं सदसस्पतिमद्भुतम् || ५० ||

हेयोपादेयरहितं क्षारक्षार विवर्जितम् |
योगिगम्यं परं ब्रह्म उद्वयन्तमतः परम् || ५१ ||

निर्वाणं निर्गुणं देवं आनन्दमचलं ध्रुवम् |
एवं ध्यात्वा महासेन प्रासादेन तु संयुतम् || ५२ ||

प्रासादेन तु देवेन लिङ्गस्य शिरसि न्यसेत् |
सदाशिवस्य हृदये प्रासादं विन्यसेद्गुह || ५३ ||

प्रणवेन संपुटीकृत्य पञ्च जप्त्वा तु विन्यसेत् |
हृल्लेखा विष्णुभागे तु त्रिर्जपित्वा तु विन्यसेत् || ५४ ||

व्याहृतिः प्रणवे नैव ब्रह्मभागे तु विन्यसेत् |
विद्यातत्त्वमथो न्यस्य आत्मतत्त्वं तु मध्यमे || ५५ ||

ऊर्ध्वे तु शिवतत्त्वं तु न्यसेद्बीजत्रयं गुह |
पुनः पवित्रन्न्यसेद्देहे कलामन्त्रैर्विधानतः || ५६ ||

ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् |
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् || ५७ ||

सद्योजातं न्यसेत्पादे तत्तद्वर्णं षडानन |
पूर्वे दक्षिणतश्चैव पश्चिमे चोत्तरे तथा || ५८ ||

ऊर्ध्वं तु मूर्ध्नि संयुक्तं ईशानं परिकल्पयेत् |
पूर्वे दक्षिणतश्चैव पश्चिमे चोत्तरे तथा || ५९ ||

ऊर्ध्ववक्त्रसमायुक्तं तत्पुरुषं पञ्चवक्त्रके |
हृदि ग्रीवांसयोश्चैव नाभौ ईशानमेव च || ६० ||

उरसि पृष्ठे महासेन अघोरसकलान्न्यसेत् |
गुदे लिङ्गे च ऊर्वोश्च जान्वोश्च जङ्घयोरपि || ६१ ||

स्फिचोः कण्ठ्यां तथा चैव पार्श्वयोरुभयोरपि |
वामदेव कलान्न्यस्य त्रयोदश अनुक्रमात् || ६२ ||

पादे हस्ते च नासायां शिरस्युभयबाह्ययोः |
सद्यस्य तु कला अष्टौ क्रमेणैव तु विन्यसेत् || ६३ ||

प्रणवादिनमोन्तास्तु तारादिं विन्यसेत्क्रमात् |
एवं न्यस्त्वा विधानेन कलशैः स्नानमाचरेत् || ६४ ||

पुरुषसूक्तेन मतिमान् प्रासादेन तु संयुतम् |
पुनर्गन्धोदकेनैव स्नापयेद्बीजमुख्यकैः || ६५ ||

गन्धैः पुष्पैस्तथा दिव्यैः धूपैरर्घनिवेद्यकैः |
पूजयेद्धृदयेनैव बीजमुख्येन वै गुह || ६६ ||

वस्त्रैराभरणैर्दिव्यैः हारकेयूरकादिभिः |
मकुटैः कुण्डलैश्चैव स्वर्णयज्ञोपवीतकैः || ६७ ||

कटिसूत्रोदरबन्धैः * * ना बीजमुख्यकैः |
एवं संपूर्णविधिना प्रणिपत्य क्षमापयेत् || ६८ ||

द्वारं निरोध्य मतिमान् कला यत्र च सप्त वा |

इति कालोत्तरे प्रतिष्ठापटलः पञ्चाशत् || ५० ||

Kapitel 51 – Rituelle Begießung

|| श्रीः ||
ईश्वर उवाच-
तदा च तस्मिन् दिवसे पीठबन्धं तु कारयेत् |
गर्भगृहं त्रिधा भज्य द्विभागं पीठमुत्तमम् || १ ||

गर्भगृहं पञ्चभागं एकार्धं चाधमं भवेत् |
चतुरश्रं वृत्तपद्मं भागाकृतिमथापि वा || २ ||

प्रत्यग्निं वा त्रिकोणं वा पञ्चाश्रं वापि कारयेत् |
सप्ताश्रं वापि चाष्टाश्रं नवाश्रं वापि कारयेत् || ३ ||

दशाश्रं द्वादशाश्रं वा षोडशाश्रमथापि वा |
अष्टादशाश्रं वा कुर्यात् विंशदश्रमथापि वा || ४ ||

पीठं चोत्पलपुष्पाभं धुर्धूरकसमाकृति |
चित्राकृतिर्वा पीठं तु कूर्माकृतिमथापि वा || ५ ||

अतसी * * * * ष्टस्त्रयस्त्रिंशदथापि वा |
पञ्चविंशैः षोडशैर्वा नवभिर्वाथ कारयेत् || ६ ||

सार्वभौमैर्महासेन नियतं स्नपनं भवेत् |
निबुदैः कलशैर्वत्स महाविष्णुकृतं पुरा || ७ ||

पितामहश्चार्बुदेन कलशैः स्नपनं कृतम् |
आदित्यस्तु निखर्वैश्च सर्वैश्शक्रेण वै गुह || ८ ||

नियुतैर्वत्स एवं तु सार्वभौमस्तु कारयेत् |
मण्डलीका न रोमाश्च शतैः पञ्चभिरेव तु || ९ ||

साधारणैश्च भूपालैः भूसुरैर्विविधान्वितैः |
सहस्रकलशैर्वत्स तन्त्रितैः स्नपनं भवेत् || १० ||

आढकत्रयसंपूर्णैः कलशैः स्नानमुत्तमम् |
द्व्याढकैश्चैव संपूर्णैः कलशैर्मध्यमं भवेत् || ११ ||

एकोदकेन संपूर्णैः कन्यसैः स्नपनं भवेत् |
यावत्कलशविस्तारं तावन्मण्डपविस्तरम् || १२ ||

तिर्यग्विंशतिपदं कारयेत्तत्र वित्तमः |
पूरयेद्विंशतिपदं द्रव्याणां च यथा विधि || १३ ||

विधिभिर्दशभिः कृत्वा तिर्यग्विधिं षडानन |
सहस्रैर्दशभिर्वत्स कलशैरयुतैः कुरु || १४ ||

एवं दशविधैर्वत्स न्यर्बुदैश्चैव कारयेत् |
न्यर्बुदैश्शतसहस्रेणं घृतेन परिपूरयेत् || १५ ||

खर्वं कलशैः स्नपनं सहस्रैर्द्वादशैः कृतम् |
नियुतैः कलशैः स्नपनैः दशसहस्रकृतं भवेत् || १६ ||

दशसहस्रैः स्नपनैः घृतेन सहस्रपूरणम् |
सहस्रैस्तु शतं पूर्य स्नपनं कारयेद्बुधः || १७ ||

पञ्चशतेन पञ्चाशच्छते तु दशमं भवेत् |
घृतस्यार्धं तु वै क्षीरं क्षीरस्यार्धं दधि भवेत् || १८ ||

गोमयं चैव गोमूत्रं दधिपादं तु योजयेत् |
नालिकेरस्य सलिलं क्षीरेण तु समं भवेत् || १९ ||

दध्यर्धं चेक्षुरसं तदर्धं मधु चोच्यते |
तुषारसलिलं वत्स पञ्चविंशत्तु विंशतिः || २० ||

पञ्चदशदश चैव पञ्चत्रिद्वयमेकं वा |
सहस्रकं तुषारसलिलं कल्पयेद्वै षडानन || २१ ||

गङ्गासलिलं षट्त्रिंशत्त्रिंशद्वै पञ्चविंशकैः |
विंशत्पञ्चदश चैव दश षट्पञ्चकद्वयम् || २२ ||

एकं योज्य सहस्रे तु वारिमिश्रं च शेषकैः |
महास्नपनमेवं तु शेषान्नृत्तान्नियोजयेत् || २३ ||

इदानीं सहस्रकलशं लाघवार्थं वदाम्यहम् |
विंशत्पङ्क्तिं प्रकीर्याथ दक्षिणोत्तरगं गुह || २४ ||

दशवीथ्या प्रकर्तव्यं दक्षिणोत्तरतो गुह |
एकैकेन तु पञ्चाशत्पदं पश्चिमपूर्वके || २५ ||

प्रकीर्णमार्गपदं ह्येवं पूर्वं कृत्वा तु संवृत |
एकैकं कलशमूले तु द्विप्रस्थं शालिं निक्षिपेत् || २६ ||

तदर्धं तण्डुलं वत्स पदे पदे तु निक्षिपेत् |
कलशान् क्षालितान् शुद्धान् धूपितान्गन्धलेपितान् || २७ ||

सवस्त्रान् कूर्चसंयुक्तान् स सूत्रान् सा विधानकान् |
आम्रपल्लवसंधिन्नान् सुगन्धेन तु वर्चितान् || २८ ||

आचार्यः षोडशैर्वापि द्वादशाष्टभिरेव वा |
अथवा चत्वार आचार्यः स्नपनं कारयेद्गुह || २९ ||

नववस्त्र धराः शुद्धाः सर्वाभरणभूषिताः || ३० ||

स्वर्णयज्ञोपवीतैश्च हारकेयूरकुण्डलैः |
सुवर्णपुष्पसंयुक्तैः सोष्णीषैः सोत्तरीयकैः || ३१ ||

गन्धचन्दनलिप्ताङ्गैः श्वेतस्रग्दामभूषितैः |
चतुस्तोरण संयुक्तं चतुर्द्वारसमन्वितम् || ३२ ||

नवदिग्ध्वज संयुक्तं वितानोपरि शोभितम् |
मुक्तादामैः पुष्पदानैः सर्वतश्चाप्यलंकृतम् || ३३ ||

घण्टा (डा) चामरदर्पणं अष्टमङ्गलशोभितम् |
कुलपर्वताष्टदिक्षु विप्रादेशोच्छ्रितं भवेत् || ३४ ||

महामेरुं मध्यदेशे चतुष्पाद्दश उच्छ्रितम् |
कैलासं श्वेतमृत्साभिः मेरुमात्रं तु कारयेत् || ३५ ||

मरोर्दक्षिणतः कार्यं श्रीकैलाससमन्वितम् |
हिमं विन्ध्यं सुचक्रं वा महेन्द्रं पारियात्रकम् || ३६ ||

निषधन्नीलशिखरं श्रीशैलं नवमं भवेत् |
निषधं पूर्वदिग्भागे हिमवानग्निगोचरे || ३७ ||

विन्ध्यं दक्षिणतः कुर्यात् श्रीशैले नैर्-ऋते भवेत् |
सुवर्म पश्चिमे स्थाप्य वायव्ये पारियात्रकम् || ३८ ||

नीलपर्वतं संस्थाप्य उत्तरे तु षडानन |
महेन्द्रशिखरं वत्स ऐशान्यां परिकल्पयेत् || ३९ ||

सर्वतो दर्भमाला तु संछाद्य यागमण्डपे |
मेरोः प्राच्यां तु वै वत्स शिवकुम्भं न्यसेद्बुधः || ४० ||

पञ्चरत्नं क्षिपेत्तत्र गङ्गातोयं तु विन्यसेत् |
अथवा तुषारसलिलं शुद्धोदकमथापि वा || ४१ ||

वस्त्रयुग्मेन संछाद्य त्रिसंविद्विन्यसेद्बुधः |
दशमे पङ्क्तौ षण्मुख पञ्चाशद्घृतं पूरयेत् || ४२ ||

तस्य पश्चिमपङ्क्तौ च कलशेषु डडानन |
क्षीरेण पूरयेत्तेषु पञ्चाशद्वामविद्यया || ४३ ||

ईशानेन घृतं पूर्य प्रासादेन तु संयुतम् |
तस्य पश्चिमपङ्क्तौ तु पञ्चाशद्गोमयं भवेत् || ४४ ||

सद्येन मन्त्रयेद्वत्स हृदयेन षडानन |
अष्टलोहमयाम्भश्च तस्य पश्चिमपङ्क्तिके || ४५ ||

पञ्चाशत्पूरयेद्वत्स तत्पुरुषेण च मन्त्रतः |
तस्य पश्चिमपङ्क्तौ तु कषायाष्टकं पूरयेत् || ४६ ||

पञ्चाशत्कलशे वत्स बीजमुख्येन बुद्धिमान् |
तस्य पश्चिमपञ्चाशुद्धदोदके तु पूरयेत् || ४७ ||

पृथक्तस्य पश्चिमं तु धात्वष्टकुमुदाहृतम् |
सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् || ४८ ||

आरकांस्यं च मतिमान् लोहाष्टकमुदाहृतम् |
आम्रमौदुम्बरं चैव न्यग्रोधं पनसं तथा || ४९ ||

अश्वत्थं च शिरीषं च पलाशो मधूकमेव च |
कषायवृक्षमध्ये तत् कषायाष्टकमुदाहृतम् || ५० ||

नन्दीनां गोविषाणोत्थधाराय कुशमूलतः |
वल्मीकां क्षेत्रकोष्ठाभ्यां वेदिमध्यं तु चाष्टकम् || ५१ ||

हरितालं गन्धकशिला दरदं गौरिकाञ्चनम् |
सौराष्ट्रं वारदं चैव धात्वष्टकमुदाहृतम् || ५२ ||

तस्य पश्चिमपङ्क्तौ तु लोष्टकं हरिचन्दनम् |
कुङ्कुमं चैव कर्पूरं खंगरोगफलत्रयम् || ५३ ||

पूतिकेशं च मतिमान् पञ्चाशत्पूरयेद्घटे |
तद्घृतपङ्क्त्यास्तु पूर्वं तु पञ्चाशत्कलशेषु च || ५४ ||

पुष्पाष्टकानां तोयं तु पूरयेद्बीजमुख्यकैः |
नृप पुष्पं पङ्कजञ्चोत्पलं वकुलपाटली || ५५ ||

पुन्नागं पञ्चमं जातिक्रमेणैव तु पूजयेत् |
तस्याः प्राच्यां तु पङ्क्तौ च फलाष्टकाम्भश्च पूरयेत् || ५६ ||

कदलीपनसाम्रं च दाडिमं बीजपूरकम् |
कपित्यं नालिकेरं च नारंगं चाष्टमं भवेत् || ५७ ||

तत्पङ्क्त्याः प्राच्यपङ्क्त्यां तु पञ्चाशन्मधुपूरयेत् |
एतत्पङ्क्त्यास्तु पूर्वस्यां इक्षुवारि न्यसेत्क्रमात् || ५८ ||

तत्पङ्क्त्या पूर्वपङ्क्त्या तु बीजाष्टकमुदाहृतम् |
शालिनीवारगोधूमयव वेणुप्रियङ्गवः || ५९ ||

तिलं मुद्गं च मेधावी पञ्चाशत्पूरयेत् पृथक् |
तत्पङ्क्त्या पूर्वपङ्क्त्यात्तु औषधाष्टकतोयकम् || ६० ||

लक्ष्मीश सहदेवी च विष्णुक्रान्तिन्नृपस्तथा |
सूर्यावतं च वल्मी च बन्धूकन्तिरिकर्णिका || ६१ ||

पञ्चाशत्कलशान् पूर्य पृथक्स्वबीजमुख्यकैः |
तत्प्राच्यां चैव पङ्क्तौ च महाशाल्याष्टकं न्यसेत् || ६१ ||

गन्धशाली महाशाली रत्नशाली तथैव च |
कृष्णशाली श्वेतशाली कलमाशालिमेव च || ६२ ||

गोधूमं गर्भषष्टिं च पञ्चाशत्कलशेषु च |
बीजमुख्येन वै वत्स न्यसेन्मन्त्रेण देशिकः || ६३ ||

तत्पङ्क्त्या पूर्वपङ्क्त्यां तु हरिद्राद्यष्टकं न्यसेत् |
हरिद्राशतपुष्पा च गङ्गा चैव हरिप्रिया || ६४ ||

तस्करामुखं चैव सावित्रं द्राविडाष्टकम् |
तुषारोदकमिश्रान्तं पूर्वपङ्क्तिं तु पूरयेत् || ६५ ||

तुषारोदकं मतिमान् गङ्गाभृङ्गरिभूसह |
समुभ्रमच्च मतिमान् तुषारेण सहन्यसेत् || ६६ ||

पाद्यमाचमनं चार्घ्यं पद्ममूलादिपञ्चकम् |
पाकजोत्पल * * * कल्हारं कुमुदं तथा || ६७ ||

नीलोत्पलस्य मूलं तु अष्टदिक्षुन्यसेद्घटान् |
इन्द्राद्यैशानपर्यन्तं बीजमुख्येन विन्यसेत् || ६८ ||

अष्टोत्तरसहस्रं तु कलशाद्वै यथाक्रमात् |
विन्यसेत्पूरयेद्वत्स पुष्पगन्धादिभिः क्रमात् || ६९ ||

स्नापयेद्देवदेवेशं पवित्रैर्वीजमुख्यकैः |
रुद्रसूक्तं पुरुषसूक्तं विष्णुसूक्तं त्रियम्बकम् || ७० ||

हंसशुचिं शन्नवर्गं जातवेदसमेव च |
त्वरितं रुद्रमपरं पवमानं हिरण्यकम् || ७१ ||

महाव्योमं महासेन यथाक्रमेण स्थापयेत् |
पञ्चशतैस्तदर्धैश्च तदर्धैर्विंशतापि च || ७२ ||

एतदर्धेन कर्तव्यं अष्टोत्तरशतेन च |
एकाशीतिः प्रकर्तव्यं नवके नवकेषु च || ७३ ||

अष्टोत्तरशतं वत्स सप्तविंशत्पुनर्युतम् |
चतुःषष्टिकलशैर्वत्स चतुष्षष्टिद्रव्यसंयुतम् || ७४ ||

द्वात्रिंशत्तु तदर्धेन पञ्चविंशत्तु षोडशैः |
पाद्यमाचमनं चार्घ्यं पञ्चगव्यं कषायकम् || ७५ ||

मृतोदकं घृतं क्षीरं दधिचेक्षुरसं मधु |
पुष्पोदकं फलाभश्च गन्धोदकयवोदकम् || ७६ ||

द्रव्यपुष्पोदकं चैव हिरण्याम्भस्तु राजसम् |
नालिकेक्षुरसंन्नाभः प * * * * विंशकम् || ७७ ||

फलोदमष्टसंयुक्तं त्रयस्त्रिंशत्प्रकीर्तितम् |
पूर्वं कथितं पञ्चविंशत्पञ्चविंशतिभिः कुरु || ७८ ||

पूर्वं षोडशकं वापि कलशैः षोडशः कुरु |
पूर्वनव द्रव्येण तत्कलशं तु व * * वत् || ७९ ||

वाञ्छितं स्नापनं कृत्वा पूजयेत्पूर्ववद्गुह |
पञ्चवर्णं चरुं दद्यात् प्रणिपत्य क्षमापयेत् || ८० ||

इति कालोत्तरे स्नपनपटलः एकपञ्चाशत् || ५१ ||

Kapitel 52 – Die umgebenden Gottheiten

|| श्रीः ||
ईश्वर उवाच-
परिवारविधिं वक्ष्ये सर्वकामार्थसाधनम् |
अष्टविद्येश्वराश्चैव अष्टमूर्तिं तथैव च || १ ||

रुद्रैकादशकाश्चैव द्वादशादित्यकास्तथा |
वसवश्चाष्टभिश्चैव गणेशान् लोकपालकान् || २ ||

  • * मरुद्गणाश्चैव यक्षान् किन्नरगन्धर्वान् |

परिवारानेकादश च क्रमशः परिकल्पयेत् || ३ ||

विद्येश्वरांश्चाष्टमूर्ति रुद्रैकादश एव च |
ऋषियक्षाश्चाष्टभिश्च पीठे संपूजयेद्गुह || ४ ||

इन्द्राद्यैशानपर्यन्तं क्रमशः पूजयेत्पृथक् |
द्वादशदले द्वादशादित्यान् अष्टरुद्रांस्तु पूजयेत् || ५ ||

उमाचोत्तरतः पूज्या चण्डमीशे तु पूजयेत् |
नन्दिं संपूज्य पूर्वे तु महाकालं वह्निगोचरे || ६ ||

वृषभं दक्षिणे पूज्य निर्-ऋतिं निर्-ऋतिगोचरे |
शृङ्गीशं वारुणे पूज्य षण्मुखं वायुगोचरे || ७ ||

अनलयमयोर्मध्ये दुर्गादेवीं च पूजयेत् |
यमनैर्-ऋतयोर्मध्ये सरस्वतीं पूजयेद्गुह || ८ ||

निर्-ऋतिवरुणयोर्मध्ये धरणीं चैव पूजयेत् |
वरुणानिलयोर्मध्ये कुबेरस्य गृहं कुरु || ९ ||

सोममारुतयोर्मध्ये ज्येष्ठस्थानमनुत्तमम् |
ईशानसोमयोर्मध्ये विष्णुस्थानं सुशोभनम् || १० ||

आसनं शयनं वापि कारयेत्तत्र पारगः |
पार्वती विष्णु ग्रहयोश्चतुर्मुखस्य ग्रहं कुरु || ११ ||

इन्द्रेशानयोर्मध्ये सूर्यस्थानमनुत्तमम् |
सरस्वतीयमयोर्मध्ये सप्तमातृगणालयम् || १२ ||

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा |
वाराही चैव माहेन्द्री चामुण्डी च गणाधिपः || १३ ||

पीठभद्रश्च कथितौ मण्डपं गोपुरं तु वा |
उत्तरे खेच वै वत्स भाण्डारभवनं कुरु || १४ ||

देवाभरणकोशश्च सुवर्णरजतादिभिः |
शैलेन कारयेत्तत्र सुदृढार्गलसंयुतम् || १५ ||

तस्योत्तरे प्रकर्तव्यं कोष्ठागारं तु धान्यकैः |
इन्द्रस्य भवनं पूर्वे आग्नेययामनलस्य तु || १६ ||

याम्यायां यमस्य भवनं निर्-ऋत्यां निर्-ऋतेर्गृहम् |
वारुण्यां वरुणस्थानं वायव्यामनिलस्य तु || १७ ||

सौम्यायां सोमभवनं ऐशान्यामैशमेव च |
प्रासादमेकं भौमं तु चतुर्हस्तस्तु पञ्च वा || १८ ||

गान्धर्वं मण्डपं पूर्वे आग्नेययामप्सरालयम् |
दक्षिणे चापि वै वत्स पितॄणां गृहमुत्तमम् || १९ ||

पश्चिमे दक्षिणे चैव चारणालयमुत्तमम् |
वारुणे विद्याधरगृहं वायव्यां गरुडालयम् || २० ||

वैश्रवणस्य भवनमुत्तरे तु प्रकल्पयेत् |
जम्बलं माणिभद्रं च शङ्खपद्मनिधेर्गृहम् || २१ ||

नागराजस्य भवनं ईशाने तु प्रकल्पयेत् |
अनन्तो गुलकश्चैव वासुकिः शङ्खपालकः || २२ ||

तक्षकश्च महापद्मः कार्कोटकश्च महासरः |
कूटं वा मण्डपं वापि धाम द्वादशहस्तकम् || २३ ||

षड्डस्तञ्चैव विस्तारं सम्यक्कृत्वा समाहितः |
दक्षिणे आयुर्भवनं दृढं प्रासादमुत्तमम् || २४ ||

तस्य दक्षिणपार्श्वे तु उपवासानां गृहं भवेत् |
पुष्करणी वारुण्यां तु शतहस्तं वर्तुलं भवेत् || २५ ||

नीलोत्पलैश्च पद्मैश्च उत्पलैः कुमुदैः शुभैः |
उद्यानं परितः कुर्यात् आम्रबिल्वादिशोभनैः || २६ ||

चन्दनैर्वकुलैर्नागैः पुन्नागैश्चम्पकैः शुभैः |
पनसैर्नालिकेरैश्च कुमुदैः कदलीचयैः || २७ ||

करवीरैर्नन्दिकावर्तैः जपाशोकादिसंकुलैः |
मालतीमाधवीभिश्च मदन्तीसिन्धुवारकैः || २८ ||

मध्याह्निकविकसैश्चैव कुशशाकादिसंकुलैः |
अश्वत्थब्रह्मवृक्षैश्च रक्तचन्दनवेदुकैः || २९ ||

कुङ्कुमैः कुरवैश्चैवमक्षैः सर्जरसैः शुभैः |
कुङ्कुमैः मारकैश्चैव उशीरैस्तद्गणैः शुभैः || ३० ||

कुरवकैः क्रौञ्चकैश्चैव मरुवकैस्सरसेव्यकैः |
पिशाचैश्च मृदङ्गी च भार्याङ्गी च गरुडस्तथा || ३१ ||

अन्ये च बहवो वृक्षाः बलगन्धान्विताः शुभाः |
ताम्बूलवल्ली पूगा च भक्ष्यकन्दाश्च सर्वशः || ३२ ||

कपित्थैर्बीजपूरैश्च डाडिमैर्यववल्लभैः |
अन्यैश्च पुष्पवृक्षैश्च वर्यगैस्तरुभिः शुभैः || ३३ ||

अश्वत्थमेकं पिच्चमन्दमेकं न्यग्रोधमेकं दश तिन्त्रिणी च |
षट्चम्पकं तालवनं शतं च नवाग्रमेकं नरकं न याति || ३४ ||

आपो वै वापवद्वत्स कूपं तत्रैव योजयेत् |
गोशालां पूर्वदिग्भागे आग्नेययां तापसालयम् || ३५ ||

प्राकाराभ्यन्तरे कुर्यात् सभां वा ऋषिरेव वा |
दीनान्धकृपणानां तु आर्तानां वसतिं शुभम् || ३६ ||

तदस्याभ्यन्तरे कुर्यात् अन्नशालां सुशोभनाम् |
रुद्रस्य गणिकास्थानं प्राकारबाह्ये पूर्वतः || ३७ ||

देवालयस्य दक्षिणेऽपि विप्रग्रामं सुशोभनम् |
तद्बाह्यराजवेश्मं तु वणिग्ग्रामस्य बाह्यतः || ३८ ||

गूद्राणां पुनराकल्प्य तैलकारास्तथादयः |
नागराद्बाह्ये चान्त्यजात्स्वर्णलोहादिकारकान् || ३९ ||

शिल्पिनश्चित्रकारांश्च * * * * * सर्वतः |
रजका च मकाराश्च नटोवकुट एव च || ४० ||

कैवर्तिबिल्वजातांश्च सप्त ते अन्यजातयः |
तक्षकाणां बहिः कुर्यात् अन्यैरन्यजनैरपि || ४१ ||

शिवस्य भवनात्पूर्वे द्विदण्डाद्वृषभालयम् |
द्विदण्डाद्विष्णुभवनं त्रिदण्डाश्च गणेश्वरम् || ४२ ||

त्रिदण्डाद्द्वादशादीनां विदध्यात् तु गृहं बुधः |
गणेश्वरावरणं बाह्ये लोकपालास्त्रिदण्डतः || ४३ ||

लोकपालात्पञ्चदण्डा हस्त्रावरणं षण्मुख |
तद्बाह्ये विंशदण्डात्तु शिवप्राकारमुत्तमम् || ४४ ||

गोशालामन्नशालां च आचार्यगृहमेव च |
कोष्ठाका(गा)रं च मेधावी प्रकाराभ्यन्तरे कुरु || ४५ ||

अभ्यन्तरे गणाशात्तु हविश्शाला प्रशस्यते |
पितामहस्य भवनं विष्णोर्भवनमेव च || ४६ ||

गणेशाभ्यन्तरे कुर्यात् विधिदृष्टेन कर्मणा |
प्राकाराभ्यन्तरे कुर्यात् गृहं संन्यासकारिणाम् || ४७ ||

इति कालोत्तरे परिवारपटलो द्विपञ्चाशत् || ५२ ||

Kapitel 53 – Das Heiligtum

|| श्रीः ||
ईश्वर उवाच-
प्रासादलक्षणं वक्ष्ये शिवस्य परमात्मनः |
लिङ्गस्यैवानुरूपं तु प्राकारं कारयेद्बुधः || १ ||

अथ * * * * * * * * कुर्यात्प्रयत्नतः |
प्रथमं मेरुप्रासादं द्वितीयं मन्दरं भवेत् || २ ||

तृतीयं कैलासनाम च चतुर्थं मलयं भवेत् |
पञ्चमं वलभिश्चैव स्वच्छन्दनन्द्यावर्तं तु षष्ठकम् || ३ ||

स्वस्तिकं सप्तमं ज्ञेयं सिंहप्रासादमष्टमम् |
नवमं गरुडप्रासादं दशमं वृषभं भवेत् || ४ ||

एकादशं स्वस्तिपृष्ठं द्वादशं विपुलं भवेत् |
त्रयोदशं तु सुक्षेत्रं चतुर्दशं मानवं भवेत् || ५ ||

महादशः पञ्चदशं विमानं छलं हि षोडश |
प्रासादानं षण्णवतिः प्रधानं षोडशं भवेत् || ६ ||

शैवं ब्राह्मं वैष्णवं च उत्तमोत्तममेव च |
नागरं द्राविडं चैव वेसरं त्रिविधं भवेत् || ७ ||

पूर्वं हि सप्त नागरं मध्यषष्ठं तु द्राविडम् |
अपरं षष्ठमं वत्स वेसरमुत्तमं भवेत् || ८ ||

द्वात्रिंशन्नागरं प्रोक्तं द्वात्रिंशद्द्राविडं भवेत् |
द्वात्रिंशद्वेसरं प्रोक्तं षण्णवतिः प्रकीर्तिताः || ९ ||

कूटं कोष्ठं च शालां च ग्रीवानाडीविवर्जितम् |
नागरं तं विजानीयात् चिरजालं प्रतिष्ठितम् || १० ||

एकशाला च संयुक्ता ऊर्ध्वशाला च वै गता |
कोष्ठं नासिकहीना च द्राविडं परिकीर्तितम् || ११ ||

सर्वालंकारसंयुक्तं कूटकोष्ठसमन्वितम् |
शालानासिकासंयुक्तं उपानकुमुदान्वितम् || १२ ||

कपोतं जगतीयुक्तं स्तम्भपालिकया युतम् |
ग्रीवाशिखरसंयुक्तं तद्वेसरं परिकीर्तितम् || १३ ||

एकभूमिं समारभ्य यावद्भूमिसहस्रकम् |
ब्रह्मा विष्णुश्च विरुद्रश्च कृतयुग्मे षडानन || १४ ||

सहस्रभूमिं कुर्वन्ति शिवप्रासादमुत्तमम् |
भूमिं पञ्चशतं ज्ञेयं त्रेतायां तु षडानन || १५ ||

द्वापरे शतभूमिस्तु मुनिदेवैः कृतं पुरा |
कलियुगे तु षष्ठिभूमिरुत्तमं परिकीर्तितम् || १६ ||

द्वात्रिंशन्मध्यमं ज्ञेयं षोडशाष्टं तु कन्यसम् |
कलियुगे मानुषाणां तु सप्तपञ्चत्रयं हि वा || १७ ||

ब्रह्माविष्णुश्च रुद्रश्च शतमूर्ध्वं तु भूमिकम् |
इन्द्रादिलोकपालानां चतुष्षष्टिरुदाहृतम् || १८ ||

गणेश्वराणां मातॄणां भूमिः सर्वमुदाहृतम् |
कृतयुगे देवमेवं तु त्रयहीनं तु त्रेतायाम् || १९ ||

द्वापरे तु त्रयो * * * * * * * * * * |
कलियुगे सप्तभूमिस्तु उत्तमं परिकीर्तितम् || २० ||

मध्यमं पञ्चभूमिस्तु कन्यसं चैकभूमिकम् |
पञ्चभूमिर्ग्रहाणां तु उत्तमं परिकीर्तितम् || २१ ||

मध्यमं तु त्रिभूमिस्तु एकभूमिस्तु कन्यसम् |
सार्वभौमस्य वै वत्स षोडशभूमिरुच्यते || २२ ||

मण्डलीकस्य सर्वेषां पञ्चत्रिद्वयमेव वा |
सप्तकं भूमिरुर्ध्वन्तु महापातभयं भवेत् || २३ ||

अमात्यानां तु सर्वेषां त्रिभूमिः परिकीर्तिता |
सामन्तानां द्विभूमिस्तु देवीनां तु त्रिभूमिकम् || २४ ||

गणानामेकभूमिस्तु भोगीनामेकभूमिका |
कोशाध्यक्षस्यैकभूमिः त्रिभाध्यक्षस्य एकतः || २५ ||

गणिकाध्यक्षः केवलस्य गृहगणिकानां तथैव च |
राजदुहिताश्चैकभूमिं कुमाराणां तु एकतः || २६ ||

प्रासादं मालिका वापि नृपाणां तु विशेषतः |
लोहलोष्टैच्छदितं प्रासादं परिकीर्तितम् || २७ ||

लोहलोष्टविहीना तु मालिका परिकीर्तिताः |
समृद्धानाद्यद्वयुतादूर्ध्वं रजतं वा सुवर्णकम् || २८ ||

प्रासादं मालिकां कुर्यात् स्वस्तिकं नन्दिवर्धनम् |
प्रासादं वैश्यजातीनां वलभिच्छन्दनार्धकम् || २९ ||

धनुश्रेष्ठं प्रकुर्वन्ति केचिच्छंसन्ति मालिकाम् |
शूद्राणां गलिकानां च तृणाच्छाद्य गृहं भवेत् || ३० ||

राज्ञः प्रासादमेवं स्यात् केचिच्छंसति मालिका |
चतुर्वेदविदां चैव यावागारं प्रशस्यते || ३१ ||

मिश्राणां चैव भूतानां सोमपानां तु धावलम् |
धवलाकारं न कर्तव्यमन्येषां तु कदाचन || ३२ ||

वेदवेदाङ्गतत्त्वज्ञान्नीति शास्त्रविशारदान् |
विशिष्टो यज्ञपरो नृपो धवलाकारं प्रशस्यते || ३३ ||

ब्रह्मा विष्णुश्च रुद्रश्च इन्द्रादियमनैर्-ऋताः |
वरुणवायुकुबेरेश अमरादित्यपा * || ३४ ||

भूमिश्च सरस्वत्यै धवलाकारं प्रशस्यते |
धनेशं केचिदिच्छन्ति वसुरुद्रविनायकान् || ३५ ||

अल्पवित्ताश्च यजना जननाश्च अमात्यकाः |
धवलाकारं होमात्तु अचिरादेव नश्यति || ३६ ||

देवानां तु प्रशंसन्ति मानुषाणां च वर्जयेत् |
मानुषाणां तु वै वत्स नृपब्राह्मणयोर्द्वयोः || ३७ ||

अन्यस्सर्वेषु मर्त्येषु धवलाकारं तु वर्जयेत् |
धवलाकारं तु विधिना शिवाय परमात्मने || ३८ ||

अश्वमेधसहस्रस्य फलं प्राप्नोति वै नृप |
कृष्णं शिलां च धवलोकारमूढत्रयं गुह || ३९ ||

अयुतं चाश्वमेधस्य फलं प्राप्नोति मानवः |
सिरासिरविपन्नश्च ग्रन्थिमण्डलवर्जितम् || ४० ||

कृष्णपर्वतशिलाया वग्रहं यदि कारयेत् |
कोटकं वापि कुर्वीत प्रासादं वेसरं तु वा || ४१ ||

नागरं द्राविडं वापि कारयेद्भक्तिमान्नरः |
अश्वमेध्यस्य कोट्यस्तु कपिलानां निखर्वतः || ४२ ||

तत्फलं लभते वत्स प्रासादक्रोटकेन तत् |
प्रासादात्त्रोटकं श्रेष्ठं प्रशंसन्ति मनीषिणः || ४३ ||

कवाटं सार्गलस्तम्भलोभेनैव तु कारयेत् |
तस्मात्तु द्विगुणं पुण्यं लभते नात्र संशयः || ४४ ||

त्रिभूमिं पञ्चभूमिं वा सप्तभूमिमथापि वा |
प्रासादं वापि त्रोटं स्यात्कारयेद्वै षडानन || ४५ ||

तस्य पुण्यस्य माहात्म्यं मया युगशतैरपि |
वक्तुं न शक्यते तस्मात्को वा वर्णयितुं क्षमः || ४६ ||

जाम्बूनदेन तारेण स्फटिकेनापि शुल्बकैः |
तत्तद्भूमौ शिवं कुर्यात् तस्य पुण्यफलं शृणु || ४७ ||

तुलाभारसहस्रस्य पृथिवीदानसहस्रकम् |
हिरण्यगर्भसहस्रं यत्तत्फलं लभते नरः || ४८ ||

माणिक्यं मरतकं वापि वज्रमौक्तिकमेव वा |
स्थापयेत्रोटप्रासादे भूमौ भूमौ तु वै नृपः || ४९ ||

कोशं कृत्वा विधानेन * ला प्रासादपर्वते |
पूर्वस्माच्छतगुणं पुण्यं लभते त्रोटकेऽपि वा || ५० ||

इति कालोत्तरे प्रासादपटलः त्रिपञ्चाशत् || ५३ ||

Kapitel 54 – Dorf, Stadt, Hafenstadt, befestigter Ort und Residenz

|| श्रीः ||
ईश्वर उवाच-
ग्रामं पुरं च नगरं पत्तनं खेटकानि च |
आयामं स्थानभेदैश्च प्रमाणं गर्भमेव च || १ ||

वेलिकानां च यानं च नृत्तशालस्य लक्षणम् |
अनिर्वाणप्रदीपं च अम्लानपुष्पमेव च || २ ||

वालदीपकमाला च त्रिविधं गर्भमुच्यते |
रत्नगर्भं पञ्चगर्भं पञ्चधागर्भमेव हि || ३ ||

अनुक्रमेण वक्ष्यामि समासाच्छृणु षण्मुख |
भूसुरैरष्टलक्षं तु उत्तमं ग्राममुच्यते || ४ ||

नवलक्षं भूसुरैर्युक्तमुत्तमोत्तममुच्यते ||
सप्तलक्षं तु वै वत्स उत्तमाधममाविशेत् || ५ ||

पञ्चलक्षैर्द्विजैर्युक्तं मध्यमं ग्राममुच्यते |
षल्लक्षैर्ब्राह्मणैर्युक्तं मध्यमोत्तममुच्यते || ६ ||

चतुर्लक्षैर्मध्यमायामं भूसुरैः संशितव्रतैः |
द्विलक्षभूसुरैर्युक्तं अधमं ग्राममुच्यते || ७ ||

अधमोत्तमं तिलक्षं तु लक्षं वै अधमाधमम् |
लक्षाधीनं तु वै वत्स कुग्रामं तु विनिर्दिशेत् || ८ ||

अश्रैब्रूणैश्शतं वत्स अयुतं लक्षं संभवेत् |
चत्वारो वेदाः षडङ्गैः धर्मशास्त्रपुराणकः || ९ ||

न्यायमीमांसाशास्त्रं च विद्यास्थानं चतुर्दश |
भाष्याश्चत्वार एवं तु दशाष्टादशसंहिताः || १० ||

योगशास्त्रं च सांख्यं च वेदान्तं च षडङ्गकम् |
चतुष्षष्टिकलाश्चैव षट्तर्काणि तथैव च || ११ ||

पाञ्चरात्रं च सौरं च यामलानि नवापि च |
आयुर्वेदं सामुद्रिकं सोमसिद्धान्तमेव च || १२ ||

कापालं लाकुलं चैव पञ्चार्यं च प्रपञ्चकाः |
षट्सिद्धान्तकमार्गं च ज्ञात्वा वै देशिको भवेत् || १३ ||

आचार्यं शिवमेवाहुः शिव आचार्य उच्यते |
अभेदं यो विजानाति स वै देशिक उच्यते || १४ ||

तस्मात्सर्व प्रयत्नेन आचार्यं पूजयेत्सदा |
ग्रामं वा नगरं वापि पत्तनं खेटकं तु वा || १५ ||

तटाकक्षेत्रसंयुक्तं सर्वत्रजलसंयुतम् |
सर्वशालीप्ररोहं तु गृहं प्राकारसंयुतम् || १६ ||

आचार्याय प्रदातव्यं धनुर्मात्रयुतं भवेत् |
तदर्धं वा तदर्धं वा सहस्रं धनुर्मात्रतः || १७ ||

आचार्याय प्रदातव्यं अश्वमेधफलं लभेत् |
चतुरश्रमायताश्रं वा वृषभाय प्रकल्पयेत् || १८ ||

प्राकारं दीर्घिकायुक्तं अनेकालंकारसंयुतम् |
सर्वसस्याश्रयं चैव स्रोतो नद्यथ दक्षिणे || १९ ||

पश्चिमे दक्षिणे पूर्वे तटाकत्रितयं भवेत् |
अन्यजातिशतैर्युक्तं सप्तकारुशतं भवेत् || २० ||

वणिजैः स्त्रीसहस्रं तु शूद्राणां तु सहस्रकम् |
अष्टलक्षो द्विजाय तस्मिन् महाग्रामं षडानन || २१ ||

अयुतं भूसुरैर्युक्तं वैश्यं दशगुणं भवेत् |
पुरमेवंविधिं दद्यात् पार्श्वयोश्च नदीद्वयम् || २२ ||

विशेषभूसुरैस्त्रिगुणं शतार्धं क्षत्रियान्वितम् |
पत्तनं समुद्रतीरे तु वैश्यप्राधान्यमेव च || २३ ||

अनेकपातसंचारनवाभासा समन्वितम् |
युग्माभाससमाकीर्णं त्रियोजनपदं भवेत् || २४ ||

नन्दीसंगमपार्श्वे तु पत्तनं कारयेन्नृपः |
वैश्याः शतसहस्रं तु पोतव्यायानसंयुतैः || २५ ||

तदर्धं वा तदर्धं वा अयुतं वणिजां तु वा |
झल्लमल्लसमाकीर्णं बर्बरैर्द्विसहस्रकम् || २६ ||

द्वादशैः श्रोणिसंयुक्तं समुद्रन्नवसहस्रकम् |
वृत्तं वा चतुरश्रं वा वृत्तायतनमेव वा || २७ ||

शतवीथीसमाकीर्णं तदर्धं विधिमेव वा |
पूर्वे वा पश्चिमेवापि दक्षिणे वा समुद्रकम् || २८ ||

प्राकारैः सम्यक्कर्तव्यं दीर्घिकात्रिभिराचरेत् |
एकं पार्श्वस्थ शूद्रस्य दीर्घिका तु षडानन || २९ ||

अनेकाट्टाससंयुक्तं सर्वायुधसमन्वितम् |
द्वादश द्वारसंयुक्तं प्राकारं तु शिवालयम् || ३० ||

इष्टकामयं प्राकारं ग्रामं पत्तनसत्पुरे |
नगरे वात्र कर्तव्या खेटकं चापि शोभनम् || ३१ ||

पश्चिमे पर्वतं विद्यात् नदी चोत्तरं एव च |
आयताश्रं प्रकर्तव्य नद्यास्तीरे षडानन || ३२ ||

पश्चिमे दक्षिणे पूर्वे सस्यक्षेत्रं तटाककम् |
खेटकं कारयानी च एक एव तु संज्ञिका || ३३ ||

मध्ये राजगृहं कुर्यात् सप्तभूमिस्तु मालिका |
अनेक प्रासादसंयुक्तं गृहप्राकारसंयुतम् || ३४ ||

गिरिदुर्गं जलदुर्गं वचनदुर्गं तथैव च |
दीर्घिकापरिवृतादुर्गं दुर्गं प्राकार एव च || ३५ ||

धनदुर्गं चास्त्रदुर्गं नरदुर्गं मन्त्रदुर्गकम् |
ब्राह्मणैर्वेदसंयुक्तैः पश्चिमे वायु तं भवेत् || ३६ ||

द्विगुणं वैश्यजातीनां सर्ववर्णसमन्वितम् |
राजवेश्मं च परितः सर्वदीर्घं च कारयेत् || ३७ ||

अनेकशतसहस्रैः भटैर्युक्तं सुशोभनम् |
गजवाजिसमाकीर्णं रथैश्चाष्टसमाकुलः || ३८ ||

खेटकं तद्विजानीयात् तत्तदज्ञेन कारयेत् |
क्षत्रियो दानधर्मैश्च युक्तःशूरः प्रतापवान् || ३९ ||

चतुर्व्यूहसमं वीक्ष्य न युद्ध्येत कदाचन |
वज्रं च पद्मरागं च मरतकं मौक्तिकं तथा || ४० ||

सर्वरत्नानि वृद्धिं च न युद्ध्येत कदाचन |
धान्यानां संग्रहश्चैव वस्त्राभरणमेव च || ४१ ||

नेत्रनिर्वाणं क्षौमं च भटवर्धनमेव च |
वर्धनं चाधानां च युद्ध्यते न कदाचन || ४२ ||

हिरण्यं रजतं वस्त्रं ताम्रलोहादिवर्धनम् |
सेनानां वर्धनं चैव न युद्ध्येत कदाचन || ४३ ||

वज्रं च पद्मरागं च मरतकं मौक्तिकं तथा |
सर्वरत्नानां वृद्धिश्च न युद्ध्येत कदाचन || ४४ ||

धान्यानां संग्रहं चैव वस्त्राभरणमेव च |
नेत्रनिर्वाणक्षमं च न युद्ध्येत कदाचन || ४५ ||

सर्वरत्नानि धान्यं च गृहोपस्करणानि च |
गजाश्वोपस्करं चैव न युद्ध्येत कदाचन || ४६ ||

विप्ररत्नं नृपरत्नं गजरत्नं चाश्वरत्नकम् |
कनकरत्नं वस्त्ररत्नं मरतकं रत्नमेव च || ४७ ||

सर्वरत्नसंग्रहं च न युद्ध्येत कदाचन |
मेषरत्नं महिषरत्नं तथा कुम्भकरत्नकम् || ४८ ||

खड्गरत्नं खेटरत्नं क्षुरिकारत्नमेव च |
गणिकारत्नं दासरत्नं दासीरत्नं तथैव च || ४९ ||

भार्यारत्नं वणिग्रत्नं तथा कटकरत्नकम् |
नटरत्नं गीतरत्नं तथा किन्नररत्नकम् || ५० ||

सूप्याध्यक्षरत्नं च रत्नरत्नं तथैव च |
विपश्चीरत्नमेवं तु सततं संग्रहेन्नृपः || ५१ ||

सामभेददानदण्डञ्चतुरायत्तः क्षत्रियः |
चतुर्दिक्षुदण्डमोक्षौ च आसनं चाष्टदिक्षु च || ५२ ||

एकं तमिस्रसंग्रह ज्ञातवाचारं सदा बुधः |
सर्वशास्त्रेषु मुख्यं च तत्तद्दक्षं तु संग्रहेत् || ५३ ||

दूतैः पश्यन्ति राजानः वेदैः पश्यन्ति पण्डिताः |
ग्राणैः पश्यन्ति पशवो चक्षुर्भ्यामितरे जनाः || ५४ ||

आत्मचिन्ता राज्यचिन्ता शत्रुचिन्ता तथैव च |
प्रज्ञायुद्धं राज्ययुद्धं न युद्ध्येत्तु कदाचन || ५५ ||

इति कालोत्तरे ग्रामपुरपत्तनखेटक राजधानीपटलश्चतुः पञ्चाशत् || ५४ ||

Kapitel 55 – Gründungsdepot und günstiger Zeitpunkt

|| श्रीः ||
ईश्वर उवाच-
गर्भाणां लक्षणं वक्ष्ये ग्रामादीनां समृद्धिदम् |
गर्भहीने तु ग्रामाणां गृहाणां नाशमेव हि || १ ||

गर्भमूलमिदं सर्वं त्रैलोक्यं सचराचरम् |
त्रीण्युत्तराणि रेवत्या अनूराधा तथैव च || २ ||

शकटं मृगशिरश्चैव चैत्रनक्षत्रमेव च |
गर्भाधानं च यद्गर्भं गृहकार्यत्वमन्यत् || ३ ||

त्रिराशिकेत्यनूराधा शकटं गर्भधानकम् |
अन्यद्यद्गृह कार्यं तु कर्तव्यं तत्तदेव तु || ४ ||

उत्तरायणे तु मासे तु शुक्लपक्षे शुभे दिने |
चैत्र फाल्गुनवैशाखा त्रिमासास्तेषु शस्यते || ५ ||

पुण्ये च ज्येष्ठमासे तु मध्यमं परिकीर्तितम् |
माघमासं कन्यसं स्याद्गर्भशास्त्रविदो वदेत् || ६ ||

रोहिणीमृगशीर्षं च मखाहस्तस्तथैव च |
स्वाती वै चोत्तराषाढा पौष्णं वारुणमेव वा || ७ ||

अनूराधां केचिदिच्छन्ति वसिष्ठोनोत्तरं वदेत् |
अगस्त्यः कुशेशयः प्रोक्तः काश्यपोगार्ग्य एव च || ८ ||

विश्वामित्रभरद्वाजौ गौतमो भृगुरेव च |
चित्रां शंसन्ति वसवो रुद्रादित्याश्च एव वा || ९ ||

द्वितीया वा तृतीया वा भद्रानन्दापि वा भवेत् |
रोहिणीं संप्रशंसन्ति ब्रह्मविष्णुमहेश्वराः || १० ||

नन्दा भद्रा जयाश्चैव पूर्णा चैव शुभं भवेत् |
सोमे बुधे च जीवे च शुक्रे चैव यमे शुभे || ११ ||

वृषभे मिथुने चैव कर्कटे मकरेऽपि वा |
चापे कुम्भे प्रशंसन्ति भर्गशास्त्रविदो भवेत् || १२ ||

कुम्भे गर्भं प्रशंसन्ति अयुतकल्पं च तिष्ठति |
वृषभे पञ्चसाहस्रं कल्पमेव स तिष्ठति || १३ ||

सहस्राणि तु चत्वारि कल्पं तिष्ठति कर्कटे |
मकरे त्रिसहस्रं तु कल्पं तिष्ठति गर्भकम् || १४ ||

उत्तमं नैवमेवोक्तं मध्यमं शृणु षण्मुख |
सिंहे च कन्यकायां च मीने वृश्चिक एव वा || १५ ||

सहस्रद्वयकल्पं तु गर्भं वै तिष्ठते गुह |
मीन एव तुलां वत्स वर्जयेद्गर्भशास्त्रवित् || १६ ||

बृहस्पत्युदये गर्भं प्रक्षिपेन्मन्त्रपूर्वकम् |
शुक्रोदये वा कर्तव्यं बुधोदयेपि निक्षिपेत् || १७ ||

बृहस्पत्युदये श्रेष्ठं मध्यमं भार्गवोदयम् |
कन्यसं बुधोदये तु स्थापयेद्गर्भमुत्तमम् || १८ ||

त्रिषष्टैकादशप्रोष्टा अर्करक्ता हि केतवः |
पञ्चसप्तैकादशे चैव स्वस्थाने जीवमुत्तमम् || १९ ||

बद्धावेकादशे सप्तबुधं श्रेष्ठं विदुर्बुधाः |
पञ्चमे दशमे चैव द्वादशे भृगुश्चन्द्रमाः || २० ||

द्विपञ्चैकादृशे गर्भं चैव स्थाप्यं विधान्तः |
अथवा सिद्धयोगे तु स्थापयेद्गर्भमुत्तमम् || २१ ||

भृगुप * तु श्रेष्ठः स्यात् सौम्यात्सोमे तु वा क्षिपेत् |
शनिरोहिण्यां प्रधानं तु अष्टम्यां चन्द्रतारकम् || २२ ||

भौमाश्विनं प्रशंसन्ति वसिष्ठगार्ग्यमतं हि तत् |
गुरुपुष्पयोगे चैव अयुतं कल्पं स तिष्ठति || २३ ||

आदित्यहस्ते गर्भन्तु स्थापयेद्विधिपूर्वकम् |
कल्पकोट्ययुतं वत्स तिष्ठते नात्र संशयः || २४ ||

बुधानुराधे गर्भं तु प्रक्षिपेद्विधिपूर्वकम्
सहस्रपञ्चकल्पं तु तिष्ठत्येव न संशयः || २५ ||

योगे विपुलयोगे वा महायोगे तु निक्षिपेत् |
विचित्रयोगे गर्भं तु प्रक्षिपेन्मन्त्र पूर्वकम् || २६ ||

आचन्द्रतारकं गर्भं तिष्ठते नात्र संशयः |
स्थिरांशे स्थिरनक्षत्रे स्थिरहोरास्थिरग्रहे || २७ ||

स्थिराद्द्रेक्काण काले च स्थापयेद्गर्भमुत्तमम् |
अष्टमे च व्यये चैव सप्तमे केन्द्रकेषु च || २८ ||

पञ्चमे व्योमधर्मे च पापान् सर्वान् विवर्जयेत् |
सदा सुते च लाभे च त्रयन्धर्मे तथैव च || २९ ||

उदयात्त्रयं कदाचित्तु चित्रयोगं विदुर्बुधाः |
द्वयोद्वयोर्महायोगं प्रक्षिपेद्गर्भमुत्तमम् || ३० ||

इति कालोत्तरे गर्भलक्षणमुहूर्त विशेषः पञ्चपञ्चाशत्पटलः |

Kapitel 56 – Das Nrittapala-Gründungsdepot

|| श्रीः ||
ईश्वर उवाच-
सुवर्णसूत्रं सम्यक्कृत्वा चतुष्पादं सुशोभनम् |
बाला षडङ्गुलाधिक्यं सर्वतश्चैव तत्र वै || १ ||

सुवर्णदीपं चतुर्दिक्षु अथवारद्वयं तु वा |
द्विविधं तु समुत्सेधं राजतैस्ताम्रजैस्तु वा || २ ||

द्वात्रिंशच्च चतुष्षष्टिरष्टोत्तरशतं तु वा |
ऋग्यजुस्सामाथर्वैश्च सर्वैर्वै स्वर्णदीपकम् || ३ ||

वास्तुहोमं तु पूर्वे च बह्वृचो होमयेत्तदा |
दक्षिणे यजुर्विदा होमं पश्चिमे सामवेदगाः || ४ ||

उत्तरेऽथर्वहोमं तु मध्ये देशिक होमयेत् |
पलाश खदिराश्वत्थप्लक्षन्यग्रोधमेव च || ५ ||

बिल्वौ दुम्बरशम्यश्च अपामार्गं तु चैव हि |
वैकङ्कतमशोकं च व्याघातं पञ्चकं तथा || ६ ||

कणिकारं च वकुलं समिधः समुदाहृताः |
खादिरं तु भ्रु(स्रु)वं विद्याज्जम्बूपालाशमुच्यते || ७ ||

समिदाज्यचरुन् लाजान् यववैणवसर्षपान् |
शालीनीवारगोधूमतिलमुद्गप्रियङ्गवः || ८ ||

कुलुत्थशिम्बनिष्पावं होमद्रव्यमुदाहृतम् |
अपूपं कृसरं क्षीरं अपूपं फलभक्षकम् || ९ ||

अष्टोत्तरसहस्रं वा प्रत्येकं होमयेद्द्विजः |
तदर्धं वा तदर्धं वा प्रत्येकं होमयेद्द्विजः || १० ||

तदर्धं वा तदर्धं वा अष्टोत्तरशतं तु वा |
महाव्याहृतिभिश्चैव सावित्र्या तु हुनेद्द्विजः || ११ ||

विष्णुसूक्तं पुरुषसूक्तं रुद्रसूक्तं च होमयेत् |
हिरण्यं पवमानं च शन्नोवर्गं च होमयेत् || १२ ||

श्रीसूक्तं पञ्चद्रव्या च सोमसूक्तं तथैव च |
याम्यं बार्हस्पत्यं ब्राह्मं च ऐन्द्रमाग्नेयमेव च || १३ ||

याम्य निर्-ऋतिसूक्तं च वारुणं पावनं तथा |
ऐशान्यां द्वादशादित्यं रुद्रैकादशमेव च || १४ ||

अष्टौ वासवमन्त्रश्च त्र्यम्बकं हंसमेव च |
अपूपमन्नजातं च सर्पिषा होमयेद्बुधः || १५ ||

अरुणं वल्लीशतरुद्रं च रुद्रैकादशमेव च |
दशहोता सप्तहोता चतुर्होता तथैव च || १६ ||

श्रीमन्नारायणं चैव त्वरितरुद्रश्च वैष्णवम् |
बार्हस्पत्यं ब्राह्मणं च यजुर्विद्धो मयेत् पृथक् || १७ ||

ब्रह्मसामं ज्येष्ठसामं विकर्णं च महाव्रतम् |
बहिष्पवमानं पुरुषं गतिं बृहद्रथन्तरम् || १८ ||

यजावोऽधिमग्निमूर्ध अश्वनत्वा तथैव च |
सोमं राजानमेवं तु सौरमाग्नेयवारुणम् || १९ ||

याम्यं माहेन्द्रवायव्यं नैर्-ऋतेशानमेव च |
ऋचा वै जुहुयाद्वत्स सामगान् पश्चिमे सदा || २० ||

अथर्वशिरसं चैव सौम्यमाग्नेयवारुणम् |
याम्यं वायव्यमीशानं ऐन्द्रं वै पिप्पलोदकान् || २१ ||

विष्णुं ब्राह्मणसूक्तं च रौद्रं सौरं च वामकम् |
नीलरुद्रं महारुद्रं चण्डरुद्रं तथैव च || २२ ||

रक्षोघ्नं च बार्हस्पत्यं मुण्डं प्रग्नं च होमयेत् |
प्रासादं च पवित्रं च व्योमव्यापि तथैव च || २३ ||

अग्निमुखा प्रधानं च गृहे सर्वं समाचरेत् |
पश्चादेवं हुनेत्प्राज्ञो ब्राह्मणैः संशित व्रतैः || २४ ||

पावित्रं होमद्रव्यांश्च सर्पिषान्यानि होमयेत् |
वास्तुहोमे वास्तुदेवान् हुनेच्च चत्वारिंशकान् || २५ ||

जुहुयाद्वास्तोष्पंतेश्चैव चतुष्पदान्मन्त्र एव हि |
अतो देवा अवन्त्विति ऋचा द्वादश होमयेत् || २६ ||

इक्षुं तक्रमिति षोडश चाहुनेद्वै क्षीरसर्पिषा |
पृषदाज्येन जुहुयात्पुरुषसूक्तेन मध्यमे || २७ ||

मधुपर्केण जुहुयादृक्पादेन शतत्रयम् |
कूटे वा मण्डमे वापि प्रपायां वाधिवासयेत् || २८ ||

वितानोपरि संछिन्नञ्चतुस्तोरणभूषितम् |
चतुर्द्वारसमोपेतं षट्त्रिंशद्धस्तमण्डलम् || २९ ||

विंशत्षोडशशस्त्रं वा द्वादशाष्टकरं तु वा |
दर्भमालापरिक्षिप्तं मुक्तादामैरलंकृतम् || ३० ||

फलपल्लवमालाढ्यं घण्टाचामरभूषितम् |
ध्वजाष्टकसमायुक्तमष्टमङ्गलभूषितम् || ३१ ||

गन्धशालिं महाशालिं कलमामालिमेव च |
यवगोधूमनीवारैः शतद्रोणैः स्थण्डिलं कुरु || ३२ ||

पञ्चशयनं तत्रैव कल्पयित्वा विचक्षणः |
नृत्तं बालं तु तत्रैव शाययेद्विष्णुमन्त्रतः || ३३ ||

गर्भस्थाने पाददेशः पश्चिमेन शिरो भवेत् |
वस्त्रद्वयेन संछाद्य युवं वस्त्राणि वै ऋचा || ३४ ||

पञ्चगव्येन प्रक्षाल्य शुद्धसूक्तेन बुद्धिमान् |
पश्चादधिवसेद्बालमष्टाक्षरमनुस्मरन् || ३५ ||

गन्धपुष्पैस्तथा दीपैरन्यैश्च पूजयेद्बुधः |
दशमासाकृतिं बालामष्टमासाकृतिं तु वा || ३६ ||

अथवा सप्तमासं तु बालरूपं तु कारयेत् |
साक्षाद्बालं महाविष्णुं सर्वदेवोत्तमोत्तमम् || ३७ ||

हुत्वा कृत्वा स्पृशेद्बालं सर्वद्रव्यान् पृथक् पृथक् |
अङ्गुलिं पादं गुल्फं च जङ्घाजानूरुमेव च || ३८ ||

मेढ्रः पायुश्च वृषणं कटिर्नाभिर्हृदि स्पृशेत् |
स्तनयोरुरुसश्चैव ग्रीवा वाहौ च कूर्परौ || ३९ ||

मणौ करतलौ चैव अङ्गुलिं दश एव च |
चिबुकं हनुचोष्ठं च जिह्वा वै तालुरन्ध्रकम् || ४० ||

गण्डौ ग्राणं चक्षुषी च कर्णयोरुभयोरपि |
ललाटं भ्रुकुटिश्चैव शङ्खे शिरसि एव च || ४१ ||

स्कन्धपृष्ठस्त्रिकश्चैव पार्श्वयोः कक्षवक्षयोः |
रसाग्रमांसमेवास्थिमज्जाशुक्लानि धातवः || ४२ ||

हुत्वा हुत्वा स्पृशेद्धस्तं बलिं विष्णुं सनातनम् |
मन्त्रग्रामं न्यसेत्पश्चादेकचित्तेन बुद्धिमान् || ४३ ||

अकारं क प्रदेशे तु आकारं तु ललाटके |
इकारं दक्षिणे नेत्रे ईकारं वामलोचने || ४४ ||

उकारं दक्षिणभुवि ऊकारं वामके भुवि |
ऋकारं दक्षिणे श्रोत्रे ऋकारं वामकर्णके || ४५ ||

ऌकारं दक्षिणेग्राणे ॡकारं वामनासिके |
एकारं दक्षिणे गण्डे ऐकारं वामगण्डके || ४६ ||

ओकारमधरोष्ठे तु औकारं चोत्तरोष्ठके |
अंकारं तालुमध्ये च आंकारं ब्रह्मरन्ध्रके || ४७ ||

कवर्गं दक्षिणे हस्ते चवर्गं वामके न्यसेत् |
टवर्गं दक्षिणे पादे तवर्गं वामपादके || ४८ ||

पफौ च दक्षिणे पार्श्वे बभौ वै वामपार्श्वके |
मकारं शिश्नदेशे तु यकारं त्वक्प्रदेशतः || ४९ ||

रकारं रुधिरे न्यस्य लकारं मांसगोचरे |
वकारं मेदसि न्यस्य शकारमस्थिदेशतः || ५० ||

षकारं मज्जादेशे तु सकारं शुक्लके न्यसेत् |
हकारं हृदये न्यस्य आत्मरूपं षडानन || ५१ ||

क्षकारं परमात्मा वै लकारं चाभरणं भवेत् |
पञ्चायुधाभरणं हि वलयैः किङ्किणीति च || ५२ ||

एवं न्यस्त्वा विधानेन प्रणवं हृत्सरोरुहे |
गन्धपुष्पादिभिः सर्वैः वास्तवेन च पूरयेत् || ५३ ||

रात्रौ चैवं प्रकर्तव्यं प्रभाते गर्भे निक्षिपेत् |
व्रतहाध्यायनश्चैव ब्राह्मणैः संशितव्रतैः || ५४ ||

अधिवासनकाले तु शतविप्रांस्तु भोजयेत् |
गर्भनिक्षेपकाले तु सहस्रभोजनमारभेत् || ५५ ||

सुवर्णदानं गोदानं भूमिदानं च कारयेत् |
सुमुहूर्तात्पूर्वनाड्यां द्वितालमूलं वितालतः || ५६ ||

विश्रमेत्तालमात्रं तु शयनस्य तु पश्चिमे |
आचार्यो नृपतिश्चैव मिश्रं भ्रूणं च तत्र तु || ५७ ||

अन्यान्सर्वाञ्जनान्वत्स बहिष्कृत्य समाहितः |
अतिगुप्ते तु गर्भज्ञैः प्रक्षिपेत्पीठमध्यमे || ५८ ||

मुहूर्ताद्द्वादशाद्वत्स खट्यारूपं तु बालकम् |
तत्क्षणं नृत्तं कुर्वीत नृत्तसालं षडानन || ५९ ||

तन्मुहूर्ते बलानित्यं सदानृत्तं प्रवर्तते |
उपरि चोत्तरदण्डं च शिला येन त्रिहस्तकम् || ६० ||

शिलायां चोपरिच्छाद्य सुधाश्चैव तु कारयेत् |
कूरं वा मण्डपं वापि तस्योपरि समाचरेत् || ६१ ||

सहां वापि प्रकर्तव्यं जपदानमथापि वा |
एवं वै नृत्तबालं तु गर्भं वै चोत्तमोत्तमम् || ६२ ||

नृत्तमेव बलिं कुर्यात् शङ्खदुन्दुभिनिस्वनैः |
त्रिसन्ध्यं प्रदक्षिणं कृत्वा त्रयं वा पञ्च एव वा || ६३ ||

सार्ववर्णिकमन्नाद्यं तस्मिन्नहनि कारयेत् |
आचार्यं पूजयेत्सम्यग्गोभूमिकाञ्चनादिभिः || ६४ ||

ऋत्विजः पूजयेत्सम्यग्वस्त्राभरणमेव च |
पुनर्दृष्टन्न कर्तव्यं नृत्तपालं कदाचन || ६५ ||

दृष्टव्यं चेत्पुनर्दृष्टं तस्माद्दृश्यं न कारयेत् |
नृत्तसालाख्यगर्भं तु आख्यातं नव सुव्रत || ६६ ||

मुहूर्तमन्त्रभावेन सदिवत्वं हि जायते |
लोहमयेन व्रतिमान् स जीवति षडानन || ६७ ||

गर्भाणामुत्तमं श्रेष्ठं नृत्तपालं सुशोभनम् |
तस्मात्सर्वप्रयत्नेन नृत्तपालं तु स्थापयेत् || ६८ ||

ग्रामे वा नगरे वापि पुरे वा पत्तनेऽपि वा |
खेटके देववेश्मानि विशेषेण तु प्रक्षिपेत् || ६९ ||

यावन्नृत्तं सभायां वा गृहे वा कोष्ठं कारयेत् |
बालनृत्तं विशेषेण जगत्स्थानादिकेषु || ७० ||

इति कालोत्तरे गर्भलक्षणे नृत्तपालगर्भपटलः षट्पञ्चाशत् || ५६ ||

Kapitel 57 – Nirvana

|| श्रीः ||
ईश्वर उवाच-
अनिर्वाणप्रदीपं तु प्रवक्ष्याम्यनुपूर्वशः |
शेषदेशगृहे श्रेष्ठमनिर्वाणं प्रदीपकम् || १ ||

ग्रामे वा नगरे चैव पत्तने खेटकेपि च |
पुरे वा कुब्जके वापि गृहक्षेत्रेपि कोष्ठके || २ ||

स्वर्णेन रजतेनापि ताम्रेणापि कारयेत् |
द्वात्रिंशद्द्रोणसंपूर्णं दीपभाजनमुत्तमम् || ३ ||

मध्यमं षोडश द्रोणमधममष्टद्रोणकम् |
स्तम्भपालिकसंयुक्तं पादपीठं सुशोभनम् || ४ ||

कपिलाघृतं प्रदानं तु अजाघृतमथापि वा |
अजाघृतं मध्यमं स्यान्महिषं कन्यसं भवेत् || ५ ||

अश्वोष्ट्रघृतवर्ज्यं तु आविकं चैव वर्जयेत् |
श्वेतपद्मजसूत्रं तु कनिष्ठार्धप्रमाणकम् || ६ ||

कार्पासरक्तसूत्रं तु श्वेतसूत्रं तु संयुतम् |
श्वेतार्कमूलमिश्रं तु फलत्रयसमन्वितम् || ७ ||

कर्पूरागरुचूर्णं तु फलत्रयस्य चूर्णकम् |
गुलवद्दारु चूर्णं तु * * पुन्नागचूर्णकम् || ८ ||

न्यग्रोधस्य च पुन्नागं पिचमन्दाष्टमेव च |
पलाशखदिरन्नागचूर्णमिश्रं तु वर्तितम् || ९ ||

पूर्वोक्तस्थाने वै वत्स दीपगर्भं विनिक्षिपेत् |
दीपभाण्डे घृतं सिच्य सर्वयत्नेन बुद्धिमान् || १० ||

अष्टमृत्षड्विधिकं दीपं मूलेन तु विनिक्षिपेत् |
नदी नागविषाणोत्थवराहविहितं तथा || ११ ||

क्षेत्राद्धृताच्च वल्मीकाद्गोष्ठाच्च वेदिमध्यतः |
समुद्रात्पर्वताच्चैव वृषशृङ्गात्तथैव च || १२ ||

सान्निध्यं शिवगृहात्तत्र मृदं विष्णुगृहाद्धरेत् |
लक्ष्मीगृहान्मृदं गृह्य दीपमूले तु निक्षिपेत् || १३ ||

दीपस्य परितः कुर्यात्स्वर्णेनैव तु कारयेत् |
पृथक्पृथक् च निष्कं तु उत्तमं चाष्टमङ्गलम् || १४ ||

तदर्धेन मध्यमं स्यात्तदर्धे नैव तु कन्यसम् |
अलाभे रजतेनैव कारयेदष्टमङ्गलम् || १५ ||

पृथग्वै सहस्रनिष्केण कुर्यात्तत्र विशारदः |
तारं हि च अलाभे तु शूल्पेनापि च कारयेत् || १६ ||

पृथग्वै चायुधान्निष्कैः कुर्याद्वै चाष्टमङ्गलम् |
नवलक्षाभिर्मन्त्रैः विन्यसेद्दीपमुत्तमम् || १७ ||

अष्टौ श्रीरष्टमङ्गले विन्यसेद्गर्भशास्त्रवित् |
ता सामुद्धारं वक्ष्यामि गर्भसिद्ध्यर्थकारणम् || १८ ||

षट्चत्वारिंशदुद्धृत्य प्रलयानल संयुतम् |
चतुर्थ स्वरसंयुक्तं रुद्रविष्णुसमन्वितम् || १९ ||

तृतीयं लक्ष्मीबीजं तु सर्वगर्भ प्रबोधनम् |
चतुर्थं कुब्जराग्राह्य जातवेदसमन्वितम् || २० ||

वाग्भवात्तु चतुर्थं तु शिवनारायणायुतम् |
चत्वार्थं लक्ष्मीबीजं तु त्रिदेशैरपि दुर्लभम् || २१ ||

अष्टावर्गं द्वितीयं तु अधस्ताज्जातवेदसम् |
सप्तमं लक्ष्मीबीजं तु दीपगर्भं तु वर्धनम् || २२ ||

द्वीपादन्नमुत्पाद्य प्रलयानलसंयुतम् |
प्रजापतेर्द्वादशशिरसि बिन्दुनादसमन्वितम् || २३ ||

अष्टमङ्गलबीजन्तु सर्वगर्भप्रबोधनम् |
गगनं चोद्धृत्य मेधावी संवर्ताग्निसमन्वितम् || २४ ||

ब्रह्मादष्टमं शिरसि कुटिलं चोलासमन्वितम् |
नवमं लक्ष्मीबीजं तु सर्वलक्ष्मीप्रबोधनम् || २५ ||

अङ्गमङ्गलबीजं तु अष्टमङ्गलं विन्यसेत् |
मङ्गलादन्यबीजन्तु स्थापयित्वा विचक्षणः || २६ ||

मुहूर्तप्रभवान्मस्त्राच्च गणेशागच्छ सिद्धिद |
आरोहन्तु प्रकुर्वीत सत्यं सत्यं षडानन || २७ ||

उभयं वापि गच्छन्नौ क्षणादारोहमेव च |
स्वस्थाने संस्थितं गन्तुमनिर्वाणप्रदीपकम् || २८ ||

क्षर्णान्निर्वाणमायाति अन्यदीपं षडानन |
मुहूर्तबला ऋजत्रबला गच्छेति रोहणम् || २९ ||

मोहस्तु पूर्ववत्कृत्वा पुण्याहाध्यायनं तथा |
भोजनं पूर्ववत्कृत्वा गोभूमिकाञ्चनादिभिः || ३० ||

आचार्यमिश्रणं भ्रूणं च एव स्रुवन्निक्षिपेत् |
अन्यान्सर्वान् बहिष्कृत्य सुगुप्ते गर्भं निक्षिपेत् || ३१ ||

अनिर्वाणप्रदीपं तु चन्द्रसूर्य इव स्थितम् |
अग्रेण वावधानेन स्थापयेद्दीपमुत्तमम् || ३२ ||

आचन्द्रतारकादीपमनिर्वाणं न संशयः |
आचार्यदक्षिणां दत्त्वा गोभूमिकाञ्चनादिभिः || ३३ ||

इति कालोत्तरे निर्वाणपटलः सप्तपञ्चाशत् || ५७ ||

Kapitel 58 – Das Gründungsdepot der nicht welkenden Blume

|| श्रीः ||
ईश्वर उवाच-
अम्लानपुष्पमाला तु वक्ष्यते गर्भलक्षणम् |
गर्भाणामुत्तमं श्रेष्ठं धर्मकामार्थसाधनम् || १ ||

सर्वव्याधिहरं शुभ्रं सदा विजयवर्धनम् |
अपमृत्युनाशनं चैव दीर्घमायुष्यमाप्नुयात् || २ ||

महामारीविनाशं च महापातकनाशनम् |
भूमिकम्पद्वजोत्पात भक्त्यनाशनमेव च || ३ ||

अतिवृष्टिरनावृष्टिश्शलभं मूषिकनाशनम् |
चाषनाशनमेवं तु सस्यवर्धनमेव च || ४ ||

मासे मासे त्रिविष्टं तु सर्वप्राणिविवर्धनम् |
चटकैः कपोतकारण्डैः बकैर्विहीनमत्र तु || ५ ||

  • * * * * * * * * चाषैर्भूमिकप्लवैः |

परराष्ट्रराजपीडा तु परसेनादि पीड्यते || ६ ||

न किञ्चिन्म्रियते वत्स अकालैः सर्वमानुषैः |
गर्भवृक्ष प्रदेशात्तु षट्त्रिंशद्योतनं हि तत् || ७ ||

अकाले मृतिदुर्भिक्षं तत्र देशे न विद्यते |
न राक्षसाः पिशाचाश्च भूतवेतालपूतनाः || ८ ||

प्रेतसर्पभयं वत्स तत्र देशे न विद्यते |
चतुष्पान्मरणं तत्र द्विपादं करणं च च || ९ ||

अम्लान मालागर्भेण दुष्टसत्त्वं न विद्यते |
आयुरारोग्यदं चैव सस्यवर्धनमेव च || १० ||

दोश्श्रीणां वर्धनं चैव दुग्धवर्धनमेव च |
शातकुम्भमयं कुम्भं दशद्रोणप्रपूर्णकम् || ११ ||

अथवा चाष्टद्रोणं स्यात् पञ्चद्रोणमथापि वा |
रजतं वा प्रकर्तव्यं कनकं त्रिगुणं भवेत् || १२ ||

अथवा ताम्रकुम्भं स्यात् छतभारणे कारयेत् |
राजतं दशभारेण राजतं शातकुम्भकम् || १३ ||

अथवार्धमथार्धं वा तदर्धं वार्धमेव वा |
सुदृढं निर्घृणं कुम्भं द्वारमष्टाङ्गुलं भवेत् || १४ ||

कर्णं त्र्यङ्गुलं कुर्यान्मुखं चैव त्रयाङ्गुलम् |
तीर्थोदकं प्रयत्नेन विप्रैर्माणवकैर्नयेत् || १५ ||

वस्त्रपूतेन तोयेन पूरयेत्तद्घटे गुहा |
आप उदकं द्वितीयं च इमं मेवरुणमेव च || १६ ||

तत्त्वायामीति ऋचा आपोहिष्ठामयेति च |
एतैर्मन्त्रैः सप्तजप्त्वा हिरण्यं पवमानञ्च || १७ ||

प्रासादब्रह्ममन्त्रैस्तु व्योमव्यापि तथैव च |
दशाक्षरं वा बीजमुख्यमष्टोत्तरशतं जपेत् || १८ ||

जप्त्वा पूरयेदुदकं देशिकः भ्रूणसंयुतम् |
पूजयित्वा विधानेन पश्चादम्लानमालिकाम् || १९ ||

श्वेतपद्मसहस्रं च तदर्धार्धमथापि वा |
अथवाष्टोत्तरशतं रक्तपङ्कजमेव वा || २० ||

रक्तोत्पलं पञ्चशतं नीलोत्पलं तदर्धकम् |
चम्पकानां पञ्चशतं पाटलं वकुलं तथा || २१ ||

मालती मल्लिकाजाती मदयन्ति करवीरकम् |
अशोकं कर्णिकारं च बन्धूकं गिरिमल्लिका || २२ ||

कुसुम्भं केतकी चैव कपित्थं चूतमेव च |
बिल्व पुष्पं शमी पुष्पं श्वेतार्कं कङ्कपुष्पकम् || २३ ||

बृहती सहदेवी वै वैकुष्ठं ब्रह्मपुष्पकम् |
सदाभद्र महाभद्रमपामार्गं कदम्बकम् || २४ ||

निर्गुण्डीकदलीपुष्पमादिकं पुष्पमेव च |
पुन्नागनागमलयं मुरमांसी च पुष्पकम् || २५ ||

कुङ्कुमं चैव निर्गुण्डी शङ्खपुष्पी च वल्लरी |
श्वेता च गिरिकर्णी च सिंहकेसरमेव च || २६ ||

तुलसी कृष्णतुलसी नृपयूधी च हंसिनी |
क्षारणी काण्डली चैव कोट्टवी नवमालिका || २७ ||

श्वेतं च कुमुदं चैव कुशकाशं तथैव च |
अपस्मार कुसुमं चैव पिशाचपुष्पं वर्जयेत् || २८ ||

निम्बं च पिचुमन्दं च किणिभद्रं च वर्जयेत् |
अन्यद्वै सर्वपुष्पाणि गृहीतव्यं प्रयत्नतः || २९ ||

पट्टसूत्रेण वै वत्स पश्चाद्रज्जुमयो भवेत् |
चतुष्षष्टिररत्नि मात्रं रज्जुं कृत्वा प्रयत्नतः || ३० ||

अथ चाष्टौ तु रत्निः स्यान्मध्यमं रज्जुरुच्यते |
शतरत्निश्चतुष्षष्टिरधिकं रज्जुरुच्यते || ३१ ||

वेदवेदान्त तत्त्वज्ञो ब्राह्मणः संशितव्रतः |
अहोरात्रोषितः स्नातो रज्जुबन्धन्तु कारयेत् || ३२ ||

प्रागुत्तरमुखो भूत्वा मौनेनैव तु बन्धयेत् |
पुष्पदीपमनुस्मृत्य नवोनवं तथैव च || ३३ ||

पूर्वोक्तगर्भदेहे तु तन्मध्ये पूर्वमुत्क्षिपेत् |
पवित्रे नैव मन्त्रेण तत्सर्वं पञ्च निक्षिपेत् || ३४ ||

नवरत्नं नवबीजं च नवधातुर्नवौषधी |
नवगन्धं नवलोहं तु नवत्वङ्नवमूलकम् || ३५ ||

कुम्भमध्ये न्यसेदेतान् प्रासादबीजमुख्यया |
वज्रं च पद्मरागं च मरतकं मौक्तिकं तथा || ३६ ||

विद्रुमं पुष्यरागं च इन्द्रनीलं तथैव च |
महानीलं चन्द्रकान्तं नवरत्नं तु निक्षिपेत् || ३७ ||

शालिनीवारं गोधूमं यवं वैणवमेव च |
तिलसर्षपमुद्गानि प्रियङ्गुर्नवमं भवेत् || ३८ ||

दरिद्रं हरितालं च * * * * मनश्शिला |
सौराष्ट्रं पारदं चैव माक्षिकं रसमञ्जनम् || ३९ ||

लक्ष्मीश्च सहदेवी च विष्णुक्रान्तिर्नृपस्तथा |
वैष्णवी चेन्दुवल्ली च गिरिकर्णा शङ्खपुष्पिका || ४० ||

सूर्यावर्तं च नवमं नवौषधमुदाहृतम् |
त्रिफला त्रिजातकं चैव कर्पूरागरुचन्दनम् || ४१ ||

कश्मीरं चार्चने योग्यं मलयं कर्पूरमिश्रितम् |
सुवर्णरजतं ताम्रं आयसं त्रपुसीसकम् || ४२ ||

आरं कांस्यं तु विदुलं नवलोहमुदाहृतम् |
आम्रमौदुम्बरं चैव न्यग्रोधं पनसं तथा || ४३ ||

अश्वत्थं च शिरीषं च पलाशो बिल्वमाधुकम् |
नवत्वक् च महासेन वर्ज्यबीजेन निक्षिपेत् || ४४ ||

पङ्कजस्य तु मूलेन उत्पलामृतमूलकम् |
नीलोत्पलं च कल्हारं कटुमेलकमूलकम् || ४५ ||

गङ्गामूलं च नवमं नवबीजेन पृथङ्न्यसेत् |
एकैकमष्टोत्तरशतं जप्त्वा कुम्भेषु निक्षिपेत् || ४६ ||

होमं कृत्वा तु पूर्वोक्तं पुण्याहाध्ययनं तथा |
भोजनं ब्राह्मणानां च दानं गोभूमिकाञ्चनम् || ४७ ||

कुम्भाद्द्विहस्तदूरन्तु मूलं चाम्लानं विन्यसेत् |
पीठे तु फलके वापि मालाचाम्लाना विन्यसेत् || ४८ ||

तण्डुले चार्चयेत्सम्यक् पद्मपुष्पैः शतैः शुभैः |
उत्पलैर्नन्दिकावर्तैः वकुलैः पाटलचम्पकैः || ४९ ||

अर्चयेत्सुसुगन्धे च कर्पूरागरुचन्दनैः |
काश्मीरैर्वा मृगैर्मालाश्रियं गौरं च पूजयेत् || ५० ||

कुम्भे न्यस्य उमादेवीं मालायां तु श्रियं न्यसेत् |
द्विभुजामेकवक्त्रां तु श्यामवर्णां त्रिलोचनीम् || ५१ ||

सर्वाभरणसंपूर्णां सर्वलक्षणसंयुताम् |
चारुबिम्बाधरां चापि नीलकुन्दलमूर्धजाम् || ५२ ||

संपूर्णचन्द्रवदनां नीलनीरजलोचनाम् |
सुभ्रुवं चापि सुकर्णीं च हेमकुम्भपयोधराम् || ५३ ||

कम्बुग्रीवां सुबिम्बोष्ठीं पीनगण्डां शुचिस्मिताम् |
हंसनाभिं निम्ननाभिं तुरिमध्यम संस्थिताम् || ५४ ||

कन्तकुड्मलदन्तां च बन्धूककुसुमायुधाम् |
रथचक्रगजां चैव रम्भास्तम्भोरु संहिताम् || ५५ ||

वरियोदरजिह्वाग्निमग्नगुल्फौ सुसंहितौ |
पादौपङ्कजपञ्चिष्टौ पार्वतीरूपमुत्तमम् || ५६ ||

हारकेयूररुचिरां हेमरत्नां च कुण्डलौ |
सुवर्णकटकोपेतवलयैर्नूपुरैर्युताम् || ५७ ||

कटिसूत्रोदरबन्धैश्च सर्वरत्नोपशोभिताम् |
क्षौमरत्नाम्बरधरां साक्षात्प्रकृतिरूपिणीम् || ५८ ||

एतल्लक्षणसंयुक्तां महालक्ष्मीं सुशोभनाम् |
पद्मकिञ्जल्कसदृशां द्रुतचामीचकप्रभाम् || ५९ ||

पीताम्बरधरां लक्ष्मीं पद्महस्तां सुशोभनाम् |
पद्मवदनां पद्मनेत्रां पद्मपादकराम्बुजाम् || ६० ||

मायायां विन्यसेल्लक्ष्मीं लक्ष्मीबीजेन षण्मुख |
पार्वतीं विन्यसेत्कुम्भे हृल्लेखाशतजप्तया || ६१ ||

अम्लानमालां विधिवत् श्रीबीजमयुतं जपेत् |
मालां संस्पृश्य जपेद्यावत्तत्रैव गच्छति || ६२ ||

तावज्जपेन्महासेन एकचित्तोऽनन्यमानसः |
मुहूर्तं मन्त्रबलां मालां तत्रैव गच्छति || ६३ ||

स्वयमेव कुम्भे संवेष्ट्य शेषंचोपरिसंस्थितम् |
अम्लानपुष्पमेवं तु गर्भाणां चोत्तमोत्तमम् || ६४ ||

आचार्यमिश्रं भ्रूणं च नृपः संभूय निक्षिपेत् |
पूर्वोक्तेन विधानेन क सर्वकर्माणि कारयेत् || ६५ ||

इति कालोत्तरे गर्भलक्षणे अम्लानपुष्पपटलोष्टपञ्चाशत् || ५८ ||

Kapitel 59 – Merkmale des Edelsteindepots

|| श्रीः ||
ईश्वर उवाच-
रत्नगर्भविधानं तु सांप्रतं शृणु षण्मुख |
गर्भहीने पुरे राष्ट्रे ग्रामे वा नगरेऽपि वा || १ ||

कोटके कुब्जके वापि गृहे देवालयेऽपि वा |
क्षेत्रे क्षेत्रे कोष्ठकारे प्राकारे गोपुरेऽपि च || २ ||

नाशमायान्ति वै वत्स तस्माद्गर्भं विनिक्षिपेत् |
लोकेषु च * * निष्टैर्गर्भं स्थाप्य विधानतः || ३ ||

वाचस्पतिना वै वत्स नृत्तपालादिगर्भकम् |
यस्मात्तस्मात्सदास्वर्गं सर्वैश्वर्यसमन्वितम् || ४ ||

गर्भमेलां प्रवक्ष्यामि सर्वकामार्थसाधनम् |
सौवर्णै राजतैस्ताम्रै आरकूटमयेन वा || ५ ||

पञ्चविंशति कोष्ठं तु कारयेच्छिवभिर्दृढम् |
फलपञ्चाशते नैव गर्भफेलां तु कारयेत् || ६ ||

रत्निमात्रं तु विस्तारं उत्सेधं तु षडङ्गुलम् |
कोष्ठभित्तिषु विष्कम्भं अङ्गुलार्ध प्रमाणकम् || ७ ||

कोष्ठानां चैव विस्तारं पञ्चाङ्गुलमुदाहृतम् |
आयाम तावदेवं तु चतुरश्रं समन्ततः || ८ ||

विधानं फलशतेनैव पञ्चाशदधिकेन तु |
गर्भस्थानस्य बाह्ये तु त्रितालन्दूरमेव च || ९ ||

स्थाप्य फेलां विधानेन आचार्यस्तु समाहितः |
चन्द्रकान्तं तु सौम्ये तु कोष्ठे षट्कोटिसंयुतम् || १० ||

पूर्वकोष्ठे तु माणिक्यं मरतकं काम्यकोष्ठके |
वरुणकोष्ठे समुक्ता च स्वे स्वे नैव मन्त्रतः || ११ ||

चन्द्रकान्तन्तु सौम्ये तु कोष्ठे मन्त्रेण विन्यसेत् |
प्रवालमग्निकोष्ठे तु विन्यसेदग्निमन्त्रतः || १२ ||

नैर्-ऋत्यामिन्द्रनीलं तु निर्-ऋतिमन्त्रेण मन्त्रितम् |
वायव्यां तु महानीलं ऐशान्यां पुष्यरागकम् || १३ ||

ऐन्द्रे जाम्बूनदं चैव * * * * * संयुतम् |
आग्नेययां शुक्लं विन्यस्य तारं याम्ये तु विन्यसेत् || १४ ||

नैर्-ऋत्यामायसं न्यस्य आरकूटं तु वारुणे |
वायव्यां कांस्यं विन्यस्य सीसं सौम्ये तु विन्यसेत् || १५ ||

ऐशान्यां वङ्कं विन्यस्य वौषडन्तेन मन्त्रतः |
चक्रानलयोर्मध्ये दरदं विन्यसेद्गुह || १६ ||

अनलयमयोर्मध्ये हरितालं न्यसेद्बुधः |
यमनैर्-ऋतयोर्मध्ये मनश्शिलां न्यसेद्बुधः || १७ ||

निरृतिवरुणयोर्मध्ये * मध्ये विन्यसेद्बुधः |
वरुणानिलयोर्मध्ये सौराष्ट्रं विन्यसेद्बुधः || १८ ||

पवन सोमयोर्मध्ये माक्षिकं विन्यसेत्ततः |
सोम ईशानयोर्मध्ये अञ्जनं तत्र विन्यसेत् || १९ ||

पञ्चविंशन्मृ * ञ्चेन कोष्ठे वै पञ्चविंशके |
यथा क्रमेण मतिमान् मधुनेशानमन्त्रतः || २० ||

नदीनाग विषाणोत्ये वराहविहितं तथा |
वल्मीकं क्षेत्रकोष्ठं च हृदा चैवेति मध्यतः || २१ ||

लोध्रमृत्कर्कटमूर्ध्वे तन्मूषिक * * * * |
हिमवत्पार्श्व भृच्चैव विन्ध्यपर्वतमस्तकान् || २२ ||

गङ्गाभृद्यविनाभृच्च ताम्रपर्णीमृदं हरेत् |
कावेरीमुद्धरेद्वत्स गोदावर्या मृदं हरेत् || २३ ||

गन्धशालीमहाशालीरत्नशाली तथैव च |
कृष्णशाली च गोधूमं कलमाशालिरेव च || २४ ||

यवसर्षपनीवारा गर्भषष्ठिं तथैव च |
वैणवं तिलमुद्गं च चणकं माषमेव च || २५ ||

राजमाषं कुलुत्थं च शिम्बं निष्पावमेव च |
कुङ्कुमश्यामकं चैव प्रियङ्गुस्तृणधान्यकम् || २६ ||

आरस्य व्रीहिमेवं च पञ्चविंशत्प्रकीर्तितम् |
पूर्ववद्विन्यसेद्वत्स बीजमुख्येन मन्त्रतः || २७ ||

प* सं कोद्रवश्चैव धान्येषु परिवर्जयेत् |
लक्ष्मीश्च सहदेवीश्च विष्णुक्रान्तिर्नृपस्तथा || २८ ||

इन्द्रवल्ली महावल्ली तुलसीमङ्गविस्तुमा |
गिरिकर्णी सिताचैव निशागोक्षीरमेव च || २९ ||

क्षीरं नागबला चैव बला चातिबला शुभा |
सूर्यवर्ता मेघनादा अमृताकृष्णमल्लिका || ३० ||

शङ्खपुष्परसाधाना व्याघ्री चैव पराजिता |
वेदं चेति पञ्चविंशत् पूर्ववद्विन्यसेद्बुधः || ३१ ||

फलत्रयं त्रिजातिं च कर्पूरागरुचन्दनम् |
काश्मीरं हरकं चैव मृणालं व्याधिमेव च || ३२ ||

हर्यंशस्तगरं मांसि तुटिधान्यं हिरण्यकम् |
स्थूणीमृदङ्गमहिषं वराहं गजमेव च || ३३ ||

पूर्ववद्विन्यसेद्धीमान् बीजमुख्येन मन्त्रतः |
पङ्कजोत्पलकुमुदं नीलोत्पलमथापि वा || ३४ ||

कल्हारं त्रुटिकं चैव पुण्डरीकं तथैव च |
मल्लिकाजातिवकुलं अशोकं जातिकेतकी || ३५ ||

मालती माधवी चैव मदयन्ती च मञ्जरी |
पुन्नागं कुरवं दीपं मूलकं करवीरकम् || ३६ ||

व्रीहिमूलं च शङ्खं च पुष्पं च मूलकं भवेत् |
एतेषां मूलं पुष्पं च विन्यसेत्पूर्ववद्गुह || ३७ ||

पृथिवी कूर्मश्चन्द्रश्च अष्टमङ्गलमेव च |
पृथिवीकूर्मश्चन्द्रश्च मध्यकोष्ठे तु विन्यसेत् || ३८ ||

अष्टमङ्गलमेवं स्यादष्टदिक्षु च विन्यसेत् |
अधिदेवं प्रवक्ष्यामि रत्नगर्भेषु वै गुह || ३९ ||

ब्रह्मा हरिर्हरश्चैव उमा श्रीर्धरणीति च |
इन्द्रमग्निं यमं निर्-ऋतिं वरुणं वायुमेव च || ४० ||

सोमेशानं च वै वत्स रुद्रैकादश एव च |
अष्टौ च वसवश्चैव द्वादशादित्य एव च || ४१ ||

धनदं गुहं च वागीशं सावित्री च प्रभावती |
स्वस्वेनैव तु मन्त्रेण बीजमुखेन वै गुह || ४२ ||

प्रासादं पुरुषसूक्तं च विष्णुसूक्तं तथैव च |
रुद्रसूक्तं सूर्यसूक्तं अष्टवसुसूक्तकम् || ४३ ||

स्वे स्वेनैव मन्त्रेण उभयांश्चैव विन्यसेत् |
उत्तमं पूर्ववद्धोमं पुण्याहाध्ययनं तथा || ४४ ||

पूर्ववद्गर्भगेहे तु सुमुहूर्ते तथैव च |
यावत्फेलकमध्यस्थं तावद्गर्भं षडानन || ४५ ||

तावज्जीवे तु प्रासादं बीजमुख्यसमन्वितम् |
मन्त्रबलान्तन्त्रगच्छेति मुहूर्तबला फेलका || ४६ ||

पूर्ववद्भोजनं कुर्यात् दानं कुर्यात्तु पूर्ववत् |
आचार्यं पूजनं कृत्वा ब्राह्मणानां तु भोजनम् || ४७ ||

रत्नगर्भमिदं प्रोक्तं युगकोटिं स तिष्ठति |
आयुरारोग्यदं चैव सर्वव्याधिविवर्जितम् || ४८ ||

सस्यगोवर्धनं चैव पुष्टिवर्धनमेव च |
न तत्र देशे दुर्भिक्षं न च मारी च वर्धनम् || ४९ ||

कृष्णशैलेन मतिमान् कारयेद्गर्भगेहकम् |
इष्टका वाथवा कुर्यात् सुधां सम्यक्प्रलेपयेत् || ५० ||

गोपुरं मण्डपं वापि सभां वा तत्र कारयेत् |
नित्यमेव बलिं कृत्वा त्रिसन्ध्यं त्रिभिरेव च || ५१ ||

अथवा चाक्षतैर्गन्धैः सुपुष्पान्नित्यमर्चयेत् |
पूर्वं विन्यस्य द्रव्यांस्तु पश्चाद्देवांस्तु विन्यसेत् || ५२ ||

सम्यक्प्रलेप्य निच्छिद्रं सुदृढं शुभलक्षणम् |
उपर्यधश्चात्र शिलां सम्यग्वै परिकल्पयेत् || ५३ ||

पश्चिमे कृष्णशैले हि नो * * * * च्छादयेत् |
अतिगुप्तमिदं गर्भं सुगुप्तं न प्रकाशयेत् || ५४ ||

इति कालोत्तरे रत्नगर्भलक्षणं एकोनषष्टितमः सर्गः (?) || ५९ ||

Kapitel 60 – Panchagavya

|| श्रीः ||
ईश्वर उवाच-
पञ्चगव्यस्य गर्भं तु प्रवक्ष्यामि समासतः |
दरिद्राणां हितार्थाय तन्मे निगततः शृणु || १ ||

सर्वरक्षाकरं दिव्यं सर्वधान्यकरं हितम् |
सर्वारिष्टविनाशं च सर्वापत्तिविनाशनम् || २ ||

दुर्भिक्षनाशनं चैव सर्वदुःस्वप्ननाशनम् |
सर्वं वै ब्राह्मणं हीष्ठं पञ्चगव्यस्य गर्भकम् || ३ ||

सुमुहूर्ते दिने चैव नक्षत्रतिथिसंयुते |
पूर्वोक्तफेलकायां तु प्रक्षिपेद्गर्भमुत्तमम् || ४ ||

ग्रामे वा पत्तने वापि नगरे खेटकेपि च |
पुरे वा कुब्जके वापि कुग्रामे वा तथैव च || ५ ||

गोष्ठे क्षेत्रे तथारामे कोष्ठागारेऽथवा क्षिपेत् |
सुवर्णरजतभाण्डारे गजाश्वस्थाने निक्षिपेत् || ६ ||

नृत्तस्थाने सभायां च वेश्याक्रीडनवेश्मनि |
सूपस्थाने विशेषेण स्थाने वा क्रमणेऽपि च || ७ ||

शिक्षायुधस्य स्थाने तु महेशस्थाने विशेषतः |
मण्डपस्यालये चैव कन्याप्रासादकेषु च || ८ ||

कुमाराणां गृहे चैव महिषाणां गृहेषु च |
गण्डमण्डलके चैव पुष्पमण्डपकेषु च || ९ ||

मन्त्रशालाविशेषेषु सचिवानां गृहेषु च |
सामन्तानां गृहे चैव गणिकाया गृहेषु च || १० ||

विपश्चिद्भवने चैव तथा वैद्यगृहेषु च |
देवता भवने चैव तथा दूतगृहेषु च || ११ ||

सेनाध्यक्षस्य भवने सूपाध्यक्षगृहेषु च |
राज्ञां सपरिवाराणां सर्वेषां भवनेषु च || १२ ||

पञ्चगव्यस्य गर्भन्तु प्रक्षिपेन्मन्त्रपूर्वकम् |
वत्सरे वत्सरे चैव षाण्मासेव त्रिमासिके || १३ ||

मासे मासे तु मतिमान् पञ्चगव्यं तु निक्षिपेत् |
पञ्चगव्येन नृपतिं अभिषेकं तु पूर्वके || १४ ||

आभिचारकदोषांश्च सर्वकारकनाशनम् |
अभिषेकं पर्वपर्वे सर्वकृत्रिमनाशनम् || १५ ||

य स्नात्वा पञ्चगव्येन सर्वदुःस्वप्ननाशनम् |
आयुरारोग्यदं नित्यं लक्ष्मीविवर्धनं तथा || १६ ||

पञ्चगव्यमिदं चैव नित्यं प्रोक्षणमेव वा |
तद्दिने दुष्कृतं यच्च सर्वं नश्यति लक्षणात् || १७ ||

गृहमध्ये सर्वदिशां प्रक्षिपेद्गर्भमुत्तमम् |
ईशानश्चैव पर्जन्यो जयो महेन्द्र एव च || १८ ||

आदित्य सत्यकभ्रंशे अन्तरिक्षे क्षिपेद्गुह |
वह्निपूर्वा च वितयो ग्रहक्षतयमौ तथा || १९ ||

गन्धर्वे भृङ्गराजे तु भृङ्गे गर्भं विनिक्षिपेत् |
नैर्-ऋत्यां दौवारिके च सुग्रीवे पुष्पदन्तके || २० ||

जलाधिपो सुरेशोष पापयक्ष्मे तु निक्षिपेत् |
अनिले नाभे तथा मुख्ये भल्लाटे गर्भं निक्षिपेत् || २१ ||

ताराधिपे ऋभौ चैव वदितावदितौ क्षिपेत् |
द्वात्रिंशद्वास्तुदेशेषु निक्षिपेद्गर्भमुत्तमम् || २२ ||

आपे चैवा पवत्सेतु कृते गर्भं विनिक्षिपेत् |
पदद्वये क्षिपेद्धीमान् मरीचकस्य षट्पदे || २३ ||

सवित्रा चेद्वये वत्स सूत्रपलाशं तु निक्षिपेत् |
सावित्रौ द्विपदौ चैव प्रक्षिपेद्गर्भमुत्तमम् || २४ ||

कृत्रिमं सूपशालां वा सूरणान्नश्यते गुह |
विवस्वत्षट्पदे गर्भं यमब्रह्मान्तरे क्षिपेत् || २५ ||

निर्-ऋतिब्रह्मान्तरे वत्स उपेन्द्रगर्भं विनिक्षिपेत् |
पदद्वये क्षिपेद्धीमान् पञ्चगव्यस्य गर्भकम् || २६ ||

इन्द्रन्दासस्य पदद्वये गर्भरत्नेन निक्षिपेत् |
वरुणं ब्रह्मान्तरे वत्स षट्पदे मित्रमुच्यते || २७ ||

तत्र क्षिपेत्प्रयत्नेन पञ्चगव्यस्य गर्भकम् |
अनिलब्रह्मणोरन्तरे रुद्रस्य च पदद्वये || २८ ||

रुद्रदासस्य पदद्वये गव्यगर्भं विनिक्षिपेत् |
सोमब्रह्मान्तरे वत्स पृथिवीधरषट्पदे || २९ ||

सर्वयत्नेन मतिमान् गव्यगर्भं विनिक्षिपेत् |
फेलकायां कलशे वा गृहमध्ये गर्भं निक्षिपेत् || ३० ||

ब्रह्मस्थाने क्षिपेद्गर्भं पञ्चगव्यस्य गर्भकम् |
नवचत्वारिंशद्देवेश तथा वै वास्तुदेवतान् || ३१ ||

तत्तत्स्थाने तु विधिवत् पञ्चगव्यं क्षिपेद्गुह |
वर्धते तद्गृहं वत्स पशुधान्यधनेन च || ३२ ||

गोस्थाने नवदिक्षु च प्रक्षिपेत्सस्यवर्धनम् |
कौशस्य भवने वत्स द्वादशं गर्भं निक्षिपेत् || ३३ ||

अक्षयं कोशमयतं नास्ति चोरभयं गुह |
गोमूत्रं शतफलं दद्यात् पञ्चाशद्गोमयं भवेत् || ३४ ||

क्षीरं तु द्विशतफलं शतफलं दधि उच्यते |
पञ्चविंशत्फलं सर्पिः पञ्चगव्यमुदाहृतम् || ३५ ||

कृष्णाया गोमयं ग्राह्यं हरितामूत्रमाहरेत् |
श्वेतायां क्षीरं ग्राह्यं रक्तायां दधि उच्यते || ३६ ||

सर्पिरग्निनिभायां च ग्राहयेन्मन्त्रपूर्वकम् |
स कथेति ऋचा यायाद्गोमूत्रं परियोजयेत् || ३७ ||

आप्यायस्वेति च क्षीरं दधि विष्णो दधिं पुरा |
घृतवतीति घृतं योज्य प्रणवेन कुशोदकम् || ३८ ||

यव वैणवचूर्णं तु चुलुकार्धं प्रयोजयेत् |
पञ्चगव्यमिति प्रोक्तं सर्वपापप्रणाशनम् || ३९ ||

यववैणवपूर्णं तु कुशोदकेन समन्वितम् |
ब्रह्मकूर्चमिति प्रोक्तं ब्रह्मजज्ञेन योजयेत् || ४० ||

पञ्चगव्यं ब्रह्मकूर्चमुभयं गर्भमुच्यते |
स्नाने पानेन गर्भे च प्रोक्षणे लेपनेऽपि च || ४१ ||

सर्वत्र चोभयं योज्य गर्भेषु च विशेषतः |
अभिषेकं च देवानां शिवस्य च विशेषतः || ४२ ||

प्रायश्चित्तेषु * * * * प्राशयेद्धिमि च ता |
चान्द्रायणेषु सर्वेषु वारपक्षत्रयेषु च || ४३ ||

प्राजापत्यसान्तपने त्वतिकृच्छ्रे तु पाययेत् |
पक्षोपवासे वै वत्स सर्वमासोपवासके || ४४ ||

समये कुम्भकृच्छ्रे तु सप्त कृष्णे तु पाययेत् |
सभिधेयमनियमे कृष्णाष्टम्यां घृतेषु च || ४५ ||

दर्शपूर्णेन मासे तु श्रावण्याद्राघृतेषु च |
द्वादश्येकादशी नवमी ग्रहणे विषुवेऽपि च || ४६ ||

अयने च व्यतीपादे षडशीतिमुखेषु च |
संक्रान्ते जन्मनक्षत्रे पञ्चगव्यन्तु पाययेत् || ४७ ||

दुःस्वप्ने दुर्जनस्पर्शे रुद्रवेश्मनि भोजने |

इति कालोत्तरे पञ्चगव्यपटलः षष्टितमः || ६० ||

Kapitel 61 – Vajrakavata – die diamantene Pforte

|| श्रीः ||
ईश्वर उवाच-
सर्वज्ञता तृप्तिरनादि बोधः स्वतन्त्रता नित्यमलुप्तशक्तिः |
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरेताश्च महेश्वरस्य || १ ||

वज्रकवाटस्य विधि प्रवक्ष्याम्यनुपूर्वतः |
मृत्युञ्जयपरं ह्येतत्सूक्ष्मात्सूक्ष्मतरं परम् || २ ||

गुह्याद्गुह्यतरं गुह्यं गृहीतव्यं प्रयत्नतः |
नाख्यातं ब्रह्मणे पूर्वं नाख्यातं विष्णवेपि च || ३ ||

नाख्यातं सर्वदेवानां नाख्यातं स्वसुताय च |
वज्रकवाटोपदेशं नाख्यातं यस्य कस्यचित् || ४ ||

तव स्नेहान्मया दिव्यं उपदेशं परं महत् |
धाताखगपतिद्वयं कवाटस्तम्भ उच्यते || ५ ||

ऊर्ध्वोत्तरं गणनाथं यतोत्तरं वृषभमुच्यते |
योनिभ्रमरो वत्स ते कौलौ परिकीर्तितौ || ६ ||

काख्यामूकाश्चतुर्थं तु जगद्ध्योनिलमूर्ध्वसौ |
विष्णुरुद्रशिखाक्रान्तं कवाटं वामनासके || ७ ||

पटकोशं प्रवक्ष्यामि सांप्रतं शृणु षण्मुख |
षोडशं पञ्चपुटकोशौ प्रकीर्तितौ || ८ ||

बिन्दुनादं च सहितं विसर्गादिमुदाहृतम् |
सविसर्गं विजानीयात्कोशमन्तः प्रकीर्तितम् || ९ ||

हरस्य मे तदाख्यातं एकवक्त्रं कवाटकम् |
भद्रकालीं परं बीजं दक्षिणस्तम्भ उच्यते || १० ||

रौद्री काली परं बीजं वामस्तम्भमुदाहृतम् |
जपाकुसुम सप्रख्यं दक्षिणस्तम्भमुच्यते || ११ ||

विद्युत्पतनसंकाशं वामस्तम्भमुदाहृतम् |
प्रथमं दक्षिणस्तम्भं तुषाररजतप्रभम् || १२ ||

प्रथमं सव्य * * * किञ्जल्क सदृशप्रभम् |
द्रुतजाम्बूनदप्रख्यं वज्रकवाटवर्णकम् || १३ ||

पुटं किञ्जल्कसंकाशं कोशं पञ्चदलप्रभम् |
काश्मीरसदृशप्रख्यं योनिबीजस्य वर्णकम् || १४ ||

भ्रमरं बीजवर्णं तु भ्रमरं सदृशप्रभम् |
द्वितीयं दक्षिणस्तम्भ महारजतसप्रभम् || १५ ||

द्वितीययोनि भ्रमरं बीजं स्वर्णमिहोच्यते |
सन्ध्याम्बदनिभप्रख्यं योनिबीजं मुदाहृतम् || १६ ||

भ्रमरबीजमिदं वत्स शुद्धचामीकरप्रभम् |
पुटवर्णं पावकनिभं जपानिभं कोशमुच्यते || १७ ||

व * * * रमाख्यातं वामनासापुटे त्विह |
दक्षिणे दक्षिणे नासापुटे तु वज्रकवाटमुच्यते || १८ ||

इडा च पिङ्गला चैव प्रोक्तं वज्रकवाटकम् |
सुषुम्नाकवाटं वक्ष्यामि मृत्युनाशनमुत्तमम् || १९ ||

सुषिरं गृह्यं महासेन एकारस्वरसंयुतम् |
बिन्दुमस्तकमाक्रान्तं वामस्तम्भमुदाहृतम् || २० ||

पुनर्वै सुषिरं गृह्य एकारस्वर संयुतम् |
बिन्दुमस्तकमाक्रान्तं दक्षिणस्तम्भमेव हि || २१ ||

त्रयोदशेन संयुक्तं बिन्दुमस्तकभूषितम् |
स्वबीजेन महासेन ऊर्ध्वोत्तरमुदाहृतम् || २२ ||

गगनत्रयोदशान्तं च बिन्दुमूर्तिविभूषितम् |
अथोत्तरं विजानीयात्प्रयत्नेन तु कारयेत् || २३ ||

श्वेतं कृष्णं तथा रक्तं हरितं वर्णमेव हि |
भवशर्वतथेशान पशुपतिर्नामदेवता || २४ ||

रुद्रो देवस्तथा भीमो महादेवः सदाशिवः |
इडायामधिदैवं हि प्रोक्तं वज्रकवाटके || २५ ||

महादेवो हरोरुद्रः शंकरो नीललोहितः |
शूलपाणिः कृत्तिवासाः कपर्दी मेघवाहनः || २६ ||

पिङ्गलायाधिदेवं हि मया प्रोक्तं षडानन |
गङ्गाधरो विरुपाक्षो नीलग्रीवो वृषध्वजः || २७ ||

श्रीकण्ठो नीलकण्ठश्च कालकण्ठः कपालधृत् |
उमापतिश्च नवमः सुषुम्नावज्रशिष्टके || २८ ||

चतुर्थं च तृतीयं च मायानलसमन्वितम् |
पिङ्गलावज्रकवाटं रहस्यमिदमुत्तमम् || २९ ||

गोक्षीरसदृशप्रख्यं शुद्धस्फटिकसन्निभम् |
महेश वरदं ह्येतद्रहस्यं वज्रकवाटकम् || ३० ||

कुब्जकान्तं चतुर्थं संवर्तदग्निमथोयुतम् |
मायोर्ध्वं तु संस्थितं च बिन्दुनादसमन्वितम् || ३१ ||

गान्धार्या वज्रकवाटं तु तवस्नेहात्प्रकाशितम् |
त्रयोदशं वामस्तम्भं शक्रचापसमप्रभम् || ३२ ||

कुब्जकन्तु द्वितीयं तु दक्षिणं स्तम्भमेव हि |
सन्ध्याम्बुद समप्रख्यमीषच्छशि समप्रभम् || ३३ ||

योनिमण्डनिभं पञ्च पञ्चमस्वरमेव हि |
भ्रमरं षष्ठमेवं तु तव पोर(ट?) समप्रभम् || ३४ ||

कुब्जकोटप्रभं विद्यादेकारस्वरभूषितम् |
भिन्नाञ्जनसमप्रख्यं सर्वसिद्धिकरं परम् || ३५ ||

कुब्जकान्तं द्वितीयं तु मायानलसमन्वितम् |
बिन्दुमस्तकमाक्रान्तमतसी कुसुमप्रभम् || ३६ ||

पितृपादो ह्येकपादोऽनेकपादेकनेत्रकम् |
उग्रः शान्तः सुशान्तश्च पिनाकी त्रिदशेश्वरः || ३७ ||

वज्रकवाटगन्धार्थं तव स्नेहादुदाहृतम् |

इति कालोत्तरे कज्रकवाटलक्षणपटलः एकषष्टितमः || ६१ ||

Kapitel 62 – Weitere Merkmale der diamantenen Pforte

|| श्रीः ||
ईश्वर उवाच-
हस्तिजिह्वाकवाटं तु प्रवक्ष्यामि समासतः |
चतुर्थस्य चतुर्थं तु जातवेदसमन्वितम् || १ ||

उपरिष्टाच्चतुर्थोनि भूषितं बिन्दुसंयुतम् |
वज्रकवाटमेकं तु यत्सुरैरपि दुर्लभम् || २ ||

चतुर्थस्य प्रथमं वत्स बिन्दुशेखरभूषितम् |
कवाटस्तम्भवामे तु इन्द्रक्रोपकसन्निभम् || ३ ||

मार्ताण्डोदयसंकाशं कवाटबीजं सुदुर्लभम् |
चतुर्थस्य द्वितीयं तु बिन्दुशेखरभूषितम् || ४ ||

सिन्दूरसदृशप्रख्यं दक्षिणस्तम्भमुच्यते |
भ्रमरयोनी इमौ वत्स ते च द्वौ परिकीर्तितौ || ५ ||

अशोकबन्धूकनिभौ तेऽथ द्वौ वर्णितावुभौ |
अथ वै पुटबीजन्तु बिन्दुशेखरभूषितम् || ६ ||

गोक्षीरधवलप्रख्यं वर्णितं परिकीर्तितम् |
चतुर्थादि प्रयोक्तव्यं त्रयोदशसमन्वितम् || ७ ||

बिन्दुशेखरमारूढं रक्तबुद्बुदसन्निभम् |
कोशं वै हस्तिजिह्वायाः कवाटस्य हि षण्मुख || ८ ||

अथोत्तरं तु तो तौ तु विद्युत्पावकसन्निभौ |
पूषाकवाटं वक्ष्यामि येन मृत्युञ्जयं भवेत् || ९ ||

पञ्चमस्य चतुर्थं तु अथ वह्निसमायुतम् |
ऊर्ध्वं वै प्रभुशक्तिस्तु बिन्दुनाद समन्वितम् || १० ||

सूर्यकोटिसमप्रख्यं सर्वमन्त्राग्रनायकम् |
वज्रकवाटमेवं तु सर्वमृत्युविनाशनम् || ११ ||

पञ्चमस्य प्रथमं च मध्ये बिन्दुविभूषितम् |
पूषाया वामस्तम्भः स्याद्विसिनीपत्रसन्निभम् || १२ ||

पञ्चमस्य तृतीयं तु बिन्दुशेखरभूषितम् |
दक्षिणस्तम्भमित्याहुः शुद्धं मरतकप्रभम् || १३ ||

उत्तरोर्ध्वं तु यो विद्यादथोत्तरं तु होमयेत् |
रक्तोत्पलनिभप्रख्यं मितं नीलोत्पलस्य तु || १४ ||

भ्रमरयोनिनिभौ द्वौ तु भिन्नाञ्जनसमप्रभम् |
फं फट् तौ द्वौ पटकोशौ तुषाररजतप्रभौ || १५ ||

वज्रकवाटमाख्यातं वै लोचने यशस्विनी |
विधानं तु प्रवक्ष्यामि वत्स त्वं शृगु सांप्रतम् || १६ ||

कवाटस्तम्भं समाख्यातं वामस्तम्भमुदाहृतम् |
जारं बिन्दुशिखाक्रान्तं तृतीयस्वरसंयुतम् || १७ ||

बिन्दुशेखरपीठं वा रजपाकरथ प्रभम् |
लले भ्रमरयोनी द्वौ अतसी भृङ्गसन्निभम् || १८ ||

पञ्चदशं षोडशं च शङ्खशुद्धिसमप्रभम् |
पुटकोशौ समाख्यातौ महदग्रौ च सिद्धिदौ || १९ ||

अलं वज्रकवाटं तु प्रवक्ष्यामि समासतः |
अनिलाच्चतुर्थं संगृह्य हुताशनसमन्वितम् || २० ||

उपरिञ्जनशक्तिस्तु शिवनारायणान्वितम् |
सूर्यायुत समप्रख्यं अलंवज्रकवाटकम् || २१ ||

वरुणं बिन्दुसमाख्यातं वामस्तम्भमुदाहृतम् |
शुद्धस्फटिकसंकाशं धूमज्योतिस्वरूपिणम् || २२ ||

अमृताद्द्वितीयं बीजं तु शङ्खकुन्देन्दु सन्निभम् |
बिन्दुमस्तकमाक्रान्तं दक्षिणस्तम्भमुच्यते || २३ ||

अमृतं गर्भसंयुक्तं उत्तरोत्तरमुच्यते |
द्वादशस्वरसंयुक्तं अथोत्तरमेव च || २४ ||

शङ्खकुन्दसमप्रख्यं उभौ वर्णौ च कीर्तितौ |
त्रयोदशान्तदन्तश्च भ्रमरयोनी प्रकीर्तितौ || २५ ||

मृणालं गोक्षीरवर्णौ वाग्बीजं तु प्रकीर्तितौ |
विसर्गकोशमाख्यातं तदूर्ध्वं कोकिलोद्भवम् || २६ ||

विसर्गममृतं ज्ञेयं मृत्युवञ्जनमुत्तमम् |
वरुण रूपं तु * * अमृताधारमुच्यते || २७ ||

मुक्तानीहारनिभौ द्वौ बीजस्य च षण्मुख |
वज्रकवाटमाख्यातं अलंबुषायाः प्रकीर्तिताः || २८ ||

कुहवज्रकवाटं तु सांप्रतं शृणु षण्मुख |
विचित्रं विस्तरं सूक्ष्मं परं विश्वस्य साधनम् || २९ ||

संप्रदायं परह्येतन्मृत्युवञ्जनमुत्तमम् |
षष्टमं नारसिंहस्य त्रैलोक्यं विस्मयं परम् || ३० ||

शडबालमथो युक्तं मयाचोपरि भूषितम् |
शिखाहरि हराचोक्तन्द्रुतचामीकरप्रभम् || ३१ ||

सप्तमस्य कवाटं तु यत्पुरैरपि दुर्लभम् |
पान्तं बिन्दुसमायुक्तं किञ्जल्कसदृशप्रभम् || ३२ ||

वामे कवाटस्तम्भं तु हरिद्रारससन्निभम् |
लान्तान्तं वा विजानीयात्सर्वमृत्युविनाशनम् || ३३ ||

राकारस्वरसंयुक्तं सौभाग्येन समन्वितम् |
उत्तरोत्तरमेवाहुः अङ्गुष्ठसदृशप्रभम् || ३४ ||

एकारस्वरसंयुक्तं षट्चत्वारिंश एव वा |
पिण्डारकसमप्रख्यं अधरोत्तरमुच्यते || ३५ ||

भ्रमरयोनिं बिन्दुमस्तक एव च |
मञ्जिष्ठा कर्णिकाराभौ रक्तौ बीजस्य सन्निभौ || ३६ ||

विसर्गादि विसर्गं च पुरकोशौ प्रकीर्तितौ |
गोरोचनानिशाभौ च समासात्परिकीर्तिता || ३७ ||

कुहवज्रकवाटं तु आख्यातमसुवरावृतम् |
शङ्खिनीवज्रकवाटं शृणु षण्मुख तत्त्वतः || ३८ ||

अतिगुह्यं परं सूक्ष्मं रहस्यं स्वप्रकाशितम् |
ईशवर्गद्वितीयं तु कृशानुभयसंयुतम् || ३९ ||

मिथ्याचोर्ध्वं तु संवेष्ट्यं प्रलयस्थिति संयुतम् |
श्वेतपङ्कजसंकाशं हिमकुन्देन्दुसप्रभम् || ४० ||

मेढ्रस्यैव तु मूले तु घटयेत्सुसमाहितः |
जीवबिन्दुसमायुक्तं वामस्तम्भमुदाहृतम् || ४१ ||

जीवदीर्घ समायुक्तं दक्षिणस्तम्भमुच्यते |

  • * * * निभौ द्वौ तु वर्णतः परिकीर्तितौ || ४२ ||

एकादशस्वरसंयुक्तं शुक्लवर्णौ प्रकीर्तितौ |
जीवो वा द्वादशोपेत शशिवर्णः प्रकीर्तितः || ४३ ||

ऊर्ध्वोत्तरं पूर्वं स्यात् परश्चाधरोत्तरम् |
योनिभ्रमरबीजन्तु त्रयोदश चतुर्दश || ४४ ||

इन्द्रायुधसमप्रख्यौ उभौ तौ वर्णकीर्तितौ |
शं शं पुटहो हं शं हि शङ्खकुन्दसमप्रभौ || ४५ ||

शङ्खिनीवज्रकवाटमाख्यातं तव षण्मुख |
संघट्य च विधानेन पूर्वं संवत्सरं गुह || ४६ ||

पश्चान्मृत्युञ्जयं योगं अभ्यसेद्वत्स राष्ट्रकम् |
अजरामरत्वमाप्नोति इति सत्यं षडानन || ४७ ||

इति कालोत्तरे वज्रकवाटलक्षणपटलो द्विषष्टितमः || ६२ ||

Kapitel 63 – Konzentration auf die Öffnung der Pforte

|| श्रीः ||
ईश्वर उवाच-
वज्रकवाटैः संघट्य दशद्वारेषु धीमतः |
कवाटस्तम्भैरुत्तरैर्योनिभ्रमरमेव च || १ ||

पटकोशैः समस्तैश्च अव्यग्रेण षडानन |
पश्चान्मृत्युञ्जयं योगमभ्यसेदेकमानसः || २ ||

एकान्ते निर्जने देशे वातातपविवर्जिते |
न दंशमशकाकीर्णे सर्वोपद्रववर्जिते || ३ ||

सुदृढे मालिकायां तु प्रासादभवनेषु वा |
अपवर्गे शुभे श्लिष्टे संकटे सुमनोहरे || ४ ||

पूषैकशयने शुभ्रे दिव्ये समदिने शुभे |
आस्तीर्यास्तरणे दिव्ये हस्तमात्रायते शुभे || ५ ||

विस्तारं रत्निमात्रं तु पुरुषैकसुखासने |
पूर्वाह्नो प्राङ्मुखो भूत्वा मध्याह्ने चोत्तरामुखः || ६ ||

अपराह्णे पश्चिममुखो भूत्वा योगं समभ्यसेत् |
स्वस्तिकं चासनं बद्ध्वा पद्मासनमथापि वा || ७ ||

समग्रीवशिरो भूत्वा समोदरहृदि स्थितिः |
समपार्श्वोभ्युरश्चैव दन्तैर्दन्तान्न संस्पृशेत् || ८ ||

गजजिह्वां तु कृत्वा तु नासाग्रमवलोकयेत् |
कपालाङ्गद्व्यङ्गुलत्वादधस्ताच्चक्रमुत्तमम् || ९ ||

इदं चक्रं न जानन्ति विष्णुब्रह्मादयः सुराः |
ऋषिविद्याधरैः सिद्धैः किं पुनः क्षुद्रमानसैः || १० ||

श्वेतपद्मं परं शुद्धं षोडशैर्दलशोभितम् |
कर्णिकाकेसरोपेतं वितस्तिमात्रं तु विस्तरम् || ११ ||

कर्णिकाचतुरङ्गुल्यं अङ्गुलोत्सेधमुत्तमम् |
अतिगुह्यं परं सूक्ष्मं मृत्युनाशनबीजकम् || १२ ||

प्रवक्ष्यामि सुखोपायं शृणु षण्मुख तत्त्वतः |
अष्टादशमहाबीजं शङ्खकुन्देन्दुसन्निभम् || १३ ||

प्रलयानलसंयुक्तं प्रलयोदरसंयुतम् |
त्रयोदशान्तसंयुक्तं षष्ठेन तु समन्वितम् || १४ ||

बिन्दुनादसमायुक्तं मृत्युनाशनमुत्तमम् |
एतदेव परं ब्रह्म एतदेव परं शिवम् || १५ ||

एतन्मृत्युञ्जयं बीजं रहस्यं परमद्भुतम् |
तस्य सारं प्रवक्ष्यामि मृत्युनाशनमेव च || १६ ||

द्वात्रिंशदुद्धृतं वत्स प्रतिलोमं षडानन |
संहाररुद्रसंयुक्तं कृशानुन्तत्सुखायतम् || १७ ||

प्रलयोदकसंयुक्तं त्रयोदशान्तेन संयुतम् |
बिन्दुनादशिखायुक्तं तस्याधारमुदाहृतम् || १८ ||

खगौ पूर्वदले न्यस्य खागभ्रशदले न्यसेत् |
खिङ्गिं चाग्निदले न्यस्य खीगी च वितयैर्न्यसेत् || १९ ||

खुगुद्वै वैवस्वतदले खुगूद्वै भृङ्गराजके |
खृगृद्वै तु निर्-ऋतदले खॄगॄसुग्रीवगोचरे || २० ||

खॢगॣद्वौ बाण-इवे खॢगॣ शेषदले न्यसेत् |
खे गे वायुदले न्यस्य खै गै वा मुख्यदले न्यसेत् || २१ ||

खो गो सोमदले न्यस्य खौ गौ अतिथिगोचरे |
खं गं ईशदले न्यस्य खः गः जयदले न्यसेत् || २२ ||

सर्वे बिन्दुसमायुक्ताः सर्वे नादसमन्विताः |
विसर्गौ विसर्जनीयौ स राजा देशिकोत्तमः || २३ ||

सर्वे भृङ्गनिभा वत्स आधाराधेयमेव तु |
अतसीकुसुमप्रख्यं विशेषं बीजमीश्वरम् || २४ ||

मृत्युञ्जयं श्वेतवर्णं उच्चारे श्वेतवर्णकम् |
ह्रस्वाश्चेति निभा वत्स दीर्घा मरतकप्रभाः || २५ ||

विसर्गं गोक्षीरधवलं शङ्खकुन्देन्दुसप्रभम् |
शशिनी संपुटी कृत्य बिन्दुयुक्तेन षण्मुख || २६ ||

यवर्गस्य चतुर्थं तु कालानलसमन्वितम् |
श्वेतपद्मोपरिस्थं तु पूर्णचन्द्रसुशोभनम् || २७ ||

अथ पद्मोपरिष्टात्तु षट्पदं श्यामवर्णकम् |
अतिकृष्णं रोमकूपे तु मृत्युं पलितनाशनम् || २८ ||

म्न्त्रोदरं तु क्षेत्रज्ञं मृत्युं पलितनाशनम् |
मन्त्रोदरं तु क्षेत्रज्ञं नयेद्धृल्लेखया बुधः || २९ ||

पद्मकोटरमध्ये तु बीजकोटरमध्यमे |
श्वेतं समुद्रफेनाभं सततं चिन्तयेद्बुधः || ३० ||

त्रिसन्ध्यमेकं चतुर्यामे चतुर्घटिकमभ्यसेत् |

  • * चतुष्टये जीवे वलीपलितवर्जितः || ३१ ||

द्विरष्टवर्षाकृतिर्भूत्वा विचरेत्कामदेववत् |
घटिकाद्वयं त्रिसन्ध्यं तु ध्यायेन्मरतकप्रभम् || ३२ ||

आत्मानं त्रयसंवेश्य संपुटीकृत्य चेन्दुना |
पुनर्वै रोमकूपे तु मयूरगलवद्भवेत् || ३३ ||

अमृतेन रोमकूपे तु पूरयेद्देशिकोत्तमः |
त्रिसन्ध्यायां द्विनाडीं तु चतुर्थामे षडानन || ३४ ||

  • * * घटिकान्यसेन् मृत्युनाशनमुत्तमम् |

वज्रकवाटे घट्टयित्वा दशवारं समा भवेत् || ३५ ||

हृत्सरोरुहमध्ये तु पुरुषं पञ्चविंशकम् |
कपालपात्रे चानीय वर्णिके * * * * * || ३६ ||?

अमृताख्ये परिजीने उदरे मृत्युनाशने |
निक्षिप्य संपुटे धीमान् पूरयित्वा समाहितः || ३७ ||

तत्रैव स्पर्शनं जीर्णं मन्त्रमुद्धार्य वै गुह |
चतुर्थे * * * * * मायान्निर्बिन्दुसंयुतम् || ३८ ||

मयूरगुलिकप्रख्यं नीलजीमूत सप्रभम् |
युगपत्क्रमशो वापि पलीपलितनाशनम् || ३९ ||

स जीवेत् पञ्चसहस्रं तु द्विरष्टवर्षाकृतिः |

इति कालोत्तरे वज्रकवाटलक्षणे कवाटरन्ध्रधारणपटलः त्रिषष्टि नमः || ६३ ||

Kapitel 64 – Konzentration zwischen den Augenbrauen und Stilllegung von Heeren

|| श्रीः ||
ईश्वर उवाच-
भ्रुवोर्मध्ये महापद्मं महारजतसप्रभम् |
दलैः षोडशभिर्युक्तं प्रलयाग्निसमन्वितम् || १ ||

कल्पान्तानलसंयुक्तं कल्पान्तादित्यसंयुतम् |
चतुर्दशसमोपेतं षष्ठेन तु समन्वितम् || २ ||

हरिहरसमायुक्तं कूटं वै मृत्युनाशनम् |
कोटिसूर्यसमप्रख्यं महामाणिक्यसन्निभम् || ३ ||

कर्णिकायां न्यसेद्देवं परमादित्यरूपकम् |
विष्णुं ब्रह्मागमेवाहुः शिवमाहुर्मनीषिणः || ४ ||

अतिरहस्यं परं गुह्यं परमात्मस्वरूपकम् |
आर्य आत्मा जगतः तस्थुषश्च परं महत् || ५ ||

सर्वेषामिडादिदेवानां आदित्यादित्य उच्यते |
सर्वं माहेश्वरं रूपं हितमादित्यरूपकम् || ६ ||

वाञ्छितं चाभ्यसेद्वत्स मृत्युनाशनमुत्तमम् |
प्रजापतिरष्टमं बीजं हुतभुग्बिन्दुसंयुतम् || ७ ||

अगस्त्योदकसंयुक्तं स्थितिसंहारसंयुतम् |
अनाधारमिदं बीजं सर्वदुःखविनाशनम् || ८ ||

संपुटीकृत्य शशिना यच्चतुर्थेन धीमता |
मायाग्निबिन्दुसंयुक्तं संपुटीकृत्य चिन्तयेत् || ९ ||

षडब्दमभ्यसेद्वत्स त्रिकालं नित्यमेव च |
षष्टिर्घटिकयोगीन्द्रः कालस्तदवलम्ब्य तु || १० ||

दलेषु बीजान् वक्ष्यामि समासाच्छृणु षण्मुख |
पूर्वादारभ्य विधिना न्यसेत्सर्वान्समाहितः || ११ ||

द्वौ द्वौ चैकदले न्यस्य अव्यग्रेण तु सुव्रत |
अभिमुखं मन्त्रराजस्य स्थाप्य च ध्याययेद्गुह || १२ ||

चजन्यसेद्बिन्दुदले मार्ताण्डोदय सप्रभम् |
चाजान्यसेद्भृङ्गदले किञ्जल्कसदृशप्रभौ || १३ ||

चिजिन्यसेदग्निदले काश्मीरसदृशप्रभौ |
चीजीन्यसेद्वितथे तु बालार्कसदृशप्रभौ || १४ ||

छुजु वरुणदले न्यस्य बन्धूककुसुमप्रभौ |
छूजू शेषे तु विन्यस्य काकवर्णसमप्रभौ || १५ ||

छे जे वायुदले न्यस्य भृङ्गवर्णसमप्रभौ |
छै जै बल्लाटके न्यस्य कुजवर्णसमप्रभौ || १६ ||

छोजो सोमे तु विन्यस्य नन्द्या वर्तसमप्रभौ |
छौ जौ अदितौ विन्यस्य नीवारसदृशप्रभौ || १७ ||

छं जमीशे तु विन्यस्य मुक्ताफलसमप्रभौ |
छः जः जटेन्यसेद्द्वौ तु शुद्धस्फटिकसन्निभौः || १८ ||

एतत्सर्वं न्यसेन्मनाङ्न्यस्य ध्यायेन्मुहुर्मुहुः |
इन्द्रं नासापुटीकृत्य ध्यायेन्नित्यमतन्त्रितः || १९ ||

पूरयित्वा तु विधिवत् कुम्भकेन तु भावयेत् |
भावयेत्तु पृथङ्मन्त्री मृत्युं जीयान्न संशयः || २० ||

तद्वीजममृतं ध्यात्वा रोमकूपेषु भृङ्गवत् |
सम्यग्गं यं दशद्वारं वापितान् संयह्लुं प्रति || २१ ||

मयूरगलकप्रख्यं अमृतं भृङ्गसन्निभम् |
रोमकूपेषु सर्वेषु पूरयित्वा तु चिन्तयेत् || २२ ||

त्रिसन्ध्यं षट्च षण्णाडीं चतुर्थं वामके गुह |
अव्यग्रेणैव मनसा भावयेद्वत्सराष्ट्रकम् || २३ ||

पलितस्तम्भयोगन्तु रहस्यं न प्रकाशितम् |
रविचन्द्राग्निमध्यस्थं पद्मस्योपरिकर्णिके || २४ ||

जीवेशं धारयेन्नित्यं घटिका सप्त एव च |
घटिकाद्वयं दलं बीजैः क्रमाद्वर्णं सदैवतम् || २५ ||

रुद्रांश्चैकादश चैव द्वादशादित्या एव च |
वसवश्चाष्टभिश्चैव अश्विनौ द्वौ यथाक्रमम् || २६ ||

अतिशुक्रं परं सूक्ष्मं आत्मतन्त्रं निवेशयेत् |
सर्वे ते धवलप्रख्यां मृत्युनाशनकर्मणि || २७ ||

सर्वे ते भृङ्गवर्णास्तु पलितस्तम्भे षडानन |
शङ्खकुन्देन्दुधवलं मोक्षार्थं चिन्तयेत्सदा || २८ ||

वश्ये तु रक्तवर्णं स्यादाकर्षेण तुश्यामकम् |
विद्वेषणे धूर्मवर्णं उच्चाटे कृष्णवर्णकम् || २९ ||

स्तम्भे तु पीतवर्णं स्यात् मोहने कालवर्णकम् |
छेदने शिक्रोशिनिभं चाष्टवर्णं तु भेदने || ३० ||

आवेश्यामवर्णकं तु सेनास्तम्भे तु रक्तकम् |
ज्वालामालासहस्रैश्च दाभश्चन्त्रुंमाहवे || ३१ ||

कालाग्नीव संचिन्त्य शत्रुसेनाविनाशिनी |
मस्तके शास्त्रोभ्यशिखाबन्धन्तु रज्जुना ? || ३२ ||

घृंक्षेन्नाशेन वै वत्स सदाक्रान्ते हृदि स्थितिः |
आकर्षणे प्रयोगोयं वश्ये वादेन घट्टयेत् || ३३ ||

आग्नेयेन तु वश्यं स्यादाकर्षो वायुवह्निना |
उच्चाटने विशेषेण वायव्येन षडानन || ३४ ||

वायुवह्निसमायोगाद्विद्वेषो याति निश्चयम् |
स्तम्भे माहेन्द्रमेवोक्तं मोहे वायव्येशानतः || ३५ ||

वह्निमाहेन्द्रसंयोगादाहवे जयमाप्नुयात् |
अग्निमण्डलमध्यस्थं तन्मध्येशक्रमण्डलम् || ३६ ||

त्रैलोक्यबीजं तन्मध्ये परिवारैश्च संयुतम् |
ज्वालामालासहस्रैश्च दहेत्परचमूं गुह || ३७ ||

दशगुणं महासेन रथवाजिगजानपि |
विजित्वा परसेनां तु सुपुरे सुखमेधते || ३८ ||

इति कालोत्तरे वज्रकवाटलक्षणे भ्रुवोर्मध्यधारणसेनास्तम्भपटलश्चतुः षष्टितमः || ६४ ||

Kapitel 65 – Weitere Konzentrationsformen

|| श्रीः ||
ईश्वर उवाच-
तालुरन्ध्ररुतं चान्नं षोडशैर्दलशोभितम् |
कर्णिकाकेसरोपेतं तुषाररजतप्रभम् || १ ||

वितस्तिमात्रविस्तारं कर्णिकाचतुरङ्गुलम् |
उत्सेधं कर्णिकायां तु ईषच्चामीकरप्रभम् || २ ||

तत्रमध्ये स्थितं देवं शङ्खचक्रगदाधरम् |
ध्यायेन्नारायणं देवं शङ्खगोक्षीरसन्निभम् || ३ ||

अङ्गुष्ठमात्रमचलं निर्विकल्पं निरञ्जनम् |
सर्वज्ञं सर्वगं शान्तं सर्वतोक्षिशिरोमुखम् || ४ ||

प्राजापतेर्द्वादशं गृह्य कल्पान्तेन समन्वितम् |
कल्पोदकसमायुक्तं स्थितिसंहार संयुतम् || ५ ||

साक्षादमृतरूपं तु नारायणमनामयम् |
स्थितिं रूपं परं ह्येतत् सोमरूपमिदं परम् || ६ ||

कर्णिकायां न्यसेद्देवं सर्वकारणकारणम् |
मृत्युञ्जयमिदं वत्स सतताभ्यासयोगतः || ७ ||

तस्याधारं प्रवक्ष्यामि तत्त्वतः शृणु षण्मुख |
प्रजापतेस्त्रयोदशं गृह्य द्विमात्रेण च संयुतम् || ८ ||

अत्युष्णेन समोपेतं महारोगसमन्वितम् |
अतिशीतेन संयुक्तं रुद्रविष्णुसमन्वितम् || ९ ||

अमृताधारमेवं तु साक्षाद्गरुडरूपिणम् |
विषसंहरणं बीजं स्थावरं जङ्गमं च यत् || १० ||

कृत्रिमं चोपवीतं च अन्नपानादियोजितम् |
द्वौ कूटेन महासेन वासुकेर्विषनाशनम् || ११ ||

मूर्ध्नि च हृदि नाभौ च रेण्यै विषनाशनम् |
कूटमुच्चार्य मतिमान् तिस्रोरेखास्तु कारयेत् || १२ ||

ओष्ठकेनादिविक्रम्य निर्विषं भवति क्षणात् |
रात्रौ चाष्टोत्तरशतं जप्त्वा निश्शङ्खया जपेत् || १३ ||

विषान्तन्नाकृते देहे पिशाचभूतग्रहादिभिः |
अभिमन्त्र्यान्नेन भोक्तव्यं पादं चैवोचिदंशकम् || १४ ||

सप्ताभिमन्त्रितं कृत्वा सुखजीर्णकृतं विषम् |
परिवारं तस्य वक्ष्यामि सांप्रतं शृणु षण्मुख || १५ ||

ठड न्यसेदिन्द्रदले गोक्षीरसदृशप्रभौ |
ठाडान्यसेद्भृङ्गवत्स बन्धूककुसुमप्रभौ || १६ ||

ठि डि न्यसेदग्निदले अशोककुसुमप्रभौ |
ठी डी वितथे न्यसेद्भद्र अतसीकुसुमप्रभौ || १७ ||

ठु डु न्यसेद्याम्यदले विष्णुक्रान्तिसमप्रभौ |
ठू डू न्यसेद्भृङ्गराज भृङ्गवर्णसमप्रभौ || १८ ||

ठृ डृ न्यसेन्नैर्-ऋत्यां तु नीलजीमूत सप्रभौ |
ठॄ डॄ न्यसेत्कर्णिकार समप्रभौ ? || १९ ||

ठॢ डॢ न्यसेद्वारुण्यां तु गोक्षीरसदृशप्रभौ |
ठॢ डॢ न्यसेच्च शेषे तु माञ्जिष्ठ सदृशप्रभौ || २० ||

ठे डे न्यसेन्मारुते तु नीलोत्पल समप्रभौ |
ठै डै न्यसेन्मुख्ये तु पाटलीकुसुमप्रभौ || २१ ||

ठो डो न्यसेद्वै सोमे तु कुन्दपुष्प समप्रभौ |
ठौ डौ न्यसेदेदि तौ तु जपाया कुसुमप्रभौ || २२ ||

ठं डं न्यसेदीशे तु नन्द्यावर्त समप्रभौ |
ठः डः द्वे द्विन्यसेज्जये जपाकुसुम सप्रभौ || २३ ||

च सप्तमं वरं बीजं मृत्युवञ्चनकरं परम् |
सुपूर्णं चन्द्रवत्साक्षाल्लसच्चन्द्रं षडानन || २४ ||

आदित्यबिम्बबीजा हि प्रशंसन्ति मनीषिणः |
तस्माद्वै वर्तुलाकारं च शब्दस्य षडानन || २५ ||

ऋग्यजुः सामाथर्वमयं बिम्बं बीजं षडानन |
तत्रस्थं पुरुषो यजुर्भासस्समुदाहृतम् || २६ ||

शुचोरत्नि समुद्दिष्टं तद्बीजं परमेश्वरीम् |
ब्रह्मा हरिर्हरश्चैव त्रयस्त्रयोऽस्त्रं योजयेत् || २७ ||

अग्नित्रयं समुद्दिष्टं भूर्भुवस्स्वलोक हि |
सवनत्रयं त्रिसन्ध्यं च त्रिगुणं च त्रिवर्गकम् || २८ ||

अग्निष्टोमादिकं सर्वं जगत्स्थावरजङ्गमम् |
तस्मात्सर्वप्रयत्नेन तद्बीजं चाभ्यसेत्सदा || २९ ||

संवत्सरान्तकं वत्स अभ्यसेदजरामरम् |
जपं यानं प्रकर्तव्यं त्रिसन्ध्यं घटिकात्रयम् || ३० ||

संपूर्णकुम्भवत्तिष्ठेन्निर्वाणस्पर्शजीर्णकम् |
एतद्द्वादशवद्वत्सरानभ्यसेच्च समाहितः || ३१ ||

लक्षद्वादशकं जीवेनात्र कार्या विचारणा |
षोडशाब्दं चार्धरात्रे घटिकाष्टकमभ्यसेत् || ३२ ||

पूरकं कुम्भकं कृत्वा * चैकन्तु विसर्जयेत् |
शाश्वते स्पर्शनं जीर्णं शनैश्शनैर्देशिकोत्तमः || ३३ ||

एवं शाश्वतयोगं तु संप्रदायेन विन्दति |

इति कालोत्तरे पञ्चषष्टितमः पटलः || ६५ ||

Kapitel 66 – Konzentration und Überwindung von Hunger, Durst und Schlaf

|| श्रीः ||
ईश्वर उवाच-
कर्णरूपं महारूपं मृत्युनाशनमुत्तमम् |
देवासुरमुनीन्द्राश्च यक्षविद्याधरादयः || १ ||

चारणाप्सरसः सिद्धाः गन्धर्वाः पन्नगादयः |
सर्वे मृत्युं जयिष्यन्ति जपध्यानेन नित्यशः || २ ||

तत्र युक्तेन पद्मेन सदा कुम्भकपूरणात् |
शङ्खकुन्दनिभप्रख्यं षोडशैर्दलकैर्युतम् || ३ ||

द्वादशाङ्गुलमात्रं तु विस्तारं पङ्कजस्य तु |
नालं अष्टाङ्गुलं विद्यात् कर्णिका चतुरङ्गुलम् || ४ ||

कर्णिका केसरश्चैव द्रुतचामीकरप्रभम् |
तस्य मध्ये महादेवं चतुर्वक्त्रं चतुर्भुजम् || ५ ||

त्रिनेत्रं शङ्खवर्णं तु चतुरङ्गुलमायतम् |
पद्मकोटरमध्ये तु आसीनं परमेश्वरम् || ६ ||

अमृतरूपं परं दिव्यं सकलस्य हृदि स्थितम् |
प्रजापतेः षोडशं गृह्य चण्डरुद्रसमन्वितम् || ७ ||

महाचण्डामलयुतं चण्डमारुतसंयुतम् |
चण्डवारियुतं दिव्यं त्रयोदशान्त * * * || ८ ||

षष्ठेन तु समायुक्तं बिन्दुनादसमन्वितम् |
अमृतकूटमिदं वत्स मृत्युनाशनमुत्तमम् || ९ ||

जपध्यानेन नित्यं हि श्रद्धाभक्तिसमन्वितम् |
मृत्युंजयमवाप्नोति नात्र कार्याविचारणा || १० ||

आलस्यन्नरपशुभिः मृत्युं सर्वे जिघांसति |
तस्मात्सर्वप्रयत्नेन कृतकूटं समभ्यसेत् || ११ ||

अमृतकूटबीजेन सर्वो मृत्युं जयिष्यति |
तस्याधारं प्रवक्ष्यामि मृत्युवञ्चनकाम्यया || १२ ||

प्रजापतेः सप्तदशं संहारेण समन्वितम् |
प्रलयानलसंयुक्तं प्रलयानलसप्रभम् || १३ ||

महासन समायुक्तं त्रयोदशान्त समन्वितम् |
षष्ठं त्रयोदशान्तं च सर्वकूटेषु योजयेत् || १४ ||

वज्रकवाटलक्षणेषूक्तानुक्तेषु चैव हि |
बिन्दुनादं च षष्ठं च त्रयोदशान्तं तथैव च || १५ ||

  • लं वह्निं चलुलं च वारुणं योजयेद्बुधः |

शुद्धस्फटिकसंकाशं समु * * समन्वितम् || १६ ||

अमृतबीजनिभं वत्स सर्वकालेषु चिन्तयेत् |
परिवारान् प्रवक्ष्यामि मृत्युनाशनकाङ्क्षया || १७ ||

तथा चैन्द्रे दले * * * * * * * * प्रभौ |
तयोर्द्वयं भृशं न्यस्य सदा भद्र समप्रभम् || १८ ||

तिथिविन्यसदृग्नौ तथेषु किणिहीकुमुदप्रभौ |
क्रतुद्वयं यजेद्भृत्ये भृङ्गराजसमप्रभौ || १९ ||

तू थू द्वयं याम्यं तु अतसी कुसुमप्रभौ |
तृ थृ भृङ्गदले चैव विन्यसेच्चैव सन्निभौ || २० ||

तॄ थॄ द्वयकं चैव नैर्-ऋत्यां वा तॢ थॢ |
वारुण्यां तुर्हन्यस्य हंसवर्ण समप्रभौ || २१ ||

तॣ थॣ शेषं तु विन्यस्य कुमुदाभौ प्रकीर्तितौ |
ते थे वायुदले न्यस्य मयूरग्रीवसन्निभौ || २२ ||

तै थै मुखदले न्यस्य चणपुष्पसमप्रभौ |
तो थो सोमदले न्यस्य श्वेतधुर्धूरसन्निभौ || २३ ||

तौ थौ अतिथिदले न्यस्य निर्गुण्डी कुसुम प्रभौ |
तं थं ऐशानदले न्यस्य माधवीकुसुमप्रभौ || २४ ||

तः थः जलदले न्यस्य वनमालानिभप्रभौ |
एवं सम्यङ्न्यसित्वा तु मानसेन समाहितः || २५ ||

हंसकुन्देन्दुधवलं मन्त्रराजमनुस्मरन् |
कवाटान् सम्यग्घट्टयित्वा संपुटीकृत्य चेन्दुना || २६ ||

त्रिकाले तु स्मरेन्नित्यं घटिका षट्षडानन |
अर्धरात्रेण घटिकान्तं नयेत्सुसमाहितः || २७ ||

निच्छिद्रं संपुटीकृत्य सूर्यकुम्भं तु कुण्ठयेत् |
अन्यद्भृङ्गनिभं ध्यात्वा सकृष्णेन तु धूपयेत् || २८ ||

रोमकूपेषु सर्वेषु अमृतेनैव प्लावयेत् |
पठित स्तम्भभोगन्तु त्रिदशैरपि दुर्लभम् || २९ ||

अष्टादशसंवत्सरानेकभागेन भावयेत् |
लक्षमष्टादश संवत्सरं जीवति नात्र संशयः || ३० ||

नागबलं लभेद्धीमान् द्विरष्टवर्षमयं त्विति |
बिन्दुना संपुटीकृत्य मन्त्रराजमनुस्मरेत् || ३१ ||

गोक्षीरधवलं सौम्यं प्रत्यहं तु त्रिकालतः |
नासिकाभ्यां पूरयेत्तु कुम्भकं कर्णरूपके || ३२ ||

निर्वाणे जीर्णं सततं स्पर्शं सर्वं षडानन |
सुषुम्नान्तर्गतं नित्यं शाश्वतं जीर्णयेद्गुह || ३३ ||

शिवयोगमिदं दिव्यं रहस्यं न प्रकाशितम् |
क्षुद्धाहं नश्यते शीघ्रं श्रमं तस्य न विद्यते || ३४ ||

कुम्भवत्तिष्ठते * * * * र्णेषु न विद्यते |
वामायामभ्यसेद्देवं अमृतमग्नेस्तु स्रावयेत् || ३५ ||

यामं यामार्धमेवं तु मन्त्रराजमनुस्मरेत् |
सुभुक्तवत्तिष्ठते वत्स अष्टभासन्न संशयः || ३६ ||

क्षुत्प्रीतिकारयोगं तु योगिना संप्रकीर्तितम् |
इडायां पूरयेत्कूपे मन्त्रराजेन धीमतः || ३७ ||

अमृतं स्रावयेदग्नौ कुण्डल्यान्ते तु सुव्रत |
मासमेकं प्रयोगेण क्षुत्तृष्णानां तु नाशयेत् || ३८ ||

अष्टौ तु चिन्तयेत्सत्यं मन्त्रराजेन संयुतम् |
आत्मा वै संपुटीकृत्य ज्योतिर्मण्डलमध्यमे || ३९ ||

सर्व सूर्य इव ध्यायेन्निद्रानिर्वृतिमाप्नुयात् |
राजसं तामसं त्यज्य सत्य(त्त्व?) मेकेन वर्तते || ४० ||

अक्ष्णोर्वै मन्त्रराजे तु घटिकाः पञ्च भावयेत् |
अक्षिमण्डल मध्ये तु भास्करं परमं स्मरेत् || ४१ ||

जाग्रमेतद्भवेत्सर्वं स्वप्नं सुषुप्तिनाशनम् |
निर्द्रानिर्वृतियोगोयं पुरुषात्ममिदं परम् || ४२ ||

क्षुन्निद्रापायते नित्यं योगविघ्नकरौ हितौ |
स्वप्नेन्द्रियं प्रवर्तेत तस्मिन्निद्रां निरोधयेत् || ४३ ||

प्रधानेन्द्रियं हि रक्षेत यस्मात्तस्मिन्निरोधयेत् ||
निद्रामूलं सर्वदुःखं क्षुन्मूलं सर्वदुःखकम् || ४४ ||

काममूलं विनाशं हि कामाद्द्वेषो भविष्यति |
द्वेषात्क्रोधात्समुत्पन्नं तस्मान्नष्टौ न संशयः || ४५ ||

सत्यं यशस्तपोदानं बलं शौचं शिवार्चनम् |
ध्यानं जपः समाधिश्च क्रोधान्नश्यति तत्क्षणात् || ४६ ||

कामक्रोधं * * * * * मोण्डभंतथैव च |
आक्रोशालस्यमसत्यं हि रक्षा वै शून्यमेव च || ४७ ||

क्षुधा निद्रा च मात्सर्यं मोहाद्द्वेष्यश्च स्नेहिताः |
तर्कं च सर्वकालेषु वर्जयेत् षोडश गुह || ४८ ||

इति कालोत्तरे वज्रकवाटलक्षणे कर्णरूपधारणाक्षुत्पिपासानिद्रानिवृत्तिपटलः षष्टितमः || ६६ ||

Kapitel 67 – Herzkonzentration, Dhyana und Samadhi

|| श्रीः ||
ईश्वर उवाच-
हृत्सरोरुहमध्ये तु भावयेदमृतनायकम् |
हृदये सर्वमर्त्यानां क्षेत्रज्ञस्तत्र तिष्ठति || १ ||

पुर्यष्टकसमायुक्त मधश्चोर्ध्वं च गच्छति |
शब्दः स्पर्शश्च रूपं च रसोगन्धस्तथैव च || २ ||

मनोहंकारबुद्धिश्च पुर्यष्टकमिति स्मृतम् |
पुर्यष्टके शरीरं तु क्षेत्रज्ञस्य षडानन || ३ ||

चतुर्विंशतितत्त्वानां पुरुषो नायको भवेत् |
पञ्चविंशतिमेवाहुः सर्वशास्त्रेषु पण्डितः || ४ ||

पुरुषः पुद्गलो धीमान् पशुर्यज्ञपंचविंशकम् |
क्षेत्रज्ञो भोगभोक्तात्मा चेतनो देहिलिङ्गकः || ५ ||

तथा लिङ्गशरीरेण हृदयेश्वर एव च |
जङ्घादि प्रकृतेर्नायकस्सुखदुःखात्मकः स्मृतः || ६ ||

वायुनाम ततः सप्तविंशत्क्षेत्रं षडानन |
दश प्राणैः समोपेतः दशद्वारेषु संचरेत् || ७ ||

भ्रुवोर्मध्ये मूध्नि मध्ये कण्ठे चैवोरसी तथा |
हृदये नाभिमध्ये तु गुदेवृषणयोरपि || ८ ||

सं * * * * वृष्णे ऊरौ त्रिकटिकेषु च |
जङ्घे त्रिकटिके चैव गुल्पयोश्च पदान्तरे || ९ ||

तर्जनीपादाङ्गुष्ठयोर्मलमध्ये च मर्मिका |
सद्यो मरणमेवाहुः शास्त्रज्ञैः समुदाहृतः || १० ||

मर्माश्रयं कालान्तरे मरणन्नात्र संशयः |
कण्टकैर्वा प्रहरे * * * * मुष्टिभिर्नरान् || ११ ||

बाहुकूर्परयोर्मध्ये त्रिकटि मर्ममुदाहृतम् |
हस्तिजिह्वायां मूले तु स * * त मुदाहृतम् || १२ ||

तत्र तत्र * * * * * * * * * * |
अमृतबीजं तत्र तत्र स्मरेदेकाग्रमानसः || १३ ||

समे मृत्युंजयं ह्येतत् हंसहंसेति कीर्तितम् |
देहात्क्षेत्रज्ञो निष्क्रान्तः बहिराकाशमाश्रितः || १४ ||

पुनर्न प्रविशेच्चान्ते मरगान्तं विदुर्बुधाः |
वज्रकवाटैः संघट्य सर्वद्वारेषु पण्डितः || १५ ||

पुनर्निष्क्रमणं नास्ति क्षेत्रज्ञस्तत्र तिष्ठति |
तत्रैव संपुटीकृत्य हृत्सरोरुहकर्णिके || १६ ||

अमृतकोटरमध्ये तु क्षेत्रज्ञं क्षिप्त (प्र?) संपुटे |
मृत्युस्तत्र न प्रविशेत् द्वारा भावात् षडानन || १७ ||

कवाटैः संछाद्य नवद्वारं तस्मान्मृत्युं न याति च |
कवाटाच्छादनादेव संपुटादेव नित्यशः || १८ ||

तत्र मृत्युर्न प्रविशेत् पुन्निष्कामणं न च |
मृत्युं पाशेन बद्ध्वा तु पुरुषस्य गले गुह || १९ ||

नयेद्यमस्य सदनं वर्म प्राणि सदा नरात् |
तस्मात्सर्वप्रयत्नेन गृहेद्वज्रकवाटकैः || २० ||

गुरुप्रसादेन मतिमान् कवाटैश्चारयेत्सदा |
अपवर्गे तु सुदृढे नरः कश्चित्स तिष्ठति || २१ ||

शत्रुचोरैर्भयं तत्र यमभयं च न विद्यते |
तद्वज्रकवाटैराच्छाद्य तस्य मृत्युर्न विद्यते || २२ ||

तस्मात्मृत्युंजयं योगं हृदये सम्यगाचरेत् |
सुश्वेतपङ्कजं दिव्यं षोडशदलशोभितम् || २३ ||

वितस्तिमात्रं विस्तारं हृदयं सर्वदेहिनाम् |
कमलं प्रादेशमात्रं तु चतुरङ्गुलं कर्णिका || २४ ||

नालमष्टाङ्गुलं विद्यात् कर्णिकोत्सेधमङ्गलम् |
सत्त्वं रजस्तमश्चैव सोमसूर्याग्निमण्डले || २५ ||

तेषु तु मध्ये स्थितं पुरुषं कराङ्गुष्ठस्य मात्रकम् |
क्रियाशक्त्यधिष्ठितात्मा पुरुषं पञ्चविंशकम् || २६ ||

एकविंशत्परं बीजं अमृतं मृत्युनाशनम् |
महासंहारसंयुक्तं महानलसमन्वितम् || २७ ||

महानीलसमायुक्तं महावारिसमन्वितम् |
त्रयोदशान्तसंयुक्तं षष्ठस्वरसमन्वितम् || २८ ||

बिन्दुनादसमोपेतं अमृतकूटमिदं परम् |
आत्मानं विन्यसेत्स्कन्दकूटबीजस्य कोटरे || २९ ||

संपुटीकृत्यशशिना चतुर्थं हंस संयुतम् |

  • * * जे * * * न पश्चाद्धंसेन संपुटे || ३० ||

वज्रकवाटैः संघट्य दशद्वारसमन्वितम् |
हितं त्रिसन्ध्यं षड्घटिकैः समाधिं कारयेद्बुधः || ३१ ||

मृत्युञ्जयाख्यमन्त्रस्य सिद्धिः पूवापरेण तु |
षड्विंशद्वत्सरं धायेत्परयामं समस्तकम् || ३२ ||

षड्विंशल्लक्षं जीवेत इति शास्त्रस्य निश्चयः |
हृत्सरोरुहमध्ये तु गुणत्रयाख्यमण्डले || ३३ ||

तेषां चोपरि शक्तिस्तु शक्तिमध्ये तु कूटकम् |
कूटमध्ये तु चात्मानं प्राणैः संयमं मन्त्रवित् || ३४ ||

संपुटीकृत्य चन्द्रेण पश्चाद्धंसेन संपुटेत् |
वज्रकवाटैर्दशद्वारान् पिधाय सम्यग्विधानतः || ३५ ||

समाधिं कारयेत्पश्चात्समरसीकृत विग्रहः |
देवानां मृत्युञ्जयमिदं उपायं चात्र वर्णितम् || ३६ ||

त्रिंशत्संवत्सरं वत्स चतुःसन्ध्यं सप्तनाडिकम् |
अभ्यसेदेकचित्तेन अर्धरात्रे तु वै दश || ३७ ||

त्रिंशल्लक्षं भवेदायुर्नात्र कार्या विचारणा |
परिवारान्प्रवक्ष्यामि सर्वकामार्थसाधनम् || ३८ ||

फ फ ऐन्द्रदले न्यस्य रक्तपुद्बु?जसन्निभौ |
फा फा न्यसेद्भ्रमरदले किञ्जल्कसदृशप्रभौ || ३९ ||

फि फि न्यसेत्तु नल्ले तु अशोककुसुमप्रभौ |
फी फी न्यसेद्वितथे मञ्जिष्ठ सदृशप्रभौ || ४० ||

फु फु न्यसेद्वै याम्ये तु कालमेघसमद्युति |
फू फू द्वयेऽर्कन्न्यसेद्भृङ्गे भृङ्गवर्णनिभावुभौ || ४१ ||

फृ फृ द्वये नैर्-ऋत्यां तु कृष्णलोहनिभावुभौ |
फॄ फॄ न्यसेत्सुग्रीवे नीलाम्बुज समप्रभौ || ४२ ||

फॢ फॢ द्वये वै वारुण्यां शुद्धस्फटिक सन्निभौ |
फॣ फॣ शेषे तु विन्यस्य बिसिनी पत्रसन्निभौ || ४३ ||

फे फे वायुदले न्यस्य पीनवक्षौ समप्रभौ |
फै फै मुख्ये तु विन्यस्य पिशाचपुष्पसमप्रभौ || ४४ ||

फो फो सोमे तु विन्यस्य मुक्ताफलसमप्रभौ |
फौ फौ अदिते तु विन्यस्य दधिमण्डलसप्रभौ || ४५ ||

फं फं न्यसेद्वत्स ऐशान्ये तु समाहितः |
फः फः द्वये न्यसेज्जये सिन्दूरसदृशप्रभौ || ४६ ||

एवं संस्थाप्य विधिना पश्चादमृतधारिणम् |
धारणां प्रथमं कुर्यात् ध्यानं वै त * * * * || ४७ ||

समाधिं च ततः कुर्यात् शनैः शनैः सुसमाहितः |
रेचकं पूरकं चैव कुम्भकं सममाचरेत् || ४८ ||

सिद्धं योगमिदं वत्स स्पर्शयोगं तु धारणम् |
पूरकं कुम्भकं चैव रेचकं तु विसर्जयेत् || ४९ ||

शाश्वते स्पर्शं जीर्णं स्यात् ध्यानमेतदुदाहृतम् |
रेचकं पूरकं त्यज्य कुम्भकं तु परित्यजेत् || ५० ||

शिवमेव स्वयं भाव्य समाधिस्तेन उच्यते |
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् || ५७ ||

एतत् समाधिरुद्दिष्टः * * * * मनीषिणाम् |
शिवमेव स्वयं भाव्य स्वयमेव शिवो भवेत् || ५२ ||

समरसीभाव योगेन तत्समाधिरिहोच्यते |
स्वरूपशून्यमिति भाव्यं शिव एव सदा भवेत् || ५३ ||

समाधिरेतत्विज्ञेयं शास्त्रविद्भिरुदाहृतम् |
तदर्धमात्रं निर्भ्रासं स्वरूपं शून्यं भावयेत् || ५४ ||

समाधिमेतच्छंसन्ति योगशास्त्रविशारदाः |
साक्षान्मृत्युंजयोपायं तव स्नेहादुदाहृतम् || ५५ ||

अजरामरत्वमाप्नोति सत्यं सत्यं षडानन |
शिवस्य मरणं नास्ति जननं च जरादयः || ५६ ||

साधकस्य भवेद्वत्स तद्ध्यानं नित्यमेव हि |
शिव एव भवेत्साक्षाज्जरामरणवर्जितः || ५७ ||

शिवसंप्रदायमेवोक्तं न देयं यस्य कस्यचित् |

इति कालोत्तरे वज्रकवाटलक्षणे हृदयधारणाध्यानसमाधिपटलः सप्तषष्टितमः || ६७ ||

Kapitel 68 – Mantraraja und Nabelmeditation

|| श्रीः ||
ईश्वर उवाच-
नाभिमध्ये महापद्मं सर्वमृत्युविनाशनम् |
सर्वशान्तिकरं बीजमाधिव्याधिविनाशनम् || १ ||

महामारीप्रशमनं महाक्षयविनाशनम् |
प्रमोहान् विंशतिशमनं कुष्ठाष्ठकदशाहरम् || २ ||

पञ्चगुल्मान् पञ्चव्यूहानष्ठीलान्पञ्चनाशनम् |
भगन्धरान् पञ्चहरं रा * * * न्हरन्दश || ३ ||

पाण्डुरोगानष्टहरं स्वसात्पञ्चशरं हरम् |
प्रत्यश्यायान् पञ्चहरं कासान्पञ्चहरं परम् || ४ ||

अशीतिवातजान् रोगान्नाशनं कूटधारणात् |
षट्सप्ततिञ्चाक्षिरोगा * * * * * * गकान् || ५ ||

पञ्चाशच्चहृद्रोगान् * * * * नष्टविंशतिः |
अष्टादशपित्तरोगान्रोगान्वै दशश्लेष्मवान् || ६ ||

नाभिसन्धारणाद्ध्यानात् * * * * * * क्षणान् |
मूत्रकृच्छ्रान् षोडशविधान्मूत्ररोगान्दशैव तम् || ७ ||

मूत्रातिसारान्पञ्चैव सोमरोगांश्चतुरोऽपि वा |
तुनिः परितुनिश्चैव अर्शान्निषट्त्रिधानपि || ८ ||

महाज्वराष्टकं चैव * * * * * * * * |
अष्टादश सहस्राणि * * चान्नाशयेत्क्षणात् || ९ ||

कुमारगृहा द्वादश सहस्राच्छशनिषट्सहस्रकान् |
पूतनां पञ्च सहस्रं अपस्माराष्टसहस्रकान् || १० ||

दशकोटिरक्षः संधानसुरान् शतकोटि च |
महासंहारदेवं च धारणान्नाशयन्ति च || ११ ||

मार्ताण्डोदयसंकाशं षोडशैर्दलशोभितम् |
वितस्तिमात्रं पञ्चकर्णिका चतुरङ्गुलम् || १२ ||

नालमष्टाङ्गुलं विद्यात् कर्णिकोत्सेधमङ्गुलम् |
पञ्चविंशत्परं बीजं जगद्योनिं परात्परम् || १३ ||

प्रलयस्थिति सृष्टीनां कर्तारं परमेश्वरम् |
सर्वमन्त्राणि बीजांश्च वेदाश्चोपनिषदस्तथा || १४ ||

मूर्ध्नि स्थितं परं बीजं सर्वमन्त्रप्रशोधनम् |
प्रलयद्वयं ततोद्धृत्य प्रलयाग्निं ततोद्धरेत् || १५ ||

प्रलयानलं ततोद्धृत्य प्रलयाम्बुदं ततोद्धृतम् |
त्रयोदशान्तं संगृह्य षष्ठस्वरसमन्वितम् || १६ ||

शिवनारायणोपेतं मन्त्रराजमिदं परम् |
संख्यातं सर्वशास्त्रेषु कर्णात्कर्णगतं परम् || १७ ||

तस्याधारं परं सूक्ष्मं ह तृतीयं सुदुर्लभम् |
तदादिबीजं संयुक्तं तदन्तेन समन्वितम् || १८ ||

तदेतद्योज्य पुनर्वत्स तच्चतुर्थेन संयुतम् |
वाग्भवाच्चतुर्दशं योज्य वाग्भवात्षष्टमेव च || १९ ||

स्मृतिसंहार संयुक्तं तस्याधारमुदाहृतम् |
परिवारान् प्रवक्ष्यामि दलैः षोडशसंस्थितान् || २० ||

मधद्वयं च कदले सुरचापार्कसन्निभौ |
माद्या भृङ्गदले न्यस्य कुन्दस्य कुसुमप्रभौ || २१ ||

मिधिद्वयं न्यसेन्नीले हेमनीलोत्पलप्रभौ |
मीधीद्वयं वितथे तु जपापाञ्जन स प्रभौ || २२ ||

मधुद्वयं न्यसेद्याम्ये इन्द्रकोपकसन्निभौ |
मधूद्वयं भृङ्गराजे चम्पकाभृङ्गसन्निभौ || २३ ||

मृधृद्वयं निर्-ऋत्यां तु अशोकाल समप्रभौ |
मॄधॄद्वयं सुग्रीवे रक्तकोकिलसन्निभौ || २४ ||

मॢ धॢ द्वयं वारुण्यां तु बन्धूकाङ्गार स प्रभौ |
मॣ धॣ द्वयं शोषे तु विद्युच्चस्तासमप्रभौ || २५ ||

मेधे वायुदले न्यस्य कपोते चटकप्रभौ |
मैधै मुख्ये न्यसेद्द्वौ तु तित्तिरीयकसन्निभौ || २६ ||

मो धो सोमे नसेद्द्वौ तु श्येनमाषसमप्रभौ |
मौ धौ अदिते विन्यसेत् तु पिङ्गलौ कौशिकप्रभौ |
मं धं ईशे तु विन्यस्य न्यासग्रन्थसमन्वितम् || २७ ||

मः धः द्वये न्यस्य वराटकोटरसन्निभौ |
मन्त्रराजस्य वर्णं हि महामेरुसमप्रभम् || २८ ||

आकाशबीजं सेनानि कृष्णाञ्जनं धराधरम् |
जुंसहंसेन संपुट्य ध्यायेत्कनकपर्वतम् || २९ ||

त्रिंशत्संवत्सरं वत्स त्रिसन्ध्यं घटिकाष्टकान् |
अर्धरात्रे ध्यायेत्तु घटिका द्वादशं गुह || ३० ||

अमरत्वमवाप्नोति कोटि षट्कं स जीवति |
येन येन हि भावेन युज्यते यत्र वाहकः || ३१ ||

तेन तन्मयतां याति ह्रस्वरूपो मणिस्तथा |
शरीरं यत्र इत्याहुः शरीरस्थो महेश्वरः || ३२ ||

महेश्वरात्परं नास्ति सिद्ध्यते सृतिसागरे |
लाकुलै पाञ्चरात्रे च गारुडे भूततन्त्रके || ३३ ||

भैरवे मातृतन्त्रे च योगशास्त्रे च कामिके |
एतद्बीजसमं नास्ति पञ्चाक्ले च प्रपञ्चके || ३४ ||

शैवसिद्धान्तमार्गेण दशाष्टादशसागरे |
तस्मात्सर्व प्रयत्नेन कूटराजमनुस्मरेत् || ३५ ||

मृत्युनाशं पुरा पुण्यहंसं वै संपुटेत्पुनः |
पुनः सोमेन संपुट्य समरसी भावमाश्रयेत् || ३६ ||

रहस्यमेतत्संप्रदायं न कथं यस्य कस्यचित् |
नाभौ हंसेन वै वत्स जपाकुसुमसन्निभौ || ३७ ||

पञ्चगुल्मानपोहन्ति मासार्धेन षडानन |
नाभेरधस्तात्कूटेन बालार्कसदृशेन च || ३८ ||

अष्ठीलान्पञ्चदशं स्यात्षोडशाहेन धीमता |
नाभौ चोत्तरपश्चिमे च अभ्यसेदिन्द्रकोपवत् || ३९ ||

पञ्च व्लीहान् विनश्यन्ति पञ्चविंशद्दिनेन च |
मासमेकं चाभ्यसेत्क्षुधा नागं च नाशयेत् || ४० ||

सुपुष्टः सुभगः श्रीमान् विचरेत्कामदेववत् |
भानुमण्डलमध्यस्थं मन्त्रराजं सदा न्यसेत् || ४१ ||

मार्ताण्डोदयवर्णाभं मण्डलैकं समभ्यसेत् |

  • * * ष्टादशाह्नन्ति साक्षान्मार्ताण्डवत्स्थितः || ४२ ||

कैलासमपि वै वत्स षण्मासाभ्यासयोगतः |
आदित्य इव वै देहं भवते मन्त्रतेजसा || ४३ ||

ऊरुप्रदेशे देवेश जल * द्वह्नि देशिके |
चित्तेन * * * * * मासमेकन्निरन्तरम् || ४४ ||

ऊरुस्तम्भविनाशाय वह्निमण्डलमध्यकम् |
जानुप्रदेशे देवेशमग्निमण्डलमध्यगम् || ४५ ||

सप्तविंशद्दिनं ध्यायेत् सप्तवातप्रणाशनम् |
माहेन्द्रं वह्निमध्यस्थं * * योर्नाभिमूलतः || ४६ ||

वं क्षणे त्रिकटे चैव कण्ठे वै कक्षयोरपि |
ध्यायेद्वै मन्त्रराजानं बाह्यायामविनाशनम् || ४७ ||

इडायां पिङ्गलायां च सुषुम्नायां तथैव च |
गान्धारहरिजिह्वा च पूषा चैव यशस्विनी || ४८ ||

अलंपूषा कुहूश्चैव शङ्खिनी दशमी च वा |
ध्यायेत्तन्मन्त्रराजानं बाह्यायामविनाशनम् || ४९ ||

आक्षिप्तं स्वप्नवातं च मन्त्रराजेन नाशनम् |
द्वादशारं तु संघट्य भृङ्गं चानलवारुणम् || ५० ||

तन्मध्ये मन्त्रराजानं चिन्तयेत्सप्त वै घटिः |
सोमो रोगविनाशाय योगमेतं समभ्यसेत् || ५१ ||

वायव्याग्नेयमाहेन्द्र वारुणे च स्थितं प्रभुम् |
चिन्तयेन्मेढ्रमूले तु मूत्रकृच्छ्रविनाशनम् || ५२ ||

माहेन्द्रे वारुणे वत्स मन्त्रराजं तु मध्यगम् |
मेढ्रमूले तु पार्श्वे तु मूत्रमस्थिषु चिन्तयेत् || ५३ ||

मूत्रसारं मूत्रदोषं दशाहा नाशयेद्गुह |
सोमसूर्याग्निमध्यस्थं मन्त्रराजं जपाप्रभम् || ५४ ||

जठरे चिन्तयेद्वत्स सप्ताष्टदिनमेव वा |
अतिसारं विषूचीं च नाशयेत्सन्निपातजान् || ५५ ||

इति कालोत्तरे वज्रकवाटलक्षणे मन्त्रराजनाभिध्यान पटलः सर्वव्याधि निवारणपटलश्चाष्टषष्टितमः || ६८ ||

Schlussabschnitt S64 – Konzentration unterhalb des Nabels und Mrityunjaya

|| श्रीः ||
ईश्वर उवाच-
नाभेरधस्ताद्द्व्यङ्गुल्यं(ल्यं) नाडीकन्दं प्रतिष्ठितम् |
तन्मध्ये संस्थितं पद्मं चतुरङ्गुलमात्रतः || १ ||

द्व्यङ्गुलं कर्णिकामात्रं ज्वलत्कनकसन्निभम् |
तस्य मध्ये परं देवं देवेशं भुवनेश्वरम् || २ ||

सर्वज्ञं सर्वगं शान्तं सर्वतो क्षिशिरो मुखम् |
सकलं निष्कलं देव मनौपम्यसुरेश्वरम् || ३ ||

ब्रह्मादिस्तम्भपर्यन्तं सृष्टिस्थितिलयात्मकम् |
उद्भिदः स्वेदजाश्चैव अण्डजाश्च जरायुजाः || ४ ||

चतुर्विधमभूद्ग्रामं चराचरमिदं जगत् |
लक्षञ्चतुरभीतिश्च पृथग्योनिषु तिष्ठति || ५ ||

समस्तेषु पदार्थेषु तिष्ठतेन च लिप्यते |
तदुत्पन्नं जगत्सर्वं तमसश्च चराचरम् || ६ ||

अमृतेशं प्रवक्ष्यामि मृत्युनाशनमुत्तमम् |
धर्मार्थकाममोक्षं च त्रैलोक्यं चैव साधनम् || ७ ||

चतुश्चत्वारिंशतितमः माहेशं तत्र जायते |
सर्वसंहारबीजं तु सर्वसव्यूहनं युतम् || ८ ||

सर्वं सद्योनिसंयुक्तं सर्वोदकसमायुतम् |
स्थितिसंहारसंयुक्तं त्रैलोक्य नायकं परम् || ९ ||

द्रुतचामीकरप्रख्यं महारजतसप्रभम् |
तस्य ध्यानं प्रवक्ष्यामि सद्योमृत्युविनाशनम् || १० ||

पञ्चचत्वारिं * * * य सप्तेन समन्वितम् |
हुतभुक्पवनः सोमष्षष्ठश्चैव चतुर्दशम् || ११ ||

हरिहरसमायुक्तं भुवनेश्वरकूटकम् |
समरे त्रैलोक्यसिद्धिस्तु किंपुनर्मृत्युनाशनम् || १२ ||

यौ बीजौ सर्वलोके वा शान्तिः पुष्टिः प्रवर्तते |
वैश्यमाकर्षणं चैव सेनास्तम्भं च षण्मुख || १३ ||

महासेनजयश्चैव महासौभाग्यवर्धनम् |
जपो योगश्च ध्यानं च समाधिश्च चतुर्विधम् || १४ ||

चतुष्टयं येन वै वत्स मृत्युनाशनमाप्नुयात् |
जपोयोगो गुणध्यानं ध्यानान्मृत्युं जयिष्यति || १५ ||

ध्यानाच्छतगुणं वत्सस्समाधिः शाश्वतं पदम् |
समाधिनिष्टस्तस्य तस्य तिष्ठति वै शिवः || १६ ||

आहूतं संप्लवं यावतावत्तिष्ठति भूतले |
अक्षयो ह्यजरे देवस्सर्वज्ञः सर्वगः प्रभुः || १७ ||

समाधिस्थो नरो लोके तस्य मृत्युर्न विद्यते |
परिवारान् प्रवक्ष्यामि मन्त्रराजस्य षण्मुख || १८ ||

लयद्वयं न्यसेदैन्द्रे कुब्जकुन्दसमप्रभम् |
लावाद्वयं भ्रंशे न्यसेड्डाडिमि कुमुदप्रभम् || १९ ||

लिविद्वयं न्यसेदग्नौ करवीरार्कसन्निभौ |
लीवीद्वयं न्यसेद्वितथे शङ्खाशोकसमप्रभौ || २० ||

लुवुद्वयं न्यसेद्याम्ये सिन्दूरस्फटिकप्रभम् |
लूवूद्वयं न्यसेद्भृङ्गे पक्षिमुक्ताफलप्रभौ || २१ ||

ऌ वृ द्वयं निर्-ऋत्यां तु बन्धूककुन्दसन्निभौ |
ॡ वॄ द्वयं तु सुग्रीवे द्रुतरजतसप्रभौ || २२ ||

लॢ वॢ द्वये दले गैरिकस्फटिकप्रभौ |
ल्ॡ व्ॡ द्वौ शेषे न्यसेत् धीमान् माक्षीर सन्निभौ || २३ ||

लेवे पायौ न्यसेद्वत्स * * * * * सन्निभौ |
लै वै मुख्य न्यसे * * * * * कुसुमप्रभौ || २४ ||

लो वो द्वन्द्वं न्यसेद्वत्स सोमे तु जपासन्निभौ |
लौ वौ न्यसेदतीते तु विद्रुमस्फटिकप्रभौ || २५ ||

लं वं न्यसेदथेशाने मार्ताण्डसदृशप्रभौ |
लः वः क्षिप्रं जयेद्वत्स क * रन्द्रसमप्रभौ || २६ ||

मूलबीजचयो लोके महाश्चर्यफलप्रभौ |
सूर्यकोटि समप्रख्यौ चन्द्रकोटिसमप्रभौ || २७ ||

शिवशक्तिमयौ द्वौ * * * कामार्थसाधकौ |
मृत्युञ्जयो प्रयोक्तव्यो जपादिषु चतुष्टये || २८ ||

मृत्युञ्जयत्रयेणैव हंसबीजेन षण्मुख |
संपुटीकृत्य मतिमान् प्रासादं गर्भे तु निक्षिपेत् || २९ ||

सर्वकूटे तु वै वत्स प्रासादगर्भे विनिक्षिपेत् |
प्रासादगर्भे चात्मानं शक्त्या कृष्णेन योजयेत् || ३० ||

दशस्थानेषु सर्वेषु दशप्राणयुतेन तु |
प्रासादगर्भे संयोज्य पश्चात्संपुटमारभेत् || ३१ ||

रेचकं कुम्भकं त्यज्य कुम्भकं तु विसर्जयेत् |
समरसीभावयोगेन नित्यमेवं सदाभ्यसेत् || ३२ ||

अथ च द्वै चतुःसन्ध्यं घटिकाष्टौ पृथक् पृथक् |
विशेषमर्धरात्रेषु घटिका द्वादशैव तु || ३३ ||

समस्सी भावयोगेन समाधिं सम्यगाचरेत् |
त्रिंशद्वत्सरं नित्यं अभ्यसेत्सुसमाहितः || ३४ ||

आभूतसंप्लवं यावत्तावद्वै शिववद्भवत् |
बलिपलितनिर्मुक्तौ द्विरष्टवर्षकाकृतिः || ३५ ||

गोक्षीरसदृशप्रख्यं प्राणदं चामरेचकम् |
शशिना पार्श्वयोः पुष्या अतश्चोर्ध्वं त्रियक्षकैः || ३६ ||

हंसेन तस्य बाह्ये तु संपुटीकृत्य चान्तयेत् |
आत्मानं शिवशक्त्या तु हृदयादाकृष्य तत्र तु || ३७ ||

प्रासादगर्भं संयोज्यं प्रासादं वहनगर्भके |
समरसीभावयोगेन मृत्युनाशनमाप्नुयात् || ३८ ||

प्रासादगर्भे चात्मानं प्रासादं भवनगर्भके |
त्र्यक्षरं संपुटं विद्यात् त्र्यक्षरं चेन्दुना पुटेत् || ३९ ||

पुनर्जीवेन मुख्येन हृल्लेखामनुसंपुटेत् |
बीजमुख्येन संपुट्य संपुटेदेकपादतः || ४० ||

संपुटेद्धंसबीजेन चतुर्दिक्षु समाहितः |
बहिरन्तः प्रसादेन संपुटेत्तत्र वित्तमः |
संपुच्चैकादशं चैवं सर्वं मृत्युञ्जयं भवेत् || ४१ ||

उदरे सर्वकार्याणि महामृत्युविनाशनम् |
मन्त्रस्य नाभिदेशे तु आयु * मृत्युनाशनम् || ४२ ||

मन्त्रस्य शाश्वतस्थाने संहारं मृत्युनाशनम् |
मन्त्रस्य मेढ्रदेशे तु प्रजालाभं तथावधि || ४३ ||

जानुस्थाने मनुशक्त्या शक्त्याधारमिहोच्यते |
मन्त्रं हि देवतारूपं देवरूपं च मन्त्रकम् || ४४ ||

मन्त्रदेवस्य ऊर्ध्वौ तु आत्मानं नाममेव वा |
विशेषमृत्युर्वै वत्स नास्ति चोरभयं सदा || ४५ ||

मन्त्रस्य मन्त्रके घने * * * * * * * * |
आत्मानं प्रक्षिपेत्तत्र नाम वा तत्र निक्षिपेत् || ४६ ||

महामृत्युविनाशाय पार्श्वयोर्मन्त्रसंयुतम् |
पतत्स्थानेषु वै वत्स अन्ते मृत्युभयं भवेत् || ४७ ||

मन्त्रस्य बाह्यस्थानेषु अपमृत्युविनाशनम् |
संपुटा वेष्टितं चैव विदर्भं क्षिप्तमेव च || ४८ ||

प्रक्षिप्तं गोलसंश्लिष्टं विशिक्रष्टाक्रान्तसंयुतम् |
संघट्टं बन्धनं चैव बाह्याभ्यन्तरव्यापकम् || ४९ ||

एवं च दशमार्गं तु आत्माज्ञानार्थ संज्ञितम् |
बीजकूटाक्षरेणैव बलं मन्त्रेषु यन्त्रके || ५० ||

पद्मे चक्रे च मतिमान् योजयेन्मन्त्रपारगान् |

इति कालोत्तरे द्वादशसहस्रसंहितायां वज्रकवाटलक्षणे नाभेरस्ताद्धारणपद्मविधान मृत्युञ्जयपटलस्सप्तषष्टितमः ? ||

Schlussabschnitt S65 – Die beständige innere Ausrichtung

|| श्रीः ||
ईश्वर उवाच-
तस्य च द्व्यङ्गुलाधस्तान्महापद्मं सुशोभनम् |
समाधिश्च परं दिव्यं सर्वदेवेश्वरेश्वरम् || १ ||

सर्वज्ञं सर्वगं शान्तं सर्वात्मा सर्वतोमुखम् |
तत्पद्मकर्णिकामध्ये आसीनं हि सदाशिवम् || २ ||

प्रादेशमात्रकं पद्मं सुदृढेन समप्रभम् |
कर्णिकाचतुरङ्गुल्यं केशरोमनखप्रभम् || ३ ||

षट्चत्वारिंशदुद्धृत्य त्रैलोक्यनायकं परम् |
त्रैलोक्यमोहनं देवं त्रैलोक्यस्य च स्थापनम् || ४ ||

  • * * * * रूपं तु त्रैलोक्यस्य च जीवनम् |

त्रैलोक्यसंहारबीजं महासौभाग्यवर्धनम् || ५ ||

महालक्ष्मीस्वरूपं तु महासौभाग्यवर्धनम् |
स्त्रीरूपं हि परं * * * * * * नौपमम् || ६ ||

ब्रह्मादिस्तम्भ पर्यन्तं जीवनं तस्य तेजसा |
अधः प्रलयानलोपेतं महासंहारसंयुतम् || ७ ||

महागभस्तिसंयुक्तं महावारिसमन्वितम् |

  • ष्ठेन तु पुनर्युक्तं मिथ्या सम्यक्समन्वितम् || ८ ||

सदाशिवस्य रूपं हि सद्योमृत्युविनाशनम् |
तस्याधारं प्रवक्ष्यामि सद्यः प्रत्ययकारकम् || ९ ||

विद्याशक्तिस्वरूपं तु सद्यो मृत्युविनाशनम् |
सप्तचत्वारिंशद्वीजं द्वादशादित्यरूपकम् || १० ||

तद्वीजात्कोटिशक्तिस्तु वामाद्या जायते तु तत् |
बडबानलं रुद्ररूपं बडवानलसंयुतम् || ११ ||

कल्पान्तानलसंयुक्तं कल्पान्तोदक संयुतम् |
विसर्गा तृतीय संयुक्तं * * * * * * * || १२ ||

विसर्गादेकादशोपेतं मन्मथानलसंयुतम् |
मुरारिचोर्ध्व संयुक्तं तस्याधारमुदाहृतम् || १३ ||

अभ्यासं चैव कूटाभ्यां अभ्यासान्मृत्युनाशनम् |
दशद्वारं सम्यक्संघट्य वज्रकवाटैर्दशभिरपि || १४ ||

मृत्युञ्जयत्रयेणैव ओं जुं स चैव संपुटेत् |
ततो हंसेन संपुट्य ततो वै बीजमुख्यतः || १५ ||

ततो वै चैकपादेन हृल्लेखा च ततः पुटेत् |
आधाराधेयकूटेषु प्रासादातेषु विन्यसेत् || १६ ||

प्रासादान्तेषु क्षेत्रज्ञः शक्त्या कूटेन विन्यसेत् |
उपायमेतत् परं गुह्यं रहस्यं न प्रकाशयेत् || १७ ||

मृत्युञ्जये प्रधानं हि संप्रदायेषु चोत्तमम् |
जाम्बूनदसमप्रख्यं बन्धूककुसुमप्रभम् || १८ ||

क्वचिन्नीहार सप्रख्यं क्वचिदग्नि समप्रभम् |
क्वचित्तटित्समप्रख्यं क्वचिन्माणिक्यसप्रभम् || १९ ||

क्वचिन्मरतक प्रख्यं क्वचिद्वज्र समप्रभम् |
क्वचिज्ज्योति समप्रख्यं क्वचिन्मुक्ताफलप्रभम् || २० ||

क्वचिन्मार्ताण्ड संकाशं क्वचिदिन्दु समप्रभम् |
क्वचिदिन्द्रायुध प्रख्यं इन्द्रकोपकसन्निभम् || २१ ||

क्वचिज्जपानिभप्रख्यं क्वचित्पद्मसमप्रभम् |
महारजतसप्रख्यं मध्याह्नरवि स प्रभम् || २२ ||

क्वचित्सिन्दूर संप्रख्यं क्वचित्स्फटिकसन्निभम् |
एवं सदाशिवं रूपं अनुभवस्य तु भासते || २३ ||

शिवशक्तिनिपातस्य श्रद्धाभक्तिसमन्वितः |
गुरुभक्ति प्रसादेन स्वानुभवं हि जायते || २४ ||

जपसिद्धिः धारणासिद्धिः ध्यानसिद्धिः षडानन |
गुरुप्रसादाल्लभते समाधिर्ध्यानमेव च || २५ ||

मृत्युञ्जयो भवेत्क्षिप्रं गुरुप्रसादेन षण्मुख |
धर्मार्थकाममोक्षांश्च गुरुप्रसादेन साधयेत् || २६ ||

पिता कोटिसहस्राणि माता शतसह्स्रकैः |
पुत्रभ्रातृकलत्रैश्च खर्वकोटिशतानि च || २७ ||

शिवाधिकः स वै वत्स गुरुरेको विशिष्यते |
तस्मात्सर्वप्रयत्नेन प्रथमं पूजयेद्गुरुम् || २८ ||

हैमाभरणवस्त्रैश्च गोभूमिकाञ्चनादिभिः |
अलंकृता गजाश्चैव दासीदासैश्च पूजयेत् || २९ ||

मिकत्र बहुनोक्तेन किं बह्वक्षरमालया |
गुरुं शिवं च विद्यां च पूजयेत्त्रयमादरात् || ३० ||

तेषु सर्वेषु वै वत्स प्रधानं गुरुमेव हि |
सदाशिवस्य स्थाने तु संपुटीकृत्य भावयेत् || ३१ ||

अजरामरत्वमाप्नोति शिववद्विचरेन्महिम् |
विंशत्संवत्सरं भद्र त्रिसन्ध्यं सप्तनाडिकम् || ३२ ||

पलूपलित निर्मुक्तो द्विरष्टवर्षकाकृतिः |
दशहस्तिबलं प्राप्य अनङ्ग इव क्रीडते || ३३ ||

त्रिंशद्वर्षं त्रिगुणं च चत्वारिंशच्चतुर्गुणम् |
पञ्चाशद्वत्सात्पञ्चगुणं भवति योगिनः || ३४ ||

यावत्समाश्चाभ्यधिकं तावत्कल्पान्तं जीवति |
परिवारान् प्रवक्ष्यामि मन्त्रराजस्य सांप्रतम् || ३५ ||

पूर्वादारभ्य सेनादि विन्यसेत्सुसमाहितः |
शॢ षॢ श्ॡ ष्ॡ शेषे चैव तान्यन्तरेषु कल्पयेत् || ३६ ||

शै षै शो षो चैव पश्चात्कल्पयित्वा तु सुव्रत |
शौ षौ शं षं शः षः चैव कल्पयित्वा तु भावयेत् || ३७ ||

सर्वे कुन्देन्दुनिभाः शङ्खगोक्षीरसन्निभाः |
भावयेद्विधिवद्वत्स मृत्युं जित्वा न संशयः || ३८ ||

एतच्चक्रं महासेन उत्तमं परमं महत् |
देवासुरा न जानन्ति तव स्नेहात्प्रकाशितम् || ३९ ||

महच्छ्रियमवाप्नोति महत्सौभाग्यमाप्नुयात् |
अयुतं जपेत्पश्चिमद्वारे लोके वश्यमवाप्नुयात् || ४० ||

  • * * येन स्त्रीवश्यं भवते नात्र संशयः |

जपेदयुतत्रयेणैव राजवश्यं भवेद्गुह || ४१ ||

पुरुषवश्यं भवेत् क्षिप्रं * * * ञ्च शतेन च |
नागवश्यं शतैः षष्टिहस्तिवश्यं त्रिधाशितिः || ४२ ||

ग्रामवश्यं भवेद्वत्स लक्षजापेन साधकः |
नगराणां शतं वत्स भवेत्पश्यन्ति लक्षकैः || ४३ ||

इति कालोत्तरे द्वादशसहस्रसंहितायां वज्रकवाटलक्षणे सदाध्यात्मपटलोऽष्टषष्टितमः ||

Schlussabschnitt S66 – Die ewige Stätte und Shivakuta

|| श्रीः ||
ईश्वर उवाच-
नाभेरधस्थादङ्गुल्यादष्टाङ्गुलमुदाहृतम् |
शाश्वतं स्थानमेवाहुः * * * * * * हृतम् || १ ||

ब्रह्माविष्णुसुराः सर्वे लोकपालादयः स्मृताः |
इन्द्राग्नियमनिर्-ऋतिवरुणा वायुरेव च || २ ||

सोमेशान गुहाश्चैव न जानन्ति स्थानमुत्तमम् |
रुद्रैकादशकाः सर्वे द्वादशादित्या एव च || ३ ||

अष्टौ तु वसवश्चैव न जानन्ति हि शाश्वतम् |
मनुर्दक्षो वसुश्चैव काश्यपो नारदस्तथा || ४ ||

विश्वामित्रो वसिष्ठश्च गौतमो भार्गवस्तथा |
वाल्मीकी वामदेवश्च पराशरव्यासभार्गवाः || ५ ||

अङ्गिरा अत्रिर्दक्षश्च कृ * स्यलिखिनश्च च |
शाश्वतं स्थानमेते हि न जानन्ति कदाचन || ६ ||

अतिगुह्यं परं सूक्ष्मं सूक्ष्मात्सूक्ष्मतरं परम् |
अधस्तान्मेढ्रमूलं तु ऊर्ध्वाधस्तान्महानलः || ७ ||

दक्षिणा कटिफलका * * राकठिपीठकात् |
हिन्द्रकाद्दक्षिणं पूर्वा पश्चिमोत्तरकङ्कटात् || ८ ||

धिष्णीयं दक्षिणं पश्चिमात् यात्पूर्वोत्तरं गुह |
एते चैवाष्टसीमान्ते तत्स्थानं चतुरङ्गुलम् || ९ ||

कदम्बगोलकाकारं शाश्वत स्थानमेव च |
नाभेरधस्तादष्टाङ्गुलं त्रिकोणाकारमुत्तमम् || १० ||

तत्स्थानं कौलकाबाहु * * * शुद्धकोजनाः |
सर्वज्ञः परिपूर्णश्च सर्वात्मा सर्वतोमुखः || ११ ||

शिवस्य परिपूर्णस्य ज्ञानं शाश्वतमुत्तमम् |
निष्कलं निर्मलं नित्यं निष्प्रपञ्चमलक्षणम् || १२ ||

अपृथक्यन्निरालम्ब्यमानन्दमचलं ध्रुवम् |
कल्पनारहितं शून्यं मनसोतीतगोचरम् || १३ ||

हेयोपादेयरहितं सर्वाङ्गं च विवर्जितम् |

  • * * * * * * * बाह्याभ्यन्तर संस्थितम् || १४ ||

अस्तिनास्तित्वरहितं स्वस्ववेद्यं परं महत् |
गुरुप्रसादेन वत्सः परतत्त्वं हि वन्दति || १५ ||

तत्र स्थितं महापद्मं सूर्यकोटिसमप्रभम् |
द्वात्रिंशद्दलसंयुक्तं कर्णिकाकेसरान्वितम् || १६ ||

तस्य मध्ये स्थितं शान्तं शिवं परमकारणम् |
जीवन्तं सुषिरं गृह्य अथ संहारसंयुतम् || १७ ||

शान्तं वह्निसमायुक्तं युगान्तानिल संयुतम् |
सुशान्ताम्बु समायुक्तं त्रयोदशान्तेन संयुतम् || १८ ||

षष्ठस्वरसमायुक्तं शिवनारायणात्मकम् |
महामायोर्ध्व संयुक्तमूर्ध्ववह्नि समायुतम् || १९ ||

एतद्वै शिवकूटं तत्तव स्नेहादुदाहृतम् |
श्वेतं कृष्णं तथारक्तं हरितं पारावतप्रभम् || २० ||

श्यामं मञ्जिष्ठसंकाशं तुषाररजतप्रभम् |
शुद्धकुन्देन्दु संकाशं कूटमेकादशात्मकम् || २१ ||

एकादशं महावर्णश्वेतादिक्रमं शोधयेत् |
अनुच्चार्यं त्रिशकैर्वत्स ब्रह्मविष्णुपुरन्दरैः || २२ ||

गुरुप्रसादेन चोच्चार्य अन्यथा शतवर्षकैः |
आधार मध्ये पद्मेतु चिन्तयेत् सुसमाहितः || २३ ||

तस्याधारं प्रवक्ष्यामि तत्त्वतः शृणु षण्मुख |
शान्तं दान्तं समुद्धृत्य कालानलसमन्वितम् || २४ ||

मरुद्वारिसमायुक्तं विसर्गाद्यदि संयुतम्
वाद्भवात्षष्ठमं बीजं सृष्टिप्रलयसंयुतम् || २५ ||

सत्याधारमिदं वत्स मृत्युवञ्चनकारकम् |
सत्त्वं रजस्तमश्चैव सोमसूर्याग्निमेव च || २६ ||

आत्मानश्चान्तरात्मानं परमात्मानमेव च |
पृथिव्यापस्तथा तेजो वायुराकाशमेव च || २७ ||

श्रोत्रं त्वक्चक्षुर्जिह्वा च घ्राणश्चैव तु पञ्चमम् |
वाक्पादपाणिपायूपस्थं चैव तु पञ्चमम् || २८ ||

शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चमः |
मनोहंकारश्च महान् प्रकृतिः पुरुषस्तथा || २९ ||

रागो माया च विद्या च कालो नियति विग्रहे |
शुद्धमाया शुद्धकला सदाशिवशिवस्तथा || ३० ||

चतुश्चत्वारिंशत्कला कर्णिकोपरि कल्पयेत् |
तेषां मध्ये महाशक्तिः हृल्लेखा परमेश्वरी || ३१ ||

तस्योपरि न्यसेद्देवं शिवकूटमनामयम् |
हण्डरूपं ह क्षेत्रज्ञं कूटमध्ये तु निक्षिपेत् || ३२ ||

  • * ना पूर्वं संपुट्य त्र्यक्षरेण पुनः पुटेत् |

पुनर्वै बीज मुख्येन पुनर्वै चैकपादतः || ३३ ||

पुनर्वै मल्लबीजेन पुनर्वै झल्लबीजतः |
पुनर्वै घट्टबीजेन पुनर्वैधारबीजतः || ३४ ||

पुनर्वै योक्तबीजेन * * * * * * * * |
पुनर्वै संहारबीजेन इन्द्रेण वरुणेन च || ३५ ||

श्रिया पुरुषजीवेन धरण्या केशवेन च |
मायानलसमायुक्तं बिन्दुनादसमन्वितम् || ३६ ||

एकैकेन तु बीजं हि अग्निमायासमन्वितम् |
बिन्दुनादसमाक्रान्तं सर्वबीजेषु सुव्रत || ३७ ||

दशवज्रकवाटैश्च सम्यग्घट्टविधानवित् |
चिन्तयेदमृतं बीजं समरसीकृतविग्रहम् || ३८ ||

साक्षान्मृत्युञ्जयोपायं तव स्नेहात्प्रकाशितम् |
अजरामरत्वमाप्नोति वत्सरत्रयकालतः || ३९ ||

न जपेन न हीमेन न च मन्त्रैर्न पूजया |
सर्वदा चिन्तयेत्कूटं कल्पकोटिं स जीवति || ४० ||

न नियमं यमन्नैव आसनन्नास्ति षण्मुख |
प्राणायामं तत्र नास्ति प्रत्याहारं च वर्जयेत् || ४१ ||

ध्यानधोरणको नास्ति समाधिर्नास्ति तत्त्वतः |
रेचकं पूरकं नास्ति कुम्भकं नास्ति वस्तुतः || ४२ ||

समस्तप्राणसंज्ञिकान्नास्ति सत्यं षडानन |
सत्यमेकं परञ्चैव आलम्बं चैवमेव तत् || ४३ ||

समसीभावतत्त्वं च समाधिं चैकवस्तुतः |
एक एव शिवः सर्वं जगत्स्थावरजङ्गमम् || ४४ ||

अभ्यसेदेकचित्तेन महाकल्पं स जीवति |
शिवकूटरहस्यं तु मृत्युवञ्चनकं परम् || ४५ ||

अष्टधा शिवभेदं तु शिवकूटे प्रदर्शितम् |
सकलं निष्कलं शून्यं कलाड्यं समलङ्कृतम् || ४६ ||

क्षपणं क्षयमन्नस्थं कर्णोष्टं चाष्टमं स्मृतम् |
सदाशिवस्वरूपं हि प्रासादं परिकीर्तितम् || ४७ ||

शिवकूटं शिवमेवाहुः तत्रज्ञैः समुदाहृतम् |
अष्टाविंशद्देवकोटिश्शिवकूटे तु संस्थिताः || ४८ ||

अष्टाविंशच्छक्तिकोटिश्शिवकूटे तु संस्थिताः |
अष्टाविकल्पदेवं तु तिर्यग्योनिं च पञ्चमम् || ४९ ||

मानुषं चैकधातुश्चतुर्दश भुवनं भवेत् |
जरायुजाण्डजेभ्यस्तु तथा च स्वेदजोद्भिजैः || ५० ||

योनिश्चतुर्विधान्तेषु शक्तिकूटे तु संस्थिताः |
तेषां सर्वेषु भूतेषु चतुराशीतिलक्षके || ५१ ||

पशवश्च मृगाश्चैव नराश्च पक्षिणो गजाः |
व्यालाश्चैव तु वै वत्सं जरायुजास्तु कीर्तिताः || ५२ ||

वायसा हंसकारण्डाश्येन गन्धाश्च यूषकाः |
कृकला सर्वगौरादि गोधाश्चैव तु कोकिलाः || ५३ ||

अङ्गजा खगजारण्या पक्षिणश्चापि सर्वशः |
कृमिः कुन्दः पिपीलिका यूकामत्कुणमक्षिकाः || ५४ ||

क्षुद्रदंशाश्च मशकाः सरीसृपाश्च स्वेदजाः |
वृक्षावल्यश्च गुल्माश्च तृणसंघाश्च चोद्भिजाः || ५५ ||

एतानि सर्वभूतानि सकलं परिपठ्यते |
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || ५६ ||

केचिच्छंसन्ति वै वत्स सकलं परिपठ्यते |
श्रुतिस्मृतिविधानं तु करपादादिरूपकम् || ५७ ||

तद्वै सकलमित्याहुः वेदिकाश्च मनीषिणः |
ब्रह्मादि स्तम्भपर्यन्तं सर्वभूत हृदि स्थितम् || ५८ ||

सकलं सर्वदेहस्थं शिवतत्त्वं प्रकीर्तितम् |
केचित्सिद्धान्तिका ऊचुः प्राप्तिरेकं शिवः स्मृतम् || ५९ ||

  • * * तदुत्पत्तिस्तदात्मकं सर्वमेव हि |

मदभिप्रायमेवं हि ओतं प्रोतं च सर्वतः || ६० ||

सकलं तद्विजानीयादिति सत्यं षडानन |
त्वया निष्क्रमते देही देह * * * * * तः || ६१ ||

अतश्चोर्धं च तिर्यक् च वक्तव्या पञ्च ते जगत् |
निष्कलं तं विजानीयाः षड्वर्णरहितः शिवः || ६२ ||

निश्वासो श्वासनं हुत्वा स्वयं देहन्तु * * * |
ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं निरामयम् || ६३ ||

ख शून्यं बिन्दुशून्यं च नादशक्तिं च शून्यकम् |
सर्वशून्यं निरालम्बं अन्धकारमिवस्थितम् || ६४ ||

शून्यं तं तु विजानीयात् शिवतत्त्वमुदाहृतम् |
शब्दस्पर्शरूपं च रसो गन्धश्च शून्यकम् || ६५ ||

अहंकारं मनः शून्यं महानपि सुशून्यकम् |
सत्त्वं रजस्तमः शून्यः नादबिन्दुकलामयम् || ६६ ||

कलास्यन्तं विजानीयाच्छिवतत्त्वमुदाहृतम् |
भूताकाशं चिदाकाशं हीनन्तत्त्वस्थ संहितम् || ६७ ||

खमलंकृतं विजानीयाच्छिवतत्त्वं प्रकीर्तितम् |
शक्त्याकाशमनाकाशं बिन्द्वाकाश * * * * || ६८ ||

क्षपणं तं विजानीयाच्छिव तत्त्वं प्रकीर्तितम् |
रुद्रस्सदाशिवाकाशं हीनावै तं तुरीयकम् || ६९ ||

क्षयान्तस्थं विजानीयाच्छिवतत्त्वं प्रकीर्तितम् |
शिवाकाशविनिर्मुक्तं गहनं मूलनाशनम् || ७० ||

कण्ठोष्ठं तं विजानीयाच्छिवतत्त्वं प्रकीर्तितम् |
शिवकूटे चाष्टतत्त्वं हि तव स्नेहात्प्रकाशितम् || ७१ ||

परिवारान् प्रवक्ष्यामि सर्वसिद्धिकरान् परान् |
हसलक्षं न्यसेत्प्रथमे हासालाक्षं न्यसेत्ततः || ७२ ||

हिसि * * न्यसेत्तदनु ही सी ली न्यसेत्ततः |
हु सु लु क्षु न्यसेत्पक्षात् हूसूलूक्षू न्यसेत्ततः || ७३ ||

हृ सृ ऌ क्षृ न्यसेद्वत्स हॄ सृ ॡ क्षॄ न्यसेत्पुनः |
हॢ सॢ लॢ क्षॢ पुनर्न्यसेत् ह्ॡ स्ॡ ल्ॡ क्ष्ॡ ततो न्यसेत् || ७४ ||

पश्चात् है सै लै क्षै ततो न्यसेत् |
हो सो लो क्षो न्यसेत् तदनु हौ सौ लौ क्षौ पुनन्यसेत् || ७५ ||

हं सं लं क्षं न्यसेत्पश्चात् हः सः लः क्षः ततो न्यसेत् |
एवं वै सर्वबीजानां द्वात्रिंशद्दलके न्यसेत् || ७६ ||

न्यस्त्वा तु विधिवत्सम्यक् सर्वं समरसी भवेत् |
समरसीभावयोगेन मृत्युंजित्वा न संशयः || ७७ ||

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः |
यत्र तत्र स्थितो वत्स अभ्यसेच्छिवमादरात् || ७८ ||

समरसीभावयोगेन सर्वसंपुटमेव च |
शुद्धो वापि अशुद्धो वा स्नातो वाऽस्नात एव वा || ७९ ||

क्षेत्रे वा विग्रहे वापि सभायां देववेश्मनि |
आसीने गमने वापि अभुक्ते वापि भुक्तके || ८० ||

पश्यञ्च्छृण्वन् स्पृशञ्जिघ्रमनुदानं तु लेह्यकान् |
शोष्यन् नृत्यन् क्रीडन् हि स्वपन्सन्निमिषोन्मिषन् || ८१ ||

तावत्स्थागतो वापि * * * * * * * * * |
शाश्वते शिवकूटं हि चिन्तयेत्समरसीबुधः || ८२ ||

तस्य मृत्युर्न विद्येते कृशान्तः कालयमेन च |

इति कालोत्तरे वज्रकवाटलक्षणे शाश्वतस्थान शिवकूट * * * * एकोनषष्टितमः ||

Schlussabschnitt S67 – Schlussfragment

|| श्रीः ||
ईश्वर उवाच-
लभ्यते शाश्वतं ज्ञानं गुरुप्रसादेन षण्मुख |
यमं नियमं चासनं प्राणायामन्त * * * || १ ||

प्रत्याहारो धारणा च समाधिर्ध्यानमेव च |
गुरुप्रसादेन लभते दिव्यं योगं षडानन || २ ||

सत्यं यज्ञं तपोदानं नित्यमिन्द्रियनिग्रहम् |
गुरुप्रसादाल्लभते राज्यं चैव षडानन || ३ ||

आकाशगमनं चैव परकायप्रवेशनम् |
मनोजवत्वं तु ज्ञानं गुरुप्रसादेन लभ्यते || ४ ||

अणिमा लघिमा चैव महिमा गरिमा तथा |
प्राप्तिः का प्राकाम्यमीशत्वं वशित्वं चाष्टसिद्धयः || ५ ||

गुरुप्रसादेन लभते सर्वमृत्युञ्जयानपि |
धर्ममर्थं च कामं च मोक्षं चैव षडानन || ६ ||

गुरुप्रसादेन लभ्यते श्रद्धाभक्तियुतश्च हि |
देवत्वं ब्रह्मविष्णुत्वं रुद्रत्वं च षडानन || ७ ||

साक्षात्सदाशिवत्वं च गुरुप्रसादेन लभ्यते |
गुरुर्माता पिता भार्या गुरुः पुत्रः पिता सखा || ८ ||

गुरु * * * * * * * * * * * * * * |

  • * * जाधनभूमि * * * * * * * मथापि वा || ९ ||

ओमिके स्वास्थिता भक्तिस्त व्यक्तुं प्रग् * * * * |
प्रमादाच्छिवलोपं स्याद्गुरुलोपं न कारयेत् || १० ||

गुरुलोपात्तुरक * यावदाभूतसंप्लवम् |
शिवलोपे निष्कृतिः स्याद्गुरुलोपेन निष्कृतिः || ११ ||

शिवलोपं सत्यलोपं च महापातकपञ्चसु |
पितृहा मातृहा चैव ब्रूणहा मातृहापि च || १२ ||

प्रायश्चित्तं तु विहितं * * * सर्वपण्डितैः |
गुरुलोपी कृतघ्नश्च प्रायश्चित्तन्न विद्यते || १३ ||

तस्मात्सर्व प्रयत्नेन गुरुद्रव्यं न लोपयेत् |
लङ्घनं भक्षणं लोपं वञ्चनं च न कारयेत् || १४ ||

ज्ञानार्चनवदं दीपं नृत्तगीतोत्सवादिषु |
तद्भोजनं समस्तं हि विष्ठामेव तु भोजनम् || १५ ||

सद्यः पतति सेनानिः नरकन्नैव गच्छति |
तस्मात्सर्वप्रयत्नेन गुरुभोज्यं सदाश्नुते || १६ ||

गुरोस्तुशेषममृतं शास्त्रज्ञैः समुदीरितम् |
परोक्षे निवेद्य भुञ्जीयाच्चतुरा ग्रामसंस्थिता || १७ ||

तैः पूर्वं गुरोर्नमस्कृत्वा पश्चादेवं हि वन्दयेत् |
देवालयो गुरुर्यत्र तिष्ठते वै षडानन || १८ ||

पूर्वं गुरुं वन्दयित्वा पश्चाद्देवं वन्दयेत् |
देवदिव्यगुरोर्दिव्यं दिव्यं चण्डेश्वरस्य च || १९ ||

त्रिविधं पतनं दुष्टं दानलङ्घनभक्षणम् |
न निन्द्यात्कारणं देवं न शास्त्रं तेन भाषितम् || २० ||

न गुरुं साधकं चैव समयं च न लङ्घयेत् |
न लङ्घयेत निर्माल्यं स्फुतिष्ठेन्न तु नग्न?गः || २१ ||

नोदत्याया हि भाषेत न च नग्नस्स्वपेन्नरः |
ना कार्यं न खलै भूमिं न चिरं पर्वते वसेत् || २२ ||

(ईन्चोम्प्लेते यावन्मातृकं लिखितम् |)

Quellennachweis

Muktabodha Indological Research Institute: kālottara / kālottarāgama, Katalog M00248, Revision 0 vom 5. Februar 2012. Laut Dateikopf nach IFP/EFEO-Transkript T0059, seinerseits nach GOML Madras R 14343. Dateneingabe unter Leitung von Mark S. G. Dyczkowski. Lizenzangabe der Quelle: CC BY-NC 4.0. Die deutsche Übersetzung und die redaktionellen Texte sind Neubearbeitungen auf dieser Grundlage.

Der Text bewahrt die Devanagari-Schreibungen einschließlich der im Hauptartikel erläuterten Umschriftabweichungen. Technische Seitenmarken wurden weggelassen. Die Quellennummerierung wurde nicht berichtigt.