Nishvasa Tattva Samhita Sanskrit Devanagari

Aus Yogawiki
Version vom 12. September 2026, 09:21 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Nishvasa Tattva Samhita – Sanskrit in Devanagari''' enthält die Devanagari-Umschrift der in der Hauptausgabe erfassten Sanskrittexte: alle 21 Kapitel von Nishvasamukha, Mulasutra, Uttarasutra und Nayasutra sowie die dort belegten Guhyasutra-Auszüge. Diese Seite gibt dieselben 1.731 Einheiten in gleicher Reihenfolge wieder. Sie ist eine Umschrift der verwendeten Editions- und Zitattexte, keine Wiedergabe der alten nepale…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Nishvasa Tattva Samhita – Sanskrit in Devanagari enthält die Devanagari-Umschrift der in der Hauptausgabe erfassten Sanskrittexte: alle 21 Kapitel von Nishvasamukha, Mulasutra, Uttarasutra und Nayasutra sowie die dort belegten Guhyasutra-Auszüge.

Diese Seite gibt dieselben 1.731 Einheiten in gleicher Reihenfolge wieder. Sie ist eine Umschrift der verwendeten Editions- und Zitattexte, keine Wiedergabe der alten nepalesischen Handschrift in ihrer Originalschrift. Die originalen Nummern, Lücken und Ergänzungszeichen bleiben erhalten. Die Devanagari-Fassung enthält keine zusätzlichen Verse.

Navigation: Hauptartikel und deutsche Übersetzung · 108 Verse für die Yoga Praxis · Mantra-Sammlung

Zur Textgestalt

Die Texte folgen Kafle 2020 für Nishvasamukha und Goodall u. a. 2015 für die drei Kernbücher. Die Guhyasutra-Auszüge folgen den bei jeder Stelle der Hauptausgabe bezeichneten wissenschaftlichen Quellen. Zeichen für Textverluste und Ergänzungen sind keine zu rezitierenden Laute. Insbesondere können Ergänzungsklammern über eine Versgrenze weiterlaufen. Om mit ausgeschriebenem Schluss-m wird als ओम् wiedergegeben; die Form mit Anusvara als ॐ. Beide werden nicht stillschweigend vereinheitlicht.

Der maschinelle Rückabgleich sämtlicher Einheiten stimmt mit der IAST-Fassung überein. Ausgewählte schwierige Zeichenfolgen wurden zusätzlich visuell kontrolliert; dies ist von einer vollständigen eigenen Handschriftenkollation zu unterscheiden.

Nishvasamukha

Kapitel 1

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nishvasamukha 1 – Eingangsformel

ॐ नमः शिवाय ।

Nishvasamukha 1 – Titel

निश्वासमुखतत्त्वसंहितायां प्रथमः पटलः ॥

Nishvasamukha 1 – Sprecherangabe vor 1.1

रिचीक उवाच ।

Nishvasamukha 1.1

गतो ऽहं पूर्व्वम् आशायां पुष्पाणां समिधैस् तथा ।
अपूर्व्वन् दृष्टम् आश्चर्य्यन् तन् दृष्ट्वा कौतुकान्वितः ॥ १:१ ॥

Nishvasamukha 1.2

अष्टाशीतिसहस्राणि ऋषीणाम् ऊर्द्ध्वरेतसाम् ।
नैमिषारण्य ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ ॥ १:२ ॥

Nishvasamukha 1.3

--- [१६] --- ।
भगवन् सर्व्वम् एतत् तु कथय मम पृच्छतः ॥ १:३ ॥

Nishvasamukha 1.4

त्वं वेत्ता सर्व्वशास्त्राणां वेदानाञ् च विशेषतः ।
तेन पृच्छामि भगवन् येन वेत्सि मतङ्ग त्वम् ॥ १:४ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.5

मतङ्ग उवाच ।

Nishvasamukha 1.5

शृणु वत्स समासेन प्रवक्ष्यामि तवाखिलम् ।
नैमिषे वसमानैस् तु श्रुतं ((स)) --- [५] --- ॥ १:५ ॥

Nishvasamukha 1.6

--- [१६] --- ।
--- [८] --- नैमिषारण्यवासिभिः ॥ १:६ ॥

Nishvasamukha 1.7

तत्रैव दीक्षितो ब्रह्मा केशवश् च रिचीकक ।
कौतूहलान्वितास् सर्व्वे विस्मयं परमङ् गताः ॥ १:७ ॥

Nishvasamukha 1.8

परस्परं वदन्त्य् एवं सर्व्वशास्त्रविशारदाः ।
कथन् दीक्षां प्रपद्येत मुक्त्वा वेदोक्तम् आगमम् ॥ १:८ ॥

Nishvasamukha 1.9

न हि वेदात् परञ् चान्यद् योग --- [६] --- ।
--- [१३] --- [[प]]द्यते ॥ १:९ ॥

Nishvasamukha 1.10

साङ्ख्ययोगस्य वेत्तासौ कथं विष्णुश् च दीक्षितः ।
तं श्रुत्वा आगतास् सर्व्वे ऋषयः संशितव्रताः ॥ १:१० ॥

Nishvasamukha 1.11

ते दृष्टा त्वयि मायान्ता देवदारुकं वनम् ।
प्रविष्टास् तत्र ते सर्व्वे ब्रह्माविष्णुमहेश्वराः ॥ १:११ ॥

Nishvasamukha 1.12

समुदायेन पश्यामो दीक्षा --- [६] --- ।
--- [१६] --- ॥ १:१२ ॥

Nishvasamukha 1.13

--- [४] --- ततस् ते तु ब्रह्माविष्णुमहेश्वराः ।
स्वस्थानन् तु गतास् सर्व्वे आज्ञान् दत्वा तु नन्दिने ॥ १:१३ ॥

Nishvasamukha 1.14

त्वम् अनुग्रहकर्त्ता तु ऋषीणां सर्व्वप्राणिनाम् ।
देव्यायास् तु तथा पूर्व्वम् अधिकारस् समर्पितः ॥ १:१४ ॥

Nishvasamukha 1.15

दी --- [१५] --- ।
--- [१६] --- ॥ १:१५ ॥

Nishvasamukha 1.16

--- [१६] --- ।
अस्माकं कथय सर्व्वं ब्रह्माविष्णू तु दीक्षितौ ॥ १:१६ ॥

Nishvasamukha 1.17

यथा ते सर्व्वशास्त्राणि दीक्षाज्ञानस्य वेदकौ ।
तथा कथय सर्व्वन् तु सर्व्वज्ञ नन्दिकेश्वर ।
((एवं ते)) --- [१३] --- ॥ १:१७ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.18

रिचीक उवाच ।

Nishvasamukha 1.18

((कथं व))क्ता भवेत् एषाम् भगवान् नन्दिकेश्वरः ।
दीक्षितास् तु कथन् ते तु शास्त्रे ऽस्मिञ् छिवसन्मते ॥ १:१८ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.19

मतङ्ग उ ।

Nishvasamukha 1.19

ते स्तुन्वन्ति यथा नन्दिं दीक्षाज्ञानस्य चार्थिनः ।
तथा वक्ष्यामि विप्रेन्द्र शृणुष्वेकमनाधुना ॥ १:१९ ॥

Nishvasamukha 1.20

देवदारुवने रम्ये --- [८] --- ।
--- [१६] --- ॥ १:२० ॥

Nishvasamukha 1.21

[[सु]]((महा))तप रुद्रांश सर्व्वज्ञ शिवतेजसा ।
देव्याशङ्करसंवादं श्रुतम् पूर्व्वन् त्वयानघ ॥ १:२१ ॥

Nishvasamukha 1.22

संसारोच्छित्तिकरणं सर्व्वज्ञानामृतोत्तमम् ।
दीक्षामात्रेण कथितं शिवेनाशिवहारिणा ॥ १:२२ ॥

Nishvasamukha 1.23

त्वत्प्रसादाद् यथा सर्व्वे मुच्यन्ते ऋषिसत्तमाः ।
तथा कुरु [[प्रसा]]दा वा कु? --- [७] --- ॥ १:२३ ॥

Nishvasamukha 1.24

--- [१३] --- रूपिणे ।
नमस् ते शूलहस्ताय त्र्यक्षाय ऋषिसम्भवे ॥ १:२४ ॥

Nishvasamukha 1.25

तपःस्वेदितगात्राय उद्धरस्व प्रसादतः ।
नान्यस् त्राता भवेद् एव त्वदृते नन्दिकेश्वर ॥ १:२५ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.26

नन्दिकेश्वर उवाच ।

Nishvasamukha 1.26

शृण्वन्तु ऋषयस् सर्व्वे पञ्चधा यत् प्रकीर्त्तितम् ।
लौकिकं वैदिकञ् चैव तथाध्यात्मिकम् एव च ॥ १:२६ ॥

Nishvasamukha 1.27

अ[[तिमार्गञ् च मन्त्राख्यं]] --- [८] --- ।
दीक्षिता नन्दिना सर्व्वे निर्व्वाणे योजिताः परे ॥ १:२७ ॥

Nishvasamukha 1.28

विद्याभिकाङ्क्षिणश् चान्ये विद्यायां ते तु योजिताः ।
दीक्षयित्वा यथान्यायम् प्रवक्तुम् उपचक्रमे ॥ १:२८ ॥

Nishvasamukha 1.29

महादेव्या यथा पृष्टस् सर्व्वदुःखहरो हरः ।
तथा वक्ष्यामि विप्रेन्द्राः प्रणिपत्य शिवं शुचिः ॥ १:२९ ॥

Nishvasamukha 1.30

प्रणम्य शिरसा देवञ् चन्द्रार्द्धकृतशेख[[((रम्))]] ।
मूर्द्ध्नि कृत्वाञ्जलिं भक्त्या स्तोत्रम् एवम् उदीरयेत् ॥ १:३० ॥

Nishvasamukha 1.31

सगणाय नमस् तुभ्यं सपत्नीक नमो ऽस्तु ते ।
सदाशिव नमस् ते ऽस्तु परमात्म शिवे नमः ॥ १:३१ ॥

Nishvasamukha 1.32

क्षितिर् द्धारयते लोकां लोकाः क्षितिमयाः स्मृताः ।
सर्व्वगं क्षितिरूपन् तु क्षितिमूर्त्ति नमो ऽस्तु ते ॥ १:३२ ॥

Nishvasamukha 1.33

जलन् धारयते लोकां लोका जलमयाः स्मृ[[((ताः))]] ।
[[सर्व्वगं ज]]लरूपन् तु जलमूर्त्ति नमो ऽस्तु ते ॥ १:३३ ॥

Nishvasamukha 1.34

[[वायुर् द्धारयते लोकां लोका वायुमयाः स्मृ]]ताः ।
सर्व्वगं वायुरूपन् तु वायुमूर्त्ति नमो ऽस्तु ते ॥ १:३४ ॥

Nishvasamukha 1.35

अग्निर् द्धारयते लोका लोका अग्निमयाः स्मृताः ।
सर्व्वाग्निरूपं तु अग्निमूर्त्ति नमो ऽस्तु ते ॥ १:३५ ॥

Nishvasamukha 1.36

आत्मा यजति यज्ञानि लोका यज्ञमयाः स्मृ[[((ताः))]] ।
[[((सर्व्वगं यज्ञरूपं तु यज्ञमूर्त्ति नमो ऽस्तु ते))]] ॥ १:३६ ॥

Nishvasamukha 1.37

[[आकाशं धारयते लोका लोका व्योममयाः स्मृताः ॥]]
आकाशं सर्व्वगं रूपं मूर्त्त्या[[((काश नमो ऽस्तु))]] ते ॥ १:३७ ॥

Nishvasamukha 1.38

सोमो धारयते लोकां लोकाः सोममयाः स्मृताः ।
सर्व्वगं सोमरूपं तु सोममूर्त्ति नमो ऽस्तु ते ॥ १:३८ ॥

Nishvasamukha 1.39

सू[[((र्यो धारयते लोकां लोकाः सूर्यमयाः स्मृताः ।
सर्व्वगं सूर्यरूपं तु सूर्यमूर्त्ति नमो ऽस्तु ते))]] ॥ १:३९ ॥

Nishvasamukha 1.40

अष्टमूर्त्ति --- [१२] --- ।
[[((अने))]]न सत्यवाक्येन संसाराद् उद्धरस्व माम् ॥ १:४० ॥

Nishvasamukha 1.41

अष्टमूर्त्तिम् इदं स्तोत्रं यः पठेत् सततं शुचिः ।
सर्व्वपापविनिर्म्मुक्तः शिवसायोज्यताम् व्रजेत् ॥ १:४१ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.42

देव्य् उवाच ।

Nishvasamukha 1.42

अनादिनिधनो देवो ह्य् अज-म्-अक्षरम् अव्ययः ।
सर्व्वगस् सर्व्वरूपो ऽसि सर्व्वज्ञश् चैककारणः ॥ १:४२ ॥

Nishvasamukha 1.43

स्रष्टा धर्त्ता च हर्त्ता च परमेष्ठी महे[[((श्वरः))]] ।
--- [११] --- [[ग]]तिर् उत्तमा ॥ १:४३ ॥

Nishvasamukha 1.44

त्वाम् आश्रित्य गतास् सर्व्वे सिद्धिम् ऋषिसुरासुराः ।
नागगन्धर्व्वयक्षाश् च पिशाचाप्सरराक्षसाः ॥ १:४४ ॥

Nishvasamukha 1.45

त्वत्प्रसादाद् वरं लब्ध्वा क्रीडन्ते च गतिङ् गताः ।
अपुनर्भवनिर्व्वाणं यद् गत्वा न निवर्त्तते ॥ १:४५ ॥

Nishvasamukha 1.46

अहं हि शोकसंतप्तान् दृष्ट्वा लोकान् सुपीडितान् ।
पश्यामि परिवर्त्तन्तं [[((कालचक्रं सुद))रुणम्]] ॥ १:४६ ॥

Nishvasamukha 1.47

--- [३] --- देव देवेश लोकानुग्रहकारणात् ।
यथा मुच्यन्ति ते मर्त्या जन्ममृत्युजरादिभिः ॥ १:४७ ॥

Nishvasamukha 1.48

क्षुत्तृष्णाशीततोष्णेन कामक्रोधभयेन च ।
इष्टानां विप्रयोगैश् च सर्व्वरोगसमावृताः ॥ १:४८ ॥

Nishvasamukha 1.49

अनाथाशरणा देव दम्भमायासमन्विताः ।
परहिंसारता दुष्टा त्राहि तान् परमेश्वर ॥ १:४९ ॥

Nishvasamukha 1.50

कथम् एते दुराचाराः शुद्ध्यन्ते --- [५] --- ।
[[येनो]]पायेन देवेश तदुपायं वदस्व मे ॥ १:५० ॥

Nishvasamukha 1 – Sprecherangabe vor 1.51

ईश्वर उवाच ।

Nishvasamukha 1.51

पञ्च स्रोता मया ख्याता लोकानां हितकाम्यया ।
तान् प्रवक्ष्यामि सर्व्वांस् तु शृणुष्व् अवहिता प्रिये ॥ १:५१ ॥

Nishvasamukha 1.52

स्वर्गापवर्गहेतोश् च तन् निबोध यथार्थतः ।
लौकिकं सम्प्रवक्ष्यामि येन स्वर्गं व्रजन्ति ते ॥ १:५२ ॥

Nishvasamukha 1.53

कूपवापीगृहोद्यान --- [८] --- ।
--- [१२] --- थ मण्डपाः ।
दानतीर्थोपवासानि व्रतानि नियमानि च ॥ १:५३ ॥

Nishvasamukha 1.54

भक्ष्याभक्ष्यपरीहारञ् जपहोमन् तथार्च्चनाम् ।
जलाग्निभृगुपातो हि तथानशनम् एव च ॥ १:५४ ॥

Nishvasamukha 1.55

विद्यमाननिवृत्तिश् च गुरुवृद्धाभिपूजनम् ।
लौकिकं कथितं ह्य् एतद् वैदिकञ् चातुरा[[((श्रमम्))]] ॥ १:५५ ॥

Nishvasamukha 1.56

--- [१६] --- ।
--- [६] --- । [[((प्रोक्ता))]] लोकातीता महाव्रताः ।
मन्त्राख्याश् च तथा शैवा अतो ऽन्ये कुपथे स्थिताः ॥ १:५६ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.57

देव्य् उवाच ।

Nishvasamukha 1.57

पञ्च स्रोतास् त्वया देव सूचिता न तु वर्ण्णिताः ।
तांस् तु विस्तरतो मे ऽद्य प्रसादाद् वक्तुम् अर्हसि ॥ १:५७ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.58

ईश्वर उवाच ।

Nishvasamukha 1.58

उत्पानं कुरुते यस् तु पापात्मा दुष्टचेतसः ।
स विधूय --- पितृभिस् सह मोदते ॥ १:५८ ॥

Nishvasamukha 1.59

⟪पुष्करिण्याश् च यः कर्त्ता⟫ दिवं व्रजेद् विकल्मषः ।
कुलैस् तु सप्तभिर् युक्तो यावत् कीर्त्तिर् न नश्यते ॥ १:५९ ॥

Nishvasamukha 1.60

गृहन् द्रव्यसमोपेतङ् कृत्वा विप्राय यो ददेत् ।
तस्य हेममयन् दिव्यङ् गृहं स्वर्ग्गे प्रजायते ॥ १:६० ॥

Nishvasamukha 1.61

उद्यानङ् कुरुते यस् तु देवदेवस्य चालये ।
तस्य पुण्यफलं यत् तु पुष्पे पुष्पे निबोध मे ॥ १:६१ ॥

Nishvasamukha 1.62

दशसौवर्ण्णिकं पुष्पं माला लक्षेण संमिता ।
कोटिमाला⟪शतेनाहुर् अनन्तं लिङ्ग⟫पूरणे ॥ १:६२ ॥

Nishvasamukha 1.63

एवङ् कुर्व्वन्ति ये नित्यन् ते गणा मम चाक्षयाः ।
न तेषाम् मर्त्यभावो ऽस्ति कल्पकोटिशतैर् अपि ॥ १:६३ ॥

Nishvasamukha 1.64

एवं श्रुतम् मया पूर्व्वं देव्याः कथयतो हरात् ।
तत् सर्व्वङ् कथितन् तुभ्यं यत् फलं लिङ्गपूरणे ॥ १:६४ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.65

ऋषय ऊचुः ।

Nishvasamukha 1.65

पृच्छन्ति ऋषयो भीतास् संसारभयपीडिताः ।
तुष्यते च कथन् देव अर्च्चितस्य च ⟪किं फलम्⟫ ॥ १:६५ ॥

Nishvasamukha 1.66

⟪क्षीराज्यद⟫धितोयेन स्नापितस्य च किम् फलम् ।
पुष्पाणाञ् चैव सर्व्वेषाङ् गन्धधूपस्य किं फलम् ॥ १:६६ ॥

Nishvasamukha 1.67

वस्त्रालङ्कारनैवेद्यध्वजादर्शवितानकैः ।
दीपच्छत्रफलम् ब्रूहि गोजाविमहिषीषु च ॥ १:६७ ॥

Nishvasamukha 1.68

अश्वदन्तिप्रदानस्य दासीदासस्य यत् फलम् ।
सम्मार्ज्जने फलं किं स्यात् तथा चैवोपलेपने ॥ १:६८ ॥

Nishvasamukha 1.69

गीतनृत्यफलम् ब्रूहि तन्त्री⟪वाद्यफलञ् च यत्⟫ ।
जागरस्य फलम् ब्रूहि कृष्णाष्टमिचतुर्द्दशी ॥ १:६९ ॥

Nishvasamukha 1.70

उपवासस्य यत् पुण्यन् देवदेवाश्रितस्य च ।
एतत् सर्व्वं समाख्याहि उपसन्नाः स्म ते वयम् ॥ १:७० ॥

Nishvasamukha 1 – Sprecherangabe vor 1.71

नन्दीश उ ।

Nishvasamukha 1.71

शतं सम्मार्ज्जने पुण्यं सहस्रम् उपलेपने ।
निष्काणाम् प्राप्नुयाच् चैव शिवभक्तिसमन्वितः ॥ १:७१ ॥

Nishvasamukha 1.72

उपलिप्य शिवागारं शुचिर् भूत्वा समाहितः ।
⟪अर्च्चयेत् सततन् देवं⟫ शिवदीक्षाविवर्ज्जितः ॥ १:७२ ॥

Nishvasamukha 1.73

पत्रपुष्पफलैश् चैव दधिक्षीरघृतादिभिः ।
पवित्रैर् भक्तिपूतैश् च यः पूजयति नित्यशः ॥ १:७३ ॥

Nishvasamukha 1.74

वस्त्रनैवेद्यच्छत्रैश् च ध्वजादर्शवितानकैः ।
घण्टाचामरदामैश् च अलङ्कारोदकेन च ॥ १:७४ ॥

Nishvasamukha 1.75

⟪सुवर्ण्णमणिवस्त्रैश् च गन्धधूपोपलेपनैः ।
गीतवादित्रनृतैश् च हुड्डुङ्कारस्तवेन च ॥ १:७५ ॥

Nishvasamukha 1.76

वक्ष्यामि सर्व्वम् एवन् तु⟫ अपरिज्ञातकारणे ।
केवलाम् भक्तिम् आपन्नाः शृणुध्वं पूजनात् फलम् ॥ १:७६ ॥

Nishvasamukha 1.77

तोयेन स्नापयेल् लिङ्गङ् गन्धदिग्धेन चैव हि ।
एकरात्रेण मुच्यन्ते मानसा⟪त् किल्बिषान् नराः ॥ १:७७ ॥

Nishvasamukha 1.78

दशरात्रात् तु कायिकेन महापापेन पक्षतः ।
मासेन स्वर्गम् आप्नोति अब्दाद् गाणेश्वरीङ् गतिम् ॥ १:७८ ॥

Nishvasamukha 1.79

त्र्यब्देन पितृतां याति पञ्चभिः कुलम् उ⟫द्धरेत् ।
द्विषड्दादीशसायोज्यं यावज्जीवं शिवम् व्रजेत् ॥ १:७९ ॥

Nishvasamukha 1.80

सुदध्ना स्नापयेल् लिङ्गङ् कृष्णाष्टमिचतुर्द्दशी ।
यावज्जीवकृतात् पापान् मुच्यते नात्र संशयः ॥ १:८० ॥

Nishvasamukha 1.81

सततं स्नापयेद् यस् तु मासम् एकं शुचिर् नरः ।
प्रत्यहं क्रतुम् आप्नोति भिन्ने देहे शिवालयम् ॥ १:८१ ॥

Nishvasamukha 1.82

षण्मासं स्नापयेद् यस् तु स गणश् चोत्तमो भवेत् ।
⟪अब्दस्ना⟫नेन पितरस् तस्य यान्ति शिवालयम् ॥ १:८२ ॥

Nishvasamukha 1.83

त्र्यब्देन रुद्रसायोज्यं द्वादशाब्दैः स्वकङ् कुलम् ।
घृतेन स्नापयेल् लिङ्गम् एकाहं यदि मानवः ॥ १:८३ ॥

Nishvasamukha 1.84

दग्ध्वा तु सर्व्वपापानि अश्वमेधफलं लभेत् ।
दशरात्रात् स्वर्ग्गतिम् मासाद् गाणेश्वरीङ् गतिम् ॥ १:८४ ॥

Nishvasamukha 1.85

नरकस्थाश् च पितर उद्धृतास् तु न संशयः ।
षण्मासं ⟪स्नापयेद् यस् तु नित्यं चाभग्न⟫योगतः ॥ १:८५ ॥

Nishvasamukha 1.86

तस्यापि पितरो यान्ति नित्यङ् गाणेश्वरीङ् गतिम् ।
द्विरब्देनैव सायोज्यङ् गच्छते पितृभिस् सह ॥ १:८६ ॥

Nishvasamukha 1.87

घृतस्नानात् परन् नास्ति योद्धरेत् कुलसप्तकम् ।
त्रिनेत्राः शूलहस्ताश् च वृषाङ्काश् चन्द्रसेखराः ॥ १:८७ ॥

Nishvasamukha 1.88

क्षीरेण स्नापयेल् लिङ्गङ् कृष्णाष्टमिचतुर्द्दशी ।
यावज्जीवकृतात् पापान् मुच्यते नात्र संशयः ॥ १:८८ ॥

Nishvasamukha 1.89

मासैकं [[((स्नाप))]]येद् यस् तु सर्व्वपापसमन्वितः ।
मुच्यते तैस् तु पापैस् तु शिवसायोज्यतां व्रजेत् ॥ १:८९ ॥

Nishvasamukha 1.90

षण्मासान् स्नापयेद् यस् तु स गणश् चोत्तमो भवेत् ।
अब्दस्नानेन तस्यैव उद्धरेत् कुलसप्तकम् ॥ १:९० ॥

Nishvasamukha 1.91

त्र्यब्देन रुद्रसायोज्यम् †उद्धरेण शिवात्मकम्† ।
द्वादशाब्दान् स्नयेद् यस् तु सततम् भक्तिसंयुतः ॥ १:९१ ॥

Nishvasamukha 1.92

कुलकोटिशतं साग्रं नरकात् तारयिष्यति ।
क्षीरस्नानफलं ह्य् एतद् घृतस्नानोपरि स्थितम् ॥ १:९२ ॥

Nishvasamukha 1.93

मधुना स्नापयेल् लिङ्गङ् कृष्णाष्टमिचतुर्द्दशी ।
राजसूयस्य यज्ञस्य फलम् प्राप्नोति मानवः ॥ १:९३ ॥

Nishvasamukha 1.94

प्रत्यहम् फलम् आप्नोति अब्देनैव गणेश्वरः ।
पञ्चाब्देनैव सायोज्यङ् गच्छते पितृभिः सह ॥ १:९४ ॥

Nishvasamukha 1.95

[[((पञ्चगव्येन स्नानं तु प्रत्यहम्))]] --- ।
⟪न तस्य दृश्यते चान्तं देवलोकञ् च⟫ गच्छति ॥ १:९५ ॥

Nishvasamukha 1.96

संवत्सरेण शुद्धात्मा शिवसायोज्यताम् व्रजेत् ।
वर्षद्वयेन पितरः सप्त चैवोद्धृताः स्मृताः ॥ १:९६ ॥

Nishvasamukha 1.97

गन्धैश् च लेपयेल् लिङ्गन् दिव्यैश् चैव सुगन्धकैः ।
वाजपेयस्य यज्ञस्य फलम् प्राप्नोति मानवः ॥ १:९७ ॥

Nishvasamukha 1.98

कर्प्पूरव्यतिमिश्रेण चन्दनेन ⟪तु लेपयेत्⟫ ।
अश्वमेधफलञ् चैव दशरात्रेण प्राप्नुयात् ॥ १:९८ ॥

Nishvasamukha 1.99

मासेन गणतां याति अब्दात् सायोज्यम् आप्नुयात् ।
अनन्ययोगो यो दद्यात् प्रत्यहं लिङ्गलेपनम् ॥ १:९९ ॥

Nishvasamukha 1.100

पितरस् तस्य ते सर्व्वे गतिं यास्यन्ति चोत्तमाम् ।
गुग्गुलुन् दहते यस् तु देवदेवस्य सन्निधौ ॥ १:१०० ॥

Nishvasamukha 1.101

सकृद्धूपेन प्राप्नोति अग्निष्टोमस्य यत् फलम् ।
सततन् दहते यस् तु ⟪धूपङ् गुग्गुलुम्⟫ उत्तमम् ॥ १:१०१ ॥

Nishvasamukha 1.102

मासैकेन प्राप्नोति क्रतूनां शतम् एव तु ।
षण्मासन् तु दहेद् यस् तु स गणश् चोत्तमो भवेत् ॥ १:१०२ ॥

Nishvasamukha 1.103

न तस्य सम्भवो मर्त्ये पितृभिस् सह मोदते ।
अब्दम् एकन् दहेद् यस् तु शुचिर् भूत्वा दिने दिने ॥ १:१०३ ॥

Nishvasamukha 1.104

स्वकुलञ् चोद्धृतन् तेन शिवभक्तेन धीमता ।
वस्त्रध्वजवितानं वा यो दद्याल् लिङ्गसन्निधौ ॥ १:१०४ ॥

Nishvasamukha 1.105

स लभेत् परमैश्वर्यं जायते चोत्तमे कुले ।
सकृद्दानफलं ह्य् एतद् द्विस् त्रिधा गतिर् उत्तमा ॥ १:१०५ ॥

Nishvasamukha 1.106

प्राप्नुयान् मानवः शीघ्रं सोमलोकन् न संशयः ।
शतसाहस्रदानेन गतिर् गाणेश्वरी भवेत् ॥ १:१०६ ॥

Nishvasamukha 1.107

पितृभिस् संयुतैश् चैव लक्षदानान् न संशयः ।
घण्टां हेममयाङ् कृत्वा यो ददाति शिवस्य तु ॥ १:१०७ ॥

Nishvasamukha 1.108

तेन पुण्यफलेनैव शिवलोके महीयते ।
रौप्यान् ताम्रन् तथा कांस्यां रैत्यां वा त्रापुषाम् अपि ॥ १:१०८ ॥

Nishvasamukha 1.109

मृन्मयां वा तथा कुर्यात् सुलोलां सुस्वराम् पुनः ।
शिवागारे तु यो दद्यात् स सर्व्वः स्वर्ग्गगोचरः ॥ १:१०९ ॥

Nishvasamukha 1.110

स्वर्ग्गलोकात् परिभ्रष्टो जायते पृथिवीपतिः ।
श्वेतं रक्तं तथा पीतङ् कृष्णं वा चामरं ददेत् ॥ १:११० ॥

Nishvasamukha 1.111

हेमदण्डन् तु रौप्यं वा रैत्यन् त्रापुषम् एव वा ।
ईदृशञ् चामरं दत्वा रुद्रलोके [[((महीयते ॥ १:१११ ॥

Nishvasamukha 1.112

रुद्रलोका))]]त् परिभ्रष्टो वायुलोकम् उ[[((पाग))]]तः ।
वायुलोकात् परिभ्रष्टो वह्निलोकम् उपागतः ॥ १:११२ ॥

Nishvasamukha 1.113

वह्निलोकात् परिभ्रष्टो जायते पृथिवीपतिः ।
ब्राह्मणो राज्यसम्पन्नो विद्वांश् च ज्ञानपारगः ॥ १:११३ ॥

Nishvasamukha 1.114

तेन पुण्यफलेनैव सर्व्वम् एतद् भवेद् इह ।
मेखलां कटिसूत्रञ् च यो दद्याल् लिङ्गमूर्द्धनि ॥ १:११४ ॥

Nishvasamukha 1.115

चतुस्सागरसंयुक्तपृथिव्या भवतीश्वरः ।
मुकुटङ् कुण्डलञ् चैव चित्रपट्टप्रदायिनः ॥ १:११५ ॥

Nishvasamukha 1.116

सकलान् तु महीम् भुङ्क्ते अङ्गाभरणदायकः ।
मुखकोशे तथेवेह पट्टे प्रादेशिको नृपः ॥ १:११६ ॥

Nishvasamukha 1.117

विचित्रैश् चित्रभोगानि निःसपत्नानि भुञ्जते ।
पुनः पुनश् च यो [[द]]द्याद् रत्नाभरणभूषणम् ॥ १:११७ ॥

Nishvasamukha 1.118

गाणपत्यम् अवाप्नोति अक्षयं ध्रुवम् अव्ययम् ।
मुक्तिमण्डपदानेन भक्त्या तु यो ऽर्च्चयेच् छिवम् ॥ १:११८ ॥

Nishvasamukha 1.119

न तस्य पुनरावृत्तिर् गणैश् चोत्तमो भवेत् ।
रोचनाकुङ्कुमैश् चैव लिङ्गस्योपरि यो नरः ॥ १:११९ ॥

Nishvasamukha 1.120

प्रत्यहं लेपनन् दद्यात् स विद्याधरतां व्रजेत् ।
द्वादशाब्देन गणताङ् कर्प्पूरागरुलेपनैः ॥ १:१२० ॥

Nishvasamukha 1.121

कटकेयूरदानेन आधिपत्यं मनोमतम् ।
प्राप्नुवन्ति नरा लोके शिवभक्तिपरायणाः ॥ १:१२१ ॥

Nishvasamukha 1.122

[[((रत्नद))]] --- [३] --- कन् तु यो ददाति शिवस्य तु ।
दशसौवर्ण्णिकं पुष्पन् निर्ग्गन्धैश् चैव यद् भवेत् ॥ १:१२२ ॥

Nishvasamukha 1.123

शतसाहस्रिका माला अनन्तं लिङ्गपूरणे ।
निर्ग्गन्धैः कुसुमैर् एष विधिः ख्यातो द्विजोत्तमाः ॥ १:१२३ ॥

Nishvasamukha 1.124

शोभनैर् दिव्यगन्धाढ्यैः शृणु तस्यापि यत् फलम् ।
एकपुष्पप्रदानेन अशीतिकल्पकोटयः ॥ १:१२४ ॥

Nishvasamukha 1.125

दुर्गतिन् नाभिजायेत लिङ्गार्च्चायास् तु तत् फलम् ।
अकामाद् अर्च्चिते लिङ्गे ह्य् एतद् उक्तम् महत् फलम् ॥ १:१२५ ॥

Nishvasamukha 1.126

कामेनाभ्यर्च्च्यमानस्य शृणु तस्यापि यत् फलम् ।
बुकस्य करवीरस्य अर्क्कस्योन्मत्तकस्य च ॥ १:१२६ ॥

Nishvasamukha 1.127

चतुर्ण्णाम् पुष्पजातीनां सर्व्वम् आयाति शङ्करः ।
बुकेन वरदो देवः करवीरैर् द्धनप्रदः ॥ १:१२७ ॥

Nishvasamukha 1.128

अर्क्केण प्रियम् अन्विच्छन् मोक्षं धुत्तूरकेण तु ।
नीलोत्पलैर् भ(([[वेद् योगी]])) यो ⟪ऽर्च्चयेल् लि⟫ङ्गम् उत्तमम् ॥ १:१२८ ॥

Nishvasamukha 1.129

पद्मेन तु तथा राज्यं पुण्डरीकैश् च चक्रिणः ।
चम्पकैः सर्व्वकामानि पुन्नागैर् न्नागकेशरैः ॥ १:१२९ ॥

Nishvasamukha 1.130

ईप्सितां लभते कामांस् तथा केसरदामकैः ।
मन्त्रसिद्धिम् अवाप्नोति बृहत्यागस्तिपुष्पकैः ॥ १:१३० ॥

Nishvasamukha 1.131

यो ऽर्च्चयेत् परमेशानं सिद्धकेन समाहितः ।
सर्व्वकामान् अवाप्नोति यो ऽर्च्चयेद् गन्धपुष्पकैः ॥ १:१३१ ॥

Nishvasamukha 1.132

⟪कुब्जकैर् विपुलो लाभः⟫ सौभाग्याय च वारुणी ।
कन्याकामस् तु जातीभिर् यो ऽर्च्चयेत् परमेश्वरम् ॥ १:१३२ ॥

Nishvasamukha 1.133

स लभेद् उत्तमाङ् कन्यां षण्मासेन न संशयः ।
मल्लिकैर् ज्ज्ञानकामाय अर्च्चयेद् यो महेश्वरम् ॥ १:१३३ ॥

Nishvasamukha 1.134

लभेत परमज्ञानं संसारभयनाशनम् ।
पुत्रकामाय कुन्दैस् तु ⟪अर्च्चयीत शुचिर् नरः⟫ ॥ १:१३४ ॥

Nishvasamukha 1.135

⟪लभते बहुपुत्रत्वं धनवन्ताञ् चिरायुषम्⟫ ।
आरोग्यङ् कुशपुष्पैस् तु अशोकैः प्रियसङ्गमम् ॥ १:१३५ ॥

Nishvasamukha 1.136

कर्ण्णिकारैर् द्धनं विन्द्याद् वश्यार्थं द्रोणपुष्पिका ।
कदम्बेनार्च्चयेल् लिङ्गं सततन् नियतव्रतः ॥ १:१३६ ॥

Nishvasamukha 1.137

शत्रूणां वशकामाय नित्यम् एव प्रदापयेत् ।
नश्यन्ति व्याधयस् तस्य यो ऽर्च्चयेद् ⟪रिसुस्तकैः⟫ ॥ १:१३७ ॥

Nishvasamukha 1.138

⟪सिन्धुवारस्य पुष्पेण बद्धो मुच्येत बन्धनात्⟫ ।
अङ्कोटकाश् च निर्ग्गन्ध्याः कृष्णाश् चैव तु ये स्मृताः ॥ १:१३८ ॥

Nishvasamukha 1.139

तान् पुष्पाञ् छत्रुनाशाय देवदेवाय कल्पयेत् ।
पीतकानि तु पुष्पाणि पुष्ट्यर्थे विजयाय च ॥ १:१३९ ॥

Nishvasamukha 1.140

नित्यम् एवन् तु यो दद्यात् सर्व्वकामान् अवाप्नुयात् ।
सौगन्धिकाद्या जलजा वश्यार्थे तु प्रकल्पयेत् ॥ १:१४० ॥

Nishvasamukha 1.141

नीलरक्तानि पुष्पाणि नित्याकर्षकराणि तु ।
सर्व्वकामप्रदो बिल्वो दारिद्र्यस्य प्रणाशकः ॥ १:१४१ ॥

Nishvasamukha 1.142

बिल्वपत्रात् परन् नास्ति येन तुष्यति शङ्करः ।
जयार्थन् दमनकं स्याद् यो ऽर्च्चयेत् परमेश्वरम् ॥ १:१४२ ॥

Nishvasamukha 1.143

निर्ज्जिताः शत्रवस् तेन यो ऽर्च्चयेत वृषध्वजम् ।
मरुवः सर्व्वसौख्यानि जम्बुतः सर्व्वकामदः ॥ १:१४३ ॥

Nishvasamukha 1.144

तिलको धनकामाय गोकामाय च आङ्कुली ।
सौभाग्यदश् च तगरः किङ्किराटश् च कामदः ॥ १:१४४ ॥

Nishvasamukha 1.145

आरोग्यञ् च धनञ् चैव प्रियङ्कुश् चैव ईप्सितम् ।
शालः प्रियङ्करश् चैव किंशुको ह्य् आयुवर्द्धनः ॥ १:१४५ ॥

Nishvasamukha 1.146

हस्त्यश्वपशुकामाय कुटजेनार्च्चयेद् धरम् ।
कर्प्पूरदमकौ योज्यौ शत्रूणाञ् च विनाशने ॥ १:१४६ ॥

Nishvasamukha 1.147

नश्यन्ति शत्रवः शीघ्रन् देवदेवस्य पूजनात् ।
श्यामा चारोग्यदा नित्यं जवपुष्पस् तथैव च ॥ १:१४७ ॥

Nishvasamukha 1.148

केरजकश् च वश्यार्थे नित्यं लिङ्गम् प्रपूजयेत् ।
विद्वेषे यूथिका प्रोक्ता अर्च्चायाम् परमेश्वरे ॥ १:१४८ ॥

Nishvasamukha 1.149

केतकी शत्रुनाशाय क्रुद्धो लिङ्गन् तु यो ऽर्च्चयेत् ।
सर्व्वकामप्रदो ह्य् एष व्याघ्रो देवि प्रकीर्त्तितः ॥ १:१४९ ॥

Nishvasamukha 1.150

ज्योत्स्नाकारी तथेवेह नित्यम् एव हि कामदा ।
वासकेनार्च्चयेद् देवं बलम् आयुश् च वर्द्धते ॥ १:१५० ॥

Nishvasamukha 1.151

झण्टिका सुखदा नित्यन् तथा चाप्सरचम्पकम् ।
डित्वाक्षी व्याधिनाशाय अश्वकर्ण्णस् तथैव च ॥ १:१५१ ॥

Nishvasamukha 1.152

जयन्ती जयकामाय श्वेता च गिरिकर्ण्णिका ।
विद्वेषोच्चाटनार्थाय निम्बपुष्पैस् तु यो ऽर्च्चयेत् ॥ १:१५२ ॥

Nishvasamukha 1.153

भटीम् आकर्षणे प्रोक्ता मदयन्ती च या भवेत् ।
ऋषिपुष्पो रुद्रजटा नाशयेत उपद्रवान् ॥ १:१५३ ॥

Nishvasamukha 1.154

शणपुष्पी च या प्रोक्ता कोकिलाक्षा तथैव च ।
सर्व्वे शुक्लास् तु शान्त्यर्थे सर्व्वे पीतास् तु पौष्टिके ॥ १:१५४ ॥

Nishvasamukha 1.155

नीलरक्तास् तु ये पुष्पा अर्च्चने परिकल्पिताः ।
वश्याकर्षणम् एवं हि सर्व्वै तैः परिकल्पयेत् ॥ १:१५५ ॥

Nishvasamukha 1.156

कृष्णाश् चैवाभिचारे तु देवदेवाय कल्पयेत् ।
पत्रपुष्पं फलतोयन् तृणञ् चैव तथा पयः ॥ १:१५६ ॥

Nishvasamukha 1.157

प्रत्यहं शङ्करे दद्यात् नासौ दुर्गतिम् आप्नुयात् ।
यस्य वृक्षस्य पत्राणि पुष्पाणि च फलानि च ॥ १:१५७ ॥

Nishvasamukha 1.158

महादेवाय युक्तानि सो ऽपि याति पराङ् गतिम् ।
करवीराच् छतगुणम् अर्क्कबिल्वस् तथैव च ॥ १:१५८ ॥

Nishvasamukha 1.159

बिल्वाद् बुकं सहस्रेण बुकाद् धुत्तूरको वरः ।
एवम् अभ्यर्च्च्य देवेशं नैवेद्यञ् च प्रकल्पयेत् ॥ १:१५९ ॥

Nishvasamukha 1.160

अन्ननैवेद्यदानेन लभते सुखम् अक्षयम् ।
देवलोकम् अनुप्राप्तिर् भक्षदानात् तथैव च ॥ १:१६० ॥

Nishvasamukha 1.161

लभते शिवम् ऐश्वर्यं [[((भ))]]क्षनैवेद्यदायकः ।
सघृतम् पायसन् दद्यान् नैवेद्यं शम्भवे सदा ॥ १:१६१ ॥

Nishvasamukha 1.162

गाणपत्यं लभेच् छीघ्रं द्वादशाब्दङ् कुलैस् सह ।
खण्डखाद्यकृतन् दद्यात् प्राप्नुयाद् गतिम् उत्तमाम् ॥ १:१६२ ॥

Nishvasamukha 1.163

भक्ष्यभोज्यानि दत्त्वा वै सर्व्वकामान् अवाप्नुयात् ।
यवागूकृसरम् पूपान् दत्त्वा तु सुखभाग् भवेत् ॥ १:१६३ ॥

Nishvasamukha 1.164

मण्डकां सुसुमालांश् च शष्कुल्यामोदकानि च ।
अन्यानि फलमूलानि लेह्यचोष्याणि यानि च ॥ १:१६४ ॥

Nishvasamukha 1.165

दत्त्वा सर्व्वसुखावाप्तिर् अनन्तङ् गीतवादिते ।
सकृत्कृत्वा फलं ह्य् एतत् तन्त्रीवाद्यस्य मे शृणु ॥ १:१६५ ॥

Nishvasamukha 1.166

कृत्वासौ गणतां याति तन्त्रीवाद्यस्य वादकः ।
हुडुङ्कारस्य नृत्यस्य मुखवाद्याट्टहासयोः ॥ १:१६६ ॥

Nishvasamukha 1.167

त्रिकालञ् चैव कुर्व्वाणो भवेद् गणः स चोत्तमः ।
एककालं द्विकालं वा त्रिकालं वापि नित्यशः ॥ १:१६७ ॥

Nishvasamukha 1.168

ये स्मरन्ति विरूपाक्षं विज्ञेयास् ते गणेश्वराः ।
षष्टितीर्थसहस्राणि षष्टिकोटिस् तथैव च ॥ १:१६८ ॥

Nishvasamukha 1.169

लिङ्गप्रणामम् एकस्य कलान् नार्हति षोडशीम् ।
एवं यः पूजयेद् अज्ञः शिवदीक्षाविवर्ज्जितः ।
तस्येदं फलम् उद्दिष्टम् अपवर्ग्गाय दीक्षिते ॥ १:१६९ ॥

Nishvasamukha 1.170

⟪श्रुतम् एतन् मया विप्रा देव्यै कथयतो⟫ हरात् ।
मयापि कथितन् तुभ्यं सत्यम् ईशानभाषितम् ॥ १:१७० ॥

Nishvasamukha 1 – Sprecherangabe vor 1.171

ऋषय ऊ ॥

Nishvasamukha 1.171

किं लिङ्गस्येह माहात्म्यं यत् त्वया चातिवर्ण्णितम् ।
कृत्वा चैव फलम् ब्रूहि यः करोति दिने दिने ॥ १:१७१ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.172

नन्दिकेश्वर ऊ ॥

Nishvasamukha 1.172

[[((ब्रह्माविष्णुवादन् तु पू))]]र्व्ववृत्तं हि यद् भवेत् ।
अहङ् कारणकर्त्तेति जले तेजस्समुत्थितम् ॥ १:१७२ ॥

Nishvasamukha 1.173

तेजोमध्ये स्थितं लिङ्गम् पर्व्वाङ्गुष्ठप्रमाणतः ।
उभौ तौ विस्मितौ तत्र किम् एतच् चाद्भुतम् भवेत् ॥ १:१७३ ॥

Nishvasamukha 1.174

उभौ तौ दृष्टुम् आरब्धौ ततो लिङ्गं विवर्द्धितम् ।
आश्चर्यम् इति सञ्चिन्त्य अधश् चोर्द्ध्वङ् गताव् उभौ ॥ १:१७४ ॥

Nishvasamukha 1.175

⟪अधो गतस् ततो विष्णुर्⟫ ऊर्ध्वम् ब्रह्मा ततो गतः ।
अन्तञ् चास्य न पश्यन्तौ खिन्नाव् एताव् उभाव् अपि ॥ १:१७५ ॥

Nishvasamukha 1.176

पुनश् चैव समागम्य स्तोत्रेण तुष्टुवे हरम् ।
ततस् तुष्टो महादेवो वरन् दत्त्वा उभाव् अपि ॥ १:१७६ ॥

Nishvasamukha 1.177

पुरुषरूपी स्थितो भूत्वा यद् अभीष्टन् ददामि ते ।
ब्रह्मा वदति पुनस् तु त्वम् एव भव सुव्रत ॥ १:१७७ ॥

Nishvasamukha 1.178

एवम् अस्त्व् अब्रवीद् देवः ⟪किन् त्व् अपूज्यो भविष्यसि⟫ ।
अननुरूपं यस्माद् धि वरन् ते काङ्क्षितं द्विज ॥ १:१७८ ॥

Nishvasamukha 1.179

विष्णो ददामि ते ह्य् अद्य वरम् इष्टं वदस्व मे ।
मम वाक्यम् अमिथ्यं हि ब्रूहि यत् ते ऽभिकाङ्क्षितम् ॥ १:१७९ ॥

Nishvasamukha 1 – Sprecherangabe vor 1.180

विष्णुर् उवाच ।

Nishvasamukha 1.180

यदि तुष्टो ऽसि मे देव वरं मे दातुम् इच्छसि ।
त्वद्भक्तस् त्वत्प्रियश् चैव भविष्यामि न संशयः ॥ १:१८० ॥

Nishvasamukha 1 – Sprecherangabe vor 1.181

ईश्वर उवाच ।

Nishvasamukha 1.181

एवम् भवतु ⟪भद्रन् ते⟫ रुद्रनारायणी प्रजा ।
उभयोर् अन्तरन् नास्ति केशवस्य हरस्य च ॥ १:१८१ ॥

Nishvasamukha 1.182

एष एव हि लिङ्गन् तु स्थापितम् ब्रह्मविष्णुना ।
सेन्द्रैर् देवैश् च असुरैः सयक्षोरगराक्षसैः ॥ १:१८२ ॥

Nishvasamukha 1.183

सिद्धैर् विद्याधरैर् भूतैर् अप्सरोरगकिन्नरैः ।
पिशाचैर् ग्रहनक्षत्रैस् तथा च मुनिसत्तमैः ॥ १:१८३ ॥

Nishvasamukha 1.184

संपूज्य वरदन् देवं वरं लब्ध्वा तु रेमिरे ।
सर्व्वकामप्रदं लिङ्गम् एतद् उक्तो मयानघाः ॥ १:१८४ ॥

Nishvasamukha 1.185

ब्रह्माविष्णुमहेन्द्रनागमुनयो यक्षास् सविद्याधराः
संसारार्ण्णवदुःखभीतमनसो लिङ्गार्च्चने तत्पराः ।
स्तुन्वन्ते च वरार्थिनो -र्- अहरहः कृत्वाञ्जलिम् मस्तके
ये मर्त्या न नमन्ति ईदृशम् अजङ् क्षेमन् तु तेषां कुतः ॥ १:१८५ ॥

Nishvasamukha 1 – Kolophon

॥ ⊗ ॥ [[((इति))]] निश्वासमुखतत्त्वसंहितायां लौकिके धर्म्मे प्रथमः पटलः ॥ ⊗ ॥

Nishvasamukha 1 – Zählvermerk

श्लोकशतं सप्ताशीत्यधिकम् ॥ ⊗ ॥

Kapitel 2

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nishvasamukha 2 – Titel

निश्वासमुखतत्त्वसंहितायां द्वितीयः पटलः ॥

Nishvasamukha 2 – Sprecherangabe vor 2.1

ऋषय ऊ ॥

Nishvasamukha 2.1

कृतस्यैव तु लिङ्गस्य स्थापितस्य तु यत् फलम् ।
प्रत्यहङ् कुरुते यस् तु किं वा तस्य फलम् भवेत् ॥ २:१ ॥

Nishvasamukha 2 – Sprecherangabe vor 2.2

नन्दिर् उवाच ।

Nishvasamukha 2.2

क्रीडमानास् तु ये बाला लिङ्गङ् कुर्व्वन्ति पांशुना ।
लभ्यन्त्य् एकान्ततो राज्यं निस्सपत्नम् अकण्टकम् ॥ २:२ ॥

Nishvasamukha 2.3

प्रत्यहङ् कुरुते यस् तु विधिम् एतद् अजानता ।
केवलाम् भक्तिम् आलम्ब्य शृणु तस्यापि यत् फलम् ॥ २:३ ॥

Nishvasamukha 2.4

धनम् भोगां तथा राज्यं यः कृत्वा पूजयेच् छिवम् ।
लिङ्गपूजयिता नित्यं महतीं श्रियम् अश्नुते ॥ २:४ ॥

Nishvasamukha 2.5

सहस्रम् अर्च्चयन् विद्यान् निरयन् तु पश्यति ।
रुद्रलोकम् अवाप्नोति भुक्त्वा भोगान् अनिन्दितान् ॥ २:५ ॥

Nishvasamukha 2.6

लक्षन् तु कुरुते यस् तु तस्यैकञ् ज्वलते ध्रुवम् ।
दृष्ट्वा लिङ्गञ् ज्वलन् तन् तु सिद्धो देवत्वम् आप्नुयात् ॥ २:६ ॥

Nishvasamukha 2.7

लक्षैर् दशभिर् इन्द्रत्वं ब्रह्मत्वं विंशभिः स्मृतम् ।
विष्णुत्वन् त्रिंशभिर् लक्षै रुद्रत्वन् तु चतुर्गुणैः ॥ २:७ ॥

Nishvasamukha 2.8

पञ्चगव्येन संमार्ज्ज्य मृदा लिङ्गन् तु कारयेत् ।
अन्नलिङ्गन् तु कुर्व्वाणो लभते ईप्सितं फलम् ॥ २:८ ॥

Nishvasamukha 2.9

गुडलिङ्गं समभ्यर्च्च्य लभेत् सौभाग्यम् उत्तमम् ।
कन्याशतपतिश् चैव प्रातिराज्येश्वरो भवेत् ॥ २:९ ॥

Nishvasamukha 2.10

नारी च स्त्रीसहस्रेण समन्तात् परिवारिता ।
लभेत् सौभाग्यम् अतुलं सर्व्वेषाम् उपरि स्थिता ॥ २:१० ॥

Nishvasamukha 2.11

नन्दते पुत्रपौत्रैश् च सुखञ् चात्यन्तम् अश्नुते ।
अर्च्चयेन् नरनारी वा गुडलिङ्गन् तु नित्यशः ॥ २:११ ॥

Nishvasamukha 2.12

सितेन कृत्वा लिङ्गन् तु प्रत्यहं यस् समर्च्चयेत् ।
सर्व्वकामान् अवाप्नोति मासैः षड्भिर् न संशयः ॥ २:१२ ॥

Nishvasamukha 2.13

नवनीतमये लिङ्गे लभते ईप्सितं फलम् ।
षण्मासेनैव युक्तात्मा शिवलोकं स गच्छति ॥ २:१३ ॥

Nishvasamukha 2.14

प्र⟪त्यहम् पत्रलि⟫ङ्गन् तु तु यः कृत्वा तु समर्च्चयेत् ।
लभेन् महान्तम् ऐश्वर्यम् भुङ्क्ते च निरुजः सदा ॥ २:१४ ॥

Nishvasamukha 2.15

पृथिव्या आधिपत्यन् तु पुष्पलिङ्गस्य पूजनात् ।
लभते निस्सपत्नस् तु भुङ्क्ते चैव ददाति च ॥ २:१५ ॥

Nishvasamukha 2.16

लावणेन तु लिङ्गेन लभेत् सौभाग्यम् उत्तमम् ।
नित्यैश्वर्यम् अखण्डञ् च प्रत्यहं यो ऽभिपूजयेत् ॥ २:१६ ॥

Nishvasamukha 2.17

सच्चकेन ⟪तु लिङ्गानि⟫ पार्थिवानि तु कारयेत् ।
सहस्रपूजनात् सो हि लभते ईप्सितं फलम् ॥ २:१७ ॥

Nishvasamukha 2.18

लक्षेणैकेन गणतां कोटिम् अभ्यर्च्च्य गच्छति ।
स्वशरीरेण सायोज्यम् पुनश् च न निवर्त्तते ॥ २:१८ ॥

Nishvasamukha 2.19

एतान्य् एव समभ्यर्च्च्य सदेवासुरमानुषाः ।
सर्व्वकामसमृद्धाश् च सुखदुःखविवर्ज्जिताः ॥ २:१९ ॥

Nishvasamukha 2.20

ईश्वरस्य प्रसादेन क्रीडन्ते अणिमादिभिः ।
अष्टेष्टकसमायुक्तं ये कुर्व्वन्ति शिवालयम् ॥ २:२० ॥

Nishvasamukha 2.21

तावन्तो दिवि तिष्ठन्ति यावद् इन्द्राश् चतुर्द्दश ।
मणिरत्नप्रवालानि स्फटिर् मरकतानि च ॥ २:२१ ॥

Nishvasamukha 2.22

काचहेम⟪जरौप्याणि⟫ ताम्रकांस्यानि ⟪यानि तु ।
रैत्यलोहक⟫सीस्यानि त्रापुषाणि तथैव च ॥ २:२२ ॥

Nishvasamukha 2.23

पुनश् चैतानि चाभ्यर्च्च्य भुक्त्वा कामाञ् छिवम् व्रजेत् ।
न तस्य पुनरावृत्तिर् यो लिङ्गं स्थापयेद् भुवि ॥ २:२३ ॥

Nishvasamukha 2.24

कृत्वा प्रासादमध्ये तु स शिवो नात्र संशयः ।
दशाम्रवापी घोराणि नरकाणि न पश्यति ॥ २:२४ ॥

Nishvasamukha 2.25

आरामस्यैव यः कर्त्ता स्वर्ग्गे मोदति चेन्द्रवत् ।
लक्षादींश् च तथा वृक्षां पथि कुर्व्वन्ति ये नराः ॥ २:२५ ॥

Nishvasamukha 2.26

छायाभिः शीतलाभिश् च ते यान्ति यमसादनम् ।
याम्यदुःखानि घोराणि न च तेषाम् भवन्ति हि ॥ २:२६ ॥

Nishvasamukha 2.27

वृक्षवापनधर्म्मो ऽयम् एष ते परिकीर्त्तितः ।
प्रासादङ् कारयित्वा तु विष्णुं ये स्थापयन्ति हि ॥ २:२७ ॥

Nishvasamukha 2.28

विष्णुलोकम् व्रजन्त्य् एते मोदन्ते विष्णुना सह ।
ब्रह्माणं स्कन्दं रुद्राणीङ् गणेशम् मातरं रविम् ॥ २:२८ ॥

Nishvasamukha 2.29

वह्निं शतक्रतुं यक्षं वायुं धर्म्मञ् जलेश्वरम् ।
यो यस्य स्थापनङ् कुर्यात् प्रासादे तु सुशोभने ॥ २:२९ ॥

Nishvasamukha 2.30

पूजये परया भक्त्या सो ऽमृतो ह्य् अस्य लोकताम् ।
असङ्क्रमपथे यस्तु सङ्क्रमङ् कारयिष्यति ॥ २:३० ॥

Nishvasamukha 2.31

धर्म्मराजपथे सो हि सुपथेनैव गच्छति ।
नदीं वैतरणीञ् चैव -म्- उष्णतोयाम् महारवाम् ॥ २:३१ ॥

Nishvasamukha 2.32

गम्भीरावर्त्तदुस्तारां सन्तरेत् सङ्क्रमेण तु ।
सेतुबन्धन् तु यः कुर्यात् कर्द्दमे पथि दारुणे ॥ २:३२ ॥

Nishvasamukha 2.33

धर्म्मराजपुरे सो हि दुर्ग्गमे सुखयात्य् असौ ।
पङ्कलेपश् च नरकस् तप्तत्रपुजतुश् च यः ॥ २:३३ ॥

Nishvasamukha 2.34

सन्तरेन् नरकान् घोरान् नालीमार्गप्रयायिनः ।
मठस्यावसथ्य् अस्यैव मण्डपस्य च कारिणः ॥ २:३४ ॥

Nishvasamukha 2.35

धर्म्मराजपुरङ् गत्वा स्वर्ग्गे हेममयङ् गृहम् ।
तप्ताङ्गारशिलावर्षे न भयन् तस्य विद्यते ॥ २:३५ ॥

Nishvasamukha 2.36

मठस्यावसथ्य् अस्यैव मण्डपस्य च यत् फलम् ।
कथितं सर्व्वम् एतन् तु दानस्य तु फलं शृणु ॥ २:३६ ॥

Nishvasamukha 2.37

अन्नदाता नरो यो हि नासौ दुर्ग्गतिम् आप्नुयात् ।
अक्षयं सुखम् आप्नोति ब्रह्मलोकगतो भवेत् ॥ २:३७ ॥

Nishvasamukha 2.38

न तस्य सम्भवो मर्त्त्ये यावद् ब्रह्मा न नश्यति ।
यस् तु ग्रीष्मे प्रपान् दद्यात् तृष्णार्त्ते पथिके जने ॥ २:३८ ॥

Nishvasamukha 2.39

ते तृप्ताः प्रेतभवने तृषाद्वन्द्वविवर्ज्जिताः ।
देवान् पितॄन् समुद्दिश्य यो ददाति तिलोदकान् ॥ २:३९ ॥

Nishvasamukha 2.40

तृप्तास् तु पितरस् तस्य वर्ज्जिता नरकैस् त्रिभिः ।
सपूयासृग्मेदह्रदे न निमज्जन्ति ते नराः ॥ २:४० ॥

Nishvasamukha 2.41

पितरस् तु ⟪विमुक्ताः स्युः⟫ तिलोदकफलेन तु ।
अजिनं तिलपूर्णन् तु रौप्यखुरसमन्वितम् ॥ २:४१ ॥

Nishvasamukha 2.42

हेमशृङ्गं सचैलाङ्गङ् कान्सदोहन् तु यो ददेत् ।
अक्षयां लभते लोकांस् तिलधेनुप्रदायसौ ॥ २:४२ ॥

Nishvasamukha 2.43

युगान्ते च परिभ्रष्टो जायते विपुले कुले ।
श्राद्धङ् कुर्व्वन्ति ये नित्यं पितृभक्ता हि मानवाः ॥ २:४३ ॥

Nishvasamukha 2.44

तेषान् तृप्ता हि पितरः स च तृप्तो यमालये ।
कुम्भीपाकन् तु निरयञ् च तस्य भविष्यति ॥ २:४४ ॥

Nishvasamukha 2.45

पितृलोकञ् च यास्यन्ति श्राद्धकारयिता नराः ।
पितॄन् देवान् समुद्दिश्य नित्यन् दीपप्रदायिनः ॥ २:४५ ॥

Nishvasamukha 2.46

तामिस्रम् अन्धतामिस्रौ नरका न भवन्ति हि ।
लोचने शोभने तस्य दृक्छक्तिश् च न नश्यते ॥ २:४६ ॥

Nishvasamukha 2.47

रौप्यखुरां हेमशृङ्गां रताङ्गीङ् कांस्यदोहनीम् ।
चैलगण्डान् तु यो दद्याद् भूयो भूयो गुणान्विताम् ॥ २:४७ ॥

Nishvasamukha 2.48

गोलोके स्वर्ग्गलोके वा वासस् तेषाम् भविष्यति ।
सर्व्वद्वन्द्वविनिर्मुक्तो वसते गोप्रदायकः ॥ २:४८ ॥

Nishvasamukha 2.49

प्रसवन्तीं यो गान् दद्याद् वक्त्रोभयसुसंस्थिताम् ।
पृथ्वीदानफलं ह्य् एतत् स्वर्ग्गलोकञ् च गच्छति ॥ २:४९ ॥

Nishvasamukha 2.50

अनड्वाहानि बहुशो यः प्रयच्छेद् द्विजोत्तमे ।
तेन पुण्यफलेनैव स्वर्ग्गलोके महीयते ॥ २:५० ॥

Nishvasamukha 2.51

अजाम् सुवर्ण्णरोमाञ् च यः प्रयच्छति नित्यशः ।
अग्निलोकम् अवाप्नोति बहुपातकिको ऽपि यः ॥ २:५१ ॥

Nishvasamukha 2.52

श्वेतां रक्तान् तथा पीताङ् कृष्णां वा आविकन् ददेत् ।
देवान् पितॄन् समुद्दिश्य सोमलोकं स गच्छति ॥ २:५२ ॥

Nishvasamukha 2.53

पितॄन् देवान् समुद्दिश्य महिषीं यो ददे द्विजे ।
तेन पुण्य[[((फलेनैव))]] [[विष्णुलोके म]]हीयते ॥ २:५३ ॥

Nishvasamukha 2.54

श्वेताङ् कृष्णां सुशीलाञ् च सुधेनुम् भ्रमराकृतिम् ।
देवानां यः प्रयच्छेत अथवापि द्विजोत्तमे ॥ २:५४ ॥

Nishvasamukha 2.55

ईदृशीम् महिषीन् दत्त्वा शिवलोके महीयते ।
शिवलोकात् परिभ्रष्टो जायते च महीपतिः ॥ २:५५ ॥

Nishvasamukha 2.56

फालकृष्टां महीन् दद्यात् सबीजां सस्यमालिनीम् ।
[[या]]वत् सूर्यकृतां लोकां तावत् तिष्ठति सूर्यवत् ॥ २:५६ ॥

Nishvasamukha 2.57

भूमिदानाद् भवेत् स्वर्ग्गी रत्नदानाद् रवेः पुरम् ।
वस्त्रदः शशिलोके तु तारदो वैष्णवे पुरे ॥ २:५७ ॥

Nishvasamukha 2.58

तिलकाञ्चनदातारो यान्ति रुद्रस्य चालयम् ।
कांसताम्रप्रवालानि दत्त्वा यान्ति वसोः पुरम् ॥ २:५८ ॥

Nishvasamukha 2.59

मुक्तामणिविचित्राणि हारजातानि यान्य् अपि ।
दत्त्वा सोमपुरं याति तिलहोमाच् च संशयः ॥ २:५९ ॥

Nishvasamukha 2.60

गुडक्षीरदधिसर्पिर् यः प्रयच्छति नित्यशः ।
यक्षलोकपुरं याति मधुदानात् तथैव च ॥ २:६० ॥

Nishvasamukha 2.61

चन्दनागरुकर्पूरकक्कोललवङ्गकान् ।
दत्त्वान्यानि सुगन्धानि व्रजेद् गन्धर्व्वतां नरः ॥ २:६१ ॥

Nishvasamukha 2.62

अलङ्कृत्वा तु यो दद्यात् कन्याञ् चैव अयाचिताम् ।
स नरः स्वर्गम् आयाति यश् च धान्यप्रदायकः ॥ २:६२ ॥

Nishvasamukha 2.63

माषमुद्गादिकां व्रीहीन् नित्यम् एव प्रदायिनः ।
ते ऽपि स्वर्गम् प्रयास्यन्ति ये चान्ये अभयप्रदाः ॥ २:६३ ॥

Nishvasamukha 2.64

रूपयौवनसम्पन्नां वस्त्रालङ्कारभूषिताम् ।
स्त्रियञ् चैव प्रयच्छन्ति यान्ति वैद्याधरं पदम् ॥ २:६४ ॥

Nishvasamukha 2.65

रतिसत्रन् तु सततं वरनारीषु दापयेत् ।
ते ऽप्य् अप्सरसां सङ्घेषु मोदन्ते दिवि मानवाः ॥ २:६५ ॥

Nishvasamukha 2.66

वेत्रासनञ् च शय्याञ् च प्रतिवर्षप्रदायिनः ।
यक्षलोके तु मोदन्ते यक्षिणीभिस् सहस्रशः ॥ २:६६ ॥

Nishvasamukha 2.67

इन्धनानि तु यो दद्याद् विप्रेभ्यः शिशिरागमे ।
धनवान् रूपसम्पन्नो जायते सुभगस् तथा ॥ २:६७ ॥

Nishvasamukha 2.68

प्रतिश्रयन् तृणं शय्यां प्रावरान्नं हुताशनम् ।
प्रतिदिनम् प्रयच्छन्ते ते नराः स्वर्गगामिनः ॥ २:६८ ॥

Nishvasamukha 2.69

गीतवादित्रयानानि देवानान् नित्यदायिनः ।
ते जायन्ते महाभोगा गीतवादित्रबोधिताः ॥ २:६९ ॥

Nishvasamukha 2.70

रूपयौवनसम्पन्नं सप्तिं हेमविभूषितम् ।
प्रयच्छेद् द्विजमुख्येभ्यो ब्रध्नस्याप्नोति विष्टपम् ॥ २:७० ॥

Nishvasamukha 2.71

शारीसंयोगसंयुक्तम् इभङ् काञ्चनमालिनम् ।
दत्त्वा शक्रपुरं याति भ्रष्टो जायति भोगवान् ॥ २:७१ ॥

Nishvasamukha 2.72

आतपत्रप्रदानेन श्रीमाञ् जायत्य् असौ नरः ।
धर्म्मराजपुरङ् गच्छन् नातपेन तु पीड्यते ॥ २:७२ ॥

Nishvasamukha 2.73

उपानहौ तु यो दद्यात् सर्व्वान् मुच्यति किल्बिषात् ।
धर्म्मराजपथे तस्य अश्वो जायति शोभनः ॥ २:७३ ॥

Nishvasamukha 2.74

तप्तवालुकदुःखैस् तु कण्टकैश् च सुदारुणैः ।
न च तस्य भवेत् पीडा यो ददाति उपानहौ ॥ २:७४ ॥

Nishvasamukha 2.75

गजरथन् तु यो दद्याद् ब्राह्मणाय गुणान्विते ।
तेन पुण्यफलेनैव स्वर्ग्गलोके महीयते ॥ २:७५ ॥

Nishvasamukha 2.76

तावन् न च्यवते ⟪स्वर्ग्गाद् यावद् देवास् सवासवाः⟫ ।
ततश् चैव परिभ्रष्टो राजा भवति धार्म्मिकः ॥ २:७६ ॥

Nishvasamukha 2.77

दत्त्वा चाश्वरथन् दिव्यम् बहुद्रव्यसमन्वितम् ।
सूर्यलोकम् अवाप्नोति तेनैव सह मोदते ॥ २:७७ ॥

Nishvasamukha 2.78

यावत् सूर्यकृतां लोकां तावत् तिष्ठति सूर्यवत् ।
तत्र चैव परिभ्रष्टो धनवाञ् जायते पुनः ॥ २:७८ ॥

Nishvasamukha 2.79

अनड्वाहरथन् दत्त्वा ⟪सर्व्वद्रव्यसमन्वितम् ।
दासीदाससमोपेतः स्वर्ग्गम्⟫ आप्नोति मानवः ॥ २:७९ ॥

Nishvasamukha 2.80

परिभ्रष्टो हतो भूयो धनवाञ् जायते सदा ।
गवाङ् ग्रासन् तु यो दद्यात् प्रातर् उत्थाय मानवः ॥ २:८० ॥

Nishvasamukha 2.81

मन्त्रेणैव समायुक्तम् मुच्यते सर्व्वकिल्बिषैः ।
स्वर्गगामी च भवते परिभ्रष्टो महाधनः ॥ २:८१ ॥

Nishvasamukha 2.82

गवाढ्ये तु कुले जन्म गवाढ्यश् च भविष्यति ।
अमृतमथनोत्पन्ना सुरभी लोकधारिणी ॥ २:८२ ॥

Nishvasamukha 2.83

इदन् ग्रासङ् गृहाण त्वम् इदम् मे व्रतम् उत्तमम् ।
गवाङ् ग्रासं यथा देयं सौरभेये तथैव च ॥ २:८३ ॥

Nishvasamukha 2.84

तुल्यम् एतत् फलन् दृष्टङ् किन्तु मन्त्रम् पृथक् पृथक् ।
सर्व्वलोकधरा ह्य् एते जीवितान्नप्रदायकाः ॥ २:८४ ॥

Nishvasamukha 2.85

ग्रासङ् गृह्णन्तु हृष्टास् तु एतन् मे व्रतम् उत्तमम् ।
नित्यम् परगवे दद्याद् गृहीत्वा दुर्लभं व्रतम् ॥ २:८५ ॥

Nishvasamukha 2.86

रक्षन्ति च भयाघोरात् स्पर्शने पापनाशनाः ।
पुण्यकाले तु सम्प्राप्ते वृषोत्सर्गङ् करोति यः ॥ २:८६ ॥

Nishvasamukha 2.87

स याति रुद्रलोकन् तु यदि नीलो भविष्यति ।
नीलस्यैव अलाभे तु पितृभिस् सह संयुतः ॥ २:८७ ॥

Nishvasamukha 2.88

स्वर्ग्गलोकम् अवाप्नोति भ्रष्टो जायति भोगवान् ।
कपित्थन् दाडिमञ् चाम्रं जम्बूम् बिल्वन् तथैव च ॥ २:८८ ॥

Nishvasamukha 2.89

पनसम् मातुलुङ्गञ् च नारिकेलं समोचकम् ।
प्राचीनामलनारङ्गङ् द्राक्षा खर्ज्जूरम् एव च ॥ २:८९ ॥

Nishvasamukha 2.90

अन्यामृतफला ये च दत्त्वा तु सुभगो भवेत् ।
बहुपुत्रश् च रूपाढ्यः सुभगश् चैव जायते ॥ २:९० ॥

Nishvasamukha 2.91

सम्पूर्णाङ्गश् च निरुजो भवेत् फलप्रदायकः ।
दन्तधावनदाता च भार्य्यां लभति शोभनाम् ॥ २:९१ ॥

Nishvasamukha 2.92

ताम्बूलं सुरभिं पुष्पान् दत्त्वा जायति पण्डितः ।
सुगन्धास्य⟪श् च भवति⟫ वाग्मी गन्धप्रदायकः ॥ २:९२ ॥

Nishvasamukha 2.93

उपवीतम् बृसीन् दत्त्वा जायते ब्रह्मयोनिषु ।
खड्गचक्रायुधन् दत्त्वा शक्तिकुन्तपरश्वधान् ॥ २:९३ ॥

Nishvasamukha 2.94

असिपत्रवनाद् घोरान् न भयन् तस्य जायते ।
असंस्कृतस्य लोहस्य दानाद् बन्धभयञ् च न ॥ २:९४ ॥

Nishvasamukha 2.95

घटितोपस्करं लोहं दत्त्वा शस्त्रभयं न च ।
लोहकारश् च नरको न कदाचिद् भविष्यति ॥ २:९५ ॥

Nishvasamukha 2.96

मृन्मयानि कपालानि दत्त्वा चैव कमण्डलुम् ।
यतिदानम् इदं श्रेष्ठं दत्त्वा सुखम् अवाप्नुयात् ॥ २:९६ ॥

Nishvasamukha 2.97

⟪काञ्चनं रजतन् ताम्रम् भाण्डम् आयस⟫त्रापुषम् ।
अक्षयन् तद् भवेद् दानन् दीर्घम् आयुश् च जायते ॥ २:९७ ॥

Nishvasamukha 2.98

⟪देवताभ्यो द्विजातिभ्यो⟫ दासीदासाञ् च यो ददेत् ॥
भवति स महाभागः बहुभृत्यजनावृतः ॥ २:९८ ॥

Nishvasamukha 2.99

सिन्धूत्थं लवणन् दत्त्वा रूपवान् सुभगो भवेत् ।
पिप्पलीं शृङ्गवेरञ् च मरिचं विश्वभेषजम् ॥ २:९९ ॥

Nishvasamukha 2.100

दत्त्वा निरुजतां याति आतुरे औषधानि च ।
आतुरं निरुजङ् कृत्वा निर्व्व्याधिर् दीर्घम् आयुषम् ॥ २:१०० ॥

Nishvasamukha 2.101

मधुराम्लकटुतिकानि कषायलवणानि च ।
सर्व्वक्रीडारसाभिज्ञो जायते पण्डितो नरः ॥ २:१०१ ॥

Nishvasamukha 2.102

तैलात् सर्व्वाधिकं तेज आयुः शर्करखण्डयोः ।
मर्ज्जितातक्रदानेन गवाढ्यो गोप्रपूजने ॥ २:१०२ ॥

Nishvasamukha 2.103

मौक्तिकं शङ्खशुक्तीनि दत्त्वा बहुसुतो भवेत् ।
कपर्द्दकानि यो दद्याद् दर्प्पणं विमलं शुभम् ॥ २:१०३ ॥

Nishvasamukha 2.104

रूपवान् धनसम्पन्नो जायते स्त्रीषु वल्लभः ।
पोषणं हन्ततिञ् चैव भिक्षां वा प्रत्यहन् ददेत् ॥ २:१०४ ॥

Nishvasamukha 2.105

धनवान् स तु जायेत अन्यथा दुर्ग्गतिम् भवेत् ।
एष दानविधिः ख्यातस् त्व् अतिदानञ् च मे शृणु ॥ २:१०५ ॥

Nishvasamukha 2.106

अन्नपानं सदा दद्याद् वस्त्रशय्याप्रतिश्रयम् ।
गां सुवर्ण्णञ् च भूमिञ् च धर्म्माणाङ् किम् अतः परम् ॥ २:१०६ ॥

Nishvasamukha 2.107

विद्यादानन् तथा श्रेष्ठम् अतिश्रेष्ठञ् च रक्षणम् ।
जीवं रक्षयते यो हि स च दाता परः स्मृतः ॥ २:१०७ ॥

Nishvasamukha 2.108

सर्व्वेषाम् एव दानानाम् भूतेष्व् अभयदक्षिणा ।
यो ददाति स दाता हि अन्ये कामविमोहिताः ॥ २:१०८ ॥

Nishvasamukha 2.109

तस्माद् रक्षेत सर्व्वाणि प्राणिनाञ् जीवितात्यये ।
स दाता स तपस्वी च स याति परमं पदम् ॥ २:१०९ ॥

Nishvasamukha 2.110

अतिदानविधिः ख्यातो लोकानां हितकाम्यया ।
दिने दिने च यो दद्याद् दानन् तञ् च निबोध मे ॥ २:११० ॥

Nishvasamukha 2.111

दन्तधावनताम्बूलं स्रग्धूपञ् च विलेपनम् ।
रोचना⟪ञ्जनवस्त्रा⟫णि दिव्यालङ्कारमण्डनम् ॥ २:१११ ॥

Nishvasamukha 2.112

गजाश्वारोहणं यानम् अभ्यङ्गोद्वर्त्तनन् तथा ।
स्नानन् दिव्यसुगन्धैश् च चन्दनागरुकुङ्कुमैः ॥ २:११२ ॥

Nishvasamukha 2.113

कर्पूरव्यतिमिश्रैश् च लेपन् धूपं सपुष्पकम् ।
मृष्टान्नपानदानञ् च †सुखशय्यानिशीतवान्† ॥ २:११३ ॥

Nishvasamukha 2.114

वरनारीरति⟪सुखं यो ददाति स चाश्नुते⟫ ।
अद⟪त्त्वा यो ऽभिकाङ्क्षेत स च⟫ दुःखी परो भवेत् ॥ २:११४ ॥

Nishvasamukha 2 – Sprecherangabe vor 2.115

देव्य् उवाच ।

Nishvasamukha 2.115

किन् तत् पात्रम् भवेच् छ्रेष्ठं यस्य दत्ते महत् फलम् ।
अक्षयन् तु भवेद् दानन् तन् मे ब्रूहि महेश्वर ॥ २:११५ ॥

Nishvasamukha 2 – Sprecherangabe vor 2.116

ईश्वर उ ।

Nishvasamukha 2.116

मातापितृषु यद् दानङ् गुरुबन्धुषु कन्ययः ।
दीनार्त्तान्धकृपणिनान् तद् आनन्त्याय कल्पते ॥ २:११६ ॥

Nishvasamukha 2.117

मूर्खविप्रसहस्रेभ्यो वेदाध्यायी परः स्मृतः ।
वेदाध्यायिसहस्रेभ्यो ह्य् आहिताग्निस् ततो ऽधिकः ॥ २:११७ ॥

Nishvasamukha 2.118

आहिताग्निसहस्रेषु अग्निहोत्री वरः स्मृतः ।
अग्निहोत्रीसहस्रेषु ब्रह्मवेत्ता ततो ऽधिकः ॥ २:११८ ॥

Nishvasamukha 2.119

तस्य दत्तम् भवे ऽनन्तं स वै त्राता परः स्मृतः ।
एषां लक्षगुणान् दद्याद् एकन् दद्यात् तु ज्ञानिने ॥ २:११९ ॥

Nishvasamukha 2.120

न तेषान् तुल्यम् एतत् तु स वै त्राता वरो वरः ।
यस्य दाने न दुःखानि नरकप्रेतसम्भवाः ॥ २:१२० ॥

Nishvasamukha 2.121

न भवन्ति हि दातारो विपापाः स्वर्गगामिनः ।
तस्मात् सर्व्वेषु पात्रेषु शिवज्ञानी वरो वरः ॥ २:१२१ ॥

Nishvasamukha 2.122

तस्मिन् पात्रे सदा देयम् आत्मनः श्रेय इच्छता ।
अक्षयन् तद् भवेद् दानं यद् दत्तं स्वल्पम् अल्पापि ॥ २:१२२ ॥

Nishvasamukha 2 – Kolophon

॥ ⊗ ॥ इति निश्वासमुखतत्त्वसंहितायां लौकिके द्वितीयः पटलः ॥ ⊗ ॥

Nishvasamukha 2 – Zählvermerk

श्लो १२२

Kapitel 3

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nishvasamukha 3 – Titel

निश्वासमुखतत्त्वसंहितायां तृतीयः पटलः ॥

Nishvasamukha 3 – Sprecherangabe vor 3.1

देव्य् उवाच ।

Nishvasamukha 3.1

दानधर्म्मस् त्वया ख्यातस् तीर्थधर्म्मञ् च मे वद ।
स्नाने पुण्यफलं यत् स्यात् तीर्थे तीर्थे भविष्यति ॥ ३:१ ॥

Nishvasamukha 3 – Sprecherangabe vor 3.2

ईश्वर उ ।

Nishvasamukha 3.2

गङ्गा सरस्वती पुण्या यमुना गोमती तथा ।
चर्म्मिला चन्द्रभागा च सरय्युर् ग्गण्डकी तथा ॥ ३:२ ॥

Nishvasamukha 3.3

जम्बुका च शतद्रू च कालिका सुप्रभा तथा ।
वितस्ती च विपाशा च नर्म्मदा च पुनःपुना ॥ ३:३ ॥

Nishvasamukha 3.4

गोदावरी महावर्त्ता शर्क्करावर्त्तम् अर्ज्जुनी ।
कावेरी कौशिकी चैव तृतीया च महानदी ॥ ३:४ ॥

Nishvasamukha 3.5

विटङ्का प्रतिकूला च सोमनन्दा च विश्रुता ।
करतोया वेत्रवती रेणुका वेणुका च या ॥ ३:५ ॥

Nishvasamukha 3.6

आत्रेयगङ्गा वैतरणी कर्म्मारी ह्लादनी तथा ।
प्लावनी च सवर्ण्णा सा कल्माषा संसिनी शुभा ॥ ३:६ ॥

Nishvasamukha 3.7

वसिष्ठा च विपापा च सिन्धुवत्यारुणी तथा ।
ताम्रा चैव त्रिसन्ध्या च मन्दाकिन्यः पराः स्मृताः ॥ ३:७ ॥

Nishvasamukha 3.8

तैलकोशी च पारा च दुन्दुभी नलिनी तथा ।
नीलगङ्गा च गोधा च पूर्ण्णचन्द्रा शशिप्रभा ॥ ३:८ ॥

Nishvasamukha 3.9

उपवासरतस् तासु यः स्नाया तु सरिद्वराम् ।
समभ्यर्च्च्य पितॄन् देवान् स तु मुच्येत किल्बिषात् ॥ ३:९ ॥

Nishvasamukha 3.10

⟪नद्येषा⟫ पूतसलिला हरमूर्त्तिविनिस्सृता ।
स्नातो यैस् तु विमुच्येत जलमूर्त्ते नमो ऽस्तु ते ॥ ३:१० ॥

Nishvasamukha 3.11

अयं मन्त्रम् अनुस्मृत्य कुर्यान् नद्यवगाहनम् ।
सर्व्वपापविशुद्धात्मा देहत्यागे दिवं ययौ ॥ ३:११ ॥

Nishvasamukha 3.12

शोणपुष्करलोहित्ये मानसे सिन्धुसागरे ।
ब्रह्मावर्त्ते कर्द्दमाले स्नात्वा च लवणोदधौ ॥ ३:१२ ॥

Nishvasamukha 3.13

सर्व्वपापविशुद्धात्मा पितॄन् देवाञ् च पूजयेत् ।
अग्निर् य्योनिर् भवेन् नित्यं विष्णु रेतः प्रकीर्त्तितः ॥ ३:१३ ॥

Nishvasamukha 3.14

ब्रह्माणम् पितरं विन्द्याद् रुद्रमूर्त्तिर् जलं स्मृतम् ।
एतानुस्मृत्य यः स्नायात् स याति परमाङ् गतिम् ॥ ३:१४ ॥

Nishvasamukha 3.15

नदीनदेषु यो देहङ् कामतो वाप्य् अकामतः ।
समुत्सृज्य विशुद्धात्मा स्वर्ग्गलोकम् व्रजेद् इह ॥ ३:१५ ॥

Nishvasamukha 3.16

स्वर्ग्गलोकात् परिभ्रष्टो जायते विपुले कुले ।
यस् तीर्थं स्मरते नित्यम् मरणञ् चाभिकाङ्क्षते ॥ ३:१६ ॥

Nishvasamukha 3.17

अग्निप्रवेशं यः कुर्यान् मानवो नियमे स्थितः ।
रुद्रलोकम् अवाप्नोति तेनैव सह मोदते ॥ ३:१७ ॥

Nishvasamukha 3.18

रुद्रलोकात् परिभ्रष्टो वह्निलोकम् अवाप्नुयात् ।
भुक्त्वा वह्निमयान् भोगाञ् जायते पृथिवीपतिः ॥ ३:१८ ॥

Nishvasamukha 3.19

अमरेशम् प्रभासञ् च नैमिषं पुष्करन् तथा ।
आषाढन् दिण्डिमुण्डिञ् च भारभूतिञ् च लकुलिम् ॥ ३:१९ ॥

Nishvasamukha 3.20

हरिश्चन्द्रम् परङ् गुह्यङ् गुह्यं मध्यमकेश्वरम् ।
श्रीपर्व्वतं समाख्यातञ् जल्पेश्वरम् अतः परम् ॥ ३:२० ॥

Nishvasamukha 3.21

अम्रातिकेश्वरञ् चैव महाकालन् तथैव च ।
केदारम् उत्तमङ् गुह्यम् महाभैरवम् एव च ॥ ३:२१ ॥

Nishvasamukha 3.22

गयाञ् चैव कुरुक्षेत्रं नखलङ् कनखलन् तथा ।
विमलञ् चाट्टहासञ् च माहेन्द्रं भीमम् अष्टमम् ॥ ३:२२ ॥

Nishvasamukha 3.23

वस्त्रापदं रुद्रकोटिम् अविमुक्तम् महाबलम् ।
गोकर्ण्णम् भद्रकर्ण्णञ् च स्वर्ण्णाक्षं स्थाणुम् अष्टमम् ॥ ३:२३ ॥

Nishvasamukha 3.24

छगलाण्डं द्विरण्डञ् च माकोटम् मण्डलेश्वरम् ।
कालञ्जरं समाख्यातं देवदारुवनन् तथा ॥ ३:२४ ॥

Nishvasamukha 3.25

शङ्कुकर्ण्णन् तथैवेह थलेश्वरम् अतः परम् ।
स्नानदर्शनपूजाभिर् मुच्यते सर्व्वकिल्बिषैः ॥ ३:२५ ॥

Nishvasamukha 3.26

गच्छन्ति भित्वा ब्रह्माण्डम् एषु स्थानेषु ये मृताः ।
पञ्चाष्टकम् इदन् दिव्यं ⟪यङ् गत्वा⟫ न निवर्त्तते ॥ ३:२६ ॥

Nishvasamukha 3.27

महाप्रलयस्थायी च स्रष्टानुग्रहकारकः ।
दर्शनाद् एव गच्छन्ते पदन् दिव्यम् महालये ॥ ३:२७ ॥

Nishvasamukha 3.28

केदारोदकपानाच् च गतिम् पञ्चाष्टमीङ् ध्रुवम् ।
विद्यया संयुता ये तु पिबन्ते च जलं शुभम् ॥ ३:२८ ॥

Nishvasamukha 3.29

शिवसायोज्यतां यान्ति सर्व्वावस्थापि मानवाः ।
गुह्यान्य् अन्यान्य् अपि देवस्य दृष्ट्वा मुच्यन्ति किल्बिषैः ॥ ३:२९ ॥

Nishvasamukha 3.30

प्राप्नुवन्ति गणत्वं हि ये ये तत्र निधनङ् गताः ।
उक्तं हरस्य माहात्म्यं हरेर् अपि निबोध मे ॥ ३:३० ॥

Nishvasamukha 3.31

शालग्रामे मल्लकूपे नित्यं ⟪सौकरवे⟫ हरिः ।
सन्निधाने मथुरायां श्वेतद्वीपे तथैव च ॥ ३:३१ ॥

Nishvasamukha 3.32

दृष्ट्वा ⏑ ⏑ व(?)टे(?) विष्णुम् मुच्यते सर्व्वकिल्बिषैः ।
स्थानेष्व् एषु मृता यान्ति विष्णोस् तत् परमम् पदम् ॥ ३:३२ ॥

Nishvasamukha 3.33

ब्रह्मस्कन्दगणेशस्य लोकपालग्रहेषु च ।
देव्यामातरयक्षेषु पिशाचोरगराक्षसाम् ॥ ३:३३ ॥

Nishvasamukha 3.34

तद्भक्तास् तद्गतिं यान्ति जपहोमाद्यपूजनैः ।
अनाशकं यः कुरुते पापात्मा पापसंयुतः ॥ ३:३४ ॥

Nishvasamukha 3.35

सर्व्वपापविनिर्म्मु[[क्तो]] विष्णुलोकञ् च गच्छति ।
विष्णुलोकाच् च्युतश् चैव ब्राह्मणः पण्डितो भवेत् ॥ ३:३५ ॥

Nishvasamukha 3.36

तेनैवाभ्यासयोगेन तच् चैवाभ्यस्यते पुनः ।
एवन् ते सर्व्वम् आख्यातम् उपवासविधिं शृणु ॥ ३:३६ ॥

Nishvasamukha 3.37

मासे मासे तु यः कुर्याद् एकरात्रम् उपोषितम् ।
पञ्चगव्यं शुचिर् भूत्वा पीत्वा सान्तपनम् भवेत् ॥ ३:३७ ॥

Nishvasamukha 3.38

संवत्सरेण शुद्धात्मा ब्रह्मलोके महीयते ।
कृत्वा सान्तपनञ् चान्यो द्वादशाहम् अभोजनम् ॥ ३:३८ ॥

Nishvasamukha 3.39

तङ् कृत्वा मुच्यते पापैर् विप्रत्वाच् च न हीयते ।
द्वादशैतानि कृत्वा वै सद्गतिम् प्राप्नुयान् नरः ॥ ३:३९ ॥

Nishvasamukha 3.40

एकैकम् भक्षयेद् ग्रासन् त्रीण्य् अहानि जितेन्द्रियः ।
त्रिरात्रोपवसञ् चैव अतिकृच्छ्रं विशोधने ॥ ३:४० ॥

Nishvasamukha 3.41

प्रतिपक्षन् तु यः कुर्यात् स स्वर्ग्गफलभाग् भवेत् ।
जलं क्षीरं घृतञ् चोष्णम् एकैकन् तु त्र्यहम् पिबेत् ॥ ३:४१ ॥

Nishvasamukha 3.42

त्रिःस्नायी च विशुद्धात्मा सर्व्वपापविवर्ज्जितः ।
प्राप्नुयात् स्वर्गतिं विप्रः पापात्मा च विशुध्यति ॥ ३:४२ ॥

Nishvasamukha 3.43

एकैकन् वर्द्धयेद् ग्रासं शुक्ले कृष्णे च ह्रासयेत् ।
त्रिकालस्नायी मासन् तु चन्द्रवृद्ध्या व्रतञ् चरेत् ॥ ३:४३ ॥

Nishvasamukha 3.44

चान्द्रायणम् इदं श्रेष्ठं सर्व्वपापापनोदनम् ।
पापी मुच्येत पापेन अपापः स्वर्ग्गगो भवेत् ॥ ३:४४ ॥

Nishvasamukha 3.45

अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते ।
हविष्येण समायुक्तान् मुच्यते सर्व्वपातकैः ॥ ३:४५ ॥

Nishvasamukha 3.46

अपापी स्वर्ग्गम् आयाति यतिचान्द्रायणेन तु ।
चतुरो भक्षयेत् पिण्डान् पूर्व्वाह्णे तु विचक्षणः ॥ ३:४६ ॥

Nishvasamukha 3.47

सूर्य्यस्यास्तमने वापि चतुरो भक्षयेत् पुनः ।
शिशुचान्द्रायणं ह्य् एतद् उपपातकनाशनम् ॥ ३:४७ ॥

Nishvasamukha 3.48

⟪मासेनैकेन⟫ शुद्धात्मा अपापी स्वर्गतिं व्रजेत् ।
त्रिरात्राणि तु यः कुर्यात् ⟪सर्व्वकालं⟫ शुचिव्रतः ॥ ३:४८ ॥

Nishvasamukha 3.49

शतेनैकेन पूर्ण्णेन मुच्यते सर्व्वकिल्बिषात् ।
सहस्रेण महापापान् मुच्यते जपसंयुतः ॥ ३:४९ ॥

Nishvasamukha 3.50

अपापी स्वर्गम् आप्नोति च्युतश् च धनभाग् भवेत् ।
एकान्तरोपवासानि द्वादशाब्दङ् करोति यः ॥ ३:५० ॥

Nishvasamukha 3.51

महतो मुच्यते पापाच् छुद्धात्मा स्वर्गम् आप्नुयात् ।
पक्षोपवासं यः कुर्याद् द्वादशाब्दानि विकल्मषः ॥ ३:५१ ॥

Nishvasamukha 3.52

स स्वर्गतिम् अवाप्नोति पापात्मा तु विकल्मषः ।
प्रतिवर्षन् तु यः कुर्यान् मासैकं संयतेन्द्रियः ॥ ३:५२ ॥

Nishvasamukha 3.53

उपवासन् नरो लोके स गतिम् उत्तमाम् व्रजेत् ।
महापापाद् विशुध्येत धनवान् अपि जायते ॥ ३:५३ ॥

Nishvasamukha 3.54

एकान्नञ् चैव भुञ्जानो धनवाञ् जायते नरः ।
नक्ते ऽन्नम् भुञ्जते यस्तु यावज्जीवन् नरोत्तमः ।
धनधान्यसमृद्धात्मा उत्तमो जायते नरः ॥ ३:५४ ॥

Nishvasamukha 3.55

अयाचितन् तु भुञ्जानो यावज्जीवं ⟪व्रते नरः⟫ ।
मृतो देवत्वम् आप्नोति पापान् मुच्यति पातकी ॥ ३:५५ ॥

Nishvasamukha 3.56

मधु मान्सन् न भक्षेत व्रतम् एतद् अनुत्तमम् ।
एवं यो वर्त्तते नित्यं स याति परमाङ् गतिम् ॥ ३:५६ ॥

Nishvasamukha 3.57

ब्रह्मचर्यव्रतङ् कष्टं यश् चरेत् स्त्रीसमन्वितः ।
इहामुत्र च सिद्ध्येत गतिं यास्यति चोत्तमाम् ॥ ३:५७ ॥

Nishvasamukha 3.58

द्रव्यस्य विद्यमानस्य निवृत्तिङ् कुरुतेति यः ।
स महाफलम् आप्नोति तच् चानन्तम् भविष्यति ॥ ३:५८ ॥

Nishvasamukha 3.59

मत्स्यम् मान्सं सुरा सीधु राक्षसान्नम् इदं स्मृतम् ।
तद् ब्राह्मणे न दातव्यङ् गतिम् इच्छन् महात्मनाम् ॥ ३:५९ ॥

Nishvasamukha 3 – Sprecherangabe vor 3.60

देव्य् उवाच ।

Nishvasamukha 3.60

कतरं देवम् आश्रित्य उपवासफलम् महत् ।
कथं वा पूजनीयश् च कथयस्व प्रसादतः ॥ ३:६० ॥

Nishvasamukha 3 – Sprecherangabe vor 3.61

ईश्वर उ ।

Nishvasamukha 3.61

प्रतिपत् तूपवासी च ब्रह्माणम् पूजयीत यः ।
ब्रह्मणे नमो मन्त्रेण उभयोर् अपि पक्षयोः ॥ ३:६१ ॥

Nishvasamukha 3.62

गन्धैः पुष्पैश् च धूपैश् च भक्ष्यभोज्यसमन्वितैः ।
अब्दम् एकं समभ्यर्च्च्य क्रतूनाम् प्राप्नुयात् फलम् ॥ ३:६२ ॥

Nishvasamukha 3.63

अश्वमेधं राजसूयं सौवर्ण्णञ् च गवामयम् ।
सप्तभिः सोमसंस्थैश् च नरमेधसमन्वितैः ॥ ३:६३ ॥

Nishvasamukha 3.64

ब्रह्मा स्वयम्भूर् व्विरिञ्चिः पद्मयोनिः प्रजापतिः ।
चतुर्म्मुखः पद्महस्त ओम् इत्य् एकाक्षरस् तु यः ॥ ३:६४ ॥

Nishvasamukha 3.65

चतुर्व्वेदधरः स्रष्टा गीर्व्वाणः परमेष्ठिनः ।
सञ्ज्ञाभिः पूजयेद् आभिर् ब्रह्माणम् अमितद्युतिम् ॥ ३:६५ ॥

Nishvasamukha 3.66

संवत्सरेण युक्तात्मा स्वर्ग्गलोके महीयते ।
यावज्जीवन् तु कुर्व्वाणो ब्रह्मलोकं स गच्छति ॥ ३:६६ ॥

Nishvasamukha 3.67

द्वितीयायाम् पूजयेद् अग्निम् आज्येनैव तु तर्पयेत् ।
वैश्वानरं जातवेदं हुतभुग् घव्यवाहनम् ॥ ३:६७ ॥

Nishvasamukha 3.68

देववक्त्रं सर्व्वभक्षङ् घृणी च जगदाहकम् ।
विभावसुं सप्तजिह्वं वरनामेति कीर्त्तितम् ॥ ३:६८ ॥

Nishvasamukha 3.69

प्रतिमासं समभ्यर्च्च्य उभयोर् अपि पक्षयोः ।
वर्षेणैकेन शुद्धात्मा यावज्जीवाग्निलोकता ॥ ३:६९ ॥

Nishvasamukha 3.70

तृतीयायाम् पूजयेद् यक्षङ् गन्धधूपनिवेदनैः ।
उभाभ्याम् अपि पक्षाभ्यां याव⟪द् अब्दम् भवेद् इह⟫ ॥ ३:७० ॥

Nishvasamukha 3.71

धनन् दास्यति यक्षो हि भक्तियुक्तं सुपूजितः ।
यावज्जीवम् प्रकुर्व्वाणो धनदस्य पदम् व्रजेत् ॥ ३:७१ ॥

Nishvasamukha 3.72

धनदश् च यक्षपतिर् वित्तेशो निधिपालकः ।
राक्षसाधिपतिश् चैव पिङ्गलाक्षो विमानगः ॥ ३:७२ ॥

Nishvasamukha 3.73

रुद्रसखा कुबेरश् च पौलस्त्यकुलनन्दनः ।
लोकपालेश्वरश् चैव यक्षेन्द्रः परिकीर्त्तितः ॥ ३:७३ ॥

Nishvasamukha 3.74

अब्दम् पूजयते यस्तु यक्षम् भक्तिसमन्वितः ।
धनधान्यसमृद्धश् च यावज्जीवेन यक्षराट् ॥ ३:७४ ॥

Nishvasamukha 3.75

गणेशम् पूजयेद् यस्तु गन्धपुष्पसमन्वितः ।
भक्षभोज्यसमाकीर्ण्णश् चतुर्थ्य् उभयपक्षयोः ॥ ३:७५ ॥

Nishvasamukha 3.76

अब्देनैकेन शुद्धात्मा यावज्जीवे गणोत्तमः ।
विनायकैर् नाभिभूयेद् यो ऽर्च्चयेत गणाधिपम् ॥ ३:७६ ॥

Nishvasamukha 3.77

विघ्नेश्वरङ् गणपतिम् एकदन्तन् गजाननम् ।
गजकर्ण्णन् तथा त्र्यक्षन् नागयज्ञोपवीतिनम् ॥ ३:७७ ॥

Nishvasamukha 3.78

चतुर्भुजश् च धूम्राक्षं वज्रतुण्डं विनायकम् ।
महोदरश् च सञ्ज्ञाभिस् साधकः संयतेन्द्रियः ॥ ३:७८ ॥

Nishvasamukha 3.79

मोदकैर् लड्डुकैश् चैव मूलकैर् वापि शोभनैः ।
न तस्य दुर्लभङ् किञ्चित् पूजयेद् यो गणाधिपम् ॥ ३:७९ ॥

Nishvasamukha 3.80

पञ्चम्याम् पूजयेन् नागान् पुष्पैः सुरभिशोभनैः ।
धूपैश् चैव सुगन्धैश् तु गुडक्षीरसपायसैः ॥ ३:८० ॥

Nishvasamukha 3.81

पुष्पैः शर्क्करमध्वाभिर् उभयोर् अपि पक्षयोः ।
संवत्सरेण कामानि लभते ⟪काङ्क्षितानि⟫ तु ।
यावज्जीवं समभ्यर्च्च्य नागलोकम् अवाप्नुयात् ॥ ३:८१ ॥

Nishvasamukha 3.82

स्कन्दं षष्ठ्याम् पूजयतु उपवाससमन्वितः ।
गन्धपुष्पसधूपेन भक्षभोज्येन संयुतः ॥ ३:८२ ॥

Nishvasamukha 3.83

उभाभ्याम् अपि पक्षाभ्याम् पूजयित्वा समाहितः ।
स्कन्दं विशाखन् त्रिवर्ण्णम् उमानन्दन् त्व् अग्निगर्भजम् ॥ ३:८३ ॥

Nishvasamukha 3.84

गङ्गागर्भं शरद्गर्भङ् कृत्तिकासुतम् एव च ।
षण्मुखं शक्तिहस्तञ् च मयूरवरवाहनम् ॥ ३:८४ ॥

Nishvasamukha 3.85

पञ्चछटः कुमारश् च पूज[[((येन् नाम))]]भिः शुभैः ।
प्रतिमासन् तु युक्तात्मा मार्गशीर्षे समाहितः ॥ ३:८५ ॥

Nishvasamukha 3.86

सर्व्वकामान् अवाप्नोति वर्षेणैकेन मानवः ।
यावज्जीवं समभ्यर्च्च्य स्कन्दसायोज्यम् आप्नुयात् ॥ ३:८६ ॥

Nishvasamukha 3.87

सप्तम्याम् मार्गशीर्षादौ चादित्यं यस्तु पूजयेत् ।
उपवासेन युक्तात्मा पुष्पधूपविलेपनैः ॥ ३:८७ ॥

Nishvasamukha 3.88

भक्षभोज्यैश् च बहुभिस् तथा होमजपादिभिः ।
संवत्सरेण शुद्धात्मा अपापी कामम् उत्तमम् ॥ ३:८८ ॥

Nishvasamukha 3.89

सूर्य्यलोकम् व्रजत्य् एष यावज्जीवन् तु पूजनात् ।
च्युतो धनाढ्यो जायेत निरुजो दीर्घजीविनः ॥ ३:८९ ॥

Nishvasamukha 3.90

आदित्यस् सविता सूर्य्यो खगः पूषा गभस्तिमान् ।
हिरण्यगर्भस् त्रिशिरास् तपनो भास्करो रविः ॥ ३:९० ॥

Nishvasamukha 3.91

लोकसाक्षिर् जगन्नेत्रो नामभिस् तु प्रपूजयेत् ।
सर्व्वकामान् अवाप्नोति पूजयेद् यो दिवाकरम् ॥ ३:९१ ॥

Nishvasamukha 3.92

अष्टम्यां शङ्करम् पूज्य मासे मार्गशिरे शुभे ।
उपवासेन युक्तात्मा गोमूत्रप्राशनेन तु ॥ ३:९२ ॥

Nishvasamukha 3.93

अतिरात्रफलं लभेद् उभयोर् अपि पक्षयोः ।
भक्षभोज्यान्नपानैश् च एतत् फलम् अवाप्नुयात् ॥ ३:९३ ॥

Nishvasamukha 3.94

देवदेवन् तु पौषे च अर्च्चयेत ह्य् उपोषितः ।
वाजपेयफलं लभेद् गोशकृत्प्राशनेन तु ॥ ३:९४ ॥

Nishvasamukha 3.95

त्र्यम्बकम् पूजयित्वा तु माघे कृष्ण उपोषितः ।
अश्वमेधफलं लेभे पयसा प्राशनेन तु ॥ ३:९५ ॥

Nishvasamukha 3.96

स्थाणुम् फाल्गुनकृष्णे तु उपवासेन पूजयेत् ।
दधि प्राश्य विशुद्धात्मा नरमेधफलं लभेत् ॥ ३:९६ ॥

Nishvasamukha 3.97

हरञ् चैत्रे तु सम्पूज्य कृष्णाष्टम्याम् उपोषितः ।
आज्यम् प्राश्य शुचिर् भूत्वा राजसूयफलं लभेत् ॥ ३:९७ ॥

Nishvasamukha 3.98

वैशाखे तु शिवम् पूज्य उपवासी कुशोदकम् ।
प्राशयित्वा जितात्मासौ सौत्रामणिफलं लभेत् ॥ ३:९८ ॥

Nishvasamukha 3.99

भवञ् ज्येष्ठे तु सम्पूज्य उपवासी शुचिव्रतः ।
प्राश्य शृङ्गोदकङ् गोस् तु सर्व्वयज्ञफलं लभेत् ॥ ३:९९ ॥

Nishvasamukha 3.100

आषाढे नीलकण्ठश् च कृष्णाष्टम्यां समर्च्चयेत् ।
शङ्खस्यापं स पीत्वा तु गोमेधस्य फलं लभेत् ॥ ३:१०० ॥

Nishvasamukha 3.101

पिङ्गलं श्रावणे पूज्य कृष्णाष्टम्याम् उपोषितः ।
सिद्धार्थम् उदकम् पीत्वा कन्यादानफलं लभेत् ॥ ३:१०१ ॥

Nishvasamukha 3.102

मासे भाद्रपदे रुद्रम् पूजयित्वा उपोषितः ।
यवोदकम् प्राशयित्वा रुद्रलोके महीयते ॥ ३:१०२ ॥

Nishvasamukha 3.103

ईशानञ् ⟪चाश्विने⟫ मासे कृष्णाष्टम्यान् तु पूजयेत् ।
तिलोदकम् प्राशयित्वा बहुरुग्मफलं लभेत् ॥ ३:१०३ ॥

Nishvasamukha 3.104

उग्रन् तु कार्त्तिके मासे कृष्णाष्टम्याम् उपोषितः ।
सुवर्ण्णमुदकम् पीत्वा गाणापत्यम् अवाप्नुयात् ॥ ३:१०४ ॥

Nishvasamukha 3.105

सम्वत्सरन् ततः कृत्वा इष्टकामांल् लभेन् नरः ।
अकामतः क्रतुफलं गाणापत्यञ् च कामतः ॥ ३:१०५ ॥

Nishvasamukha 3.106

उभाभ्याम् अपि पक्षाभ्यां विधिर् एष प्रकीर्त्तितः ।
नवम्यां सम्प्रवक्ष्यामि महादेव्यास् तु पूजनम् ॥ ३:१०६ ॥

Nishvasamukha 3.107

उपवासेन संयुक्तः पूजयेन् नामभिः शुभैः ।
उमा कात्यायिनी देवी दुर्ग्गा रुद्रा सुभद्रिका ॥ ३:१०७ ॥

Nishvasamukha 3.108

कालरात्री महागौरी रेवती भूतनायिका ।
आर्या प्रकृतिरूपा च गणानाञ् चैव नायिका ॥ ३:१०८ ॥

Nishvasamukha 3.109

नामभिः पूजयेद् एभिः पक्षयोर् उभयोर् अपि ।
गन्धैः पुष्पैश् च धूपैश् च वस्त्रालङ्कारभूषणैः ॥ ३:१०९ ॥

Nishvasamukha 3.110

नैवेद्यैश् चोपहारैश् च कन्दमूलफलैस् तथा ।
प्राशनैश् च विविधैश् च वरदाम् पूजयेत् सदा ॥ ३:११० ॥

Nishvasamukha 3.111

उदकं कुसुमम् प्राश्य सक्तुं लाजां सधानकाम् ।
कृसराञ् च पयो मूलम् फलम् पर्ण्णन् तथैव च ॥ ३:१११ ॥

Nishvasamukha 3.112

शाकानि च तिलाश् चैव तिलानाञ् च खलिन् तथा ।
मुद्गानि च समश्नीयात् तथा चैव निरन्नता ॥ ३:११२ ॥

Nishvasamukha 3.113

प्राशयित्वा तथैतानि सर्व्वकामान् अवाप्नुयात् ।
आर्द्रकम् प्राशयित्वा तु शुक्लभोजी निशाक्षये ॥ ३:११३ ॥

Nishvasamukha 3.114

लभते सर्व्वकामांस् तु नवमीनवमोषितः ।
मरिचप्राशनं कृत्वा नवमीनव यो ऽर्च्चयेत् ॥ ३:११४ ॥

Nishvasamukha 3.115

सर्व्वकामान् अवाप्नोति देवी च वरदा ⟪भवेत्⟫ ।
कुशप्रस्तरणाशायी पञ्चगव्यकृताशनः ॥ ३:११५ ॥

Nishvasamukha 3.116

नवमीस् तु नव पूज्य देवी दद्याद् वरोत्तमम् ।
यमन् दशम्यां सम्पूज्य मासि मार्गशिरे शुभे ॥ ३:११६ ॥

Nishvasamukha 3.117

पुष्पैर् गन्धैश् च धूपैश् च भक्ष्यभोज्यसमन्वितैः ।
यमाय धर्म्मराजाय मृत्यवे चान्तकाय च ॥ ३:११७ ॥

Nishvasamukha 3.118

वैवस्वताय कालाय सर्व्वलोकक्षयाय च ।
उग्रदण्डधृते नित्यम् महिषासनयायिने ॥ ३:११८ ॥

Nishvasamukha 3.119

शासित्रे च नमस् तुभ्यं नरकाधिपते नमः ।
नामभिः पूजयेद् एभिस् तर्प्पयेच् च ⟪तिलोदकैः⟫ ॥ ३:११९ ॥

Nishvasamukha 3.120

⟪उभाभ्याम् अपि⟫ पक्षाभ्याम् अब्दम् एकं सुयन्त्रितः ।
मुच्यते सर्व्वपापैस् तु न दुःखं नरकोद्भवम् ॥ ३:१२० ॥

Nishvasamukha 3.121

यावज्जीवार्च्चनन् कृत्वा स गच्छेत् परमाङ् गतिम् ।
एकादश्यान् तु यो धर्म्मम् पूजयेत शुचिव्रतः ॥ ३:१२१ ॥

Nishvasamukha 3.122

गन्धैः पुष्पैश् च धूपैश् च भक्ष्यैर् न्नानाविधैस् तथा ।
धर्म्मस् सत्यन् दया क्षान्तिः शौचम् आचारम् एव च ॥ ३:१२२ ॥

Nishvasamukha 3.123

अहिंसा च अदम्भश् च रक्षा लोकस्य साक्षिणे ।
वृषभाय नमस् तुभ्यम् अदृष्टाय नमो नमः ॥ ३:१२३ ॥

Nishvasamukha 3.124

नामभिः पूजयेद् एभिर् धर्म्मं सत्यं पराक्रमम् ।
उभयोः पक्षयोर् एव वर्षम् एकं सुयन्त्रितः ॥ ३:१२४ ॥

Nishvasamukha 3.125

याम्यदुःखैर् विमुक्तस् तु जायते पृथिवीश्वरः ।
यावज्जीवं समर्च्चन्तं तर्प्पयेच् च तिलोदकैः ॥ ३:१२५ ॥

Nishvasamukha 3.126

उत्तमाङ् गतिम् आप्नोति ⟪याङ् गत्वा न निवर्त्तते⟫ ।
⟪केशवम् पूज⟫यित्वा तु मासे मार्गशिरे नरः ॥ ३:१२६ ॥

Nishvasamukha 3.127

द्वादश्याम् प्राश्य गोमूत्रम् अग्निष्टोमफलं लभेत् ।
पुष्ये नारायणम् पूज्य द्वादश्यान् तु उपोषितः ॥ ३:१२७ ॥

Nishvasamukha 3.128

फलञ् चैवाग्निष्टोमस्य कृत्वा गोमयभक्षणम् ।
माधवम् माघमासे तु द्वादश्यान् तु उपोषितः ॥ ३:१२८ ॥

Nishvasamukha 3.129

पूजयित्वा पयः प्राश्य उक्थ्यमेधफलं लभेत् ।
गोविन्दम् फाल्गुने ऽभ्यर्च्च्य द्वादश्यान् तु उपोषितः ॥ ३:१२९ ॥

Nishvasamukha 3.130

षोडशीफलम् आप्नोति कृत्वा तु दधिभक्षणम् ।
चैत्रे विष्णुं समभ्यर्च्च्य द्वादश्यान् तु उपोषितः ॥ ३:१३० ॥

Nishvasamukha 3.131

आज्यम् वै प्राशयित्वा तु वाजपेयफलं लभेत् ।
उपोषितस् तु वैशाखे पूजयेन् मधुसूदनम् ॥ ३:१३१ ॥

Nishvasamukha 3.132

कुशाम्बु प्राश्य द्वादश्याम् ⟪अतिरात्रफलं लभेत्⟫ ।
ज्येष्ठे त्रिविक्रमम् पूज्य द्वादश्यान् तु उपोषितः ॥ ३:१३२ ॥

Nishvasamukha 3.133

⟪तिलोदकम् प्राशयित्वा⟫ आतोर्यामफलं लभेत् ।
आषाढे वामनम् पूज्य द्वादश्यां सुसमाहितः ॥ ३:१३३ ॥

Nishvasamukha 3.134

फलम् प्राश्य विशुद्धात्मा अश्वमेधफलं लभेत् ।
श्रावणे श्रीधरम् पूज्य द्वादश्यान् तु उपोषितः ॥ ३:१३४ ॥

Nishvasamukha 3.135

⟪पर्ण्णम् प्राश्य विशुद्धात्मा राजसूयफलं लभेत् ।
तथा भाद्रे हृषीकेशं सम्पूज्य विधिवद् बुधः ॥ ३:१३५ ॥

Nishvasamukha 3.136

गवामयस्य यज्ञस्य ततः ⟫फलम् अवाप्नुयात् ।
मासे त्व् आश्वयुजे देवम् पद्मनाभन् तु पूजयेत् ॥ ३:१३६ ॥

Nishvasamukha 3.137

नरमेधस्य यज्ञस्य फलं लभति मानवः ।
⟪दामोदरन् तु सम्पूज्य कार्त्तिके मासि यो नरः ॥ ३:१३७ ॥

Nishvasamukha 3.138

उपोषितस् तु द्वादश्याम् बहुसौवर्ण्णिकम् फलम् ।
सम्वत्सरन् तु सम्पूज्य सर्व्वकामान् अवाप्नुयात् ॥ ३:१३८ ॥

Nishvasamukha 3.139

अपापी क्रतुम् आप्नोति पापात्मा⟫ मुच्यते नशात् ।
यावज्जीवं समभ्यर्च्च्य पुष्पैर् गन्धैः सुगन्धकैः ॥ ३:१३९ ॥

Nishvasamukha 3.140

भक्ष्यभोज्यैश् च धूपैश् च च्छत्रध्वजवितानकैः ।
हेमजैर् भूषणैर् दिव्यैर् म्मणिरत्नविचित्रकैः ॥ ३:१४० ॥

Nishvasamukha 3.141

वस्त्रैः पूजां विचित्राञ् च कृत्वा विष्णुपदम् व्रजेत् ।
अनङ्गन् तु त्रयोदश्याम् पू⟪जयेद् यो विधानवित् ॥ ३:१४१ ॥

Nishvasamukha 3.142

भक्ष्यभोज्यान्नपानैश् च गन्ध⟫धूपस्रगादिभिः ।
अनङ्गम् मन्मथं कामम् ईश्वरम् मोहनन् तथा ॥ ३:१४२ ॥

Nishvasamukha 3.143

पञ्चबाणन् धनुर्हस्तम् उन्मादञ् च वशङ्करम् ।
रतिप्रियम् प्रीतिकरं हृदयस्यापहारिणम् ॥ ३:१४३ ॥

Nishvasamukha 3.144

नामभिः पूजयेद् एभिः कामदेवम् महाबलम् ।
मासे मार्गशिरस्य आदौ यावत् कार्त्तिकम् एव च ॥ ३:१४४ ॥

Nishvasamukha 3.145

⟪सौभाग्यं धनधान्यञ् च पुत्रदारा ⟫भवन्ति च ।
कामदेवस्य सायोज्यं यावज्जीवस्य पूजनात् ॥ ३:१४५ ॥

Nishvasamukha 3.146

चतुर्द्दश्याम् पुनर् देवम् पूजयेत् परमेश्वरम् ।
हरं शर्व्वम् भवन् त्र्यक्षं शम्भुञ् चैव विभुं शिवम् ॥ ३:१४६ ॥

Nishvasamukha 3.147

स्थाणुम् पशुपतिं रुद्रम् ईशानं शङ्करन् तथा ।
पूजयेद् एभिस् संज्ञाभिर् विधिवत् परमेश्वरम् ॥ ३:१४७ ॥

Nishvasamukha 3.148

मार्गशीर्षस्य मासादौ यावद् अब्दं ⟪व्रतञ् चरेत्⟫ ।
पुष्पैर् गन्धैश् च धूपैश् च भक्ष्यभोज्यैस् तथैव च ॥ ३:१४८ ॥

Nishvasamukha 3.149

अलङ्कारैश् च विविधैश् छत्रध्वजवितानकैः ।
उभयोः पक्षयोर् एव सर्व्वकामान् अवाप्नुयात् ॥ ३:१४९ ॥

Nishvasamukha 3.150

सम्वत्सरेण युक्तात्मा निष्कामस् तु गणो भवेत् ।
यावज्जीवेन सायोज्यम् पापी मुच्यति किल्बिषात् ॥ ३:१५० ॥

Nishvasamukha 3.151

अमावास्याम् मार्गशिरे ((पितॄंस् तर्प्य)) --- [४] --- ।
कर्म्मणा श्राद्धयुक्तेन पिण्डेन च तिलोदकैः ॥ ३:१५१ ॥

Nishvasamukha 3.152

पौर्ण्णमास्यान् तथैवेह कुर्व्वतस् तु फलं शृणु ।
सतिलोदकपिण्डेन यः श्राद्धे तर्प्पयेत् पितॄन् ॥ ३:१५२ ॥

Nishvasamukha 3.153

ते तृप्ताः पितरस् तस्य ये वसन्ति यमालये ।
सम्वत्सरेण पितरो मुच्यन्ते यमयातनात् ॥ ३:१५३ ॥

Nishvasamukha 3.154

यावज्जीवन् तु कुर्व्वाणो पक्षयोर् उभयोर् अपि ।
पापात्मा मुच्यते पापाद् अपापी स्वर्ग्गगो भवेत् ॥ ३:१५४ ॥

Nishvasamukha 3.155

पितरस् सोमपा विप्रे क्षत्रिये तु हविर्भुजाः ।
आज्यपा वैश्ययोनी तु शूद्राणान् तु सुकालिनः ॥ ३:१५५ ॥

Nishvasamukha 3.156

[[((पौर्ण्णमास्याम् पुन)) अग्निम् पू]]जयेत --- [४] --- ।
--- [३] --- उपवासेन अग्निलोकम् अवाप्नुयात् ॥ ३:१५६ ॥

Nishvasamukha 3.157

पापी मुच्यति पापेन धनवान् सञ् च जायते ।
उभयोः पक्षयोर् एष विधिर् उक्तो मया द्विजाः ॥ ३:१५७ ॥

Nishvasamukha 3.158

उपवासस्य देवानाम् पूजनं साम्प्रतं शृणु ।
प्रतिपद् भोजयेद् विप्रान् पूजयित्वा प्रजापतिम् ॥ ३:१५८ ॥

Nishvasamukha 3.159

सौवर्ण्णञ् चारविन्दन् तु कुर्यान् नामाङ्कितन् ततः ।
⟪ताम्रपात्रे घृतपूर्ण्णे ⟫क्षिप्त्वा विप्राय दापयेत् ॥ ३:१५९ ॥

Nishvasamukha 3.160

ईप्सितांल् लभते कामान् निष्कामो ब्रह्मलोकताम् ।
अग्निम् पूज्य द्वितीयायाम् ब्राह्मणांस् तर्प्पयेन् नरः ॥ ३:१६० ॥

Nishvasamukha 3.161

सौवर्ण्णवस्ते नामानि वह्नेर् आलिख्य यत्नतः ।
उदुम्बरे ज्यपूर्ण्णे तु भाजने प्रक्षिपेत् तु तम् ॥ ३:१६१ ॥

Nishvasamukha 3.162

तोयपूर्ण्णे घटे स्थाप्य भक्ष्यभोज्यसमन्विते ।
उभाभ्याम् अपि पक्षाभ्यान् दद्याद् विप्राय शोभने ॥ ३:१६२ ॥

Nishvasamukha 3.163

सर्व्वकामप्रदो वह्निर् अब्दैकेन भविष्यति ।
यावज्जीवं कृतेनैव त्व् अग्निलोकं स गच्छति ॥ ३:१६३ ॥

Nishvasamukha 3.164

तृतीयायान् तु सम्पूज्य यक्षं हेममयीङ् गदाम् ।
नामान्य् आलिख्य दातव्या भाजने घृतपूरिते ॥ ३:१६४ ॥

Nishvasamukha 3.165

चतुर्थ्यान् दन्तिनन् दद्यात् सौवर्ण्णनाम-चाङ्कितम् ।
विघ्नेश्वरस्य देवस्य घृतपूर्ण्णोदुम्बरे स्थितम् ॥ ३:१६५ ॥

Nishvasamukha 3.166

विप्रं सुभोजिताङ् कृत्वा दत्त्वा भक्षान् घटान्य् अपि ।
सम्वत्सरेण सिद्धिः स्याद् यावज्जीवे गणेशता ॥ ३:१६६ ॥

Nishvasamukha 3.167

पञ्चम्यां हेमजम् पद्मं दत्त्वा विप्राय भोजिते ।
घृतप्लुतं सनामाङ्कन् ताम्रभाजनसंस्थितम् ॥ ३:१६७ ॥

Nishvasamukha 3.168

अनन्तम् वासुकिं वापि तक्षकं वा त्रिरेखिणम् ।
पद्मम् महाब्जं शङ्खं वा कुलिकं वा महोरगम् ॥ ३:१६८ ॥

Nishvasamukha 3.169

सम्पूज्यान्यतमन् तेषां गन्धधूपस्रगादिभिः ।
भक्ष्यभोज्यान्नपानैश् च कामदम् पापहारिणम् ॥ ३:१६९ ॥

Nishvasamukha 3.170

मयूरं हेमजङ् कृत्वा स्कन्दनामाङ्कितं शुभम् ।
षष्ठ्यान् दद्यात् तु विप्राय घृतपूर्ण्णोदुम्बरे स्थितम् ॥ ३:१७० ॥

Nishvasamukha 3.171

तोयपूर्ण्णाश् च कलशान् भक्ष्यभोज्यसमन्वितान् ।
⟪दत्त्वा कामान् अवाप्नोति ⟫पक्षयोर् उभयोर् अपि ॥ ३:१७१ ॥

Nishvasamukha 3.172

सम्वत्सरेण कामांस् तु चिन्तितां लभते नरः ।
पापी मुच्यति पापेन शुद्धात्मा स्कन्दम् आप्नुयात् ॥ ३:१७२ ॥

Nishvasamukha 3.173

अश्वं हेममयन् दद्याद् रवेर् न्नामाङ्कितम् बुधः ।
पक्षयोर् उभयोर् एव सघृते ताम्रभाजने ॥ ३:१७३ ॥

Nishvasamukha 3.174

वर्षेणैकेन पापात्मा मुच्यते बहुकिल्बिषात् ।
यावज्जीवकृतेनैव आदित्यपदम् आप्नुयात् ॥ ३:१७४ ॥

Nishvasamukha 3.175

अष्टम्यां वृषभन् दद्याद् भवनामाङ्कितन् द्विजे ।
उभाभ्याम् अपि पक्षाभ्यां सघृते ताम्रभाजने ॥ ३:१७५ ॥

Nishvasamukha 3.176

कलशैर् भक्षसंयुक्तैः पयसा च सुपूरितैः ।
सम्वत्सरेण शुद्धात्मा ईप्सितं लभते फलम् ॥ ३:१७६ ॥

Nishvasamukha 3.177

यावज्जीवेन गणतां यो ऽर्च्चयेन् नामभिर् हरम् ।
नवम्यां सिंहं नामेन देव्याश् चाभ्यर्चिते[[((न च))]] ॥ ३:१७७ ॥

Nishvasamukha 3.178

घृतताम्रस्य दानाञ् च भक्षैः पयघटान्वितैः ।
यमाय महिषन् दद्यान् नामाङ्कन् तु घृतप्लुतम् ॥ ३:१७८ ॥

Nishvasamukha 3.179

ताम्रभाजनसंस्थन् तु पयोघटसमन्वितम् ।
भक्षैर् युक्तं दशम्यान् तु विप्रान् सम्भोज्य दापयेत् ॥ ३:१७९ ॥

Nishvasamukha 3.180

याम्यदुःखेन मुच्यन्ते महापातकिनो ऽपि ये ।
संवत्सरेण शुद्धात्मा जीवान्ते गतिर् उत्तमा ॥ ३:१८० ॥

Nishvasamukha 3.181

एकादश्यान् तु धर्म्मस्य वृषन् दद्याद् द्विजोत्तमे ।
नामाङ्कं सघृतन् ताम्रं घटम् भक्षसमायुतम् ॥ ३:१८१ ॥

Nishvasamukha 3.182

स धर्म्मगतिम् आप्नोति शुद्धः संवत्सरेण तु ।
कामी लभति कामाञ् च निष्कामो धर्म्मलोकताम् ॥ ३:१८२ ॥

Nishvasamukha 3.183

द्वादश्याङ् गरुडन् दद्यान् नामाङ्कङ् घटम् एव वा ।
ताम्रभाजनसंस्थन् तु घटान् तोयेन पूरितान् ॥ ३:१८३ ॥

Nishvasamukha 3.184

विष्णोर् न्नाम्ना तु दातव्या पक्षयोर् उभयोर् अपि ।
संवत्सरेण शुद्धात्मा ऽपापी क्रतुफलं लभेत् ॥ ३:१८४ ॥

Nishvasamukha 3.185

यावज्जीवन् तु सम्पूज्य भोजनैश् च सदक्षिणैः ।
विष्णुलोकम् अवाप्नोति विष्णुना सह मोदते ॥ ३:१८५ ॥

Nishvasamukha 3.186

सौवर्ण्णन् धनुषन् दद्यात् पञ्चबाणसमन्वितम् ।
कामदेवं समभ्यर्च्च्य सघृते ⟪ताम्रभाजने⟫ ॥ ३:१८६ ॥

Nishvasamukha 3.187

भक्षाम्बुपूर्ण्णघटकां विप्रां सम्भोज्य दापयेत् ।
सौभाग्यन् धनधान्यञ् च अपापी लभते ध्रुवम् ॥ ३:१८७ ॥

Nishvasamukha 3.188

यावज्जीवन् तु सम्पूज्य कामदेवपदम् व्रजेत् ।
चतुर्द्दश्यां वृषन् दद्यात् सम्पूज्य परमेश्वरम् ॥ ३:१८८ ॥

Nishvasamukha 3.189

तस्य नामाङ्कितङ् कृत्वा ताम्रभाजनसंस्थितम् ।
प्रदद्याद् विप्रमुख्येभ्यो भोजयित्वा यथाविधि ॥ ३:१८९ ॥

Nishvasamukha 3.190

उभाभ्याम् अपि पक्षाभ्याङ् घटाम् भक्षाम्बुपूरिताम् ।
अब्दात् पापविशुद्धस् तु द्वादशाब्दे गणेश्वरः ॥ ३:१९० ॥

Nishvasamukha 3.191

यावज्जीवकृतेनैव सायोज्यस् तु महेश्वरे ।
अमावास्याम् पौर्ण्णमास्यां पक्षयोर् उभयोर् अपि ॥ ३:१९१ ॥

Nishvasamukha 3.192

श्राद्धपिण्डाप्सुदानेन पितॄन् यस् तु समर्च्चयेत् ।
सौवर्ण्णम् पुरुषङ् कृत्वा पितृनामाङ्कितन् नरः ॥ ३:१९२ ॥

Nishvasamukha 3.193

प्रदद्याद् विप्रमुख्येभ्यो ताम्रस्थं घृतसंप्लुतम् ।
भक्षाम्बुपूर्ण्णघटकान् दत्त्वा चैव विकल्मषः ॥ ३:१९३ ॥

Nishvasamukha 3.194

अब्देनैकेन युक्तात्मा विपापी कामम् ईप्सितम् ।
यावज्जीवम् पितृपदम् भ्रष्टो भवति भोगवान् ॥ ३:१९४ ॥

Nishvasamukha 3.195

धनधान्यसमृद्धस् तु बहुपुत्रश् च सो भवेत् ।
देवानाम् पूजने ह्य् एष विधिर् उक्तो मया द्विजाः ॥ ३:१९५ ॥

Nishvasamukha 3.196

देव्याशङ्करसंवादे तन् मया परिकीर्त्तितम् ।
[[((पश्चिमे))]]नैव वक्त्रेण लौकिकङ् गदितं सदा ॥ ३:१९६ ॥

Nishvasamukha 3 – Kolophon

॥ ⊗ ॥ इति निश्वासमुखतत्त्वसंहितायां लौकिके तृतीयः पटलः ।

Nishvasamukha 3 – Zählvermerk

श्लो १९७ ॥ ⊗ ॥

Kapitel 4

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nishvasamukha 4 – Sprecherangabe vor 4.1

देव्य् उवाच ।

Nishvasamukha 4.1

वेदधर्म्मः कथन् देव कर्त्तव्यो गतिम् इच्छता ।
स्वर्गापवर्गहेतोश् च प्रसादाद् वक्तुम् अर्हसि ॥ ४:१ ॥

Nishvasamukha 4 – Sprecherangabe vor 4.2

ईश्वर उवाच ।

Nishvasamukha 4.2

मेखली दण्डधारी च संध्योपासनतत्परः ।
⟪स्वाध्यायी⟫ होमजापी च भैक्षाशी च अमैथुनी ॥ ४:२ ॥

Nishvasamukha 4.3

मधुमांसनिवृत्तश् च सक्षारलवणानि च ।
वृक्षरोहणम् एकान्तन् ताम्बूलञ् च न भक्षयेत् ॥ ४:३ ॥

Nishvasamukha 4.4

वर्जनम् प्रेक्षणं कूपे न नग्नस्नानम् आचरेत् ।
स्त्रीप्रेक्षणन् न कुर्वीत माल्यधूपञ् च वर्जयेत् ॥ ४:४ ॥

Nishvasamukha 4.5

वर्जयेद् अञ्जनं ⟪गन्धन् तथा विषमलंघनम्⟫ ।
⟪षट्त्रिंशदाब्दिकं चर्या⟫ गुरोस् त्रैवेदिकं व्रतम् ॥ ४:५ ॥

Nishvasamukha 4.6

तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ।
ब्रह्मचारिव्रतं ह्य् एतद् उक्तन् देवि मया पुरा ॥ ४:६ ॥

Nishvasamukha 4.7

विभ्रष्टो नरकं याति स्वाचरन् स्वर्गगतिम् ब्रजेत् ।
ब्रह्मचारिविधिः ख्यातो गृहस्थस्य प्रचक्ष्यते ॥ ४:७ ॥

Nishvasamukha 4.8

कृतदारो गृहे यस् तु यजेद् यज्ञां सदक्षिणां ।
स्वाध्यायम् प्रत्यहं कुर्यात् सायं ⟪प्रातश् च हावनम्⟫ ॥ ४:८ ॥

Nishvasamukha 4.9

बलिञ् च वैश्वदेवञ् च अतिथेश् चैव पूजनम् ।
दर्शं च पौर्ण्णमासञ् च पशुबन्धेष्टिम् एव च ॥ ४:९ ॥

Nishvasamukha 4.10

श्राद्धं सदक्षिणङ् कुर्याद् ऋतुकाले व्रजेत् स्त्रियम् ।
वर्जयेत् परदारांश् च आचाराङ् गतिम् आप्नुयात् ॥ ४:१० ॥

Nishvasamukha 4.11

अहिंसा निर्ममत्वं च बाधस्तेयविवर्जितः ।
कामक्रोधनिवृत्तिश् च गुरुपूजाभिवादनम् ॥ ४:११ ॥

Nishvasamukha 4.12

क्षमा दमो दया दानं सत्यं शौचन् धृतिर् घृणा ।
विद्या विज्ञानम् आस्तिक्यम् एतद् ब्राह्मणलक्षणम् ॥ ४:१२ ॥

Nishvasamukha 4.13

प्रत्यहं संहिताजापी त्व् अब्देनैकेन सिध्यति ।
त्र्यब्दाङ् गायत्रिसिद्धिस् तु ब्रह्मलोकम् अवाप्नुयात् ॥ ४:१३ ॥

Nishvasamukha 4.14

ऋग्यजुःसामथर्वाणां प्रत्यहं संहिताञ् जपेत् ।
जितेन्द्रियो ऽप्रतिग्रही ब्रह्मलोकं स गच्छति ॥ ४:१४ ॥

Nishvasamukha 4.15

शिलोञ्छेनैव जीवेत प्रमृतेनैव वा पुनः ।
अस्वयङ्कृतवाणिज्ये भूताद्रोहेण जीवते ॥ ४:१५ ॥

Nishvasamukha 4.16

जप्ति जुहोति वा नित्यं स स्वर्गफलभाग् भवेत् ।
पञ्चयज्ञम् अकुर्वाणो नरकं याति सो ध्रुवम् ॥ ४:१६ ॥

Nishvasamukha 4.17

अध्यापनम् ब्रह्मयज्ञं पितृयज्ञन् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूज[[नम्]] ॥ ४:१७ ॥

Nishvasamukha 4.18

पञ्चैतांस् तु महायज्ञान् न हापयति शक्तितः ।
स्वगृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥ ४:१८ ॥

Nishvasamukha 4.19

पेषणी कण्डनी चुल्ली उदकुम्भः प्रमार्ज्जनी ।
पञ्च सूना भवन्त्य् एते कथितास् तव शोभने ॥ ४:१९ ॥

Nishvasamukha 4.20

यस् तु ब्रह्मार्प्पणेनैव यजेद् यज्ञान् सदक्षिणान् ।
आत्मध्यानरतश् चैव स विद्वान् वेदधर्म्मवित् ॥ ४:२० ॥

Nishvasamukha 4.21

ध्यायन् प्रणवयोगेन सर्वगत्वं स चाप्नुयात् ।
⟪षोडशारेण⟫ चक्रेण यदीच्छेत् सिद्धिम् आत्मनः ॥ ४:२१ ॥

Nishvasamukha 4.22

श्रद्धया एकचित्तेन सर्वद्वन्द्वसहेन च ।
नित्यञ् चालुब्धचित्तेन सर्वम् एकत्वदर्शिना ॥ ४:२२ ॥

Nishvasamukha 4.23

एवं यो वर्त्तते नित्यं जपध्यानार्चहोमसु ।
न चासौ दुर्ग्गतिं याति ब्रह्मलोकं स गच्छति ॥ ४:२३ ॥

Nishvasamukha 4.24

केवलं कर्म्मकारी स्याद् आत्मध्यानविवर्जितः ।
अगत्वा ⟪सर्वगं ब्रह्म स्वर्गमात्र⟫ फलं लभेत् ॥ ४:२४ ॥

Nishvasamukha 4.25

अत ऊर्ध्वं वनेवासी सभार्यस् तु जितेन्द्रियः ।
वसेद् वनगतो विद्वान् वर्त्तनं कुशबिन्दुना ॥ ४:२५ ॥

Nishvasamukha 4.26

कन्दमूलफलैः शाकैः श्यामनीवारकाङ्गुभिः ।
सायम् प्रातश् च तैर् एव होमयेज् जातवेदसम् ॥ ४:२६ ॥

Nishvasamukha 4.27

अफालकृष्टैर् वनजैर् देवब्राह्मणतर्प्पणम् ।
((पितॄणां तर्प्पणं कार्यं)) ⟪जपहोमरतः सदा⟫ ॥ ४:२७ ॥

Nishvasamukha 4.28

सर्वभूतहिते युक्तस् सर्वदुःखसहिष्णुश् च ।
शीतातपावकाशादि पञ्चाग्निर् जलशायिता ॥ ४:२८ ॥

Nishvasamukha 4.29

कुशवल्कलवासः स्यात् कृष्णाजिनधरस् सदा ।
कृच्छ्रातिकृच्छ्रतप्तादिपराक्चान्द्रायणैस् सदा ॥ ४:२९ ॥

Nishvasamukha 4.30

शीर्ण्णपर्ण्णाम्बुभोजी च आत्मानम् परिशोषयेत् ।
मृगचारी सहावासः कष्टां वृत्तिं समाश्रितः ॥ ४:३० ॥

Nishvasamukha 4.31

ब्राह्मणः ⟪स्वर्गगामी स्याद् विभ्रष्टो⟫ नरकं व्रजेत् ।
वानप्रस्थव्रतं ख्यातञ् चतुर्थञ् चाश्रमं शृणु ॥ ४:३१ ॥

Nishvasamukha 4.32

कायस्थम् अग्निङ् कृत्वा तु खम् आकाशे तु विन्यसेत् ।
विन्यसेद् वायुम् अनिले त्व् अनले ऽग्निम् पयो ऽम्भसि ॥ ४:३२ ॥

Nishvasamukha 4.33

कायम् भूमौ मनश् चन्द्रे दिक्षु श्रोत्राणि विन्यसेत् ।
विष्णौ पादौ बलं रुद्रे अग्नौ वाचं विनिक्षिपेत् ॥ ४:३३ ॥

Nishvasamukha 4.34

मित्रे पाय्व् इन्द्रियं न्यस्य शिस्नञ् चैव प्रजापतौ ।
संन्यासं तु क्रमङ् कृत्वा क्रोधलोभविवर्ज्जितः ॥ ४:३४ ॥

Nishvasamukha 4.35

अद्रोही सर्वभूतानां सर्वम् आत्मनि पश्यति ।
त्रिदण्डकुण्डी चक्री च नैकान्नादस् स भैक्षभुक् ॥ ४:३५ ॥

Nishvasamukha 4.36

न त्व् अस्वम् उपभुञ्जीत भैक्षवृत्तिसमाश्रितः ।
ग्रामैकरात्रम् उषितो नगरे पञ्चरात्रकम् ॥ ४:३६ ॥

Nishvasamukha 4.37

वर्षास्व् एकत्र निवसेद् दम्भकल्कविवर्ज्जितः ।
⟪ग्रामसङ्गविवर्ज्जी⟫ स्यात् सङ्गदोषविवर्ज्जितः ॥ ४:३७ ॥

Nishvasamukha 4.38

समस् सर्वेषु भूतेषु अनारंभी अहिंसकः ।
आत्मध्यानरतो नित्यम् ब्राह्म्यभावसमन्वितः ॥ ४:३८ ॥

Nishvasamukha 4.39

एवं यो वर्त्तते नित्यं स याति ब्रह्मलौकिकम् ।
ब्रह्मणा सह मोदेत ब्रह्मणि स तु लीयते ॥ ४:३९ ॥

Nishvasamukha 4.40

विभ्रष्टो नरकं याति कामलोभसमन्वितः ।
यथोक्तकारी ब्रह्मात्मा ब्रह्मलोकं स गच्छति ॥ ४:४० ॥

Nishvasamukha 4.41

वेदधर्म्मो मया प्रोक्तः स्वर्गनैःश्रेयसः परः ।
उत्तरेणैव वक्त्रेण व्याख्यातश् च समासतः ॥ ४:४१ ॥

Nishvasamukha 4.42

आध्यात्मिकम् प्रवक्ष्यामि दक्षिणास्येन कीर्त्तितम् ।
साङ्ख्यञ् चैव महाज्ञानं योगञ् चापि महाव्रते ॥ ४:४२ ॥

Nishvasamukha 4.43

प्रकृतिम् पुरुषञ् चैव उभाव् एकत्र योजितौ ।
[--- ५ अक्षर ---] हेतुश् च यतस् सर्वम् प्रवर्त्तते ॥ ४:४३ ॥

Nishvasamukha 4.44

--- भूते तु रजःसत्त्वौ प्रजायते ।
एतत् त्रिगुणसंयुक्तं ततो बुद्धिश् च जायते ॥ ४:४४ ॥

Nishvasamukha 4.45

बुद्ध्यहंकारस् सम्भूतस् तन्मात्राणि ततो ऽभवन् ।
इन्द्रियाणि तथैवेह भूतस् तन्मात्रसम्भवः ॥ ४:४५ ॥

Nishvasamukha 4.46

अचेतनानि सर्वाणि पुरुषश् चेतनः स्मृतः ।
यावन् ममत्वं कुरुते [[तावद् द(द्धस् त्व)सौ पुमान्]] ॥ ४:४६ ॥

Nishvasamukha 4.47

प्रकृत्या सर्वकर्म्माणि स --- [३] --- सुखी भवेत् ।
असंन्यासी तु बध्येत यावन् मायान् न विन्दति ॥ ४:४७ ॥

Nishvasamukha 4.48

साङ्ख्यज्ञानम् मयाख्यातं योगज्ञानञ् च मे शृणु ।
सर्वद्वन्द्वसहो धीरस् सर्वदोषविवर्ज्जितः ॥ ४:४८ ॥

Nishvasamukha 4.49

संसारोद्विग्नचित्तस् तु स योगी परिकीर्त्तितः ।
उत्तराभिमुखो भूत्वा बद्ध्वा योगासनन् ततः ॥ ४:४९ ॥

Nishvasamukha 4.50

स्वस्तिकम् पद्मकं भद्रं त्व् अर्द्धचन्द्रम् प्रसारितम् ।
सापाश्रयम् अञ्जलिकं योगपट्टं यथासुखम् ॥ ४:५० ॥

Nishvasamukha 4.51

बद्ध्वा योगासनं सम्यग् ऋजुकायस् समाहितः ।
जिह्वान् तु तालुके न्यस्य दन्तैर् दन्तान् न संस्पृशेत् ॥ ४:५१ ॥

Nishvasamukha 4.52

शब्दे स्पर्शे च रूपे च रसे गन्धे च पञ्चसु ।
अवशश् चेन्द्रियग्रामं संनिरुन्ध्यात् प्रयत्नतः ॥ ४:५२ ॥

Nishvasamukha 4.53

प्रतिप्रतिनिरोधाच् च प्रत्याहारः प्रकीर्त्तितः ।
सर्वगमे --- [३] --- तु ध्यानरूपम् अरूपकम् ॥ ४:५३ ॥

Nishvasamukha 4.54

रागद्वेषविनाशाय चिन्तयेद् ध्यानम् एव तु ।
प्राणायामम् प्रवक्ष्यामि त्रिष्प्रकारं समभ्यसेत् ॥ ४:५४ ॥

Nishvasamukha 4.55

विरेच्यापूर्य संरुद्धं कुम्भकम् परिकीर्त्तितम् ।
पूरयेच् च स्वकन् देहं यावद् आपूरितम् भवेत् ॥ ४:५५ ॥

Nishvasamukha 4.56

पूरकस् तु समाख्यातो प्राणायामो द्वितीयकः ।
निष्क्रामयति यो वायुं स्व[[देहा]] --- [५] --- ॥ ४:५६ ॥

Nishvasamukha 4.57

स रेचकस् समाख्यातः प्राणायामस् तृतीयकः ।
अङ्गुष्ठाग्रे तु ध्यायीत वायुं सर्वगतञ् चलम् ॥ ४:५७ ॥

Nishvasamukha 4.58

वायुना पूरयेद् विश्वं कृष्णरेण्वाकुलेन तु ।
एवम् अभ्यसमानस् तु वायुरूपः प्रवर्त्तते ॥ ४:५८ ॥

Nishvasamukha 4.59

ज्वलन्तञ् चिन्तयेद् वह्निं दहन्तं सर्वतोदिशाम् ।
एवम् अभ्यसतस् तस्य वह्निरूपम् प्रजायते ॥ ४:५९ ॥

Nishvasamukha 4.60

पृथ्वी कठिनरूपे(([[ण]])) शृणु देहे यथा स्थिता ।
ध्यातव्या सा समुद्रान्ता पीता निश्चललक्षणा ॥ ४:६० ॥

Nishvasamukha 4.61

घण्टिकायां स्रवन्तन् तु वरुणञ् चिन्तयेद् यदि ।
आपरूपः प्रजायेत धारणादग्धकिल्बिषः ॥ ४:६१ ॥

Nishvasamukha 4.62

आगमैस् तर्कयेत् तर्का योगविज्ञानकारणाम् ।
स्वपरिज्ञानम् उत्पत्तौ अविषण्णस् तु लक्षयेत् ॥ ४:६२ ॥

Nishvasamukha 4.63

समाधौ संस्थितस्यास्य [[विचित्रदर्शना]] --- [२] --- ।
--- [६] --- व्येत यावत् तन्मयतां गतः ॥ ४:६३ ॥

Nishvasamukha 4.64

शब्दं स्पर्शं च रूपञ् च रसं गन्धञ् च पञ्चमम् ।
सर्वाण्य् एतान्य् अजानाति यदा तन्मयताङ् गतः ॥ ४:६४ ॥

Nishvasamukha 4.65

ताडितञ् च न विन्देत चक्षुषा न च पश्यति ।
दिव्यदृष्टिः प्रजायेत यदा तन्मयताङ् गतः ॥ ४:६५ ॥

Nishvasamukha 4.66

सर्वविद्याः प्रवर्त्तन्ते सर्वम् प्रत्[[((य))]]क्षतो भवेत् ।
((सिद्धैश् च सह संभाषं यदा)) तन्मयताङ् गतः ॥ ४:६६ ॥

Nishvasamukha 4.67

--- [८] --- सर्वज्ञश् चैव जायते ।
अनेनैव शरीरेण स सृजेच् चैव संहरेत् ॥ ४:६७ ॥

Nishvasamukha 4.68

ईश्वरं ध्यायमानस्य सर्वम् एतत् प्रवर्त्तते ।
ईश्वरम् पदम् आप्नोति ब्रह्मध्यानाच् च तत्पदम् ॥ ४:६८ ॥

Nishvasamukha 4.69

विष्णुध्यानाद् विष्णुपदम् अन्येषाम् एव तत्पदम् ।
येन येन हि भावेन तत् तत् पदम् अवाप्नुयात् ॥ ४:६९ ॥

Nishvasamukha 4.70

अध्यात्मिकं समाख्यातम् अतिमार्ग्गञ् च मे शृणु ।
भस्म((ना)) --- [५] --- भस्मशायी जितेन्द्रियः ॥ ४:७० ॥

Nishvasamukha 4.71

निर्म्माल्यधारी भिक्षाशी गुह्यस्थानम् परिब्रजेत् ।
दर्शनार्थन् तु ईशस्य पूजान् तत्रैव कल्पयेत् ॥ ४:७१ ॥

Nishvasamukha 4.72

लिङ्गस्यायतने वासो हुड्डुङ्कारस्तवैस् तथा ।
गीतनृत्यनमस्कारैर् ब्रह्मजपसंयुतः ॥ ४:७२ ॥

Nishvasamukha 4.73

एकवासो ह्य् अवासो वा दक्षिणामूर्त्तिम् आश्रितः ।
सुशीर्ण्णपतितैः पुष्पैर् देवदेवं समर्च्च[[((येत्))]] ॥ ४:७३ ॥

Nishvasamukha 4.74

मूत्रामेध्यन् न पश्येत स्त्रीशूद्रान् नाभिभाषयेत् ।
प्राणायामञ् च दृष्ट्वा वै बहुरूपन् ततो जपेत् ॥ ४:७४ ॥

Nishvasamukha 4.75

अकालुष्येण भावेन जन्तुम् पश्येत सर्व्वतः ।
अमङ्गलम् मङ्गलञ् च अपसव्यम् प्रदक्षिणम् ॥ ४:७५ ॥

Nishvasamukha 4.76

पितृपूजां देवपूजाम् उभे देवाय कल्पयेत् ।
अनन्यभक्तिना कार्यं तप उग्रम् महात्मना ॥ ४:७६ ॥

Nishvasamukha 4.77

शीतातपपरिक्लेशैर् जलमभ्रू --- [२] --- सिभिः ।
जपध्यानपरो नित्यं सर्वद्वन्द्वसहिष्णुता ॥ ४:७७ ॥

Nishvasamukha 4.78

जपनिष्ठैकान्तरतिर् व्यक्ताव्यक्तैकलिङ्गिनः ।
विपरीतानि कर्म्माणि कुर्व्वल् लोकजुगुप्सितः ॥ ४:७८ ॥

Nishvasamukha 4.79

परिभूयमानश् चरेद् व्रतम् पाशुपतम् महत् ।
तेभ्यो दुष्कृतम् आदत्ते सुकृतञ् चापकर्षते ॥ ४:७९ ॥

Nishvasamukha 4.80

स्पन्दमानस् तु विक्रोशेन् मण्टे कुण्टेति वा पुनः ।
विरुद्धचेष्टितं वाक्यं विरुद्धञ् चाञ्जनं सदा ॥ ४:८० ॥

Nishvasamukha 4.81

विरुद्धमण्डनङ् गात्रे सर्व्वदा समुपक्रमेत् ।
परिभूतः कृच्छ्रतपा सर्व्वलोकेषु निन्दितः ॥ ४:८१ ॥

Nishvasamukha 4.82

महातपा च भवते पूजालाभविवर्ज्जितः ।
गूढव्रतोन्मत्तचेष्टी विलोमी लौकिके व्रते ॥ ४:८२ ॥

Nishvasamukha 4.83

जितेन्द्रियश् च दान्तश् च क्षमी कामविवर्ज्जितः ।
गोधर्म्मा मृगधर्म्मा वा नैकान्नादः कदाचन ॥ ४:८३ ॥

Nishvasamukha 4.84

लवण --- [४] --- च भिक्षायाम् पतितं सदा ।
न दुष्येत तद् अश्नाति सन्मार्ग्गव्रतचारिणे ॥ ४:८४ ॥

Nishvasamukha 4.85

प्राणायामैर् धारणाभिर् ओङ्कारन् तु विचिन्तयेत् ।
शून्यागारगुहावासी नित्यम् एव श्मशानगः ॥ ४:८५ ॥

Nishvasamukha 4.86

एवं यो वर्त्तते नित्यं दम्भलोभविवर्ज्जितः ।
सर्वज्ञाता च भवते श्रवणन् दर्शनन् तथा ॥ ४:८६ ॥

Nishvasamukha 4.87

मननं शोधनञ् चैव विज्ञानं च यथेप्सितम् ।
((महा)) [--- ३ अक्षर ---] चैवासौ रुद्रसायोज्यताम् ब्रजेत् ॥ ४:८७ ॥

Nishvasamukha 4.88

सिद्धस् तु न निवर्त्तेत विभ्रष्टो नरकम् ब्रजेत् ।
अत्याश्रमव्रतं ख्यातं लोकातीतञ् च मे शृणु ॥ ४:८८ ॥

Nishvasamukha 4.89

आलब्धः पञ्चभिर् गुह्यैर् दीक्षितश् चैव सो भ्रमेत् ।
खट्वाङ्गी च कपाली च स जटी मुण्डम् एव वा ॥ ४:८९ ॥

Nishvasamukha 4.90

वालयज्ञोपवीती च शिरोमुण्डैश् च मण्डितः ।
कौपीनवासो भस्माङ्गी दिव्याभरण[[भूषितः]] ॥ ४:९० ॥

Nishvasamukha 4.91

जगद् रुद्रमयम् मत्वा रुद्रभक्तो दृढव्रतः ।
सर्वादस् सर्व्वचेष्टश् च रुद्रध्यानपरायणः ॥ ४:९१ ॥

Nishvasamukha 4.92

रुद्रम् मुक्त्वा न चान्यो ऽस्ति त्राता मे देवतम् परम् ।
विदित्वैकादशाध्वानं निर्विशङ्कस् समाचरेत् ॥ ४:९२ ॥

Nishvasamukha 4.93

प्रथमे जालम् एतत् तु द्वितीये मूर्त्तिसञ्ज्ञकम् ।
तृतीये पशुर् आख्यातम् पाशाश् चैव चतुर्थके ॥ ४:९३ ॥

Nishvasamukha 4.94

पञ्चमे विग्रहः ख्यातः अशुद्धास् ते प्रकीर्त्तिताः ।
अशुद्धमार्ग्गो व्याख्यातः शुद्धमार्ग्गञ् च मे शृणु ॥ ४:९४ ॥

Nishvasamukha 4.95

योनिर् वागीश्वरी देवी प्रणवो यत्र जायते ।
तृतीयञ् चैव धातारं ध्यानञ् चैव चतुर्थकम् ॥ ४:९५ ॥

Nishvasamukha 4.96

तेजीशम् पञ्चमम् ख्यातन् ध्रुवं षष्ठम् प्रकीर्त्तितम् ।
अवीच्यादि ध्रुवान्तञ् च एतज् ज्ञात्वा विमुच्यते ॥ ४:९६ ॥

Nishvasamukha 4.97

क्रीडार्थसिद्धये चैव प्रक्रियाध्यानम् आश्रितः ।
शोध्य वै प्रक्रियाध्वानम् अथशब्देन दीक्षयेत् ॥ ४:९७ ॥

Nishvasamukha 4.98

अथशब्दनिपातेन दीक्षितश् चापशुर् भवेत् ।
क्रियावांश् च दुराचारो मुच्यते नात्र संशयः ।
लोकातीतं समाख्यातं किम् अन्यत् परिपृच्छसि ॥ ४:९८ ॥

Nishvasamukha 4 – Sprecherangabe vor 4.99

देव्य् उवाच ।

Nishvasamukha 4.99

एकादशैते तत्त्वास् तु नाममात्रेण मे श्रुताः ।
पुनर् विस्तरशो ब्रूहि यथा वेद्मि महेश्वर ॥ ४:९९ ॥

Nishvasamukha 4 – Sprecherangabe vor 4.100

महेश्वर उवाच ।

Nishvasamukha 4.100

[[((अ))]]वीची कृमिनिचयो वैतरणी कूटशाल्मली ।
गिरिर् यमल उच्छुवासो निरुच्छुवासो ह्य् अथापरः ॥ ४:१०० ॥

Nishvasamukha 4.101

पूतिमान्सद्रवश् चैव त्रपुस् तप्तजतुस् तथा ।
पङ्कालयो ऽस्थिभङ्गश् च क्रकचच्छेदम् एव च ॥ ४:१०१ ॥

Nishvasamukha 4.102

मेदो ऽसृक्पूयह्रदश् च तीक्ष्णायस्तुण्डम् एव च ।
अङ्गारराशिभुवनः शकुनिश् चाम्बरी[[षकः]] ॥ ४:१०२ ॥

Nishvasamukha 4.103

--- न्या ह्य् असितालवनस् तथा ।
सूचीमुखः क्षुरधारः कालसूत्रो ऽथ पर्व्वतः ॥ ४:१०३ ॥

Nishvasamukha 4.104

पद्मश् चैव समाख्यातो महापद्मस् तथैव च ।
अपाको सार उष्णश् च सञ्जीवनसुजीवनौ ॥ ४:१०४ ॥

Nishvasamukha 4.105

शीततमो ऽन्ध्यतमसौ महारौरवरौरवौ ।
द्वात्रिंशद् एते नरका मया देवि प्रकीर्त्तिताः ॥ ४:१०५ ॥

Nishvasamukha 4.106

शताधा((धिकसंयु))क्ताः --- [५] --- संयुताः ।
चतालीसशतं ह्य् एतन् नरकाणाम् प्रकीर्त्तितम् ॥ ४:१०६ ॥

Nishvasamukha 4.107

पातालानि प्रवक्ष्यामि निबोधय यशस्विनि ।
आदौ महातलन्नाम कृष्णभौमम् प्रकीर्त्तितम् ॥ ४:१०७ ॥

Nishvasamukha 4.108

रसातलन् द्वितीयन् तु स्फाटिकन् तत् प्रकीर्त्तितम् ।
तलातलन् तृतीयन् तु रैत्यभौमम् प्रकीर्त्तितम् ॥ ४:१०८ ॥

Nishvasamukha 4.109

ताम्रभौमन् तु नितलश् चतुर्थन् तु निगद्यते ।
रौप्यभौमन् तु सुतलम् पञ्चमम् परिपठते ॥ ४:१०९ ॥

Nishvasamukha 4.110

षष्ठं वितलसञ्ज्ञन् तु रत्नशर्क्करसहितम् ।
सप्तमञ् चितलन्नाम सौवर्ण्णन् तद् उदाहृतम् ॥ ४:११० ॥

Nishvasamukha 4.111

क्रमेण कथितास् सप्त पातालाधिपतीं शृणु ।
नागाश् च गरुडाश् चैव तथा किम्पुरुषाण्डजाः ॥ ४:१११ ॥

Nishvasamukha 4.112

अग्निर् वायुश् च वरुणो ह्य् असुरां पतयस् तथा ।
कथितास् तु निवासिन्यो भूलोक[[((म् अधुना शृ))]]णु ॥ ४:११२ ॥

Nishvasamukha 4.113

सप्तद्वीपसमुद्रान्तं वर्षवृक्षनगैर् युतम् ।
वनोपवनगूढञ् च नदीभिस् सागरैर् युतम् ॥ ४:११३ ॥

Nishvasamukha 4.114

ऋषिदेवगणाकीर्ण्णं गन्धर्वाप्सरसेवितम् ।
धर्म्मार्थकाममोक्षन् तु सर्वम् अस्मिन् प्रतिष्ठितम् ॥ ४:११४ ॥

Nishvasamukha 4.115

भूलोकः कथितो ह्य् एष भुवलोकम् अतः परम् ।
स्वर्लोकन् तु ततोर्ध्वन् तु महर्लोकञ् जनन् तपः ॥ ४:११५ ॥

Nishvasamukha 4.116

सत्यञ् चैव ततोर्ध्वं तु [[ब्रह्म]]लोकन् ततोपरि ।
विष्णोश् चैव निकेतन् तु शिवस्य तु पुरन् तथा ॥ ४:११६ ॥

Nishvasamukha 4.117

ब्रह्माण्ड एष विख्यातः कपाला[[((व))]]रणैर् युतः ।
शतरुद्राश् च पञ्चाष्टौ देवयोन्य् अष्टकन् ततः ॥ ४:११७ ॥

Nishvasamukha 4.118

योगाष्टकश् च सुशिवं गुरुपङ्क्तित्रयन् ततः ।
तत्त्वसर्गम् अतोर्ध्वन् तु कथ्यमानञ् च मे शृणु ॥ ४:११८ ॥

Nishvasamukha 4.119

प्रधानबुद्ध्यहङ्कारतन्मात्राणीन्द्रियाणि च ।
भूतानि च तथा पञ्च मनश् चैवोभयात्मकम् ॥ ४:११९ ॥

Nishvasamukha 4.120

चतुर्व्विंशति तत्त्वा[[नि पु]]रुषः पञ्चविंशकः ।
पञ्चविंशकम् एतत् तु षड्ढौशिकसमुद्भवम् ॥ ४:१२० ॥

Nishvasamukha 4.121

मातृजैः पितृजैश् चैव अन्नपानविवर्द्धितम् ।
गहनञ् च ततोर्ध्वन् तु विग्रहेशं ततोर्ध्वतः ॥ ४:१२१ ॥

Nishvasamukha 4.122

शिवशङ्करम् असाध्यं हरिरुद्रदशेशकम् ।
पञ्च शिष्यास् तथाचार्या महादेवत्रयन् ततः ॥ ४:१२२ ॥

Nishvasamukha 4.123

गोपतेर् ग्रन्थिर् ऊर्ध्वन् तु मूर्ध्नाभिभवपञ्चकम् ।
अनन्तश् चैव पाशाश् च जालम् एतत् प्रकीर्त्तितम् ॥ ४:१२३ ॥

Nishvasamukha 4.124

कार्यं दुःखं तथा ज्ञानं साधनन् तत्त्वम् एव च ।
षष्ठं साध्यं तथैश्वर्यं कारणञ् च तथाष्टमम् ॥ ४:१२४ ॥

Nishvasamukha 4.125

प्रोक्तं विषयम् अज्ञानं कारणोर्ध्वी च कथ्यते ।
अशुद्धाध्वा समाख्यातः शुद्धाध्वानञ् च मे शृणु ॥ ४:१२५ ॥

Nishvasamukha 4.126

मुक्त ऋषिकुलेभ्यस् तु संसाराच् च दुरत्ययात् ।
योन्याञ् चाप्य् अथ वागेश्यां जातः प्रणव उच्यते ॥ ४:१२६ ॥

Nishvasamukha 4.127

धातारन् दमनञ् चैव ईश्वरं ध्यानम् एव च ।
भस्मीशश् च समाख्यातम् प्रमाणाष्टकम् एव च ॥ ४:१२७ ॥

Nishvasamukha 4.128

विद्याष्टकं च मूर्त्त्य् अष्टौ तेजीशश् च ध्रुवस् तथा ।
इति सङ्ख्याः समासेन शुद्धाध्वानः प्रकीर्त्तिताः ॥ ४:१२८ ॥

Nishvasamukha 4.129

कपालव्रतम् आश्रित्य ध्रुवं गच्छन्ति तत्पदम् ।
लोकातीतं समाख्यातम् महापाशुपतं व्रतम् ॥ ४:१२९ ॥

Nishvasamukha 4.130

प्रक्रियाचर्यसंयुक्तो ध्रुवं गच्छति तत्पदम् ।
विभ्रष्टो नरकं याति प्रक्रियाचर्यवर्ज्जितः ॥ ४:१३० ॥

Nishvasamukha 4.131

अतिमार्ग्गं समाख्यातं द्विःप्र[[कारं व(रा)]]नने ।
पूर्वेणैव [[(तु)]] वक्त्रेण सरहस्यं प्रकीर्त्तितम् ।
अत ऊर्ध्वम् महादेवि किं वक्ष्ये परमेश्वरि ॥ ४:१३१ ॥

Nishvasamukha 4 – Sprecherangabe vor 4.132

देव्य् उवाच ।

Nishvasamukha 4.132

मन्त्रमार्ग्गं त्वया देव सूचितन् न तु वर्ण्णितम् ।
संसारोच्छित्तिकरणन् तम् आचक्ष्व महेश्वर ॥ ४:१३२ ॥

Nishvasamukha 4.133

एवम् उक्तस् तु पार्वत्या सर्व्वपापहरो हरः ।
उवाच मधुरां वाणीम् मन्त्रतन्त्रार्थनिश्चितम् ॥ ४:१३३ ॥

Nishvasamukha 4.134

अधुना [[तद् अतो]] विप्रास् संवादम् उमया सह ।
ईश्वरस्य +तु+ देवस्य मन्त्रमार्ग्गव्यवस्थितम् ॥ ४:१३४ ॥

Nishvasamukha 4.135

पञ्चमेनैव वक्त्रेण ईशानेन द्विजोत्तमाः ।
मन्त्राख्यं कथयिष्यामि देव्याया गदितम् पुरा ॥ ४:१३५ ॥

Nishvasamukha 4.136

चतुःस्रोता मया पूर्व्वं श्रुता देव्याः प्रसादतः ।
ते सर्व्वे कथितास् तुभ्यं निस्सन्दिग्धा द्विजोत्तमाः ॥ ४:१३६ ॥

Nishvasamukha 4.137

पञ्चमन् तु परं स्रोतं [[शि]] --- ।
कथितं देवदेवेन किम् भूयः श्रोतुम् इच्छथ ॥ ४:१३७ ॥

Nishvasamukha 4 – Kolophon

॥ ⊗ ॥ इति निश्वासमुखतत्त्वसंहितायां चतुर्थः पटलः ॥ ° ॥

Nishvasamukha 4 – Zählvermerk

श्लोकशतं सप्तत्रिंशोत्तरम् । चतुःस्रोताः श्लो ६४३ ॥ ⊗ ॥

Mulasutra

Kapitel 1

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 1 – Sprecherangabe vor 1.1

ऋषय ऊचुः ॥

Mulasutra 1.1

शिवज्ञानं परं गुह्यं कथम् उक्तं स्वयम्भुवा ।
कस्मिं स्थाने श्रुतन् देव्या [प्रसादा]द्{वक्तुम् अर्हसि} ॥ १:१ ॥

Mulasutra 1 – Sprecherangabe vor 1.2

{नन्दिर् उवाच} ।

Mulasutra 1.2

कैलासशिखरासीनन् देवदेवं जगद्गुरुम् ।
ब्रह्मविष्णुसुराः सर्व्वे गणाः स्कन्दपुरोगमाः ॥ १:२ ॥

Mulasutra 1.3

ऋषयो ऽप्सरसो यक्षा नागगन्धर्व्वकिन्नराः ।
दैत्या विद्याधरास् सिद्धास् तथान्ये पुरवासिनः ॥ १:३ ॥

Mulasutra 1.4

केचित् स्तुन्वन्ति देवेशं केचिन् नृत्यन्ति चाग्रतः ।
केचिद् गायन्ति हृष्टास् तु केचित् प्रणत मूर्द्धनि ॥ १:४ ॥

Mulasutra 1.5

केचित् {सामानि} गायन्ति केचित् पुष्पां क्षिपन्ति च ।
केचिद् ध्यायन्ति निरता वाद्यं वादयन्ति चापरे ॥ १:५ ॥

Mulasutra 1.6

सिंहनादम् प्रमुञ्चन्ति गर्ज्जन्ते ह्य् उत्पतन्ति च ।
हसन्ते किलकिलायन्ते नित्यप्रमुदितेन्द्रियाः ॥ १:६ ॥

Mulasutra 1.7

न तत्र मृत्युर् न्न जरा न व्याधिर् न्न दुःखिता ।
एवम् प्रमुदितन् दृष्ट्वा देवी वचनम् अब्रवीत् ॥ १:७ ॥

Mulasutra 1.8

सं[सा(रसागरे)] घोरे जन्ममृत्युभयावहे ।
त्वम् एव पोतभूतस् तु नान्यस् त्राता सुरेश्वर ॥ १:८ ॥

Mulasutra 1.9

वेदान्तं विदितं देव साङ्ख्यं वै पञ्चविंशकम् ।
न च तृप्तिं गमिष्यामो ह्य् ऋते शैवाद् अनुग्रहात् ॥ १:९ ॥

Mulasutra 1.10

आचार्यञ् च तथा शिष्यं भू कालं रज एव च ।
अधिवासश् चरुश् चैव मण्डलं पूजनन् तथा ॥ १:१० ॥

Mulasutra 1.11

आचक्ष्व देवदेवे[(श) (दी)]क्षां निर्व्वाणगामिनीम् ।
शिवतत्त्वं परञ् चैव यं विदित्वामृतीभवेत् ॥ १:११ ॥

Mulasutra 1.12

प्रेषयित्वा समयज्ञा देवो वचनम् अब्रवीत् ।
शृणु देवि परं गुह्यं यत् त्वया चोदितो ह्य् अहम् ॥ १:१२ ॥

Mulasutra 1.13

शिवतत्त्वम् अविज्ञाय दीक्षां कुर्व्वन्ति ये नराः ।
दीक्षितास् ते न मुच्यन्ते देशिको नरकं व्रजेत् ॥ १:१३ ॥

Mulasutra 1.14

दीक्षाभिज्ञो ऽथ त[(त्वज्ञो द)]यालुः शिवपूजकः ।
सर्व्वलक्षणहीनो ऽपि स गुरुः शिवतुल्यगः ॥ १:१४ ॥

Mulasutra 1.15

श्रद्दधानो ऽनुसूयश् च गुरुदेवाग्निपूजकः ।
अन्त्यजातो ऽपि देवेशे स तु शिष्यस् तु मोक्षभाक् ॥ १:१५ ॥

Mulasutra 1.16

दीक्षितो ज्ञानिनश् चैव शिवभक्तिविवर्ज्जितः ।
निन्दते गुरवं यस् तु ब्राह्मणो ऽपि न मोक्षभाक् ॥ १:१६ ॥

Mulasutra 1.17

शिवालये नदी(तीरे) {पर्व्व}ते चत्वरे तथा ।
श्मशाने वा गृहे वापि यत्र वा रमते मनः ॥ १:१७ ॥

Mulasutra 1.18

सितरक्तकृष्णपीता ईशानस्रवणी मही ।
शुद्धा शल्यविहीना तु मधुरादौ चतुर्व्विधा ॥ १:१८ ॥

Mulasutra 1.19

अशुद्धा विपरीता च या च उर्व्वी भविष्यति ।
तत्त्वजप्तेन तोयेन सिक्ता भवति शोभना ॥ १:१९ ॥

Mulasutra 1.20

सन्ध्याकाले तु सम[(प्राप्ते)] {कृतकृत्यो विचक्ष}{णः} ।
तत्त्वाङ्गैश् च सुसन्नद्धः पश्चात् कर्म्म समारभेत् ॥ १:२० ॥

Mulasutra 1.21

यागभूमिम् प्रलिप्यादौ गोमयेन शुभेन तु ।
पञ्चगव्येन चाभ्युक्ष्य गन्धतोयेन वा पुनः ॥ १:२१ ॥

Mulasutra 1 – Kolophon

इति निश्वासतत्त्वसंहितायाम् मूलसूत्रे प्रथमः पटलः श्लो २३ ।

Kapitel 2

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 2.1

अथातस् सम्प्रवक्ष्यामि शिवार्च्चेनवि[(धिक्रमम्)] ।
{योग}{पीठं स}{माध्या चतुर्भिश् चरणै}र् य्युतम् ॥ २:१ ॥

Mulasutra 2.2

सितरक्तपीतकृष्णैर् वर्त्तुलं तेजसन्निभम् ।
तस्योपरि सितं पद्मं नवशक्तिसमन्वितम् ॥ २:२ ॥

Mulasutra 2.3

अनन्तपूजां निर्वर्त्त्य नवात्मानं ततोपरि ।
पञ्चब्रह्मसमायुक्तं साङ्गं गायत्रिसम्युतम् ॥ २:३ ॥

Mulasutra 2.4

सकलन् तु भवेद् देवं तस्य पूजाम् प्रकल्पयेत् ।
एवम् पूज्य यथान्यायन् निष्कलञ् च ततोपरि ॥ २:४ ॥

Mulasutra 2.5

स्वागत{ञ्चार्घ्यपाद}ञ् च स्नानम् आचमनन् तथा ।
पञ्चगव्येन पयसा दधिक्षीरघृतादिभिः ॥ २:५ ॥

Mulasutra 2.6

गन्धोपवीतं धूपञ् च पुष्पाणि सुरभीणि च ।
मुकुटकुण्डलश् चैव केयूरं कटिसूत्रकम् ॥ २:६ ॥

Mulasutra 2.7

रत्नानि विविधार्हाणि वस्त्राणि विविधानि च ।
ध्वजादर्शपताकानि चामरञ् च वितानकम् ॥ २:७ ॥

Mulasutra 2.8

षड्विधञ् च बलिं दद्यात् कलशं र[(त्नपूरितम्)] ।
विधिनानेन पूज्येत पञ्चभिर् ब्रह्मभिर् बुधः ॥ २:८ ॥

Mulasutra 2.9

विद्येश्वरं ततः पूज्य ततः पूज्य दिगीश्वरम् ।
अस्त्राणि च समभ्यर्च्च्य कर्म्मान्ते दिग्बलिं क्षिपेत् ॥ २:९ ॥

Mulasutra 2.10

समाप्ते कर्म्मणि चैव कृत्वा चैव प्रदक्षिणम् ।
वाद्यं गीतन् ततः कृत्वा ब्रह्मभिस् तु विसर्ज्जयेत् ॥ २:१० ॥

Mulasutra 2 – Kolophon

इति मूलसूत्रे द्वितीयः पटलः ॥ ○ ॥ श्लो १० ॥

Kapitel 3

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 3.1

अग्नि[(कार्यं प्र)]वक्ष्यामि तन् मे निगदतः शृणु ।
उल्लिख्य तूद्धरेद् विद्वान् उद्धत्याभ्युक्षयेत् पुनः ॥ ३:१ ॥

Mulasutra 3.2

चतुष्पयन् ततः कृत्वा वह्निं स्थाप्य समूहयेत् ।
ब्रह्माणं स्थाप्य याम्ये कुशैर् आस्तरणं कुरु ॥ ३:२ ॥

Mulasutra 3.3

कुशान् आस्तीर्य्य पूर्व्वाग्रान् अर्च्चनन् तत्र कारयेत् ।
हुत्वेध्मां परिधिं स्थाप्य प्रणीताञ् चोत्तरे न्यसेत् ॥ ३:३ ॥

Mulasutra 3.4

अभ्युक्षये च पात्राणि ताप्ये[(च् च)] {स्रुवं} स्रुचीम् ।
घृतं ताप्य ततोद्वास्य स्थापयित्वोत्प्लवेत् पुनः ॥ ३:४ ॥

Mulasutra 3.5

दक्षिणोत्तरम् आघारौ आज्यभागन् तु होमयेत् ।
पूर्ण्णाहुतिं ततो दद्याच् चिन्तयित्वा हुताशनम् ॥ ३:५ ॥

Mulasutra 3.6

सितोत्तानम् ऊर्द्धवक्त्रं त्रिनेत्रञ् च चतुर्भुजम् ।
निष्कलं हृदये तस्य ध्यात्वा पूर्ण्णाहुतिन् ददेत् ॥ ३:६ ॥

Mulasutra 3.7

पूर्ण्णाहुत्यान् तु दत्तायां शिवाग्निर् इति (सि){ध्यति} ।
{पश्}चिमास्येन देवेशो हविर् गृह्णाति नित्यशः ॥ ३:७ ॥

Mulasutra 3.8

अग्निबीजेन तत् सर्व्वम् अग्निकर्म्मञ् च कारयेत् ।
यथेष्टन् तु ततो होमं कर्त्तव्यं सिद्धिम् इच्छता ॥ ३:८ ॥

Mulasutra 3.9

त[(त्त्वे)]न तु षडङ्गेन पञ्चब्रह्मयुतेन च ।
अध्वानं सकलीकृत्वा पाशां तत्त्वेन बन्धयेत् ॥ ३:९ ॥

Mulasutra 3.10

चरुश् च श्रपयेत् पश्चाच् छालि[षष्टिकतण्डुलैः ।]
--- प्रसृतिसंयुतैः ॥ ३:१० ॥

Mulasutra 3.11

घृतक्षीरसमोपेतं ब्रह्मभिस् साधयेच् चरुम् ।
साधयित्वा ततो ह्य् एकं हुत्वा देवाय कल्पयेत् ॥ ३:११ ॥

Mulasutra 3.12

तृतीयं साधकेयश् च पञ्चगव्यपुरःसरम् ।
दन्तधावन सक्षीरं प्राश्य क्षिप्त्वा निरीक्षयेत् ॥ ३:१२ ॥

Mulasutra 3.13

पूर्व्वपश्चिम ईशोर्द्ध उत्तरस्यान् तु शोभनम् ।
अन्यस्याम् अशुभञ् चैव होमं (तस्य) {शतं भवेत्} ॥ ३:१३ ॥

Mulasutra 3.14

एवं होमपवित्रैश् च दुःस्वप्नस्य च दर्शने ।
भस्मशय्यासमारूढो यागभूमौ स्वपेद् बुधः ॥ ३:१४ ॥

Mulasutra 3.15

प्रभाते कृतजाप्यश् च गुरोः स्वप्नान् निवेदयेत् ।
स्वप्नाश् चैव प्रवक्ष्यामि अशुभानि शुभानि च ॥ ३:१५ ॥

Mulasutra 3.16

देवाचार्यद्विजा गावो नरेन्द्रं श्वेतवाससम् ।
दृष्ट्वा सिद्ध्यति स्वप्नान्ते गजपर्व्वतरोहणम् ॥ ३:१६ ॥

Mulasutra 3.17

खरोष्ट्र[(रोहणम्)] {चैव पा}तालं विशते यदा ।
तैलाभ्यङ्गं तथोद्वाहं दृष्ट्वा चैव न सिद्ध्यति ॥ ३:१७ ॥

Mulasutra 3 – Kolophon

इति मूलसूत्रे तृतीयः पटलः श्लो १७ ॥ ○ ॥

Kapitel 4

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 4.1

अतः परं प्रवक्ष्यामि मुक्तिमण्डलम् उत्तमम् ।
यन् दृष्ट्वा मुच्यते जन्तुर् अशेषपशुबन्धनात् ॥ ४:१ ॥

Mulasutra 4.2

वर्त्तुलं चतुरस्रं वा सर्व्वकामफलप्रदम् ।
एकहस्तात् समारभ्य यथाकामं समालिखेत् ॥ ४:२ ॥

Mulasutra 4.3

[(चतु)]रस्रञ् चतुर्द्द्वारम् मध्ये पङ्कजभूषितम् ।
त्रिरेखम् पञ्चरेखं वा आलिखेत् तत्त्वमण्डलम् ॥ ४:३ ॥

Mulasutra 4.4

त्रिवर्ण्णकैस् त्रिरेखं स्यात् पञ्चभिः पञ्चवर्ण्णकम् ।
पूर्व्वोक्तेन विधानेन मध्ये देवन् तु पूजयेत् ॥ ४:४ ॥

Mulasutra 4.5

विद्येश्वरान् द्वितीये तु लोकपालांस् तृतीयके ।
चतुर्थे पूजये ऽस्त्राणि गन्धपुष्पैर् यथाक्रमम् ॥ ४:५ ॥

Mulasutra 4.6

एवम् पूज्य यथा[(न्यायं द्वा)]रम् अस्त्रेण घट्टयेत् ।
पूर्व्वोक्तेन विधानेन कृत्वा वह्निं शिवात्मकम् ॥ ४:६ ॥

Mulasutra 4.7

मन्त्रातीतश् च मन्त्रश् च द्विधावस्थः परः शिवः ।
मन्त्रात्मा चेतनश् चैव द्विधा च पुरुषः स्मृतः ॥ ४:७ ॥

Mulasutra 4.8

दीक्षाकर्म्म भवेत् तस्य योनिं स्थाप्याग्निमध्यतः ।
शिवोत्सर्ग्गं क्षिपेत् तत्र ध्यात्वा लिङ्गे तु साधकम् ॥ ४:८ ॥

Mulasutra 4.9

गर्ब्भाधानम् पुंसवनं सीमन्तम् [जातकर्म्म] च ।
निष्क्रामनन् तथा नामम् प्राशनञ् चूडम् एव च ॥ ४:९ ॥

Mulasutra 4.10

मेखलाजिनवासांसि पवित्रन् दण्डधारणम् ।
सन्ध्याजापश् च होमश् च त्रिपुण्ड्रञ् चाभिवादनम् ॥ ४:१० ॥

Mulasutra 4.11

व्योमव्यापी पिता मह्यं वागेशी जननी मम ।
सद्योजातः कुमारो ऽहम् अग्निस्थम् अभिवादयेत् ॥ ४:११ ॥

Mulasutra 4.12

अभिवाद्य गुरुं ह्य् एवं व्रतन्त्यक्त्वा {तु स्नाप}येत् ।
स्ना{त्वा चो}द्वाह{येद् भार्यां} ज्ञानसिद्धिकुमारिकाम् ॥ ४:१२ ॥

Mulasutra 4.13

तया सह यजेद् यज्ञां पाकाद्यां आसहस्रिकां ।
तापस्यञ् च परिव्राज्यं शोधनम् प्रोक्षणन् तथा ॥ ४:१३ ॥

Mulasutra 4.14

न्यासम् आलम्भनञ् चैव शिवहस्तम् पाशकृन्तनम् ।
पञ्चभिर् ब्रह्मभिश् चैव सर्व्वाण्य् एतानि कारयेत् ॥ ४:१४ ॥

Mulasutra 4.15

शिवेन च्छिन्दयेत् पाशं हुत्वा पूर्ण्णाहुतिन् ददेत् ।
ताडनञ् च शिखाच्छेदं शि{ख}या कारयेद् बुधः ॥ ४:१५ ॥

Mulasutra 4.16

विद्यादीक्षा भवेद् एषा सकले योज्यदायिका ।
विद्यादीक्षासमाप्तौ तु कलशेनाभिषेचयेत् ॥ ४:१६ ॥

Mulasutra 4.17

शताष्टाधिकजप्तेन इष्टमन्त्रेण साधकम् ।
स्थानं कालं सहायञ् च लिङ्गं वेदी जपन् तथा ॥ ४:१७ ॥

Mulasutra 4.18

प्रायश्चित्ताक्षमाला च विद्यांशा होमम् एव च ।
भक्षाभक्षं तथा शौचं सिद्ध्यसि[(द्धि)] बलाबलम् ।
व्रतानि सम्यग् बुद्ध्वा तु ततः साधनम् आरभेत् ॥ ४:१८ ॥

Mulasutra 4 – Kolophon

इति मूलसूत्रे चतुर्थः पटलः श्लो ⟦?⟧ ॥ ○ ॥

Kapitel 5

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 5.1

मुक्तिदीक्षाम् अतो वक्ष्ये तां समासेन मे शृणु ।
याम् अवाप्य विमुच्यन्ते जन्ममृत्युभयादिभिः ॥ ५:१ ॥

Mulasutra 5.2

कालाग्निरुद्राद् आरभ्य यावत् तत्त्वं निरामयम् ।
योज्य योज्य पुनस् तत्त्वाद् उद्धरेन् मति{मान्} --- ॥ ५:२ ॥

Mulasutra 5.3

कालाग्निरुद्रे संयोज्य वामया साधकं बुधः ।
साङ्गेन देवदेवेन पञ्चब्रह्मयुतेन च ॥ ५:३ ॥

Mulasutra 5.4

होमन् तु कारयेद् विद्वान् ज्येष्ठया तु विशोधयेत् ।
रौद्र्या चैवोद्धरित्वा तु नरकेषु तु योजयेत् ॥ ५:४ ॥

Mulasutra 5.5

आभासतालम् उत्ताले श्रीताले च गभस्तिके ।
शिलोच्चये च तं नीत्वा तथा वै शर्क्करोच्चये ॥ ५:५ ॥

Mulasutra 5.6

सौवर्ण्णेषु [च] {तम् प्राप्य} भूर्लोके च भुवे तथा ।
स्वर्लोके महर्लोके च जनलोके तथैव च ॥ ५:६ ॥

Mulasutra 5.7

तपोलोकन् ततः प्राप्य सत्यलोकं नयेत् पुनः ।
ब्रह्मविष्णुपुरं नीत्वा पुनः शिवपुरं नयेत् ॥ ५:७ ॥

Mulasutra 5.8

एवं वै होमयित्वा तु ब्रह्माण्डं भेदयेत् ततः ।
हुंफट्कारान्तेन मन्त्रेण भेदनम् परमं स्मृतम् ॥ ५:८ ॥

Mulasutra 5.9

तम् भि{त्त्वा} --- {शतरुद्रे}षु सुव्रते ।
ततोपरिष्टात् पञ्चाष्टं देवयोन्याष्टकन् ततः ॥ ५:९ ॥

Mulasutra 5.10

योगाष्टकञ् च सुशिवं गुरुपङ्क्तित्रयं नयेत् ।
तत्त्वसर्ग्गे च संयोज्य गहने विग्रहे तथा ॥ ५:१० ॥

Mulasutra 5.11

शिवशङ्करे ह्य् असाध्ये हरिरुद्रे दशेशके ।
पञ्चशिष्ये तथाचार्य्ये महादेवत्रयेषु च ॥ ५:११ ॥

Mulasutra 5.12

गोपतौ च महाग्रन्थौ विश्वे {च} त्रिकाले तथा ।
क्षेमीशे {च ततो नीत्वा} योज्य ब्रह्मपतौ शिवे ॥ ५:१२ ॥

Mulasutra 5.13

मदमोहेषु संयोज्य तथा रिषिकुलेषु च ।
योनिषु च ततोद्धृत्य वागीश्वर्य्यान् नियोजयेत् ॥ ५:१३ ॥

Mulasutra 5.14

प्रणवे च विनिक्षिप्य साध्यौङ्कारे च योजयेत् ।
धातारे दमनीशे च भस्मदेहे ततोद्धरेत् ॥ ५:१४ ॥

Mulasutra 5.15

प्रमाणाष्टकविद्याष्टौ मूर्त्तिष्व् अष्टासु योजयेत् ।
†रूपे द्वितीयस् तु ध्रुवे तस्योर्द्धे [तु] --- पुनः† ॥ ५:१५ ॥

Mulasutra 5.16

रूपे शक्तिषु तं नीत्वा द्वे विद्ये तेजसि ध्रुवे ।
अतोर्द्ध रुद्रप्रतोदमनवेषु च तं नयेत् ॥ ५:१६ ॥

Mulasutra 5.17

एकाक्षः पिङ्गलो हंसः सौम्ये चैव ध्रुवे तथा ।
ब्रह्मादर्कं दिण्डिमुण्डिः सौरभो पावनस् तथा ॥ ५:१७ ॥

Mulasutra 5.18

जन्महरश् च रुद्रश् च प्रणीतः सुखदुःखदः ।
विजृम्भितः पुनश् चापि उपरिष्टाद् भवेद् इह ॥ ५:१८ ॥

Mulasutra 5.19

एतेषां योज[(यि)]त्वा तु तृतीये च ध्रुवे तथा ।
निरञ्जने च संयोज्य शक्तिसंस्कारमोदिते ॥ ५:१९ ॥

Mulasutra 5.20

प्रलम्बे चैव विष्णौ तु मन्दरे गहने तथा ।
प्रवितते प्रभाते च समये क्षुद्रम् एव च ॥ ५:२० ॥

Mulasutra 5.21

विमले च ततो योज्य शिवे चैव घने तथा ।
रुद्रौङ्कारे च सकले तत्त्वे चैव सदाशिवे ॥ ५:२१ ॥

Mulasutra 5.22

अनुच्चार्य्ये तथात्मानं स तु योज्येत निष्कले ।
अ[(प)(रे)]द्युर् यजे देवं चण्डीशं टङ्कधारिणम् ॥ ५:२२ ॥

Mulasutra 5.23

पञ्चाङ्गेन समायुक्तं कृत्वा वै मण्डलोत्तमम् ।
प्रक्रान्तहोमं हुत्वा वै शतान्य् अष्टौ तु होमयेत् ॥ ५:२३ ॥

Mulasutra 5.24

हुत्वा विज्ञापयेद् देवं क्षन्तव्यं तु त्वया विभो ।
समयाष्टकदोषेण साधको नैव लिप्यते ॥ ५:२४ ॥

Mulasutra 5.25

तेषां दोषविशुद्ध्यर्त्थं कृतं होमं मया तव ।
क्षमते †पूर्व्वम् एकन् तु† {चण्डीश य}[(स्तु)] पूजयेत् ॥ ५:२५ ॥

Mulasutra 5.26

{--------------------} ।
दीक्षादग्धा न रोहन्ति भिन्नदेहे शिवं व्रजेत् ॥ ५:२६ ॥

Mulasutra 5 – Kolophon

इति मूलसूत्रे पञ्चमः पटलः । श्लो ⟦?⟧ ५ ॥ ○ ॥

Kapitel 6

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 6.1

अतः परम् प्रवक्ष्यामि मन्त्राणां तत्त्वलक्षणम् ।
यं विदित्वा विमुच्यन्ते नरास् संसारबन्धनात् ॥ ६:१ ॥

Mulasutra 6.2

अष्टान्तम् एक पूर्व्वन् तु [(द्वा)]दशान्तन् ततोपरि ।
षडन्तेन समायुक्तम् अनन्तं ह्य् आसनोत्तमम् ॥ ६:२ ॥

Mulasutra 6.3

प्रकृतिस्थं भवेद् धर्म्मं द्विभिन्नं ज्ञानम् उच्यते ।
त्रिचतुर्थस्य भेदेन वैरागैश्वर्य्यम् उच्यते ॥ ६:३ ॥

Mulasutra 6.4

सविसर्ग्गं भवेत् पद्मं पञ्चदशाक्रान्त कर्ण्णिका ।
त्रिपञ्चकान्तसप्तादौ भित्त्वा तत्त्वन् तु शक्तयः ॥ ६:४ ॥

Mulasutra 6.5

शिवतत्त्वम् परं वक्ष्ये ऽष्टभेदाङ्गसम्यु[तम् ।]
[(ये)]न विज्ञातमात्रेण न पुनर् गृह्यते तनुम् ॥ ६:५ ॥

Mulasutra 6.6

सकलं निष्कलं शून्यं कलाढ्यं खम् अलङ्कृतम् ।
क्षपणं क्षयम् अन्तस्थं कण्ठ्योष्ठाष्टमं स्मृतम् ॥ ६:६ ॥

Mulasutra 6.7

अष्टान्तं षट्कसम्युक्तं षडन्तेन समन्वितम् ।
सकलं सर्व्वदेहस्थं शिवतत्त्वम् प्रकीर्त्तितम् ॥ ६:७ ॥

Mulasutra 6.8

स्वयं निष्क्रमते देवो देहन् त्यक्त्वा समारुतः ।
निष्कलं तं विजानीयात् षड्वर्ण्णरहितः शिवः ॥ ६:८ ॥

Mulasutra 6.9

निश्वासोच्छ्वसनं भित्त्वा स्थितन् देहे तु काष्ठवत् ।
शून्यं तं तु विजानीयाद् धृदयेन तु भावयेत् ॥ ६:९ ॥

Mulasutra 6.10

चुम्बाकारेण वक्त्रेण यत् तत्त्वं श्रूयते †भुवि† ।
कलाढ्यन् तं विजानीयाद् आकाशस्थञ् च मे शृणु ॥ ६:१० ॥

Mulasutra 6.11

ऊर्द्ध्वनादस्य क्षीणस्य यद् अन्तं परिकीर्त्तितम् ।
तत्र स्थन् तं विजानीया[(द् आ)]काशेन त्व् अलङ्कृतम् ॥ ६:११ ॥

Mulasutra 6.12

व्यावृतेन तु वक्त्रेण श्रुत्वा देवं जगद्गुरुम् ।
दुःखक्षपणम् इत्य् उक्तन् तत् क्षयात् क्षपणं स्मृतम् ॥ ६:१२ ॥

Mulasutra 6.13

अधोनादस्य क्षीणस्य यद् अन्तं परिकीर्त्तितम् ।
अन्तस्थं तं विजानीयाद् अनुच्चार्य्यम् प्रकीर्त्तितम् ॥ ६:१३ ॥

Mulasutra 6.14

अष्टवर्ग्गाष्टमं कोटि सप्तमस्य द्वितीयकम् ।
वर्ग्गातीतं षडन्तञ् च सप्तमे {त्रि}चतुर्थकम् ॥ ६:१४ ॥

Mulasutra 6.15

आदिमश् च पुनर् योज्यं षष्ठं वै प्रथमस्य तु ।
खशेखरसमायुक्तं कण्ठ्योष्ठाष्टमं स्मृतम् ॥ ६:१५ ॥

Mulasutra 6.16

वर्ग्गान्तं पञ्चकेनैव भेदयेत् परमेश्वरम् ।
पञ्चब्रह्मास् समाख्याता हःकारो रेत उच्यते ॥ ६:१६ ॥

Mulasutra 6.17

वामा तु बिन्दुसम्युक्ता वागीशीति निगद्यते ।
रेतोभूतः प्रविष्टस् तु सद्य एव प्रजा[(यते)] ॥ ६:१७ ॥

Mulasutra 6.18

तत्त्वम् ईकारसम्भिन्नं ज्ञानसिद्धिकुमारिका ।
उद्वाहयित्वा ताम् पत्नीं यजेद् यज्ञां सदक्षिणाम् ॥ ६:१८ ॥

Mulasutra 6.19

त्रिपञ्चकेन सम्युक्तं हृदयन् तत् प्रकीर्त्तितम् ।
⏑ ⏑ वर्ग्गादिसम्युक्तं शिरो देवस्य कीर्त्तितम् ॥ ६:१९ ॥

Mulasutra 6.20

उभयोर् अपि [सं]योगात् स्वरैः पञ्चभिर् भेदितम् ।
शिरः शिखा कवचास्त्रं गायत्रीह तथेश्वराः ॥ ६:२० ॥

Mulasutra 6.21

वर्ग्गेण सप्तमेनैव चतुर्द्धा योजयेच् छिवम् ।
वायुर् अग्नि ⏑ ⏑ प्रा ⏑ चतुर्द्धा तन् तु योजयेत् ॥ ६:२१ ॥

Mulasutra 6.22

द्वादशादिसमायुक्तम् उकारान्तप्रतिष्ठितम् ।
--- {सविसर्}ग्गास् त्व् अस्त्रयोनयः ।
सप्तमस्य द्वितीयेन युक्तं वै परमेश्वरम् ॥ ६:२२ ॥

Mulasutra 6.23

आसनं चण्डनाथस्य देवदेवस्य कीर्त्तितम् ।
त्रिपञ्चकेन भित्त्वा वै [(चण्डी)]शस् तु स्वयं भवेत् ॥ ६:२३ ॥

Mulasutra 6.24

आं ईं ऊं अं अः । पञ्च अङ्गा तस्य विनिर्दिशेत् ।
वामाङ्गुष्ठात् समारभ्य नवात्मानं नियोजयेत् ॥ ६:२४ ॥ (?)

Mulasutra 6.25

(सकल) --- संस्कारम् उच्यते ।
बीजमुद्रान् तथा बद्ध्वा आसनार्थे प्रयोजयेत् ॥ ६:२५ ॥

Mulasutra 6.26

सकले निष्कले चैव सा तु मुद्रा भविष्यति ।
अन्येषान् तु नमस्कारो ऽमृतां वापि योजयेत् ।
हीनस्य पूरणी ह्य् एषा कोटिमुद्रा विसर्ज्जने ॥ ६:२६ ॥

Mulasutra 6 – Kolophon

इति मूलसूत्रे षष्ठः पटलः ॥ ○ ॥ श्लो [२५]

Kapitel 7

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 7.1

([एतत्] तु त){त् परम्} तत्त्वम् अनुच्चार्य्यं शिवम् परम् ।
एतत् तत् परम् ब्रह्म एतत् तत् परम् आक्षरम् ॥ ७:१ ॥

Mulasutra 7.2

विदित्वा बहुभिर् भेदैर् भूयो जन्मन् न व्रजेत् ।
नैव पापम् भवेत् तस्य नैव पुण्यं तथैव च ॥ ७:२ ॥

Mulasutra 7.3

स्तेयेन कनकादीनां गोमांसस्य च भक्षणे ।
ब्रह्मवध्यासहस्रेण तत्त्वविन् नैव लिप्यते ॥ ७:३ ॥

Mulasutra 7.4

अगम्यागमनं कृत्वा {हत्वा लोकांश्} चराचरान् ।
सुरापानादिभिर् दोषैस् तत्त्वविन् नैव लिप्यते ॥ ७:४ ॥

Mulasutra 7.5

मायानृतसहस्रेषु परहिंसारतो ऽपि यः ।
नित्यशुद्धो भवेद् देवि यस्य तत्त्वं हृदि स्थितम् ॥ ७:५ ॥

Mulasutra 7.6

फलाहारो पञ्चतपो यस् तिष्ठेत शतं समाः ।
सकृद् उच्चारिते तत्त्वे तत् सर्व्वम् फलम् आप्नुयात् ॥ ७:६ ॥

Mulasutra 7.7

यक्षा क्रतुसहस्रं तु य --- ।
सकृद् उच्चारिते तत्त्वे तत् सर्व्वम् फलम् आप्नुयात् ॥ ७:७ ॥

Mulasutra 7.8

शिवार्च्चनाग्निकार्य्यञ् च द्वादशाब्दां करोति यः ।
सकृद् उच्चारिते तत्त्वे तत् सर्व्वम् फलम् आप्नुयात् ॥ ७:८ ॥

Mulasutra 7.9

तेन दत्तं तपस् तप्तं यष्टा यज्ञा सदक्षिण ।
कृतस् तीर्थाभिषेकश् च यस्य तत्त्वं हृदि स्थितम् ॥ ७:९ ॥

Mulasutra 7.10

आरोग्यं धनम् ऐश्वर्य्यं कामाश् च विविधास् तथा ।
सर्व्वं सम्पद्यते तस्य यस् तत्त्वं जपते सदा ॥ ७:१० ॥

Mulasutra 7.11

पादप्रचारं खड्गञ् च रोचना पादुके तथा ।
गुडिकाकाशगमनं दन्तकाष्ठपवित्रकम् ॥ ७:११ ॥

Mulasutra 7.12

अन्तर्द्धानाञ्जनाकर्षविद्वेषोच्चाटमारणम् ।
निर्ब्बीजं विषसङ्क्रामं --- ॥ ७:१२ ॥

Mulasutra 7.13

⏑ ल वृ (?) --- याणान् तु शुष्कदारुप्ररोहणम् ।
निर्विषाग्निकरणं ग्रहरक्षसनाशनम् ॥ ७:१३ ॥

Mulasutra 7.14

परमन्त्रप्रभेदञ् च परसैन्यस्य स्तम्भनम् ।
नगोद्धरणम् आवेशं सर्व्वदुष्टनिबन्धनम् ॥ ७:१४ ॥

Mulasutra 7.15

तुलया शोधयेत् पापम् आत्मनः परस्य वा ।
परमन्त्रप्रयोगेण सर्व्वकर्म्माणि कारयेत् ॥ ७:१५ ॥

Mulasutra 7.16

प --- (--चे) ⊔ बीजान्तेन समालभेत् ।
फट्कारेण समायुक्तं सद्य एवोत्क्रमन्ति ते ॥ ७:१६ ॥

Mulasutra 7.17

यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
ध्यात्वा तत्त्वं तु मेधावी दीक्षितं तं विनिर्दिशेत् ॥ ७:१७ ॥

Mulasutra 7.18

विदित्वा तु परं तत्त्वं यदि स्यात् संशयो भवेत् ।
योग एव तदा सेव्यो आत्मप्रत्ययकारणात् ॥ ७:१८ ॥

Mulasutra 7.19

ध्यायते यस् तु युक्त {त्मा द्वाद}शाब्दां सुयन्त्रितः ।
अणिमादिगुणैश्वर्य्यं सर्व्वज्ञत्वम् प्रजायते ॥ ७:१९ ॥

Mulasutra 7.20

दूराच् छ्रवणविज्ञानं दर्शनम् मननन् तथा ।
जायते सर्व्वकामित्वं देहेनानेन साधकः ॥ ७:२० ॥

Mulasutra 7.21

सङ्क्रमेत् परदेहेषु क्षुत्तृषाभ्यां न बाध्यते ।
शस्त्रतोयविषाग्निभ्यो शीतोष्णेन न बाध्यते ॥ ७:२१ ॥

Mulasutra 7.22

अतीतानागतञ् चैव त्रैलोक्ये यत् प्रवर्त्तते ।
प्रत्यक्षं तद् भवेत् तस्य शिवस्वच्छन्दतां व्रजेत् ॥ ७:२२ ॥

Mulasutra 7.23

सुसिद्धस् तत्त्वविच् चैव गृहे यस्य समभ्येति ।
कोटिर् व्वेदविदां तेन भोजिता तु भविष्यति ॥ ७:२३ ॥

Mulasutra 7.24

यत्र देशे व्रजेत् सो हि स देशः पूततां व्रजेत् ।
भिक्षां यस्य तु गृह्णाति सकुलश् चोद्धृतो भवेत् ॥ ७:२४ ॥

Mulasutra 7.25

लक्षां लक्षन् तु निष्कस्य यो दद्याद् वेदपारगो ।
शिव --- न्तश् च तानि च तत्समम् ॥ ७:२५ ॥

Mulasutra 7.26

विदित्वा ह्य् अष्टभिर् भेदैर् देवदेवं जगद्गुरुम् ।
तत् किम् अर्त्थं गृहं त्यक्त्वा वने तिष्ठन्ति मानवाः ॥ ७:२६ ॥

Mulasutra 7.27

ब्रह्मचर्य्यादिभिर् देहन् तापयन्ति तपादिभिः ।
परिज्ञानेन ते मुक्ता न तेषां यन्त्रणा भवेत् ॥ ७:२७ ॥

Mulasutra 7 – Kolophon

इति मूलसूत्रे सप्तमः पटलः श्लो ⟦?⟧

Kapitel 8

Zu IAST, Übersetzung und Quellen dieses Kapitels

Mulasutra 8.1

एतत् ते परमं तत्त्वम् असन्दिग्धम् अविस्तरम् ।
त्वत्प्रियार्त्थं समाख्यातं न देयम् परदीक्षिते ॥ ८:१ ॥

Mulasutra 8.2

मर्त्त्या बहुविधा दुष्टाः परसिद्धान्तवादिनः ।
द्रव्येण मायया वापि सेवाधर्म्मेण वा पुनः ॥ ८:२ ॥

Mulasutra 8.3

तत्त्वापहर्तुम् उड्डुवन्ति नाभिनन्दन्ति गृह्य च ।
पूर्व्वम् एव मया ज्ञातम् अस्मिंस् तन्त्रे च पठ्यते ॥ ८:३ ॥

Mulasutra 8.4

एवं ज्ञात्वा तु मेधावी न च तत्त्वम् प्रकाशयेत् ।
भ्रामयन् मन्त्रमुद्राभिर् दीक्षामण्डलयोजनैः ॥ ८:४ ॥

Mulasutra 8.5

साधनै योगचर्य्याभिस् तपोध्यानजपा[(दि)]भिः ।
यदा शान्तम् प्रबुध्येत तदा तत्त्वम् प्रभेदयेत् ॥ ८:५ ॥

Mulasutra 8.6

त्रिचतुःपञ्चभिर् विप्रे षट्सप्ताष्टभिः क्षत्रिये ।
द्वादशदशभिर् व्वैश्ये विंशच् छूद्रेषु दापयेत् ॥ ८:६ ॥

Mulasutra 8.7

सुपरीक्ष्य च दातव्यं न च नास्तिकनिन्दके ।
मायाविने शठे चैव न देयं तत्त्वम् उत्तमम् ॥ ८:७ ॥

Mulasutra 8.8

ब्राह्मणो मायवां यस् तु म्लेच्छश् चैव त्व् अमायवान् ।
म्लेच्छस्यैव तु दातव्यं न तु विप्राय दापयेत् ॥ ८:८ ॥

Mulasutra 8.9

बुद्ध्वा भक्तिमयं शिष्यं यदि तुष्यति वै गुरुः ।
न तस्य कालम् आख्यातं सद्य एव तु भेदयेत् ॥ ८:९ ॥

Mulasutra 8.10

अध्यापयित्वा एतं (तु) [तत्त्व]संहितम् उत्तमम् ।
बुद्ध्वा भक्तिमयं शिष्यम् आचार्य्यत्वे नियोजयेत् ॥ ८:१० ॥

Mulasutra 8.11

आलिख्य तत्त्वभुवनम् पूर्व्वोक्तविधिना बुधः ।
अभिषिच्याष्टकलशैर् अष्टतत्त्वाभिमन्त्रितैः ॥ ८:११ ॥

Mulasutra 8.12

ईशानीन् तु दिशं नीत्वा ईशान्याभिमुखः स्थितः ।
गीतवादित्रनिर्घोषैर् व्वेदशब्दसमन्वितम् ॥ ८:१२ ॥

Mulasutra 8.13

पीठन् दत्त्वा तथा छत्रम् उष्णीषं कर्त्तरिन् तथा ।
शिवतुल्यस् त्वम् आचार्य्यो लोके चानुग्रहङ् कुरु ॥ ८:१३ ॥

Mulasutra 8.14

द्रव्यलाभे परिप्रश्ने न च बन्धुजने तथा ।
कृतोपकारे कलहे न दद्याच् छिवशासनम् ॥ ८:१४ ॥

Mulasutra 8.15

शान्ताय शिवभक्ताय श्रद्धधानानुसूयवे ।
कृतज्ञे च दयायुक्ते दातव्यं शिवशासनम् ॥ ८:१५ ॥

Mulasutra 8.16

गुरवस्य समीपस्थो न कुर्याच् छिष्यसङ्ग्रहम् ।
अध्यापनञ् च व्या[(ख्यानं गुरु)]{शिष्य}प्रबोधनम् ॥ ८:१६ ॥

Mulasutra 8.17

अपूर्व्वञ् च शिवज्ञानन् दृष्ट्वा च सुचिरं गुरोः ।
निवेदयेद् धृष्टमनाः पूजयेच् च यथा शिवम् ॥ ८:१७ ॥

Mulasutra 8.18

अन्यथा कुरुते यस् तु विलोमं गुरुणा सह ।
दीक्षाज्ञानं गुरुत्वञ् च हित्वा नरकम् आप्नुयात् ॥ ८:१८ ॥

Mulasutra 8.19

वाचनाच् छ्रवणात् पुण्यं धारणाद् अतुलम् फलम् ।
यो ऽधीते स महादेवो यो ऽर्त्थज्ञः स शिवः स्वयम् ॥ ८:१९ ॥

Mulasutra 8.20

सम्यग् एष समाख्यातो तत्त्वसंहित-म्-उत्तमः ।
सगोत्रा एव मुच्यन्ते यस्य लेख्ये ऽपि तिष्ठति ॥ ८:२० ॥

Mulasutra 8 – Kolophon

इति मूलसूत्रे ऽष्टमः पटलः । श्लो ⟦?⟧ ॥ ··· ॥

Uttarasutra

Kapitel 1

Zu IAST, Übersetzung und Quellen dieses Kapitels

Uttarasutra 1 – Titel

निश्वासतत्त्वसंहितायाम् उत्तरसूत्रम् ॥

Uttarasutra 1.1

मन्त्राख्ये पञ्चमे स्रोते मूलसूत्रन् तु नामतः ।
---न् तु श्लोकाश् चैव त्रयोदश ॥ १:१ ॥

Uttarasutra 1.2

सञ्ज्ञाचतुष्टयेनैव नामभिः परिकीर्त्यते ।
प्रथमम् मूलसूत्रन् तु द्वितीयम् आदिसञ्ज्ञितम् ॥ १:२ ॥

Uttarasutra 1.3

तृतीयम् प्रथमन् नाम चतुर्थम् पूर्व्वसूत्रकम् ।
तस्मिन् समाप्त सूत्रे तु द्वितीयं सूत्रम् उच्यते ॥ १:३ ॥

Uttarasutra 1 – Sprecherangabe vor 1.4

देव्य् उवाच ।

Uttarasutra 1.4

सदाशिवो ऽष्टभेदस् तु यस् त्वयोक्तो हि मोक्षदः ।
किं स्वयम्भुर् भवे[(त् त्व् एष)] उत्पन्नो वा महेश्वर ॥ १:४ ॥

Uttarasutra 1 – Sprecherangabe vor 1.5

ईश्वर उवाच ।

Uttarasutra 1.5

सुशान्तं निष्कलं देवं शिवं सर्व्वजगत्पतिम् ।
तस्य शक्तिः शिवानि या शिवतेजोपबृंहिता ॥ १:५ ॥

Uttarasutra 1.6

शिवतेजेन संयुक्ता शक्तेर् जायति बिन्दुकः ।
आदित्यमणिवह्नीव निष्कामाः शिवशक्तयः ॥ १:६ ॥

Uttarasutra 1.7

एषा सृष्टिर् जगीशस्य सदाशिवसमुद्भवा ।
स चाष्टभेदो व्याख्यातो नवतत्त्वव्यवस्थितः ॥ १:७ ॥

Uttarasutra 1.8

शक्तिश् च दशमा ज्ञेया शक्तेः परतरः शिवः ।
एवं ज्ञात्वा च बुद्ध्वा च देशिकः पाशहा भवेत् ॥ १:८ ॥

Uttarasutra 1 – Sprecherangabe vor 1.9

देव्य् उवाच ।

Uttarasutra 1.9

स कथं दशधा ज्ञेयो देवदेवो सदाशिवः ।
प्रक्रियाध्वानमन्त्राश् च नोक्ताः पूर्व्वं हि मे वद ॥ १:९ ॥

Uttarasutra 1 – Sprecherangabe vor 1.10

ईश्वर उवाच ।

Uttarasutra 1.10

ऊकारः प्रकृतिर् ज्ञेया यकारः पुरुषः स्मृतः ।
वकारो नियतिर् व्विद्याल् लकारः काल उच्यते ॥ १:१० ॥

Uttarasutra 1.11

मायातत्त्वम् मकारस् तु क्षकारो विद्य एव तु ।
रकार ईश्वरो ज्ञेयो हकारस् तु सदाशिवः ॥ १:११ ॥

Uttarasutra 1.12

देहव्यापी च नवमो शक्तिश् च दशमा स्मृता ।
अकथ्यश् च अरूपी च कारणः स शिवः परः ॥ १:१२ ॥

Uttarasutra 1.13

एते तत्त्वाः समाख्याताः सदाशिवसमुद्भवाः ।
{एतै}(रेव) जगत् सर्व्वं दृश्यादृश्यञ् चराचरम् ॥ १:१३ ॥

Uttarasutra 1.14

प्रक्रियाव्यापिनो मन्त्रा यथाध्वाने व्यवस्थिताः ।
तानि चैव प्रवक्ष्यामि याथातथ्येन मे शृणु ॥ १:१४ ॥

Uttarasutra 1.15

ब्रह्माण्डे चैव ऊकारस् तत्त्वसर्ग्गे च यः स्मृतः ।
गहने च [(व)]कारो वै गोपत्यन्ते च लः स्मृतः ॥ १:१५ ॥

Uttarasutra 1.16

मकारः संस्थितो मायां विद्यायाञ् चैव क्षः प्रभुः ।
रकार ईश्वरान्ते तु हकारः सकलावधेः ॥ १:१६ ॥

Uttarasutra 1.17

देहव्यापी तु शक्त्यन्ते शक्त्या योज्येत निष्कले ।
अध्वानव्यापिनो ह्य् एते कथिता हि समासतः ॥ १:१७ ॥

Uttarasutra 1 – Sprecherangabe vor 1.18

देव्य् उवाच ।

Uttarasutra 1.18

अक्षराणां कुतोत्पत्तिः सर्व्ववर्ण्ण ... ।
{तन्त्राणां कियती सं}ख्या गुरवश् च कति स्मृताः ॥ १:१८ ॥

Uttarasutra 1 – Sprecherangabe vor 1.19

ईश्वर उवाच ।

Uttarasutra 1.19

पिण्डाक्षरस्य चाद्यन्ते स्वयन् देवस् सदाशिवः ।
निष्कले च तथा शून्ये कलाढ्ये खम् अलङ्कृते ॥ १:१९ ॥

Uttarasutra 1.20

क्षपणे क्षयम् अन्तस्थे वर्ण्णषट्कन् नियोजयेत् ।
तान्य् एव चाष्टवर्ग्गाणि मातृका यैस् तु कथ्यते ॥ १:२० ॥

Uttarasutra 1.21

अनुक्रमेण जातानि यतः शास्त्राणि वाङ्मयम् ।
दिव्यादिव्य{निब}द्धानि मन्त्रभाषपदानि तु ॥ १:२१ ॥

Uttarasutra 1.22

एषाक्षरसमुत्पत्तिर् व्याख्याता हि वरानने ।
शिवतन्त्रस्य चोत्पत्तिं कीर्त्त्यमानान् निबोध मे ॥ १:२२ ॥

Uttarasutra 1.23

अदृष्टविग्रहे शान्ते शिवे परमकारणे ।
नादरूपं विनिष्क्रान्तं शास्त्रम् परमदुर्ल्लभम् ॥ १:२३ ॥

Uttarasutra 1.24

सदाशिवस् तु वेत्ता वै स च माम् प्रति बोधकः ।
नादरूपस्य शास्त्रस्य अहं ग्र(न्थनिबन्धकः)] ॥ १:२४ ॥

Uttarasutra 1.25

अनुष्टुप्छन्दबन्धेन देवेभ्यः प्रतिपादितम् ।
रिषिभिश् च पुनः प्राप्तं तेभ्यो मर्त्त्येषु सन्ततिः ॥ १:२५ ॥

Uttarasutra 1.26

कामिकं योगदं दिव्यं कारणम् अजितन् तथा ।
दीप्तं सूक्ष्मञ् च साहस्रम् अंशुमान् सुप्रभेदि च ॥ १:२६ ॥

Uttarasutra 1.27

अनन्तं शिवशास्त्रन् तु दशधा परिकीर्त्तितम् ।
पुनश् चाष्टादशैर् भेदै रुद्रेण परिकीर्त्तितम् ॥ १:२७ ॥

Uttarasutra 1.28

विजयम् प्रथमा[(ं ते)]षान् निश्वासं तदनन्तरम् ।
स्वायम्भुवमतञ् चैव वाथुलं तदनन्तरम् ॥ १:२८ ॥

Uttarasutra 1.29

वीरभद्रम् इति ख्यातं रौरवं माकुटन् तथा ।
विरसञ् चन्द्रहसञ् च ज्ञानञ् च मुखबिम्बकम् ॥ १:२९ ॥

Uttarasutra 1.30

प्रोद्गीतं ललितञ् चैव सिद्धं सन्तानम् एव च ।
सर्व्वोद्गीतञ् च विज्ञेयं किरणम् पारमेश्वरम् ॥ १:३० ॥

Uttarasutra 1.31

पारमेश्वरतन्त्रो ऽयं रिषिदेवेषु कीर्त्तितः ।
[(अ)]ष्टाविंशति तन्त्राणि प्रभिन्नानि सहस्रशः ॥ १:३१ ॥

Uttarasutra 1.32

यो ऽन्यः परतरो भेदो शिवतन्त्रेषु पठ्यते ।
सङ्ग्रहः स तु विज्ञेयो रिषिदेवगणाङ् गिराम् ॥ १:३२ ॥

Uttarasutra 1.33

येन येन श्रुतन् तन्त्रं येन येनावधारितम् ।
तस्य तस्य हि नामेन तत् तन्त्रम् परिगीयते ॥ १:३३ ॥

Uttarasutra 1.34

शिवं सदाशिवञ् चैव विद्येशाश् च उमा[(सुतः)] ।
{भैरवादि गणा} मुख्या विजया कालिर् एव च ॥ १:३४ ॥

Uttarasutra 1.35

ब्रह्मा विष्णुस् तथा वह्निवायुः सूर्य्यश् च चन्द्रमाः ।
धर्म्मेन्द्रो वरुणश् चैव यक्षरक्षमहोरगाः ॥ १:३५ ॥

Uttarasutra 1.36

मातृभिर् गुह्यकैश् चैव गरुडेन च धीमता ।
कोटिशश् चाप्य् अधीतानि लक्षायुतशतानि च ॥ १:३६ ॥

Uttarasutra 1.37

शुक्रश् चैव दधीचिश् च दुर्व्वासो ऽथ रुरुः कचः ।
वसि(ष्ठ) --- श् च सनन्दनः ॥ १:३७ ॥

Uttarasutra 1.38

रिचीकौर्व्वाङ्गिरान्तश् च श्वेतो रामश् च वाह्लिकः (?) ।
मरीचि चोपमन्युश् च मार्क्कण्डो ऽगास्ति काश्यपः ॥ १:३८ ॥

Uttarasutra 1.39

तन्त्रस्य पारगा ह्य् एते शतशो ऽथ सहस्रशः ।
तेभ्यो मनुजमुख्यानान् तत्र किञ् चिद् इहागतम् ॥ १:३९ ॥

Uttarasutra 1.40

अल्पायुषः स्मृता मर्त्त्या अल्पवीर्य्याल्पबुद्धयः ।
अतो ऽर्त्थसङ्ग्रहोक्तन् तु मर्त्त्येभ्यश् च {प्रका}शितम् ॥ १:४० ॥

Uttarasutra 1.41

शास्त्रकोटिसहस्राणि मन्त्रकोट्या ह्य् अनेकशः ।
मातृकासम्भवाः सर्व्वे नास्ति मन्त्रम् अतः परम् ॥ १:४१ ॥

Uttarasutra 1 – Kolophon

॥ ° ॥ इति निश्वासतत्त्वसंहितायाम् उत्तरसूत्रे प्रथमः पटलः श्लो ४१ ॥ ° ॥

Kapitel 2

Zu IAST, Übersetzung und Quellen dieses Kapitels

Uttarasutra 2 – Sprecherangabe vor 2.1

देव्य् उवाच ।

Uttarasutra 2.1

मातृका परमो मन्त्रो यदि देव निगद्यते ।
मातृकायागम् आख्याहि मूलाञ् छाखा प्ररोह(ते) ॥ २:१ ॥

Uttarasutra 2 – Sprecherangabe vor 2.2

ईश्वर उवाच ।

Uttarasutra 2.2

मूलयागं प्रवक्ष्यामि येन यष्टेन सुव्रते ।
सप्तकोट्यस् तु मन्त्राणां यष्टा चैव भवन्ति हि ॥ २:२ ॥

Uttarasutra 2.3

पूर्व्वोत्तरप्लवे देशे सर्व्वशल्यविवर्ज्जिते ।
क्षीरवृक्षसमोपेते नदीसरस्तटेषु वा ॥ २:३ ॥

Uttarasutra 2.4

महागिरिवरे रम्ये उद्याने च शिवालये ।
देव्यामातृगृहे वापि चत्वरे तु चतुष्पथे ॥ २:४ ॥

Uttarasutra 2.5

पद्मषण्डतटे चैव प्रासादे वा मनोरमे ।
यत्र वा रुचितं स्थाने सर्व्वदोषविवर्ज्जिते ॥ २:५ ॥

Uttarasutra 2.6

शुक्ला रक्ता तथा पीता कृष्णा वर्णक्रमेण तु ।
सुकुट्टिमान्ततः कृत्वा गोमयेनोपलेपयेत् ॥ २:६ ॥

Uttarasutra 2.7

पञ्चगव्येन चाभ्युक्ष्य पञ्चवर्ग्गाभिमन्त्रितैः ।
सकलेनोदकं दद्याद् देवं तु पूजयेत् ॥ २:७ ॥

Uttarasutra 2.8

दक्षिणे योजयेद् बीजां वामे यो(निन् तु) कल्पयेत् ।
शिवीभूतः प्रसन्नात्मा शिवस्यार्च्चनम् आरभेत् ॥ २:८ ॥

Uttarasutra 2.9

ह्रस्वाक्षरः स्मृतो ऽनन्तो दीर्घस् तु सकलो भवेत् ।
शब्दान्ते निष्कलः प्रोक्तो दीर्घ सर्व्वार्त्थकर्म्मसु ॥ २:९ ॥

Uttarasutra 2.10

यस्याक्षरस्य यागो ऽयं सो ऽष्टधा प्लुत कल्पयेत् ।
द्वितीयावरणे योज्या ते तु विद्येश्वराः स्मृताः ॥ २:१० ॥

Uttarasutra 2.11

दीर्घा वै लोकपालास् तु ह्रस्वा वै चास्त्रयोनयः ।
एवं पूज्य यथान्यायं होमं तत्रैव कारयेत् ॥ २:११ ॥

Uttarasutra 2.12

अग्न्यागारास् तु चत्वारस् तन् मे निगदतः शृणु ।
वर्त्तुलञ् चतुरस्रं वा त्रिकोणं धनुषाकृतिम् ॥ २:१२ ॥

Uttarasutra 2.13

हस्तमात्रन् तु कर्त्तव्यं चतुरङ्गुलमु[च्छ्रितम्] ।
⏑ ⏑ क? त क ⏑ ⏑ ⏑ कर्त्तव्यं दीक्षाहोमयोः ॥ २:१३ ॥

Uttarasutra 2.14

नित्यहोमञ् च {तन्मानं लक्षहोमे चतुर्}गुणम् ।
अष्टधा गुणितं ह्य् एवं कोटिहोमे प्रकल्पयेत् ॥ २:१४ ॥

Uttarasutra 2.15

वर्त्तुले जनितो ह्य् अग्निः पश्चिमेन पुरस्य तु ।
†अनिर्व्वाणश् चतुर्य्याम्ये† पूर्व्वे होमं तु कारयेत् ॥ २:१५ ॥

Uttarasutra 2.16

दक्षिणे पश्चिमे चैव उत्तरेशानयोस् तथा ।
शान्तिके पौष्टिके चैव होमः सिद्धिकरो भवेत् ॥ २:१६ ॥

Uttarasutra 2.17

अग्निर् न्नैऋतिवायव्ये अभिचारे प्रसिद्धिदः ।
(च)तुरस्रे नित्यहोमे शान्तिके पौष्टिके तथा ॥ २:१७ ॥

Uttarasutra 2.18

अरणी हस्तमात्रान् तु पालाशीं कारयेद् बुधः ।
अश्वत्थप्रभवां वापि कुर्य्याच् छान्तिकपौष्टिके ॥ २:१८ ॥

Uttarasutra 2.19

अष्टाङ्गुलं तु विस्तारम् उच्छ्रयं चतुरङ्गुलम् ।
मन्थानञ् च तथेह त्रिगुणा चोत्तरारणी ॥ २:१९ ॥

Uttarasutra 2.20

नेत्रकं व्याममात्रन् तु मस्तकं षोडशाङ्गुलम् ।
योनिं वै कल्पयित्वा तु योन्यां मन्थे च सुव्रते ॥ २:२० ॥

Uttarasutra 2.21

शोधनम् प्रोक्षणम् पूजा योजनं जननन् तथा ।
पञ्चसंस्कारसंशुद्धं कृत्वा कुण्डे प्रवेशयेत् ॥ २:२१ ॥

Uttarasutra 2.22

अलाभाच् चारणेर् व्वह्नौ गृह्णीयान् मणिसम्भवम् ।
वज्राग्निञ् चैव दावाग्निर् अग्निहोत्राग्निर् एव च ॥ २:२२ ॥

Uttarasutra 2.23

एतेषाम् अप्य् अलाभेन लौकिकाग्निन् तु गृह्णयेत् ।
पूर्व्वसंस्कारशुद्धे तु वह्नौ होमं तु कारयेत् ॥ २:२३ ॥

Uttarasutra 2.24

उल्लिखित्वा तु तत्कुण्डम् उद्धृत्याभ्युक्षयेत् पुनः ।
चतुष्पथाक्षपाटन् तु ब्रह्माणं दक्षिणे न्यसेत् ॥ २:२४ ॥

Uttarasutra 2.25

पूजयित्वा ततो ऽग्निन् तु प्रणीताञ् चोत्तरे न्यसेत् ।
अभ्युक्ष्येच् च पात्राणि परिधीष्मानि तापयेत् ॥ २:२५ ॥

Uttarasutra 2.26

पवित्रम् आज्यसंस्कारं स्रुवादीनाम् प्रतापनम् ।
आज्यसंस्कारम् आघार्य्य आज्यभागन् तु होमयेत् ॥ २:२६ ॥

Uttarasutra 2.27

पूर्णाहुतिन् ततो दत्त्वा चरुञ् च श्रापयेत् ततः ।
हुत्वा चरुञ् च देवाय कल्पयेत् साधकेस् ततः ॥ २:२७ ॥

Uttarasutra 2.28

शिवीकृत्वा विधानेन पाशान् तत्त्वेन बन्धयेत् ।
प्रकृतिम् पुरुषञ् चैव नियतिं {कालम् एव च} ॥ २:२८ ॥

Uttarasutra 2.29

माया विद्याश् च पाशो ऽयम् ईश्वरस् तु सदाशिवः ।
गणपाशास् तथा चान्ये धर्म्माधर्म्ममया परे ॥ २:२९ ॥

Uttarasutra 2.30

कामः क्रोधश् च लोभश् च जन्म मृत्युस् तथैव च ।
जरा व्याधिश् च शोकश् च क्षुत्तृष्णा मोह एव च ॥ २:३० ॥

Uttarasutra 2.31

विषादश् च भयश् चैव मदमात्सर्य्यदारुणः ।
स्थूलास् सूक्ष्मास् तथा चान्ये समयाख्या निरोधकाः ॥ २:३१ ॥

Uttarasutra 2.32

---{शि}ष्यं पञ्चगव्यं तु पाययेत् ।
चरुं तेषाम् प्रदातव्यं दन्तधाव[(न)]म् एव च ॥ २:३२ ॥

Uttarasutra 2.33

पूर्व्वास्यो भक्षयेद् विद्द्वान् दन्तधावनम् उत्तमम् ।
सक्षीरं निर्व्रणावक्रं सदलन्द्वादशाङ्गुलम् ॥ २:३३ ॥

Uttarasutra 2.34

पूर्व्वास्यं दक्षिणास्यं तु उत्तरास्यं तथैव च ।
ऊर्द्ध्वम् ईशानवक्रन् तु सर्व्वकामफलप्रदम् ॥ २:३४ ॥

Uttarasutra 2.35

अन्यास्यम् अशुभं विद्धि होमं तस्य शतं भवेत् ।
वसेत् तत्रैव शुद्धात्मा स्वप्नां वक्ष्येति निशिक्षये ॥ २:३५ ॥

Uttarasutra 2.36

नदीनदसमुद्रे वा तरणं गिरिरोहणम् ।
सिंहासने विमाने वा गजगोवृषरोहणम् ॥ २:३६ ॥

Uttarasutra 2.37

छत्रध्वजगवां लाभं स्रग्दामधान्यवाससाम् ।
कुमुदोत्पलपद्मानि भूलम्भं दधिभक्षणम् ॥ २:३७ ॥

Uttarasutra 2.38

मद्यासृक्पानलेपञ् च अमेध्यस्य च भक्षणम् ।
अग्निदाहं शिरश्छेदं दृष्टा सि{द्ध्यति} मानवः ॥ २:३८ ॥

Uttarasutra 2.39

तैलाभ्यङ्गञ् च-म्-उद्वाहं पुत्रलम्भं प्रनर्त्तनम् ।
रक्तमाल्यानि वस्त्राणि महिषोष्ट्रप्ररोहणम् ॥ २:३९ ॥

Uttarasutra 2.40

कलहम् मुण्डतं नग्नं पङ्के चैव निमज्जनम् ।
यानं छत्रं गृहं शय्या भिद्यमानै न सिद्ध्यति ॥ २:४० ॥

Uttarasutra 2.41

अरण्यादौ तु दुस्वप्नं यत्कर्म्म परिकीर्त्तितम् ।
आद्यक्षरेण ह्रस्वेन सर्व्वकर्म्माणि कारयेत् ॥ २:४१ ॥

Uttarasutra 2 – Kolophon

⊗ उत्तरसू[त्रे] द्वितीयः पटलश् श्लो ४१ ॥ ⊗ ॥

Kapitel 3

Zu IAST, Übersetzung und Quellen dieses Kapitels

Uttarasutra 3.1

द्विस्नातस् तु शुचिर् भूत्वा सूत्रयेद् भुवनं शुभम् ।
चित्रास्वात्यन्तरे प्राची प्रतीची तेन सिद्ध्यति ॥ ३:१ ॥

Uttarasutra 3.2

उदीचीदक्षिणे चैव ध्रुवेनैव प्रसिद्ध्यति ।
प्राक्प्रतीची स्मृता रेखा अपरा दक्षिणोत्तरा ॥ ३:२ ॥

Uttarasutra 3.3

भ्रामयेच् चतुरो वृत्ताश् चतुरङ्गुलसम्मिता ।
दलाद्योपदलाश् चैव क(र्ण्णिका)केशरान्तथा ॥ ३:३ ॥

Uttarasutra 3.4

तुल्यमानाः स्मृता ह्य् एते पीठं द्वात्रिंशदङ्गुलम् ।
पीठान्ते सूत्रयेद् रेखाम् एकैकान् तु चतुर्द्दिश ॥ ३:४ ॥

Uttarasutra 3.5

कोणान्तरेषु या रेखा [द्वाभ्या ... तु] सिद्ध्यति ।
पञ्चविंशो ऽथ पञ्चाशद् द्वात्रिंशच् चतुषष्टि वा ॥ ३:५ ॥

Uttarasutra 3.6

एषा(न्तो)--- (व्या) देशिकेन तु ।
कोणे बिन्दूनि चान्यानि कुर्य्याद् आवरणानि तु ॥ ३:६ ॥

Uttarasutra 3.7

स्वतन्त्रमानसिद्धानि द्वाराणि तु यथाविधि ।
गर्भतुल्यम् भवेद् द्वारं शोभा द्वारार्द्धलम्बिता ॥ ३:७ ॥

Uttarasutra 3.8

शोभा द्विगुणकपोलं उपशोभा तु --- ।
पश्चिमं वाहयेद् द्वारं त्रीण्य् अन्यानि तु रुन्धयेत् ॥ ३:८ ॥

Uttarasutra 3.9

पौष्टिके दक्षिणं द्वारम् अभिचारे तथोत्तरम् ।
चतुरस्रं समाख्यातं वर्त्तुलञ् च निबोध मे ॥ ३:९ ॥

Uttarasutra 3.10

चतुरस्रन् ततः कृत्वा हस्ताद् धस्तप्रवर्द्धनम् ।
द्व्यङ्गुलेन तु वृद्ध्याया ततो वृतन् तु भ्रामयेत् ॥ ३:१० ॥

Uttarasutra 3.11

वृत एष समाख्यातो द्वाराः पूर्व्वोक्तिकाः स्मृताः ।
वृतार्द्धन् तु परित्यज्य अर्द्धचन्द्रम् भविष्यति ॥ ३:११ ॥

Uttarasutra 3.12

एकद्वारार्द्धचन्द्रन् तु त्रिकोणं साम्प्रतं शृणु ।
बिन्दुत्रयेन सिद्ध्येत त्रिष्कोणन् नात्र संशयः ॥ ३:१२ ॥

Uttarasutra 3.13

त्रिद्वारं वा त्रिकोणन् तु मध्ये शून्येन सिद्ध्यति ।
वर्त्तुलञ् चतुरस्रं वा शान्तिके पौष्टिके तथा ॥ ३:१३ ॥

Uttarasutra 3.14

अर्द्धचन्द्रन् तु चण्डीशे अभिचारे त्रिकोणकम् ।
एवं वै सूत्रयित्वा तु येन यत् कर्म्म वाञ्छितम् ॥ ३:१४ ॥

Uttarasutra 3.15

त्रिरेखम् पञ्चरेखं वा आलिखेद् भुवनं शुभम् ।
त्रिरेखन् तु त्रिदैवत्यं द्वाभ्यां शिवसदाशिवौ ॥ ३:१५ ॥

Uttarasutra 3.16

एवम् आलिख्य यत्नेन पूर्व्वोक्तम् अर्च्चनम्भवेत् ।
भक्ष्यभोज्यसमाकीर्ण्णं वितानध्वजशोभितम् ॥ ३:१६ ॥

Uttarasutra 3.17

सम्पूज्य च यथान्यायन् ततो दीक्षां समारभेत् ।
गर्भपुन्सवसीमन्तजन्म निष्क्रमणन् तथा ॥ ३:१७ ॥

Uttarasutra 3.18

प्राशनञ् चूडकर्म्मश् च अजिनं व्रतमेखलम् ।
वाससश् चोपवीतश् च दण्डं सन्ध्याम् उपासनम् ॥ ३:१८ ॥

Uttarasutra 3.19

जपहोमन् तथा चान्यत् त्र्यायुषञ् चाभिवादनम् ।
स्नातव्रतपरित्यागो दण्डादीनाञ् च होमनम् ॥ ३:१९ ॥

Uttarasutra 3.20

विवाहपाकयज्ञाश् च हविर्यज्ञाश् च सोमकाः ।
आसहस्रास् तु कर्त्तव्या वानप्रस्थान्तभैक्षुकम् ॥ ३:२० ॥

Uttarasutra 3.21

व्रतम् पाशुपतं कृत्वा शोधनम् प्रोक्षणन् तथा ।
न्यासश् च शिवहस्तश् च पाशानाङ् कृन्तनन् तथा ॥ ३:२१ ॥

Uttarasutra 3.22

ताडनम् पूजनञ् चैव कुर्य्याच् छास्त्रविधानतः ।
शिखाच्छेदविधानन् तु विद्यादीक्षासमासिके ॥ ३:२२ ॥

Uttarasutra 3.23

सूत्रणादौ शिखान्तञ् च यत् कर्म्म परिकीर्त्तितम् ।
दीर्घाक्षरेण तत् सर्व्वं कर्त्तव्यं देशिकेन तु ॥ ३:२३ ॥

Uttarasutra 3 – unnummerierter Schluss-Halbvers

{सा}ध्यमन्त्राभिषेकञ् च कर्त्तव्यं सिद्धिम् इच्छता ॥ ⊗ ॥

Uttarasutra 3 – Kolophon

उत्तरसूत्रे तृतीयः पटलः श्लो २४ (?)

Kapitel 4

Zu IAST, Übersetzung und Quellen dieses Kapitels

Uttarasutra 4.1

सिद्धिक्षेत्रेषु पुण्येषु सिद्धिभूमिम् परीक्षयेत् ।
देवं संस्थाप्य विधिना स्नात्वा त्रिकालम् अर्च्चयेत् ॥ ४:१ ॥

Uttarasutra 4.2

नवात्मेन मृदाञ् जप्त्वा सर्व्वदिक्षु विनिक्षिपेत् ।
द्वितीयन् तोयमध्ये तु तृतीयाङ्गानि चालभेत् ॥ ४:२ ॥

Uttarasutra 4.3

--- वन्दयेत् सन्ध्याम् प्राणायामन् तु मूर्त्तिना ।
उपस्थानन् तु वक्त्रेण वामेन पितृतर्प्पणम् ॥ ४:३ ॥

Uttarasutra 4.4

पृथिव्यां यानि तीर्त्थानि सरितः सागराणि च ।
स्नातो भवति सर्व्वेषु यः स्नायीत शिवाम्भसा ॥ ४:४ ॥

Uttarasutra 4.5

पवित्राणि ततो जप्त्वा प्राणायामास् तु धारणैः ।
शिवध्यानं समालम्ब्य अर्च्चयीत यथाविधि ॥ ४:५ ॥

Uttarasutra 4.6

सितानि चैव पु(ष्पाणि) पीतरक्तसुगन्धिनः ।
शान्तिके पौष्टिके पुष्पा विपरीताभिचारके ॥ ४:६ ॥

Uttarasutra 4.7

गुग्गल्वादीनि धूपानि सुरभीणि विशेषतः ।
शान्तिके पौष्टिके धूपा अभिचारे विलोमकाः ॥ ४:७ ॥

Uttarasutra 4.8

चन्दनादीनि गन्धानि सुरभीणि विशेषतः ।
शान्तिके पौष्टिके गन्धा विपरीताभिचारके ॥ ४:८ ॥

Uttarasutra 4.9

घृतपक्वानि दिव्यानि भक्ष्यभोज्यानि (चै){व} हि ।
शान्तिके पौष्टिके देया विपरीताभिचारके ॥ ४:९ ॥

Uttarasutra 4.10

वेणीबन्धन् ततः कृत्वा हस्तयोर् उभयोर् अपि ।
कनिष्ठिके सृते लग्ने अङ्गुष्ठौ मध्यगोपितौ ॥ ४:१० ॥

Uttarasutra 4.11

बीजमुद्रेति विख्याता अस्मिन् तन्त्रे प्रकीर्त्तिता ।
एकतस् तु करौ कृत्वा सृतास् सर्व्वास् तु यमकाः ॥ ४:११ ॥

Uttarasutra 4.12

नमस्कारः समाख्यातस् सर्व्वदेवतवन्द्[(ने)] ।
मध्यमे ऽनामिके द्वे द्वे अन्योन्यान्तरिते कृते ॥ ४:१२ ॥

Uttarasutra 4.13

तर्ज्जनीमध्यमे युक्ते विपरीते परस्परम् ।
कनिष्ठानामिके ऽप्य् एवं विपरीता तथैव हि ॥ ४:१३ ॥

Uttarasutra 4.14

अधोगतौ तथाङ्गुष्ठौ मुद्रैषा अमृता स्मृता ।
पृष्ठे पृष्ठे करौ योज्य अन्योन्यान्तरिताङ्गुली ॥ ४:१४ ॥

Uttarasutra 4.15

वर्त्तुलीकृत्य भ्रामेत कोटिमुद्रा विधी[(यते)] ।
{अतः परम् प्रा}वक्ष्यामि द्रव्यमुद्रा तु लक्षणम् ॥ ४:१५ ॥

Uttarasutra 4.16

यद् एव यादृशन् द्रव्यं साधके मनसि स्थितम् ।
तादृशन् तु सदा कुर्य्यात् करयुग्मविकारकम् ॥ ४:१६ ॥

Uttarasutra 4.17

उच्छृतौ तु करौ कृत्वा अन्योन्यान्तरशाखकौ ।
चालनाद् दर्शयेच् चैव सञ्ज्ञामात्रेण उत्तरे ॥ ४:१७ ॥

Uttarasutra 4.18

तेनैव जायते सर्व्वं निर्व्विघ्नकरणं तथा ।
अधोमुखौ करौ कृत्वा अन्योन्यान्तरिताङ्गुली ॥ ४:१८ ॥

Uttarasutra 4.19

अनन्तासनमुद्रैषा कनिष्ठाङ्गुष्ठलम्बितौ ।
करद्वये तु मुष्टिन् तु एकैकान्तरिताङ्गुली ॥ ४:१९ ॥

Uttarasutra 4.20

सकलस्य भवेन् मुद्रा (सृताय --- मध्यतः ।
कनिष्ठानामिके द्वे द्वे अन्योन्यान्तरिते कृते ॥ ४:२० ॥

Uttarasutra 4.21

तर्ज्जन्याग्रे --- प्रसृते मध्यमे युते ।
तन्मध्ये प्रसृताङ्गुष्ठौ अधोकृत्वा तु कुञ्चयेत् ॥ ४:२१ ॥

Uttarasutra 4.22

निष्कलस्य भवेन् मुद्रा सव्याङ्गुष्ठेन तर्ज्जनी ।
दृष्ट्वैतान् तु विमुच्यन्ते बद्ध्वा शिवपदं व्रजेत् ॥ ४:२२ ॥

Uttarasutra 4.23

अन्येषान् तु नमस्कारो कोटिमुद्रा विसर्ज्जने ।
शान्तिके मानसो जाप्य उपांशुः पौष्टिके स्मृतः ॥ ४:२३ ॥

Uttarasutra 4.24

सशब्दश् चाभिचारे तु {प्रागुदग्}दक्षिणामुखः ।
रुद्राक्षशङ्खपद्माक्षाः पुत्रजीवाश् च मौक्तिकाः ॥ ४:२४ ॥

Uttarasutra 4.25

स्फाटिका मणिरत्नाश् च सौवर्ण्णा वैद्रुमास् तथा ।
शान्तिके पौष्टिके चैव एता मालाः प्रकीर्त्तिताः ॥ ४:२५ ॥

Uttarasutra 4.26

लोहश् च त्रपुसीसश् च अस्थिमालाभिचारके ।
एकाधिकशतं कुर्य्याद् अथवा पञ्चविंशतिः ॥ ४:२६ ॥

Uttarasutra 4.27

एकपञ्चाशिकं [वापि मा(ला शान्ति)]कपौष्टिके ।
सप्ताधिकशतं कुर्य्याद् अथवा सप्तविंशति ॥ ४:२७ ॥

Uttarasutra 4.28

त्रयोदशैकूनपञ्चाशद् ऊनविंशति मारणे ।
अङ्गुष्ठमध्यतर्ज्जन्या मालाम् आकर्षयेद् बुधः ॥ ४:२८ ॥

Uttarasutra 4.29

शान्तिकादिक्रमेणैव जपस् सर्व्वफलप्रदः ।
न सिद्ध्यते यदा मन्त्रो विघ्नं संलक्षयेद् बुधः ॥ ४:२९ ॥

Uttarasutra 4.30

अभिषेकेन्धनं छेदं बोधनामलदी[(पनम्)] ।
--- मेखलं कृत्वा प्रतिमौशीरजान् न्यसेत् ॥ ४:३० ॥

Uttarasutra 4.31

सहस्रजप्ततोयेन अभिषिञ्चे †तमात्मनः† ।
जुंकारो बोधयेन् मन्त्रां ओंकारेण तु इन्धयेत् ॥ ४:३१ ॥

Uttarasutra 4.32

नमस्कारामलं कुर्य्यात् स्वाहाकारेण दीपयेत् ।
सःकारश् छेदने योज्य आद्यन्ते च प्रतिष्ठितः ॥ ४:३२ ॥

Uttarasutra 4.33

सर्व्वकामान् प्रयच्छन्ति यथोक्ते कर्म्मणा कृते ।
सत्यस{न्धो ऽप्रतिग्रा}ही शौचाचारसमन्वितः ॥ ४:३३ ॥

Uttarasutra 4.34

सिद्ध्यते अचिरेणैव क्रोधलोभविवर्ज्जितः ।
मुद्रां द्रव्याकृतिञ् चैव दद्याद् उत्तरसाधके ॥ ४:३४ ॥

Uttarasutra 4.35

तेन सम्पादयेद् द्रव्यां मौनकाले तु साधकः ।
प्रतिग्रहे प्रायश्चित्ती समयस्य च लङ्घने ॥ ४:३५ ॥

Uttarasutra 4.36

⏑ ⏑ ⏑ वा हविषन् द्रव्यज्? ---
{अग्र}मध्यमूलश् च सत्वचास्फाटितास् तथा ॥ ४:३६ ॥

Uttarasutra 4.37

शान्तिके पौष्टिके ह्य् एतास् समिधा द्वादशाङ्गुलाः ।
दलहीनाष्टाङ्गुला वक्रा स्फाटिताश् चाभिचारके ॥ ४:३७ ॥

Uttarasutra 4.38

हविष्यादीनि द्रव्याणि शान्तिके पौष्टिके ऽपि वा ।
होम्येत ततो मन्त्री विपरीताभिचारके ॥ ४:३८ ॥

Uttarasutra 4.39

स्रुवं हस्तप्रमाणन् तु आधारङ्गुल ---
⏑ स्रुचीं कुर्य्यात् पुष्करं हस्तसम्मितम् ॥ ४:३९ ॥

Uttarasutra 4.40

पलाशाश्वत्थजाव् एतौ शान्तिके पौष्टिके विदुः ।
विपरीताभिचारे तु कर्त्तव्या देशिकेन तु ॥ ४:४० ॥

Uttarasutra 4.41

अतः परन् तु यद् द्रव्यं विपरीताभिचारके ।
परिधीष्मां तु गृह्णीत याज्ञिकां सर्व्वकर्म्मसु ॥ ४:४१ ॥

Uttarasutra 4.42

कुशाग्रद्वयसंयुक्तम् प्रादेशमध्यग्रन्थितम् ।
पवित्रं विहितन् तन्त्रे {आज्य}स्योत्प्लवनाय वै ॥ ४:४२ ॥

Uttarasutra 4.43

पुण्यदर्शनसंवादनरेन्द्रजनवर्द्धनम् ।
आत्मोत्कर्षबलन् दृष्ट्वा सिद्ध्यते नात्र संशयः ॥ ४:४३ ॥

Uttarasutra 4.44

अपुण्यजनसंवादनरेन्द्रजनविभ्रमम् ।
आत्महानिञ् च सततन् दृष्ट्वा चैव न सिद्ध्यति ॥ ४:४४ ॥

Uttarasutra 4.45

साधकस्य विधिः प्रोक्तस् सर्व्वकामार्त्थसाधकः ।
मन्त्रचर्य्यासमायुक्ता येन सिद्ध्यन्ति साधकाः ॥ ४:४५ ॥

Uttarasutra 4.46

संयुक्ता ये[(न)] सिद्ध्यन्ति अज्ञानाद् अपि मानवाः ।
निर्व्वाणदीक्षां वक्ष्यामि तन् मे निगदतः शृणु ॥ ४:४६ ॥

Uttarasutra 4.47

क्षकारादिम् अकारान्तं होमङ् कृत्वा यथाक्रमम् ।
अनुच्चार्य्ये तु संयोज्य शक्त्या योज्येत निष्कले ॥ ४:४७ ॥

Uttarasutra 4.48

शक्त्या निष्कलतां याति शिवम्पदम् अनामयम् ।
अथ पिण्डाक्षरेणैव प्रक्रियां शोधयेद् बुधः ॥ ४:४८ ॥

Uttarasutra 4.49

पिण्डाक्षराष्टवर्ग्गश् च द्वाव् एतौ ए(क) एव च ।
सदाशिवस्य शक्तेश् च द्वाभ्याम् परतरः शिवः ॥ ४:४९ ॥

Uttarasutra 4.50

तत्र संयोजितो मर्त्त्यो न भूयो जन्मतां व्रजेत् ।
धर्म्माधर्म्मविनिर्म्मुक्तस् सर्व्वपापविवर्ज्जितः ॥ ४:५० ॥

Uttarasutra 4.51

व्योमेव निर्म्मलश् शुद्धः शिवसायोज्यतां व्रजेत् ।
नास्ति दीक्षासमो मोक्षो न विद्या मातृकापरा ॥ ४:५१ ॥

Uttarasutra 4 – unnummerierter Schluss-Halbvers

प्रक्रिया न परं ज्ञानं नास्ति योगम् अल{क्षकम्} ॥

Uttarasutra 4 – Kolophon

उत्तरसूत्रे चतुर्त्थः पटलः ॥

Kapitel 5

Zu IAST, Übersetzung und Quellen dieses Kapitels

Uttarasutra 5 – Sprecherangabe vor 5.1

देव्य् उवाच ।

Uttarasutra 5.1

पिण्डाक्षराष्टभेदन् तु मातृकायाष्टकञ् च यत् ।
सदाशिव शिवश् चैव प्रक्रिया गदिता त्वया ॥ ५:१ ॥

Uttarasutra 5.2

शक्तिम् ब्रूहि महादेव प्रक्रियायोगम् एव च ।
लक्ष्यालक्ष्यं च देवेश अत्र मे संशयो महान् ॥ ५:२ ॥

Uttarasutra 5 – Sprecherangabe vor 5.3

ईश्वर उवाच

Uttarasutra 5.3

प्रकृतिः पुरुषश् चैव नियतिः काल एव च ।
माया विद्या च ईशश् च ध्यातव्यानि पृथक्पृथक् ॥ ५:३ ॥

Uttarasutra 5.4

सदाशिवो ऽष्टभेदश् च अहोरात्रायनानि च ।
सङ्क्रान्तिविषुवच् चैव शक्तिसमरसन् तथा ॥ ५:४ ॥

Uttarasutra 5.5

सर्वान् एतान् विदित्वा तु शिवसायोज्यताम् ब्रजेत् ।
ध्यानात् सिद्धिम् अवाप्नोति सर्वज्ञत्वम् प्रजायते ॥ ५:५ ॥

Uttarasutra 5.6

[तत्त्व]ध्या[नम् प्रथमकं छायाध्यानं] द्वितीयकम् ।
घोषध्यानन् तृतीयन् तु लक्षध्यानञ् चतुर्थकम् ॥ ५:६ ॥

Uttarasutra 5.7

चतुर्विंशति तत्त्वानि ध्यात्वा बीजेन चिन्तयेत् ।
प्राकृतेन तु बीजेन तद् ध्यानं तात्त्विकं स्मृतम् ॥ ५:७ ॥

Uttarasutra 5.8

छायाचित्तं समावेश्य तावद् ध्यायेद् विचक्षणः ।
यावच् छुक्ला भवेच् छाया ततो सिध्यति मानवः ॥ ५:८ ॥

Uttarasutra 5.9

घोषध्यानन् तृतीयन् तु प्राकृतीसिद्धिदायकम् ।
[(स च)] सर्वज्ञतां याति स्वतन्त्रश् चैव जायते ॥ ५:९ ॥

Uttarasutra 5.10

आकाशे वीक्षमाणस्य उकारं कुटिला[(कृ)]तिम् ।
स वै प्रकृतिलक्षन् तु दृष्ट्वा मुच्यति बन्धनात् ॥ ५:१० ॥

Uttarasutra 5.11

ध्यायते यस् तु युक्तात्मा योगसिद्धिम् अवाप्नुयात् ।
एष ते प्राकृतो योग उक्तो मोक्षकरः परः ॥ ५:११ ॥

Uttarasutra 5.12

चेता वै {ऽ}कर्तृविज्ञानन् द्वितीयञ् चिञ्चिणीयकम् ।
धूमलक्षन् तृती[(य)]न् तु छायालक्षं चतुर्थकम् ॥ ५:१२ ॥

Uttarasutra 5.13

अकर्त्ता निर्गुणश् चाहम् प्रकृत्या कर्म्म कारितम् ।
विज्ञानध्यानम् एवन् तु वासनाद् एव मुच्यते ॥ ५:१३ ॥

Uttarasutra 5.14

चिञ्चिणी पौरुषं शब्दं ध्यायेद् युक्तेन चेतसा ।
ध्यानात् सिद्धिम् अवाप्नोति विष्णुसायोज्यताम् ब्रजेत् ॥ ५:१४ ॥

Uttarasutra 5.15

तुर्यद्वारविनिष्क्रान्तं धूम लक्षन् तु पौरुषम् ।
ध्यानाज् ज्वलति तद् धूमं तेजो दृष्ट्वा <तु सि>{ध्यते} ॥ ५:१५ ॥

Uttarasutra 5.16

[छा]याचित्तं समालम्ब्य वियत्स्थम् पश्यते पुमान् ।
एवम् अभ्यस्यमानस् तु सिद्ध्यते च शिवो भवेत् ॥ ५:१६ ॥

Uttarasutra 5.17

महालाभविपत्तौ च उदकादिरसेषु च ।
दर्प्पणे ध्यानम् आलम्ब्य नियत्याजयसिद्धिषु ॥ ५:१७ ॥

Uttarasutra 5.18

महालाभविपत्तौ च न तुष्येन् नैव चोद्विजेत् ।
ज्ञात्वा नियतिसद्भावन् निर्ज्जिता सा भविष्यति ॥ ५:१८ ॥

Uttarasutra 5.19

उदके वा घृते {वापि नियति}लक्षम् अभ्यसेत् ।
तोयात्मको हि भवति नियतिन् दृष्ट्वा तु सिध्यते ॥ ५:१९ ॥

Uttarasutra 5.20

दर्प्पणे नियतिन् ध्यायेद् वह्निरूपम् प्रजायते ।
नियतिञ् च ततः पश्यन् नियत्या सिध्यते ध्रुवम् ॥ ५:२० ॥

Uttarasutra 5.21

मुहूर्त्तसन्ध्यतिथयः पक्षमासार्त्तवेषु च ।
पुण्यकालेषु सर्व्वेषु कालम् एवम् उपास्यते ॥ ५:२१ ॥

Uttarasutra 5.22

[सर्व्व]कालन् तु कालं हि हीय{मा}नं तु {दृश्यते} ।
{कालाभिध्या}तचित्तस् तु स कालम् पश्यते ऽचिरात् ॥ ५:२२ ॥

Uttarasutra 5.23

जायते कालरूपी तु सिद्ध्यते कालयोगिनः ।
सर्वज्ञः कामरूपी च शिववत् स्वच्छताम् ब्रजेत् ॥ ५:२३ ॥

Uttarasutra 5.24

स्नेहे तु निस्पृहो यस् तु ज्ञानान्वेषणतत्परः ।
संसारोद्विग्नमोक्षार्थी माया तेन विलङ्घिता ॥ ५:२४ ॥

Uttarasutra 5.25

तरुजाम् मृन्मयीं वापि [(माया)]प्रतिम कारयेत् । (?)
तत्र ध्यान{म् प्रकुर्वीत ज्वलिते} सिध्यतेति च ॥ ५:२५ ॥

Uttarasutra 5.26

मणिरत्नप्रदीपेषु मायाध्यानं समादधेत् ।
ज्वलिते सिद्ध्यते चैव मायाध्यानेन साधकः ॥ ५:२६ ॥

Uttarasutra 5.27

एकैकाक्षरयोगेन अभ्यसेन् मातृकाशिवम् ।
विद्यासिद्धिम् अवाप्नोति शिवतुल्यश् च जायते ॥ ५:२७ ॥

Uttarasutra 5.28

एकैकन् तु लयन् ध्यायेद् अथवा वह्निरूपिणम् ।
वायुरूपमहेन्द्रापखरूप --- चिन्तयेत् ॥ ५:२८ ॥

Uttarasutra 5.29

सिद्ध्यते तेन रूपेण शिवसायोज्यताम् ब्रजेत् ।
विद्यायोगं समाख्यातन् ध्यानञ् चैवेश्वरं शृणु ॥ ५:२९ ॥

Uttarasutra 5.30

घण्टानादं सदा ध्यायेद् ईश्वरीसिद्धिकाङ्क्षिणः ।
ईश्वरञ् च ततः पश्येत् सिद्ध्यते शिवताम् ब्रजेत् ॥ ५:३० ॥

Uttarasutra 5.31

†आकाशे लिङ्गलिङ्गे वा चक्षुर्ध्यानं† समारभेत् ।
सूक्ष्मलिङ्गन् ततः पश्येज् ज्वलिते सिद्ध्यतेति च ॥ ५:३१ ॥

Uttarasutra 5.32

<मो>क्षदस् सकलो जाप्य अर्च्चादीक्षासु निष्कलः ।
योजकस् तु भवेत् सो हि शून्यो ध्येयस् स[दा] बुधैः ॥ ५:३२ ॥

Uttarasutra 5.33

दिव्यसिद्धिप्रदानाच् च कलाढ्यो जपहोमसु ।
शिवपथप्रणेता च योगिनां खमलङ्कृतः ॥ ५:३३ ॥

Uttarasutra 5.34

पातालमर्त्त्यसिद्धीनाञ् जपेत क्षपणात् क्षयम् ।
जराव्याधिक्षुधामृत्युं ध्यातो ऽन्तस्थस् तु नाशयेत् ॥ ५:३४ ॥

Uttarasutra 5.35

†नवा<त्मा> --- तुलाग्निभ्यो निर्बीजेषु च सङ्क्रमेत्† ।
दृष्टप्रत्ययसिद्धीनि जपहोमेन सिद्ध्यते ॥ ५:३५ ॥

Uttarasutra 5.36

सदाशिवोष्टधा प्रोक्त अहोरात्रायनानि च ।
सङ्क्रान्ति विषुवच् चैव शक्तिसमरसं शृणु ॥ ५:३६ ॥

Uttarasutra 5.37

ऊर्ध्वप्राणो ह्य् अहश् चैव अपानो रात्रिर् एव च ।
सुषुम्णा उत्तरं ज्ञेयम् इडा वै दक्षिणायनम् ॥ ५:३७ ॥

Uttarasutra 5.38

मध्यदेशे यदा ह्य् आत्मा विषुवं तं विदुर् बुधाः ।
चलते गच्छते चैव मध्यदेशे यदा पुमान् ॥ ५:३८ ॥

Uttarasutra 5.39

सङ्क्रान्तिर् इति विख्याता शक्तिञ् चैव निबोध मे ।
तृतीये चैव आयामे द्विपूर्व्वं षष्ठबिन्दुकम् ॥ ५:३९ ॥ (?)

Uttarasutra 5.40

श्रूयते च यदा शक्तिः श्रुत्वा बुध्वा च मानवः ।
लीयते च शिवे देवि भिन्नदेहे न संशयः ॥ ५:४० ॥

Uttarasutra 5.41

न शक्तिरहिता मर्त्त्या दीक्षानुग्रहकारकाः ।
[शक्ति]हीना न सिद्ध्यन्ति न च यान्ति पराङ् गतिम् ॥ ५:४१ ॥

Uttarasutra 5.42

शिवं सर्व्वगतं विद्धि नामरूपविवर्ज्जितम् ।
चिन्मात्रः पुरुषश् चैव शिवो व्याप्य व्यवस्थितः ॥ ५:४२ ॥

Uttarasutra 5.43

वासयेत् समरसश् चाहं शिवेन सह संयुतः ।
एवं समरसो भूत्वा गच्छते शिवम् अव्ययम् ॥ ५:४३ ॥

Uttarasutra 5.44

अथवा तु निरालम्बम् मूर्ध्नि मालम्ब्य यत्नतः ।
यागं योगं {जपं ध्यानं सर्व्वकर्म्मा}णि कारयेत् ॥ ५:४४ ॥

Uttarasutra 5.45

शिवम् आधाय कर्म्माणि कुर्व्वन्न् अपि न लिप्यते ।
योगसिद्धिम् अवाप्नोति शिवसायोज्यतां व्रजेत् ॥ ५:४५ ॥

Uttarasutra 5.46

ज्ञानयोगो मया ख्यात अक्लेशात् सिद्धिमोक्षदः ।
सुपरीक्ष्य प्रदातव्यम् अब्दत्रयनिवासिने ॥ ५:४६ ॥

Uttarasutra 5.47

ब्राह्मणे वृत्तिसम्पन्ने क्षत्रिये धर्म्मशीलिने ।
वैश्ये चैव दयायुक्ते शूद्रे {शुश्रूषतत्प}रे ॥ ५:४७ ॥

Uttarasutra 5.48

अन्यथा दुष्टमर्त्त्यानान् निन्दातर्कानुवर्त्तिनाम् ।
न देयं शिवसद्भावम् अन्यायपथवर्त्तिनाम् ॥ ५:४८ ॥

Uttarasutra 5.49

शिवभक्तिविहीना ये गुरुभक्तिविवर्ज्जिताः ।
जिज्ञासाकौतुकालीना न देयन् तत्त्वम् उत्तमम् ॥ ५:४९ ॥

Uttarasutra 5.50

अनधीत्याथ निश्वासं निश्वसन्ति पुनः पुनः ।
अधीत्वा चैव निश्वासन् न पुनर् न्निश्वसन्ति [(ते)] ॥ ५:५० ॥

Uttarasutra 5.51

[(निश्वास)] एव विख्यातस् सर्व्वतन्त्रसमुच्चयः ।
यं ज्ञात्वा मुच्यते जन्तु संसारभवबन्धनात् ॥ ५:५१ ॥

Uttarasutra 5.52

मूलसूत्रेण यत् ख्यातम् उत्तरेण निगद्यते ।
तेनैव सर्व्वम् आख्यातन् निर्म्मलीकरणस् तु सः ॥ ५:५२ ॥

Uttarasutra 5.53

अष्टाविंशति या प्रोक्ता संहिताः परमेष्ठिना ।
तेषां व्याख्या तु कर्त्तव्या उपरिष्टात् समन्ततः ॥ ५:५३ ॥

Uttarasutra 5.54

{शते द्वे दश श्लोकानां} निश्वासोत्तरसंहिता ।
एकविंशत् कुलान् देवि अधीत्य ह्य् उद्धरिष्यति ॥ ५:५४ ॥

Uttarasutra 5 – Kolophon

उत्तरसूत्रे पञ्चमः पटलः श्लो ५२ सूत्रोत्तरश्लो २१० समाप्तञ् च ॥

Uttarasutra 5 – Schlussformel

ॐ नमः शिवाय ।

Nayasutra

Kapitel 1

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nayasutra 1 – Titel

निश्वासतत्त्वसंहितायां नयसूत्रम् ॥

Nayasutra 1 – Eingangsformel

ॐ नमः शिवाय ।

Nayasutra 1 – Sprecherangabe vor 1.1

देव्य् उवाच ।

Nayasutra 1.1

नवात्मके स्थितास् तत्त्वाः पाशाश् चैव महेश्वर ।
छेदको योजकश् चैव मोक्षद(स् स प्रकीर्त्तितः) ॥ १:१ ॥

Nayasutra 1.2

⊔ (योगे तु) ये पाशा कथं ज्ञेयाक्षरे ऽक्षरे ।
एतन् मे [(स)]ंशयम् ब्रूहि पाशदाहनिबन्धनम् ॥ १:२ ॥

Nayasutra 1 – Sprecherangabe vor 1.3

ईश्वर उवाच ।

Nayasutra 1.3

अकारे सर्व्वतत्त्वानि संस्थितानि यशस्विनि ।
बन्ध्यते दहते चैव स एष परमेश्वरः ॥ १:३ ॥

Nayasutra 1.4

अकारे त्व् अक्षरास् सर्व्वे स च सर्व्वेषु संस्थितः ।
एवन् ते सर्व्व[(वर्ण्णास् तु पा)]शदाहक्षमाः स्मृताः ॥ १:४ ॥

Nayasutra 1 – Sprecherangabe vor 1.5

दे[(व्य् उवाच)] ।

Nayasutra 1.5

{स्थूलरूपाः स्मृ}ताः पाशा जीवस् सूक्ष्मस् स उच्यते ।
एकीभावगतौ एतौ ताम्रे कालिकवद् यथा ॥ १:५ ॥

Nayasutra 1.6

बध्यमानेषु पाशेषु कथं जीवो न बध्यते ।
न दाहो दह्यमानेषु च्छेदो वा नास्ति च्छिद्यतः ॥ १:६ ॥

Nayasutra 1 – Sprecherangabe vor 1.7

ईश्वर उवाच ।

Nayasutra 1.7

जलमध्ये [य]था मत्स्या बध्यन्ते जालयोगतः ।
सलिलन् न [(च)] ब[(ध्येत) तद्]वज् जीवो न बध्यते ॥ १:७ ॥

Nayasutra 1.8

हेमकर्त्ता {दहेद् दो}षाङ् कनकन् न च दह्यते ।
दह्यमानेषु पाशेषु तद्वज् जीवो न दह्यते ॥ १:८ ॥

Nayasutra 1.9

अयस्पिण्डो यथा ध्मातश् छिद्यमानस् तु खण्डशः ।
न च छिनत्त्य् असौ वह्निस् तद्वज् जीवो न च्छिद्यते ॥ १:९ ॥

Nayasutra 1.10

आकाशं सर्व्वगं यद्वत् सर्व्वद्रव्येष्व् अवस्थितम् ।
द्रव्येषु छिद्यमानेषु नाकाशं च्छेदम् अर्हति ॥ १:१० ॥

Nayasutra 1.11

एवम् पाशगणास् सर्व्वे स्थूल(सूक्ष्मविभा)गशः ।
दह्यमानेषु पाशेषु दीक्षाकाले शिवाध्वरे ॥ १:११ ॥

Nayasutra 1.12

न च च्छिद्यत्य् असौ ह्य् आत्मा आकाशेव व्यवस्थितः ।
बन्धदाहन् तु मन्त्रज्ञाः कुर्व्वन्ति शिवशासने ॥ १:१२ ॥

Nayasutra 1.13

जन्मबन्धञ् च पाशानां दग्ध्वा चैव शिवाग्निना ।
तेजीभूता विशन्त्य् एते स्वतत्त्वम् पुनर् एव हि ॥ १:१३ ॥

Nayasutra 1.14

सर्व्वपाशनिवृत्तास् तु कथिताः शिवशासने ।
न मुच्यन्ते ऽन्यतन्त्रज्ञा ये पाशैर् न विमोचिताः ॥ १:१४ ॥

Nayasutra 1 – Sprecherangabe vor 1.15

देव्य् उवाच ।

Nayasutra 1.15

नवतत्त्वा अकारे तु कथन् देव व्यवस्थिताः ।
स च एकः स्थितो व्यापी कथं वर्ण्णास् तु संस्थिताः ॥ १:१५ ॥

Nayasutra 1.16

भगवञ् शर्व्व सर्व्वज्ञ सर्व्वनाथ जगत्पते ।
अक्षरे अक्षरे ज्ञानम् अकारे वद सुव्रत ॥ १:१६ ॥

Nayasutra 1 – Sprecherangabe vor 1.17

ईश्वर उवाच ।

Nayasutra 1.17

अकारस् त्व् अक्षरो ज्ञेय +:+ पञ्चाशत् तत्र संस्थिताः ।
[(य)]था तस्य शरीरे तु तथात्मनि निरीक्षयेत् ॥ १:१७ ॥

Nayasutra 1.18

शिखाग्रावस्थितो देव अनामा शक्तिसंयुतः ।
शिखाग्रन्त्थौ च देवेशो सदाशिव इति स्मृतः ॥ १:१८ ॥

Nayasutra 1.19

ईश्वरस् तु शिरे नित्यं विद्या दक्षिणरेखिणी ।
सव्यरेखा तु माया वै अधः कालः प्रलम्बितः ।
अकुटी नियतीं विद्धि पुरुषश् चार्द्धचन्द्रके ॥ १:१९ ॥

Nayasutra 1.20

अध ऊर्द्धङ्गता या तु प्रकृतिर् ध्वजरूपिणी ।
एतानि नव तत्त्वानि अकारे संस्थितानि तु ॥ १:२० ॥

Nayasutra 1.21

अकारस् सर्व्ववर्ण्णानां शिरम् आक्रम्य संस्थितः ।
एवन् ते सर्व्ववर्ण्णास् तु सर्व्वतत्त्वसमन्विताः ॥ १:२१ ॥

Nayasutra 1.22

दहते सर्व्वपाशानि दीक्षाकाले शिवाध्वरे ।
पञ्च बिन्दूंस् ततः कृत्वा अकारन् तु समालिखेत् ॥ १:२२ ॥

Nayasutra 1.23

--- [(ल्यं)] तु ततो वि[(द्वा)]न् वर्ण्णैकैकं निरीक्षयेत् ।
यत्र वर्ण्णो न दृश्येत †तत्रैकाशन् तु† कारयेत् ॥ १:२३ ॥

Nayasutra 1.24

शतार्द्धं तत्र दृश्येत अकारस्य शरीरतः ।
स्वदेहे देशिकेन्द्रेण द्रष्टव्यानि पुनः पुनः ॥ १:२४ ॥

Nayasutra 1.25

अनामा कारणो देवः शिखाग्रावस्थितः परः ।
शक्तिश् च ---तपया (?) (ज्ञेया बि(न्दु) मूर्(द्ध्नि संस्थितः) ॥ १:२५ ॥

Nayasutra 1.26

(ललाट) {ईश्वर ज्ञेयो विद्या च तालुम}ध्यतः ।
घण्टिकायाम् महामाया कालः कण्ठे समाश्रितः ॥ १:२६ ॥

Nayasutra 1.27

हृदिस्था नियतिर् ज्ञेया पुरुषः पद्ममध्यतः ।
प्रकृतिर् नाभिमध्यस्था ज्ञात्वा तत्त्वान् नवैव तु ॥ १:२७ ॥

Nayasutra 1.28

दीक्षकस् तु गुरुश्रेष्ठः शिवतत्त्वस्य पारगः ।
अन्यथा न गुरुर् ज्ञेयो न दीक्षा न च मुक्तिदा ॥ १:२८ ॥

Nayasutra 1.29

शरीरस्थानि तत्त्वानि अज्ञात्वा न तु मुच्यते ।
(अक्षराणि च) {सर्व्वा}णि शरीरे तु यथा स्थिताः ॥ १:२९ ॥

Nayasutra 1.30

तानि सर्व्वाणि वक्ष्यामि प्रत्यक्षलिखितानि तु ।
केचित् प्रत्यङ्गरूपाणि केचित् त्व् अङ्गाकृतीनि तु ॥ १:३० ॥

Nayasutra 1.31

देहलीनौ करौ कृत्वा जङ्घौ चान्योन्यसंस्थितौ ।
प्रसृतं सर्व्वकायन् तु निष्कलाकारविग्रहम् ॥ १:३१ ॥

Nayasutra 1.32

धरण्यवस्थितज्जानुं वामबाहुम् प्रलम्बितम् ।
तिर्यगूर्द्धापसव्यन् तु मध्यग्रन्थ्य् उपरि स्थि(तम् ॥ १:३२ ॥

Nayasutra 1.33

स)कलं विग्रहं ह्य् एतद् अकारस्य विनिर्द्दिशेत् ।
तिर्यग्वामकङ् कृत्वा आकारस् तु विशिष्यते ॥ १:३३ ॥

Nayasutra 1.34

भ्रुवोः सन्धिं शिरः कृत्वा नेत्रतारौ तु बिन्दुकौ ।
इकार एष विख्यातो नासावंशेन दीर्घिका ॥ १:३४ ॥

Nayasutra 1.35

उ ऊ श्रवणमध्यस्थौ ऋकारं बाहुकारितम् ।
संहतौ च स्मृतौ जङ्घौ ऊर्द्धकायं प्रसारितम् ॥ १:३५ ॥

Nayasutra 1.36

दक्षिणं कार्य्येत् तिर्यग्बाहुञ् चोपरिसंस्थितम् ।
कराग्रं विन्यसेत् तत्र वामबाहुस् तु मध्यतः ॥ १:३६ ॥

Nayasutra 1.37

वामबाहुं ततोर्द्धन् तु कृत्वा री च भविष्यति ।
चरणौ कार्य्येत् तिर्यग् ऋकारस् सम्प्रदृश्यते ॥ १:३७ ॥

Nayasutra 1.38

लिकारन् तु रसास्वादि लीकारं घण्टिका सह ।
ए ऐ दशनपङ्क्तिस् तु रेखा दन्तान्तरेषु च ॥ १:३८ ॥

Nayasutra 1.39

विदित्वा मुच्यते जन्तु अन्नपानस्य भक्षणे ।
(न -गत) --- पर ⏑ ⏑ मो औकारे निरीक्षयेत् ॥ १:३९ ॥

Nayasutra 1.40

मस्तकं बिन्दुरूपन् तु अकारम् पूर्व्वचोदितम् ।
वृषणेन्द्रियसंयोगाद् अःकारो दृश्यते ध्रुवम् ॥ १:४० ॥

Nayasutra 1.41

नाभ्योपरि समाख्यातं ककारम् पुरुषाकृतिम् ।
शिरः शिरन् तु कृ[(त्वा वै)] ग्रीवास्कन्धे द्विरेखिणी ॥ १:४१ ॥

Nayasutra 1.42

उच्छृतं कारयेद् बाहुन् तिर्य्यग्म (?) ⏑---[पा]णिना ।
{खकार} [(ए)]ष विख्यातो शृतपाणिस् तु ग स्मृतः ॥ १:४२ ॥

Nayasutra 1.43

ऊर्द्ध्वबाहुकरौ कृत्वा मुष्टिन् दक्षिणपाणिना ।
घकारः शिरसा युक्तं ङकारं हीनबाहुना ॥ १:४३ ॥

Nayasutra 1.44

चकारं वक्त्रमार्ग्गे तु छकारं नासिके स्थितः ।
ऊर्द्ध्वबाहुकरौ कृत्वा शि[रो]युक्तन् तु ज स्मृतः ॥ १:४४ ॥

Nayasutra 1.45

झकारं सम्प्रवक्ष्यामि यं विदित्वा शिवो भवेत् ।
पिण्डितम् प्रसृतङ् कायं भुजञ् चैवोर्द्ध्वदक्षिणम् ॥ १:४५ ॥

Nayasutra 1.46

झकार एष विख्यातो ञकारञ् च निबोध मे ।
भुजान्तलीनजठरङ् कृत्वा चोर्द्ध्वभुजं भवेत् ॥ १:४६ ॥

Nayasutra 1.47

द्विगुणीकृत्य ताम् बाहुं दक्षिणम् पाणि योजयेत् ।
दक्षिणे श्रवणे योज्य वामबाहुन् निकुञ्चयेत् ॥ १:४७ ॥

Nayasutra 1.48

शिरस्य् अभिमुखो भूत्वा करौ तौ भोगसन्निभौ ।
ञकार विश्रुतो ह्य् एष शृते संहतजङ्घयोः ॥ १:४८ ॥

Nayasutra 1.49

टकार विद्धि विच्छिन्न यावदन्ध्र तलं गतः ।
ठकारस् सम्प्रदृश्येत ठकारो रन्ध्रविग्रहः ॥ १:४९ ॥

Nayasutra 1.50

तिर्यक्पिण्डीकृतौ जङ्घौ पार्श्वलीनौ तु तौ भुजौ ।
डकार एष विख्यातो ढकारञ् च निबोध मे ॥ १:५० ॥

Nayasutra 1.51

शिरः शिरस् तु कृत्वा वै वामबाहुन् निकुञ्चयेत् ।
निकुच्य वर्त्तुलीकृ(त्वा ढकारं ग्रीव)या विधिः ॥ १:५१ ॥

Nayasutra 1.52

अधश् चैवोरुसीमायां जङ्घौ मन्योन्य दर्शयेत् ।
अधोरुलीनविरला कृत्वा णश् च भविष्यति ॥ १:५२ ॥

Nayasutra 1.53

प्रसृते च तथा जङ्घे तकारं कटिना सह ।
थकारो नाभिर् उद्दिष्टा वलिरेखासमन्विता ॥ १:५३ ॥

Nayasutra 1.54

शिरः शिरन् तु विज्ञेयं भुजमध्ये निकुञ्चयेत् ।
हस्तञ् चैव निकुञ्चेत दकारो दृश्यते बुधैः ॥ १:५४ ॥

Nayasutra 1.55

(कण्ठन् तु यो)जयेद् धस्तं धकारं कायवर्ज्जितम् ।
मणिबन्धं शिरः कृत्वा दक्षिणस्य करस्य तु ॥ १:५५ ॥

Nayasutra 1.56

सङ्कुच्य चतुरो ऽङ्गुल्यास् तथा मुष्टिन् तु कारयेत् ।
अधोमुखः स्मृतो ऽङ्गुष्ठो नकारस् तु भविष्यति ॥ १:५६ ॥

Nayasutra 1.57

कर्ण्णलीनौ भुजौ कृत्वा ऊर्द्ध्वबाहौ तु कारयेत् ।
मुष्टिन् दक्षिणपाणौ तु पकारन् तु भविष्यते ॥ १:५७ ॥

Nayasutra 1.58

अस्य रूपस्य सव्यन् तु बाहुं सङ्कुञ्च्य लक्षयेत् ।
फकारन् दिव्यविमलं बकारम् उरसि स्थितम् ॥ १:५८ ॥

Nayasutra 1.59

दक्षि[(ण)]म् प्रक्षिपेद् धस्तं वामकक्षे विचक्षणः ।
सङ्कुच्य वामकं बाहुम् भकारं कायवर्ज्जितम् ॥ १:५९ ॥

Nayasutra 1.60

प्रसृतन् दक्षिणम् बाहुं वामञ् चैवोर्द्ध्वकारितम् ।
शिरः शिरन् तु कृत्वा वै मकारं कक्षया विधिः ॥ १:६० ॥

Nayasutra 1.61

सङ्कोचयित्वा तिर्यन् तु बाहुन् दक्षिण[(मध्यतः)] ।
(वाम) --- र्द्धं वामन् तु कारयेत् ॥ १:६१ ॥

Nayasutra 1.62

कक्षाबाधे यकारस् तु रकारं साम्प्रतं शृणु ।
जानुशिरस् तु पादोर्द्ध्वं रकारञ् जङ्घसंयुतम् ॥ १:६२ ॥

Nayasutra 1.63

देहलीनौ भुजौ कृत्वा उपविश्य च लक्षयेत् ।
सङ्कुञ्च्य वाम जङ्घौ तु लकारन् दिव्यरूपिणम् ॥ १:६३ ॥

Nayasutra 1.64

मुष्कसूत्र शिरः कृत्वा वकारम् पायुर् उच्यते ।
शिर एव शिरे देवि वामबाहूर्द्धकारिते ॥ १:६४ ॥

Nayasutra 1.65

---{दक्षि}(ण)मध्ये योजयित्वा च शः स्मृतः ।
पूर्व्वोक्तं हि शिरः कृत्वा दक्षिणम् भुजम् उत्सृजेत् ॥ १:६५ ॥

Nayasutra 1.66

अभ्यन्तरे सव्यभुजङ् कृत्वा योज्येत मध्यतः ।
निरीक्षयेद् बही रूपं षकारस्य महात्मनः ॥ १:६६ ॥

Nayasutra 1.67

सकारं सम्प्रवक्ष्यामि दिव्यरूपेण संस्थितम् ।
दक्षिणं योजयेद् धस्तं वामस्कन्धे विचक्षणः ॥ १:६७ ॥

Nayasutra 1.68

अधोलम्ब्य सव्यभुजं अर्द्ध --- ।
सकार एष विख्यातो हकारञ् च निबोध मे ॥ १:६८ ॥

Nayasutra 1.69

लकारस्य तु यद् रूपं दक्षिणे तच् च कारयेत् ।
हकारस् तु ततोद्दिष्टः क्षकारं साम्प्रतं शृणु ॥ १:६९ ॥

Nayasutra 1.70

एकरूपञ् चतुर्द्धा तु देहे दृश्यति स प्रभुः ।
हिस्कारन्ध्रं शिरन् तस्य रेखा या च मधोगता ॥ १:७० ॥

Nayasutra 1.71

कट्या रेखा तु सम्प्राप्ता स्तनरेखेन कः स्मृतः ।
कटिरेखा च तिर्य्यञ् च नाभिरे(खा च मध्यतः) ॥ १:७१ ॥

Nayasutra 1.72

पार्श्वे च या भवेद् रेखा क्षकारः प्रथमः स्मृतः ।
हस्तसन्धिं शिरः कृत्वा प्रसृता त्रीणि चाङ्गुलीं ॥ १:७२ ॥

Nayasutra 1.73

मध्यमां योजये ऽङ्गुष्ठ तर्ज्जनी वर्त्तुला ततः ।
ऊर्द्ध्वन् तु मध्यमङ् कृत्वा क्षकारस् तु द्वितीयकः ॥ १:७३ ॥

Nayasutra 1.74

स एव दक्षिणे हस्ते क्षकारस् तु तृतीयकः ।
ऊर्द्धकायककारस् तु जङ्घौ सङ्कुञ्च्य पिण्डितौ ॥ १:७४ ॥

Nayasutra 1.75

†कायोर्द्धका +र+ येत् तत्र† क्षकारः स्पष्टलक्षितः ।
मातृकाविग्रहं ह्य् एतच् छरीरे यस् तु विन्दति ॥ १:७५ ॥

Nayasutra 1.76

अकारे च तथैवेह स संसाराद् विमुच्यते ।
एतज् ज्ञानं परं श्रेष्ठं सर्व्वगुह्योत्तमोत्तमम् ॥ १:७६ ॥

Nayasutra 1.77

ज्ञात्वा मातृकसद्भावं गुरुर् भवति पाशहा ।
मन्त्रास् तस्य वशास् सर्व्वे आज्ञां कुर्व्वन्ति चोदिताः ॥ १:७७ ॥

Nayasutra 1.78

शिववद् भूतले सो हि मोचकस् तु गुरुः स्मृतः ।
न [दानस्ना]नतीर्थेन न जपध्यानहो[(मभिः)] ॥ १:७८ ॥

Nayasutra 1.79

{प्राप्नो}ति परमं स्थानं यथा मातृकवेदने ।
सर्व्वसिद्धान्तवादिन्यो कथयन्ति मुमु[(क्ष)]वः ॥ १:७९ ॥

Nayasutra 1.80

मुक्त्वा मातृकविज्ञानन् तुषां क्षोदन्ति मोहिताः ।
एवन् ते अक्षरास् सर्व्वे तत्त्वसम्पूर्ण्णसंस्थिताः ॥ १:८० ॥

Nayasutra 1.81

दहन्ते सर्व्वपाशानि मोक्षदानि भवन्ति च ।
अजसः सिद्ध्यते मन्त्रो अहुतस् तु फलप्रदः ॥ १:८१ ॥

Nayasutra 1.82

†यथा विहायांसफलं अध्या(तो मातृ) --- ।
{देव्युवा}(च) ।
कथं बध्यन्ति ते पाशास् तत्त्वरूपेण संस्थिताः ॥ १:८२ ॥

Nayasutra 1.83

पाशधर्म्मं वद शीघ्रम् अत्र मे संशयो महान् ।
ईश्वर उवाच ।
अनुग्रहतिरोभावौ द्वौ पाशौ तु सदाशिवे ॥ १:८३ ॥

Nayasutra 1.84

नास्तिक्यञ् च तिरोभावः शुष्कतर्क्कावलम्बनम् ।
तर्क्कभावसमायुक्त अयुक्तं कुरुते बहुम् ॥ १:८४ ॥

Nayasutra 1.85

अयुक्तकारी पुरुषो नरकेषु प्रपच्यते ।
तिर्यग्यो{निम् अनुप्राप्तः} [(पशु)यो]निषु जायते ॥ १:८५ ॥

Nayasutra 1.86

जन्मे जन्मे विमूढात्मा तिरोभावगतिं व्रजेत् ।
तिरोभावश् च कथितो ऽनुग्रहञ् च निबोध मे ॥ १:८६ ॥

Nayasutra 1.87

श्रद्दधानो धर्म्मरतः शुभकर्म्मसु चेष्टते ।
विद्यान्वेषी स्वर्ग्गगतिः स्वर्ग्गलोके तु क्रीडते ॥ १:८७ ॥

Nayasutra 1.88

तत्रैव तु परिभ्रष्टो जायते चोत्तमे कुले ।
शिवशक्तिनिपातेन दीक्षा [(ज्ञा)]नम् प्रयच्छति ॥ १:८८ ॥

Nayasutra 1.89

सो ऽनुग्रहः स्मृतो [(ह्येवं दा)]ता चैव सदाशिवः ।
ईश्वरस् सृष्टिपाशेन योजयेत् सर्व्वजन्तवान् ॥ १:८९ ॥

Nayasutra 1.90

प्रेरकः पुण्यपापाभ्यां सर्व्वस्य हृदि संस्थितः ।
व्रतम् पाशुपतम् प्रोक्तम् अनुग्रहनिमित्तये ॥ १:९० ॥

Nayasutra 1.91

ददाति च परानिष्ठां ज्ञानमोक्षम् प्रयच्छति ।
अक्षयं हि गणत्वञ् च भूलोके लिङ्गरूपिणः ॥ १:९१ ॥

Nayasutra 1.92

संस्थित ईश्वरो भूत्वा ददाति च हरेति च ।
शास्त्रार्थम् अन्यथा [(सत्य)म् अ]न्यथा यः प्रभाषते ॥ १:९२ ॥

Nayasutra 1.93

अन्यार्थभाषणे विद्या बन्ध्यते तर्क्कवादिनां ।
मातापितृसुतान् दारां गृहवाहन यद् वसु (?) ॥ १:९३ ॥

Nayasutra 1.94

अतिस्नेहसमापन्नो मायापाशस् तदुच्छिदः ।
नास्ति धर्म्मो न च स्वर्ग्ग अधर्म्मनिरयो न च ॥ १:९४ ॥

Nayasutra 1.95

दुःखिताश् च मृत्यन्त्य् एते ज्ञानमोक्ष न विद्यते ।
मायापाशस् समाख्यातं कालपाशञ् च मे शृणु ॥ १:९५ ॥

Nayasutra 1.96

कालो गणन संख्याया आयुश् चैव प्रकुर्व्वते ।
नियतिश् च ददात्य् आयुः कौमारं यौवनं जरा ॥ १:९६ ॥

Nayasutra 1.97

व्याधिमृत्युश् च कालेन स वै संहरते प्रजा ।
शुभं वाप्य् अशुभं यच् च अन्यजन्मार्जितम् भवेत् ॥ १:९७ ॥

Nayasutra 1.98

तस्य भोगप्रदा ह्य् एषा नियतिर् योजयेद् बलात् ।
पुरुषस् त्रिगुणैर् बद्धो बुद्ध्या वैकारिकेण च ॥ १:९८ ॥

Nayasutra 1.99

तन्मात्रेन्द्रियबन्धेन दृढम् भूतैस् तु वेष्टितः ॥ १:९९ ॥

Nayasutra 1.100

[दे]हपाशाः स्मृता ह्य् एते गणपाशानि मे शृणु ।
लब्धानुज्ञो [(न)] सङ्क्रामे विद्येशस् तेन बध्यते ॥ १:१०० ॥

Nayasutra 1.101

मूल्यङ् कृत्वा वदेज् ज्ञानं षण्मुखस् तेन बध्यते ।
अलब्धानुज्ञो [व]दे ज्ञानं ददाति च अदीक्षिते ॥ १:१०१ ॥

Nayasutra 1.102

सिद्धिं गणपतिर् हन्याच् छिद्रन् दृष्ट्वा तु साधके ।
परिवर्त्तयति यस् तन्त्रं पशुज्ञानेन मोहितः ॥ १:१०२ ॥

Nayasutra 1.103

नन्दिबध्याति वै शीघ्र [(चण्डीशः स)]मयाष्टसु ।
यो निन्दति शिवदेवन् तद्भक्तन् देशिकन् तथा ॥ १:१०३ ॥

Nayasutra 1.104

निर्[(मा)]ल्यभक्षणे वापि बलिदाने पशोर् अपि ।
आदते आर्तविस्पृष्टं शास्त्रनिन्दां करोति च ॥ १:१०४ ॥

Nayasutra 1.105

लिङ्गच्छायाविलङ्घी च चण्डीशो बन्ध्यते भृशम् ।
प्रतिज्ञाव्रतम् आरूढो पुनस् त्यक्त्वा शिवं व्रतम् ॥ १:१०५ ॥

Nayasutra 1.106

अन्यतन्त्रव्रतङ् गृह्णेद् देवी तेन निबन्धति ।
शिवतन्त्रम् अधीत्वा तु शिवयज्ञं (प्रकु)]र्व्वते ॥ १:१०६ ॥

Nayasutra 1.107

यजते वैदिकैर् यज्ञैः शिवभक्तांश् च निन्दते ।
विप्रांश् चैवान्यलिङ्गस्थ्यां पूजयेत् स्तुनतेति च ॥ १:१०७ ॥

Nayasutra 1.108

हाठकुष्माण्डरुद्रस् तु तं वै बध्याति दुर्म्मतिम् ।
गणपाशानि बध्नन्ति दीक्षितन् तु तथा दृढम् ॥ १:१०८ ॥

Nayasutra 1.109

कामक्रोधश् च लोभश् च जन्ममृत्युस् तथैव च ।
जरा व्याधिश् च शोकश् च क्षुतृष्णा च मदस् तथा ॥ १:१०९ ॥

Nayasutra 1.110

विषादश् च भयञ् चैव महामोहश् च दारुणं ।
दम्भो रागश् च मोहश् च [मद]मात्सर्य्यम् एव च ॥ १:११० ॥

Nayasutra 1.111

उन्मादश् चैव शोषश् च पैशुन्यं क्रुद्धता [(तथा)] ।
धर्म्माधर्म्मश् च हिंसा च अस्वतन्त्रा सदा तनुः ॥ १:१११ ॥

Nayasutra 1.112

एभिः पाशैस् सुबद्धाश् च न मुच्यन्ते ऽन्यशासनात् ।
पशुतन्त्रप्रणेतारैर् न दृष्टम् पशुबन्धनम् ।
तस्मात् ते तु न मुच्यन्ते पशुज्ञानरता नराः ॥ १:११२ ॥

Nayasutra 1 – Kolophon

॥ ⊗ ॥ इति निश्वासतत्त्वसं(हितायां) {नय}सूत्रे पाशप्रकरणं प्रथमः पटलः श्लो ⟦?⟧ ॥ ⊗ ॥

Kapitel 2

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nayasutra 2 – Sprecherangabe vor 2.1

देव्युवाच ।

Nayasutra 2.1

नामन् तत्त्वी च योगश् च लक्षा प्रोक्ता महेश्वर ।
क्रमोत्पत्तिश् च तत्त्वानां रूपकञ् चैव मे वद ॥ २:१ ॥

Nayasutra 2 – Sprecherangabe vor 2.2

ईश्वर उ ।

Nayasutra 2.2

सूक्ष्मं सर्व्वगतन् देवं कारणं जगतः पतिम् ।
अनिर्द्देश्यम् अनौपम्यम् अक्षरम् परमेश्वरम् ॥ २:२ ॥

Nayasutra 2.3

निष्प्रपञ्चनिरालम्बं वाग्विशुद्धम् अनक्षरम् ।
व्योम{व्यापि} निराभासम् प्रपञ्चातीतगोचरम् ॥ २:३ ॥

Nayasutra 2.4

शक्तिमूर्द्ध्नि स्थितं शान्तं योगगम्यं सनातनम् ।
सर्व्वज्ञं सर्व्वकर्त्तारं सर्व्वतोक्षिशिरोमुखम् ॥ २:४ ॥

Nayasutra 2.5

अनामा नामकोटीभिस् शिवः परिगीयते ।
तेन सर्व्वम् इदं विश्वं कारितन् न च कामतः ॥ २:५ ॥

Nayasutra 2 – Sprecherangabe vor 2.6

देव्युवाच ।

Nayasutra 2.6

अकामस्य क्रिया नास्ति निष्कामः सृजते कथम् ।
एतत् प्रश्नवरं गु[ह्यं कथयस्व] प्रसादतः ॥ २:६ ॥

Nayasutra 2 – Sprecherangabe vor 2.7

ईश्वर उवाच ।

Nayasutra 2.7

आदित्यस्य मणिर् यद्वत् तापितो रविरश्मिभिः ।
वह्निस् सञ्जायते तत्र न रवे तत्र कामता ॥ २:७ ॥

Nayasutra 2.8

मणेर् अपि न कामित्वन् तद् वद् देवस्य चेष्टितम् ।
आदित्यवच् छिवो ज्ञेयः शक्तिर् मणिर् इव स्थिता ॥ २:८ ॥

Nayasutra 2.9

रितुकालम् अनुप्राप्य कालस् तत्र नियोज[येत्] ।
शिवतेजेन संयुक्ता [श]{क्तेर् ज्जायति बिन्दुकः} ॥ २:९ ॥

Nayasutra 2.10

{बि}(न्दो)श् चेश्वर विद्या च माया कालस् तथैव च ।
नियतिः पुरुषश् चैव प्रकृतिश् च समासतः ॥ २:१० ॥

Nayasutra 2.11

प्रकृतेर् द्धिषणा जाता भूतादिर् द्धिषणाद् अपि ।
भूतादेश् शब्दतन्मात्रं स्पर्शतन्मात्रसंयुतम् ॥ २:११ ॥

Nayasutra 2.12

रूपतन्मात्रम् एवाहु रसतन्मात्रकन् ततः ।
गन्धतन्मात्रसंयुक्तं जायते चेन्द्रियेण च ।
{श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम्} ॥ २:१२ ॥

Nayasutra 2.13

[(बु)]द्धीन्द्रियाणि पञ्चैव विद्धि कर्म्मेन्द्रियाणि च ।
वाक्पाणिपादपायुश् च उपस्थेति च पञ्चमम् ॥ २:१३ ॥

Nayasutra 2.14

मनश् चैकादशो ज्ञेयम् उभयोर् अपि धावति ।
अहङ्कारोद्भवा ह्य् एते षोडशैते प्रकीर्त्तिताः ॥ २:१४ ॥

Nayasutra 2.15

शब्दतन्मात्रसम्भूतम् आकाशं शब्दलक्षणम् ।
स्पर्शतन्मात्रसम्भूतं वायुर् द्विगुणलक्षणम् ॥ २:१५ ॥

Nayasutra 2.16

रूपतन्मात्रतो ज्ञेयन् तेज[स्] त्रिगुणलक्षणम् ।
रसतन्मात्रसम्भूता आपश् चैव चतुर्ग्गुणाः ॥ २:१६ ॥

Nayasutra 2.17

गन्धतन्मात्रसम्भूता पृथ्वी पञ्च[(गु)]णान्विता ।
तत्त्वैर् एतैर् ज्जगत् सर्व्वञ् जातं स्थावरजङ्गमम् ॥ २:१७ ॥

Nayasutra 2.18

भुवनानि विचित्राणि शतशो ऽथ सहस्रशः ।
तत्त्वाभ्यन्तरसंस्थानि शास्त्राणि विविधानि च ॥ २:१८ ॥

Nayasutra 2.19

विज्ञानं कुहकं शिल्प सिद्धिसन्दोहलक्षणम् ।
प्रक्रिया शिवदीक्षा च तत्त्वैर् ए[(तै)स् तु] लभ्यते ॥ २:१९ ॥

Nayasutra 2.20

सर्व्वं तत्त्वेषु बोद्धव्यं सर्व्वं तत्त्वेषु दृश्यते ।
न च वस्त्वन्तरङ् किञ् चिद् यत् तत्त्वाद् अतिरिच्यते ॥ २:२० ॥

Nayasutra 2 – Sprecherangabe vor 2.21

देव्युवाच ।

Nayasutra 2.21

तत्त्वसृष्टिस् त्वया प्रोक्ता जगत्सम्भवकारिणी ।
तत्त्वविज्ञानम् आख्याहि सिद्धिश् चैव कथम् भवेत् ॥ २:२१ ॥

Nayasutra 2.22

प्रक्रिया च कथन् तेषु दीक्षा निर्व्वाणगामिनी ।
पुनर् व्विस्तरशो ब्रूहि प्रश्नं गुह्यतरं विभो ॥ २:२२ ॥

Nayasutra 2 – Sprecherangabe vor 2.23

ईश्वर उवाच ।

Nayasutra 2.23

पृथिव्या[(दि)] {शि}वान्तञ् च प्रवक्ष्यामि निबोधतः ।
पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता ॥ २:२३ ॥

Nayasutra 2.24

मांसे चैव तथास्थियो स्नायुलोमनखेषु च ।
अन्त्रे मज्जे च विज्ञेया पृथ्वी पञ्चगुणोत्कटा ॥ २:२४ ॥

Nayasutra 2.25

कफासृक्मूत्रमेदेषु रसस्वेदवसेषु च ।
शुक्रे च सङ्ग्रहे चैव स्थिता ह्य् आपश् चतुर्ग्गुणाः ॥ २:२५ ॥

Nayasutra 2.26

पचने दर्शने चैव पित्तोष्मे तेज संस्थितम् ।
{तेज}स् {तथा} समाख्यातो स च ज्ञेयस् त्रिलक्षणः ॥ २:२६ ॥

Nayasutra 2.27

वायुच्छ्वासे निरुच्छ्वासे चेष्टने स्पर्शनेति च ।
मूत्रोच्चारविसर्ग्गे च अन्नपानप्रवेशने ॥ २:२७ ॥

Nayasutra 2.28

वायुर् एभिः स्थितो देहे विज्ञेयस् तु द्विलक्षणः ।
एकलक्षणम् आकाशन् तद् धि वक्ष्यामि तत्त्वतः ॥ २:२८ ॥

Nayasutra 2.29

सुषिरात्मकन् तु विज्ञेयं नवधा छिद्रलक्षणम् ।
शब्दात्मकगुणो ह्य् एष तेनासौ ह्य् एकलक्षणः ॥ २:२९ ॥

Nayasutra 2.30

वागिन्द्रियं वदेद् वाणीं सा च वाणी चतुर्व्विधा ।
संस्कृता प्राकृता चैव अपभ्रंशानुनासिका ॥ २:३० ॥

Nayasutra 2.31

उक्ता वागिन्द्रिये धर्म्मा हस्तेन्द्रियम् अतः शृणु ।
छेदनम् भेदनं दानं वेधनं शिल्पकारितम् ॥ २:३१ ॥

Nayasutra 2.32

ग्रहणं विजयश् चैव सर्व्वं हस्तेन्द्रिये स्थितम् ।
समनिम्नोन्नतानीह कण्टलोष्टकवालुका ॥ २:३२ ॥

Nayasutra 2.33

कर्द्दमजलदुर्ग्गाणि [पर्व्वता]ट्टालर{थ्यकाः} ।
{पादे}न्द्रिये गुणाः प्रोक्ता देशान्तरगमागमे ॥ २:३३ ॥

Nayasutra 2.34

उत्सर्ग्गे छर्द्दिते चैव पायुश् चेष्टति सर्व्वतः ।
गम्यागम्ये प्रवर्त्तेत उपस्थो नन्दकारकः ॥ २:३४ ॥

Nayasutra 2.35

एते कर्म्माः प्रवर्त्तन्ते तेन कर्म्मेन्द्रियाः स्मृताः ।
बुद्धीन्द्रियास् तथा पञ्च वर्त्तन्ते बुद्धियोगतः ॥ २:३५ ॥

Nayasutra 2.36

श्रोत्रे श्रवणधर्म्मित्वं यानि शब्दानि गृह्णते ।
तानि वक्ष्यामि तत्त्वेन यथावद् अनु[पू(र्व्वशः)] ॥ २:३६ ॥

Nayasutra 2.37

षड्जञ् च ऋषभञ् चैव गान्धारम् मध्यमन् तथा ।
पञ्चमन् धैवतं षष्ठं निषादश् चैव सप्तमः ॥ २:३७ ॥

Nayasutra 2.38

सप्त स्वरास् त्रयो ग्रामा एकविंशति मूर्च्छनाः ।
तानान्य् एकोनपञ्चाश इत्य् एतत् स्वरलक्षणम् ॥ २:३८ ॥

Nayasutra 2.39

सूक्ष्माश् शब्दाः स्मृता ह्य् एते सर्व्वजन्तुष्व् अवस्थिताः ।
स्थूलान्य् अपि प्रवक्ष्यामि यथावन् निबोधतः ॥ २:३९ ॥

Nayasutra 2.40

भेरीशङ्खमृदङ्[(गञ् च)] {पटहं} [प]णवन् तथा ।
मर्द्दलन् दर्द्दुरं वेणुं गोमुखतालम् एव च ॥ २:४० ॥

Nayasutra 2.41

तन्त्रीवाद्यविचित्राणि करवाद्यानि यानि च ।
मुखवाद्यानि रम्याणि काष्ठायुक्तानि चैव हि ॥ २:४१ ॥

Nayasutra 2.42

संस्कृतं प्राकृतञ् चैव अपभ्रंशानुनासिकम् ।
सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि यानि च ॥ २:४२ ॥

Nayasutra 2.43

उक्ताद् अनुक्तशब्दानि गृह्णाति श्रवणेन्द्रिय[(:)] ।
शब्दस्य विषयो ह्य् एष पुरुषो येन बध्यते ॥ २:४३ ॥

Nayasutra 2.44

मृदुश् च कठिनञ् चैव कर्क्कशं शीतलन् तथा ।
उष्णञ् च पिच्छिलं लोष्टु कण्टकं वालुकर्द्दमम् ॥ २:४४ ॥

Nayasutra 2.45

शरकुन्तासिघातानि ताडनच्छेदनञ् च यत् ।
एतान्य् अन्यानि जानाति स्पर्शेन तु त्वगिन्द्रियः ॥ २:४५ ॥

Nayasutra 2.46

स्पर्शस्य विषयो ह्य् एष येनात्मा तु निबध्यते ।
चक्षुषश् चैव कर्म्माणि कथ्य{माना}नि मे शृणु ॥ २:४६ ॥

Nayasutra 2.47

सितं रक्तञ् च पीतञ् च कृष्णं हरितपाण्डुरम् ।
कपिलं पिङ्गलं बभ्रु अन्यान्य् अपि विशेषतः ॥ २:४७ ॥

Nayasutra 2.48

नरनारीपशुमृगं ज्योति स्थावरजङ्गमम् ।
रूपाकृतिविभक्तानि चक्षुः पश्यति सर्व्वतः ॥ २:४८ ॥

Nayasutra 2.49

रूपस्य विषयो ह्य् एष येन बध्यति पुद्गलः ।
मधु{राम्लरसञ् चैव लवणं कटु तिक्तकम्} ॥ २:४९ ॥

Nayasutra 2.50

{कषाय}[(मि)]श्रं स्वादुञ् च जिह्वा वेदयते रसम् ।
रसस्य विषयो ह्य् एष येन बध्यति स पुमान् ॥ २:५० ॥

Nayasutra 2.51

सुरभीणि सुगन्ध्यानि दुर्ग्गन्ध्याश् -म्- अशोभनाः ।
उभाभ्यां जिघ्रते नासा विषयो गन्धलक्षणः ॥ २:५१ ॥

Nayasutra 2.52

येनासौ बध्यते क्षेत्री अहङ्कारेण मोहितः ।
सङ्कल्पाश् च विकल्पाश् च {दशधाक्षे}षु धावति ॥ २:५२ ॥

Nayasutra 2.53

अनिर्{वारितसम्मोही अजय्यः} (सर्व्वजन्तुषु) ।
{मन}स् तु कथितं ह्य् एतद् धर्म्माधर्म्मनिबन्धकं ।
स्वरूपधर्म्मं वक्ष्यामि तन्मात्राणां यथार्थतः ॥ २:५३ ॥

Nayasutra 2.54

गन्धतन्मात्र गन्धन् तु नासिकाग्रेण गृह्णते ।
रसतन्मात्र जिह्वायां रसं गृह्णाति संस्थितः ॥ २:५४ ॥

Nayasutra 2.55

रूपतन्मात्र चक्षुभ्यां रूपं गृह्णात्य् उपागतम् ।
स्पर्शतन्मात्र स्पर्शन् तु गृह्णते त्वचम् आशृतः ॥ २:५५ ॥

Nayasutra 2.56

ग्राहकं शब्दतन्मात्रं श्रोत्रशब्दत्वम् आगतः ।
{सूक्ष्मस् त}न्मात्रधर्म्मा हि भूतानाम् प्रभृतिक्रमात् ॥ २:५६ ॥

Nayasutra 2.57

वैकारिकस् तदूर्द्धन् तु येन बध्यति पुद्गलः ।
अहं विद्वान् अहं भोगी अहञ् जातो महत्कुले ॥ २:५७ ॥

Nayasutra 2.58

अहन् दाता च भोक्ता च रूपवी बाहुशालिनः ।
मया जिताश् च सङ्ग्रामे शत्रुश् चैव पराजितः ॥ २:५८ ॥

Nayasutra 2.59

धर्म्मशीलश् च गुणवान् मम त्वय्य् अधिको कुतः ।
अहम् पापी दुराचारो मूर्खश् चाहं विराकृति[(:)] ॥ २:५९ ॥

Nayasutra 2.60

(न दतात्र) च मे भुक्तम् मत्समो नास्ति दुःखितः ।
इत्य् अहङ्कारचित्तानां ममत्वम् अनुवर्त्तिनाम् ॥ २:६० ॥

Nayasutra 2.61

संसारगृहबन्धेन अहङ्कारस् तु बन्ध्यते ।
उक्ताहङ्कारधर्म्मास् तु धीगुणाञ् च निबोध मे ॥ २:६१ ॥

Nayasutra 2.62

धर्म्मं ज्ञानञ् च वैराग्यम् ऐश्वर्य्यञ् च चतुर्थकम् ।
अधर्म्मञ् च तथाज्ञानम् अवैराग्यम् अनैश्वरम् ॥ २:६२ ॥

Nayasutra 2.63

बन्ध्यते सप्तधा सा तु ज्ञानभावेन मोक्षते ।
बु[द्धि(र् अ)]ध्यवसायेन करोति विकरोति च ॥ २:६३ ॥

Nayasutra 2.64

धर्म्मादीनाञ् च अष्टानां लक्षणानि निबोध मे ।
उप[(वासं)] जपमौनम् अक्रोधम् अस्तेयवर्ज्जितम् ॥ २:६४ ॥

Nayasutra 2.65

सत्यं शौचञ् च दानञ् च दया क्षान्तिश् च सर्व्वदा ।
विद्याभ्यासश् च लज्जा च इन्द्रियाणाञ् च निग्रहः ॥ २:६५ ॥

Nayasutra 2.66

इष्टापूर्त्तञ् च तीर्थञ् च पितॄणाञ् चैव तर्प्पणम् ।
अभयं सर्व्वभूतानां जीवितस्य (तु) रक्षणम् ॥ २:६६ ॥

Nayasutra 2.67

धीगुणः प्रथमो ह्य् एष धर्म्म इत्य् अभिशब्दितः ।
धर्म्मकर्म्मनिबद्धानां संसारम् अनुवर्त्तिनाम् ॥ २:६७ ॥

Nayasutra 2.68

पुनस् स्वर्ग्गः पुनर् म्मर्त्त्यैस् तिर्य्यक्त्वञ् च पुनः पुनः ।
धर्म्मस्य भावम् आख्यातं ज्ञानभावं निबोध मे ॥ २:६८ ॥

Nayasutra 2.69

पिण्ड एष चतुर्व्विंशत् करणेन्द्रियसंयुतः ।
प्राकृतस् स तु विज्ञेयो धर्म्माधर्म्मप्रवर्त्तकः ॥ २:६९ ॥

Nayasutra 2.70

अकर्त्ता {निर्ग्गुणश् चाहं न} मे बन्धो ऽस्ति प्राकृतः ।
साङ्ख्यज्ञानम् मया प्रोक्तम् प्रकृत्या येन मुच्यते ॥ २:७० ॥

Nayasutra 2.71

मुक्तः प्रकृतिसृष्ट्या तु पुनर् ब्बन्ध्याति चेश्वरः ।
पुनस् संसरते भूयो याव देवञ् च विन्दति ॥ २:७१ ॥

Nayasutra 2.72

ईश्वरं सृष्टिकर्त्तारं सर्व्वजन्तुनिबन्धकम् ।
वैराग्यात् त्यजते भोगान् दाराञ् चाप्सरसोपमान् ॥ २:७२ ॥

Nayasutra 2.73

हस्त्यश्वरथयानानि सुहृन्मित्रधनानि च ।
{उपवा}सं जपन्तीर्थम् पञ्चाग्निं जलशायिनम् ॥ २:७३ ॥

Nayasutra 2.74

तपं सेवन्ति घोराणि देहः सन्त्यज्यते क्षणात् ।
गिरितोयविषाग्निभ्यो प्रहारोद्ध्बन्धनाशकैः ॥ २:७४ ॥

Nayasutra 2.75

वैराग्यन् तु समाशृत्य कुरुते साहसान्य् अपि ।
ऐश्वर्य्यभावम् आपन्नो द्रव्ये तृप्तिं न गच्छते ॥ २:७५ ॥

Nayasutra 2.76

न राज्येन च भोगैश् च परिवारायुधवाहनैः ।
तपं व्रतञ् च मन्त्राञ् च ऐश्वर्य्यार्थी तु साधयेत् ॥ २:७६ ॥

Nayasutra 2.77

युद्धं द्यूतञ् च माया च चौरिकानृतहिंसनम् ।
अन्यान्य् अपि अयुक्तानि विश्रम्भच् छलयातनम् ॥ २:७७ ॥

Nayasutra 2.78

†ऐश्वर्य्यभावम् आपन्नो† करोति च विहन्यते ।
प्राणिहिंसारतो नित्यं चौरिकानृतडम्भनम् ॥ २:७८ ॥

Nayasutra 2.79

वञ्चको दुःखदाता च भवेच् चाधर्म्मचेष्टितम् ।
नास्ति धर्म्मो न चाधर्म्मो स्वर्ग्गमोक्षञ् च को गतः ॥ २:७९ ॥

Nayasutra 2.80

अज्ञानभावम् आपन्नो (सर्व्वं मिथ्ये)ति वक्ष्यते ।
नित्यदुःखी परप्रेष्यो भारयानं वहत्य् अपि ॥ २:८० ॥

Nayasutra 2.81

कृच्छ्रजीवी च सततम् अवैराग्यान् न खिद्यते ।
राज्यङ् कृत्वा तु सामन्तस् सामन्ताद् ग्रामिको भवेत् ॥ २:८१ ॥

Nayasutra 2.82

ग्रामभ्रष्टस् तु लब्धेन वर्त्तते स त्व् अनीश्वरः ।
न शोचते न चोद्वेगः पूर्व्वराज्येव क्रीडते ॥ २:८२ ॥

Nayasutra 2.83

अनैश्वर्य्यस्य भावो ऽयम् एष ते समुदाहृतः ।
अव्यक्तन् त्रिगुणं (वक्ष्ये) (संसारस्य प्रवर्त्तकम् ॥ २:८३ ॥

Nayasutra 2.84

यतस् सर्व्वजगोत्पत्तिः प्रकृतिस् तेन सोच्यते ।
तस्य धर्म्माञ् प्रवक्ष्यामि सत्त्वरजस् तमोत्कटान् ॥ २:८४ ॥

Nayasutra 2.85

प्रकाशन् तु भवेत् सत्त्वं धर्म्मसत्यसमन्वितम् ।
संविभागी च सततं अनृशंसत्वकारितम् ॥ २:८५ ॥

Nayasutra 2.86

क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः ।
प्रीतिदानन् धृतिमेधा तपः शौच दमस् तथा ॥ २:८६ ॥

Nayasutra 2.87

अदृष्टेषु समदृष्टिर् द्दिव्यबुद्धिप्रबोधकः ।
यस्मिन्न् एतानि धर्म्माणि भवन्ति पुरुषोत्तमे ॥ २:८७ ॥

Nayasutra 2.88

स सात्त्विकस् तु विज्ञेयो रजोधर्म्मञ् च मे शृणु ।
निस्त्रिंशश् चातिलोभी च विद्वेषी क्रोधनस् तथा ॥ २:८८ ॥

Nayasutra 2.89

कामी हर्षसमाविष्टो दुःखार्त्तो -म्- अटते सदा ।
मानी दम्भसमायुक्तो ह्य् अहङ्कारे व्यवस्थितः ॥ २:८९ ॥

Nayasutra 2.90

नित्यं युद्धरतः {शूरः} राजसं गुणलक्षणम्} ।
(काम){क्रोधा}[(भि)]भूतश् च लोभेन च समन्वितः ॥ २:९० ॥

Nayasutra 2.91

ईर्ष्यालुश् च विषादी च मदम् उन्मादचेष्टवान् ।
निद्रालस्यम् अकर्म्मित्वन् दुर्म्मेध्याज्ञानम् एव च ॥ २:९१ ॥

Nayasutra 2.92

अधर्म्मताबुद्धिमतो नास्तिक्यञ् चलचित्तता ।
तमस् य् एतानि चिह्नानि यस्मिन् दृश्यति जन्तवे ॥ २:९२ ॥

Nayasutra 2.93

तामसो हि स विज्ञेयो पुरुषः [(क)]लुषात्मकः ।
एतत् त्रिगुण{म् अव्यक्तं त्रिगुणं समुदा}हृतम् ॥ २:९३ ॥

Nayasutra 2.94

विदित्वा प्राकृतैर् ब्बन्धैर् म्मुच्यते न च मुच्यते ।
गुणधर्म्मा न चाव्यक्तं धीहङ्कारगुणो न हि ॥ २:९४ ॥

Nayasutra 2.95

†तन्मात्रेन्द्रियधर्म्मेण महाभूतगुणेन च† ।
करणेन्द्रियहीनत्वाद् भूततन्मात्रवर्ज्जितः ॥ २:९५ ॥

Nayasutra 2.96

अकर्त्ता निर्ग्गुणश् चैव चिन्मात्रः पुरुषः स्मृतः ।
मानसं वाचिकञ् चैव शारीरं कर्म्म यत् कृतम् ॥ २:९६ ॥

Nayasutra 2.97

प्रकृत्या कारितम् मन्ये अकर्त्ता पुरुषोच्या[(ते)] ।
[ए]वं सन्न्यस्य कर्म्माणि प्रवर्त्तन्तानि सर्व्वतः ॥ २:९७ ॥

Nayasutra 2.98

नाहङ् कर्त्ता न मे बन्धो ह्येवं बुध्यन्ति ये नराः ।
प्रकृत्या ते विमुच्यन्ते यावन् न सृजतेश्वरः ॥ २:९८ ॥

Nayasutra 2.99

साङ्ख्यज्ञानम् मया प्रोक्तम् मुक्तिर् इत्य् अभिशब्दिता ।
न हि मुक्तिर् भवेत् तस्य किञ् चित् कालं विदेहता ॥ २:९९ ॥

Nayasutra 2.100

तिष्ठेत् प्रकृतिनिर्म्मुक्तः सृष्टिसंहारवर्ज्जितः ।
यावन् न सृजते सृष्टिम् ईश्व[(रः)] परमेश्वरः ॥ २:१०० ॥

Nayasutra 2.101

तावत् प्रकृतिबन्धेन संसारे क्षिप्यते पुनः ।
क्षिप्तस् तु जायते भूयो जातस् संसरते पुनः ॥ २:१०१ ॥

Nayasutra 2.102

धर्म्माधर्म्मनिबद्धस् तु साङ्ख्यज्ञानेन मोहितः ।
अहङ् कर्त्ता अहम् भोक्ता ईश्वरो बलवान् अहम् ।
ममत्वेनैव संमूढो भ्रमते घटियन्त्रवत् ॥ २:१०२ ॥ ⊗ ॥

Nayasutra 2 – Kolophon

नयसूत्रे प्रकृतिविचारो द्वितीयः पटलः श्लो ⟦?⟧ ॥

Kapitel 3

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nayasutra 3 – Sprecherangabe vor 3.1

ईश्वर उवाच ।

Nayasutra 3.1

साङ्ख्यज्ञानम् मया प्रोक्तं शृणु ध्यानाधिदैवतम् ।
पृथ्वी कठिनरूपेण चतुस्सागरमेखला ॥ ३:१ ॥

Nayasutra 3.2

सपर्व्वतवनाकीर्ण्णा मृगपक्षिसमाकुला ।
स्थिरा पीतकवर्ण्णाभा पूर्व्वबीजसमुत्थिता ॥ ३:२ ॥

Nayasutra 3.3

ध्यायतः सिद्धिम् अयेति विषसत्त्वानि स्तम्भयेत् ।
अचाल्यस् सर्व्वभूतानां यथैव वसुधा भवेत् ॥ ३:३ ॥

Nayasutra 3.4

जलपूरितसर्व्वाङ्गो जलध्यानेन पूरयेत् ।
एवम् अभ्यसमानस् तु विषसत्त्वानि नाशयेत् ॥ ३:४ ॥

Nayasutra 3.5

तृप्तो दाहविनिर्म्मुक्तस् सर्व्व-म्-ईतिविवर्ज्जितः ।
जगद् आपूरयेत् सर्व्वम् पूर्व्वबीजविचिन्तकः ॥ ३:५ ॥

Nayasutra 3.6

स्वशरीरोत्थितो वह्नि ज्ज्वलन्तो जगदाहकः ।
कुर्य्यात् कर्म्मसहस्राणि स्वबीजेन तु चिन्तकः ॥ ३:६ ॥

Nayasutra 3.7

{कृष्णरे}ण्वाकुलो वायुर् ध्यायेद् बीजेन संयुतः ।
पूरयन्तो जगद्देहं सिद्धिश् चाश्चर्य्यकर्म्मकृत् ॥ ३:७ ॥

Nayasutra 3.8

सुषिरात्मकं स्वदेहञ् च जगच् च सुषिरात्मकम् ।
ध्यायेत् प्रकृतिबीजेन चित्रकर्म्माणि कारयेत् ॥ ३:८ ॥

Nayasutra 3.9

वागिन्द्रिये तथा वह्निर् ध्यातो वाक्सिद्धिदायकः ।
इन्द्रः पाणाव् अभिध्यात अजयः बाहुशालिनः ॥ ३:९ ॥

Nayasutra 3.10

पादप्र{चा}रम् पद्भ्यान् तु {ध्यातो विष्णुः} [(प्र)]दायकः ।
पायौ मित्रं सितन् ध्यातः पायुव्याधिविनाशनः ॥ ३:१० ॥

Nayasutra 3.11

शिश्ने प्रजापतिः श्यामो ध्यायेद् युक्तेन चेतसा ।
जितेन्द्रियश् च भवते इच्छया रमते शतम् ॥ ३:११ ॥

Nayasutra 3.12

श्रोत्रेन्द्रिये दिशाश् चित्रा ध्यायेद् बीजेन संयुताः ।
सकृदुक्तं श्रुतङ् गृह्णे दिशायात्रा च सिद्धते ॥ ३:१२ ॥

Nayasutra 3.13

मरुतं कृष्णरूपेण ध्याये त्वचसि संस्थितम् ।
शस्त्रदंष्ट्रा{भेदैश् च न} त्वगो जायते व्यथा ॥ ३:१३ ॥

Nayasutra 3.14

आदित्यं चक्षुषि ध्यायेज् जिह्वायां वरुण स्थितः ।
नासिके पृथिवी पीता ध्यायेच् चन्द्रं मने स्थितम् ॥ ३:१४ ॥

Nayasutra 3.15

पीतकं गन्धतन्मात्रं रसतन्मात्र शुक्लकम् ।
रूपतन्मात्र रक्तन् तु स्पर्शतन्मात्र कृष्णकम् ॥ ३:१५ ॥

Nayasutra 3.16

अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपिणं ।
विषये चेप्सितां सिद्धिञ् चिन्तितञ् च विजानते ॥ ३:१६ ॥

Nayasutra 3.17

वैकारिके तथा रुद्रो ध्यातव्यो सिद्धिम् इच्छता ।
ध्यानात् सिद्धिम् अवाप्नोति मुक्तो ऽहङ्कारबन्धनात् ॥ ३:१७ ॥

Nayasutra 3.18

ब्रह्माणं बुद्धिसंस्थन् तु ध्यायेद् युक्तेन चेतसा ।
पूर्व्वबीजम् अभिध्यानाज् ज्ञानौघस् सम्प्रवर्त्तते ॥ ३:१८ ॥

Nayasutra 3.19

दिव्यबुद्धिश् च भवते संशयच्छेदकारिणी ।
भूतम् भव्यम् भविष्यञ् च प्रत्यक्षन् तस्य जायते ॥ ३:१९ ॥

Nayasutra 3.20

प्रकृतिः कृष्णवर्ण्णा तु शुक्लरक्ता विराजते ।
रक्तञ् च हृदयन् तस्य बहुपादभुजानना ॥ ३:२० ॥

Nayasutra 3.21

ध्यात्वा प्रकृतिबीजेन यद् इच्छेत् सिद्धिम् आत्मनः ।
सिद्धश् चैव स्वतन्त्रश् च दिव्यसृष्टिः प्रजायते ॥ ३:२१ ॥

Nayasutra 3.22

षण्मासाद् ध्यानयोगेन दिव्यसिद्धिः प्रजायते ।
त्रैलोक्ये यः प्रवर्त्तेत प्रत्यक्षन् तस्य जायते ॥ ३:२२ ॥

Nayasutra 3.23

एष ते प्राकृतो योग उक्तो मोक्षकरः परः ।
पुरुषस् तत्परत्वेन हृदिपद्मे ([व्य]वस्थितः) ॥ ३:२३ ॥

Nayasutra 3.24

चित्स्वरूपेण पिण्डेन देहम् आपूर्य्य यत् स्थितम् ।
स जीव इति विख्यातो येन जीवति तत् पुरम् ॥ ३:२४ ॥

Nayasutra 3.25

निर्ग्गतेन मृतञ् चैव अचेता शीर्य्यते पुनः ।
बध्यते मुच्यते सो हि सुखदुःखञ् च विन्दते ॥ ३:२५ ॥

Nayasutra 3.26

न तस्य रूप वर्ण्णं वा प्रमाणम् पश्यते क्वचित् ।
अशक्यः कथितुं वापि {सूक्ष्मश् च देह}धा[रि]णः ॥ ३:२६ ॥

Nayasutra 3.27

बालाग्रशतभागस्य शतधा कल्पितस्य च ।
तस्य सूक्ष्मतरो जीवस् स चानन्ताय कल्पते ॥ ३:२७ ॥

Nayasutra 3.28

आदित्यवर्ण्ण रुक्माभम् आपबिन्द्व् एव पुष्करे ।
तारकेव तु लक्षेत योगी दिव्येन चक्षुषा ॥ ३:२८ ॥

Nayasutra 3.29

दक्षिणेन सिताङ्गा तु वामतो कृष्णरूपिणी ।
तद्वर्ण्णानि च वस्त्राणि {मण्डनानि विशेषतः ॥ ३:२९ ॥

Nayasutra 3.30

कर्म्मबन्धेन बध्याति सुख}दुःखं प्रयच्छते ।
नियतिं तां विजानीयाद् अनिवार्य्या सुरासुरैः ॥ ३:३० ॥

Nayasutra 3.31

पूर्व्वबीजम् अभिध्यानाद् रूपेण च समन्विता ।
ध्यानात् सिद्धिम् अवाप्नोति नियत्या चैव मुच्यते ॥ ३:३१ ॥

Nayasutra 3.32

त्रिनेत्रन् तु चतुर्व्वक्त्रं कृष्णवर्ण्णञ् चतुर्भुजम् ।
संहरन्तन् दुराधर्षम् अनन्तं कालम् ईश्वरम् ॥ ३:३२ ॥

Nayasutra 3.33

स्वबीजकालरूपज्ञो न कालः कलयिष्यते ।
चक्रवत् परि[(वर्त्तन्ते)] [(का)]लध्यानविवर्ज्जिताः ॥ ३:३३ ॥

Nayasutra 3.34

एवं कालं सदा ध्यायेद् येन सिद्धिश् च शाश्वती ।
कृष्णवर्ण्णा च रक्ताक्षी दीर्घदन्ता सुलोमशा ॥ ३:३४ ॥

Nayasutra 3.35

कुचोर्द्धिपिङ्गकेशी च स्थूलकाया महोदरा ।
या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः ॥ ३:३५ ॥

Nayasutra 3.36

निर्व्वैरपरिपन्थिन्या माया ग्रन्थि दुरत्यया ।
साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रप्रयोगिनः ॥ ३:३६ ॥

Nayasutra 3.37

न ते लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः ।
क्लिश्यन्ते मायया भ्रान्ता अमोक्षे मोक्षनिश्चिताः ॥ ३:३७ ॥

Nayasutra 3.38

स्वबीजध्यानयोगेन पूर्व्वध्यानादिरूपकैः ।
दीक्षासिना तु ताञ् छित्त्वा गच्छते शिवम् अव्ययम् ॥ ३:३८ ॥

Nayasutra 3.39

चतुर्व्वर्ण्णा भवेद् विद्या अवर्ण्णा वापि कथ्यते ।
सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका ॥ ३:३९ ॥

Nayasutra 3.40

आकाशवायुम् आरूढा रूप[(यौव)]नशालिनी ।
स्वबीजेन तु †सद्भावं† साधके सिद्धिदायिका ॥ ३:४० ॥

Nayasutra 3.41

विद्यासिद्धिम् अवाप्नोति सिद्धस् सर्व्वत्र सङ्क्रमेत् ।
देवलोकानि सर्व्वाणि कामरूपश् च जायते ॥ ३:४१ ॥

Nayasutra 3.42

कुङ्कुमाभार्धनारीशन् त्रिनेत्रन् तु जटाधरम् ।
पूर्व्ववक्त्रम् अभिध्यानाद् वायुभ्†अक्षाम् उदस्थितम्† ॥ ३:४२ ॥

Nayasutra 3.43

तस्य पुण्यम् अवाप्नोति अश्वमेधायुतस्य च ।
जगच् च वशम् आ[(या)]ति क्रमते सिध्यतेति च ॥ ३:४३ ॥

Nayasutra 3.44

षड्भिर् म्मासैर् न्न सन्देहो दक्षिणन् तु तथैव हि ।
नीलाम्बुदप्रतीकाशम् पिङ्गभ्रूश्मश्रुलोचनम् ॥ ३:४४ ॥

Nayasutra 3.45

भृकुटीकरालवक्त्रं कपाली सर्प्पभूषितम् ।
बहुरूपं जटाधारन् दक्षिणास्यन् तु चिन्तयेत् ॥ ३:४५ ॥

Nayasutra 3.46

सर्व्वदुष्टविनाशाय {ईतिज्वर}विनाशनम् ।
विषग्रहादिसत्त्वानि ध्यातो नाशयते क्षणात् ॥ ३:४६ ॥

Nayasutra 3.47

अग्निवज् ज्वलते योगी जरामृत्युविवर्ज्जितः ।
क्रमते सर्व्वलोकानि सिध्यते च शिवो भवेत् ॥ ३:४७ ॥

Nayasutra 3.48

सितन् त्रिनयनं वक्त्रम् अक्षसूत्रकमण्डलुम् ।
पश्चिमं वदनं ध्यायेद् दिव्यसिद्धिप्रदायकम् ॥ ३:४८ ॥

Nayasutra 3.49

{हत्वा} (प्राणिसहस्राणि परदा){र}(शतानि च) ।
(अलेपको विशुद्धात्मा) सिध्यते च शिवो भवेत् ॥ ३:४९ ॥

Nayasutra 3.50

द्विनेत्रम् उत्तरं वक्त्रन् नीलोत्पलकरन् तथा ।
ध्यानात् तस्य जगत् सर्व्वं वशम् आयात्य् असंशयः ॥ ३:५० ॥

Nayasutra 3.51

तपते वर्षते चैव सृजते संहरेति च ।
ईप्सिता तु भवेत् सिद्धिर् यो ऽब्दम् एकन् तु चिन्तयेत् ॥ ३:५१ ॥

Nayasutra 3.52

सितम् मूर्द्ध्नि सदा ध्यायेच् छूलहस्त् अञ् जटाधरम् ।
व्याघ्रयज्ञोपवीतेन अक्षसू[(त्रकम)]ण्डलुम् ॥ ३:५२ ॥

Nayasutra 3.53

{वीणाडम}(रु[क])हस्तन् नागयज्ञोपवीतिनम् ।
चन्द्रमूर्द्धोर्द्धलिङ्गन् तु ध्यायेन् नित्यम् महेश्वरम् ॥ ३:५३ ॥

Nayasutra 3.54

ईप्सिता च भवेत् सिद्धिर् व्विग्रहं यो ऽभ्यसेत् सदा ।
अनेनैव स्वदेहेन सर्व्वज्ञः कामरूपवान् ॥ ३:५४ ॥

Nayasutra 3.55

अथवा घण्टशब्देन सिद्धिः षाण्मासिका भवेत् ।
ईप्सिता सर्व्वलोकेषु सिद्धिर् एव प्रजायते ॥ ३:५५ ॥

Nayasutra 3.56

लिङ्गद्वयन् तु यो ध्यायेत् पूर्व्वबीजेन संयुत[(म्)] ।
{मासै}(केन) ततः पश्येत् सूक्ष्मलिङ्गन् ततो परि ॥ ३:५६ ॥

Nayasutra 3.57

शुद्धस्फटिकसङ्काशन् तद् दृष्ट्वा तु विमुच्यते ।
सिद्धिश् च मानुषे लोके षण्मासेन तु जायते ॥ ३:५७ ॥

Nayasutra 3.58

त्रैलोक्यदर्श्शी सिद्धिश् च प्रत्यक्षन् तस्य जायते ।
क्रमते सर्व्वलोकानि ईश्वरेण समो भवेत् ॥ ३:५८ ॥

Nayasutra 3.59

सोमादित्यौ स्थितौ नेत्रे चक्रे चैकरथस्य तु ।
भूत तन्मात्र वाजीनि मनस् सारथि [(चो)]दितः ॥ ३:५९ ॥

Nayasutra 3.60

अहङ्कारो भवेद् योधा गुणाश् चैव महाधनुः ।
इन्द्रियाणि शरास् तस्य मृगो ऽधर्म्मः प्रकीर्त्तितः ॥ ३:६० ॥

Nayasutra 3.61

यद् एवं क्रीडते नित्यम् ईश्वरो हृदि संस्थितः ।
पुण्यपापैः प्रवर्त्तन्तो इच्छया परमेश्वरः ॥ ३:६१ ॥

Nayasutra 3.62

नाहङ् कर्त्ता न मे बन्धो सर्व्वम् ईश्वरकारितम् ।
मत्वा चेश्वरविज्ञानं सर्व्वकर्म्माणि कारयेत् ॥ ३:६२ ॥

Nayasutra 3.63

धर्म्माधर्म्मस्य कर्त्तृत्वे प्रेरको हृदि संस्थितः ।
त्वम् एव शरणापन्नो न मे बन्धो ऽस्ति कर्त्तृतः ॥ ३:६३ ॥

Nayasutra 3.64

सदाशिवो ष्टभेदेन दिनरात्र्य् अयनानि च ।
दक्षिणोत्तरसङ्क्रान्त्या ज्ञातो विषुव मोक्षदः ॥ ३:६४ ॥

Nayasutra 3.65

[(वं)]{शध्व}[(नि)]समप्रख्यः शान्तनादस् तु स स्मृतः ।
सदाशिवस् तु विज्ञेयो ध्यानयोगबलं शृणु ॥ ३:६५ ॥

Nayasutra 3.66

मासाद् भवति रूपवी वागीशस् तु द्वितीयके ।
तृतीये पश्यते सिद्धान् दिव्यदृष्टिश् चतुर्थके ॥ ३:६६ ॥

Nayasutra 3.67

सिद्धिस् तु मानुषे (लो)के {वत्सरार्धान् न संशयः ।
दिव्यसिद्धिन् तथाब्देन सायोज्यन् तु द्विरब्दिके ॥ ३:६७ ॥

Nayasutra 3.68

षण्मुखकरणङ् कृत्वा ध्यायेद् एवं सदाशिवम् ।
दशधा वर्ण्णरूपेण दृश्यते च सदाशिवम् ॥ ३:६८ ॥

Nayasutra 3.69

सितं रक्तञ् च पीतञ् च कृष्णं हरितपिङ्गलम् ।
नीलचित्रुकवर्ण्णञ् च स्फटिकाभम् मनोरमम् ॥ ३:६९ ॥

Nayasutra 3.70

दृष्ट्वा सर्व्वाणि रूपाणि त्यजेतानि विचक्षणः ।
एक एव तदा गृह्येच् चान्ये गुणरूपकाः ॥ ३:७० ॥

Nayasutra 3.71

चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जसमप्रभम् ।
तारकाचलिताकारं बिन्दुर् द्देवस्य लक्षणम् ॥ ३:७१ ॥

Nayasutra 3.72

निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च ।
कलाचतुष्टयो ऽप्य् एवं ज्ञातव्यं बिन्दुर् ईश्वरम् ॥ ३:७२ ॥ ⊗ ॥

Nayasutra 3 – Kolophon

॥ ⊗ ॥ इति निश्वासतत्त्वसंहितायां नयसूत्रे (त){त्व}[(रू)]पविचारस् तृतीयः पटलः ॥ ⊗ ॥ श्लो ७ ७ ५ ॥ ⊗ ॥

Kapitel 4

Zu IAST, Übersetzung und Quellen dieses Kapitels

Nayasutra 4 – Sprecherangabe vor 4.1

देव्य् उवाच

Nayasutra 4.1

का निवृत्तिः प्रतिष्ठा च विद्या शान्तिस् तथैव च ।
तत्त्वं सद्भावतो ब्रूहि कलाभेदश् च कः स्मृतः ॥ ४:१ ॥

Nayasutra 4 – Sprecherangabe vor 4.2

ईश्वर उवाच

Nayasutra 4.2

निवृत्तिः प्रकृतिर् ज्ञेया प्रतिष्ठा सकला स्मृता ।
†अंशिरशुद्धा विद्या च शान्ति मायावि[(शुद्धि)]का ॥ ४:२ ॥

Nayasutra 4.3

एवं सदाशिवं ज्ञात्वा शुद्धाशुद्धे व्यवस्थितम् ।
मुच्यते सर्व्वबन्धैस् तु शिवं याति निरामयम् ॥ ४:३ ॥

Nayasutra 4.4

योगेन च भवेत् सिद्धिर् यो ध्यायेत चतुष्कलम् ।
सितरक्तपीतकृष्णन् ध्यानात् सिद्धिर् यथेप्सिता ॥ ४:४ ॥

Nayasutra 4.5

अभिन्नेन शरीरेण शिवसायोज्य[(तां व्रजेत्)] ।
आश्चर्य्याणि च कुरुते यथेष्टम् भूतले सदा ॥ ४:५ ॥

Nayasutra 4.6

दानतीर्थव्रतं स्नानं संयमञ् जपपूजनम् ।
अग्निहोत्राश्रमाधर्म्मा कलां यश् च न विन्दते ॥ ४:६ ॥

Nayasutra 4.7

चतुष्कलपरिज्ञानी (न लिप्ये ⊔ पापकैः) ।
{प्रथमा तु कला} सूक्ष्मा सुसूक्ष्मा च द्वितीयका ॥ ४:७ ॥

Nayasutra 4.8

अमृता तु शिरावस्था चतुर्थी चामृतामृता ।
चत्वार्य् एतानि शक्तेस् तु कलानि कथितानि वै ॥ ४:८ ॥

Nayasutra 4.9

ज्ञात्वैतानि विमुच्यन्ते किम् पुनर् दृष्टलक्षणः ।
स्फोटशब्दन् तु तस्यैव यदि यो ऽन्ते (?) --- ।
--- ॥ ४:९ ॥

Nayasutra 4.10

--- [प(र)]मसद्भावं यद् गत्वा न निवर्त्तते ।
दृष्ट्वा चैव महाशक्तिं गुरुं शिवसमं विदुः ॥ ४:१० ॥

Nayasutra 4 – Sprecherangabe vor 4.11

देव्य् उवाच

Nayasutra 4.11

शिवे चैव निरालम्बे योगञ् चैव कथम् भवेत् ।
समरसञ् च पुनर् भूत्वा शिवत्वं लभ्यते कथम् ॥ ४:११ ॥

Nayasutra 4 – Sprecherangabe vor 4.12

ईश्वर उवाच

Nayasutra 4.12

चक्षुषा यच् च दृश्येत वाचया यच् च गोचरम् ।
मनश् चिन्तयते यानि (बुद्धिश् चैव) {वि}[(क)]ल्पयेत् ॥ ४:१२ ॥

Nayasutra 4.13

अहङ्कृतानि यान्य् एव यच् च रूपेण संस्थितम् ।
यत्र नास्ति स तत्रैव अन्वेष्टव्यं स्वदेहतः ॥ ४:१३ ॥

Nayasutra 4.14

यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः ।
स्वस्तिकपद्मकभद्रम् अर्द्धचन्द्रप्रसारितम् ॥ ४:१४ ॥

Nayasutra 4.15

सापाश्रयम् अञ्जलिकं योगपट्टं यथासुखम् ।
अष्टासनानि मुख्यानि कीर्त्तितानि समासतः ॥ ४:१५ ॥

Nayasutra 4.16

एषाम् एक(तमं ब)द्ध्वा पूजयित्वा महेश्वरम् ।
कर्म्मणा मनसा मन्त्री एकचित्तस् सुयन्त्रितः ॥ ४:१६ ॥

Nayasutra 4.17

पूर्व्वाचार्य्यान् नमस्कृत्वा अभावम् भावयेत् सदा ।
मूर्द्ध्नि चित्तं समालम्ब्य ऊर्द्धीकृत्वा तु चक्षुषी ॥ ४:१७ ॥

Nayasutra 4.18

एवम् अभ्यासमानस् तु तुर्य्यद्वारं विभिन्दते ।
प्रत्ययो जायते तत्र वायुस्पर्शसमोपमः ॥ ४:१८ ॥

Nayasutra 4.19

पिपीलिकासमो वापि कण्टका(वेध){स}[(प्र)]भः ।
अग्निर् ज्वलति देहे तु अधूमो दहनात्मकः ॥ ४:१९ ॥

Nayasutra 4.20

दिव्यगन्धश् च जायेत दिव्यवाणी प्रवर्त्तते ।
अपूर्व्वशास्त्रं यत् किञ् चिच् चिन्तितन् तु विजानते ॥ ४:२० ॥

Nayasutra 4.21

तेजस्वी कान्तियुक्तश् च ऊर्द्ध्वगामी तु सञ्चरेत् ।
सिद्धैश् च सह सम्भाष्यं त्रिभिर्म्मासैः प्रजायते ॥ ४:२१ ॥

Nayasutra 4.22

आब्रह्मास्तम्बपर्य्यन्तं पश्यते दिव्यचक्षु[(षा)] ।
[संव]त्सरेणार्द्धचन्द्रं पश्यते च शिरोपरि ॥ ४:२२ ॥

Nayasutra 4.23

ततोपरि शिवं शान्तन् तन्दृष्ट्वा चामृतीभवेत् ।
सर्व्वज्ञः कामरूपी च शिवतुल्यश् च जायते ॥ ४:२३ ॥

Nayasutra 4.24

एष ते ध्यानसद्भावं षडङ्गध्यानवर्जितम् ।
निरालम्बेति विख्यातं यं ज्ञात्वा न तु शोचते ॥ ४:२४ ॥

Nayasutra 4.25

किम् पुनर् ध्यानयुक्तात्मा असिद्धो ऽपि [शिवो भवेत्] ।
{संसा}रे क्रीडते चैव यथैव परमेश्वरः ॥ ४:२५ ॥

Nayasutra 4 – Sprecherangabe vor 4.26

देव्य् उवाच ।

Nayasutra 4.26

शक्तेर् अपि वदेद् रूपं योगञ् चैव महेश्वर ।
तत्त्वसद्भावम् अखिलं सुबोध्यम् अविस्तरम् ॥ ४:२६ ॥

Nayasutra 4.27

एतत् सर्व्वं समासेन कथयस्व प्रसादतः ।
ईश्वर उ ।
[(शृणु देवि)] --- ।
{द}र्शनान् मोचयेज् जन्तुं रूपं शक्तेश् चतुर्व्विधम् ॥ ४:२७ ॥

Nayasutra 4.28

अदृष्ट्वा शक्तिलक्षन् तु न भवेत् पाशहा गुरुः ।
दृष्ट्वा चैव महालक्षं शक्तिबीजेन साधकः ॥ ४:२८ ॥

Nayasutra 4.29

स गुरुश् शिवतुल्यश् च दृष्ट्वा मोचयते जगत् ।
अन्यथा साधकास् सर्व्वे न मुच्यन्ते न मोक्षकाः ॥ ४:२९ ॥

Nayasutra 4.30

ध्यायते यस् तु युक्तात्मा वत्सरार्द्धं सुय{न्त्रितः} ।
{सिद्धिस् तु मानुषे} लोके शिवतुल्यश् च जायते ॥ ४:३० ॥

Nayasutra 4.31

सुस्नातस् तु शुचिर् भूत्वा पूजयित्वा महेश्वरम् ।
पूर्व्वसिद्धान् नमस्कृत्वा युक्तो ध्यानपरायणः ॥ ४:३१ ॥

Nayasutra 4.32

निर्लोकप्रदेशे तु गुरुभक्तस् समाहितः ।
श्रद्धाम् आलम्ब्य यत्नेन आसनन् तु यथासुखम् ॥ ४:३२ ॥

Nayasutra 4.33

वियं वीक्ष्य निमील्याक्षौ भास्करोदयसन्निभम् ।
पश्यते च महातेजं †शक्ति प्रह्वेन भासते† ॥ ४:३३ ॥

Nayasutra 4.34

पीतरक्ता तथा कृष्णा स्फटिकाभा मनोरमा ।
द्रष्टव्या तु परा शक्तिस् तान् दृष्ट्वा तु शिवं व्रजेत् ॥ ४:३४ ॥

Nayasutra 4.35

अभ्यासान् मासमात्रेण सिद्धिलिङ्गा भवन्ति हि ।
मेधा कान्तिस् तथारोग्यं सकृदुक्तञ् च गृह्णते ॥ ४:३५ ॥

Nayasutra 4.36

देवदानवगन्धर्व्वा द्विमासेन तु दृश्यते ।
दिव्यादिव्यन् तु यत् किञ् चिद् वाङ्मयं सम्प्रवर्त्तते ॥ ४:३६ ॥

Nayasutra 4.37

अणिमाद्या भवेत् सिद्धिः षण्मासाभ्यन्तरेण तु ।
सिद्धस् सर्व्वज्ञताम् एति शिवतुल्यश् च जायते ॥ ४:३७ ॥

Nayasutra 4.38

त्रैलोक्ये यः प्रवर्त्तेत प्रत्यक्षन् तस्य जायते ।
योजकस् तु परे तत्त्वे शक्तिम् एवं विन्दते तु यः ॥ ४:३८ ॥

Nayasutra 4.39

ये न पश्यन्ति लक्षस्थान् दीक्षाकारी न मोक्षदाः ।
तान् (दृष्ट्वा देशिकेन्द्रस् तु) लोकानुग्रहकारकः ॥ ४:३९ ॥

Nayasutra 4.40

चक्षुषा वाचया स्पर्शा मनसा-द्-उदकेन वा ।
दीक्षयेत् सर्व्वजन्तूनि शिवशक्त्योपबृंहितः ॥ ४:४० ॥

Nayasutra 4.41

संसारतारको ऽसौ हि स च पूज्यो यथा ह्य् अहम् ।
साधकान्ये समाख्यातास् संहितापारगा[श् च ये] ॥ ४:४१ ॥

Nayasutra 4.42

[(न) (ते) मोचयितुं शक्ताः] (शक्तिज्ञानवि){वर्ज्जिताः} ।
--- ॥ ४:४२ ॥

Nayasutra 4.43

--- ।
{सो ह्य् अने}नैव देहेन सिद्धिं कुर्व्वन्ति चेप्सिताम् ॥ ४:४३ ॥

Nayasutra 4.44

सृजेत् संहरते विश्वं क्रीडते क्रमतीति च ।
नानारूपधरो भूत्वा इच्छया कुरुते क्रियाम् ॥ ४:४४ ॥

Nayasutra 4.45

सर्व्वज्ञभावम् आपन्नः शिवतु{ल्यश् च जायते} ।
--- --- विन्दते ॥ ४:४५ ॥

Nayasutra 4.46

जिज्ञासुर् अपि योगस्य कलान् नार्हन्ति षोडशीम् ।
एकाहम् अपि योगन् तु अभ्यसेत् कलुषात्मकः ॥ ४:४६ ॥

Nayasutra 4.47

तत्क्षणात् स तु शुद्धो हि महानिद्रा विमुच्यते ।
एष योगो मया प्रोक्त अक्लेशात् सिद्धिमोक्षदः ॥ ४:४७ ॥

Nayasutra 4.48

कथ्यं द्वादशभिर् व्वर्षैस् त्रिभिः शुद्धेन --- ।
[ज्ञानं ते संप्रवक्ष्यामि शृणु] --- ॥ ४:४८ ॥

Nayasutra 4.49

--- चान्ततो भवेत् ।
स्थावरजङ्गमञ् चैव अण्डजं स्वेदजन् तथा ॥ ४:४९ ॥

Nayasutra 4.50

स्थूलं सूक्ष्मञ् च यच् चान्य दृश्यादृश्यश् च यत् स्थितम् ।
आब्रह्मास्तम्बपर्य्यन्तं यच् च किञ् चि व्यवस्थितम् ॥ ४:५० ॥

Nayasutra 4.51

तत् सर्व्वम् परमेशो हि विश्वरूपेण संस्थितम् ।
{व्यापयित्वा} [(जगत् सर्व्वं स्थितो व्यो)]{मेषु व्योमवत्} ॥ ४:५१ ॥

Nayasutra 4.52

एवं सर्व्वगतो देवः शिवः परमकारणः ।
चेताप्य् एवं स्थितो नित्यं जगद्व्यापी चराचरम् ॥ ४:५२ ॥

Nayasutra 4.53

एवं शिवन् तथात्मानम् एकीभूतं विचिन्तयेत् ।
एवं हि सर्व्वभूतानि आत्मानञ् च तथैव हि ॥ ४:५३ ॥

Nayasutra 4.54

शिववन् मन्यमानो हि रागद्वेषविवर्ज्जितः ।
भवन्ति निर्म्मलाः शुद्धाः शिवभाव[(समन्विताः)] ॥ ४:५४ ॥

Nayasutra 4.55

([समरस]स् तु विज्ञेयः शिवेन सह) {संयुतः} ।
[(शिव)]वत् सर्व्वविश्वन् तु मन्यमानञ् चराचरम् ॥ ४:५५ ॥

Nayasutra 4.56

समं शत्रुं समम् मित्रं ब्राह्मणः श्वपचस् समौ ।
तुल्यदर्शी भवेत् सिद्धो ज्ञात्वा सर्व्वं शिवात्मकम् ॥ ४:५६ ॥

Nayasutra 4.57

निश्चयी एकचित्तस् तु शिवभावसमन्वितः ।
शत्रवो दंष्ट्रिणो व्याघ्रा रिक्षाः सिंहाश् च वानराः ॥ ४:५७ ॥

Nayasutra 4.58

क्रूरस् --- पि[शिता हिंसका] --- ।
--- (म् एकं विचिन्तयेत्) ॥ ४:५८ ॥

Nayasutra 4.59

एवं चिन्तयतस् तस्य न ते हिंसन्ति हिंसकाः ।
समया सम तिष्ठन्ते दुष्टसत्त्वाश् च राक्षसाः ॥ ४:५९ ॥

Nayasutra 4.60

सिद्धाश् चैव तथा देवा वशम् आयान्ति भृत्यवत् ।
तुल्यदर्शी विशुद्धात्मा शिवतुल्यश् च जायते ॥ ४:६० ॥

Nayasutra 4.61

क्रीडते दिव्यसिद्{धैश् च गच्छेच् च} सदाशिवम् ।
शक्तिसमरसञ् चैव योगसिद्धिम् अपेक्षते ॥ ४:६१ ॥

Nayasutra 4.62

एष ते ज्ञानसद्भावं सुबोध्यम् अविस्तरम् ।
जन्तूननुग्रहार्त्थाय दातव्यं शिवभक्तिने ॥ ४:६२ ॥

Nayasutra 4.63

शिवाद् उत्तरी भक्तिर् यस्य नित्यं गुरोस् सदा ।
तस्य देयम् इदञ् ज्ञानं द्वादशाब्दनिवासिने ॥ ४:६३ ॥

Nayasutra 4.64

--- ।
{अहिंस}के दयायुक्ते गुरुवाकम् अलङ्घके ॥ ४:६४ ॥

Nayasutra 4.65

संसारभयवित्रस्ते धर्म्मज्ञे प्रियवादिने ।
जपलिङ्गार्च्चनाष्ठाय दातव्यन् तु जितेन्द्रिये ॥ ४:६५ ॥

Nayasutra 4.66

शिववद् यो गुरुम् मन्येद् भक्तिप्रह्वेण चेतसा ।
तस्य देयम् इदं शास्त्रम् अन्यथा न कदाचनः ॥ ४:६६ ॥

Nayasutra 4 – Sprecherangabe vor 4.67

देव्य् उवाच ।

Nayasutra 4.67

शिवश([क्तिसमुद्भूतं जगत् सर्व्वं चराचरम् ।
स चैकाद]श){पर्य्य}न्तं श्रुतं विस्तरशो मया ॥ ४:६७ ॥

Nayasutra 4.68

अक्षरास् तत्त्वलक्षाश् च दीक्षाप्रक्रियभेदनम् ।
ध्यानञ् चैव पृथक्त्वेन समरसञ् चैव वर्ण्णितम् ॥ ४:६८ ॥

Nayasutra 4.69

एकत्वे सर्व्वतत्त्वानि उपास्यन्ते यथा हर ।
एकत्वे दर्शनञ् चैव प्रसादत् प्रब्रवीहि मे ॥ ४:६९ ॥

Nayasutra 4 – Sprecherangabe vor 4.70

ईश्वर उवाच ।

Nayasutra 4.70

नाभिश् च शिवो ज्ञेयः श([क्तिमध्ये प्रतिष्ठिता ।
अरः +ः+ सर्व्वतत्त्वानि प्रत्यराः]) --- कानि च ॥ ४:७० ॥

Nayasutra 4.71

शिवचक्रन् तदा ध्यानात् सर्व्वतत्त्वसमन्वितम् ।
दर्शनञ् च यथा तस्य निमिषार्द्धेन मे शृणु ॥ ४:७१ ॥

Nayasutra 4.72

खगस्याभिमुखो भूत्वा †प्रेक्षाकान्तन् निरीक्षयेत् ।
पश्यते बिन्दुमालान् तु नानारेखाविचिह्नितम् ॥ ४:७२ ॥

Nayasutra 4.73

अव्यक्ता कृष्णरेखा तु जन्तुरेखा सिता भवेत् ।
[पीता नियतिरेखा तु धूम्रा कालात्मिका स्मृता] ॥ ४:७३ ॥

Nayasutra 4.74

{ग्र}न्थिरेखा भवेन् नीला विद्या वै रक्तरेखिणी ।
ऐश्वरी चित्ररेखा तु बिन्दुरेखा तु स्फाटिकी ॥ ४:७४ ॥

Nayasutra 4.75

चतुष्कला बिन्दुमाला सुषुम्णापदिके स्थिता ।
नादः प्रत्यरवज् ज्ञेयः शक्ति पद्मे विराजते ॥ ४:७५ ॥

Nayasutra 4.76

जलबुद्बुदवद् देवं शक्तिमध्ये प्रतिष्ठितम् ।
तन् दृष्ट्वा मुच्यते ([जन्तुः संसारभयबन्धनात्] ॥ ४:७६ ॥

Nayasutra 4.77

दृष्ट्वा चक्रम् भवेत् त]त्त्वी स) {गु}रुर् ब्रह्मवेदिनः ।
स चानुग्रहकर्त्ता च शिवतुल्यश् च जायते ॥ ४:७७ ॥

Nayasutra 4.78

चक्षुषा वाचया स्पर्शा कर्म्मणा मनसा जपा ।
धारणाध्यानयोगेन करोत्य् अनुग्रहेच्छया ॥ ४:७८ ॥

Nayasutra 4.79

तस्य पादरजन् देवि ब्रह्महा यदि धा[(रयेत् ।
तत्क्षणाद् एव)] {मुच्येत} {सर्प्प}स्य कवचं यथा ॥ ४:७९ ॥

Nayasutra 4.80

[ध्यायते य]स् तु युक्तात्मा मासम् एकं सुयन्त्रितः ।
प्राकृता जायते सिद्धिर् द्विमासेन तु पौरुषी ॥ ४:८० ॥

Nayasutra 4.81

नियतिकालसिद्धिश् च मायजा विद्यजा तथा ।
ऐश्वरी बिन्दुसिद्धिश् च कलजा शक्तिजा तथा ॥ ४:८१ ॥

Nayasutra 4.82

प्रतिमा([सेन सिद्ध्यन्ते] अष्टा) --- ।
(सर्व्वज्ञः) सर्व्वगः शुद्धः स्वतन्त्रः कामरूपवान् ।
न चेच्छा हन्यते तस्य शिवस्वच्छन्दतां व्रजेत् ॥ ४:८२ ॥

Nayasutra 4.83

स्थूलात् स्थूलतरो भूत्वा सूक्ष्मात् सूक्ष्मतरः परः ।
सतनुर् वितनुश् चैव इच्छया कुरुते तनुम् ॥ ४:८३ ॥

Nayasutra 4.84

एष ते ज्ञानसद्भावम् अतिगुह्यम् प्रकीर्त्तितम् ।
त्व([या गुप्ततरं कार्य्य]म् अमृतं न प्रकाशयेत्) ॥ ४:८४ ॥

Nayasutra 4.85

{सुपरीक्षितशिष्याय देयं} (द्वादशभिस् समैः ।
अन्यथा दुष्टमर्त्त्यानां न देयम् अमृतामृतम् ॥ ४:८५ ॥

Nayasutra 4.86

हव्यकव्यप्रदा मर्त्त्या देवानान् तु कुटुम्बिनः ।
तत्त्ववेत्ता शिवं याति देवानां हीयते हविः ॥ ४:८६ ॥

Nayasutra 4.87

दशाद् ऊर्द्ध्वं यदि ब्रूयाल् लोभाद् दर्प्पेण वा पुनः ।
शिरच्छेदन् तु वज्रेण क्रुद्धः कुर्याच् छतक्रतुः ॥ ४:८७ ॥

Nayasutra 4.88

एतस्मात् कारणा([द् देवि] नाख्यातव्य हि){तैषिणा} ।
{शि}वशक्तिसमाकृष्टे दातव्यं सुपरीक्षिते ॥ ४:८८ ॥

Nayasutra 4 – Sprecherangabe vor 4.89

देव्य् उवाच ।

Nayasutra 4.89

वेदादौ सर्व्वशास्त्रे च प्रणवं किल मोक्षदम् ।
स कथम् मोक्षदो देव प्रसादाद् वक्तुम् अर्हसि ॥ ४:८९ ॥

Nayasutra 4 – Sprecherangabe vor 4.90

ईश्वर उ ।

Nayasutra 4.90

अर्द्धषोडशमात्रस् तु देवाष्टकसमन्वितः ।
द्वात्रिंशतत्त्वसंयुक्तं ध्यातो निष्कल मोक्षदः ॥ ४:९० ॥

Nayasutra 4 – Sprecherangabe vor 4.91

देव्य् उवाच ।

Nayasutra 4.91

अर्द्धषोडशमात्रा[(स् तु देवाष्टकसमन्वितः ।
द्वा)]त्रिंशतत्त्वसंयुक्तः कथं ध्येयो हि निष्कलः ॥ ४:९१ ॥

Nayasutra 4 – Sprecherangabe vor 4.92

ईश्वर उ ।

Nayasutra 4.92

आदिपञ्चस्वरादौ तु पञ्चविंशस् तु योनिजः ।
बिन्दुषण्नादशक्तिश् च पञ्चवर्ण्णत्रिभिन्नकः ॥ ४:९२ ॥

Nayasutra 4.93

ब्रह्मा विष्णुश् च रुद्रश् च अर्द्धचन्द्रीश नाद च ।
शक्तिश् च सप्तमी ज्ञेया शिवश् चैव तथाष्टमः ॥ ४:९३ ॥

Nayasutra 4.94

भूतानि आदिबीजस् तु दीर्घम् अक्षेषु कीर्त्ति[ताः] ।
(त्रिमात्रं स म){नः} प्रोक्तं तन्मात्रेषु च उ स्मृतः ॥ ४:९४ ॥

Nayasutra 4.95

अहङ्कारे च बुद्धौ च अव्यक्तादितृकेषु च ।
दीर्घश् चैव समाख्यातः प्लुतः पुरुष उच्यते ॥ ४:९५ ॥

Nayasutra 4.96

नियति पञ्चविंशस् तु दीर्घ कालश् च पठ्यते ।
त्रिमात्रस् तु भवेन् माया संसारपरिवर्त्तिनी ॥ ४:९६ ॥

Nayasutra 4.97

बिन्दु सदाशिवं देवम् अस्य नाद महेश्वरम् ।
(देवी च रश्मयः प्रोक्ता विद्या चैव निगद्यते ॥ ४:९७ ॥

Nayasutra 4.98

द्वातृंशकः शिवो ज्ञेयो निष्कलः परमेश्वरः ।
यं ध्यात्वा मोक्षम् आयान्ति शिवतुल्या भवन्ति च ॥ ४:९८ ॥

Nayasutra 4 – Sprecherangabe vor 4.99

देव्[(य् उवाच ।

Nayasutra 4.99

योगस् तु बहुधा ख्यातो लक्षालक्षं महेश्वर ।
योगसद्)]भावम् आख्याहि अत्र मे संशयो महान् ॥ ४:९९ ॥

Nayasutra 4.100

नाडीसंशोधनञ् चैव वायूनाञ् च जयं कथम् ।
स्थानं रूपञ् च कर्म्मञ् च शब्दम् प्रब्रूहि शङ्कर ॥ ४:१०० ॥

Nayasutra 4 – Sprecherangabe vor 4.101

ईश्वर उवाच ।

Nayasutra 4.101

परमं योगसद्भावगुह्या गुह्यतरम् परम् ।
यन् न कस्यचिद् आख्यातन् तद् योगं शृणु तत्त्वतः ॥ ४:१०१ ॥

Nayasutra 4.102

सुप्रशस्ते भूप्रदेशे नाग्न्युदकसमीपतः ।
वालुकाशर्क्कराहीने शुष्कवृक्षविवर्ज्जिते ॥ ४:१०२ ॥

Nayasutra 4.103

नि(स्सर्प्प){कीट}वल्मीके ईतिभिः परिवर्ज्जिते ।
पुण्यधर्म्मिष्ठसंवासे तत्र योगं समभ्यसेत् ॥ ४:१०३ ॥

Nayasutra 4.104

देवदेवं समभ्यर्च्च्य विघ्नेशञ् च पुनः पुनः ।
पूर्व्वाचार्य्यान् नमस्कृत्वा युक्तो ध्यानपरायणः ॥ ४:१०४ ॥

Nayasutra 4.105

आसनम् पद्मकं बद्ध्वा स्वस्तिकभद्रचन्द्रकम् ।
सापाश्रयं योगपट्टम् आसीनञ् च यथासुखम् ॥ ४:१०५ ॥

Nayasutra 4.106

तालुजिह्वो दन्तास्पर्शी (समको) नासादृष्टिगः ।
सत्यवाग् अ (?) न (?) हिंसश् च नित्ययुक्तश् च सिद्ध्यति ॥ ४:१०६ ॥

Nayasutra 4.107

शिखाङ्कुरैस् तु निर्द्दह्य देहङ् कृत्वा शिवात्मकम् ।
दशधा योगमार्ग्गेण अभ्यसेत् परमेश्वरम् ॥ ४:१०७ ॥

Nayasutra 4.108

मन्त्र बिन्दु अतीतञ् च नादात्मा ज्योति विग्रहम् ।
कल्पनालक्षम् अकलं ध्यात्वाद्वैतेन सर्व्वगम् ॥ ४:१०८ ॥

Nayasutra 4.109

प्रकृत्यादौ शिवान्तञ् च योग[: (ख्यातो महांस् तु)]{व} ।
(द[श)]धा च पुनः ख्यातो ध्यायेत प्राणस्य संयमात् ॥ ४:१०९ ॥

Nayasutra 4.110

अवसव्येन पूरेत सव्येनैव तु रेचयेत् ।
नाडीसंशोधनं ह्य् एतन् मोक्षमार्गपथस्य तु ॥ ४:११० ॥

Nayasutra 4.111

रेचनात् पूरणाद् रोधात् प्राणायामस् त्रयः स्मृतः ।
सामान्याद् बाहिर् एतानि पुनश् चाभ्यन्तराणि च ॥ ४:१११ ॥

Nayasutra 4.112

अभ्यन्तरेण रेचेत पूरेच् चाभ्य[(न्तरेण तु)] ।
(नि{ष्कम्प्यं कुम्भकं} कुर्य्यात् त्रयम् आभ्यन्तराणि तु ॥ ४:११२ ॥

Nayasutra 4.113

नाभ्यां हृदयसञ्चारान् मनश् चेन्द्रियगोचरात् ।
प्राणायामश् चतुर्थस् तु सुप्रशान्तस् तु विश्रुतः ॥ ४:११३ ॥

Nayasutra 4.114

प्राणरोधे तु सम्पूर्ण्णे नाभिन् नीत्वा समुच्छ्वसेत् ।
शनैर् विमुञ्चयेद् वायुं वामनासिकया पुटे ॥ ४:११४ ॥

Nayasutra 4.115

वायवीन् धारये {ऽङ्गु}ष्ठे आग्नेयां नाभिमध्यतः) ।
{माहेन्द्रीं कण्ठदेशे तु वारुणीं घा}ण्टिकेषु च ॥ ४:११५ ॥

Nayasutra 4.116

आकाशधारणा मूर्ध्नि सर्व्वसिद्धिकरी स्मृता ।
एकद्वितृचतुःपञ्च उद्घातैश् च प्रसिद्ध्यति ॥ ४:११६ ॥

Nayasutra 4.117

संरुद्धे चैव प्राणे तु मूर्ध्नि गत्वा निवर्त्तते ।
तद् उद्घातम् इति प्रोक्तञ् ज्ञातव्यं योगिभिस् सदा ॥ ४:११७ ॥

Nayasutra 4.118

राग{द्वेषौ} प्रक्षीयेते प्राणायामैश् च धा(रितैः) ।
धारणैस् सर्व्वपापानि (प्रत्याहारे ऽक्षसंयमः) ॥ ४:११८ ॥

Nayasutra 4.119

{हृद्गुदे ना}भिकण्ठौ च सर्व्वसन्धौ तथैव च ।
प्राणाद्यास् संस्थिता ह्य् एते रूपं शब्दञ् च मे शृणु ॥ ४:११९ ॥

Nayasutra 4.120

द्रुततारनिभः पीत इन्द्रगोपकसन्निभः ।
क्षीराभ स्फटिकाभश् च पञ्चानां रूपलक्षणम् ॥ ४:१२० ॥

Nayasutra 4.121

घण्टा कांसश् च मधुरो गजनादो बहुध्वनिः ।
प्राणादीनान् तु पञ्चानां शब्दम् एतद् उदाहृतम् ॥ ४:१२१ ॥

Nayasutra 4.122

जल्पितं हसितं ([गीतन् नृत्य] युद्धगतिः) {कलाः} ।
शिल्पञ् च सर्व्वकर्म्माणि प्राणस्यैव हि चेष्टितम् ॥ ४:१२२ ॥

Nayasutra 4.123

प्रवेशये ऽन्नपानानि नृमलं स्रावयेद् अधः ।
अन्धत्वं श्रोत्ररोगञ् च अपानस् तु करिष्यति ॥ ४:१२३ ॥

Nayasutra 4.124

आशितं लीढपीतञ् च समानस् समतान् नयेत् ।
क्षुतहिक्काच्छर्दिकास उदानस्य विचेष्टितम् ॥ ४:१२४ ॥

Nayasutra 4.125

रोमहर्षश् च स्वेदश् च शूलदो ह्य् अङ्गभञ्जकः ।
व्यानस्ये([तानि] कर्म्माणि) {स्पर्श}त्वञ् चैव विन्दति ॥ ४:१२५ ॥

Nayasutra 4.126

अङ्गुष्ठजानु हृदये लोचने मूर्ध्नि संस्थिताः ।
नागाद्या बहुरूपाश् च कर्म्म तेषान् निबोध मे ॥ ४:१२६ ॥

Nayasutra 4.127

आह्लादनोद्वेजनश् च शोषणत्रासकस् तथा ।
निद्रातन्द्रीकरस् त्व् अन्यो योजको हि धनञ्जयः ॥ ४:१२७ ॥

Nayasutra 4.128

श्वाससङ्कोचच्छेदे च घुरुघुरस्योत्क्रमेति च (?) ।
नागादीनान् तु पञ्चानाम् मृत्युकाले [(विचेष्टितम्)] ॥ ४:१२८ ॥

Nayasutra 4.129

(न) {चैव याति} चोत्क्रान्त्या कूर्म्मश् चैक{कस् तु} तिष्ठति ।
आकुञ्चयति वै कूर्म्मः शोषयेच् च कलेवरम् ॥ ४:१२९ ॥

Nayasutra 4.130

प्राणम् एव जयेत् पूर्व्वञ् जिते प्राणे जितम् मनः ।
जिते मनसि शान्तात्मा परतत्त्वम् प्रकाशते ॥ ४:१३० ॥

Nayasutra 4.131

प्राणापानौ गुदे ध्याये प्राणसमानौ च नाभितः ।
प्राणोदानश् च कण्ठे च प्राण[व्यानश् च स]{र्व्वगम्} ॥ ४:१३१ ॥

Nayasutra 4.132

{नागाद्याम् प्राणसंयुक्तां स्वस्थानेषु} निरुन्ध्येत् ।
निरुद्धस्य च यत् कालम् प्रवक्ष्यामि निबोधत ॥ ४:१३२ ॥

Nayasutra 4.133

तालात् प्रभृति धार्येत यावत् पञ्चशतान्तः ।
जितो ऽनिलो भवत्य् एवं सङ्क्रान्त्युत्क्रान्तिकर्म्मकृत् ॥ ४:१३३ ॥

Nayasutra 4.134

दिव्यकान्ति शुभो गन्धो प्रज्ञा चास्य विवर्द्धते ।
दिव्यदृष्टिश् च श्रोत्रञ् च दिव्या वाचा प्रवर्[त्तते] ॥ ४:१३४ ॥

Nayasutra 4.135

(वायुवद्) विचरेल् लोकां सिद्धान् देवाश् च पश्यति ।
मनेच्छाचिन्तितप्राप्तिः प्रवर्त्तेत गुणाष्टकम् ॥ ४:१३५ ॥

Nayasutra 4.136

सर्व्वकामसुसम्पूर्ण्णस् सर्व्वद्वन्द्वविवर्ज्जितः ।
संसारबन्धनिर्म्मुक्तः शिवतुल्यश् च जायते ॥ ४:१३६ ॥

Nayasutra 4.137

प्राणापाने तु संयोज्य ह्रस्वकोटिसमन्वितम् ।
नाभ्यन् धारेत योगीन्{द्रः स्वेदकम्पश् च जायते} ॥ ४:१३७ ॥

Nayasutra 4.138

{पुनर् एव हृदिस्थौ हि प्राणापानौ} (निरुन्ध्येत् ।
दीर्घकोटिसमायोगात् क्षणात् पतति मूर्च्चितः ॥ ४:१३८ ॥

Nayasutra 4.139

कण्ठस्थं हि तथैवेह प्राणम् एकं निरुन्ध्येत् ।
प्लुतकोटिसमायोगात् स्वप्नवृत्तिस् ततो भवेत् ॥ ४:१३९ ॥

Nayasutra 4.140

भ्रूमध्ये बिन्दुयुक्तेन प्राणरोधन् तु कारयेत् ।
सुषुप्तं जायते तत्र क्षणाच् चैव प्रबुध्यति ॥ ४:१४० ॥

Nayasutra 4.141

मूर्ध्नि द्वारं समालम्ब्य निष्कलं ध्यानम् आरभेत् ।
{एवम् अभ्यस}[(त)]स् तस्य प्रत्ययस् तु तदा भवेत् ॥ ४:१४१ ॥

Nayasutra 4.142

पिपीलकण्टकावेधो मूर्ध्नि द्वारं विभिद्यते ।
जायते तन्मयत्वं हि देहेनानेन साधके ॥ ४:१४२ ॥

Nayasutra 4.143

सङ्क्रमेत् परदेहेषु क्षुत्तृष्णाभ्यान् न बाध्यते ।
अतीतानागतञ् चैव त्रैलोक्ये यत् प्रवर्त्तते ॥ ४:१४३ ॥

Nayasutra 4.144

प्रत्यक्षम् भवते तस्य सर्व्वज्ञत्वञ् च जायते ।
देव्य् उवाच ।
सूत्रन् नाम महादेव आलोक्यपद[(वाचकम्)] ॥ ४:१४४ ॥

Nayasutra 4.145

[त]द् अहं श्रोतुम् इच्छामि भगवन् वक्तुम् अर्हसि ।
ईश्वर उवाच ।
सूचनात् सूत्रम् इत्य् आह सूत्रन् नाम पदम् परम् ॥ ४:१४५ ॥

Nayasutra 4.146

तेन सर्व्वम् इदं व्याप्तं सूत्रे मणिगणा इव ।
अखण्डितन् तु तत् सूत्रं खव्यापि-म्-अजरं परम् ॥ ४:१४६ ॥

Nayasutra 4.147

तडिद्वलयसन्तानं खटिकेन प्रकाशयेत् ।
हृत्पुण्डरीकमध्यस्थं सोमसूर्य्याग्निमध्यमम् ॥ ४:१४७ ॥

Nayasutra 4.148

यः प([श्ये(त् पर)] )मं सूक्ष्मं स लेख्यं कर्त्तुम् अर्हसि ।
देव्य् उवाच ।
तत्त्वा देवगणाः सर्व्वे सर्व्वन्यासे व्यवस्थिताः ॥ ४:१४८ ॥

Nayasutra 4.149

तेषाम् मन्त्रविभागो ऽयं कथयस्व प्रसादतः ।
ईश्वर उ ।
सर्व्वे मन्त्रात्मका देवास् सर्व्वे मन्त्राः शिवात्मकाः ॥ ४:१४९ ॥

Nayasutra 4.150

शिवात्मकैश् च मन्त्रैश् च शिवयागो तु पूजयेत् ।
अप्राप्य शिवसद्भावम् पठतो ([पि] हि) {संहि}ताम् ॥ ४:१५० ॥

Nayasutra 4.151

अज्ञात्वा कुरुते दीक्षां शिष्याचार्य्यौ व्रजेत् यधः ।
तस्मान् न समानपशोः शिष्यत्वेनोपतिष्ठते ॥ ४:१५१ ॥

Nayasutra 4.152

उभयतो ऽपि न शिवाशिवम् एकपशोः परः ।
अविदित्वामयं सम्यक् क्रियां यः कुरुते भिषक् ॥ ४:१५२ ॥

Nayasutra 4.153

नातुरस् सुखम् आप्नोति वैद्यो ऽपि न फ[(लं ल)]भेत् ।
ज्ञानविज्ञानकुशलस् सर्व्वावस्थागतो ऽपि यः ॥ ४:१५३ ॥

Nayasutra 4.154

स मोचयति पाशेभ्यो ज्ञाननिर्धूतकिल्बिषः ।
सर्व्वलक्षणहीनो ऽपि ज्ञानवान् गुरुर् उच्यते ॥ ४:१५४ ॥

Nayasutra 4.155

दीक्षाविधिविधानज्ञो पाशजालविमोचकः ।
शिवः शक्त्या महाशक्तिः शक्तिभावेन देशिकः ॥ ४:१५५ ॥

Nayasutra 4.156

उभयोर् अन्त[रं] नास्ति देशिकस्य शि[(वस्य च)] ।
{स चैवोङ्कार} [(बिन्दु)]श् च स नादो लय निष्कलः ॥ ४:१५६ ॥

Nayasutra 4.157

तस्मिं सर्व्वाणि विद्यन्ते स चैव परमशिवः ।
सर्व्वविद्यासुसम्पूर्ण्णस् सर्व्वविद्यार्त्थकोविदः ॥ ४:१५७ ॥

Nayasutra 4.158

आचार्य्यस्य च मन्त्रस्य शिवज्ञानशिवस्य च ।
नानात्वं नैव कुर्व्वन्ति अनन्तेशादयश् शिवाः ॥ ४:१५८ ॥

Nayasutra 4.159

जन्मान्तरैः कल्पसहस्रकोटिभिः
कथञ् चि लभ्येच् छिवतत्त्वम् उत्त[(मम्)] ।
{उदी}[(र)]ते चात्मविमोक्षहेतोर्
ददाति लोभाय कथम् परस्य तु ॥ ४:१५९ ॥

Nayasutra 4.160

नूनं हि सो नेच्छति मोक्षम् आत्मनो मोहेन लोभेन च यो हि वक्ष्यते ।
अपायम् उक्तो हि मया गुरूणान् न देय तत्त्वामृत यस्य कस्यचित् ॥ ४:१६० ॥

Nayasutra 4.161

चत्वारि चैतानि शतान्य् अधीत्य
सषष्टियुक्तानि षडाधिकानि ।
उद्धृत्य पञ्चाश कुला[(नि यो) (वै)]
शिवत्वम् आयाति स्वरूपतेजसा ॥ ४:१६१ ॥

Nayasutra 4 – Kolophon

॥ ⊗ ॥ इति निश्वा{स}तत्त्वसंहितायां नयसूत्रे परमामृतसद्भावविचारश् चतुर्थः पटलः ॥

Nayasutra 4 – Zählvermerk

श्लो ४६६ (?) ॥ ⊗ ॥ स्रोत्रे सूत्रत्रयं समाप्तम् ॥

Guhyasutra

Kapitel 1

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 1.1

उपरिष्टाच् चतुर्थन् तु सूत्रम् आरभ्यते पुनः ।
तत्र सूत्रत्रयम् प्रोक्तम् बोद्धव्यम् आनुपूर्वशः ॥ १:१ ॥

Guhyasutra 1.2

मूलञ् चोत्तरसूत्र[(ञ् च नयसूत्रं तथैव)] च ।
गुह्यसूत्रञ् चतुर्थन् तु प्रोच्यमानन् निबोध मे ॥ १:२ ॥

Guhyasutra 1.3

तेनैव सह संयुक्ता संहितैका प्रपठ्यते ।
निश्वासेति च नामेन सम्पूर्ण्णा तु ततो भवेत् ॥ १:३ ॥

Guhyasutra 1.4

निश्वाससंहिता ह्य् एषा मुखेन सह संयुता ।
पञ्चस्रोतास् तु ये प्रोक्ता मुखेन परिकीर्तिताः ॥ १:४ ॥

Guhyasutra 1.5ab

तेन युक्ता भवेत् पुष्टा सर्वसूत्रेषु पठ्यते ।

Kapitel 2

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 2.116

वामदेवेन श्वभ्रे तु योजयित्वा गणाम्बिकाम् /
योनिर् विष्णुः शिवो लिङ्गं सद्य श्वभ्रे निवेशयेत्

Guhyasutra 2.117

इमां रुद्राय वै जप्त्वा पृथिव्यां वै शिवे पुनः /
चलिते कम्पिते वापि सशब्दे भ्रमिते तथा

Guhyasutra 2.118

पतिते च तथा शान्तिं दिवा सप्तं यदाक्रमेत् /
ईशान्याम् आशृते लिङ्गे सर्व[(सिद्धि)] —

Guhyasutra 2.119

त्रातारम् इन्द्र जप्त्वा तु पिण्डिकां बन्धयेत् ततः /
अधोभागं न्यसे श्वभ्रे पिण्डिकस्थन् तु मध्यतः

Guhyasutra 2.128ab

लिङ्गे रुद्रो उमा वेदी एकीकृत्य च पूजयेत्

Kapitel 3

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 3.21cd

स्वप्नमाणवको देवः कथेत् सिद्धिबलाबलम्

Guhyasutra 3.24

शुभाशुभं न दृष्टं तु स्वप्ने वै साधकेन तु ।
प्रसीनाङ् कारयेत् तत्र जप्त्वा अयुतम् उत्तमम् ॥ ३:२४ ॥

Guhyasutra 3.25

चण्डिमन्त्रं तु यो जप्त्वा तैलालक्तकसंयुतम् ॥ ३:२५ ॥

Guhyasutra 3.26

अङ्गुष्ठं म्रक्षयेद् वामं तैलं चैवाभिमन्त्रयेत् ।
दारिकाञ् च कुमारञ् च मुखं प्रक्षाल्य वीक्षयेत् ॥ ३:२६ ॥

Guhyasutra 3.27

तिलतण्डुलभक्षन्तौ पश्यन्तौ यत् तु चिन्तितम् ।
ततो दृष्ट्वा च श्रुत्वा च साधयेन् मन्त्रसत्तमम् ॥ ३:२७ ॥

Guhyasutra 3 – unnummerierte Chandi-Formel

ॐ चण्डिके क्रम २ ठठ । चण्डिमन्त्रो ऽयम् ।

Guhyasutra 3.29cd

सिद्धि-म्-ऐश्वर्ययोग्यस् तु न च हिंसन्ति हिन्सकाः ।

Guhyasutra 3.30

सिद्धविद्याव्रतस्थो हि जपे च व्रतम् आरभेत् ।
गो माता च पिता भ्राता अतिथिर् मित्र ब्राह्मणः ॥ ३:३० ॥

Guhyasutra 3.31

हतो मे पाप[[(चारे)]]ण चरेन् मिथ्याव्रतम् व्रती ।
⟪करस्थेन कपा⟫लेन खट्वाङ्गी भस्मगुण्ठितः ॥ ३:३१ ॥

Guhyasutra 3.32

श्मशाने चरते रात्रौ श्मशानव्रत उच्यते ।
नृत्यते गायते चैव उन्मत्तो हसते ब्रुवन् ॥ ३:३२ ॥

Guhyasutra 3.33

भस्माङ्गी चीरवासश् च गणव्रतम् इदं स्मृतम् ।
जपयुक्तो भैक्षभुजो लोष्टुशायी जितेन्द्रियः ॥ ३:३३ ॥

Guhyasutra 3.34

ध्यानसंयमयुक्तश् च लोष्टुकव्रतम् आचरेत् ।
रिक्षव्याघ्रसमा[[कीर्णे]] ⟪वने सिं⟫हसमाकुले ॥ ३:३४ ॥

Guhyasutra 3.35

जितनिद्राशनो जापी काष्ठव्रतम् इदञ् चरेत् ।
गायते नृत्यते जापी स्त्रीरूपी वलयभूषितः ॥ ३:३५ ॥

Guhyasutra 3.36

शूर्प्पकन्दुकवेणीभिश् चित्रव्रतम् इदञ् चरेत् ।
शस्त्रपाणिर् दयायुक्त-म्-अटे त्रातेव †जतवान्† ॥ ३:३६ ॥

Guhyasutra 3.37

जपध्यानार्च्चनिरतो वीरव्रतम् इदञ् चरेत् ।
वर्षशीतातपैर् द्देहन् तापयेद् धि सु--- ॥ ३:३७ ॥

Guhyasutra 3.38

जपध्यानरतश् चैव महाव्रतस् स उच्यते ।
रतिसंभोगकुशलां रूपयौवनशालिनीम् ॥ ३:३८ ॥

Guhyasutra 3.39

ईदृशीं स्त्रियम् आसाद्य निरुद्धेन्द्रियगोचरः ।
चुम्बनालिङ्गनङ् कुर्याल् लिङ्गं स्थाप्य भगोपरि ॥ ३:३९ ॥

Guhyasutra 3.40

जपध्यानपरो भूत्वा असिधारव्रतञ् चरेत् ।
यदि कामवशं गच्छेत् पतते नरके ध्रुवम् ॥ ३:४० ॥

Guhyasutra 3.41

नवात्मकञ् जपेल् लक्षं ((तस्य)) ---द्धये ।
अब्दं षण्मासमात्रं वा यश् चरेद् व्रतम् उत्तमम् ॥ ३:४१ ॥

Guhyasutra 3.42

तस्य सिद्धिः प्रजायेत अधमा मध्यमोत्तमा ।
व्रतस्थः पञ्चलक्षाणि पुनर् जप्त्वा तु सिद्ध्यते ॥ ३:४२ ॥

Guhyasutra 3.43

सर्वे मन्त्राश् च सिद्ध्यन्ते ईप्सितञ् च फलं भवेत् ।
ॐ नमो वायुपथचारिणे अमितगतिपराक्रमाय विमले कुलु २ ठठ ॥ ३:४३ ॥

Guhyasutra 3.44

शिला सुवर्णधातुञ् च ((क)) --- तम् ।
वराहवशसंपिष्टं सहस्रपरिमन्त्रितम् ॥ ३:४४ ॥

Guhyasutra 3.45

नवात्मकम् पुनर् जप्त्वा पादौ चैव प्रलेपये[[त्]] ।
गच्छते सो ऽपरिश्रान्तो योजनानां शतद्वयम् ॥ ३:४५ ॥

Guhyasutra 3.54cd

नारीरजं तु संगृह्य त्रिलोहपरिवेष्टितम्

Guhyasutra 3.55

अश्वत्थपत्रैः संच्छाद्य दशसाहस्रमन्त्रितम् /
वदने तु समुत्क्षिप्य गच्छे योजनाशतम्

Guhyasutra 3.56

अनस्तमितम् आदित्ये पुनर् आगच्छते द्रुतम् /
गृहीत्वा राजखद्गं तु शूरखद्गं त्व् असम्भवे

Guhyasutra 3.57

पुष्पलोहमयं वापि पञ्चगव्यसुशौचितम् /
अश्वत्थपत्रैस् स[ञ्च्छाद्य अ]श्वत्थदलछादितम्

Guhyasutra 3.58

शिवतत्त्वायुतं जप्त्वा स ग्रहेषु प्रसिद्ध्यते /
त्रिविधा तस्य सिद्धि स्याद् ऊष्मे धूमे च ज्वलिते

Guhyasutra 3.59

ऊष्मे पादप्रचारन् तु अन्तर्धानन् तु धूमके /
आकाशगामी ज्वलिते सर्वलोकेषु संक्रमेत्

Guhyasutra 3.60

सिद्धविद्याधरो ह्य् एष न क्वचित् प्रतिहन्यते /
एकलिङ्गे एकवृक्षे श्मशाने संगमे वने

Guhyasutra 3.61

[तत्र मण्डल]म् आलिख्य तत्त्वाङ्गभुवनं शुभम् /
अक्षतं मृतकं गृह्य स्थापयित्वाविशङ्कितः

Guhyasutra 3.62

सुस्नापितं सुलिप्ताङ्गं पुष्पस्रग्दामभूषितम् /
हृदि तस्योपविष्टन् तु तत्वेन स्रवितञ् चरुम्

Guhyasutra 3.63

तस्य वक्त्रे तु होतव्यं शतसाहस्रमायुतम् /
ततो जिह्वा विनिष्क्रामेत् तां तु मन्त्रेण च्छेदयेत्

Guhyasutra 3.64

सा जिह्वा भवते खद्गा गृह्य विद्या[धरो भवेत्] /
[अव्]याहतगतिस् सो हि जीवेद् आचन्द्रतारकम्

Kapitel 4

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 4.5

अध्वानं मे महादेव ब्रूहि विस्तरशो प्रभो ।
अध्वानं च परिज्ञानं शिवतन्त्रेषु गीयते ॥ ४:५ ॥

Kapitel 5

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 5.3ab

सौवर्ण्णं सप्तमन् तेषां पातालास् सप्त कीर्त्तिताः

Kapitel 7

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 7.112

अमरेशं प्रहासञ् च नैमिषं पुष्करन् तथा ।
आषाढिन् दिण्डिमुण्डिञ् च भारभूतिं सलाकुलिम् ॥ ७:११२ ॥

Guhyasutra 7.113

प्रत्यात्मिके मृता ये तु ते व्रजन्त्य् एव तत्पदम् ।
हरिश्चन्द्रं परं गुह्यं गुह्यं मध्यमकेश्वरम् ॥ ७:११३ ॥

Guhyasutra 7.114

श्रीपर्वतं समाख्यातञ् जल्पेश्वरम् अतः परम् ।
अम्रातिकेश्वरं चैव महाकालं तथैव च ॥ ७:११४ ॥

Guhyasutra 7.115

केदारम् उत्तमं गुह्यं महाभैरवम् एव च ।
गुह्याष्टके मृता ये तु ते व्रजन्तीह तत्पदम् ॥ ७:११५ ॥

Guhyasutra 7.116

गयाञ् चैव कुरुक्षेत्रन् नखलं कनखलन् तथा ।
विमलञ् चाट्टहासञ् च माहेन्द्रं भीमम् अष्टमम् ॥ ७:११६ ॥

Guhyasutra 7.117

अतिगुह्ये मृता ये तु अतिगुह्यं व्रजन्ति ते ।
भद्रापदं रुद्रकोटिम् अविमुक्तं महाबलम् ॥ ७:११७ ॥

Guhyasutra 7.118

गोकर्णं रुद्रकर्ण्णञ् च स्वर्णाक्षं स्थाणुर् अष्टमम् ।
एतेष्व् अपि मृतास् सम्यग् भित्त्वा लोकम् अशेषतः ॥ ७:११८ ॥

Guhyasutra 7.119

दीप्यमानास् तु गच्छन्ति अत्र स्थानेषु ये मृताः ।
छगलण्डं द्विरण्डञ् च माकोटं मण्डलेश्वरम् ॥ ७:११९ ॥

Guhyasutra 7.120

कालञ्जरं समाख्यातन् देवदारुवनन् तथा ।
शङ्कुकर्ण्णन् तथैवेह स्थलेश्वरम् अतः परम् ॥ ७:१२० ॥

Guhyasutra 7.121

एतेष्व् अपि मृता ये तु भित्त्वा लोकम् अशेषतः ।
दीप्यमानास् तु गच्छन्ति स्थानाष्टकम् इदं प्रिये ॥ ७:१२१ ॥

Guhyasutra 7.232ab

असाध्येकपदम् ऊर्ध्वं ततो हरिहरौ वरौ

Guhyasutra 7.237ab

वामो ज्येष्ठश् च रुद्रश् च महादेवत्रयं स्मृतम्

Guhyasutra 7.242cd

योनिर् वागेश्वरी चैव यत्र जातो न जायते

Guhyasutra 7.243cd

ओङ्कारं साध्यधातारं दमनेशस् तथा स्मृतम्

Guhyasutra 7.244

ध्यानाद् ऊर्ध्वं तु भस्मेशं क्रमेण कथितानि तु /
प्रमाणानि ततोर्ध्वं तु प्रोच्यमानानि मे [शृणु]

Guhyasutra 7.251cd

सा देवी च कला एव [वागी]शीति निगद्यते

Guhyasutra 7.252

अष्टभेदविभिन्ना तु विद्या सा एव पठ्यते /
वामाद्यैः शक्तिभिर् भिन्ना पुनश् च परिपठ्यते

Guhyasutra 7.259

अत ऊर्ध्वं तु विज्ञेयं तत्तद्रूपचतुष्टयम् /
धर्मज्ञानं च वैराग्यम् ऐश्वर्यं च चतुष्टयम्

Guhyasutra 7.260

वामा ज्येष्ठा च रौद्री च शक्तित्रयम् अतः परम् /
ज्ञानशक्तिः क्रियाशक्तिर् द्वे विद्ये परिकीर्तिते

Guhyasutra 7.260cd (abweichend zugeordnetes Zitat)

तेजीशश् च ध्रुवश् चैव प्रमाणाध्वान् अकीर्तितम्

Guhyasutra 7.261

कपालव्रतम् आस्थाय प्रमाणागमसि[द्धये] /
गता ध्रुवपदं ये तु दीक्षाज्ञानविशोधिताः

Guhyasutra 7.263

ध्रुवं चैवोपरिष्टात् तु भुवनत्रयसंहतिम् /
रुद्रप्रतोदमनवन् त्रयैते भुवनेश्वराः

Guhyasutra 7.265ab

सौम्यास् ते तु त्रयो रुद्रा इत्य् एते परिकी[र्त्तिताः]

Guhyasutra 7.272

शक्तिश् चैवोर्ध्वसंस्कारं ख्याति+ः+ प्रमुदितस् तथा /
[प्रल]म्बञ् च तथा विष्णुं मन्दरं गहनन् तथा

Guhyasutra 7.273ab

प्रविततं च -म्- उद्दिष्टम् अष्टौ ते परमेश्वराः

Auszüge mit Zählung Sanderson 2001

Diese Gruppe bewahrt dieselbe ausdrücklich unterschiedene Zählung wie die IAST-Fassung.

Guhyasutra 7 – zitierter Halbvers vor 7.237 (Zählung Sanderson 2001)

अत ऊर्ध्व⟨ं⟩ स्थिता विद्या
अष्टधा प्रकृतिर् ध्रुवा

Guhyasutra 7.237 (Zählung Sanderson 2001)

इडा च चन्द्रिणी चैव
गौरी शान्तिस् तथापरा
माला च मौलिनी स्वाहा
स्वधा चेति प्रकीर्त्तिता⟨ः⟩

Guhyasutra 7.238 (Zählung Sanderson 2001)

[अथातः स]म्प्रवक्ष्यामि
विग्रहान् तु यथास्थितम्
कार्यन् दुःखन् तथा ज्ञानं
साधनं तत्वम् एव च

Guhyasutra 7.239 (Zählung Sanderson 2001)

साध्यञ् चैव तथैश्वर्यन्
कारणञ् च तथाष्टमम्
एते अष्टविधा ज्ञेया
निग्रहानुग्रहे स्थिता

Guhyasutra 7.240 (Zählung Sanderson 2001)

नियतिकालरागञ् च
संक्षेपेण ब्रवीमे ते
सुखदुःखप्रदा देवी
शुभाशुभनिबन्धनी

Guhyasutra 7.241 (Zählung Sanderson 2001)

रागस् तु रञ्जकः प्रोक्तो
विषयानन्दलक्षणः
येन स[ंसा]रितो जन्तुर्
नरकादिषु पच्यते

Guhyasutra 7.242 (Zählung Sanderson 2001)

विमलं सम्प्रवक्ष्यामि
ज्ञानसर्गम् अतः परं
भवोद्भवकरः शर्वो
वज्रदेहस् तृतीयकः

Guhyasutra 7.243 (Zählung Sanderson 2001)

प्रभुर् धाता विधाता च
क्रमश् च विक्रमस् तथा
प्रभेशः सुप्रभश् चैव
दशैते शङ्कराः स्मृताः

Guhyasutra 7.244 (Zählung Sanderson 2001)

नियत्यां संस्थिता ह्य् एते
ज्ञातव्या देशिकेन तु
शङ्कराश् च समाख्याताश्
शिवाश् चैव निबोध मे

Guhyasutra 7.245 (Zählung Sanderson 2001)

शु[द्धो] बुद्धः प्रबुद्धश् च
प्रशान्तः परमाक्षरः
शिवश् च सुशिवश् चैव
ध्रुवश् चाक्षर एव च

Guhyasutra 7.246 (Zählung Sanderson 2001)

अव्ययश् च समाख्याता
दशैते निर्मिताः शिवाः
परमाक्षरजापेन
समयी लभते पदम्

Guhyasutra 7.247 (Zählung Sanderson 2001)

हेमाभाश् शङ्कराः प्रोक्ताः
शिवास् स्फटिकसन्निभाः
एकैकस्य विनिर्दिष्टम्
परिवारे यशस्विनि

Guhyasutra 7.248 (Zählung Sanderson 2001)

कोटिर् एका समाख्याता
सहस्राणि तु षोडश
कूर्माकाराणि सर्वेषां
प्रोक्तानि भुवनानि तु

Guhyasutra 7.249 (Zählung Sanderson 2001)

असाध्येकपदम् ऊर्ध्वन्
ततो हरिहरौ वरौ
तस्माद् अपि दशेशानाः
संस्थिताः कामरूपिणः

Guhyasutra 7.250 (Zählung Sanderson 2001)

सुहृष्टस् सुप्रहृष्टश् च
सुरूपो रूपवर्धनः
मनोन्मनस् समाख्यातस्
सुमनोन्मन एव च

Guhyasutra 7.251ab (Zählung Sanderson 2001)

महावीरस् सुवीरश् च
वीरेशो दशमः स्मृतः

Guhyasutra 7.301 (Zählung Sanderson 2001)

तत्र मध्ये स्थिता देवी
सुषुम्णा नाम नामतः
पद्मसूत्राकृतिश् शुक्ला
शक्तिभिर् बहुभिर् वृता

Guhyasutra 7.302 (Zählung Sanderson 2001)

पद्महस्ता सिताङ्गी तु
पद्माभरणभूषिता
शक्तिर् भुवनपङ्क्तीभिस्
समन्ताद् अवभासिता

Guhyasutra 7.303 (Zählung Sanderson 2001)

नादब्रह्मबिले लीना
चतुःशक्तिभिर् आवृता
लक्षणाकृतिरूपेण
चतुर् ++ व्यवस्थिता

Guhyasutra 7.304 (Zählung Sanderson 2001)

महापद्मोपरिष्टात् सा
शिवकायाद् विनिःसृता
सा तु भूतगुणैस् त्यक्ता
मायावयववर्जिता

Guhyasutra 7.305 (Zählung Sanderson 2001)

ध्यातव्या मोक्षकामैस् तु
तुषारकणधूसरा
सृष्टिसंहारकर्त्तॄणां
कर्तृभूता व्यवस्थिता

Guhyasutra 7.306 (Zählung Sanderson 2001)

बिभर्त्य् अण्डान्य् अनेकानि
फलानीव वनस्पतिः
ततोर्ध्वन् निष्कल्[ओ देवो]
वर्तुल स + निष्ठितं

Guhyasutra 7.307 (Zählung Sanderson 2001)

अनौपम्यम् अनाकारम्
ऊहवादविवर्जितम्
सर्वज्ञं सर्वगं देवं
स्वयम्भुं भुवनाधिपं

Kapitel 8

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 8.26ab

सौवर्ण्णेषु पुनर् यागो भुर्लोके तु भुवस् तथा

Guhyasutra 8.110cd

एतद् बुद्ध्वा न दातव्यं शिवदेवामृतम् परम् ।

Guhyasutra 8.111

दीक्षाज्ञानेन योगेन चर्यया च यथाक्रमम् ।
प्रत्येकशः शिवावाप्तिस् तन्त्रे ऽस्मिन् पारमेश्वरे ॥ ८:१११ ॥

Guhyasutra 8.112

दीक्षया सुकरं मोक्षं यद् गुरुस् साधयेत् सदा ।
ज्ञानञ् च गुरुम् आसाद्य लभ्यते तत्[[प्रसादतः]] ॥ ८:११२ ॥

Guhyasutra 8.113

--- ते म्X यो XX(?) च गुरुपादतः ।
आत्मशक्त्या चरेच् चर्यां सर्वसिद्धिप्रदायिकाम् ॥ ८:११३ ॥

Guhyasutra 8.114

एतच् चतुष्टयम् प्रोक्तं संसारभयनाशनम् ।
परस्यैव न देयन् तु यदि ऽच्छेत् सिद्धिम् आत्मनः ॥ ८:११४ ॥

Guhyasutra 8.128

अहं त्वं च विशालाक्षि मूलं सर्वजगस्य तु ।
मातृकाशिवरूपेण सिद्धिसम्भवपादपम् ॥

Guhyasutra 8.129

आब्रह्मस्तम्भपर्यन्तं जगत् सर्वं चराचरम् ।
मम बीजोद्भवं सर्वं तव योनिविनिर्गतम् ॥

Guhyasutra 8.130

वेदाद्याः पञ्च ये प्रोक्ता महाज्ञानास् तु भूतले ।
-६- द्भवा ह्य् एते तव योनिविनिर्गताः ॥

Guhyasutra 8.131

रिषिदेवमतान्य् एव मर्त्यबुद्धिकृतानि च ।
मम बीजोद्भवा ह्य् एते तव योनिविनिर्गताः ॥

Guhyasutra 8.132

संस्कृतं प्राकृतं चैव अपभ्रंशानुनासिकम् /
दिव्यादिव्यन् तु यत् किञ्चिद् वाङ्मयं सम्प्रसूयते

Guhyasutra 8.133

त्वं सदा गुर्णिणी देवि अहं कामयिता सदा ।
विकारास् तव जायन्ते यत् सर्वं सम्प्रतिष्ठितम्.

Guhyasutra 8.137

अहं पुमांस् त्वं प्रकृति नियति पुन[[र् एव च]] ।
निय--- [२] कालरूपी महेश्वरः ॥ ८:१३७ ॥

Guhyasutra 8.138

त्वम् माया च तथा विद्या अहम् पुनस् तथेश्वरः ।
सदाशिव अहन् देवि त्वञ् चतुर्धा कलेश्वरी ॥ ८:१३८ ॥

Guhyasutra 8.139

ईशित्वाच् च वशित्वाच् च सर्वज्ञत्वाच् च नित्यशः ।
शान्तत्वान् निष्कलत्वाच् च समत्वाच् च अहं शिवः ॥ ८:१३९ ॥

Guhyasutra 8.140

मम इच्छा न हन्या त्वं त्वं हि शक्तिबलोदया ।
त्वत्सूतञ् च जगत् सर्वं शिवदा सदनुग्रहे ॥ ८:१४० ॥

Kapitel 9

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 9 – Sprecherangabe vor 9.1

देव्य् उवाच—

Guhyasutra 9.1

मातृकाया भवेत् सिद्धिर् म्मोक्षञ् चैव महेश्वर ।
मातृकासिद्धिम् आख्याहि मोक्षञ् चैव यथा भवेत् ॥ ९:१ ॥

Guhyasutra 9.2

तत्समुत्थाश् च ये मन्त्राः किमर्थङ् कथितास् त्वया ।
एतत् प्रश्नवरं ब्रूहि ((भ))---फलं हि मे ॥ ९:२ ॥

Guhyasutra 9 – Sprecherangabe vor 9.3

ईश्वर उ—

Guhyasutra 9.3

अर्द्धस्त्रीवेशधारी तु अर्द्धेन पुरुषस् तथा ।
अर्द्धेन अलकं कुर्याद् अर्द्धेनैव जटाधरः ॥ ९:३ ॥

Guhyasutra 9.4

तिलकार्द्धेन नेत्रार्द्धे वालिका ह्य् एककर्ण्णके ।
कुण्डलं ह्य् एककर्ण्णे तु शूलन् दक्षिणहस्ततः ॥ ९:४ ॥

Guhyasutra 9.5

वामपार्श्वे स्तनङ् कुर्याद् वामार्धे चैव मेखलाम् ।
वलयं वामहस्ते तु वामपादे तु नूपुरं ॥ ९:५ ॥

Guhyasutra 9.6

रुचकं दक्षिणे पादे मुञ्जमालां तथा कटौ ।
कौपीनन् दक्षिणे कुर्याद् वामे स्त्रीवस्त्रधारिता ॥ ९:६ ॥

Guhyasutra 9.7

शूर्प्पं वामकरे गृह्णेद् अर्धनारीश्वरव्रते ।
एतद् व्रतङ् गृहीत्वा तु भिक्षाशी तु जितेन्द्रियः ॥ ९:७ ॥

Guhyasutra 9.8

जपहोमरतो नित्यम् प्रतिग्रहविवर्ज्जितः ।
त्रिष्कालं अर्च्चयेद् देवं त्रिष्कालं स्नानम् आचरेत् ॥ ९:८ ॥

Guhyasutra 9.9

शाकयावकभिक्षाशी स्कन्दमूलफलाशिनः ।
मासम् ए[[क]]---समन्वितः ॥ ९:९ ॥

Guhyasutra 9.10

मुच्यते ऽसौ महापापात् क्षुद्रसिद्धिञ् च विन्दते ।
द्विमासान् मध्यमा सिद्धिर् अब्दार्द्धाद् उत्तमा भवेत् ॥ ९:१० ॥

Guhyasutra 9.11

संवत्सरेण सिद्धिस् तु विद्यासिद्धिम् अवाप्नुयात् ।
अणिमाद्यास् तु जायन्ते सिद्धैश् च सह मोदते ॥ ९:११ ॥

Guhyasutra 9.12ab

ईप्सितां लभते कामान् अकामो मोक्षम् आप्नुयात् ।

Guhyasutra 9.15cd

किम् अन्यैर् बहुभिर् मन्त्रैर् विदित्वा मातृकाशिवम्

Guhyasutra 9 – Zitat nach Blatt 77r4 (Sanderson 2001)

गर्भाधानादिकर्मेसु यावत् पाशुपतान्तिकम् ।
शतहुत्या विशुद्धिस् तु

Kapitel 10

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 10.27

जपमानम् एव मासेन पूर्वसेवा कृता भवतीत्य् एवं कृष्णयोर् एकतमेन एकलिङ्गे यथाविभवतः

Guhyasutra 10.28

पूजां कृत्वा देवदेवं विज्ञापयेत् कर्म सिद्धिं च पुनश् चेति

Guhyasutra 10.29

दिक्पाल रक्षां मे कुरु मम कृपणस्य सहैभिः सहायां. दक्षिणायां मूर्तौ कुशविण्डोप[विष्टः]

Guhyasutra 10.30

आञ्जनमनःशिलाहरितालगैरिकरोचनाद्यानां सिद्धद्रव्याणाम् एकतमं गृह्य कपिलाघृतसहस्रसंपाताभिहुतं कृत्वा प्रदक्षिणावर्तैर् अश्वत्थपत्रैश् चतुर्भिः प्रच्छाद्य त्रिभिः स्थाप्य दक्षिणपाणिनावष्टभ्य जपेत्

Guhyasutra 10.31

अष्टसहस्रहोमेन त्रिविधा सिद्धिर् भवति

Guhyasutra 10.32

ऊष्मे पादप्रचारिकां, धूमायमानेऽन्तर्धानम्, ज्वलितेनाकाशगमन[म्]

Guhyasutra 10.91

देवं पूज्याग्नौ जुहुयाद् औदुम्बरसमिधानां त्र्यक्तानां सहस्रं तृसन्ध्यं. क्षीराशी सप्ता दिनानि जुहुयात्. चीर्ण्णविद्याव्रतो भवति.

Guhyasutra 10.126–127 (gemeinsames Prosazitat)

च्छिन्नभिन्नकीलिताकोटितवित्रासितानि बद्धानि सत्त्वानां मोक्षयति. उशीरप्रतिमा[ं] कृत्वा गन्धोदकेन स्नापयेद् एकविंशतिजप्तेन दोषमुक्तश् च सिद्ध्यति.

Kapitel 11

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 11.28

मन्त्रसिद्धिप्रदा ह्य् एषा विद्यादीक्षा प्रकीर्तिता /
मुक्तिदा विपरीता च शिवा सायोज्यदायिका

Kapitel 12

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 12 – Sprecherangabe vor 12.1

ऋष्[[इर् उवाच]]

Guhyasutra 12.1

पञ्चानान् तु पवित्राणाम् उद्धारं कथयस्व मे /
त्वं वेत्ता शिवशास्त्रस्य भगवन् नन्दिकेश्वर // १

Guhyasutra 12.2

यथा योगञ् च यागञ् च एकैकस्य पृथक्पृथक् /
समुदायेन आचक्ष्व सन्दिग्धं निश्चितं वद // २

Guhyasutra 12 – Sprecherangabe vor 12.3

नन्दिकेश्वर उवाच

Guhyasutra 12.3

पञ्चमन्त्रमयं देवं पञ्चमन्त्रशरीरिणम् /
पञ्चमन्त्र †…† मन्त्र †…† सदाशिवम् // ३

Guhyasutra 12.4

यत् तयात्रपदं †हरदि…† /
प्रमाणे वैमले चैव शैवे च बहुधा स्थितम् // ४

Guhyasutra 12.5

परमन्त्रेषु यत् साध्यं पञ्चार्थज्ञाननिश्चितम् /
पञ्चमन्त्रा विदित्वा तु विधानं प्रतिपद्यते // ५

Guhyasutra 12.6

दीक्षा ज्ञानञ् च चर्या च मन्त्रभूतिविनिर्णयम् /
मन्त्रभूतार्थचर्या च रुद्रसायोज्यगामिनी // ६

Guhyasutra 12.7

भिक्षा चर्या यमादिश् च भस्मस्नानजपक्रिया /
अष्टाङ्गब्रह्मचर्यञ् च आ देहपतना<द् एव> // ७

Guhyasutra 12.8

<षडङ्>गेनोपहारेण त्रिष्कालम् अनुवर्त्तिना /
यज्ञदानक्रियादीनि मनसा विनिकल्पयेत् // ८

Guhyasutra 12.9

मन्त्रसूत्राणि विद्यानि रुद्राश् चेति चतुष्टयम् /
भस्मस्नानञ् च शौचञ् च उपहारन् तथैव च // ९

Guhyasutra 12.10

कपालञ् चैव खट्वाङ्गं भस्मवासञ् च सर्वदा /
चातुर्वर्णिकभैक्ष्यञ् च वस्तव्यं विजने वने // १०

Guhyasutra 12.11

ज्ञानान्वेषी शिवे भक्ति योगध्यानपरायणः /
ए<काकी> ब्रह्मचर्यं च यथालब्धेन वर्त्तयेत् // ११

Guhyasutra 12.12

एवञ् चरति विद्वान् सो जितक्रोधो जितेन्द्रियः /
वैमलाचार्यदीक्षा च शिवसायोज्यम् उच्यते // १२

Guhyasutra 12.13

ज्ञानचर्या अहिंसा च शिवसायोज्यतां व्रजेत् /
ज्ञानेनैव तु शैवानाम् दीक्षा या च विशिष्यते // १३

Guhyasutra 12.14

शिवभक्ति जपो यज्ञ ध्यानं प्राणनिरोधनम् /
एवम् एव समाख्याता पञ्चमन्त्रविधि[[स् तु यः]] // १४

Guhyasutra 12.15

सदाशिवमुखोद्गीर्ण्णं मोक्षमार्गप्रकाशकम् /
ज्ञात्वा पाशुपतं ज्ञानं पञ्चमन्त्रेति पञ्चधा // १५

Guhyasutra 12.16

पञ्चब्रह्म परित्यज्य यो ऽन्यं विज्ञातुम् इच्छति /
विफलं तच् छिवं ज्ञानं ज्ञानमोक्षञ् च पञ्चभिः // १६

Guhyasutra 12.17

पञ्चभिस् तु ततः सर्वं यद् भूतं यच् च भाव्यति /
ईशाने शैवम् उत्पन्नं वैमलं पुरुषा<त्> स्मृतम् // १७

Guhyasutra 12.18

प्रमाणं हृदयाज् जातं वामदे<वात्> तु कारुकम् /
सद्याच् च लकुलीशान्तः पञ्चभेदाः प्रकीर्तिताः // १८

Guhyasutra 12.19

ब्रह्मविष्णुसुरा सर्वे गणा स्कन्दपुरोगमाः /
ऋषयो ऽप्सरसा यक्षा नागगन्धर्वकिन्नराः // १९

Guhyasutra 12.20

दैत्या विद्याधरा सर्वा ये चान्ये पुरवासिनः /
स्थाप्य पञ्चतनुन् देवम् अर्च्चयन्ति सदाशिवम् // २०

Guhyasutra 12.21

न तत्र मृत्युर् न्न जरा न व्याधिर् न च दुःखिताः /
एवं प्राप्य नि†…† // २१

Guhyasutra 12.22ab

ईदृशं च परं सौख्यं नित्यं प्रमुदितोत्सवाः / २२अब्

Guhyasutra 12.41

शिवेन वि – न विना मोक्षो न विद्या लोकमातृका ।
-२- ख्यते मात्रा कुटिला ऊर्ध्वगामिनी ॥

Kapitel 13

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 13.136cd

व्योमबीजं पुनर् वक्ष्ये व्योमस्थं व्योम एव सः

Guhyasutra 13.153ab

तृतीयस्य चतुर्थन् तु वर्ण्णम् आप्यायनम् प्रिये

Kapitel 14

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 14.65

अथ लवणमयीं प्रतिकृतिं कृत्वा रुधिरेणाभ्यज्य तीक्ष्णशास्त्रेणोत्कृत्य पादौ प्रभृति च्छित्वाष्टसहस्रं जुहुया स्त्रिया पुरुषस्य वा स वश्यो भवति.

Kapitel 16

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 16.1

देवदारुवने रम्ये ऋषयः संशितव्रताः ।
नन्दीशम् उपसंगम्य प्रणिपत्य मुहुर् मुहुः ॥ १६:१ ॥

Guhyasutra 16.2ab

ऊचुस् ते ऋषयः सर्व्वे स्तुत्वा नन्दिं शिवात्मजम् ।

Guhyasutra 16.52

देवी स्कन्दञ् च विघ्नेशं नन्दि कापालिम् एव च ।
वृषभं चैव भृङ्गिञ् च सप्तैते तु प्रकीर्तिताः ॥ १६:५२ ॥

Kapitel 18

Zu IAST, Übersetzung und Quellen dieses Kapitels

Guhyasutra 18.15

चत्वारो कथिता सूत्रा समुखाद्या वरानने ।
पञ्चमन् तु पर[ं] सूत्रं कारिका नाम नामतः ।
सूचिता सूत्रमात्रेण कारिकां [पुनः प्र्]च्छथ ॥ १८:१५ ॥

Weitere Lektüre

Hauptartikel mit Übersetzung und Literatur · 108 ausgewählte Verse in deutscher Übersetzung