Shankaracharyas Dashashloki
Aus Yogawiki
- na bhūmirna toyaṃ na tejo na vāyuḥ
- na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ |
- anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||
- na varṇā na varṇāśramācāradharmā
- na me dhāraṇādhyānayogādayo'pi |
- anātmāśrayāhaṃmamādhyāsahānāt
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
- na mātā pitā vā na devā na lokā
- na vedā na yajñā na tīrthaṃ bruvanti |
- suṣuptau nirastātiśūnyātmakatvāt
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
- na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
- na jainaṃ na mīmāṃsakādermataṃ vā |
- viśiṣṭānubhūtyā viśuddhātmakatvāt
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||
- na cordhvaṃ na cādho na cāntarna bāhyaṃ
- na madhyaṃ na tiryaṅ na pūrvā'parā dik |
- viyadvyāpakatvādakhaṇḍaikarūpaḥ
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 5||
- na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
- na kubjaṃ na pīnaṃ na hrasvaṃ na dīrgham |
- arūpaṃ tathā jyotirākārakatvāt
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 6||
- na śāstā na śāstraṃ na śiṣyo na śikṣā
- na ca tvaṃ na cāhaṃ na cāyaṃ prapañcaḥ |
- svarūpāvabodho vikalpāsahiṣṇuḥ
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 7||
- na jāgran na me svapnako vā suṣuptiḥ
- na viśvo na vā taijasaḥ prājñako vā |
- avidyātmakatvāt trayāṇāṃ turīyaḥ
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 8||
- api vyāpakatvāt hitattvaprayogāt (vyāpakatvāddhitattva)
- svataḥ siddhabhāvādananyāśrayatvāt |
- jagat tucchametat samastaṃ tadanyat
- tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 9||
- न भूमिर्न तोयं न तेजो न वायुः
- न खं नेन्द्रियं वा न तेषां समूहः ।
- अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः (अनैकान्तिकत्वात्)
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
- न वर्णा न वर्णाश्रमाचारधर्मा
- न मे धारणाध्यानयोगादयोऽपि ।
- अनात्माश्रयाहंममाध्यासहानात्
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
- न माता पिता वा न देवा न लोका
- न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
- सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
- न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
- न जैनं न मीमांसकादेर्मतं वा ।
- विशिष्टानुभूत्या विशुद्धात्मकत्वात्
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
- न शुक्लं न कृष्णं न रक्तं न पीतं
- न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
- अरूपं तथा ज्योतिराकारकत्वात्
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥
- न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
- न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् ।
- वियद्व्यापकत्वादखण्डैकरूपः
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥
- न शास्ता न शास्त्रं न शिष्यो न शिक्षा
- न च त्वं न चाहं न चायं प्रपञ्चः ।
- स्वरूपावबोधो विकल्पासहिष्णुः
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥
- न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
- न विश्वो न वा तैजसः प्राज्ञको वा ।
- अविद्यात्मकत्वात् त्रयाणां तुरीयः
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥
- अपि व्यापकत्वात् हितत्त्वप्रयोगात् (व्यापकत्वाद्धितत्त्व)
- स्वतः सिद्धभावादनन्याश्रयत्वात् ।
- जगत् तुच्छमेतत् समस्तं तदन्यत्
- तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥