Kamika Agama Sanskrit Devanagari Teil 2

Aus Yogawiki
Version vom 16. September 2026, 05:16 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Kamika Agama Sanskrit Devanagari Teil 2''' enthält den '''Uttarapāda''', den zweiten Werkteil des Kamika Agama, in Devanagari. Er setzt den unter Kamika Agama Sanskrit Devanagari zugänglichen Pūrvapāda fort und vertieft die vielfältigen Formen der Shiva-Verehrung im Shaiva Siddhanta. Seine 81 Kapitel erschließen feierliche Bäder, Tempelfeste, jahreszeitliche Gaben und die verschiedenen Formen der Einweihung. Sie…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Kamika Agama Sanskrit Devanagari Teil 2 enthält den Uttarapāda, den zweiten Werkteil des Kamika Agama, in Devanagari. Er setzt den unter Kamika Agama Sanskrit Devanagari zugänglichen Pūrvapāda fort und vertieft die vielfältigen Formen der Shiva-Verehrung im Shaiva Siddhanta.

Seine 81 Kapitel erschließen feierliche Bäder, Tempelfeste, jahreszeitliche Gaben und die verschiedenen Formen der Einweihung. Sie behandeln die Wiederherstellung heiliger Orte ebenso wie die Bildgestalten Shivas, der Göttin und weiterer Gottheiten. Shiva begegnet als Tänzer, Lehrer und Gnadengeber; die Beziehung zwischen Guru, Schüler und göttlicher Gnade führt zur Frage nach Erkenntnis und Befreiung.

Besondere Bedeutung hat die Verbindung von sorgfältiger Ritualpraxis und innerer Hingabe. Die Gebete bitten um die Vollendung unvollkommener Handlungen. Die Lehre soll verständlich weitergegeben werden und Menschen auch in ihren regionalen Sprachen erreichen. So verbindet das Kamika Agama die Bewahrung der Überlieferung mit lebendiger spiritueller Vermittlung.

Der Sanskrittext lädt zum zusammenhängenden Lesen und zum vertiefenden Studium ausgewählter Passagen ein. Die deutsche Übersetzung und die Einführung stehen unter Kamika Agama, die lateinische Umschrift unter Kamika Agama Sanskrit IAST. Orientierung bieten die Kamika Agama Kapitelübersicht und die Auswahl Kamika Agama 108 Verse und Mantras.

Pūrvapāda – Kapitel 1–75 · Uttarapāda – Kapitel 1–81

Uttarapāda – Kapitel 1: Verehrung bei westlichem Zugang

पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा।
मिश्रे च गृहिणं योग्यं परार्थ यजनार्थकम् ॥ १ ॥

राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्ति फलप्रदम्।
प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ॥ २ ॥

सूर्यश्चेत्यादिभिर्मन्त्रैः सन्ध्यासु तिसृषूदकम्।
पीत्वा संमार्जयेत्तद्वद् दधिग्राव्णेति चादिभिः ॥ ३ ॥

ओं भूर्भुवस्स्वादि मन्त्रेण वारत्रयं अथाञ्जलिम्।
पुनस्तेनैव मन्त्रेण दशवारं जपं नयेत् ॥ ४ ॥

एतत्प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये।
शृतिस्मृत्यादि संसिद्धं अनुष्ठानं तु यद्भवेत् ॥ ५ ॥

आवश्यके तु शौचे वा स्नानेत्वाचमनेपि वा।
सन्ध्याया वन्दनेवापि तर्पणे होमकर्मणि ॥ ६ ॥

ग्रहबल्यादिकेचान्यत् द्विजानां विहितं तु यत्।
कर्तव्यं वा नकर्तव्यं शैवं आवश्यकं मतम् ॥ ७ ॥

स्वशास्त्र सन्ध्या मन्त्रादि तर्पणं च विधाय च।
व्रजेद्देवालयाद्यन्तु पाद शौचं विधाय च ॥ ८ ॥

समाचम्य प्रविश्यान्त स्वासनस्थ उदङ्मुखः।
त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ॥ ९ ॥

करन्यासं ततः कृत्वा सुषिरं देहमध्यमे।
ध्यात्वा ज्वलन्तं हुङ्कारं प्राणान् सम्यम्य निश्चलम् ॥ १० ॥

फट्कारान्तं तु तेनैव रेचकेन समन्वितम्।
पञ्चग्रन्तिंस्ततो भित्वा तस्मात् प्रतिनिवृत्य च ॥ ११ ॥

मूर्तिमन्त्रेण संग्रह्य जीवं हुङ्कार मूर्धनि।
कुंभकेन समोपेतं वायुं ऊर्ध्वगतं नयेत् ॥ १२ ॥

तेनैव द्वादशान्तस्थ शिवेन सह योजयेत्।
आत्मयोजनं ह्येतत्स्यात् ततो भूतादि शोधयेत् ॥ १३ ॥

निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम्।
व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ॥ १४ ॥

दहनं वाथ भूतानां परस्पर विशोधनम्।
मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ॥ १५ ॥

शोध्योपराग रहितं कलामात्र व्यवस्थितम्।
विचिन्त्य दिव्यदेहार्थं अमृतप्लावनं नयेत् ॥ १६ ॥

ध्यात्वा कुण्डलिनीं शक्तिं अमृतैकस्वरूपिणीम्।
तदुद्भूतामृतस्रावैः सिक्तां दिव्यां कलां स्मरेत् ॥ १७ ॥

ध्यात्वा हृद्यासनं तस्मिन् मूर्त्त्यात्मानं समानयेत्।
पुनराप्लावनं कृत्वा करन्यासं समारभेत् ॥ १८ ॥

हस्तपृष्ठतलेस्त्रेण शोधयेच्चन्दनान्विते।
तयोर्ब्रह्माणि विन्यस्य नेत्रं करतलं न्यसेत् ॥ १९ ॥

शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत्।
कवचेनावकुण्ठ्याथ सर्वकर्मसु योजयेत् ॥ २० ॥

करन्यासस्समाख्यातो अङ्गन्यासञ्च कथ्यते।
मूर्धादि पादपर्यन्तं अङ्गब्रह्माणि विन्यसेत् ॥ २१ ॥

मूलब्रह्माणि वाविद्वान् अष्टत्रिंशत्कलान्न्यसेत्।
शिवं हृदि यथास्थानं हृदयाद्यं निवेशयेत् ॥ २२ ॥

नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत्।
महामुद्रां ततः कृत्वा शिवमन्तमनुस्मरन् ॥ २३ ॥

अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत्।
लिपिन्यासं ततःकुर्यात् रुद्रशक्ति समन्वितम् ॥ २४ ॥

श्रीकण्ठादि समोपेतं अक्षरन्यासं एव वा।
केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ॥ २५ ॥

एवं शैवतनुं कृत्वा ततोन्तर्यजनं न्यसेत्।
पूजाहोमस्समाधिस्स्यात् हृदि नाभौ ललाटके ॥ २६ ॥

आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततःपरम्।
हस्तास्फालन दिग्बन्धा अवकुण्ठैश्च सम्मता ॥ २७ ॥

पात्रत्रयं समादाय यन्त्रिकाकर संस्थितम्।
पाद्यादित्रितयं तेषु कल्पयेद्विधिना मुना ॥ २८ ॥

चन्दनोशीर सिद्धार्थ दूर्वा काश्मीर तोययुक्।
उत्तमं पाद्यं उद्दिष्टं मद्ध्यमङ्गत कुंकुमम् ॥ २९ ॥

चन्दनोशीर युक्तांबः पाद्यं कन्यसं उच्यते।
वरालोशीर कर्पूर तुटि जाति लवङ्गयुक् ॥ ३० ॥

मुरेणैव समायुक्तं श्रेष्टमाचमनीयकम्।
एला लवङ्ग कर्पूर मुर जाति युतं समम्।
एलालवङ्ग कर्पूर जलैस्सार्धं तु कन्यसम् ॥ ३१ ॥

आपक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम्।
शालि सिद्धार्थयुक् श्रेष्ठं यवासर्षप शालियुक् ॥ ३२ ॥

तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम्।
अर्घ्यं कन्यसं उद्दिष्टं अन्यथा च निगद्यते ॥ ३३ ॥

सिद्धार्थ चन्दनिशीर दूर्वायुक् पाद्यमेव च।
एला लवङ्ग कर्पूर वराल फल संयुतम् ॥ ३४ ॥

एतदाचमनीयं वा यजेत यजनाङ्गके।
कथितञ्चात्र वा ग्राह्यं अत्रोक्तं तत्र वा भवेत् ॥ ३५ ॥

यव सर्षप सद्व्रीहि तण्डुलैरक्षतं भवेत्।
व्रीहि तण्डुल संयुक्तं अक्षतं तत्प्रकीर्तितम् ॥ ३६ ॥

पञ्चाङ्गं अथवा त्र्यङ्गं केवलं चार्घ्यमेव वा।
कल्पयेद् हृदयेनैव किञ्चार्घ्य सहिता मनुः ॥ ३७ ॥

द्रव्याण्यस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठयेत्।
हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया ॥ ३८ ॥

तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत्।
द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् ॥ ३९ ॥

मन्त्रमुच्चरयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम्।
सामान्यार्घ्यं च संगृह्य द्वाराग्रे वृषभं यजेत् ॥ ४० ॥

गणपं भारतीं ऊर्ध्वे नन्दिनं जाह्नवी युतम्।
महाकालेन यमुनां सव्ये सव्ये समर्चयेत् ॥ ४१ ॥

विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत्।
प्रविश्य सव्यपादेन देहल्यां अस्त्रमर्चयेत् ॥ ४२ ॥

वास्तोष्पतिं ततश्चेष्ट्वा पुजां पर्यूषितां यजेत्।
अपनीय तां लिङ्गाच्चण्डेशाय निवेदयेत् ॥ ४३ ॥

पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः।
लिङ्गशुद्धिरियं ख्याता शुद्धयः पञ्च चोदिताः ॥ ४४ ॥

संपूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत्।
विशुद्ध्यासन संस्कारोपचार स्कन्दसंयुतम् ॥ ४५ ॥

यजनं देवदेवस्य सर्वकामार्थ साधनम्।
विशुद्धिः कथिता पूर्वं आसनञ्चाधुनोच्यते ॥ ४६ ॥

गणेशं च गुरुं शक्तिं अनन्तं धर्मसम्मुखान्।
अधर्मप्रमुकानन्तेच्छदने पद्मकर्णिके ॥ ४७ ॥

वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत्।
शिवासनं तदन्ते च यजेत् स्वस्वमनुं स्मरन् ॥ ४८ ॥

पञ्चासनात्मकं ह्येतत् एकासनं उदीरितम्।
अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् ॥ ४९ ॥

धर्माधर्मादिभिर्वर्गैः छदनाभ्यां समन्वितैः।
सिंहासनं इदं प्रोक्तं योगं मायाब्जं उच्यते ॥ ५० ॥

पद्मं वैद्येश्वरं पद्ममण्डलं विमलासनं।
स्नानावाहन कालादौ पृथक् एकान् प्रकल्पयेत् ॥ ५१ ॥

सङ्कल्पासनं एवं तु मूर्तिं तदुपरि न्यसेत्।
तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् ॥ ५२ ॥

लिपिन्यासं तु वा कुर्यात् श्रीकण्ठादि युतं तु वा।
अष्टत्रिंशत्कलोपेत पञ्चब्रह्माणि विन्यसेत् ॥ ५३ ॥

विद्यादेहं ततो न्यस्त्वा शिवं आवाहयेत् ततः।
स्थापनं सन्निधानं च सन्निरोधं समाचरेत् ॥ ५४ ॥

स्वस्वस्थाने हृदादीनि विन्यसेदानुपूर्वकम्।
शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् ॥ ५५ ॥

प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः।
पाद्यञ्चाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् ॥ ५६ ॥

संस्कार दश विख्याता उपचारैस्शिवं यजेत्।
गन्धं तु चन्दनाद्यं स्यात् दृष्टिमानेन वा नयेत् ॥ ५७ ॥

नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत्।
लघु चन्दन निर्यास प्रमुखैः धूपं उच्यते ॥ ५८ ॥

तैलाज्य कल्पितान् दीपान् कर्तुर्वाञ्चावशं नयेत्।
अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् ॥ ५९ ॥

आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम्।
भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् ॥ ६० ॥

तस्मिन् मङ्गल गानैश्च सर्वातोद्य समन्वितैः।
नानानृत्त समायुक्तैः तोषयेद् वृषभध्वजम् ॥ ६१ ॥

आरात्रिकं ततो दद्यात् धूपदानावसानके।
भस्मना गन्धमिश्रेण त्वङ्गुष्ठानामिकाग्रतः ॥ ६२ ॥

भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे।
दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् ॥ ६३ ॥

रात्रौ नीराजनं कुर्यात् दीपदानावसानके।
महाहविर्निवेद्यान्ते बलिं होमं समाचरेत् ॥ ६४ ॥

आमन्त्रण हविःकाले बलिं वा होममाचरेत्।
उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् ॥ ६५ ॥

स्नापने मन्त्रगेयं वा वीणागानं अथापि वा।
वेदाद्ध्ययनं अन्यद्वा स्तोत्रपाठादिकं च यत् ॥ ६६ ॥

तदूर्ध्वे गौडभाषाद्यैः गानं धूपान्तं आचरेत्।
ऊर्ध्वं द्रामिड भाषाद्यं गाननृत्तयुतं तु वा ॥ ६७ ॥

संस्कृतं तदपभ्रंशं नानास्वर समन्वितम्।
यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् ॥ ६८ ॥

नानादेश प्रसूतं च नर्तनं परिकल्पयेत्।
विशेषादुत्सवादौ च गान्धर्वैः बहुभिर्युतम् ॥ ६९ ॥

नित्योत्सवं ततः कुर्यात् नानास्त्रीभिस्समन्वितम्।
रूपयौवन संपन्ना योषितः कर्तृ वाञ्चया ॥ ७० ॥

ममदास्यस्समाख्याता रुद्रकन्या भवन्ति चेत्।
तासां संख्या भवेद्ग्राम विन्यास जनसंख्यया ॥ ७१ ॥

उत्सवस्स्यात्तदन्तेषु नित्योत्सव विधानतः।
वादका नृत्त संख्यातान् कल्पयेत् कल्पवित्तमः ॥ ७२ ॥

तदन्ते शुद्धनृत्तं स्यात् तदन्ते चुलुकोदकम्।
विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् ॥ ७३ ॥

साधकेन च सिद्ध्यर्थं पूजां आहृत्य लिङ्गतः।
लिङ्गं संशोध्य भूयोपि गन्धाद्यैः अर्चयेच्छिवम् ॥ ७४ ॥

नैतत् प्रतिदिनं कुर्यात् किन्तु साध्यावसानकम्।
उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् ॥ ७५ ॥

केवलैश्शुद्धशैवोत्थैः मन्त्रैः उत्तमं उच्यते।
मध्यमं शैववेदोत्थैः अधमं वैदिकैर्मतम् ॥ ७६ ॥

नित्य नैमित्तिकेप्येतत् विधानं परिकीर्तितम्।
शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये ॥ ७७ ॥

तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठ उच्यते।
प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः ॥ ७८ ॥

बीजमन्त्र समुद्भूता रुद्राध्यायादयोपि च।
तदर्थं बीजतत्स्थाने विनियोगं नियोजयेत् ॥ ७९ ॥

बीजाणु सदृशो नास्ति ममप्रीतिकरः परः।
एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके ॥ ८० ॥

कौबेरास्य लिङ्गे च सकले मिश्र लिङ्गके।
विशेषः पश्चिमद्वारे श्रूयतां पण्डितेश्वराः ॥ ८१ ॥

प्राग्वदन्यत् समुद्दिष्टं विशेषः कश्चिदिष्यते।
द्वारस्याभिमुखं चोर्ध्ववक्त्रं देवं प्रकल्पयेत् ॥ ८२ ॥

वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी।
देववन्मुखसंयुक्ता द्विहस्तैक मुखान्विता ॥ ८३ ॥

ईशानं ईशदेशे वा निऋतौ वा समर्चयेत्।
पुरुषं पूर्वदेशे वा पश्चिमेवाथ चिन्तयेत् ॥ ८४ ॥

दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत्।
उत्तरे दक्षिणे वापि वामदेवं स्मरेद् गुरुः ॥ ८५ ॥

पूर्वस्यां पश्चिमस्यां वा सद्यवक्त्रं स्मरन् न्यसेत् ॥ ८६ ॥

हृदयं वह्निदिग्भागे वायव्यां वा प्रकल्पयेत्।
शिरश्चैशे नैऋत्यां शिखां पितरि वैशके ॥ ८७ ॥

कवचं वायुदिग्भागे आग्नेय्यां वा प्रकल्पयेत्।
पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत्॥
पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् ॥ ८८ ॥

गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत्।
लोकेशाः प्राग्वदेवास्युः अस्त्राद्याश्च तथा मताः ॥ ८९ ॥

देवाग्रे वृषभं शूलं ध्वजस्थानं च गोपुरम्।
परिवारार्चनं पूर्वदेशादारभ्य कारयेत् ॥ ९० ॥

वारुणादि निऋत्यन्तं परिवारार्चनं तु वा।
नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा ॥ ९१ ॥

चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः।
अन्यत्सर्वं समानं स्यात् पूर्व द्वारार्चनेनतु ॥ ९२ ॥

Uttarapāda – Kapitel 2: Verehrung bei südlichem Zugang

वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्राकारास्तु सा स्मृताः।
लिङ्गे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ॥ १ ॥

प्रतिमा दक्षिणस्याचेत् उत्तमोत्तम संज्ञका।
मिश्रे तु मध्यमा प्रोक्ता लिङ्गेर्च्चात्वधमा मता ॥ २ ॥

प्रतिमायान्तु मध्यैव दक्षिणास्य यजनं द्विजाः।
नृत्तमूर्तेर्विशेषेण त्वतिशोभनं इष्यते ॥ ३ ॥

श्रेष्ठं पश्चां मुखलिङ्गं दक्षास्यं बेरमुच्यते।
अव्यक्तं मोक्षदं लिङ्गं व्यक्तं भूतिप्रदायकम् ॥ ४ ॥

भुक्तिमुक्तिप्रदं मिश्रं एवं ज्ञात्वा समाचरेत्।
शौचमाचमनं स्नानं सन्ध्योपासनं एव च ॥ ५ ॥

कृत्वा शिवार्घ्यहस्तस्तु दक्षिणद्वारं आश्रयेत्।
द्वारं अस्त्रेण संप्रोक्ष्य द्वारपान् अर्चयेत्क्रमात् ॥ ६ ॥

गणपं भारतीं ऊर्ध्वे सव्ये गङ्गाञ्च नन्दिनम्।
यमुनाञ्च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ॥ ७ ॥

संप्रविश्यान्तरे वास्तुपतिं संपूज्य पूजकः।
पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ॥ ८ ॥

लिङ्गार्चनञ्चेत् प्राग्वत्स्यात् ईशानं तु स्वगोचरे।
अघोरं पुरुषं वापि दक्षिणे संयगर्चयेत् ॥ ९ ॥

अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत्।
सद्यवक्त्रं तु वामं वा सौम्यदेशे समर्चयेत् ॥ १० ॥

पुरुषं वाथ वामं वा पूर्वस्मिन् संप्रयोजयेत्।
ईशानं अग्निदेशे तु न्यसेत् पूर्वे मनोन्मनीम् ॥ ११ ॥

पितृवाय्वग्नि ईशेषु हृदयादि व्यवस्थितम्।
अथवा प्राग्वदेवस्याद् विद्येशा दक्षिणादितः ॥ १२ ॥

गणेशाः पूर्वदेशे वा प्राग्वद्वा संप्रकीर्तिताः।
पूर्वादारभ्य शक्राद्या वज्राद्याश्च तथा मताः ॥ १३ ॥

उक्षं दक्षिण संस्थञ्च बलिपीठं ध्वजादिकम्।
प्राग्वदेव विधेयं स्याद् अन्यत्सर्वं समाहिताः ॥ १४ ॥

लिङ्गार्चनं चेदेवं स्यात् अथ बेरार्चनं तु वा।
तदुच्यते समासेन श्रूयतां मुनिपुङ्गवाः ॥ १५ ॥

लोहजं शैलजं वापि मृज्जं धातु रत्नजे।
चित्रहीने शिलाबिम्बे मूललिङ्गवदाचरेत् ॥ १६ ॥

रत्नजे लोहजे पक्वमृण्मये बेरशोधनम्।
अभीष्टदिवसे कुर्याद्यावद्बेरं सधूसरम् ॥ १७ ॥

वस्त्रसम्मार्जनं पुण्यदिवसे स्नपनं मतम्।
कर्मर्चायां अथान्येषां मणिलिङ्गेऽथ पीठके ॥ १८ ॥

अथवा बाणलिङ्गे वा दर्पणादौ समर्चयेत्।
आधाराख्यं अनन्तं च धर्माद्यं हि चतुष्टयम् ॥ १९ ॥

गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके।
वामादि नवकं सूर्य मण्डलाद्यं च साधिपम् ॥ २० ॥

संपूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनौ स्मरेत्।
ईशानं सकलं मूर्ध्नि पुरुषं वदने स्मरेत् ॥ २१ ॥

अथापरं समानं स्याच्छिवलिङ्गार्चनेन तु।
कलान्यासः समाख्यातः प्रतिमानां विशेषतः ॥ २२ ॥

प्रतिमा लक्षणं प्रोक्तं ध्यानमत्रोपलक्ष्यताम्।
हृद्बीजात् पञ्चमे वर्णे षष्ठं बीजं नियोजयेत् ॥ २३ ॥

मात्रात्रय समायुक्तं मूर्ध्निबिन्दुं नियोजयेत्।
मन्त्रमेतत् समुच्चार्य भावयेत् प्रतिमां हृदि ॥ २४ ॥

न्यासामार्गेण संस्थाप्य सन्निधान निरोधने।
विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ॥ २५ ॥

सिद्धार्थ चन्दनोशीर दूर्वा संकल्पितं द्विजाः।
एला लवङ्ग कर्पूर वराल फल कल्पितम् ॥ २६ ॥

दद्यादाचमनीयन्तु वक्त्रे तत्पुरुषाह्वये।
क्षीरं सिद्धार्थ सस्येन्द्र तिल शाल्यक्षतान्वितम् ॥ २७ ॥

कुश पुष्प समोपेतं दद्यादर्घ्यं तु मूर्धनि।
यव सर्षप सद्व्रीहि तण्डुलैरर्घ्यकं भवेत् ॥ २८ ॥

व्रीहि तण्डुल संयुक्तं अच्युतं तत्प्रकीर्तितम्।
पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेपि च ॥ २९ ॥

सम्मिश्रेपि विधेयं स्यादर्चने स्नपने मखे।
पवित्रारोहणादौ च प्रोक्तं वाथ समाचरेत् ॥ ३० ॥

सर्वद्रव्य समायुक्तं श्रेष्ठं इत्यभिधीयते।
एकहीनं तु मध्यमं स्यात् द्वाभ्यां हीनं तु कन्यसम् ॥ ३१ ॥

त्रिभिर्हीनं तु नीचं स्यात् सर्वद्वारेषु योग्यकम्।
गन्धं पुष्पं च धूपं च दीपं नैवेद्यं एव च ॥ ३२ ॥

तांबूलं मूलमन्त्रेण दद्यात्तु परमेश्वरे।
बलि होमोत्सवं नृत्तं यथा कालं समाचरेत् ॥ ३३ ॥

सन्ध्या तिथ्यर्ध नाडी स्नपन यजन नैवेद्य बल्यग्निकार्यं
नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्त क्रमेण।
नाडीनामक्षिपक्षैः दरदरदलितैः व्योम चन्द्रैः यथावन्
न्यूनेस्मिन्नर्चनाङ्गैस्समरशरमुनिस् संख्यार्ध नाड्योथवास्युः ॥ ३४ ॥

उत्तमोत्तम पूजाचेत् कालो यामद्वयेन तु।
मध्यमे दशनाडी स्यात् याममात्रेण कन्यसम् ॥ ३५ ॥

अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत्।
कर्षणादि प्रतिष्ठान्तं कर्म सम्वत्सरोत्सवम् ॥ ३६ ॥

पवित्रारोहणं मासार्चनं अंकुर पावनम्।
नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ॥ ३७ ॥

समालोच्य विधेयं स्यात् सकले निष्कले शिवे।
अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ॥ ३८ ॥

सौम्यवक्त्रेश पूजाद्यं कारयेद् देशिकोत्तमः।
अन्तरालं तु पूर्वस्यां दिशिव्यक्ते विशिष्यते ॥ ३९ ॥

किमत्र बहुनोक्तेन यथा यस्याङ्ग संमुखम्।
तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ॥ ४० ॥

तद्वशादपराः कल्प्या दिशो दिग्वेदिभिस्सदा ॥ ४१ ॥

Uttarapāda – Kapitel 3: Die Verehrung der bildhaften Gestalt

वक्ष्येहं सकलार्चां तु सर्वाभीष्ट फलप्रदाम्।
शौचमाचमनं स्नानं सन्ध्यावन्दन तर्पणम् ॥ १ ॥

कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च।
सम्यगाचम्य संग्रह्यभसितं वारिणा सह ॥ २ ॥

त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च।
तत्करेण च संयोज्य शिवेह्यात्मानं आदरात् ॥ ३ ॥

भूतशुद्धिं सुधाप्लावं आत्मावाहनं एव च।
करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ॥ ४ ॥

स्वविग्रहे कलान्यासं ईशानं मूर्ध्नि विन्यसेत्।
पुरुषं वदने सर्वं मालामन्त्रमनुस्मरन् ॥ ५ ॥

अन्यत्पूर्व समानं स्याद् एकत्रिंशत्कलां न्यसेत्।
अन्तर्यागं अतःकृत्वा स्थानशुद्धिं ततो नयेत् ॥ ६ ॥

विशेषार्घ्यंच संकल्प्य गन्ध पुष्पाक्षतैर्युतम्।
ईक्षणाद्यैश्चतुर्भिस्तु द्रव्यशुद्धिं तु पूर्ववत् ॥ ७ ॥

कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत्।
द्वारं संप्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् ॥ ८ ॥

द्वारपार्श्वोऽभयं वापि गणपं च सरस्वतीम्।
नन्दिनं च महाकालं गङ्गाह्वां यमुनां अपि ॥ ९ ॥

संपूज्योदुंबरे शस्त्रं प्रविश्यान्तःपुरं पुनः।
दत्वा पुष्पं च वागीशे दत्वार्घ्योदं शिरस्यथ ॥ १० ॥

शिवस्येशान मन्त्रेण मालाद्यं अपनीय च।
शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा ॥ ११ ॥

आधाराख्यं अनन्तं च धर्माधर्माद्यं एव च।
अधश्चोर्ध्वश्छदे पद्मे कर्णिके शक्तिपुञ्जकम् ॥ १२ ॥

वामाद्यं हृदयोपेतं शिवासनमनुस्मरन्।
तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् ॥ १३ ॥

सदाशिवो महेशश्च रुद्रश्चेति त्रिधा मतः।
शिवदेह इति प्रोक्तो विद्यादेहस्स उच्यते ॥ १४ ॥

यातस्य विमलाशक्तिश्शिवस्य समवायिनी।
सैवमूर्तिः क्रियादेहात् सदाशिव तनुर्मता ॥ १५ ॥

तथा महेश्वरी मूर्तिः किन्तु सौम्यस्वरूपिणी।
आसं कुण्दलिनी शक्तिः क्रियाख्यानान्तु कारणम् ॥ १६ ॥

ब्रह्मा विष्णुश्च रुद्रश्च महेशश्च सदाशिवः।
एते कारण देवास्स्युः क्षेत्रज्ञाः परिकीर्तिताः ॥ १७ ॥

ब्रह्म विष्णोश्च मूर्तिस्तु मायाकारणं इष्यते।
रुद्रैश्वर सदेशानां क्रियाख्या तनुकारिणी ॥ १८ ॥

इत्येवं त्रिविधा प्रोक्ता रुद्रेश्वर सदाशिवाः।
तस्मात् ज्ञानमयोदेहश्शिवस्य परिकीर्तिताः ॥ १९ ॥

तद्देहत्रय सिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत्।
हृत्संपुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ॥ २० ॥

कलान्यासं ततः कुर्यात् तद्विधानं इहोच्यते।
सदेशदेह सिद्ध्यर्थं अष्टत्रिंशत्कला मताः ॥ २१ ॥

रुद्रेशयोश्शरीरार्थं एकत्रिंशत्कला मता।
अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ॥ २२ ॥

एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते।
एकमेव शिरोवक्त्र महेश रुद्र विग्रहे ॥ २३ ॥

तत्रेशानवक्त्रेण मनुना सकलेन च।
मालात्मना विशिष्टन्तु पूर्ववत् परिकल्पयेत् ॥ २४ ॥

ध्यात्वा सदाशिवं रूपं तच्चतुर्दश संयुतम्।
षष्टस्वर समोपेतं बिन्दुनाद विभूषितम् ॥ २५ ॥

सान्तं हृत्संपुटं कृत्वा विद्यादेहं प्रकल्पयेत्।
बेरे सदाशिवेवापि लिङ्गेप्येवं समाचरेत् ॥ २६ ॥

महेश नृत्त मूर्त्यादि ध्यानं शान्तमनुस्मरन्।
प्रतिमा लक्षणोक्तं च महेश मनुनायुतम् ॥ २७ ॥

कालान्तक गजघ्नादि रूपं रौद्र मनुस्मरन्।
तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ॥ २८ ॥

महेश रुद्र मूर्तौ च मन्त्रस्सादाशिवो यथा।
विद्यादेहार्थं उद्दिष्टस्सर्वतश्शिव एव च ॥ २९ ॥

आवाह्य समनुर्मन्त्रोद्धारे प्रागेव कीर्तिताः।
तेनावाह्य शिवं देहत्रितये पूर्व वर्त्मना ॥ ३० ॥

स्थापनाद्यं ततः कुर्यात् पाद्यं च परमेश्वरे।
गन्धं पुष्पं च धूपं च दीपन्नैवेद्यमप्यथ ॥ ३१ ॥

ताम्बूलसहितं सर्वं निष्कलार्चनवन्नयेत्।
पञ्चावरण संयुक्तं चतुस्त्रिद्व्येक संवृतौ ॥ ३२ ॥

इष्टावरण संयुक्तं प्रागुक्त विधिना गुरुः।
परिवारयुतञ्चेत्तु बलिन्तस्मिन् समाचरेत् ॥ ३३ ॥

होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत्।
शुद्धनृत्तं च यन्नोक्तं सर्वं प्रकृतिवन्नयेत् ॥ ३४ ॥

द्वारपालार्चनोपेतं बलिहोम समन्वितम्।
शुद्धनृत्तं च हित्वा वा कर्मसर्वं समाचरेत् ॥ ३५ ॥

प्रदोषादौ नटेशस्य कुर्यान्नीराजन क्रियाम्।
उत्सवं स्नपनं चैव दमनारोहण क्रियाम् ॥ ३६ ॥

पवित्रारोहणं सम्यक् कृत्तिका दीपं एव च।
संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ॥ ३७ ॥

मासोत्सवं तथा मासे नव नैवेद्य कर्म च।
प्रायश्चित्तं च जीर्णानां उद्धारं च गुरूत्तमाः ॥ ३८ ॥

देवोक्तं अखिलं सर्वं देव्याश्चापि समाचरेत्।
किञ्चाषाढेश्विनी मासे पूर्वफल्गुनि संगमे ॥ ३९ ॥

पूरकर्मापि कर्तव्यं आदिशक्तेः द्विजोत्तमाः।
गौरी महेश्वरी मूर्ति सदेशे तु मनोन्मनी ॥ ४० ॥

मनोन्मन्यणुना मूर्तिः मनोन्मन्यां प्रकल्पयेत्।
गौरी मन्त्रेण गौर्यास्तु षड्विंशति कलान्विताम् ॥ ४१ ॥

आदिशक्त्याणूना तस्यां आदिशक्तिम् प्रपुजयेत् ॥ ४२ ॥

Uttarapāda – Kapitel 4: Das feierliche Bad

अथातः संप्रवक्ष्यामि स्नपनं परमेष्ठिनः। अष्टम्यां वा चतुर्दश्यां विषुवायन संक्रमे ॥ १ ॥

ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः। सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ॥ २ ॥

कर्तुर्जन्म वियोगर्क्षे तस्याप्यनुदिनेथवा। राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तके ॥ ३ ॥

भूमिकंपे दिशान्दाहे ज्वरमार्यादि पीडने। प्रतिष्ठान्तेद्भुतेए सर्व रोगोत्पत्ताववग्रहे ॥ ४ ॥

नित्ये नैमित्तिके काम्ये कारयेत् शङ्करस्य च। स्नपनं तु यथान्यायं तच्चानेकविधं भवेत् ॥ ५ ॥

अङ्कुरार्पणं आदौ स्यात् महास्नपन कर्मणि। प्रागुक्त मण्टपे वापि वेदिका वर्जितेपि वा ॥ ६ ॥

अथवा पूर्वकॢप्तौ तु तन्मानाद्यपेक्षया। पञ्चहस्तादि षट्सप्त हस्तपर्यन्तकेपि वा ॥ ७ ॥

चतुर्गात्रादिकेष्टाष्ट गात्रपर्यन्त संयुते। सर्वालङ्कार संयुक्त तोरणैरन्वितेपि वा ॥ ८ ॥

नृत्तवाद्यादि संयुक्ते गानध्वनि समन्विते। अस्त्रेण शोध्येद्भूमिं वामदेवेन लेपयेत् ॥ ९ ॥

सूत्रन्यासं अघोरेण तालमात्रान्तरं यथा। द्वितालं शिवकुंभस्य वर्धन्यास्तालमात्रकम् ॥ १० ॥

त्रितालं कर्णिकामानं सर्वसामान्यं ईरितम्। अथवोत्तर वीथिस्स्यात् करकस्य स्थितिर्यथा ॥ ११ ॥

तथा द्वितालमानेन कर्णिकामानं ईरितम्। चतुर्दलं यथा पञ्च कलशस्थापनं दिशि ॥ १२ ॥

विदिक्ष्वपि नवाख्यं स्यात् समन्तादेकमावृतम्। पञ्चविंशति संख्यान्तं तत्समन्तात् समावृतम् ॥ १३ ॥

एकोनपञ्चाशत् संख्यां अष्टोत्तरशतं द्विजाः। आवृतिद्वय संयुक्तं तद्बाह्ये परिकल्पयेत् ॥ १४ ॥

पञ्चविंशति संख्यातान् कलशान् मध्यमस्थितान्। परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम् ॥ १५ ॥

अष्टद्वार समायुक्तं बहिष्ठादावृति त्रयम्। मध्यमे तिथि संख्यास्स्युः नवकोणे व्यवस्थिताः ॥ १६ ॥

मध्यमे तिथि संख्ये तु मध्यमं तत्त्रयं त्यजेत्। अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् ॥ १७ ॥

चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः। एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ॥ १८ ॥

मध्यव्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम्। स्वस्वसंख्या समव्यूहे होमार्थं परिकल्पयेत् ॥ १९ ॥

अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम्। शिवव्यूहस्य परितः षोडशैव परित्यजेत् ॥ २० ॥

सूत्र न्यासस्समाख्यातस्त्वन्यथापि भविष्यति। अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः ॥ २१ ॥

मार्गबाह्येतु कोणेस्याद् एकविंशति संख्यकः। शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते ॥ २२ ॥

सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्यगम्। सार्ध हस्तान्तरं हस्त मानान्तरं अथापि वा ॥ २३ ॥

स्याच्चतुर्दश संख्याता वीथिबाह्ये क्रमेण च। तद्बहिर्होमं इष्टं स्यात् चतुर्दिक्ष्वष्ट दिक्षु वा ॥ २४ ॥

स्थण्डिलं पुरुषेण स्यात् चतुःप्रस्थं इदं वरम्। त्रिःप्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् ॥ २५ ॥

हीनहीनतरं प्रस्थ मानमित्यभिधीयते। शालिमानं इदं तस्मात् हीनं नैव प्रयोजयेत् ॥ २६ ॥

अधश्चेदभिचारार्थं भवेदेव न संशयः। आरभ्य द्विगुणं त्वेक वृद्ध्या दशगुणावधि ॥ २७ ॥

मानं तु शिवकुंभे स्यात् तस्यार्धे करके मतः। व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् ॥ २८ ॥

तिलार्धं लाजमानं स्याद् अष्टद्रोणं सहस्रके। अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् ॥ २९ ॥

हृदयेन न्यसेत् कुंभान् स्वर्णादि विनिवेशयेत्। शिवादि प्रस्थ वृद्ध्यातु सप्तविंशति मानकम् ॥ ३० ॥

शिवकुंभस्य मानं स्यात् तदर्धं करके मतम्। चतुस्त्रिद्व्येक संख्यात प्रस्थमान प्रपूरितम् ॥ ३१ ॥

कलशे वेष्टनं त्रिद्विव्योम सूत्रैः क्रमेण तु। अथवा व्योम सूत्रेण त्रितयं परिवेष्टनम् ॥ ३२ ॥

वर्मणा विहितं तच्च कुंभन्यासो हृदा मतः। षट्त्रिंशत् तत्त्वपर्यन्तान् कुशान् त्र्यान् अन्यथा न्यसेत् ॥ ३३ ॥

कूर्चान्वैशेन मन्त्रेण द्रव्यं मूलेन विन्यसेत्। माणिक्कञ्चैन्द्र नीलं च वैडूर्यं च प्रवालकम् ॥ ३४ ॥

मुक्ता च पञ्चरत्नं स्यात् अभावे हेमसम्मतम्। निष्कं पादं तु पादार्धं दश माषाष्टमाषके ॥ ३५ ॥

तयोरर्धं तदर्धं वा माषं वाति दरिद्रके। तस्माद्धिकरकेर्धं स्यात् द्रव्याणि कलशेषु च ॥ ३६ ॥

पाद्यमाचमनं चार्घ्यं पञ्चगव्यं चतुर्दिशि। गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् ॥ ३७ ॥

कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत्। गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा ॥ ३८ ॥

द्वितीय स्थापनं प्रोक्तं तृतीयञ्च निगद्यते। मधु लाजा शकृच्चूर्णं लाजचूर्णं अरिद्रकम् ॥ ३९ ॥

या भूतिसार कदली तिल सर्षप पानसाः। भसितं तिलसारं च कदली तिल सर्षपान् ॥ ४० ॥

नालिकेरं च नारङ्गद्वयं स्यान्मातुलङ्गकम्। दाडिमं चाथ बाह्ये तु क्रमुकौ द्रकमाद्रके ॥ ४१ ॥

पनसाम्र कदल्युत्थ नालिकेरं च सर्षपम्। तिलबिल्वे तदन्ते तु मातुलङ्ग फलं मतम् ॥ ४२ ॥

नारङ्गद्वितयं तस्याद्यव नीवार लाजकम्। सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते ॥ ४३ ॥

कुष्ठं गुलं पयः पश्चात् सर्षपं च लवङ्गकम्। तक्कोलं दधि मेघं च तिलोशीर घृतंशकृत् ॥ ४४ ॥

सत्तुकं नालिकेरं च हरिद्रा चूर्णकं तथा। एवं त्रिविधकं नित्ये त्रितयं पञ्चविंशतेः ॥ ४५ ॥

पञ्चविंशति मध्ये तु संत्यजेदन्तरावतिम्। एवं कृते भवन्त्यत्र कलशानां तु षोडश ॥ ४६ ॥

चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकं ईरितम्। अन्तरालेषु मध्यादि वसु संख्यकं ईरितम् ॥ ४७ ॥

ऊर्ध्वं एकोनपञ्चाशत् क्रमेण परिपठ्यते। गुल चन्दन लोहानि कुष्ठ कच्चोल पुष्पकम् ॥ ४८ ॥

पत्र कर्पूर नीरं च दान्तं मांसिमुरन्त्रणम्। शमी दूर्वा च शुक्लार्क बिल्व चंपकशंखिनी ॥ ४९ ॥

अपामार्गं ततो विष्णुक्रान्ति धुर्तूर संज्ञकम्। नन्द्यावर्त सिताब्जं च चत्वारिंशन्नवाधिकम् ॥ ५० ॥

अथवान्य प्रकारेण तदेव पुनरुच्यते। पाद्यमाचमनं चार्घ्यं गव्यं पूर्वादि दिक्षु वै ॥ ५१ ॥

क्षीरं दधि घृतं क्षौद्रं आग्नेयादि विदिक्षु च। तक्कोलं भस्मनिर्यासं हरिबेरं च मङ्जरी ॥ ५२ ॥

नालिकेरं च बिल्वं च जंबु कच्चोल पाटली। पुन्नाग शंखपुष्पौ च लक्ष्मी व्याघ्रनखी तथा ॥ ५३ ॥

सिंहधुर्तूर संज्ञेच षोडशात्र विनिर्दिशेत्। सदूर्वा सर्षपाम्राणि नारङ्ग पनसे मते ॥ ५४ ॥

कदली शतपत्रं च धातकी श्वेतलोद्ध्रकम्। इक्षुसारं च लाजं च चंपकं गन्धतैलकम् ॥ ५५ ॥

नीवार कुंकुमतिल माञ्जी मुरवसक्तुकम्। मातुलङ्ग मलयजं अगरूशीर रात्रिजम् ॥ ५६ ॥

पञ्चकॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः। विद्येशा अष्टकॢप्तास्स्युः बाह्ये मूर्तीश्वरा दिशि ॥ ५७ ॥

अन्तरे वामदेवाद्याः पञ्चविंशति संख्यया। अष्टौ गणेश्वरा बाह्ये चाङ्गुष्ठ प्रमुखास्तथा ॥ ५८ ॥

क्रोधाद्या वसुसंख्याताः शतरुद्रादिकस्तु वा। एकोनेनतु पञ्चाशत् स्नपने देवता मताः ॥ ५९ ॥

कृत्वा पदानि षट्त्रिंशत् त्यजेदन्तश्चतुष्टयम्। द्वात्रिंशत् पदसंख्या स्यात् पाद्यादींस्तत्र विन्यसेत् ॥ ६० ॥

दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि। अत्रानुक्तमथैकोन पञ्चाशत् सदृशं मतम् ॥ ६१ ॥

अष्टोत्तरशतं वक्ष्ये तच्च त्रिविधमुच्यते। चन्दनागरु कुष्ठानि कच्चोलं पुष्पपत्रके ॥ ६२ ॥

कर्पूरं हरिबेरं च दान्तं मासी मुरंतृणम्। तृतीयावरणस्थानि द्रव्याणि द्वादशैव हि ॥ ६३ ॥

चंपकं सहदेवी च शतपत्री च रोचना। बिल्वं यवा शमी दूर्वा तक्कोलं मेघ संज्ञकम् ॥ ६४ ॥

धात्री मोचफलं चैव लक्ष्मी भूम्यरविन्दकम्। रास्नाचव्यापलाशं च श्वेतार्कं करवीरकम् ॥ ६५ ॥

धातकी द्रोण धुर्तूरं लोड्रापामार्गकार्जुनाः। प्लक्षेभ पिप्पली संज्ञा विष्णुक्रान्ति नृपाह्वया ॥ ६६ ॥

अश्वत्थं नागपुष्पं च चतुर्थे द्रव्यं ईरितम्। तुलसी तगरं चैव तुरुष्कं तेजनी पुनः ॥ ६७ ॥

विलङ्गं जीरकं कृष्ण जीरकं च हरेणुकम्। श्रीवेष्टकं गन्धरसं फलिनी रक्तचन्दनम् ॥ ६८ ॥

सैरिपङ्कं व्याघ्रनखं वल्लकी स्वर्णपुष्पकम्। दार्वी शुक्तिनखन्दारु सिताह्वं च कुटन्नटम् ॥ ६९ ॥

गुग्गुलुं चैव मृद्वीका वसिरो गिरिकर्णिका। वटशृङ्गेन्द्रियाह्वं च फणिर्जंबु मनश्शिला ॥ ७० ॥

शङ्खिनी भृङ्गराजश्च नीवारं गैरिकं तथा। आम्रमोचरसं जातिः पाटली मार्जनं पुनः ॥ ७१ ॥

पञ्चमावरणं ह्येतत् अन्यथा च निगद्यते। पुन्नागं जातिपुष्पं च पाटली सहदेविका ॥ ७२ ॥

शतपत्रं च लक्ष्मी स्यात् भूपद्मं धातकी पुनः। तुलसी करवीरं च कृष्णवल्ली च मल्लिका ॥ ७३ ॥

गोक्षुरादौ शतावेरी ततस्तस्मात् कृताञ्जलिः। महाद्रोण पुनर्द्रोण महाभद्री च भद्रिका ॥ ७४ ॥

इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी। व्याघ्रनख्या च मञ्जिष्ठं सरलं भद्रकोष्ठकम् ॥ ७५ ॥

नवनीतं द्रामिडाह्वं सज्जं तक्कोल संज्ञकम्। चञ्चलातिबला चैव बला सिंह प्रियङ्गुकम् ॥ ७६ ॥

लोड्रं च केसरं नागं पूर्वं जंबु कपित्थकम्। अश्वत्थो गुग्गुलुं चैव लाजिरं कृष्णजीरकम् ॥ ७७ ॥

सतिलं कुंकुमं मेघं अगरुं कृष्णरोचना। श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ॥ ७८ ॥

कृष्णागरुश्च तगरं ततःप्रोक्ता मनश्शिला। रक्तचन्दन संज्ञं च लवङ्कं रात्रिचूर्णकम् ॥ ७९ ॥

कषायं मार्जनं चान्ते स्थापयेत् हृदयाणुना। चतुःक्षीर कुजोद्भूत त्वक्सारस्स्यात् कषायकः ॥ ८० ॥

आम्रजंबू तरूत्थत्वक् सारोपरिच कीर्तितः। दूर्वातिल कुशाग्रैस्तु मार्जनं त्वभिधीयते ॥ ८१ ॥

अतिबलान्तं इष्टस्याद् एकाशीति घटस्थितौ। पाद्यमाचमनं चार्घ्यं गव्यं दिक्षु विदिक्षु च ॥ ८२ ॥

दधि सर्पि मधुक्षीरं अग्नेः प्रभृति विन्यसेत्। तिलं श्रीवृक्ष पत्रं च चन्दनं मेघ संज्ञकम् ॥ ८३ ॥

चंपकं हरिबेरं च सर्षपं नागकेसरम्। तक्कोलं च फलं कुष्ठं कच्चोलं लोहसंज्ञकम् ॥ ८४ ॥

लवंगपत्र कर्पूरान् बाह्ये षोडश विन्यसेत्। तृतीयावरणे सक्तून् अग्नौभूत घटेष्वपि ॥ ८५ ॥

भसितं रात्रिचूर्णं च शकृच्चूर्णम् क्रमेण तु। धात्री च नालिकेरं च लिकुचं मातुलङ्गकम् ॥ ८६ ॥

तद्बाह्येग्न्यादि कोणेषु चतुस्सप्त सुविन्यसेत्। लक्ष्मीञ्च सहदेवीं च विष्णुक्रान्तिं क्रमेण तु ॥ ८७ ॥

रुद्रपर्णा समायुक्तं चतुर्नवति विन्यसेत्। कुञ्जादि निष्क पर्यन्तं पाद्याद्यङ्गं प्रमाणकम् ॥ ८८ ॥

एकद्वित्रिचतुः प्रस्थं पञ्चगव्यादि मानकम्। मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ॥ ८९ ॥

आज्यतैल प्रमाणं च तथैव परिकल्पयेत्। कर्पूर कुंकुमादीनां मानमिष्टं प्रदीयताम् ॥ ९० ॥

मध्ये विश्वेश्वराः पूज्याः शतरुद्रा बहिर्मताः। एवं त्रिविध रीत्या तु शतमष्टोत्तरं मतम् ॥ ९१ ॥

नवसंख्यैर्नवव्यूहईः काष्ठाद्वितय मध्यगैः। अष्टद्वार समायुक्तैः एकाशीतिस्तु पूज्यते ॥ ९२ ॥

अष्टोत्तर सहस्राख्यं अधुनात्र निगद्यते। वराल तृटि कर्पूर त्वगेलोशीर जातयः ॥ ९३ ॥

एभिर्युक्तं शिवांबस्स्यात् शिवमन्त्राभिमन्त्रितम्। तेनैव पूरयेत् कुंभान् वर्धनी कलशानपि ॥ ९४ ॥

पाद्यमाचमनं चार्घ्यं पञ्चगव्यं कुशोदकम्। क्षीरं दधिघृतं चैव प्रथमावरणे न्यसेत् ॥ ९५ ॥

क्षौद्रं यवं गुलं न्यस्त्वा कुशं रंभाफलं तथा। सर्षपं नालिकेराख्यं रजनी मातुलङ्गकम् ॥ ९६ ॥

लाजान् दाडिमसक्त्वाख्यान् पनसं भस्म चूर्णकम्। पञ्चविंशति मध्यस्थ द्रव्याण्येतानि षोडश ॥ ९७ ॥

रत्न लोहज धातूनां बीजं गन्धोदकं क्रमात्। पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वय विवर्जितम् ॥ ९८ ॥

मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक्। दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्र फलतोय युक् ॥ ९९ ॥

कषायाढ्योदकोपेतं उत्तरे पुनरुच्यते। कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युद वल्कले ॥ १०० ॥

माणिक्कञ्चैन्द्रनीलं च मुक्ता वैडूर्य वज्रकम्। पुष्यरागं प्रवालं च स्फटिकं मरकतं तथा ॥ १०१ ॥

पञ्चरत्नं इति प्रोक्तं आद्याभावे द्वितीयकम्। रत्नोदकं इति प्रोक्तं लोहोदकं अतःपरम् ॥ १०२ ॥

सुवर्णं रजतं ताम्रं आयसं त्रपु सीसकम्। आरकूटं ततः कांस्य युक्तं लोहोदकं स्मृतम् ॥ १०३ ॥

सौराष्ट्रं अञ्जनं श्यामा हरितालं मनश्शिला। गैरिकं रोचनं चान्ते धातूदकं इदं मतम् ॥ १०४ ॥

शालि कोद्रव निवार प्रियङ्गु तिल सर्षपाः। श्यामाष्टकं यवो बीजो बीजोदकं इहोदितम् ॥ १०५ ॥

नवनीतं च कर्पूरं त्वगेलापत्र संयुतम्। चन्दनं लघु कुष्ठं च वरालोशीरमुस्तकाः ॥ १०६ ॥

कुंकुमं हरिबेरं च कच्चोलं जातिरेव च। एभिस्तु चूर्णितैर्युक्तं गन्धोदकं इति स्मृतम् ॥ १०७ ॥

पर्वते च नदीतीरे वल्मीके कर्कटावटे। वृषशृङ्गे च सत्क्षेत्रे समुद्रे गजदन्तके ॥ १०८ ॥

अष्टभिश्च समायुक्तं मृदंभः परिकीर्तितम्। गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जली ॥ १०९ ॥

शिरीषेन्दीवरं रात्रिः एभिर्मार्जनं उच्यते। दूर्वाङ्कुरं च पद्मं च कुशाग्रं गौरसर्षपम् ॥ ११० ॥

भद्रा कृताञ्जली युक्तं परिमाणं तदुच्यते। तुलसी बिल्वपत्रं च तमालं च तपस्विनी ॥ १११ ॥

अपामार्ग शमीयुक्तं पत्रतोयं इहेरितम्। पद्मं रक्तोत्पलं पश्चात् पाटली चंपकं तथा ॥ ११२ ॥

पुन्नाग कुरव नारङ्ग नन्द्यावर्तं च मल्लिका। श्वेतार्क वकुलैर्युक्तं पुष्पतोयं इहेरितम् ॥ ११३ ॥

कुष्ठं कुटं नटं लोहं चन्दनं कुंकुमं तथा। कर्पूरोशीर संयुक्तं मान्योदकं इहेरितम् ॥ ११४ ॥

शूलं कपाल हरिणी पिनाकः परशुस्तथा। पाशोक्षमाला हैमाश्च तैरत्रास्त्रोदकं भवेत् ॥ ११५ ॥

पनसो नालिकेरश्च मातुलङ्गद्वयं ततः। नारङ्गद्वय रंभाद्यैः युक्तं अस्मिन् फलोदकम् ॥ ११६ ॥

पलाशोदुंबराश्वत्थ मायूर प्लक्षपाटली। जंबूत्वग्भिस्समायुक्तं कषायोदकं ईरितम् ॥ ११७ ॥

अभ्रकत्रितयं पश्चान् माक्षिकत्रितयं ततः। गन्धत्रय समायुक्तं आढ्यतोयं इतिस्मृतम् ॥ ११८ ॥

सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्र कान्तकम्। निकुन्तः पञ्चभिर्युक्तं कान्तोदकं इति स्मृतम् ॥ ११९ ॥

उशीरो हरिबेरं च पीवरिः पुष्करं तथा। श्रीकण्ठश्चेति पञ्चैभिः युक्तं मूलोदकं स्मृतम् ॥ १२० ॥

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्। एभिर्द्रव्यैर्समायुक्तं ब्रह्मकूर्चं इतिस्मृतम् ॥ १२१ ॥

मयूरशिखि भूर्जत्वक् रोचनाब् भृङ्गराजकम्। कृताञ्जलिश्च पञ्चैभिः युक्तम् स्याद्वल्कलोदकम् ॥ १२२ ॥

अग्निकोणात् क्रमात् तैलं क्षीरं दधि घृतं न्यसेत्। चत्वारिंशत् सुमध्यस्थ कलश द्रव्यमीरितम् ॥ १२३ ॥

लक्ष्मी भद्रा कुशादान्तो नीवारं चंपकं पुनः। विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ॥ १२४ ॥

रक्तोत्पलं शमी पश्चात् पद्मं सुरस संज्ञकम्। नन्द्यावर्तं अपामार्गं दूर्वा च करवीरकम् ॥ १२५ ॥

यवाह्वा द्रोणपुष्पं च विष्णुक्रान्ता च मल्लिका। जाति बिल्वं सितार्कं च एकपत्रारविन्दकम् ॥ १२६ ॥

द्रव्याणि षोडशैतानि प्रतिव्यूहं तृतीयकम्। वृत्तक्रमं अथो वक्ष्ये शिवकुंभन्तु मध्यतः ॥ १२७ ॥

तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत्। माणिक्कं शिवकुंभे तु पञ्चरत्न समन्वितम् ॥ १२८ ॥

कर्णिका बाह्यदेशे तु दलमध्येष्ट दिक्षु वा। पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ॥ १२९ ॥

पाद्यमाचमनं चार्घ्यं पञ्चगव्यं कुशोदकम्। क्षीरं दधि घृतं चैव प्रथमावरणे न्यसेत् ॥ १३० ॥

द्वितीयावरणे स्वर्णं पदे षोडश संज्ञके। चतुर्विंशति संख्याते नालिकेरफलं बहिः ॥ १३१ ॥

द्वात्रिंशत् संख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके। षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ॥ १३२ ॥

चतुष्षष्टियुते बाह्ये नाना पुष्पं च कीर्तितम्। द्विसप्तति समायुक्तो सप्तमे सर्वबीजकम् ॥ १३३ ॥

अष्टमे चतुराशीत्ये विन्यसेत् कदली फलम्। नवमे षण्णवत्यन्ते भसितं तदनन्तरम् ॥ १३४ ॥

दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम्। चतुर्युक्ते शतेपञ्च गव्यमेकादशांशके ॥ १३५ ॥

अष्टोत्तरशतं बाह्ये कषायोदकं उच्यते। धातु लोहोदकं पश्चात् शते षोडश संयुते ॥ १३६ ॥

शतेविंशति संयुक्ते बाह्ये मृद्वारि कीर्तितम्। सर्वगन्धं च सर्वेषु कलशेषु विनिक्षिपेत् ॥ १३७ ॥

पञ्चविंशति संख्ये तु प्रतिव्यूहन्तु मध्यमे। घटं वा कलशं वापि चत्वारिंशत्तु संख्यया ॥ १३८ ॥

वर्धन्यर्ध सुवर्णं च वस्त्र कूर्चादि संयुतम्। प्रत्येकं विन्यसेत् सम्यक् द्रव्यं वा विनिवेशयेत् ॥ १३९ ॥

उभयं चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः। उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ॥ १४० ॥

अर्धेन मध्यमं प्रोक्तं पादात् कन्यसं उच्यते। विद्येशान् मध्यमे देवास्त्वन्यत्र शिव एव हि ॥ १४१ ॥

स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः। पठन्वा पूजयेदीशं शिवनाम्नाथ केवलम् ॥ १४२ ॥

कूटाक्षरादि संयुक्तं चतुर्थ्यन्त समन्वितम्। स्वाहान्तं वा नमस्कार प्रान्तं प्रणव पूर्वकम् ॥ १४३ ॥

अष्टोत्तर सहस्रात्तु त्यजेद्बाह्यावृतिं गुरुः। तत्राग्नेयादि कोणस्थं चतुर्व्यूहं समाचरेत् ॥ १४४ ॥

अन्तःकोण चतुष्टेषु शिव व्यूहस्य बाह्यतः। स्थापयेद्दिक्षु होमार्थं एतेषां अन्तरालके ॥ १४५ ॥

तद्बाह्ये षोडशव्यूहाः पूर्ववत् संव्यवस्थिताः। अन्यत्सर्वं समानं स्यात् अष्टपञ्चाशतं भवेत् ॥ १४६ ॥

अष्टसंख्या समायुक्ते द्विशते मध्यमेष्टकम्। तद्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ॥ १४७ ॥

बाह्ये षोडश संख्यातान् गृह्णीयाद्दिग्विदिग्गतम्। अष्टव्यूहं तथात्वेतु उक्तसंख्यान्वितं भवेत् ॥ १४८ ॥

द्रव्याणां तु प्रमाणं यत् विस्तारात् पुनरुच्यते। रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ॥ १४९ ॥

दशमाषादि तद्वृद्ध्या निष्कान्तं लोहमानकम्। लोहवृद्ध्यातु मानं स्यात् तथा पाषाण मानकम् ॥ १५० ॥

निष्कपादादि तद्वृद्ध्या पलान्तं बीजमानकम्। तावत्तण्डुल मानं स्यात् सितामानं तथा मतम् ॥ १५१ ॥

किन्तु नन्दपलान्तं स्यात् द्विगुणं गुलमानकम्। गन्धद्रव्य प्रमाणं तु धातुवत् परिकीर्तितम् ॥ १५२ ॥

फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः। तिल सर्षप हारिद्र गोशकृत् भस्म मानकम् ॥ १५३ ॥

पञ्चगव्यं दधिक्षीरं मानं भस्मप्रमाणकम्। क्षीरवद्घृतमर्धं वा पादं क्षौद्रं तथा पलम् ॥ १५४ ॥

फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत्। घृतवत् तैलमानं स्यात् सर्वं वा पात्रमानयेत् ॥ १५५ ॥

अर्धपादं तदर्धं वा पुष्पं हस्तमितंभवेत्। ओषधिस्तु समं प्रोक्तं तन्मानं च तथा मतम् ॥ १५६ ॥

तथैव पात्रमानं तु मूलमानं तु गन्धवत्। शुद्धपुष्प फलादीनां मानं गन्धवदिष्यते ॥ १५७ ॥

मृन्मानं पूर्ववत् प्रोक्तं अन्यदप्येवं ऊह्यताम्। वज्रं समस्त रत्नानां लोहानां अग्निदैवतम् ॥ १५८ ॥

यवो निखिल बीजानां धातूनां हरितालकम्। ओषधीनां अलाभेतु सहदेवी प्रशस्यते ॥ १५९ ॥

फलानां कदलीजातं पत्राणां बिल्वपत्रकम्। नीलोत्पलं तु पुष्पाणां उत्पलं वा विधीयते ॥ १६० ॥

चन्दनं सर्वगन्धानां मृदस्स्युर्दर्भ मूलजाः। त्वचामश्वत्थजा प्रोक्ता मूलानां तु कुटं नटम् ॥ १६१ ॥

सिताभावे गुलं प्रोक्तं इक्षुसुक्षौद्रयोश्च तत्। फलपुष्पाद्यभावे तु तत्पत्रादिकं एव वा ॥ १६२ ॥

द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत्। पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा ॥ १६३ ॥

दत्वा हृदय मन्त्रेण वस्त्राणि विविधानि च। वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः ॥ १६४ ॥

गन्धं स्वनाम मन्त्रेण पुष्पं धूपं तथैव हि। दीपेन सहितां मन्त्री लिङ्गमुद्रां प्रदर्शयेत् ॥ १६५ ॥

कवचेनावकुण्ठ्याथ होमकर्म समारभेत्। सहस्र कलशे पञ्च शतहोमं समाचरेत् ॥ १६६ ॥

कुण्डे वा स्थण्डिले वापि सर्वलक्षण संयुते। कृत्वा कुण्डादि संस्कारं अग्निकार्योक्त वर्त्मना ॥ १६७ ॥

समिदाज्यान्न लाजांश्च तिलं वै होमयेत् क्रमात्। पलाशोदुंबराश्वत्थ वटाः पूर्वादितः क्रमात् ॥ १६८ ॥

शमी खदिर मायूर श्रीवृक्षां पावकादितः। अष्टपक्षे तु समिधस्त्यजेत् कोणचतुष्ट्यम् ॥ १६९ ॥

पञ्चपक्षे तु समिधस्त्यजेश्छम्यादि संभवाः। चतुर्होम विधाने तु प्रधानेवाथ पूर्वकः ॥ १७० ॥

शतमर्धं तदर्धं वा मूलहोमः प्रकीर्तितः। मूलाद्दशांशतोङ्गानां तथा ब्र्ह्म सुलोचने ॥ १७१ ॥

कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च। प्रविश्य गर्भगेहे तु लिङ्गं संशोद्ध्य पूर्ववत् ॥ १७२ ॥

संकल्प्य चासनं पीठे मूर्तीं आवाह्य पूजयेत्। ब्रह्मभिस्सकलीकृत्य विद्यादेहं ततो न्यसेत् ॥ १७३ ॥

पाद्यादि त्रितयं दत्वा गन्धपुष्पं सधूपकम्। दीपं च मूलमन्त्रेण दत्वातोद्य समन्वितम् ॥ १७४ ॥

नृत्तगेय समायुक्तं शंखध्वनि समन्वितम्। वेदस्तोत्र रवोपेतं घण्टानाद समन्वितम् ॥ १७५ ॥

जयशब्द समोपेतं शिवकुंभं च वर्धनीम्। उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ॥ १७६ ॥

दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम्। गन्धपुष्पं सधूपं च दीपमर्घ्यं विधाय च ॥ १७७ ॥

अपनीय पिधानं तद् दक्षहस्तेन देशिकः। सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ॥ १७८ ॥

संगृह्य तत्त्ववित्तस्तु लिङ्गमूर्ध्निमनुं न्यसेत्। देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ॥ १७९ ॥

शिवमन्त्रं स्मरन् कुंभतोयेन स्नापयेच्छिवम्। पिण्डिका रूपिणीं देवीं स्नापयेत्तन्मनुस्मरन् ॥ १८० ॥

दत्वा जातेन पाद्यं तु पादयोस्तं मुखेषु च। ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेदयेत् ॥ १८१ ॥

आचामान्तैश्च चूडान्तैश्शिरस्वर्घ्यं प्रदापयेत्। पञ्चगव्याभिषेकादौ महाघण्टा रवान्वितम् ॥ १८२ ॥

उपस्नान समायुक्तं धूपं वा विनिवेदयेत्। अवश्यमावृतान्तेस्याद् उपस्नानं सधूपकम् ॥ १८३ ॥

नाना फलानि गव्यानि पञ्चामृतानि युतानि च। विद्यन्तेश्चेत्तदातैश्च स्नापयेत् परमेश्वरम् ॥ १८४ ॥

विरूक्ष्य गन्धतोयेन स्नापयेल्लिङ्गं आदरात्। अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ॥ १८५ ॥

सकलस्नपनं चेत्तु सकलस्थापनोक्तवत्। आसनं संप्रकल्प्यास्मिन् कुंभेमूर्ति मनुं स्मरेत् ॥ १८६ ॥

ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत्। न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् ॥ १८७ ॥

स्नपनाद्यं च पाद्यादि कृत्वा दत्वा हृदा गुरुः। गन्धं पुष्पं च धूपं च दीपमर्घ्यं विधाय च ॥ १८८ ॥

प्रदर्श्य लिङ्गमुद्रां तु कवचेनावकुण्ठयेत्। इष्ट्वा गौरीं च वर्धन्यां योनिमुद्रां प्रदर्श्य च ॥ १८९ ॥

वर्मणेवावकुण्ठ्याथ रुद्रान् आवरणस्थितान्। पूर्वोक्त विधिना वापि क्रमेणावाह्य पूजयेत् ॥ १९० ॥

गत्वा सकल सामीप्यं आसनं मूर्तिमेव च। संकल्प्य सकलीकृत्य विद्यादेह मनुं स्मरन् ॥ १९१ ॥

स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिक त्रयम्। गन्धं पुष्पं च धूपं च सदीपं विनिवेदयेत् ॥ १९२ ॥

प्राग्वद्घटं च करकं नीत्वा हृदि मनुं न्यसेत्। तत्वद्देवीमनुं देव्या हृदये विनिवेशयेत् ॥ १९३ ॥

स्नापयित्वा क्रमेणैव पाद्यादि द्वित्रिभागिकम्। देवेदत्वावशिष्टं तु देव्यां च विनिवदयेत् ॥ १९४ ॥

पृथग्वा स्नापयित्वा तु देवेशीं अभिषेचयेत्। पादमूलं च देवस्य गन्धाद्यैवाभिषेचयेत् ॥ १९५ ॥

चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत्। देव्याश्चेत् स्नपनं मध्ये कुंभं वा करकं न्यसेत् ॥ १९६ ॥

द्रव्येषु भेदो नास्त्यत्र देवता भेदमिष्यते। शान्त्याद्याः पञ्चकॢप्तौस्युर्वामाद्या नव कल्पने ॥ १९७ ॥

धारिकाद्या महादिक्षुस्त्रिपाद्य वशमागताः। अनन्ताद्या विदिक्ष्वष्ट पञ्चविंशति संख्यकाः ॥ १९८ ॥

पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वा मताः। ऊर्द्वानुदेवताः प्रोक्ता स्त्रीलिङ्गान्तास्समीरिताः ॥ १९९ ॥

अत्रैव स्नपनं वक्ष्ये क्षीराद्यैः द्विजसत्तमाः। पयोदधि घृतक्षौद्रौ पञ्चगव्यामृतैरपि ॥ २०० ॥

इक्षुसार फलैस्सर्व बीजैर्लाजैश्च सक्तुभिः। चूर्णैर्हारिद्रकैः पुष्पैः विशेषान्नलिकेरजैः ॥ २०१ ॥

सलिलैस्सत्फलोपेतैः सद्घटादिषु संस्थितैः। गन्धोदैरौषधोपेतैः शुद्धोदैर्गन्ध तैलतः ॥ २०२ ॥

गङ्गादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना। स्नापयेत् परमेशानं सर्वदोषापनुत्तये ॥ २०३ ॥

सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे। सदारोग्य प्रसिद्ध्यर्थं आयुष्यार्थं विशेषतः ॥ २०४ ॥

सर्वसंपत् प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे। राष्ट्र दुर्भिक्ष नाशाय तस्य दुष्ट निवृत्तये ॥ २०५ ॥

राष्ट्रक्षोभेद्भुत प्राप्तौ दुर्निमित्ते विशेषतः। वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये ॥ २०६ ॥

तेषां रोगविनाशार्थं रोगानुत्पत्ति हेतवे। युद्ध्योद्यते स्वसेनाय बलायामृतिहेतवे ॥ २०७ ॥

भयार्थं परसेनायाः क्षयार्थं तद्भ्रमार्थकम्। नरनारी गवादीनां रोगनाशार्थं एव च ॥ २०८ ॥

जन्मर्क्षे वा दिने राज्ञां अभिषेके तथापि वा। तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके ॥ २०९ ॥

अयने विषुवे वापि ग्रहणे स्थापनादिके। उत्सवे च पवित्रे च दमनारोपणेपिच ॥ २१० ॥

कृत्तिकादीप नक्षत्रे चान्यस्मिन् मास ऋक्षके। अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः ॥ २११ ॥

मार्गशीर्षेच मासेथ चार्द्रायां तु विशेषतः। प्रायश्चित्तेषु तु तत्कार्ये नवनैवेद्य कर्मणि ॥ २१२ ॥

जनकल्याण काले च नराणां रक्षणार्थके। विशेषपूजा काले च भक्तानां उत्सवेपि च ॥ २१३ ॥

देवभ्रमण काले वा मृगयायां विशेषतः। कुर्यात् प्रदिदिनं वापि त्रिसन्ध्यायां गुरूत्तमाः ॥ २१४ ॥

सन्ध्या द्वये वा चैकस्यां स्नपनं कारयेच्छिवे। प्रागुक्त वर्त्मना कश्चित् विशेषस्तत्र गद्यते ॥ २१५ ॥

कुंभेनैकेन वा व्योम संख्येन कलशेन वा। प्रागुक्त द्रव्य युक्तेन वर्धनी सहितेन वा ॥ २१६ ॥

पञ्चब्रह्माधिपैः पञ्च घटैर्वा कलशैस्तु वा। एकद्रव्य युतैर्वापि वर्धनी सहितैस्तु वा ॥ २१७ ॥

इष्टद्रव्यं भवेन्मध्ये तद्वान्यत् करकस्थितम्। एकद्रव्यं चतुर्दिक्षु हीनद्रव्यं अथापि वा ॥ २१८ ॥

पाद्यमाचमनं चार्घ्यं पञ्चगव्यं तु वा भवेत्। नवकुंभ विधानेपि विधानं सदृशं मतम् ॥ २१९ ॥

एकद्रव्यं तु वा हीने दिक्षु पाद्यादिकं तु वा। स्वर्णादि निर्मिते पात्रे विधानं वै तदीरितम् ॥ २२० ॥

प्रागुक्त त्रितयं चैव विशेषान्नित्य कर्मणि। पञ्च विंशति संख्यातं अपि नित्ये प्रशंसितम् ॥ २२१ ॥

उत्तमोत्तम पूजायां अष्टोत्तर शतावधि। स्नपनं वा प्रकर्तव्यं नित्याध्याय प्रचोदितम् ॥ २२२ ॥

नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि शंसितम्। पञ्च विंशति संख्यादौ साष्ट साहस्रकावधौ ॥ २२३ ॥

अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते। हित्वा चतुष्टयं कोण संस्थितं तद्युतं तु वा ॥ २२४ ॥

स्नापयेद् देवदेवेशं उदकैः प्राग्वदेव हि। श्रेष्ट पूजादि संयुक्ते स्थाने स्नपन पूर्वकम् ॥ २२५ ॥

कर्म तद्वद्विधेयं स्याच्छ्रेष्ठे हीनां क्रियां त्यजेत्। हीनकर्मणि श्रेष्ठादि क्रिया शस्ता द्विजोत्तमाः ॥ २२६ ॥

नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम्। नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया ॥ २२७ ॥

काम्यार्थं काम्य कर्मेष्टान् निषिद्धं न समाचरेत्। कर्तव्यं वा न कर्तव्यं इति सन्देह संगतौ ॥ २२८ ॥

करणेभ्युदयो ज्ञेयो करणे दोष इष्यते। समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः ॥ २२९ ॥

ताभ्यां एव निषिद्धे तु सन्दिग्धं तत्परित्यजेत्। क्रिया मन्त्रादि भेदेन शास्त्रभेदेन वा भवेत् ॥ २३० ॥

क्रियामन्त्रादि भेदेन तन्त्र भेदो यतस्स्मृतः॥ तस्मात् तत्र च शैवोक्तं कर्तव्यं नान्य शास्त्रतः ॥ २३१ ॥

प्रशस्तं नोदितं तत्र शास्त्रान्तरं अथाश्रयेत्। तद्विधानानुपत्तेश्च तत्राप्येषं विधीयते ॥ २३२ ॥

प्रायश्चित्तादिकेनुक्ते स्वशास्त्रे परशास्त्रतः। वर्तमानेतु शास्त्रार्थे तदंगं सृक् स्रुवादिकम् ॥ २३३ ॥

स्वशास्त्र सिद्धं वा ग्राह्यं अथ शास्त्रान्तरोदितम्। एवमादिकं आलोच्य कारयेद्यो नृपोत्तमः ॥ २३४ ॥

सोचिरेणतु कालेन सकलाधिपतिर्भवेत्। तस्याप्यायुष्यं आरोग्यं मनस्संकल्पितं च यत् ॥ २३५ ॥

सर्वं तत्र भवेत्तस्य शिवेभक्तिः प्रजायते। विपरीत क्रियां दृष्ट्वाप्यौदासीनं करोति यः ॥ २३६ ॥

स राजा क्षयं आप्नोति नात्रा कार्या विचारणा। तस्मादाचार्यवर्येण पञ्चगोचर वर्तिना ॥ २३७ ॥

शैवागम परिज्ञान पारगेण क्रियावता। क्रिया निवर्तनीया स्यात् स्वस्य राष्ट्राभिवृद्धये ॥ २३८ ॥

गुरो गुरुत्तरो ग्राह्यश्शिवशास्त्र विशारदः। तेनैव स्नपनाद्यं तु कारयेन् मुनिसत्तमाः ॥ २३९ ॥

विशेष पूजा तेनैव वर्तनीयेष्ट सिद्धये। पयोदधि घृतक्षौद्र प्रमुखैः देवमीश्वरम् ॥ २४० ॥

संस्थाप्यामल पिष्टाद्यैः विरूक्ष्येशं सवेदिकम्। गन्धतोयेन संस्थाप्य वाससा परिमार्जयेत् ॥ २४१ ॥

चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम्। गन्दपुष्प सृगाद्यैश्च धूपयेत्तदनन्तरम् ॥ २४२ ॥

कर्पूरवर्ति संयुक्तम् दीपं आरात्रिकं नयेत्। पञ्चवर्ण हविष्यं वा पायसं शुद्धमेव वा ॥ २४३ ॥

नानोपदंश संयुक्तं नानाफल समन्वितम्। दत्वा तदन्ते तांबूलं मुखवास समन्वितम् ॥ २४४ ॥

एला लवङ्ग कर्पूर जाती तक्कोल चूर्णयुक्। मञ्जिष्टा खण्ड सम्मिश्रं मुखवासं इदं भवेत् ॥ २४५ ॥

प्रणम्याद्येष्य लब्धाज्ञो होमार्थं कुण्डमाश्रयेत्। समिधाज्येन चरुणा तिलेनापि समन्वितम् ॥ २४६ ॥

शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत्। तस्माद्भस्म समादाय यजमानाय दापयेत् ॥ २४७ ॥

संप्रार्थ्य वाञ्चितं कर्म प्रणमेच्च पुनःपुनः। दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् ॥ २४८ ॥

द्विगुणं त्रिगुणं वापि चतुष्पञ्च गुणं तु वा। षट्सप्त गुणसंख्यातं कर्मसिद्ध्यर्थमेव वा ॥ २४९ ॥

पूजा वैशेषिकी ख्याता पूर्वोक्त फलदायिनी। नैमित्तिकं च नित्यान्ते कर्तव्यं अविरोधतः ॥ २५० ॥

नित्ये प्रवर्तमाने तु यदा नैमित्तिकं भवेत्। समाप्याल्पेन कालेन नित्यं नैमित्तिकं चरेत् ॥ २५१ ॥

सन्ध्यापरार्ध कालाचेत् पूर्वार्धे विद्यते यदि। नैमित्तिकं स्वकाले तु कर्तव्यं अविचारतः ॥ २५२ ॥

सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत्। तन्त्रेणैवाप्यनुष्ठानं उभयत्र समाचरेत् ॥ २५३ ॥

धूपान्तं वाथ नैवेद्य पर्यन्तं नित्य कर्म च। विधाय प्राप्त काले तु नैमित्तिकं अथाचरेत् ॥ २५४ ॥

नैमित्तिकमहच्चेद्धि समारभ्य स्वकालके। एकाद्यावरणान्ते तु सन्ध्याशेषं समाप्य च ॥ २५५ ॥

बल्यन्ते सर्वकलशैः स्नापयेदुक्त वर्त्मना। नैमित्तिक द्वयप्राप्तौ महदादौ समाचरेत् ॥ २५६ ॥

लघ्वन्ते सदृशंचेत् कामचारो विधीयताम्। नैमित्तिकस्य कालोपि द्विविधः परिकीर्तितः ॥ २५७ ॥

अल्पानल्प विभागेन स्वल्पस्यादयनादिकः। ग्रहणादिर्महाकाल स्वल्पकालोग्रतो भवेत् ॥ २५८ ॥

ग्रह्यमाने रवौ कुर्यान् मुच्यमाने निशाकरे। भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे ॥ २५९ ॥

विषुवे मध्यकाले च स्नपनाद्यं समाचरेत्। कन्यायां मिथुने मीने धनुष्यन्ते समाचरेत् ॥ २६० ॥

सिंहे च वृश्चिके कुंभे वृषेवादौ समाचरेत्। अर्धमेकं द्वयं वापि यामं वा घटिकामपि ॥ २६१ ॥

आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु। आचार्यं पूजयेत् पश्चात्द्वस्त्रहेमाङ्गुलीयकैः ॥ २६२ ॥

उपयुक्तमिहद्रव्यं यागे स्वर्णांबरादिकम्। आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् ॥ २६३ ॥

यागावशिष्टं यद्द्रव्यं भूषणं मण्टपस्य च। स्थण्डिलं चांबरं स्वर्णं कुंभं वा कलशादिकम् ॥ २६४ ॥

तोरणं सृक् सृवावष्टमङ्गलं नवरत्नकम्। तद्धोम चरु नैवेद्य शेषोयं मण्टपस्य च ॥ २६५ ॥

वलयं तत्प्रपादींश्च यदन्यदुपयुक्तकम्। आचार्यायैव देयं स्यात् पञ्चगोचर वर्तिने ॥ २६६ ॥

निष्कादि दशनिष्कान्ता देशिके दक्षिणा मता। निष्काष्टमांश हीनस्स्याद् अधमांशं तदर्धकम् ॥ २६७ ॥

नवधा दक्षिणा क्षुद्र क्रमे स्याद्धीन वृत्तिके। नित्ये तु कल्पयेद्वृद्धिं तन्मनस्तोषकं यथा ॥ २६८ ॥

Uttarapāda – Kapitel 5: Das tägliche Fest

नित्योत्सव विधिं वक्ष्ये नित्यपूजाङ्गमुत्तमम्।
शिवाग्रे वाथ तद्वामे ईशे शुद्ध महीतले ॥ १ ॥

प्रासाद मण्टपादौ वा गोमयेनोपलेपिते।
प्रोक्षितेस्त्रेण संस्थाप्य पात्रं लक्षण संयुतम् ॥ २ ॥

सौवर्णं राजतं ताम्रं कांस्य निर्मितं एव वा।
तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ॥ ३ ॥

द्वात्रिंशदङ्गुलान्तं तु पात्रमानं उदीरितम्।
वृत्तं इष्टघनोपेतं कर्णिका दलशोभिता ॥ ४ ॥

तत्पात्रे रस सप्ताष्ट नवदिग्रुद्र भाजिते।
एकद्वित्रिचतुःपञ्च षड्भागैः कर्णिका भवेत् ॥ ५ ॥

शेषेण दलमाख्यातं विकाराष्ट दलम्मतम्।
अर्ध त्रिपाद मात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ॥ ६ ॥

तद्वदोष्ट समोपेतं केवलं पात्रमेव वा।
कुडुभद्वयं आरभ्य कुडुपादाढकावधि ॥ ७ ॥

तण्डुलं कल्पयेदन्नं लिङ्गार्थं वाक्षतार्थकम्।
मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत् पात्र मध्यमे ॥ ८ ॥

तेनान्नलिङ्गं कर्तव्यं भूतमात्र प्रमाणतः।
एकाङ्गुला तु दैर्घ्यं स्याद्यावदष्टा दशाङ्गुलम् ॥ ९ ॥

अङ्गुलत्रयमारभ्य तिथिमात्रं तु विस्तरम्।
अग्रद्वित्रिचतुःपञ्च मात्रं षण्मात्रमेव वा ॥ १० ॥

नैमित्तिकार्थं नित्यार्थं अन्नलिङ्गं उदाहृतम्।
त्रिकालं अन्नलिङ्गं वा प्रातर्मध्याह्नयोस्तु वा ॥ ११ ॥

मध्याह्नेवाथ पूर्वाह्ने पुष्पलिङ्गं उदाहृतम्।
प्रदोषेक्षत लिङ्गं स्यात् तत्र पाशुपतं यजेत् ॥ १२ ॥

चन्द्रशेखर संयुक्तं तद्विहीनं एव वा।
त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोग्र भेदतः ॥ १३ ॥

सौम्यस्सौम्येक्षणोपेतो द्विचतुर्हस्त संयुतः।
विद्युन्माला निभश्श्वेतो जटा मकुट मण्डितः ॥ १४ ॥

दक्षेभयाक्ष मालायुग्वितरे वर पाशयुक्।
वरदाभय पाणिर्वा सर्व लक्षण संयुतः ॥ १५ ॥

हित्वाक्षमालां पाशंच पद्मं घण्टां क्रमेण वा।
योजयेत् सौम्यमूर्तिस्स्याद् उग्रमूर्तिरथोच्यते ॥ १६ ॥

शूल मूलाभये दक्षे शूलाग्र वरदेन्यतः।
रौद्र दृष्टिं ज्वलत्केशं व्यत्यास करशूलकम् ॥ १७ ॥

त्रिशूलास्त्रकरं वापि त्रिधा रौद्रं स्मरेन्यजेत्।
एवं रौद्रं तु मिश्रं स्यात् परशुं शूलमावहन् ॥ १८ ॥

दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते।
त्रिशूलं अभयं सव्ये पाशं च वरदप्रदम् ॥ १९ ॥

अथ द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ॥ २० ॥

पुष्पाक्षतान्न लिङ्गेषु पूजनीयस्स्वमन्त्रतः।
अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ॥ २१ ॥

सपीठे गोलकाकारे पीठेवाथ समर्चयेत्।
अन्नलिङ्ग प्रमाणेतु मूलाग्र समविस्तरे ॥ २२ ॥

हस्तावधि प्रमाणान्ते सर्वलक्षण लक्षिते।
स्थलिका मान दण्डेन सहितं वा तमर्चयेत् ॥ २३ ॥

इन्दुशेखर मूर्तिस्स्यात् प्रतिमा लक्षणेन तु।
पादुके त्र्यङ्गुले तस्मादङ्गुलाङ्गुल वर्धनात् ॥ २४ ॥

तिथिमात्रावसानं तु तयोर्दैर्घ्यं प्रकीर्तितम्।
दैर्घ्यानुसारतः कार्यो विस्तारस्यादर्ध उच्छ्रयः ॥ २५ ॥

अष्टांशावधिको मध्य मानेन नवमानकः।
तयोस्तु वृषभः पूज्यः अनन्तो वा प्रकीर्तितः ॥ २६ ॥

समन्ताल्लोकपाः पूज्याः पूजादाववसानके।
नवान्नलिङ्ग संयुक्तं अथ नित्योत्सवं नयेत् ॥ २७ ॥

सर्वैरेतैस्समायुक्तं नित्योत्सवं अथाचरेत्।
द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह्ने च प्रदोषके ॥ २८ ॥

मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः।
रङ्गे वा शिबिकायां वा परिचारक मूर्धसु ॥ २९ ॥

आरोप्यालङ्कृतान् देवान् वितानेन समन्वितम्।
छत्र चामर संयुक्तं नानाध्वज समन्वितम् ॥ ३० ॥

गीतनृत्त समायुक्तं वाध्यध्वनि समन्वितम्।
धूप दीप समायुक्तं प्रदक्षिणं समाचरेत् ॥ ३१ ॥

आद्यं प्रदक्षिणं कुर्यात् मङ्गिणी तालसंयुतम्।
वृषस्य ब्रह्मतालं स्याद् अग्नेस्तालं तु भृङ्गिणी ॥ ३२ ॥

मातॄणां चण्डवाद्यं स्याद् विघ्नराजस्य ढक्करी।
षण्मुखस्योद्घटं चैव ज्येष्ठायाः कुञ्चि तालकम् ॥ ३३ ॥

तटप्रहारं दुर्गाया चण्डके विषम चिह्नकम्।
ग्रामे वा नगरे वापि तथा प्राकार एव वा ॥ ३४ ॥

द्वितीय भ्रमणं ह्येतन् महापीठ प्रदक्षिणम्।
एकं वापि द्वयं वापि त्रयं स्याच्चबरीयुतम् ॥ ३५ ॥

अथवा बलिपीठं तु ब्रह्मताल समन्वितम्।
गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ॥ ३६ ॥

पैशाचे त्वेकमेवं स्याच्छबरी ताल संयुतम्।
गोपुरे वाद्यहीनं वा शङ्खध्वनि समन्वितम् ॥ ३७ ॥

इन्द्रस्य समतालं स्याद् गान्धार स्वर संयुतम्।
बद्धापणं भवेदग्ने कोल्लिगान समन्वितम् ॥ ३८ ॥

दक्षिणे भृङ्गिणी तालं कौशिकेन समन्वितम्।
मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ॥ ३९ ॥

पश्चिमे नवतालं तु कामर ध्वनि संयुतम्।
वायव्यां बलितालं तु तक्केशि स्वर संयुतम् ॥ ४० ॥

सौम्यायां कोटिकः प्रोक्तस्तर्कराग समन्वितम्।
शालापणि समायुक्तं शांकरे ढक्करी मता ॥ ४१ ॥

एवं प्रदक्षिणम् कृत्वा तृतीयं धाम संविशेत्।
प्रक्षालिताङ्घ्रयस्सर्वे प्रविशेयुश्शिवालयम् ॥ ४२ ॥

अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु।
पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ॥ ४३ ॥

लिङ्गाद्देवं समाहृत्य लिङ्गे दक्षे निवेशयेत्।
शिवस्य पादयोः पूज्यौ पादुकौ वामदक्षिणौ ॥ ४४ ॥

अन्येषामपि देवानां समूले मूलबिंबवत्।
रूपान्तरं वा स्वाध्याय सिद्धं नित्योत्सवादिकम् ॥ ४५ ॥

संपाद्य तेन नित्यं तु नित्योत्सवं अथापि वा।
तदस्त्रं अन्नलिङ्गादौ पूजनीयं स्ववाहनम् ॥ ४६ ॥

पादुका द्वितये पूज्यं अन्यत्सर्वं समानकम् ॥ ४७ ॥

Uttarapāda – Kapitel 6: Das große Fest

उत्सवं संप्रवक्ष्यामि यथावदनुपूर्वकम्। ध्वजारोहोवरोहान्ता क्रिया उत्सव उच्यते ॥ १ ॥

ध्वजाङ्कुरो ध्वजाङ्गस्स्यात् ध्वजात्पूर्वं तु तन्नयेत्। तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ॥ २ ॥

द्विगुणे तद्दिने वापि ध्वजारोहणमारभेत्। मासभं तीर्थनक्षत्रं आर्द्रक्षं सर्वमासके ॥ ३ ॥

राज्ञां जन्मावसानर्क्षं अभिषेकर्क्षं एव वा। माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ॥ ४ ॥

विषुवायन पर्यन्तं ग्रहणान्तं तु तीर्थभम्। भूताष्टम्यन्तं अन्येषां स्वस्वतीर्थावसानकम् ॥ ५ ॥

त्रिगुणे द्विगुणे वापि तद्दिनेवाह्नि रात्रिके। अधिवासन पूर्वं तु ध्वजं आरोपयेद् गुरुः ॥ ६ ॥

पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत्। मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ॥ ७ ॥

तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्त समावधि। भागं कृत्वैकभागेन पटविस्तार उच्यते ॥ ८ ॥

विस्तारेण समः पुच्छस्त्रिपादो वार्धमुच्यते। विस्तारार्धं शिरो ज्ञेयं पुच्छद्वय समन्वितम् ॥ ९ ॥

वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत्। आयादिशुभ संयुक्तं स्थितं वा शयनान्वितम् ॥ १० ॥

श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम्। रक्तशृङ्ग समायुक्तं तद्वत् खुरसमन्वितम् ॥ ११ ॥

ग्रामाभिमुख संस्थानं ग्रामादि भ्रमणे वृषम्। विश्वामित्रादि षट्त्रिंशत् मात्रोत्सेध समन्वितम् ॥ १२ ॥

जात्यांश समायुक्तं त्रिवर्ण नयनान्वितम्॥ सर्वलक्षण संयुक्तं स्वर्णमाला समन्वितम् ॥ १३ ॥

मानं मात्राङ्गुलाभ्यां स्याद् ध्वजदण्डः पटोवृषः। पद्मासन समायुक्तं पार्श्वे दीपद्वयान्वितम् ॥ १४ ॥

चामरद्वय संयुक्तं छत्रसंवृत मस्तकम्। पूर्णकुम्भयुतं वापि त्रिशूलेन युतं न वा ॥ १५ ॥

एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम्। अस्त्रतोयेन संप्रोक्ष्य शिवाग्रे मण्टपेपि वा ॥ १६ ॥

मनोरमेऽन्य देशे वा स्थण्डिलद्वय संयुते। स्थालिकोर्ध्वे न्यसेत् पात्रं त्रिपाद्युपरि संस्थितम् ॥ १७ ॥

ध्वजं नवघटं वस्त्र हेम रत्नं सकूर्चकम्। सापिधानं ससूत्रं च मध्यमे वृषभाधिपम् ॥ १८ ॥

कलशैरष्ट संख्यातैः सापिधानैस्सवस्त्रकैः। सलोकपैस्सकूर्चैस्तु वृतं वृषभ पूर्वकम् ॥ १९ ॥

आधाराख्यं अनन्तं च धर्माद्यं च चतुष्टयम्। वृषासन पदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ॥ २० ॥

प्रणवादि नमोन्तं च कृत्वोक्षासनमत्र हि। वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ॥ २१ ॥

ऊर्ध्वे ब्रह्माणि विन्यस्य मूलं तत्कल्पितं न्यसेत्। संकल्पित हृदादींश्च क्रमेण विनिवेशयेत् ॥ २२ ॥

तत्त्वतत्त्वेश्वरोपेतं मूर्तिमूर्तीश्वरान् न्यसेत्। आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ॥ २३ ॥

कृत्वा वृषभ गायत्र्या गन्धाद्यैः क्रमशोऽर्चयेत्। मध्यकुंभेपि संपूज्य लोकपान् परितो यजेत् ॥ २४ ॥

कुण्डे वा स्थण्डिले वापि पूर्ववत् परिकल्पिते। निरीक्षणादि संस्कारैः शिवाग्निं संप्रकल्पयेत् ॥ २५ ॥

तन्मध्ये वृषमावाह्य साङ्गं संतर्पयेत् तदा। समिदाज्येन चरुणा शतेनाष्टोत्तरेण च ॥ २६ ॥

तत्त्व तत्त्वेश्वरादींश्च होमयेत् तदनन्तरम्। पूर्णां दत्वा समूलेन सर्वकाम प्रपूरणीम् ॥ २७ ॥

संपूज्य गन्धपुष्पाद्यैः मुद्गान्नं तु निवेदयेत्। पटस्थाय घटस्थाय वृषायासन रूपिणे ॥ २८ ॥

प्रातस्संपूज्य गन्धाद्यैः पटं कुंभं यथाक्रमम्। मुखवासन तांबूलं वृषभाय निवेदयेत् ॥ २९ ॥

पुनः पूर्णाहुतिं दत्वा सर्वमङ्गल संयुतम्। सर्वातोद्य समायुक्तं नृत्त वाद्य समन्वितम् ॥ ३० ॥

रङ्गे वा शिबिकायां वा समारोप्य वृषध्वजम्। त्रिशूलेन समायुक्तं देवेशेन युतन्नवा ॥ ३१ ॥

ग्राम प्रदक्षिणं नीत्वा प्रविशेदालयं प्रति। दण्डं संस्थापयेत्पश्चात् सर्वलक्षण संयुतम् ॥ ३२ ॥

ध्वजारोह दिनेवापि अधिवास दिनेपि वा। धामोच्चस्तारसदृशो द्विगुणस्त्रिगुणोपि वा ॥ ३३ ॥

षट्सप्त वसु हस्तेन दण्डस्यादधमत्रये। एकादि तलपर्यन्तं गोपुरान्तं अथापि वा। रुद्रद्विगुण मध्यस्थ करसंख्या मितन्तु वा ॥ ३४ ॥

मध्ये कनीयसे चेएतु खातं चेत्तद्बहिष्कृतम्। सर्वशूलोक्त वृक्षोवा त्वक्सार क्रमुकादिकः ॥ ३५ ॥

पलाश खदिराश्वत्थ वटचन्दन दारवः। सालं माधूक तालं वा साराम्रकं अथापि वा ॥ ३६ ॥

वैणवं जातिवृक्षं वा शमिबिल्वं अथापि वा। चंपको वा द्विरष्टादि त्रिगुणावधिनाहयुक् ॥ ३७ ॥

स्वभाव नाह संयुक्तस्त्वक्सार द्रुमनिर्मितः। ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते ॥ ३८ ॥

द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च। एकांशेन विधातव्या ध्वजयष्टिर्गुरूतमाः ॥ ३९ ॥

पञ्चाङ्गुलं समारभ्य चाङ्गुलात् षोडशाङ्गुलम्। यावत्तावत् परीणाहं उपदण्डस्य कल्पयेत् ॥ ४० ॥

पञ्चांशाद् द्वादशांशान्तं मूलनाहं विधाय च। एकांशेनोनमग्रं स्यात् तथा दण्डाग्रं इष्यते ॥ ४१ ॥

दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टि महीरुहः। उभयोर्योगसिद्ध्यर्थं स्कन्धत्रयं अथाहरेत् ॥ ४२ ॥

स्कन्धद्वयं वा तन्मान द्वादशाङ्गुल मानतः। षट्त्रिंशन्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् ॥ ४३ ॥

सप्ताङ्गुलं समारभ्य गायत्र्यर्णाङ्गुलावधि। स्कन्धविस्तार उद्दिष्टो मूलाग्रे तु त्रिभागतः ॥ ४४ ॥

अर्धेन वा त्रिपादेन दर्व्याकारो यथातथा। चतुस्त्रिद्व्यङ्गुलं वापि मानमेषां प्रकीर्तितम् ॥ ४५ ॥

षट्सप्तवसुहस्तेन दण्डस्यादथ मृण्मये। मूलाग्र सुषिरोपेतो दण्डयष्ट्यनुरूपतः ॥ ४६ ॥

अर्धश्छिद्रत्वक्स्कन्ध प्रान्ते यष्ट्यग्र देशके। दण्डप्रान्ते विधेयं स्याद् वलयं स्कन्ध एव वा ॥ ४७ ॥

बृहत्स्कन्ध त्रिभागार्थं त्रिपाद गुणमानतः। षडङ्गुलं समारभ्य षडङ्गुल विवृद्धितः ॥ ४८ ॥

दण्डाखात प्रमाणान्तं दण्डाग्राद् वलयस्थितिः। तदर्धं वलयादूर्ध्वं यष्ट्यग्र्यं परिकीर्तितम् ॥ ४९ ॥

भूप्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम्। कल्पयेन्महदल्पं वा खातञ्चेत्तत् बहिष्कृतम् ॥ ५० ॥

दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च। पञ्चविंशति मात्रादि त्रयङ्गुल विवर्धनात् ॥ ५१ ॥

द्विगुणान्तं विधेयं वा भूमानं भूगत द्विजाः। एकाङ्गुलं समारभ्य पादमात्र विवृद्धितः ॥ ५२ ॥

त्रिमात्रान्तो विधेयं स्याद् वलयः कीलसंयुतः। वलयाकाश एषोवा वलयस्याद् यथाबलम् ॥ ५३ ॥

रज्जुर्वलय मध्ये स्याज्ज्येष्ठाद्यङ्गुल नाहयुक्। ध्वजारोह क्रियायोग्य दैर्घ्येण च समन्वितम् ॥ ५४ ॥

तन्तुजस्त्रिप्रदिष्टं स्याद् अशक्तौ बन्धनाहकम्। एवं रज्जु समापाद्य शुद्धिर्दण्डे विधाय च ॥ ५५ ॥

संवेष्ट्य दर्भमालाभिः ऊर्ध्वात्सर्वं क्रमेण तु। शतदर्भ कृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् ॥ ५६ ॥

अस्त्रमन्त्रेण संप्रोक्ष्य शिवतत्त्वादिकं न्यसेत्। साधिपञ्च त्रिधा दण्डं विभज्याग्रात् क्रमेण तु ॥ ५७ ॥

स्कन्धत्रये च तान्येव वलये रविमर्चयेत्। रज्जुशक्ति समाख्याता शिवस्स्याद् दण्डनायकः ॥ ५८ ॥

गन्धाद्यैरर्चयेद्देवं तत्तत्स्थापनं आरभेत्। रत्नन्यासं ततः कुर्याद् दण्डमूले निवेशयेत् ॥ ५९ ॥

कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत्। हैमगुञ्जादि निष्कान्तं मानं देवालयाननम् ॥ ६० ॥

अधोमुखञ्च दण्डाधः स्वस्वमन्त्रार्चितं द्विजाः॥ तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ॥ ६१ ॥

देवालयाननो दण्डो वृषाग्रे पृष्ठतोऽपि वा। तथैव गोपुरस्यापि महापीठान्तिकेऽपि वा ॥ ६२ ॥

अन्तर्मण्डल सालादि मध्ये गोपुरमध्यतः। नव पञ्चैक दण्डो वा वसु दिक्षु चतुस्सृषु ॥ ६३ ॥

प्रधानस्त्वग्र देशस्थो ध्वजास्तत्संख्यया मताः। अष्टदिक्षु च विद्येशाः चतुर्दिक्षु नरादिकाः ॥ ६४ ॥

दण्डाधिपास्समाख्याताः पटेषु वृष एव हि। दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ॥ ६५ ॥

हस्तमात्रं समारभ्य त्र्यङ्गुलादि विवृद्धितः। द्विहस्तमान पर्यन्तं वेदिका विस्तरो मतः ॥ ६६ ॥

समोत्तुङ्गा त्रिपदा वा अष्टांशात् सप्त पञ्चसु। चतुस्त्र्यंशार्ध तुङ्गं वा वेदिका परिकीर्तिता ॥ ६७ ॥

त्रिमेखलायुता वापि प्रत्येकं वसुमात्रतः। द्वित्र्यङ्गुलक्षयाद्वापि मेखला मानमीरितम् ॥ ६८ ॥

मेखला रहिते पीठे मुलेए स्यादुपवेदिका। द्व्यङ्गुलात् पादवृद्ध्या तु षडङ्गुल समावधि ॥ ६९ ॥

पदार्धार्ध त्र्यङ्घ्रि समा उत्सेधाः परिकीर्तिताः। वेद्यूर्ध्वेऽब्जं प्रकर्तव्यं चतुरङ्गुल मानतः ॥ ७० ॥

व्योमाङ्गुल विवृद्ध्याष्टादशाङ्गुल समावधि। पद्मोत्सेधः समाख्यातो विस्तारो वेदिका समः ॥ ७१ ॥

एकैकाङ्गुल वेशात्तु रुद्रमात्र समावधिः। पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ॥ ७२ ॥

कर्णिका निर्गमो दण्डात् पादवृद्ध्यैक मात्रतः। गुणाङ्गुलावधिः कार्यस्तद्वदुत्सेध उच्यते ॥ ७३ ॥

चतुरष्टदलं पद्मं विकारदलमेव वा। वृत्तं वा चतुरश्रं वा विधेयं दलवेष्टनम् ॥ ७४ ॥

तथोपदल संयुक्तं तद्वियुक्तं तु वा भवेत्। एवं संपाद्य पीठं तु कारयेच्छिल्पिमोक्षणम् ॥ ७५ ॥

पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्षणादिकम्। दर्भैर्दण्डं समावेष्ट्य वृषकुंभं च तत्पटम् ॥ ७६ ॥

त्रिशूलेन समायुक्तं मङ्गलाङ्कुर शोभितम्। धाम प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ॥ ७७ ॥

आधाराख्यं अनन्तं तु कूर्मे तु विनिवेशयेत्। कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ॥ ७८ ॥

दलेष्वष्टसु वामाद्याः कर्णिकायां मनोन्मनीम्। दण्डे सदाशिवं चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ॥ ७९ ॥

त्रिवर्ग सहिता सा च स्नपनोक्त विधानतः। बध्वा वृषपटं रज्वा वृषगायत्रि मन्त्रतः ॥ ८० ॥

क्षुद्रघण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन्। कुंभाद्बीजं समादाय वृषरूपंस्मरन् गुरुः ॥ ८१ ॥

वृषेन्द्र हृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत्। आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः ॥ ८२ ॥

आदौ स्पृष्ट्वा स्वयं चान्यं प्रेरयेद्रोहणाय च। अधोमुखे वृषे राज्ञश्शान्तिर्भूम्यां विशेषतः ॥ ८३ ॥

पटोर्ध्वगे वृषे राज्ञो जयो देवादि तृप्तये। आप्येन्दु शर्व पूर्वासु ध्वजस्य गमनं शुभम् ॥ ८४ ॥

क्षेमारोग्य जयाः पुष्टिः क्रमेण फलमीरितम्। तापो मृत्युर्महारोगो वह्निकोणात्फलं भवेत् ॥ ८५ ॥

वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत्। आरोहेण निरुद्धे चेत् पटे देशिक दोषतः ॥ ८६ ॥

दोषशान्तिं तदा कुर्यात् बहुरूप मनुस्मरन्। शतमष्टोत्तरं ब्रह्म समिदाज्यान्न संयुतम् ॥ ८७ ॥

वृषकुंभस्थ तोयेन प्रोक्षयेद्दण्ड मूलकम्। वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च ॥ ८८ ॥

तत्तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेद्गुरुः। गन्धपुष्पादिनाभ्यर्च्य मुद्गान्नं विनिवेदयेत् ॥ ८९ ॥

पुण्याह कालादारभ्य यावन्नैवेद्य दानकम्। सर्वातोद्य समायुक्तं गानध्वनि समन्वितम् ॥ ९० ॥

चतुर्दिङ्नर्तनं कुर्याद् विशेषाच्छुद्ध नर्तनम्। अतः प्रभृति तीर्थान्तं अवरोहा वसानकम् ॥ ९१ ॥

एककालं त्रिकालं वा द्विकालं पूजयेद्वृषम्। यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टि निवेशनम् ॥ ९२ ॥

नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि। नोपसर्गभयं तत्र न परागमविभ्रमः ॥ ९३ ॥

विपरीता न मतयो रोगिणामपि भूयसा। स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ॥ ९४ ॥

शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः। कृतघ्नो ब्रह्महा गोघ्नो दृष्ट्वा ध्वज निवेशनम् ॥ ९५ ॥

प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम्। भेरी संताडनं रात्रौ कर्तव्यं तु यथाविधि ॥ ९६ ॥

स्थण्डिलद्वितयं कुर्याद् देवदेवस्य सन्निधौ। षडुत्थमासनं कुर्याच्छुले भेर्यां गुरूत्तमाः ॥ ९७ ॥

एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत्। पूर्वापरायतां पूर्वस्थितं दक्षाननान्वितम् ॥ ९८ ॥

पुण्याहं वाचयित्वादौ त्रिशूले देवता न्यसेत्। मध्यपत्रे भवेद्रुद्रो ब्रह्मा दक्षिणपत्रके ॥ ९९ ॥

वामे विष्णुस्समावाह्यः पालिकायां तु पार्वती। सेनानीः कुंभदेशे तु तदास्ये विघ्नराजकः ॥ १०० ॥

दण्डाग्रे मदनो ज्ञेयो भास्करो दण्डमध्यमे। दण्डमूले तु चण्डेशो लक्ष्मीः पूर्व दलाग्रके ॥ १०१ ॥

मातरस्सप्त दक्षे तु ज्येष्ठा पश्चिम दिग्दले। कात्यायनी तु कौबेर्यां शूल मूले मता इमे ॥ १०२ ॥

रुद्रार्कवसवोऽश्विन्यावष्टा दशगणाश्च ये। तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवता न्यसेत् ॥ १०३ ॥

भेरीं वस्त्रेण संवेष्ट्य मध्ये रुद्रं समर्चयेत्। ब्रह्माणं दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् ॥ १०४ ॥

वलये दक्षिणे सूर्यं इतरे चन्द्रमर्चयेत्। सप्तकीलेषु मातॄश्च नवकीले नवग्रहान् ॥ १०५ ॥

रुद्रांस्तत्संख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम्। प्रहरे षण्मुखं पूर्वं मस्तकेऽभ्यर्चयेत् क्रमात् ॥ १०६ ॥

गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा। भेर्यास्सन्ताडनं कुर्याद् अस्त्रमन्त्र मनुस्मरन् ॥ १०७ ॥

एकप्रहारतः पूर्वं द्वितीयां द्विप्रहारतः। तृतीयं त्रिप्त्रहारेण त्रयं वैकप्रहारतः ॥ १०८ ॥

सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन्। वस्त्रं गन्धं च माल्यं च सोत्तरीयं ससूत्रकम् ॥ १०९ ॥

तद्धस्ते कुसुमं दद्यात् तन्मन्त्रं समनुस्मरन्। भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा ॥ ११० ॥

भेरीं स्कन्धे समारोप्य वादयेत् सर्वतालवित्। गान्धारादि स्वरोपेतं समतालादि तालकम् ॥ १११ ॥

गीतनृत्त समायुक्तं अन्नलिङ्ग समायुतम्। प्रतिमा सहितं वापि चण्डेश्वरयुतं तु वा ॥ ११२ ॥

संगृहीत्वास्त्र राजानं वितानश्छत्र संयुतम्। धूपदीपादि समायुक्तं घण्टाराव समन्वितम् ॥ ११३ ॥

प्रविश्य नागराद्यं तु ब्रह्मस्थानादितः क्रमात्। इन्द्रस्थानादितो वापि बलिं दद्यात् स्वनामतः ॥ ११४ ॥

बलिदानावसाने तु तालस्वर समायुतम्। नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च ॥ ११५ ॥

ब्रह्मणि ब्रह्मतालं स्यात् मेघराग स्वरान्वितम्। समतालं च गान्धारं कोल्लिबद्धावणं ततः ॥ ११६ ॥

भृङ्गिणी कौशिकं नट्टभाषया मल्ल तालकम्। श्रीकामरं नवाख्येन तक्केश्या बलितालकम् ॥ ११७ ॥

कोटिकं तर्करागेण शालापण्या तु ढक्करी। पूर्वादि दिक्षु संयोज्यं पूर्व तालं यथा तथा ॥ ११८ ॥

ध्वजारोहण पूर्वं स्यादुत्सवं त्रिगुणे दिने। भेरी ताडन पूर्वं चेत् तद्दिनाद् द्विगुणे मतम् ॥ ११९ ॥

देवस्य सन्निधौ कृत्वा स्थण्डिलानां चतुष्टयम्। न्यस्त्वास्त्रमूर्तिं आदौ तु तदग्रे विन्यसेत् पटम् ॥ १२० ॥

तदग्रे वृषकुम्भः स्याद् वृषविद्येश्वरान्वितः। तदग्रे विन्यसेद्भेरीं सर्वलक्षण संयुताम् ॥ १२१ ॥

क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात्। भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा ॥ १२२ ॥

प्रागुक्त विधिना चेष्ट्वा तत्त्वादीन् विनिवशयेत्। त्रिशूले देवताह्वानं कृत्वा प्रागुक्त वर्त्मना ॥ १२३ ॥

भेरीं सन्ताड्य संग्राह्य त्रिशूलं वृषभान्वितम्। अन्नलिङ्ग समायुक्तं सर्वातोद्य समन्वितम् ॥ १२४ ॥

ग्राम प्रदक्षिणं कृत्वा देवतावाहनान्वितम्। बलिप्रदान कालान्ते ध्वजस्थानं प्रविश्य च ॥ १२५ ॥

ध्वजस्यारोहणं कुर्यात् प्रागुक्त विधिना गुरुः। रात्रावेतत् समुद्दिष्टं भेरीताडन पूर्वकम् ॥ १२६ ॥

ध्वजस्य भ्रमणम् चाह्नि कुर्याद्वा संस्कृतस्य च। देवताह्वान काले तु वर्जयेद् वृषभ भ्रमम् ॥ १२७ ॥

ततोऽङ्कुरार्पणं रात्रौ यागारम्भदिने मतम्। तदर्थं अङ्कुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा ॥ १२८ ॥

ग्रामप्रदक्षिणं तीर्थाङ्कुरस्यावश्यकं मतम्। अन्येषामपि सर्वेषां कारयेत् वर्जयेत्तु वा ॥ १२९ ॥

अङ्कुरार्पणपूर्वं तु सायाह्न समये मृदम्। संगृह्य वापयेद्रात्रौ बीजान्यङ्कुर सिद्धये ॥ १३० ॥

तद्दिने चैतदिष्टं स्याद्भेरी ताडन पूर्वकम्। अन्यत्सर्वं समुद्दिष्टं अङ्कुरार्पण पूर्वके ॥ १३१ ॥

तद्रात्रावेव कर्तव्यो यागारम्भश्शिवस्य तु। केत्वङ्कुरो नवाहे स्यात् सप्ताहे चोत्सवाङ्कुरः ॥ १३२ ॥

एवं निश्चित्य पूर्वेद्युरस्त्रराजं तु वार्चयेत्। यागशालां ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ॥ १३३ ॥

वामेऽवामे तथा पञ्चशालानां इष्टदेशके। मध्यागारे विशेषेण पञ्चहस्त प्रमाणतः ॥ १३४ ॥

एकहस्त विवृद्ध्या तु तिथिहस्त समावधिः। पङ्क्तित्रय समायुक्तां पञ्चपङ्क्ति समन्विताम् ॥ १३५ ॥

समान पङ्क्तयो वा स्युर्मात्रादेकांश वर्धनात्। नवाङ्गुलान्त मानेन त्वधिकाः पञ्चपङ्क्तयः ॥ १३६ ॥

एकपङ्क्तियुतां वापि चतुर्द्वार महीयसीम्। एकद्वार युतां वापि मण्डपाकार संस्थिताम् ॥ १३७ ॥

शालाकूट निभां वापि नवपञ्चाग्नि संयुताम्। एकाग्नि सहितां वापि वितानध्वज संयुताम् ॥ १३८ ॥

दर्भमाला समायुक्तां मुक्तादाम प्रलम्बिताम्। नालिकेर फलोपेतां सर्वमण्डन मण्डिताम् ॥ १३९ ॥

मध्यमे वेदिकोपेतां वसुमात्र प्रमाणतः। एकाङ्गुल विवृद्ध्याष्टाविंशत्यङ्गुलकावधिः ॥ १४० ॥

वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः। अथवा पङ्क्तिमानेन चोपवेदी समन्विताम् ॥ १४१ ॥

मुष्टिरत्निमितं कुण्डं करमानं तु वा भवेत्। युगाश्रं वर्तुलं वापि त्रिमेखल समन्वितम् ॥ १४२ ॥

मण्डपे मालिकादौ वा कुर्याद्यागाधिवासनम्। एवं सर्वं च संपाद्य शिल्पिमोचनं आचरेत् ॥ १४३ ॥

पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत्। भूपरिग्रहणं वापि सर्वाध्वर शिरोयुतम् ॥ १४४ ॥

स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षण संयुतम्। द्रोणाद्द्रोण विवृद्ध्या तु नवद्रोणावसानकम् ॥ १४५ ॥

तदर्ध तण्डुलोपेतं तदर्ध तिलसंयुतम्। तद्वल्लाज समोपेतं मध्यमे नलिनं लिखेत् ॥ १४६ ॥

विचित्र कर्णिकोपेतं प्रज्ज्वलद्दलशोभितम्। तिललाजादि रेखाढ्यं दर्भवेष्टन संयुतम् ॥ १४७ ॥

पञ्चाद्येक विवृद्ध्या तु तत्त्व दर्भान्त संख्यया। तन्मध्ये स्थापयेत् कुम्भं शिवाख्यं वर्धनीयुअतम् ॥ १४८ ॥

अष्टविद्येश्वरोपेत कुम्भावरण संयुतम्। सर्वे ससूत्र वस्त्राढ्या हेमपङ्कज भूषिताः ॥ १४९ ॥

सापिधानास्सकूर्चाश्च पक्वबिल्व फलप्रभाः। स्नपनाध्याय संसिद्ध प्रमाणेन समन्विताः ॥ १५० ॥

शिवाख्ये नवरत्नं स्याद्वर्धन्यां पञ्चरत्नकम्। लोकेशादिषु हेमानि क्षिपेद्बाह्यघटेष्वपि ॥ १५१ ॥

आढ्येएनैवं प्रकर्तव्यं वस्त्रयुग्मं च मध्यमे। तोरणद्वार कुम्भांश्च लोकपाल घटानपि ॥ १५२ ॥

हित्वा विद्येश सहितं शिवशक्ति समन्वितम्। मङ्गलाष्टक संयुक्तं दशास्त्रं विनिवेशयेत् ॥ १५३ ॥

एवं संपाद्य सर्वं तु कुर्यात् प्रतिसरक्रियाम्। सौवर्णं राजतं सूत्रं यद्वा कार्पास निर्मितम् ॥ १५४ ॥

सौवर्णं राजतं बेर प्रकोष्ठ परिणाहतः। स्वल्पाधिअ प्रमाणाढ्यम् नागराज फणान्वितम् ॥ १५५ ॥

तत्पुच्छ संयुतं सूत्रं पट्टाकार समन्वितम्। अनन्तस्त्वधिदेवस्स्यात् सौवर्णे राजतेऽपि वा ॥ १५६ ॥

सर्वकाम प्रसिद्ध्यर्थं सूत्रमेक मतं भवेत्। ग्रथितं श्रेष्टमित्युक्तं वलयग्राहकान्वितम् ॥ १५७ ॥

क्षौमपट्टादि सूत्रोक्तं यदि तत्त्व त्रयात्मकम्। शान्त्यर्थं विजयार्थं तत् कलात्मकमपि स्मृतम् ॥ १५८ ॥

नवतत्त्वात्मकं कार्यं आरोग्यार्थं प्रमाणतः। षडङ्ग मूर्तिपाङ्गं चेत् पुत्रायुष्य फलप्रदम् ॥ १५९ ॥

एकद्वित्र्यङ्गुलाधिक्यं योग्यानाह प्रमाणतः। संशोध्य वारिणा चैवं चन्दनेनोपलिप्य च ॥ १६० ॥

भस्माधारे न्यसेद्भस्म मध्ये नेत्र मनुं स्मरन्। प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ॥ १६१ ॥

पात्रं संस्थाप्य संपूर्य तण्डुलैरुडुसन्निभैः। द्विप्रस्थान्तैर्न तद्धीन द्रोणाद्यैर्हृदयं स्मरन् ॥ १६२ ॥

तन्मध्ये विन्यसेत् सूत्रं भस्माधार समन्वितम्। अभिन्न युग्म सुश्लक्ष्ण पूगसार समन्वितम् ॥ १६३ ॥

अच्छिन्नमूल पूर्वोदग्वक्त्र ताम्बूलकान्वितम्। ताम्बूलं सूत्रसहितं स्थण्डिलोपरि न्यसेत् ॥ १६४ ॥

पुण्याहं वाचयित्वा तु प्रोक्षयेत् हृदयेन तु। स्थण्डिले पूजयेच्छक्तिं यन्त्रिकायां त्रितत्त्वकम् ॥ १६५ ॥

प्रधान तत्त्वं पात्रे स्याद्दण्डवत्तण्डुले मता। भस्माधारे उमाख्या स्याद्भसिते लकुलीश्वरम् ॥ १६६ ॥

अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत् क्रमात्। पात्रमाच्छाद्य पट्टाद्यैः मालां तदुपरि न्यसेत् ॥ १६७ ॥

सर्वालङ्कार संयुक्तं सर्वातोद्य समन्वितम्। ग्राम प्रदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ॥ १६८ ॥

कारयेद्वर्जयेद्वाथ देवेशं पूजयेत् ततः। अङ्गुष्ठानामिकाभ्यां तु गृहीत्वा वाम हस्ततः ॥ १६९ ॥

आलभेद्भस्म संयुक्तं सूत्रं दक्षाङ्गुलद्वयम्। मन्त्रेणानुष्टुभा नेत्रं स्मरन् सव्य प्रकोष्ठके ॥ १७० ॥

देवानां बन्धयेत् तत्र भसितं विनिवेशयेत्। सर्वात्मनाथ देवीनां वामे वा दक्षिणेऽथवा ॥ १७१ ॥

जनेभ्यो भसितं दद्याद् देशिकप्रमुखस्तथा। ताम्बूलं च फलापूप नालिकेर फलान्वितम् ॥ १७२ ॥

दद्याद्देवाय भकेतेभ्यो दापयेद्वर्जयेत्तु वा। स्कन्दोमासहिते स्कन्दहीने वा चन्द्रशेखरे ॥ १७३ ॥

देवीयुक्ते वियुक्ते वा नृत्तरूपे विशेषतः। उमामहेश्वरे वापि सुखासीने महेश्वरे ॥ १७४ ॥

अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च। एकद्वित्रिषु सर्वत्र वाञ्चया कौतुकं मतम् ॥ १७५ ॥

कौतुकं चेत् कृतं कार्यं ग्रामादीनां प्रदक्षिणम्। यागारम्भ दिने त्वेतद्विधानं परिकीर्तितम् ॥ १७६ ॥

अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा। कौतुकं वाञ्चिते बिम्बे तद्दिनात् पूर्वरात्रिके ॥ १७७ ॥

रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः। त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेऽपि वा ॥ १७८ ॥

दशायुधानां सर्वेषां सूत्रबन्धनं इष्यते। यागारम्भस्य पूर्वेद्युस्तद्दिने वा समाचरेत् ॥ १७९ ॥

तीर्थार्थं अङ्कुरं कुर्यादनयोः पूर्वकालतः। देशिको मूर्तिपैस्सार्धं सकलीकृत विग्रहः ॥ १८० ॥

द्वारपूजां ततः कृत्वा यागशालां प्रविश्य च। ब्रह्मेष्टिम् भूतशुद्धिं च सकलीकरणं पुनः ॥ १८१ ॥

पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्य वारिणा। वेदिकायांततः कृत्वा स्थण्डिले तु शिवासनम् ॥ १८२ ॥

कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत्। पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत् कलामयम् ॥ १८३ ॥

विद्यादेहं च संकल्प्य प्रणवं विन्यसेच्छिवम्। हृदयादीनि विन्यस्य पाद्याद्यैरर्चयेत् ततः ॥ १८४ ॥

एवें मनोन्मनीं न्यस्त्वा शक्तिमन्त्रेण पूजयेत्। विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ॥ १८५ ॥

तदस्त्राणि च संपूज्य दर्पणादीनि पूजयेत्। तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वस्थलेऽपि वा ॥ १८६ ॥

अष्टदिक्षु वा संपूज्य महादिक्षु द्वयं द्वयम्। तदन्ते चास्त्रराजानं अष्टदिक्स्थण्डिले स्थितम् ॥ १८७ ॥

एवें क्रमेण संपूज्य यायात् कुण्डान्तिकं गुरुः। संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ॥ १८८ ॥

नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिग्गतम्। न्यस्त्वावाह्य शिवं साङ्गं सब्रह्माङ्गं च तर्पयेत् ॥ १८९ ॥

चतुर्दिक्षु नराद्याः स्युर्हृदयाद्या विदिक्षु वै। स्वस्वमन्त्रैः पधाने तु सर्वमन्त्रैश्च तर्पयेत् ॥ १९० ॥

वेणुबिल्वयवा वापि सक्तु क्षीरं यवं गुलम्। तिलसर्षपमुद्गा वा होमकर्मणी संस्थिताः ॥ १९१ ॥

ब्रह्मशालि यवा वापि माषशालि यवैस्सह। तिलसर्षप मुद्गाश्च सक्तु वेणु गुलं मधु ॥ १९२ ॥

चतुर्धावैवं समाख्यातं होमद्रव्यं मुनीश्वराः। समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ॥ १९३ ॥

शतमष्टोत्तरं होमं शिवेनाङ्गैर्दशांशतः। प्रधाने त्वन्यकुण्डेषु मूलार्धं जुहुयुः क्रमात् ॥ १९४ ॥

द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ताः शिवागमे। तन्त्रभेदेन मन्त्राणां भेदो नात्र विधीयते ॥ १९५ ॥

होमान्ते तु हविर्दद्यात् होमादौ वा हविर्भवेत्। तदन्ते बलिदानं स्यात् तद्विधानं इहोच्यते ॥ १९६ ॥

नित्योत्सव विधानेन कृत्वा लिङ्गं हविर्मयम्। तत्रेष्ट्वा चास्त्रराजं तु त्रिसूलेन समन्वितम् ॥ १९७ ॥

दशायुध समोपेतं धूपदीप समन्वितम्। घण्टारव समोपेतं बलिद्रव्य समायुतम् ॥ १९८ ॥

नानाच्छत्र समायुक्तं नानावाद्य समन्वितम्। प्रविश्य नगराद्यं तु देशिकश्शिष्य एव वा ॥ १९९ ॥

देवताह्वान देशे तु बलिं दद्यात् क्रमेण तु। लड्डुकं मोदकं मौद्गं गुलं सक्तुम् गणेश्वरे ॥ २०० ॥

पायसं रात्रिचूर्णं तु पद्मपुष्पं सलाजकम्। ब्रह्मप्रियं इदं देयं द्वितीयेऽहनि कीर्तितम् ॥ २०१ ॥

कृसरान्नं घृतोपेतं कदलीफल संयुतम्। तृतीयेऽहनि दातव्यं भूतानां प्रीति कारणम् ॥ २०२ ॥

रात्रिचूर्ण समोपेतं नालिकेर फलान्वितम्। चतुर्थेऽहनि दातव्यं गन्धर्व प्रियमेव च ॥ २०३ ॥

घृतं प्रियङ्गु संयुक्तं इन्द्रवल्ली समन्वितम्। पञ्चमेऽहनि दातव्यं इन्द्र प्रियकरं भवेत् ॥ २०४ ॥

वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम्। षष्ठेऽहनि प्रदातव्यं ऋषीणां प्रीति सिद्धये ॥ २०५ ॥

गुलान्नं घृतसंयुक्तं बृहती फलसंयुतम्। सप्तमेऽहनि दातव्यं श्रियः प्रीतिकरं भवेत् ॥ २०६ ॥

माषोदनं घृतोपेतं अजमांस समन्वितम्। अष्टमेऽहनि दातव्यं राक्षस प्रीति सिद्धये ॥ २०७ ॥

शुद्धान्नं दधि संयुक्तं लाजपुष्प समन्वितम्। नवमेऽहनि दातव्यं शिव प्रीतिकरं भवेत् ॥ २०८ ॥

अथवान्य प्रकारेण देवताद्रव्यं उच्यते। शुद्धान्नं दधि संयुक्तं लड्डुकापूप संयुतम् ॥ २०९ ॥

फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत्। फलैश्च रजनी चूर्णं घृतान्नं दधि सक्तु च ॥ २१० ॥

भूतेभ्यः कृसरः प्रोक्तस्तेन तेभ्यो बलिर्भवेत्। पद्ममूल कुशाग्रं च शाल्यन्नं घृतमिश्रकम् ॥ २११ ॥

कदलीफल संयुक्तं ऋषिभ्यो बलिमाचरेत्। इन्द्रवल्ली हरिद्रा च प्रियङ्गु घृत संयुतम् ॥ २१२ ॥

चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये। पायसं रात्रिचूर्णं च पद्मपुष्पं सलाजकम् ॥ २१३ ॥

पञ्चमेऽहनि दातव्यं ब्रह्म प्रीतिकरं भवेत्। गुलान्नमाज्य संयुक्तं बृहती फल संयुतम् ॥ २१४ ॥

षष्ठेऽहनि प्रदात्वयं विष्णु प्रीति विवृद्धये। कृसरान्नं घृतोपेतं नालिकेर फलान्वितम् ॥ २१५ ॥

सप्तमेऽहनि दातव्यं शिव प्रीतिकरं भवेत्। वेण्वन्नं दधिसंयुक्तं कदली पनसान्वितम् ॥ २१६ ॥

अष्टमेऽहनि दातव्यं ईश्वर प्रीति सिद्धये। शुद्धान्नं दधि संयुक्तं लाजपुष्प समन्वितम् ॥ २१७ ॥

नवमेऽहनि दातव्यं सदेश प्रीतिहेतवे। नवानां दिवसानां तु देव द्रव्याणि च द्विजाः ॥ २१८ ॥

कथितान्यथ ऊर्ध्वं तु कथ्यते द्वादशाहके। मुद्गान्नं लड्डुकं सर्पिः कदली गुल संयुतम् ॥ २१९ ॥

प्रथमेऽहनि दातव्यं विघ्नमन्त्र मनुस्मरन्। रक्तान्नं मांस संयुक्तं कृसरापूप संयुतम् ॥ २२० ॥

घृत मत्स्य समायुक्तं जपाकुसुम संयुतम्। द्वितीयेऽहनि दातव्यं पैशाचं मन्त्रमुच्चरन् ॥ २२१ ॥

पायसं सक्तु पुष्पं च पद्मपुष्प समन्वितम्। तृतीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ॥ २२२ ॥

कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम्। चतुर्थेऽहनि दातव्यं गान्धर्वं मन्त्रमुच्चरन् ॥ २२३ ॥

इन्द्रवल्ली हरिद्रान्नं सघृतं लाज संयुतम्। पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् ॥ २२४ ॥

गुलान्नं घृतसंयुक्तं नालिकेर फलान्वितम्। षष्ठेऽहनि प्रदातव्यं स्कन्दमन्त्रमनुस्मरन् ॥ २२५ ॥

कुशाग्रं घृत संयुक्तं शुद्धान्नं दधि संयुतम्। सप्तमेऽहनि दातव्यं ऋषीणां मन्त्रमुच्चरन् ॥ २२६ ॥

क्षीरान्नं शालिपिष्टं च इक्षुखण्ड समन्वितम्। अष्टमेऽहनि दातव्यं नागमन्त्रमनुस्मरन् ॥ २२७ ॥

दधिकान्नं गुलोपेतं मातुलङ्गफलं तथा। नवमेऽहनि दातव्यं ऐन्द्रमन्त्रमनुस्मरन् ॥ २२८ ॥

गुलान्नं आज्य संयुक्तं कदली पनसान्वितम्। दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन् ॥ २२९ ॥

रक्तान्नं मांस संयुक्तं अपूपं तिलचूर्णयुक्। एकादशाहे दातव्यं राक्षसं मन्त्रमुच्चरन् ॥ २३० ॥

शाल्यन्नं दधि संयुक्तं गुलखण्ड समन्वितम्। द्वादशेऽहनि दातव्यं शिवमन्त्रमनुस्मरन् ॥ २३१ ॥

सप्ताहे वाथ पञ्चाहे त्रिदिने व्योम रात्रके। पूर्वं त्यक्त्वाऽपरं प्रोक्तं दिनद्रव्यं च देवताः ॥ २३२ ॥

दिनदेवबलिद्रव्यं कथितं मुनिसत्तमाः। पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैः बलिर्भवेत् ॥ २३३ ॥

दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधि संयुतम्। दद्याल्लोकेश तृप्त्यर्थं लोकपालादि मन्त्रतः ॥ २३४ ॥

वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात्। बलिं दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् ॥ २३५ ॥

ध्वजादि बलिपीठान्तं अथवा बलिरीरितः। ब्रह्मादि बलिपीठान्तं शक्रात् पीठान्तमेव वा ॥ २३६ ॥

तत्तद्दिनाधिदेवानां बलिपीठे बलिस्तु वा। दिनदेवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा ॥ २३७ ॥

लोकेशोभ्यो बलिर्वापि दिनदेवेषु वा मतः। दिनदेव बलिद्रव्यैः लोकपालेऽथ वा बलिः ॥ २३८ ॥

दिनानामपि सर्वेषां दिनं प्रति बलिद्वयम्। कुर्याद्वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा ॥ २३९ ॥

सायं प्रातर्बलिंदद्यात् तत्काले वा तदन्तके। बेरयात्रा प्रकर्तव्या यानक्रम इहोच्यते ॥ २४० ॥

प्रथमे वृषयन्त्रं स्याद् द्वितीये भ्रमणार्हकम्। डोलायन्त्रं तृतीये स्याद्वाजियन्त्रं ततः परम् ॥ २४१ ॥

सिंहयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत्। मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् ॥ २४२ ॥

अन्योन्यं चारुरूपाणि कार्याणि द्विजसत्तमाः। बेराण्यनेक रूपाणि तदन्ते कथितानि च ॥ २४३ ॥

तदन्ते बलिदानं स्याद्बलिपीठ समन्वितम्। अन्नलिङ्ग समायुक्तं त्रिशूलेन समायुतम् ॥ २४४ ॥

दशायुध समायुक्तं गोलका लिङ्ग संयुतम्। रथस्थित गणेशानां तदन्ते नन्दिकेश्वरे ॥ २४५ ॥

रथे वा शिबिकायां वा सर्वालङ्कार संयुतम्। एतैस्सर्वैर्विहीनेऽग्रे बल्यङ्गैश्च समन्वितः ॥ २४६ ॥

तदग्रे वृषभः पश्चान् नृत्तार्थं मुखरङ्गकम्। तदन्ते देवदेवेश रथस्सर्वाङ्गसुन्दरः ॥ २४७ ॥

रथाग्रोभयहस्ताभ्यां भूषिताभ्यां विशेषतः। धृतचामर हस्ताभ्यां मत्कन्याभ्यां विराजितः ॥ २४८ ॥

नवरत्नोज्ज्वलत् श्वेत छत्रेणोपरिगामिना। मदन्तिक गतेनैव शैवाचार्येण शोभितः ॥ २४९ ॥

मत्पृष्ठभाग संस्थेन मत्कर्म निरतेन च। परिचारक संज्ञेन मद्भक्तेनाप्रमादिना ॥ २५० ॥

पद्मकुड्मल सन्नद्ध पाशसंबन्ध हस्तया। पुरुषाकार धारिण्या शोभितो रुद्रकन्यया ॥ २५१ ॥

मद्दाश्या वाथ सर्वाङ्ग सुन्दर्या स्यन्दनस्य च। तदन्ते देवदेवेशी रथस्तद्वद्विभूषितः ॥ २५२ ॥

तदन्ते चण्डनाथस्य पृथग्वाद्य समन्वितः। षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु ॥ २५३ ॥

शिवभक्ताश्च ये ख्यातास्तेषां रङ्गान्यनेकधा। तान्यग्रकानि नेयानि पृष्ठतो वा द्विजोत्तमाः ॥ २५४ ॥

एषामिष्टं तु यद्ग्राह्यं बल्यङ्गैः कौतुकं विना। नानावाद्य समायुक्तं गजाश्वाद्युष्ट्र संयुतम् ॥ २५५ ॥

वीथिसम्मर्जनोपेतं जलसेक समन्वितम्। गृहं प्रीतिकृतालेप चूर्णचित्र समन्वितम् ॥ २५६ ॥

मङ्गलाङ्कुर सद्दीप वर्धनी कुम्भवारियुक्। कदलीपूग संयुक्तं पट्टवस्त्रादि शोभितम् ॥ २५७ ॥

दर्भमाला समायुक्तं मुक्तादाम विभूषितम्। उपरिष्टादधस्तात्तु तल प्रतितलं प्रति ॥ २५८ ॥

विन्यसेद् दीपदण्डांश्च रात्रौ चेद्दीपमालवा। गृहालङ्कार उद्दिष्टो गृहहीनस्थलेऽपि च ॥ २५९ ॥

नानाध्वज समोपेतं नानावाद्य समन्वितम्। नानागान समोपेतम् नानानृत्त समन्वितम् ॥ २६० ॥

नानाच्छत्र समोपेतं छत्रचामर संयुतम्। तालवृन्त समोपेतं धूपदीप समन्वितम् ॥ २६१ ॥

यानं प्रतिदिनं कुर्यादह्नि रात्रौ महोत्सवे। रथादौ शिबिकादौ वा परिचारक मूर्धसु ॥ २६२ ॥

यानकाले तु ताम्बूलं देयं नाना फलानि च। भक्ष्यापूपादिकं देयं दत्वा काण्डपटादिकम् ॥ २६३ ॥

योग्यायोग्य विभागेन दग्धार्द्र विषये क्रमात्। दग्धं सर्वं द्विजैस्सिद्धं आर्द्रं शूद्रैस्तु वा मतम् ॥ २६४ ॥

वित्वक् सत्वक् कृतं युक्त्या वीक्षणादि विशोधितम्। शङ्खध्वनि समायुक्तं पाद्याचमन संयुतम् ॥ २६५ ॥

प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते। दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु ॥ २६६ ॥

आगन्तुकेभ्यस्त्वन्येभ्यः तत्तद्भक्त्यनुसारतः। प्रवेश्यास्थान कूटाद्यं आसनस्थाय शम्भवे ॥ २६७ ॥

दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक्। कार्यं तक्षादि संस्पृष्ट रथादि स्पर्श शान्तये ॥ २६८ ॥

चण्डालपाणदृग्दोष निवृत्यर्थं विशेषतः। आवश्यकं इदं ज्ञेयं प्रतियानं गुरूत्तमाः ॥ २६९ ॥

शान्तिहोमं विना वाथ अशक्तौ स्नपनं नयेत्। पञ्चप्राकार बाह्ये तु मम याने प्रकल्पिते ॥ २७० ॥

विधाय स्नपनं वाथ पञ्चकारि समन्वितैः। चत्वारिंशन्मितैर्भारैः जलैर्वाथ तदर्धतः ॥ २७१ ॥

पादेन वाथ तन्न्यूनैः स्नापयेद् देवं आदरात्। मृगयायां विश्षेण स्नपनं परिकल्पयेत् ॥ २७२ ॥

स्वकाल विहितं चैतदिष्टदं परिकीर्तितम्। प्रातस्सन्ध्यार्चनं नित्यं यागमण्डप वेशनम् ॥ २७३ ॥

रथाद्यारोहणं यानं ततो मध्याह्न पूजनम्। रथे चेद्धूपदानान्तं नैवेद्यान्तं शिवालये ॥ २७४ ॥

यात्रार्थ स्नपनं पश्चात्ततो नैमित्तिकार्चनम्। विनोद दर्शनं चान्ते प्रदोष पूजनं ततः ॥ २७५ ॥

पुनर्होमो विनोदश्च ततो ग्राम प्रदक्षिणम्। यात्रार्थ स्नपनं पूजा नृत्तगेयादि दर्शनम् ॥ २७६ ॥

ततो धाम निवेशश्च देव्यासह निवेशनम्। काले षोडश संख्याते यामार्ध परिनिष्ठिते ॥ २७७ ॥

कृत प्रतिसरस्यैता देवस्य विहिताः क्रियाः। स्वकालेऽनुष्ठितास्त्वेताः क्रियास्सर्वार्थ साधकाः ॥ २७८ ॥

पूर्वपूर्व ग्रहेऽपुष्टिः पृष्ठ पृष्ठ ग्रहेऽशुभः। तस्मात् सवप्रयत्नेन पूर्वकाले समाचरेत् ॥ २७९ ॥

स्वकाले वाथ दोषः स्यात् पृष्ठकाले समाचरेत्। यानकाले बलेः काले पूर्वकालेऽथवा मतः ॥ २८० ॥

परिवारोक्त मार्गेण बलिपीठं समाचरेत्। मार्दं वार्क्षं तु वा पीठं लोहं वा भूविलेपनम् ॥ २८१ ॥

यागमण्डप वेशं च हित्वान्तर्वेशनं तु वा। तत्र ताम्बूल दानाद्यं वर्जयेद्वाथ कारयेत् ॥ २८२ ॥

उक्तकाल परित्यागे शान्तिहोमं च कारयेत्। रात्रौ नीराजनं कार्यं धूपदीपावसानके ॥ २८३ ॥

प्रभूतं तु हविर्दद्याद्यानकालावसानके। एवं प्रतिदिनं कुर्याद्विशेषस्त्वधुनोच्यते ॥ २८४ ॥

ग्रामादौ तद्बहिर्वापि कल्पिते मण्डपादिके। नीत्वा देवं समाराध्य विनोदालोकनं ततः ॥ २८५ ॥

प्रविश्य धाम वा नो वा नयेद्ग्रामं समस्तकम्। प्रवेशे वाथ वृष्ट्यादावेवमेव समाचरेत् ॥ २८६ ॥

भविष्यद्वृष्टि शङ्कायां अन्धकारे महत्यपि। शान्तिहोमो विधेयस्स्याद् अवशिष्ट प्रदक्षिणे ॥ २८७ ॥

यागारम्भ दिने वाथ तीर्थदान दिनेऽपि च। सकलं भ्रामयेद्ग्रामं प्रायश्चित्तं न चोच्यते ॥ २८८ ॥

ग्राम प्रदक्षिणे हीने दिशाहोमं तु कारयेत्। निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च ॥ २८९ ॥

बेरयात्रा प्रकर्तव्या बलिं नित्यं समाचरेत्। तीर्थाह्निः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् ॥ २९० ॥

तैलाभ्यङ्गं च तद्द्वारे रात्रिचूर्ण युतं तु वा। ताम्बूलदान सहितं देवे भक्तेषु च क्रमात् ॥ २९१ ॥

अन्यत्रापि च कर्तव्यं ध्वजारोहेऽपि वा मतम्। देवाग्रे स्थापयेत् तैलं स्थण्डिले यन्त्रिकोपरि ॥ २९२ ॥

अस्त्रमन्त्रेण संप्रोक्ष्य संहिता मनुना लभेत्। कवचेनावकुण्ठ्याथ यजेद्गन्धादिभिर्हृदा ॥ २९३ ॥

शिवतत्त्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः। सपुष्पं निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ॥ २९४ ॥

ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत्। तत्र वान्यत्र वा स्नानं कृत्वा मौद्गं निवेदयेत् ॥ २९५ ॥

तीर्थाहात् पूर्व दिवसे तत्पूर्वे वा समाचरेत्। नटेश भ्रामणं कुर्यात् तदर्थं पूर्व रात्रके ॥ २९६ ॥

कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये। सर्वाभरण युक्ताय पूजिताय विशेषतः ॥ २९७ ॥

तस्मादन्यत्र कूटे वा रङ्गे वास्थानमण्डपे। सर्वालङ्कार संयुक्तं कृत्वा धाम प्रदक्षिणम् ॥ २९८ ॥

तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च। विनोद दर्शनं चापि कारयेद् द्विजसत्तमाः ॥ २९९ ॥

प्रातः स्नानादिकं कृत्वा भूषयेद् भूषणार्हकैः। नानागरु सुगन्धं च कर्पूरेण विमिश्रितम् ॥ ३०० ॥

धाम प्रदक्षिणं कृत्वा सर्वातोद्य समन्वितम्। स्थण्डिलोपेरि संस्थाप्य पुण्याहंवाचयेत् ततः ॥ ३०१ ॥

संप्रोक्ष्यार्घ्यांभसास्त्रेण मन्त्रयेच्छर्व शम्बरैः। गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् ॥ ३०२ ॥

समिधाज्येनचरुणा तिललाजगुलैस्तु वा। मूलेन शतहोमस्स्याद् अस्त्रहोमो मतो न वा ॥ ३०३ ॥

पञ्चाग्नि संस्कृतियुक्तो होमस्सर्वार्थ साधकः। प्रायश्चित्तं त्वघोरेण कृत्वा पूर्णा समन्वितम् ॥ ३०४ ॥

सद्योजातेन संस्पृश्य गन्धमूलेन दापयेत्। सवत्सां गां सुवर्णं च कांस्यपात्रं सुवस्त्रयुक् ॥ ३०५ ॥

तिलमाज्यं अथान्यद्वा दद्यादाचार्य तृप्तये। जलदान समोपेतं यात्रादानं इदं मतम् ॥ ३०६ ॥

अथान्यद्वा हरिद्रां च लवणं तिलसर्षपौ। ताम्बूलं तण्डुलं चैव गन्धाज्य तिलतैलकम् ॥ ३०७ ॥

शिवदानं इति ख्यातं कर्तुरिष्टप्रदायकम्। योगिनां ध्यानयुक्तानां शिवज्ञानार्थ वेदिनाम् ॥ ३०८ ॥

तत्पूजादानं इष्टं स्यात् सर्वेषां प्राणिनामपि। उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च ॥ ३०९ ॥

प्रतिदिनं तु देयं स्याज्जलोपेतं तु तद्भवेत्। उष्णीषाद्यं प्रदातव्यं दद्यादाचार्य धीमतः ॥ ३१० ॥

आचार्यश्शिव एव स्यादनयोरन्तरं न हि। यः पश्येदनयोर्भेदं सोऽधोगतिमाप्नुयात् ॥ ३११ ॥

सर्वागमज्ञं शान्तं च शिवलिङ्गार्चनारतम्। नित्यहोमादिभिर्युक्तं शिवार्थान्न प्रकल्पकम् ॥ ३१२ ॥

ग्रहबल्यादि संयुक्तं भिक्षाप्रदं अनिन्दितम्। किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा ॥ ३१३ ॥

तृप्तो यत्र तदा तस्य पुरुषार्थगतिर्द्विजाः। सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि ॥ ३१४ ॥

तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते। देवस्वादपि निस्तार्यं कल्पकोटिशतैरपि ॥ ३१५ ॥

तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च। तद्दत्तं श्रद्धया ग्राह्यं तच्छ्राव्यं तारकं यतः ॥ ३१६ ॥

यात्रादानं इदं कार्यं नैवेद्यादि निवेदयेत्। पूर्वे वान्ते भवेल्लिङ्गप्रतिष्ठादौ च सम्मतम् ॥ ३१७ ॥

अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे। सर्वदानोत्तमं ह्येतद् ग्रहणादौ विशिष्यते ॥ ३१८ ॥

सर्वालङ्कार संयुक्तं मुरवेण समन्वितम्। शैवाचार्य समोपेतं आरोप्य शिबिकोत्तमम् ॥ ३१९ ॥

पञ्चप्राकार मध्ये वा तद्बाह्ये वा प्रदक्षिणम्। कृत्वा यानक्रमं प्रोक्तं सर्वमङ्गल संयुतम् ॥ ३२० ॥

राजवेषधरैः पुंभिर्नानानृत्त समन्वितैः। आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः ॥ ३२१ ॥

अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः। वर्जयेद्वाथ मुरवं राजवेषधरान्वितम् ॥ ३२२ ॥

प्रवेश्य भवनं पश्चात् स्नापयेत् पूर्व वर्त्मना। कौतुकं च परित्यज्य गन्धपुष्पादिभिर्यजेत् ॥ ३२३ ॥

तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम्। रात्र्यन्ते रथमारोप्य देवेदेवं नटेश्वरम् ॥ ३२४ ॥

पूर्वयान क्रमेणैव ग्रामादीनां प्रदक्षिणम्। कृत्वा निवेशयेदन्तः पुनस्स्नपनमाचरेत् ॥ ३२५ ॥

अन्येष्वपि च बेरेषु विधानं सदृशं मतम्। तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः ॥ ३२६ ॥

युद्धारम्भक्रियोपेत मृगयात्रावसानकम्। अन्येन चोत्सवार्थेन बेरेण पुनराचरेत् ॥ ३२७ ॥

विशेष स्नपनं तस्य विधेयं पूर्व वर्त्मना। तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्व वर्त्मना ॥ ३२८ ॥

तीर्थार्थं साधयेद्रात्रौ कलशान् नव संख्यया। ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् ॥ ३२९ ॥

सवस्त्रान् वा विवस्त्रान् वा प्रधाने वस्त्रमेव वा। रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेऽपि वा ॥ ३३० ॥

प्रातः प्रागुदयात्पूर्वं तीर्थकार्यं समाचरेत्। तीर्थस्थानं च संप्राप्य शुद्धिं कृत्वा महीतले ॥ ३३१ ॥

स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम्। पश्चिमे स्थापयेत् शूलं तदग्रे कलशान्न्यसेत् ॥ ३३२ ॥

पुण्याहं वाच्यित्वा तु देवानाहूय पूर्ववत्। त्रिशूले सर्वतीर्थं च सर्वं दुर्गा समन्वितम् ॥ ३३३ ॥

मध्ये मनोन्मनी युक्तं गन्धपुष्पादिभिर्यजेत्। तज्जलैः स्नापयेत् शूलं नद्याद्यन्तः प्रविश्य च ॥ ३३४ ॥

तीर्थ संग्रहणं कुर्याद् गङ्गाद्यावाहनेन च। हे देवि गङ्गे यमुने नर्मदे च सरस्वति ॥ ३३५ ॥

सिन्धो गोदावरि त्वं च कावेर्यत्र जलाशये। सन्निधीभव शर्वस्य तीर्थार्थं इदमुत्तमम् ॥ ३३६ ॥

रवेरस्तमनं यावत् तीर्थानां पापशुद्धये। तीर्थ संग्रहणं कृत्वा तन्मध्ये प्राक्शिरोऽन्वितम् ॥ ३३७ ॥

त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन्। जलादुत्तीर्य शूलं तु जलतीरे निवेशयेत् ॥ ३३८ ॥

तीर्थ संग्रहणं कृत्वा तीर्थं देवालयेऽपि वा। अवगाहन हीनं तु नयेद् दूर जलाशये ॥ ३३९ ॥

सर्वालङ्कार संयुक्तं प्रविशेदालयं प्रति। होमं च बलिदानं च कृत्वा प्रागुक्त वर्त्मना ॥ ३४० ॥

चूर्णोत्सवं ततः कुर्याद् देवस्यास्थान मण्डपे। स्थण्डिल द्वितयं कुर्याद् देवदेवस्य सन्निधौ ॥ ३४१ ॥

त्रिशूलं पश्चिमेऽन्यत्रोलूखलं विनिवेशयेत्। तन्मध्ये विन्यसेद्रात्रिं अथतच्चूर्ण सिद्धये ॥ ३४२ ॥

वस्त्रेणावेष्ट्य तन्मध्ये रात्रिचूर्णं तु वा क्षिपेत्। त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् ॥ ३४३ ॥

संकल्प्योलूखले शक्तिं आधाराख्यां प्रकल्पयेत्। मुसले पूजयित्वेशं कुर्याद् घृतशिरोर्पणम् ॥ ३४४ ॥

दूर्वा पुष्प समोपेतैः व्रीहि तण्डुलकादिभिः। संमुखं विमुखं वापि शूलं देवस्य कीर्तितम् ॥ ३४५ ॥

तद्वन्मुसलमुद्दिष्टं तथैवोलूखलं भवेत्। सवस्त्रं वा विवस्त्रं वा मुसलं परिकीर्तितम् ॥ ३४६ ॥

मुसलं पूर्वमभ्यर्च्योलूखलं तदनन्तरम्। शिवतत्त्वादितो वा स्याद् आत्मतत्त्वादितोऽपि वा ॥ ३४७ ॥

दूर्वा प्रदानं कर्तव्यं गुरुणा वा नियोगिना। राज्ञा देव्या च तस्याथ तन्नियुक्तैः महात्मभिः ॥ ३४८ ॥

पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः। मत्कन्याभिश्च दासीभिः कर्तव्यं राजसन्निधौ ॥ ३४९ ॥

नो चेद्राज नियुक्तानि रुद्रकन्याभिरेव वा। दासीभिर्वाथ भक्तैर्वा योग्यैरन्यैः क्रमेण च ॥ ३५० ॥

दूर्वादानं प्रकर्तव्यम् विशुद्धैः देशिकाज्ञया। अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे ॥ ३५१ ॥

तदादौ स्नानकालादौ कर्तव्यं मङ्गलार्थकम्। तदन्ते चूर्णयेद्रात्रिं त्रिः कृत्वा चास्त्रमुच्चरन् ॥ ३५२ ॥

दूर्वादान क्रमेणैव चूर्णयेद्रात्रिमादरात्। तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् ॥ ३५३ ॥

नानाविधेषु पात्रेषु लिङ्गार्थं प्रतिमार्थकम्। उत्सवप्रतिमार्थं च त्रिशूलार्थं विशेषतः ॥ ३५४ ॥

परिवारार्थमेकं च भागं संकल्पयेत् क्रमात्। अवशिष्टं जनार्थं च संग्रहेत् कलशादिषु ॥ ३५५ ॥

केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत्। संप्रोक्ष्य हेतिना पश्चात् हृन्मन्त्रेण समर्चयेत् ॥ ३५६ ॥

अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूल पूर्वकम्। रात्रिचूर्णं च देयं स्यात् प्रागुक्त विधिना द्विजाः ॥ ३५७ ॥

चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च। कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ॥ ३५८ ॥

महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले। नाल्पोदके विधातव्यं तच्च कौतुक तीर्थवत् ॥ ३५९ ॥

किन्तु बेरसमोपेतं प्रपादि परिमण्डिते। कलशस्थापनोपेतं देवताह्वान संयुतम् ॥ ३६० ॥

विबेरं वापि कर्तव्यं तीर्थकार्ये द्विजोत्तमाः। तीर्थसंग्रहणं पूर्वं न कृते तु जलान्तरे ॥ ३६१ ॥

तीर्थसंग्रहणं कृत्वा महातीर्थं समाचरेत्। विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेद्य च ॥ ३६२ ॥

महातीर्थं प्रकर्तव्यं शूलबेर समन्वितम्। त्रिशूलसहितं वापि नानादेवालयागतैः ॥ ३६३ ॥

त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत्। अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ॥ ३६४ ॥

महामोटी समायुक्तं रात्रौ वा तीर्थमाचरेत्। अह्नि तीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ॥ ३६५ ॥

पूर्वाह्ने मध्यमं तीर्थं अपराह्नेऽधमं भवेत्। हित्वेन्दुग्रहणं तीर्थं रात्रौ वा वरमिष्यते ॥ ३६६ ॥

तच्च मोटिसमायुक्तं उत्तमोत्तमं इष्यते। तिथिप्रधानं सामुद्रं अन्यद् ऋक्षप्रधानकम् ॥ ३६७ ॥

तिथिनक्षत्र संयोग युक्तं दुर्लभमुच्यते। पूर्वाह्ने वा पराह्ने वा तिथिऋक्ष समन्वितम् ॥ ३६८ ॥

समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम्। नक्षत्रमधिकंत्वह्नि संग्राह्यम् तिथिरेव वा ॥ ३६९ ॥

वारद्वयगते ऋक्षे तिथौ वा योगसंभवे। तीर्थर्क्ष द्वयसंप्राप्तावेकमासे परम् वरम् ॥ ३७० ॥

तत्रापि योगयुक्तं चेत् पूर्वं संग्राह्यमेव वा। यस्मिन्मासे तु यदृक्षे पूर्वं तीर्थमनुष्ठितम् ॥ ३७१ ॥

तस्मिन्मासे तु तदृक्षे पश्चादपि समाचरेत्। लिङ्गे स्वायम्भुवे चेत्तु दैविके चार्षकेऽपि च ॥ ३७२ ॥

मानुषे पूर्वतीर्थर्क्षं मासर्क्षं तद् द्विमासके। नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ॥ ३७३ ॥

जलमध्ये ततस्तीर्थं कारयेद् देशिकोत्तमाः। द्विधावगाहनं प्रोक्तं बेरयोग वियोगतः ॥ ३७४ ॥

वियोगे तीरदेशे तु बेरस्नपनमेव वा। कारयेत् पूजयेत् पश्चाद् गन्धाद्यैः उपचारकैः ॥ ३७५ ॥

नैवेद्यं दापयेत् तत्र नो चेद्देवालयेऽपि वा। आरामादौ च देवेशं तोषयेत् सर्वमङ्गलैः ॥ ३७६ ॥

ग्रामप्रदक्षिणोपेतं अथवा तद्विवर्जितम्। सर्वभक्त जनोपेतं तैर्विहीनं तु वा भवेत् ॥ ३७७ ॥

पूर्णाहुतिं ततो हुत्वा सर्वमङ्गल संयुतम्। धाम प्रदक्षिणोपेतं विशुद्धैः परिचारकैः ॥ ३७८ ॥

ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम्। गर्भगेहे सुसंस्थाप्य लिङ्गे पीठे ह्यनुक्रमात् ॥ ३७९ ॥

देवं देवीं च विन्यस्य विद्येशान् परितो न्यसेत्। तत्तत्तोयैश्च संप्रोक्ष्य शुद्धोदैस्स्नापयेद्विभुम् ॥ ३८० ॥

ततः संपूजयेद्देवं यथा विभव विस्तरम्। ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ॥ ३८१ ॥

तृतीये पञ्चमे वापि सप्तमे नवमेऽपि च। एकादशाहे विश्वर्क्षे कुर्यात् पञ्चदशाहके ॥ ३८२ ॥

कुर्यात् सप्तदशाहे वैकोनविंशत्यहेऽपि वा। मूर्तिहोमयुतंकुर्याद् दिशाहोमं तदूर्ध्वतः ॥ ३८३ ॥

ध्वजादि तीर्थपर्यन्तं दिनसंख्या स्थिता यदि। पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् ॥ ३८४ ॥

ध्वजावरोह ऋक्षे तु शुद्धाख्यं स्नपनं नयेत्। लिङ्गे बेरे वृषे शूले ध्वजे स्नपनमाचरेत् ॥ ३८५ ॥

अर्चनोक्तं समभ्यर्च्य मालाभिर्धाम भूषयेत्। गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः ॥ ३८६ ॥

कालागरूद्भवैर्धूपैः धूपयेद् देवमन्दिरम्। नैवेद्यं विविधं दद्यात् तोषयेद् देवमादरात् ॥ ३८७ ॥

चण्डपूजां ततः कुर्यात् होमेन सहितं न वा। ततो ग्रामबलिं दद्याद् अन्नलिङ्ग समन्वितम् ॥ ३८८ ॥

त्रिशूलेन समायुक्तं चण्डनाथ युतं तु वा। भेरिका मर्दलोपेतं पटहैः काहलैर्युतम् ॥ ३८९ ॥

श्रीखण्ड शङ्खसंयुक्तं बलिकाले तु घोषणम्। कृत्वा विसर्जयेद् देवान् ब्रह्मादीन् ग्रामवर्तिनः ॥ ३९० ॥

ध्वजे वादौ बलिं दद्यात् तदन्ते च ध्वजं पुनः। अवर्ताय पटस्थं च योजयेद् वृषभं वृषे ॥ ३९१ ॥

ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते। आचार्यं पूजयेत् कर्ता वस्त्र हेमाङ्गुलीयकैः ॥ ३९२ ॥

अङ्कुरार्पण काले च ध्वजारोहण कालके। यागाधिवासने होमप्रारम्भे सन्ध्ययोर्द्वयोः ॥ ३९३ ॥

अथवा चैक सन्ध्यायाः प्रारम्भे वावसानके। नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपन कालके ॥ ३९४ ॥

दक्षिणां दापयेत् पश्चात् त्रिविधा सा च संमता। अधमा पञ्च निष्का च द्विगुणा मध्यमा भवेत् ॥ ३९५ ॥

त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा। तदर्ध संख्यया प्रोक्ता दक्षिणा कन्यसक्रमे ॥ ३९६ ॥

श्रेष्ठेए तु द्विगुणा प्रोक्ता त्वन्यथा वा निगत्यते। निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता ॥ ३९७ ॥

भक्तोत्सवं ततः कुर्यात् पक्षाहात् पूर्व एव वा। उत्सवादौ च मध्ये वा भक्तानां उत्सवे मतः ॥ ३९८ ॥

वत्सरोत्सव काले च यदा मासोत्सवो भवेत्। बलिहोमादि संयुक्तो बेरयात्रादि संयुतः ॥ ३९९ ॥

वर्जयेद्वा नयेद्बेरं यात्रामात्रमथापि वा। मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् ॥ ४०० ॥

मासोत्सव इह प्रोक्तस्त्वेकाहोत्सववद् द्विजाः। कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् ॥ ४०१ ॥

अङ्कुरार्पण पूर्वं वा तद्वियुक्तं अथवाचरेत्। एकाहं उत्सवं कुर्याद् भेरीताडन पूर्वकम् ॥ ४०२ ॥

स्थण्डिलद्वितयंकृत्वा शूलमेकत्र विन्यसेत्। तदग्रे स्थापयेद् भेरीं पुण्याहं वाचयेत् ततः ॥ ४०३ ॥

अस्त्रं भेरीं च संप्रोक्ष्य भेरीं संताडयेत् क्रमात्। ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् ॥ ४०४ ॥

धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च। स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे ॥ ४०५ ॥

विन्यसेच्छिवकुम्भं च वर्धनी सहितं गुरुः। समन्तात् स्थापयेदष्टौ घटान्वा कलशानथ ॥ ४०६ ॥

पुण्याहं वाचयित्वा तु प्रोक्षयेदस्रवारिणा। हेमाब्जं निक्षिपेत् कुम्भे वर्धन्याम् वस्त्रवेष्टितम् ॥ ४०७ ॥

उभयंच विधातव्यं सूत्र कूर्चापिधानयुक्। फलपल्लव संयुक्तं कुम्भे शम्भुं मनोन्मनीम् ॥ ४०८ ॥

वर्धन्यां अष्टविद्येशान् कलशेषु समर्चयेत्। द्वाराणि द्वारपान् नन्दिप्रमुखान् कलशेषु वा ॥ ४०९ ॥

स्थण्डिले तान् समभ्यर्च्य तोरणैरष्टमङ्गलैः। संयुक्तं तद्विहीनं वा दशायुध युतं न वा ॥ ४१० ॥

कुण्डे वा स्थण्डिले वापि होमकर्म समाचरेत्। पञ्चसंख्येऽथवैकस्मिन् पूर्वद्रव्य समन्वितम् ॥ ४११ ॥

ततो ग्रामबलिं दद्याद् बिम्बेन सहितं तु वा। एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् ॥ ४१२ ॥

कृत्वा होमं बलिं कुर्याद् बेरेण च समन्वितम्। आलयं संप्रविश्यान्ते कुर्याच्छूर्णोत्सवं गुरुः ॥ ४१३ ॥

ततस्तीर्थं प्रकर्तव्यं अत्रानुक्तं तु पूर्ववत्। प्रातर्वा कारयेत् सर्वं भेरीताडन वर्जितम् ॥ ४१४ ॥

सद्योऽधिवासनं कृत्वा प्राग्वत् सर्वं समाचरेत्। चूर्णोत्सव विहीनं वा विधानं इदमाचरेत् ॥ ४१५ ॥

आलये बलियाने च स्यातां तीर्थं विहाय वा। बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके ॥ ४१६ ॥

तीर्थोर्ध्वं चेद्भवेद्यात्राबलिकालेऽन्यबेरतः। बेरयात्रा विधेया वा त्वन्यथा च निगद्यते ॥ ४१७ ॥

बलिहोमादिकं हित्वा भ्रमणं केवलं तु वा। देवस्य कौतुकं कुर्याद् दिनेष्वेतदपीरितम् ॥ ४१८ ॥

कर्तृर्वाञ्चा वशात्कॢप्त कालेष्वेतच्च वा मतम्। कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ॥ ४१९ ॥

चतुर्दश्यां अथाष्टम्यां पर्वण्युभयपक्षयोः। अयने विषुवे राहुदर्शने दमनोत्सवे ॥ ४२० ॥

पवित्रे मासपूजायां कृत्तिकादीपरोहणे। संवत्सरादिलेखायां नवतोयगतावपि ॥ ४२१ ॥

पूर्वफाल्गुन नक्षत्रे नवनैवेद्य कर्मणि। अन्यस्मिन् मङ्गले कार्ये कुर्यादेकाहमुत्सवम् ॥ ४२२ ॥

एवं प्रत्यब्द संयुक्तं भुक्त्यै नो चेद्विमुक्तये। वारपूजा प्रकर्तव्या रविवारादितः क्रमात् ॥ ४२३ ॥

पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनाङ्गकैः। पुष्कलैः गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ॥ ४२४ ॥

स्थलपद्मं अपामार्गं श्रीपर्णं तुलसी तथा। गोक्षुरं बिल्वपत्रं च विष्णुक्रान्तिः क्रमेण तु ॥ ४२५ ॥

अर्कवारादि वारेषु पत्राण्येतानि योजयेत्। माणिक्कं अर्कवारे स्यात् चन्द्रवारे तु मौक्तिकं ॥ ४२६ ॥

प्रवालं कुजवारे तु बुधे मरकतं भवेत्। सुरेड्ये पुष्परागं स्याच्छुक्रे वज्रमिति स्मृतम् ॥ ४२७ ॥

इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च। सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ॥ ४२८ ॥

तद्वर्णाभानि पुष्पाणि वस्त्राणि च नियोजयेत्। तत्तद्वर्णाभ नैवेद्यं तत्तद्वारे निवेदयेत् ॥ ४२९ ॥

वारपूजावसाने तु वारोत्सवं अथाचरेत्। अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये ॥ ४३० ॥

ग्रहपीडा विनाशार्थं आरोग्यार्थं विशेषतः। जगत्क्षोभ विनाशार्थं बाधा येन ग्रहेण च ॥ ४३१ ॥

तद्वारपूजा कर्तव्या तद्वारोत्सव संयुता। तत्तद्वार विभेदेन गन्धादि ग्रहणं न वा ॥ ४३२ ॥

संवत्सरोत्सवः प्रोक्तस्तथा मासोत्सवोऽपि च। वारोत्सवश्च विप्रेन्द्रा विशेषस्तत्र कथ्यते ॥ ४३३ ॥

पूर्वाह्ने ब्राह्मणानां तु मध्याह्ने क्षत्रियस्य तु। सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके ॥ ४३४ ॥

ध्वजस्यारोहणं कुर्याद् ध्वजारोहण पूर्वकम्। भेरीताडन पूर्वं वा बीजा निर्वाप पूर्वकम् ॥ ४३५ ॥

ब्राह्मणादि त्रयाणां वा शूद्रे वाङ्कुरपूर्वकम्। नगरे ध्वजपूर्वं वा मङ्गले भेरिपूर्वकम् ॥ ४३६ ॥

पत्तनेऽङ्कुरपूर्वं वा तद्वच्छूद्रे प्रकीर्तितम्। चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे ॥ ४३७ ॥

पुरादौ सङ्करो नोक्त उत्सवानां द्विजोत्तमाः। सप्तषट्पञ्चवेदैस्तु तालैर्वा ध्वजदण्डके ॥ ४३८ ॥

ध्वजस्य वेदिकां कुर्याच्छूद्रादीनां विलोमतः। ध्वजे ध्वजो न कर्तव्यः कर्तव्यो वृषभध्वजः ॥ ४३९ ॥

उत्सवे चोत्सवो नेष्ट इष्टः शैवोत्सवो द्विजाः। सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः ॥ ४४० ॥

श्वेतो रक्तश्च पीतश्च ब्राह्मणादित्रये मतः। शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः ॥ ४४१ ॥

आरम्भस्तु पटे मूर्धा पुच्चस्स्यादवसानयुक्। ध्वजप्रदक्षिणेकाले गच्छेदग्रे गुरुर्न वा ॥ ४४२ ॥

गान्धारः पूर्वदिग्भागे दक्षिणे कौशिको भवेत्। पश्चिमे कामरो ज्ञेयस्तक्करागस्तदुत्तरे ॥ ४४३ ॥

एवं च दिग्विभागेन स्वरांस्तु परिकल्पयेत्। ध्वजारोहण काले तु चतुर्ष्वेकतमोऽपि वा ॥ ४४४ ॥

ध्वजारोहादि तीर्थान्तं रात्रौ ग्रामबलिस्तु वा। अथवा ध्वजमूले तु देवानां बलिरेव वा ॥ ४४५ ॥

नित्योत्सवयुतस्थाने चोत्सवेऽन्यत्र वापि वा। ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् ॥ ४४६ ॥

प्रदक्षिण क्रमाद्वापि कुर्यादेकाग्नि कल्पने। चण्डरूपधरो ब्रह्मचारी संमृष्टभोजनः ॥ ४४७ ॥

आत्मानं चण्डकं ध्यात्वा छिन्द्याद्वा ध्वजदण्डकम्। उत्सवं वा पवित्रं वा कल्पयेदुभयं तु वा ॥ ४४८ ॥

केत्वङ्कुरो नवाहे स्यात् सप्ताहे चोत्सवाङ्कुरः। तीर्थाङ्कुरं तु तत्संख्ये सर्वं सर्वत्र वा मतम् ॥ ४४९ ॥

मध्याह्ने ध्वजपुजा च सोमकुम्भे जलस्य च। निक्षेपश्चाथ तत्पूजा रात्रौ वाथ विधीयते ॥ ४५० ॥

कृतकौतुकबेरस्य तद्ग्रामान् निर्गमोऽपि वा। मृगया चेष्टकाले तु कर्तव्या द्विजसत्तमाः ॥ ४५१ ॥

सौरश्चान्द्रो द्विविधा प्रोक्तो वत्सरः कामिकागमे। सौरः श्रेष्ट इह प्रोक्तश्चान्द्रो मध्यम उच्यते ॥ ४५२ ॥

सावनस्त्वधमः प्रोक्तस्तेन कार्यं तु नेष्यते। उत्सवादिषु कालेषु प्रतिष्ठाद्यं न कारयेत् ॥ ४५३ ॥

विधाय शान्ति होमं तु प्रतिष्ठाद्यं तु वा नयेत्। अथवान्य प्रकारेण उत्सवं तु विधीयते ॥ ४५४ ॥

ध्वजमेकं समारोप्य ध्वजारोहण पूर्वकम्। तस्मिन्नेव दिने विप्राः मन्दीभूते दिवाकरे ॥ ४५५ ॥

श्रावयेत् तीर्थदिवसं गजाद्यारोहितेन च। चण्डालेन सदारेण कुर्याद्घोषयुतेन च ॥ ४५६ ॥

तद्रात्रावेव कर्तव्यं भेरीताडन पूर्वकम्। बेराग्रे शूलसंयुक्ते देवानावाह्य पूर्ववत् ॥ ४५७ ॥

आश्राव्य तीर्थदिवसं ग्रामादि बलिवर्जितम्। धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् ॥ ४५८ ॥

स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः। एकत्र स्थापयेच्छूलं अन्यत्र कलशान् न्यसेत् ॥ ४५९ ॥

नवकैः स्नापयेच्छूलं तच्छूलं अवगाहयेत्। प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके ॥ ४६० ॥

यागारम्भं पुनः कुर्याद् अङ्कुरार्पण पूर्वकम्। एकहोम समायुक्तं ग्रामादि बलिमाचरेत् ॥ ४६१ ॥

बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम्। पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः ॥ ४६२ ॥

विकरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम्। अष्टादशदिने प्राप्ते बीजनिर्वापमाचरेत् ॥ ४६३ ॥

तीर्थार्थं तन्निशायां तु धाम्नस्त्वष्ट दिशास्वपि। ध्वजानष्टौ समारोप्याङ्कितान् लोकेशवाहनैः ॥ ४६४ ॥

तदस्त्राङ्कान् वृषाङ्कान् वा मूर्तिपैश्च समन्वितम्। ततः प्रभृति कर्तव्यं होमकर्म विशेषतः ॥ ४६५ ॥

तदन्ते बलिदानं स्याद् बेरयात्रा समन्वितम्। एवं नवदिनं कृत्वा दशमे तीर्थं आचरेत् ॥ ४६६ ॥

ध्वजानां अष्टसंख्यानां तद्रात्राववरोहणम्। कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् ॥ ४६७ ॥

नानागान समायुक्तं नाना नृत्त समन्वितम्। ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् ॥ ४६८ ॥

सप्ताहमेवं कृत्वान्ते सर्वातोद्यं विवर्ज्य च। स्नापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् ॥ ४६९ ॥

चण्डेश्वरं पुरो नीत्वा बेरयात्रां अनन्तरम्। बलिहोम विहीने तु नयेत् सप्ताहमादरात् ॥ ४७० ॥

चण्डपूजा समायुक्तं होमस्नपन संयुतम्। तदन्ते कारयेत् तीर्थं त्रिशूलेन समन्वितम् ॥ ४७१ ॥

ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्व वर्त्मना। बेरयात्रा विहीनं वा विधिमेनं समाचरेत् ॥ ४७२ ॥

नवान्नलिङ्गं कृत्वा वा दिक्पालास्त्रार्थमेव वा। तैस्त्रिशूलेन वा कुर्याद् ग्रामादौ वा बलिक्रियाम् ॥ ४७३ ॥

नित्योत्सवान्नलिङ्गानि दश वा परिकल्पयेत्। द्वादशाब्दा वसानान्त ध्वजस्थापनमेव वा ॥ ४७४ ॥

जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ॥ ४७५ ॥

Uttarapāda – Kapitel 7: Die Nīrājana-Zeremonie

नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते। प्रदोषादौ विधेयो वा धूपदीपावसानके ॥ १ ॥

उत्सवादौ च कर्तव्यं अन्यस्मिन्मङ्गलेऽपि च। तदर्थं स्थण्डिलं कुर्यान् मण्डलम् वा समाचरेत् ॥ २ ॥

गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके। माहानसे वा चान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ॥ ३ ॥

पात्राण्याहृत्य शुद्धानि दीपाधार युतानि च। पात्राणि च विधेयानि बलिपात्रोक्त वर्त्मना ॥ ४ ॥

दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः। पादाङ्गुल विवृद्ध्या तु नवाङ्गुल समावधि ॥ ५ ॥

विस्तारस्तत्समो वापि तदर्धं वोच्चं इष्यते। वसुधा मध्यमे भक्ते नवधा मानं ईरितम् ॥ ६ ॥

ओष्ठो यवद्वयादर्ध वृद्ध्या मात्रावसानकः। पात्रमान घनं वार्धं मध्ये सुषिर संयुतम् ॥ ७ ॥

पद्माकारं च वा कुर्यात् पालिका पादसन्निभम्। धुत्तूर कुसुमाकारं शरावाकारमेव वा ॥ ८ ॥

चतुरष्टदलोपेतं सर्वालङ्कार संयुतम्। एकपात्रे नयेदेक दीपाधारं तु पञ्च वा ॥ ९ ॥

नव वा कारयेत् तांश्च संसक्तान् सान्तरास्तु वा। पिष्टेनान्नेन वा दीपाधारा देवार्थमेव च ॥ १० ॥

देव्यर्थं प्रतिमार्थं च विशेषान् नृत्त रूपिणः। एकत्रे तिलमन्यत्र सर्षपं लवणं तथा ॥ ११ ॥

कार्पासबीजमन्यत्र गोमयं पिष्टमेव च। वर्णभक्त हविष्यं च वटाश्वत्थ दलानि च ॥ १२ ॥

चतुर्दिक्षु च कोणेषु क्रमेण परिकल्पयेत्। मध्यमे दीपपात्रं तु पञ्च वा परिकल्पयेत् ॥ १३ ॥

गन्धमर्घ्यं च पुष्पं च भस्म चाग्नेय कोणतः। सर्वत्र दीपान् वा कुर्यान् नवसंख्यान् समुज्ज्वलान् ॥ १४ ॥

घृतार्द्रास्तैलसंयुक्तान् ब्रह्माङ्ग सहितान् न्यसेत्। लोकपाला विरिञ्चेन मूर्तयो मूर्तिपास्तु वा ॥ १५ ॥

वसवो वह्नि संयुक्ता वामाद्याः शक्तयः पराः। कला भूतानि देव्याश्च ब्रह्माद्याः कारणेश्वराः ॥ १६ ॥

पात्रदेवास्समाख्याताः वह्निर्वा दीपदेवताः। प्रस्थपादादि तद्वृद्ध्या चाढकान्तं उदाहृतम् ॥ १७ ॥

तिलादीनां प्रमाणं तु पात्राणां कर्तुरिच्छया। संस्कारैस्सर्व सामान्यैः संस्कृत्योक्त क्रमेण च ॥ १८ ॥

वह्निबीजमनुस्मृत्य दीपं दीपेन योजयेत्। सर्वातोद्य समायुक्तं शङ्खध्वनि समन्वितम् ॥ १९ ॥

गाननृत्त समायुक्तं धारयेत्तान् यथाक्रमात्। स्त्रीभिर्वा वाहयेद्दीपान् अथवा परिचारकैः ॥ २० ॥

देवाग्रे स्थापयित्वा तांस्त्रिपाद्युअपरि पूजयेत्। दत्वा पाद्यं अजातेन दद्यादाचमनं हृदा ॥ २१ ॥

गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना। त्रिवारं एकवारं वा भ्रामयेच्छिवमूर्धनि ॥ २२ ॥

संगृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत्। आत्मतत्त्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ॥ २३ ॥

सोऽपि संगृह्य तं दीपं सप्रणामं निवेशयेत्। सितं पूतं सुगन्धं च निर्वालुकं अनन्तरम् ॥ २४ ॥

गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि। त्रिवारं दीपमध्ये तु निक्षिप्य तदनन्तरम् ॥ २५ ॥

अङ्गुष्ठानामिकाभ्यां तु तिलकं पञ्चवक्त्रके। ललाटेषु क्रमात् कुर्यात् हृदिबाह्वोरनुक्रमात् ॥ २६ ॥

पीठेऽपि तिलकं कुर्यात् देवी वामप्रदेशके। देवी व्यक्तस्वरूपा चेत् तिलकं च पुरो भवेत् ॥ २७ ॥

कण्ठप्रदेशे मूलेन हृदयेनाथ वा नयेत्। बेरे ललाट हृद्बाहुप्रदेशे तिलकं नयेत् ॥ २८ ॥

तद्भस्मना समादाय स्वल्पं चण्डेश्वरादिषु। भक्तेष्वन्येषु लोहादिकृतबेरेषु दापयेत् ॥ २९ ॥

ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम्। सर्वालङ्कार संयुक्तम् पात्राण्याहृत्य पूर्ववत् ॥ ३० ॥

सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात्। पीठाग्रे वृषभाग्रे वा गोपुरस्यान्तिकेऽपि वा ॥ ३१ ॥

वृक्षमूलेऽथवान्यस्मिन् निक्षिपेत्ताननुक्रमात्। द्रव्याणि गुरवे दद्याद् दहेद्वा तेन वह्निना ॥ ३२ ॥

तिलादीनां प्रमाणं तु यथेष्टं वा प्रकीर्तितम्। राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ॥ ३३ ॥

राजाभिषेक कालादौ कुर्याद् विजयहेतवे। देशिकस्याभिषेकेऽपि किन्तु दीपविवर्जितम् ॥ ३४ ॥

तण्डुला विहितास्तत्र रात्रौ तद्दीप संयुतम् ॥ ३५ ॥

Uttarapāda – Kapitel 8: Die Lichterreihe zu Kṛttikā

दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः।
मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ॥ १ ॥

पूर्णायां वा तद्योग सर्वकाम प्रसिद्धये।
रव्यस्तमय वेलायां दीपारोहणं आचरेत् ॥ २ ॥

कर्तुरष्टम राश्यादि लग्नदोष निरीक्षणम्।
विष्टिवैनाशिकर्क्षादि प्रेक्षणं तत्र संमतम् ॥ ३ ॥

रवेरस्तमयात्पूर्वं यामपादावसानकम्।
कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ॥ ४ ॥

एवं निश्चित्य कालं तु कारयेद्वाङ्कुरार्पणम्।
दीपारोपण पूर्वेद्युः अधिवासनं आरभेत् ॥ ५ ॥

देवाग्रे स्थापयेद् दण्डं प्रतिगोपुरं एव वा।
अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र वा द्वयोः ॥ ६ ॥

दीपदण्ड प्रमाणं तु ध्वजदण्ड प्रमाणवत्।
स दण्डो नालिकेरो वा तालः क्रमुखवेणुजौ ॥ ७ ॥

ध्वजदण्डोक्त दण्डो वा तत्र किलांश्च योजयेत्।
द्वादशाङ्गुलमारभ्य व्योमाङ्गुल विवृद्धितः ॥ ८ ॥

पञ्चाशत्करजान्तं तु दण्डात्कील विनिर्गमः।
द्विमात्रात् पादवृत्या तु षडङ्गुल समावधिः ॥ ९ ॥

विस्तारः स्याद्घनं तस्य त्र्यंशं अर्धं त्रिपादकम्।
दण्डप्रोतो भवेयुर्वा लग्ना वा कीलपादपाः ॥ १० ॥

नवकीलं समारभ्य व्योमकील विवृद्धितः।
सप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ॥ ११ ॥

तिसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत्।
त्रिकीलं वा चतुष्कीलं इष्टमान समन्वितम् ॥ १२ ॥

तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः।
दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत् ॥ १३ ॥

दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश।
योजयेद्वा बहिश्शुष्कैः नालिकेर दलादिभिः ॥ १४ ॥

छादयेद्वाथ चक्राणी तन्निच्छिद्रं यथा भवेत्।
एकहस्त विशालं तु द्विगुणायात संयुतम् ॥ १५ ॥

दक्षिणे कल्पयेद्द्वारं दण्डारोहण सिद्धये।
कल्पमेतत् समाख्यातं अनुकल्पं अथोच्यते ॥ १६ ॥

हित्वा चक्राणी सर्वाणि प्रतिकीलं तु दीपिकाः।
योजयेदुपकल्पं स्याद्धोमकूट विवर्जितम् ॥ १७ ॥

दण्डं विहाय यत्क्लुप्तं अकल्पं इति कथ्यते।
दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ॥ १८ ॥

प्रतिदेवं तु कर्तव्या दीपिका बहुसंख्यया।
स्थापयेद्दीपदण्डांश्च मालाकारेण वा बहून् ॥ १९ ॥

तोरणाकारतो वापि वृत्ताकारेण वा बहून्।
प्रपाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ॥ २० ॥

प्रासादे गोपुरे साले परिवारालयादिषु।
मण्डपे बलिपीठादौ कूपे वाथ गृहेऽपि वा ॥ २१ ॥

वृषे महानसे कुर्यात् पुष्पमण्डपिकादिषु।
बहिर्वा कल्पयेद् दीपान् ग्रमादिष्वपि सर्वतः ॥ २२ ॥

दीपावलिरियं कार्या त्वधिवासन पूर्वकम्।
अस्त्रेण शोधयेद् दण्डं प्रणवेन तु पूजयेत् ॥ २३ ॥

षट्चतुष्पञ्च तालेनावटं भूमौ समाचरेत्।
स्थापयित्वा तु पूर्वेद्युस्तन्मूले वेदिकां न्यसेत् ॥ २४ ॥

ध्वजदण्डे यथा वेदी किन्तु पद्मयुता न वा।
शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ॥ २५ ॥

दीपेन पूजयेद् दण्डं गन्धपुष्पादि संयुतम्।
बध्वा प्रतिसरं चान्तः प्रविश्येदं समाचरेत् ॥ २६ ॥

आलये मण्डपे वापि यागमण्डप एव वा।
मनोरमे शुभेऽन्यत्र गोमयेनोपलेपिते ॥ २७ ॥

स्थण्डिलं तत्र संकल्प्य शस्त्रेण प्रोक्षयेद्गुरुः।
नव वा पञ्च पात्राणि वैकं वा तत्र विन्यसेत् ॥ २८ ॥

नीराजनविधौ देवाः ते सर्वेऽत्रापि संमताः।
पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ॥ २९ ॥

कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत्।
शिवाग्निं तत्र संपाद्य शिवं साङ्गं च तर्पयेत् ॥ ३० ॥

समिधाज्येन चरुणा ततः कार्पास बीजतः।
क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ॥ ३१ ॥

मूलेनाङ्गैः दशांशेन वह्निबीजमनुस्मरन्।
शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ॥ ३२ ॥

देवं साङ्गं विसृज्याथ दीपनारोपयेद्गुरुः।
तैलाज्येन वा पूर्य पात्रं सर्वात्मकं स्मरन् ॥ ३३ ॥

वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु।
गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निं च विसृजेत् ॥ ३४ ॥

गृहीत्वा मध्यपात्रं तु दीपं दीपिकया गुरुः।
सर्वालङ्कार संयुक्तं तरुणाख्यं तु दीपकम् ॥ ३५ ॥

दण्डोर्ध्वे स्थण्डिले वापि हृदयेन निवेशयेत्।
होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ॥ ३६ ॥

ततो द्वितीयदिवसे चतुर्दिक्षु विदिक्षु च।
चतुस्तोरण संयुक्तं चतुष्कूट समन्वितम् ॥ ३७ ॥

कूटानि पञ्चवेदाग्नि हस्तानीष्टान्तराणि च।
पूर्वस्यां अथवाग्नेय्यां कूटमेकं तु वा नयेत् ॥ ३८ ॥

तोरणानि यथा योग्यं नयेदिच्छवशेन तु।
सर्वत्र तोरणं कूटं दर्भमालादि शोभितम् ॥ ३९ ॥

सर्वालङ्कार संयुक्तं कदलीपूग संयुतम्।
एवें संपाद्य सर्वं तु मन्दीभूते दिवाकरे ॥ ४० ॥

पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत्।
वस्त्रयुग्मेन वैकेन वेष्टयेद्दण्डमूलकम् ॥ ४१ ॥

स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत्।
कार्पासबीजसाराभ्यां युक्तं तैलाज्य संयुतम् ॥ ४२ ॥

कूटेषु कारयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा।
अधिवासन होमेन समं होमं समाचरेत् ॥ ४३ ॥

वह्नावीशे तु कूटे वा देशिको होममाचरेत्।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ४४ ॥

अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः।
पलाश वटशम्यर्काः सर्वे वह्नेरथापि वा ॥ ४५ ॥

आचार्यं पूजयेत्पश्चाद् वस्त्रकाञ्चन भूषणैः।
पूर्णाहुति प्रदानान्ते सर्वान्दीपान् द्विजोत्तमाः ॥ ४६ ॥

एकीकृत्य हृदा पात्रे स्थापयेद्वह्निबीजतः।
सर्वालङ्कार संयुक्तं मङ्गलाङ्कुर शोभितम् ॥ ४७ ॥

वितानध्वज संयुक्तं छत्रचामर संयुतम्।
नानावाद्य समायुक्तं नानानृत्त समन्वितम् ॥ ४८ ॥

बेरेण च समायुक्तं बेरयात्रायुतं न वा।
गृहस्थो ब्रह्मचारी वा दीपं संगृह्य पाणिना ॥ ४९ ॥

दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक्।
दीपयेदूर्ध्वपात्रे तु तस्मात् सोऽप्यवर्ताय तु ॥ ५० ॥

विज्ञापयेन्महेशाय तस्मिन्काले तु चक्रगान्।
मूर्धादि पादपर्यन्तं दीपानारोपयेत्ततः ॥ ५१ ॥

दीपारोहण कर्तारं पूजयेत् परिचारकम्।
वस्त्राद्यैः देशिको धीमान् उत्तराभिमुखस्थितः ॥ ५२ ॥

ज्योतिर्लिङ्गमनुस्मृत्य दहेत् कूटचतुष्टयम्।
अथवा कूटदाहं च हित्वान्यत् सर्वमाचरेत् ॥ ५३ ॥

तोरणाधो नयेद्देवं दीपदण्ड प्रदक्षिणम्।
कारयित्वा त्रयं ग्रामं नयेद्दीप समन्वितम् ॥ ५४ ॥

हर्म्यप्रदक्षिणं कृत्वा नयेदास्थान मण्डपम्।
प्रासादादिषु सर्वत्र दीपानारोपयेत् तदा ॥ ५५ ॥

प्रविश्य देवतास्थानं परिवेषक्रमं नयेत्।
स्नपनं कारयेन्नोवा बेरलिङ्गे तदुक्तितः ॥ ५६ ॥

प्रभूतं तु हविर्दत्वा ताम्बूलं तु निवेदयेत्।
पृथुकं दापयेद्देवे नालिकेर फलान्वितम् ॥ ५७ ॥

मरीचि जीरकोपेतं गुलसार समन्वितम्।
अङ्कुरार्पणहीनं वा क्रियामेनां समाचरेत् ॥ ५८ ॥

गुरवे दक्षिणां दद्यात् होतृभ्यस्तदनन्तरम्।
अत्रैव योज्यं यद्द्रव्यं होमकूटादि दण्डकम् ॥ ५९ ॥

तदङ्गमपरं चान्यद्देशिकाय प्रदापयेत्।
इदं कर्मविधेयं स्याद् राज्ञामावासकेऽपि वा ॥ ६० ॥

ग्रामादौ च विधेयं स्याद् ब्रह्मस्थानादिषु द्विजाः॥
अन्येषामपि मर्त्यानां वाहनानां क्षयेऽपि च ॥ ६१ ॥

गोशालायां विशेषेण तेषां रोगनिवृत्तये।
यां तिथिं समनुप्राप्योदयं याति च भास्करः ॥ ६२ ॥

सा तिथिः सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः।
यद्दृक्षं समनुप्राप्य अस्तं याति दिवाकरः ॥ ६३ ॥

तदुक्तं सकलं ज्ञेयं नक्षत्रेऽप्येवमेव तु।
एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्म द्विजोत्तमाः ॥ ६४ ॥

Uttarapāda – Kapitel 9: Butterbad, Schaukel und Honigverehrung

मार्गशीषाख्य मासे तु यजेदार्द्रोडुके शिवम्।
घृतस्नान समोपेतं प्रागुक्त विधिना सह ॥ १ ॥

केवल स्नपनं वापि कारयित्वा विशेषतः।
गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ॥ २ ॥

ग्रामप्रदक्षिणं नीत्वा देवं धाम्नि निवेशयेत्।
अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवापि वा ॥ ३ ॥

बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम्।
चूर्णोत्सव समायुक्तं तीर्थं कृत्वालयं नयेत् ॥ ४ ॥

डोलारोहं ततः कुर्यात् सायाह्न समये द्विजाः।
सवालङ्कार संयुक्तं कृत्वा स्तम्भद्वयं तथा ॥ ५ ॥

स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत्।
तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ॥ ६ ॥

चतुर्बाहु समायुक्तां ऊर्ध्वप्रच्छादनान्विताम्।
नानालङ्कार संयुक्तां अथ बाहुद्वयान्विताम् ॥ ७ ॥

एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम्।
अस्त्र तोयेन संप्रोक्ष्य कल्पयेदासनं यथा ॥ ८ ॥

फलकायां भजेद्धंसं हृदा हंसासने यजेत्।
ब्रह्माणं दक्षिणे बाहौ वामबाहौ यएद्धरिम् ॥ ९ ॥

विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत्।
वामे देवीं समभ्यर्च्य सेनानीं मध्यमे यजेत् ॥ १० ॥

गन्धाद्यैरथवा देवीं अर्चयेत्फलकोपरि।
नानागान समायुक्तं नानानृत्त समन्वितम् ॥ ११ ॥

नानावाद्य समोपेतं तदा सन्तोषयेद्धरम्।
अन्यत्रापि च कर्तव्यं डोलारोहणमिष्टदम् ॥ १२ ॥

प्रत्यहं वा विधेयं स्यात् सर्वकामार्थ सिद्धये।
डोलाचलनमिष्टं स्याद्बेरस्यारोहणं न वा ॥ १३ ॥

अस्मिन्मासे सपित्रर्क्षे विशेषाज्य समन्वितम्।
पायसं दापयेच्छम्भोर्देव्या अपि च संमतम् ॥ १४ ॥

पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम्।
महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ॥ १५ ॥

पूर्वोक्त विधिना कर्ता फलमिष्टमवाप्नुयात् ॥ १६ ॥

Uttarapāda – Kapitel 10: Die Ghṛtakambala-Verehrung

माघमासे तु माघर्क्षे कुर्याद्वै घृतकम्बळम्।
कपिलं केवलं चाज्यं कृमिकीटादि वर्जितम् ॥ १ ॥

नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेद्गुरुः।
शस्त्रेण निक्षिपेत्तोये वारुणं बीजमुच्चरन् ॥ २ ॥

तदाज्यं पिण्डवत्कृत्वा कुङ्कुमागरु संस्कृतम्।
हरिद्रा चूर्ण कर्पूर चूर्णाभ्यामपि संस्कृतम् ॥ ३ ॥

हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत्।
पञ्चब्रह्म षडङ्गैश्च शिवेन तदनन्तरम् ॥ ४ ॥

विशेष स्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा।
विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेद् घृतम् ॥ ५ ॥

गन्धाद्यौरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन्।
तत्पूर्वे स्थन्डिले धीमान् तर्पयेच्छिवपावकम् ॥ ६ ॥

पलाश समिदाज्यान्न तिललाज समन्वितम्।
शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ॥ ७ ॥

घृते संपातहोमं च पवित्रारोह वर्त्मना।
कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ॥ ८ ॥

कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव च।
संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ॥ ९ ॥

विशेषेणार्चयित्वा तु सर्वालङ्कार संयुतम्।
धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ॥ १० ॥

लिङ्गं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम्।
गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ॥ ११ ॥

दद्यादेवं हविश्शम्भोः ताम्बूलेन समन्वितम्।
सन्ध्यान्तरे परेद्युर्वा कम्बलाद्यं विवर्ज्य च ॥ १२ ॥

पूर्ववत् पुजयेद्देवं गुरुं संपूजयेत्तदा।
दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् ॥ १३ ॥

अङ्कुरार्पण पूर्वं वा रहितं वै तदाचरेत् ॥ १४ ॥

Uttarapāda – Kapitel 11: Śivarātri

अथ वक्ष्ये विशेषेण शिवरात्रि व्रतं द्विजाः।
शृण्वन्तु संयता यूयं व्रतानां उत्तमोत्तमम् ॥ १ ॥

अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम्।
मया सह मुदा सार्धं रमन्तीप्सितमाययुः ॥ २ ॥

न बाध्यन्ते यमादेशात् किङ्करैः क्रूरदृष्टिभिः।
यमं चापि न पश्यन्ति नरकाणि च नो ययुः ॥ ३ ॥

शृणुध्वं तद्विधानं हि सर्वेषामपि संमतम्।
माघमास्यसिते पक्षे विद्यते या चतुर्दशी ॥ ४ ॥

तद्रात्रिश्शिवरात्रिस्स्यात् सर्वपुण्य शुभावहा।
तस्यामेव शिवे पूजा शिवलिङ्गे शिवालये ॥ ५ ॥

कृतस्नानोपवासेन पूर्वेऽह्नि नियतेन च।
साधकेनोपचारेण कर्तव्या श्रद्धया सह ॥ ६ ॥

पञ्चशुद्धिं पुरा कृत्वा पूर्वोक्त विधिना ततः।
शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ॥ ७ ॥

आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत्।
अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ॥ ८ ॥

पञ्चामृतैः पञ्चगव्यैः तत्तदुक्त्याभिषेचयेत्।
गन्धोदकेन विधिना घृताद्यैः अभिषेचयेत् ॥ ९ ॥

पवित्रैः पञ्चभिः कुर्यात् पञ्चाङ्गैश्च क्रमेण तु।
पिष्टेन पुनरप्येवं उद्वर्त्यामलकेन तु ॥ १० ॥

चूर्णेनापि सपिष्टेन रजन्या धूपितेन च।
अस्त्रेण शोधितेनैव शोधयेदुदकेन तु ॥ ११ ॥

नालिकेरोदकेनैव तं पश्चादभिषेचयेत्।
गन्धोदकेन मूलाङ्ग ब्रह्मभिश्चाभिषेचयेत् ॥ १२ ॥

कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम्।
लिङ्गमाच्चाद्य देवाङ्गाद्येन शुद्धेन वाससा ॥ १३ ॥

यामं प्रति पृथग्द्रव्यैः गन्धाद्यैश्च समर्चयेत्।
चन्दनागरु कर्पूर कुङ्कुमाद्यैः क्रमेण तु ॥ १४ ॥

मल्लिकोत्पल पुष्पैश्च जातिपुष्पैश्च बिल्वकैः।
दूर्वाक्षत तिलैश्चापि संयुक्तं सम्यगर्चयेत् ॥ १५ ॥

गुग्गुल्वगरु निर्यास सर्जसारैश्च धूपयेत्।
दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ॥ १६ ॥

पायसं प्रथमे यामे द्वितीये कृसरं भवेत्।
गोलमन्नं तृतीये तु शुद्धानं च चतुर्थके ॥ १७ ॥

निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम्।
सघृतं गुलसंयुक्तं ताम्बूलं च निवेदयेत् ॥ १८ ॥

धूपमारात्रिकोपेतं शिवाय विनिवेद्य च।
होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽथ वा ॥ १९ ॥

कुण्डकल्पेऽथवा पात्रे कुण्डसंस्कार पूर्वकम्।
शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ॥ २० ॥

संपूज्य तत्र देवेशं जुहुयाज्ज्वलितोऽनले।
समिदाज्य हविर्लाज तिलैर्मूलाङ्ग ब्रह्मभिः ॥ २१ ॥

शिवाद्दशांशं अन्येषां मन्त्राणां आहुतिर्भवेत्।
दशादि दशवृद्ध्या तु यावत् पञ्चाशदाहुतिः ॥ २२ ॥

कृत्वा पूर्णां शिवेनैव निच्छिद्र परिपुरणम्।
वन्दयित्वाथ तद्भस्म देवेशमभिवन्द्य च ॥ २३ ॥

पूजयेत्पुनरप्येवं प्रतियामं पुनः पुनः।
स्वयं कर्तुं अशक्यश्चेत् स्वार्थं अन्येन कारयेत् ॥ २४ ॥

नीत्वा जागरणं रात्रौ प्रभाते विमले ततः।
कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ॥ २५ ॥

देवं पूर्ववदभ्यर्च्य गुरुपूजां ततो नयेत्।
दक्षिणां च ततो दद्याद् वित्तशाठ्य विवर्जितः ॥ २६ ॥

लिङ्गिनश्शिवभक्तांश्च ब्राह्मणानातिथीनपि।
पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ॥ २७ ॥

गत्वा बन्धुजनैस्सार्धं स्वगृहं प्रति साधकः।
पादौ हस्तौ च संक्षाल्य पारणां तु समाचरेत् ॥ २८ ॥

Uttarapāda – Kapitel 12: Die Duftstoffverehrung

उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत्।
विशेष स्नपनोपेतं विशेष यजनान्वितम् ॥ १ ॥

दिक्पाल पलवृद्ध्या तु पलसाहस्रकावधि।
प्रमाणं चन्दनस्योक्तं तदर्धं अगरुर्भवेत् ॥ २ ॥

तत्पादं वा तदर्धं वा कुङ्कुमं स्यात्तदर्धतः।
पादं अष्टांशकं वेष्टं तदर्धं पादमेव वा ॥ ३ ॥

कर्पूरं द्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत्।
वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ॥ ४ ॥

घृतकम्बळ मार्गेण संस्कृतं होममाचरेत्।
गन्धैरालिप्य लिङ्गं तु सपीठं शिवमन्त्रतः ॥ ५ ॥

सुगन्ध पुष्पमालाभिः भूषयेल्लिङ्गपिण्डिके।
कम्बळेन विना सर्वं घृतकम्बलवन्नयेत् ॥ ६ ॥

सर्वरोग समुत्पत्तावद्भुते वाञ्छिताप्तये।
आभिचारकृते दोषे विधानं इदं आचरेत् ॥ ७ ॥

Uttarapāda – Kapitel 13: Die Damana-Verehrung

दमनारोपणं वक्ष्ये चैत्रमास फलप्रदम्।
हरकोपात्पुराजातो भैरवो दमनाह्वयः ॥ १ ॥

दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः।
प्रीतेनाथ शिवेनोक्तो विटपो भव भूतले ॥ २ ॥

दान्तत्वं समनुप्राप्य मद्भोगाय भविष्यसि।
पूजयिष्यन्ति ये मर्त्या देवं त्वत्पल्लवादिभिः ॥ ३ ॥

ते यास्यन्ति परं स्थानं दमनस्य प्रभावतः।
ये पुनर्नुकरिष्यन्ति दामनं पर्व मानवाः ॥ ४ ॥

तेषां तु चैत्रमासोक्तं दत्तं पुण्यफलं मया।
सप्तम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ॥ ५ ॥

शोधयित्वास्त्र मन्त्रेण पूजयेत्संहिताणुभिः।
अथ संबोधयेद्दामं शिववाक्येन मन्त्रवित् ॥ ६ ॥

हरप्रसाद संभूत त्वमत्र सन्निधीभव।
शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ॥ ७ ॥

एवं दमनं आमन्त्र्य संरक्ष्य भवनं व्रजेत्।
यदि दूरं समानीय समूलं मृत्तिकान्वितम् ॥ ८ ॥

पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा।
गृहेऽप्यामन्त्रणं कार्यं पूर्वोक्त विधिना बुधः ॥ ९ ॥

सायाह्न समये प्राप्ते निदध्यादधिवासनम्।
आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ॥ १० ॥

यथाविधि समभ्यर्च्य भानुशङ्कर पावकान्।
पश्चिमे देवदेवस्य तस्य मूलं मृदायुतम् ॥ ११ ॥

सद्योजातेन मनुना दीपितं हृदयेन वा।
वामेन शिरसा वापि नाळं धात्रिमथोत्तरे ॥ १२ ॥

दक्षिणे भस्मपात्रं च शिखर्या रूपिणाथ वा।
पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ॥ १३ ॥

फलं मूलेन गायत्र्या ऐशान्यां गन्धसंयुतम्।
पञ्चाङ्गमञ्जलौ कृत्वा दाम पुष्पाक्षतान्वितम् ॥ १४ ॥

विज्ञापयेज्जगन्नाथं दमनारोपणं प्रति।
आमन्त्रितोऽसि देवेश प्रतिकाले मया प्रभो ॥ १५ ॥

कर्तव्यं च यथालाभं पूर्णं पर्व तवाज्ञया।
इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ॥ १६ ॥

संयोज्य शिवमन्त्रेण विदधीत जपादिकम्।
शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ॥ १७ ॥

पवित्रक विधानेन कवचेनावकुण्ठयेत्।
एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ॥ १८ ॥

हविस्तदनु भुञ्जीत यदि वा पवनाशनः।
शिवाग्रे जागरं कृत्वा ध्यानगान जपादिभिः ॥ १९ ॥

प्रातः स्नात्वा जगन्नाथं अष्टपुष्पैस्समर्चयेत्।
नित्यां नैमित्तिकीं चैव कृत्वा पूजां विशेषतः ॥ २० ॥

दमनैः पूजयेद्देवं पञ्चाङ्गैरपि खण्डितैः।
शेषमञ्जलिनादाय दूर्वा पुष्पाक्षतान्वितम् ॥ २१ ॥

ध्यायन्नभिमुखं देवं पञ्चवक्त्रं सदाशिवम्।
आत्मविद्याशिवैस्तत्त्वैः शिवाद्यैरीश्वरान्तिकैः ॥ २२ ॥

पवित्रक विधानेन क्रमेण शिवमर्चयेत्।
पूर्वोक्तैरात्मतत्त्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ॥ २३ ॥

सबिन्दुकैश्च सान्तैश्च पवित्रमनुनाचरेत्।
चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ॥ २४ ॥

मखेश्वराय च मखं पूरयेति च वीप्सितम्।
शूलपाणिं चतुर्थ्यन्तं नमस्कारन्तमाचरेत् ॥ २५ ॥

प्रणम्य शिवमभ्यर्च्य पावकं च विधानवित्।
विज्ञापयेच्छिवं पश्चाद् वाञ्चितार्थ फलप्रदम् ॥ २६ ॥

भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं।
सर्वं तदस्तु संपूर्णं पर्व दामनकं मम ॥ २७ ॥

एवं दाम विधिं कृत्वा कुर्वीत गुरुपूजनम्।
परितोषकरं पश्चाद् दीक्षितानपि तर्पयेत् ॥ २८ ॥

गृहस्तो ब्रह्मचारी वा य एनं कुरुते विधिम्।
पूजा जपादिकं तस्य सफलं चैत्रमासजम् ॥ २९ ॥

Uttarapāda – Kapitel 14: Das Frühlingsfest

तस्मिन्मासे विधेयस्स्याद् वसन्तोत्सव इष्टदः।
पूर्वेद्युः कौतुकं बध्वा नानावृक्ष समाकुले ॥ १ ॥

नानामाला समाकीर्णे नानाफल विचित्रिते।
नानागान समोपेते नानावाद्य समन्विते ॥ २ ॥

नानानृत्त समायुक्ते नानायन्त्र समन्विते।
प्रकीर्णपुष्प प्राकारे नानागन्ध समायुते ॥ ३ ॥

पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते।
आस्थान मण्टपोपेते जलक्रीडा समन्विते ॥ ४ ॥

देवोद्याने नयेद्देवं सर्वालङ्कार संयुतम्।
ग्राम प्रदक्षिणोपेतं मन्दीभूते दिवाकरे ॥ ५ ॥

परिवेषक्रमं तस्मिन् कृत्वा देवं विशेषतः।
पूजयेदुपचारैस्तु गन्घधूप स्रगादिभिः ॥ ६ ॥

सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम्।
देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ॥ ७ ॥

कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः।
स्थण्डिलद्वितये वापि नानापुष्प समन्विते ॥ ८ ॥

वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत्।
ताम्बूलं दापयेदन्ते तोषयेत्तौ विशेषतः ॥ ९ ॥

नृत्तवाद्य समोपेतैः दिव्यगानैर्व्यपोह्य च।
एवं कालं तु देवेशं नयेद्देवालयं पुनः ॥ १० ॥

स्नपनं कारयेच्चैव विशेषेणार्चयेच्छिवम्।
एवं देवं विशेषेणाभ्यर्चयेच्छिवमादरात् ॥ ११ ॥

एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ॥ १२ ॥

Uttarapāda – Kapitel 15: Das kühlende Gefäß

ततो वक्ष्ये विशेषेण शीतकुम्भमनुक्रमात्।
विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ॥ १ ॥

सर्वारिष्ट विनाशार्थं सर्वाद्भुत निवृत्तये।
प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ॥ २ ॥

चतुष्पाद्रोगसमये ज्वरमार्यादि संभवे।
शीतकुम्भ विधिः कार्यस्तद्दोषस्यापनुत्तये ॥ ३ ॥

यज्ञयोग्यैर्दृमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि।
वस्वङ्गुलं समारभ्याङ्गुलवृद्ध्या करान्तकम् ॥ ४ ॥

यथान्तरं तथा कृत्वा संप्रक्षाल्याम्बुना गुरुः।
वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणं दक्षिणे यजेत् ॥ ५ ॥

विष्णुं वामे वृषं पृष्टे त्रिषु पादेषु देवताः।
महामायां न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ॥ ६ ॥

एवं कृत्वा त्रिपादीं च विन्यसेल्लिङ्गमूर्धनि।
मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादि शालिभिः ॥ ७ ॥

तण्डुलैस्तिललाजैश्च तत्र कुम्भं निवेशयेत्।
चतुर्द्रोणेन संपूर्णं श्रेष्टं द्रोणत्रयेण तु ॥ ८ ॥

मध्यमं खारि संपूर्णं कन्यसं सूत्रवेष्टितम्।
पक्वबिम्ब फलाकारं सवस्त्रं कूर्च संयुतम् ॥ ९ ॥

कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम्।
पृष्ठे सुषिरसंयुक्तं हेमनाळ समन्वितम् ॥ १० ॥

एकद्वित्र्यङ्घ्रिसंयुक्त निष्कमानवृतेन तु।
युगाङ्गुल सदैर्घ्येण सूच्यग्र सिषिरेण तु ॥ ११ ॥

पिधानेन समोपेतं पल्लवेन समन्वितम्।
उपकुम्भं तदग्रे तु वस्त्रहेमादि संयुतम् ॥ १२ ॥

पृष्ठरन्ध्र विहीनं तु दक्षिणे तस्य विन्यसेत्।
आसनं च ततः कृत्वा मूर्तिमावाहयेद्घटे ॥ १३ ॥

ब्रह्मभिश्च कलोपेतैः विद्यादेहं प्रकल्पयेत्।
प्रणवं शिवमावाह्य गन्धाद्यैः सम्यगर्चयेत् ॥ १४ ॥

प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत्।
गन्धोदं वा मधु पयस्सर्वार्थं विनियोजयेत् ॥ १५ ॥

प्रायश्चित्तेऽद्भुतेऽन्यस्मिन् दुरितानां क्षयार्थकम्।
पञ्चगव्यं विनिक्षिप्य शुद्धोदकं अथापि वा ॥ १६ ॥

गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत्।
अथवाचमनीयार्थं कल्पितो गन्ध एव वा ॥ १७ ॥

नीरोमजन्तुइकम् द्रव्यं उपकुम्भे विनिक्षिपेत्।
हृदा संपूज्य गन्धाद्यैस्ततो होमं समाचरेत् ॥ १८ ॥

नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम्।
तिललाज समायुक्तं मधुसस्येन्द्र संयुतम् ॥ १९ ॥

समिधो वञ्जुलोत्थास्युस्सर्वा वारुण मन्त्रतः।
आप्येनामृत बीजेन संपुटेन शिवेन च ॥ २० ॥

आप्यधारणयोपेतं सहस्रं वा तदर्धकम्।
शतमष्टोत्तरं वापि प्रतिद्रव्यं तु होमयेत् ॥ २१ ॥

आप्याणु संपुटं मूलं जपेत्तत्तत्संख्यकं यथा।
जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरष्टभिः ॥ २२ ॥

आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात्।
कृतस्नानैः विनीतैश्च हविष्यन्नशनैर्द्विजैः ॥ २३ ॥

अनन्यमानसैश्शान्तैः आचार्याज्ञानुपालनैः।
शिवदीक्षासमोपेतैः सर्वैर्वृष्ट्यभिकांक्षिभिः ॥ २४ ॥

सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम्।
तत्काले पातयेत्क्षीरं गोस्तनेभ्यो विशेषतः ॥ २५ ॥

सहस्र संख्यका वा स्युरर्धसंख्या समन्विताः।
शतसंख्याश्च पाताश्चेत् पुष्टा वृष्टिर्भविष्यति ॥ २६ ॥

एवं प्रतिदिनकार्यं होमकाले द्विजोत्तमाः।
पूजायां चाथ पूर्णायां वारुणीं धारणां द्विजाः ॥ २७ ॥

ध्यात्वाऽमृतमयं मूलं उच्चरन्वौषडन्ततः।
कुर्याच्छङ्खस्वनोपेतं प्रत्यहं चैवं आचरेत् ॥ २८ ॥

नित्यपूजावसाने तु नैमित्तिकं उपक्रमेत्।
नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ॥ २९ ॥

नानागन्ध समोपेतैः शीतोदैस्स्नपनान्वितैः।
संस्नाप्य देवदेवेशं अमृतप्लावनं स्मरन् ॥ ३० ॥

चन्दनागरु कर्पूर कुङ्कुमैः प्रचुरैर्गुरुः।
गन्धपुष्पैरनेकैश्च तत्क्षणप्रतिबोधितैः ॥ ३१ ॥

कृष्णागरूद्भवैर्धूपैः मृष्टैराज्य प्रकल्पितैः।
कर्पूरवर्तिभिर्दीपैः पायसैः प्रचुरैः क्षणात् ॥ ३२ ॥

नवभाण्ड प्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः।
पानीयैः शीतलैर्गन्धैः मृष्टैर्नूतन भाण्डकैः ॥ ३३ ॥

ताम्बूलैर्गोरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः।
मुखवास समोपेतैः गानैर्वाद्यैश्च नर्तनैः ॥ ३४ ॥

नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि।
जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ॥ ३५ ॥

पूजयेत्प्रत्यहं देवं यावत्स्यात् काङ्क्षितं फलम्।
तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीरितः ॥ ३६ ॥

प्रथमेऽह्नि विशेषोऽयं पूर्णान्ते च घटद्वयम्।
संग्राहयित्वा दोस्थं च शिरस्थं वा प्रदक्षिणम् ॥ ३७ ॥

आभ्यां कृत्वा च धाम्नस्तु सुदिने च सुवारके।
आचार्यस्यानुकूलर्क्षे यजमानस्य चैव हि ॥ ३८ ॥

सुतिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन्।
घटं ससुषिरं तस्मिन् नवकुम्भस्थितं जलम् ॥ ३९ ॥

शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम्।
निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरि मध्यगम् ॥ ४० ॥

तोयशेषन्नयेन्नित्यं यावत्कर्म प्रसिद्ध्यति।
सप्ताहं वा द्विसप्ताहं त्रिसप्ताहं तु मासकम् ॥ ४१ ॥

द्विमासं वा त्रिमासं वा विधिमेवं समाचरेत्।
आचार्यं पूजयेदादौ वस्त्रैः पञ्चाङ्गभूषणैः ॥ ४२ ॥

दक्षिणां दापयेदादौ दशनिष्कादिकां नृपः।
अन्ते च द्विगुणां पूजां दक्षिणामपि मानवः ॥ ४३ ॥

अन्येषामपि सर्वेषां हेमवस्त्राङ्गुलीयकाम्।
निष्कैक दक्षिणोपेतां दद्याच्छ्रद्धा समन्वितम् ॥ ४४ ॥

प्रत्यहं भोजनार्थं तु तण्डुलं व्यञ्जनान्वितम्।
ताम्बूलं च नृपस्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ॥ ४५ ॥

नित्यं च भोजनं कार्यं भक्तानां योगिनां अपि।
दीनानाथ जनानां च प्रत्यहं भोजनं भवेत् ॥ ४६ ॥

स्नपनं कारयेदन्ते प्रचुरं दापयेद्धविः ॥ ४७ ॥

Uttarapāda – Kapitel 16: Die Fruchtverehrung

ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः।
विशेष स्नपनोपेतं पञ्चामृत समन्वितम् ॥ १ ॥

विशेष पूजा संयुक्तं पायसेन समन्वितम्।
विशेष होम संयुक्तं समिदाज्यान्नकैस्सह ॥ २ ॥

नानाफल समायुक्तैः द्रव्यैः पूर्णां विधाय च।
पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ॥ ३ ॥

कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा।
वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवच मन्त्रतः ॥ ४ ॥

सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत्।
क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ॥ ५ ॥

यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ॥ ६ ॥

Uttarapāda – Kapitel 17: Die Verehrung im Āṣāḍha

आषाढे मासि नक्षत्रे पूर्वफल्गुन संज्ञके।
आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ॥ १ ॥

कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्त वर्त्मना।
देवदेव्याश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ॥ २ ॥

वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत्।
ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ॥ ३ ॥

तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम्।
ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ॥ ४ ॥

आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत्।
रात्रिचूर्णं च तैलं च चूर्णोत्सव विधानतः ॥ ५ ॥

दद्याद्देवाय देव्यै च जनेभ्यस्तदनन्तरम्।
ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ॥ ६ ॥

हित्वा वा चूर्णकार्यं च तण्डुलादि प्रदानकम्।
त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ॥ ७ ॥

स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः।
एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ॥ ८ ॥

संस्थाप्य तान्घटान् सम्यक् स्नपनोक्त विधानतः।
सक्तुभिश्च फलोपेतैस्तान् संपूज्य हृदा गुरुः ॥ ९ ॥

तैः संस्नाप्य च तच्छूलं अवगाहनं आचरेत्।
तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्रति ॥ १० ॥

तीर्थकर्म विहीनं वा ग्रामादि भ्रमणावधि।
अस्मिन्दिने वा निर्वाणदीपमम्लानमालया ॥ ११ ॥

प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम्।
अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ॥ १२ ॥

बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम्।
नानाभक्त जनैस्सार्धं नानास्वादु फलानि च ॥ १३ ॥

गुडखण्द समोपेतं सक्तु संदापयेद्गुरुः।
नानापूप समायुक्तं नानाफल समन्वितम् ॥ १४ ॥

जलतीरे निवेद्यैशे गुडादि फलसक्तुकम्।
विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ॥ १५ ॥

विधाय केवलं वापि त्रिशूलेन समन्वितम्।
नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ॥ १६ ॥

प्रभूत हविषोपेतं मुखवासेन संयुतम्।
ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ॥ १७ ॥

वस्त्रहेमाङ्गुलीयाद्यैः दक्षिणां दापयेत् ततः।
सर्वपाप विनाशार्थं सर्वारिष्ट निवृत्तये ॥ १८ ॥

सर्वाभीष्ट प्रसिद्ध्यर्थं सर्वकार्यार्थ सिद्धये।
विधानं एतत् कर्तव्यं देव्यास्संतुष्टिकारणम् ॥ १९ ॥

Uttarapāda – Kapitel 18: Das Auflegen der Pavitra-Fäden

दुरितस्य विनाशार्थं संवत्सरकृतस्य तु।
पवित्रकं अहं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ॥ १ ॥

प्रायश्चित्तं अकुर्वाणो मन्त्री विधिविलङ्घनात्।
चित्तभ्रंशमवाप्नोति देशिको रोगभाग् भवेत् ॥ २ ॥

पुत्रको भुक्तिभाङ्नस्यात् जन्मनैकेन रोधनात्।
समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ॥ ३ ॥

विधातव्यं प्रयत्नेन येन केन प्रकारतः।
प्रत्यहं वाङ्मनः काय व्यापार जनितादलम् ॥ ४ ॥

पतनात् त्रायते यस्मात् तस्मादेतत् पवित्रकम्।
आषाढादि त्रयो मासा ज्येष्ठमध्यमकन्यसाः ॥ ५ ॥

अश्विनी कृत्तिकामासावथवा संप्रकीर्तितौ।
पूर्वपक्षे चतुर्दश्यां आषाढे तु पवित्रकम् ॥ ६ ॥

इतरेषु च मासेषु पक्षयोः शुक्लकृष्णयोः।
चतुर्दश्यां अथवाष्टम्यां पवित्रं विधिनाचरेत् ॥ ७ ॥

कृत्तिका दीपतः पश्चान् नैव कार्यं पवित्रकम्।
शुक्लपक्षे गृहस्तस्य यतेरुभयपक्षयोः ॥ ८ ॥

कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम्।
क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसंभवे ॥ ९ ॥

दर्भं सवल्कलोत्थं वा समाहृत्याधिवासयेत्।
त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्र मन्त्रतः ॥ १० ॥

रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्रमन्त्रतः।
शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ॥ ११ ॥

शक्तयो नव वामाद्या नवसुत्राधिपा मताः।
द्विगुणास्तन्तवो हास्ते दशवृद्ध्या ततः क्रमात् ॥ १२ ॥

शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम्।
द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ॥ १३ ॥

तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु।
यवीयसां कलासंख्या मध्यानां वर्णलक्षिताः ॥ १४ ॥

ज्येष्ठानां पदसंख्यातास्तन्तवो मानुषे मताः।
स्वायम्भुवादि लिङ्गेषु बाणे वा रत्नजेऽपि वा ॥ १५ ॥

स्थण्डिले मण्डले वापि चले वा प्रतिमासु च।
संख्यास्सर्वाश्च संग्राह्यास्समा वा विषमाश्च वा ॥ १६ ॥

समा एव गृहस्तस्य परिवारामरादिषु।
तथैव हीनवित्तेषु लिङ्गादिषु मुनीश्वराः ॥ १७ ॥

एकाद्येकैक वृद्ध्या तु तन्तवो द्वादशान्तकाः।
ग्रन्तयस्तन्तु संख्याताः स्निग्धगर्भा नवा मताः ॥ १८ ॥

यथेष्ट ग्रन्थयो वापि समास्सर्वत्र संस्थिताः।
एकादि त्र्यङ्गुलं वापि ग्रन्थिमानं इहागमे ॥ १९ ॥

ग्रन्थयो वेष्टदेशेऽथ विधातव्या विचक्षणैः।
रक्तचन्दन काश्मीर गैरिकागरुचन्दनैः ॥ २० ॥

कुष्टकर्पूर संयुक्तं हरिद्रा कृष्णगन्धयुक्।
रञ्जयेद् हृदयेनैव रक्तसूत्रादिभिस्तु वा ॥ २१ ॥

त्रितयं मूर्ध्नि कर्तव्यं आत्मविद्याशिवात्मकम्।
पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्वतात्त्विकम् ॥ २२ ॥

यज्ञसूत्राख्यमाला च बाहुमाला ततः परम्।
मुखलिङ्गे विधेया स्यात् सकलेऽप्यथवा मता ॥ २३ ॥

आजानुशोभि व्यक्तेषु त्रिपूर्वं स्वेष्टतन्तुयुक्।
यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ॥ २४ ॥

क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डीलादौ यथा मतम्।
आशृङ्गमेकं वृषभो ककुदः खुरगं परम् ॥ २५ ॥

पवित्रमेकं सर्वेषां आवृतानां विधीयताम्।
एकैकमेव दातव्यं चण्डेश क्षेत्रपालयोः ॥ २६ ॥

क्षेत्रनेम्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम्।
यागधाम वृषस्थान प्रासादालय संश्रयान् ॥ २७ ॥

कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत्।
एवं निश्चित्य पुर्वेद्युः अधिवासनं आरभेत् ॥ २८ ॥

प्रासादस्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा।
मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ॥ २९ ॥

षोडशस्तम्भ संयुक्ते रविस्तम्भयुतेऽपि वा।
मध्यमे वेदिकायुक्ते सर्वलक्षण संयुते ॥ ३० ॥

त्रिभागायामयुक्ते वा विंशतिस्तम्भ संयुते।
मण्डपे पूर्वकॢप्ते वा द्विगुणायत वेदिके ॥ ३१ ॥

तत्समन्तात्संकॢप्त नवपञ्चैककुण्डके।
तत्संख्ये स्थण्डिले वापि वेदिकारोहितेऽपि वा ॥ ३२ ॥

पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत्।
कृतशौचविधिस्नान सन्ध्यावन्दन तर्पणः ॥ ३३ ॥

कृतनित्यार्चनो मन्त्री सूर्यार्चन समन्वितः।
अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ॥ ३४ ॥

परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम्।
लक्ष्मी यागेश वर्धन्यौ लोकपान् गणपं गुरून् ॥ ३५ ॥

इष्ट्वा संप्रार्थ्य तत्पश्चात् मण्डलेऽपि च शङ्करम्।
संपूज्यविधिवद्देव समीपे स्वासने स्थितः ॥ ३६ ॥

आसनार्चनमारभ्य कुर्यादावाहनान्तकम्।
कर्म पञ्चामृतोपेतं विशेष स्नपनान्वितम् ॥ ३७ ॥

नानागन्धान्वितां नाना भक्ष्यभोज्यान्न संयुताम्।
पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ॥ ३८ ॥

कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत्।
समिदाज्य चरूं लाजां तिलसस्येन्द्र संयुतान् ॥ ३९ ॥

पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च।
शमी खादिर श्रीवृक्ष प्लक्षास्स्युर्वह्नि कोणतः ॥ ४० ॥

प्रधाने तु पलाशस्स्याच्छतं वार्धं शिवस्य तु।
शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके भवेत् ॥ ४१ ॥

तदर्धं अन्यकुण्डेषु नरादिषु हृदादिषु।
स्थालीपाक हविः कृत्वा तद्धृदा विभजेत् त्रिधा ॥ ४२ ॥

शिवांशं अग्निभागं च मध्वाज्याभ्यां तु मिश्रितम्।
कुर्यादात्मीयभागं तु केवलेन च घृतेन च ॥ ४३ ॥

हृदा देवांशं अभ्यर्च्य तमादाय शिवान्तिकम्।
गत्वा संपूज्य देवेशं व्रताङ्गानि निवेदयेत् ॥ ४४ ॥

दन्तकाष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन्।
भस्म दक्षिणतश्शुद्ध पात्रेऽघोरेण मन्त्रवित् ॥ ४५ ॥

पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन्।
धात्रीफलं उदक्पूर्वे पञ्चभक्ष्यं निवेदयेत् ॥ ४६ ॥

होमद्रव्याणि सर्वाणि सकुशान्यपरानने।
दण्डाक्षमाला कौपीन भिक्षापात्राणि दक्षिणे ॥ ४७ ॥

रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम्।
दर्पणं कर्त्रिकां दन्तनखशोधनं अञ्जनम् ॥ ४८ ॥

तत्पात्रं अपरं दद्याद्वामदेव मनुस्मरन्।
ताम्बूलं भस्मसंमिश्रं दद्यात्तत्पुरुषं स्मरन् ॥ ४९ ॥

ऐशान्यां आसनं छत्रं पादुके योगपट्टिकाम्।
स्थण्डिले सूत्रनिकटे परितश्चाधिवास्य वा ॥ ५० ॥

अस्त्रेण प्रोक्षितं वर्मकुण्ठितं हृदयार्चितम्।
धेनुमुद्रामृतीभूतं शिवांशं विनिवेदयेत् ॥ ५१ ॥

ब्रह्मभिर्देवदेवाय पवित्राण्याहरेत्ततः।
स्थण्डिलं वेदिकोर्ध्वे स्यादष्टद्रोणेन शालिना ॥ ५२ ॥

तदर्ध तण्डुलोपेतं तिललाज समन्वितम्।
तत्र संस्थापयेत् पात्रे पवित्राण्यथ देशिकः ॥ ५३ ॥

मण्डले वेदिकोर्ध्वे चेत् अत्र कुम्भान्तिकेऽपि वा।
संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ॥ ५४ ॥

मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके।
संवत्सरात्मकं सर्व कृत्यसाक्षिणं अव्ययम् ॥ ५५ ॥

गोप्तारं संश्रयं कर्मफलप्राप्ति निबन्धनम्।
अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ॥ ५६ ॥

त्रिस्सप्तकृत्वः संपातं तथैव जुहुयात्ततः।
दत्वा गन्ध पवित्रं तु भानोराचम्य देशिकः ॥ ५७ ॥

यागधाम वृषस्थान प्रासादानल संश्रयान्।
कारकान् पञ्चसूत्रेण वर्मणा परिवेष्टयेत् ॥ ५८ ॥

दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम्।
प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ॥ ५९ ॥

तदेतानि पवित्राणि भगवन् संस्कृतानि हि।
अर्पयामि घटस्थाय शिवायाध्येषयेदिति ॥ ६० ॥

समर्प्य रक्षणायास्मै तेभ्यो गन्ध पवित्रकम्।
आदौ वा कुम्भवर्धन्योः दत्वा यायाच्छिवान्तिकम् ॥ ६१ ॥

स्वमूर्तौ गुरुपङ्क्तौ च दद्याद्गन्ध पवित्रकम्।
एकग्रन्थि समायुक्तं अल्पतन्तु विनिर्मितम् ॥ ६२ ॥

धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः।
आमन्त्रण पवित्रं तत् सुधामुद्रा प्ररोचितम् ॥ ६३ ॥

शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणूना।
आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ॥ ६४ ॥

समस्तविधिवच्छिद्र पूरणेश मखं प्रति।
प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्ति कारकः ॥ ६५ ॥

तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते।
सर्वथा सर्वदा शंभो नमस्तेऽस्तु प्रसीद मे ॥ ६६ ॥

जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत्।
दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ॥ ६७ ॥

दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः।
आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ॥ ६८ ॥

इन्द्राय संगृहाणेति नत्यन्तं प्रणवादिकम्।
अन्येषां चैव मूर्तानां क्रमाद्दद्याद्बहिर्बलिम् ॥ ६९ ॥

वायव्यां क्षेत्रपालाय दत्वाचम्य बलिं पुनः।
प्रायश्चित्तै ततो हुत्वा पूर्णां दत्वा ततो गुरुः ॥ ७० ॥

भूर्भुवस्स्वः पदैर्व्यस्तैस्समस्तैरपि होमयेत्।
अग्नये त्वथ सोमाय ताभ्यां स्विष्टं कृदाहुतिम् ॥ ७१ ॥

स्वाहान्तैर्दीपपूर्वैस्तु हुत्वा मन्त्रैः यथोदितैः।
मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ॥ ७२ ॥

नाडीसन्धान मार्गेण योजयेद्भावयेच्छिवम्।
सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ॥ ७३ ॥

निस्सृत्य यागधाम्नस्तु समाचम्य गुरुश्शुचिः।
पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् ॥ ७४ ॥

आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन्।
अथ प्रातः कृतावश्यस्नान सन्ध्याणु तर्पणः ॥ ७५ ॥

अविसर्जित देवेशात् पवित्राण्यवरोपयेत्।
तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ॥ ७६ ॥

दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत्।
समाचम्य कृतन्यासस्सामान्यर्घ्य करो गुरुः ॥ ७७ ॥

कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्रविग्रहः।
द्वार द्वाराधिपान् इष्ट्वा प्रविश्यास्त्राणि कुम्भयोः ॥ ७८ ॥

दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत्।
स्वासने दीपसंकॢप्ते सौम्यास्योर्ध्वस्थितस्थितिः ॥ ७९ ॥

मन्त्रकायो विशेषार्घ्य द्रव्यशुद्धि समन्वितः।
शिवहस्तं च संकल्प्य पञ्चगव्यं च पूर्ववत् ॥ ८० ॥

विशेषस्नपनोपेतं पञ्चामृत समन्वितम्।
पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ॥ ८१ ॥

जपंकृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः।
कुण्डमस्त्रेण संप्रोक्ष्य मेखला परिधिस्थितान् ॥ ८२ ॥

संपूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित्।
दत्वा पूर्णाहुतिं देवं आवाह्यभ्यर्च्य तर्पयेत् ॥ ८३ ॥

प्रायश्चित्तं ततो हुत्वा पूर्णहुतिं अथाचरेत्।
दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ॥ ८४ ॥

नन्द्यादिभ्यो पवित्रं तु दत्वान्तः संप्रविश्य च।
ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ॥ ८५ ॥

गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च।
कृत्वा विशेष पूजां च विभवस्यानुसारतः ॥ ८६ ॥

स्वमूर्तौ गुरुपङ्क्तौ च दत्वा सूत्रं शिवं स्मरन्।
वर्षर्तु मास पक्षाहर्नाडीप्राणादि विग्रहम् ॥ ८७ ॥

सर्वेन्द्रिय शरीरार्थ व्यवहारैक कारणम्।
कृताकृत समुत्सृष्ट क्लिष्टकर्मैक साक्षिणम् ॥ ८८ ॥

क्षेत्रगोप्तारं ईशानं शरण्यं शुचिमानसः।
प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ॥ ८९ ॥

कालात्मना त्वया देव यद्दृष्टं मामके विधौ।
कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ॥ ९० ॥

तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम्।
सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्चया ॥ ९१ ॥

पूरयेति द्विरुच्चार्य मखव्रतफलं ततः।
नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ॥ ९२ ॥

तत्त्वविद्या शिवाख्यं च मुक्तिकाम पदं पठेत् ॥ ९३ ॥

पवित्रकत्रयं मूर्ध्नि दद्याद्भोगी शिवादिकम्।
शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ॥ ९४ ॥

सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम्।
पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ॥ ९५ ॥

त्वं गतिस्सर्वभुतानां संस्थितस्त्वं चराचरे।
अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर ॥ ९६ ॥

कर्मणा मनसा वाचा त्वत्तो नान्यो गतिर्मम।
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं च यत्कृतम् ॥ ९७ ॥

जपहोमार्चना हीनं कृत्यं नित्यं मया तव।
अकृतं वाक्यहीनं च तत्पूरय महेश्वर ॥ ९८ ॥

सुपूत त्वं सुरेशान पवित्रं पापनाशनम्।
त्वया पवित्रितं सर्वं जगत्स्थावरजङ्गमम् ॥ ९९ ॥

खण्डितं यन्मया देव व्रतवैकल्य योगतः।
एकीभवतु तत्सर्वं तवाज्ञा सूत्रगुम्भितम् ॥ १०० ॥

जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात्।
गृह्णीयात्प्रणतो भक्त्या चतुस्त्रिद्व्येक मासकम् ॥ १०१ ॥

अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यं तु वा।
अथवैकाहमारब्ध कर्मान्तं नियमं नयेत् ॥ १०२ ॥

एकभुक्त्यादि यत्सर्वं शक्त्यानुष्ठेयं ईश्वरात्।
व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रावरोहणम् ॥ १०३ ॥

सास्त्रेभ्यो दिक्पतिभ्यस्तु सूत्रं दत्वाग्नि संस्थिते।
शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ॥ १०४ ॥

वह्निं संरोध्य स्विष्टान्तं हुत्वान्तस्संप्रविश्य च।
देवं संपूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ॥ १०५ ॥

दत्वा पवित्रं दिक्पाल बलिमाचम्य देशिकः।
प्रायश्चित्तं ततो दत्वा पूर्णां वै छिद्रपूरणीम् ॥ १०६ ॥

मण्डलस्थं च संपूज्य ततो देवं क्षमापयेत्।
तदन्ते भोजनाच्छादपात्रोप करणादिभिः ॥ १०७ ॥

संपूज्य दीक्षितान् ब्रूयात् प्रीयतां मे सदाशिवः।
लिङ्गात्पवित्रमुद्वास्य निर्माल्यापनये कृते ॥ १०८ ॥

स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने।
व्रतान्ते प्राग्वदभ्यर्च्य चातीतदिनवच्छिवम् ॥ १०९ ॥

व्रतं निवेदयेदुक्त्वा ममास्तु फलसाधकम्।
भुक्तिकामो व्रती कामो कर्मबन्धक इत्यपि ॥ ११० ॥

मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत्।
भसितं वन्दयित्वाऽथ वह्निस्थं योजयेच्छिवे ॥ १११ ॥

वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तके।
हृदये संनिवेश्याग्निं विसृज्योद्वास्य विष्टरात् ॥ ११२ ॥

परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः।
शिवकुम्भास्त्रवर्धन्योः मनून् संहृत्य योजयेत् ॥ ११३ ॥

ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत्।
दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वार संस्थितान् ॥ ११४ ॥

रव्यन्तं तु विसृज्याऽथ पवित्राणि महेश्वरात्।
आदाय सति चण्डेशे तस्मै दद्यात् पवित्रकम् ॥ ११५ ॥

निर्माल्यादिकं अन्यं च पवित्रं न कृतं यदि।
लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ॥ ११६ ॥

पवित्रं नित्य पूजाङ्गं पुष्पाद्यैः परिकल्पयेत्।
दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ॥ ११७ ॥

Uttarapāda – Kapitel 19: Die neue Ernte als Speisegabe

अतः परं प्रवक्ष्यामि नवनैवेद्य लक्षणम्।
मार्गशीर्षमथाषाढां माघमासं विवर्ज्य च ॥ १ ॥

अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत्।
निश्चित्य शुभ नक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ॥ २ ॥

विनावङ्कुर कार्यं तु सुमुहूर्ते सुलग्नके।
शङ्ख दुन्दुभि नादैश्च गीतनृत्तादि मङ्गलैः ॥ ३ ॥

नानाध्वज वितानैश्च धूपदीपाङ्कुरैर्युतम्।
ममभक्त जनैस्सार्धं त्रिशूलेन समन्वितम् ॥ ४ ॥

चण्डेश्वर समायुक्तं देवक्षेत्रं समाविशेत्।
चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ॥ ५ ॥

हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत्।
पूर्वाद्यष्ट दिशास्वेवं गन्धपुष्पादि संयुतम् ॥ ६ ॥

सलक्षणेन दात्रेण पूजितेनैव हेतिना।
प्राङ्मुखोदङ्मुखो भूत्वा शस्त्र मन्त्रमनुस्मरन् ॥ ७ ॥

शूकं लूत्वा तु युग्मे तु स्थलिकोर्ध्वे निवेशयेत्।
तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ॥ ८ ॥

तण्डुलैश्च समोपेतं नाना व्यञ्जन संयुतम्।
नालिकेर फलोपेतं नवपूग फलान्वितम् ॥ ९ ॥

मरीच गुलखण्डाद्यैः इक्षुभिश्च समन्वितम्।
नानाशाक समायुक्तं नानाव्यञ्जन संयुतम् ॥ १० ॥

पृथक्कन्धफलोपेतैः पूजाद्रव्यैस्तथाविधैः।
आश्चर्य कारकैरन्यैः सर्वातोद्य समन्वितम् ॥ ११ ॥

नृत्तगान समायुक्तं नानाध्वज समन्वितम्।
नानाछत्र समायुक्तं प्रविश्य नगरादिकम् ॥ १२ ॥

ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति।
पूर्णकुम्भ समायुक्तं नानादीप समन्वितम् ॥ १३ ॥

कदलीस्तम्भ संयुक्तं नाना मङ्गल मण्डितम्।
विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ॥ १४ ॥

वेत्रादि निर्मिते पात्रे भूतले केवलेऽपि वा।
गोमयालेपिते पिष्टचित्रिते दीप संयुते ॥ १५ ॥

चूर्णोत्सव क्रमप्रोक्त मार्गेणाकुठ्य वर्जयेत्।
तुषादीन् तण्डुलान् शुद्धान् संग्राह्य क्षालयेत्ततः॥
मरीचि जीरकोपेतं गुळसार समन्वितम् ॥ १६ ॥

नाळिकेर फलोपेतं संस्कुर्यात् तण्डुलं पुरा।
स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ॥ १७ ॥

मुहूर्ते समनुप्राप्ते व्रीहीनास्तीर्य भूतले।
पटं तदूर्ध्वे विन्यस्य रम्भा पत्राणि विन्यसेत् ॥ १८ ॥

अस्त्रतोयेन संप्रोक्ष्य मृत्युञ्जयमनुस्मरन्।
तण्डुलं तत्र निक्षिप्य गुळतोयेन सेचितम् ॥ १९ ॥

कवचेनावकुण्ठ्यान्ते हृदा संपूजयेद्गुरुः।
धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ॥ २० ॥

नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात्।
तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ॥ २१ ॥

नवपूग फलोपेतं देव्यै च विनिवेदयेत्।
सर्वेभ्यस्सकलेभ्यश्च प्रागुक्त विधिना गुरुः ॥ २२ ॥

अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत्।
वृषादि परिवारेभ्यो होमकर्म समाचरेत् ॥ २३ ॥

नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत्।
बलिदान समोपेतं अतिथीनां समर्पणम् ॥ २४ ॥

निवेद्य तण्डुलं चान्नं पश्चाद्धोमो ऽथवा भवेत्।
तदन्ते चोत्सवं कुर्यात् तं विना वा समाचरेत् ॥ २५ ॥

हित्वा क्षेत्रबलिं वाथ हित्वा वोलूकल क्रियाम्।
सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ॥ २६ ॥

वस्त्रहेमाङ्गुलीयाद्यैः दक्षिणां दापयेत्ततः।
एवं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ॥ २७ ॥

Uttarapāda – Kapitel 20: Samaya- und Viśeṣa-Einweihung

अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम्।
आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ॥ १ ॥

कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः।
सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ॥ २ ॥

द्वाराण्यस्त्रेण संप्रोक्ष्य द्वारद्वाराधिपान्यजेत्।
आदौ शान्तिकला शब्द द्वाराय नम इत्यपि ॥ ३ ॥

पठित्वा पूजयेत्पूर्वद्वारं विद्याख्य दक्षिणम्।
वारुणं च निवृत्याख्यं प्रतिष्ठाख्यं उदग्गतम् ॥ ४ ॥

प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ।
पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ॥ ५ ॥

प्रणवादि नमोन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत्।
तोरणस्थान् घटस्थान् वा भित्तिस्थान् वापि पूजयेत् ॥ ६ ॥

पशिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च।
अस्त्रेण पार्ष्णिघातस्य त्रयं कृत्वाथ भूगतान् ॥ ७ ॥

कृत्वा ताळत्रयं मन्त्री विघ्नावाकाशवर्तिनः।
छोटिकात्रयतो विघ्नान् धाम्नः प्रोत्सारयेद्बहिः ॥ ८ ॥

दक्षजङ्घां समुत्क्षिप्य वामशाखाश्रयी विशेत्।
अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ॥ ९ ॥

वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि।
संपूज्य गन्धपुष्पाद्यैः अस्त्रप्राकार कल्पनात् ॥ १० ॥

वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः।
उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ॥ ११ ॥

सकलीकरणं कृत्वा कृतान्तर्यजनो गुरुः।
विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ॥ १२ ॥

अद्भिस्तिलकुशाग्रौश्च क्षीरपुष्पैः समन्वितम्।
तदम्बसा तु संप्रोक्ष्य स्वशिरो द्रव्यसंहितम् ॥ १३ ॥

अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत्।
हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ॥ १४ ॥

शिवहस्तं च संकल्प्य तदारोपितमस्तकः।
ज्ञानासि तत्त्वसंख्यातैः चतुरूनैः अथापि वा ॥ १५ ॥

दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम्।
कल्पयेत् पञ्चगव्यं तु तद्विधानं इहोच्यते ॥ १६ ॥

मण्टपस्य शुभे भागे क्षेत्रे नवपदीकृते।
पञ्चतत्त्वकृतन्यासे पञ्चपात्राणि विन्यसेत् ॥ १७ ॥

शिवे सदाख्ये विद्यायां काले पुंसि च देशिकः।
सुप्रतिष्ठं सुशान्तं च तेजोवदमृतात्मकम् ॥ १८ ॥

रत्नोदकं च संकल्प्य क्षीरं दधि घृतं न्यसेत्।
गोमयं चैव गोमूत्रं ईशानाद्यैस्तु मन्त्रितम् ॥ १९ ॥

एकद्वित्रिचतुष्पञ्च वारैष्षड्भिः कुशोदकम्।
अमृतीकृत्य संपूज्य शिवेनैकत्वं आचरेत् ॥ २० ॥

मण्टपं तेन संप्रोक्ष्य विकिरानभिमन्त्रयेत्।
लाजचन्दन सिद्धार्थ भस्मपुष्प कुशाक्षताः ॥ २१ ॥

हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः।
नैरृत्यां मण्टपे स्थित्वा संस्कृतीर्मण्टपस्य तु ॥ २२ ॥

कुर्यादीशानवक्त्रस्तु संस्कारौर्वीक्षणादिभिः।
कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्र तु ॥ २३ ॥

विकीर्य विकिरानीशे कुश कूर्च्या समाहरेत्।
वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ॥ २४ ॥

हेमाद्येकतमं कुम्भं आनीय गलिताम्भसा।
पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ॥ २५ ॥

संहृतौ विकिरास्त्राणां आसनं तु चलाचलम्।
संकल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ॥ २६ ॥

वर्धनीं सोदकां वस्त्रसूत्रवर्णादि संयुताम्।
विन्यसेदस्त्रभूतां तां प्रत्यङ्नाल समन्विताम् ॥ २७ ॥

संपूज्य गन्धपुष्पाद्यैः घटास्त्रालू गुरूत्तमाः।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ २८ ॥

वायुं सोमं तथैशानं पूजयेत्प्राग्दिगादितः।
विरिञ्चिमीश दक्षस्थं विष्णुं निरृति वामगम् ॥ २९ ॥

घटस्थं कलशस्थं वा कुण्डस्थं वा यजेद्गुरुः।
तथैव वज्रशक्त्यादि दशास्त्राण्यपि पूजयेत् ॥ ३० ॥

भो भो शक्र त्वया स्वस्यां दिशि विघ्न प्रशान्तये।
सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ॥ ३१ ॥

सर्वेषां लोकपालानां अनेन क्रमयोगतः।
शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदग्रतोऽस्त्रकम् ॥ ३२ ॥

विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम्।
स्थिरासनं च संपूज्य देवमस्त्रं च पूजयेत् ॥ ३३ ॥

मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम्।
पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ॥ ३४ ॥

सव्यमुष्टिरुमापिण्डी लिङ्गमङ्गुष्ठको हरः।
भूतये कलशं स्पृष्ट्वा पूर्वमङ्गुष्ठ पर्वणा ॥ ३५ ॥

संस्पृशेद्वर्धनीं पश्चान् मुष्टिना हृदयाणुना।
मुक्तये च पुरस्स्पृष्ट्वा वर्धनीं मुष्टिनैव तु ॥ ३६ ॥

स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा।
उमायै भगरूपिण्यै लिङ्गरूप धराय च ॥ ३७ ॥

शङ्कराय नमस्तुभ्यं इति स्तुत्वा ऽनुमोद्य च।
यज्ञस्याय पतिस्त्वं हि मूर्तिरेषा तवाचला ॥ ३८ ॥

एतत्ते ज्ञाननिस्त्रिंशद् गृहाण स्वमायुधम्।
मया प्रवर्तितश्चायं यज्वना भवतः क्रतुः ॥ ३९ ॥

रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्य हि।
यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ॥ ४० ॥

अर्घ्यपात्रं विधायाथ दद्यादर्घ्यं अथाम्भसा।
निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ॥ ४१ ॥

वर्धनी विकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम्।
अपसारित विघ्नं तु भावयेद्भूपरिग्रहम् ॥ ४२ ॥

मण्डले स्थण्डिले वापि लिङ्गे वा शिवमर्चयेत्।
विशेषपूजयोपेतं पावके शिवमर्चयेत् ॥ ४३ ॥

भगवन् देहमाविश्य मदीयमनुकम्पया।
कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनाम् ॥ ४४ ॥

संप्रार्थ्यैवं करोमीति लब्धानुज्ञः शिवाद्गुरुः।
मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ॥ ४५ ॥

उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावयेत्।
सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ॥ ४६ ॥

यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः।
होमाधिकरणत्वेन पावकस्थस्सदाशिवः ॥ ४७ ॥

शिष्यदेहे तु तच्छिष्य पाशमोचन कारकः।
अनुग्रहकरो देवो मम देहे व्यवस्थितः ॥ ४८ ॥

पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः।
अपृथग्भूतमात्मानं तत्समानगुणं स्मरेत् ॥ ४९ ॥

ममापि हृदयादीनि साधनानि न संशयः।
स्वातन्त्र्यमेव संभाव्य शिवं विज्ञापयेदिति ॥ ५० ॥

यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः।
त इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ॥ ५१ ॥

अविसंवादिभिर्लिङ्गैरुद्धूत ध्वान्तवृत्तयः।
भवतीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ॥ ५२ ॥

विहितावश्यकाः स्नाता निवर्तित दिनक्रियाः।
सितवस्त्रोत्तरीयास्त्वत् पादपद्म दिदृक्षवः ॥ ५३ ॥

तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर।
प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ॥ ५४ ॥

कुरुष्वं वचनं भद्र प्रवेशाय किलेत्यहम्।
उक्तश्शिवेन संभाव्य ततश्शिष्यान् प्रवेशयेत् ॥ ५५ ॥

द्वारस्य संमुखं बाह्ये प्रणवे कुश मण्डले।
शिष्यं तत्रैव संस्थाप्य स्थित्वा स्वयमुदङ्मुखः ॥ ५६ ॥

विलोकयेच्छिकान्ताच्च यावत्पदनखाग्रकम्।
नखाग्राच्चूळिकां यावत् तत्त्वज्ञान दृशा गुरुः ॥ ५७ ॥

अयमात्मा शिवत्वार्हश्शिथिलीकृत बन्धनः।
पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ॥ ५८ ॥

तदामुं ताम्रसंस्थानं स्वगुणोदय योग्यकम्।
स्पर्शवेधि मणिप्रख्यं चोदितोऽहं च शम्भुना ॥ ५९ ॥

संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात्।
करोमि गुणसंपन्नं सतां मस्तकभूषणम् ॥ ६० ॥

ततस्संप्रोक्ष्य दर्भेण शिरस्याताड्य भस्मना।
दर्भमूलाग्र भागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ॥ ६१ ॥

उल्लिखेत् पाशसंतानं प्रवृत्त करणोन्मुखम्।
सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ॥ ६२ ॥

अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा।
संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ॥ ६३ ॥

प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत्।
शिवमण्डल दक्षस्थे मण्डले पूर्ववन् नयेत् ॥ ६४ ॥

प्रणवं तत्र संस्थाप्य शिष्यमुन्नत देहकम्।
धारणाद्यैश्च संशोध्य सकलीकृत्य तत्तनुम् ॥ ६५ ॥

गन्धादि वासितं कृत्वा स्वसव्यकरपल्लवम्।
सासनेन सदेहेन शिवेन समधिष्ठितम् ॥ ६६ ॥

शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम्।
हृद्देशाद् भूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ॥ ६७ ॥

सह प्रासादोच्चारेण समस्त ग्रन्थि भेदिना।
रुद्रेश्वर पदावाप्ति दायकं शिरसि न्यसेत् ॥ ६८ ॥

कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः।
ततस्तस्याञ्जलौ पुष्पं गन्ध धूपादि वासितम् ॥ ६९ ॥

न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम्।
अपनीत दृगालोकाच्छादनं वसनं क्रमात् ॥ ७० ॥

सहसालोकितेशान शिववक्त्र सरोरुहम्।
ब्रूयात्तमङ्गमुञ्चेति प्रसूनं शिवसम्मुखम् ॥ ७१ ॥

स्फुटभक्तिशिवाम्भोज परागमिव पुञ्जितम्।
तत्पात सूचिते स्थाने पूर्वं शिवपदोत्तरम् ॥ ७२ ॥

नामावधार्यं विप्रस्य देवकण्ठ गणात्मकम्।
क्षत्रविट्छूद्र जातीनां स्त्रीणां शक्त्यन्त संज्ञकम् ॥ ७३ ॥

शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम्।
सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्य च ॥ ७४ ॥

नीत्वा कुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने।
संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ॥ ७५ ॥

दर्भाग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः।
पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोस्ततः ॥ ७६ ॥

स्वस्य नाड्यां विलीनेति भावयेन्मूलमन्त्रतः।
दत्वाहुतित्रयं नाडी सन्धानार्थतया गुरुः ॥ ७७ ॥

प्रवेश निर्गमौ कार्यौ चैतन्य ग्रहणाय च।
शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ॥ ७८ ॥

पूर्णां हुत्वा शिवेनैव प्रायश्चित्त निमित्ततः।
शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ॥ ७९ ॥

विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत्।
शूद्रादिजातिं उद्धृत्य स्वाहान्तेनैव मूलतः ॥ ८० ॥

हुत्वाहुतित्रयं पश्चाच्छिवं प्रति वदेदिति।
आहारभाव दोषाभ्यां योनिबीज शरीरतः ॥ ८१ ॥

शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर।
रुद्रांशापादनेऽप्येवं आहुतित्रयं आचरेत् ॥ ८२ ॥

अयं रुद्रो भवत्वात्मा भगवन् त्वत्प्रसादतः।
इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ॥ ८३ ॥

प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः।
विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ॥ ८४ ॥

मुद्रया शिष्यचैतन्यं आकृष्य द्वादशान्तके।
समानीय धृवेणैव संपूज्य शिशुमस्तकात् ॥ ८५ ॥

संहारमुद्रया स्वस्य हृदये पूरकेण तु।
प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ॥ ८६ ॥

रेचकेन प्रयोगेण केशेशान सदाशिवान्।
नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ॥ ८७ ॥

संहारमुद्रया शिष्य देहे संयोजयेद्गुरुः।
दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ॥ ८८ ॥

शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु।
एवं समय संस्कारयुतो यश्शिवपूअजने ॥ ८९ ॥

होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च।
योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ॥ ९० ॥

ततो निर्वाण दीक्षायां अधिकारी भवेद् द्विजः।
शूद्रं हि दीक्षयित्वा तु विधानेनाग्र जन्मनः ॥ ९१ ॥

सोऽपि शूद्रत्वमाप्नोति दीक्षादानान्न संशयः ॥ ९२ ॥

Uttarapāda – Kapitel 21: Das Kochen der Opferspeise

स्थाली पाक विधिं वक्ष्ये नैवेद्यचरु कल्पने।
स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ॥ १ ॥

प्रक्षाल्य पात्रमस्त्रेण कवचेनावकुण्ठ्य च।
निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य संताड्यालिप्य गन्धतः ॥ २ ॥

कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा।
मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ॥ ३ ॥

वर्मावकुण्ठिते पात्रे मन्त्रविन्यस्त दर्भके।
षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ॥ ४ ॥

शिवं सावरणं तत्रावाह्य संपूज्य संत्यजेत्।
पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ॥ ५ ॥

चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च।
संपूज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ॥ ६ ॥

दक्षवामस्थभुजयोश्शिवाग्निं मध्यमे न्यसेत्।
आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ॥ ७ ॥

द्विप्रस्थमाढकं वापि पञ्चप्रसृति निर्मितम्।
चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ॥ ८ ॥

चालनोद्घाटनेऽस्त्रेण कृत्वाघोरमनुस्मरन्।
विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ॥ ९ ॥

उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम्।
स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ॥ १० ॥

हविष्यान्ते च हेत्युक्त्वा सुस्विन्नो भव इत्यपि।
तप्ताभिघार एवं स्याद् द्वितीये मण्डले ततः ॥ ११ ॥

प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम्।
सुशीतलो भवेत्येवं वौषट्पल्ल्वया तथा ॥ १२ ॥

शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत्।
संमृज्य च मृदम्भोभ्यां स्थालीं सुरभि मुद्रया ॥ १३ ॥

अमृतीकृत्य कुण्डस्य पश्चिमे पूर्व मण्डले।
पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ॥ १४ ॥

शिवेनाष्टोत्तरशतं संपातं पूर्ववन्नयेत्।
एवं संपातितेनैव चरुणा होम इष्यते ॥ १५ ॥

तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत्।
हविष्य चतुरंशेन होमकर्माथवा मतम् ॥ १६ ॥

होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः।
पञ्चगोचर संस्थाय समस्तागम वेदिने ॥ १७ ॥

शिष्टमन्यप्रदत्तं चेत् होमो निष्फल एव हि।
शेषहीने चरोर्होमे स होमस्स्यादनिष्टदः ॥ १८ ॥

हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि।
आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ॥ १९ ॥

परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि।
पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ॥ २० ॥

प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकाङ्क्षिभिः।
एतेषामन्यथाभावे सर्वं भवति चान्यथा ॥ २१ ॥

Uttarapāda – Kapitel 22: Die Traumerkenntnis

अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः।
दिक्षा पूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ॥ १ ॥

तत्र हि प्रथमे यामे स्वप्नो यदि भविष्यति।
लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ॥ २ ॥

संवत्सरे तु सिद्धिस्स्यात् द्वितीये यामके यदि।
षण्मासेन तु सिद्धिस्स्यात् तृतीये यामके यदि ॥ ३ ॥

मासेनैव तु सिद्धिस्स्यात् चतुर्थे यामके यदि।
शीघ्रमेव फलं तस्य भविष्यति न संशयः ॥ ४ ॥

रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम्।
प्रदीप्तमग्निहोत्रञ्च प्रदीपमतिभास्वरम् ॥ ५ ॥

मातरं पितरं दारान् पुत्रान् मातॄन् सुहृज्जनान्।
यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ॥ ६ ॥

चन्द्रार्कतारग्रसनं परिमार्जनमेव च।
भक्षणं धारणं तेषां राज्यं संप्राप्नुयान्नरः ॥ ७ ॥

श्वेतपुष्पजमालानां धवलानां च पक्षिणाम्।
सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ॥ ८ ॥

गन्धर्वनगरं वापि देवगन्धर्व योषिताम्।
दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ॥ ९ ॥

जातरूपमयं छत्रं श्वेतमाला विभूषितम्।
चूतादि पुण्यवृक्षाणां सफलानां तु दर्शनम् ॥ १० ॥

तेषां आरोहणं शस्तं तत्फलानां च सङ्ग्रहः।
तेषां च भक्षणं शस्तं शैलहर्म्याश्व हस्तिनाम् ॥ ११ ॥

गोसिंहवृषभाणां च वीक्षणारोहणे हिते।
सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ॥ १२ ॥

सूर्येन्द्वग्न्युधति व्योम धरित्री शैलवीक्षणम्।
तरणं निम्नगाम्भोधि काननानां जलस्य च ॥ १३ ॥

प्रशस्तं दोहनं कर्म महिषीणां गवामपि।
सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ॥ १४ ॥

प्रसवो वाथ चैतासां भूतिलिङ्गमिति स्मृतम्।
पयसः पाटलाया गोः पानं यद्वत्स लीलया ॥ १५ ॥

दध्नश्चापक्व मांसानां विष्ठापायस भक्षणम्।
एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ॥ १६ ॥

सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम्।
एतेषां वीक्षणं वापि स्नानं वा रुधिरेण यत् ॥ १७ ॥

अम्भसा त्वभिषेकस्तु गवां शृङ्गसृतेन च।
चन्द्रसृतेन वा राज्याभिषेकस्श्शुभमिष्यते ॥ १८ ॥

पशुसिंहगजानां च लाभो युद्धे विशेषतः।
अध्यापनं च शास्त्राणां अन्नलेपनमेव च ॥ १९ ॥

तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च।
बर्हिशीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ॥ २० ॥

सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः।
श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ॥ २१ ॥

सरोजस्यातपत्रस्य मणीनां दर्पणस्य च।
दीपस्य चामरस्यापि शस्त्रस्य कमलस्य च ॥ २२ ॥

विमलस्याम्भसश्शस्तं दर्शनं हाटकस्य च।
राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ॥ २३ ॥

देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि।
सागरं सरितो वापि तोययुक्ताः श्रियं लभेत् ॥ २४ ॥

एतेषामपि पानेन राज्यं संप्राप्नुयान्नरः।
शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ॥ २५ ॥

रूपयौवन संपन्नां स्त्रियं वा तादृशीमपि।
उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ॥ २६ ॥

कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत्।
तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ॥ २७ ॥

दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा।
भूयम्बुवैरिग्रसनं शतॄणां च वधक्रियाम् ॥ २८ ॥

जयं विवादद्यूतादौ सङ्ग्रामे विजयं तथा।
कृत्वा तु श्रियं आप्नोति भूमौ चन्द्र निवेशनम् ॥ २९ ॥

निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा।
दृष्ट्वाग्निं सङ्ग्रहं कृत्वा लब्ध्वा वै राजचिह्नकम् ॥ ३० ॥

नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम्।
तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ॥ ३१ ॥

परस्त्रीणां च तथा लाभस्तस्यालिङ्गनं एव च।
निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ॥ ३२ ॥

निकृत्य च तनुं दिक्षु क्षेपणं शुभदं मतम्।
स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ॥ ३३ ॥

हृन्मूर्ध्नो दर्शनं शस्तं सस्यानां च विशेषतः।
पात्रे मणिमये वाथ राजते वाथ भोजनम् ॥ ३४ ॥

सौवर्णे पद्मपत्रे वा दध्नो वान्यस्य भोजनम्।
लाभो वा हयशब्दस्य जय भुङ्क्ष्वेति शब्दयोः ॥ ३५ ॥

मुद्राभृङ्गारवृष्टीनां दर्शनं शुभदं द्विजाः।
पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मने गृहम् ॥ ३६ ॥

बन्धुभिस्संवृतं दीप्तमात्मानं वेश्म संस्थितम्।
शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ॥ ३७ ॥

छिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वं च पश्यति।
ऐश्वर्यं शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ॥ ३८ ॥

छिन्नः स्याद्दक्षिणो हस्तः स्वप्ने यस्य सशोणितः।
पुत्रं च लभते शीघ्रं आयुष्मन्तं यशस्विनम् ॥ ३९ ॥

छिन्नं यस्य शिरः स्वप्ने दृश्यते रुधिराप्लुतम्।
लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ॥ ४० ॥

सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते।
धनधान्यमवाप्नोति सर्वाभरण भूषितः ॥ ४१ ॥

आपणाजीवमात्मानं स्वप्नान्ते यस्तु पश्यति।
वृद्धिं तस्य विजानीयाद् आयुश्चास्य विवर्धते ॥ ४२ ॥

चक्रं च पूर्णकुम्भं च श्रीवत्सं स्वस्तिकं तथा।
सोमपानं तथा प्राश्य लभते वाञ्चितं फलम् ॥ ४३ ॥

शिवागमादि शब्दानां श्रवणं धनदं भवेत्।
गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ॥ ४४ ॥

देवद्विजमरुत्श्रीभिः भषणं शुभदं मतम्।
ताम्बूलं अञ्जनं बिल्वपत्रं कुङ्कुम मण्डले ॥ ४५ ॥

पश्येदिष्ट्यादिकरणं कुड्यगोत्रक्रियामपि।
उद्यानाराम करणं शुभप्रदं इहोच्यते ॥ ४६ ॥

अगम्यागमनं चैव सर्वगात्रेषु बन्धनम्।
बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसङ्ग्रहः ॥ ४७ ॥

स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम्।
गणानां विबुधानां च सुधापानं नभोगतिः ॥ ४८ ॥

इत्येवमादिकं स्वप्ने दर्शनं शुभ सूचकम्।
भूवस्त्रलाभः पर्यङ्क शय्यादाहोऽम्बरस्य च ॥ ४९ ॥

आसनस्य च दाहो वा नावारोहणमेव च।
नवशुक्लाम्बरत्वं च तथा शुद्धोदनाशनम् ॥ ५० ॥

मधुनः पङ्कजस्येव जननं हननं स्वकम्।
शङ्खपद्मनिधेर्लाभः शुभस्वप्नोऽयमीरितः ॥ ५१ ॥

दृष्टानामपि चैतेषां प्राप्तानां न कथञ्चन।
अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थ सूचकः ॥ ५२ ॥

लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः।
पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ॥ ५३ ॥

बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम्।
हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ॥ ५४ ॥

विदेशगमनं जातिस्थौल्यं व्याधि प्रपीडनम्।
उद्दन्तता विनाश्श्च मलिनत्वं अशोभनम् ॥ ५५ ॥

सुवर्ण रजताङ्गार मूत्रविष्ठोद्गमोऽशुभः।
चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ॥ ५६ ॥

अभ्यङ्गः पतनं चोच्चाड्डोलारोहस्त्वनिष्टदः।
रक्तपुष्प द्रुमाणां च चण्डालव्याध दर्शनम् ॥ ५७ ॥

भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च।
नर्तनं ग्रसनं चैव विवाहो गीतमेव च ॥ ५८ ॥

तन्त्रीवाद्य विहीनानां वाद्यानामपि वादनम्।
स्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ॥ ५९ ॥

पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः।
चितायां रोहणं शक्रध्वजस्य पतनं तु वा ॥ ६० ॥

सुर्याचन्द्रमसोस्तारा पतनं चाशुभप्रदम्।
दिव्यान्तरिक्ष भौमानां उत्पातानां च दर्शनम् ॥ ६१ ॥

देवद्विजादि भूपाल गुरुणां क्रोध एव च।
आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ॥ ६२ ॥

हानिश्चैव स्वगात्राणां विरेकवमनक्रिये।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ॥ ६३ ॥

गृहाणां चैव पातश्च गृह संमार्जनं तथा।
पीडा पिशाचक्रव्यादैः वानरैश्च नरैरपि ॥ ६४ ॥

परादभिभवश्चैव तस्माच्च व्यसनोद्भवः।
काषायवस्त्र धारित्वं तद्वत्स्त्री क्रीडनं द्विजाः ॥ ६५ ॥

स्नेहपानावगाहौ च रक्तमाल्यानुलेपनाम्।
क्रीडनं च लिहा स्फोटः क्षुत्पिपासापरिश्रमः ॥ ६६ ॥

नक्षत्राणां ध्वजानां च स्रोतसां गमनं च वा।
रज्जुच्छेदः प्रतापे तु वपनं श्मस्रुकेशयोः ॥ ६७ ॥

नखस्य दीर्घता सेवा सेवनं च स्त्रियोऽपि वा।
विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपि वा ॥ ६८ ॥

पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च।
प्लवने भग्नयानत्वं अशुभाय भविष्यति ॥ ६९ ॥

सरसि क्रीडनं नृत्तं जतुहाण्डेन च द्विजाः।
द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ॥ ७० ॥

छेदः पाण्योः सरोजस्यापहारो जीर्णवस्त्रता।
प्रासाद वेश्म शृङ्गानां अवतारस्तु नेष्यते ॥ ७१ ॥

कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने।
कार्पासतिलमूलादि लोहानि लभते च यः ॥ ७२ ॥

स्वस्थश्च लभते व्याधि व्याधितो मृत्युमृच्छति।
भग्न ध्वजादिकं भग्नं छत्रं दृष्ट्वाऽशुभं लभेत् ॥ ७३ ॥

एकस्य पुण्डरीकस्य धारणं तद्वदीरितम्।
तथैव हसनं भुक्तिरोदनस्य तिलैस्सह ॥ ७४ ॥

अधः शिरस्तया स्नानं तैले दन्तविदारणम्।
कुञ्जरस्य पृथिव्याश्च ज्वलनं जातवेदसा ॥ ७५ ॥

दारूणां पर्वतानां च पीठे कृष्णायसे द्विजाः।
संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ॥ ७६ ॥

यानं च कण्ठबन्धश्च शिंशुमाराहि पीडनम्।
हीननृत्त समाजश्च नाभेरन्यप्रदेशके ॥ ७७ ॥

तृण वृक्ष पशूनानां प्रोद्भवः क्रीडयापि च।
खरेण कपिरोष्ट्रेण भोगो व्यालेन रौद्रकैः ॥ ७८ ॥

सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम्।
स्नेहेन गोमयेनापि पङ्कैः कलुषवारिभिः ॥ ७९ ॥

नेष्टं जिह्वा भुजानां च रोम्णा विच्छेदतं नखैः।
व्यालस्यारोहणं नेष्टं तदाघ्राणं न संमतम् ॥ ८० ॥

आघ्रायते यश्च भृशं श्वापदैर्विकृताननैः।
स च दुःखमवाप्नोति पङ्कमग्नस्तथैव च ॥ ८१ ॥

परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि।
अन्तावसायिभिर्यो वा कृष्यते यमदूतकैः ॥ ८२ ॥

शाल्मलीं किंशुकं यूप चैत्यं वा पारिभद्रकम्।
पुष्पाढ्यं कोविदारं वा योऽध्यारोहति मानवः ॥ ८३ ॥

शोषणं कथिताख्यं च तोय पानं प्रमेहिणः।
हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ॥ ८४ ॥

रक्तपित्तं पिबेत्यश्च शोणितं स विनस्यति।
भग्नयानावरोहश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ॥ ८५ ॥

आदित्यचन्द्र ताराणां मलिनत्वं अशोभनम्।
पद्मं हव्यं च कन्या वा भवत्याकाशतो यदि ॥ ८६ ॥

ग्रहाणां ग्रहणेनापि राज्ञो मरणमादिशेत्।
दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ॥ ८७ ॥

काकं गृध्रं तथा श्येनं पिशाचं राक्षसं तथा।
पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनं आप्नुयात् ॥ ८८ ॥

पतन्तं उच्छितं केतुं पर्वतं वृषमेव वा।
गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ॥ ८९ ॥

निर्वाणदीपं रजतं श्वित्रिणं द्यूतकारकम्।
म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ॥ ९० ॥

कपलोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा।
कृष्णां सशूलां स्वप्नान्ते सद्यो मरणमश्नुते ॥ ९१ ॥

निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत्।
अश्वमुष्ट्रं खरं वापि महिषं श्वानं एव च ॥ ९२ ॥

सृगालं महिषीं तैलं दुर्वणं वायसं वृकम्।
वृषं वराहं मार्जारं उलूकं कृष्णसर्पकम् ॥ ९३ ॥

कृष्णकीटं च गां कृष्णां पश्येच्चेद्भयमाप्नुयात्।
एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ॥ ९४ ॥

काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम्।
वह्नियान रथादीनां छत्रादीनां च भग्नता ॥ ९५ ॥

विधवा दर्शनं वापि तत्सङ्घेन धनक्षयः।
धूमायमानमात्मानं शिरोमुण्डनमेव च ॥ ९६ ॥

बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात्।
यवागूमारनालं वा पिबेद्धनविनाशनम् ॥ ९७ ॥

तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे।
मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ॥ ९८ ॥

कुण्डातौ पतनं नेष्टं तथा केश विकीर्णता।
वर्तितैलतिलादीनां अञ्जनालेपनं तथा ॥ ९९ ॥

अन्धकारनिवेशस्तु महामार्ग गतिस्तु वा।
संन्यासि प्रेतकैः सार्धं कण्टकादिषु वेशनम् ॥ १०० ॥

तारं च भक्षयेद्वाथ शवं वा भक्षयेद्यदि।
रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ॥ १०१ ॥

अशुभं च भवेद्रक्तं कृष्णवस्तु प्रदर्शनम्।
अन्यत्र शोणितात् पद्मात् पलशाद्रक्त चन्दनात् ॥ १०२ ॥

तथा च रजकाश्चित्रि द्यूतकम्लेच्छकारिणः।
पश्येत्पाषण्डिनो वापि न शुभं तस्य जायते ॥ १०३ ॥

वल्मीक दर्शनं शुष्क विषवृक्षस्य दर्शनम्।
भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ॥ १०४ ॥

देवताश्च द्विजातिश्च पितरो योगिनो नृपः।
यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ॥ १०५ ॥

एष्यत्कर्मविपाकस्य शुभस्याप्यशुभस्य वा।
लिङ्गं स्वप्नो विधिस्तस्य न क्वचिद्धातुदोषजः ॥ १०६ ॥

यद्धातु प्रकृतिर्येन धातुना वापि दूषितः।
तद्विकारानणुः स्वप्ने प्रत्यक्षानिव पश्यति ॥ १०७ ॥

यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम्।
तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवाव भासते ॥ १०८ ॥

तद्द्वयं स्वप्नविज्ञानं नाभिप्रेतमिहागमे।
दृष्टाक्षदूरविज्ञेय व्यभिचारि प्रकाशवत् ॥ १०९ ॥

समधातुरतः स्वप्ने यत्पश्यति शुभाशुभं।
प्रणिधान विनिर्मुक्तः तत्सत्यं नाविशेषतः ॥ ११० ॥

अशुभं वा शुभं स्वप्नं आचार्याय निवेदयेत्।
द्विजाति प्रक्रमेणैव वयसा वा धनेन वा ॥ १११ ॥

आचारेणाथ धर्मेण विद्यया वाथ यस्य तु।
श्रेष्ठत्वं विद्यते विप्राः स एवादौ निवेदयेत् ॥ ११२ ॥

अनेनैव क्रमेणाथ स्वं स्वं स्वप्नं निवेदयेत्।
आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ॥ ११३ ॥

ब्राह्मणः समयाख्येन संस्कारेण समन्वितः।
निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ॥ ११४ ॥

नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत्।
आदौ समानदिक्षायां सत्यामपि च यत्र तु ॥ ११५ ॥

नियोगः स शिशुः पूर्वं नमस्कुर्याद्गुरूत्तमम्।
जात्यादिसाम्ये संस्कारसाम्ये सत्यपि यत्र तु ॥ ११६ ॥

नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत्।
परस्पर नमस्कारेऽप्येवमेव क्रमो मतः ॥ ११७ ॥

ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैगुर्वनुज्ञया।
न संमान्यो नमस्कारप्रमुखैः कारणाद्गुरोः ॥ ११८ ॥

एकदेशिक शिष्याणां आचारः परिकीर्तितः।
किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ॥ ११९ ॥

तदेव सर्वदा कार्यं शिष्यैः श्रेयोऽभिकाङ्क्षिभिः ॥ १२० ॥

Uttarapāda – Kapitel 23: Die Nirvāṇa-Einweihung

निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परम मोक्षदाम्।
आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ॥ १ ॥

कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः।
सामान्यार्घ्यकरो द्वार द्वरपार्चन संयुतः ॥ २ ॥

पश्चिमद्वार मार्गेण संप्रविश्य मखालयम्।
कृतब्रह्मार्चनः क्षेत्ररक्षां कृत्वा विधानतः ॥ ३ ॥

भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित्।
कृत्वा ज्ञानाख्य खड्गं च पञ्चगव्यं विधाय च ॥ ४ ॥

विकिरानभिमन्त्र्याथ भूतशुद्धिं विधाय च।
विक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ॥ ५ ॥

कुम्भं च वर्धनीं तत्र संपूज्य परितो गुरुः।
लोकपालानथाभ्यर्च्य तेषामाज्ञां तु श्रावयेत् ॥ ६ ॥

भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च।
मण्डले देवदेवेशं इष्ट्वाग्नौ तर्पयेन्मनून् ॥ ७ ॥

भगवन् देहमाविश्य मदीयमनुकम्पया।
अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ॥ ८ ॥

इति विज्ञाप्य लब्धाज्ञश्चोष्णीषं शिरसि न्यसेत्।
सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ॥ ९ ॥

यज्ञस्य रक्षकः कुम्भे पावके होमकारणम्।
शिष्ये तु पाशनाशाय मद्देहे पाश मोचकः ॥ १० ॥

पञ्चाधिकरणो देवस्त्वं अहमेव सदशिवः।
मन्त्राः करणभूता ये शिवस्य हृदयादयः ॥ ११ ॥

ममापि ते तथैवेह स्वातन्त्र्यं स्वस्य चात्मनि।
संभाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्स्थितैः ॥ १२ ॥

परीक्षितः समर्थोऽयं निर्वाणार्थं उपस्थितः।
उत्कृष्टजातिरीशांशः समयेषु व्यवस्थितः ॥ १३ ॥

तदेतस्मिन्विमोक्षाय प्रसादः क्रियतां मम।
पूर्णसंकल्पितार्थः सन् शिवशास्त्रोपबृह्मितः ॥ १४ ॥

आरभ्य यागधाम्नस्तु प्रवेशं चाग्नि संमुखम्।
आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ॥ १५ ॥

नाडीसन्धान कर्मज्ञः तर्पणं पूर्णया सह।
कृत्वा शिवादि मन्त्राणां दीपनं सम्यगाचरेत् ॥ १६ ॥

अघोरसंपुटं कृत्वा शिवं साङ्गं षडन्तकम्।
कुटिलभ्रू समायुक्तं कराल वदनान्वितम् ॥ १७ ॥

आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत्।
कन्याविनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ॥ १८ ॥

अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः।
संपूज्य चोर्ध्वकायस्य शिखायां बन्धयेच्छिशोः ॥ १९ ॥

अङ्गुष्ठकाग्र पर्यन्तं तत्सूत्रं अवलम्बयेत्।
सूत्रं सुषुम्ना रूपं तु ध्यात्वा शिष्यस्य देहतः ॥ २० ॥

सुषुम्नायै नमश्चेति संगृह्यास्मिन् नियोजयेत्।
संपूज्य गन्धपुष्पाद्यैः वर्मणा चावकुण्ठयेत् ॥ २१ ॥

संनिधानाय मुलेन चाहुतित्रयमाचरेत्।
शिष्यस्य हृत्प्रदेशं तु संप्रोक्ष्यास्त्रेण पुष्पतः ॥ २२ ॥

संताड्य हृदयं तस्य रेचकेन प्रविश्य च।
हुङ्कारमुच्चरंस्तस्य चैतन्यं तारकाकृतिम् ॥ २३ ॥

हृद्ग्रन्थिमस्त्र मन्त्रेण छिद्वा संगृह्य मूलतः।
द्वादशान्ते न्यसेच्छिष्य जीवं हृदय संपुटम् ॥ २४ ॥

सान्तं बीजं समुच्चार्य तस्मिन् संहारमुद्रया।
सूत्रे नियोजयेद्वर्म मन्त्रेणैवावकुण्ठयेत् ॥ २५ ॥

हुत्वाहुतित्रयं तस्य संनिधानाय मूलतः।
मलं च कर्म मायेयं भोक्तृभोग शरीरजम् ॥ २६ ॥

शान्त्यतीतादिकं सूत्रे योजयेत्स्वस्वमन्त्रतः।
शान्त्यतीतं चतुर्थ्यन्तां हुंफट्कारां शिवादिकाम् ॥ २७ ॥

पुष्पास्त्रेणैव संताड्य शिष्यस्य शिरसि स्थिताम्।
संहारमुद्रयाकृष्य शिवं प्रणवपूर्वकम् ॥ २८ ॥

शान्त्यतीतां चतुर्थ्यन्तां नमस्कार समन्विताम्।
उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ॥ २९ ॥

अनेनैव क्रमेणाथ भूतशुद्ध्युक्त मार्गतः।
कलाचतुष्टये कुर्यात्ताडन ग्रहयोजनम् ॥ ३० ॥

गलश्वभ्रान्त नाभ्यन्त जान्वन्ताङ्गुष्ठकान्तिकम्।
व्याप्यव्यापक भावं च कुर्यात्तत्र विचक्षणः ॥ ३१ ॥

मन्त्राः पदानि वर्णाश्च तत्त्वानि भुवनानि च।
व्याप्यानि व्यापकाः कर्म मलमायेय बन्धनाः ॥ ३२ ॥

व्याप्या मलादयश्चापि व्यापकास्तु कलाः स्मृताः।
तासां च संग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ॥ ३३ ॥

स्थापिताभिश्च शुद्धाभिरिहोपस्थापिता अपि।
शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ॥ ३४ ॥

तासां च दीपनं कार्यं ओङ्कारादि षडन्तकम्।
अघोरबीजं मूलं च शान्त्यतीत कलामपि ॥ ३५ ॥

चतुर्थ्यन्तं समुच्चार्य हुङ्कारं तु समुच्चरन्।
त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ॥ ३६ ॥

आहुतीनां त्रयं हुत्वा पाशबन्धनं आचरेत्।
शिरः संताड्य चास्त्रेण शिवमन्त्रं त्रिधा स्मरन् ॥ ३७ ॥

भगवन् शान्त्यतीताख्यं मलकर्म समन्वितम्।
व्यापकं शान्तितत्त्वादेः पाशं बन्ध पदद्वयम् ॥ ३८ ॥

हुम्फडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत्।
शिवं संपुटितं स्वस्व बीजं च भगवत्पदम् ॥ ३९ ॥

कला चतुष्टयं पाशं मलतत्त्वादि व्यापकम्।
बन्ध बन्ध पदं चोक्त्वा हुम्फडन्त समन्वितम् ॥ ४० ॥

पृथक्पृथक् समुच्चार्य सूत्रे ग्रन्थिं समाचरेत्।
तत्सूत्रं च समादाय शराव युग संपुटम् ॥ ४१ ॥

कृत्वा संपातहोमं च तत्सूत्रं मण्डलाधिपे।
निवेद्य तस्य रक्षार्थं शिवकुम्भान्तिकं न्यसेत् ॥ ४२ ॥

प्रणतिं कारयित्वा च शिवेन शिवकुम्भके।
आचार्यः शिष्य सहितो निःसृत्य मखमण्डपात् ॥ ४३ ॥

पञ्चगव्यं चरुं तेभ्यः प्रदद्याद्दन्तधावनम्।
शुचौ सावरणे देशे विविक्ते लेपिते भुवः ॥ ४४ ॥

पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्ति व्यपेक्षया।
भूतये पूर्वेवक्त्रेभ्यः सौम्यास्येभ्यो विमुक्तये ॥ ४५ ॥

निर्णिक्त पादपाणिभ्यः प्रयेतेभ्यो यथाक्रमम्।
अन्तर्जानू प्रविष्टेभ्यः सकुशे दक्षिणे करे ॥ ४६ ॥

उद्धृत्य दक्षिणेनैव सपवित्रेण पाणिना।
चुळुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ॥ ४७ ॥

तत्पीत्व प्रयतेभ्योऽथ तद्वदेव द्वितीयकम्।
चुळुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ॥ ४८ ॥

अष्टग्रास प्रमाणं तु पुटके ब्रह्मवृक्षके।
मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रके ॥ ४९ ॥

अद्विजस्पर्शमेतस्य भक्षणानन्तरं पुनः।
शुचिभ्यो दन्तकाष्ठं च क्षीरवृक्ष समुद्भवम् ॥ ५० ॥

कनिष्ठिकाङ्गुलस्थूलं ऋजुं सरसमव्रणम्।
मङ्गलार्काङ्गुलान्मुक्ति भुक्तिलिङ्गप्रकाशकम् ॥ ५१ ॥

राजदन्ताग्र सन्दंश चर्वितं धौतमग्रतः।
आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ॥ ५२ ॥

अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम्।
मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ॥ ५३ ॥

इति ज्ञात्वा तु तत्पातमाचान्तांस्तान् समाहितान्।
स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ॥ ५४ ॥

सद्योगोमय संस्पृष्ट भूतलस्पर्शनीषु च।
पूर्वयाम्योत्तमाङ्गासु शय्यासु कुशभस्मना ॥ ५५ ॥

परस्परमलग्नासु सोपधानासु पार्श्वतः।
चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ॥ ५६ ॥

अस्त्राभिरक्षितास्वस्त्र जप्तासु शतसंख्यया।
हृदारोप्य शिखाबद्ध शिखान् वर्माभिमन्त्रितैः ॥ ५७ ॥

वस्त्रैराच्छादिताञ्छिष्यां स्तिलसर्षप भूतिभिः।
अस्त्राभिमन्त्रितैस्तिस्रो रेखाः संकल्प्य बाह्यतः ॥ ५८ ॥

स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ।
दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ॥ ५९ ॥

चरुं दन्तधवादिष्ट प्रतिकूलोपशान्तये।
विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ॥ ६० ॥

प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम्।
प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ॥ ६१ ॥

निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके।
शिवीकृत तनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ॥ ६२ ॥

चरुकं पञ्चगव्यं च प्राशयेद्दन्तधावनम्।
पूर्ववत् प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ॥ ६३ ॥

अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः।
शिष्यान् पृष्ट्वा निशास्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ॥ ६४ ॥

घृतदूर्वे मधुक्षीरैः शतहोमं च कापिलैः।
शुभे तु पूर्ववच्छिष्य प्रवेशादिकं आचरेत् ॥ ६५ ॥

आहूय शिष्यान् कुण्डस्य समिपे स्वस्य दक्षिणे।
अवलम्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ॥ ६६ ॥

करोम्यनुग्रहं देव शिशोरध्येषयेदिति।
लब्धानुज्ञो न्यसेदग्नौ शक्तिं आधाररूपिणीम् ॥ ६७ ॥

निवृत्तिं विन्यसेच्छक्तौ कलातत्त्वादि संयुताम्।
पृथ्वी तत्त्वं क्षकारश्च मन्त्रो हृदयसद्यकौ ॥ ६८ ॥

कालाग्निरथ कूश्माण्डं हाटकं ब्राह्मवैष्णवौ।
रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्य स्थितानि षट् ॥ ६९ ॥

कपालीशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ ७० ॥

अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः।
ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ॥ ७१ ॥

याम्यो मृत्युर्हरो धाता विधाता कर्तृसज्ञकः।
संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥ ७२ ॥

निरृतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः।
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ॥ ७३ ॥

बलो ह्यतिबलश्चैव पाशहस्तो महाबलः।
श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ ७४ ॥

मेघनादः सुनादश्च दशमः परिकीर्तितः।
शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्मः क्षयान्तकः ॥ ७५ ॥

पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः।
निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ॥ ७६ ॥

लक्ष्मीधृक् रत्नधृक् श्रीधृक् प्रसादश्च प्रकामदः।
विद्यधिपेशौ सर्वज्ञो ज्ञानभुग् वेदपारगः ॥ ७७ ॥

सुरेशः शर्वो ज्येष्ठश्च भूतपालो बलिप्रियः।
वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ॥ ७८ ॥

ग्रसनोदुम्बरेशौ च पणीन्द्रो वज्रदंष्ट्रिणौ।
शंभुर्विभुर्गणाध्यक्षः त्रियक्षः त्रिदशेश्वरः ॥ ७९ ॥

संवाहश्च विवाहश्च नबो लिप्सुस्त्रिलोचनः।
वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ॥ ८० ॥

कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले।
याम्याद्या दक्षिणे भागे निरृत्याद्याश्च नैरृते ॥ ८१ ॥

बलाद्या वारुणे भागे शीघ्राद्या वायु गोचरे।
उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ॥ ८२ ॥

वृषादयस्त्वधो भागे शम्भुमुख्या नभोगताः।
भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ॥ ८३ ॥

एकाशीतिपदेष्वन्त्य प्रणवादि विलोमतः।
नमोद्वयं च प्रणवं षडक्षरं अतःपरम् ॥ ८४ ॥

सर्वदश्च ततः शर्व शिवसूक्ष्मद्वयं तथा।
शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ॥ ८५ ॥

पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत्।
साक्षियुग्मपदं पश्चात् पूर्वस्थितं अतःपरम् ॥ ८६ ॥

अस्तुतास्तुत इत्येवं ततश्चानर्चितार्चित।
ब्रह्मविष्णुरुद्रपर सर्वसान्निध्यकारक ॥ ८७ ॥

सर्वभूत सुखप्रद भवोद्भवपदं ततः।
भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ॥ ८८ ॥

मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत्।
महातेजःपदं सद्भावेश्वरं चेति कीर्तितम् ॥ ८९ ॥

महदेवपदं पश्चात् पदान्यष्टौ च विंशतिः।
निवृत्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ॥ ९० ॥

ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम्।
इत्युच्चार्य निवृत्तिं तु सूत्रात् संग्राह्य पावके ॥ ९१ ॥

आवाह्येष्वाहुतीनां तु त्रयं सवाहान्तं आचरेत्।
मलः कर्म च मायाख्यं भोक्तृभोग शरीरजम् ॥ ९२ ॥

भावयन् कल्पयेद्योनीरनन्ता देविगर्भगाः।
तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ॥ ९३ ॥

वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम्।
हुत्वाहुतित्रयं पश्चात् स्वाहान्तेनैव मन्त्रतः ॥ ९४ ॥

संनिधीभव देवेशि पश्वनुग्रह कर्मणि।
प्रार्थ्यैवं शिष्यमस्त्रेण संप्रोक्ष्य हृदि ताडयेत् ॥ ९५ ॥

अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च।
स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ॥ ९६ ॥

अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुश मुद्रया।
आकृष्य मूलमन्त्रेण चाहुतित्रयं आचरेत् ॥ ९७ ॥

तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम्।
सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ॥ ९८ ॥

पूरकेण हृदि स्वस्य संनिवेश्य च कुम्भकम्।
कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ॥ ९९ ॥

आदाय तस्माच्चैतन्यं मुद्रयोद्भव संज्ञया।
सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ॥ १०० ॥

स्वाहान्त मूलमन्त्रेण चाहुतित्रयं आचरेत्।
भगवन् देवदेवेश शिशोः सर्वासु योनिषु ॥ १०१ ॥

संयोगं कुरु कुर्वत्र दिक्षाकर्मणि मोक्षदम्।
निष्पत्यै सर्वगर्भाणां दद्यान्मुलाहुतित्रयम् ॥ १०२ ॥

भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्र च।
सर्वासु योनिषु कुरु कुर्वित्येवं नयेद्द्विजाः ॥ १०३ ॥

ततस्तु जननार्थं तु दद्यान्मूलाहुतित्रयम्।
भगवन् सर्वगर्भाणां जननं कुरु कुवणोः ॥ १०४ ॥

इत्युक्त्वा जननार्थं च पशोर्वृद्ध्यर्थमेव च।
मूलाहुतित्रयं दत्वा शिवं प्रति वदेदिदम् ॥ १०५ ॥

भगवन् शिष्य देहानाम् प्रवृद्धिं कुरु कुर्विति।
कर्मार्जनाय मुलेन चाहुतित्रयं आचरेत् ॥ १०६ ॥

भगवन्नात्मनो नानाभोगदं कुरु कुर्वथ।
कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ॥ १०७ ॥

प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु।
देशतः कालतश्चैव देहेन विषयेण च ॥ १०८ ॥

संचितागामि भेदेन भोगं नानाविधं स्मरन्।
भोक्तृत्वलिङ्गिते पुंसि सुखदुःखात्म वेदनम् ॥ १०९ ॥

मूलाहुतित्रयं दत्वा शिवं संप्रार्थयेदिति।
भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ॥ ११० ॥

परमप्रीति रूपं च लयं भोगेषु संस्मरन्।
शिवाहुतित्रयं दत्वा परमप्रीति रूपकम् ॥ १११ ॥

लयं च कुरुकुर्वत्र शिशोर्निर्वाण कर्मणि।
जात्यायुर्भोगसंस्कार शुद्ध्यर्थं निष्कृतावणोः ॥ ११२ ॥

हृदाहुतिशतं हुत्वा नयेन्मूलाहुतित्रयम्।
सर्वकर्मसु शुद्धिं च निष्कृत्या कुरु कुर्वणोः ॥ ११३ ॥

भगवन्निति विश्लेषं भोगाभावादणोरिह।
बहिर्निष्क्राम रूपं तु मायापाशात् स्मरन्नयेत् ॥ ११४ ॥

मूलाहुतित्रयं पश्चान् मलविश्लेषं आचरेत्।
मलकार्यं च भोक्तृत्वं स्मृत्वा शुद्ध्यर्थमाहुतीः ॥ ११५ ॥

दश दत्वा हृदा पश्चाद्दद्यान् मूलाहुतित्रयम्।
मलविश्लेषं एवं स्यात् कर्म विश्लेष उच्यते ॥ ११६ ॥

अत्यन्ताभाव रूपं तु विश्लेषं कर्मणामिह।
स्मृत्वाहुतित्रयं दद्यान् मूलमन्त्रं समुच्चरन् ॥ ११७ ॥

भगवन्नात्मनो माया मलकर्मात्मनस्त्विह।
विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाण संस्कृतौ ॥ ११८ ॥

ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु।
अस्त्राहुतित्रयं दत्वा शुद्धये तस्य मूलतः ॥ ११९ ॥

आहुतीनां त्रयं दत्वा निवृत्तिच्छेदनं त्विह।
भगवन् कुरु कुर्वत्रेत्याज्ञां प्रार्थ्यैवं आचरेत् ॥ १२० ॥

अशेषाणां शरीराणां नाशे त्वेकत्वमात्मनः।
संभाव्य वौषडन्तेन दद्यात्पूर्णां शिवाणुना ॥ १२१ ॥

ओं ब्रह्मणे नमश्चेत्यावाह्य संपूज्य तर्पयेत्।
शब्दस्पर्शौ गृहाणात्र ब्रह्मन् स्वाहेति मन्त्रतः ॥ १२२ ॥

आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः।
कारणेश त्वया नास्य यातुः पदमनामयम् ॥ १२३ ॥

प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी।
ब्रह्माणं संविसृज्याथ शुद्धतत्त्वाग्र संस्थितम् ॥ १२४ ॥

निवृत्तिपाश निर्मुक्तं शुद्धस्फटिक सन्निभम्।
ध्यात्वाहुतित्रयं दद्यान् मूलमन्त्रं समुच्चरन् ॥ १२५ ॥

निवृत्तिपाशादुद्धारं भगवन्नस्य चात्मनः।
कुरु कुर्वेति संहारमुद्रया पूरकेण तु ॥ १२६ ॥

कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत्।
आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ॥ १२७ ॥

वागीश्वर्यै नमश्चेति संपूज्यैनां तु तर्पयेत्।
आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ॥ १२८ ॥

अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थं अवलोकयेत्।
त्रयो विंशति तत्त्वानि चापस्तेजो मरुद्वियत् ॥ १२९ ॥

गन्धो रसो रूपस्पर्शौ शब्दोपस्थौ च पायु च॥
पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ॥ १३० ॥

मनोऽहङ्कार बुद्धी च प्रकृतिः स्यात्ततः परम्।
तत्त्वानि कथितान्येवं ळादिटान्ता द्विजोत्तमाः ॥ १३१ ॥

चतुर्विंशति वर्णाः स्युः शिरोवामस्तथैव च।
अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ॥ १३२ ॥

अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः।
डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ॥ १३३ ॥

हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ।
मध्यमेशो महाकालः केदारो भैरवस्तथा ॥ १३४ ॥

गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा।
विमलेशोऽट्टहासश्च महेन्द्रो भीम संज्ञकः ॥ १३५ ॥

वस्त्रापदो रुद्रकोटिः अविमुक्तो महालयः।
गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ॥ १३६ ॥

छगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः।
कालञ्जरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ॥ १३७ ॥

पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च।
सौम्यं चैव तथा ज्ञेयं प्राजेशं ब्राह्ममेव च ॥ १३८ ॥

अकृतश्च कृतश्चैव भैरवो ब्राह्मवैष्णवौ।
कौमारमौमं श्रैकण्ठं अष्टसप्त भवन्ति हि ॥ १३९ ॥

अमरेशादि चाप्तत्त्वे हरिश्चन्द्रादि तेजसि।
गयादि वायुतत्त्वे च व्योम्नि वस्त्रापदादि च ॥ १४० ॥

छगण्दलाद्यहङ्कारे पैशाचाद्यं मनौ स्थितम्।
प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणि तु ॥ १४१ ॥

महेश्वराद्यरूप्यन्ता पदनां एकविंशतिः।
महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ॥ १४२ ॥

ततश्शर्वपदं चोक्तं शिवेति च ततः परम्।
निधनोद्भव संज्ञं च निधनाख्यपदं ततः ॥ १४३ ॥

अनिधनपदं चैवं ओं स्वः पदमतः परम्।
ओं भुवश्च पदं चान्यदोंभूः पदमतः परम् ॥ १४४ ॥

चतुर्धू निर्मितं चान्यन् नानानाना पदं ततः।
अनादे तु पदं चान्यदभस्मेति पदं ततः ॥ १४५ ॥

अधूमपदं अन्यच्च अनग्नीति पदं ततः।
अरूप पदं अन्यच्च ज्योतिर्ज्योतिस्तथैव च ॥ १४६ ॥

तेजस्तेजः पदं प्रोक्तं प्रथम प्रथमेत्यपि।
अरूपिन्पदयुग्मं च पदान्येकं च विंशतिः ॥ १४७ ॥

प्रतिष्ठाकलया चैतत् सर्वं व्याप्तं तु भावयेत्।
इत्युक्त संख्यतत्त्वार्ण पदमन्त्रैस्त्रिविष्टपैः ॥ १४८ ॥

गर्भितां तामनुस्मृत्य संततीतोपभुक्तया।
शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ॥ १४९ ॥

वाचकं तद्वदुच्चार्य शोध्ये शुद्धिं विलोकयेत्।
सर्वसन्धान योगाय चोपदिष्टश्शिवद्विजाः ॥ १५० ॥

ओं ह्लां ह्वीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम्।
नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ॥ १५१ ॥

कलोपस्थापनाद्यं तु सर्वं पूर्ववद् आचरेत्।
निष्कृतिं शिरसा दद्याच्छतहोमेन देशिकः ॥ १५२ ॥

हरेश्शुल्कं रसं दत्वा कलां विद्यां समाश्रयेत्।
कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ॥ १५३ ॥

रागो नियति विद्ये च कला काले च मोहिनी।
ञकारादि घकारान्ता वर्णस्सप्त विलोमतः ॥ १५४ ॥

मन्त्रश्शिखा पुराणीह सप्तविंशति संख्यया।
वामो भीमस्तथोग्रश्च भवेशानैकवीरकः ॥ १५५ ॥

प्रचण्डोमापती चाजोऽनन्तैक शिवसंज्ञकौ।
क्रोधेशश्चैव संवर्तो ज्योतिः पिङ्गश्च शूरकः ॥ १५६ ॥

पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः।
वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ॥ १५७ ॥

एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः।
षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ॥ १५८ ॥

अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि।
पदानि विंशतिर्व्यापिन् व्यापिन्नेति पदं भवेत् ॥ १५९ ॥

व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम्।
परमेश्वरपरायेति पदं चैव पुनर्भवेत् ॥ १६० ॥

ज्योतीरूपाय संज्ञं च सर्वयोगाद्यमेव च।
पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ॥ १६१ ॥

गुह्याय चातिगुह्याय पदं स्यादों नमो नमः।
पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ॥ १६२ ॥

शिवायेति पदं सर्वप्रभवेति पदं ततः।
शिवायेति पदं पश्चाद् ओं नमः पदमन्ततः ॥ १६३ ॥

ध्यानाहाराय संज्ञं च कीर्तितानि पदानि च।
संधानं पुर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ॥ १६४ ॥

निष्कृतिं शिखया दत्वा शतहोमं विधाय च।
रूपगन्धौ गृहाणेति रुद्रे शुल्कं समर्पयेत् ॥ १६५ ॥

भवाख्यं पदमेतत्तु कलात्रितय गोचरम्।
भवोत्तीर्णमथात्मानं आत्मतत्त्वोपरि स्थितम् ॥ १६६ ॥

अधिकारमलाविष्टं उद्भवैश्वर्य भाजनम्।
बुभोजयिषुराचार्यो भोगं शुद्धाक्ष साधनम् ॥ १६७ ॥

अनुकूलमसङ्कीर्णं अनासक्तिनिबन्धनम्।
विलोक्य मनसा शान्तिं तस्यामन्तर्गतानि च ॥ १६८ ॥

तत्त्वानि त्रीणि विद्येश सादाख्यानि द्विजोत्तमाः।
वर्णास्तु गखकाः प्रोक्ता मन्त्रो वक्त्रतनुच्छदौ ॥ १६९ ॥

वामा ज्येष्ठा च रौद्री च काळी कलविकरणी।
बलविकरिणी चैव बलप्रमथनीत्यपि ॥ १७० ॥

सर्वभूतदमन्येव मनोन्मन्यपरा भवेत्।
पुराणि नव विद्यायां अनन्तस्सूक्ष्म संज्ञकः ॥ १७१ ॥

शिवोत्तमैकनेत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः।
श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ॥ १७२ ॥

सादाख्यभुवनं तस्मिन् पुराण्यष्टादशैव तु।
एकादशपदान्यासन्नित्ययोगिन इत्यपि ॥ १७३ ॥

योगपीठाद्यमन्यत् स्याच्छाश्वताय पदं पुनः।
ध्रुवायेति पदं चैवानाश्रिताय पदं ततः ॥ १७४ ॥

अनाथाय पदं प्रोक्तं अनन्ताय पदं पुनः।
शिवायेति पदं सर्वव्यापिने च पदं ततः ॥ १७५ ॥

व्योमादि व्योमरूपाय पदं व्योमाद्यमेव च।
निष्कृतौ शतहोमं तु कवचेन समाचरेत् ॥ १७६ ॥

सर्वं पूर्ववदुद्दिष्टं शुल्कार्थं बुद्ध्यहङ्कृती।
ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वं अतःपरम् ॥ १७७ ॥

शान्त्यतीत कलायां तु शिवतत्त्वं व्यवस्थितम्।
बीजं षोडशकं मन्त्राश्चास्त्रेशान शिवास्त्रयः ॥ १७८ ॥

ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ॥ १७९ ॥

पुराणि बैन्दवानीह पञ्चप्रोक्तान्यतःपरम्।
इन्धिका दीपिका चैव रोचिका मोचिका तथा ॥ १८० ॥

तथोर्ध्वगामिनी चेति नादोत्थ भुवनानि तु।
व्यापिनी व्योमरूपा चाप्यनन्ता च ततः परम् ॥ १८१ ॥

अनाथा च तथा प्रोक्तानाश्रिता पञ्चमीरिता।
भुवनानि तु शाक्तानि पञ्चैव कथितानि च ॥ १८२ ॥

एभिश्च गर्भिणी ज्ञात्वा संधानं शुद्धया नयेत्।
ह्यैं हौं युक्तं चतुर्थ्यन्तं कलाद्वयं उदाहरन् ॥ १८३ ॥

संपूज्य मनसा युक्तं दद्यान्मूलाहुतित्रयम्।
कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ॥ १८४ ॥

निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत्।
अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ॥ १८५ ॥

ततो निर्बीज दीक्षायां पूर्णान्ते कारयेदिदम्।
समयं समयाचारं शक्तौ पाशात्मके न्यसेत् ॥ १८६ ॥

समयं समयाचार पाशशुद्धिं महेश्वर।
शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुल्कं समर्पयेत् ॥ १८७ ॥

शिवबीजं समुच्चार्य सदाशिवपदं पुनः।
मनो गृहाण स्वाहेति चाहुतित्रयमाचरेत् ॥ १८८ ॥

पूर्ववत् संविसृज्याथ सूत्रं संगृह्य निर्मलम्।
रेचकेनात्म संस्थं तु शिष्यदेहे निवेशयेत् ॥ १८९ ॥

शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत्।
संतर्प्य पावकस्थां तु ततो विज्ञापयेदिति ॥ १९० ॥

पश्वर्थं खेदितासि त्वं देवि गच्छ स्वगोचरम्।
शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ॥ १९१ ॥

आत्मतत्त्वं च मायान्तं उपस्थाप्य गुरूत्तमः।
आत्मतत्त्वं चतुर्थ्यन्तं आदौ मूलसमन्वितम् ॥ १९२ ॥

नमः प्रणव संयुक्तं उक्त्वा संपूज्य सन्निधौ।
विधिवैकल्य शुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ॥ १९३ ॥

सशब्दं तु शतं हुत्वा विद्यातत्त्वं उपांशुवत्।
सदेशान्तं उपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ॥ १९४ ॥

मन्त्रोच्चारण वैकल्याच्छिवमन्त्रेण शुद्ध्यति।
शिवतत्त्वं उपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ॥ १९५ ॥

शतमष्टोत्तरं हुत्वा मनोवैकल्य मात्रतः।
मुच्यते शिवमन्त्रेण शिखाच्छेदं अथारभेत् ॥ १९६ ॥

अध्वान्तस्थां च सर्वाध्व व्यापिकां अध्वकारणाम्।
ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ॥ १९७ ॥

संचिन्त्य शिष्यचैतन्यं कर्तरीं शिखया लभेत्।
छिन्द्याच्छिखां तु शिखया ततस्संस्नापयेच्छिशुम् ॥ १९८ ॥

आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम्।
स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ॥ १९९ ॥

ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि।
प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ॥ २०० ॥

अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान् मयाकृतः।
यात्वयं परमं धाम भगवन् परमेश्वर ॥ २०१ ॥

शिष्यं संयोजयाम्येनं आज्ञेदानीं विधायताम्।
एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ॥ २०२ ॥

समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्नि संमुखम्।
शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ॥ २०३ ॥

अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम्।
सकलीकृतमन्त्राणां एकैकाहुतिदानतः ॥ २०४ ॥

सकलीकरण शुद्धिं च कृत्वा संयोजयेच्छिवे।
विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ॥ २०५ ॥

इन्धिका दीपिका चैव रोचिका मोचिका तथा।
तथोर्ध्वगामिनी चेति सूक्ष्मा सूक्ष्मामृता मता ॥ २०६ ॥

बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः।
आभिः कलाभिस्संकॢप्त देहयुग्देशिकोत्तमः ॥ २०७ ॥

व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता।
अनाथानाश्रिता चेति बहिःकरण संयुतः ॥ २०८ ॥

अन्तःकरण संयुक्तस्समनाकल्पितं च तत्।
आत्मतत्त्वोन्मनश्शर्वे समापूरित देहयुक् ॥ २०९ ॥

कृत्वा पूरककुम्भौ तु जिह्वा संबद्ध तालुयुक्।
ईषद्व्यावृतवक्त्रस्तु दन्तैर्दन्तान् न संस्पृशन् ॥ २१० ॥

सम्यगुन्नत गात्रस्तु शिशुं संयोज्य चात्मनि।
नाडीं सुषुम्नां प्राणाख्य वायुनैकीकृतां स्मरन् ॥ २११ ॥

समन्त्रं शिष्यचैतन्यं शुद्धस्फटिक सन्निभम्।
संभाव्य मन्त्रमुच्चार्य कारणत्याग योगतः ॥ २१२ ॥

शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु।
व्यावर्तित मनःप्राण नादशक्ति कलात्मनः ॥ २१३ ॥

समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया।
शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ॥ २१४ ॥

योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत्।
तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ॥ २१५ ॥

यावत्तावत् प्रयातस्य तत्त्वप्राप्तिर्यथा विभोः।
साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ॥ २१६ ॥

न षाड्गुण्यानभिज्ञस्य शतस्यापि न राजते।
स्वगुण व्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ॥ २१७ ॥

होमयेद् देशिको धीमान् प्रयोगेणामुना यथा।
सर्वज्ञो नित्यसंबोधः स्वतन्त्रस्तृप्तिमान् भव ॥ २१८ ॥

अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासाद पूर्वकम्।
आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ॥ २१९ ॥

इत्येवं कथिता दीक्षा सर्वपाप विमोचनी।
चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ॥ २२० ॥

न्यायजा गूढजाता वा दीक्षायां अधिकारिणः।
जामातृपितृपत्न्याद्या योग्यास्स्युर्मोक्षकाङ्क्षिणः ॥ २२१ ॥

दीक्षाकर्ता शिवो यस्मात्तेषां तस्मान् न पुत्रता।
अन्त्यजानां न होत्री स्यात् किन्तु तेषां तु चाक्षुषी ॥ २२२ ॥

Uttarapāda – Kapitel 24: Die Erkenntnis-Einweihung

ज्ञानदीक्षां अहं वक्ष्ये शृणुध्वं द्विजसत्तमाः।
सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ॥ १ ॥

एकान्ते निर्जने स्थाने मध्यरात्रावुपक्रमे।
सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ॥ २ ॥

शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे।
शुद्धदेशे सुखासीनः पञ्चगोचर संभवः ॥ ३ ॥

दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे।
सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ॥ ४ ॥

स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि।
गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ॥ ५ ॥

पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत्।
षोडशेनोपचारेणाभ्यर्चयेद् गुरुपादयोः ॥ ६ ॥

ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः।
शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ ७ ॥

दीर्घदण्डं नमस्कुर्यान् निर्लज्जो गुरुसन्निधौ।
सच्छिष्ये तु विशेषेण बोधं कुर्यात् सदेशिकः ॥ ८ ॥

गन्धपुष्पकरः स्थित्वा शिष्यमूर्ध्नि च कारयेत्।
अर्चितं तु शिरोमध्ये पादं कारुण्यदेशिकः ॥ ९ ॥

तत्पश्चाज्ज्ञानसद्भावं इदम् शिष्यस्य बोधयेत्।
प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ॥ १० ॥

तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम्।
पञ्चमं चात्मसंदर्शं षष्ठं स्यादात्मशोधनम् ॥ ११ ॥

सप्तमं शिवरूपाख्यं अष्टमं शिवदर्शनम्।
नवमं शिवयोगं च दशमं शिवभोगकम् ॥ १२ ॥

त्रित्रिभेदैश्चतुष्केण पतिपाशपशुत्रयम्।
गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ॥ १३ ॥

इत्यर्थदशकं ज्ञानमर्गेणास्य विधीयते ॥ १४ ॥

Uttarapāda – Kapitel 25: Die Lehrerweihe

अभिषेकं अथो वक्ष्ये येनस्याद् देशिको भुवि।
आर्यावतोद्भ्वः श्रीमान् सर्वलक्षण लक्षितः ॥ १ ॥

यत्र विप्राः सदाचाराः यतयश्च तपोधनाः।
सन्ति देवाः तथा वेदाः आर्यावर्त इति स्मृतः ॥ २ ॥

एषदेशो समादिष्टोअ न च विन्द्याब्धिमध्यगः।
ककाराष्टक निर्मुक्तः प्रसङ्गात् सोऽपि कथ्यते ॥ ३ ॥

कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर संज्ञकः।
कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ॥ ४ ॥

आदिशैवकुलो जातः श्रेष्ठस्यात् स्थापनदिषु।
विप्रादयश्चतुर्वर्णाः अपि योग्याः स्वकर्मणि ॥ ५ ॥

दीक्षायां सर्वमर्त्यानाम् प्रतिष्ठायां अथोत्सवे।
स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ॥ ६ ॥

व्याख्यानादौ च शास्तस्यात् स्वार्थे वाथ परार्थके।
सर्व देवार्चने विप्रास्त्वादिशैवो गुरूत्तमः ॥ ७ ॥

विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च।
ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्रवैश्ययोः ॥ ८ ॥

वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते।
स्वार्थेष्टौ चललिङ्गस्य प्रतिष्ठायां त्रयस्विमे ॥ ९ ॥

शूद्रेऽपि शूद्रदीक्षायां स्वार्थे च चलसंज्ञके।
बाणलिङ्गे क्षणे वापि स्थापको यदि नैष्ठिकः ॥ १० ॥

शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च।
चर्यायां च स्वसंसिद्ध प्रमेय शिवभाषिते ॥ ११ ॥

शैवार्थ देशिको हित्वा विचारं सन्ततं नरः।
योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ॥ १२ ॥

इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि।
अभिष्कं ततः कुर्यात् अङ्कुरार्पण पूर्वकम् ॥ १३ ॥

पूर्वस्यां वाथ वैशान्यां पश्चिमायां चोदीत्य च।
मण्डपे सौम्यवक्त्रे तु वितानेनोपशोभितं ॥ १४ ॥

अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम्।
चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ॥ १५ ॥

स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम्।
भुवः परिग्रहं कृत्वा मण्डपेऽग्नौ शिवं यजेत् ॥ १६ ॥

लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया।
बहिरन्तर्बलिं दत्वा विधानं इदं आचरेत् ॥ १७ ॥

काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः।
सिद्धार्थ दधि तोयैश्च निर्मृज्य तदनन्तरम् ॥ १८ ॥

नवधा पञ्चधा वापि सर्वधान्योपरिस्थितान्।
घटान् वा कलशान् वाथ सकूर्चान् सपिधानकान् ॥ १९ ॥

ससूत्रान् सोदकान् गन्ध रत्न स्वर्णवरान्वितान्।
चूताश्वत्थ पलाशास्यान् बीजापूर फलावहान् ॥ २० ॥

सदेशानेन विद्येशैः नवपञ्च पवित्रकैः।
पञ्चप्क्षे निवृत्यादि कलाभिस्त्वपि मन्त्रयेत् ॥ २१ ॥

शिवेन शतधा लब्धान् पूजितान् स्नपनोचितान्।
अथवा कलशान् एक घटं वा शिवसंयुतम् ॥ २२ ॥

दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत्।
भद्रपीठे शिवेनैव साङ्गेनाधिष्ठितं यथा ॥ २३ ॥

स्वासनेन तथा संयक् अर्चितं विभवेन वा।
वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ॥ २४ ॥

शुद्धोदकेन संस्नाप्य तस्माद् देशान्तरे पुनः।
परिवर्तित सूत्राद्यं सोत्तरीयं समालकम् ॥ २५ ॥

सितचन्दन दिग्धाङ्ग भस्मोद्धूलितमेव च।
आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ॥ २६ ॥

पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत्।
आरात्रिकं ज्वलद्दीपैः सद्वर्त्या प्रतिबोधितैः ॥ २७ ॥

ततोऽस्य दद्याद् आचार्यः शिष्यस्सोष्णीकादिभिः।
करणीं कर्तरीं तद्वत् घटिकां स्रुक्स्रुवौ पुनः ॥ २८ ॥

दर्भं च पुस्तान्यक्ष सूत्रमामकुटं गुरुः।
पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ॥ २९ ॥

राजाङ्गमन्यत्तत्काले दद्याच्छ्रद्धा समन्वितः।
आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ॥ ३० ॥

दीक्षा व्याख्यादिकं ज्ञात्वा परीक्ष्य विधिना वुथ।
तथैवं देवदेवाय देशिकाय मयाकृतम् ॥ ३१ ॥

त्वत्प्रसादाद् अविघ्नेन चाधिकारं करोत्विति।
विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ॥ ३२ ॥

निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत्।
स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ॥ ३३ ॥

दर्भोल्मुखेन पञ्चाङ्गैः कनिष्ठादिषु लाञ्चयेत्।
हरहस्तं च संकल्प्य स्वाधिकारं समर्पयेत् ॥ ३४ ॥

तदर्थं विधिनानेन प्रायश्चित्तं समाचरेत्।
शिवासनाङ्गमन्त्रैश्च पूज्य देवस्य नामभिः ॥ ३५ ॥

अङ्गैर्दशाहुतिर्हुत्वा शिवेनान्ते दशाहुतीः।
तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ॥ ३६ ॥

अनेनैव प्रकारेण साधकं चाभिषेचयेत्।
किन्तु साध्याणुना लब्धैर्घटैरस्याभिषेचयेत् ॥ ३७ ॥

दीक्षितः पुत्रकः प्रोक्तः संस्कृतस्समयी कृतः।
सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ॥ ३८ ॥

जात्युद्धार विहीनोयस्सामान्य समयी भवेत्।
तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु या स्मृताः ॥ ३९ ॥

दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः।
न तु लिङ्गार्चने योग्याः किमु दीक्षादि कर्मणि ॥ ४० ॥

शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते।
मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ॥ ४१ ॥

संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका।
शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ॥ ४२ ॥

सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम्।
चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ॥ ४३ ॥

पूर्वं पूर्व गुणोत्कृष्टं तत्रत्वेवं चतुर्विधम्।
प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ॥ ४४ ॥

सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते।
तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ॥ ४५ ॥

शैवं तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः।
तदापि वैदिकं वेदसारं इत्यादि वाक्यतः ॥ ४६ ॥

शैवे प्रोक्तं च सर्वत्र तदर्थोक्त्या मुनीश्वराः।
सर्वेषां कमिकादीनां शिवदेहत्वं इष्यते ॥ ४७ ॥

स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते।
कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ॥ ४८ ॥

कामिकं तूर्ध्व मकुटं योगजं पुरुषाह्वयम्।
अघोरमकुटं चिन्त्यं वामगं कारणं भवेत् ॥ ४९ ॥

अजितं सद्य मकुटं दीप्तमीशान वक्त्रकम्।
सूक्ष्मं तु पुरुषास्यं स्यात् सहस्रं दक्षिणाननम् ॥ ५० ॥

अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम्।
विजयं कर्ण इत्युक्तो निश्वासं गळमुच्यते ॥ ५१ ॥

स्वायंभुवं च हृदयं नाभिरत्रानलं भवेत्।
वीरं कटिप्रदेशस्यात् रौरवं गुदमुच्यते ॥ ५२ ॥

मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत्।
चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिम्बमन्यतः ॥ ५३ ॥

प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रेर्ललितं भवेत्।
जङ्घा सिद्धमिति प्रोक्तं संतानं वामगं भवेत् ॥ ५४ ॥

जण्घाग्रं स्याच्च शर्वोक्तं वामकं पारमेश्वरम्।
किरणं तलमित्युक्तं वातुलं वामकं तलम् ॥ ५५ ॥

सृष्टिभेदः शिवः प्रोक्तः संहारे विपरीततः ॥ ५६ ॥

पूर्वं तन्त्रावतारे तु कामिकं पादयुग्मकम्।
इत्यादि कथितं देव परस्पर विरोधनम् ॥ ५७ ॥

बहुधा कथितं विप्राः भवद्भिरवधारितं।
मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम्॥
तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ॥ ५८ ॥

सृष्टि संहार मार्गेण ममदेहो विभिद्ययत्।
भोगमोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ॥ ५९ ॥

ऐश्वरं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः।
न पुम्भिरार्षकं वाक्यं दैविकं ऋषिभिस्तथा ॥ ६० ॥

न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा।
न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ॥ ६१ ॥

उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितम्।
कामिकाद्यजितान्ताश्च ईशवक्त्र समुद्भवाः ॥ ६२ ॥

दीप्तादि सुप्रभेदान्ताः पुरुषाख्याननोद्भवाः।
विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ॥ ६३ ॥

रौरवान्मुखबिम्बान्ताः वामदेव मुखोद्भवाः।
प्रोद्गिताद्यष्ट तन्त्रं च सद्यवक्त्र समुद्भवम् ॥ ६४ ॥

तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः।
अष्टाविंशति तन्त्रं तु सोपभेदं च वेत्ति यः ॥ ६५ ॥

स गुरुश्शिव एवस्यात् श्रुणुयात्तं प्रयत्नतः।
अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ॥ ६६ ॥

विशिष्ट गुरुणारब्धे न हीनस्यधिकारिता।
हीनारब्धे विशिष्टस्याधिकार कर्मणीरितः ॥ ६७ ॥

विशिष्ट मरणादौ स्याद् गुर्वन्तर निवेशयेत्।
विशिष्टे विद्यमाने च हठादज्ञेन कारिते ॥ ६८ ॥

साहानिस्तन्महांश्छिद्र समूहश्चान्धमूखता।
तेन राज्ञो भवेद्दोषो राष्ट्रस्यापि भयं भवेत् ॥ ६९ ॥

कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत्।
लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ॥ ७० ॥

द्रव्यं करोति सुमुखं सर्वलोकसमं यशः।
ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ॥ ७१ ॥

तद्वित्तं आहृतं येन स पापी स दुर्मतिः।
नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ॥ ७२ ॥

Uttarapāda – Kapitel 26: Die hundertfache Weihe

शताभिषेकं वक्ष्येऽहं संक्षेपाद् द्विजोत्तमाः।
अकालमृत्युमथनं आयुरारोग्य वर्धनम् ॥ १ ॥

वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम्।
दीक्षितानां पुरा चन्द्रसहस्रस्यावलोकिनाम् ॥ २ ॥

उत्तरायण काले तु शुक्लपक्षे विशेषतः।
सुलग्ने च सुवारे च सुतिथौ शोभने दिने ॥ ३ ॥

स्नापयेद्देशिकः शान्तः सर्वलक्षण संयुतः।
मङ्गलाङ्कुर संयुक्ते मण्डपे समलङ्कृते ॥ ४ ॥

कूटे वाथ प्रपायां वा शुद्धदेशे मनोरमे।
पञ्चादि पञ्चपञ्चाशत्करसिमा समन्विते ॥ ५ ॥

मुखायामयुते वापि चतुर्द्वार समन्विते।
एकादि पञ्चपञ्चान्त भक्तिभिः परिमण्डिते ॥ ६ ॥

ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा।
अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ॥ ७ ॥

राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम्।
तत्तज्जाति समुद्भूत स्त्रियं वा शिवविप्रकाः ॥ ८ ॥

पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत्।
अभिषेकदिनात्पूर्व रात्रौ कौतुकबन्धनम् ॥ ९ ॥

कारयेद्यजमानस्य दक्षहस्ते गुरूत्तमः।
तत्पत्न्याश्च प्रधानाया वामहस्ते तु बन्धयेत् ॥ १० ॥

प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत्।
तद्रात्रौ तु पयः पीत्वा शय्यायां कम्बलादिभिः ॥ ११ ॥

कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः।
मण्डपं कारयित्वाथ पूर्वोक्त विधिनायुतम् ॥ १२ ॥

विसृज्य शिल्पिनं पश्चात् पुण्याहं वाचयेद्गुरुः।
पूर्वाग्रं उत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ॥ १३ ॥

शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटं।
तेषां मध्ये गृहीत्वा तु पदानां पञ्चविंशतिम् ॥ १४ ॥

परितस्संत्यजेदेकपदं द्वाराष्टकान्वितम्।
चतुर्दिक्षु चतुर्द्वारं पदद्वय विलोपनात् ॥ १५ ॥

अष्टोत्तर शतानिस्युः पदान्यत्र विचक्षणाः।
तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसंमितैः ॥ १६ ॥

वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत्।
अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ॥ १७ ॥

त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रमं उदाहृतः।
आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ॥ १८ ॥

अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः।
शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ॥ १९ ॥

तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत्।
अष्टांशं क्षीनवित्तस्तु क्षिपेत् स्थण्डिलशुद्धये ॥ २० ॥

मध्यमे शिवकुम्भं तु द्वात्रिंशत्प्रस्थ पूरितम्।
वर्धनी च तदर्धेन पूरिता शिवपूरिताः ॥ २१ ॥

बाह्यस्थ कलशा ज्ञेयास्त्वाढकेनाथ पूरिताः।
त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ॥ २२ ॥

अन्येषामपि सर्वेषां एकसूत्रेण वेष्टनम्।
पृथग्वस्त्र समोपेतं पृथक्स्वर्ण समायुतम् ॥ २३ ॥

चन्दनागरु कर्पूर कुष्ठोशीरज कल्कयुक्।
नादेयाम्भः प्रशस्त्तं स्याच्छिवकुम्भादि पूरणे ॥ २४ ॥

नानागन्ध समायुक्तं नानाबीज समन्वितम्।
नानाधातु समायुक्तं नानालोह समन्वितम् ॥ २५ ॥

नानादिगौषधोपेतं नानाफल समन्वितम्।
नानापुष्प समायुक्तं नानागव्य समायुतम् ॥ २६ ॥

संस्थाप्य कलशं सर्वं पूजयेत् पत्र पुष्पकैः।
अष्टोत्तर शतानां तु रुद्राणां नाम कीर्तयेत् ॥ २७ ॥

पृथग्द्रव्य निवेद्येनमानयेद्देशिकोत्तमः।
वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ॥ २८ ॥

नवपञ्चादिकं रत्नं शिवे शक्तौ च विन्यसेत्।
प्रथमावरणे विद्वान् अष्टलोहादि विन्यसेत् ॥ २९ ॥

हिरण्यं रजतं ताम्रं आरकूटं च सीसकम्।
आयसं त्रपु कांस्यं चाप्यष्टविद्येश्वरान् न्यसेत् ॥ ३० ॥

द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत्।
अगरुं गन्ध्कं तालं माक्षिकं च मनश्शिलाम् ॥ ३१ ॥

रसमभ्रद्वयं चैव गैरिकाञ्जनमेव च।
जातिलिङ्गं च सिन्धूरं तुत्थं च विमलद्वयम् ॥ ३२ ॥

कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत्।
ऐन्द्रे द्वादश कोष्ठेषु विन्यसेद् द्वारपार्श्वयोः ॥ ३३ ॥

पालाशाः खादिरश्चाम्र प्लक्षन्यग्रोध सम्भवाः।
बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थ सम्भवाः ॥ ३४ ॥

औदुम्बरी च नारङ्ग मातुलङ्ग समुद्भवाः।
वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ॥ ३५ ॥

आग्नेयां नवके संयग् विन्यसेन्मृत्तिकाः पराः।
नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ॥ ३६ ॥

सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके।
उत्पलस्य द्वयं चैव पङ्कजस्य द्वयं तथा ॥ ३७ ॥

वकुलं करवीरं च पाटलं कुरवं तथा।
मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ॥ ३८ ॥

चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः।
चन्दनोशीर कुष्ठं च कुङ्कुमं च नरं तथा ॥ ३९ ॥

तक्कोलमगरुं चैव पत्रं चैव लवङ्गकम्।
नैरृते नवकं ज्ञेयं वारुण्यां अथ कथ्यते ॥ ४० ॥

वैणवं माषनीवार गोधूमं यवमेव च।
अपामार्गं तिलं मुद्गं प्रियङ्गुं सर्षपं तथा ॥ ४१ ॥

श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः।
लक्ष्मीश्च शङ्खपुष्पी च विष्णुक्रान्तिश्च हंसिनी ॥ ४२ ॥

तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी।
सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ॥ ४३ ॥

पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च।
गोमयं नालिकेरं च मातुलुङ्गफलं तथा ॥ ४४ ॥

नारङ्गं बिल्वकं चैव पनसं ताम्रमेव च।
दाडिमी संभवं चैव न्यस्तव्याः क्रमशस्ततः ॥ ४५ ॥

गन्धोदकं अथैशान्यां कलशेषु नवस्वपि।
एवं द्रव्याणि विन्यस्य शिवादीन् अर्चयेत् क्रमात् ॥ ४६ ॥

आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः।
वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ॥ ४७ ॥

पञ्चाङ्ग भूषणोपेतस्साङ्गुलीयक एव च।
मण्डपे द्वारपूजादि सर्वं कर्म समाचरेत् ॥ ४८ ॥

पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम्।
मनोन्मनीं च वर्धन्याम् एकपत्नी भवेद्यदि ॥ ४९ ॥

बह्वय्श्चेद् बह्व्येवास्युः तासु तामेव पूजयेत्।
दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ॥ ५० ॥

मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके।
उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ॥ ५१ ॥

अथवैतत् परित्याज्यं शंभुकुम्भस्थिते भवेत्।
पुष्पपातादिकं कृत्वा होमं कुर्याद् विशेषतः ॥ ५२ ॥

गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैः विशेषतः।
नवाग्निं वाथ पञ्चाग्निं एकाग्निं वाथ कल्पयेत् ॥ ५३ ॥

समिदाज्य चरूम् लाज तिलवैणवमाषकम्।
जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च संभवान् ॥ ५४ ॥

उदुम्बर वटाश्वत्थ प्लक्षा इन्द्रादि दिक्षु च।
शमी खदिर मायूर श्रीवृक्षास्स्युर्विदिक्षु च ॥ ५५ ॥

पलाशस्तु प्रधाने स्याच्छिवब्रह्माङ्गकैः क्रमात्।
सर्वद्रव्याणि जुहुयाद् देव्याश्चापि प्रधानके ॥ ५६ ॥

शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः।
ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ॥ ५७ ॥

होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च।
गुरूत्तमः प्रधानाग्नौ तेषां दिक्षां समाचरेत् ॥ ५८ ॥

अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत्।
किंतु पञ्चाक्षरेणैव शिवायै नम इत्यपि ॥ ५९ ॥

वर्धन्यां च यजेद् गौरीं अशेषकलशेषु च।
पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ॥ ६० ॥

दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम्।
कल्पयेत् सर्वतोभद्रं सर्वपाप विमुक्तये ॥ ६१ ॥

सर्वाभीष्ट प्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम्।
प्रातस्स्नान विलिप्ताङ्गम् भूषितं भूषणार्हकैः ॥ ६२ ॥

सर्वालङ्कार संयुक्तं आनयेन्मण्डपान्तिकम्।
पादप्रक्षालनोपेतं आचान्तं शान्तमानसम् ॥ ६३ ॥

आनयेद्दक्षिणद्वारं संप्रोक्ष्य प्रणवेन तु।
पुष्पाञ्जलिं तेनैव प्रदक्षिण नमस्कृती ॥ ६४ ॥

कारयित्वाथ कुम्भस्थे शिवे मण्डल संस्थिते।
कुण्डस्थेऽपि ततःस्नान वेद्यां संस्थाप्य देशिकः ॥ ६५ ॥

भद्रपीठे पयोवृक्षजाते वाम्र समुद्भवे।
पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ॥ ६६ ॥

सहस्रधारयोपेतं राज्ञां चेदभिषेचनम्।
अन्येषामपि सर्वेषां शतधारावटेन वा ॥ ६७ ॥

हैमेन राजतेनापि तयोरन्यतरेण वा।
सर्वालङ्कार संयुक्तं अन्ते चामलकादिभिः ॥ ६८ ॥

स्नात्वैवान्यैरपि द्रव्यैः प्रमृजेच्छुद्ध वाससा।
गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ॥ ६९ ॥

विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कृतम्।
तदन्यत्र शुभे देशे विलिप्तेऽलङ्कृते गुरुः ॥ ७० ॥

स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत्।
सवैयाघ्रं सवस्त्रं च सहेमाम्बुजमस्य तु ॥ ७१ ॥

स्थापयित्वाभिषिक्तं तु मध्यमे भार्ययायुतम्।
आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहु मालया ॥ ७२ ॥

गन्धपुष्पैरलङ्कृत्य सर्वालङ्कार संयुतम्।
पटेन महताच्छाद्य तदग्रेऽथ विलिप्तके ॥ ७३ ॥

स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम्।
स्थापयित्वा सवत्सं गां दर्शयेच्च पयस्विनीम् ॥ ७४ ॥

बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः।
सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ॥ ७५ ॥

आरोप्य शिबिकादौ तु कृत्वा ग्राम प्रदक्षिणम्।
गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ॥ ७६ ॥

पूर्णकुम्भयुते दीप संयुते फलकोपरि।
स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ॥ ७७ ॥

कारयित्वा ततः स्त्रीभिः रजनी जलधारया।
दीपेन सहिताभिश्च कारयेत् त्रिःप्रदक्षिणम् ॥ ७८ ॥

ततः पादुकां आस्थाय प्रविशेत् स्वगृहं प्रति।
श्रेष्ठमार्गोऽयं एकोनपञ्चाशत् कलशैस्तु वा ॥ ७९ ॥

पञ्चविंशति कलशैः नवभिः पञ्चभिस्तु वा।
एकेनवाभिषेकं तु कारयेदभिषेचनम् ॥ ८० ॥

दक्षिणां च गुरोर्दद्यादुत्तमादिषु संभवाम्।
दासी दासं भुवं गां च गृहोपकरणानि च ॥ ८१ ॥

मूर्तिपानां तदन्ते च तदन्ते जापिनामपि।
स्तोतॄणामपि भक्तानां दक्षिणां पूर्ववद्भवेत् ॥ ८२ ॥

पूजयेत्कल्पयेद्वित्तरूपानुसरणाय च।
एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ॥ ८३ ॥

इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत्।
आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ॥ ८४ ॥

यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः।
नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ॥ ८५ ॥

नोपसर्गभयं तत्र न परागमविप्लवः।
स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः॥
शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ॥ ८६ ॥

Uttarapāda – Kapitel 27: Allgemeine Ausgleichsriten

प्रायश्चित्त विधिं वक्ष्ये सामान्यं द्विजसत्तमाः।
विधिर्निषेध इत्येवं चोदना द्विविधा मता ॥ १ ॥

अनुष्ठितायां तस्यां स्याद्यथावद्धर्म संग्रहः।
वैपर्रित्ये त्वधर्मस्स्यात् तेन पापं महद्भवेत् ॥ २ ॥

तेनाधोगमने प्राप्ते कर्तुरूर्ध्वं परं पदम्।
यत्कर्मनयतीत्युक्तं प्रायश्चित्तं इहागमे ॥ ३ ॥

प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः।
चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ॥ ४ ॥

सदोषस्यात्मनो यस्मात् तरणं पततो ह्यधः।
तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ॥ ५ ॥

विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते।
तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ॥ ६ ॥

आवश्यके कृते पूर्वमुखेनैव प्रतिक्रिया।
कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ॥ ७ ॥

प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः।
कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तारदोषतः ॥ ८ ॥

ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम्।
स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ॥ ९ ॥

लिङ्गबेरागमादीनां स्वगुरोर्देशिकस्य च।
शिवज्ञान रतानां च दर्शनं तन्निरीक्षणम् ॥ १० ॥

नमस्काराद्यं एतेषां शिवधाम निषेवणम्।
शिवाग्नि गुरुपूजा च भोजनं दीक्षितात्मनाम् ॥ ११ ॥

पुण्यतीर्थावगाश्च पञ्चगव्याशनं ततः।
शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ॥ १२ ॥

उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत्।
शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ॥ १३ ॥

मूर्तिहोमो घृतक्षौद्र क्षीरस्नानाद्यनेकधा।
एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ॥ १४ ॥

एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम्।
विभज्य लक्षणं तेषां केषाञ्चिदिह कथ्यते ॥ १५ ॥

पञ्चगोचर संभूतश्शिवद्विज कुलोद्भवः।
सोष्णीषस्सोत्तरीयश्च नवाम्बर समावृतः ॥ १६ ॥

पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत्।
प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्समाचरेत् ॥ १७ ॥

दिनपक्षर्क्ष लग्नादि प्रेक्षणं नात्र संमतम्।
प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ॥ १८ ॥

मध्यं सप्त दिनादर्वाक् पक्षाहादधमं भवेत्।
तस्मान्मासावसानं तु हीनमित्यभिधीयते ॥ १९ ॥

मासोर्ध्वं नैव कर्तव्यं यदि शान्त्या समाचरेत्।
लिङ्गपीठ विमानादि प्रायश्चित्तादिकं नयेत् ॥ २० ॥

आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः।
प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथ वा ॥ २१ ॥

स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति।
वित्ताभावान्मनः क्षोभाद् रागद्वेषादिहेतुभिः ॥ २२ ॥

पापकर्माभिघाताद्वा एते मद्द्वेषिणो नराः।
नृपभङ्गायजातास्ते राष्ट्रविक्षोभ कारिणः ॥ २३ ॥

अनुशास्याश्च मद्भक्तैः वीतरागैस्तपस्विभिः।
देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ॥ २४ ॥

सश्रद्धं निष्कृतिं कुर्युः मदीयास्ते नरोत्तमाः।
राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ॥ २५ ॥

तद्ग्रामर्द्धिकराःस्थान मत्पूजा वृद्धिहेतवः।
इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ॥ २६ ॥

अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना।
मन्त्रकायो ह्युदग्वक्त्रः पूर्वास्यः साक्षमालिकः ॥ २७ ॥

शिवाणुमथवाघोरं यद्वा पाशुपतं वरम्।
अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ॥ २८ ॥

मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः।
जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ॥ २९ ॥

अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपि वा।
शाकयावक पिण्याक कन्दमूल फलाशनः ॥ ३० ॥

स्मरंस्तद्देवतारूपं जपंस्तस्मै निवेदयेत्।
जप एवं समाख्यातः प्रदक्षिणमथोच्यते ॥ ३१ ॥

नानाविधं तदाख्यातं अन्तर्बाह्य विभेदतः।
लिङ्गप्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ॥ ३२ ॥

अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम्।
गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ॥ ३३ ॥

गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः।
सोमसूत्रस्य मूलं च देवसामीप्यमेव च ॥ ३४ ॥

परिहृत्य कृतं सर्वं यदि सर्व फलावहम्।
अन्तर्मण्डलदेशोऽपि सोमसूत्रं च विद्यते ॥ ३५ ॥

प्रासादार्धप्रमाणं वा प्रासाद सममेव वा।
निर्माल्य सङ्करोऽपि स्याद्धामचाया च विद्यते ॥ ३६ ॥

परिहृत्य तु तत्सर्वं प्रदक्षिणमथाचरेत्।
सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ॥ ३७ ॥

सव्यं चण्डप्रदेशः स्यादपरं सोमसूत्रतः।
सव्यापसव्य मार्गेण मृद्गत्या समाचरेत् ॥ ३८ ॥

सव्यापसव्यं एवं स्यादन्तर्नित्योत्सवेऽपि च।
छाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि च ॥ ३९ ॥

तत्कालकृत सेवस्य नैव दोषप्रदं भवेत्।
तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ॥ ४० ॥

प्रयत्नोऽपि महान् बाह्ये बहूनिस्युः पदानि च।
पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ॥ ४१ ॥

अङ्गप्रदक्षिणं चान्यद् उदयास्तमनान्तकम्।
अनयोः पुण्य माहात्म्यं न शक्तुं वक्तुमग्रजाः ॥ ४२ ॥

Uttarapāda – Kapitel 28: Kṛcchra und weitere Ausgleichsriten

अथ वक्ष्ये द्विजश्रेष्ठाः शिवाम्बश्च कृच्छ्रादि च।
कुम्भे वा कलशे वाथ स्थण्डिलोपरि संस्थिते ॥ १ ॥

सूत्रवस्त्र सुवर्णाम्बु कूर्च चन्दन संयुते।
शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् ॥ २ ॥

शिवाम्भ इति निर्दिष्टं अस्त्रोदं चास्त्रजापतः।
ततः कृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्त संज्ञकः ॥ ३ ॥

अतिकृच्छ्रपराकौ द्वौ चान्द्रायण विधिस्ततः।
त्रिरात्रं एकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् ॥ ४ ॥

एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः।
पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीरभोजनम् ॥ ५ ॥

सोष्णमाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलो यदा।
तप्तकृच्छ्रं इति ख्यातं त्वतिकृच्छ्रश्च कथ्यते ॥ ६ ॥

द्वादशाहर्निराहारः पराक इति संस्मृतः।
मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च ह्रासयेत् ॥ ७ ॥

चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः।
सायामाद्यन्तयोरह्नौ सायं प्रातश्च मध्यमे ॥ ८ ॥

चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम्।
मध्यमद्वितयं वाथ तदर्थं दानमेव वा ॥ ९ ॥

उपवासः समाख्यातः शान्तिस्त्यत्र निगद्यते।
मण्डपं तु शुभाशायां अग्नौ वा पूर्ववर्त्मना ॥ १० ॥

तन्मध्ये कुण्डमापाद्य वृत्तं हस्तमितं यथा।
शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् ॥ ११ ॥

देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत्।
गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् ॥ १२ ॥

संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत्।
अघोरं अथवा शैवं अस्त्रं पाशुपतं तु वा ॥ १३ ॥

अघोरास्त्रं अथान्यं वा सुसिद्धं देशिकात्मना।
कर्णिकायां समभ्यर्च्य साङ्गं संतर्पयेदथ ॥ १४ ॥

समिदाज्यं च गव्यं च मधुरत्रय संयुतम्।
तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् ॥ १५ ॥

सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा।
प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् ॥ १६ ॥

स्वाहान्ते भगवन् सर्वक्षोभनाश पदं ततः।
कुरुकुर्विति संयुक्तं प्रतिमन्त्रं दशान्तरम् ॥ १७ ॥

पञ्चादशान्तरं वापि शतमन्त्रान्तरं तु वा।
पठेन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् ॥ १८ ॥

मुखवास समायुक्तं ताम्बूलं च निवेद्य च।
कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् ॥ १९ ॥

तत्तद्दिङ्मुख संजातं पठेयुश्शास्त्रपारगाः।
प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे ॥ २० ॥

पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः।
ऋगाद्यद्ध्ययनं कुर्युश्चत्वारो वेदपारगाः ॥ २१ ॥

स्तोतारो बहवोवैकः पठेयुः स्तोत्र संहतिम्।
तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया ॥ २२ ॥

एतत् सर्वं प्रकर्तव्यं स्नातैर्होमप्रवर्तकैः।
होमरक्षां च संगृह्य दत्वार्घ्यं च पराङ्मुखम् ॥ २३ ॥

निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम्।
समाचम्य कृतन्यासः प्रविशेद्देवसंनिधिम् ॥ २४ ॥

होमकर्म निवेद्यास्मै प्रार्थयेद्दुरितक्षयम्।
एवं शान्तिस्समादिष्टा नवधा सा समीरिता ॥ २५ ॥

एकत्रिपञ्चसप्ताह नवाहैश्च द्विसप्तकैः।
पक्षत्रिसप्त नक्षत्रैः अविच्छिन्ना यतस्ततः ॥ २६ ॥

कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुरा विधेः।
विसर्जनं तु वा देवे पावकस्य न सर्वथा ॥ २७ ॥

शान्तिरेवं समाख्याता सर्वदोष निकृन्तनी ॥ २८ ॥

Uttarapāda – Kapitel 29: Das Friedensfeueropfer

अथो दोष निवृत्यर्थं शान्तिहोमो विधीयते।
स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते ॥ १ ॥

शुभाशास्वग्निदेशे वा मण्डपे समलङ्कृते।
स्थण्डिलं तत्र संकल्प्य तन्मध्ये विन्यसेद्घटम् ॥ २ ॥

ससूत्रं सोदकं कूर्च वस्त्रहेमाम्बुजान्वितम्।
सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् ॥ ३ ॥

परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान्।
विन्यस्य मध्यमे कुम्भे यजेत्पाश्पताह्वयम् ॥ ४ ॥

प्रणवासन समारूढं दुराधर्षं महाबलम्।
पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् ॥ ५ ॥

दंष्ट्राकराळमत्युग्रं मुक्तनादं सुदुर्जयम्।
कपालमालाभरणं चन्द्रार्धकृत शेखरम् ॥ ६ ॥

केकराक्षं महामाला नागाभरण लेलिहम्।
सूर्यकोटियुताभं च विघ्नसङ्घात मर्दकम् ॥ ७ ॥

भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम्।
खद्ग चाप महाशूलाभयपाशांश्च दक्षिणे ॥ ८ ॥

खेटबाणकपालांश्च वरप्रासौ च वामतः।
पिङ्गाभ श्मश्रुसंयुक्तं तथाविध शिरोरुहम् ॥ ९ ॥

ध्यात्वैवं उच्चरन् मन्त्रं आवाह्यर्चनं आरभेत्।
ओं श्लीङ्कार समायुक्तं पं शुं हुंफण्णमस्त्विति ॥ १० ॥

प्रणवं वह्निदिग्भागे श्लीङ्कारं शाङ्करे यजेत्।
पङ्कारं नैरृते भागे शुङ्कारं वायुगोचरे ॥ ११ ॥

ओङ्कारादि फडन्ताश्च वर्णाः स्थाने हृदादयः।
सर्वे पाशुपतोपेत हृदयादि समन्विताः ॥ १२ ॥

फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान्।
इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् ॥ १३ ॥

तदग्रे हास्तिके वृत्तकुण्डेअ वा स्थण्डिलेऽपि वा।
संस्कृत्य पूर्ववत् पञ्च संस्कारैस्संस्कृतेऽनले ॥ १४ ॥

देवं पाशुपतं साङ्गं आवाह्यभ्यर्च्य तर्पयेत्।
समिदाज्य तिलक्षीर सितदूर्वाचरूंस्ततः ॥ १५ ॥

सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा।
प्रत्येकं जुहुयान् मन्त्रमुच्चरन् कर्म निर्दिशेत् ॥ १६ ॥

भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः।
अङ्गानि दश चास्त्राणि दश हुत्वाप्रतोषयेत् ॥ १७ ॥

पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन्।
प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् ॥ १८ ॥

पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम्।
कृत्वा लयाङ्गमाकर्म पर्यन्तं परिरक्षयेत् ॥ १९ ॥

प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम्।
अन्तर्बहिर्बलिं दत्वा समाचम्याणु विग्रहः ॥ २० ॥

समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः।
कुम्बाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् ॥ २१ ॥

ततस्तत्कुम्भपानीयैः प्रोक्षयेदभितस्ततः।
होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना ॥ २२ ॥

कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्त दिनसंख्यया ॥ २३ ॥

Uttarapāda – Kapitel 30: Das Feueropfer der Richtungen

दिशाहोमं ततो वक्ष्ये द्विविधस्स उदाहृदः।
प्रायश्चित्तार्थं अन्योऽयम् स्नपनाद्यङ्गभाग्भवेत् ॥ १ ॥

लिङ्गे वा प्रतिमायां वा पीठे प्रासाद एव वा।
मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ॥ २ ॥

यदर्थं वर्तते प्रायश्चित्तं तस्य चतसृषु।
दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ॥ ३ ॥

वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा।
स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्रवारिणा ॥ ४ ॥

सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत्।
एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ॥ ५ ॥

मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च।
अथैतद्यागशालायां कर्मसर्वं समापयेत् ॥ ६ ॥

अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च ।
तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ॥ ७ ॥

शिवं संपूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके।
तदग्रे संयजेदस्त्रं शिवाख्यं देशिकोत्तमः ॥ ८ ॥

चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्ज समप्रभम्।
चन्द्रखण्ड सुमूर्धानं सचतुष्करपल्लवम् ॥ ९ ॥

अशनिध्वनि संयुक्तं असह्यं भीमविक्रमम्।
द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ॥ १० ॥

ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत्।
दक्षेऽघोरास्त्रमभ्यर्च्य पश्चात् पाशुपतं यजेत् ॥ ११ ॥

सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते।
ओं ह्रीङ्कारं ततः कृष्णवाससे चेति यत्पदम् ॥ १२ ॥

ततश्च सिम्हवदने महावदन इत्यपि।
महाभैरविवर्णे च सर्वशतृपदं ततः ॥ १३ ॥

कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः।
छेदिनीत्युद्धरेत्पश्चात् सर्वभूतदमन्यपि ॥ १४ ॥

सर्वभूतांस्ततो बन्ध बन्धेति पदमुद्धरेत्।
सर्वविघ्नानिति पदं छिन्दि छिन्दीतियत्पदम् ॥ १५ ॥

सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत्।
सर्वदुष्टांस्ततो भक्ष भक्षेति पदमुद्धरेत् ॥ १६ ॥

ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः।
प्रत्यङ्गिरे पदं पश्चाद् ह्रीं नमोऽस्त्विति यत्पदम् ॥ १७ ॥

ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः।
प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ॥ १८ ॥

दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम्।
तथैव तस्मान्नेत्राणुश्चतुस्त्रिंशद्भिरस्त्रकम् ॥ १९ ॥

त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः।
नमः स्वाहा वषड् वौषड् हुंफड्युक्ता हृदादयः ॥ २० ॥

सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम्।
कृष्णाञ्जननिभां वृत्त रक्तनेत्रत्रयान्विताम् ॥ २१ ॥

वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परं।
वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ॥ २२ ॥

कृष्णाम्बरधरां सास्रमांस्यास्यां नर्तने रताम्।
मौक्तिकाभरणैर्युक्तां सर्वावयव भूषणाम् ॥ २३ ॥

अट्टहासरवोपेतां कृष्णाजिन समन्विताम्।
ध्यात्वैवं गन्धपुष्पाद्यैः अर्चयेत् परमेश्वरीम् ॥ २४ ॥

अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान्।
गन्धोदकोदरान् कूर्च हेमपङ्कज संयुतान् ॥ २५ ॥

पृथक्स्थण्डिलकाधारान् सपिधानान् सपल्लवान्।
चन्दनालिप्त देहांस्तु विन्यस्य करकेण च ॥ २६ ॥

तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम्।
प्रागुक्त्या परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ॥ २७ ॥

इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम्।
कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ॥ २८ ॥

स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह।
तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ॥ २९ ॥

कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम्।
प्राग्वत् समाहिताः स्वस्वदिक्षु संयग् व्यवस्थिताः ॥ ३० ॥

प्लक्षोदुम्बरकाश्वत्थवटास्समिध ईरिताः।
प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ॥ ३१ ॥

तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायताः।
चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ॥ ३२ ॥

प्रत्येकमेतैर्जुहुयुः स्वदेव ध्यानतत्पराः।
प्रायश्चित्तहुतिं पूर्णां ताम्बूलाहुति संयुताम् ॥ ३३ ॥

रक्षादानं निरोधार्घ्यं लयाङ्गे संनिरोधनम्।
अन्तर्बहिर्बलिं पश्चादाचान्ते मन्त्रविग्रहः ॥ ३४ ॥

कर्मविज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः।
कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ॥ ३५ ॥

देवं कुम्भस्थ पानीयैः संस्नाप्याभ्यर्चयेद्गुरुः।
देवधाम्नि कृतं चैतद्यदि कुम्भोदकैस्तदा ॥ ३६ ॥

प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तु तम्।
दिशाहोमस्समाख्यातः सर्वारिष्ट निवारणः ॥ ३७ ॥

दिशाहोमो द्वितीयोऽसौ विशेषस्तत्र कथ्यते।
प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ॥ ३८ ॥

समिदाज्यौदनैर्होमस्सुतिलैस्सिततण्डुलैः।
होमश्च पुरुषाघोर वामाजैर्दिक्षु संमतः ॥ ३९ ॥

स्नपनादिषु होमोऽयं चतुर्दिक्षु च संमतः ॥ ४० ॥

Uttarapāda – Kapitel 31: Saṃhitā- und Mūrti-Feueropfer

वक्ष्येऽहं संहिताहोमं सर्वदोषनिकृन्तनम्।
शुभाशायां अथान्यस्मिन् नित्याग्नौ यागमण्डपे ॥ १ ॥

उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत्।
सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते ॥ २ ॥

तैर्मन्त्रैर्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः।
पलाशसमिदाज्यान्नैः शतसंख्या शिवाणुना ॥ ३ ॥

शिवाद्दशांशतोऽङ्गानां आहुतिर्ब्रह्मणामपि।
ततोऽघोराणुना होमं पञ्चविंशति संख्यया ॥ ४ ॥

प्रायश्चित्तार्थं आपाद्य पूर्णां कुर्याद्विधानतः।
संहिताहोम एष स्यान् मूर्तिहोमओ विधीयते ॥ ५ ॥

हर्म्याग्रेऽन्यत्र वा कृत्वा स्थण्डिलं कृतमण्डले।
शिवकुंभं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे ॥ ६ ॥

अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान्।
ससूत्रान् सापिधानांश्च सवस्त्रान् सहिरण्यकान् ॥ ७ ॥

गन्धोदकोदरान् गन्धपुष्पधूप प्रदीपकैः।
मध्यकुम्भे शिवं चेष्ट्वाघोरास्त्रं करके यजेत् ॥ ८ ॥

यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना।
वर्धनीमपि हित्वैवं साङ्गमभ्यर्चयेद्गुरुः ॥ ९ ॥

दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति।
दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामिति ॥ १० ॥

ध्यायेत्सूर्य सहस्राभं प्रलयाम्बुद निस्वनम्।
प्रदीप्तदशनप्रान्त प्रकाशमुखकन्धरम् ॥ ११ ॥

त्र्यक्षं तटिल्लताजिह्वा दीप्तभ्रूश्मश्रुमूर्धजम्।
सर्पोपवीतं शूलासि शक्तिमुद्गर धारिणम् ॥ १२ ॥

चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम्।
नृत्यन्तं तं महाकायं नागाभरण भूषितम् ॥ १३ ॥

देवदानव दैत्यानां दर्पितानां विमर्दकम्।
वज्रादिशूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् ॥ १४ ॥

पद्मं चक्रं तथैशाने नैरृते च क्रमाद्यजेत्।
तदग्र कल्पिते कुण्डे हास्तिके वृत्तसंनिभे ॥ १५ ॥

स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः।
संस्कृत्य पञ्चसंस्कारैः वह्निकर्मोक्तवर्त्मना ॥ १६ ॥

तत्रावाह्य यजेत्साङ्गं अघोरास्त्रं शिवानले।
समिदाज्यतिलक्षीर सितदूर्वा मधुत्रयम् ॥ १७ ॥

हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा।
प्रत्येकं जुहुयाद्देतैरघोरास्त्रं शिवानले ॥ १८ ॥

कर्मनिर्देश संयुक्तं अङ्गैरस्त्रैश्च तर्पयेत्।
पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च ॥ १९ ॥

पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च।
अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् ॥ २० ॥

स्वार्थं च यजमानार्थं दद्यादर्घ्यं पराङ्मुखम्।
लयाङ्गं पूजयित्वान्ते शिवं व्याहृतमाचरेत् ॥ २१ ॥

तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्यते।
प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि ॥ २२ ॥

अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः।
गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि ॥ २३ ॥

ततस्तत्कुम्भपानीयैः स्नापयेत्परमेश्वरम्।
गन्धपुष्पस्रगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् ॥ २४ ॥

संप्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम्।
भस्मापि यजमानाय दातव्यं होमकर्मणि ॥ २५ ॥

अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत्।
मूर्तिहोमः समाख्यातः प्रायश्चित्तर्थमीरितः ॥ २६ ॥

अन्येऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते।
यजेत् कुम्भास्त्र वर्धन्योर्मध्यमे शिवमम्बिकाम् ॥ २७ ॥

संयजेन्मूर्तिमूर्तीशान् अष्टकुम्भेषु बाह्यतः।
अष्टदिक्षु च शर्वादि मन्त्रैर्होमं समाचरेत् ॥ २८ ॥

स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा।
समिदाज्यतिलक्षीर यवैरष्टोत्तरं शतम् ॥ २९ ॥

पञ्चाशत्संख्यकं वापि तदर्धं वा पृथक् पृथक्।
पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ ॥ ३० ॥

शम्यपामार्गश्रीवृक्ष प्लक्षास्समिध ईरिताः।
क्षीरसस्येन्द्रहीनैर्वा पञ्चकुण्डघटैस्तु वा ॥ ३१ ॥

पञ्चपक्षेऽष्टपक्षे वा स्थण्डिलं पूर्वदिग्गतम्।
विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् ॥ ३२ ॥

पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितयाहुतिम्।
पूर्णाहुतिं ततो दत्वा घटादैः स्नापयेच्छिवम् ॥ ३३ ॥

संपूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्ट सिद्धये।
एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधा मतः ॥ ३४ ॥

कर्तव्यो मूर्तिहोमोऽन्यं मूर्तीशार्चन होमयुक्।
संप्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः ॥ ३५ ॥

शान्त्युक्त दिनसंख्याया वशेनैतत्समाचरेत्।
मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा।
यतो मया समादिष्टस्ततो नाद्यापि कथ्यते ॥ ३६ ॥

Uttarapāda – Kapitel 32: Die Befriedung ungewöhnlicher Zeichen

वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम्।
रजन्यां दर्शनं भानोः परराजभयं भवेत् ॥ १ ॥

विप्रभोजन संयुक्तां तत्र शान्तिं समाचरेत्।
दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ॥ २ ॥

पूर्ववत् कल्पयेच्छान्तिं मध्यमेनाधमेन वा।
संभवे भूमिकंपे तु नृपभङ्गो भवेद् ध्रुवम् ॥ ३ ॥

मधुक्षीरघृतैस्स्नानं सहस्रप्रस्थ संमितैः।
तदर्धैर्वा तदर्धैर्वा शतप्रस्थैस्तदर्धतः ॥ ४ ॥

स्नपनोक्त्या शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम्।
सप्ताहं वा घृतक्षौद्रैः श्रेष्टमार्गेण कारयेत् ॥ ५ ॥

प्रासाद मण्टपाद्यादि भ्रमणेऽप्येवमाचरेत्।
नदीतटाककूपादि क्षोभे दुर्भिक्षता भवेत् ॥ ६ ॥

तत्तीरे मण्टपं कृत्वा तन्मध्ये स्थण्डिले शिवम्।
साम्बं कुम्भे च वर्धन्यां परितोऽष्ट घटेषु च ॥ ७ ॥

ससूत्राम्बरहैमेषु सप्ततीर्थं च कन्यया।
पूजयेद्गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ॥ ८ ॥

कुम्भाम्बः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत्।
प्रतिमारोदने स्वेदे नृपस्य मृतिमाचरेत् ॥ ९ ॥

सर्वेषां प्राणिनां नाशं सद्यः कुर्यात् प्रतिक्रियाम्।
कृत्वा तु प्रतिमा शुद्धिं श्रेष्टां शान्तिं समाचरेत् ॥ १० ॥

शान्तिहोमं च विप्राणां भोजनं नित्यमाचरेत् ।
तदन्ते चोत्सवं कुर्याद्यथावित्तं मुनीश्वराः ॥ ११ ॥

जाते शोणितवर्षे तु सर्वेषां नाशनं भवेत्।
प्रासाद मण्टपादीनि रुधिराक्तानि शोधयेत् ॥ १२ ॥

गोमया लेपनं कृत्वा पर्यग्निकरणं नयेत्।
पुण्याहं वाचयित्वा तु मध्वाद्यैस्स्नपनं नयेत् ॥ १३ ॥

भूमिकम्पोक्त मार्गेण शान्तिहोमं तु कारयेत्।
सप्ताहमेवं कुर्याद्वा द्वित्रिसप्ताहमेव वा ॥ १४ ॥

मधुक्षीराज्य वृष्ट्यादौ राष्ट्रक्षोभं समादिशेत्।
मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेव हि ॥ १५ ॥

तद्द्रव्यैस्स्नपनं कुर्याद् भूमिकम्पोक्त मार्गितः।
विशेषाच्छिवमभ्यर्च्य भूरिनैवेद्य संयुतम् ॥ १६ ॥

शैवान् संभोजयेत्पश्चात् एवं सप्ताहमाचरेत्।
लोके मृदादि वृष्टिश्चेत् क्षीरस्नपन संयुतम् ॥ १७ ॥

लिङ्गबेरद्रुमादिभ्यश्शोणितादेः समुद्भवे।
संपूज्य गन्धप्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ॥ १८ ॥

दिशाहोमं नयेत्तेषु शैवान् संभोजयेत्ततः।
परचक्राद् भयं ज्ञेयं तद्भीतेर्निवृत्तये ॥ १९ ॥

लिङ्गबेराद्रुमाद्यङ्गं शोधयेदस्त्रवारिणा।
वास्तुं संपूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ॥ २० ॥

शान्तिकर्मोक्त नक्षत्र वशादेतत् समाचरेत्।
अकस्मात्पतितं धाम मूलदामस्तकं यदि ॥ २१ ॥

नृपभङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत्।
स्नपनं च शिवे नित्यं कुर्याद्वित्तानुसारतः ॥ २२ ॥

शान्त्युक्त दिनसंख्याया वशेनैतत् समाचरेत्।
प्रासादं अनुकर्मोक्त्याद्येष्टकादियुतं नयेत् ॥ २३ ॥

त्रिपादेऽर्धे तथा पादे तदर्धे वाथ भग्नके।
कुर्याद्धाम्नोऽथ सन्धानं सप्तषत्पञ्चवेदभम् ॥ २४ ॥

प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः।
स्थूप्याद्यवयवे छिन्नेऽप्येतदेकाहमाचरेत् ॥ २५ ॥

नासिकाद्यङ्ग वैकल्ये सन्धानं सम्यगाचरेत्।
अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ॥ २६ ॥

निष्कृतिश्च पुरा प्रोक्ता ततस्तद्वत्समाचरेत्।
धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ॥ २७ ॥

अनुकर्मविधानोक्तं कुर्यात्कर्म गुरुस्तदा।
मण्टपादि निपाते च शान्तिमेकाहं आचरेत् ॥ २८ ॥

धाम स्थानान्तरं प्राप्तं यदि लिङ्गादि संयुतम्।
नृपतेरादिशेद्भङ्गं तेन वै देशिकोत्तमः ॥ २९ ॥

संपूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत्।
शैवसंभोजनोपेतां विप्रभुक्ति समन्विताम् ॥ ३० ॥

लिङ्गान्तरं प्रतिष्ठाप्य पूर्वमानसमं यथा।
बाणलिङ्गादिकं वाथ प्रासादेन समन्वितम् ॥ ३१ ॥

अथवा पूर्वलिङ्गं चेत् तत्प्रासाद समन्वितम्।
अनुकर्म विधानेन पूर्वस्थाने समं नयेत् ॥ ३२ ॥

हीनं प्रासादमानं चेत् पूर्वस्थाने समाचरेत्।
स्थानान्तरगतं लिङ्गं उदक्पूर्वत्र विन्यसेत् ॥ ३३ ॥

तत्स्थाने धाम वा कार्यं अनुकर्मोक्त वर्त्मना।
वृक्षे स्थानान्तरं प्राप्ते सस्यनाशे भविष्यति ॥ ३४ ॥

तद्वृक्षजाति संभूत समिद्भिर्मूर्तिहोमकम्।
समाचरेद् द्विसप्ताहं शैवभोजन संयुतम् ॥ ३५ ॥

तत्समीपे स्थिते लिङ्गे स्वयंभूतादिके परम्।
स्नपनं कारयेन्नित्यं प्रभूतहविषान्वितम् ॥ ३६ ॥

स्थापयेत् पूर्वदेशेऽन्यवृक्षं तज्जातिसंभवम्।
तदन्यकुसुमे जाते तदन्यफलसंभवे ॥ ३७ ॥

संवत्सरत्रयादर्वाग् वृक्षे पुष्पफलोद्भवे।
सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ॥ ३८ ॥

तन्मूले शान्तिहोमं च प्रत्यहं गुरुराचरेत्।
शिवलिङ्गे च बेरे वा पीठेएवोष्णादि संभवे ॥ ३९ ॥

सर्वे ज्वराभिभूतास्तु नश्यन्ति मनुजा ध्रुवम्।
गन्धादैर्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ॥ ४० ॥

स्नापयेत् परमेशानं पञ्चामृत समन्वितम्।
अथवा क्षीरमध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ॥ ४१ ॥

सहस्रादि चतुष्प्रान्तैराढकादि समन्वितैः।
चन्दनागरु कर्पूरोशीरकुङ्कुम संयुतम् ॥ ४२ ॥

गन्धं महत्समालभ्य पुष्पाद्यैः पुष्कलैर्यजेत्।
दिशाहोमं ततः कुर्यात् यावदौष्णं निवर्तते ॥ ४३ ॥

शीतकुम्भोऽपि कर्तव्यः शान्तिमिच्छन्नरैस्तदा।
नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः ॥ ४४ ॥

जनयन्ति स्वजात्यन्यं यदि क्षोभो भवेद्भुवि।
बहुशीर्षक हस्ताङ्घ्रि नासा देहादि संयुतः ॥ ४५ ॥

स्ववर्णेतरवर्णादि भ्रूविकारादि संयुताः।
स्पष्टवर्णायुता अश्वादयो जाता यदि द्विजाः ॥ ४६ ॥

तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम्।
शिवं संपूज्यविधिवत् दिशाहोमं समाचरेत् ॥ ४७ ॥

शैवान् संपूज्य विधिवच्छन्तिहोमं समाचरेत्।
शैवान् संभोजयेदेवं नयेद्वा सप्तपञ्चमम् ॥ ४८ ॥

निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने।
नित्यं वास्तुबलिं शान्तिहोमं क्षेत्रेश्वरेज्यया ॥ ४९ ॥

युद्धे वा पर्वातादीनां राज्ञो युद्धभयं भवेत्।
शिवं संपूज्य विधिवद् दिशाहोमं तु कारयेत् ॥ ५० ॥

स्नापयेत् परमेशानं नवसप्ताहमाचरेत्।
लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्रभयं भवेत् ॥ ५१ ॥

प्रक्षाल्यास्त्राम्बुनाभ्यर्च्य शान्तिं सप्ताहं आचरेत्।
लिङ्गे बेरे विमाने वा मण्टपे गोपुरादिषु ॥ ५२ ॥

परिवारालेये साले देवेशास्थानमण्टपे।
सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् ॥ ५३ ॥

नवप्रकारमार्गेण क्रमाच्छन्तिं समाचरेत्।
तत्र लिङ्गे च पीठे च बेरे वायं विधिर्भवेत् ॥ ५४ ॥

दिशाहोमं ततः कृत्वा महास्नपन संयुतम्।
अष्टोत्तरशतस्नानयुतं पञ्चामृतान्वितम् ॥ ५५ ॥

पञ्चगव्य समोपेतं मधुक्षीरघृतैरपि।
सहस्रादि चतुष्प्रान्तैः प्रस्थामानैर्महेश्वरम् ॥ ५६ ॥

स्नापयित्वार्चयेद्विप्रान् भोजयेच्छान्तिहोमयुक्।
एवं कृते तु सप्ताहं अन्ते चोत्सवमाचरेत् ॥ ५७ ॥

प्रासादे सर्वधा भिन्ने प्राग्वदेव मुनीश्वराः।
अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् ॥ ५८ ॥

प्रायश्चित्तं तथैव स्यान् मण्टपादौ शिवाग्रजाः।
शैवान् संभोजयेन्नित्यं शिवशास्त्र विशारदान् ॥ ५९ ॥

प्रासादे निष्कृतिः प्रोक्ता या सा नृपनिकेतने।
चैत्यवृक्षेऽथवाश्वत्थे चान्यस्मिन्देवतात्मके ॥ ६० ॥

सप्ताहशान्तिः कर्तव्या महाशनि निपातने।
प्रत्यहं शान्तिहोमं च कृत्वा तत्वृक्षपूर्वतः ॥ ६१ ॥

तत्रैव तत्समीपे वा तज्जातीयं तरुं न्यसेत्।
गृहे कूपे तटाके वा नद्यां वा शान्तिरेकमम् ॥ ६२ ॥

करिणी मदयुक्ता चेद्वाहनानां क्षयो भवेत्।
सप्ताहशान्तिः कर्तव्या शान्तिहोमं च तद्गृहे ॥ ६३ ॥

महावातप्रकोपे तु राष्ट्रक्षोभो भाविष्यति।
पञ्चाहं त्रिदिनं वैकदिनं वा शान्तिमाचरेत् ॥ ६४ ॥

धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम्।
गव्येन प्रोक्षयएत्तत्र धारयाधः खनेद्भुवम् ॥ ६५ ॥

शुद्धमृद्भिश्च पूर्याथ पञ्चमृद्भिश्च लेपयेत्।
पुण्याहप्रोक्षणं कृत्वा ब्राह्मणांस्तत्र भोजयेत् ॥ ६६ ॥

शान्तिस्तत्र विधातव्या नवभेद विभेदिनी।
लिङ्गबेरासने धूमे दृष्टे त्वेतच्च कारयेत् ॥ ६७ ॥

क्षीरप्रस्थ सहस्रैर्वा तदर्धैस्स्नापयेच्छिवम्।
तदर्धैर्वा तदर्धैर्वा शीतकुम्भस्तदन्तिके ॥ ६८ ॥

लिङ्गे बेरे च पीठादौ वर्णान्तरगते सति।
राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं यथा ॥ ६९ ॥

पिष्टमृद्बिल्वदर्भैश्च रजन्यामल वारिभिः।
शान्तिस्तत्र प्रकर्तव्या श्रेष्ठमध्यादि भेदतः ॥ ७० ॥

चन्दनोशीरकर्पूर कुङ्कुमागरु संयुतम्।
पुष्कलं गन्धमापाद्य लेपयेद्गन्धमादरात् ॥ ७१ ॥

संपूज्य गन्धपुष्पाद्यैः प्रार्थयेद्दुरितक्षयम्।
शैवान् संभोजयेन्नित्यं सामान्यान् ब्राह्मणानपि ॥ ७२ ॥

भेर्यादीनां स्वयं घोषे महामारी प्रवर्तते।
संप्रोक्षयास्त्राम्बुना भेरीप्रमुखान् गन्धपुष्पकैः ॥ ७३ ॥

अभ्यर्च्य देवदेवेशं शान्तिमिष्टां समाचरेत्।
प्रतिसूयोदये वापि प्रतिचन्द्र प्रदर्शने ॥ ७४ ॥

जायते भूपतिस्त्वन्यो यत्र राष्ट्रे भवेद्दिदम्।
नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् ॥ ७५ ॥

रात्राविन्द्रधनुर्दृष्टे परचक्राद्भयं भवेत्।
शुक्रादिकग्रहं त्यक्त्वा दिवातारक दर्शने ॥ ७६ ॥

अनावृष्टिर्ध्रुवं लोके ग्रहनक्षत्र पातने।
वाहानानां क्षयं विद्यात् तदर्थं शान्तिमाचरेत् ॥ ७७ ॥

नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः।
अग्निनक्षत्रपाते च जपेद्घोरं शतत्रयम् ॥ ७८ ॥

प्रत्यहं षड् दिनादूर्ध्वं अशनेः पतने सति।
राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ॥ ७९ ॥

सप्ताहं वाथ पञ्चाहं तत्पातदिनसंख्यकम्।
स्नपनेन समोपेतं राज्ञो दोषनिवृत्तये ॥ ८० ॥

क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि संभवे।
चन्द्रार्क मण्डले पञ्चदिनोर्ध्वं परिवेष्टिते ॥ ८१ ॥

तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते।
शान्तिं कुर्याद्विशेषेण श्रेष्ठमध्यादि भेदिनीम् ॥ ८२ ॥

वह्निदाहे दिशां जाते दुर्भिक्षं भुवि जायते।
क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् ॥ ८३ ॥

तदन्ते शान्तिहोमं च पञ्चाहं ह्यैवमाचरेत्।
लिङ्गादावर्चिते गन्धपुष्पाद्यै त्वन्यवर्णके ॥ ८४ ॥

सर्वेषामपि वर्णानां मसूरीरोगमादिशेत्।
शिवं संपूज्य विधिवद् दिशाहोमं तु कारयेत् ॥ ८५ ॥

पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्नयेत्।
अकस्माच्चैत्य वृक्षे तु पतिते बोधिसंज्ञिते ॥ ८६ ॥

समूले नृपतेर्व्याधिमादिशेन्मृतिसूचनम्।
शिवं संपूज्य विधिवच्छ्रेष्ठां शान्तिं समाचरेत् ॥ ८७ ॥

तद्दिशे शान्तिहोमं च यद्देशे पतितस्तरुः।
तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके ॥ ८८ ॥

तच्चाखाः पतितश्चेद्धि राष्ट्रक्षोभो महान्भवेत्।
शान्तिं श्रेष्ठस्य मध्यं तु दिशाहोमं तु कारयेत् ॥ ८९ ॥

तदेकशाखा पतने कलहो भुवि जायते।
शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् ॥ ९० ॥

द्विसप्ताहं नवाहं वा सप्तपञ्चाग्निभं तथा।
शान्तिं समाचरेद्वाथ पक्षेषु त्रिषु वाग्रजाः ॥ ९१ ॥

एवमेवान्य वृक्षाणां प्रधानानां समाचरेत्।
शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि ॥ ९२ ॥

मूर्तिहोमं त्रिसप्ताहं कारयेच्छैवभुक्तियुक्।
नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः ॥ ९३ ॥

उन्मत्ताश्चेत्तु सप्ताहं दिशाहोमं त्र्यहं तु वा।
कारयेत्त्रिदिनं वाथ गजाश्व मरणोद्भवे ॥ ९४ ॥

अतिवृष्टि समुत्पत्तौ भुवो दुर्भिक्षतां वदेत्।
सक्तुप्रस्थसहस्रैश्च रात्रिचूर्णैस्तथा मतैः ॥ ९५ ॥

तदर्धैर्वा तदर्धैर्वा शतप्रस्थैस्तदर्धतः।
अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः ॥ ९६ ॥

अलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम्।
षड्वेदनेत्रमात्रं तु वेष्टयेल्लिङ्गपिण्डिके ॥ ९७ ॥

बेरं वागरुकर्पूर वर्तिदीपान् अनेकशः।
मुद्गान्नं दापयेत्पश्चात् शान्तोहोमं तु कारयेत् ॥ ९८ ॥

एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा।
राज्ञः प्रधानमहिषी प्रधानाश्वो गजोऽथ वा ॥ ९९ ॥

गुरुः पुरोहितो वाथ मृतश्चेन्नृपतेर्भयम्।
संपूज्य देवदेवेशं सप्ताहं शान्तिमाचरेत् ॥ १०० ॥

पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत्।
मृत्युजिन्मनुना साष्टसहस्रालब्धकेन तु ॥ १०१ ॥

तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन्।
शेषोदं स्नानपानार्थं दद्यादायुष्य सिद्धये ॥ १०२ ॥

प्रत्यहं होमरक्षां च देवदेवप्रसादजम्।
भस्मापि नेयमाचार्यैश्शैवसिद्धान्त पारगैः ॥ १०३ ॥

सप्ताहाभ्यन्तरे तांश्च वरयेन्मतिमान्नृपः।
गुरुं पुरोहितं वाथ महिषीं गजमेव च ॥ १०४ ॥

वाजिनं वा तदप्येवं राजराजाङ्गमाहरेत्।
प्रासादे मण्टपादौ वा प्राकारे गोपुरेऽथवा ॥ १०५ ॥

परिवारालयोर्ध्वे वा नृपस्य भवनोपरि।
गृहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् ॥ १०६ ॥

मार्जार प्रमुखानां वा रोदनं यदि जायते।
स्थानभ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये ॥ १०७ ॥

तं हृत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः।
शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च ॥ १०८ ॥

शान्तिहोमोऽथवा घोरजपो मार्जार रोदने।
शिवारोहे विशेषेण शान्तिमेकाहमाचरेत् ॥ १०९ ॥

अश्वालयेऽग्नौ संजाते सप्ताहं शान्तिमाचरेत्।
लिङ्गे बेरे च पीठादौ खद्योतारोहणे सति ॥ ११० ॥

राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेऽथवा।
तेषां रोगं विजानीयद् देवे चेद्राजदोषदम् ॥ १११ ॥

तं हत्वा तांश्च संस्नाप्य शान्तिहोमं समाचरेत्।
स्नपनं च शिवे कुर्यादेकाहं त्रिदिनं तु वा ॥ ११२ ॥

नृपतेश्च मनुष्याणां देहे घोरं जपेत्तु वा।
लिङ्गमूले च पीठे वा बेरे वा गर्भगेहके ॥ ११३ ॥

परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः।
प्रचुराश्चेद् भुवःक्षोभो भवेत्तद्दोषशान्तये ॥ ११४ ॥

तत्स्थानं शोधयित्वाष्टबन्धाद्यैर्बन्धयेद् दृढम्।
पुण्याहं वाचयित्वान्ते शान्तिं युक्त्या समाचरेत् ॥ ११५ ॥

कवाटोद्घाटने वाथ पिधाने स्वयमेव च।
संजाते राष्ट्रविक्षोभश्शान्तिं सप्ताहमाचरेत् ॥ ११६ ॥

चरन्ति केतवो व्योम्नि नानारूपाः समन्ततः।
सूर्ये वास्तङ्गते तस्मिन्नुदयात्पूर्वमेव वा ॥ ११७ ॥

दृश्यन्ते श्वेतरक्तादिवर्णा नक्षत्रसन्निभाः।
दीर्घपुच्चा यदा विद्याद्राष्ट्रक्षोभं महत्तरम् ॥ ११८ ॥

शान्तिं कुर्यात्तदा श्रेष्ठमध्यमाधम मार्गतः ॥ ११९ ॥

Uttarapāda – Kapitel 33: Die Wiederherstellungsarbeiten

अनुकर्मविधिं वक्ष्ये सर्वेषां च सनतनम्।
प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग्भ्रमे ॥ १ ॥

हीने जात्यादि संस्थाने मानोन्मानादि हीनके।
तत्तद्द्रव्यैः अथोत्कृष्टैः मानयुक्तं तथा नयेत् ॥ २ ॥

मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववन् नयेत्।
मानयुक्तमधिष्ठानाद्यङ्गं यद्विपरीतजम् ॥ ३ ॥

तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते।
स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ॥ ४ ॥

शास्त्रोक्तं वाथ तन्नेयं तत्र दोषो न विद्यते।
अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ॥ ५ ॥

मानयेन्मानवे धाम्नि कूटपञ्जरकोष्ठकाः।
अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ॥ ६ ॥

नागरे नागरं कुर्याद्वेसरे वेसरं मतम्।
द्राविडे च तथा कार्यं वराटादौ तथा मतम् ॥ ७ ॥

घनेऽघने विमाने तु तथा भवनमिष्यते।
भवनं जीर्णमन्यस्मिन् कुर्वन्दुक्षु च कारयेत् ॥ ८ ॥

पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषु बुद्धिमान्।
द्वारं पूर्ववदिष्टं स्यात् पश्चिमद्वारमेव वा ॥ ९ ॥

नष्टे संस्थापयेद्गर्भं तथा चाद्येष्टकामपि।
नासिकाद्यङ्गहीने तु पुनस्तद्वत् समाचरेत् ॥ १० ॥

अप्रमाणेऽन्यथा चेद्धि सप्रमाणं यथा नयेत्।
सुस्थितं दुस्थितं वापि शिवलिङ्गं न चालयेत् ॥ ११ ॥

जीर्णादि दोष संयुक्तं पूजायुक्तं तु सुस्थितम्।
जीर्णादि दोषरहितं पूजाहीनं तु दुःस्थितम् ॥ १२ ॥

जीर्णोद्धारे कृते कर्तुर्मौलिकं फलमिष्यते।
जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ॥ १३ ॥

तस्मात्समुद्धरेज्जीर्णं यथाशास्त्रं सुखाय च।
जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ॥ १४ ॥

भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते।
लक्ष्मोज्झितं वज्रहस्तं संपुटं स्फुटितं तथा ॥ १५ ॥

आभिचारकं गर्भाढ्यं व्यङ्गाङ्गं चेति कीर्तितम्।
त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ॥ १६ ॥

जीर्णद्यैस्संयुतं त्याज्यं पीठं वा कशिला वृषः।
अत्युच्चनिम्नदिङ्मूढमध्यस्थं विषमस्थितम् ॥ १७ ॥

चलितं चालितं लिङ्गं पतितं पातितं तथा।
अज्ञेन स्थापितं लिङ्गं तथा मन्त्रक्रियेतरम् ॥ १८ ॥

परित्यक्तशिलायोगमपि न स्थापितं भवेत्।
तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ॥ १९ ॥

असुरैर्मुनिभिएदेवैः तत्त्वविद्भिः प्रतिष्ठितम्।
जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ॥ २० ॥

नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत्।
ह्रियमाणं जलेनापि हृतं तेन च यद्भवेत् ॥ २१ ॥

न विरोधोऽस्ति लिङ्गस्य लक्षार्ध जपतश्शुचिः।
स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ॥ २२ ॥

शतदण्डान्तरे स्थाप्यं जलबाधा समन्वितम्।
सहस्र कार्मुखान्तं वा स्थापयेल्लिङ्गमादरात् ॥ २३ ॥

बेरेऽप्येतत्समानं स्याद् दुष्टे त्वन्यत्प्रयोजयेत्।
बेरे शिलामये मार्दे पक्वे वार्क्षोऽथ रत्नजे ॥ २४ ॥

पक्ष्मभ्रूवास्यरेखादि हीने तु परिवर्जयेत्।
अङ्गहीने तु तत्त्याज्यं इत्यत्र न विचारणा ॥ २५ ॥

लोहजे मृण्मये बेरे हस्तनास्यङ्ग भूषणैः।
कर्णदन्तादिभिर्हीने ततद्द्रव्यैर्दृढं नयेत् ॥ २६ ॥

उत्तमाङ्ग विहीने तु तयक्त्वान्यद्योजयेन्नवम्।
पद्बाहुहीने त्याज्यं वा सन्धानं वा समाचरेत् ॥ २७ ॥

उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधा स्मृतम्।
अङ्गं प्रधान शूलं स्याद् ब्रह्मदण्डस्तु कथ्यते ॥ २८ ॥

वक्षोदण्डः कटिस्थश्च बाहुकूर्पर कोष्ठगाः।
ऊरुस्थे जानुजङ्घे च उपाङ्गान्युदितानि च ॥ २९ ॥

शेषं दण्डाद्विजानीयात् प्रत्यङ्गं इति बुद्धिमान्।
ब्रह्मदण्ड विहीने तु शूलस्थापनमारभेत् ॥ ३० ॥

प्रत्यङ्गोपाङ्गहीने तु पुनस्सन्धानमाचरेत्।
पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ॥ ३१ ॥

तमेव स्थापयेत्तत्र पुनरापादनं विना।
भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ॥ ३२ ॥

शैलं वा मृण्मयं पक्वमगाधेऽम्भसि निक्षिपेत्।
रत्नजं ज परित्याज्यं ग्राह्यं वा घटनाय च ॥ ३३ ॥

वार्क्षं शिवाग्नौ निक्षिप्य भूमौ वा निखनेज्जले।
लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ॥ ३४ ॥

तत्प्रपां पीठिकां वापि तत्र वान्यत्र योजयेत्।
अप्रतिष्ठित देअवश्चेत् तत्पीठादौ नियोजयेत् ॥ ३५ ॥

तस्योपकरणार्थं वा योज्यं देवान्तरेऽपि वा।
सलक्षणा तु पीठी चेत् तद्वद्ब्रह्मशिला वृषः ॥ ३६ ॥

ते सर्वत्र प्रयोज्यास्स्युस्त्याज्या वा मुनिपुङ्गवाः।
शैलपीठस्य चोद्धारं कृत्वा शैलं तु योजयेत् ॥ ३७ ॥

अलाभे चेष्टकाभिश्च तथा पीठं सुयोजयेत्।
पश्चाच्छैलं समायोज्यं आकृतिः पूर्ववद्भवेत् ॥ ३८ ॥

चतुरश्रे तु वृत्तं वा न वृत्ते चतुरश्रकम्।
मण्टपे परिवारे च परिवारालयेऽप्यथ ॥ ३९ ॥

अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः।
अन्तर्मण्डलसालाद्यं पूर्ववत् परिकल्पयेत् ॥ ४० ॥

ततो वृद्धिक्षयौ वास्तोर्नृपतेर्विपदाकरौ।
सप्रमाणे यथा शास्त्रं विहितालङ्कृतान्विते ॥ ४१ ॥

अप्रमाणोऽन्यथा चेत्तु तत्र दोषो न विद्यते।
प्रशस्ता प्रागुदग्वृद्धिः प्रतीच्यां रिपुभिः क्षयः ॥ ४२ ॥

दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्न चेष्यते।
तद्वास्तु परितो वृद्धिः समा वा विषमापि वा ॥ ४३ ॥

गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत्।
ग्रामादीनां गृहादीनां शालानां च विशेषतः ॥ ४४ ॥

आरम्भव्यासदीर्घाभ्यां हीनं नेष्टं मुनीश्वराः।
समं वा योजयेत्तस्मादधिकं वापि योजयेत् ॥ ४५ ॥

युक्तितः परितो वापि प्रागुदग्दिशि वर्धयेत्।
गृहमालिकयोर्भूमिं संख्येया परिकल्पयेत् ॥ ४६ ॥

सर्वथा नोचितं हीनं कुर्यादुक्तक्रमेण तु।
उक्तानामपि सर्वेषां विशेषः कश्चिदिष्यते ॥ ४७ ॥

हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत्।
जीर्णे पिधाने धामाद्यां आसनस्थादिभिस्समम् ॥ ४८ ॥

किं तु खड्गमये मन्त्रान्विन्यस्यापरमाहरेत्।
लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ॥ ४९ ॥

स्थापयेदपरं यद्वा विसर्जन पुरस्सरम्।
यद्रूपं यत्प्रमाणं च यन्मयं यदनुधृतम् ॥ ५० ॥

Uttarapāda – Kapitel 34: Die erneute Besprengung

संप्रोक्षण विधिं वक्ष्ये सर्वदोष निकृन्तनम्।
आवर्तं चेत्यनावर्तं पुनरावर्तनं तथा ॥ १ ॥

ततोऽन्तरिकं चेति प्रोक्षणं तु चतुर्विधम्।
मूलबालगृहान्मूलस्थाने यत् स्थापनं मतम् ॥ २ ॥

तदावर्तमिति प्रोक्तं अनावर्तं ततो भवेत्।
पतितैः पातकैः स्पृष्टे चण्डालरन्त्यजैस्तथा ॥ ३ ॥

मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि।
लिङ्गे पीठे च चलिते त्वनावर्तमिति स्मृतम् ॥ ४ ॥

मूलालयात्समादाय स्थाप्य बालालये पुनः।
तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ॥ ५ ॥

प्रतिमानां च मिश्राणां शक्तीनां आयुधादिभिः।
स्फोटने वर्णहीने च अङ्गोपाङ्ग विहीनके ॥ ६ ॥

चर्मच्छेदेऽस्त्रहीने च भूषणादि विहीनके।
अम्बुजासन हीने च स्थलकर्म विहीनके ॥ ७ ॥

विश्लिष्टे पीठबन्धे तु तदन्तरितमुच्यते।
यात्राहोमयुगावर्तं अन्ये स्युस्तद्विहीनकाः ॥ ८ ॥

आवर्ते तु द्विजास्सर्वान् मासपक्षर्क्षकादिकान्।
लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ॥ ९ ॥

न तीर्थेर्न च नक्षत्रं न वाराद्यंशकादिकाः।
कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ॥ १० ॥

आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम्।
लक्षणोद्धारणं तोयाधिवासः शयनं तथा ॥ ११ ॥

अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह।
सर्वमावर्तवत्कुर्यात् किं तु मूलद्वयान्वितम् ॥ १२ ॥

ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम्।
रत्नन्यासाक्षिमोक्षौ च जले चैवाधिवासनम् ॥ १३ ॥

शय्याधिवासनं विप्रा विना वै बेरकर्मणि।
नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ॥ १४ ॥

प्रागुक्त विधिना कुम्भन्यासं होमं च कारयेत्।
स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ॥ १५ ॥

एवं यः कारयेन्मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ १६ ॥

Uttarapāda – Kapitel 35: Die Herausnahme eines Kultbildes

सर्वेषामपि चैतेषां उद्धार विधिरुच्यते।
तदग्रे मण्टपं कुर्याद्दक्षे वैशानकोणके ॥ १ ॥

पूर्वद्वार समोपेतं एकतोरण संयुतम्।
सर्वालङ्कारसंयुक्तं दर्भमालादि संयुतम् ॥ २ ॥

तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम्।
मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादिकल्पिते ॥ ३ ॥

समिदाज्यतिलोपेतं हविषा च समन्वितम्।
वास्त्वन्तर्दिग्बलिं कृत्वा समाचम्य गुरूत्तमः ॥ ४ ॥

सकलीकरणं कृत्वा भोजयेच्छिवलिङ्गिनः।
ततो विज्ञापयेद्देवं प्रभो दोषावहं त्विदम् ॥ ५ ॥

अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः।
अस्योद्धाराय मां तस्मादधितिष्ठस् सदाशिवह् ॥ ६ ॥

एवं कर्म किलोक्त्वेशं शान्तिहोमं समाचरेत्।
क्षीराज्यमधुदूर्वाभिश्शिवेनाष्टसहस्रकम् ॥ ७ ॥

दत्वा तदन्तिकं मन्त्री हृदा स्नाप्य प्रपूजयेत्।
व्यापकेश्वर शब्दं तु चतुर्थ्यन्तं प्रयोजयेत् ॥ ८ ॥

प्रणवादि नमोऽन्तं तु मूलमन्त्रोऽयमीरितः।
व्यापकेश्वर शब्दं तु हृदयादिपदं ततः ॥ ९ ॥

चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम्।
नमस्कारान्तसंयुक्तं हृदयाद्यङ्ग पञ्चकम् ॥ १० ॥

न बीजं योजयेत्तैस्तु लिङ्गं च प्रणवासने।
स्थण्डिलस्थं यजेन्मन्त्री गन्धपुष्पस्रगादिभिः ॥ ११ ॥

ततस्तदाश्रितं सत्त्वं श्रावयेदस्त्रमुच्चरन्।
सत्त्वः कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति ॥ १२ ॥

लिङ्गं त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु।
विद्याविद्येश्वरैर्युक्तः शम्भुरत्र भविष्यति ॥ १३ ॥

एवमुक्त्वा महास्त्रेण दत्वार्घ्यं तु पराङ्मुखम्।
तस्माद्देवं समावाह्य कुम्भे संस्थापयेद्गुरुः ॥ १४ ॥

अग्रे स्थण्डिल संयुक्ते स्वर्णवस्त्रसमन्विते।
सकूर्चे सापिधाने च ससूत्रे पल्लवान्विते ॥ १५ ॥

तथाविधायां वर्धन्यां अम्बिकां स्थापयेद्गुरुः।
संपूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तं निधापयेत् ॥ १६ ॥

प्रत्यहं चार्चनं कार्यं शान्तिहोम समन्वितम्।
ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् ॥ १७ ॥

हुत्वा शान्त्यम्भसा प्रोक्ष्य कुशैः स्पृष्ट्वा जपेद्गुरुः।
विलोमार्घ्यं ततो दत्वा विसृजेत्तत्त्वतत्त्वपान् ॥ १८ ॥

तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान्।
सुवर्णान्तरया रज्ज्वा वृषभेण प्रचालयेत् ॥ १९ ॥

शिवमस्तु गृणन् लोकैः प्रक्षिपेत्तु जले गुरुः।
भूयः पुष्ट्यर्थकं हुत्वा दिग्पतीनां प्रतर्पणम् ॥ २० ॥

प्रासादवास्तुशुद्ध्यर्थं होतव्यं तु शतं शतम्।
महापाशुपतास्त्रेण प्रासादं तत्र रक्षयेत् ॥ २१ ॥

तन्मानमपरं चात्र स्थापयेद्देशिकोत्तमः।
स्वयमुद्भूतलिङ्गानां दैविके वार्षिकेऽपि वा ॥ २२ ॥

गाणपे लोहजे चैव नदीप्रस्रवणादिषु।
एवमादिष्टलिङ्गेषु नैव कार्या घटस्थितिः ॥ २३ ॥

मानुषाणां च लिङ्गानां घटकार्यं तदुच्यते।
सप्ताहान्तं च पक्षान्तं मासान्तं चेद्घटस्थितिः ॥ २४ ॥

तदूर्ध्वं कुम्भसंस्थश्चेद् देवेशस्सर्वदोषकृत्।
तस्मात्सर्वप्रयत्नेन मासान्ते वाथ पूर्वके ॥ २५ ॥

संस्थाप्य बाललिङ्गाद्यं तन्मध्ये विन्यसेन्मनुम्।
मासादि द्वादशाब्दान्तं तदन्तर दिनेष्वथ ॥ २६ ॥

तस्मादादाय देवेशं मूललिङ्गे निवेशयेत्।
मूललिङ्गं न लब्धं चेद्देशकालानुरोधतः ॥ २७ ॥

षट्त्रिंशदब्दपर्यन्ते मूललिङ्गे निवेशयेत्।
बाललिङ्गप्रतिष्ठोक्त दिनपक्षादि होमकम् ॥ २८ ॥

द्विगुणं त्रिगुणं तस्य चतुर्विंशतिवत्सरे।
कृतं चेद् द्विगुणं होमं आचरेद् देशिकोत्तमः ॥ २९ ॥

षट्त्रिंशद्वत्सरोर्ध्वं तु मूलस्थानं तदेव हि।
तत्रस्थं बाललिङ्गाद्यं त्यक्त्वा मूलं तु विन्यसेत् ॥ ३० ॥

सकलेऽप्येवमेवं स्याद्विशेषः कश्चिदिष्यते।
द्वादशाब्दान्तरे ऽवश्यं मूलस्थाने निवेशयेत् ॥ ३१ ॥

नो चेत्तत्त्रैव संस्थाप्य मूलबेरं विशेषतः।
एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः ॥ ३२ ॥

किं तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत्।
परिवारामरानेवं घटस्थान् स्थापयेद्गुरुः ॥ ३३ ॥

शिवलिङ्गादि यद्वस्तु यदज्ञेन प्रतिष्ठितम्।
दैवज्ञैः शिल्पिनान्यैर्वा शिवदीक्षा विवर्जितैः ॥ ३४ ॥

भूयोऽपि तत्र संस्कारं कुर्यात्पूर्वोक्तवद्गुरुः।
शैवसिद्धान्त मार्गस्थादन्ये पाशुपतादयः ॥ ३५ ॥

तैरपि स्थापितं लिङ्गं पुनस्संस्कृत्य पूजयेत्।
आदौ पाशुपताः प्रोक्ताः सोमसिद्धान्तकाः परे ॥ ३६ ॥

लाकुलास्त्वपरे ज्ञेयाः प्रत्येकं त्रिविधाः स्मृताः।
वामदक्षिणसिद्धान्त भेदेन नवभेदिनः ॥ ३७ ॥

शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्र व्यवस्थिताः।
गारुडा भैरवा वाम भूततन्त्र व्यवस्थिताः ॥ ३८ ॥

प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः।
तैरपि स्थापितं लिङ्गं आदिशैवस्समर्चयेत् ॥ ३९ ॥

यामलं त्वपरं ज्ञेयं तच्च मिश्रमिहोच्यते।
वामदक्षिणसिद्धान्त भेदेन त्रिविधं मतम् ॥ ४० ॥

वामं पारशिवार्हं स्याद्दक्षिणं भैरवार्हकम्।
सिद्धान्तं यामलं शैवं आदिशैवार्हकं विदुः ॥ ४१ ॥

व्यतितिरिक्तं तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम्।
वामदक्षिणमिश्रादि भेदेन बहुभेदिनम् ॥ ४२ ॥

लौकिकं वैदिकं चान्यदध्यात्ममतिमार्गकम्।
तथा पाशुपतं सोम सिद्धान्ताख्यं च लाकुलम् ॥ ४३ ॥

गारुडं भैरवं वामं भूततन्त्रं च यामलम्।
कापालं पाञ्चरात्रं च बौद्धमार्हमतं तथा ॥ ४४ ॥

बृहस्पतिमतं सांख्यं योगं वैखानसं तथा।
वेदान्ताख्यं च मीमांसा पुराणं धर्मशास्त्रकम् ॥ ४५ ॥

वास्तुशास्त्रं तथा सौत्रं षडङ्गं इतिहासकम्।
तथा वेदाश्च चत्वारो यत्तत्र परिचोदितम् ॥ ४६ ॥

सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यं इष्यते।
रौद्रैश्च स्थापितं यच्च विष्ण्वादि प्रतिमादिकम् ॥ ४७ ॥

तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत्।
लिङ्गाद्यं आदिशैवेन स्थापितं पूजितं तु वा ॥ ४८ ॥

तद्रूपं पूजितं तैश्चेद्राष्ट्रं राजानं एव च।
तद्ग्रामं ग्रामसंस्थांश्च सर्वान् हन्ति न संशयः ॥ ४९ ॥

तैस्तु संस्थापितं पूर्वं आदिशैवेन पूजितम्।
यदि तैः पूजितं पश्चात् सेनानीं सेनया सह ॥ ५० ॥

अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च।
शूद्रान्तरजनान् सर्वान् अचिरान्नाशयिष्यति ॥ ५१ ॥

तस्माद्राराजा प्रयत्नेन वारयेदचिरेण तान्।
तैस्तु संस्थापितं पश्चादादिशैवेन पूजितम् ॥ ५२ ॥

राज्ञो विजयदं चायुर्वृद्धिदं फलदं सदा।
शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदा मताः ॥ ५३ ॥

आभिचारक लिङ्गाद्यं रौद्रैश्च स्थापितं च यत्।
तन्मन्त्रोद्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः ॥ ५४ ॥

तत्स्थानं संप्रविश्याथ मृद्भाण्डांश्च विवर्जयेत्।
शैलं लोहं च दारूत्थं संशोध्य पुनः पुनः ॥ ५५ ॥

कुड्याद्यं सुधयालिप्य स्थलं गोमयवारिणा।
पुण्याहं वाचयित्वा तु वास्तुहोमं च कारयेत् ॥ ५६ ॥

पर्यग्निकरणं कृत्वा पुनः पुण्याहमाचरेत्।
अस्त्रतोयेन संप्रोक्ष्य पञ्चगव्येन शोधयेत् ॥ ५७ ॥

कर्षणादि प्रतिष्ठान्तं क्रियायां ये निवेशिताः।
मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च ॥ ५८ ॥

महाजाल प्रयोगेण सर्वमन्त्रांश्च संहरेत्।
ओं हूं हां हं पुनर्हां हूं जालमुद्रा च संहृतिः ॥ ५९ ॥

तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा।
कषायोदक संयुक्तं गोमूत्रेणोदकान्तरम् ॥ ६० ॥

पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत्।
लिङ्गस्थ शम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ॥ ६१ ॥

अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः।
जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ॥ ६२ ॥

एकीभूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान्।
स्मरन् समुद्धरेद्दीपं तल्लिङ्गाणुभिरन्वितम् ॥ ६३ ॥

पूर्वमन्त्रेण संहृत्य मुद्रया संहरेद्गुरुः।
पुनः संशोध्य तल्लिङ्गं पूर्वद्रव्यैश्शरेण च ॥ ६४ ॥

कर्षणादि प्रतिष्ठान्तं आचरेन्मानसीं क्रियाम्।
स्वस्वमन्त्र समोपेतां स्वस्वहोम समन्विताम् ॥ ६५ ॥

लिङ्गसंस्थापनोक्तेन प्रतिष्ठामाचरेद्गुरुः।
लक्षणोद्धारणं नेष्टं जले चैवाधिवासनम् ॥ ६६ ॥

शयन स्थापनं चैव हित्वान्यत्सर्वमाचरेत्।
गर्भगेहेऽथ तत्सर्वं मण्टपे वा समाचरेत् ॥ ६७ ॥

देवाग्रे तत्र कुण्डे वा स्थण्डिले वाथ होमयेत्।
स्वयंभु दैविके बाणे चार्षे गाणाधिपे तथा ॥ ६८ ॥

छिन्ने वा स्पुटिते भिन्ने तत्र शान्तिर्विधीयते।
दिशाहोमं ततः कुर्याद् ऋगाद्यध्ययनं तथा ॥ ६९ ॥

अष्टोत्तरशत प्रस्थैः कुर्यात् क्षीराभिषेचनम्।
शान्तिहोमं ततः कृत्वा स्नपनं कारयेत् ततः ॥ ७० ॥

ब्राह्मणान् भोजयेत् पश्चाच्छैवान् संभोजयेत्ततः।
प्रभूतहविषं दत्वा ताम्बूलं दापयेत् ततः ॥ ७१ ॥

मध्यरात्रे बलिं दद्याद् ग्रामे वा नगरेऽथ वा।
मुद्गान्नं पायसं गौलं कदलीफल संयुतम् ॥ ७२ ॥

सप्ताहं एवं कर्तव्यं सर्वदोषापनुत्तये।
आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ॥ ७३ ॥

तदन्ते स्नपनं कुर्यात् प्रभूतं तु हविर्ददेत्।
सर्वैरङ्गैर्विशीर्णं चेत् पुनस्संस्थापयेन्नवम् ॥ ७४ ॥

लिङ्गे स्वायम्भुवादौ तु जीर्णादौ शान्तिरीरिता।
सर्वलक्षण संयुक्तं अल्पदोषं तु वा भवेत् ॥ ७५ ॥

प्रासादस्य तु विस्तारे रसमात्रान्न दुष्यते।
उत्सेधे रविमात्रान्तं क्षन्तव्यं चाङ्गुलादिकम् ॥ ७६ ॥

द्विमात्रं तु स्थले प्रोक्तं स्तम्भाद्यङ्गेषु मात्रकम्।
ग्रामखेट पुरादौ तु दण्डान्तं परिकीर्तितम् ॥ ७७ ॥

सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके।
चतुर्यवान्तं अर्चासु मात्रान्तं पीठकल्पने ॥ ७८ ॥

द्वाराद्यङ्गेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके।
तदप्यकार्यं लिङ्गाग्रे क्षन्तव्यं मानमीरितम् ॥ ७९ ॥

Uttarapāda – Kapitel 36: Riten für besondere Anliegen

काम्ययोग विधानं तु प्रवक्ष्यामि समासतः।
काम्यसिद्धिश्च मन्त्रैस्स्यान् मन्त्राश्च बहवो मताः ॥ १ ॥

सर्वे मन्त्रास्समर्थास्स्युः सर्वे चेष्टफलप्रदाः।
तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् ॥ २ ॥

व्याळबद्ध जटाजूटः कपालदलमण्डितः।
सुरपिङ्गेक्षणोऽत्यन्तं श्वेतदंष्ट्रा समन्वितः ॥ ३ ॥

चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान्।
महाकायो महादंष्ट्री किङ्किणीरवसंयुतः ॥ ४ ॥

महाशूलाग्र संप्रोत महासुरविनाशनः।
खड्गखेटधनुर्बाण मुण्डकः कालशक्तिधृत् ॥ ५ ॥

वराभय कपालाहि पाशप्रासगदाकरः।
दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ॥ ६ ॥

स्वसेना रक्षको नित्यं परसेनाभयङ्करः।
वैरिप्रयुक्त कर्मघ्नस्सर्वव्याधि निवारकः ॥ ७ ॥

सर्वदोष विनाशे तु समर्थो भक्तवत्सलः।
असिताङ्गादिभिर्नित्यं आवृतो वा निराकृतः ॥ ८ ॥

असिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः।
कपाली भीषणश्चैव संहारश्चाष्टमस्स्वृतः ॥ ९ ॥

चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः।
त्रिशूलमुण्ड संयुक्ताः हृदयाञ्जलि संयुताः ॥ १० ॥

सुदंष्ट्रा भीमवक्त्राश्च स्वामिचेष्टा समन्विताः।
ओं जुंस इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ॥ ११ ॥

एष एवामृतेशस्स्यादादौ कूटयुतो न वा।
रसादिशुक्लपर्यन्त धातुसप्ताक्षरान्वितम् ॥ १२ ॥

हकारेण शरीरं तु रसमित्यादितः पठेत्।
अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ॥ १३ ॥

आदौ स्याद्देवदेवेशेति द्विपदां च समुद्धरेत्।
प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ॥ १४ ॥

पीठं जुङ्कार कॢप्तं स्यान् मूर्तिरों जुंसतो भवेत्।
मध्ये निवेशयेत् कूटं प्रासादं वा नवात्मकम् ॥ १५ ॥

कण्ठोष्ठ्यं वा हकाराद्यं ब्रह्माण्यङ्गानि कल्पयेत्।
अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ॥ १६ ॥

सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः।
चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ॥ १७ ॥

व्याघ्रचर्म परीधानो नागेन्द्रोरोविभूषणः।
त्रिशूलं चाभयं चोर्ध्वे सुधाकलशमध्ययोः ॥ १८ ॥

दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम्।
कपालं कुण्डिकां वामे योगमुद्रां करद्वये ॥ १९ ॥

अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे।
न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ॥ २० ॥

भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम्।
तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ॥ २१ ॥

अमृतेशेन देवेन जलं संग्राह्य यत्नतः।
शतजप्तं पिबेत्तोयं अमृतीभवति ध्रुवम् ॥ २२ ॥

क्षीरेणसह संपृक्त दूर्वाकाण्डमखण्डितम्।
ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन् न मृत्युभाक् ॥ २३ ॥

देवं तूपासते यस्तु नित्यं मृत्युञ्जयात्मकम्।
नाचिरेणैवकालेन मृत्युस्तस्य भविष्यति ॥ २४ ॥

मासाद्वर्ष शतं प्रोक्तं द्विमासाद् द्विशतं भवेत्।
प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ॥ २५ ॥

कालः प्रदक्षिणं कृत्वा स्तुत्वा संपूज्य साधकम्।
गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ॥ २६ ॥

स पुनाति दृशा वाचा चरणेन करेण च।
नदीजनपदोद्यान पुरादीनि न संशयः ॥ २७ ॥

किं पुनः प्राणीनं भीतं स्वात्मानं स्वाश्रयं च वा।
अघोरास्त्रं अतो वक्ष्ये बीजमालात्मकं द्विजाः ॥ २८ ॥

रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम्।
भुजाष्टक समोपेतं ऊर्ध्वकेशं सुदंष्ट्रिणम् ॥ २९ ॥

स्पष्टदष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम्।
किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ॥ ३० ॥

सप्तायुध समायुक्तं सर्वाभरण भूषितम्।
शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ॥ ३१ ॥

धूतवृश्चिक संयुक्तं कण्ठाभरण भूषितम्।
मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ॥ ३२ ॥

पादयोर्हस्तयोर्नागैश्चतुर्दशभिरुज्ज्वलम्।
पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ॥ ३३ ॥

शूलमूलं च वेतालं खड्गं डमरुकं शुभम्।
दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ॥ ३४ ॥

घण्टां खेटं कपालं च शत्रु संक्षयसंमुखम्।
अग्रस्थ वामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ॥ ३५ ॥

अन्यथाऽप्युच्यते ध्यानं यथावच्छृणुत द्विजाः।
ध्यायेत्सूर्य सहस्राभं अघोरास्त्रं अरिन्दमम् ॥ ३६ ॥

प्रदीप्त दशनप्रान्तं प्रकाश मुखकन्धरम्।
त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ॥ ३७ ॥

सर्पोपवीतं शूलासि शक्तिमुद्गर धारिणम्।
चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ॥ ३८ ॥

नृत्यमानं महाकायं नागाभरण भूषितम्।
देवदानव दैत्यानां दर्पितानां विमर्दकम् ॥ ३९ ॥

प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम्।
घोरघोरतरेत्येतत् तच्छिरस्संप्रकीर्तितम् ॥ ४० ॥

ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः।
चटप्रचट शब्दं तु वीप्सितं कवचं भवेत् ॥ ४१ ॥

ततः कहकहेत्युक्त्वा वम मन्दयेति स्मरेत्।
घोरयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ॥ ४२ ॥

प्रान्ते स्याद् हुंफडित्येवं चतुर्थ्यन्तं हृदादिकम्।
नमस्कारादि संयुक्तं आदौ प्रणव संयुतम् ॥ ४३ ॥

परचक्र प्रमथने महाव्याधि प्रकोपने।
शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्तयेत् ॥ ४४ ॥

किमनेन बहूक्तेन भयकालेऽप्युपस्थिते।
मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ॥ ४५ ॥

परैर्यदभिचारादि कर्म मन्त्रौषधादिकम्।
यन्त्राणि योगयुक्तानि पावके शलभा यथा ॥ ४६ ॥

तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम्।
अनेनैव प्रकारेण ध्यात्वा संपूजयेद्गुरुः ॥ ४७ ॥

अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत्।
दक्षिणेऽघोरदेवस्यं मध्ये देवं सदाशिवम् ॥ ४८ ॥

विशेषाद्दक्षिणे वक्त्रे ऽघोरदेवं समर्चयेत्।
चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ॥ ४९ ॥

अघोरपूर्वकं पाशुपतास्त्रं क्षुरिकास्त्रकम्।
एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ॥ ५० ॥

हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम्।
संग्राम विजयं वाथ क्षुरिकास्थान मध्यमे ॥ ५१ ॥

एवमभ्यर्चयेद्योऽसौ सोऽयं मत्सदृशो मतः।
तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ॥ ५२ ॥

सत्यमेतत् समुद्दिष्टं गोपनीयं प्रयत्नतः।
पालनीयो विशेषेण साधकाधिपतिस्सदा ॥ ५३ ॥

दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्र निगद्यते।
वाक् सिद्धिस्तेनमन्त्रेण जयोत्पादे च शस्यते ॥ ५४ ॥

फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि।
ओं नमो भगवच्छब्दं संबुद्ध्यन्तं नियोजयेत् ॥ ५५ ॥

दक्षिणामूर्तिशब्दं च तथैव नियोजयेत्।
मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ॥ ५६ ॥

स्वरेषु हृदयादीनां उद्धारः परिकीर्तितः।
नमस्स्वाह वषट् हुं च फडित्यन्ते नियोजयेत् ॥ ५७ ॥

शुद्धस्फटिक संकाशं प्रसन्न वदनान्वितम्।
गङ्गाचन्द्र समोपेतं कुण्डलीकृत मूर्धजम् ॥ ५८ ॥

व्याघ्रचर्म परीधानं चतुर्बाहु समन्वितम्।
शुद्धस्फटिक मालां च ज्ञानमुद्रां च दक्षिणे ॥ ५९ ॥

वामे पद्मं च वह्निं च वरदाभयदं तु वा।
पुस्तकेन युतं वाथ दधानं नयनत्रयम् ॥ ६० ॥

महावृषभ संयुक्तं ऋषिसङ्घैस्समावृतम्।
ध्यात्वैवं देवदेवेशं सर्वकार्याणि साधयेत् ॥ ६१ ॥

यान्तारूढं हकारं च षष्ठस्वर समन्वितम्।
चतुर्दशस्वरोपेतं बिन्दुनाद विभूषितम् ॥ ६२ ॥

अथवान्यप्रकारेण भैरवं विकृताननम्।
ऊर्ध्वरेफ समायुक्तं भैरवं बीजमुत्तमम् ॥ ६३ ॥

संग्रामविजयो नाम्ना मन्त्रोऽयं परिकीर्तितः।
अस्य मन्त्रप्रभावेण त्रैलोक्यविजयी भवेत् ॥ ६४ ॥

यत् किञ्चित् क्रियते कर्म त्रैलोक्ये येन केनचित्।
रहितो मन्त्रराजेन नैव सिद्ध्यति साधकः ॥ ६५ ॥

आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं पद्महस्तं
वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम्।
कायार्धारूढकान्तं शिवमभयवरं साक्षमाला कपालं
भूत्यै पाशाङ्कुशाभ्यां ग्रहगण नमितं नौमि खड्वाङ्गहस्तम् ॥ ६६ ॥

ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत्।
विस्तारादिचतुश्शक्तीश्चतुर्वक्त्रेषु पूजयेत् ॥ ६७ ॥

भोगाङ्गं पूजयेत्पश्चाद् धृदादीन् अग्निकोणतः।
नेत्रं दक्षिणदिग्भागे गर्भावरण ईरितः ॥ ६८ ॥

दीप्त्यादि शक्तयो बाह्ये ग्रहास्तद्बाह्य मार्गतः।
तद्बहिर्लोकपालास्स्युः क्रमेणाभ्यर्चयेद्गुरुः॥
कामाचाररतो वापि भावयेद्भास्करं सदा ॥ ६९ ॥

Uttarapāda – Kapitel 37: Pratyaṅgirā

वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ।
सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् ॥ १ ॥

ज्वरापस्मारमारीणां नाशनं क्षयनाशनम् ।
शत्रुकृत्यादि संभूत रोगानीक विनाशनम् ॥ २ ॥

चतुरङ्गबलोपेत शत्रुक्षयकरं परम् ।
सर्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु ॥ ३ ॥

ओं ह्र्रिङ्कारं समुद्धृत्य तदन्ते कृष्णवाससे।
ततश्च सिंहवदने महवदन इत्यपि ॥ ४ ॥

महाभैरवि वर्णे च सर्वशत्रुपदं तथा।
कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः ॥ ५ ॥

छेदिनीत्युद्धरेत्पश्चात् सर्वभूतदमन्यपि।
सर्वभूतांस्ततो बन्ध बन्धेति पदमुद्धरेत् ॥ ६ ॥

सर्वविध्वंसिनीति पदं छिन्दि छिन्दीति यत्पदम्।
सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ॥ ७ ॥

सर्वदुष्टांस्तथा भक्ष भक्षेति पदमुद्धरेत्।
ज्वालाजिह्वे करालेति पदं दंष्ट्र पदं पुनः ॥ ८ ॥

प्रत्यङ्गिरे पदं ह्रीं च नमोऽस्त्विति पदं ततः।
ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः ॥ ९ ॥

प्रत्यङ्गिरेयं विख्याता शतवर्ण स्वरूपिणी।
आद्यसप्ताक्षरं हृत्याच्छिरः पञ्च दशाक्षरम्।
दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् ॥ १० ॥

तथैव तस्मान् नेत्राणुश्चतुस्त्रिंशद्भिरस्त्रकम्।
त्रयोदशाणुर्गायत्री सावित्री सप्तवर्णतः ॥ ११ ॥

नमस्स्वाह वषट् वौषट् हुंफड्युक्ता हृदादयः।
सिंहवक्रोग्रदंष्ट्राग्नि सप्रभोओर्ध्व शिखान्विताम् ॥ १२ ॥

कृष्णाञ्जन निभां वृत्त रक्तनेत्रत्रयान्विताम्।
वहन्तीं सव्यहस्ताभ्यां शुलं डमरुकं परम् ॥ १३ ॥

वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम्।
अट्टहासादि शब्दैस्तु गर्जितां मुदितामपि ॥ १४ ॥

कृष्णाम्बरधरां सासृङ्मांसास्यां नर्तने रताम्।
मौक्तिकाभरणैर्योग्यैस्सर्वावयव भूषिताम् ॥ १५ ॥

कृष्णाजिनधरां नाम्ना भैरवीं अर्चितां सुरैः।
देवीं ध्यात्वैकचित्तस्तु सर्वशत्रून् विनाशयेत् ॥ १६ ॥

ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत्।
विद्याधरत्व लाभाय कृष्णागरुयुतं परम् ॥ १७ ॥

अथवा नाभिकिञ्जल्कं जुहुयात् साधकोत्तमः।
कदम्बकलिका होमाद्यक्षिणी सिद्ध्यति ध्रुवम् ॥ १८ ॥

प्रियङ्गुकदलीपुष्पाण्यादृतो जुहुयाद्बुधः।
करवीरस्य पुष्पाणि घृतं च मधुसंयुतम् ॥ १९ ॥

खादिरादि समिच्चैव क्षिप्रमातुष्टिकारिका।
सिद्धार्थं चैव मुक्तां च अश्वमांसी समन्वितम् ॥ २० ॥

पायसं पयसा युक्तं तत्क्षणात् क्षणतां व्रजेत्।
धुर्त्तूर पुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् ॥ २१ ॥

कृष्णतिलं घृतं चैव स्तम्भयेदभिचारतः।
रक्तपङ्कज पुष्पं च तत्समं रक्तचन्दनम् ॥ २२ ॥

कपिलाघृत संयुक्तं कपिला क्षीरसंयुतम्।
होमयेद्दशसाहस्रं क्षिप्रं मोहयति ध्रुवम् ॥ २३ ॥

महिषोद्भूतमर्कं च गार्दभं क्षीरमेव च।
गिरिकायाश्च तत्पुष्पमङ्गारास्थि समन्वितम् ॥ २४ ॥

जुहुयाच्छतसाहस्रं तत्कुलोत्साधनं भवेत्।
कुङ्कुमां रोचनां चैव कार्पासफल गुग्गुलु ॥ २५ ॥

वेणुनां भेदनं सद्यो भवेदेव न संशयः।
निम्बपुष्पं तथा व्रीहिं निम्बतैल समायुतम् ॥ २६ ॥

अर्कक्षीर समायुक्तं होमयेदपि पारतम्।
राजयक्ष्मादि रोगाणां शान्तये जुहुयाद्गुरुः ॥ २७ ॥

घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया।
दुकूलचरु लाजांश्च मधुत्रय समन्वितान् ॥ २८ ॥

औदराणां च रोगाणां शुण्ठीं पथ्यां मरीचिभिः।
जुहुयादग्नि सिद्ध्यर्थं अग्निबीज पुरस्सरम् ॥ २९ ॥

अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च।
मधुना होमयेत्सर्वं नेत्रमन्त्रेण मन्त्रवित् ॥ ३० ॥

विषमज्वर नाशाय चूतपत्राणि होमयेत्।
घृतेन सह सार्द्राणि प्लुतमृत्युञ्जिता यथा ॥ ३१ ॥

सर्वोपद्रव नाशाय रुद्रशान्त्या खिलादिभिः।
वस्त्राद्यैर्वात शान्त्यर्थं सर्षपैः श्लेष्म शान्तये ॥ ३२ ॥

पित्त शान्त्यै च जुहुयाच्चन्दनाद्यैस्सुशीतलैः।
सहस्रमयुतं वाथ लक्षं तत्त्रिगुणं तु वा ॥ ३३ ॥

Uttarapāda – Kapitel 38: Erneute Besprengung: parallele Fassung

संप्रोक्षण विधिं वक्ष्ये सर्वदोष निकृन्तनम्।
आवर्तं चेत्यनावर्तं पुनरावर्तनं तथा ॥ १ ॥

ततोऽन्तरिकं चेति प्रोक्षणं तु चतुर्विधम्।
मूलबालगृहान्मूलस्थाने यत् स्थापनं मतम् ॥ २ ॥

तदावर्तमिति प्रोक्तं अनावर्तं ततो भवेत्।
पतितैः पातकैः स्पृष्टे चण्डालैरन्त्यजैस्तथा ॥ ३ ॥

मासोर्ध्वपुजाहीने च विश्लिष्टे स्थलकर्मणि।
लिङ्गे पीठे च चलिते त्वनावर्तमिति स्मृतम् ॥ ४ ॥

मूलालयात्समादाय स्थाप्य बालालये पुनः।
तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ॥ ५ ॥

प्रतिमानां च मिश्राणां शक्तीनां आयुधादिभिः।
स्फोटने वर्णहीने च अङ्गोपाङ्ग विहीनके ॥ ६ ॥

चर्मच्छेदेऽस्त्रहीने च भूषणादि विहीनके।
अम्बुजासनहीने च स्थलकर्म विहीनके ॥ ७ ॥

विश्लिष्टे पीठबन्धे तु तदन्तरितमुच्यते।
यात्राहोमयुगावर्तं अन्येस्युस्तद्विहीनकाः ॥ ८ ॥

आवर्ते तु द्विजास्सर्वान् मासपक्षर्क्षकादिकान्।
लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ॥ ९ ॥

न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः।
कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ॥ १० ॥

आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम्।
लक्षणोद्धारणं तोयाधिवासः शयनं तथा ॥ ११ ॥

अनावर्तमिति ज्ञेयम् पुनरावर्तनं त्विह।
सर्वमावर्तवत्कुर्यात् किं तु मूलद्वयान्वितम् ॥ १२ ॥

ततोऽन्तरितकं विप्रास्संक्षेपेण वदाम्यहम्।
रत्नन्यासाक्षिमोक्षौ च जले चैवाधिवासनम् ॥ १३ ॥

शय्यादि वासनं विप्रा विना वै बेरकर्मणि।
नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ॥ १४ ॥

प्रागुक्त विधिना कुम्भन्यासं होमं च कारयेत्।
स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ॥ १५ ॥

एवं यः कारयेन्मर्त्यस्स पुण्यां गतिमाप्नुयात् ॥ १६ ॥

Uttarapāda – Kapitel 39: Das Heiligtum eines Ṛṣi-Liṅga

लिङ्गानां आर्षकाणां तु प्रासाद विधिरुच्यते ।
आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ॥ १ ॥

स्थूलमूलं शिरःस्थूलं मध्यस्थूलं कृशं तु वा ।
वृत्तांशं यत्फलाकारं मानसूत्र विवर्जितम् ॥ २ ॥

मानुषेतरमित्युक्तं आर्षं स्यादधुनोच्यते ।
पूजांश द्विगुणं पीठं त्रिगुणं गर्भगेहकम् ॥ ३ ॥

तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा ।
विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ॥ ४ ॥

अर्धाधिकं तु वा सप्तभागाधिकमथापि वा ।
लिङ्गविस्तारमानेन त्रिगुणं पीठमुच्यते ॥ ५ ॥

गर्भगेहं ततस्तस्य त्रिभागद्वयभित्तियुक् ।
प्राग्वदुत्सेध उद्दिष्ट अन्यथापि निगद्यते ॥ ६ ॥

लिङ्गविस्तार कर्णेन द्विगुणान्तार्ध संयुतम् ।
पीठविस्तार मानेन सार्धानर्ध विवर्धनात् ॥ ७ ॥

सार्धद्विगुण पर्यन्तं पीठ विस्तार उच्यते ।
द्विगुणं त्रिगुणं तेन चतुर्गुणमथापि वा ॥ ८ ॥

नालीगृह विशलस्स्याद् द्विभागं स्यात् त्रिपादकम् ।
सार्धद्वयांशकैकांश समं वा भित्तिविस्तरः ॥ ९ ॥

उदयं प्राग्वदेव स्यादन्यथा च निगद्यते ।
लिङ्गनाहस्य कर्णेन पीठविस्तार उच्यते ॥ १० ॥

त्रिगुणंगर्भगेहं स्यात् पञ्चांशे त्र्यंशमेव वा ।
द्व्यंशे चैकांशकं वापि भित्तिविस्तारं आरभेत् ॥ ११ ॥

पूजांशोच्च द्विभागस्स्यात् कर्णपीठ विशालकम् ।
तस्माच्चतुर्गुणं नालीगेहं तत्त्रिषडंशकैः ॥ १२ ॥

एकांशकस्य विस्तारं अन्यथा च प्रकथ्यते ।
लिङ्गद्विगुण विस्तारं कर्णपीठ विशालकम् ॥ १३ ॥

नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके ।
एकांशं तद् द्विविस्तारं अन्यथा पुनरुच्यते ॥ १४ ॥

परीणाहे विकारांशे तच्चतुर्दश कर्णकम् ।
पिण्डिकाविपुलं नाली तच्चतुर्गुणमुच्यते ॥ १५ ॥

तत्पादत्र्यंशमानं वा अष्टांशं भित्तिविस्तरः ।
विस्तारद्विगुणे कर्णदशांशोंऽश विहीनकम् ॥ १६ ॥

पीठतारं ततः पञ्चगुणं नालीगृहं भवेत् ।
तत्पञ्चसप्तभागैकं भित्तितारार्धमारभेत् ॥ १७ ॥

हीनाहीनान्तरेऽष्टांशपीठे नालीगृहे तथा ।
भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ॥ १८ ॥

लिङ्गे स्वायंभुवे चैतत् प्रोक्तं तदपि गृह्यताम् ।
एवमेकतले प्रोक्तं द्वितलादिषु धामसु ॥ १९ ॥

साधारे वा निराधारे त्वलिन्दं भित्तिरेव च ।
प्रागुक्त विधिना धामनक्षत्राद् द्वितलं नयेत् ॥ २० ॥

Uttarapāda – Kapitel 40: Das Heiligtum eines menschengemachten Liṅga

अथ पौरुषलिङ्गस्य प्रासाद विधिरुच्यते ।
पौरुषं भक्तियुक्तैस्तु मनुजैः स्थापितं भवेत् ॥ १ ॥

पूर्वस्मिन् स्थापिते तस्मिन्नज्ञाते पूर्वमन्दिरे ।
लिङ्गमान वशेनात्र प्रासादं परिकल्पयेत् ॥ २ ॥

लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः ।
त्रिभागं नालिगेहस्य त्रिचतुर्भागभागतः ॥ ३ ॥

भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् ।
लिङ्गविष्कम्भ कर्णस्य अध्यर्धादर्धवृद्धितः ॥ ४ ॥

सार्धद्विगुणकं यावत् पीठविस्तारं आहरेत् ।
तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ॥ ५ ॥

नालीगृह विशालं स्यात् पीठविस्तार मानतः ।
समं वा द्विगुणं वापि अध्यर्धं पीठविस्तृतम् ॥ ६ ॥

उदयं प्राग्वदेव स्यात् अन्यथापि च कथ्यते ।
पूजांशद्विगुणं पीठमुदयं तु विशालतः ॥ ७ ॥

चतुष्पञ्चगुणं नालीगेहमत्र विधीयते ।
ततोऽवसिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ॥ ८ ॥

लिङ्गात् पीठं ततो गर्भं गर्भाद्भित्ति विनिश्चये ।
एकात्सप्त यवान्तं तु मात्रादेक विवृद्धितः ॥ ९ ॥

त्रिमात्रान्तं तदा वृद्धिं ह्रासं च परिकल्पयेत् ।
पीठं गर्भे भवेदेवं भवेत् प्रासाद विस्तरे ॥ १० ॥

तदर्धं वा त्रिपादं वा कुड्यतारं उदाहृतम् ।
अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ॥ ११ ॥

उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु ।
तथा तदपि तद्ग्राममानं पौराण पौरुषे ॥ १२ ॥

पट्टिकाङ्गं अधिष्ठानं आर्षके धाम्नि कीर्तितम् ।
उपानं जगतीकण्ठ पट्टिका कुमादादिषु ॥ १३ ॥

स्थलान्तं कल्पयेदेवं पुराणे धाम्नि पौरुषे ।
मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ॥ १४ ॥

पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् ।
यदि तद्बाह्यभागं च युग्ममेव विधीयते ॥ १५ ॥

युग्मं चेद्युग्ममेव स्यात् संमिश्रं तेषु नेष्यते ।
त्रिवर्ण पूजितं लिङ्गम् पौरुषं वा विधीयते ॥ १६ ॥

Uttarapāda – Kapitel 41: Tempelmaße nach dem Liṅga

अथेदानीम् विशेषेण लिङ्गात् प्रासाद उच्यते ।
स्वायम्भुवं बाणलिङ्गं दैविकं चार्षकं त्विति ॥ १ ॥

सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः ।
तेषां लिङ्गवशाद्विद्वान् प्रासादं परिकल्पयेत् ॥ २ ॥

पूजांशमानतो नाहाद्विस्तारादुच्छ्रयादपि ।
एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ॥ ३ ॥

तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणं ।
पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ॥ ४ ॥

अष्टौ वा देवमानानि नवमानानि सुव्रताः ।
तत्तदर्धे तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ॥ ५ ॥

प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः ।
पीठद्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ॥ ६ ॥

पञ्चषड्गुणितो वापि गर्भगेहस्य विस्तरः ।
अवान्तर प्रमाणानि पूर्ववत् परिकल्पयेत् ॥ ७ ॥

गर्भगेह विशाले तु द्विभागादेक भागतः ।
षड्गुणान्तर पर्यन्तान् भागान् कृत्वैक भागतः ॥ ८ ॥

एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता ।
भित्तेरन्तर मानं तु पूर्ववत् परिकल्पयेत् ॥ ९ ॥

लिङ्गात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये ।
एकात्सप्त यवान्तं तु मात्रादेक विवृद्धितः ॥ १० ॥

पीठगर्भे भवेदेवं भवेत् प्रासाद विस्तरे ।
अङ्गुलीहस्त पूर्णार्थं सप्तमात्रान्तं आचरेत् ॥ ११ ॥

Uttarapāda – Kapitel 42: Die Weihe des Aṅga-Liṅga

अङ्गलिङ्गप्रतिष्ठां तु प्रवक्ष्यामि समासतः ।
प्रधानं अङ्गमित्येवं द्विविधं लिङ्गमुच्यते ॥ १ ॥

मण्टपाः परिवारा वा प्राकारा गोपुरादयः ।
यस्य लिङ्गस्य विद्यन्ते तत् प्रधानं इति स्मृतम् ॥ २ ॥

यत् प्रधानाविरिधेन पञ्चप्राकार मध्यमे।
तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ॥ ३ ॥

शुभाशा संस्थितं भुक्त्यै मुक्त्यै सर्वासु दिक्षु च ।
पश्चिमोत्तर पूर्वाशाश्शुभाशाः संप्रकीर्तिताः ॥ ४ ॥

कुर्यात्तेषां विमानाद्यं मूलधामोनमानकम् ।
तत्र संस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ॥ ५ ॥

प्राकारत्रय बाह्ये तु यदि देवाः प्रकीर्तिताः ।
परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ॥ ६ ॥

नित्योत्सवादिकं तत्र विरोधाय न कल्पते ।
अङ्गलिङ्गाद्यकं शुद्धशैवमार्गेण कारयेत् ॥ ७ ॥

नैव पाशुपतेनापि न महाव्रतिना क्वचित्।
न बौद्धार्हत कापाल पाञ्चरात्रादिकैर्न च ॥ ८ ॥

अन्यैरपि न कर्तव्यं दर्शनान्त्र संस्थितैः ।
प्रमादात्तैः कृते तच्च शैवं संपादयेत् क्षणात् ॥ ९ ॥

एकहस्तात्त्रिहस्तान्तं अङ्गलिङ्ग प्रमाणकम् ।
अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोषकृत् ॥ १० ॥

पञ्चादश करादूर्ध्वं प्रासादं नैव कारयेत् ।
स्वधामगर्भ मानाद्वा कुर्यादङ्गुलमानतः ॥ ११ ॥

सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च ।
कर्षणादिकं एतेषां कर्तव्यं वा न वा पृथक् ॥ १२ ॥

आद्येष्टकादिकं कर्म तावदस्य समाचरेत् ।
एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ॥ १३ ॥

प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते ।
मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ॥ १४ ॥

पूर्वोक्त विधिना सर्वं कर्तव्यं चोदितं यथा ।
क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ॥ १५ ॥

तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा ।
पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ॥ १६ ॥

एवं यः कारयेदङ्गलिङ्गादेः स्थापनं नरः ।
आयुःश्रीकीर्ति सौभाग्यारोग्यभोग्य बहुप्रजाः ॥ १७ ॥

संलब्धकामो देहान्ते शिवेन सह मोदते ।
एकाद्येकैक वृद्ध्या तु रुद्रसंख्यावसानकम् ॥ १८ ॥

अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् ।
शतं वार्धम् तदर्धं वा शतोर्ध्वमपि पुष्कलम् ॥ १९ ॥

एवं यः कारयेत् कर्ता स एवाहं न संशयः ॥ २० ॥

Uttarapāda – Kapitel 43: Allgemeine Liṅga-Heiligtümer

सार्वदेशिक लिङ्गादेस्स्थापनं सम्यगुच्यते ।
प्रासादस्याथ लिङ्गस्य पीठस्याश्मन एव वा ॥ १ ॥

सार्वदेशिक संज्ञस्य विधिस्सर्वत्र संमतः ।
सात्त्विके राजसे देशे तामसे वा प्रकल्पयेत् ॥ २ ॥

विशेषाद्राजसे देशे राज्ञां विजय कारणम् ।
धर्मकामार्थ सिद्ध्यर्थं सार्वकामिकमुच्यते ॥ ३ ॥

अन्ये मोक्षप्रदास्सर्वे कर्तुः कारयितुस्सदा ।
नागरं स्याद्युगे कार्ते त्रैते द्राविडमिष्यते ॥ ४ ॥

द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे ।
वराटं चैव कालिङ्गं सर्वत्रापि च संमतम् ॥ ५ ॥

नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि ।
वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ॥ ६ ॥

सार्वदेशिकमित्युक्तं फलं तस्य विशिष्यते ।
स्वायम्भुवं च बाणं च दैविकं चार्षकं तथा ॥ ७ ॥

यथाविशिष्टं विप्रेन्द्रास्तद्वदेतदुदाहृतम् ।
मानुषेत्वेव लिङ्गादौ फलवैशिष्ट्यमिष्यते ॥ ८ ॥

तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक संज्ञितम् ।
तन्त्रसंकरदोषोऽपि मन्त्रसंकर एव वा ॥ ९ ॥

आचार्यसंकरो वापि देशसंकर एव वा ।
कालसंकर दोषश्च युगसंकर एव वा ॥ १० ॥

अन्येषां संकरो वापि यतो नातो विशिष्यते ।
सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ॥ ११ ॥

त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् ।
पञ्चाशद्धस्त पर्यन्तं मानं स्यात् सार्वदेशिकम् ॥ १२ ॥

सार्वदेशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये ।
तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ॥ १३ ॥

अध्यर्ध त्रिगुणान्ताश्च संग्राह्या देशिकोत्तमैः ।
एकद्वित्रिकरैर्युक्त मानाद्धीनं तु वाधिकम् ॥ १४ ॥

आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः ।
विस्तारादुच्छ्रयाद्वाथ विस्तारोच्छ्रयेण वा ॥ १५ ॥

विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् ।
प्रसङ्गेन च कथ्यन्ते लेशादायादयोऽपि ये ॥ १६ ॥

गुणयेदिष्टमानं तु नवनागरसैः क्रमात् ।
रुद्रभानुशरैर्हन्याच्छेषमायं विनिर्दिशेत् ॥ १७ ॥

गुणाष्टरन्ध्रदशभिर्मनुषड्वसुसप्तभिः ।
गुणयेत् क्षपयेद्वापि तच्छेषं व्यायमादिशेत् ॥ १८ ॥

भानुनाडिरसैर्वृद्ध नक्षत्रैः क्षपयेद्दिनम् ।
नृपकर्तृ दिनाद्वास्तु लिङ्गाद्युक्तदिनान्तकम् ॥ १९ ॥

गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथाक्रमम् ।
तुष्टिसम्पद्विपत्क्षेम प्रत्यरं साधको वधः ॥ २० ॥

मैत्रं परममैत्रं स्यात् कलहः प्रथमक्रमे ।
द्वितीये संपदाद्यास्तु पूर्ववत् समुदाहृतम् ॥ २१ ॥

शुभं तृतीयजन्मर्क्षत्रं मृतं अष्टमराशिकम् ।
वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ॥ २२ ॥

शेषं शुभं इति ज्ञेयं एवं ज्ञात्वा प्रयोजयेत् ।
वियोगाद्यशुभं योगं गणं चासुर मानुषम् ॥ २३ ॥

वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया ।
सप्तर्तुभूतवेदाग्नि नवभिः क्षपितं तु यत् ॥ २४ ॥

तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् ।
रुद्ररन्ध्रगुणैर्वृद्धिं योनिभिः क्षपयेद् गुरुः ॥ २५ ॥

ध्वजाद्या योनयश्चाष्टौ षड्जात्यास्सप्त योनयः ।
पृथ्व्याद्याः पञ्चसंख्या वा दक्षिणाद्यास्त्रयोऽग्नयः ॥ २६ ॥

चतुष्प्राकाराद्विज्ञेया ध्वजाद्याः पूर्ववन् मताः ।
षड्जो वृषभ गान्धारौ पञ्चमो मध्यमस्तथा ॥ २७ ॥

निषादो दैवतस्सप्त योनयस्तासु शस्यते ।
षड्जश्च वृषभो मध्ये भूतेषु पृथिवी जलम् ॥ २८ ॥

गार्हपत्यस्तथैवाहवनीयोऽग्निषु शस्यते ।
पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ॥ २९ ॥

वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः ।
निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ॥ ३० ॥

प्रासादे मण्टपे चैव प्राकारे गोपुरे तथा ।
लिङ्गबेरादिके चैवं आयाद्यं कल्पयेद् द्विजाः ॥ ३१ ॥

किं तु लिङ्गे च बेरे च तुङ्गेनैव निरीक्षयेत् ॥ ३२ ॥

तत्संग्रहेऽपि नात्यन्तदोषस्स्यात् सार्वदेशिके ।
स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ॥ ३३ ॥

लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा ।
तथा ब्रह्मादिभिर्भागैश्शिरोलक्षण भेदतः ॥ ३४ ॥

ब्रह्मनन्दिशिलाभिश्च स्वाकारो लक्षणं यतः ।
त्रिभिर्ब्रह्मादिभिर्भागैः द्वाभ्यां एकेन वा युतम् ॥ ३५ ॥

यदाकारविशिष्टं तद्रूपं तस्य तदेव हि ।
प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ॥ ३६ ॥

सार्वदेशिकमेवेष्टं यतस्ते सार्वदेशिकाः ।
प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ॥ ३७ ॥

जीर्णोद्धार विधानेन पीठप्रासादमाचरेत् ।
परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ॥ ३८ ॥

स्वायम्भुवादि लिङ्गानां दृश्यभागादधस्स्थितम् ।
दर्शयेत् खननाद्यैश्चेत् चोरदुःखावहं नृणाम् ॥ ३९ ॥

दृश्यभागं इति ज्ञेयं ब्रह्मविष्णुहरांशकम् ।
तस्मादधः स्थितं लिङ्गं मूले नैव परीक्षयेत् ॥ ४० ॥

अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः ।
सार्वदेशिक लिङ्गानां इत्थं लक्षणमीरितम् ॥ ४१ ॥

प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ॥ ४२ ॥

Uttarapāda – Kapitel 44: Die Weihe des Bāṇa-Liṅga

बाणलिङ्गप्रतिष्ठां तु वक्ष्ये संक्षेपतः क्रमात् ।
बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थमादरात् ॥ १ ॥

प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च ।
दत्तवान् लिङ्गकोटीनां चतुर्दश महेश्वरः ॥ २ ॥

तानि संपूज्य कालान्तेस्थानेष्वेतेषु न्यक्षिपत् ।
लिङ्गाद्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ॥ ३ ॥

कन्यातीर्थे च नेपाले महेन्द्रे चामरेश्वरे ।
अन्यत्र च नदीमध्ये पर्वते च विशेषतः ॥ ४ ॥

माषमात्रादि हस्तान्तं तेषां मानमुदाहृतम् ।
पादाङ्गुलविवृद्ध्या तु गृह्णीयाद्वा यथेच्छया ॥ ५ ॥

विस्तारनाहमानं तु बाणलिङ्गस्ये नेष्यते ।
रेखाबिन्दुकलङ्कादिरहितं युक्तमेव वा ॥ ६ ॥

सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते ।
स्नपने यजने धूपे गन्धपुष्प निवेदने ॥ ७ ॥

अन्यकर्मणि विप्रेन्द्राः स्वायम्भूतादिके तथा ।
प्रासाद पीठकादीनां नियमो न च नेष्यते ॥ ८ ॥

ग्रामादि सर्ववास्तूनां बाह्ये बाह्यान्तरेऽपि वा ।
विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ॥ ९ ॥

शिलामृल्लोह सद्वृक्षरत्नाद्यैः पीठिका भवेत् ।
एकवर्णं भवेत्पीठं सर्वकामार्थ सिद्धये ॥ १० ॥

लिङ्गोत्सेधत्रिभागैकं पञ्चद्व्यंशमथापि वा ।
विधेयं खातमानं तु लिङ्गार्धं अथवा द्विजाः ॥ ११ ॥

यथाभिमतमानं वा खातमानं उदाहृतम् ।
सरित्प्रवाह संस्थं च बाणलिङ्ग समाकृति ॥ १२ ॥

यदन्यदपि बोद्धव्यं लिङ्गं सर्वसुखावहम् ।
पर्वतादि समुद्भूतं तद्वदेव समीरितम् ॥ १३ ॥

उन्नतं तु मुखं ज्ञेयं स्थूलभागे कृशेऽपि वा ।
स्थूलं वाथ कृशं वाथ कान्तिमद्रूपं ऊर्ध्वगम् ॥ १४ ॥

रत्नजं चैवमाख्यातं लोहजं च तथा मतम् ।
सहजं वाथ भिन्नं वा लिङ्गं श्रेष्ठं सयोनिजम् ॥ १५ ॥

रत्नजे लोहजेऽप्येवं पार्थिवेऽपि तथा मतम् ।
सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ॥ १६ ॥

शैललिङ्ग प्रतिष्ठायां श्रेष्ठकाल उदाहृतः ।
चललिङ्ग प्रतिष्ठायां प्रतिमादौ च मध्यमः ॥ १७ ॥

कालोऽधमस्स्याद्बाणादौ मुमुक्षोस्सर्व एव हि ।
मासायनर्क्ष वारादि विधिस्तेषु च नेष्यते ॥ १८ ॥

तथैव बाणलिङ्गस्य किं तु कालोऽधमोऽथवा ।
विधाय वज्रबन्धाद्यं ततः स्थापनं आरभेत् ॥ १९ ॥

अङ्कुरार्पणकार्यं तु प्रागुक्त विधिना नयेत् ।
रत्नन्यासं ततः कुर्यान्नवपञ्चैक रत्नकम् ॥ २० ॥

पिण्डिकावट मध्ये तु हैमं वाथ विनिक्षिपेत् ।
लक्षणोद्धारणं नेष्टं स्वाकारो लक्षणं भवेत् ॥ २१ ॥

विधाय लिङ्गशुद्धिं तु शिवेनास्त्रेण मृज्जलैः ।
जलाधिवसनं कुर्यान्नवपञ्चैक कुण्डकम् ॥ २२ ॥

कुर्याल्लिङ्गाधिवासार्थं वेदिका सहितं यथा ।
वेदिकारहितं चैतद् गृहादौ स्थण्डिलं मतम् ॥ २३ ॥

शिल्प्युद्वासन पुण्याह विप्रभुक्युपलेपनम् ।
भूपरीक्षा विधेया तु वास्तुपूजाग्नि तर्पणम् ॥ २४ ॥

स्थण्डिले शयनं तस्य पूजनं प्राग्वदाचरेत् ।
जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ॥ २५ ॥

अभ्यर्च्यावेष्ट्य वस्त्रेण कृतप्रतिसरं शिवम् ।
शय्यामध्ये निवेश्याथ शिवकुम्भं च वर्धनीम् ॥ २६ ॥

विद्येशकुम्भ संयुक्तं ससूत्रं सापिधानकम् ।
सहिरण्यं सवस्त्रं च गन्धोद परिपूरितम् ॥ २७ ॥

संस्थाप्य संयजेत्सर्वांस्तत्त्वतत्त्वेश संयुतान् ।
मूर्तिमूर्तीश्वरान्न्यस्त्वा संपाद्यैवं शिवानलम् ॥ २८ ॥

समिदाज्यान्नलाजैश्च तिलेन च समन्वितम् ।
जुहुयान्मूलमन्त्रेण शतमष्टोत्तरं यथा ॥ २९ ॥

मनोन्मन्यार्धं अङ्गैस्तु दशांशं द्विजसत्तमाः ।
तत्त्वतत्त्वेश्वरादीनां पूर्ववद्धोममाचरेत् ॥ ३० ॥

वस्त्रेणाच्छाद्य लिङ्गं तु नैवेद्यं च निवेदयेत् ।
प्रातःस्नात्वार्चयित्वा तु मण्टपाधिपदेवताः ॥ ३१ ॥

लिङ्गमग्निं अघोरेण जुहुयाच्छत संख्यया ।
संप्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्ग भूषणः ॥ ३२ ॥

मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।
एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ॥ ३३ ॥

संकल्प्य सासनं मूर्तिं मूलमन्त्रं शिवे न्यसेत् ।
तज्जलैः स्नापयेत्द्देवं देवीं पीठस्वरूपिणीम् ॥ ३४ ॥

स्नपनं कारयेदन्ते दद्यान्नैवेद्यं आदरात् ।
यदनुक्तं भवेदत्र लिङ्गस्थापनवन्नयेत् ॥ ३५ ॥

चतुर्थ होमं चण्डेशयजनं चास्य नेष्यते ।
प्रत्यहं पूजयेद्देवं अर्चनोक्त विधानतः ॥ ३६ ॥

Uttarapāda – Kapitel 45: Das Lösen der Befestigung

श्लिष्टलिङ्गे गतिर्नास्ति सामान्यस्य गतिःक्षणात् ।
जीर्णादि दोषदुष्टं च विधिनापि न चालयेत् ॥ १ ॥

सुदृढं स्वर्णपट्टाद्यैः कृत्वा शान्तिं समाचरेत् ।
कुम्भे वा स्थण्डिले वापि मण्डले पीठकादिके ॥ २ ॥

पूर्वदिक्कलिते देशे दिक्क्लुप्ते मण्टपादिके ।
संपूज्य देवदेवेशं उदग्देशे मनोन्मनीम् ॥ ३ ॥

अष्टविद्येश्वरोपेतं गन्धाद्यैरुपचारकैः ।
पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ॥ ४ ॥

अन्ते विसर्जनं कुर्याच्छान्तिहोमं समाचरेत् ।
आदावन्ते च वा होमं प्रत्यहं होममेव वा ॥ ५ ॥

तत्र संप्रोक्षणं नेष्टं तदर्थं होममेव वा ।
लिङ्गाग्रे स्थण्डिलं तत्र कुम्भसंस्थापनं नु हि ॥ ६ ॥

कुम्भेष्वावाहनं तस्मात् कुम्भमन्त्रान्निवेशयेत् ।
नेष्यते स्नपनं हित्वा जीर्णोद्धारविधौ द्विजाः ॥ ७ ॥

तत्कुम्भोदैरपि स्नानं केवलं प्रोक्षणं तु वा ।
क्रियान्ते स्नपनं कुर्याद् विशेषेणार्चयेच्छिवम् ॥ ८ ॥

एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि ।
स्थलकर्मणि विश्लेषे सुधाकर्म विहीनके ॥ ९ ॥

क्षणमात्रे च निर्वर्त्य कर्मण्यत्र न पूजनम् ।
होमाद्यमपि नेष्टं स्यात् कर्तुं लिङ्गं समर्चयेत् ॥ १० ॥

गन्धाद्यैरुपचारैश्च शान्तिहोमं तु वा नयेत् ।
मूर्तिहोमं दिशाहोमं तत्कर्म गुरुलाघवात् ॥ ११ ॥

पीठस्थलोपक्लुतौ चेत् स्नपनं देवपीठयोः ।
तयोरभ्यन्तरस्यापि दार्ढ्यशैथिल्य कारणात् ॥ १२ ॥

शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् ।
अस्त्राम्बु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ॥ १३ ॥

बहुदैवसिके स्नानभङ्गश्चेत् स्नपनं महत् ।
महाहविस्तथा प्रोक्तं राज्ञो राष्ट्रस्य शान्तये ॥ १४ ॥

ग्रामस्थानं जनानां च तथा तत्स्थानवासिनाम् ।
कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ॥ १५ ॥

Uttarapāda – Kapitel 46: Die Sockelmaße

पीठसंस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
लिङ्गायामविशालं तु पीठं सर्वार्थ साधकम् ॥ १ ॥

विष्ण्वंशसमतुङ्गं छअयादोष विवर्जितम् ।
पूजांशस्योदयप्रान्त पीठनिर्गमनान्वितम् ॥ २ ॥

ईदृशं पीठमापाद्य को न सिद्द्येत मानवः ।
लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ॥ ३ ॥

सप्तविंशतिमानानि षड्विंशत्यंश मानकम् ।
लिङ्गस्यतार त्रिगुणं भवेत्पञ्चगुणं तु वा ॥ ४ ॥

तदन्तरे तथा भक्ते सप्तविंशति मानकम् ।
लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ॥ ५ ॥

तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।
षोडशाङ्गुलसंयुक्त विंशकाङ्गुलकावधि ॥ ६ ॥

हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः ।
लिङ्गायामाधिकः पीठविस्तारो नेष्यते द्विजाः ॥ ७ ॥

अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते ।
षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ॥ ८ ॥

एकांशेनाग्रविस्तारं पीठं वा परिकीर्तितम् ।
विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्मभागके ॥ ९ ॥

चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् ।
तयोर्मध्येऽष्टधा भक्ते नवमानं उदीरितम् ॥ १० ॥

नन्द्यावर्तशिला चाल्पे वर्जनीया द्विजोत्तमाः ।
मानुषे पीठमाने स्यात्स्वयम्भूतादिकेऽपि च ॥ ११ ॥

चललिङ्गेऽपि सामान्यं विधानं किंचिदुच्यते ।
लिङ्गमानसमं वार्धद्विगुणं पीठमिष्यते ॥ १२ ॥

विस्तारमध्य सप्तांशे मानं सप्तदशैव हि ।
मूलं प्रोक्तप्रमाणं च संग्राह्यं द्विजसत्तमाः ॥ १३ ॥

विस्तारार्धसमं तुङ्गं समं वार्धाधिकं तु वा ।
प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ॥ १४ ॥

स्वायंभुवादि लिङ्गेषु लिङ्गायामादि विस्तरः ।
पीठस्य तु दोषस्याज् ज्ञात्वैवं पीठमाचरेत् ॥ १५ ॥

वेदाश्रं वर्तुलं वाथ संमतं पीठरूपकम् ।
लोहजे रत्नलिङ्गे वा बाणलिङ्गेऽपि वा मतम् ॥ १६ ॥

बेरायामत्रिपादं वा तच्चतुर्थांशमेव वा ।
कल्पयेत्पीठविस्तारं मध्यमे षोडशांशकम् ॥ १७ ॥

मानं सप्तदशाख्यातं समाश्रं वायतं तु वा ।
द्विगुणावधि तन्मध्ये कृते प्राग्वत्तथा मतम् ॥ १८ ॥

पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते ।
विस्तारसममुत्सेधस्तदर्धो वा तदन्तरे ॥ १९ ॥

विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः ।
पादाधिकं तथोत्सेधं विस्तारात् परिकल्पयेत् ॥ २० ॥

वसुधा भाजिते मध्ये नवमानं इति स्मृतम् ।
बिम्बोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ॥ २१ ॥

बेरायामाष्ट भागैकं अपरं परिकीर्तितम् ।
अष्टधा मध्यमं भक्त्वा नवमानं प्रकल्पयेत् ॥ २२ ॥

स्थानके वा तलायामात् एकैकाङ्गुल वृद्धितः ।
द्वादशाङ्गुल पर्यन्तं पङ्कजस्याग्र विस्तरः ॥ २३ ॥

आसने पद्माविस्तारस्त्रयोविंशति मात्रतः ।
अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधि मानकम् ॥ २४ ॥

त्रिभागैकाधिको मूलविस्तारः श्रेष्ट उच्यते ।
द्वादशांश विहीनेऽथ मध्ये षोडशधा कृते ॥ २५ ॥

विस्तारस्सप्त संयुक्तो दशधा परिकीर्तितः ।
विस्तार सदृशस्त्वायो द्विगुणे वाथ मध्यमे ॥ २६ ॥

वसुधा भाजिते दैर्घ्यं नवधा परिकीर्तितम् ।
त्रिभागाद्रुद्र भागान्तं तदुत्सेधे विभाजिते ॥ २७ ॥

एकद्वित्रिचतुष्पञ्च भागैरूर्ध्वस्थ पङ्कजम् ।
शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्व दलैस्तु वा ॥ २८ ॥

चतुरष्ट दलोपेतं विकारार्क दलं तु वा ।
विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ॥ २९ ॥

अधिकोत्तुङ्ग संयुक्तं आसनोपरि कल्पयेत् ।
त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारं एव वा ॥ ३० ॥

विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा ।
संस्थाप्य शेषभागैस्तु मध्यं भद्रं प्रकल्पयेत् ॥ ३१ ॥

सभद्रं वा विभद्रं वा पीठं सर्वत्र कारयेत् ।
एकपीठमनेकेषां यदि शोभावशान्नयेत् ॥ ३२ ॥

वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा ।
पद्माकृतिः प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ॥ ३३ ॥

Uttarapāda – Kapitel 47: Die Sockelausschmückung

अलङ्कारं अतो वक्ष्ये लिङ्गानां पीठतुङ्गके ।
षोडशांशे तु मानेन पादुकं परिकीर्तितम् ॥ १ ॥

वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् ।
वस्वश्रपद्ममेकेन वह्न्यंशः कर्ण उच्यते ॥ २ ॥

अंशेन पट्टिका ज्ञेया महापट्टी द्विभाग्तः ।
घृतवार्यंशमानेन भद्रपीठं इदं मतम् ॥ ३ ॥

षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् ।
शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ॥ ४ ॥

वेदांशं ऊर्ध्वपद्मं स्याद् अश्विन्यंशेन पट्टिका ।
घृतवार्यंशमानं स्यात् पद्मपीठं इदं मतम् ॥ ५ ॥

एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः ।
पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ॥ ६ ॥

कर्णस्त्वेकेन कम्पःस्याद् भूतांशैरूर्ध्व पङ्कजम् ।
द्वाभ्यां पङ्क्ती भवेदूर्ध्वे घृतवार्येकभागतः ॥ ७ ॥

षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् ।
जगती बन्धभागेन गुणार्धं पद्मतुङ्गकम् ॥ ८ ॥

व्योमांशं ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते।
वृत्ताकारस्तदूर्ध्वे तु पट्टिका भाग मानतः ॥ ९ ॥

द्वाभ्यां कर्णस्तु पद्मं स्याद् अर्धेनांशेन पट्टिका ।
शेषेण घृतवारी तु श्रीकरं पीठमीरितम् ॥ १० ॥

पञ्चविंशति भागे तु व्योमांशं पादुकं भवेत् ।
पद्ममेकेन तस्योर्ध्वे वाजनं व्योमभागतः ॥ ११ ॥

जगती चतुरंशं स्यात् पद्मतुङ्गं त्रिभागतः ।
गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम् ॥ १२ ॥

कुमुदं पद्ममेकेन वाजनं व्योमभागतः ।
भागाभ्यां कर्ण इत्युक्तस्स्याद् एकेनैव वाजनम् ॥ १३ ॥

कञ्जमेकेन भागाभ्यां महावाजनमीरितम् ।
एकेन कम्पमर्धेन घृतवार्यभिधीयते ॥ १४ ॥

पीठं शाम्भवं आख्यातं अन्यथान्यद्विधीयते ।
एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ॥ १५ ॥

भागेन पादुकं वेद भागेन जगती मता ।
एकेन कर्णस्त्वेकेन पद्मं स्याद् गुणभागतः ॥ १६ ॥

कुमुदं पद्मं अंशेन वाजनं त्वेक भागतः ।
कर्णो द्विभागो भागेन वाजनं पद्मं अंशतः ॥ १७ ॥

द्विभागा तु महापट्टी पद्ममंशेन भागतः ।
कम्पस्स्याद् घृतवार्यूर्ध्वे विजयाख्यं इदं मतम् ॥ १८ ॥

अष्टादश विभागे तु व्योमांशं पादुकं भवेत् ।
अध्यर्धं पद्ममित्युक्तं कम्पमेकांशतो भवेत् ॥ १९ ॥

जगती वेदभागेन गुणांशः कुमुदो भवेत् ।
कम्पमेकेन कर्णस्स्याद् द्विभागः कम्पमेकतः ॥ २० ॥

महापट्टी द्विभागेन वाजनं चैकभागतः ।
अर्धेन घृतवार्युक्तं उमापीठं इदं मतम् ॥ २१ ॥

विकारांशे तदुत्सेधे पादुकं भागमानकम् ।
पद्ममंशमितं बन्धभागेन जगती भवेत् ॥ २२ ॥

भागाभ्यां पङ्कजाद्ग्रीवा चार्धार्धेनोर्ध्वपङ्कजम् ।
कुमुदं स्याद् द्विभागेन पद्ममर्धेन चार्धतः ॥ २३ ॥

कम्पं कर्णस्तु चार्धेनार्धेन कम्पं च वारिजम् ।
भागार्धेन महापट्टी सार्धेनांशेन मूर्धनि ॥ २४ ॥

घृतवारि समाख्यातं सम्पत्करमिहोदितम् ।
रुद्रभागे तु तत्तुङ्गे व्योमांशं पादुकं भवेत् ॥ २५ ॥

गुणांशं जगती कम्पं एकं कर्णो द्विभागतः ।
एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः ॥ २६ ॥

घृतवार्येकभागेन नन्दिकावृत्तमीरितम् ।
तिथ्यंशं विभजेत्तुङ्गमध्यर्धं पादुकं भवेत् ॥ २७ ॥

अर्धेन कम्पं पद्मं स्याद् गुणांशं गलमर्धतः ।
पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ॥ २८ ॥

अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका ।
अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम् ॥ २९ ॥

तुङ्गाष्टादशभागे तु द्विभागं पादुकं भवेत् ।
पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ॥ ३० ॥

षड्भागैः कर्ण इत्युक्तो वाजनं चैकभागतः ।
अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनमिष्यते ॥ ३१ ॥

घृतवार्येकभागेन पूर्णचन्द्रं इदं भवेत् ।
कलांशं विभजेत्तुङ्गं व्योमभागेन पादुकम् ॥ ३२ ॥

द्वाभ्यां पद्ममथैकेन कम्पष्षड्भागतो गलम् ।
भागेन कम्पं पद्मं स्याद् द्विभागेन द्विभागतः ॥ ३३ ॥

महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ।
स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ॥ ३४ ॥

त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् ।
व्योमांशं कम्पमित्युक्तं द्विभागं पद्ममुच्यते ॥ ३५ ॥

भागेन कम्पमित्युक्तं शेषं पूर्ववदेव हि ।
एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ॥ ३६ ॥

कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।
पद्ममंशेन कम्पस्स्याच्छेषं पूर्ववदीरितम् ॥ ३७ ॥

स्वायम्भुवं इदं प्रोक्तं अधिष्ठानानि यानि च ।
उपपीठानि तान्यत्र योज्यानीहाग्रजोत्तमाः ॥ ३८ ॥

घृतवारि तदूर्ध्वे स्यादेकभागेन सार्धतः ।
द्विभागेनाथ कर्तव्यं भक्त्याभीष्टांश तुङ्गके ॥ ३९ ॥

महापट्टी विनिष्क्रामसमनिष्क्राम संयुता ।
घृतवारि विधेयं वा वृत्तं वा चतुरश्रकम् ॥ ४० ॥

अधिष्ठान कम्पोपेतं अथवा परिकल्पयेत् ।
कर्णमानं च संगृह्य कम्पादौ विनियोजयेत् ॥ ४१ ॥

तन्मानं अथ कर्णे तु यावदेकयवेन च ।
वृध्याष्टमात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ॥ ४२ ॥

सर्वेष्वङ्गेषु पीठानां सकले निष्कलेऽपि च ।
चले वाप्यचले लौहे रत्नजे बाणलिङ्गके ॥ ४३ ॥

शैले दारुमये वापि मृण्मयेऽन्यमयेऽपि वा ।
निष्कले तु प्रमाणं स्यात् तन्मानं अधुनोच्यते ॥ ४४ ॥

पीठतार त्रिभागं स्यात् प्रणालो मूलविस्तरः ।
तद्दैर्घ्येणाग्रविस्तारस्सर्वलिङ्गेषु योग्यकः ॥ ४५ ॥

पीठार्धमानः पादो वा मध्यमे षोडशांशके ।
मानं सप्तदशाख्यातं नालायामं द्विजोत्तमाः ॥ ४६ ॥

तत्समं वा सपादं वा त्रिपादं वाथ मध्यमे ।
तथा विभक्ते संग्राह्य मानं सप्तदशैव च ॥ ४७ ॥

प्रणाल मूलदेशे तु तदग्रं तेन मानतः ।
त्रिपादमर्धपादोनं पञ्चत्रित्र्यंशमेव वा ॥ ४८ ॥

सप्तांशे भूतवेदाग्निभागं वाग्रे प्रकल्पयेत् ।
वारिवाहस्तथा प्रोक्ता गाम्भीर्याद्विस्तरेण वा ॥ ४९ ॥

मूलकम्पं तदूर्ध्वं तु पद्मं पार्श्वद्वयोरपि ।
तदूर्ध्वे कम्पमेकद्विव्योमभागैस्तथा क्रमात् ॥ ५० ॥

प्रणालघनमाने तु तन्मानं अधुनोचुअते ।
कर्णोर्ध्वमानं तन्मानं पीठोत्सेधं विभज्य च ॥ ५१ ॥

त्रिसप्तमानं वेदांशादेकभाग विवृद्धितः ।
दशभागावसनं तु पीठनालघनं तु वा ॥ ५२ ॥

समानयोनिजं श्रेष्ठं तदभावेन भिन्नजम् ।
अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यार्थिनामिह ॥ ५३ ॥

तदन्यमिष्टं श्रेष्ठं स्याद् रत्नजं स्फटिकादिकम् ।
अखण्डशैलं इष्टं स्यात् तदभावे सखण्डकम् ॥ ५४ ॥

खण्डं त्वङ्गावसानं स्यादूर्ध्वखण्डं अखण्डजम् ।
प्रणालयुक्तं इष्टं स्यात् तदधःखण्डनेऽपि च ॥ ५५ ॥

नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः ।
सकलानां अनालं स्यात् सनालमथ पीठकम् ॥ ५६ ॥

घृतवारि विहीनं वा सहितं वा प्रकल्पयेत् ।
बाणलिङ्गादि लिङ्गानां चतुरश्रायताश्रकम् ॥ ५७ ॥

पीठं कृत्वा तदूर्ध्वं तु पीठं वा परिकल्पयेत् ।
पीठलग्नां प्रभां कुर्याद्भिन्नां वाभिन्नयोगिकाम् ॥ ५८ ॥

नाना वाजन संयुक्तां मुक्तादामावलिक्रियाम् ।
नानापुष्पावलीप्रोतां नानावह्निशिखान्विताम् ॥ ५९ ॥

सर्वालङ्कार संयुक्तां इष्टास्यघनसंयुताम् ।
सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ॥ ६० ॥

बेरलिङ्गवशात्कॢप्तां इष्टमान समन्विताम् ।
एवं लक्षणमाख्यातं स्थापनं चाधुनोच्यते ॥ ६१ ॥

Uttarapāda – Kapitel 48: Die Einsetzung der Piṇḍikā

पिण्डिका स्थापनं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ।
आधाराधेय संयोज्यं स्थापने क्रियते क्रमात् ॥ १ ॥

पिण्डिकायां उमादेवी लिङ्गे स्याच्च सदाशिवः ।
तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ॥ २ ॥

योगश्च द्विविधो ज्ञेयस्त्वाद्यः पश्चाद्भवस्त्विति ।
आद्यः प्रागेव कथितो लिङ्गस्थापन कर्मणि ॥ ३ ॥

द्वितीयः कथ्यते विप्राः पूर्वं तस्या यदाकृतिः ।
तथैव च पुनः कुर्यादन्यथा दोषकारकम् ॥ ४ ॥

मानवे पीठसंकल्प विधानं परिकीर्तितम् ।
चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ॥ ५ ॥

दैविके चार्षके बाणे लिङ्गे स्वायम्भुवे तथा ।
वृत्तं सर्वत्र कर्तव्यं पूर्वाकृतियुतं तु वा ॥ ६ ॥

पूर्वद्रव्येण कर्तव्यं उत्कृष्टेनाथवा नयेत् ।
लिङ्गसंस्थापनस्योक्त वर्त्मना सकलां क्रियाम् ॥ ७ ॥

कारयेत् कथ्यते विप्राश्शेषस्तदवधार्यताम् ।
अङ्कुरार्पणकार्यं तु प्रागुक्त विधिना नयेत् ॥ ८ ॥

हर्म्यग्रे सौम्यदेशेऽग्नौ चैशान्यां यागमण्टपम् ।
प्रागुक्त विधिना मानं मण्टपे परिकीर्तितम् ॥ ९ ॥

तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना ।
कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ॥ १० ॥

योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च ।
तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्टपम् ॥ ११ ॥

एवं निष्पाद्य सर्वं तु पश्चात् कर्म समारभेत् ।
विशेषयजनं कृत्वा स्तुत्वा नत्वा मुहुर्मुहुः ॥ १२ ॥

शिवं विज्ञाप्य लब्धाज्ञः क्रियमेनां समारभेत् ।
लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुम्भं च वर्धनीम् ॥ १३ ॥

मध्यमे स्थापयित्वा तु परितोऽष्टौ घटांस्तु च ।
ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ॥ १४ ॥

गन्धस्रग्दामधूपाद्यैः अर्चयेतदनन्तरम् ।
पुण्याहं वाचयित्वा तु सासनं मूर्ति संयुतं ॥ १५ ॥

आवाह्य लिङ्गं लिङ्गस्थ शिवकुम्भगतं न्यसेत् ।
पीठाद्देवीं समावाह्य वर्धन्यां मध्यमे न्यसेत् ॥ १६ ॥

विद्येशान् परितो न्यस्त्वा गन्धाद्यैरर्चयेत्तु तान् ।
नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ॥ १७ ॥

सहस्र संख्यं मूलेन समिदाज्यान्नलाजकैः ।
तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ॥ १८ ॥

प्रायश्चित्तमघोरेण शतसंख्येन होमयेत् ।
अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ॥ १९ ॥

नित्यपूजा प्रकर्त्वया लिङ्गे कुम्भे च नित्यशः ।
टङ्केन हैमजातेन पीठं छित्वास्त्रमुच्चरन् ॥ २० ॥

अगाधेऽम्भसि निक्षिप्य तदुद्भूत सुधादिकम् ।
शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ॥ २१ ॥

ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते ।
शाणाभिगर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ॥ २२ ॥

कषायोदक गोमूत्र गोशकृद्भिर्जलान्तरे ।
प्रणवेणास्त्रमन्त्रेण स्नापयेत् परमेश्वरम् ॥ २३ ॥

वस्त्रचन्दन पुष्पाद्यैरिष्ट्वा मण्टप मध्यमे ।
स्थण्डिलं कल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ॥ २४ ॥

गन्धाद्यैरर्चयित्वा तु भगाङ्कं लक्ष्म लक्षयेत् ॥
मध्वाज्याभ्यां तु संतर्प्य मृत्युजिन्मन्त्रमुच्चरन् ॥ २५ ॥

ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते ।
सहैमं दर्शयेद्विद्वान् नेत्रमन्त्रमनुस्मरन् ॥ २६ ॥

धान्यराशिं सवत्सां गां कन्यां हृदयमन्त्रतः ।
प्रच्छन्नपटमावर्ज्य दर्शयेद्देशिकोत्तमः ॥ २७ ॥

प्राग्वत्संस्नाप्य देवीं तु वस्त्रगन्धादिनार्चयेत् ।
प्रदक्षिणं नयेद्ग्रामे जलतीरे निवेश्य च ॥ २८ ॥

स्थण्डिलं तत्र निक्षिप्य स्थापयेत्तत्र पिण्डिकाम् ।
कलशान्स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ॥ २९ ॥

देवीं च कलशान् इष्ट्वा लम्बकूर्च समन्विताम् ।
नववस्त्र परिच्छन्नं फलकोर्ध्वे जलान्तरे ॥ ३० ॥

स्थापयेदभितोऽष्टौ तु कलशान् सूत्र संयुतान् ।
पिधानाम्बरहैमांस्तान् सकूर्चान् शक्त्यधिष्ठितान् ॥ ३१ ॥

पश्चान्मण्टपमासाद्य चतुस्तोरण संयुतम् ।
सवितानध्वजं दर्भ मुक्ता पुष्पजमालया ॥ ३२ ॥

सर्वत्र ज्वलितं दीप्तैर्ज्वलद्भिः परिवारितम् ।
सर्वलक्षण संपन्नं सुविसर्जित तक्षकम् ॥ ३३ ॥

ब्राह्मणान् भोजयित्वा तु गोमयेनोपलेपयेत् ।
पुण्याहं वाचयित्वा तु वास्तुहोमं च कारयेत् ॥ ३४ ॥

द्वाराण्यस्त्रेण संप्रोक्ष्य द्वाराणि द्वारपान्यजेत् ।
प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितास्थितिः ॥ ३५ ॥

मन्त्रकायः शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु ।
गृहीतखड्गहस्तस्सन् पूजितात्म समन्वितः ॥ ३६ ॥

कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः ।
कृत कुण्डाग्निसंस्कारो जलवासान्महेश्वरीम् ॥ ३७ ॥

आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् ।
मृत्कषायोदगव्याद्यैः पुष्पपत्र फलोदकैः ॥ ३८ ॥

कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् ।
आच्छाद्य वस्त्रयुग्मेन गन्धाद्यैरर्चयेत्तु ताम् ॥ ३९ ॥

कृत्वा कौतुकबन्धं तु तन्नाले तद्गलेऽपि वा ।
शालिभिः स्थण्डिलं कृत्वा वसुद्रोण समन्वितैः ॥ ४० ॥

तदर्धैस्तण्डुलैर्युक्तं तदर्ध तिललाजकम् ।
दर्भैः पुष्पैः परिस्तीर्य चर्मजाद्यैरनुक्रमात् ॥ ४१ ॥

ततश्शल्यां च संकल्प्य तदलाभेऽम्बरैर्नयेत् ।
आसनं तत्र संकल्प्य पिण्डिकां विन्यसेद्धृदा ॥ ४२ ॥

आच्चाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् ।
सूत्रवस्त्र परिच्छन्नं नवरत्न समन्वितम् ॥ ४३ ॥

सहैमपङ्कजं कूर्च फलपल्लव वस्त्रकम् ।
तन्मध्ये सासनां देवीं अर्चयेद्गन्धसंमुकैः ॥ ४४ ॥

वर्धनीरष्टसंख्याताः कूर्चवस्त्र ससूत्रकाः ।
सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहा ॥ ४५ ॥

वामाद्यधिष्ठिता बाह्ये परितो विनिवेशयेत् ।
गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ॥ ४६ ॥

तत्त्वतत्त्वेशि संयुक्तां मूर्ति मूतीश्वरीं न्यसेत् ।
कर्णस्याधो गले कर्णादूर्ध्वे तत्त्वत्रयं न्यसेत् ॥ ४७ ॥

क्रिया ज्ञानं तथेच्छेति त्रितत्त्वेशाः प्रकीर्तिताः ।
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ॥ ४८ ॥

धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु ।
पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ॥ ४९ ॥

लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् ।
चन्दनाद्यैस्समभ्यर्च्य होमकर्म समारभेत् ॥ ५० ॥

समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।
पलाशोदुम्बराश्वत्थन्यक्रोधाः पूर्वतो दिशि ॥ ५१ ॥

शमीखादिरमायुराश्रीवृक्षा वह्निकोणतः ।
पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ॥ ५२ ॥

सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा ।
देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ॥ ५३ ॥

शान्त्यम्भः प्रोक्षणं दर्भस्पर्शनं च समारभेत् ।
तत्त्वतत्त्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ॥ ५४ ॥

प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् ।
भूति दर्भदलै रक्षां कृत्वा तत्त्वावलिं तदा ॥ ५५ ॥

अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेद्गुरुः ।
ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ॥ ५६ ॥

कृतनित्य विधानस्तु सामान्यार्घ्यकरो गुरुः ।
द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ॥ ५७ ॥

गन्धैः पुष्पैश्च धूपैश्च दीपैर्नैवेद्यकैस्तदा ।
ताम्बूलान्तैश्च संपूज्य पिण्डिकां वर्धनीं अपि ॥ ५८ ॥

अग्निहोमैश्च संतर्प्य प्रायश्चित्तं विधाय च ।
दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ॥ ५९ ॥

सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् ।
धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ॥ ६० ॥

लिङ्गसंस्थापन प्रोक्त विधिना तान्निवेशयेत् ।
पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ॥ ६१ ॥

तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिले न्यसेत् ।
नववस्त्र परिच्छन्नं शुभाशासु शिरो यथा ॥ ६२ ॥

पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके ।
पीठं संस्थापयित्वा तु तत्र लिङ्गं निवेशयेत् ॥ ६३ ॥

रत्नानि सर्वं पीठस्य गर्ते संस्थाप्य सद्गुरुः ।
सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ॥ ६४ ॥

अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् ।
पुण्याहप्रोक्षणं शान्तिकुम्भतोयाभिषेचनम् ॥ ६५ ॥

प्रागुक्त विधिना कृत्वा आसनाणुं ततो न्यसेत् ।
पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्त वर्त्मना ॥ ६६ ॥

लिङ्गाग्रनिहितं वापि शिवकुम्भं च वर्धनीम् ।
वामादि वर्धनी युक्तां वेदिकान्तर संस्थिताम् ॥ ६७ ॥

देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसेत् ।
संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुताम् ॥ ६८ ॥

वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थं आरभेत् ।
जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ॥ ६९ ॥

लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः ।
स्नपनं कारयेदन्ते पञ्चामृत्विधिस्तु वा ॥ ७० ॥

केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ७१ ॥

तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा ।
लिङ्गसंस्थापनप्रोक्तं दक्षिणाद्यं च दापयेत् ॥ ७२ ॥

चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः ।
विशेषपूजा कर्तव्या होमेन च समन्विता ॥ ७३ ॥

पूर्वोक्तैरणुभिश्शाक्तैः पायसैर्होममाचरेत् ।
चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ॥ ७४ ॥

बाणादौ स च नेष्टस्स्यादथवा परिभाव्यताम् ।
पीठ संस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ॥ ७५ ॥

समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ॥ ७६ ॥

Uttarapāda – Kapitel 49: Die Liṅga-Weihe für besondere Anliegen

काम्यलिङ्ग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् ।
काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ॥ १ ॥

कन्यसं मध्यमं ज्येष्ठं श्रेष्ठं चेति चतुर्विधम् ।
प्रत्येकं त्रिविधं प्रोक्तं उत्तमादि विभेदतः ॥ २ ॥

फलं दृष्टं अदृष्टं च द्विविधं तत्परापरम् ।
कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ॥ ३ ॥

उत्तमं खेचरत्वं व श्रेष्ठं देवसमानता ।
भिद्यते बहुधैकैकं विद्येशत्वादि भेदतः ॥ ४ ॥

विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवं पदम् ।
इत्येवमादि दैवत्वं श्रेष्ठमित्युच्यते बुधैः ॥ ५ ॥

सिद्धयश्चाणिमाद्याश्च चक्रवर्तित्वमेव च ।
इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुङ्गवाः ॥ ६ ॥

गुलिकाञ्जन पाताल खद्ग घण्टादि मध्यमम् ।
अपमृत्युजयोच्चाट वश्याद्यं अधमं मतम् ॥ ७ ॥

दृष्टत्वे तदनेनैव यद्देहेनोपभुज्यते ।
देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ॥ ८ ॥

मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् ।
अपरं तत्परं विद्यादनन्तादि पदस्थितिः ॥ ९ ॥

न सिद्धिर्न च मुक्तिश्च लिङ्गाश्रयणमन्तरा ।
शिवलिङ्गमनादृत्य सिद्धिमुक्त्यभिलाषिणः ॥ १० ॥

एते मूढधियस्तीर्णाः किं भीमं भवसागरम् ।
भवाभीष्टफलं प्राप्ताः सिद्धसिद्धाः सुरा मताः ॥ ११ ॥

रत्नलिङ्गजपा मूढाः का युक्तिर्भ्रान्तिचेतसः ।
तस्माल्लिङ्गाश्रयात्सिद्धिर्युक्तलिङ्गं समाश्रयेत् ॥ १२ ॥

विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः ।
विधिवल्लिङ्गमाराध्य फलमिष्टतमं गताः ॥ १३ ॥

स्वायम्भुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः ।
सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ॥ १४ ॥

स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् ।
यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ॥ १५ ॥

तत्र संसाधयेत् सिद्धिं आचार्यस्साधकोऽपि वा ।
स्वयं कर्तुं अशक्तानां नृपतीनां हिताय च ॥ १६ ॥

देशिकस्साधयेत्सिद्धिं चतुर्णां वा हिताय च ।
स्वस्य वान्यस्य वा कर्तुर्हितकृद्देशिकोत्तमः ॥ १७ ॥

लिङ्गार्थं आकरं यायात् स्वस्य कृत्यानुसारतः ।
शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ॥ १८ ॥

तानि द्रव्याणि बहुधा शिलामृल्लोह दारुभिः ।
रत्नक्षणिकवस्तूनि कथ्यन्ते तान्यशेषतः ॥ १९ ॥

श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा ।
चतुर्णामपि वर्णानां शिला धात्री च संमता ॥ २० ॥

एताश्चतस्रो विप्रस्य तिस्रो राज्ञां उभे विशः ।
एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ॥ २१ ॥

तत्तद्भूजनिता एव मृदो लिङ्गार्थं ईरिताः ।
फलं लिङ्गानुरूपेण शिलानां समुदाहृतम् ॥ २२ ॥

पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि ।
श्रीकामस्य सुवर्णोत्थं राज्यकामस्य राजतम् ॥ २३ ॥

आयसं मारणे लिङ्गं उन्मादे कांस्यजं भवेत् ।
उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्रवृद्धये ॥ २४ ॥

वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् ।
लोहलिङ्गं समाख्यातं रत्नलिङ्गमथोच्यते ॥ २५ ॥

वज्रलिङ्गं क्षितीशत्वे मौक्तं आरोग्यदं भवेत् ।
इन्द्रनीलमयाल्लिङ्गात् सर्वान् कामान् समश्नुते ॥ २६ ॥

महानीलमयाल्लिङ्गाद्वैष्णवं पदमाप्नुयात् ।
वैडूर्याद्व्याधिनाशस्स्यात् सौभाग्यं पुष्परागजात् ॥ २७ ॥

आरोग्यदं मरकतं प्रवालं च वशीकरम् ।
राजावर्तमयाल्लिङ्गान्महाभोगं समश्नुते ॥ २८ ॥

नैलं नागेन्द्रभोगाय शङ्खं सौभाग्यदं भवेत् ।
शूलाक्षमणिजं शत्रुक्षयाय पुलकं तथा ॥ २९ ॥

सस्यकं सस्यनिष्पत्यै सौरार्थं सूर्यकान्तजम् ।
चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ॥ ३० ॥

स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये ।
वैक्रान्तकं महावृत्तरक्तायस्कान्तजं हितम् ॥ ३१ ॥

क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् ।
गुणाद्दृष्टफलं प्रोक्तं परासु मणिजातिषु ॥ ३२ ॥

इत्थं रत्नजं आख्यातं दारुजं कथ्यतेऽधुना ।
सारवद्वृक्षजं भूत्यै क्षीरद्रुमजं आयुषे ॥ ३३ ॥

माधुर्यगन्धगुणवज्ज्ञानसौभाग्यकीर्तिदम् ।
रक्ताह्वचन्दनाशोकं शिंशुपाशोकबिल्वजम् ॥ ३४ ॥

सर्वदुःखादि राहित्ये पिशाचजमरिच्छिदे ।
यद्वा साधकनक्षत्र वशाल्लिङ्गं तु दारुजम् ॥ ३५ ॥

कारस्करं चामलकं तथोदुम्बरजम्बुकौ ।
खदिरःकृष्णककुभौ शिरीषाश्वत्थकौ ततः ॥ ३६ ॥

पुन्नागश्चैव न्यक्रोधः पलाशः प्लक्षकस्तथा ।
अम्बष्ठबिल्वार्जुनकाश्शाल्मली वकुलस्तथा ॥ ३७ ॥

पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा ।
आम्रार्कौ च कदम्बश्च वह्निनिम्बौ तथैव च ॥ ३८ ॥

मधुकश्चाश्विनीपूर्व नक्षत्राणां तु पादपाः ।
एभिरृक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ॥ ३९ ॥

विधाय लिङ्गं कर्तव्यं साध्यर्क्षे मारणादिकम् ।
श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ॥ ४० ॥

चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् ।
सरलं सर्वकाम्यार्थं खादिरं रोगनाशनम् ॥ ४१ ॥

साप्तपर्णं च सालोत्थं राजादन समुद्भवम् ।
विशेषात् सर्ववर्णानां सर्व कामार्थ साधनम् ॥ ४२ ॥

उदुम्बरमयं पुष्ट्यै शान्त्यै न्यक्रोधसंभवम् ।
वश्यायाश्वत्थजं लिङ्गं आरोग्ये खादिरं भवेत् ॥ ४३ ॥

लिङ्गं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः ।
दारुजं लिङ्गमाख्यातं क्षणिकं लिङ्गमुच्यते ॥ ४४ ॥

सैकतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् ।
अन्नं अन्नाद्यकामस्य पैष्टं पुष्टिप्रदायकम् ॥ ४५ ॥

गौलं प्रीतिकरं प्रोक्तं फलं इष्टार्थसिद्धये ।
घृतेन कल्पितं लिङ्गं ह्लादकृद् दुःखिनामपि ॥ ४६ ॥

ह्लादकृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् ।
विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ॥ ४७ ॥

स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् ।
बिल्वादिपत्रजं लिङ्गं यत्तत्पुत्रविवर्धनम् ॥ ४८ ॥

तद्बीजजनितं लिङ्गं विशेषात् तृप्तिकारणम् ।
धान्यतण्डुलजं लिङ्गं तत्तद्द्रव्यफलप्रदम् ॥ ४९ ॥

कन्दमूलमयं लिङ्गं ब्रह्मतत्त्वस्य कारणम् ।
रोगहृत् साक्तवं लिङ्गं तथा लाजविनिर्मितम् ॥ ५० ॥

जलेन निर्मितं लिङ्गं प्रणिनां शान्तिपुष्टितम् ।
लिङ्गं यच्चित्रितं सद्यो विचित्र फलदायकम् ॥ ५१ ॥

कर्पूरचन्दनाद्यैस्तु लिङ्गं यत्तज्ज्वरापहृत् ।
द्रव्याणि कथितान्येवं लक्षणं च विधीयते ॥ ५२ ॥

प्रासादगर्भ मानेन लिङ्गं ज्येष्ठादि भेदतः ।
मुख्यतस्सिद्धये प्रोक्तं मुक्त्यर्थं अनुषङ्गतः ॥ ५३ ॥

हस्तादि लिङ्गमानानि यानि तानि विमुक्तये ।
भुक्तये चानुषङ्गेण भवन्ति विधियोगतः ॥ ५४ ॥

गर्भार्धं अधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् ।
तदन्तरेऽष्टभागे तु नवलिङ्गानि सन्ति हि ॥ ५५ ॥

तस्मात्तस्मात् अधस्तात्तु त्रीणि त्रीणि भवन्ति हि ।
षट्त्रिंशन्मानमुद्दिष्टं गर्भमानं द्विजोत्तमाः ॥ ५६ ॥

प्रासादे वा ततो वह्निवेदग्रहविभाजिते ।
द्वारि वांशं परित्यज्य सपीठाश्रा विशेषतः ॥ ५७ ॥

पूर्ववच्च प्रमाणानि लिङ्गानां विहितानि तु ।
एकाङ्गुलं समारभ्य चाङ्गुअलाङ्गुल वृद्धितः ॥ ५८ ॥

अष्टोत्तरशतान्तं तु त्रिविधाङ्गुल मानतः ।
एकहस्तं समारभ्य षडङ्गुल विवृद्धितः ॥ ५९ ॥

नवहस्त प्रमाणान्तं हस्तमानवशान्नयेत् ।
हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ॥ ६० ॥

पादोनं दारुजं लोहमस्यार्धेनैव संमतम् ।
अङ्गुलादि वितस्त्यन्तं रत्नलिङ्गं द्विजोत्तमाः ॥ ६१ ॥

आयादि शुभसंयुक्तं नयेत् कर्मानुरूपतः ।
हस्तादधः स्थितं शैलं योज्यमुच्चाटनादिषु ॥ ६२ ॥

लिङ्गायामैकभागे तु वेदभागेन विस्तरः ।
खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु ॥ ६३ ॥

चतुरश्रं तथाष्टाश्रं कूर्चावृत्त शिरोवहम् ।
अर्धचन्द्रशिरो युक्तं स्थापयेदैन्द्रपीठके ॥ ६४ ॥

पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिङ्गं वज्रशिरो यथा ।
वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम् ॥ ६५ ॥

लिङ्गोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् ।
वस्वश्रं पूर्ववद्वृत्ते सप्ताश्रं स्वां दिशं विना ॥ ६६ ॥

आग्नेयपीठे तल्लिङ्गं वह्निदिक्स्वाम्यसिद्धये ।
लिङ्गं शक्तिशिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ॥ ६७ ॥

शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः ।
तापदाहं रिपोः कुर्याल्लिङ्गमाग्नेयकं द्विजाः ॥ ६८ ॥

नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः ।
प्रधानभुजयोर्याम्यं वृत्तमग्निच्च्युतिः क्रमात् ॥ ६९ ॥

याम्यदिक्स्वाम्य सिद्ध्यर्थं स्थापयेद्याम्यपीठके ।
लिङ्गं दण्डशिरोयुक्तं स्थापयेद्विधिना मतम् ॥ ७० ॥

गुरुदण्डं तु याम्यायां आयुर्वृद्धिं च पौरुषम् ।
रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः ॥ ७१ ॥

मारीं च भेदनं रोगं विधत्ते नात्र संशयः ।
दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम् ॥ ७२ ॥

अष्टाश्रं पूर्ववद्वृत्तं दशाश्रसहितं द्विजाः ।
स्थापयेद्राक्षसे पीठे स्वदिक्साधन सिद्धये ॥ ७३ ॥

खद्गाङ्गं पीठिकायां तु स्थापयेदसिमस्तकम् ।
अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ॥ ७४ ॥

तत्सैन्यध्वंसमुन्मादं रक्षोमारि प्रवर्तनम् ।
कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ॥ ७५ ॥

उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् ।
चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम् ॥ ७६ ॥

वारुण्यां स्थापयित्वा तु तद्दिगीशत्वं आप्नुयात् ।
पाशमस्तकयुक्तं तत् पाशकाय विधानतः ॥ ७७ ॥

प्रतिष्ठाप्य परां शान्तिं पुष्टिश्री वृद्धि सौष्ठवम् ।
व्याधिहानिं च सौभाग्यं आप्नुयान्नात्र संशयः ॥ ७८ ॥

गायत्र्यंशे भवेद्दैर्घ्यं सप्तभागं तु विस्तरे ।
नवभक्ते त्रिभिर्भक्ते मध्ये षड्रसवृद्धये ॥ ७९ ॥

तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः ।
वायव्यां तु प्रतिष्ठाप्य वायुदिक्स्वाम्यं आप्नुयात् ॥ ८० ॥

लिङ्गं ध्वजशिरोयुक्तं ध्वजाङ्कायं न्यसेद्गुरुः ।
तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् ॥ ८१ ॥

भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः ।
पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ॥ ८२ ॥

यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक्स्वाम्यमाप्नुयात् ।
गदामस्तक लिङ्गं तु गदाङ्के स्थाप्य देशिकः ॥ ८३ ॥

जाम्बूनदसुखप्राप्तिं अतीवबलदं मतम् ।
जयं धैर्यं तथा राज्यप्राप्तिं च प्रभुतामपि ॥ ८४ ॥

लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् ।
दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसंभवम् ॥ ८५ ॥

एकादशांशो विष्ण्वंशः पार्श्वै रामैस्तु वर्धनात् ।
अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ॥ ८६ ॥

कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके ।
स्थापयिता स्वदिग्साम्यं लिङ्गं शूल शिरोयुतम् ॥ ८७ ॥

शुलाख्यायां तु संस्थाप्य पृथिवीशत्वमाप्नुयात् ।
ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम् ॥ ८८ ॥

शिवप्रदायकं सौख्यं तद्वत् साम्राज्य सिद्धिदम् ।
उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ॥ ८९ ॥

वस्वस्रं पूर्ववद् वृत्तं लिङ्गं छत्र शिरोयुतम् ।
ब्राह्म्यां संस्थाप्यित्वा तु स्वदिगीशत्वं आप्नुयात् ॥ ९० ॥

तदेवाब्जशिरः पाद्मं पद्माङ्कायां प्रतिष्ठितम् ।
खेचरीशत्वं आप्नोति साम्राज्यफल साधनम् ॥ ९१ ॥

गायत्र्यंशे तु लिङ्गोच्चे शरांशैश्चतुरश्रकम् ।
पूर्ववन्मध्यवृत्ते तु मस्तकं त्रपुषोपमम् ॥ ९२ ॥

संस्थाप्य गारुडे पीठे तद्दिक्स्वाम्यफलं भवेत् ।
चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ॥ ९३ ॥

न्यस्त्वा पातालसिद्धिं च रसायनं अवाप्नुयात् ।
लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ॥ ९४ ॥

तथा विष्णुर्हरश्चापि विस्ताराच्च तथैव ते ।
सिद्धिलिङ्गं इदं श्रेष्ठं विच्छायादोषपिण्डिकम् ॥ ९५ ॥

आप्यादि देवलिङ्गेषु लोकपालार्चितेषु वा ।
सहस्रलिङ्गं कर्तव्यं तच्च प्रागुक्तवन्नयेत् ॥ ९६ ॥

सर्वान् कामान्ददात्येतद्वागीशीकृत लक्षणम् ।
अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ॥ ९७ ॥

अष्टोत्तरशतं लिङ्गं सूत्रैर्विषययोजितैः ।
आढ्यादिलिङ्गान्युत्सेधैस्समखण्डानि कल्पयेत् ॥ ९८ ॥

छत्रकुक्कुट खण्डेन्दु त्रपुषाभशिरांसि हि ।
धारालिङ्गं तथैकाश्रं द्वित्रयंशाश्रादिकं द्विजाः ॥ ९९ ॥

साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता ।
मृतिरुच्चाटनं द्वेषशान्ती पुष्टिर्वशीकृतिः ॥ १०० ॥

आकर्षारोग्य रोगाश्च शोषणं च धनं सुखम् ।
मोहस्तंभाभिघाताश्च रक्षा पैशाच राक्षसैः ॥ १०१ ॥

आसुरं पौरुषं चैव सादेशैशानभैरवम् ।
देवत्वं देवराजत्वं सर्वकामफलं च यत् ॥ १०२ ॥

रुद्रत्वं च फलान्येषु लिङ्गेष्वेकाश्रकादिषु ।
एवमेव हि पीठानि कल्प्यान्यश्रविभेदतः ॥ १०३ ॥

लिङ्गानां लक्षणं ख्यातं विविच्यन्ते शिरांसि च ।
अष्टांशे तु चतुर्भक्ते भागभाग विवर्धनात् ॥ १०४ ॥

भवन्ति पुण्डरीकादिशिरांसि फलभेदतः ।
पुण्डरीकाद्यशोदीप्तिर्विशाले विपुलां श्रियम् ॥ १०५ ॥

प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् ।
कुक्कुटाण्ड शिरस्तस्य चतुर्थांश विवर्धनात् ॥ १०६ ॥

प्रजावृत्तिकरं यस्मात् प्रजां लेभे प्रजापतिः ।
तत् त्रिभागैकभागेन वर्तनादिषु मस्तकम् ॥ १०७ ॥

सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् ।
षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ॥ १०८ ॥

साध्याश्च ऋषयो देवो यस्माद् भूतिं परां गताः ।
साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ॥ १०९ ॥

प्राप्ताःस्वं स्वमभिप्रेतं तदन्ते पदमव्ययम् ।
छत्रादि शीर्षमालोक्तं वज्रादीनां निगद्यते ॥ ११० ॥

Uttarapāda – Kapitel 50: Die Aufstellung der Göttin

देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
शिलादि द्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ॥ १ ॥

ग्रामादौ शिवहर्म्ये तु अष्टदिग्वन्तरालके ।
गौरीप्रतिष्ठा कर्तव्या इष्टदेशे मनोरमे ॥ २ ॥

त्रिहस्ताद्येकपञ्चाशत् हस्तविस्तार संयुतम् ।
तस्या धाम विधातव्यं उत्सेधाद्यं तु पूर्ववत् ॥ ३ ॥

अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् ।
शालाकारं सभाकारं प्रासादाकरमेव च ॥ ४ ॥

मस्तकस्थूपि संख्यास्याद् एकादेकादशान्तिका ।
दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ॥ ५ ॥

शिवायतन देवा वा गणपः षण्मुखोऽपि वा ।
सिंहो वा वृषभो वापि वाहनं परिकीर्तितम् ॥ ६ ॥

शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् ।
पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यम् समीरितम् ॥ ७ ॥

उत्तरास्यं तु वा कुर्यात् सर्वं तत्सम्पदां पदम् ।
कृताचेद्गर्भमानेन तद्विस्तारो विशिष्यते ॥ ८ ॥

आयामो वाथ संग्राह्यः प्रतिमालक्षणोक्तितः ।
धाम्नि दिग्देवताः स्थाप्यास्तद्देवी रूपविग्रहाः ॥ ९ ॥

रुद्रस्कन्द गणेशा वा द्वादशान्त तलान्विते ।
हर्म्यकोणेषु वृषभं सिंहं वा परिकल्पयेत् ॥ १० ॥

प्रासाद भित्ति देवानां अशेषाणामपि प्रभोः ।
प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ॥ ११ ॥

रुद्रावतार क्रीडासु प्रतिष्ठा नैव कीर्तिता ।
प्राकार परिवारांश्च मण्टपादींश्च कल्पयेत् ॥ १२ ॥

वामाद्याश्शक्तयो वापि परिवारे व्यवस्थिताः ।
श्री दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ॥ १३ ॥

सन्ध्या सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः ।
प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ॥ १४ ॥

धृतिर्मतिश्च पूर्वादि क्रमाद्देव्यः प्रकीर्तिताः ।
अथवा ज्येष्ठयोपेतास्सप्त मातर ईरिताः ॥ १५ ॥

देहली पेषणी चुल्ली खण्डनोलूखली तथा ।
मुसली मुद्गरी देवी वर्धमानी च वा मताः ॥ १६ ॥

चतुर्हस्ता इष्टास्त्राः पद्महस्तास्तु व मताः ।
वृषो गणधिपः स्कन्दो महाशास्ता धनेश्वरः ॥ १७ ॥

वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि ।
नैरृते वाग्निदेशे वा विघ्नेशं संप्रकल्पयेत् ॥ १८ ॥

इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि ।
निर्माल्यधारिणीं देवीं अशनीं ईशगोचरे ॥ १९ ॥

पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः ।
महापीठे विशेषेण सर्वाश्चाप्सरसः स्थिताः ॥ २० ॥

देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः ।
पूजांश सदृशं वाथ द्विगुणं त्रिगुणं तु वा ॥ २१ ॥

चतुष्पञ्चगुणं वापि पूजांशोच्च त्रिपादकम् ।
अर्धं तदन्तरेऽष्टांशे नवमानं च वा भवेत् ॥ २२ ॥

पूजांशोच्चं चतुर्त्रिंशच्छतं वाथ विभज्य च ।
भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ॥ २३ ॥

लिङ्गमानवशाद्देवीमानं निष्कल संज्ञके।
प्रतिमा मानतस्तस्या मानमेवं समीरितम् ॥ २४ ॥

स्वयंप्रधाना देवी चेत् स्वधामादि प्रमाणजा ।
तच्च पूर्ववदेव स्यादथ मानाङ्गुलेन वा ॥ २५ ॥

मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् ।
ततश्चेयं प्रकर्तव्या देवी प्रोक्त प्रमाणतः ॥ २६ ॥

चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका ।
दुकूलवसना देवी करण्ड मकुटान्विता ॥ २७ ॥

वरदाभ्य संयुक्ता पाशाङ्कुश करान्विता ।
द्विभुजा वा द्विनेत्रा वा प्रलम्बित करान्विता ॥ २८ ॥

पद्महस्तातिशान्ता च सा देवी कनक प्रभा ।
शुकोत्पलकरा वापि शूलपाशकरापि वा ॥ २९ ॥

यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा ।
दंष्ट्राकराल वदना पञ्चास्या दशदोर्युता ॥ ३० ॥

देवोक्तात्रासना वापि देवालिङ्गन तत्परा ।
देवोरुसंस्थिता वापि स्थानकासन संयुता ॥ ३१ ॥

प्रलम्ब वामपादा वा लम्बितापर पादिका ।
देवेन सहिता वापि केवला वा प्रकीर्तिता ॥ ३२ ॥

श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः ।
ऋज्वाकारयुता वापि द्विभङ्गसहिताथवा ॥ ३३ ॥

मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः ।
उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजम् ॥ ३४ ॥

लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा ।
अङ्गेषु मानं संग्राह्यं जानूरू सममेव वा ॥ ३५ ॥

एवं देवी प्रकर्तव्या तस्याः संज्ञाः द्विधा मता ।
मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ॥ ३६ ॥

मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् ।
तदा मनोन्मनी संज्ञां लभते विप्रसत्तमाः ॥ ३७ ॥

नृत्तमूर्त्यादि भेदेषु गौर्याद्याख्यां समस्नुते ।
कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ॥ ३८ ॥

Uttarapāda – Kapitel 51: Die Weihe Vighneśas

विघ्नेशस्थापनं वक्ष्ये लक्षणादिपुरस्सरम् ।
पुरादावष्टदिक्ष्वन्ते वान्तराले तदालयः ॥ १ ॥

शिवधाम्न्यष्टदिक्ष्वष्टस्तद्देशे मण्टपादिषु ।
चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ॥ २ ॥

आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् ।
यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ॥ ३ ॥

अथैकादित्र्यस्त्रिंशद्धस्तविस्तार संयुतः ।
एकादिनवभूम्यन्त भूमिभाग समन्वितः ॥ ४ ॥

विशेषाद्गजपृष्ठाभस्त्वन्यरूपयुतोऽथवा ।
दिक्षुविघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ॥ ५ ॥

गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः ।
पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ॥ ६ ॥

दिग्देवमूर्ति संयुक्तो मध्यकुम्भयुतो न वा ।
धाम्नस्संस्थापनेनापि युक्तः प्रागुक्त वर्त्मना ॥ ७ ॥

प्राकारमण्टपोपेतो मन्टपाद्यैश्च मण्डितः ।
मण्टपो वालयस्तस्य कूटाद्याकार एव वा ॥ ८ ॥

परितः परिवारोक्तः प्रसंगात् स च कथ्यते ।
विश्वरूपं विशालाक्षं अक्षयं मदविभ्रमम् ॥ ९ ॥

उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् ।
अस्याष्टमूर्तीशान्वाष्ट पीठानिन्द्राद्यधिष्ठितम् ॥ १० ॥

कल्पयेत् पूर्ववत् सम्यग् द्वाराग्रे मूषिक च वै ।
द्वारपौ कल्पयेद् द्वारि विकटं भीममेव च ॥ ११ ॥

कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्य धारिणम् ।
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ॥ १२ ॥

अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः ।
एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ॥ १३ ॥

हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः ।
विनायकैकदन्तौ च भक्ष्यप्रियोऽहिमेखलः ॥ १४ ॥

विग्नेश्वरनिभा ह्येते विघ्नेशस्याष्टमूर्तिपाः ।
द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ॥ १५ ॥

हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ ।
उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ॥ १६ ॥

रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ ।
धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्ट्रवान् ॥ १७ ॥

तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः ।
कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ॥ १८ ॥

रक्तवर्णो महादीप्तो भद्रपीठोपरिस्थितः ।
श्वेतवर्णा बृहत्कायाश्चित्राम्बरान्विताः ॥ १९ ॥

पाशाङ्कुशोरुसंसिक्त स्वदन्तयुतबाहवः ।
परिवारा इति ख्याता गणेशाभिमुखस्थिताः ॥ २० ॥

परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः ।
बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ॥ २१ ॥

पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः ।
भूतेशः कर्णिकाभ्यां च लोकपास्त्रीणि बाह्यतः ॥ २२ ॥

लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः ।
द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ॥ २३ ॥

पञ्चाश्द्भाजिते गर्भे पञ्चांशादेकवृद्धितः ।
त्रिंशद्भागावसानान्तं गर्भमानं उदाहृदम् ॥ २४ ॥

स्तम्भद्वारोदयादेवं मानप्यत्र भाव्यताम् ।
प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ॥ २५ ॥

केशादि पादपर्यन्तं चतुष्षष्ट्यंशतो भजेत् ।
उष्णीषं एकमात्रेण तत्केशं द्व्यङ्गुलेन तु ॥ २६ ॥

अर्काङ्गुलेन वक्त्रं स्याद् द्वाभ्यां कण्ठ इहेरितः ।
ततो हृदयपर्यन्तं रुद्राङ्गुलं इति स्मृतम् ॥ २७ ॥

अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् ।
तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ॥ २८ ॥

जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् ।
केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमुच्यते ॥ २९ ॥

दन्तमूलात्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् ।
दन्तायामाच्चतुर्मात्रं मूलनाहं तथैव च ॥ ३० ॥

दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् ।
मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ॥ ३१ ॥

नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते ।
कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ॥ ३२ ॥

कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् ।
कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ॥ ३३ ॥

मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् ।
हृदयान्नाभिसीमन्तं दशाङ्गुलमिहोच्यते ॥ ३४ ॥

नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् ।
अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ॥ ३५ ॥

जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते ।
गजवक्त्रो गणाधीशो भूतरूपो महोदरः ॥ ३६ ॥

नागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः ।
नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ॥ ३७ ॥

अवामवामावर्तेभहस्तः पद्मासनस्थितः ।
स्वदन्तं परशुं कुर्यात् स्वदक्षिण करद्वये ॥ ३८ ॥

लड्डुकं चाक्षमालां च वामापाणावथोत्पलम् ।
रक्तवक्त्रधरं वाथ श्यामाभं कनकप्रभम् ॥ ३९ ॥

पीतकञ्चुक संछन्नं किरीटमकुटोज्ज्वलम् ।
शुक्लयज्ञोपवीतं च सर्वाभरण भूषितम् ॥ ४० ॥

स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुकम् ।
स्थानकं वासनं वाथ गणेशं कारयेत्ततः ॥ ४१ ॥

त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यां अथवा द्विजाः ।
पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ॥ ४२ ॥

इष्टासनस्थितो वापि प्रभादि परिमण्डितः ।
एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ॥ ४३ ॥

गणेशो भारतीश्रीभ्यां वामेऽवामे युतोऽथवा ।
शक्त्यैकया युतो देवो यदि तल्लक्षणोज्ज्वलम् ॥ ४४ ॥

Uttarapāda – Kapitel 52: Die Aufstellung des tanzenden Śiva

नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् ।
चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः ॥ १ ॥

जटामकुट संयुक्तो वक्रनाग फणावृतः ।
पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्येकैक वृद्धितः ॥ २ ॥

त्रिंशत्संख्यावसानास्स्युर्जटास्सान्तरालकाः ।
धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ॥ ३ ॥

कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया ।
बालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ॥ ४ ॥

युक्तो वकुलमालाभिर्मुक्तादामोरगादिभिः ।
व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ॥ ५ ॥

वामदोर्मूलमालाम्बिद्वीपिचर्माम्बरान्वितः ।
दिव्याम्बरान्वितो वापि मृगाजिनयुतोऽपिवा ॥ ६ ॥

कस्थब्रह्मकपालेन नानापुष्पैरलङ्कृतः ।
धृतवाराहदन्ताग्र शार्दूलनखकच्छपैः ॥ ७ ॥

शाङ्किकैर्मणिभिः प्रोतमालया हृदि भूषितः ।
स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ॥ ८ ॥

कुञ्चितावर्तमानाङ्घ्रिः सुप्रसारित तत्करः ।
अम्बिकामुखबिम्बाब्ज भ्रमरीकृत लोचनः ॥ ९ ॥

आबद्ध किङ्किणीयुक्तस्तद्वन्नूपुर शोभितः ।
वामदक्षिण कर्णाढ्य पत्रिका नक्रकुण्डलः ॥ १० ॥

दक्षाभय करस्थेन भुजङ्गेनोत्फणेन च ।
वामापर करस्थेन वह्निना दक्षकेन तु ॥ ११ ॥

डिण्डिमेन समायुक्त उपवीतेन संयुतः ।
गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ॥ १२ ॥

नानासर्प समायुक्तस्वपस्मारोपरि स्थितः ।
मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ॥ १३ ॥

नाभेर्दक्षिणतो गुल्फे मध्ये सूत्रं प्रसारयेत् ।
ललाटमध्य सूत्रात्तु द्विमात्रमिति कीर्तितम् ॥ १४ ॥

हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् ।
श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिह सम्मतम् ॥ १५ ॥

सूत्रगुल्फद्वयोर्मध्यं एकाङ्गुलमिति स्मृतम् ।
सूत्राद्धि नतजान्वन्तं भानुदिक् नन्दमात्रकम् ॥ १६ ॥

तत्सूत्राद्वामपृष्ठान्तं सप्ताधिक दशाङ्गुअलम् ।
तत्सूत्राद्वामजान्वेकचत्वारिंशद्दशाङ्गुलम् ॥ १७ ॥

सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः ।
सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ॥ १८ ॥

ऊर्वोर्दक्षिणतस्सूत्रं सप्ताधिक दशाङ्गुलम् ।
सूत्रात्तद्वामभागे तु नवमात्रमुदीरितम् ॥ १९ ॥

सूत्रात्तु वामकण्ठस्तु पञ्चाङ्गुल उदाहृतः ।
सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ॥ २० ॥

सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् ।
अथवान्य प्रकारेण सूत्रपातोऽभिधीयते ॥ २१ ॥

कनीनिकान्तं तन्मूर्ध्नस्तद्वन्नासापुटान्ततः ।
नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ॥ २२ ॥

स्पृष्ट्वा यत् पतितं सूत्रं मध्यसूत्रमुदाहृतम् ।
सूत्राद्वामे मुखं पञ्चमात्रं कण्ठं त्रिमात्रकम् ॥ २३ ॥

बाह्वन्ते तिथिमात्रं स्यान्नवमात्रं तु कक्षगम् ।
मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ॥ २४ ॥

कटिस्तिथ्यङ्गुलेन स्यादन्यत्र षष्टिमात्रकम् ।
नवमात्रं तदूरुः स्यात् पार्ष्ण्यन्तं वेदतुङ्गकम् ॥ २५ ॥

सप्ताङ्गुलं मुखेऽन्यत्र कण्ठःस्याद्रसमात्रकम् ।
बाह्वन्ते त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ॥ २६ ॥

मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् ।
कट्यां च वेदमात्रं स्याज्जानुरष्टाङ्गुलं भवेत् ॥ २७ ॥

पादाग्रे मुखमात्रं स्यादेवं बुध्वा समाचरेत् ।
स्थितजानुसमं विद्याद्वर्तिताङ्घ्रेः समुच्छ्रयः ॥ २८ ॥

तत्पार्ष्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् ।
श्रोणीसमुच्छ्रयं वामजनोरुद्धरणं मतम् ॥ २९ ॥

तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् ।
तज्जानोर्दण्डहस्तस्य मणिबन्धान्तरं मनुः ॥ ३० ॥

तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः ।
तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद् द्व्यन्तरं मुखम् ॥ ३१ ॥

तद्दोस्समं तलोच्चं स्यात्तद्बाह्वोर्मध्यमात् पुनः ।
सप्तदशाङ्गुअलं विद्याद्दण्डहस्तस्य कोर्परम् ॥ ३२ ॥

भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गुलोच्छ्रयः ।
विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ॥ ३३ ॥

धृत डामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः ।
धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ॥ ३४ ॥

कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः ।
एकजिह्वा समायुक्तो गम्भीरध्वनिसंयुतः ॥ ३५ ॥

बाह्वोस्तु मणिबन्धान्तं चतुस्त्रिंशत्तथापरम् ।
अपस्मारोच्छ्रयं भानुरुद्रनन्दाष्ट मात्रकम् ॥ ३६ ॥

देवस्य वक्त्रमानेन स्यादपस्मारमानकम् ।
वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ॥ ३७ ॥

वक्त्रार्धमानवृद्ध्या तु सप्तमानं उदाहृतम् ।
चतुस्तालेन कर्तव्यं अपस्मारो द्विजोत्तमाः ॥ ३८ ॥

उष्णीषात् पादपर्यन्तं षडष्टांशं विभाजयेत् ।
उष्णिषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ॥ ३९ ॥

केशान्ताद्धनुपर्यन्तं अष्टभागमिति स्मृतम् ।
गलमर्धाङ्गुलं प्रोक्तं अध्यर्धं कर्ण उच्यते ॥ ४० ॥

षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः ।
तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ॥ ४१ ॥

तस्मात्तु मेढ्रमूलान्तं कौशिकाङ्गुलमुच्यते ।
ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ॥ ४२ ॥

जङ्घायामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः ।
द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ॥ ४३ ॥

व्यालं वै वामहस्ते तु तस्य मूर्धा तु दक्षिणे ।
आवृतालंकृताभङ्गी सव्यपार्श्वशिरोयुतः ॥ ४४ ॥

देवस्य वक्त्रमानेन जाह्नव्यायाम उच्यते ।
द्विभुजा च त्रिणेत्रा च करण्ड मकुटान्विता ॥ ४५ ॥

सर्वाभरण संयुक्ता कृताञ्जलिपुटान्विता ।
ऊर्ध्वभागादधोभागं तोयाकारेण कारयेत् ॥ ४६ ॥

गङ्गादेव्यानया देवस्संयुक्तो वा विवर्जितः ।
प्रभावकाशविस्तारो दशाधिकशताङ्गुलम् ॥ ४७ ॥

सप्तत्रिंशच्छतायाम तद्दण्डो भागविस्तरः ।
एकादिदशपर्यन्त मात्रैरुनाधिकापि वा ॥ ४८ ॥

द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा ।
तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ॥ ४९ ॥

कुर्याद् भृङ्गिरटिम् वाथ भद्रकालीमथाऽपि वा ।
भुजङ्गत्रास आख्यातो भुजङ्गललितस्ततः ॥ ५० ॥

भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि ।
उद्धृतस्य तलं कुर्यात् स्थितजानूर्ध्वतः क्रमात् ॥ ५१ ॥

द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि वा ।
भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ॥ ५२ ॥

भुजङ्गत्रासवत् सर्वं विशेषस्तत्र चोच्यते ।
उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ॥ ५३ ॥

स पादो देहमध्यस्थश्चोर्ध्वपाद तलान्वितः ।
चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्र भूषितः ॥ ५४ ॥

शिलादि द्रव्यमासाद्य कुर्यादेवं नटेश्वरम् ।
इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ॥ ५५ ॥

कालोऽपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् ।
रत्नन्यासाक्षिमोक्षौ च पूर्ववत् संयगाचरेत् ॥ ५६ ॥

बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् ।
जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ॥ ५७ ॥

कुण्डानि परितः पश्चान्नवपञ्चैक संख्यया ।
चतुरश्राणि वृत्तनि तद्दिगश्राणि वा नयेत् ॥ ५८ ॥

मण्टपे भोजयएद्विप्रान् सहस्रान्तान् दशाधिकान् ।
पुण्याहं वाचयेत्पश्चान्मण्टपस्य विशुद्धये ॥ ५९ ॥

समरीयपदे कुर्याद्वास्तुहोमं विधानतः ।
वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ॥ ६० ॥

पुण्याहं वाचयित्वा तु वेद्यूर्ध्वे स्थण्डिलं नयेत् ।
शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयेत्ततः ॥ ६१ ॥

कृत्वा कौतुकबन्धं तु शाययेच्छयनोपरि ।
शिरःप्रदेशे देवस्य शिवाख्यं तु घटं नयेत् ॥ ६२ ॥

वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् ।
लक्ष्णोदितरूपं तु ध्यात्वा गन्धादिभिर्यजेत् ॥ ६३ ॥

अभितः कलशानष्टौ विद्येशाधिष्ठितान्नयेत् ।
अर्चयेद्गन्धपुष्पाद्यैर्नैवेद्यान्तं गुरूत्तमः ॥ ६४ ॥

तत्त्वतत्त्वेश्वरान्मूर्तिमूर्तीशानपि विन्यसेत् ।
होमं समारभेत् काले मूर्तिपैस्सह देशिकः ॥ ६५ ॥

कृत्वा कुण्डाग्नि संस्कारं अग्निकार्योक्तमाचरेत् ।
समिदाज्यचरूं लाजान् सर्षपं च यवं तिलम् ॥ ६६ ॥

प्रियङ्गुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः ।
उदुम्बरवटाश्वत्थप्लक्षाः पूर्वादि दिक्षु च ॥ ६७ ॥

शम्यपामार्गबिल्वाश्च खदिरश्चाग्नि कोणतः ।
प्रधानस्य पलाशस्तु समिधश्चैवमीरिताः ॥ ६८ ॥

ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् ।
गेयनृत्तयुतैस्तोत्रवेदघोषैर्व्यपोह्य च ॥ ६९ ॥

रात्रिशेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् ।
समूर्तिपो गुरुः स्नातो मन्त्रसंशुद्ध देहयुक् ॥ ७० ॥

उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः ।
व्यपोह्य वस्त्रकूर्चादीन् पूजयेद्गन्धपुष्पकैः ॥ ७१ ॥

कुम्भांश्च कुण्डेष्वग्नींश्च तर्पयेच्च गुरूत्तमः ।
पूर्णाहुतिं ततो दद्याद्वौषडन्तशिवेन तु ॥ ७२ ॥

वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः ।
दक्षिणा पूर्ववत् प्रोक्ता ततः स्थापनं आरभेत् ॥ ७३ ॥

ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् ।
चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ॥ ७४ ॥

ततः कुम्भान् समुद्धृत्य सर्वातोद्य समाकुलम् ।
हर्म्यप्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ॥ ७५ ॥

कुम्भाद्बीजं समादाय महेशस्य हृदि न्यसेत् ।
वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ॥ ७६ ॥

विद्येशान् पीठपद्मेषु तत्तद्देशेऽभिषेचयेत् ।
देवीयागोक्तमार्गेण देवीं च स्थापयेद्गुरुः ॥ ७७ ॥

तदन्ते कारयेद्धीमान् कल्याणमपि देशिकः ।
उत्सवं कारयेत् पश्चात् तथा वित्तानुसारतः ॥ ७८ ॥

अनुक्तामत्र सामान्यस्थापनोदितमाचरेत् ।
एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ॥ ७९ ॥

स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ॥ ८० ॥

Uttarapāda – Kapitel 53: Die Aufstellung Somāskandas

वक्ष्यामि सोमोमास्कन्द सुखेशस्थापनं परम् ।
तल्लक्षण समायुक्तं तच्चेदानीम् प्रकथ्यते ॥ १ ॥

चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।
सर्वाभरण संयुक्तो वरदाभय हस्तकः ॥ २ ॥

कृष्णापरशु युक्तोर्ध्व वामेतर करान्वितः ।
असव्यसव्य कर्णस्थ पत्रिकानक्रकुण्डलः ॥ ३ ॥

सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ।
सालम्बदक्षपादेन वामे गौर्या च संयुतः ॥ ४ ॥

सर्वलक्षणसंयुक्तस्सर्वाभरण भूषितः ।
ललाटनासिका नाभि मेढ्रपाद्गुल्फ मध्यमे ॥ ५ ॥

श्रोणिस्फिक् संस्थितं सूत्रं मध्यसूत्रं इति स्मृतम् ।
मुखान्तात् पिप्पिलीमूलाद्ग्रीवापार्श्वात्तथैव च ॥ ६ ॥

चूचुकस्याथ मध्यात्तु कटिस्थं पार्श्वगं मतम् ।
उष्णीषात्तु ककुद्वंश कण्ठस्फिङ्मध्यमाद्गतम् ॥ ७ ॥

पृष्ठसूत्रं इति प्रोक्तं […]
पार्श्वस्थात् सार्धमात्रकम् ।
हित्वा पार्श्वद्वयोश्चैव ततस्स्यादूरु दैर्घ्यकम् ॥ ८ ॥

जानुः पक्षाङ्गुलं वामे लम्बितस्य गुणाङ्गुलम् ।
सूत्रात्तु वामजान्वन्तं ऊर्ध्वकायार्ध मानकम् ॥ ९ ॥

ऊरुमूलात्तु षण्मात्रं नालकान्तं द्विजोत्तमाः ।
तलाग्रादूरुमध्याच्च द्व्यन्तरं तु गुणाङ्गुलम् ॥ १० ॥

सूत्राल्लम्बाङ्घ्रिपार्ष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् ।
कटकान्मणिबन्धाधोदेशे कट्यग्रसीमगम् ॥ ११ ॥

नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् ।
वरदं चेत्तु तत्पृष्ठान्नाभ्यन्त सममिष्यते ॥ १२ ॥

वामे देव्या समायुक्तस्तदध्यायप्रसिद्धया ।
स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ॥ १३ ॥

देवोच्च दशभागैकभागेनाथ द्विभागतः ।
त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ॥ १४ ॥

द्विनेत्रस्स द्विबाहुश्च करण्डमकुटान्वितः ।
कर्णयोर्नक्रपिण्डौ तु सर्वाभरण भूषितः ॥ १५ ॥

दक्षभाग करस्थाब्जः प्रसारित करोऽपरः ।
द्विहस्त पङ्कजो वाथ नृत्तरूपयुतोऽथवा ॥ १६ ॥

देव्यूरु संस्थितो वापि निष्पङ्कजकरोऽथवा ।
आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ॥ १७ ॥

स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः ।
सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ॥ १८ ॥

प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका ।
रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ॥ १९ ॥

हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् ।
तत्तत्प्रतिष्ठाध्यायोक्त मन्त्रैरपि समन्वितम् ॥ २० ॥

तत्तत्पीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् ।
दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ॥ २१ ॥

जलाधिवासनं प्राग्वद् भवेन्मण्टपमाचरेत् ।
दिगश्रान्यथ वृत्तनि वेदाश्राणि च वा नयेत् ॥ २२ ॥

कुण्डानि नवपञ्चैक संख्यया कुट्टिमाद्बहिः ।
शिल्पिनं च विसृज्याथ विप्रान् संभोजयेत्ततः ॥ २३ ॥

पुण्याहप्रोक्षणं वास्तुहोमं स्थण्डिलकल्पनम् ।
शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ॥ २४ ॥

कौतुक त्रितयं बध्वा त्रिषु तां शाययेत्ततः ।
वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ॥ २५ ॥

शिवकुम्भं शिरोदेशे शिवस्य च तदुत्तरे ।
विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणे घटम् ॥ २६ ॥

स्कन्धेनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयेत्ततः ।
लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ॥ २७ ॥

परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् ।
तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ॥ २८ ॥

कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः ।
तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ॥ २९ ॥

पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ।
शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ॥ ३० ॥

प्रधानेऽप्यादिभिः प्रोक्तः पूर्णान्तं कर्म कारयेत् ।
षण्मुखं च तदा देवीं प्रधाने तर्पयेद्गुरुः ॥ ३१ ॥

एते विभिन्न पीठश्चेत् पृथङ्मण्टपमाचरेत्
द्वितीये देवकुम्भाग्नीं तर्पयेत् पूर्ववर्त्मना ॥ ३२ ॥

संप्राप्तदशनिष्कादि दक्षिणो मूर्तिपादिभिः ।
वस्त्रहेमाङ्गुलीयादि पूजितो गुरुरादरात् ॥ ३३ ॥

कुम्भाद्बीजं समादाय महेशान हृदि न्यसेत् ।
वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ॥ ३४ ॥

सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।
गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ॥ ३५ ॥

अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् ।
एते विभिन्न पीठश्चेत् पृथङ्मण्टपमाचरेत् ॥ ३६ ॥

कल्याणकर्म कर्तव्यं यथाविधि विशेषतः ।
अनुक्तमत्र यत् कुर्यात् सामान्यस्थापनोक्तवत् ॥ ३७ ॥

इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः ।
स यास्यति शिवेनैक्यं इह सिद्धिं च सोऽश्नुते ॥ ३८ ॥

Uttarapāda – Kapitel 54: Die Aufstellung Candraśekharas

इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षणपूर्विकाम् ।
आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ॥ १ ॥

चतुर्भुजस्त्रिणेत्रश्च समपात् स्थानके स्थितः ।
वराभय समायुक्तः पूर्वस्थ करपल्लवः ॥ २ ॥

वरदं वामहस्ते स्यादभयं दक्षिणे करे ।
वरदं यदि तं कुर्यादथान्यः सिंहकर्णकः ॥ ३ ॥

ऊरुस्पृष्टकरो वापि कटको वा विधीयते ।
मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ॥ ४ ॥

मृगटङ्कौ तु कर्णान्तौ कर्तरी संव्यवस्थिता ।
पराङ्मुखो संमुखो वा मृगटङ्कौ समीरितौ ॥ ५ ॥

दिङ्मात्रं कर्तरी बाहुमध्यमं परिकीर्तितम् ।
हिक्कायाः कर्तरी मध्यं एकत्रिंशदथाङ्गुलम् ॥ ६ ॥

मणिबन्धकबाह्वोस्तु मध्यमं द्वादशाङ्गुलम् ।
श्रोण्यन्तात् कूर्परादर्वागन्तरं पूर्वहस्तयोः ॥ ७ ॥

शरैर्वा कौशिकैर्वापि सार्धाङ्गुलरसैस्तु वा ।
स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ॥ ८ ॥

नाभेरभयहस्तान्तं गुणाङ्गुलमिति स्मृतम् ।
स्तनान्तादभयाग्रान्तं द्वादशाङ्गुलमिष्यते ॥ ९ ॥

कटकाधःप्रदेशं तु मेढ्रमूलसमं भवेत् ।
ऊरुमूले कटकान्तं स्पृष्टं वाथ गुणान्तरम् ॥ १० ॥

सार्धभागद्वयेनाथ भागाभ्यां वाथ कल्पयेत् ।
ऊर्वादिमध्यमात्राणां जान्वोरप्यन्तरं क्रमात् ॥ ११ ॥

एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् ।
अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ॥ १२ ॥

जङ्घयोर्मूलमध्याग्रं वेदभूतरसान्तकम् ।
अङ्गुष्ठयोर्द्वयोर्मध्यं विद्येशाङ्गुलमीरितम् ॥ १३ ॥

भागं पार्ष्ण्यन्तरं प्रोक्तं ततस्सूत्राणि लम्बयेत् ।
तत्पार्श्वयोस्त्रिसूत्राणि मुखकर्णभुजावधि ॥ १४ ॥

पुरः पृष्ठे च मध्ये च नव तान्यवलम्बयेत् ।
प्रलम्बफलकामूर्ध्नि स्थापयित्वावलम्बयेत् ॥ १५ ॥

ललाटघ्राणहृन्नाभि मेढ्राङ्घ्रियुगमध्यमे ।
सूत्रं पुरःस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ॥ १६ ॥

मुखान्तपिप्पिलीकर्णमूलचूचुकपात्तले ।
कर्णकण्ठस्तनानां तु बाह्वो श्रोणिस्पृगेव च ॥ १७ ॥

मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यगपरं गतम् ।
एवं पार्श्वे त्रिसूत्राणि लम्बयेद्देशिकोत्तमः ॥ १८ ॥

कृकाटिकाककुत्कर्ण स्फिक्पार्ष्णीनां तु मध्यमे ।
मस्तकाल्लम्बनीयं स्याद्यथा पृष्ठककुद्गतम् ॥ १९ ॥

देहस्यान्तर्गतं मध्यसूत्रं स्यान्मुनिपुङ्गवाः ।
उष्णीषभूषणं कुर्यात् त्रिमात्रेण विशेषतः ॥ २० ॥

पार्श्वयोः पुरतः पृष्ठे चतुष्पूरिसमन्वितम् ।
मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ॥ २१ ॥

पार्श्वयोः पत्रकूटं स्यात् पृष्ठे स्याद्रत्नकूटकम् ।
अग्रे दशाङ्गुलं तस्य मूले तु मुखविस्तरम् ॥ २२ ॥

तत्तत्त्रिगुणनाहं तु वामेऽवामेऽर्धचन्द्रकम् ।
वामे महाफणिं तस्य सर्वालङ्कारभूषितम् ॥ २३ ॥

जटभिः पञ्चभिर्ग्रन्थिं त्रिमात्रेण विशेषतः ।
एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ॥ २४ ॥

जटामकुटमेतद्धि सर्वालङ्कारमीरितम् ।
रत्नपत्रिकया वापि शङ्खपत्रिकयापि वा ॥ २५ ॥

पद्मपत्रिकया वापि शोभितं वामकर्णकम् ।
सव्यं मकरसिंहाख्य पत्रकुण्डलकैर्युतम् ॥ २६ ॥

पृष्ठतः कर्णपर्यन्तं केशावर्ति विलम्बनम् ।
पार्श्वयोर्बाहुमूलात्तु जटाग्राणां विलम्बनम् ॥ २७ ॥

हारयुग् ग्रीवसंयुक्तं तथा कर्णिकयान्वितम् ।
वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ॥ २८ ॥

सुपत्रवलयोपेतास्सर्वरत्नोपशोभिताः ।
मुक्तादाम विलम्बाश्च तदग्रे मणिभूषणम् ॥ २९ ॥

कराग्रं कटकोपेतं अङ्गुल्यो मुद्रिकान्विताः ।
छन्नवीरोत्तरीयोपवीतैस्सोदरबन्धनः ॥ ३० ॥

समस्तरत्नपाशाढ्यकृत्रिमाननदामभिः ।
संयुक्तकटिसूत्रोऽन्तः पादजालकसंयुतः ॥ ३१ ॥

चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ।
सापीह भिन्नपीठा वा देवेनालिङ्गिताथवा ॥ ३२ ॥

तयालिङ्गितदेवो वा अन्योन्यालिङ्गितस्तु वा ।
आलिङ्गन न युतो वा स्यान्निराभङ्गोऽथवा मतः ॥ ३३ ॥

एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।
कालोऽपि प्राग्वदुद्दिष्टस्तद्वदेवाङ्कुरार्पणम् ॥ ३४ ॥

रत्नन्यासं दृशां मोक्षं बेरशुद्धिं प्रदक्षिणम् ।
जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ॥ ३५ ॥

कुण्डानि परितः कुर्यान्नवपञ्चैक संख्यया ।
तद्दिगश्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ॥ ३६ ॥

विप्रान् संभोजयेत्पश्चात् पुण्याहं वाचयेत्ततः ।
समरीयपदे वास्तुहोमः कार्यो द्विजोत्तमाः ॥ ३७ ॥

पुण्याहं वाचयित्वा तु शय्यायाः कल्पनं नयेत् ।
स्नपनं कौतुकं शय्यारोहणं पृथगाचरेत् ॥ ३८ ॥

ततः कुम्भं शिरोदेशे वर्धनी च तदुत्तरे ।
लक्षणोदितरूपं च स्मरन्नभ्यर्चयेत्तयोः ॥ ३९ ॥

परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठितान्न्यसेत् ।
न्यस्यैव तत्त्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ॥ ४० ॥

कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नकैस्तिलैः ।
लाजसस्येन्द्रकैश्चैव वटोदुम्बर संज्ञकौ ॥ ४१ ॥

अश्वत्थकपलाशौ च दिक्ष्वेवं समिधो मताः ।
शम्यपामार्गश्रीवृक्षमायूरा वह्निकोणतः ॥ ४२ ॥

प्रत्येकं पूर्ववद्धुत्वा पूर्णान्ते देशिकोत्तमः ।
प्रभाते देवकुम्भाग्नीनभ्यर्च्य गुरुरादरात् ॥ ४३ ॥

वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यैस्समन्वितः ।
संप्राप्त दक्षिणः प्राग्वन्मन्त्रन्यासं समाचरेत् ॥ ४४ ॥

प्रतिमाग्रे घटान्न्यस्य कुम्भाद्बीजं तु विन्यसेत् ।
देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ॥ ४५ ॥

सहजा चेत्तु तद्देवी तस्यास्तु हृदि विन्यसेत् ।
अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ॥ ४६ ॥

विभिन्न पीठा देवी चेत् पृथङ्मण्टपमाचरेत् ।
कल्याणं कारयेदन्ते स्नपनं चोत्सवं तथा ॥ ४७ ॥

कारयेद् भूरि नैवेद्यं दापयेत्तु न वा गुरुः ।
अत्रानुक्तं तु संग्राह्यं सामान्यस्थापनोदितम् ॥ ४८ ॥

चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः ।
लब्ध्वेह सर्वकामांस्तु स चान्ते मोक्षमाप्नुयात् ॥ ४९ ॥

Uttarapāda – Kapitel 55: Die Aufstellung Purāris

पुरारिस्थापनं वक्ष्ये तदादो लक्षणं च वै ।
चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ॥ १ ॥

समभङ्गयुतस्संयक् स्थानकेन समन्वितः ।
सव्यकर्णस्थ मकरकुण्डलेन समन्वितः ॥ २ ॥

कृष्णापरशु संयुक्त परहस्तद्वयान्वितः ।
धनुर्बाणयुतोपेत वामेतर करान्वितः ॥ ३ ॥

दोस्सीमपरहस्तोच्चं शरस्तन्मेढ्रसीमकम् ।
नाभेस्तु मणिबन्धान्त मात्रमेकोनविंशतिः ॥ ४ ॥

पार्श्वमध्यम बाह्वोश्च मध्यमं तु शराङ्गुलम् ।
दोर्मूलात्परहस्तान्तं षोडशाङ्गुलं ईरितम् ॥ ५ ॥

परहस्तोज्झितो वाथ द्विहस्तस्त्रिपुरान्तकः ।
शिरसो वामदृक् कृष्ण मण्डलस्य च दक्षिणे ॥ ६ ॥

सूत्रं तु लम्बयेद्वामे वामनासापुटस्य तु ।
दक्षिणस्थित पादे च पुरस्थान् मुनिपुङ्गवाः ॥ ७ ॥

हृन्नाभिमेढ्रसव्याङ्घ्रि जानूनां सूत्रतोऽन्तरम् ।
सव्येऽग्निभागादेवं स्यात् समभङ्गे स्थिरानतिः ॥ ८ ॥

तत्पादाङ्गुष्ठ पार्ष्ण्योश्च द्व्यन्तरं दशभौतिकम् ।
कुर्यात् सलक्षणं वाथ वामभागे तु पार्वतीम् ॥ ९ ॥

एवं कृत्वा पुरारिं तु प्रतिष्ठां कारयेत्ततः ।
सुमुहूर्ते सुलग्ने च कृत्वैवाङ्कुर कर्म च ॥ १० ॥

रत्नन्यासं दृशां मोक्षं बेरशुद्धिं प्रदक्षिणम् ।
तोयाधिवासनं पश्चात् स्नपनं कौतुकं नयेत् ॥ ११ ॥

मण्टपे स्थण्डिलं कृत्वा नवपञ्चैक संख्यया ।
कुण्डान्यश्राणि वृत्तानि तद्दिगश्राणि तानि च ॥ १२ ॥

संकल्प्य शयनं तस्मिन्नारोप्य च महेश्वरम् ।
देवेशस्य शिरोदेशे शिवकुम्भं च वर्धनीम् ॥ १३ ॥

लक्षणोक्त च रूपं तु ध्यात्व तत्रैव पूजयेत् ।
अभितोऽष्टौ घटान्न्यस्य विद्येशांस्तत्र पूजयेत् ॥ १४ ॥

गन्धाद्यैरपि नैवेद्य पर्यन्तैर्भावितो गुरुः ।
तत्त्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ॥ १५ ॥

संस्कृत्य कुण्डं वह्निं च समिदाज्यान्नकैस्तिलैः ।
पालाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ॥ १६ ॥

शम्यपामर्ग श्रीवृक्ष मायूरा वह्निकोणतः ।
प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ॥ १७ ॥

प्रत्येकं पूर्ववद्धुत्वा पूर्णाहुत्यन्तमेव च ।
ततो द्वितीय दिवसे देवकुम्भाग्नि तर्पणम् ॥ १८ ॥

पूजितो मूर्तिपैस्सार्धं प्राप्त पूर्वोक्त दक्षिणः ।
सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ॥ १९ ॥

कुम्भाद्बीजं समादाय शिवस्य हृदि विन्यसेत् ।
वर्धन्या बीजमादाय तत्पीठे विन्यसेद्गुरुः ॥ २० ॥

सहासना तु देवी चेत् तस्यास्तु हृदि विन्यसेत् ।
विभिन्न पीठाचेत्तस्याः पृथङ्मण्टपं आचरेत् ॥ २१ ॥

कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् ।
उत्सवं भूरि नैवेद्यं कारयेद्वा न वा गुरुः ॥ २२ ॥

अनुक्तामत्र यद्ग्राह्यं सामान्यस्थापनोक्तवत् ।
प्रथिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ॥ २३ ॥

इत्थं कारितवान्यस्तु प्रतिष्ठां भक्तिपूर्वकम् ।
सोऽनेकभोगान् भुक्त्वेह यायादन्ते शिवं परम् ॥ २४ ॥

Uttarapāda – Kapitel 56: Die Weihe Liṅgodbhavas

लिङ्गोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते ।
गर्भमान वशाल्लिङ्गं प्राग्वत् सम्यक् प्रकल्पयेत् ॥ १ ॥

लिङ्गोच्चे वेदपञ्चर्तु सप्तांशोंशं अधस्त्यजेत् ।
तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ॥ २ ॥

पूर्ववत् कारयेत् सम्यक् चन्द्रशेखर मूर्तिनम् ।
लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ॥ ३ ॥

लिङ्गोर्ध्वाधः प्रदेशे तु हंसं सूकरमाचरेत् ।
बिम्बस्यानन मानेन कारयेद्धंशमादरात् ॥ ४ ॥

बिम्बाद्विमुख मानेन भूकृष्टास्यं तु सूकरम् ।
तल्लिङ्ग रसभागैक द्वित्रिवेदशरैर्नयेत् ॥ ५ ॥

ब्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ ।
तिर्यग्गतसुपादौ तौ सर्वावयव सुन्दरौ ॥ ६ ॥

लिङ्गोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः ।
ब्रह्मविष्णु विहीनो वा हंससूकर संयुतः ॥ ७ ॥

इत्थं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।
कालश्च पूर्ववद्ग्राह्यस्तद्वदेवाङ्कुरार्पणम् ॥ ८ ॥

पश्चान् मण्टपनिर्माणं कृत्वा तत्रैव कल्पयेत्।
कुण्डानि परितोऽश्राणि नवपञ्चैक संख्यया ॥ ९ ॥

दिगश्राण्यथ वृत्तानि रत्नन्यासोऽत्र नास्ति हि ।
नयनोन्मीलनं पश्चाद्बेरशुद्धिं अनन्तरम् ॥ १० ॥

प्रदक्षिणं पुरादीनां जले चैवाधिवासनम् ।
भूषणं मण्टपस्यैव वास्तुहोमं अतः परम् ॥ ११ ॥

भूपरिग्रहमादौ वा पूर्ववत् कारयेद्बुधः ।
वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ॥ १२ ॥

जलादुत्तीर्य देवं तु प्रतिमां शोधयेत्ततः ।
कृत्वा कौतुकबन्धं तु शाययेच्छयनोपरि ॥ १३ ॥

नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् ।
ब्रह्माणं दक्षिणे चैव विष्णु वामे तु शाययेत् ॥ १४ ॥

वस्त्रैश्चैव तु संवेष्ट्य गन्धाद्यैरर्चयेत्ततः ।
प्रधानकुम्भं तेषां तु शिरोभागे तु विन्यसेत् ॥ १५ ॥

वर्धनीं विन्यसेद्धीमान् शिवकुम्भस्य चोत्तरे ।
अभितश्च घटानष्टौ न्यस्य विद्येश्वरात्मकान् ॥ १६ ॥

लक्षणोदित रूपं तु ध्यायेत् स्वहृदि देशिकः ।
रूपसंस्थानभावैस्तु पूजयित्वा यथाविधि ॥ १७ ॥

देवस्य ब्रह्मणो विष्णोस्तत्त्वमूर्त्यादिकं न्यसेत् ।
प्राग्वद् देवस्य तत्त्वाद्यान् कविष्णोस्तु यथोदितम् ॥ १८ ॥

ततो होमं प्रकुर्वीत मूर्तिपैसह देशिकः ।
समिदाज्यान्न लाजैश्च तिलसर्षपवैणवैः ॥ १९ ॥

पलाशोदुम्बराश्वत्थप्लक्षाः पूर्वादि दिक्षु च ।
शय्यपामार्गश्रीवृक्ष मायूरा वह्निकोणतः ॥ २० ॥

प्रधानस्य पलाशस्तु स च सर्वत्र वा मतः ।
द्रव्यैरेभिः क्रमाद्धुत्वा ब्रह्माणं विष्णुमेव च ॥ २१ ॥

गुरुः प्रधान कुण्डे तु तर्पयेत् समिदादिभिः ।
रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ॥ २२ ॥

देशिकस्तु विशुद्धात्मा मूर्तिपैस्सह तत्त्ववित् ।
बिम्बानुद्धृत्य संपूज्य कुम्भान् कुण्डेषु पावकान् ॥ २३ ॥

देशिकादींश्च संपूज्य दक्षिणां दापयेत्ततः ।
मुहूर्तनाडिकापूर्वं मन्त्रन्यासं समाचरेत् ॥ २४ ॥

वेद्याः कुम्भान् समुद्धृत्य तदग्रे स्थण्डिलए न्यसेत् ।
कुम्भाद्बीजं समादाय देवस्य हृदि विन्यसेत् ॥ २५ ॥

वर्धन्या बीजमादाय पाददेशेऽभिषेचयेत् ।
विद्येभ्यस्तथा न्यस्य तज्जलैः स्नापयेत्प्रभुम् ॥ २६ ॥

ब्रह्मविष्णोः स्वबीजं तु तद्वन्न्यस्याभिषेचयेत् ।
स्नपनं पूजनं कुर्यात् अन्ते चोत्सव संयुतम् ॥ २७ ॥

बिम्बान् संस्थापयेत् पश्चाद् ब्रह्माणं दक्षिणे गुरुः ।
वामभागे तु देवस्य विष्णुं संस्थापयेद्गुरुः ॥ २८ ॥

अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ।
लिङ्गोद्भव प्रतिष्ठां तु कुर्यादेवं हि यो नरः ॥ २९ ॥

इहैव धनवान् धीमान् सोऽन्ते सायुज्यं आप्नुयात् ॥ ३० ॥

Uttarapāda – Kapitel 57: Die Aufstellung Dakṣiṇāmūrtis

स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः ।
व्याख्यानगेय योगेषु निष्ठस्य त्रिविधस्य च ॥ १ ॥

व्याख्यायुग्ज्ञानमुद्रातो गेयी विणा समन्वितः ।
द्वभ्यां विरहितो योगी स नानाकारभेदतः ॥ २ ॥

चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवळप्रभः ।
श्वेतविद्रुम हेमाभः श्यामाभो वा प्रकीर्तितः ॥ ३ ॥

व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा ।
उत्तरीयसमोपेतः शुक्लयज्ञोपवीतकः ॥ ४ ॥

विकीर्ण मूर्धजो वापि जटामकुट एव वा ।
पट्टिका बन्धनो वापि सत्करोटिकया युतः ॥ ५ ॥

धुर्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः ।
पञ्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः ॥ ६ ॥

अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः ।
व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ॥ ७ ॥

लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् ।
वामाङ्घ्रि नाळकं कुर्यात् सव्यहस्तं तु मुद्रया ॥ ८ ॥

संदर्शसंज्ञयोपेतं वामहस्तस्थ पुस्तकः ।
द्वात्रिंशद्धृतिमात्रान्त दैर्घ्यः स्यात् स तु पुस्तकः ॥ ९ ॥

अथवा नागसंयुक्तो वामहस्तस्समीरितः ।
वरदं तं विजानीयाज्जानुस्थ मणिबन्धकम् ॥ १० ॥

दण्डहस्तो यदा स स्यात् प्रकोष्ठं जानुसंस्थितम् ।
विकसत्पद्मसंकाशस्त्वधस्ताद्विस्तृताङ्गुलिः ॥ ११ ॥

परहस्तद्वये चाक्षमाला ज्वाला समन्वितः ।
पद्मं वा चोत्पलं वापि व्याळं वामे तु कल्पयेत् ॥ १२ ॥

कटकौ द्वौ प्रकर्तव्यौ प्रसन्नसमलोचनः ।
नासाग्रदृष्टियुग्वामहस्तो वा स्यात्सुपुस्तकः ॥ १३ ॥

आभङ्गसहितं कुर्याद् देहमध्ये तु वामतः ।
सूत्रं वामे च हृदयान् नाभेर्मेढ्रात् क्रमेण तु ॥ १४ ॥

मात्रं कालं च भागं च त्यक्त्वा तिष्ठति मद्यतः ।
लम्बपादस्थितं मध्यसूत्रादर्धाङ्गुलान्तरे ॥ १५ ॥

अर्धार्धाङ्गुल वृद्ध्या तु यावत् सार्धयवं भवेत् ।
स दशाङ्गुष्ठ मूलोच्चस्तनाग्रावधिरेव तु ॥ १६ ॥

नयने मध्यमं विद्यादङ्गुष्ठस्तनयोस्ततः ।
नाभेस्तु मणिबन्धान्तो धृत्यङ्गुलमुदाहृदः ॥ १७ ॥

सुपुस्तकस्य हस्तस्य चोरूर्ध्वाद्भागमन्तरम् ।
नाभेस्तु मणिबन्धान्तं स स्यादेकोनविंशतिः ॥ १८ ॥

दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरं स्याद्रसाङ्गुलम् ।
परस्य मणिबन्धाच्च भुजमध्याद्यवाङ्गुलम् ॥ १९ ॥

द्व्यन्तरं दशमात्रं स्याद् दोर्मूलान्मध्यमाङ्गुलात् ।
हिक्कासूत्रद्विमात्राथ कटकाग्र समुच्छया ॥ २० ॥

सजटा मकुटा देवचूचुकास्य गळान्तकाः ।
तत्तत्त्कलासमोपेताश्शुक्लयज्ञोपवीतिनः ॥ २१ ॥

शुक्लाद्यम्बर संयुक्ता भस्मरुद्राक्ष संयुताः ।
कौशिकः काश्यपश्श्यामस्त्वितरः पीतवर्णकः ॥ २२ ॥

रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ ।
एषामेकं द्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ॥ २३ ॥

व्याख्यान मूर्तिरेवं स्याद् गेयमूर्तिस्ततो मतः ।
ऊर्ध्वाधो मध्यकटकौ सव्यासव्यकरावुभौ ॥ २४ ॥

वीणा तु दक्षिणे वाग्रे दक्षिणे कटकस्थितिः ।
दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् ॥ २५ ॥

कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ।
भागमग्रं तदा वामो भागाधिक चतुर्मुखः ॥ २६ ॥

विस्तारस्तु कला तस्याः परिणाहं तु पूर्ववत् ।
कला वक्त्रस्य विस्तारायामं वापि षडङ्गुलम् ॥ २७ ॥

तत्तुङ्गं तु तदर्धं स्यादेवं ज्ञात्वा समाचरेत् ।
हस्तस्य मणिबन्धान्तं हिक्कासुत्रादितः क्रमात् ॥ २८ ॥

त्रिंशदङ्गुलमित्युक्तं अथान्य मणीबन्धतः ।
आनाभेरन्तरं तालं शेषं सर्वं तु पूर्ववत् ॥ २९ ॥

व्याख्यान सहितस्त्वेवं सन्दर्शस्य समास्ययुक् ।
तत्राक्षिपातयोगेन सदा कुञ्चित लोचनः ॥ ३० ॥

प्रसृतो वामहस्तः स्याद्योगमूर्तिरयं मतः ।
अथ कुञ्चित वामाङ्घ्रियुग्मस्फिग्गत पार्ष्णिकः ॥ ३१ ॥

उद्धृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक् ।
संदर्शदृष्टिपातश्च आभङ्गं चैव पूर्ववत् ॥ ३२ ॥

नानामृगैस्तु संकीर्णं नानाव्याळैस्तु संयुतम् ।
नानामुनिगणैस्सार्धं सिद्धविद्याधरैरपि ॥ ३३ ॥

भूतैश्च किन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् ।
शैलं कुर्यात्तु तत्पार्श्वे वटवृक्षस्तु शाद्वले ॥ ३४ ॥

फलशाखोपशाखाढ्यो नानापक्षि समायुतः ।
तन्मूले दक्षिणे छायानिषण्णः कृपया युतः ॥ ३५ ॥

रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे ।
आसीनो मुनिभिस्सम्यक् कौशिकादिभिरादरात् ॥ ३६ ॥

शिवद्विजकुलस्यादिभूतैस्तु परितः स्थितैः ।
आगमाहितचेतोभिः परमेशेन दीक्षितैः ॥ ३७ ॥

एवं तु दक्षिणामूर्तिः मूर्तिभेदा उदाहृताः ।
व्याख्यायुक् ज्ञानदः प्रोक्तो गेययुक् भुक्तिदो मतः ॥ ३८ ॥

सयोगो मुक्तिदो ज्ञेय इति ज्ञात्वा समाचरेत् ।
आसीनो वा स्थितो वापि ऋषिभिस्संवृतो न वा ॥ ३९ ॥

वटवृक्ष विहीनो वा भूताद्यावृत एव वा ।
भूतस्थ लम्बपादो वा दक्षिणेशस्समीरितः ॥ ४० ॥

एवं लक्षणं आदिष्टं प्रतिष्ठा विधिरुच्यते ।
वाराद्यं पूर्ववद् ग्राह्यं अङ्कुरार्पणमेव च ॥ ४१ ॥

मण्टपं पूर्ववत् कुर्यान्नवपञ्चैक संख्यया ।
कुण्डानि परितोऽश्राणि तद्दिगश्राणि वा नयेत् ॥ ४२ ॥

रत्नन्यासाक्षिमोक्षौ च प्रतिमा शोधनं तथा ।
ग्रामप्रदक्षिणं चैव जले चैवाधिवासनम् ॥ ४३ ॥

पुण्याहप्रोक्षणं चैव पश्चाद्ब्राह्मण भोजनम् ।
पुण्याहं वास्तुहोमं च भूपरिग्रहमेव वा ॥ ४४ ॥

कृत्वा तु देवदेवस्य ऋषीणाम् च यथार्हकम् ।
वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ॥ ४५ ॥

स्नानवेद्यां तु ऋषिभिः स्नपनं कारयेच्छिवे ।
शय्यायां शाययेद्देवं कौशिकादि ऋषीनथ ॥ ४६ ॥

दक्षिणे तु भरद्वाज प्रमुखानप्यदक्षिणे ।
शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ॥ ४७ ॥

व्याख्यानगेययोगानां एतत्सामान्यमीरितम् ।
स्वांस्तु कुम्भान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ॥ ४८ ॥

वर्धनीं विन्यसेद्धीमान् शिवकुम्भस्य चोत्तरे ।
अभितो वसुकुम्भांस्तु विद्येशाधिष्ठितान् न्यसेत् ॥ ४९ ॥

रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् ।
तत्त्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ॥ ५० ॥

तत्त्वायं पूर्ववद्दत्त्वा मुनिष्वपिं यथोदितम् ।
कृत्वाग्निकुण्ड संस्कारं उत्पाद्य शिवपावकम् ॥ ५१ ॥

समिदाज्यचरूल्लाजांस्तिलसर्षप वैणवान् ।
जुहुयात्तु महाशासु प्रधानेऽपि पलाशकम् ॥ ५२ ॥

बैल्वाः कोणेषु होतव्याः प्रधाने तर्पयेदृषीन् ।
द्रव्यैरेभिः क्रमैर्हुत्वा पूर्णाहुत्यवसानकम् ॥ ५३ ॥

रात्रिशेषं व्यपोह्येवं प्रभाते विमले ततः ।
समूर्तिपैर्गुरुः स्नातः कृत मन्त्रादि विग्रहः ॥ ५४ ॥

संपूज्योद्धृत्य बिम्बांश्च कुम्भान् कुण्डेषु पावकान् ।
देशिकादींश्च संपूज्य दक्षिणां दापयेत् पृथक् ॥ ५५ ॥

मुहूर्त नाडिका पूर्वे मन्त्रन्यासं समारभेत् ।
कुम्भान् बिम्बपुरो न्यस्य स्थण्डिले पूर्वत्कृते ॥ ५६ ॥

कुम्भाद्बीजं समादाय शिवस्य हृदि विन्यसेत् ।
वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् ॥ ५७ ॥

विद्येशानां तु बीजानि पीठे शक्रादितो न्यसेत् ।
तत्तत्कुम्भ जलैश्चैव तत्तद्देशेऽभिषेचयएत् ॥ ५८ ॥

ऋषीणामपि बिजानि तेषां तु हृदि विन्यसेत् ।
तत्तत्कुम्भोदकैश्चैव तेषां च स्नपनं नयेत् ॥ ५९ ॥

श्रीकण्ठ मुनिहस्तस्थ पुस्तकेष्वखिलागमम् ।
विन्यसेत् कामिकाद्यं तु सोपभेदं गुरूत्तमः ॥ ६० ॥

देवेशं स्थापयेत् पश्चाद्दृषींस्तत्द्दक्ष वामयोः ।
स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्न वा ॥ ६१ ॥

अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ।
एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ॥ ६२ ॥

सोऽखिलानिह भुक्त्वाथ भोगान् स्वत्माभिवाञ्चितान् ।
देहान्ते परमेशानं कर्ता यायन्न संशयः ॥ ६३ ॥

Uttarapāda – Kapitel 58: Die Weihe Bhikṣāṭanas

भिक्षाटनस्य वक्ष्येऽहं कङ्काळस्यापि लक्षणम् ।
प्रतिष्ठां तु द्विजश्रेष्टाश्शृणुध्वं द्विजसत्तमाः ॥ १ ॥

पादे पादुका युक्तं चतुर्दोर्भिस्समन्वितम् ।
सयज्ञसूत्रं च शान्तं च गमनोन्मुखमीश्वरम् ॥ २ ॥

आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम् ।
क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम् ॥ ३ ॥

सशङ्खपत्रिका वामे दक्षिणे नक्र कुण्डलम् ।
दक्षिणं कुञ्चितपादं वामपादं तु सुस्थितम् ॥ ४ ॥

समभङ्गयुतं वापि कान्तियुक्त निजाङ्गकम् ।
प्रहारं दक्षिणे हस्ते डक्कां वामे तु पूर्वयोः ॥ ५ ॥

सव्यमध्याङ्गुलाग्रं तु कृष्णाजिह्वाग्रगं भवेत् ।
वामे करेऽपरे पिञ्चदण्डकं कालदण्डकम् ॥ ६ ॥

उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् ।
नानागण समायुक्तं नानाभूत समाकुलम् ॥ ७ ॥

असव्यभूतमूर्धस्थ बलिपात्रेण संयुतम् ।
नानारूपधरैर्भूतैरनेकैः परिवारितम् ॥ ८ ॥

भेरिकाकाहळाद्याढ्यैः गाननृत्त रवाकुलैः ।
योषितश्चानवद्याङ्गा अपेक्षवश्यमोहिताः ॥ ९ ॥

स्रस्तभूषणवस्त्राद्या बलिदानसुमुन्मुखाः ।
आशीर्वादान्विताः काश्चित् काश्चिदालिङ्गनोन्मुखाः ॥ १० ॥

मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वाङ्गुलं नयेत् ।
सव्यनासा पुटाग्रास्तु स्थिताङ्घ्रय्ङ्गुष्ठमूलतः ॥ ११ ॥

दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिण त्रिकम् ।
नाभेर्मेढ्रात्तु वामे तु भागं सप्ताङ्गुलं भवेत् ॥ १२ ॥

पादाङ्गुष्ठद्वयोर्मध्यं स्मृतिमात्रं उदाहृतम् ।
पार्ष्ण्योश्च मुनिमात्रं स्याज्जान्वोर्मध्यं मुखेन तु ॥ १३ ॥

सार्धविश्वाङ्गुलैर्वाथ तयोरन्तरं इष्यते ।
प्रकारहस्ते यो वक्रः कटको नाभिसीमकः ॥ १४ ॥

नाभेस्तन् मणिबन्धान्तो भाग इत्यभिधीयते ।
पार्श्वमध्यम बाह्वोश्च मध्यमं भूतमात्रकम् ॥ १५ ॥

हरिण्यास्यगतो हस्त ऊरुमध्यसमो भवेत् ।
ऊरुमध्याच्च तस्याग्रं एकविंशति मात्रकम् ॥ १६ ॥

अधोमुखस्सकटकः स्मृतिर्वाग्र समन्वितः ।
पार्श्वमध्यम बाह्वोश्च मध्यं पाताल मात्रकम् ॥ १७ ॥

कङ्काळपिञ्चधृग् हस्तः कक्षतुल्योच्छ्रयो भवेत् ।
भुजान्तान्मणिबन्धान्ताद् द्व्यन्तरं षोडशाङ्गुलम् ॥ १८ ॥

अर्कमात्रं तु वा प्रोक्तं पिञ्चदण्डस्तु हस्ततः ।
तत्समं पिञ्चदैर्घ्यं स्याद् देवनासाग्र मात्रकम् ॥ १९ ॥

कङ्काळ दण्डमानं तु देवस्याधो गळान्तकम् ।
दण्डाग्रे कारयेद्विद्वान् कङ्काळाहि मुनीश्वराः ॥ २० ॥

योषितो देवकन्याः स्युः स्तननाभ्यन्त सीमकाः ।
भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ॥ २१ ॥

एव एष परो देवो नग्नः कङ्काळ वर्जितः ।
विकीर्णोभयपार्श्वस्थ जटालक विभूषितः ॥ २२ ॥

कटिदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः ।
सत्कपालं च वरदं वामहस्तं तु कल्पयेत् ॥ २३ ॥

दिव्यडक्का समायुक्तं वामस्थं अपरं करम् ।
शिखिपिञ्चधरं कुर्यात् सव्यस्थं अपरं करम् ॥ २४ ॥

व्याळपार्श्वस्थितः कार्यः पूर्वसव्यो मृगस्यगः ।
सव्यं कोण समायुक्तं अथवा परिकल्पयेत् ॥ २५ ॥

कपालहस्त पृष्ठं तु नाभिदध्नं प्रकल्पयेत् ।
नाभेस्तन्मणिबन्धान्तं षोडशाङ्गुल ईरितः ॥ २६ ॥

डमरूच्चं तु कर्णान्तं तद्धस्त मणिबन्धनात् ।
कर्णान्तं षोडशैर्मात्रैः शेषं कङ्काळवत्भवेत् ॥ २७ ॥

भिक्षाटनो हरः प्रोक्तः पृथग्विष्णु युतो न वा ।
स्थापनं च सामासेन वक्ष्येऽहं मुनिपुङ्गवाः ॥ २८ ॥

कालः प्राग्वत् समुद्दिष्टः तद्वदुक्ताङ्कुरक्रिया ।
रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमम् ॥ २९ ॥

जायासु च पृथक् पीठे चैकत्र गुरूत्तमः ।
अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ॥ ३० ॥

नेत्राणां मोक्षणं कृत्वा बेरशुद्धिं अतः परम् ।
जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ॥ ३१ ॥

यागमण्टपं आसाद्य पूर्ववत् परिकल्पयेत् ।
तद्दिगश्राणि वृत्ताभं नवपञ्चैक कुण्डकम् ॥ ३२ ॥

उद्वास्य शिल्पिनं विद्वान् भोजयेत्तद्विशुद्धये ।
पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ॥ ३३ ॥

स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् ।
मध्ये देवं च तद्दक्षे जाया भूतानि वामके ॥ ३४ ॥

यथावच्छाययेत् सर्वान् पृथक् वस्त्रादि भूषितान् ।
पृथक् कङ्काळदण्डश्चेत् शिरोदेशे तु शाययेत् ॥ ३५ ॥

शक्रशाङ्करयोर्मध्ये न्यसेत् कुम्भं च वर्धनीम् ।
अन्येषां च शिरोदेशे घटं जायासु वर्धनीम् ॥ ३६ ॥

विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् ।
वीरेशाय नमश्चेति भूतकुम्भे यजेद्गुरुः ॥ ३७ ॥

नन्दनायै नमश्चेति तद्वर्धन्यां यजेद्धृदा ।
कङ्काळकुम्भे कङ्काळं न्यस्त्वा तत्त्वादिकान् न्यसेत् ॥ ३८ ॥

तत्त्वादयः शिवे प्राग्वद् वीरेशे पुनरुच्यते ।
मूर्तयः प्राग्वदेव स्युः प्रमुखो दुर्मुखस्तथा ॥ ३९ ॥

प्रमोदश्च तथा मोदो विघ्नराडिति मूर्तिपाः ।
विष्णूक्तवत् स्यात् कङ्काळे ततो होमं समारभेत् ॥ ४० ॥

कुण्डानि संस्कृतिं कृत्वा समिदाज्यान्न लाजकैः ।
तिलैस्सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ॥ ४१ ॥

पलाशखदिराश्वत्थोदुम्बरो दिक्षु संमताः ।
शमी वटाश्च श्रीवृक्षा मायूरा वह्निकोणतः ॥ ४२ ॥

प्रधानेऽपि पलाशस्स्यात् स च सर्वत्र वा मतः ।
देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ॥ ४३ ॥

ततो द्वितीय दिवसे देवकुम्भाग्नि तर्पणम् ।
पूजितो वस्त्रहेमाद्यैः मूर्तिपैः प्राप्तदक्षिणः ॥ ४४ ॥

मन्त्रन्यासं ततः कुर्यान् न्यस्त्वा बिम्बपुरो घटान् ।
कुम्भान्मनुं समादाय देवस्य हृदि विन्यसेत् ॥ ४५ ॥

वर्धन्या मनुमादाय तस्य पीठाम्बुजे न्यसेत् ।
अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ॥ ४६ ॥

तत्तत् कुम्भजलैः स्नाप्य स्नपनं चोत्सवं महत् ।
नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ॥ ४७ ॥

अनुक्तमत्र संग्राह्यं सामान्यस्थापनोक्तवत् ।
एवम् यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ४८ ॥

Uttarapāda – Kapitel 59: Die Weihe des Bali-Trägers

बलिभर्तुः प्रतिष्ठांतु वक्ष्ये तल्लक्षणं तु वै।
नित्योत्सवे तु कथितं सूत्राद्यं चेन्दुमौळिवत् ॥ १ ॥

प्रायश्चित्तादिके वाथ सर्वकाम प्रसिद्धये ।
नित्योत्सवेऽपि तच्छ्रेष्टं तन्मन्त्रैश्च विशेषतः ॥ २ ॥

प्रतिष्ठां च समासेन प्रवक्ष्यामि मुनीश्वराः ।
कालोऽङ्कुरक्रिया रत्नन्यासो वै दृष्टि मोचनम् ॥ ३ ॥

शुद्धिः प्रदक्षिणं ग्रामप्रभृतीनां जलस्थितिः ।
पूर्वमेवोदितं यस्मात् तद्वत्सर्वं समाचरेत् ॥ ४ ॥

मण्टपं कारयेत्तत्र नवपञ्चैक कुण्डकम् ।
कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा नयेत् ॥ ५ ॥

कुण्डं वृत्तं प्रधानं स्यात्त्रिषु पक्षेषु वै द्विजाः ।
पश्चाच्छिल्पिनं उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ॥ ६ ॥

पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ।
जलादुधृत्य बिंबं तु मृदाद्यैः स्नपनं नयेत् ॥ ७ ॥

गन्धादिना ततोऽभ्यर्च्य कौतुकं बन्धयेत्ततः ।
शयनं कल्पयेद्वेद्यां तस्यां स्थण्डिल पूर्वकम् ॥ ८ ॥

शयने शाययेद्देवं रक्तवस्त्रादि भूषितम् ।
पूर्ववत् स्थापयेत् कुम्भान् परितश्शिव कुम्भकम् ॥ ९ ॥

सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः ।
शिवकुम्भे यजेदस्त्रं देवं पाशुपताह्वयम् ॥ १० ॥

तल्लक्षणोक्त रूपं तु ध्यात्वा गन्धादिभिस्तदा ।
हुंफट्क इति मन्त्रेण चतुर्थ्यन्तेन नामतः ॥ ११ ॥

दीपंश्लीं पशुंपूर्वं हुं च पण्णम इत्यपि ।
मन्त्रेण वाऽथ संपूर्णं देवं पाशुपताह्वयम् ॥ १२ ॥

आकाराद्यौकारान्ताश्चस्वरास्सद्यादयो मताः ।
ओंकाराद्याः फडन्ताश्च मन्त्रास्स्युर्हृदयादयः ॥ १३ ॥

मन्त्रेण विधिवद्भिन्ना ओंकाराद्या हृदादयः ।
हृदयादि समोपेता हुंपडन्ता नमोऽन्तकाः ॥ १४ ॥

हृत्पुटाजातमूर्त्या च विद्यादेहाणुनापि वा ।
हुंकार कल्पितेनैव हृदा संपुटितेन च ॥ १५ ॥

वज्रादीन् आयुधान् अष्टौ परितोऽभ्यर्चयेद्गुरुः ।
तत्त्व तत्त्वेश्वरान्न्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ॥ १६ ॥

मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः ।
कृत्वा कुण्डेषु संस्कारं संपाद्य च शिवानलम् ॥ १७ ॥

समिद्घृतान्न सस्येन्द्र तिललाज समन्वितम् ।
पूर्वोक्त मूलब्रह्माङ्गैर्होमं पूर्वोक्त संख्यया ॥ १८ ॥

तत्त्वमूर्त्यादि मन्त्रैश्च सार्धं कुर्याद्गुरूत्तमः ।
पलाशोदुम्बराश्वत्थ वटा इन्द्रादि दिक्षु च ॥ १९ ॥

शमीखदिरश्रीवृक्ष पिप्पला अग्निकोणतः ।
प्रधानेऽपि पलाशस्स्याद् द्वितीये ह्येवमाचरेत् ॥ २० ॥

संपूज्य देशिकादींश्च दक्षिणां दापयेत्ततः ।
प्रतिमाग्रे घटान्न्यस्त्वा तत्कुम्भात्तु मनुं हृदि ॥ २१ ॥

न्यसेत् पीठांबुजे तस्य परिवार मनुं न्यसेत् ।
स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्न वा ॥ २२ ॥

अनुक्तानत्र सामान्यस्स्थापनोक्तवदाचरेत् ।
एवमस्त्र प्रतिष्ठां तु यः कुर्यादस्त्रमूर्तिनः ॥ २३ ॥

यात्येव च सुखं मोक्षं इहापि च परत्र च ॥ २४ ॥

Uttarapāda – Kapitel 60: Die Weihe Śarabheśvaras

शरभेश प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् ।
पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ॥ १ ॥

ऊर्ध्वपक्ष सामायुक्तं रक्तनेत्र त्रयान्वितम् ।
पादैः सिम्हपदाकारैश्चतुर्भिश्च समन्वितम् ॥ २ ॥

सुतीक्ष्ण नखसंयुक्तैः ऊर्ध्वस्थैर्वेदपादकैः ।
दिव्यलाङ्गल संयुक्तं सुविकीर्ण जटान्वितम् ॥ ३ ॥

कन्धरोर्ध्वं नराकारं दिव्यमौलि समायुतम् ।
सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् ॥ ४ ॥

हरन्तं नरसिंहं तु जगत्संहरणोद्घतम् ।
कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् ॥ ५ ॥

नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदळेक्षणम् ।
पादाभ्यां अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु ॥ ६ ॥

गगनाभिमुखं देवं कारयेच्छरभेश्वरम् ।
एवं लक्षणमादिष्टं तस्य मन्त्रश्च कथ्यते ॥ ७ ॥

अष्टवर्गादिमं बीजं चतुर्दश विभूषितम् ।
षष्टस्वर समोपेतं बिन्दुनाद समन्वितम् ॥ ८ ॥

शारभं बीजमित्याहुः शरभेश्वर इत्यपि ।
ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ॥ ९ ॥

आदौ प्रणव संयुक्तं नमस्कारान्त संयुतम् ।
योजयेच्छरभेशार्थं पूजादिष्वष्ट सिद्धये ॥ १० ॥

कल्पयेदाद्य वर्णेन ब्रह्माण्यङ्गानि देशिकः ।
वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ॥ ११ ॥

मारणो दीर्घहस्तस्तु तीक्ष्ण दंष्ट्रो जटाधरः ।
बलिप्रियेण चाष्टौ स्युः प्रग्दिगारभ्य संस्थिताः ॥ १२ ॥

पूजायां च प्रतिष्ठादौ क्रमेण परितः स्थिताः ।
स्वनामाद्यक्षरेणैषां मन्त्राणां उद्धृतिर्भवेत् ॥ १३ ॥

कुर्याच्छिलदिष्विष्टेन द्रव्येण शरभेश्वरम् ।
प्रतिष्ठां च ततः कुर्याच्छुभलग्नोदयेऽहनि ॥ १४ ॥

अङ्कुरार्पण कार्यं तु तद्विधानेन कारयेत् ।
नेत्राणामपि रत्नानां मोक्षणं न्यासमाचरेत् ॥ १५ ॥

मृदादि शोधनं ग्रामप्रभृदीनां प्रदक्षिणम् ।
जलाधिवासनं प्राग्वत् पृथक् कुर्याद्धरे हरौ ॥ १६ ॥

मण्टपं पूर्वत् कृत्वा वेदाश्रं नवकुण्डकम् ।
पञ्चाग्न्यायतनोपेतं एकाग्न्यायतनेन वा ॥ १७ ॥

स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् ।
विप्रभुक्तिं तदुच्छिष्टोद्वासनं मार्जनं पुनः ॥ १८ ॥

पुण्याहं वास्तुपूजाग्निकार्यं स्थण्डिल कल्पनम् ।
शयनं स्नपनं प्राग्वद् बन्धनं कौतुकस्य च ॥ १९ ॥

पृथग्द्वयोस्समादिष्टं शयनारोहणं नयेत् ।
उदक्पादं यथादेवं पूर्वदिङ्मस्तकं यथा ॥ २० ॥

भिन्न पीठो हरिस्तर्हि वामे तं शाययेत्प्रभोः ।
रक्तवस्त्रेण संवेष्ट्य कुम्भस्थापनं आरभेत् ॥ २१ ॥

विन्यसेच्छिवकुम्भं च विष्णुकुम्भं च विन्यसेत् ।
ससूत्रं सापिधानं च सवस्त्राढ्यं शिरोऽन्तिके ॥ २२ ॥

परितोऽष्टौ घटान्न्यस्त्वा स्वर्णवस्त्रादि संयुतान् ॥
ससूत्रान्सोदकान् वज्रदेहाद्यैरप्यधिष्ठितान् ॥ २३ ॥

प्रागुक्ताणुस्वरूपज्ञो गन्धाद्यैरर्चयेद्गुरुः ।
हृत्पुटाजातमूर्त्या तानावाह्य सकळीकृतम् ॥ २४ ॥

विधाय हृत्पुटेनैव मूलेनावाह्य तं मनुम् ।
शरभेश मनुं न्यस्त्वा यजेद्विष्णौ तदुक्तवत् ॥ २५ ॥

मूर्तिमूतीश्वर न्यासं कारयेत् प्राग्वदेव हि ।
मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृताः ॥ २६ ॥

ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् ।
समिद्भिरथ पालाशैर्घृतेन चरुणापि च ॥ २७ ॥

तिलैर्लाजैश्च सस्येन्द्रैर्मूर्तीशाद्यणुभिर्युतम् ।
पूर्णां हुत्वा द्वितीयेऽह्नि वह्निकुम्भामरार्चनम् ॥ २८ ॥

सम्प्राप्त दक्षिणस्तुष्टो गुरुस्संपूजितस्सह ।
मूर्तिपाद्यैर्यथायोग्यं मन्त्रन्यासं समारभेत् ॥ २९ ॥

देवेशाग्रे घटान्न्यस्त्वा संकल्प्य स्थण्डिलं गुरुः ।
कुम्भाद्बीजं समादाय शरभेश हृदिन्यसेत् ॥ ३० ॥

विष्णुबीजं समादाय नरसिंह हृदिन्यसेत् ।
अन्येभ्यो बीजामादाय पीठाब्जे परितो न्यसेत् ॥ ३१ ॥

तत्तत्कुम्भोदकैश्चैव स्नापयएत्परमेश्वरम् ।
स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं न्यसेत् ॥ ३२ ॥

एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् ।
अर्चनं प्राग्वदेवस्यात् किं तु मन्त्रैस्तु शारभैः ॥ ३३ ॥

स्नपनोत्सव कर्माद्यं तदर्थं विधिनाचरेत् ।
देशिकश्चास्य मन्त्रैस्तान् नाशयेच्छत्रु वर्गिणः ॥ ३४ ॥

सर्वव्याधि समुत्पत्तौ मन्त्रेणानेन नाशयेत् ।
वश्याकर्षण विद्वेषमनेनविधिना नयेत् ॥ ३५ ॥

अनुक्तानत्र संग्राह्यं सामान्यस्थापनोक्तवत् ।
कुर्यादेवं स्थापनं तु यो नरश्शरभेश्वरे ॥ ३६ ॥

भक्त्या भावनया सार्धं तस्यैवं कलयेद् द्विजाः ।
इयत्त पुण्यसंघस्य भोगान् भुक्त्वेह जन्मनि ॥ ३७ ॥

वाञ्चितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ॥ ३८ ॥

Uttarapāda – Kapitel 61: Die Gnadengewährung an Caṇḍeśa und andere

अथ चण्डेश नन्दीश विष्ण्वनुग्रकृत्प्रभोः ।
प्रतिष्ठां संप्रवक्ष्यामि तल्लक्षण पुरस्सरम् ॥ १ ॥

उमया सहितस्याथ चन्द्रशेखरमूर्तिनः ।
वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ॥ २ ॥

एवं जानूरु नाभ्यन्तस्तनवक्षोगळास्यगम् ।
सुखासीनं स्थितं वापि कृताञ्जलिपुटान्वितम् ॥ ३ ॥

देवेक्षण समोपेतं मद्भक्तं चण्डनायकम् ।
सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ॥ ४ ॥

मालाग्रं देववरदे कटकेनेतरेण तु ।
देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ॥ ५ ॥

नन्दीश्वर प्रसादे तु विशेषः किञ्चिदिष्यते ।
द्विनेत्रं द्विभुजं शान्तं कृताञ्जलिपुटान्वितम् ॥ ६ ॥

सुविकीर्ण जटोपेतं जटामकुटकान्वितम् ।
आभङ्ग सहितं कुर्यादागमश्रवणोन्मुखम् ॥ ७ ॥

नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ।
नन्दीशानुग्रहस्त्वेवं तद्वद्विष्णु प्रसादकृत् ॥ ८ ॥

हित्वा नन्दीश्वरं तस्मिन् विष्णुम् तल्लक्षणान्वितम् ।
सचक्राञ्जलिहस्तं च शङ्खाब्जापरहस्तकम् ॥ ९ ॥

कारयेद्देव एष स्याच्चक्रदो विष्णुमूर्तिनः ।
कारयेदेवमेवान्य प्रसादाभिमुखं शिवम् ॥ १० ॥

इत्थं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ।
वाराद्यं अङ्कुरं रत्न विन्यासमुभयत्र च ॥ ११ ॥

नेत्रमोक्षं तथा शुद्धिं पुरादीनां प्रदक्षिणम् ।
तोयाधिवासनं यागमण्टपस्य प्रकल्पनम् ॥ १२ ॥

कुण्डानां अथ वृत्ताश्र दिगश्राणां तु कल्पनम् ।
नवपञ्चैक संख्यानां लक्षणैः पूर्ववद्द्विजाः ॥ १३ ॥

तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् ।
वास्तुहोमं तु वेद्यां तु स्थण्डिलं शयनं पृथक् ॥ १४ ॥

स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् ।
आरोहणं च शय्यायास्तस्यां च शयनं नयेत् ॥ १५ ॥

देवास्त्वनुग्रहीता ये भिन्नपीठस्थिता यदि ।
देवेश पादमूले तु तेषां च शयनं नयेत् ॥ १६ ॥

देवोत्तमाङ्गदेशे तु शिवकुम्भं च वर्धनीम् ।
अनुग्रहीत देवानां तत्तन्मूर्त्यष्टकं मतम् ॥ १७ ॥

तत्तदध्यायसंसिद्धं संग्राह्यं मुनिपुङ्गवाः ।
कृत्वा कुण्डाग्नि संस्कारं द्रव्यैर्होमं समारभेत् ॥ १८ ॥

समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् ।
सत्पलाशवटप्लक्षोदुम्बरं पूर्वतो भवेत् ॥ १९ ॥

शमीखदिरश्रीवृक्षा अश्वत्थो वह्निकोणतः ।
प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ॥ २० ॥

चण्डनन्दीशविष्णूंश्च प्रधाने तर्पयेद्गुरुः ।
निष्कृतो पूर्णयोपेतं होमकर्म पृथङ्नयेत् ॥ २१ ॥

द्वितीये तु ततश्शुद्धो मूर्तिपैस्तत्त्वविद्गुरुः ।
संपूज्योद्धृत्य देवांस्तु कुम्भान् कुण्डेषु पावकान् ॥ २२ ॥

सुमुहूर्तेऽथ संप्राप्ते मन्त्रन्यासं समाचरेत् ।
वस्त्रहेमाङ्गुलीयादि पूजितो मूर्तिपादिभिः ॥ २३ ॥

संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।
कृतस्थण्डिलकाधारान् बिम्बाग्रे तु घटान्न्यसेत् ॥ २४ ॥

कुम्भान्मनुं समादाय शिवस्य हृदि विन्यसेत् ।
वर्धन्या मनुमादाय तत्पीठोपरि विन्यसेत् ॥ २५ ॥

देवी सहासना चेत्तु तस्या हृदि मनुं न्यसेत् ।
अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ॥ २६ ॥

चण्डेशादिषु देवेषु तत्तत्कुम्भान्मनुं न्यसेत् ।
तत्तद्घटोदकैस्तत्तद् देवमप्यभिषेचयेत् ॥ २७ ॥

स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्न वा ।
देवी विभिन्न पीठा चेत् कल्याणं कारयेद्गुरुः ॥ २८ ॥

एवं यः कुरुते मर्त्यः सोऽन्ते मोक्षमवाप्नुयात् ॥ २९ ॥

Uttarapāda – Kapitel 62: Śiva als Begnadiger seiner Verehrer

भक्तानुग्रह देवस्य तल्लक्षणपुरस्सरम् ।
स्थापनं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥ १ ॥

सदाशिवादयो देवाः प्रागेव प्रतिपादिताः ।
त एवानुग्रहपरा भक्तानुग्राहका मताः ॥ २ ॥

देवदानव गन्धर्व मुनयो मनुजादयः ।
पिपीलिकाद्या गजान्ता जङ्गमाः स्थावराश्च ये ॥ ३ ॥

तेऽनुग्राह्याः स्मृताश्शास्त्रे ऽनुग्रहो बहुधा मतः ।
दीक्षाव्याख्यान संस्पर्शावलोकोक्तिमुखो द्विजाः ॥ ४ ॥

शिवाधिष्ठित देहस्तु मरणं याति यो नरः ।
स नरः शिव एव स्यात् सर्वपाप बहिष्कृतः ॥ ५ ॥

तस्मादुत्क्रान्ति काले तु स्वेष्टलिङ्गं तु संस्पृशन् ।
प्राणमोक्षं च कुर्याद्यः स शिवो नात्र संश्यः ॥ ६ ॥

सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वा तु साकृतिम् ।
आसीनं वा स्थितं वापि शयितां शुभलक्षणाम् ॥ ७ ॥

कृताञ्जलिपुटोपेतां प्रतिमां लोहपूर्वकैः ।
द्रव्यैस्सदाशिवाद्यां तु कृत्वा संस्थापयेत्सुधीः ॥ ८ ॥

तत्पीठानथ तद्देवाकृतिं कुर्याद् गुरुस्सुधीः ।
भक्तानुग्रह देवस्य लक्षणं त्वेवं ईरितम् ॥ ९ ॥

संस्थापनं अथो वक्ष्ये श्रूयतां द्विजसत्तमाः ।
कालः प्राग्वत्समुद्दिष्टस्तथैवाङ्कुरकर्म च ॥ १० ॥

रत्नन्यासं तथैवाक्षिमोक्षणं बेरशोधनम् ।
ग्रामप्रदक्षिणं वारिमध्यमे त्वधिवासनम् ॥ ११ ॥

प्रतिष्ठा मण्टपाख्यं यत् पूर्वोक्त विधिनाचरेत् ।
कुण्डानि कारयेत्तत्र नवपञ्चैकसंख्यया ॥ १२ ॥

चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा ।
तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् ॥ १३ ॥

स्थण्डिलं स्नपनं शय्यां तद्वत् कौतुक बन्धनम् ।
शयनारोहणं कुम्भस्थापनं पूर्ववन्नयेत् ॥ १४ ॥

तत्पादे भक्तकुम्भं तु तत्तद्ध्यान समन्वितम् ।
आत्ममन्त्र समोपेतं विद्येश्वर घटावृतम् ॥ १५ ॥

तद्वन्मूर्त्यादि विन्यासं प्रागुक्त विधिना नयेत् ।
अग्निकुण्डादि संस्कारं कृत्वा होमं समाचरेत् ॥ १६ ॥

समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः ।
पलाशोदुम्बराश्वत्थन्यक्रोधाः प्राग्दिगादितः ॥ १७ ॥

शम्यपामार्ग श्रीवृक्षप्लक्षाश्चाग्नेय गोचराः ।
प्रधाने तु पलाशस्स्यात् स च सर्वत्र वा मतः ॥ १८ ॥

ततो द्वितीयदिवसे कृतकुम्भाग्नि पूजनः ।
पूजितो वस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्वितः ॥ १९ ॥

संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।
मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिम्बपुरो घटान् ॥ २० ॥

कुम्भान्मन्त्रं समादाय देवस्य हृदये न्यसेत् ।
देव्या देवस्समायुक्तो यदि देवीमनुं गुरुः ॥ २१ ॥

विन्यसेद्धृदये देव्या नो चेत् पीठे तु विन्यसेत् ।
ततः कुम्भजलेनाथ तौ च संस्नापयेद् द्विजाः ॥ २२ ॥

भक्तकुम्भस्थ बीजं तु तद्भक्त हृदये न्यसेत् ।
आदाय बीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ॥ २३ ॥

तत्कुम्भस्थ जलेनापि स्नापयेत्पीठमादरात् ।
स्नपनं कारयेदन्ते नैवेद्यं दापयेत्ततः ॥ २४ ॥

उत्सवं तु तदन्ते स्यादेतत् सामान्यमीरितम् ।
विशेषस्त्रिपुरघ्नादि प्रतिष्ठा विधिचोदितः ॥ २५ ॥

तथा भक्तप्रतिष्ठोक्त विधिना च समन्वितः ।
एवं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ॥ २६ ॥

पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ।
देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ २७ ॥

यान्यान् कामयते भोगांस्तान्सर्वानाप्नुयान् नरः ।
मृतमुद्दिश्य यः कुर्यात्तत्पुत्रः पौत्र एव वा ॥ २८ ॥

जीवन्नेवाथवा कुर्यादात्मानं शिवसंज्ञितम् ॥ २९ ॥

Uttarapāda – Kapitel 63: Kālāri und Kāmaghna

वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् ।
चतुर्भुजस्त्रिणेत्रश्च कपर्द मकुटान्वितः ॥ १ ॥

कुञ्चितासव्य पादस्तु व्याघ्रचर्माम्बरान्वितः ।
ततोद्धृत सदक्षाङ्घ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ॥ २ ॥

दक्षहस्तस्थ शूलो वा वामहस्तस्थ सूचिकः ।
दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ॥ ३ ॥

कटाक्षदृष्टिर्देवस्य कालदेवे व्यवस्थितः ।
शूलं ह्यधोमुखं प्रोक्तं कालकण्ठस्थमेव वा ॥ ४ ॥

कालं तु पतितं कुर्यात्तं प्लुताक्षं तु मूर्चितम् ।
उद्गिरद्रक्तवस्त्रं च तथा लोहित मूर्धजम् ॥ ५ ॥

शूलपाशकरं चैव विकीर्ण चरणान्वितम् ।
दंष्ट्राकराळ वदनं रक्तभ्रू रक्तलोचनम् ॥ ६ ॥

देवस्य नाभिमानेन नवतालेन कारयेत् ।
कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ॥ ७ ॥

अथवाथ हराल्लिङ्गान्निर्गतात् पतितं नयेत् ।
कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ॥ ८ ॥

त्रिभङ्गेन स्थितश्चान्योऽधोमुखो भस्मविग्रहः ।
बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयः स्थितो वरः ॥ ९ ॥

कर्तव्यः कालतो भीतस्सन्तुष्टो नु हरेण तु ।
मार्कण्डेयोऽनुमानेन युक्तो वा वर्जितस्तु वा ॥ १० ॥

अपस्मार शरीरस्थ चरणेन युतो न वा ।
कालारिरेवमाख्यातो मन्मथान्तक उच्यते ॥ ११ ॥

अग्रे तु दक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् ।
कुर्यात्तु पतितं दृष्टि पातादेव च तत्क्षणात् ॥ १२ ॥

भक्त्वा दशांशं देवोच्चं एकाद्याः सप्तभागगाः ।
मन्मथोत्सेध उद्दिष्टः स तु हेमविभूषितः ॥ १३ ॥

शुद्धजाम्बूनदप्रख्यः पुष्पपञ्चेषु संयुतः ।
मीनकेतुस्तथैवेक्षु कार्मुकाकृति संयुतः ॥ १४ ॥

देवभाग वसन्ताख्य मित्रयुक्तोऽतिसुन्दरः ।
लम्बिनी तापिनी चैव वेदिनी द्राविणी तथा ॥ १५ ॥

मारिणी तु शराख्याः स्युर्धनुर्वामे शराः परे ।
मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ॥ १६ ॥

इत्थं लक्षणमाख्यातं प्रतिष्ठा विधिरुच्यते ।
वाराद्यं अङ्कुरं यागमण्टपं पूर्ववन्नयेत् ॥ १७ ॥

कुण्डानि मण्टपे कुर्याद् ग्रहभूतैक संख्यया ।
दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ॥ १८ ॥

रत्नन्यासाक्षिमोक्षौ च बेरशुद्धिमनन्तरम् ।
ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववद्गुरुः ॥ १९ ॥

देवे च कालए कामे च कारयेत्तु पृथक् पृथक् ।
वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ॥ २० ॥

देवस्य पाददेशे तु शय्या स्यात् कालकामयोः ।
कौतुकं शयनारोहं पूर्ववत् पृथगाचरेत् ॥ २१ ॥

ईशकुम्भं शिरोदेशे वर्धनीं तस्य चोत्तरे ।
कालकुम्भं च तन्मूर्ध्नः प्रदेशे तन्मनुं स्मरन् ॥ २२ ॥

कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटं न्यसेत् ।
मित्राभ्यां संयुतश्चेत्तु तयोश्च कलशद्वयम् ॥ २३ ॥

कामस्य पार्श्वयोः क्लुप्त शय्या शयितयोरपि ।
देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ॥ २४ ॥

विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितो घटान् ।
विद्येश्वरात्मकान्न्यस्य यजेत् गन्धादिभिस्ततः ॥ २५ ॥

तत्त्वेश्वरादि विन्यासं कृत्वा होमं समाचरेत् ।
तत्त्वाद्याः पूर्ववद्देवे कामे तस्य यथोदितम् ॥ २६ ॥

कालस्य पञ्चमूर्तिस्तु मूर्तीशानपि विन्यसेत् ।
आत्मविद्या शिवाख्यानां तत्त्वानां व्याप्तिरिष्यते ॥ २७ ॥

शब्दप्रकृतिकालान्तं तदीशानां तथैव हि ।
मूर्तयः प्राग्वदुद्दिष्टा वसन्तो ग्रीष्म संज्ञकः ॥ २८ ॥

प्रावृट् शरश्च हेमन्त इति मूर्तीश्वरा मताः ।
कृत्वा कुण्डाग्नि संस्कारं समिद्घृतचरूंस्तिलान् ॥ २९ ॥

अक्षतांश्च गुळं लाजान्सर्षपं च हुनेत् क्रमात् ।
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ॥ ३० ॥

शमीखदिरमायूर श्रीवृक्षा वह्नि कोणतः ।
पलाशस्तु प्रधाने स्यात् स तु सर्वत्र वा मतः ॥ ३१ ॥

कालं कामं प्रधाने तु कल्पयेद्देशिकस्सुधीः ।
नीत्वैवं रात्रिशेषं तु प्रभाते विमले ततः ॥ ३२ ॥

देशिकस्सुविशुद्धात्मा संपुज्योद्धृत बिम्बकः ।
कुम्भान् कुण्डस्थ वह्निं च मन्त्रन्यासं गुरूत्तमः ॥ ३३ ॥

वस्त्रहेमाङ्गुलीयाद्यैः पूजितो मूर्तिपादिभिः ।
संप्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ॥ ३४ ॥

कुम्भान् बिम्बपुरो न्यस्य शिवकुम्भं मनुं स्मरन् ।
शिवस्य चादरान्न्यस्य तत्पीठे करकं न्यसेत् ॥ ३५ ॥

वैद्येशकुम्भ बीजानि तत्पीठे परितो न्यसेत् ।
अन्येभ्यो मनुमादाय तेषां तेषां हृदि न्यसेत् ॥ ३६ ॥

स्नपनं भूरि नैवेद्यं चोत्सवं कारयेन्न वा ।
अनुक्तमत्र सामान्यस्थापनोक्तवदाचरेत् ॥ ३७ ॥

एवं यः कुरुते मर्त्यो भोगान् भुक्त्वा स्ववाञ्छितान् ।
देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ॥ ३८ ॥

Uttarapāda – Kapitel 64: Die Weihe der Hochzeitsgestalt

वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्विताम् ।
जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ॥ १ ॥

त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ।
समभङ्गयुतो देवः स्थानकः संप्रकीर्तितः ॥ २ ॥

कुञ्चितः सव्यपादस्तु स्थितसव्येतराङ्घ्रिकः ।
इन्दुशेखर हस्ताभ परहस्तद्वयान्वितः ॥ ३ ॥

जलसंग्रहणे योग्य वरवाम करान्वितः ।
स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः ॥ ४ ॥

नासाग्राल्लम्बयेत्सूत्रं स्तनमध्यात्तु दक्षिणे ।
नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ॥ ५ ॥

एकैकाङ्गुलं नीत्वा नाभिसूत्रसमं भवएत् ।
वरहस्तस्य पृष्ठोच्चे तन्नाह मणिबन्धयोः ॥ ६ ॥

अन्तरं स्यात्तथैकोनविंशतिर्बाहुमध्यमात् ।
पार्श्वान्तं रसमात्रं स्यादन्तरं मुनिपुङ्गवाः ॥ ७ ॥

मेढ्रमूलसमं दक्षकटकस्यास्यलम्बनम् ।
नाभेस्तु मणिबन्धान्तं स्मृत्यङ्गुलमितीरितम् ॥ ८ ॥

तद्बाहुमध्यात् पार्श्वान्तं शराङ्गुलमितिस्मृतम् ।
पादाङ्गुष्ठद्वयोर्मध्यं मुखपार्ष्णि द्वयान्तरम् ॥ ९ ॥

सूत्राअत्तु जानुनो मध्यं कलया परिकीर्तितम् ।
अर्धेन्दुमौलिवच्चान्य हस्तयोरन्तरं मतम् ॥ १० ॥

पूर्ववत्कथितं देव्या मानं विप्रोत्तमास्त्विह ।
देवी दृगास्यचिबुककक्षचूचुक मानका ॥ ११ ॥

तद्देव्यापरभागस्था श्रीदेवी सर्वलक्षणैः ।
युक्ता देवीकटिस्पृष्टकराभ्यामपि संयुता ॥ १२ ॥

श्रीदेवीमध्यमर्कांशैस्तद्वन्नाभि भुजान्तरम् ।
पादाङ्गुष्ठद्वयोर्मध्यं भवेदष्टदशाङ्गुलम् ॥ १३ ॥

रसाङ्गुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता ।
देवोच्चदशभाकैकभागादेकादशावधि ॥ १४ ॥

भागमानयुतः श्यामः किरीटमकुटान्वितः ।
गृहीतशङ्खचक्रश्च हस्ताभ्यां धृतयापि च ॥ १५ ॥

तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः ।
नासाग्रात् स्थितपादस्य चाङ्गुष्ठान्तं विलम्बयेत् ॥ १६ ॥

तत्सूत्रान्नाभिमध्यं तु वेदमात्रं इति स्मृतम् ।
कुण्डिकोत्सेधविस्तारो तालसूत्राङ्गुलौ मतौ ॥ १७ ॥

तद्गळोत्सेध विस्तारो कलया कोलकेन च ।
आस्यं पञ्चाङ्गुलं प्रोक्तं नासिकोच्चं द्विकोलकम् ॥ १८ ॥

तन्मूलं तु कला चाग्रं तस्य वक्त्राकृतिर्भवेत् ।
एकाङ्गुलं तत्पादोच्चं तन्मूलाग्रततिस्त्रिभिः ॥ १९ ॥

पञ्चभिश्च हरेर्वामकरपल्लव संस्थितिः ।
तदूर्ध्वे दक्षिणं हस्तं धारापाताय कल्पयेत् ॥ २० ॥

कुण्डिकामूलहस्तोच्चं नाभिसूत्रसमं भवेत् ।
नाभेस्तु मणिबन्धान्तं धातुमात्रं इति स्मृतम् ॥ २१ ॥

तदन्य मणिबन्धात्तु सप्तभिश्चूचुकान्तकम् ।
वरदकटकौ स्यातां वामेतर करावुभौ ॥ २२ ॥

हरेरुक्तप्रमाणेन ब्रह्माणमपि कारयेत् ।
चतुर्मुखं चतुर्बाहुं जटामकुट मण्डितम् ॥ २३ ॥

होमोन्मुखं प्रसन्नं तं कुङ्कुमक्षोदसन्निभम् ।
मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ॥ २४ ॥

वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ ।
वराभयकरौ पूर्वो स्यातां तौ दक्षिणेतरौ ॥ २५ ॥

स्रुवपातक्रियोपेतावन्यौ तु कटकामुखौ ।
सूत्रं ललाटनासाग्र मध्यमे नाभिगुल्पयोः ॥ २६ ॥

विलम्बितं ततो नाभेर्द्व्यन्तरं तु दशांशकम् ।
तत्पादाङ्गुष्ठमूलान्तान्नाभेर्वसुदशाङ्गुलम् ॥ २७ ॥

अभयं चूचुकान्तं स्यान्नाभ्यन्तं मणिबन्धकम् ।
तन्मध्ये विश्वमात्रं स्याद् बाहुपार्श्वान्तकं रसैः ॥ २८ ॥

ऊर्ध्वकायसमं जान्वोरन्तरं समुदाहृतम् ।
ब्रह्मरूपं इति ख्यातं तथा पद्मासनस्थितम् ॥ २९ ॥

देवस्याङ्गुलमानेन द्वाविंशत्यङ्गुलो भवेत् ।
अग्निकुण्डस्यविष्कम्भस्त्रिमेखलयुतस्य च ॥ ३० ॥

मेखलैकाङ्गुला प्रोक्ता प्रत्येकं मुनिपुङ्गवाः ।
द्वादशाङ्गुल विस्तार दैर्घ्या सा सप्तजिह्वकः ॥ ३१ ॥

पञ्चजिह्वायुतो वाग्निः कुण्डमध्यस्थितः स्वयम् ।
शिवादिहस्तसूत्राणां प्रमाणं द्व्यन्तरं तु यत् ॥ ३२ ॥

उद्धृतिर्हस्तपादानां अन्याङ्गानां इहोच्यते ।
एषामेव नतिश्चापि संकोचो निर्गमोऽपि वा ॥ ३३ ॥

शरचापादि शस्त्राणां संग्रहे संस्थितिस्त्वियम् ।
अस्त्राणां नियमश्चापि सर्वशास्त्र प्रचोदितः ॥ ३४ ॥

दृष्टान्तमात्रतस्सर्व शास्त्रेषु प्रतिपादितः ।
भूषणां च सर्वेषां वामदक्षिण भेदतः ॥ ३५ ॥

दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ।
देवीनामेवमेव स्यान्नरादीनां विशेषतः ॥ ३६ ॥

इत्थं लक्षणं आख्यातं प्रतिष्ठा विधिरुच्यते ।
संभाव्य पूर्ववत्कालं प्राग्वत् कृत्वाङ्कुरार्पणम् ॥ ३७ ॥

देवस्य सव्ये ब्रह्माणं उत्तरे विष्णुमेव च ।
गौर्याश्च दक्षिणे लक्ष्मीं विन्यसेद्देशिकोत्तमः ॥ ३८ ॥

नवरत्नं न्यसेत्पश्चाद् देवेशे च हरावपि ।
शिष्टानां ब्रह्मगौरीश्री देवीनां कनकं न्यसेत् ॥ ३९ ॥

दृङ्मोक्षणं ततः कृत्वा तदध्यायोक्त वर्त्मना ॥
बेरशुद्धिं पुरग्राम प्रभृतीनां प्रदक्षिणम् ॥ ४० ॥

तोयेऽधिवासयेद्देवं मध्ये तद्दक्षवामयोः ।
ब्रह्मविष्णू तु तौ ब्रह्म पार्श्वयोरम्बिकां श्रियम् ॥ ४१ ॥

यागमण्टपं आसाद्य पूर्ववत् परिकल्पितम् ।
पूर्वाशोत्तर काष्ठासु स्नानवेदिकयान्वितम् ॥ ४२ ॥

अस्य पूर्वयमाप्येन्दु स्थानेष्विष्टस्तु मण्टपः ।
योन्याभ नवपञ्चैक कुण्डैरपि समन्वितः ॥ ४३ ॥

स्नानश्वभ्र त्रयोपेतो देव्याः पूर्ववदीरितः ।
देवस्य मण्टपे चापि कुण्डानि नवसंख्यया ॥ ४४ ॥

पञ्चैक संख्यया वापि चतुरश्र निभानि वा ।
दिगश्राण्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ॥ ४५ ॥

उद्वास्य शिल्पिनं पश्चाद् विप्रान् संभोजयेत्ततः ।
पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं तथा ॥ ४६ ॥

स्नपनं केशगौरीश्री देवीनां कौतुकं पृथक् ।
शयने शाययेद्देवं तस्य वामे च दक्षिणे ॥ ४७ ॥

कृष्णं चैवाब्जजं भिन्नशय्यायां शाययेद्गुरुः ।
देव्यास्तु मण्टपे देवीं शाययेद्दक्षिणे श्रियम् ॥ ४८ ॥

उत्तरे शाययेद्वह्निं संकल्प्य शयनं पृथक् ।
रक्तेन वाससा देवं देवीं पीतेन केशवम् ॥ ४९ ॥

कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् ।
आचार्याः संगृहीतव्याः प्रतिमण्टपं उत्तमाः ॥ ५० ॥

गुरवः प्रतिदेवं वा संग्राह्या मुनिपुङ्गवाः ।
देवोत्तमाङ्गदेशे तु शिवकुम्भं च वर्धनीम् ॥ ५१ ॥

ब्रह्मविष्णोश्शिरोदेशे विन्यसेत्तु घटद्वयम् ।
परितोऽष्टौ घटान्न्यस्त्वा विद्येशाधिष्ठितान्न्यसेत् ॥ ५२ ॥

देवीश्रीपावकानां तु शिरोदेशे घटत्रयम् ।
वामाद्यधिष्ठितानष्ट कुम्भांश्च परितोन्यसेत् ॥ ५३ ॥

तल्लक्षणोदिताकारध्यानयुक्तः स्वतन्त्रयुक् ।
यजेद् गन्धादिभिर्देवान् नैवेद्यान्तैः पृथक् पृथक् ॥ ५४ ॥

तत्त्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत् प्रभोः ।
अन्येषां ततदध्याय प्रोक्तांस्तत्त्वादिकान् न्यसेत् ॥ ५५ ॥

ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतिम् ।
समिदाज्यान्नलाजैश्च तिलसर्षपमुद्गकैः ॥ ५६ ॥

पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च ।
शम्यपामार्गश्रीवृक्ष मायूरा वह्निकोणतः ॥ ५७ ॥

प्रधाने तु पलाशस्स्यात् सर्वत्रैव च वा मतः ।
प्रत्येकं पूर्ववद् हुत्वा पूर्णान्ते देशिकोत्तमः ॥ ५८ ॥

स्वगृहे तत्प्रदेशे वा स्वपेदायास शान्तये ।
प्रभाते कृतनित्यस्तु कर्ता संपूजयेद्गुरुम् ॥ ५९ ॥

वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यैस्समन्वितम् ।
तदन्ते दक्षिणां दत्वा पञ्चनिष्कादि संमिताम् ॥ ६० ॥

प्रतिमाग्रे घटान्न्यस्त्वा कुम्भाद्बीजं तु विन्यसेत् ।
वर्धन्या बीजमादाय देवीहृदय मध्यमे ॥ ६१ ॥

सहजा चेदुमादेवी भिन्ना चेत्पीठमध्यमे ।
भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ॥ ६२ ॥

अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।
संपूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ॥ ६३ ॥

दत्वा नैवेद्यं अन्ते तु प्रतिष्ठोत्स्वं आचरेत् ।
कश्चिदस्मिन्विशेषोऽस्ति श्रूयतां द्विजसत्तमाः ॥ ६४ ॥

सदाशिवादि देवानां देवी यस्य यथा मता ।
तथा विधेया सा देवी स्वतन्त्रे देवसद्मनि ॥ ६५ ॥

प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा ।
तेषां हस्तादि विन्यासः स्वस्वपूर्वादि देशतः ॥ ६६ ॥

यथा वा लभते शोभा बलं तेषां यथा भवेत् ।
तेषां देव्यश्च तत्पार्श्वे कर्तव्या वा न वा मताः ॥ ६७ ॥

स्वतन्त्रे सर्वथा कार्या वृषवाहानकादिषु ।
दक्षिणेशादि देवानां देव्यो न क्वापि संमताः ॥ ६८ ॥

प्रासादभित्ति देवानां प्रतिष्ठा भिन्नगा न वा ।
एवं मर्त्योऽपि यः कुर्याद्वाञ्छितं फलमाप्नुयात् ॥ ६९ ॥

Uttarapāda – Kapitel 65: Das Hochzeitsfest

वक्ष्ये कल्याणकर्माऽपि सर्वदेवे सनातने ।
पूर्वोक्त सुभमुहूर्ते तु तद्दिने वाऽपरे दिने ॥ १ ॥

तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके ।
प्रपायां मण्टपे वेष्टदेशे गोमयलेपिते ॥ २ ॥

स्थण्डिलं तत्र संकल्प्य सितवस्त्रोत्तरच्छदम् ।
स्थापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ॥ ३ ॥

गेयपञ्चमहाशब्दच्छत्रचामर दर्पणैः ।
अनेकधूपैः सद्दीपैरानीतं शिबिकादिभिः ॥ ४ ॥

प्राङ्मुखं तत्पुरः कृत्वा स्थण्डिलं सिकदादिभिः ।
देवस्थण्डिलयोर्मध्ये स्थापयएद्वह्निमूर्तिनम् ॥ ५ ॥

तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् ।
विष्णुं तत्सव्यभागे तु वस्त्राभरण भूषितम् ॥ ६ ॥

पाद्यमाचमनं दत्वा सदशं चाम्बरद्वयम् ।
आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्हृदा ॥ ७ ॥

स्थण्डिलेऽग्निं विनिक्षिप्य पञ्चसंस्कारं आचरेत् ।
सषडङ्गं शिवं चेष्ट्वा समिदाज्यान्नकैस्सह ॥ ८ ॥

पूर्णाहुतिं तदा दत्वा सर्वाभरण संयुताम् ।
गौरीं ईश्वरसव्ये तु हृदा संस्थाप्य देशिकः ॥ ९ ॥

पाद्यमाचमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः ।
देव्या मङ्गलसूत्रं तु दद्यात् हृदय मन्त्रतः ॥ १० ॥

आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् ।
अथ पार्श्वे न्यसेल्लक्ष्मीं देव्यास्सर्वाङ्गसुन्दरीम् ॥ ११ ॥

कौतुकं बन्धयेद्देवदेव्योस्सर्वात्मना गुरुः ।
शिवद्विज कुलोद्भूतस्समधीत शिवागमः ॥ १२ ॥

सोष्णिषस्सोत्तरीयश्च धृत पञ्चाङ्ग भूषणः ।
अनेन गुरुणादिष्टो गुरुरन्यः प्रसन्नधीः ॥ १३ ॥

वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् ।
ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ॥ १४ ॥

शैवेऽपरे करे भस्म पश्चाद् दद्याद्वयोरपि ।
पुण्याहं वाचयेत्पश्चात् सूक्तवेदध्वनीनपि ॥ १५ ॥

समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् ।
गुडदुग्धाज्यसंमिश्रं मधुपर्कं हृदा प्रभोः ॥ १६ ॥

दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा ।
हुत्वा षोडशसंख्यातं ततस्त्वाज्येन षोडश ॥ १७ ॥

नैवेद्यं सोपदंशं तु दत्वा शान्तिं च वै हृदा ।
ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ॥ १८ ॥

त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् ।
शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ॥ १९ ॥

तस्मादक्षिण कर्णे तु बीजमुख्यं जपेद्गुरुः ।
ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ॥ २० ॥

पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् ।
संगृह्य विन्यसेत्तस्मिन् अश्मन्येव हृदा गुरुः ॥ २१ ॥

उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया ।
प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ॥ २२ ॥

शिवहस्तद्वयं देव्या हस्तद्वयं इति स्मरेत् ।
ततस्शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ॥ २३ ॥

अतीव धवलान् लाजान् शुद्धान् अस्त्रेण शोधितान् ।
देशिकस्य तथान्यस्य साङ्गुलीय करेण च ॥ २४ ॥

प्रदद्य हृदयेनैव तस्मिनग्नौ शिवाणुना ।
अग्नेः प्रदक्षिणं कृत्वा संस्पृश्याश्म ततो गुरुः ॥ २५ ॥

द्वितीयं लाजदानं च प्रदक्षिणमनुव्रजेत् ।
कृत्वैवमपरं चापि व्याहृतिं जुहुयात्ततः ॥ २६ ॥

शतमष्टोत्तरं हुत्वा पूर्णां चान्ते शिवेन तु ।
विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ॥ २७ ॥

शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् ।
संपूज्य पुष्कलैर्देवान् गन्धपुष्प स्रगादिभिः ॥ २८ ॥

ततश्चतुर्थ दिवसे चतुर्थं कर्म कारयेत् ।
तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ॥ २९ ॥

समिदाज्यान्नकैरग्नौ पञ्चसंस्कार संस्कृते ।
शिवेनैव शतं चाङ्गैः प्रत्येकं दशकं हुनेत् ॥ ३० ॥

अघोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना ।
शयनं चर्मजाद्यैर्वा पञ्चवस्त्रैस्तु वा नयेत् ॥ ३१ ॥

वर्मणा तच्च संपूज्य नवखट्वोपरिस्थितम् ।
दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ॥ ३२ ॥

स्नपनं कारयेन्नो वा तदन्ते तु शिवोत्सवम् ।
चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ॥ ३३ ॥

देवं देवीं श्रियं विद्वान् वह्निं तत्पुरतो नयेत् ।
वह्नेर्वामेऽप्यवामेऽजं हरिं वा विपरीततः ॥ ३४ ॥

एवमेवान्य देवानां कर्म वैवाह्यं आचरेत् ।
भिन्नपीठाम्बिकानां तु मूललिङ्गस्य च द्विजाः ॥ ३५ ॥

किं तु श्रीहरि बेराभ्यां ब्रह्म बेरेण वोज्झितम् ।
गन्धाद्यैः स्थण्डिले तत्र तानभ्यर्च्यैव कारयेत् ॥ ३६ ॥

मूललिङ्गस्य चोद्बाह्ये गर्भागारात्तु मण्टपे ।
विन्यस्य स्थण्डिले देवीं कर्म वैवाहिकं नयेत् ॥ ३७ ॥

प्रतिष्ठाकर्म यः कुर्याद् एवं कल्याणमूर्तिनः ।
स्वबन्धुजनवर्गैस्तु सर्वैरेतैरतन्द्रितः ॥ ३८ ॥

आयुः श्रीकीर्ति संयुक्तः पुत्रपौत्रादि संयुतः ।
इह लोके सुखं प्राप्य नृपाणामपि दुर्लभम् ॥ ३९ ॥

गच्छेत्स्वदेह पातान्ते शिवं स्थानं अनुत्तमम् ।
यद्गत्वा न निवर्तन्ते मम भक्ता द्विजोत्तमाः ॥ ४० ॥

Uttarapāda – Kapitel 66: Die mit Viṣṇu oder Umā geteilte Gestalt

विष्णुमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् ।
द्रव्यैः शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ॥ १ ॥

उमार्धं वामभागं तु हरार्धं दक्षिणं वपुः ।
सजटामकुटं दक्ष शश्यर्धाङ्कितं अग्रजाः ॥ २ ॥

करण्डमकुटं वामं अळकेन समन्वितम् ।
ललाट दक्षिणे भागे नयनार्धेन संयुतम् ॥ ३ ॥

पत्रं तु वामकर्णे स्याद्वाळिकेनापि संयुतम् ।
सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत् ॥ ४ ॥

सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे ।
देव्यध्यायोदितास्त्रं वा दर्पणासक्त लोचनम् ॥ ५ ॥

दर्पणं मुखवृत्तं स्यात्तन्मुष्टिस्स्यात्तदर्धतः ।
तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ॥ ६ ॥

उमाभागं स्तनोपेतं चित्रवस्त्र परिच्छदम् ।
व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितं इष्यते ॥ ७ ॥

सुस्थितं वामचरणं नूपुरेणाप्यलङ्कृतम् ।
आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः ॥ ८ ॥

वामं मरकताभं स्याद् दक्षिणं मणिसन्निभम् ।
नाभिहृन्मेढ्र देशेभ्यो वामे दक्षे च वामके ॥ ९ ॥

चन्द्रे तु भागान् हित्वाग्रे स्थिताङ्घ्रेर्मध्यमे नयेत् ।
सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ॥ १० ॥

द्वादशाङ्गुलं इत्युक्तं विश्वाङ्गुलं अथापि वा ।
पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ॥ ११ ॥

अङ्गुष्ठपार्ष्णे मध्यं तु तिथिभूताङ्गुलं भवेत् ।
चन्द्रशेखरवच्छेषं कर्तव्यं हि मुनीश्वराः ॥ १२ ॥

अर्धनारीश्वरो ह्येवं हर्यर्धं शृणुत द्विजाः ।
प्राग्वत् कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ॥ १३ ॥

भुजद्वययुतं शङ्ख कटकस्तत्र संमतः ।
पीताम्बर समोपेतं सर्वाभरण संयुतम् ॥ १४ ॥

चन्द्रशेखरवच्छेषं सूत्रपातादिकं भवेत् ।
हर्यर्धमेवं ब्रह्मादिभागं चैवं समाचरेत् ॥ १५ ॥

बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः ।
तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समामतः ॥ १६ ॥

कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् ।
रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ॥ १७ ॥

प्रदक्षिणं पुरादीनां उदके चाधिवासनम् ।
सामान्य स्थापनप्रोक्त मार्गेणैव समाचरेत् ॥ १८ ॥

किं त्वर्धभागं देवाणुसंयुक्तं कारयेद्गुरुः ।
मुखवासग्रहेष्वेक कुण्डं तु परिकल्पयेत् ॥ १९ ॥

प्राच्यैशदक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् ।
शिल्पिनं तु विसृज्याथ विप्रान् संभोजयेत्ततः ॥ २० ॥

पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् ।
शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ॥ २१ ॥

बन्धयेद्देशिको धीमान् उभयोः पूर्वहस्तयोः ।
शयनारोहणं कृत्वा शाययेद्देवं आदरात् ॥ २२ ॥

शिरः प्रदेशे देवस्य शिवकुम्भं तु विन्यसेत् ।
उमोत्तमाङ्गदेशे तु वर्धनीं विन्यसेद्गुरुः ॥ २३ ॥

विष्णुच्चेत्तच्छिरोदेशे विष्णुकुम्भं तु विन्यसेत् ।
तत्तत्कायार्धभागं तु तत्र ध्यात्वा यजेद्गुरुः ॥ २४ ॥

परितोऽष्टघटान्न्यस्त्वा विद्येशाधिष्ठितान्न्यसेत् ।
गन्धस्रग्धूपनैवेद्य प्रमुखैर्देशिकोत्तमः ॥ २५ ॥

तत्त्वतत्त्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् ।
क्ष्मादि मूर्त्यष्टकं न्यस्त्वा मूर्तीशानपि विन्यसेत् ॥ २६ ॥

मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते ।
शर्वं च पशुपत्युग्ररुद्रांश्चैतान्बलोत्कटान् ॥ २७ ॥

धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् ।
विष्ण्वर्धस्थापने शर्व पशुपत्युग्र रुद्रकान् ॥ २८ ॥

पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् ।
पञ्चमूर्त्यात्मके न्यासे मूर्तयः पूर्व वर्त्मना ॥ २९ ॥

ब्रह्माणं केशवं रुद्रं ज्ञानीमिच्छां तु पश्चिमात् ।
न्यसेद्गौर्यर्ध पक्षे तु ब्रह्म विष्णू च रुद्रकम् ॥ ३० ॥

जनार्दनं ततस्संयक् पुरुष्टुतमथाप्यथ ।
न्यसेद्विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ॥ ३१ ॥

शिवांशे शिवमन्त्रं तु न्यसेदन्यत्र तन्मनुम् ।
ईशादि संहितामन्त्रान् देवस्यार्धे तु विन्यसेत् ॥ ३२ ॥

तत्रैव योजयेदन्य देवोक्तेशाद्यणून्मनून् ।
एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ॥ ३३ ॥

संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् ।
आवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ॥ ३४ ॥

समिदाज्यान्न लाजैश्च तिलवेणुयवैरपि ।
होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद्गुरुः ॥ ३५ ॥

पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।
शम्यपामार्ग श्रीवृक्ष मायुरा वह्निकोणतः ॥ ३६ ॥

प्रधानेऽपि पलाशस्स्याद्विशेषः कश्चिदिष्यते ।
विष्ण्वर्धपक्षे तुलसी पलाशश्च प्रधानके ॥ ३७ ॥

ततो द्वितीये दिवसे देवान् कुम्भांश्च पावकान् ।
यजेद्गन्धादिभिश्चैवं वस्त्रहेमाङ्गुलीयकैः ॥ ३८ ॥

मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः ।
शुभे मुहूर्ते संप्राप्ते मन्त्रन्यासं समाचरेत् ॥ ३९ ॥

कुम्भान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्न्यसेत् ।
विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ॥ ४० ॥

कृष्णस्य कुम्भात् कृष्णस्य बीजं कृष्ण हृदि न्यसेत् ।
अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ॥ ४१ ॥

उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्न वा ।
अनुक्तमत्र संग्राह्यं तद्देवस्थापनोदितम् ॥ ४२ ॥

विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्तिमुक्तिदा ॥ ४३ ॥

Uttarapāda – Kapitel 67: Die Aufstellung der Trimūrti

त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ॥ १ ॥

कृष्णा परसु संयुक्तो जटामकुट मण्डितः ।
ऋज्वागतस्तथैकेन पादेनापि समन्वितः ॥ २ ॥

दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि ।
कटिप्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ॥ ३ ॥

स्त्रीमानवत्तयोर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् ।
कृताञ्जलि पुटावेक पादयुक्तो च वा मतौ ॥ ४ ॥

अथवा शिवलिङ्गस्य पार्श्वयोर्न गतौ तु तौ ।
अथवा तौ पृथक्स्थाप्यावेकविष्टरमास्थितौ ॥ ५ ॥

अथवा मध्यमे लिङ्गं पृथगालय संस्थितम् ।
तस्य सव्येप्यसव्ये च ब्रह्मविष्णू तथा मतौ ॥ ६ ॥

पृथग्धामस्थितावैक धामस्था वा त्रिमूर्तयः ।
संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मताः ॥ ७ ॥

पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः ।
भिन्न प्राकारगा वापि एकप्राकार संस्थिताः ॥ ८ ॥

नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे ।
एवं लक्षणं आदिष्टं प्रतिष्ठा विधिरुच्यते ॥ ९ ॥

शिवलिङ्ग प्रतिष्ठा च ब्रह्मणः केशवस्य च ।
तत्तदध्याय संसिद्धाः कर्तव्या मुनिपुङ्गवाः ॥ १० ॥

इदानीं एकपादस्य प्रतिष्ठा विधिरुच्यते ।
पूर्ववत् काल इत्युक्तस्तद्वदेवाङ्कुरार्पणम् ॥ ११ ॥

रत्न न्यासं च दृङ्मोक्षं बेरशुद्धिं पृथङ्नयएत्।
प्रदक्षिणं जलवासं च मण्टपं पूर्ववन् नयेत् ॥ १२ ॥

कुण्डानि कारयेत् तत्र नवपञ्चैक संख्यया ।
दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ॥ १३ ॥

तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् ।
स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ॥ १४ ॥

ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् ।
शयनारोहणं कुम्भस्थापनं पूर्ववन्नयएत् ॥ १५ ॥

देवस्य ब्रह्मणो विष्णोश्शिरोदेशे घटत्रयम् ।
न्यस्त्वा तु शिवकुम्भस्य उत्तरे वर्धनीं न्यसेत् ॥ १६ ॥

तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् ।
तत्त्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ॥ १७ ॥

अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् ।
तिलसर्षप मुद्गांश्च माषशिम्बाढवैणवैः ॥ १८ ॥

पलाशोदुम्बराश्वत्थ न्यक्रोधाः प्राग्दिगादितः ।
शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेय कोणतः ॥ १९ ॥

प्रधाने तु पलाशस्स्यात् स च सर्वत्र वा मतः ।
ततो द्वितीय दिवसे देवकुम्भाग्नि तर्पणम् ॥ २० ॥

पूजितो वस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्वितः ।
संप्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ॥ २१ ॥

मन्त्रन्यासं ततः कुर्यान् न्यस्त्वा बिम्बपुरो घटान् ।
कुम्भान्मनुं समादाय देवस्य हृदि विन्यसेत् ॥ २२ ॥

वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् ।
ब्रह्मविष्णु घटाद्बीजं हृत्वा तद्धृदि विन्यसेत् ॥ २३ ॥

आदाय बीजं अन्येभ्यः पीठस्य परितो न्यसेत् ।
तत्तत्कुम्भजलैश्चैव तत्तद्देशेऽभिषेचयेत् ॥ २४ ॥

स्नपनं चोत्सवं कुर्याद् भूरि नैवेद्यं एव च ।
अनुक्तमत्र संग्राह्य तत्तदध्यायचोदितम् ॥ २५ ॥

प्रतिष्ठेयं कृता येन त्रिमूर्तीनां नरेण तु ।
इह लोके सुखं प्राप्य याति सोऽन्ते परं शिवम् ॥ २६ ॥

Uttarapāda – Kapitel 68: Die Aufstellung des stierreitenden Śiva

वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् ।
चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ॥ १ ॥

परशुर्दक्षिणेहस्ते वामहस्ते मृगो भवेत् ।
पूर्वदक्षिणहस्तस्तु कटको वक्रदण्डयुक् ॥ २ ॥

अस्य सव्यप्रकोष्ठं तु विन्यसेद्वृषमस्तके ।
स हस्तो हंसपक्षो वा पताकाधोमुखस्तु वा ॥ ३ ॥

तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत् ।
तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ॥ ४ ॥

तद्धस्त मणिबन्धाच्च पार्श्वतो द्व्यङ्गुलं भवेत् ।
प्रकोष्ठमूलाद्धृन्मध्यात् पञ्चपञ्चाङ्गुलं भवेत् ॥ ५ ॥

हस्तस्य मणिबन्धाधो मेढ्रमूल समोभवेत् ।
एकोनविंशन्मात्रं स्यात् पार्श्वतो मणिबन्धकात् ॥ ६ ॥

पार्श्वमध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् ।
समभङ्गयुतो देवः स्थानकेनापि संयुतः ॥ ७ ॥

ललाटघ्राण मध्याच्च दक्षिणे स्थितपादके ।
गुल्फमध्ये स्थितं सूत्रं शिवसूत्रं इतिस्मृतम् ॥ ८ ॥

सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलं इतिस्मृतम् ॥
सूत्रनाभ्यन्तरं मात्रं चतुर्भिर्मेढ्रसूत्रयोः ॥ ९ ॥

सूत्रदक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम्।
शराङ्गुलोऽन्तरे पार्ष्ण्योः दक्षपादस्य वक्रता ॥ १० ॥

द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखरवद्भवेत् ।
तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्वितम् ॥ ११ ॥

अथ स्वदक्षिणे देव्यायुक्तो वा मूर्त्यपेक्षया ।
आयुधव्यतिरिक्तैस्स्वैरङ्गैस्तु विपरीतकैः ॥ १२ ॥

संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् ।
पृष्ठतो वृषभः कार्यो देवजानूरुकोच्छ्रयः ॥ १३ ॥

मेढ्रान्तो नाभिसीमान्तश्शेषं सर्वं तु पूर्ववत् ।
एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ॥ १४ ॥

कालेऽङ्कुरार्पणं रत्नन्यासं संप्रोक्षणं नयेत् ।
वृषस्य नेत्रमोक्षं तु शुद्धि ग्रामप्रदक्षिणम् ॥ १५ ॥

जलाधिवासनं कृत्वा मण्टपं पूर्ववन्नयेत् ।
कुण्डानि नवपञ्चैक संख्यया तत्र कल्पयेत् ॥ १६ ॥

चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।
पश्चाच्छिल्पिनं उद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ॥ १७ ॥

पुण्याहप्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् ।
स्नपनं कौतुकं कुर्याद्वृषेऽपि च यथोदितम् ॥ १८ ॥

आरोप्य शयने पश्चात् कुम्भान् संस्थापयेत्ततः ।
शिवस्य च शिरोदेशे शिवकुम्भं च वर्धनीम् ॥ १९ ॥

यदि भिन्नो वृषो देवपादमूले तु शाययेत् ।
दक्षमस्त्क संयुक्तां शय्यां संकल्प्य वै पृथक् ॥ २० ॥

वृषभमस्तकदेशे तु वृषकुम्भं तु विन्यसेत् ।
परितोऽष्टघटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ॥ २१ ॥

गन्धपुष्पदिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः ।
तत्त्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ॥ २२ ॥

अग्निकुण्डादि संस्कारं कृत्वा होमं समाचरेत् ।
समिदाज्यान्न लाजादि तिलसर्षप माषकैः ॥ २३ ॥

पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।
शम्यपामार्ग श्रीवृक्ष मायूरोत्था भवन्ति हि ॥ २४ ॥

प्रधानेऽपि पलाशस्स्यात् तर्पयेत्तत्र वै वृषम् ।
ततो द्वितीये संतर्प्य देवान् कुम्भांश्च पावकान् ॥ २५ ॥

समूर्तिपो गुरुस्सम्यग् वस्त्रहेमादि पूजितः ।
संप्राप्त दक्षिणः पश्चान् मन्त्रन्यासं समाचरेत् ॥ २६ ॥

घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् ।
कुम्भाद्बीजं समादाय देवस्य हृदि विन्यसेत् ॥ २७ ॥

वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ।
सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ॥ २८ ॥

वृषकुम्भान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् ।
अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ॥ २९ ॥

विभिन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् ।
कल्याणं कारयेत् पश्चात् तद्विधानेन देशिकः ॥ ३० ॥

उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्न वा ।
अनुक्तमत्र संग्राह्यं सामान्य स्थापनोदितम् ॥ ३१ ॥

इत्याख्याता प्रतिष्ठेयं वृषवाहन मूर्तिनः ।
घनोवाऽप्यघनो वापि वृषभस च सम्मतः ॥ ३२ ॥

प्रतिष्ठानुष्ठिता येन भक्त्या भावनया सह ।
लभते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ॥ ३३ ॥

Uttarapāda – Kapitel 69: Die Weihe Gaṅgādharas

गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम्।
चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ॥ १ ॥

दक्षिणाभय हस्तस्थोऽप्यन्यत्र कटकामुखः ।
तेन हस्तेन धृत्वैकां जटां गङ्गा समन्विताम् ॥ २ ॥

संस्थितस्तु प्रसन्नात्मा कृष्णा परशु संयुतः ।
जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवएत् ॥ ३ ॥

तदन्तरं तु द्विमुखं आभङ्गेन समन्वितम् ।
स्थानकस्तु तदुष्णीष नासापाद्दक्षमध्यमे ॥ ४ ॥

सूत्रं वामे तु हृदयाद्दक्षे वै नाभि मेढ्रयोः ।
हिक्कासूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ॥ ५ ॥

पादाङ्गुष्ठद्वयोः पार्ष्ण्योरन्तरं तिथिबाणकम् ।
वामपादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ॥ ६ ॥

इन्दुशेखरवच्छेषं कर्तव्यं मुनिपुङ्गवाः ।
देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ॥ ७ ॥

कुर्याद् भगीरथं देव नाभ्यन्तस्तनसीमगम् ।
गलान्तं वाष्टतालेन विलम्बित जटान्वितम् ॥ ८ ॥

वल्कलाम्बर संयुक्तं हृन्मस्तक कृताञ्जलिम् ।
द्विनेत्रं च द्विबाहुं तं एवं गङ्गाधरो भवेत् ॥ ९ ॥

कालोऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् ।
रत्नन्यासो न गङ्गायाः कर्तव्यो नेत्रमोक्षणम् ॥ १० ॥

तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः ।
प्रतिमा शोधनं ग्रामपुरादीनां परदक्षिणम् ॥ ११ ॥

तोयाधिवासो यागार्ह मण्टपः पूर्ववर्त्मनः।
चतुरश्राणि कुण्डानि नवपञ्चैक संख्यया ॥ १२ ॥

मोचनं शिल्पिनः कृत्वा कुर्याद्भूसुर भोजनम् ।
पुण्याहोदन संसिच्य वास्तुहोमं ततो नयेत् ॥ १३ ॥

स्थण्डिलं शयनं बिम्बस्नपनं कौतुकं पृथक् ।
भगीरथस्य गङ्गाया देवस्यापि नयेद्गुरुः ॥ १४ ॥

शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः ।
देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ॥ १५ ॥

देवेशस्य शिरः पार्श्वे शिवकुम्भं च वर्धनीम् ।
भगीरथश्शिरोदेशे घटं वस्त्रादि भूषितम् ॥ १६ ॥

हैरण्यपङ्कजाढ्यं वा गङ्गायाश्चैवं आचरेत् ।
परितोऽष्टौ घटान्न्यस्त्वा विद्येशैस्तैरधिष्ठितान् ॥ १७ ॥

पूर्वोक्त रूपसंस्थान ध्यानयुक्तो गुरूत्तमः ।
गन्धपुष्पादिभिस्सर्वान् देवानभ्यर्चयेत् क्रमात् ॥ १८ ॥

तत्त्वमूर्त्यादि विन्यासं प्रकुर्यात् पूर्ववत् प्रभोः ।
भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ॥ १९ ॥

पञ्चमूर्तीर्न्यसेद्धीमान् मूर्तयः पूर्ववर्त्मना ।
मूर्तीशास्स्युर्भगारोत्थास्सद्योजातादयोऽणवा ॥ २० ॥

बान्तं चतुर्दशं षष्ठं बिन्दुनादौ नियोजयेत् ।
चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ॥ २१ ॥

भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः ।
गङ्गायास्तद्विधानोक्त मार्गेणैव सामाचरेत् ॥ २२ ॥

कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः ।
तिलैश्चैव जुहुयात्पश्चाद् वस्त्रहेमाङ्गुलीयकैः ॥ २३ ॥

दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् ।
तत्तद्देव पुरस्तात्तत् कुम्भान्न्यस्त्वा गुरूत्तमः ॥ २४ ॥

शिवकुम्भ मनुं ध्यात्वा शिवस्य हृदि विन्यसेत् ।
वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ॥ २५ ॥

अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।
गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ॥ २६ ॥

भगीरथ घटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् ।
तत्तत्कुम्भ जलेनैव स्नापयेत् तत्तत्प्रदेशके ॥ २७ ॥

सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् ।
विभिन्नपीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् ॥ २८ ॥

कल्याणं कारयेदन्ते स्नपनं चोत्सवं ततः ।
कारयेद् भूरि नैवेद्यं कतुरिच्छा वशेन तु ॥ २९ ॥

अनुक्तमत्र संग्राह्यं सामान्यस्थापनोक्तवत् ।
भगीरथ युतो वायं वियुक्तो वा महेश्वरः ॥ ३० ॥

जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः ।
इह लोके सुखं प्राप्य स्वबन्धुजन संयुतः ॥ ३१ ॥

यायात् स्वदेह पातान्ते शैवं स्तानं तु दुर्लभम् ॥ ३२ ॥

Uttarapāda – Kapitel 70: Die Aufstellung Guhas

गुहस्य स्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् ।
पुरादेर्मध्यमे वाग्नौ यमे वा मध्यमे तयोः ॥ १ ॥

नैरृते वरुणे वायौ सोमे शर्वेऽथवा भवेत् ।
अन्तरालेऽथवा तेषां शिवधाम्न्येवमेव वा ॥ २ ॥

अन्यदेवालयेऽप्येवं अथवा पर्वतोपरि ।
पर्वतस्यान्तके वापि नद्युद्यानादिकेऽथवा ॥ ३ ॥

राजधान्यादिके वाथ पुण्यक्षेत्रे गृहेषु वा ।
प्रासाद मण्टपादीनां देशे पुण्यतरुष्वथ ॥ ४ ॥

कुमारालय इष्टस्स्याद्धामलक्षण लक्षितः ।
अथैकादि त्रयस्त्रिंशत् हस्तविस्तार संयुतः ॥ ५ ॥

त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः ।
दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ॥ ६ ॥

रुद्रोमाविघ्न रूपाढ्यस्त्वथवा हंसकोणयुक् ।
गुणकोणोऽथवा स स्यात् केवलो वा गुहालयः ॥ ७ ॥

एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः ।
शिवोक्तमार्ग संकॢप्त गर्भाद्येष्टकयान्वितः ॥ ८ ॥

तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः ।
दिङ्न्यस्तदेव विन्यस्त मध्यकुम्भ युतेन च ॥ ९ ॥

धाम्नस्संस्थापनेनाढ्यः प्रागुक्त विधिना सह ।
प्रागुक्त मण्टपाद्यैश्च प्राकाराद्यैश्च मण्डितः ॥ १० ॥

पूर्वास्यः पश्चिमास्यो वा दक्षोत्तर मुखस्तु वा ।
परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ॥ ११ ॥

यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् ।
गन्धर्वः किन्नरो दैत्यनायको दानवाधिपः ॥ १२ ॥

क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः ।
वरदाभय संयुक्ताः खड्ग खेट समन्विताः ॥ १३ ॥

खड्गखेट समायुक्ता द्विभुजा वाञ्जनप्रभाः ।
भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ॥ १४ ॥

शकुनी पूतना चैव रेवती चार्धपूतना ।
वक्त्रमण्डी शकारी च विशान्ता मेषदेवता ॥ १५ ॥

षण्मुखश्शक्तिपाणिश्च कार्तिकेयो गुहस्ततः ।
स्कन्दो मयूरवाहस्स्यात् सेनानीः शक्तिहस्त्वान् ॥ १६ ॥

एते वा मूर्तिपास्तस्य कृताञ्जलिपुटान्विताः ।
वज्रपद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ॥ १७ ॥

चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैकवक्त्रकाः ।
एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ॥ १८ ॥

इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रतो गजम् ।
विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ॥ १९ ॥

बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् ।
बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ॥ २० ॥

द्वारपौ कल्पयेद्द्वारे श्यामरत्ननिभौ क्रमात् ।
दक्षवामगतौ द्वारे द्विभुजौ वा चतुर्भुजौ ॥ २१ ॥

खड्गकेटधरौ सूचिमुद्रा विस्मय संयुतौ ।
श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयङ्करौ ॥ २२ ॥

जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ ।
ईशाने कल्पयेत् स्कन्दचण्डं वेदकरं वरम् ॥ २३ ॥

अभयं वज्रपद्मेच वरदं द्विभुजं तु वा ।
शाकल्य संज्ञया ख्यातं तदर्थं पीठमेव वा ॥ २४ ॥

लक्षणं तस्य संक्षेपाच्छृणुध्वं विप्रसत्तमाः ।
द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमा लक्षणोदितैः ॥ २५ ॥

प्रतिमा लक्षणप्रोक्तं विश्वमानं गुहस्य तु ।
योजनीयं द्विजा गर्भद्वारस्तम्भादि संयुतम् ॥ २६ ॥

द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः ।
पद्मधृक् सव्यपाणिर्लम्बितेतर सत्करः ॥ २७ ॥

बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।
द्विहस्तो यज्ञसूत्राढ्यस्सशिखस्स त्रिमेखलः ॥ २८ ॥

कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितोऽपरः ।
स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ॥ २९ ॥

चतुर्भुजश्त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् ।
नक्रकुण्डलयुक्तो वा ह्यक्षशक्ति करद्वयः ॥ ३० ॥

वरदाभय संयुक्तश्शक्तिद्वययुतो न वा ।
शक्यैकया युतो वा स्यात्तयोर्लक्षणं उच्यते ॥ ३१ ॥

द्विनेत्रे द्विभुजे शान्ते पद्मोत्पल करद्वये ।
श्यामरक्त निभे सव्य वामपार्श्वे व्यवस्थिते ॥ ३२ ॥

गौरिलक्षण संयुक्ते कल्पयेत्तु शुभानने ।
गजेति गजवल्लीति नाम्ना ख्यातेऽतिसुन्दरे ॥ ३३ ॥

इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपिवा ।
षडाननो द्विषड्बाहुरर्कश्रोत्रेक्षणान्वितः ॥ ३४ ॥

षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः ।
सशक्तिस्साभयस्सासिस्साक्षमालस्सकुकुटः ॥ ३५ ॥

सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके ।
रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ॥ ३६ ॥

करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।
शक्तिं च मुसलं खड्गं चक्रं पाशाभये वहन् ॥ ३७ ॥

दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।
समयूरध्वजं चैवं अङ्कुशं वरदं वहन् ॥ ३८ ॥

सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ।
ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये ॥ ३९ ॥

एवं पञ्चविधस्कन्दो विभागस्थान भेदतः ।
द्वापरे स्यान्न वान्यत्र सर्वे सर्वत्र वा मताः ॥ ४० ॥

एवं सम्पाद्य तन्मन्त्रैः प्रतिष्ठां आरभेत्ततः ।
शवर्गस्य तृतीयं तु षष्ठस्वर समन्वितम् ॥ ४१ ॥

चतुर्दशस्वरोपेतं बिन्दुनाद विभूषितम् ।
सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ॥ ४२ ॥

मूलबीजं इति ख्यातं तस्मिन् ब्रह्माङ्ग कल्पना ।
शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोऽन्तकैः ॥ ४३ ॥

ईशानादि पदोपेतैः ब्रह्माङ्गानि समुद्धरेत् ।
महासेनाय संयुक्तं विद्महे पदसंयुतम् ॥ ४४ ॥

षडाननाय संयुक्तं धीमहीति पदं ततः ।
तन्नस्स्कन्दपदोपेतं अन्तेयुक्तं प्रचोदयात् ॥ ४५ ॥

गायत्रीबीजं एतत्स्याद् दीपपूर्वं प्रयोजयेत् ।
हृत्पुटाज्जातमूलाणू मूर्तिविद्यामनू स्मृतौ ॥ ४६ ॥

गजाया गजवल्याश्च मन्त्रास्तन्नाम कल्पिताः ।
ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ॥ ४७ ॥

शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् ।
देव्याश्च हृदयेनैव पञ्चहेमाब्जमेव वा ॥ ४८ ॥

कृत्वा पद्मस्य संघातं नेत्रमोक्षणं आचरेत् ।
मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ॥ ४९ ॥

हृदा स्वर्णनखन्यासं धान्यगोविप्र दर्शनम् ।
कुर्यात् प्रच्छन्नवस्त्रेण सह सर्वात्मना गुरुः ॥ ५० ॥

यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् ।
प्राग्वच्छुद्धिं प्रकल्प्यासौ ग्रामादीनां प्रदक्षिणम् ॥ ५१ ॥

जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा ।
परितः कलशान् मन्त्री न्यसेदिन्द्राद्यधिष्ठितान् ॥ ५२ ॥

प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपम् ।
पद्माभ नवपञ्चैक संख्या कुण्डप्रकल्पनम् ॥ ५३ ॥

पूर्वोत्तरेश संकॢप्त स्नानवेदिकयान्वितम् ।
तक्षकोद्वासनं विप्रभुक्तिं गोमयलेपनम् ॥ ५४ ॥

पुण्योदसेचनं वास्तुदेवतेज्याग्नितर्पणे ।
स्थण्डिलं शयनं प्राग्वच्चर्मजाद्यैस्तु वाम्बरैः ॥ ५५ ॥

जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् ।
गन्धपुष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ॥ ५६ ॥

आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा ।
वस्त्रैरावेष्ट्य संपूज्य सासनं मूर्ति संयुतम् ॥ ५७ ॥

सदेहमूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् ।
शिरः प्रदेशे सूत्राढ्यं कुम्भं वस्त्रादिभिर्युतम् ॥ ५८ ॥

न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् ।
देवीयुतं चेद्विन्यस्य वर्धनीं तत्र तां यजेत् ॥ ५९ ॥

परितोऽष्टौ घटान्न्यस्त्वा गुहविद्येश्वरान्यजेत् ।
सूत्रवस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ॥ ६० ॥

आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ।
न्यस्त्वा तत्त्वत्रयं सेशं मूर्तिमूर्तीश्वरान् न्यसेत् ॥ ६१ ॥

मूर्तयः क्षमादयो लोकपालामूर्तीश्वरा मताः ।
प्रागुक्ता वा तदीशानास्ततो होमं समाचरेत् ॥ ६२ ॥

गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः ।
सोष्णीषस्साम्बरस्स्नातश्शिवद्विज कुलोद्भवः ॥ ६३ ॥

मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् ।
प्रधाने स्कन्दं आवाह्य सब्रह्माङ्गं सलोचनम् ॥ ६४ ॥

तत्त्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् ।
गजां च गजवल्लीं च तर्पयेत्संभवे तयोः ॥ ६५ ॥

सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः ।
ब्रह्माङ्गानां दशांशस्स्यान् मूलार्धं मूर्तिपाहुतिः ॥ ६६ ॥

मूर्तिपा जुहुयुर्दिक्षु विदिक्ष्वीश हृदयादणून् ।
तत्तद्दिङ्मूर्ति मूर्तीशान् अपि शान्तिघटान्वितम् ॥ ६७ ॥

समिद्घृतान्नसस्येन्द्र तिलसल्लाज तण्डुलाः ।
पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वत ॥ ६८ ॥

शम्यपामार्ग श्रीवृक्षा होम्याः पिप्पल पश्चिमाः ।
पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ॥ ६९ ॥

वेदपाठश्चतुर्दिक्षु कोणेष्वस्त्र जपो भवेत् ।
शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् ॥ ७० ॥

दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।
ततः प्रभाते संशुद्धे मूर्तिपैस्सह देशिकः ॥ ७१ ॥

उद्धृत्य षण्मुखं तं च कुम्भानग्नींश्च तर्पयेत् ।
प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ॥ ७२ ॥

दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्धाम देशिकः ।
मानुषे दैविके वापि प्राग्वत् संस्कारसंयुताम् ॥ ७३ ॥

कशिलां हृदयेनैव रत्नधान्यादि गर्भिताम् ।
विन्यस्य स्थापयेत् तस्यां षण्मुखं मूलमुच्चरन् ॥ ७४ ॥

सुलग्ने सुमुहूर्ते तु यथा द्वारस्य सम्मुखम् ।
अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ॥ ७५ ॥

देवाग्रे तु घटान्न्यस्त्वा मन्त्रन्यासं समाचरेत् ।
कुम्भाद्बीजं समादाय षण्मुखस्य हृदि न्यसेत् ॥ ७६ ॥

यदि देवी सती तस्यां वर्धन्या विन्यसेन्मनुम् ।
पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ॥ ७७ ॥

तत्तद्घटस्थिताद्भिस्तं अभिषिञ्चेत् षडाननम् ।
तत्त्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ॥ ७८ ॥

स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले ।
गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ॥ ७९ ॥

इष्ट्वा हेमाङ्गुलीयैश्च प्रतिमास्थापनोक्तवत् ।
सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ॥ ८० ॥

एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः ।
आयुः पुत्रान् वसून्विद्यां अकलङ्कां वरस्त्रियम् ॥ ८१ ॥

सौभाग्यं महतीं लक्ष्मीं नीरोगत्वं यशस्सुखम् ।
शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ॥ ८२ ॥

Uttarapāda – Kapitel 71: Die Verehrung Guhas

तस्यार्चनं च संक्षेपात् शृणुध्वं विप्रसत्तमाः ।
अथ प्रातः कृतावश्यशौचस्नाने विधाय च ॥ १ ॥

सन्ध्योपस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् ।
गत्वा धाम प्रविश्यान्तर्निर्णेक्त्राङ्घ्रि करद्वयः ॥ २ ॥

आचान्तः सकलीकृत्य स्कन्देशान हृदयादिभिः ।
सनातनं विधायार्घ्यं अस्त्रमन्त्रेण तज्जलैः ॥ ३ ॥

द्वारं संप्रोक्ष्य संपूज्य जयं च विजयं तथा ।
स्वनाम्नोदुम्बरे हेतिं प्रविश्यान्तस्समर्चयेत् ॥ ४ ॥

वास्तुनाथं उदग्वक्त्रः स्वासनस्थोऽणुविग्रहः ।
शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसितस्थितिः ॥ ५ ॥

शक्त्युद्भूत सुधौघेन कृतपूत महातनुः ।
अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ॥ ६ ॥

न्यस्तेशाननराघोर वामाजाङ्गुष्ठकादिकः ।
तलद्वय निविष्टाक्षि देहमूलाणु संयुतः ॥ ७ ॥

कनिष्ठाङ्गुलिन्यस्त हृच्छिरश्चूलिकाद्यणुः ।
भूयस्तलकृतन्यास मूलमन्त्रपरान्वितः ॥ ८ ॥

देहन्यासं च तैर्मन्त्रैः मालाब्रह्मान्वितैर्न वा ।
सैकत्रिंशत्कलामन्त्र न्यासं प्राग्वन्नयेन्न वा ॥ ९ ॥

आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् ।
इष्ट्वा हुत्वा विभाव्यान्तर्गुहं हृन्नाभि बिन्दुषु ॥ १० ॥

शिवाणुभिस्तनुं शैवीं अथापाद्य गुहं यजेत् ।
अवकुण्ठन दिग्बन्ध प्राकारैः स्थानशोधनम् ॥ ११ ॥

विशेषार्घ्यं च संकल्प्य गन्धपुष्पाक्षतैर्हृदा ।
अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ॥ १२ ॥

अर्घ्यं वा केवलं तेन संप्रोक्ष्य द्रव्यसंहतिम् ।
हृदाभिमन्त्र्य स्वं चेष्ट्वा शुद्ध्यै मन्त्रान् समुच्चरन् ॥ १३ ॥

इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् ।
दत्वा मूर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ॥ १४ ॥

त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना ।
लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ॥ १५ ॥

चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धिर्मता द्विजाः ।
इत्थं आत्मधराद्रव्य मन्त्रबिम्ब विशोधनम् ॥ १६ ॥

कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः ।
प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ॥ १७ ॥

अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् ।
संकल्प्य चासनं मूर्तिं आवाह्यस्मिन् हृदाद्यणून् ॥ १८ ॥

ईशानादीन् न्यसेन्माला ब्रह्माण्यर्णास्तु वाखिलान् ।
विद्यादेहं च संकल्प्य तस्मिन्मूलेन षण्मुखम् ॥ १९ ॥

हृदयानुगतेनैव पुष्पसंपूर्ण सत्करः ।
आवाह्य बिम्बे तद्बिन्दोः आनीय स्थापयेद्धृदा ॥ २० ॥

निष्ठुरां सन्निधानाद्यां हृदा कृत्वावकुण्ठयेत् ।
हृदादि नेत्रपर्यन्त मन्त्रन्यासोऽवकुण्ठनम् ॥ २१ ॥

महामुद्रां च मूलेन कल्पयेद्वामृतीकृतिम् ।
पाद्यं पादे हृदाचान्तिं मुखेऽर्घ्यं शिरसि क्रमात् ॥ २२ ॥

नमःस्वाहा वषड्वौषड् जात्यन्तेन गुहस्य च ।
गन्धं पुष्पं च धूपं च दत्वा पञ्चामृतादिभिः ॥ २३ ॥

विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् ।
वाससोन्मृज्य वक्त्रेण दत्वाचान्तिं गुहस्य तु ॥ २४ ॥

चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् ।
पिष्ट्वालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ॥ २५ ॥

कृष्णागरुकृतं धूपं दद्याद्धृदयमन्त्रतः ।
लघुचन्दन निर्यासं भस्मजं वा पुरोदितम् ॥ २६ ॥

सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु ।
तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ॥ २७ ॥

हृदा तैलाद्यसंकॢप्तिं दद्यात् प्राग्वद् हृदाणुना ।
आमन्त्रण हविर्दद्यात् प्रागुक्त विधिना न वा ॥ २८ ॥

गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् ।
पूजयेदावृतिं पश्चाद् धूपदानावसानके ॥ २९ ॥

वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् ।
तद्बहिर्वसुमूर्तींश्च बहिरिन्द्रादि देवताः ॥ ३० ॥

ततोऽस्त्राणि यजेदेवं त्रिभिर्वावरणैर्गुहम् ।
द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ॥ ३१ ॥

गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् ।
नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ॥ ३२ ॥

आवाह्य साङ्गं चर्वन्तं पलाशसमिदाज्ययुक् ।
मूलेन शतपञ्चाशत् पञ्चविंशति संख्यया ॥ ३३ ॥

जुहुयात्तद्दशांशेन षडङ्गाहुतिमाचरेत् ।
दत्वा पूर्णाहुतिं पश्चान् नित्योत्सवं अथाचरेत् ॥ ३४ ॥

तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह ।
एकाहादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ॥ ३५ ॥

ध्वजे मयूरं आलिख्य ध्वजारोहणं आचरेत् ।
तद्दिनत्रिगुणे वाथद्विगुणे वाथ तद्दिने ॥ ३६ ॥

अङ्कुरार्पणपूर्वं तु भेरीताडन पूर्वकम् ।
ध्वजारोहण पूर्वं वा कारयेदुत्सवं बुधः ॥ ३७ ॥

शकुनी रेवती चैव पूतना मण्डपूतना ।
वक्त्रमुण्डी ततः प्रोक्ता निशान्ता मेषदेवता ॥ ३८ ॥

शकारीति परिज्ञेयाः सुब्रह्मण्यस्य सुव्रताः ।
षट्कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ॥ ३९ ॥

सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः ।
सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ॥ ४० ॥

कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके ।
वज्ररूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ॥ ४१ ॥

द्विनेत्रं द्विभुजं रौद्रं शिखाकोटि समुज्ज्वलम् ।
तीक्ष्णवज्रधरं सव्ये वामहस्ते तु चित्रके ॥ ४२ ॥

शकुन्यादि कुमारान्ता दिनानां अधिपा मताः ॥ ४३ ॥

Uttarapāda – Kapitel 72: Die Aufstellung Caṇḍeśas

चण्डेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् ।
परस्वतन्त्र भेदेन द्विविधं तच्च संमतम् ॥ १ ॥

पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः ।
वामेअशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ॥ २ ॥

अन्तर्मण्डलदेशेऽन्तर्हारायां वेष्ट शालके ।
अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः ॥ ३ ॥

धामलक्षण संसिद्धायामेनापि समन्वितः ।
एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ॥ ४ ॥

धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः ।
इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ॥ ५ ॥

प्रागुक्त विधिनानीत गर्भाद्येष्टकया युतः ।
मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ॥ ६ ॥

दक्षिणद्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः ।
स्वतन्त्रस्थापने दक्षपूर्वपश्चिम दिङ्मुखः ॥ ७ ॥

दिङ्न्यस्तामर विन्यस्त मध्यकुम्भयुतेन च ।
धाम संस्थापनेनाढ्यः प्रागुक्त विधिना सह ॥ ८ ॥

प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् ।
प्राकार मण्टपोपेतः परितः परिवारयुक् ॥ ९ ॥

रुद्रभक्तस्ततो रुद्रश्चण्डश्चण्डप एव च ।
महाबलस्तथा विप्राष्टङ्कपाणीश सेवकौ ॥ १० ॥

रुद्रकोपज इत्यष्टमूर्तयः परिवारगाः ।
एते श्वेता महाकाया कृताञ्जलि पुटान्विताः ॥ ११ ॥

सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिताः ।
कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ॥ १२ ॥

इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः ।
बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ॥ १३ ॥

द्वारस्थो द्वारपौ कार्यौ द्विकरौ दण्डधारकौ ।
चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ॥ १४ ॥

बलिपीठे बलिर्देयो यथा देशं बलिर्हितः ।
देवोक्त परिवारान्वा विघ्नक्षेत्रेश भानुभिः ॥ १५ ॥

द्रव्यैः शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः ।
मध्येन दशतालेन दशतालाधमेन वा ॥ १६ ॥

प्रतिमालक्षणप्रोक्त मानेनायादि संयुतः ।
बद्धपद्मासनश्चण्डनाथो दुर्दर्श भीषणः ॥ १७ ॥

व्याळयज्ञोपवीती च मुकोद्गीर्ण महानलः ।
कराळकज्जळाभासो जटिलश्चन्द्रशेखरः ॥ १८ ॥

चतुर्वक्तश्चतुर्बाहुश्चाक्षमाला त्रिशूलवान् ।
टङ्कं कमण्डलुं वामे भानुरक्तार्कलोचनः ॥ १९ ॥

अथवा शङ्खवर्णाभश्चतुर्बाहुस्त्रिलोचनः ।
चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ॥ २० ॥

पिनाकामोघ बाणाभ्यां व्यग्रपाणि तलद्वयः ।
वराभयप्रदानाभ्यां अन्यत्र परिमण्डितः ॥ २१ ॥

अथवा द्विभुजश्शुक्लवस्त्रस्त्र्यक्षोऽञ्जनप्रभः ।
जटामकुटयुक्तो वा धवलीकृत मूर्धजः ॥ २२ ॥

स्थानको वासनस्थो वा शयितासव्यपात्तलः ।
सलम्ब सव्यपादस्तु वामहस्तभुजानुगः ॥ २३ ॥

वरहस्तोऽथवा स स्यादितरष्टङ्कसंयुतः ।
वामेतरकरष्टङ्क युक्तोऽञ्जलिपुटोऽथवा ॥ २४ ॥

शंकरेक्षणसंपन्नश्शोकनम्रशिरास्तु वा ।
उत्कुटासनयुक् शान्तो जटिलष्टङ्कधृक्करः ॥ २५ ॥

एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः ।
अथवाभयटङ्काभ्यां पाशशूलद्वयेन तु ॥ २६ ॥

चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः ।
विशेषस्सिंहळेदेशे कश्चिदत्राभिधीयते ॥ २७ ॥

कृतायामष्टहस्तस्स्यात् त्रेतायां षड्भुजो मतः ।
द्वापरे च चतुर्हस्तः कलौ तु द्विकरो मतः ॥ २८ ॥

अन्यदेशे तु सर्वत्र विभागो नायमीरितः ।
अथवा चण्डनाथस्तु देव्या तु सहितो न वा ॥ २९ ॥

सा देवी श्यामला हस्तद्वयाखिल विभूषिता ।
धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ॥ ३० ॥

एवं आपाद्य बेरं तु मनुभिः स्थापनं नयेत् ।
चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ॥ ३१ ॥

चण्डमूर्तिपदं दीपपूर्वं नत्यन्तमेव च ।
चतुर्थ्यन्तं इदं मूर्तिमन्त्रमित्यभिधीयते ॥ ३२ ॥

ध्वनिचण्डेश्वरायेति हुंफट् स्वाहा पदेन च ।
मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ॥ ३३ ॥

ईशानादीनि चण्डस्य चकारेणोद्धरेद् गुरुः ।
ओं चण्डपूर्वको हुंफण्णमोन्तः स्याद् हृदादिकाः ॥ ३४ ॥

तन्नाम्ना हुंपडन्तेन मूर्तिनामपरो मनुः ।
अथवान्यप्रकारेण मन्त्रश्चण्डाय कल्प्यते ॥ ३५ ॥

ज्ञानशक्तिपदैर्मन्त्रैः हुंफट्कार समन्वितैः ।
चण्डायेति पदोपेतैः चण्डमन्त्रोऽयमीरितः ॥ ३६ ॥

विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः ।
ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ॥ ३७ ॥

कालः पूर्ववदेवोक्तो रत्नन्यासश्च पूर्ववत् ।
सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ॥ ३८ ॥

कृत्वा पद्मस्य सङ्घातं नेत्रमोक्षणं आचरेत् ।
मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना ॥ ३९ ॥

सौवर्णनखविन्यासः प्रच्छन्नपटकादिभिः ।
बेरशुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ॥ ४० ॥

तोयेऽधिवासयेद्देवं इन्द्राद्यष्टघटान्वितम् ।
यागार्थ मण्टपं कुर्याद् धाम्नोऽग्रे तस्य पार्श्वयोः ॥ ४१ ॥

याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् ।
नवपञ्चैक संख्यानि वृत्तान्यस्त्राणि वा द्विजाः ॥ ४२ ॥

मण्टपं कल्पयित्वैवं पूर्वोक्तविधिना सह ।
उद्वास्य शिल्पिनं पश्चाच्छैवान् भक्तांश्च भोजयेत् ॥ ४३ ॥

पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं समाचरेत् ।
जलादानीय चण्डेशं प्राग्वत् स्नपनं आचरेत् ॥ ४४ ॥

कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् ।
कल्पयेच्छयनं वेद्यां अण्डजाद्यैरनुक्रमात् ॥ ४५ ॥

पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु ।
वासोभ्यां वेष्टयित्वा तु कुम्भन्यासं समाचरेत् ॥ ४६ ॥

चण्डोत्तमाङ्गदेशे तु सूत्रकूर्चाम्बरान्वितम् ।
सहैमटङ्कतोयाढ्यं विन्यसेएत्तु सपल्लवम् ॥ ४७ ॥

तथाविध घटानष्टौ विन्यसेत् परितो बहिः ।
चण्डेशो देवियुक्तश्चेद् वर्धनीं उत्तरे न्यसेत् ॥ ४८ ॥

सासनेन सदेहेन चण्डेशेनाप्यधिष्ठितम् ।
कुम्भमिष्ट्वा तु पूर्वोक्त ध्यानयुक् चन्दनादिभिः ॥ ४९ ॥

हृच्छिरश्चूळिकावर्म शस्त्राणि परितो बहिः ।
घटेषु पूजयेन्मन्त्री ईशानादुत्तरावधि ॥ ५० ॥

लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा ।
गन्धपुष्पादिभिश्चेष्ट्वा तत्त्वमूर्त्यादिकं न्यसेत् ॥ ५१ ॥

आत्मविद्याशिवाख्यं च ब्रह्मादींश्च तदीश्वरान् ।
क्ष्मादिमूर्तिस्तदीशानान् लोकपानपि विन्यसेत् ॥ ५२ ॥

प्रागुक्त मूर्तयो वाथ रुद्रभक्तादयोऽथवा ।
सासनं मूर्तियुक् चण्डं ब्रह्माङ्गसहितं यजेत् ॥ ५३ ॥

मूर्तिभृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाश्रयेत् ।
संस्कृत्य कुण्डं वह्निं च दिक्षु तत्पुरुषाद्यणून् ॥ ५४ ॥

कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् ।
प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ॥ ५५ ॥

लाजसक्तुयवैस्सार्धं पलाशोदुम्बरो वटः ।
प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ॥ ५६ ॥

शमीखदिरमायूर श्रीवृक्षा वह्निकोणतः ।
तत्त्वमूर्तितदीशांश्च क्रमशस्तर्पयेत् पृथक् ॥ ५७ ॥

शान्त्यम्बः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् ।
दर्भसंस्पर्शनं चैवं प्रतिभागं समाचरेत् ॥ ५८ ॥

ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः ।
उद्धृत्य चण्डबिम्बं तु कुम्भानग्नींश्च तर्पयेत् ॥ ५९ ॥

प्रायश्चित्तं च पूर्णं च गुरुः कृत्वा समूर्तिपः ।
वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्तदक्षिणः ॥ ६० ॥

अधमा पञ्चनिष्का तु द्विगुणा मध्यमा भवेत् ।
त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद्भवेत् ॥ ६१ ॥

प्रतिष्ठा कशिलादीनां प्राग्वत् कार्या द्विजोत्तमाः ।
सुमुहूर्ते प्रतिष्ठाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ॥ ६२ ॥

देवाग्रस्थण्डिलस्थेभ्यः कुम्भेभ्यो देशिकोत्तमः ।
तत्तत्कुम्भगतैस्तोयैः स्नापयेच्चण्डविग्रहम् ॥ ६३ ॥

स्नपनं भूरि नैवेद्यं उत्सवं च चलम् यदि ।
कारयेद्देवियुक्तं चेत् तस्याश्च स्थापनं नयेत् ॥ ६४ ॥

चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा ।
चण्डेशस्थापनं ह्येवं यः कुर्यान्नरपुङ्गवः ॥ ६५ ॥

आयुष्कामो लभेदायुर्धनार्थी चेद्वसूनि च ।
विद्याकामोऽमलां विद्यां पुत्रार्थी चेत्सुतं लभेत् ॥ ६६ ॥

लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः ।
चण्डेश्वरं प्रपन्ना ये न तेषां भवकारणम् ॥ ६७ ॥

Uttarapāda – Kapitel 73: Die Verehrung Caṇḍeśvaras

चण्डेशस्थापनं ख्यातं तस्य पूजा न कथ्यते ।
स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ॥ १ ॥

चण्डेशनाथस्य हृत्पूर्वं सामान्यार्घ्यं च हेतिना
द्वारपौ तेन गन्धाद्यैः इष्ट्वास्त्र द्वारमध्यमे ॥ २ ॥

आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च ।
सकलीकृत देहस्तु कृतवान्तश्चण्डपूजनम् ॥ ३ ॥

अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च ।
पाद्यमाचमनं दत्वा हृदार्घ्यं संहिताणुभिः ॥ ४ ॥

अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदा लभेत् ।
स्वस्वमिष्ट्वा हृदा मन्त्रान् उच्चरेन् मन्त्रशुद्धये ॥ ५ ॥

पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे ।
इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ॥ ६ ॥

तन्नश्चण्डपदं पश्चात् पदमुक्त्वा प्रचोदयात् ।
दत्वा सामान्यमर्घ्यं च निर्माल्यं अपनीय च ॥ ७ ॥

संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च ।
चण्डासनं च मूर्तिं च संकल्प्येशाद्यणून् क्रमात् ॥ ८ ॥

हृदादींश्च यथास्थानं न्यस्य मूलेन चण्डपम् ।
बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ॥ ९ ॥

न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् ।
पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ॥ १० ॥

अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि ।
इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ॥ ११ ॥

धूपदीपं हृदा दद्यादर्चनाङ्ग विधानतः ।
हृदादीन् रुद्रभक्तादीन् सास्त्रान् आशापतीनपि ॥ १२ ॥

परितश्चण्डनाथस्य तानिष्ट्वार्घ्योपचारतः ।
नैवेद्यं तद्विधानोक्तं दत्वा ताम्बूल संयुतम् ॥ १३ ॥

पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् ।
जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ॥ १४ ॥

पलाशसमिदाज्यान्नैः होमं च विभवे सति ।
मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ॥ १५ ॥

नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् ।
पुष्पान्नक्षतलिङ्गैश्च चण्डेशास्त्रेण पूजितैः ॥ १६ ॥

प्रातर्मध्याह्न रात्रेषु चण्डबेरोज्झितैस्तु वा ।
पादुकाराधनोपेतं प्रविशेदालयं प्रति ॥ १७ ॥

एकद्वित्रिचतुष्पञ्च षट्सप्ताष्ट विभेदिषु ।
कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ॥ १८ ॥

पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने ।
आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ॥ १९ ॥

चण्डेशायेति संकल्प्य यच्छिवाय निवेदयेत् ।
नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमः ॥ २० ॥

गत्वा तदालयं शुद्ध तोयगन्धस्रगादिभिः ।
संपूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ॥ २१ ॥

आत्मार्थं च परार्थं च सामान्यमिदमीरितम् ।
नित्येज्यैवं समादिष्टा भुक्तिमुक्ति फलप्रदा ॥ २२ ॥

आयुः प्रज्ञां सदारोग्यं सौभाग्यं अतुलां श्रियम् ।
अन्यच्च लभते नित्यं चण्डेशस्यार्चनेन तु ॥
विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये ॥ २३ ॥

स्नपनं पूर्ववत् किं तु मध्ये चण्डेश्वरं घटे ॥ २४ ॥

देव्यायुतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् ।
अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्चप्रकल्पने ॥ २५ ॥

रुद्रभक्तादयोऽष्टौ स्युर्नवकुम्भाभिषेचने ।
इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्चविंशतौ ॥ २६ ॥

पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् ।
शतस्नाने तु तद्बाह्ये हृदयं केवलं यजेत् ॥ २७ ॥

उत्सवं दमनारोहं पवित्रारोहणं नयेत् ।
दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ॥ २८ ॥

नवनैवेद्य कर्माणि जीर्णोद्धारं च निष्कृतिम् ।
किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ॥ २९ ॥

शिवोत्सवेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह ।
ध्वजहोमबलिं हित्वा केवलं यानमेव वा ॥ ३० ॥

प्रतिमां चण्डवत् कुर्यात् तत्र टङ्काकृतिर्भवेत् ।
प्रतिष्ठोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ॥ ३१ ॥

तत्सर्वं पूर्ववद् ग्राह्यं चण्डेशाणुसमन्वितम् ॥ ३२ ॥

Uttarapāda – Kapitel 74: Der Sitz der Lehre

विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः ।
सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति वा ॥ १ ॥

प्रासादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके ।
भक्तोक्तस्थानके वापि विद्यास्थानं प्रकल्पयेत् ॥ २ ॥

अङ्गुलत्रयमारभ्य व्योमाङ्गुल विवृद्धितः ।
पञ्चविंशतिमात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ॥ ३ ॥

व्योमाङ्गुलात् पादवृद्ध्या रविमात्रावसानकम् ।
प्रमाणं तु विशाले स्यात् पक्षपट्टियुतं तु वा ॥ ४ ॥

भूर्जत्वक्कुलसंभूतं श्रीताळी दलमेव वा ।
तालसंभूतपत्रं वा सुवर्णादि विनिर्मितम् ॥ ५ ॥

शैलदारुकृतं वापि लेखयेदक्षरैः शुभैः ।
मष्या वा कुङ्कुमाद्यैर्वा पुष्पाद्यैर्निर्मितेन वा ॥ ६ ॥

लिखेत् तूलिकया वापि देशिकः शिष्य एव वा ।
शुभवारर्क्षयोगादावारभेद् अनुकूलके ॥ ७ ॥

पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः ।
न समीपे पशूनां तु कुर्याद् अध्ययनं बुधः ॥ ८ ॥

नानादेश समुद्भूतैः अक्षरैः कान्तिसंयुतैः ।
लेखयेद् ऋजुपङ्क्त्या तं पत्रप्रान्ते न लेखयेत् ॥ ९ ॥

गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् ।
वस्त्राद्यैः देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ॥ १० ॥

गोमयालिप्त भूभागे रङ्गलेख समन्विते ।
प्रकीर्ण पुष्पप्रकरे सधूपेन च धूपिते ॥ ११ ॥

ज्वलद्दीप समोपेते शुद्धशैव समावृते ।
लिखेद्वा शृणुयाद्वापि पठेद्वादौ शुचिर्नरः ॥ १२ ॥

नाशुद्धं लेखयेद्विद्वान् यथालिखित पाठकैः ।
शिवज्ञानस्य कालेन प्रणष्टस्य प्रमासतः ॥ १३ ॥

ऊनातिरिक्त वर्णस्य लिखितस्य प्रमादिभिः ।
प्रमादीकृत पाठस्य नाशितस्याल्पबुद्धिभिः ॥ १४ ॥

अल्पज्ञानसमोपेतैः आचार्यैः शोधितस्य च ।
व्यर्थैः पदैरुपेतस्य पुनरुक्तस्य चार्थतः ॥ १५ ॥

पूर्वोत्तरविरुद्धस्य स्वसिद्धान्त विरोधिनः ।
छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ॥ १६ ॥

इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् ।
यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ॥ १७ ॥

शिवतत्त्वार्थ विद्वान् यः स विद्याः पारमेश्वराः ।
अध्यापयेच्छनैश्शिष्यान् शिवभक्तान् प्रबोधयेत् ॥ १८ ॥

शिवविद्यानुसारेण विद्यादानं तदुच्यते ।
संस्कृतैर्द्रामिडैर्वाक्यैः देशभाषा प्रकारकैः ॥ १९ ॥

प्राकृत प्रभवैः शब्दैः विशुद्धैः संस्कृतैरपि ।
अत्र लौकिक शब्दैश्च यश्शिष्यमनुरूपतः ॥ २० ॥

देशभाषाद्युपायैश्च तथाभूतागमैरपि ।
प्रदेशवर्तिभिस्सर्वदेशस्थं बोधयेद्यथा ॥ २१ ॥

यथा शिवस्य नैवान्तस्संपूर्णस्य महात्मनः ।
तथा विद्याप्रदानस्य नान्तस्सर्व गुणात्मनः ॥ २२ ॥

शिवान्तगुणमैश्वर्यं विद्यादानस्य तत्फलम् ।
इह कीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ॥ २३ ॥

योऽशुद्धामात्मनाधीत्य ज्ञानमध्यापयेत्परम् ।
स याति नरकं घोरं पापीयान् ज्ञाननाशकः ॥ २४ ॥

शिववत्पूजयेत् भक्त्या शिवज्ञानप्रकाशकम् ।
प्रत्यहं लेखयेद्विद्वान् यथाशक्ति सुबुद्धिमान् ॥ २५ ॥

यावदक्षर संख्याःस्युः शिवज्ञानस्य पुस्तके ।
तावद्युगसहस्राणि दाता शिवपुरे नरः ॥ २६ ॥

दशपूर्वान् समुद्धृत्य दश वंश्यांश्च बुद्धिमान् ।
मातृः पितृइन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ॥ २७ ॥

स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् ।
अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ॥ २८ ॥

वाचयेच्चिन्तयेद्वापि लिखिद्वा लेखयेत्तु वा ।
शृणुयाद्येकचित्तस्तु तदर्थं च विचारयेत् ॥ २९ ॥

अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्यफलं महत् ।
शिवज्ञानाभियुक्तस्य भोजनाच्छदनादिभिः ॥ ३० ॥

आसामाप्तेस्तु संरक्षेद् विद्यादान फलं लभेत् ।
मूल्येन कारयेद्वाथ तदेव फलमश्नुते ॥ ३१ ॥

यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः ।
स राजा वर्धते राष्ट्रं स राजाधिप ऊर्जितः ॥ ३२ ॥

राज्ये राजगुरुत्वेऽपि सैनापत्येऽन्यकर्मणि ।
पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ॥ ३३ ॥

शुद्धशैवो भवेद्योग्यः स चेत्सान्तानिको वरः ।
यस्सिद्धान्ताविरोधेन विरिधेन वेदं वेदाङ्गं एव च ॥ ३४ ॥

तथा पाशुपतादीनि गारुडादीन्यनेकधा ।
निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ॥ ३५ ॥

निश्चिनोति च शास्त्रार्थं शुद्धशैव विरोधतः ।
बुद्धिस्स्यात्तामसी तस्य स च धर्मबहिष्कृतः ॥ ३६ ॥

तस्मात्सिद्धान्त शैवेन शुद्धशैवविदादरात् ।
शान्तिकं पौष्टिकं कर्म नेयं राज्ञा विशेषतः ॥ ३७ ॥

अन्येषामपि सर्वेषां अभिचारादिकं तु वा ।
विधेयं धर्मनिष्ठेन सान्तानिक वरेण तु ॥ ३८ ॥

तेनैवानुष्ठितं कर्म फलदं सर्वदा नृणाम् ।
एवं विद्या प्रभावस्स्यात् स्थापनं वक्ष्यतेऽधुना ॥ ३९ ॥

त्रिहस्तं तु समारभ्य त्रयस्त्रिंशत् करान्तकम् ।
विद्याशाला विशालस्स्यात् प्रासादो वाथ मण्टपः ॥ ४० ॥

एकशालादि भेधेन शाला वा लक्षणान्विता ।
विद्यापीठस्य विस्तारस्सप्ताङ्गुल विशालतः ॥ ४१ ॥

द्विद्व्यङ्गुल वृद्ध्या तु स्यादेकत्रिंशदङ्गुअलः ।
तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ॥ ४२ ॥

चतुरश्रसमो वा स्यादायताश्रस्तु वा भवेत् ।
अन्यदासनविध्युक्त मार्गेण सकलं नयेत् ॥ ४३ ॥

संस्कारांश्च ततो विद्यात् प्रोक्षयेत् पञ्चगव्यतः ।
मण्टपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ॥ ४४ ॥

आसनाद्यं शिवे यद्वन् मूर्तिमूतीश संयुतम् ।
शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ॥ ४५ ॥

मध्यमे शिवकुम्भं तु पार्श्वयोः वर्धनी द्वयम् ।
द्व्योरेकैव पुजा स्याद्विद्येशान् बहिरावृतान् ॥ ४६ ॥

संपूज्य गन्धपुष्पाद्यैः होमं प्राग्वत् समाचरेत् ।
समिदाज्य तिलोपेतं हविषा च समन्वितम् ॥ ४७ ॥

यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् ।
संप्राप्त दक्षिणः कुर्यान् मन्त्रन्यासं गुरूत्तमः ॥ ४८ ॥

मध्यमे च शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ॥ ४९ ॥

Uttarapāda – Kapitel 75: Die Weihe der zehn Waffen

दशायुध प्रतिष्टां तु वक्ष्ये लक्षणपूर्वकम् ।
वज्रम् शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ १ ॥

गदा त्रिशूलं पदमं च चक्रं चेति दशायुधम् ।
एकवक्त्रं द्विनेत्रं च करण्ड मकुटान्वितम् ॥ २ ॥

कृताञ्जलि पुटोपेतं द्विबाहुं सर्वलक्षणम् ।
प्रतिमालक्षणप्रोक्त मानेनैव समाचरेत् ॥ ३ ॥

जाये शक्तिगते ज्ञेये चक्रपद्मे नपुंसके ।
शेषाः पुमांसो विज्ञेयास्त्वष्टताल विनिर्मिताः ॥ ४ ॥

स्वमूर्धन्यायुध संयुक्ताः स्वकीयादेक तालतः ।
तालाष्टांश विवृद्ध्या तु चतुस्तालावसानकम् ॥ ५ ॥

कल्पयेदायुधं विद्वान् अस्त्रवर्गोक्त मार्गतः ।
तेषां मूर्धन्यायुधं कार्यं अथवा मकुटोपरि ॥ ६ ॥

हस्तयोरन्तरे वापि वामेतरकरेऽपि वा ।
परित्यज्याङ्कुश यद्वा तत्स्थाने कल्पयेद् ध्वजम् ॥ ७ ॥

ततः प्रतिष्ठा कर्तव्या तद्विधानं इहोच्यते ।
रत्नन्यासं पुराकुर्यान् नेत्रमोक्षणकं ततः ॥ ८ ॥

तर्पणं नेत्रयोर्धान्य दर्शनं मधुसर्पिषा ।
गव्याभिषेचितं शस्त्रं अलङ्कृत्य नयेत्ततः ॥ ९ ॥

ग्रामप्रदक्षिणं नीत्वा शाययेज्जलमध्यमे ।
प्रागुक्त मण्टपं कृत्वा चतुर्द्वार समन्वितम् ॥ १० ॥

एकवेदि समोपेतं पृथक्वेदियुतं तु वा ।
मण्टपं दशसंख्यातं प्रपाकुण्डसमन्वितम् ॥ ११ ॥

पूर्वस्मिन् स्वस्वदिक्कुण्ड संस्थानैरन्वितं यथा ।
एकस्मिन्मन्टपे त्वष्टदिक्कुण्डं परितो भवेत् ॥ १२ ॥

इन्द्रेशानान्तरे वृत्तं पितृवारण मध्यमे ।
वृत्तकुण्डं भवेदेवं कुण्डानि दश संख्यया ॥ १३ ॥

ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा ।
पुण्याहप्रोक्षणान्ते तु स्थण्डिलं लक्षणन्वितम् ॥ १४ ॥

शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा ।
आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ॥ १५ ॥

जलानीतं तु सुस्नातं पूजितं कृतकौतुकम् ।
शयने शाययेद्बिम्बं प्रदक्षिणशिरोन्वितम् ॥ १६ ॥

वस्त्रैराच्छादयेत्सर्वान् कुम्भान् संस्थापयेद् गुरुः ।
परितोऽष्टघटान्वापि कलशान् प्राग्दिगादितः ॥ १७ ॥

स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् ।
मध्यकुम्भे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ॥ १८ ॥

विदिक्ष्वङ्गानि संपूज्य व्याप्तिं पुरुषगोचराम् ।
स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्य तिलान्वितम् ॥ १९ ॥

हविषा पूर्णयायुक्तं स्वाग्नौ स्वं होममाचरेत् ।
पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ॥ २० ॥

शमीखादिरमायूर श्रीवृक्षस्संप्रकीर्तिताः ।
पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षस्समिधो मताः ॥ २१ ॥

प्रातः पूर्णाहुतिं दत्वा मन्त्रन्यासं समाचरेत् ।
संपूज्य गन्धपुष्पाद्यैः नैवेद्य सहितं यथा ॥ २२ ॥

स्नपनं कारयेन्नो वा तद्वदुत्सव एव वा ।
एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ॥ २३ ॥

Uttarapāda – Kapitel 76: Die Weihe der Śiva-Verehrer

वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् ।
ब्राह्मणः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तराळजाः ॥ १ ॥

स्त्रियो वा गुरवश्चैषां अभिषिक्तो नृपोऽथवा ।
शिवभक्ति समोपेता जीवन्तो वा मृतास्तु वा ॥ २ ॥

तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाप्य समर्चयेत् ।
शिवाः पशुपताश्चैव महाव्रतधराश्च ये ॥ ३ ॥

लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः ।
तेषां तेनैव मार्गेण स्थापनाद्य विधीयताम् ॥ ४ ॥

शिवसिद्धान्त मार्गेण सर्वेषां स्थापनं परम् ।
स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ॥ ५ ॥

ग्रामादौ वा नदीतीरे पुष्करिण्यास्तटेऽपि वा ।
वने चोपवने वापि पर्वते वा मनोरमे ॥ ६ ॥

स्थानेऽन्यत्र कर्तव्यं स्वप्रधानस्य मन्दिरम् ।
देवालयान्तस्सालादौ तत्र कल्पितमन्दिरे ॥ ७ ॥

परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् ।
देवालयादौ सर्वत्र मालिका मण्टपादिषु ॥ ८ ॥

परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते ।
त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ॥ ९ ॥

एकविंशति हस्तान्तौ विमानव्यास इष्यते ।
आयामोत्सेध गर्भाद्यं मण्टपाद्यं तथापरम् ॥ १० ॥

सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् ।
आद्येष्टका विधानं च गर्भसंस्थापनं तथा ॥ ११ ॥

मूर्धेष्टका विधानं च प्राग्वदेव समीरितम् ।
तदर्थं शिवलिङ्गं वा प्रतिमा वा शिवस्य तु ॥ १२ ॥

स्कन्दनन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा ।
कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ॥ १३ ॥

शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा ।
अर्धचित्रं अथाभासं पटादि परिकल्पितम् ॥ १४ ॥

लिङ्गं चेत् प्रतिमा चेद्वा लिङ्गबेरोक्त वर्त्मना ।
मानं तयोश्च संग्राह्यं हर्म्याद् गर्भगृहादथ ॥ १५ ॥

द्वारात् पादोच्चमानाद्वा मानाङ्गुलवशेन वा ।
षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ॥ १६ ॥

हर्म्यदिमाने नवधा कृते स्यादुत्तमादिकम् ।
त्र्यङ्गुलाद् द्व्यङ्गुलर्द्ध्या तु षण्णवत्यङ्गुलान्तकम् ॥ १७ ॥

मानमेतत्समाख्यातं जात्यायांश समन्वितम् ।
वसुनन्दगुणर्द्ध्या तु भानुनाड्यष्टभिर्हृतम् ॥ १८ ॥

आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हृतं दिनम् ।
नववेदहृतं सप्तनवसंख्याहृतंतु यत् ॥ १९ ॥

वारो ह्यंशस्समाख्यातो यजमानानुकूलितम् ।
मृतनामाक्षरेणानुकूलितं च विधीयताम् ॥ २० ॥

लिङ्गं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च ।
तदुक्ततालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ॥ २१ ॥

मृतप्रतिकृतिं चोक्तं अष्टतालेन कारयेत् ।
आसीनं स्थानकं वापि वाहनारूढमेव वा ॥ २२ ॥

आसने स्थानके वाथ पद्मसिंहासनं तु वा ।
अधस्तात् कल्पयेद्विद्वान् उभयं वा विधीयताम् ॥ २३ ॥

यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमम् ।
आसनोन्मान विस्तारं आयामं तद्वदलंकृतिम् ॥ २४ ॥

प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् ।
शिखी वा बद्धकेशी वा मुण्डितो जटिलोऽथवा ॥ २५ ॥

अभिषिक्तो नृपश्चेत्तु किरीटमकुटान्वितः ।
यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ॥ २६ ॥

सर्वलक्षण सम्पान्नस्सर्वाभरण भूषितः ।
गायका नृत्तयुक्ता वा पूजका वा यथेष्टकम् ॥ २७ ॥

स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः ।
एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगत्यते ॥ २८ ॥

मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः ।
ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ॥ २९ ॥

रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनं आचरेत् ।
स्थण्डिलं पूर्ववत् कृत्वा तदूर्ध्वं विन्यसेत्पटम् ॥ ३० ॥

संकल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् ।
हेमसूचिप्रहाराभिः कृष्णमण्डलमालिखेत् ॥ ३१ ॥

ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् ।
नेत्रमन्त्रं समुच्चार्य क्रियामेनां समाचरेत् ॥ ३२ ॥

तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्ण दूर्वया ।
मध्वाज्यपूरितं पात्रद्वयं तस्य प्रदर्शयेत् ॥ ३३ ॥

सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् ।
धान्यानि गां सवत्सां च कन्यकां ब्राह्मणानपि ॥ ३४ ॥

दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् ।
सर्वालङ्कारसंयुक्तं ग्रामादौ भ्रमणं नयेत् ॥ ३५ ॥

जलेऽधिवासयेद्बिम्बं लोकपालघटान्वितम् ।
यागार्थं मण्टपं कुर्याद्वामेनाग्रेऽस्य पार्श्वयोः ॥ ३६ ॥

नवपञ्चैक संख्यानि तत्र कुण्डानि कल्पयेत् ।
उद्वास्य शिल्पिनं पश्चाद्विप्रभोजनमाचरेत् ॥ ३७ ॥

वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः ।
प्राग्वच्छुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ॥ ३८ ॥

जलाधिवासनं चैव मण्टपे कुण्डकल्पनम् ।
शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ॥ ३९ ॥

आधाराख्यं अनन्तं च धर्माद्यं च चतुष्टयम् ।
संकल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ॥ ४० ॥

स्नानवेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते ।
पीठे संस्थाप्य बेरं तु प्रागुक्तविधिना गुरुः ॥ ४१ ॥

वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यैरुपभूषयेत् ।
बद्धप्रतिसरं बेरं शयनोपरि विन्यसेत् ॥ ४२ ॥

उपधानं न्यसेत्प्राच्यां तत्र बिम्बशिरो भवेत् ।
शिरसश्चोत्तरे भागे कुम्भं प्राधानिकं न्यसेत् ॥ ४३ ॥

अभितोऽष्टघटान्वस्त्र हेमसूत्र विभूषितान् ।
चन्दनोदक संपूर्णान् फलपल्लव संयुतान् ॥ ४४ ॥

तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधानं इहोच्यते ।
सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ॥ ४५ ॥

आत्मन्त्रस्समाख्यातो हंसशब्दोऽथवा मतः ।
सान्तेनैव च वर्णेन ब्रह्माङ्गानि प्रकल्पयेत् ॥ ४६ ॥

विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः ।
ह्रीङ्कारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ॥ ४७ ॥

स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते ।
प्रधानघटसौम्ये तद्भार्यार्थं करकं न्यसेत् ॥ ४८ ॥

पत्नीं द्वयं चेद्याम्येऽपि वर्धनीं अपरां न्यसेत् ।
बह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्द्वयोः ॥ ४९ ॥

स्त्रीप्रतिष्ठासु सर्वासु वर्धन्यस्संप्रकीर्तिताः ।
पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्धयः ॥ ५० ॥

परिवारघटे पूज्या अष्टौ वा वसवो मताः ।
स्त्रीणां दिशस्तु पूर्वस्माद्देवताः परिकीर्तिताः ॥ ५१ ॥

पुरुषे लोकपाला वा पूर्वाद्यष्ट घटेषु च ।
संपूज्य गन्धपुष्पाद्यैः तत्त्वतत्त्वेश्वरान् न्यसेत् ॥ ५२ ॥

आत्मविद्याशिवाख्यं च तत्त्वत्रयं उदीरितम् ।
आत्मानं अन्तरात्मानं परमात्मानमेव च ॥ ५३ ॥

तत्त्वतत्त्वाधिपत्वेन क्रमेण विनिवेशयेत् ।
स्त्रीणामप्येवमेवं स्यात् क्ष्मादयो मूर्तयो मताः ॥ ५४ ॥

अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि ।
इन्द्राद्या मूर्तिपाः पक्षे निवृत्त्याद्यास्तु मूर्तिपाः ॥ ५५ ॥

तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्तिं हृदि न्यसेत् ।
अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ॥ ५६ ॥

जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् ।
संपूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ॥ ५७ ॥

ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् ।
प्राग्वच्च कुण्डसंस्कारं शिवाग्न्याधानमेव वा ॥ ५८ ॥

तन्मध्ये भक्तमावाह्य साङ्गं संपूज्य तर्पयेत् ।
समिदाज्य चरूं लाजांस्तिलैर्द्रव्यैस्तु मूर्तिपैः ॥ ५९ ॥

पलाशोदुम्बराश्वत्थ वटाः प्रागादिषु क्रमात् ।
शमीखदिरमायूर श्रीवृक्षास्त्वग्नि कोणतः ॥ ६० ॥

प्रधानेऽपि पलाशस्स्यात् शतं वार्धं तदर्धकम् ।
हुत्वा पूर्णां ततो दत्वा तत्त्वतत्त्वेश्वरान् प्रति ॥ ६१ ॥

मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् ।
कृत्वा घोराणुना होमं निच्छिद्रार्थं शतं द्विजाः ॥ ६२ ॥

स्पृष्ट्वा मूर्धादि पदान्तं शान्तितोयेन सेचयएत् ।
ततश्चान्तर्बलिं बाह्यबलिं दत्वा शुचिर्गुरुः ॥ ६३ ॥

रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैस्सह ।
स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ॥ ६४ ॥

पञ्चगोचर संजातस्सोष्णीषस्सोत्तरीयकः ।
पञ्चाङ्ग भूषणोपेतो दक्षिणा तुष्ट मानसः ॥ ६५ ॥

तद्वत् संपूजितैर्मूर्तिधारकैरणुजापिभिः ।
अध्येतृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ॥ ६६ ॥

द्वार द्वाराधिपान् इष्ट्वा कृतकुम्भार्चनो गुरुः ।
संपूज्य वह्निकुण्डस्थं पूर्णां दत्वा यथाक्रमात् ॥ ६७ ॥

उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तितः ।
प्रासादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ॥ ६८ ॥

रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् ।
आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ॥ ६९ ॥

मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् ।
संस्नाप्य कुम्भपानीयैः परितः स्थापितैरपि ॥ ७० ॥

वस्त्रैर्गन्धैश्च पुष्पैश्च धूपदीपनिवेद्यकैः ।
उपचारैस्तथाचान्यैश्शिवभक्तं समर्चयेत् ॥ ७१ ॥

उत्सवं कारयेदन्ते यथा विभवविस्तरम् ।
ततः प्रभृतिं तं भक्तं प्रत्यहं पूजयेन्नरः ॥ ७२ ॥

शिवभक्तप्रतिष्ठां तु यः कुर्यान्नरसत्तमः ।
आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ॥ ७३ ॥

अन्ते सायुज्यमाप्नोति नात्र कार्या विचारणा ॥ ७४ ॥

Uttarapāda – Kapitel 77: Die tägliche Verehrung der Śiva-Verehrer

आदिशैवकुलोद्भूतः पञ्चगोचर संभवः ।
आवश्यकं तथा शौचस्नानसन्ध्यादि वन्दनम् ॥ १ ॥

कृत्वा प्रविश्य हर्म्यं तु सामान्यार्घ्यकरो गुरुः ।
पुरुषं प्रकृतिं चैव संपूज्य द्वारपार्श्वयोः ॥ २ ॥

प्रविश्य गर्भगेहं तु परमात्मानं अव्ययम् ।
वास्तुं मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ॥ ३ ॥

कृतमन्त्रतनुः पश्चात् स्थानशुद्धिं विधाय च ।
परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ॥ ४ ॥

प्रोक्षयेद् द्रव्यजालं तु प्रागुक्त विधिना नरः ।
प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्रशुद्धये ॥ ५ ॥

अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये ।
षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ॥ ६ ॥

तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् ।
तत्तद्रूप समोपेतं तत्तन्मूलाणुना बुधः ॥ ७ ॥

जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् ।
पाद्यमाचमनं चार्घ्यं हृदयेन निवेदयेत् ॥ ८ ॥

संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा ।
संमृज्य वाससा वस्त्रं गन्धं पुष्पं सधूपकम् ॥ ९ ॥

दीपेन सहितं दद्यान्नैवेद्यं सोपदंशकम् ।
ताम्बूलं च त्रिसन्ध्यासु दद्यात्सन्ध्याद्वयेऽपि वा ॥ १० ॥

अथवा त्वेकसन्ध्यायां बल्युत्सवयुतं न वा ।
दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यानुरूपतः ॥ ११ ॥

अयने विषुवे चैव संक्रान्तौ ग्रहणादिषु ।
स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ॥ १२ ॥

मध्यकुम्भे तु भक्तस्स्यात् क्ष्मादयः प्रथमावृतौ ।
स्वराष्षोडश तद्बाह्ये तद्बाह्ये कादयो मताः ॥ १३ ॥

एवमुक्तमकल्पस्स्यात् आवृतिद्वययुक् समम् ।
एकावरणसंयुक्तं अधमं त्विति कीर्तितम् ॥ १४ ॥

प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति ।
भक्तजन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ॥ १५ ॥

संवत्सरोत्सवः कार्यः प्रत्यब्दं च विवाहकम् ।
नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ॥ १६ ॥

अथवैकदिनं वापि बलिहोम समन्वितम् ।
ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ॥ १७ ॥

ध्वजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु ।
स्वस्वजाति वशेनोक्त मङ्गळाष्टक संयुतम् ॥ १८ ॥

भेरी संताडनं रात्रौ भक्तास्त्रेण समन्वितम् ।
इन्द्रादीनां बलिं दद्याद् गन्धं पुष्पादि संयुतम् ॥ १९ ॥

यागाधिवासनं कुर्याद् उत्सवस्यादिरात्रके ।
यागशालां विधानेन कृत्वा वेदिसमन्विताम् ॥ २० ॥

पूर्वादिकुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा ।
सर्वमङ्गळ संयुक्तं मङ्गळाङ्कुरमाचरेत् ॥ २१ ॥

बल्यर्थं उत्सवार्थं च भक्तप्रतिकृतिं द्विजाः ।
अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ॥ २२ ॥

तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः ।
स्थण्डिलं शालिपूर्वैश्च कृत्वा संस्थापयेद् घटान् ॥ २३ ॥

प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तान्यजेत् ।
प्रत्यहं पूजयेद्देवान् सायं प्रातर्गुरूत्तमः ॥ २४ ॥

गन्ध पुष्पादि संयुक्तमन्ते होमं समाचरेत् ।
द्रव्याण्यत्रापि विप्रेन्द्राः प्रतिष्ठोक्त प्रकारतः ॥ २५ ॥

सायं प्रातर्बलिं दद्यात् क्षुद्रबिम्ब समन्वितम् ।
बल्यन्ते चोत्सवं कुर्याद् सर्वालङ्कार संयुतम् ॥ २६ ॥

परिवेषक्रमं कुर्याद् गेयनृत्तादि संयुतम् ।
अन्ते चूर्णोत्सवं कृत्वा तीर्थकर्म समाचरेत् ॥ २७ ॥

प्रत्यहं मूलबेरस्य पूजा वैशेषिकी भवेत् ।
शुद्धस्नपनं अन्ते च मूले बेरादिके नयेत् ॥ २८ ॥

ध्वजोत्थान विहीनं वा बलिहोमोज्झितं तु वा ।
केवलं चूत्सवं कुर्याद् अशक्तश्चेन्मुनीश्वराः ॥ २९ ॥

Uttarapāda – Kapitel 78: Die Aufstellung des Dreizacks

त्रिशूलस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् । हेमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ॥ १ ॥

गर्भगेहे नवांशे तु त्रिभागान्तं नवांशतः । महतामेकभागं तु शूलानां मानमिष्यते ॥ २ ॥

प्रत्येकं अष्टधा भक्त्वानेकधा मानमेव च । द्वारस्तम्भोदयादेव मानं वा परिभाव्यताम् ॥ ३ ॥

द्विहस्तादेक मात्रद्ध्र्या चतुर्हस्तान्तमेव वा ।
जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोओत्तमः ॥ ४ ॥

यल्लब्धं त्रिंशदंशादि शतान्तादनुभाजयेत् ।
भागमेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ॥ ५ ॥

लौकिकं यौगिकं चेति द्विविधं शूलं इष्यते ।
यजमाननृपग्रामानुकूलं लौकिकं मतम् ॥ ६ ॥

जात्यंशोज्झितं रुद्राक्षानुकूल समन्वितम् ।
अङ्गुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ॥ ७ ॥

लौकिकं चान्यधामस्थ बेरसाधारणं मतम् ।
यौगिकं चान्यनगर स्थानकर्त्रानुरूपि यत् ॥ ८ ॥

तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा ।
उत्सेधं दशधा कृत्वा व्योमाद्वित्रिभिरेव वा ॥ ९ ॥

तन्मध्याष्टांशमानं वा मध्यपत्रोच्च मानकम् ।
पादमानयुतं वाथ तन्मानं पृथक् पृथक् ॥ १० ॥

तत्त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः ।
रस सप्ताष्टनवभिर्मध्यपत्रस्य विस्तरः ॥ ११ ॥

संग्राह्य पत्रमानं तु चतुरश्रं समं नयेत् ।
पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ॥ १२ ॥

वृत्ताकारं नयेत्तत्र पत्रमानेन वोभयोः ।
मध्यपत्रततिर्यद्वत् पार्श्वपत्र ततिस्तथा ॥ १३ ॥

चतुःपञ्चषडंशेन वृद्धिर्वा तारमिष्यते ।
मध्यपत्राद् बहिश्चान्तर्मध्यसूत्र समाश्रयात् ॥ १४ ॥

पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते ।
पत्रमूलबलार्धं च मूलतारं विवृद्धयेत् ॥ १५ ॥

अधः पत्रं विचित्रं च पत्राग्रं तु कृशं भवेत् ।
पत्रतारेण चाग्रे तु तदर्धेनाथ पादतः ॥ १६ ॥

अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मुनीश्वराः ।
पत्राग्र मध्यमं तद्वद्विशिष्टं वा प्रकल्पयेत् ॥ १७ ॥

तद्वन् मूलान्तरं प्रोक्तं पार्श्वपत्र द्वयोरपि ।
पत्रतारं चतुष्पञ्च रससप्ताष्ट भागतः ॥ १८ ॥

नवांशांशेन वा प्रोक्तं घनं पत्रेषु वान्यथा ।
यवार्धं तु समारभ्य यवपाद विवर्धनात् ॥ १९ ॥

अङ्गुलान्तप्रमाणं वा मध्यदेशे घनं भवेत् ।
मध्यपत्रस्य मध्यात्तु हीनं तत्पत्रपार्श्वकम् ॥ २० ॥

मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि ।
एकद्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ॥ २१ ॥

पत्रयामं त्रिपञ्चांशं कृत्वैकद्वित्रिभागतः ।
पादायामस्तु मूले स्यात् तदर्धं पार्श्वपत्रयोः ॥ २२ ॥

तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः ।
द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ॥ २३ ॥

पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् ।
तस्याधः पालिका कार्या पत्रायामार्ध भागतः ॥ २४ ॥

हीनावैकेन रुद्रांशी द्वित्रिभिर्वर्धिताथवा ।
पालिका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ॥ २५ ॥

पादेन वा त्रिपादेन घनं चाधो द्विपङ्कजम् ।
एकेन करणविस्तार इष्टांशेन मतो द्विजाः ॥ २६ ॥

पालिकार्धो घटाकार उत्सेधस्स्यात् त्रिपादतः ।
तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ॥ २७ ॥

पादोनकुम्भ तारेण वार्धेनास्यं प्रकल्पितम् ।
घटवन्नाडिकामानं युगधा विभजेत्ततत् ॥ २८ ॥

एकभागान्तरं कुर्यात् तत्प्रमाणेन हीरिका ।
हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ॥ २९ ॥

आस्यतार चतुर्भाग त्रिभागो दण्डविस्तरः ।
तदर्धं लोहदण्डश्चेद् यथाशोभांशतोऽथवा ॥ ३० ॥

दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा ।
तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ॥ ३१ ॥

विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा ।
पादं वान्तरमानं वा तदुच्चे दशधा कृते ॥ ३२ ॥

पट्टिका त्रिभिर्द्वाभ्यां द्वाभ्यां वांशैः कुशेशयम् ।
वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ॥ ३३ ॥

हीरिका सममानेन तस्योर्ध्वे पट्टिकाथवा ।
मध्यपत्रस्य मध्ये तु लिखेद्वाब्जं तु तन्मुखम् ॥ ३४ ॥

अथवा मध्यपत्रस्य मूले वृषभ वाहनम् ।
पत्रोच्च नवभागैक द्वित्रिवेदशरोच्चकम् ॥ ३५ ॥

देव्या समायुतं वाथ वृषभेण युतं न वा ।
देवान्तरं वा लोकेशान् अस्त्रान्वेष्टप्रमाणतः ॥ ३६ ॥

अथवा पालिकायास्तु विदिक्ष्वश्वत्थ पत्रवत् ।
माला चतुष्टयं कुर्यात् तद्विहीनं तु वा द्विजाः ॥ ३७ ॥

टङ्कास्ययुक्तं दण्डाग्रं अथवा परिकल्पयेत् ।
पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ॥ ३८ ॥

शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते ।
मध्यपत्र समायामं त्रिपादोनार्धतोऽपि वा ॥ ३९ ॥

पादेन मध्यमेऽष्टांशमानाद्वा दण्डविस्तरः ।
विस्तारोच्चसमं तद्वद्विस्तार सममेव वा ॥ ४० ॥

यथा दण्डघनं प्रोक्तं पत्राणां वा घनं तथा ।
पादभूषणमण्ड्यादि पत्राधो वा प्रकल्पयेत् ॥ ४१ ॥

चतुरश्र शिलायां तु शूलाकारं तु वा लिखेत् ।
त्रिशूलापरभागे तु वृषभं वा समालिखेत् ॥ ४२ ॥

अथवा दण्डमानेन पूरुषं जटिलं तु वा ।
पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ॥ ४३ ॥

वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा ।
सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ॥ ४४ ॥

तदर्थमाहरेद् वृक्षाञ्छूलार्थं ये प्रशंसिताः ।
प्रोक्त कालार्क्षवाराद्यं तद्वदेवाङ्कुरार्पणम् ॥ ४५ ॥

संघातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् ।
पद्मसंघात मार्गेण चोर्ध्वाधः खण्डयोरपि ॥ ४६ ॥

रत्नन्यासो न कर्तव्यस्तथा नयनमोक्षणम् ।
अचलस्थापनं चेत्तु रत्नन्यासं तु कारयेत् ॥ ४७ ॥

विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् ।
शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ॥ ४८ ॥

जलाधिवासनं कृत्वा ततो मण्टपमाश्रयेत् ।
पूर्वोक्तमानं भूतैक ग्रहकुण्डसमन्वितम् ॥ ४९ ॥

संत्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् ।
वास्तुहोम समायुक्तं वेद्यां स्थण्डिल संयुतम् ॥ ५० ॥

शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना ।
ततो बिम्बं समानीय स्नापयेत्पूर्व वर्त्मना ॥ ५१ ॥

कौतुकं बन्धयेत् पश्चात् पद्मपत्रेषु वा त्रिषु ।
बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ॥ ५२ ॥

शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् ।
आच्छाद्य श्वेतरक्ताभ्यां वासोभ्यां अस्त्रमुच्चरन् ॥ ५३ ॥

त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् ।
शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दुभूषितम् ॥ ५४ ॥

चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्र परिमण्डितम् ।
स्वास्ये दंष्ट्रान्वितं शक्तिशूलाभयवरान्वितम् ॥ ५५ ॥

विद्युत्पुञ्जनिभं भीमं अशनिध्वनिसंयुतम् ।
द्विरष्टवर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ॥ ५६ ॥

यद्यस्ति प्रतिमा शर्वे शिवकुम्भं च वर्धनीम् ।
वृषो यद्यस्ति तत्कुम्भं तेषु तानर्चयेत्क्रमात् ॥ ५७ ॥

वज्रादीन् वसुकुम्भेषु परितः संस्थितेषु च ।
तत्त्वतत्त्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ॥ ५८ ॥

पूर्ववत् प्रतिमायां च वृषे च गुरुपुङ्गवाः ।
दण्डमध्याग्रपत्रान्तं तत्त्वतत्त्वेश्वरान्न्यसेत् ॥ ५९ ॥

शूलस्य मूर्तयः प्राग्वद् वज्राद्या मूर्तिपा मताः ।
न्यस्त्वैवं मूर्तिमूर्तीशान् शिवास्त्रं विन्यसेद्गुरुः ॥ ६० ॥

ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् ।
मध्यपत्रे न्यसेद्रुद्रं ब्रह्माणं दक्षपत्रके ॥ ६१ ॥

वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् ।
षण्मुखं कुम्भदेशे तु कुम्भस्यास्ये विनायकम् ॥ ६२ ॥

दण्डस्याग्रे तु शास्तारं आदित्यान् दण्डमध्यमे ।
तन्मूले चण्डराजं च लक्ष्मीं पूर्वदळाग्रके ॥ ६३ ॥

दक्षिणे मातरस्सप्त ज्येष्टां पश्चिमदिग्दले ।
दुर्गां वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ॥ ६४ ॥

दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा ।
होमं कुर्यात्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ॥ ६५ ॥

समिदाज्यान्न लाजैश्च तिलसस्येन्द्र संयुतम् ।
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ॥ ६६ ॥

पलाशस्त्वन्यकुण्डेषु स च सर्वत्र वा मतः ।
प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरूत्तमः ॥ ६७ ॥

पूर्वस्मिन् पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे ।
सेनानीं पश्चिमे कुण्डे रवीनग्निदिशौ स्थितौ ॥ ६८ ॥

विघ्नेशं नैरृते वायौ मदनं चण्डरुद्रकम् ।
ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ॥ ६९ ॥

ज्येष्टां तु पश्चिमे कुण्डे दुर्गां उत्तरतो दिशि ।
तद्दिङ्मूर्त्यादि संयुक्तं पूर्वसंख्या समन्वितम् ॥ ७० ॥

रुद्रार्कवसवोऽश्विन्यौ अष्टादश गणा अपि ।
एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ॥ ७१ ॥

वृषारूढादि देवांश्च पूर्ववत् तर्पयेद्गुरुः ।
वज्रादीन् पङ्कजे सर्वान् देवान् प्राग्वन्निवेशयेत् ॥ ७२ ॥

तत्तत्कुम्भजलैश्चैव स्नापयेच्छूलमादरात् ।
स्नपनं भूरि नैवेद्यं उत्सवं कारयेच्चले ॥ ७३ ॥

अनुक्तमत्र संग्राह्यं सामान्यस्थापनोदितम् ।
त्रिशूलस्थापनं ह्येवं कुर्याद्यो नरसत्तमः ॥ ७४ ॥

भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ॥ ७५ ॥

Uttarapāda – Kapitel 79: Die Weihe des Löwenthrons

सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
देवादीनां नृपादीनां मर्त्यानां च महात्मनाम् ॥ १ ॥

देवाद्याः शिवपूर्वास्स्युः नृपाद्या बहवो मताः ।
चक्रवर्ती भवेदाद्यस्त्वतिराजो द्वितीयकः ॥ २ ॥

तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणं उच्यते ।
चतुःसमुद्र पर्यन्तं पृथ्वी यः परिपालयेत् ॥ ३ ॥

चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् ।
अधिराजस्समाख्यातः त्रिराज्यं यस्तु पालयेत् ॥ ४ ॥

नरेन्द्रः स तु विज्ञेयस्त्वन्येऽपि बहवो मताः ।
पार्ष्णेयप्रमुखास्तेषां आसनानि बहून्यपि ॥ ५ ॥

द्वारोत्सेधः त्रिभागेन उत्तमं हीनमर्धतः ।
द्व्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ॥ ६ ॥

द्वारोदयसमं वाष्ट नवभागेनमेव वा ।
नरेन्द्र सदृशं तस्य बाहूरुनाभिदध्नजम् ॥ ७ ॥

प्रदेशमानं एतत् स्यान् नृपाणामेव कीर्तितम् ।
तिथ्यङ्गुलं समारभ्य द्विद्व्यङ्गुल विवर्धनात् ॥ ८ ॥

पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु ।
उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ॥ ९ ॥

विस्तारो द्व्यन्तरं कृत्वा चतुर्धा नवमानकम् ।
हीनानां हीनमानं स्यात् श्रेष्ठानां सर्वमिष्यते ॥ १० ॥

चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् ।
चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ॥ ११ ॥

अष्टांशं समारभ्य तद्वृद्ध्या द्विगुणादिकम् ।
सिंहासनायतं कुर्यात् अङ्गुलैर्वाथ कारयेत् ॥ १२ ॥

अङ्गुलद्वयमारभ्य द्विद्व्यङ्गुल विवर्धनात् ।
द्विगुणान्तं विधेयं स्यात् आयामेऽप्येवमीरितम् ॥ १३ ॥

पादबाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् ।
अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ॥ १४ ॥

सर्वं सर्वेषु वा ग्राह्यं पादविस्तार उच्यते ।
सार्धाङ्गुलं समारभ्य वर्धयेदर्धमात्रतः ॥ १५ ॥

पञ्चाङ्गुलान्तं तद्भित्तेः पादवेदांश निर्गताम् ।
यथाबलं यथा शोभं भित्तिस्तत्र विधीयताम् ॥ १६ ॥

एकत्रिपञ्चमुनयो विस्तारे भक्तयो मताः ।
दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ता भक्तयो द्विजाः ॥ १७ ॥

पादानामन्तरे पादा भवेयुरुपपीठके ।
पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ॥ १८ ॥

मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् ।
सिंहासनत्रिभागेन चतुर्भागेन वा त्वधः ॥ १९ ॥

एकद्वित्रिचतुर्मात्रैर्विस्तारादधिकं ततः ।
उपपीठं विधेयं स्यात्तद्रूपं इह कथ्यते ॥ २० ॥

स्थावरं जङ्गमं चैव द्विविधं तदुदाहृतम् ।
मृत्पाषाणकुजैर्दन्तैर्लोहैर्वा सुधयाथवा ॥ २१ ॥

शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् ।
दन्तवृक्षकृतं यच्च स्वर्णरत्नैर्विचित्रितम् ॥ २२ ॥

राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते ।
त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं गळम् ॥ २३ ॥

वेत्रं गळं च पद्मं च कुमुदं पट्टपट्टिके ।
वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ॥ २४ ॥

वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका ।
सप्तैकार्धांशकार्धैर्वा व्योमवेदांशकार्धतः ॥ २५ ॥

अर्धाशार्धार्धपादैश्च अर्धार्धार्धैश्च सार्धकैः ।
अर्धेनैकोनविंशांशं भद्रकं परिकीर्तितम् ॥ २६ ॥

त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्वसार्धके ।
सार्धार्धांश विभागार्धैः एकार्धाष्टांश सार्धकैः ॥ २७ ॥

अर्धार्धद्व्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः ।
पद्मं कम्पं च कर्णं च कम्पं पद्मं च वाजनम् ॥ २८ ॥

पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका ॥
अङ्घ्रिरुत्तरपट्टी च निद्रा पद्मं कपोतकम् ॥ २९ ॥

आलिङ्गान्तरिते चैव प्रतिवाजनमूर्ध्वतः ।
एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गैस्समायुतम् ॥ ३० ॥

एतदेव मुखे पृष्ठे सौभद्रं भद्रसंयुतम् ।
पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ॥ ३१ ॥

पञ्चानां असनानां तु वीजिः पृष्ठे विधीयताम् ।
आसनव्यासतुङ्गाढ्या मसूराधार वेशिनी ॥ ३२ ॥

यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः ।
तद्विस्तार विभागेन मध्ये मकर तोरणम् ॥ ३३ ॥

पद्माभिषेक संपन्ना कार्या तोरण मध्यमे ।
तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ॥ ३४ ॥

मुष्टिबन्धोपरिक्षिप्त व्याळमस्तक संस्थिता ।
कम्पक्षेपकपोताद्यैः बहुभिर्भूषयेद् द्विजाः ॥ ३५ ॥

मकरैर्नक्रकाद्यैश्च नानाचित्रैर्विचित्रयेत् ।
अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ॥ ३६ ॥

स्वर्णनिर्मित पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् ।
कुर्यात्तोरण पृष्ठे तु कल्पवृक्षं सुवर्णजम् ॥ ३७ ॥

नानारत्न समोपेतं अनन्तफण संयुतम् ।
विजिं हित्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ॥ ३८ ॥

वितोरण विजिर्वाथ आसनं केवलं तु वा ।
पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ॥ ३९ ॥

पद्मकादि चतुर्णां स्याद् द्वादशाङ्गं उपासनम् ।
उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ॥ ४० ॥

क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः ।
महाकम्पौ विधातव्यो पञ्चाङ्गं उपपीठकम् ॥ ४१ ॥

चतुर्दशांशके तुङ्गे द्व्येकार्धार्ध चतुष्टयैः ।
अर्धार्धकैः द्विचन्द्रैश्च अर्धार्धाभ्यां अनुक्रमात् ॥ ४२ ॥

पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् ।
वेत्राब्ज वाजनं पद्मं कम्पं वेत्रं अनुक्रमात् ॥ ४३ ॥

द्वादशाङ्गं इदं कुर्यात् उपपीठं मनोहरम् ।
चतुस्सप्तांशके तुङ्गे जगती पङ्कजं गळम् ॥ ४४ ॥

वेत्रं गळं च पद्मं च कुमुदं पद्मकम्पके ।
वेत्रं गळं च वेत्रं च कम्पं निद्रा कपोतकम् ॥ ४५ ॥

आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च ।
ऊर्ध्वे मसूरकाधारपट्टिका मूलतः क्रमात् ॥ ४६ ॥

सार्धांशकैस्तथैकेन अर्धकार्धार्धकार्धकैः । द्व्यार्धार्धकार्धक सप्तांशैः अर्धार्धार्ध त्रिभागतः ॥ ४७ ॥

अर्धार्धकार्धकैश्चैव श्रीकान्तं इति कीर्तितम् ।
एतदेव गळाधस्तान्नेत्रार्धैकार्ध भागतः ॥ ४८ ॥

कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् ।
योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भाग निर्मितम् ॥ ४९ ॥

उच्चे नवदशांशोऽर्धे सार्धैर्वेदार्धकार्धकैः ।
त्रिभागार्धार्ध वेदार्धैः अर्धद्वयर्धार्धकांशकैः ॥ ५० ॥

पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् ।
वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ॥ ५१ ॥

वेत्रं च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृतम् ।
श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गं उपपीठकम् ॥ ५२ ॥

नेत्रैकार्ध चतुर्भागैः अर्धार्ध नयनार्धकैः ।
पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ॥ ५३ ॥

पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते ।
अष्टाङ्गं उपपीठं स्यात् सर्वं सर्वत्र वा मतम् ॥ ५४ ॥

प्रासाद लक्षणे पूर्वं कथितानि बहूनि च ।
अधिष्ठानानि सर्वाणि सोपपीठानि यानि च ॥ ५५ ॥

संग्राह्याणि तानीह देशिकैर्नियमादृते ।
अवलम्बित पादस्स्याद् देवादीनां विशेषतः ॥ ५६ ॥

सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् ।
सिंहासन विशालोच्च चतुर्थांश प्रमाणतः ॥ ५७ ॥

कण्ठोर्ध्वाधःकृतैः कम्पपद्मकम्पैर्विचित्रकम् ।
यथा शोभांश मानेन सप्ताङ्गैर्वृत्त सन्निभम् ॥ ५८ ॥

यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् ।
आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ॥ ५९ ॥

पादमर्धं त्रिपादं वा समं तस्याङ्ग निर्गमम् ।
प्रवेशं च तथाकुर्याच्छोभाबलवशेन वा ॥ ६० ॥

आसनानां च सर्वएषां आयादि विधिरुच्यते ।
परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ॥ ६१ ॥

बन्धवेद चतुर्बन्ध ग्रहैश्च गुणयेत्क्रमात् ।
सप्तभूतर्क्षमूर्त्यब्धि संख्यैर्भागान् हरेद्गुरुः ॥ ६२ ॥

आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः ।
शाकस्सालश्च पनशः शिंशपश्चन्दनासने ॥ ६३ ॥

तिन्दुकोऽर्जुनतालो च निम्बश्च सुरभूरुहः ।
लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ॥ ६४ ॥

श्रीपर्णी जातिवृक्षा ये क्षीरवृक्षाः चतुर्विधाः ।
जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ॥ ६५ ॥

आसनार्थं च संग्राह्य द्रव्यग्रहण मार्गतः ।
एवं सिंहासनं कृत्वा संस्कुर्यात् तदनन्तरम् ॥ ६६ ॥

कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः ।
शिल्पिनं विसृज्याथ पुण्याहप्रोक्षणान्तरम् ॥ ६७ ॥

पञ्चगव्येन संप्रोक्ष्य हृन्मन्त्रं समुदीरयन् ।
अष्टमृत्सलिलेनैव क्षाळयेत् कुशवारिणा ॥ ६८ ॥

शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् ।
पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ॥ ६९ ॥

स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः ।
गन्धैः पुष्पैश्च धूपैश्च तन्मन्त्रेण समर्चयेत् ॥ ७० ॥

सिंहासनपदं चोक्त्वा चतुर्थ्यन्त सदीपकम् ।
नमस्कार समोपेतं स्वबीजेन समन्वितम् ॥ ७१ ॥

मन्त्रमेवं समुच्चार्य पूजयेद्देशिकोत्तमः ।
तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ॥ ७२ ॥

समिदाज्यचरूंश्चैव तिललाज समन्वितम् ।
शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ॥ ७३ ॥

पूर्णाहुतिं ततः कृत्वा शान्तिकुम्भाम्भसा ततः ।
सिंहासनं समभ्युक्ष्य गन्धाद्यैः पूजयेत् पुनः ॥ ७४ ॥

स्नातं शुक्लाम्बरधरं मकुटेन विभूषितम् ।
सर्वाभरण संयुक्तं छत्रचामर संयुतम् ॥ ७५ ॥

सुमुहूर्ते सुलग्ने च राजानं अधिरोपयेत् ।
नरेन्द्रासनसंस्कारस्त्वैवं देवे विशिष्यते ॥ ७६ ॥

मूर्तिमूर्तीश विन्यासं तत्त्वतत्त्वेश्वरान्वितम् ।
तद्देवहोम संयुक्तं आसनाणुभिरन्वितम् ॥ ७७ ॥

आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः ।
अष्टदिक्ष्वष्ट कुम्भांश्च मध्यमे शक्रशर्वयोः ॥ ७८ ॥

प्रधानकुम्भं संस्थाप्य स्वर्णवस्त्रादिभिर्युतम् ।
शिवासनाणु मध्ये च लोकपान् परितो यजेत् ॥ ७९ ॥

एवमादौ च संपूज्य ततो होमं समाचरेत् ।
संतर्प्यासनमन्त्रांस्तु पूर्णान्ते देशिकोत्तमः ॥ ८० ॥

सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः ।
शिवासनाणुं तन्मध्ये कुम्भस्थं विनिवेश्येत् ॥ ८१ ॥

संस्नाप्य कुम्भतोयैश्च लोकपालान् परितो न्यसेत् ।
संपूज्य गन्धपुष्पाद्यैः तैर्मन्त्रैश्च गुरूत्तमः ॥ ८२ ॥

संस्नाप्य देवदेशं विशेषार्चन संयुतम् ।
सुमुहूर्ते सुलग्ने तु देवेशं अधिरोपयेत् ॥ ८३ ॥

आचार्यं पूजयेत्तत्र वस्त्र हेमाङ्गुलीयकैः ।
दक्षिणां च यथाशक्ति दापयेद्गुरुमूर्तये ॥ ८४ ॥

Uttarapāda – Kapitel 80: Die Weihe des Tempelwagens

रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
रथोऽनेकविधः प्रोक्तस्स च चक्रविभेदतः ॥ १ ॥

त्रिचक्रो वा चतुश्चक्रो पञ्चषट्सप्तचक्रयुक् ।
नवाष्टचक्रयुक्तो वा द्विचक्रश्शकटाह्वयः ॥ २ ॥

त्रिचतुष्पञ्चषट्सप्त वसुग्रहवितस्तयः ।
भारबाह्य विशालं स्यात् तदायामश्च कथ्यते ॥ ३ ॥

अक्षोत्तरं समाख्यातं उपधानं द्विजोत्तमाः ।
पोतिकाकारवत् ख्यातं भारतार घनान्वितम् ॥ ४ ॥

भारबाह्य विशालार्ध दैर्घ्यं पादाधिकं तु वा ।
पादहीनोपयुक्तं वा तदन्तर्मान षट्कयुक् ॥ ५ ॥

इदमक्षोत्तरं कार्यं भाराधो द्विजोत्तमाः ।
यत्र यत्र च भाराक्ष संयोगस्तत्र कथ्यते ॥ ६ ॥

अयःपट्टैश्च कीलैश्च स्वाग्रकीलैर्महत्तरैः ।
बन्धयेत् स्वस्वरक्षार्थं यथा दृढतरं भवेत् ॥ ७ ॥

तदस्त्वक्ष रक्षार्थं स्वस्वमध्यम पार्श्वयोः ।
स्वस्वतारसमाः कार्याः शिखास्तारार्ध बाहुलाः ॥ ८ ॥

अक्षावधिविलम्बिन्यस्त्वयः पट्टैर्दृढीकृताः ।
प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ॥ ९ ॥

शिखां विहाय वा स्वाधः स्वल्पछेद समन्वितम् ।
अक्षोर्ध्व संप्रवेशार्थं उपधानं तु वा नयेत् ॥ १० ॥

अक्षेष्वप्युपधानार्थं प्रवेशार्थं तु ह्रासयेत् ।
भारबाह्य विशालं तु षष्टिभागं विभाजयेत् ॥ ११ ॥

तत्समं वाधिकं षष्ट्या व्योमभाग विवर्धनात् ।
पादोनद्विगुणं दैर्घ्यं मूलमेतद् उदाहृतम् ॥ १२ ॥

तदग्र पृष्टभागार्धं वसुभागाद्विवर्धयेत् ।
भागैकेन त्रिपादार्धं आयामे परिकल्पयेत् ॥ १३ ॥

समोपभद्रे कर्तव्ये तदग्रे वाथवाश्रिते ।
तयोरपि प्रमाणं तु पादोक्तविधिना मतम् ॥ १४ ॥

अधिकं वाग्रभद्रं तु पृष्ठभद्राच्छिवाग्रजाः ।
केवलं भद्रमिष्टं वा भद्राग्रेष्विष्टमानतः ॥ १५ ॥

ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् ।
भद्रोपभद्रयोर्मानं समं वाप्यधिकं तु वा ॥ १६ ॥

रथभद्रोपभद्राणां मानं यन्मिलितं भवेत् ।
तत्सर्वं भारदैर्घ्यं स्याद् भारे सन्धिं न कारयेत् ॥ १७ ॥

त्रिचतुष्पञ्चषट्सप्त भागबाहुल्य संयुताः ।
द्वित्रिवेद महाभूत भाग विस्तार संयुताः ॥ १८ ॥

द्विसंख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि ।
त्रिचतुष्पञ्चषट्सप्त विस्तारानर्ध नीव्रकान् ॥ १९ ॥

योजयेदन्तरे चैषां अन्यान्विष्टान् बलार्थकान् ।
भारेषु योजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ॥ २० ॥

प्रत्यक्षमूर्ध्वस्वच्छिद्र बन्ध पञ्चक संयुतान् ।
चतुर्भागं समारभ्य भागस्याष्ट दशावधि ॥ २१ ॥

विस्तारं बहुलं कुर्यात् अक्षाणां भारवाहिनाम् ।
चक्रनेम्यन्तरं व्योमभागाद्भाग विवृद्धितः ॥ २२ ॥

दशभागावसानं तु चक्रनेमि घनं तु यत् ।
तद्बहिश्च शिखामानं भारनेम्यन्तरं समम् ॥ २३ ॥

एतत्सर्वं च दैर्घ्यं स्यात् अक्षाणां गुरुसत्तमाः ।
वृत्तान्यश्राणि वा कुर्यात् अक्षाणि गुरुसत्तमाः ॥ २४ ॥

पञ्चग्राहिसमाविद्ध स्वमध्यमयुतानि वा ।
पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ॥ २५ ॥

यथाबल विशालानि तथाविध घनानि च ।
चक्राणां तु प्रमाणं तु बाह्ये भारान्तरं मतम् ॥ २६ ॥

एकद्वित्रिचतुष्पञ्च षड्भागोनं तु वाधिकम् ।
द्विभागाद्वसुभागान्तं चक्राणां घनमीरितम् ॥ २७ ॥

एकद्वित्र्यङ्गुलाधिक्यं नाभिदेशे भवेद् द्विजाः ।
तथैव बाह्यनेम्याश्च तयोर्मध्येऽरकाणि च ॥ २८ ॥

मूलाग्र कृशयुक्तानि व्योमद्वित्र्यंशकानि च ।
त्रिरष्टभ्योऽष्टवृद्ध्या तु चतुष्षष्ट्यन्तकानि च ॥ २९ ॥

सारथिः षण्मुखो वा स्यादथ नन्दीश्वरोऽथवा ।
ब्रह्मा रथाङ्गपाणिर्वा शक्रो वा मुनिपुङ्गवाः ॥ ३० ॥

भारोर्ध्वं उपपीठं स्यात्तन्मानं इह कथ्यते ।
एकभागाद्द्विकरान्तं एकभाग विवर्धनात् ॥ ३१ ॥

तदुपानाद्विनिष्क्रान्ति भारबाह्य दशांशतः ।
भागबाह्य विवृद्ध्या तु रसभागा वसानकाः ॥ ३२ ॥

एकोनत्रिंशदंशं वा तदुच्छं विभजेद्गुरुः ।
गुणचन्द्रमहाभूत व्योमनन्द वियद्गुणैः ॥ ३३ ॥

त्रिभागेनैक भागेन मूलादारभ्य कारयेत् ।
उपानपद्म कम्पानि कम्पं कर्णं च कम्पकम् ॥ ३४ ॥

पद्मं च वाजनं कम्पं दृष्टान्तार्थं उदाहृतम् ।
पादेनार्धेन भागेन त्रिभागेन द्विभागतः ॥ ३५ ॥

त्रिभागेन चतुर्भागैः ऊनं वाप्यधिकं नयेत् ।
एषां प्रवेशो निष्क्रान्तिश्शोभाबलवशाद्भवेत् ॥ ३६ ॥

धामोक्तं उपपीठं यत् सर्वमत्र विधीयताम् ।
चतुष्कोणेषु मध्येषु तथा भद्रोपभद्रयोः ॥ ३७ ॥

गुळिका पादपादैश्च नाटकैर्भूषयेद्गलम् ।
उपपीठोच्छ्रयान्तं वा कर्तव्यं उपभद्रकम् ॥ ३८ ॥

उपभद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् ।
फलका भारमध्यं तु पदाद्यैः परिभूषयेत् ॥ ३९ ॥

फलकामध्य भारान्तं योजयेत्पद्मकुड्मळम् ।
सनाळं नाळमानं तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ॥ ४० ॥

शतांशान्तं समुद्दिष्टं तन्मूलं वेदभागतः ।
वस्वांशघनोपेतं वृत्तं वाष्टाश्रमेव वा ॥ ४१ ॥

षडर्कभागपर्यन्तहीनाग्रं तत्र वक्रयुक् ।
कुम्भमण्डि समायुक्तं युक्तं वा गण्डिकाद्वयोः ॥ ४२ ॥

पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मळम् ।
तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ॥ ४३ ॥

वस्वंशान्ताय संयुक्तं तद्विस्तारोदरान्वितम् ।
तत्त्रिपाद विशालं वा तदन्तस्सममानकम् ॥ ४४ ॥

कृशाग्रं वृत्तमष्टाश्रं फुल्लबाह्यदलं तु वा ।
बहिःकरणमेवं स्यादत्रान्तःकरणं द्विजाः ॥ ४५ ॥

भारोर्ध्वे वाजनं कुर्याद् अल्पनिर्गमनान्वितम् ।
यथेष्टबहलोपेतं तदूर्ध्वे वाजनान्तरम् ॥ ४६ ॥

तद्विनिर्गमनोपेतं उपपीठं गळावधि ।
द्वाभ्यां एकेन वा कुर्याद्दारुभ्यां दारुणा द्विजाः ॥ ४७ ॥

तत्संबन्धे विधातव्ये विष्टकेऽक्षोर्ध्वदेशतः ।
पञ्चग्राहि निबन्धे द्वे विधातव्ये विचक्षणैः ॥ ४८ ॥

यथेष्ट घनविस्तारे तत्संबन्धेऽपरेऽपि वा ।
भद्रमूले तदग्रे च समभद्रे तथा नयेत् ॥ ४९ ॥

अन्तर्वाजनकोर्ध्वे स्यादुपपीठं गळावधि ।
तत्र पादा विधेयास्स्युरुपपीठावसानके ॥ ५० ॥

फलके द्वे विधातव्ये तत्पादोपरि संस्थिते ।
तत्र सन्नद्धविष्टे द्वे पञ्चग्राहिगते च ते ॥ ५१ ॥

भद्राग्रयोस्तथा कार्ये त्वेवमन्तरुदाहृतम् ।
उपपीठोर्ध्वतः कुर्याद् अधिष्ठानं तदुच्यते ॥ ५२ ॥

उपपीठसमं वा स्यात्तदर्धं वाथ सार्धकम् ।
तन्मध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ॥ ५३ ॥

अष्टाविंशतिभागं तु तदुच्चं तु समं भवेत् ।
पङ्क्तिनेत्रैकसप्तैक व्योमद्व्येकैक लोचनैः ॥ ५४ ॥

पद्मं करणं च पद्मं च कुमुदं पद्मवाजने ।
सदन्तगळकम्पौ च महावाजनमाचरेत् ॥ ५५ ॥

उपपीठोक्तरीत्यैतद् उनाधिक्ये समाचरेत् ।
प्रवेशनिर्गमौ वापि तद्वदेव समाचरेत् ॥ ५६ ॥

एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा ।
अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ॥ ५७ ॥

अधिष्ठानसमो वा स्याद् द्विगुणो वा समीरितः ।
तदन्तर्नवमाने वा पादाष्टांशान्वितोऽथवा ॥ ५८ ॥

गुळिका पादपादैश्च नाटकैर्व्याळराजिभिः ।
सिंहभूतगजैः पादैर्वर्गं सर्वत्र भूषयेत् ॥ ५९ ॥

तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढं नयेत् ।
प्रस्तरः पादवर्गोर्ध्वे मानं चास्य निगत्यते ॥ ६० ॥

त्रिभागं तु समारभ्य भागभाग विवर्धनात् ।
नवभागावसानं स्याद् अलङ्कारश्च कथ्यते ॥ ६१ ॥

तदुच्चे षोडशांशे तु गुणैकनयनाब्धिभिः ।
व्योमैकचन्द्रचन्द्रांशैरुत्तरं वाजनं ततः ॥ ६२ ॥

निद्रा कपोतमालिङ्गं वाजनं प्रतिवाजनम् ।
प्रवेशो निर्गमैश्चैषां धामोक्त न्यायतो भवेत् ॥ ६३ ॥

एकदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् ।
पादान्तं वाथ भद्रान्तं ह्रासयुक्तं च मूलतः ॥ ६४ ॥

एकादिरसभागान्तं पार्श्वयोरुभयोरपि ।
प्रवेश रहितं वा स्याद् एवमेवोपभद्रकम् ॥ ६५ ॥

रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितो न वा ।
षडाति त्रिंशदंशान्तं समं वा मूलपादतः ॥ ६६ ॥

प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रिकपोतयोः ।
अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ॥ ६७ ॥

छादयेत् फलकैरूर्ध्वतलं सारतरूद्भवैः ।
एकाङ्गुलघनैरिष्ट घनैर्वा सुदृढं यथा ॥ ६८ ॥

भद्रं चोपभद्रं च छादयेदेवमेव तु ।
न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोऽपि वा ॥ ६९ ॥

पादानां पादतः कार्यः प्रस्तराणां च मञ्चतः ।
प्रवेश निर्गमो हित्वा कुर्याद्वा रज्जुसूत्रकम् ॥ ७० ॥

अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते ।
रथस्यारोहणार्थं तु सोपानकृति सन्निभम् ॥ ७१ ॥

भद्रोक्तायाम विस्तारं मुखे पृष्ठे द्वयोस्तु वा ।
प्रतिभौमं प्रवेशस्स्यात् भद्रस्य मुनिपुङ्गवाः ॥ ७२ ॥

सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् ।
उपभद्र विहीनं वा भद्रं भारन्तमेव वा ॥ ७३ ॥

एतत्सर्वं विहायाथ केवलं तूपपीठकम् ।
भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ॥ ७४ ॥

उपपीठं विहायास्मिन् केवलं वा मसूरकम् ।
बहिःकरणमेवं स्यादन्तरत्र निगद्यते ॥ ७५ ॥

पादवर्गेऽन्तरे क्षुद्रपादाः कम्पोपरिस्थिताः ।
ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ॥ ७६ ॥

तदूर्ध्वे प्रस्तराग्रस्थाः पञ्चग्राहियुता न वा ।
विष्टराः बहवः कार्यास्तलं प्रत्येकमाचरेत् ॥ ७७ ॥

तुलामुखानुगाः कार्या ओजा युग्मा यथेष्टतः ।
जयन्त्यस्स्युस्तदूर्ध्वे तु तदूर्ध्वे छादनं मतम् ॥ ७८ ॥

तदूर्ध्वे च विजिः कार्या यथेष्टघनतुङ्गतः ।
नानाकीलक पट्टैश्च पञ्चग्राहिभिरेव च ॥ ७९ ॥

नाराचैः क्षुद्रकीलैश्च ग्राहकैः पुलकादिभिः ।
कोटिकैर्वक्रपट्टैश्च बन्धयेत् सुदृढं यथा ॥ ८० ॥

एतदग्रं समाख्यातं तोरणेन युतं न वा ।
पादकूटयुतं तच्चेदधस्तन्मानमुच्यते ॥ ८१ ॥

वेदतालं समारभ्य तालार्धेन विवर्धयेत् ।
यावदष्टयवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ॥ ८२ ॥

पादपाद विवृद्ध्या तु तत्त्वाङ्गुल समावधि ।
पादविस्तारं आख्यातो धामपादाकृतिर्यथा ॥ ८३ ॥

अग्रमूल शिखोपेताः पादाः कुम्भादिसंयुताः ।
बहुनीव्र समायुक्ताः फलकाशु निवेशिताः ॥ ८४ ॥

तालाधस्संस्थितैर्विष्टैः पादमूलं च बन्धयेत् ।
तथैवासननाळैश्च धारकैस्सुदृढं यथा ॥ ८५ ॥

पादोर्ध्वे प्रस्तरं कुर्याल्लुपारोहण योग्यकम् ।
शिखाकरण मार्गेण लुपारोहक्रियान्विता ॥ ८६ ॥

सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैर्वृक्षकैर्दृढम् ।
छादयेदन्यदेशं च ओजस्तूपि समन्वितम् ॥ ८७ ॥

रथस्त्वेवं समादिष्टश्शुभायादि समन्वितः ।
कथ्यते स च लेशेन विस्तारादायतोऽपि वा ॥ ८८ ॥

उभाभ्यां सकळस्याथ नाहेनोत्सङ्गतोऽथवा ।
वर्धयेत् द्वित्रिवेदैश्च गुणिते क्रमशो हृते ॥ ८९ ॥

सप्तभूतर्क्षपाताळैरायोऽन्यस्तारवारकौ ।
तिथिस्स्यात् त्रिगुणं त्रिंशद्धस्तमेतद्रथे मतम् ॥ ९० ॥

शकटे शिबिकादौ च शुभे शुभमुदाहृतम् ।
रथस्य स्थापनं यच्च कथ्यते विप्रपुङ्गवाः ॥ ९१ ॥

उद्वास्य तक्षकं शुद्धतोयेन क्षाळयेद् दृढम् ।
गोमूत्रगोमयाम्भोभिः कुशोदैस्तज्जलैरपि ॥ ९२ ॥

गव्येन प्रोक्ष्य पुण्याहतोयसेचनमाचरेत् ।
अस्त्रोदेनापि संप्रोक्ष्य गन्धपुष्पादिभिर्यजेत् ॥ ९३ ॥

कौतुकं बन्धयेत् पद्ममुकुळे हृदयेन तु ।
वस्त्रेणाच्छाद्य धामोक्त्या तत्त्वतत्त्वेश्वरान्वितम् ॥ ९४ ॥

मूर्तिमूर्तीश्वरोपेतं चक्रेष्विन्दु दिवाकरौ ।
दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ॥ ९५ ॥

हरिमक्षेषु भारेषु यजेदाधार संज्ञिताम् ।
उपपीठे वृषं यष्ट्वाधारेऽनन्तं प्रपूजयेत् ॥ ९६ ॥

धर्मादींश्चरणेष्वेवं अधर्मादींस्तदूर्ध्वतः ।
अधश्चोर्ध्वच्छदे विद्वान् क्रमेण विनिवेशयेत् ॥ ९७ ॥

फलकाप्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् ।
कर्णिकां नवशक्तीश्च शिवासन मनुस्मरेत् ॥ ९८ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च रथाधिपाः ।
शिखरे च सदेशानश्शिवस्स्यात् स्तूपिनायकः ॥ ९९ ॥

पद्मकुड्मळकेऽनन्तो व्याप्तिं प्रासाद वर्त्मना ।
तदग्रे स्थण्डिलं कृत्वा तस्मिन् सूत्राम्बरान्वितान् ॥ १०० ॥

हेमकूर्चादि संयुक्तान् नवकुम्भान्निवेशयेत् ।
तत्र मध्ये शिवं पूर्वे भानुमिन्दुं तथानले ॥ १०१ ॥

दक्षिणे हरिमाधारशक्तिं निरृते घटे ।
वारुणे वृषभं वायावनन्तं विनिवेशयेत् ॥ १०२ ॥

धर्माद्यं उत्तरे कुम्भे शेषमीशान गोचरे ।
गन्धाद्यैरर्चयित्वा तु होमकर्म समाचरेत् ॥ १०३ ॥

संस्थापित घटानां वा समन्ताद्वा रथस्य तु ।
नव वा पञ्चकुण्डानि एकं वा पूर्वतः स्थितम् ॥ १०४ ॥

आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डाग्नि संस्कृतिम् ।
शिवं साङ्गं प्रधाने तु तर्पयेच्छतसंख्यया ॥ १०५ ॥

भान्वादीन् स्वस्वदिक्कुण्डे पञ्चकल्पे द्वयं द्वयम् ।
एककल्पे गुरुः स्वस्मिन् कुण्डे सर्वं च तर्पयेत् ॥ १०६ ॥

समिदाज्यान्न लाजैश्च तिलैर्होमं समाचरेत् ।
तत्त्वमूर्ति तदीशैश्च गुरुर्होमं समाचरेत् ॥ १०७ ॥

पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिङ्मताः ।
शम्यपामार्गश्रीवृक्ष पिप्पलास्स्युर्विदिग्गताः ॥ १०८ ॥

पलाशश्च प्रधानस्य समिधस्संप्रकीर्तिताः ।
पूर्णां दत्वा द्वितीयेऽह्नि कृतकुम्भाग्नि पूजनः ॥ १०९ ॥

संप्राप्त दक्षिणो मूर्तिधारदैवज्ञ शिल्पिभिः ।
मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ॥ ११० ॥

तत्तत्कुम्भ पानीयैस्तत्तद्देशं सुसेचयेत् ।
अनुक्तमत्र सामान्यस्थापनोक्तवदाचरेत् ॥ १११ ॥

एवं रथं समापाद्य यः कुर्यात्प्रोक्षणं नरः ।
इहैव धनवान् श्रीमान् वाञ्चितं फलमाप्नुयात् ॥
रथमेवं सुसंस्कृत्य रथायात्रां समाचरेत् ॥ ११२ ॥

Uttarapāda – Kapitel 81: Die Merkmale der Ritualgeräte

लक्षणं करणानां च वक्ष्ये संक्षेपतः क्रमात् ।
याज्ञीयवृक्षजाश्शस्तास्समिधो द्वादशाङ्गुलाः ॥ १ ॥

सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादि वर्जिताः ।
त्रिंशद्दर्भदळैर्गाढं ग्रथिता बाहुमात्रकाः ॥ २ ॥

वेणिका वर्तुळा वापि विष्टरा दर्भनिर्मिताः ।
तन्माना ऋजवस्साग्रास्तत्कुण्ड समिदुद्भवाः ॥ ३ ॥

निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः ।
चत्वारो विष्टरस्तद्वन्मताः परिधयोऽपिच ॥ ४ ॥

दर्भत्रयं समारभ्य व्योमदर्भ विवृद्धितः ।
षट् त्रिंशद्दर्भ पर्यन्तं कूर्चार्थं दर्भमाहरेत् ॥ ५ ॥

तत्संख्यामात्र दैर्घ्यं स्यात् किञ्चैकादशमात्रतः ।
ग्रन्थिरर्धाङ्गुलात्पादवृद्ध्या स्याद् द्व्यङ्गुलावधि ॥ ६ ॥

ग्रन्थेः प्रदक्षिणावर्त शिखामानं द्विमात्रतः ।
वृद्द्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ॥ ७ ॥

ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः ।
ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्याग्रगा मताः ॥ ८ ॥

उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः ।
उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधःकूर्चस्तु पुष्टितः ॥ ९ ॥

अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके ।
द्वित्रिवेदशरैर्दर्भैः मूलाग्रसहितैस्तु वा ॥ १० ॥

पवित्रं दक्षिणावर्तग्रथितं तद्विवर्जितम् ।
अनामिकाङ्गुलीयोग योग्यरन्ध्र समन्वितम् ॥ ११ ॥

प्रागुक्त ग्रन्थिशिखरं पवित्रं अतिसुन्दरम् ।
ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ॥ १२ ॥

कर संयोजनीयं स्यात् काले देवार्चनादिके ।
अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ॥ १३ ॥

त्रयोविंशति संख्यात दर्भैस्स्यान्निर्मितेन च ।
अर्कमात्रादि षट्त्रिंशत् अङ्गुलावनतेन च ॥ १४ ॥

यथेष्टान्तरयुक्तेन लम्बनेन समन्विता ।
दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ॥ १५ ॥

रज्ज्वा चैव विधेया स्यात् साश्वत्थ दलरञ्जिता ।
आरभ्य हस्तत्रितयं त्र्यङ्गुलेन विवर्धनात् ॥ १६ ॥

तिथिहस्तान्त दैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् ।
सदृशो वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ॥ १७ ॥

द्वारमानोच्च तत्प्रोक्त विस्ताराद्दैर्घ्यतोऽपि वा ।
स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्यङ्गुलादितः ॥ १८ ॥

पादाङ्गुल विवृद्ध्या तु त्रिंशन्मात्रान्तमीरितम् ।
याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ॥ १९ ॥

शिलायेष्टकयाऽन्यत्र दारुभिस्तोरणं नयेत् ।
इष्टमानेन खातं स्याच्छिखामानं तथैव च ॥ २० ॥

विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा ।
सप्ताङ्गुलं समारभ्य व्योममात्र विवृद्धितः ॥ २१ ॥

पक्षमात्रावसानं तु शूलदैर्घ्यं प्रकल्पयेत् ।
विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्धमात्रकम् ॥ २२ ॥

यावत्तावद् घनं तेषां इष्टमानेन कारयेत् ।
एवं तोरणं आख्यातं मङ्गलाष्टकं उच्यते ॥ २३ ॥

नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च ।
षट्त्रिंशन्मात्र पर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ॥ २४ ॥

पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् ।
अन्तरेऽष्टविभागे तु नवमानमुदाहृतम् ॥ २५ ॥

घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि ।
याज्ञीयवृक्षैर्लोहैर्वा मङ्गलाष्टकमाचरेत् ॥ २६ ॥

दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् ।
श्रीवत्सं सवस्तिकं शंखो दीपश्शैवाष्टमङ्गलम् ॥ २७ ॥

अन्येषामपि देवानां देवीनां चाष्टमङ्गले ।
वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ॥ २८ ॥

शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् ।
ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ॥ २९ ॥

विलिखेद्दर्पणादीनि तन्मानं अधुनोच्यते ।
पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ॥ ३० ॥

पञ्चविंशति मात्रान्तं तेषां दैर्घ्यं समाचरेत् ।
विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ॥ ३१ ॥

पादोनार्धेन वा तस्मिन् पादं तस्य प्रकल्पयेत् ।
तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ॥ ३२ ॥

स्वास्यतिर्यग्लतोपेतं लथामानं ततो बहिः ।
तथैव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ॥ ३३ ॥

पादपद्म समायुक्तं तूर्ध्वे छत्रसमायुतम् ।
श्रिवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ॥ ३४ ॥

शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् ।
श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ॥ ३५ ॥

स्त्रीणां मूर्ध्नि वा कुर्याद्देवताः शृणुत द्विजाः ।
दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ॥ ३६ ॥

चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् ।
शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ॥ ३७ ॥

लक्ष्म्यां लक्ष्मीं वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः ।
पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ॥ ३८ ॥

एकैकं दक्षिणे वामे वेदिकायां च विन्यसेत् ।
हित्वाष्टमङ्गलं वाथ तत्स्थाने तान् प्रपूजयेत् ॥ ३९ ॥

वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।
ध्वजं वाथ गदां शूलं पद्मं चक्रं च कारयेत् ॥ ४० ॥

ध्वजाङ्कुशौ वा कर्तव्यो दण्डं हित्वा द्विजोत्तमाः ।
लोहैर्वा याज्ञिकैर्वृक्षैः लोहश्चेद् बेरमानतः ॥ ४१ ॥

देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् ।
जाये शक्तिगदे ज्ञेये शेषाः पुरुषलक्षणाः ॥ ४२ ॥

नवतालप्रमाणेन तेषां लक्षणमुच्यते ।
तन्मूर्ध्नि मकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ॥ ४३ ॥

देहलब्धेन तेषां तु प्रमाणं प्रविधीयते ।
षट् त्रिंशदङ्गुलायामं अष्टाङ्गुल सुविस्तरम् ॥ ४४ ॥

तिथ्यङ्गुलं समारभ्य द्विद्व्यङ्गुल विवर्धनात् ।
मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्घमुच्यते ॥ ४५ ॥

लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु ।
इष्टमानेन चैतेषां विस्तार इह कथ्यते ॥ ४६ ॥

नूतनं करणं श्रेष्टं पुराणं तदभावतः ।
पुराणकरणं ग्राह्यं वित्तं दत्वा गुरोर्द्विजाः ॥ ४७ ॥

तदाज्ञापूर्वकं स स्यात् तद्भोग्यकरणं ततः ।
सहस्राघोर जापस्स्यात् पुराणकरणे ग्रहे ॥ ४८ ॥

येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ।
तत्र तच्छास्त्र संसिद्धं करणं विहितं बुधाः ॥ ४९ ॥

अनुक्तमन्यतो ग्राह्यं उत्सवादिषु कर्मसु ।
अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् ॥ ५० ॥

श्रेष्ठस्तद्धाम संसिद्धौ न ग्राह्योऽन्यालयस्थितः ।
तल्लिङ्गादेर्विरुद्धत्वादायाद्यैः अशुभैर्युतः ॥ ५१ ॥

तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ।
तेनैवोत्सव कर्माद्यं विहितं मुनिपुङ्गवाः ॥ ५२ ॥

स्थानात् स्थानान्तरप्राप्ति दोषशुद्ध्यर्थमाचरेत् ।
समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च ॥ ५३ ॥

ह्रस्वप्रासाद मन्त्रेण प्रभूत यजनान्वितम् ॥ ५४ ॥


Pūrvapāda – Kapitel 1–75 · Uttarapāda – Kapitel 1–81

Textgrundlage und Lesungshinweise

Grundlage sind die Sanskrittexte der Ausgabe von Dr. S. P. Sabharathnam Sivacharyar, Himalayan Academy / Kauai Adheenam. Die beiden Devanagari-Artikel enthalten zusammen 156 Kapitel mit 9.107 nummerierten Texteinheiten: 4.564 im Pūrvapāda und 4.543 im Uttarapāda. Die Zahlen bezeichnen nicht ausschließlich vollständige metrische Strophen; Satzgrenzen können über Versnummern hinwegführen.

Diese Devanagari-Fassung ist aus der zugeordneten lateinischen Sanskrit-Arbeitsumschrift übertragen. Sie ist keine unabhängig kollationierte Wiedergabe sämtlicher gedruckter Devanagari-Lesarten. Verbliebene Fehler der Vorlage und unsichere Lesungen sind dadurch nicht automatisch bereinigt. […] bezeichnet eine erkennbare, nicht ergänzte Textlücke. Die Kennungen ४०क und ४०ख in P 26 unterscheiden die doppelte Drucknummer 40.

Quellen, ergänzte Nummern und weitere Lesungshinweise stehen im Hauptartikel und in der Kamika Agama Kapitelübersicht.

Siehe auch