Matsyendra Samhita Sanskrit Devanagari

Aus Yogawiki
Version vom 11. September 2026, 18:06 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Matsyendra Samhita Sanskrit Devanagari''' vereint die zugänglichen Kapitel und Einzelstellen der Matsyendra Samhita auf einer Seite. Enthalten sind Kapitel 1–20 und 27; die Lesefassung von Kapitel 28; 22.24, 40.1ab und 40.29–69, das Fragment 44.27, 54.15cd sowie 55.42–44. Diese kommentierte Teilausgabe bewahrt die überlieferte Reihenfolge; die zwischen den aufgenommenen Kapiteln liegenden Lücken sind im Hauptartikel dokumentiert. Datei:…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Matsyendra Samhita Sanskrit Devanagari vereint die zugänglichen Kapitel und Einzelstellen der Matsyendra Samhita auf einer Seite. Enthalten sind Kapitel 1–20 und 27; die Lesefassung von Kapitel 28; 22.24, 40.1ab und 40.29–69, das Fragment 44.27, 54.15cd sowie 55.42–44. Diese kommentierte Teilausgabe bewahrt die überlieferte Reihenfolge; die zwischen den aufgenommenen Kapiteln liegenden Lücken sind im Hauptartikel dokumentiert.

weitere Artikel zum Thema: Hauptartikel · 108 ausgewählte Verse · IAST und Deutsch

Die Rahmenerzählung führt in die Überlieferung der Lehre ein. Reinigung, Sitzhaltungen, Atemschulung und Sammlung gehen in Meditation, innere Verehrung, Mantra und Einweihungsrituale über. Weitere Kapitel behandeln Schrift und Guru, Khechari, Nektarvorstellungen und innere Körperorte. Die ergänzenden Abschnitte erschließen rituelle Stofflehre, Kula und Maya-Verehrung.

Grundlage ist Sensharma 1994; in den jeweils bezeichneten Bereichen folgen Text und Nummerierung den Editionen und Matsyendra-Lesarten bei Mallinson 2003. Die Verse 40.29–69 und 22.24 beruhen auf Kiss 2020; einzelne Zitate und Korrekturen berücksichtigen Kiss 2011. Die genaue Textgrundlage und abweichende Nummerierungen stehen bei den Kapiteln und Versen.[1][2][3][4]

Die Devanagari-Umschrift gibt denselben Sanskritwortlaut wie die Seite mit IAST und deutscher Übersetzung wieder. †…† kennzeichnet problematische Wortfolgen, alleinstehende … eine Textlücke. Erläuterungen zu den Lesungen stehen bei der Übersetzung. Die Umschrift stellt keinen zusätzlichen Handschriftenzeugen dar.

Direkt zu den aufgenommenen Kapiteln: 1 · 2 · 3 · 4 · 5 · 6 · 7 · 8 · 9 · 10 · 11 · 12 · 13 · 14 · 15 · 16 · 17 · 18 · 19 · 20 · 22 · 27 · 28 · 40 · 44 · 54 · 55

Kapitel 1: Matsyendra und der Chola-König: Rahmenerzählung

मत्स्येन्द्रसंहिता

। ओं श्रीगणेशाय नमः ।

। श्रीनाथाय नमः ।

1.1

ओं वन्दे शम्भुजगन्नाथं सर्वविज्ञानधीमयम् ।
सर्वागममहारत्नधामं सागरम् ईश्वरम् ॥ 1.1 ॥

1.2

अप्रमेयगुणाधारं सर्वैश्वर्यफलप्रदम् ।
वन्दे ऽहं शांभवीसूनुं हेरंभं विश्ववन्दितम् ॥ 1.2 ॥

1.3

सर्वशास्त्रकलाधारं सर्वज्ञत्वप्रदायिनीम् ।
वागीश्वरीम् अहं वन्दे वागैश्वर्यप्रसिद्धये ॥ 1.3 ॥

1.4

अशेषदुरितव्रातनीहारकुलभावनः ।
शिवादिगुरवो मह्यं प्रसीदन्तु कृपालवः ॥ 1.4 ॥

1.5

शिवशैवागमांभोधौ सम्यक् क्रीडाविनोदिनम् ।
मत्स्येन्द्रनाथं नौमि सर्वज्ञं योगिनां वरम् ॥ 1.5 ॥

1.6

येन शम्भुमुखोद्गीतं शास्त्रसारं सुदुर्लभम् ।
सम्यग् आश्रावितं वन्दे मत्स्येन्द्रनाथम् अकल्मषम् ॥ 1.6 ॥

1.7

पुरा योगीवरः कश्चिद् अभिच्छत् सिद्धिम् आत्मनः ।
चचार धरणीम् एतां निर्ममो निरहंकृतिः ॥ 1.7 ॥

1.8

स पूर्वं दासजातीयो नावम् आरुह्य सागरे ।
वडिशेन महामत्स्यान् आनयत्य् अतिघृणः ॥ 1.8 ॥

1.9

कदाचित् पुलिने नद्या गुप्ताचारपरायणान् ।
शैवागमोक्तविधिना सपर्यासक्तमानसान् ॥ 1.9 ॥

1.10

ददर्श ब्राह्मणान् साधून् विविक्ते भक्तिभावनात् ।
†समाससादरं येवं† दृष्ट्वा च वडिशायुधः ॥ 1.10 ॥

1.11

जालोद्यतकरं तं च दृष्ट्वा ते ऽपि द्विजोत्तमाः ।
बभुवुर् व्यथिताः सर्वे साकं भयशङ्किताः ॥ 1.11 ॥

1.12

स चापि तान् उपासाद्य दासः समभिवीक्ष्य च ।
अब्रवीत् के भवन्तो ऽस्मिन् पुलिने ऽत्र समागताः ॥ 1.12 ॥

1.13

किम् इदं क्रियते कर्म भवद्भिर् इह गृहितैः ।
ब्रूत मे सकलं विप्रा भवताम् अत्र संस्थितिम् ॥ 1.13 ॥

1.14

ते चापि प्रोचुः स अस्माभिः पूज्यते परमेश्वरः ।
शम्भुर् गिरिजया साकम् अर्च्यते शास्त्रमार्गतः ॥ 1.14 ॥

1.15

नेदं च विदितं कर्म सर्वज्ञेन शिवेतरेण ।
घृणीतं पशुपाशौ च वेदनायातनाहतम् ॥ 1.15 ॥

1.16

य शिवोक्ताम् इमां साधु सपर्यां गुप्तम् आचरेत् ।
जीवन्मुक्तः स विज्ञेयः †सर्वदोषभयोस्थितः† ॥ 1.16 ॥

1.17

तस्माद् विमुक्तैर् अस्माभिः पूज्यते परमेश्वरः ।
प्राक् ध्यात बहुदोषाणि प्रवदन्ति बहुर्मुखानि ॥ 1.17 ॥

1.18

स सम्यग्वेदिनः पूजाम् इमां ये विघ्नयन्ति हि ।
ते योगिनीशापहताः विनश्यन्त्य् अचिरेण तु ॥ 1.18 ॥

1.19

तस्मात् त्वयापि सन्मार्गरक्षासंप्राप्तबुद्धिमान् ।
न वक्तव्यम् इमं गुह्यं लोकद्वयजिगीषुणा ॥ 1.19 ॥

1.20

यदि त्वम् इदम् अन्येषां न वदिष्यसि दासज कदाचन ।
षण्मासाद् आसादयसि स्वसिद्धिं परमदुर्लभाम् ॥ 1.20 ॥

1.21

इत्य् उक्त्वा वाचस् तान् भूयः सान्त्वयन्न् इव दासजः ।
नाहं वक्ष्यामि भद्रं वः परेषाम् ईदृशीं स्थितिम् ॥ 1.21 ॥

1.22

युष्मद् द्वेष न मे कश्चिद् धूर्य व्रजत निर्भयाः ।
जालो ऽस्मद् दैवतं तेन †शयेमेनान्यथालयः† ॥ 1.22 ॥

1.23

इत्य् उक्त्वा ते न विश्वासं प्राप्य नियान्त्रिकं च तम् ।
प्रोचुः परमसंतुष्टास् तस्यानुग्रहकारिणः ॥ 1.23 ॥

1.24

किम् ईहसे धनं दत्तम् अस्माभिर् अथवा प्रियम् ।
विद्यां वा दुर्लभतरां ब्रूहि यत् ते मनोमयम् ॥ 1.24 ॥

1.25

तैर् उक्तः स महासिद्धिर् इत्य् उवाच कृताञ्जलिः ।
विद्यां दत्ताम् अभिच्छामि भवद्भिर् अतिदुर्लभाम् ॥ 1.25 ॥

1.26

तद् अस्य सहवरं भावं दृष्ट्वा प्रोचुर् विदां वराः ।
अनेनाभृतमत्स्येन महापातकहारिणा ॥ 1.26 ॥

1.27

†निर्दूताखिलपापारुचां† विद्यां दिव्याम् अवाप्स्यसि ।
इत्य् उक्तः साभिषेकानां सप्रसादां यथाविधिः ॥ 1.27 ॥

1.28

ददुः विद्यां महात्मानो योगिनीनां महोदयाम् ।
दत्वा विद्यां च संदृश्य योगित्वं च धीमतः ॥ 1.28 ॥

1.29

प्रोचुः तं कर्मज्ञाः सस्नेहम् अनुशासनम् ।
जपध्यानपरो नित्याम् इमां विद्याम् अतन्द्रितः ॥ 1.29 ॥

1.30

वर्षत्रयेण या सिद्धिर् जायते ह्य् अजरामराः ।
महेश्वरप्रसादेन जायते सिद्धिर् उत्तमा ॥ 1.30 ॥

1.31

षण्मासाज् जायते सत्यम् इत्य् उक्त्वा प्रययुर् द्विजाः ।
दासो ऽपि तत् परित्यज्य स्वजालवडिशादिकम् ॥ 1.31 ॥

1.32

त्यक्तसंसारबन्धुश् च पशुपाशविवर्जितः ।
तस्मिन्न् एव सरिद्द्वीपे जपन्न् आस्ते महायशाः ॥ 1.32 ॥

1.33

तपस्याभिरतस्यास्य विजितेन्द्रियपद्धतेः ।
वत्सरार्धम् अतिक्रान्तं अहोरात्रं समं तदा ॥ 1.33 ॥

1.34

षण्मासान्ते महाभागं स्नातुम् अप्य् आगतं जले ।
जग्राह आसाद्य च महान् ग्राहो दैवप्रचोदितः ॥ 1.34 ॥

1.35

गिरिकूटनिभस्यास्य देहमध्यङ्गतो ऽपि सत् ।
†नमभाभं प्रसव्य† स्तत्तत्कोटरं वहिना ॥ 1.35 ॥

1.36

मत्स्यग्रस्तं स्वम् आत्मानं मन्यमानो महाद्युतिः ।
तत्रापि जपन्न् एव निनाय कतिचिद् दिनम् ॥ 1.36 ॥

1.37

एतस्मिन्न् एव काले तु कैलासाद्रिनिकेतनम् ।
पपृच्छासाद्य गिरिजा योगशास्त्रं सुगोपितम् ॥ 1.37 ॥

1.38

भगवन् मम सर्वज्ञ शम्भो वक्तुं त्वम् अर्हसि ।
योगं योगविदां श्रेष्ठ जरामरणनाशनम् ॥ 1.38 ॥

1.39

महीधरेन्द्रसुतया पृष्ट उवाच महेश्वरः ।
नेहाहं संप्रपश्यामि योगं परमदुर्लभम् ॥ 1.39 ॥

1.40

शृणयु स्त्वपरे देवि सुगोप्यं मृत्युनाशनम् ।
तस्माद् विविक्ताञ् चासाद्य वक्षे देशे समाहितः ॥ 1.40 ॥

1.41

इत्य् उक्त्वा भगवान् शम्भु गिरीन्द्रसुतया सह ।
प्रययौ जलधेर् द्वीपं विजनं बहुकाननम् ॥ 1.41 ॥

1.42

तदासीनः क्वचिद् देशे विविक्ते विजने शिवः ।
योगशास्त्रं समाचष्ट देव्यै चन्द्रार्धशेखरः ॥ 1.42 ॥

1.43

दासं ग्रस्त्वा महामत्स्यः सर्वतः परिचक्रमन् ।
तद् द्वीपगह्वरं प्राप्य तथा च †विधियाटिनः† ॥ 1.43 ॥

1.44

तस्योपरिष्टाद् विश्वात्मा शिवः परमदुर्लभः ।
योगशास्त्रं समाचष्ट गिरिजायै सुगोपितम् ॥ 1.44 ॥

1.45

मत्स्यदेहगतः श्रीमान् स च दासकुलोत्तमः ।
अश्रौषीद् अखिलं शास्त्रं सम्यक् शम्भुमुखोद्गतम् ॥ 1.45 ॥

1.46

यः पूर्वं विप्रवाग्वज्रहतपातकपर्वतः ।
भूयः श्रीशाम्भवं शास्त्रं श्रुतवान् अमृतोपमम् ॥ 1.46 ॥

1.47

तच्छास्त्रश्रवणोद्धूतमहापातकसञ्चयः ।
बभूव निर्मलमतिः सर्वज्ञः सर्वयोगिराट् ॥ 1.47 ॥

1.48

भगवान् अपि तत्रैव समासीनो महेश्वरः ।
योगशास्त्रं तदा देव्यै शतकोटिप्रविस्तरम् ॥ 1.48 ॥

1.49

उवाच चाखिलं तेन शुभं देव्यै सुदुर्लभम् ।
समाप्य शास्त्रं विधिवत् विश्वपाः शङ्करः ॥ 1.49 ॥

1.50

गन्तुम् ऐच्छन् महेशात्मा तस्मात् स्वधाम पूजितं ।
अथोवाच जलौकसदेहमध्यगतो महान् ॥ 1.50 ॥

1.51

अभीष्टदर्शनं तस्य शिवस्य परमेष्ठिनः ।
भगवंस् त्वन्मुखोद्गीतं शास्त्राणाम् अतिविस्तरात् ॥ 1.51 ॥

1.52

ग्राहदेहान्तरस्थेन प्रेरितेन विधातृणा ।
ममानुग्रहकामेन भवता परमेश्वरः ॥ 1.52 ॥

1.53

इदं देशम् अनुप्राप्य प्रोक्तं शास्त्रम् अनुत्तमम् ।
विप्रदत्तप्रसादस्य भुक्तपातकपद्धतेः ॥ 1.53 ॥

1.54

त्वयोक्तं शाम्भवं शास्त्रं सुकरं भवतु प्रभो ।
इति व्याहृतम् आकर्ण्य शम्भु स्मृत्वा मुहूर्तकम् ॥ 1.54 ॥

1.55

प्रोवाच गिरिजां देवीं सर्वलोकनमस्कृतः ।
महादेशो ऽयम् इति मत्वा मया शुभे ॥ 1.55 ॥

1.56

प्रोक्तं योगं तद् वैपि मत्स्योक्तं मर्त्यजन्मना ।
मद्भक्तवचनाद् एव मत्प्रसादप्रभावतः ॥ 1.56 ॥

1.57

तस्माद् अस्य पुनर् दास्ये वरं भक्तप्रचोदितः ।
सत्यं कर्तुम् अभीच्छामि तत्प्रसादाधृतात्मनाम् ॥ 1.57 ॥

1.58

ब्राह्मणानां वचः श्रुत्वा गुप्तज्ञानविदाम् अहम् ।
†इत्य् उक्तो त्पाद्य मत्स्यं† तनुम् उज्जहारास्य कोष्ठतः ॥ 1.58 ॥

1.59

योगिनं तम् उदारात्मा भगवान् परमेश्वरः ।
सो ऽपि दृष्ट्वा तदा रुद्रं सार्धं गिरिजया स्थितम् ॥ 1.59 ॥

1.60

तत्प्रसादं समालभ्य दिव्यज्ञाननिधिः स्वयम् ।
तुष्टाव परमेशानं एकाग्रच्छदयोगतः ॥ 1.60 ॥

1.61

ओं नमस् ते शम्भवे देवाय शिवाय परमेष्ठिने ।
दिव्ययोगमहाशास्त्रशारदायाखिलात्मने ॥ 1.61 ॥

1.62

नमस् ते भोगिने योगदायिने शुभयोगिने ।
महासत्राय सन्मार्गपालिने मृत्युमूर्तये ॥ 1.62 ॥

1.63

डाकिन्यादिमहासप्तयोगिनीवृन्दमण्डलैः ।
सप्ताधारपदे सम्यक् पूजिताया रूपिणे ॥ 1.63 ॥

1.64

योगिनीनां चतुःषष्टिः षण्णां मध्यनिवासिने ।
परमामृतसंतृप्तसद्भावानन्दमूर्तये ॥ 1.64 ॥

1.65

जीवन्मुक्तपदप्राप्तिकारणामृतदायिने ।
भक्तानाम् अखिलज्ञानप्रदानासक्तचेतसे ॥ 1.65 ॥

1.66

स्वप्रसादसमुक्तं भक्तपातकराशये ।
†स्वप्रजाप्यान्† जप्यादि विघ्नकोटिविभेदिने ॥ 1.66 ॥

1.67

श्रीशांभवमहाशास्त्रप्रधानसुरधेनवे ।
कल्पद्रुमाय भक्तानां कामितार्थप्रदायिने ॥ 1.67 ॥

1.68

स्वशक्तिमहिम … त पशुपाशाय मायिने ।
रमणीयगुणाधारमूर्तये लिङ्गमूर्तये ॥ 1.68 ॥

1.69

भैरवाष्टकरूपाय भक्तानां भयहारिणे ।
अर्गलाहि महामन्त्ररूपिणे मन्त्रभेदिनि ॥ 1.69 ॥

1.70

बालार्कबिम्बमध्योत्थ सुधावि … नस्वैः ।
सन्तार्पितमहामूर्तिभेदकोटिशतात्मने ॥ 1.70 ॥

1.71

भ्वादिकूटन्यस्तजराकालमृत्युभयात्मने ।
साद्रिकूटमहादिव्यनिष्कलारूपरूपिणे ॥ 1.71 ॥

1.72

क्रादिकूटमहाबीजत्रयसंस्थितशोधिने ।
लब्धसाम्राज्यविभवश्रीविद्यायोगचारिणे ॥ 1.72 ॥

1.73

भौतिकादिमहामूलविद्यात्रयसमर्थिने ।
सद्यः संलब्धसद्भावपरमानन्दशालिने ॥ 1.73 ॥

1.74

महाश्रीशाम्भवीदीक्षालब्धब्रह्मादिसम्पदे ।
वलिपलितनाशैकमूर्तये ऽमृतदायिने ॥ 1.74 ॥

1.75

गुप्त … वर्णविद्यालब्धसिद्धिपरामृतैः ।
हालाहलोल्लोलकलनशमकारिणे ॥ 1.75 ॥

1.76

दिव्यामृत … चन्द्रपूजितविग्रहे ।
जरामरणार्तिदारिणे पापहारिणे ॥ 1.76 ॥

1.77

श्रीशाम्भवामृतास्वाद … योगकलेवरे ।
विलीनपातकव्रातहारिणे परमाणवे ॥ 1.77 ॥

1.78

महाधामाग्र … †त्यध्र मध्यवासिपटाङ्घिणे† ।
महारसायनास्वादामृतपूतमहात्मनी ॥ 1.78 ॥

1.79

महाव्याधिमहामृत्युमहापलितदारिणे ।
सर्वावयवसौन्दर्यगुणशृङ्गारवेषिणे ॥ 1.79 ॥

1.80

नमस् ते परमानन्दरूपरूपाय शम्भवे ।
महाभूतपिशाचादिभयहर्ते महात्मने ॥ 1.80 ॥

1.81

महोत्पातमहाघोरदुःखघ्नभयनाशिने ।
नमस् ते क्षेत्रपालाय लोकरक्षाविधायिने ॥ 1.81 ॥

1.82

गुप्ताचारगुहां प्राणग्रसनासक्तचेतसे ।
श्रीमत्समयसन्मार्गपालकानां महात्मनाम् ॥ 1.82 ॥

1.83

महासाम्राज्यसौभाग्ययोगवृद्धिप्रदायिने ।
शक्त्यालिङ्गितदेवाय शम्भवे सकलात्मने ॥ 1.83 ॥

1.84

नमः शिवाभ्याम् इष्टा फलदाभ्यां यतात्मने ।
श्रीमन्महेश्वरज्ञानपालकाभ्यां नमो नमः ॥ 1.84 ॥

1.85

एवं स्तुतः शिवः शान्तः प्राप्तेनानेन योगिना ।
प्रसादात् तु मुखं प्राह वरं च प्रददौ तदा ॥ 1.85 ॥

1.86

†न चैवं ह्याह† तं शास्त्रं सुगुप्तं भवता श्रुतं ।
तदारभ्य दिवारात्रं नियतम् अतन्द्रतः ॥ 1.86 ॥

1.87

भविष्यामि ततो योगी लोके ऽस्मिन् ह्य् अजरामरः ।
आत्मवन्तं महात्मानं शिष्यं कृत्वा जितेन्द्रियम् ॥ 1.87 ॥

1.88

ब्रूहि गुह्यम् इदं शास्त्रं अस्मिन् लोके यथा भवेत् ।
मत्प्रसादाच् च ते सिद्धिर् भविष्यत्य् अजरामरा ॥ 1.88 ॥

1.89

यस्मात् त्वम् इह मत्स्यस्य मध्यदेशात् समुद्गतः ।
तस्मान् मत्स्येन्द्रनाथाख्यो भविष्यसि जगत्त्रये ॥ 1.89 ॥

1.90

यद् इदं व्याहृतं स्तोत्रं त्वया योगविदां वर ।
जपतां योगसंसिद्धिं ददामि वर्षत्रयात् ॥ 1.90 ॥

1.91

इत्य् उक्त्वा अन्तर्हितः शम्भुः सह देव्या त्रिलोचन ।
योगिमत्स्येन्द्रनाथो ऽपि यथा भगवतो दिवम् ॥ 1.91 ॥

1.92

कृत्वा यस्य समाराध्य गुह्याचारविधानवित् ।
†त्वद् भेदा रसिकां† सिद्धिं देवैर् अपि सुदुर्लभाम् ॥ 1.92 ॥

1.93

ततः शम्भोर् वचः श्रुत्वा लोकानुग्रहकाम्यया ।
मेदिनीं परिचक्राम †विधिनून्† शिष्यम् आत्मनः ॥ 1.93 ॥

1.94

स लोके नाससादैकं शिष्यम् आत्मगुणोपमं ।
यदा न लेभे सर्वज्ञं शिष्यं योगविदां वरः ॥ 1.94 ॥

1.95

यद् एवं व्याहृतं वाचा परिचक्राम भूतले ।
आधिमृत्युमहाग्राहग्रस्तम् एतच् चराचरम् ॥ 1.95 ॥

1.96

विद्यमाने ऽमृते दिव्ये शम्भुप्रोक्ते सुदुर्लभे ।
इत्य् †उद्घैर् उदिर्त्वा† चा चरत्य् एव दिवानिशम् ॥ 1.96 ॥

1.97

ततः कालेन महता चोलो राजा महायशाः ।
सुश्राव तस्य तां वाणीं दुर्ज्ञेयं बुधैः जनैः ॥ 1.97 ॥

1.98

स विविक्ते महात्मानं मत्स्येन्द्रं योगिनां वरम् ।
अब्रवीद् भूपतिः प्रीत्या जिज्ञासस् तस्य कारणम् ॥ 1.98 ॥

1.99

कस् त्वं प्राकृतवेषेण चरिष्य् अनमरोपमः ।
का त्वया गीयते गाथा शम्भुप्रोक्ता च का शुभा ॥ 1.99 ॥

1.100

श्रोतुम् इच्छामि ते गुह्यं श्रोतव्यं यदि सत्तम ।
इत्य् उक्तः स महायोगी चोलेन धरणीभुजा ॥ 1.100 ॥

1.101

प्रोवाचैनं त वक्तव्यं गुह्यं राजकुलोद्भवम् ।
कालेन ते प्रवक्ष्यामीत्य् उक्त्वान्तरधीयत ॥ 1.101 ॥

1.102

तस्मिन्न् अन्तर्हिते मत्स्यनाथे चोलमहीपतिः ।
चिन्ताशोकसमाविष्टः प्रदध्यौ मनसा चिरम् ॥ 1.102 ॥

1.103

हा हन्त खल्व् अयं को नु चरत्य् एतन् महीतले ।
किमर्थं यति रोगतः किं मया प्रकृतं तस्य ॥ 1.103 ॥

1.104

नूनम् एष स्वयं शम्भुर् अथवा हरिर् अव्ययः ।
नान्येषाम् ईदृशो भावो भविष्यति कदाचन ॥ 1.104 ॥

1.105

कदा पश्याम्य् अहं भूयः इति संचिन्त्य पार्थिवः ।
चिन्तां तीव्रां समापेदे तद् दर्शनसमुत्सुकः ॥ 1.105 ॥

1.106

पुनश् च चिन्तयामास कालेन महता तपः ।
गुह्यम् एतत् प्रवक्ष्यामीत्य् उक्त्वा ऽन्तर्हितः स्वयम् ॥ 1.106 ॥

1.107

एतद् एव देवानुग्रहं मम साम्प्रतं ।
इत्य् उक्त्वा निर्ययौ राजा नगराद् †एकपवसः† ॥ 1.107 ॥

1.108

मत्स्येन्द्रनाथं योगीन्द्रं द्रष्टुम् इच्छन् उदारधीः ।
चचार †सचारम् एतां† अवधूतः शिवः स्वयम् ॥ 1.108 ॥

1.109

तम् एव मनसा ध्यायन् शाकमूलक्षताशनः ।
अथ संवत्सरे पूर्णे गोमन्ते नागसत्तमे ॥ 1.109 ॥

1.110

कदाचित् … षा तप्तो राजा संशयम् आगतः ।
श्रमेण महता युक्तः तथा तत्व महीतले ॥ 1.110 ॥

1.111

ततो मत्स्येन्द्रनाथो ऽपि … प्राप्तं नराधिपं ।
विस्मापयन् जगामाशु रूपविभु तिरस्कृतम् ॥ 1.111 ॥

1.112

नराधिपः ततो मधी पूर्णकलापभृत् ।
श्रिया कदाचित् ह्य् अनुपातैः शुचिर् वृतः ॥ 1.112 ॥

1.113

†महालचुमदा† ख्यातो पूर्णमानाक्षिमण्डलः ।
प्रादुरासन् सुरास् तस्य पौर्वां गाथाम् उदीरयन् ॥ 1.113 ॥

1.114

सो ऽपि दृष्ट्वा तदा प्राप्तं तञ् च वेषम् अनिन्दितम् ।
आसाव् इति च विज्ञाय परिदध्यौ मुहूर्तकम् ॥ 1.114 ॥

1.115

निन्दिते तत्स्वरूपेण मोहं विष्यति माम् अयम् ।
तस्माद् इतं मोक्ष्यामि वन्दनीयश् च सर्वथा ॥ 1.115 ॥

1.116

इत्य् उक्त्वोत्थाय तत्पादौ गृहीत्वा वाक्यम् अब्रवीत् ।
कस् त्वं मे ब्रूहि तत्त्वेन तृप्तो ऽहं तव साम्प्रतम् ॥ 1.116 ॥

1.117

त्वद्दर्शनम् अभीच्छत्रै पये … त्वा महीम् इमाम् ।
कथञ्चिद् †अमहद्राक्षं† त्वं च मे तिरस्कृतः ॥ 1.117 ॥

1.118

किम् एतद् इति विज्ञानं नैव शक्नोमि चिन्तयन् ।
ब्रूहि मे तव वृत्तान्तं कस् त्वं प्रकृतरूपवान् ॥ 1.118 ॥

1.119

इत्य् उक्तः सान्त्वयित्वा एनं सम्यक् पृष्टं द्विजेन ।
विविक्ते साभिषिक्तां च विद्यां दत्वा महाशयाः ॥ 1.119 ॥

1.120

योगित्वं प्रददौ तस्मै सम्यक् प्रोक्तेन कर्मणा ।
यदा योगतापास्त पशुपाशो महायतिः ॥ 1.120 ॥

1.121

तदास्य कथयामास शाम्भवं शास्त्रम् उत्तमम् ।
श्रुतं मया शम्भुमुखात् शास्त्रसारं सुदुर्लभम् ॥ 1.121 ॥

1.122

कथ्यमानं महेशान्यै यच् छृणु समाहितः ।
शिवेन च समाख्यातं सच्छिष्यायेदम् उत्तमम् ॥ 1.122 ॥

1.123

मया प्रोक्तं न वक्तव्यं लोकानुग्रहकारणात् ।
त्वं चेच् छ्रुत्वा समभ्यस्य शास्त्रं शाम्भवम् उत्तमम् ॥ 1.123 ॥

1.124

†मुमहायोगसाम्राज्यं† लब्ध्वा जित्वा जरामरः ।
शास्त्राणाम् अमृतं सर्वेषां सर्वज्ञेन शिवेन च ॥ 1.124 ॥

1.125

मत्प्रणीतम् अमलं शास्त्रं तत्प्रमाणं न संशयः ।
यदि चेद् अप्रमाणं स्यात् शास्त्रं सर्वत्र चाखिलम् ॥ 1.125 ॥

1.126

किं प्रमाणं जगत्य् अस्मिन् दृश्यते शास्त्रकोटिषु ।
प्रमाणं शाम्भवशास्त्रं प्रवदन्ति विपश्चितः ॥ 1.126 ॥

1.127

तस्माज् ज्ञेयम् इदं शास्त्रं गुरुवक्त्रात् सुदुर्लभम् ।
योगविद्याविहीनानां पशूनाम् असुरात्मनाम् ॥ 1.127 ॥

1.128

बहिर्मुखानां तन्निन्दामानसानां दुरात्मनाम् ।
गुह्याचारद्रुहां तर्कभेदवादोपसेविनाम् ॥ 1.128 ॥

1.129

शम्भुप्रसादहीनानां तत्सपर्याविरोधिनाम् ।
न वक्तव्यम् इदं शास्त्रं गोप्यं श्रीशम्भुभाषितम् ॥ 1.129 ॥

1.130

नेदं लाक्षणिकं शास्त्रं पशुधीवृद्धिगोचरम् ।
गुरुप्रसादतो लभ्यं नोपहास्यं हि सात्त्विकैः ॥ 1.130 ॥

1.131

न संसदि वदेत् एनं सताम् अपि कदाचन ।
विजनेषु प्रवक्तव्यम् इत्य् आज्ञा पारमेश्वरी ॥ 1.131 ॥

1.132

तं च श्रुत्वा इदं शास्त्रं सम्यग् अभ्यस्य यत्नतः ।
चोलेन्द्रनाथ नामा त्वं भविष्यसि योगिराट् ॥ 1.132 ॥

1.133

पुरा महार्णवमध्ये तु द्वीपवर्ये महेश्वरम् ।
पप्रच्छ परमेशानी विविक्ते शृण्वतो तम् ॥ 1.133 ॥

1.134

तत् ते वक्ष्याम्य् अहं सर्वं सिद्धानां हितकाम्यया
तपो न सारो ऽध्ययनं न सारो
यज्ञो ऽथ दानप्रचयं न सार
सम्पत्तिचय न सारो
दिव्यागमो ऽयं खलु सारसारः ॥ 1.134 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां प्रथमः पटलः ॥ 1 ॥


Kapitel 2: Rituelle Körperreinigung und innere Haltung

॥ द्वितीयः पटलः ॥

श्रीदेव्य् उवाच

2.1

जय सर्वज्ञ विश्वेश त्र्यम्बकाखिलवन्दित ।
सर्वागममहाशास्त्रसारज्ञ परमेश्वर ॥ 2.1 ॥

2.2

भवतां कथितं शास्त्रं मयाश्रावि सुविस्तरात् ।
†तन्त्रमेषु† चिरं शास्त्रं शाम्भवं योगसाधनम् ॥ 2.2 ॥

2.3

न च विस्तरतः प्रोक्तो इदानीं विस्तराद् वद ।
अप्रकाश्यं महाशास्त्रम् इत्य् आदौ प्रोक्तवान् स्वयम् ॥ 2.3 ॥

2.4

देशो ऽयं निर्जनः शान्तो निराबाधो ऽपि दृश्यते ।
योगसारं ममाचक्ष्व तस्माद् इह यथा तथा ॥ 2.4 ॥

2.5

देहशुद्धिः कथं देव कथं स्याद् आसनक्रमः ।
प्राणायामः कथं प्रोक्तः प्रत्याहारः कथं भवेत् ॥ 2.5 ॥

2.6

कथं साधारणो योगो ध्यानयोगश् च कीदृशः ।
कथं श्रीकुण्डलिनीयोगः त्रिलिङ्गा चापि कीदृशी ॥ 2.6 ॥

2.7

कानि क्षेत्राणि देहे ऽस्मिन् कानि तीर्थानि शङ्करः ।
सर्वस्नानाधिकस्नानं कः परः परमेश्वरः ॥ 2.7 ॥

2.8

काप्यौषधप्रयोगानि किञ् चिद् एव रसायनम् ।
कथं स्यात् पादुकासिद्धिर् देहसिद्धिः कथं भवेत् ॥ 2.8 ॥

2.9

वेतालसिद्धिश् च कथं कपालस्य च साधनम् ।
कथम् अञ्जनसिद्धिस् स्याद् यक्षिणीसिद्धिर् एव च ॥ 2.9 ॥

2.10

अणिमादिः कथं देव योगिनीमेलनं कथम् ।
एतान्य् एव तथान्यानि भवता सूचितानि च ।
तानि सर्वाणि ब्रूहि विस्तरेण महेश्वर ॥ 2.10 ॥

श्रीमहेश्वरः उवाच

2.11

शृणु देवि प्रवक्ष्यामि योगशास्त्रं सुदुर्लभम् ।
येन विज्ञानमात्रेण †भैरवा भवितानि† च ॥ 2.11 ॥

2.12

देहशुद्धिं प्रवक्ष्यामि तत्रादौ सर्वसिद्धये ।
न सिद्धिर् जायते तेन विना वर्षायुतैर् अपि ॥ 2.12 ॥

2.13

तस्मात् सर्वप्रयत्नेन देहशुद्धिं समाचरेत् ।
येन सम्यगापूतात्मा सिद्धिं पारमिकां लभेत् ॥ 2.13 ॥

2.14

प्रातः स्नात्वा यथा न्यायं भस्मना सलिलेन वा ।
मन्त्रस्नानं प्रकुर्वीत तद् यथा शृणु पार्वति ॥ 2.14 ॥

2.15

गृहीत्वा दक्षिणे हस्ते जलं चुलुकमात्रकम् ।
वामाङ्गुष्ठानामया च स्पृशन् तेन समाहितः ॥ 2.15 ॥

2.16

सबिन्दुकैर् भूतबीजैः पञ्चप्रणवसंयुतैः ।
प्रजपेत् सप्तधा देवि मूलमन्त्रेण च त्रिधा ॥ 2.16 ॥

2.17

वामाङ्गुलिशिलायोगाज् जलेन सह दीपितम् ।
पातकं प्रक्षिपेद् वामे शिववज्रशिलोपरि ॥ 2.17 ॥

2.18

अथाचम्य त्वात्मानं दोषहत्यादिशान्तये ।
प्रोक्षयेन् मूलमन्त्रेण तत्पूतं त्रिः पिबेज् जलम् ॥ 2.18 ॥

2.19

ततः स्वदेहम् आभाव्य मुद्रया धेनुरूपया ।
मूर्धादिपादपर्यन्तं मुक्तशेषं पुनस् तनुम् ॥ 2.19 ॥

2.20

परिभाव्य चिरं देवि भूतबीजैस् तथा पुनः ।
पादे गुह्ये च मौने च हृदि मूर्ध्नि सबिन्दुकैः ॥ 2.20 ॥

2.21

विन्यस्य व्यापयेत् पञ्चतारसम्पुटपूर्वकैः ।
प्रजपेच् च यथाशक्ति पञ्चप्रणवसम्पुटात् ॥ 2.21 ॥

2.22

एवं प्रोक्तं मया देवि कर्म तद् अघमर्षणम् ।
अनेन स्नानमात्रेण गताहोरात्रिपातकम् ॥ 2.22 ॥

2.23

सर्वतीर्थस्थानपुण्यम् आप्नुयान् नात्र संशयः ।
भस्मस्नानविधिं वक्ष्ये येन योगी मलक्षयम् ॥ 2.23 ॥

2.24

लभते सर्वसिद्धीनाम् आधिपत्यम् अवाप्नुयात् ।
वामहस्ततले भस्मं गृहीत्वा परमेश्वरि ॥ 2.24 ॥

2.25

संस्पृशन् दक्षहस्तेन न्यासम् एवं समाचरेत् ।
पञ्चतारं समुच्चार्य व्योमेन्द्राननबिन्दुवत् ॥ 2.25 ॥

2.26

बीजम् उक्ता †निवृत्यं† ते प्रवेदेच् च कलात्मने ।
नमो तं देव देवेशि पादयोः परिविन्यसेत् ॥ 2.26 ॥

2.27

चतुः प्रणवम् उच्चार्य व्योमाम्बुशशिदृग्युतम् ।
सबिन्दुकं बीजम् उक्त्वा प्रतिष्ठा शब्दम् उच्चरेत् ॥ 2.27 ॥

2.28

कलात्मने नमो ऽन्तं च नाभौ मन्त्रं प्रविन्यसेत् ।
प्रणवत्रयम् उच्चार्य कण्ठे †शानलनृत्† स्वनैः ॥ 2.28 ॥

2.29

बिन्दुबीज समुच्चार्य पुनर् विद्याकलात्मने ।
नमो तं हृदि विन्यस्य पुनश् च प्रणवद्वयम् ॥ 2.29 ॥

2.30

प्रोच्य व्योमानलमहाभौतिकार्धेन्दुभूषितम् ।
बीजं प्रोच्य महाशान्तिर् आद्यन्ते च कलात्मने ॥ 2.30 ॥

2.31

नमो तं विन्यसेद् वक्त्रे प्रोच्य च प्रणवं पुनः ।
व्योमयुग्मानुग्रहे … बीजान्ते शान्त्यभीतकम् ॥ 2.31 ॥

2.32

पदम् उक्त्वा कला ते वै †चातवेति† नमः पदम् ।
मन्त्रं प्रविन्यसेत् मूर्ध्नि प्रतिलोमेन चैव हि ॥ 2.32 ॥

2.33

एतान्य् एवं प्रविन्यस्येच् छान्त्यतीतादिकान् क्रमात् ।
एवं विन्यस्य मेधावी ऋष्यादीन् विन्यसेत् पुनः ॥ 2.33 ॥

2.34

अथ मूर्धा च ऋषिर् अनुष्टुप्श् छन्द उच्यते ।
देवता परमेशानि देवः पशुपतिः स्वयम् ॥ 2.34 ॥

2.35

ऋष्यादीनां तु विन्यस्य पुनर् एव समुच्चरेत् ।
अग्निर् इति वायुर् इति व्योमेति जलम् इत्य् अपि ॥ 2.35 ॥

2.36

त्रि मन्त्राणि च भस्मानि भस्मान्तानि पृथक् पृथक् ।
सर्वं ह वा पदं प्रोच्य भस्मपदं पुनः ॥ 2.36 ॥

2.37

मन इत्य् एतानि पदं चक्षुषि पदम् उच्चरेत् ।
भस्मानीनि पदं भूयः †प्रोक्तायं† वाक्षरेण तु ॥ 2.37 ॥

2.38

रुद्रवारं जपित्वैवं विभाव्य च करे त्रिधा ।
आद्यां चा पञ्च धी क्षत्वा †नेमेशनाय† चेति च ॥ 2.38 ॥

2.39

आकाशात्मने नम इति शिरस्य् एकं विनिक्षिपेत् ।
मं तत्पदं समुच्चार्य पुरुषायानिलात्मने ॥ 2.39 ॥

2.40

नमश् चेति द्वितीयांशे सविभज्य च पञ्चधा ।
पञ्चार्णैर् धीस् तथेशादिमूर्तिभिः सचतुर्थकैः ॥ 2.40 ॥

2.41

ऊर्ध्वं प्रदक्षिणे दिव्ये पश्चिमे प्रमुखेषु च ।
वक्त्रात्मने ति नत्यं तैः कर्मणे च विनिक्षिपेत् ॥ 2.41 ॥

2.42

पुनस् तृतीयकं चांशं प्रोक्ता पञ्चाक्षरं सुधीः ।
कुर्याद् योगी त्रिपुण्डाणि सर्वदुःखोपशान्तये ॥ 2.42 ॥

2.43

†एतदोत्नेयम्† उद्दिष्टं स्नानं पातकनाशनम् ।
पुण्यं पाशुपतं देवि पशुपाशविमोचनम् ॥ 2.43 ॥

2.44

एवं स्नानादिसंशुद्धः प्रातः प्रातः समाहितः ।
सप्त सप्त यथा न्यायं शोषणादि समाचरेत् ॥ 2.44 ॥

2.45

भां तां तं बिन्दुसंयुक्तं उच्चरन् प्रणवादिकम् ।
इडया वायुम् आपूर्य कुम्भकेन महेश्वरि ॥ 2.45 ॥

2.46

मूलाधारे स्मरेद् बिन्दुं षड्गालङ्कृतमण्डलम् ।
धूम्राभं †मत्तिलं† बीजं तस्य मध्ये विभावयेत् ॥ 2.46 ॥

2.47

तन्मध्याद् अद्भुतं वायुं आपादतलमस्तकम् ।
शोषयन्तं स्वकं देहं पाप्मना सह संस्मरेत् ॥ 2.47 ॥

2.48

अथ तं रुद्रम् अनिलं देवि पिङ्गलया शनैः ।
प्रमुञ्चेत् पूर्ववद् बीजम् उच्चरेद् भुवनेश्वरि ॥ 2.48 ॥

2.49

भूयः समतनुर् भूत्वा प्राणार्णं प्रजपेच् छनैः ।
यथा शक्तिचरं ध्यायेत् सशुष्कं सकलेवरम् ॥ 2.49 ॥

2.50

सप्तकृत्वश् चरेद् एवं शोषणं पर्वतात्मजे ।
ततः स्वच्छृदये दीप्तां सुरक्तप्रभयान्वितम् ॥ 2.50 ॥

2.51

कृशानोर् मण्डलं ध्यात्वा तन्मध्ये बीजम् आनसम् ।
पातान्तबिन्दुसहितं ध्यायेत् तद्वर्णमध्यतः ॥ 2.51 ॥

2.52

प्रादुर्भूतमहाज्वालामण्डलोदारविग्रहम् ।
ग्रहं चित्रार्कं चिन्तयेद् अर्कनाडीमार्गेण खे गतिम् ॥ 2.52 ॥

2.53

प्रपूर्य कुम्भकावस्थां प्राप्य वायुं विशोषितम् ।
प्रदहेद् आत्मनो देहं एनसा साकम् आत्मवित् ॥ 2.53 ॥

2.54

पुनर् विशोधितं प्राणम् इडाचक्रेण वा त्वरन् ।
विमुच्येत् स्वस्य देहस् तु यथाशक्त्य् आनलं जयेत् ॥ 2.54 ॥

2.55

पूर्वोक्तसंख्यया सम्यग् आचरेद् देवि दाहनम् ।
अनेन विधिना सर्वं पातकानि दहेत् ध्रुवम् ॥ 2.55 ॥

2.56

अग्रे देवि भ्रुवोर् मध्ये सुषिरं चन्द्रमण्डलम् ।
यशोहारं समुद्दिष्टं तन्मध्यस्थं विभावयेत् ॥ 2.56 ॥

2.58

ततस् तद् वर्णितं भूतं चैन्द्रतारसुधातनुम् ।
श्रवं सममृतं शुभ्रं भावयेच् चिरम् आदरात् ॥ 2.58 ॥

2.59

इडाचक्रे समापूर्य पवनं कुम्भकान्वितम् ।
तच्चन्द्रगतपीयूषधारया शीतलात्मना ॥ 2.59 ॥

2.60

आसिञ्च्य अनलसंदिव्यं पुनर्जातं च तत् तनुम् ।
चिन्तयेत् कलुषैर् मुक्तं तेजोरूपं चिदात्मवित् ॥ 2.60 ॥

2.61

पिङ्गलायां समुत्सृज्य यथाशक्ति जपेच् च तम् ।
सप्तकृत्वस् तु कृत्वैवम् इडापिङ्गलयोः परे ॥ 2.61 ॥

2.62

आपूर्य कुम्भकः प्राणं पिनाकीशं सबिन्दुकम् ।
प्रोच्चरन्तं महाशक्तिसारभूतं कलेवरम् ॥ 2.62 ॥

2.63

सम्भावेच् छनैर् वायुं उभाभ्यां सम्यग् उत्सृजेत् ।
भूयः समतनुः स्वच्छं स्वदेहं देवतामयम् ॥ 2.63 ॥

2.64

ध्यायेच् चिरं प्रसन्नात्मा जपेत् मन्त्राणि चैव हि ।
अनेन विधिना शुद्धदेहे †स्मिनोर्† सिद्धयः ॥ 2.64 ॥

2.65

प्रवर्तन्ते ऽचिराद् एव चान्यथानर्थकृद् भवेत् ।
भावेन सह शुद्धश् चेत् सर्वयोगम् आप्नुयात् ॥ 2.65 ॥

2.66

भावहीनस्य नैवास्ति सिद्धिर् वर्षायुतैर् अपि ।
उदकुम्भसहस्रेण मृदाढकशतेन वा ॥ 2.66 ॥

2.67

अपि वर्षसहस्रेण भावदुष्टो न शुध्यति ।
तस्माद् एतानि देवेशि भावपूतः समाचरेत् ।
इति षण्मासतः शुद्धः सम्यग् योगं प्रिये लभेत् ॥ 2.67 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां द्वितीयः पटलः ॥


Kapitel 3: Asanas und Bedingungen der Übung

॥ तृतीयः पटलः ॥

ईश्वर उवाच

3.1

अथासनक्रमं वक्ष्ये साधकानां हिताय वै ।
यदभ्यासक्रमेणैव स्थिरत्वं सुकरं भवेत् ॥ 3.1 ॥

3.2

समादाय शुचौ देशो … + … + … †वस्तीतरं छदं† ।
शङ्खं च दक्षिणे स्थाप्य सम्यग् वामोरुमूर्धनि ॥ 3.2 ॥

3.3

समग्रीवशिरोवक्त्रं हस्तौ विन्यस्य चोपरि ।
आकुञ्च्य गुदमेकाग्रो वीरासनम् इदं परम् ॥ 3.3 ॥

3.4

अनेन आसनयोगेन योगरूढः प्रसिध्यति ।
न चाभ्यासविधि वै तच् छेत्स्यति सर्वसिद्धये ॥ 3.4 ॥

3.5

तस्यैवं दक्षिणां जङ्घां न्यसेद् वामोरुमूर्धके ।
कूर्मासनं तद् विज्ञेयं सर्वेन्द्रियवशं करम् ॥ 3.5 ॥

3.6

दक्षपादं च वामोरु मूले विन्यस्य तत्पदम् ।
दक्षोरुमूलपीठार्थं कल्पयेत् सुदृढासनम् ॥ 3.6 ॥

3.7

बाहुयुग्मं समुत्क्ष्य श्वलिकासंमीरितम् ।
सर्वसिद्धिप्रदं देवि सर्वरोगविनाशनम् ॥ 3.7 ॥

3.8

वामगुल्फम् अधः कृत्वा कूर्चोपरि च दक्षिणम् ।
गुदेनापीड्य वै जानुयुगलं परिपाल्य च ॥ 3.8 ॥

3.9

वामहस्ताङ्गुलीमूलम् अवष्टभ्य यथाबलम् ।
दक्षिणहस्ताङ्गुलिमूलैः परिवर्त्य च तत्तलो ॥ 3.9 ॥

3.10

ऊरुमूलद्वये पीड्य स्थानाग्रे स्थापयेद्दृशौ ।
कुक्कुटासनम् एतद् धि मनसः स्थिरकारणम् ॥ 3.10 ॥

3.11

ऊरुमूलद्वयाद् अधस्तात् पादयुग्मं निधाय च ।
तयोर् मध्ये स्थिरगुद पृच्छानुच्छ्य निश्चलः ॥ 3.11 ॥

3.12

तथा करतलद्वन्द्वं शिलथ्य परस्परम् ।
ऊर्वोर् उपरि विन्यस्य नासिकाम् अवलोकयेत् ॥ 3.12 ॥

3.13

मयूरासनम् एतद् वै सर्वव्याधिविनाशनम् ।
एतस्य बाहुयुगलं कारयेद् दण्डयुग्मवत् ॥ 3.13 ॥

3.14

करद्वयतलं भूमौ पुटाकारं निधापयेत् ।
किञ्चिद् आनमितं तु निश्चलस्थिरमानसः ॥ 3.14 ॥

3.15

पुरोवलोकयेद् समग्रीवः समाहितः ।
व्याघ्रासनम् इदं सद्यो व्याधिघ्नं योगसिद्धिदम् ॥ 3.15 ॥

3.16

वामपादम् अथोत्तानं कृत्वा दक्षोरुमण्डले ।
दक्षपादं तु वामोरौ तथाभूतं निधापयेत् ॥ 3.16 ॥

3.17

ऊरुभ्याम् उपरि स्थाप्य बाहुं न्यस्य यथार्थतः ।
करपृष्ठं दक्षस्यास्य न्यसेद् वामतलान्तरे ।
ऋजुग्रीवशिरो भूत्वा तथाभूतं निधापयेत् ॥ 3.17 ॥

3.18a

ऊरुभ्याम् उपरि स्थाप्य बाहुं न्यस्य यथार्थतः ।
करपृष्ठं दक्षस्यास्य न्यसेद् वामतलान्तरे ॥ 3.18अ ॥

3.18

ऋजुग्रीवशिरो भूत्वा नासिकाम् अवलोकयेत् ।
तन्निमीलनं चोन्मीलनं कुर्याद् आकुञ्च्य वै गुदम् ॥ 3.18 ॥

3.19

समदेहस्थिरमतिः पद्मासनम् इदं पदम् ।
सर्वयोगप्रसिद्ध्यर्थम् अभ्यस्तं भवति प्रिये ॥ 3.19 ॥

3.20

वामजङ्घोपरि स्थाप्य दक्षजङ्घां जितेन्द्रियः ।
दक्षजङ्घाधरे वामगुल्फपार्श्वं निधापयेत् ॥ 3.20 ॥

3.21

हस्तादिनाभिपर्यन्तं पद्मासनवद् आचरेत् ।
विजयासनम् एतद् धि सर्वसिद्धिकरं परम् ॥ 3.21 ॥

3.22

ऊरुभ्याम् उपरि स्थाप्य पादयुग्मं प्रयत्नतः ।
दक्षिणं सव्यदेशे च सव्यं दक्षिणदेशके ॥ 3.22 ॥

3.23

करद्वयं पृष्ठदेशे परिवर्त्य प्रयत्नतः ।
पादाङ्गुष्ठयुगं सम्यक् कराभ्यां संनिगृह्य च ॥ 3.23 ॥

3.24

किञ्चिद् उत्तानहृदयो नासिकाम् अवलोकयेत् ।
दृढासनम् इदं प्रोक्तं सद्यो रोगविनाशनम् ॥ 3.24 ॥

3.25

एतस्याङ्गुष्ठयोर् मूले कूर्परे संनिवेशयेत् ।
परिवर्त्य करौ स्पृष्ठाङ्गुलीतल गोपिता ॥ 3.25 ॥

3.26

अङ्गुलीपृष्ठयो हेतु चिबुकं संनिधापयेत् ।
अङ्गुष्ठौ सरलौ कृत्वा तालुमूलसमाश्रितौ ॥ 3.26 ॥

3.27

धृत्वा स्थिरमना भूत्वा गृध्रासनम् इदं परम् ।
सर्वदोषक्षयकरं सर्वोपद्रवनाशनम् ॥ 3.27 ॥

3.28

वामगुल्फकपृष्ठे तु दक्षगुल्फं निधापयेत् ।
पातयित्वा महेशानि जानुयुग्मं महीतले ॥ 3.28 ॥

3.29

ऊर्वोः कूर्परम् आधाय कृताञ्जलिपुटौ करौ ।
कुचे चिबुकसंयोगान् नासिकाग्रं निरीक्षयेत् ॥ 3.29 ॥

3.30

गरुडासनम् एतद् वै सर्वसिद्धिकरं भवेत् ।
गुदेनापीड्य धरणीं पादाभ्याम् अपि च स्फुटम् ॥ 3.30 ॥

3.31

जान्वोरु … करौ स्थाप्य स्थिरं देशे भवेद् दृढम् ।
एतद् यक्षासनं सर्वविघ्नच्छेदस्य कारणम् ॥ 3.31 ॥

3.32

ऊरुयुग्ममूलं पीठार्थं जङ्घा वाशिलिष्य पार्वति ।
पादयुग्मं पश्चिमौ न्यस्य पर्यङ्केन दृढं तनुम् ॥ 3.32 ॥

3.33

कमटी मुद्रया मूले समवष्टभ्य यत्नतः ।
समदेहस्थिरो भूत्वा सिद्धासनम् इदं परम् ॥ 3.33 ॥

3.34

सर्वसिद्धिप्रदं देवि सर्वव्याधिविनाशनम् ।
जङ्घाभ्याम् ऊरुयुग्मं च समाश्रित्य निपात्य च ॥ 3.34 ॥

3.35

कर्पूरं स्तंभवत् कृत्वा पार्श्वेनैकेन संश्रयेत् ।
एतत् प्रोक्तं मया देवि वृषभासनम् उत्तमम् ॥ 3.35 ॥

3.36

सर्वरोगविघातार्थं प्रोक्तम् एतन् महात्मभिः ।
एष चान्ये च बहवो ह्य् आसनानि योगसिद्धिदाः ॥ 3.36 ॥

3.37

यथास्यासं यथायोगं तेषाम् एकतरं भजेत् ।
स सिद्धे ह्य् आसने सम्यक् सर्वेन्द्रियवशीकरम् ॥ 3.37 ॥

3.38

भविष्यति दृढकायं मनोनिश्चलता तथा ।
अभ्यस्तेनासनेनैव समासीनो दिवानिशम् ॥ 3.38 ॥

3.39

योगं युञ्जीत विजने निःशब्दे जन्तुवर्जिते ।
सुसमे च सुसंमृष्टे गन्धधूपादिवासिते ॥ 3.39 ॥

3.40

शिवाश्रमे गुहस्थाने गृहे वापि विविक्तके ।
श्रीपरामृतसंतृप्तस् अचेतनो नियतात्मवान् ॥ 3.40 ॥

3.41

अभ्यसेद् अनिशं योगी सर्वसिद्ध्यर्थम् आदरात् ।
एकाग्रमतिर् अभ्यस्तत् प्रमाणं सुनिश्चयः ॥ 3.41 ॥

3.42

नित्योद्युक्तः सदोत्साही गुरुवचनमृताशयः ।
मृद्घटादि निशं योगी सर्वसिद्ध्यर्थम् आचरेत् ॥ 3.42 ॥

3.43

… विभेदेन भवेद् उत्साहयोगतः ।
तथा भवति देहो ऽयम् अभ्यासेन तु योगिनः ।
सहसा नाभ्यसेद् योगं शनैः सम्यक् तम् आचरेत् ॥ 3.43 ॥

3.44

युगपत् सेवितो दोषान् करोति बहूंस् तनौ ।
तस्माद् अभ्यासयोगेन शनैर् योगश् च सिध्यति ॥ 3.44 ॥

3.45

एककालं द्विकालं वा त्रिकालं वापि पार्वति ।
सर्वविघ्नप्रशान्त्यर्थं भूतेभ्यो बलिम् आहरेत् ।
अन्यथा बहून् विघ्नान् कुर्वन्ति परमेश्वरि ॥ 3.45 ॥

3.46

स्नानादिभिः शुद्धतनुः स्वदेहे
विशोषदाह … वनादि कृत्वा ।
अद्यापि संततमतिः प्रवरासनानि
संसिद्धिम् एति व चिराय महेशि योगी ॥ 3.46 ॥

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायां तृतीयः पटलः ॥


Kapitel 4: Atemschulung und Nadi-Lehre

॥ चतुर्थः पटलः ॥

ईश्वर उवाच

4.1

अथातः संप्रवक्ष्यामि प्राणसंयमनक्रमम् ।
यस्मिन् सिद्धे भवेद् योगी सम्यग्योगविशेषवित् ॥ 4.1 ॥

4.2

प्राणस्यैव जयो योग प्राणस्यैव जयस् तथा ।
प्राणस्यैव जयाद् देवि सिद्धिः देवि सुदुर्लभः ॥ 4.2 ॥

4.3

नाजीर्णे न रसोद्गारे न च विण्मूत्रधारणे ।
न छर्दि नातिसारे च नातिभूतसमन्विते ॥ 4.3 ॥

4.4

नैत्यम्ये गुरुकार्येवा न चापि क्षुत्पिपासतः ।
न दंशमशकाकीर्णे न च श्वापदसेविते ॥ 4.4 ॥

4.5

न नदीसमुद्रतीरे वा न जलाशयसंनिधौ ।
श्मशाने चैत्यवृक्षे वा न महाजनसंसदि ॥ 4.5 ॥

4.6

प्राणायामं न कुर्वीत कुर्याच् चेद् व्याधिभाग् भवेत् ।
स्थितः शिवाश्रमे गुहे निःशब्दे जनवर्जिते ॥ 4.6 ॥

4.7

आसनं मूलसम्पूर्णं विन्यसेन् मृगचर्मणा ।
तत्रासीनः सुखं योगी गुर्वादीन् संप्रणम्य च ॥ 4.7 ॥

4.8

अभ्यसेद् आसनेनैव समासीनः समाहितः ।
रेचकः पूरकश् चैव कुम्भकश् च प्रकीर्तितः ॥ 4.8 ॥

4.9

नासिकापुटस्य अङ्गुल्यापीड्यैकम् अपरेण च ।
उदर्यं रेचयेद् वायुं रेचकः स उदाहृतः ॥ 4.9 ॥

4.10

बाह्येन वायुना देहं दृतिवत् पूरयेत् शुभे ।
पूरणात् पूरकः प्रोक्तः कुम्भकं च तथा शृणु ॥ 4.10 ॥

4.11

न मुञ्चति न गृह्णाति वायुम् अन्तर् बहिः स्थितम् ।
सम्पूर्णकुम्भकवत् तिष्ठेद् अचलः स तु कुम्भकः ॥ 4.11 ॥

4.12

लघुर् द्वादशमात्रस् तु मध्यमो द्विगुणः स्मृतः ।
त्रिगुणश् चोत्तमः प्रोक्तः षट्त्रिंशत्तालमात्रकः ॥ 4.12 ॥

4.13

अकारश् चैकमात्र स्याद् आकारस् तु द्विमात्रकः ।
†तदेकविन्दुनादाद्यस्† त्रिगुणः परिकीर्तितः ॥ 4.13 ॥

4.14

इत्यादि क्रमयोगेन संसिद्धात्मा दिने दिने ।
यद् यत् सुकरताम् एति तत्र तत्राधिकं चरेत् ॥ 4.14 ॥

4.15

मा आत्ममात्राधिकं वापि चान्यत् कुर्याद् दिने दिने ।
यद् यद् अभासताम् एति न तत् तत्यक्तो परिव्रजेत् ॥ 4.15 ॥

4.16

शनैर् अभ्यासयोगेन यदा प्राणो जितो भवेत् ।
तदा चिह्नानि दृश्यन्ते योगिनः सिद्धिसूचका ॥ 4.16 ॥

4.17

प्रथमश् चिञ्चिणीनादो द्वितीयः किङ्किणीरवः ।
तृतीयं वेणुनादः स्याद् घण्टानादश् चतुर्थकः ॥ 4.17 ॥

4.18

पञ्चमस् तालनादः स्याद् भृङ्गनादश् च षष्ठकः ।
सप्तमो दौन्दुभो नादो भेरीनादस् तथाष्टमः ॥ 4.18 ॥

4.19

नवमो मेघनादश् च दशमः सागरस्वनः ।
स्वेदस् तु प्रथमो देवि द्वितीयो कम्प उच्यते ॥ 4.19 ॥

4.20

तृतीयो ऽद्भुतकम्पश् च चतुर्थो ऽपि गलस् तथा ।
शरीरस्य ऊर्ध्वाङ्ग्रि चित्रं पञ्चमः प्रकीर्तितः ॥ 4.20 ॥

4.21

षष्टञ् च दूरश्रवणं च सप्तमं दूरदर्शनम् ।
दिव्याज्ञा चाष्टमं देवि नवमं खेचरी गतिः ॥ 4.21 ॥

4.22

जीवन्मोक्षं च दशमं त्रिकालज्ञानम् एव च ।
चिह्नान्य् एतानि दृश्यन्ते निर्विघ्ने सति योगिनः ॥ 4.22 ॥

4.23

असम्यक् कारकस्येह विघ्नाः प्रादुर्भवन्ति च ।
हिक्का काशस् तथाभ्यासे कर्णदन्ताक्षिवेदना ॥ 4.23 ॥

4.24

वातं पित्तं संनिपातं शूलघात्युदरामयाः ।
ग्रहणीज्वरं संमोहमूर्च्छातिसारसाध्वसा ॥ 4.24 ॥

4.25

तस्माच् छनैर् यो जपेच्च योगी संसिद्धये चिरात् ।
तस्माद् रोगचिकित्सां तु शृणु देवि यथा तथा ॥ 4.25 ॥

4.26

स्निग्धां यवागूमत् †पूम्र† पीत्वा तत्रैवाधारयेत् ।
चिन्तयेद् अमृतं देहे सर्वरोगापनुत्तये ॥ 4.26 ॥

4.27

आग्नेयीं धारणां ध्यायेद् योगे वायव्यवारुणौ ।
मूर्च्छायाम् अधियाते च भूतप्रेताद्युपद्रवे ॥ 4.27 ॥

4.28

प्रजपेद् वै शनैः प्राणं विषदोषे च दारुणे ।
सर्वरोगप्रपीडासु प्रक्षद् योगी सषि भवेत् ॥ 4.28 ॥

4.29

पिनाकिपीठगोमेदस् तथा पावकमारुतौ ।
स … श विन्दुमद् बीजम् उच्यते रोगनाशनम् ॥ 4.29 ॥

4.30

बीजान्ते वैद्यशब्दं च मेयो दण्डी च दण्डिनौ ।
व्योमसूनो ऽग्निजापान्तो ताशद्यो ऽयं महामनुः ॥ 4.30 ॥

4.31

षड्दीर्घस्वरयुक्तेन बीजेन धानम् उच्यते ।
प्रदर्श्य अमृतमुद्रां च मन्त्रेण व्यापयेत् तनुः ॥ 4.31 ॥

4.32

कुन्देन्दुस्फटिकामलं त्रिनयनं दिव्यामृतारं घटं
विते दक्षकरे तथेतरकरे सर्वौषधीनां रसैः ।
पूर्णं पात्रवरं दधत् स्वशिरसा श्रीवैद्यनाथं प्रभुं
ध्यायन् व्याधिगणैः क्षणो न मनुजो मुक्तश् चिरं जीवति ॥ 4.32 ॥

4.33

एवं ध्यात्वा जपेन् मन्त्रं सप्तसाहस्रम् आदरात् ।
मुच्यते सर्वरोगैश् च तथा भूताद्युपद्रवैः ॥ 4.33 ॥

4.34

अथवा अन्यप्रकारेण देवं धन्वन्तरिं स्मरेत् ।
प्रजपेत् तन्मनुं सर्वव्याधिपीडाविनाशनम् ॥ 4.34 ॥

4.35

मनुतारान्वधोविन्दु मण्डितं बीजम् ईरितम् ।
दान्तो मेषोपीठस्थो विन्दुमन्तरये पुनः ॥ 4.35 ॥

4.36

त्रियुगां नाहितारादिरणुं युक्तोमदान्तकृत् ।
बीजवर्णेन पञ्चाङ्गं कारयेद् आदरेण तु ॥ 4.36 ॥

4.37

श्रीमच्छारदचन्द्रकोटिसदृशं दिव्यौषधपूरितं
पात्रं च अमृतकुम्भमध्य विदधद् दोर्भ्यां वरं चाभयम् ।
सर्वव्याधिसमुच्चयक्षयकरा पद्मसहस्रच्छदे
व्याधिः सर्वजरापमृत्युभयहा स्याद् आशु धन्वन्तरिः ॥ 4.37 ॥

4.38

एवं ध्यात्वा जपेन् मन्त्रं पूर्वं सेव्यं अनुत्तमम् ।
सद्यः प्रमुच्यते रोगैर् भूतिग्रहैः विघ्रसंचयैः ॥ 4.38 ॥

4.39

यान्य् औषधानि विद्यन्ते व्याधिघ्नानि महेश्वरि ।
एतानि श्याद् दाभ्य च शृणु नाडीविशोधनम् ॥ 4.39 ॥

4.40

मूलाधारात् समुद्यन्तं सुषुम्णा परिकीर्तिता ।
इडा च पिङ्गला चैव तस्य सव्ये च दक्षिणे ॥ 4.40 ॥

4.41

इडा तस्याः स्थिता सव्ये दक्षिणे पिङ्गला स्थिता ।
इडायां पिङ्गलायां च परतश् चन्द्रभास्करौ ॥ 4.41 ॥

4.42

इडायां चन्द्रमो ज्ञेय पिङ्गलायां रविः स्मृतः ।
भावयित्वा अथ सकलं कालरात्रिदिवात्मकम् ॥ 4.42 ॥

4.43

चन्द्रस् तामस इत्य् उक्तः सूर्यो राजस उच्यते ।
विषभागो रवेर् भागः सोमभागे ऽमृतः स्मृतः ॥ 4.43 ॥

4.44

भोक्तृ सुषुम्णा कालस्य गुह्यम् एतद् उदाहृतम् ।
अन्यधमन्यः प्रोक्ताः गान्धारी हरितजिह्वका ॥ 4.44 ॥

4.45

†सपूषालं विकाचैव† †यज्ञो ऽस्मित्रापि† शङ्खिनी ।
†कुर्हरीवि† च विद्धिः प्राधान्यात् †व्यापिकास्तनौ† ॥ 4.45 ॥

4.46

काचिन् नाडी बहिर्वक्रात् या मातु हृदि बुध्यते ।
†पपातु तुष्टेमाप्नोति कोशे र† इव कल्पना ॥ 4.46 ॥

4.47

मातुर् आहाररसजैः धातुभिः पुष्यते क्रमात् ।
गान्धारी नाम या जिह्वा पिङ्गलापार्श्ववर्तिनी ॥ 4.47 ॥

4.48

उन्मुखी ब्रह्मरन्ध्रान्तं बहुशाखा समुद्यता ।
इडायाः पार्श्वगा नाडी सम्प्रोक्ता हस्तिजिह्विका ॥ 4.48 ॥

4.49

बहुशाखा बहुस्कन्धा मूलात् कांतु मुखोन्मुखी ।
†समुखालं† †वुखौ† चोभे पार्श्वयोर् ऊर्ध्वगे स्मृते ॥ 4.49 ॥

4.50

कराङ्गुल्या पर्यन्तं बहुशाखा समुद्यताः ।
यशस्विनी च दक्षस्य पादाङ्गुष्ठान्तम् इष्यते ॥ 4.50 ॥

4.51

बहुशाखाविभेदेन मूलाधाराद् अधोमुखाः ।
शङ्खिनी या महानाडी वामे चाधोमुखी स्थिता ॥ 4.51 ॥

4.52

शाखोपशाखभेदेन पादाङ्गुल्यं तम् ईश्वरि ।
कुहुर् इति च या नाडी साधश् चोर्ध्वं च सुस्थिताः ॥ 4.52 ॥

4.53

बहुशाखाविभेदेन देहं व्याप्य व्यवस्थिता ।
सरस्वती च मूलोत्था जिह्वाग्रान्तं व्यवस्थिता ॥ 4.53 ॥

4.54

जया च विजया व्योमा नाभिमूले समुद्भवेत् ।
अयुग्मे नेत्रकर्णान्तिं कपोलं व्याप्य संस्थिता ॥ 4.54 ॥

4.55

सुषुम्णा दक्षे वामे च उभे इडापिङ्गले स्थिते ।
वामदक्षिणनासान्त शरीरे ऽस्मिन् व्यवस्थिते ॥ 4.55 ॥

4.56

एवं देवि समाख्याता नाडयः प्राधान्यतः शुभे ।
बहुत्वाच् चैव नामानि सम्यक् वक्तुं न शक्यते ॥ 4.56 ॥

4.57

शाखोपशाखतां प्राप्ताः शिरा लक्षत्रयात्मकम् ।
अर्धलक्षम् इति प्राहुः शरीरार्ध्विचारकैः ॥ 4.57 ॥

4.58

†तद्भाश्च† बहूनाहु ताभिः सर्वाभिर् एव च ।
व्याप्नोति सर्वतो वायुर् येन देहः प्रवर्तते ॥ 4.58 ॥

4.59

†देहत्रिमूलाधारे† तु देहाद्यन्तसमीरणः ।
नाडीभ्याम् अस्तम् अभ्येति प्राणतो हि षडङ्गुले ॥ 4.59 ॥

4.60

अहोरात्रम् अनेन्दुभ्यां ऊर्ध्वाधो वृत्तिर् इष्यते ।
वामदक्षिणनाडीभ्यां स्याद् वा दक्षिणायनम् ॥ 4.60 ॥

4.61

याश् च नाड्याः शरीरे ऽस्मिन् †माहत्यय† व्यवस्थिते ।
तासु सर्वासु देवेशि विचरन्ति तु वायवः ॥ 4.61 ॥

4.62

प्राणो ऽपानः समानश् च उदानो व्यान एव च ।
नागः कूर्मश् †चक्षकरौ† देवदत्तो धनञ्जयः ॥ 4.62 ॥

4.63

एते नाडीसु सर्वासु वसन्ति दश वायवः ।
एतेषु वायवः पञ्च नरे प्राणादयः स्मृताः ॥ 4.63 ॥

4.64

तेषु मुख्यतरः प्राणः स्कन्धः स्याद् अधः प्रतिष्ठितः ।
आस्यनासिकयोर् मध्ये हृदये भानुमण्डले ॥ 4.64 ॥

4.65

पादाङ्गुष्ठे च प्राण एतेष्व् अपि च तिष्ठति ।
अपाने †मिट्पायोश्च† कुरु दक्षिणजानुषु ॥ 4.65 ॥

4.66

जंघोदरेषु कट्यां च स्थानेष्व् एतेषु तिष्ठति ।
व्यानः श्रोणिमध्यस्थः भ्रूक … गुल्फयोर् द्वयो ॥ 4.66 ॥

4.67

नागादिवायवः पञ्च त्वग् … दिषु च संस्थिता ।
दशसंख्या प्रकारादि प्राणकूर्मेति कीर्त्यते ॥ 4.67 ॥

4.68

अपानवायोर् यत् कर्म विशमूत्रादिविसर्जनम् ।
देहावयवचेष्टादिः व्यानकर्मेति कीर्त्यते ॥ 4.68 ॥

4.69

उदानकर्म यत् प्रोक्तं देहस्थो नयनादिकम् ।
पोषणादिः समानस्य शरीरे कर्म कीर्तयति ॥ 4.69 ॥

4.70

भुक्तं सर्वरसं गात्रे व्यापयन् वह्निना सह ।
द्विसप्ततिसहस्रेषु नाडीमार्गेषु सञ्चरन् ॥ 4.70 ॥

4.71

समानवायुर् एव एतद् देहं व्याप्य व्यवस्थितः ।
उद्गारादिगुणो यस् तु नाग इत्य् एव कीर्त्यते ॥ 4.71 ॥

4.72

निमीलनादि कूर्मस्य द्रुतं च कृकलस्य च ।
देवदत्तस्य देवेशि तन्द्राकर्मेति कीर्त्यते ॥ 4.72 ॥

4.73

धनञ्जयस्य शोफादि सर्वकर्मसमीकृता ।
ज्ञात्वैव वायुसंस्थानं नाडीस्थानं च यत्नतः ॥ 4.73 ॥

4.74

नाडीसंशोधनं कुर्यात् यथाविधिपुरस्सरम् ।
नाडीशुद्धिं विना देवि प्राणायामो न सिध्यति ॥ 4.74 ॥

4.75

नाडीषु सम्यक् सिद्धैस् तु सुकरं प्राणसाधनम् ।
शनैः संशोधयेन् नाडी रेचकादिविधानवित् ॥ 4.75 ॥

4.76

ओंकारैर् धारणायोगैः प्राणायामैश् च भेषजैः ।
प्रशुध्यन्ते शनैर् नाड्यो योगिनो यत्नतः क्रमात् ॥ 4.76 ॥

4.77

युग … आश्रयेद् योगी नाडीशुद्धिं शनैश् चरेत् ।
यच् छीघ्रम् अभ्यसेत् सद्यस् तस्य रोगो ऽभिजायतो ॥ 4.77 ॥

4.78

महोदरामयच्छर्दिर् अतिसारो महाज्वरः ।
संभवन्त्य् अचिरेणैव जहि सम्यक् प्रवर्तनात् ॥ 4.78 ॥

4.79

शुण्ठीकषायं सुस्निग्धं पीत्वा तद्धारणाबलात् ।
पूर्वोक्तमन्त्रस्मरणान् मुच्यते व्याधिभिः शुभे ॥ 4.79 ॥

4.80

यदाभिर् व्याधिभिस् त्यक्तस् तदा प्राणे जिते तथा ।
स्वेच्छया वर्तते देहम् †आत्मनादृचालिष्यति† ॥ 4.80 ॥

4.81

यावद् आसनम् उत्सृज्य देहो व्योम न चाश्रयेत् ।
तावद् रोगाश् च विघ्नाश् च संभविष्यन्ति अनेकधा ॥ 4.81 ॥

4.82

यदा स्वदेहम् उद्धृत्य योगी व्योमं समाश्रयेत् ।
तदोपसर्गास् तद् विघ्नकारकाः न संभवन्ति हि ॥ 4.82 ॥

4.83

नागाः सुरेन्द्रकन्याश् च यक्षिण्यः सिद्धकन्यकाः ।
प्रार्थयिष्यन्ति तं देवि †छत्स्थ† येन भयातुराः ॥ 4.83 ॥

4.84

शृणोति दिव्यवार्ता च दिव्यदर्शनम् एव च ।
रसायनाद्यौषधं च स्वयं प्रवर्तते ॥ 4.84 ॥

4.85

नृपाश् च पृथिवीदानै बहुमानैस् च पुष्करैः ।
योगिन संप्रवर्तन्ते विघ्नार्थम् इतरे ऽपि च ॥ 4.85 ॥

4.86

यस्याज्ञा वर्तते देवि तिर्यग्मनुनगादिषु ।
एवं प्राप्तान् महाभोगान् देव †सुषुम्णाव्या वायुं† ॥ 4.86 ॥

4.87

तृणवद् यस् त्यजेद् योगी स परां सिद्धिम् आप्नुयात् ।
यदा प्राणं स्वके देहे स्वेच्छया नायत्र क्षमः ॥ 4.87 ॥

4.88

तदा सुषुम्णास्थ वायुं सन्निरुध्य समुत्सृजेत् ।
सुषुम्णायां च शुद्धायां शुध्यन्ते ताश् च नाडिकाः ॥ 4.88 ॥

4.89

स्वरवर्णप्रभावाः स्यात् षडाधारं च शुध्यति ।
विन् मूत्रश्लेष्मदोषाणां अल्पता चैव जायते ॥ 4.89 ॥

4.90

निर्दोष बहुसामर्थ्य चिराद् वर्षशतं तथा ।
इति प्राणजययुक्तो योगं युञ्जन् महेश्वरि ।
कालेन महता योगं प्राप्य सिद्धिं परां व्रजेत् ॥ 4.90 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां चतुर्थः पटलः ॥


Kapitel 5: Rückzug der Sinne

॥ पञ्चमः पटलः ॥

ईश्वर उवाच

5.1

अथ प्रत्याहरेत् चित्तं निःसृतं भोगतृष्णया ।
यतो यतो ऽनुक्रमति मनश् चञ्चलम् अस्थिरम् ॥ 5.1 ॥

5.2

ततस् ततो ऽनुसंगृह्य स्वात्मन्य् एव लयं भवेत् ।
†मनोभाजिनम्† अत्युग्रं निगृह्णीयात् पुनः पुनः ॥ 5.2 ॥

5.3

प्राणायामपरो देवि बहुधा परिधावितम् ।
यस्मिन् तत्त्वे समासक्तं मनो यदि न तिष्ठति ॥ 5.3 ॥

5.4

पुनः पुनर् निगृह्यैव योगी स्थिरतरं नयेत् ।
विषयेषु समासन्नानीन्द्रियाणि शनैः शनैः ॥ 5.4 ॥

5.5

संनिगृह्य निगृह्यैवं च मनः प्रत्याहरेत् सदा ।
मन एव महेशानि कारणं बन्धमोक्षयोः ॥ 5.5 ॥

5.6

तस्मात् सर्वप्रयत्नेन मनो निर्मलतां नयेत् ।
योषिदन्नपानेषु समुत्क्रान्तं समन्ततः ॥ 5.6 ॥

5.7

संनिगृह्य प्रयत्नेन शुद्धतत्त्वे निवेशयेत् ।
संनिरुध्य मनो देवि प्रयत्नाद् एव तिष्ठति ॥ 5.7 ॥

5.8

आकृष्याकृष्य यत्नेन तन्मनो वशम् आनयेत् ।
मनसो विजयो योगो मनसो विजयस् तपः ॥ 5.8 ॥

5.9

मनसो विजयो ज्ञानं तस्मात् प्रत्याहरेत् मनः ।
इन्द्रियाणि च सर्वाणि शनैः प्रत्याहरेत् सुधीः ॥ 5.9 ॥

5.10

श्रोत्रम् आकाशम् ईशानि शब्दतन्मात्रलक्षणम् ।
व्योम्नि च तत् समाधाय तत्कर्म च समाहरेत् ॥ 5.10 ॥

5.11

त्वक् वायुमयं देवि स्पर्शतन्मात्रलक्षणम् ।
तत् समावेश्य पवने तत्कर्म समतिक्रमेत् ॥ 5.11 ॥

5.12

चक्षुस् तेजोमयं विद्यात् रूपतन्मात्रलक्षणम् ।
तत्तेजसि समाधाय तस्य कर्म च संहरेत् ॥ 5.12 ॥

5.13

जिह्वा वारिमयी देवि रसं तन्मात्रलक्षणम् ।
ताम् अस्मिन् संनिवेश्यैव तत्कर्म परिसंहरेत् ॥ 5.13 ॥

5.14

घ्राणं महीमयं विद्याद् गन्धं तन्मात्रलक्षणम् ।
तत् समावेश्यैव तत्रैव तत्कर्म हरणं चरेत् ॥ 5.14 ॥

5.15

वाक्पाणिपादत्रितयं पायूपस्थद्वयं क्रमात् ।
एतद् भूतेषु संवेश्य तत्कर्म परिसंहरेत् ॥ 5.15 ॥

5.16

यदा यदा मनो देवि चेन्द्रियाणि च कर्मसु ।
समुत्क्रामन्ति ह्य् अप्यन्ति महेशानि तदा तदा ॥ 5.16 ॥

5.17

संनिगृह्य स्थिरीकुर्यात् इन्द्रियाणि मनस् तथा ।
यदा निश्चलताम् एति मनः सर्वेन्द्रियैः सह ।
शनैर् अभ्यासयोगेन प्रत्याहारम् उपक्रमेत् ॥ 5.17 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां पञ्चमः पटलः ॥


Kapitel 6: Sammlung und rituelle Opfergabe

॥ षष्ठः पटलः ॥

ईश्वर उवाच

6.1

धारणां संप्रवक्ष्यामि येन दोषक्षयो भवेत् ।
प्राणायामं †द्विषट्कञ्चु† धारणा योगः उच्यते ॥ 6.1 ॥

6.2

धारणा त्रिविधा देवि तां शृणुष्व यथाविधिः ।
आदौ प्राणान् समागृह्य धारयेद् वायुधारणाम् ॥ 6.2 ॥

6.3

वायुधारणादाध्वस्तमहापातकसञ्चयः ।
आग्नेयीं धारणां ध्यायेत् सर्वदोषापनुत्तये ॥ 6.3 ॥

6.4

अग्निमारुतसंयोगाद् वारुणाकर्मयोगतः ।
संसिद्धयोगिनो देहे चिह्नम् एतत् प्रदृश्यते ॥ 6.4 ॥

6.5

चल वर्णप्रसादं च स्वरलाघवसौष्ठवम् ।
आरोग्यं शीघ्रगामित्वम् अरोगत्वं च जायते ॥ 6.5 ॥

6.6

एवं सिद्धस् तनुर् योगी †क्षुत्पिपासाविधातनीम्† ।
धारयेद् वारणां भूयः अमृताख्यां महेश्वरि ॥ 6.6 ॥

6.7

मूर्धादिपादपर्यन्तं प्लावयेद् मृतां शुचि ।
संभृत्य चिन्तयेज् जीवे ऽमृतप्रथनेन तु ॥ 6.7 ॥

6.8

देहं चामृतसंपूर्णं तत् †तृषिपरिमोदितम्† ।
भावयेद् अनिशं योगी जरामरणशान्तये ॥ 6.8 ॥

6.9

दिव्यामृतमहाध्यानधारणापूतविग्रहः ।
क्षुत्पिपासामहानिद्राजरारोगैर् विमुच्यते ॥ 6.9 ॥

6.10

षण्मासं धारयेद् यस् तु दिव्यामृतधारणाम् ।
वलीपलितनिर्मुक्तः स योगी योगभाक् भवेत् ॥ 6.10 ॥

6.11

सिध्यन्ति सर्वकार्याणि वाञ्छितानि महेश्वरि ।
तत् धारणान् महेशानि दृश्यन्ते योगसिद्धयः ॥ 6.11 ॥

6.12

तस्मात् सर्वप्रयत्नेन धारणायोगम् आचरेत् ।
शनैर् धारणया सिद्धिः धारणां च समुत्क्रमेत् ॥ 6.12 ॥

6.13

प्राणायामैः दहेद् दोषं धारणाभिश् च किल्बिषम् ।
सर्वेन्द्रियवशीकारः प्रत्याहारेण जायते ॥ 6.13 ॥

6.14

देवि शिरसा योगं यद् धि कुर्याद् दिने दिने ।
मद्दासः सिद्धिम् आपन्नः तदासक्तो परिव्रजेत् ॥ 6.14 ॥

6.15

धारणायां च सिद्धायां योगीनो यच् चेतसः ।
विघ्नार्थम् अभिवर्तन्ते गुह्यकाः कलिकामुकाः ॥ 6.15 ॥

6.16

तस्मात् तेषां बलिं दद्याद् अभीच्छन् सिद्धिम् आत्मनः ।
अन्यथा वर्तमानस्य विघ्नं कुर्वन्ति दारुणा ॥ 6.16 ॥

6.17

रोगैर् बहुविधैर् देवि तमसा निद्रा तत् तथा ।
प्रतिबन्धैश् च विविधैर् अविश्वासैश् च जृम्भणैः ॥ 6.17 ॥

6.18

तस्मात् तेषां बलिं दद्याद् यथावन् नियतात्मवान् ।
एककालं द्विकालं वा त्रिकालं वा बलिं हरेत् ॥ 6.18 ॥

6.19

अर्धरात्रे विशेषेण तद् यथा शृणु पार्वति ।
एकान्ते विजने देशे कृत्वा मण्डलम् उत्तमम् ॥ 6.19 ॥

6.20

ऐं व्यापक मं मण्डलाय ऐम् इत्थं सकृद् अर्चयेत् ।
चतुरस्रं महेशानि मण्डलं कुसुमाक्षतैः ॥ 6.20 ॥

6.21

तत्र मण्डलम् आधाय साधारं पात्रम् उत्तमम् ।
अर्घ्यार्घं पूर्णसलिलं सपुष्पं साक्षतं गृहे ॥ 6.21 ॥

6.22

बलिं दद्याच् च मन्त्रेण तर्जन्या संप्रदर्शयन् ।
सर्वभूतेभ्य इत्य् अन्ते हं कारं सम्यग् उद्धरेत् ॥ 6.22 ॥

6.23

स्वार्हं तोयं महामन्त्रः तारपञ्चकसंपुटः ।
सर्वविघ्नविघातार्थ ईरितः परमेश्वरि ॥ 6.23 ॥

6.24

सर्वस्यातिथि भूतांश् च भूतानांश् च तर्पयेत् ।
दक्षिणे सकलान् यक्षात् यक्षकन्याश् च तर्पयेत् ॥ 6.24 ॥

6.25

पश्चिमे राक्षसान् देवि तथा राक्षसयोषितः ।
उत्तरे क्षेत्रपालांश् च तत्कन्याश् च प्रतर्पयेत् ॥ 6.25 ॥

6.26

ऊर्ध्वायां दिशि देवांश् च देवकन्याश् च तर्पयेत् ।
अधस्ताद् दिशि नागांश् च नागकन्यांश् च तर्पयेत् ॥ 6.26 ॥

6.27

मध्ये चराचरगुरुमांश् च भुवने सह ।
भैरवान् योगिनीक्षेत्रनायकान् गणकान् अपि ॥ 6.27 ॥

6.28

तर्पयेतांश् च भूताद्यै भावयेद् अपि व्यथितान् ।
तत्परामृतसंतृप्तां भावयेत् सचराचरम् ॥ 6.28 ॥

6.29

अनेन बलिना तृप्ताः योगिनः सिद्धिम् उत्तमाम् ।
विशन्ति भूतनाथास् ते चान्यथा विघ्नयन्ति च ॥ 6.29 ॥

6.30

अनेन वाञ्छिता तृप्ताः योगिनं योगसाधकम् ।
रक्षयन्ति महेशानि विघ्नम् उत्सादयन्ति च ।
तस्मात् सर्वप्रयत्नेन बलिं दद्याद् विचक्षणः ॥ 6.30 ॥

6.31

न दानैः †यज्ञैनं† तपोभिर् भ्रैः
न चोपवासैर् नियमैः कदाचित् ।
संसिद्ध्य देवि शिशु योगमार्गं
विना गुरुं तत्फलदानदक्षम् ॥ 6.31 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां षष्ठः पटलः ॥


Kapitel 7: Gottesbilder, Lichtmeditation und Samadhi

॥ सप्तमः पटलः ॥

ईश्वर उवाच

7.1

अथातः संप्रवक्ष्यामि ध्यानयोगम् अनुत्तमम् ।
येन विज्ञानमात्रेण योगी स्याद् ईश्वरः स्वयम् ॥ 7.1 ॥

7.2

पूर्वोक्तासनम् अभ्यस्य समासीनो जितेन्द्रियः ।
ध्यायेत् परतरं तत्त्वं निश्चलेन अन्तरात्मना ॥ 7.2 ॥

7.3

सर्वविघ्ननिवृत्यर्थं पूर्वं ध्यायेन् महावपुः ।
पातालतलपादं च भूकटि व्योमदेहकम् ॥ 7.3 ॥

7.4

स्वर्गादिलोकशीर्षा च दिग्बाहुं देवताभयम् ।
आदित्यचन्द्रनयनं नक्षत्रगणभूषणम् ॥ 7.4 ॥

7.5

समुद्रवसनं व्याप्तब्रह्माण्डम् अद्भुतम् ।
ब्रह्मादितृणपर्यन्तं जगद् एतच् चराचरम् ॥ 7.5 ॥

7.6

स्वरोमकूपकं ध्यायेत् स्वदेहं च जगन्मयम् ।
एवं ध्यायेन् महारूपं देवि चित्तस्थिराप्तये ॥ 7.6 ॥

7.7

इति प्रध्याय तत् सम्यग् योगिनश् चित्तवृत्तयः ।
शनैः निश्चलतां यान्ति दिव्यज्ञानविचिन्तनात् ॥ 7.7 ॥

7.8

एवं चित्तं स्थिरीकृत्य तं च ध्यानम् उपक्रमेत् ।
ध्यायेत् स्वहृदये पद्मं शिवशक्त्यात्मकं परम् ॥ 7.8 ॥

7.9

तारकं दं शक्तिनामि प्रासादमणिकर्णिकाम् ।
अग्निमण्डलपत्र … सूर्यमण्डलकेसरम् ॥ 7.9 ॥

7.10

सोममण्डलकिञ्जल्क बालार्कयुतभास्करम् ।
नवशक्तिसमायुक्तं चिन्तयेच् चिरम् आत्मवित् ॥ 7.10 ॥

7.11

तन्मध्ये परमेशानं ध्यायेद् आत्मविशुद्धये ।
नीलजीमूतसंकाशं जटाबद्धमहोरगम् ॥ 7.11 ॥

7.12

बालेन्दुशेखरं भीमं हुङ्कारव्याप्तदिङ्मुखम् ।
खड्गमूलान् नवधरं नागपाशचरं प्रभुम् ॥ 7.12 ॥

7.13

कपालघण्टासहितं विषार्णं वरदं तथा ।
रक्ताम्बराधरं रक्तमाल्यगन्धविभूषितम् ॥ 7.13 ॥

7.14

नागाष्टकमहाहारं गर्जन्तं भयनाशनम् ।
व्याघ्रचर्मपरिधानं सिंहचर्मोत्तरच्छदम् ॥ 7.14 ॥

7.15

नूपुरच्छन्नहीरादिभूषणैः परिभूषिताम् ।
सोमसूर्याग्निनयनं दंष्ट्रा तिर्यङ् महानलम् ॥ 7.15 ॥

7.16

†असन्तम्† अखिलं दोषं विघ्नकोटिविभेदकम् ।
सर्वशत्रुक्षयकरं महामृत्युविनाशनम् ॥ 7.16 ॥

7.17

वलीपलितदौर्भाग्यं जरारोगविनाशनम् ।
सर्वसिद्धिकरं देवं भैरवं भक्तरक्षकम् ॥ 7.17 ॥

7.18

माध्वीमदसमाघूर्णं नयनत्रयमण्डलम् ।
मदिरानन्दं चेतस्कं सर्वलोकगुरुं हरम् ॥ 7.18 ॥

7.19

ध्यायेद् एकाग्रया बुद्ध्या सर्वविघ्नशान्तये ।
तद् वामाङ्कस्थलगतां चण्डिकां दुःखनाशिनीम् ॥ 7.19 ॥

7.20

कालाभ्राञ्जनसंकाशं व … र्ध्व शिरोरुहाम् ।
मुण्डासनम् अङ्कितां †ऋस्म सर्पक्षं कलम् अङ्किताम्† ॥ 7.20 ॥

7.21

रक्तगन्धप्रसूनाक्षैः भूषितां भूषणैर् अपि ।
षड्वक्त्रं द्वादशभुजां प्रतिवक्त्रं त्रिलोचनाम् ॥ 7.21 ॥

7.22

व्याघ्रचर्मपरिधानां सिंहचर्मोत्तरच्छदाम् ।
वज्राङ्कुशधरां चक्रशङ्खखेटत्रिशूलिनीम् ॥ 7.22 ॥

7.23

कर्त्रिकादण्डमुशलवरदाभयधारिणीम् ।
भद्रां त्रिनेत्रां भक्तार्तिभञ्जनीं चन्द्रशेखराम् ॥ 7.23 ॥

7.24

भक्ततापत्रयहरां कालग्रसनरूपिणीम् ।
माध्वीपूर्णकांध्रां … नवयौवनगोचराम् ॥ 7.24 ॥

7.25

योगिनीगणशंमुख्यां भैरवीं भयहारिणीम् ।
सर्वेप्सितफलप्राप्तिकारणां कारणत्रयाम् ॥ 7.25 ॥

7.26

एवं ध्यायेच् चिरं देवीं योगी योगफलाप्तये ।
सर्वोपद्रवशान्त्यर्थं सर्वाभीष्टफलाप्तये ॥ 7.26 ॥

7.27

अनेन ध्यानयोगेन कालमृत्युभयाद् अपि ।
मुच्यते परमेशानि न मयोक्तं मृषा भवेत् ॥ 7.27 ॥

7.28

अधीत्यैतन् महाध्यानत्यक्तोपद्रवसञ्चयः ।
पुनः ध्यायेन् महादेवि सर्वोपद्रवशान्तये ॥ 7.28 ॥

7.29

हृदम्बुजसमासीनं बालसूर्यसमप्रभम् ।
देव्या समाश्लिष्टतनुं सुवर्णसमवर्णया ॥ 7.29 ॥

7.30

भस्मोद्धूलितसर्वाङ्गं दधानं व्याघ्रचर्मणि ।
श्मशानस्थितं शान्तं त्रिनेत्रं चन्द्रशेखरम् ॥ 7.30 ॥

7.31

ललाटस्थलबालेन्दुसुतादिव्यसुधास्नातम् ।
वराभयमहाटङ्कमृगमुद्राधरं शिवम् ॥ 7.31 ॥

7.32

अक्षस्रक्पुस्तकधरं प्रसन्नं परमेश्वरम् ।
महामण्डलसम्बद्धं महाफणिफणाञ्चितम् ॥ 7.32 ॥

7.33

नवयौवनसम्पन्नं ग्रस्तं कालभयादिकम् ।
सुमुखं चारुसर्वाङ्गं गुप्तविज्ञानगोचरम् ॥ 7.33 ॥

7.34

पशुपाशौघदलनं तारकं भयवारिधेः ।
सर्वज्ञास्फारसामर्थ्यदायकं सर्वसिद्धिदम् ॥ 7.34 ॥

7.35

एवं ध्यायेन् महादेवं सर्वदुःखोपशान्तये ।
सर्वसत्त्वप्रलयायैव सर्वाशासिद्धिहेतवे ॥ 7.35 ॥

7.36

अथवान्यत् प्रकारेण ध्यायेद् धृतसरसीगृहे ।
शुद्धस्फटिकसंकाशं शरच्चन्द्रायुतप्रभम् ॥ 7.36 ॥

7.37

अक्षमालाधरं शान्तं प्रसन्नं वरदं प्रभुम् ।
विशिष्टभयसंयुक्तं रजताद्रिसमप्रभम् ॥ 7.37 ॥

7.38

सर्वमृत्युप्रशमनं वलिपलितनाशनम् ।
दिव्यासारमहावर्षवर्षमाणं समन्ततः ॥ 7.38 ॥

7.39

वसुधा वर्षापातेन सहसा शीतलात्मना ।
†दुषुचर्मशतैर् मुस्म† भावयेद् आत्मनस् तनुम् ॥ 7.39 ॥

7.40

अनेन ध्यानयोगेन मुच्यते दुःखबन्धनात् ।
सात्त्विको ऽहं चरेत् ध्यायन्न् अभीष्टसिद्धिम् आत्मनः ॥ 7.40 ॥

7.41

अथवान्यत् प्रकारेण ध्यानयोगं वदामि ते ।
हृत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिः ॥ 7.41 ॥

7.42

अङ्गुष्ठपर्वसदृशं कोटिसूर्यसमप्रभम् ।
कदम्बगोलकाकारं तारासूर्यम् इव स्थितम् ॥ 7.42 ॥

7.43

ध्यायेद् वा रश्मिभिर् ज्वलत् दीप्यमानं समन्ततः ।
निरालम्बे पदे शून्ये यत् तेज उपजायते ॥ 7.43 ॥

7.44

तद् देहम् अभ्यसेन् नित्यं योगी योगप्रसिद्धये ।
दिव्यमण्डलमध्यस्थं स्रवन्तम् अमृतद्रवम् ॥ 7.44 ॥

7.45

ध्यायेत् तन्मण्डलं दिव्यं सर्वरक्तं सितं क्रमात् ।
मूर्तिध्यानं च तेनैव क्रमेण तु समाचरेत् ॥ 7.45 ॥

7.46

तत्प्रभापटलव्याप्तं शरीरं परिचिन्तयेत् ।
सो ऽहम् इत्यादिभावेन शनैर् अहम् इति स्मरेत् ॥ 7.46 ॥

7.47

स्वहृद्गतमहाज्योति विनिर्यद् अमृतांशुभिः ।
त्रिलोकम् अखिलं योगी †काव्यमानं† विचिन्तयेत् ॥ 7.47 ॥

7.48

अनेन ध्यानयोगेन योगी स्याद् ईश्वरः स्वयम् ।
स्वदेहं भावयेद् योगी कोटिसूर्यसमप्रभम् ॥ 7.48 ॥

7.49

सम्यगात्मा विभेदेन सो ऽचिराद् योगम् आप्नुयात् ।
आत्मानं चिन्तयेद् योगी सम्यग् ईश्वरविग्रहम् ॥ 7.49 ॥

7.50

तद्भावनातस् त्व् अचिरात् सिद्धिं श्रीशाम्भवीं लभेत् ।
शिवो ऽहम् †ममेवो ऽहम्† अचिन्त्यो ऽहम् अणुर् भुवः ।
एवं ध्यानविधौ ध्यायेद् आत्मानं विभेदतः ॥ 7.50 ॥

7.51

आनन्दशीतकिरणोदयपूर्णिताशां
विस्तारफेनपरिरञ्जितदिव्यतोयम् ।
नानाविधप्रवरदैवतमत्स्यजुष्टं
श्रीमत् सुधाविवरम् अस्मि विधूतपापा ॥ 7.51 ॥

7.52

श्रीसद्गुरोः करुणादिकुलिशखण्डन
पापाद् रिक्तठ निचये मम देहगेहे ।

… ॥ 7.52 ॥

7.53

कोटीन्दुभास्करनिभं †परामाण्डकल्पम्†
आविस्मरामि परमं महदात्मरूपम् ।
विद्युत्सहस्ररुचिरं त्रसरेणुकल्पम्
आनन्दसान्द्रपरिमोदितभावगम्यम् ॥ 7.53 ॥

7.54

पीयूषवारिनिधिम् ईश्वरम् अप्रमेयम्
मा विस्मरामि हृदये सुमहान्तं मोहम् ।
षट्पद्मकोटरकपाटविघाटितेन
यज् ज्योतिर् ऊर्ध्वम् उपयान्ति तडिल्लतेव ॥ 7.54 ॥

7.55

पीयूषरूपघनसारसहस्रवृष्टि
मेघे भजामि हृदये परमात्मदीपम् ।
सञ्चितस्वभावपरिवृंहितवीचिजाल
स्वानन्दशीकरसमुच्चयसिक्तदेहः ॥ 7.55 ॥

7.56

सद्भावगम्यविमलोत्तमचित्तवृत्ति
सेवासमुत्सुकजना वलिस्तिड्करीति ।
भूव्योमवायुशिखि नीरविभेदचित्तम्
एकं तद् अस्य जगतो विभवाय तत्त्वम् ॥ 7.56 ॥

7.57

तत् सर्वकारणम् अचिन्त्यम् अनन्तम् आद्यम्
ज्योतिर् मनोवचनदूर्गमम् अस्ति संवित् ।
यद् ब्रह्मकन्दम् असिलागमनालपुत्रम्
आनन्दपिङ्गलसुधाजलदिव्यसारम् ॥ 7.57 ॥

7.58

सिद्ध्यष्टकप्रवरपत्रविराजमानं
तद्योगीभावकमलभ्रमरो ऽहम् अस्मि ।
नित्यो ऽहं निर्विकल्पो ऽहं निराधारो ऽहम् अव्ययः ।
सच्चिदानन्दरूपो ऽहं ब्रह्मैवाहं न संशयः ॥ 7.58 ॥

7.59

ब्रह्मैवाहं न संसारी मुक्तो ऽहम् इति भावयेत् ।
अनेन ध्यानयोगेन जीवन्मुक्तित्वम् आप्नुयात् ॥ 7.59 ॥

7.60

यदा विकल्पाः कुटिला यान्ति विलयं शिवे ।
तदा उल्लासविज्ञो यः सर्वत्र समदर्शनः ॥ 7.60 ॥

7.61

ध्यानेन लभते योगं ध्यानैः सिद्धिं सुदुर्लभाम् ।
ध्यानेन नु जरां मृत्युं तरतीति मृषा तत् ॥ 7.61 ॥

7.62

ध्यानयोगे भवेद् विघ्नो योगिनो नियतः शिवः ।
व्याधिभिश् चोपसर्गैश् च तथा गुह्यकभूतके ॥ 7.62 ॥

7.63

यदा समुत्थितं विघ्नं योगी पश्यति पार्वति ।
तदा भूतबलिं दद्यात् पूर्वोक्तविधिना सुधीः ॥ 7.63 ॥

7.64

पूर्वोक्तैर् जपयोगैश् च वक्ष्यमाणैश् च भेषजैः ।
दानैर् जपैस् तथा होमैः शमयेद् विघ्नम् उत्थितम् ॥ 7.64 ॥

7.65

सर्गोपसर्गशान्त्यर्थं देवं मृत्युञ्जयं जपेत् ।
पञ्चस्वानासनगतो देवेशि चतुराननः ॥ 7.65 ॥

7.66

बिन्दुनक्तादिसहितो भृगुस् तारादिर् ईरितः ।
मन्त्रो मृत्युञ्जये देवि महामृत्युविनाशनः ॥ 7.66 ॥

7.67

विपक्षः सर्वविघ्नानां सुमहावीरहानलः ।
मन्त्रा ते साधना प्रोक्ता प्रतिलोमेन चोच्यते ॥ 7.67 ॥

7.68

पुटितः पञ्चतारेण सम्यक् सिद्धिकरः स्मृतः ।
दङ्किनी त्रिगुणा कुर्यात् षडङ्गं विधिपूर्वकम् ॥ 7.68 ॥

7.69

ध्यानयोगं परं गुह्यं शृणु मे परमेश्वरि ।
ध्यानश् च त्रिविधः प्रोक्तः तत्कर्मसाधकः ।
दशशतदलपद्मं कोटिचन्द्रवदाननं
करधृतवरमुद्रापाशवेदाक्षसूत्रम् ।
धृतशशधरखण्डोद्गीर्णपीयूषवर्षं
स्तुतम् इति परिभाव्य †प्रोज्ञते† मोहजालैः ॥ 7.69 ॥

7.70

हृदयकमलमध्ये चन्द्रकर्पूरमुक्ता
रजतकुमुदभासं सूक्ष्मम् ईशानम् आद्यम् ।
स्मरति यदि स रोगै विघ्नजालोपसर्ग
व्रणदुरितभयाद् यैर् मुच्यते देवि योगी ॥ 7.70 ॥

7.71

गगनजलदभासं शूलखट्वाङ्गघण्टा
कुलिशवरकपालाभीति हस्तारविन्दम् ।
सकलदुरितभूतप्रेतकूष्माण्डवर्णा
ग्रसननिरतम् ईशं ध्यायतः स्याद् अभीष्टम् ॥ 7.71 ॥

7.72

प्रजपेद् अष्टसाहस्रं ध्यात्वा इत्थं परमेश्वरम् ।
सर्गोपसर्गविघ्नाद्यैर् मुच्यते व्याधिभिस् तथा ॥ 7.72 ॥

7.73

जपेद् द्वादशलक्षं तु य इमं मन्त्रम् आदरात् ।
वलिपलितनिर्मुक्त अजरामरतां व्रजेत् ॥ 7.73 ॥

7.74

यस्मिंस् तत्त्वे निविष्टं तु मनो निश्चलतां व्रजेत् ।
यदा तदा महेशानि ध्यानयोगम् उपक्रमेत् ॥ 7.74 ॥

ईश्वर उवाच

7.75

समाधिं संप्रवक्ष्यामि येन योगी शिवो भवेत् ।
ध्यानसिद्धं तु यद् रूपं योगदृष्ट्या निरीक्षयेत् ॥ 7.75 ॥

7.76

पुनः पुनः प्रसन्नात्मा निखिलेन तु चेतसा ।
यदा यदा लयं याति रूपं तच् चेतसा सह ॥ 7.76 ॥

7.77

तदा तदा योगदृशा समलक्षस्थिरं नयेत् ।
ध्यानात् सप्तगुणः कालः समाधिर् अभिधीयते ॥ 7.77 ॥

7.78

तत्र स्थितं भावं स्वरूपेण चलिष्यति ।
पश्यत्य् एकाग्रया बुद्ध्या समाधिस्थः स उच्यते ॥ 7.78 ॥

7.79

एकाग्रतिर् अव्यग्रो निश्चलो निश्चलेन्द्रियः ।
पश्येद् आत्माविभेदेन समाधिस्थः सदाशिवम् ॥ 7.79 ॥

7.80

समाधौ दृश्यते देवि वह्निज्योतिर् महन् महः ।
यस्मिन् तुष्टे भवेत् मुक्तिः समाधिस्थस्य योगिनः ॥ 7.80 ॥

7.81

सम्यक् समाधौ संसिद्धि योगी योगेन च क्षणात् ।
यद् यत् स्मरति वै रूपं तत् तत् पश्यति निश्चितम् ॥ 7.81 ॥

7.82

समाधौ साधिते सद्यः चिह्नान्य् एतानि पार्वति ।
दृश्यन्ते योगिनो योगाः सिद्धसामान्यसाधनाः ॥ 7.82 ॥

7.83

आज्ञासिद्धिश् चापल्यं बलवर्णप्रसाधनम् ।
आरोग्यं व्याधिनाशश् च शीघ्रगामित्वम् एव च ॥ 7.83 ॥

7.84

स्वेच्छया धारणं देहे वायोः श्रीखेचरीगणः ।
देवानां दर्शनं योगी सम्यगात्मप्रदर्शनम् ॥ 7.84 ॥

7.85

सर्वेन्द्रियवशीकारः सर्वज्ञत्वं च तत्क्षणात् ।
त्रिकालज्ञानसामर्थ्यम् ईश्वरत्वं च पार्वति ॥ 7.85 ॥

7.86

एते चान्ये च बहवो दृश्यन्ते योगसिद्धयः ।
यदा समाधिर् निर्विघ्नः सिद्धिं याति यतिप्रिये ॥ 7.86 ॥

7.87

तदा योगी जरामृत्युकालाद्यैः परिमुच्यते ।
सिद्धीनाम् आधिपत्यं च लभते नात्र संशयः ॥ 7.87 ॥

7.88

समाधौ यदि विघ्नानि सम्भवन्तीह योगिनः ।
तान् पूर्वोक्तप्रकारेण सम्यग् उत्सार्य पार्वति ॥ 7.88 ॥

7.89

समाधिं साधयत्य् एवं शनैस् तं च समुत्क्रमेत् ।
एतत् ते व्याहृतं देवि समाधिर् अतिदुर्लभम् ॥ 7.89 ॥

7.90

गुरुप्रसादामृष तद्निर्धूतपाप्मा
महेशयोगीशुभयोगसंस्थः ।
समभ्यसेत् सिद्धिम् अधीच्छुर् एवम्
उत्साहवान् आत्मविद् आदरेण ॥ 7.90 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां सप्तमः पटलः ॥


Kapitel 8: Innere Verehrung und Mantra-Verwirklichung

॥ अष्टमः पटलः ॥

ईश्वर उवाच

8.1

अथ आन्तरार्चनं वक्ष्ये सर्वसिद्धिप्रदायकम् ।
शुद्धे मनोरमे देशे सन्निविष्टः सुनिश्चितः ॥ 8.1 ॥

8.2

आत्मानं भावयेच् छुद्धतत्त्वगोचरम् ईश्वरः ।
ध्यात्वा चिरं प्रशान्तात्मा पूर्वोक्तध्यानयोगात् ॥ 8.2 ॥

8.3

पूजयेद् गन्धपुष्पाद्यैर् योगी भावमयैः शुभैः ।
षडाधारेषु विधिवद् द्वादशान्ते विशेषतः ॥ 8.3 ॥

8.4

पूजयेच् छम्भुम् अव्यग्रं शक्त्या सहितम् अव्ययम् ।
संस्मरन् नियतो देवि पीयूषार्णवम् उत्तमम् ॥ 8.4 ॥

8.5

सुशुभ्रस्फाटिकाभासं दिव्यकल्लोलवृंहितम् ।
तन्मध्ये विपुलं देवि रत्नद्वीपं विभावयेत् ॥ 8.5 ॥

8.6

सर्वत्र तु कुसुमं हृद्यं तन्मध्ये काननं स्मरेत् ।
पारिजातैः कदम्बैश् च मन्दारैः चन्दनैः कुचैः ॥ 8.6 ॥

8.7

बिल्वामलकजम्बीरचम्पकाशोकपाटलैः ।
बकुलैर् दाडिमैर् आम्रैः जम्बूनागवटादिभिः ॥ 8.7 ॥

8.8

स्वक्षैः कुवरकैर् देवि महाखर्जूरगोस्तनैः ।
समालैर् मालतीगुल्मैः शतपत्रैश् च वनजैः ॥ 8.8 ॥

8.9

अश्वत्थैः कर्णिकारैश् च सरलैर् अर्जुनैर् अपि ।
एतैर् अन्यैश् च विविधैः पादपैर् उपशोभितम् ॥ 8.9 ॥

8.10

मन्दमारुतसंभिन्नं कुसुमामोददिङ्मुखम् ।
तन्मध्ये भावयेद् योगीवरः सर्वगुणाधिकम् ॥ 8.10 ॥

8.11

कल्हारैः कमलैर् अर्घ्य पुष्पैः सौगन्धिकैः शुभैः ।
हंससारसकारण्डैश् चमरैश् चक्रवाकिभिः ॥ 8.11 ॥

8.12

अन्यैः कलकलारावैर् विहगैर् उपशोभितम् ।
महासरसि तन्मध्ये पुलिने ऽतिमनोहरे ॥ 8.12 ॥

8.13

परितः पारिजातं मण्डपं परिभावयेत् ।
रत्नर्चितगवाक्षा … श् चतुर्द्वारविराजितम् ॥ 8.13 ॥

8.14

†रत्नोपक्ष्णासं† संशोभितकपाटाष्टकसंयुतम् ।
पताकाध्वजमालाभिः शोभितं मङ्गलाङ्कुरैः ॥ 8.14 ॥

8.15

कलशैर् मुकुरैश् चित्रैस् तोरणैर् विविधासनैः ।
सहस्रदीपसंयुक्तं दीपदङ्क विराजितम् ॥ 8.15 ॥

8.16

वितानक्षत्रमालादामविराजितम् ।
जम्बकास्मीर कस्तूरीमृगनाभितमालकैः ॥ 8.16 ॥

8.17

चन्दनागुरुकर्पूरैर् मोदितदिगम्बरं ।
पुष्पप्रकरसंकीर्णं धूपामोदसुगन्धितम् ॥ 8.17 ॥

8.18

रत्नदीपाद्भुतद्युतं रक्षितं सर्वदैवतैः ।
इत्थं ध्यात्वा महेशानि मण्डपं परमात्मनः ।
तन्मध्ये भावयेन् मन्त्री पारिजातं सुपुष्पितम् ॥ 8.18 ॥

8.19

भ्रमद् भ्रमरसंगीतं वर्षन्तं कुसुमोत्करम् ।
तस्याधस्तात् स्मरेद् योगी रत्नसिंहासनं शुभम् ॥ 8.19 ॥

8.20

रत्नकाञ्चनसन्दीप्तं प्रियकाजिनम् अङ्कितम् ।
दिव्यवस्त्रावृतं सौम्यं तस्य मध्ये व्रजं स्मरेत् ॥ 8.20 ॥

8.21

तारकं शक्तितालं प्रास्मतमनुकर्णिकं ।
वह्निमण्डलपत्राक्ष सूर्यमण्डलकेसरम् ॥ 8.21 ॥

8.22

सोममण्डलकिञ्जल्कं शिवशक्त्यात्मकं पदम् ।
तत्कर्णिकायाम् आसीनं †दिव्यसन्दिष्टविग्रहम्† ॥ 8.22 ॥

8.23

प्रसन्नं वरदं सर्वं शरच्चन्द्रसमप्रभम् ।
व्याघ्रचर्मपरिधानं टङ्कशूलभयान्वितम् ॥ 8.23 ॥

8.24

नरमुद्राधरं शान्तं सर्वालङ्कारम् अङ्कितम् ।
पद्मासनस्थितं सर्वपार्श्वगैः परिवारितम् ॥ 8.24 ॥

8.25

सर्वज्ञाननिधिं देवि सर्वज्ञं परमेश्वरम् ।
समानोदितचन्द्रार्ककोटिभानुविग्रहम् ॥ 8.25 ॥

8.26

शरीरदुःखशमनं समस्ताभीष्टसाधकम् ।
सर्वमन्त्रमयं शुभ्रं सर्वयोगमयं शिवम् ॥ 8.26 ॥

8.27

नवयौवनसम्पन्नं सर्वलक्षणभूषितम् ।
त … माण्डस्थलगताम् विकामं मरार्चितम् ॥ 8.27 ॥

8.28

भक्ततापत्रयहरां सर्वमृत्युविनाशिनीम् ।
एवं ध्यात्वा शिवं योगी समावाह्यम् अवरुध्य च ॥ 8.28 ॥

8.29

मातृकां विन्यसेद् भूयः श्रीकण्ठादीन् अपि स्मरेत् ।
शिवागमोक्तविन्यासैः सम्यग् विन्यस्तविग्रहः ॥ 8.29 ॥

8.30

प्रविभेदेन भावेन पूजयेत् परमेश्वरम् ।
प्रथमं गुरुहेरम्बौ पूजयेद् वामदक्षकम् ॥ 8.30 ॥

8.31

शास्तारम् आर्यं बटुकं क्षेत्रेशं च यथाक्रमम् ।
अग्निरक्षो ऽनिलेशानकोणेषु परिपूजयेत् ॥ 8.31 ॥

8.32

नवशक्तीर् यजेद् अष्टपत्रमध्ये तु पार्वति ।
नमो भगवते प्रोक्त्वा भृगकोटिशता अक्षरान् ॥ 8.32 ॥

Unnummerierte Textlücke

X X X
X X X

Unnummerierte Auslassungszeichen des Drucks zwischen 8.32 und 8.34; Umfang und Wortlaut des fehlenden Textes sind hier nicht bestimmbar.

8.34

प्रोक्तागुणासशक्यं ते युक्ताय पदम् उच्चरेत् ।
अनन्ताय पदं प्रोक्त्वा योगपद्यपदं वदेत् ॥ 8.34 ॥

8.35

पीठसने नमो तोडस्तारादिः पीठपूजने ।
आवाह्य पूर्वमन्त्रेण साङ्गं सपरिवारकम् ॥ 8.35 ॥

8.36

मानसेन विधानेन भावपुष्पैः समर्चयेत् ।
तत्तदागममार्गेण योगी संपूज्य यत्नतः ॥ 8.36 ॥

8.37

तर्पयेद् भावसुधया नैवेद्यैर् भाविसाधितैः ।
कुं कं च कल्पयित्वा तु भावज्वालितपावकैः ॥ 8.37 ॥

8.38

जुहुयाद् वरुणसमिधाद्यैश् च तद्भवैः ।
धर्माधर्म हवीर्दीप्ते आत्माग्नौ मनसा हुनेत् ॥ 8.38 ॥

8.39

दत्त्वा पूर्णाहुतिं देवि होमकर्म समाप्य च ।
समाप्य पूजाशेषं च तत्प्रसाद पवित्रकम् ॥ 8.39 ॥

8.40

पूजयेच् च यथाशक्ति दत्त्वा बलिविधिं शुभम् ।
सपर्यैषा मया प्रोक्ता शांभवीभावसाधनी ॥ 8.40 ॥

8.41

मानया सदृशी लोके सपर्या देवि विद्यते ।
अथवान्यप्रकारेण पूजोक्ता परमेश्वरि ॥ 8.41 ॥

8.42

पूर्ववद् विजने देशे समासीनो जितेन्द्रियः ।
ध्यायेत् तु मण्डलं पूर्वं प्रभाकिरणभास्करम् ॥ 8.42 ॥

8.43

तन्मध्ये परमेशानि आत्मानं ज्योतिरूपिणम् ।
निवातस्थो यथा दीपस् तथा निश्चलविग्रहम् ॥ 8.43 ॥

8.44

कोटिसूर्यप्रतीकाशं ज्वलन्तम् अमृतं शुभः ।
स्मरेत् तदविभेदेन स्वरक्षां तन्मयं शनैः ॥ 8.44 ॥

8.45

समस्तदेवतापुञ्जपञ्जरं गुणरञ्जितम् ।
ध्यात्वेत्थं पूजयेद् एकं भावपुष्पामृतादिभिः ॥ 8.45 ॥

8.46

तद् एव जुहुयाद् योगी हविभिर् भावसाधिभिः ।
एवम् आराधयन् शम्भुम् आत्मरूपम् अकल्मषम् ॥ 8.46 ॥

8.47

योगसाम्राज्यसम्पद्भिर् युज्यते सो ऽचिराद् एव ।
अथान्तरसपर्यायाम् अन्तरायो भविष्यति ॥ 8.47 ॥

8.48

भावसिद्धेन बलिना तद्भोगैस् तस्य तर्पणैः ।
शमेयेद् उपसर्गाञ् च दारुणात् ॥ 8.48 ॥

8.49

मूलाधारे तडिद्वर्ण भाभासितदिगन्तरम् ।
बालसूर्यसहस्राभं सुशुद्धं गुणावर्जितम् ॥ 8.49 ॥

8.50

स्वशक्तिविधृतं देवि समासीनम् अनुपमम् ।
पूर्ववद् भावसुधया संतर्प्य परिपूजयेत् ॥ 8.50 ॥

8.51

भावार्च्यचरणा होमः कर्तव्यस् तत्र योगिनः ।
एवं सम्पूजयन् योगी वत्सरात् सिद्धिम् आप्नुयात् ॥ 8.51 ॥

8.52

सर्वज्ञां सारसामर्थ्यां देवैर् अपि सुदुर्लभाम् ।
षड्दलकमले देवि स्वाधिष्ठाने महेश्वरम् ॥ 8.52 ॥

8.53

मध्यगतं महासूर्यकिरणाभासम् उच्यते ।
ज्योतिर्मण्डलमध्यस्थं भावगम्यं सुनिश्चलम् ॥ 8.53 ॥

8.54

पूजयन् भावमात्रेण यः पूजयति नित्यशः ।
संसिद्धिम् अष्टमासेन लभते देवि दुर्लभाम् ॥ 8.54 ॥

8.55

मणिपूरे महापद्मे जाम्बुनदसमप्रभाम् ।
सं … र् गैरिकाभासम् अचञ्चलम् अनूपमम् ॥ 8.55 ॥

8.56

मनोमयमहाद्रव्यैः पूज्य पूर्वोक्तमार्गतः ।
षण्मासाल् लभते सिद्धिं वाञ्छितां परमेश्वरि ॥ 8.56 ॥

8.57

अनाहते महापद्मे जपाकुसुमसंप्रभम् ।
प्रवालाङ्कुरसंकाशं सहस्रार्कसमप्रभम् ॥ 8.57 ॥

8.58

पूर्वोक्तविधिना योगी सम्पूज्य परमेश्वरि ।
चतुर्मासाद् अनु पाप्मामेति सिद्धिं जनप्रिये ॥ 8.58 ॥

8.59

विशुद्धौ चन्द्रसंकाशं प्रभामण्डलमध्यगम् ।
सुधास्तुततनुम् शान्तं पूर्ववत् परिपूजयेत् ॥ 8.59 ॥

8.60

स त्रिमासान् महासिद्धिं लभते देवि दुर्लभाम् ।
चन्द्रकोटिप्रतीकाशम् आज्ञायां परमेश्वरि ॥ 8.60 ॥

8.61

पूर्वोक्तविधानेन पूजयेद् भावसाधनैः ।
द्विमासाद् अभिसिद्धानाम् आधिपत्यम् अनुत्तमम् ॥ 8.61 ॥

8.62

द्वादशान्ते महादेवं शरच्चन्द्रार्बुदप्रभम् ।
शुद्धस्फटिकमुक्ताभं य … त्य मणिसन्निभम् ॥ 8.62 ॥

8.63

सुधावर्षं प्रवर्षन्तं सर्वयोगफलप्रदम् ।
सुधामण्डलमध्यस्थं निश्चलं गुणवर्जितम् ॥ 8.63 ॥

8.64

सर्वान्तरायव्याधिघ्नं कालग्रसनतत्परम् ।
महोपसर्गदुरितमृत्युपीडाभयापहम् ॥ 8.64 ॥

8.65

सर्वारोग्य महासम्पत् सामान्यपददायकम् ।
पीयूषवर्षं वर्षन्तं वलीपलितहारिणम् ॥ 8.65 ॥

8.66

अणिमादिमहासिद्धिसाधनैकतरं शिवम् ।
सर्वज्ञसिद्धिदं कालत्रयविज्ञानदायकम् ॥ 8.66 ॥

8.67

सर्वसिद्धिप्रदातारं जीवन्मुक्तिपदं परम् ।
तर्पयेद् भावसुधया भावपुष्पैश् च पूर्ववत् ॥ 8.67 ॥

8.68

एवं क्रमेण यो योगी पूजयेत् परमेश्वरम् ।
मासत्रयेण सर्वासां सिद्धीनाम् अधिपो भवेत् ॥ 8.68 ॥

8.69

अजरामरताम् एति वत्सरार्धप्रयोगतः ।
आत्मानं तन्मयं ध्यात्वा सम्यग् एवाविभेदतः ॥ 8.69 ॥

8.70

पूजयेन् मनसा भावकुसुमैस् तत् सुधाद्रवैः ।
अचिरेणैव कालेन स योगी योगभाक् भवेत् ॥ 8.70 ॥

8.71

इत्य् एषा व्याहृता देवि पूजा ते परमेश्वरि ।
नानया सदृशी पूजा सर्वशास्त्रेषु दृश्यते ॥ 8.71 ॥

8.72

आत्मसंस्थं परित्यज्य बहिःसंस्थं यजेच् छिवम् ।
करस्थं पायसं त्यका लिहेत् कूर्परम् एव सः ॥ 8.72 ॥

8.73

आत्मरूपी परः शम्भुः जगद् एतत् तदाश्रयम् ।
तस्मिन् सम्पूजनं देवि पूजितं सचराचरम् ॥ 8.73 ॥

8.74

हिंसादिदोषमुक्तत्वाद् अन्तरङ्गविमुक्तिदम् ।
तस्मात् सर्वप्रयत्नेन शिवम् अन्तः समर्चयेत् ॥ 8.74 ॥

8.75

पूजैषा शाम्भवी गुह्या प्राणायामादयस् तथा ।
योगश् च मन्त्रसिद्धिश् च सिद्ध्यन्तीति सुनिश्चितम् ॥ 8.75 ॥

8.76

अन्यथा क्लिश्यन्ते देवि न सिद्धिर् उपजायते ।
असिद्धमन्त्रयोगतः असिद्धिर् उपजायते ॥ 8.76 ॥

8.77

गुह्यका भूतवेताला व्याधयो मृत्युश् चापरे ।
विघ्नयन्ति समासाद्य पीडयन्ति च योगिनम् ॥ 8.77 ॥

8.78

तस्मात् सर्वप्रयत्नेन मन्त्रम् आदौ प्रसाधयेत् ।
मन्त्रसिद्धिं विना योगी योगां प्रयुज्यते ॥ 8.78 ॥

8.79

तस्य धातुगता देवि योगिनं भक्षयन्ति तम् ।
भैरवे सह देवेशि जपिते मन्त्रवर्जिते ॥ 8.79 ॥

8.80

क्षणात् सिद्धिं प्रयच्छन्ति मन्त्रसिद्धस्य योगिनः ।
असम्यग् युञ्जते वापि तस्मान् मन्त्रं जपे सुधीः ॥ 8.80 ॥

8.81

यद् यद् समीहते देवि मन्त्रसिद्धिः प्रयोजनम् ।
तत् तद् आशु लभेत् सद्यो निर्विघ्नेन सुरार्चिते ॥ 8.81 ॥

8.82

न जरामृत्युर् वा रोगा भूतायक्षाश् च गुह्यकाः ।
जपिनं नोपसर्पन्ति भयभीताः समन्ततः ॥ 8.82 ॥

8.83

तस्माज् जपेन् महाविद्यां योगिनीं हृदयङ्गमाम् ।
न कर्मणा साधनसंविधानै
न वायुरोधैर् न च पूजयान्तः
न सिद्धिर् उक्तापि च मन्त्रसिद्धौ ।
प्रजायते सिद्धिर् अतीव दिव्या ॥ 8.83 ॥

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायाम् अष्टमः पटलः ॥


Kapitel 9: Mantraherleitung, Nyasa und Einweihung

॥ नवमः पटलः ॥

श्री ईश्वर उवाच

9.1

अथ गुह्यं प्रवक्ष्यामि मन्त्रराजं महेश्वरि ।
यत्सिद्धौ सर्वसिद्धिः स्याद् योगिनो नात्र संशयः ॥ 9.1 ॥

9.2

मन्त्रोद्धारं प्रवक्ष्यामि सर्वसिद्धिप्रदं परम् ।
महाचमत्कारकरं महामुक्तिप्रवर्तकम् ॥ 9.2 ॥

9.3

महामृत्युप्रशमनं समाज्ञापरिकृन्तनम् ।
स्वाज्ञासंसिद्धिदं देवि जरापलितहानिदम् ॥ 9.3 ॥

9.4

भूतप्रेतोपसर्गादिदारणं शत्रुनाशनम् ।
चोरव्याघ्रमहासर्पपरचक्रादिवारणम् ॥ 9.4 ॥

9.5

त्रैलोक्यमोहनं देवि त्रिकालज्ञानदायकम् ।
अणिमादिप्रदं जीवन्मुक्तिदं खेचरप्रदम् ॥ 9.5 ॥

9.6

बहुनात्र किम् उक्तेन जरामरणनाशनम् ।
अवर्गश् च कवर्गश् च पवर्गश् च चवर्गकम् ॥ 9.6 ॥

9.7

तवर्गश् च टवर्गश् च यवर्गश् चेति सप्तकम् ।
डाकिनी शाकिनी चैव लाकिनी काकिनी तथा ॥ 9.7 ॥

9.8

साकिनी हाकिनी देवि यक्षिणी चेति कीर्तिता ।
सप्ताधारेषु विख्याता वर्गसप्तकं संश्रयात् ॥ 9.8 ॥

9.9

नाथसप्तकसंयुक्ता योगिन्यो योगसिद्धिदा ।
तासां हृदयगोमंशे सर्वमन्त्रप्रधानवान् ॥ 9.9 ॥

9.10

तं प्रोच्यमानम् अधुना शृणु योगिमनःप्रियम् ।
तृतीयं काकिनीवर्गा वर्धयेद् अक्षरं पदम् ॥ 9.10 ॥

9.11

यक्षिणी द्वितीयं पश्चात् यक्षिणी तृतीयं पुनः ।
साकिनी प्रथमं देवि यक्षिणी सप्तमं ततः ॥ 9.11 ॥

9.12

अष्टमं यक्षिणी वर्गाः दत् परम् उदीरितम् ।
वह्नि (अं) पीठ (उ) शिखी (†तफर्लरं†) योनि (†एऐंरं†) मन्त्रम् ईरितम् ॥ 9.12 ॥

9.13

पुटितं पञ्चतारेण (ऊ ॠ त त्रा) सर्वज्ञत्वं प्रदक्षणात् ।
दण्डबिन्दुयुतै (अं) वह्निरक्षरै (अं) क्रमशः सुधीः ॥ 9.13 ॥

9.14

तेनैवानल वाग्बिन्दु … सद्धिः पुरोदितैः ।
नाभान्ते तु विशुद्ध्यादिः धामनाम समीरयेत् ॥ 9.14 ॥

9.15

ज्वालामन्तं ततस् तन्तु धातुनाम समीरयेत् ।
द्वितीयान्तं च रक्षेति युगलं प्रोच्चरेत् ततः ॥ 9.15 ॥

9.16

पातियुक्तान्य मुन्याहु षडङ्गानि महेश्वरि ।
कराङ्गुलीषु विन्यस्येत् कनिष्ठादिषु मन्त्रवित् ॥ 9.16 ॥

9.17

पञ्चभिश् चापरेणैव तलयोस् तनुपृष्ठयोः ।
हृदयादिषु च न्यस्येद् यथाविधिः पुरस्सरम् ॥ 9.17 ॥

9.18

मन्त्री दण्डी बिन्दुयुग्मो तदन्येन लवायुभिः ।
साघीशं बिन्दुयुक्तं तु बीजयुक्तं सुदुर्लभम् ॥ 9.18 ॥

9.19

बीजान्ते दक्षिणपदं द्वादशाङ्गाधिवासितम् ।
वरदेति समुच्चार्य परमेश्वरि चेति वै ॥ 9.19 ॥

9.20

परापरे पदं प्रोक्त्वा वदेत् परमकारणो ।
परमपदशमान्ते विग्रहे पदम् उच्चरेत् ॥ 9.20 ॥

9.21

सर्वदुःखा स्पदं प्रोक्तलोहितो ऽग्निसमन्वितः ।
शमनीति पदं भूयश् चेत्य् एहीति पदं ततः ॥ 9.21 ॥

9.22

मत्प्राणशक्ति रक्षेति गुगुले हृदये न्यसेत् ।
मन्त्र यमाल रक्षार्थम् ईरितः परमेश्वरि ॥ 9.22 ॥

9.23

अथ न्यासविधिं वक्ष्ये येन विन्यस्तविग्रहः ।
सर्वपातकनिर्मुक्तः सिद्धिपरमिकां लभेत् ॥ 9.23 ॥

9.24

चुत्की तले ब्रह्मपदे भालाक्षि श्रवणे द्वये ।
सबिन्दुकैः मन्त्रवर्णैः पञ्चवर्णैः पञ्चसम्पुटैः ॥ 9.24 ॥

9.25

विन्यसेत् परमेशानि नासिकाङ्गद्वये तथा ।
वदने चोष्ठयोर् देवि चिबुके च न्यसेत् पुनः ॥ 9.25 ॥

9.26

वक्त्रन्यासम् इदं प्रोक्तं त्रैलोक्यक्षोभकारकम् ।
कण्ठे स्तनद्वये चांशयुगले ककुदौ हृदि ॥ 9.26 ॥

9.27

तथा कूर्परयोः पाण्योः पार्श्वयोर् जठरे पुनः ।
हृदयन्यासम् उद्दिष्टं महापातकनाशनम् ॥ 9.27 ॥

9.28

सर्वव्याधिहरं भद्रे सर्वरक्षाकरं भवेत् ।
नाभौ पृष्ठे कटियुगे गुह्ये चाण्डद्वये तथा ॥ 9.28 ॥

9.29

मूले गुदे स्फिचकट्यां लिङ्गाग्रे नाभिमूलके ।
मध्यन्यासम् इदं प्रोक्तं महामृत्युविनाशनम् ॥ 9.29 ॥

9.30

सर्वविघ्नप्रशमनं सर्वलोकवशीकरम् ।
ऊर्वोर् मूले तथा मध्ये चोर्वोर् अग्रे तयोर् अधः ॥ 9.30 ॥

9.31

जान्वग्रे जानुमूले च जङ्घयोस् तु पदे तथा ।
पादन्यासम् इदं देवि सर्वार्थप्रतिपादकम् ॥ 9.31 ॥

9.32

सर्वज्ञत्वपदं दिव्यं सर्वजीवमनोहरम् ।
ततः समस्तमन्त्रेण कान्तं पादान्तम् आत्मवित् ॥ 9.32 ॥

9.33

पादात् कान्तं च विन्यस्येद् देवि व्यापकयोगतः ।
त्रिसन्ध्यम् अर्द्धरात्रे च यद् एनं स्वविग्रहे ॥ 9.33 ॥

9.34

न्यसेत् तदा वत्सराधिकाणिमादि गुणान्वितः ।
भविष्यति महेशानि सर्वपातकवर्जितः ॥ 9.34 ॥

9.35

एवं न्यसेद् शिरो ध्यानम् एवं समाचरेत् ।
अमृतार्णवमध्ये तु रत्नद्वीपे मनोहरे ॥ 9.35 ॥

9.36

उद्यानं भावयेद् दिव्यं दिव्यकल्पद्रुमाश्रितम् ।
तन्मध्ये भावयेद् देवि परामृतमहानदीम् ॥ 9.36 ॥

9.37

तस्याश् च पुलिने रम्ये कदम्बवनम् उत्तमम् ।
संस्मरेत् फलपुष्पार्घ्यं भ्रमरगीतसनादितम् ॥ 9.37 ॥

9.38

तत् कोटरोलितचारुशशाङ्कवर्णं
कादम्बरीवरसुधा परिमोदितासम् ।
तद्गन्धलोलुप समागतराजहंस
सारङ्ग कोकिलशुकादिविहङ्गजुष्टम् ॥ 9.38 ॥

9.39

तस्मिन् वने विपुलसहस्रदीप्तं
मध्यमरूढं कुसुमोत्करपारिजातम् ।
सिंहासनप्रवरदर्पणपूर्णकुम्भं
राजद् वितानवरम् अकम्पम् उज्ज्वलन्तम् ॥ 9.39 ॥

9.40

श्रीमण्डले पुटित वह्नि पुरस्य मध्ये ।
विद्युत्प्रभाविलसितं कमलः बिम्बं ।
सिंहासनो परिवृता सन् सूर्यचन्द्र
व्यवस्थितं विधि धृतापृकसिद्धियलम् ॥ 9.40 ॥

9.41

तत् कर्णिकागतम् अचिन्त्यम् अनेकचन्द्र
मुक्तामणिस्फुटितकुम्भवितानभासम् ।
भालस्थलधृतचारुशशाङ्कखण्ड
निर्गत सुधारससमाधुतदिव्यगात्रम् ॥ 9.41 ॥

9.42

विद्युल्लतासदृशचारुतरं प्रबन्ध
रत्नादिजालम् अमलं लाङ्गमन्डकल्पम् ।
कादम्बरीवरसुधापरिपूर्णपात्रं
संसक्तपाणितलम् उद्धृतरत्नदण्डम् ॥ 9.42 ॥

9.43

प्रालेयचन्द्रधवलो त्रमशेषभार
श्रीकुण्डलाङ्गद महावलयादिभूषम् ।
मन्दस्मिताञ्चितमुखं कमनीयजालं
भूषा विभूषितम् अजादिसुरौघवन्द्यम् ॥ 9.43 ॥

9.44

तद्वामां … लगता
… भावयेत् परमेश्वरि ।
अलोलमणिताटङ्कामता प्रमदिरेणपम् ॥ 9.44 ॥

Unnummerierte Textlücke

X X X
X X X

Unnummerierte Auslassungszeichen des Drucks vor 9.46; zwei Reihen mit je drei X. Die dazwischen erwartete Versnummer ist nicht gedruckt. Umfang und Wortlaut des fehlenden Textes sind nicht bestimmbar.

9.46

कुचं मन्दारभारोधनु मन्दस्मितयुताननाम् ।
चारुग्रैवेयमण्डुलां वृत्तोत्तुङ्गस्तनाञ्चिताम् ॥ 9.46 ॥

Unnummerierte Textlücke

X X X
X X X

Unnummerierte Auslassungszeichen des Drucks vor 9.48; zwei Reihen mit je drei X. Die dazwischen erwartete Versnummer ist nicht gedruckt. Umfang und Wortlaut des fehlenden Textes sind nicht bestimmbar.

9.48

चारुरूपोरुणायुगाम् आरक्तपादपङ्कजाम् ।
शोभालावण्यसौन्दर्यसमुदायस्वरूपिणीम् ॥ 9.48 ॥

9.49

श्यामलां शिवपार्श्वस्थां कोमलां यौवनोज्ज्वलाम् ।
भक्ततापत्रयीशत्रुं मधुरस्मितचन्द्रिकाम् ॥ 9.49 ॥

9.50

नखाङ्कुरविनिर्भिन्नकालमृत्युयमादिकाम् ।
सर्वसाम्राज्यसम्पत्तिप्रदातृसुरभूरुहाम् ॥ 9.50 ॥

9.51

सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् ।
सप्ताधारेषु मन्त्राणां भावयेद् भावयोगतः ॥ 9.51 ॥

9.52

विद्युज् जाम्बूनद जवा लीनाशुक्लाभिरक्ताकाः ।
कोटिचन्द्रनिभं चान्द्रं वर्णास् ते प्रकीर्तिताः ॥ 9.52 ॥

9.53

एवं वर्णात्मकं देहं भावयित्वा विचक्षणः ।
जपेद् विद्यां महेशानि शर्वविद्याधिनायिकाम् ॥ 9.53 ॥

9.54

सम्यग् दीक्षविधौ देवि गुरुणा समुदीरितम् ।
नान्यथा फलदं मन्त्रं कल्पकोटिशतैर् अपि ॥ 9.54 ॥

9.55

विनापि कलाशासकैः दीक्षागुरुमुखात् श्रुता ।
कुम्भपूजाविधौ सम्यक् कृत्वा प्रोक्षणमार्गतः ।
तस्यापि गुरुभक्तस्य जायते सिद्धिर् उत्तमा ॥ 9.55 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां नवमः पटलः ॥


Kapitel 10: Einweihungsmandala und Yogini-Verehrung

॥ दशमः पटलः ॥

10.1

दीक्षाविधिं प्रवक्ष्यामि येन योगी मलक्षयम् ।
प्राप्नोति दुर्लभां सिद्धिम् अचिराद् एव पार्वति ॥ 10.1 ॥

10.2

एकान्ते विजने देशे पशुदृष्टिगोचरे ।
समं भूमितलं कृत्वा दर्पणोदरसन्निभम् ॥ 10.2 ॥

10.3

वस्त्रप्रावरणैर् देवि मण्डलेन वितानके ।
भूषयित्वा यथान्यायं उपलिप्य विधानतः ॥ 10.3 ॥

10.4

उपविश्यासने दिव्ये प्राङ्मुखो नियतः शनैः ।
विघ्नान् उत्सार्य यत्नेन प्राणायामैर् जितेन्द्रियः ॥ 10.4 ॥

10.5

स्वपुरो दक्षिणे भागे विदध्यान् मण्डलं शिवे ।
चतुरस्रं महेशानि मध्ये वर्तुलराजितम् ॥ 10.5 ॥

10.6

तत्र शङ्खं प्रतिष्ठाप्य साधारं पात्रकं तु वा ।
पूरयेद् गन्धतोयेन हेतु मिश्रेण योगवित् ॥ 10.6 ॥

10.7

आधारं गात्रं संचिन्त्य पात्रम् अर्कं विचिन्तयेत् ।
वारि सोममयं ध्यात्वा तत्तन्मन्त्रैः प्रयुज्य च ॥ 10.7 ॥

10.8

षडङ्गान् अर्चयेन् मूलविद्यया सप्तवारकम् ।
प्रजप्य प्रोक्षयेत् तेन सपर्यासाधनादिकम् ॥ 10.8 ॥

10.9

तदर्घ्यवारिणा देवि स्वपुरो †वामकैः† पुनः ।
वहन् नाडीन्युतं रुद्ध्वा गरुडासनम् आस्थितः ॥ 10.9 ॥

10.10

नदत् पर्णा डना देवि चतुरस्रं प्रकारयेत् ।
तन्मध्ये वर्तुलं पद्मं कारयेद् विधिपूर्वकम् ॥ 10.10 ॥

10.11

मण्डलकं प्रवक्ष्यामि येन पूजाफलं लभेत् ।
विना तेन महेशानि न सिद्धिम् अधिगच्छति ॥ 10.11 ॥

10.12

रोधनपदं समुच्चार्य चन्द्रसूर्यपदं वदेत् ।
अग्निगर्भपदं पश्चात् स्वरयुग्मं ततो वदेत् ॥ 10.12 ॥

10.13

धर्मार्थकाममोक्षान्तलाभं कुरु युग्मं ततः ।
महासमयशकलान्ते खेचरीपदम् ईरयेत् ॥ 10.13 ॥

10.14

मुद्राम् इति समुच्चार्य जनवीस्यपाटयेति च ।
शांभवव्यासपदं प्रोक्ता या पदं च समुच्चरेत् ॥ 10.14 ॥

10.15

पवुल्तर्थिनां सिध्यं ते सामर्ध्वं दहयुक् पुनः ।
पमुत्काकि च युग्मां ते कालेयुकारद पुनः ॥ 10.15 ॥

10.16

मण्डलां ते च ब्रह्माण्डं खं कलान्तं वदेत् तदा ।
विद्यद् इदग्निसार्ध्या दुःखं उ युक्तं वदेत् तदा ॥ 10.16 ॥

10.17

महाचन्द्रासवो प्रोक्तो हसहेम् इति कि पुनः ।
मण्डलाणुर् अयं देवि पञ्चप्रणवसम्पुटः ॥ 10.17 ॥

10.18

अनेन विधिना कृत्वा मण्डलं विधिपूर्वकम् ।
पूर्वादिषु चतुर्दिक्षु मध्ये वै रत्नपञ्चकान् ॥ 10.18 ॥

10.19

गतस्व मर्त्यया तालं नागसंघाः क्रमेण तु ।
ईशानादिषु कोणेषु मध्ये वै तारपञ्चकम् ॥ 10.19 ॥

10.20

विन्यस्याधारम् आधाय हेथात्र पदम् उच्चरेत् ।
आसनाय तथैकारं बिन्दुयुक्तं पुनर् वदेत् ॥ 10.20 ॥

10.21

अनेनाधारम् अभ्यर्चत् पञ्चाङ्गमण्डलं स्मरेत् ।
तत्पात्रं समाधाय ध्यायन्तं परिशोधितम् ॥ 10.21 ॥

10.22

पुरतो वाग्निवानैव श्रीपात्राधार उच्यते ।
आसनान् तु देवेशि पात्रं ध्यायेद् दिवानिशम् ॥ 10.22 ॥

10.23

संशोधितं घटस्थेन पूरयेत् सुधाहेतुना ।
सद् विनियेन देवेशि शोधयित्वा क्रमेण तम् ॥ 10.23 ॥

10.24

स द्वादशान्तो ज्वलितः मुद्रया देवमुद्रया ।
धारामध्यसमापूर्णां भावयेत् सोमरूपिणम् ॥ 10.24 ॥

10.25

पूर्ववजक्ष्ण मध्ये मध्ये कोणेषु मध्यके ।
पञ्चरत्नानि विन्यस्य विन्यसेत् तारपञ्चकम् ॥ 10.25 ॥

10.26

†वामाङ्गुष्ठानांम† योत्स्वस्वसलिनेवसेवरि ।
सप्तवारं सकृज् जप्त्वा विधिवन् मूलविद्यया ॥ 10.26 ॥

10.27

पूजयेद् गन्धपुष्पाद्यैर् धूपदीपादि दर्शयेत् ।
… प्रोत्मानं पूजोपकरणानि च ॥ 10.27 ॥

10.28

द्रव्यान्तरं मण्डलं च सर्वविद्यामयं भवेत् ।
ततो पूर्वोक्तविधिना सम्यग् विन्यस्तविग्रहः ॥ 10.28 ॥

10.29

सिद्धखरहोद्रिक्त कुसुमै रक्तचन्दनैः ।
षट्कोणं विलिखेद् देवि अष्टकर्णिककेसरम् ॥ 10.29 ॥

10.30

सहस्रदलसंयुक्तं भावनाविहितं तदा ।
पश्चिमे षोडशदलं भात्वंशं वायुकोणके ॥ 10.30 ॥

10.31

इरोदशदले पूर्वे षकारं परिकल्पयेत् ।
चतुर्दलम् अथ्याग्नेय्यां द्विगुणं निरृतिकोणके ॥ 10.31 ॥

10.32

ततो बहिर् विलिखेद् यन्त्रं ततो बहिः परमेश्वरि ।
चतुःषष्टिदलं पद्मं हृद्गतम् एव च ॥ 10.32 ॥

10.33

बहिर् आलिख्य तद् तं योगी भूपुरेण समन्वितम् ।
चतुर्द्वारसमायुक्तं सम्यग् आप्रोक्ष्य पूजयेत् ॥ 10.33 ॥

10.34

मध्ये विन्यस्य कलशम् अष्टगन्धोदकान्वितम् ।
षड् एव कलशान् कोणेष्व् आधाय परमेश्वरि ॥ 10.34 ॥

10.35

सम्पूज्य गन्धपयसा दिव्यार्घ्यजलसंयुतान् ।
रक्तवस्त्रैः समाच्छन्नान् रक्तयुक्तान् प्रपूजयेत् ॥ 10.35 ॥

10.36

मध्ये शिवौ समावाह्य पूज्य सर्वोपचारकैः ।
जपेत्वारं शिवं शान्तं योगिनीषट्कमध्यगम् ॥ 10.36 ॥

10.37

पूजयित्वा यथान्यायं तर्पयित्वा परामृतैः ।
षट्कोणकलशेष्व् एवं डाकिन्याद्याः समर्चयेत् ॥ 10.37 ॥

10.38

तत्तद्दलेषु देवेशि तास् ताः सम्यक् प्रपूजयेत् ।
चतुःषष्टिदले बाह्ये तदुक्तन्यासमार्गतः ॥ 10.38 ॥

10.39

निध्यष्टकसमायुक्ताः सिद्धयस् त्व् अणिमादयः ।
तथा चटकभूरकौ दुर्गाक्षेत्रेशम् एव च ॥ 10.39 ॥

10.40

चतुष्कोणेषु सम्पूज्य धूपदीपानि दर्शयेत् ।
पूजान्ते जुहुयाद् वह्नौ बलिं दद्याद् यथाविधिः ॥ 10.40 ॥

10.41

श्रीशब्दान्ते वरपदं †मषीवर्णान्† समुच्चरेत् ।
नाथान्ते श्रीपदं प्रोच्य परमाणाम् उदीरयेत् ॥ 10.41 ॥

10.42

स्वारीपूणीच् च श्रीपर्णान् पादुकां पूजयामि च ।
प्रोच्य सम्पूजयेद् देवि तर्पयामीति तर्पयेत् ॥ 10.42 ॥

10.43

अनेन क्रमे योगेन पूजयेत् सर्वदेवताः ।
आदौ शिरसि देवेशं षडाधारेषु चैव हि ॥ 10.43 ॥

10.44

पूजयित्वा महेशानि बहिर् एव समर्चयेत् ।
पूर्वं गिरिणेशानौ पूजयेद् वामदक्षिणे ॥ 10.44 ॥

10.45

तथा बटुकभैरवं दुर्गाक्षेत्रपतीन् क्रमात् ।
तत्तन्मन्त्रैः समभ्यर्च्य तर्पयित्वा परामृतैः ॥ 10.45 ॥

10.46

विश्वनाथं यजेच् छम्भुं शुद्धकारणवारिणा ।
पश्चिमे कलशे देवि हंसानन्देन संयुताम् ॥ 10.46 ॥

10.47

डाकिनीं पूजयेत् सम्यग् दलेषु क्रमयोगतः ।
अमृताकर्षिणी चैव इन्द्राणीशानिर् एव च ॥ 10.47 ॥

10.48

उमा चोर्ध्वं लका ऋद्धि ऋहलका तथैव च ।
भूषा तथैकतीराय ऐश्वर्या च तथापरा ॥ 10.48 ॥

10.49

†ओंकारत्वोषधा† देवि यक्षरक्षांसि षोडश ।
दलेषु तेषु विख्याता योगिन्यो योगसिद्धिदाः ॥ 10.49 ॥

10.50

वायव्ये कलशे नित्यानन्दभैरवसंयुताम् ।
राकिनीं पूजयेद् देवि दलेषु च महेश्वरि ॥ 10.50 ॥

10.51

कालरात्रि च सावित्री गायत्री च तृतीयका ।
घण्टाकर्णासंज्ञा च … र्णा चका तथैव च ॥ 10.51 ॥

10.52

भयाभया च हूंकारी ज्ञानरूपा तथैव च ॥ 10.52 ॥

10.53

तङ्करस्था च हूंकारियुक्ता दलदेवता ।
ईशान्येकलशे देवि … धान दे न संयुताम् ॥ 10.53 ॥

10.54

लाकिनीं पूजयेत् तत्र दलेष्व् एवं प्रपूजयेत् ।
कामरीति तथा पाटकारिणी राकिनी तथा ॥ 10.54 ॥

10.55

तामसी †स्थान्चो† द्राक्षा पूर्णिर्धात्री च नन्दिनी ।
पार्वती चैव कट्टकारी दश चेति प्रकीर्तिताः ॥ 10.55 ॥

10.56

पूर्वस्यां दिशि कुम्भं भोगानन्दसमन्वितम् ।
काकिनीं पूजयेत् तत्र दलेषु क्रमयोगतः ॥ 10.56 ॥

10.57

बन्दिनी भद्रकाली च माया चैव यशस्विनी ।
रमा लम्बोष्ठिका चैव दिव्यास् तत्र प्रकीर्तिताः ॥ 10.57 ॥

10.58

आग्नेयां कलशे देवि लोलानन्देन संयुताम् ।
शाकिनीं पूजयेद् देवि दलेषु वरदां श्रियम् ॥ 10.58 ॥

10.59

चण्डां सरस्वतीं चैव पूजयेत् क्रमयोगतः ।
नैरृत्यां कलशे भूषां नन्देन सह काकिनीम् ॥ 10.59 ॥

10.60

युगहंसवतीं चैव दलयोश् च समावतीम् ।
मध्ये परशिवं भक्ता पूर्वोक्तमनुना यजेत् ॥ 10.60 ॥

10.61

वृन्ते पूर्वादिताः पूज्याः श्रीकण्ठाद्याः सशक्तिकाः ।
चतुःषष्टिदले बाह्या तावत्यो योगिनीः स्वयम् ॥ 10.61 ॥

10.62

पूजयेत् सर्वसिद्ध्यर्थं तासां नामानि वै शृणु ।
अक्षोभ्यरिक्षक … च राक्षपणीक्षया ॥ 10.62 ॥

10.63

पिङ्गलाक्षी क्षयाक्षेणा शिला लिला तथैव च ।
लयलाला दलंका च लंकेशी लालसाढ्या ॥ 10.63 ॥

10.64

कराला कुलिनी चैव विशालाक्षी तथैव च ।
†हुड्डारी† वडवावक्त्रा तथैव च महोदरा ॥ 10.64 ॥

10.65

मन्त्रदी सर्वत्वकाल †थरावै कालंजयिका† ।
विद्युज्जिह्वा च रक्ताक्षी तथैव च करकिणी ॥ 10.65 ॥

10.66

मेघनादा ग्गारूडीग्रा कालकण्ठी वरप्रदा ।
चन्द्रा चन्द्रावती चैव प्रपञ्चा प्रलयान्तिका ॥ 10.66 ॥

10.67

रिपुवक्त्रा विशाला च पिशिता चैव लोलुपा ।
वामिनी वमिनी चैव तपती पावनी तथा ॥ 10.67 ॥

10.68

क्षतानना वहत्कुक्षि विकृता विस्वरूपिणी ।
यमजिह्वा जयन्ती च दुर्जया च यमान्तिका ॥ 10.68 ॥

10.69

विकाली रेवती चैव पूतना विजया तथा ।
चतुःषष्टि दलैश् चैव तपनी पावती तथा ॥ 10.69 ॥

10.70

… ।
… योगिनीः परिपूजयेत् ॥ 10.70 ॥

10.71

पश्चिमादि महेशानि तद् बहिश् चाष्टपत्रके ।
दलमूलेषु पूजाश् च भैरवमातृभिः सह ॥ 10.71 ॥

10.72

असिताङ्गो रुरुश् चण्डः क्रोधश् चोन्मत्त भैरवः ।
कपाली भीषणाक्षश् च संहारश् चाष्टभैरवाः ॥ 10.72 ॥

10.73

ब्राह्मी च मङ्गला चैव माहेशी चर्चिका तथा ।
कौमारी चैव योगेशी वैष्णावी हरसिद्धिका ॥ 10.73 ॥

10.74

वाराही चैव भद्रा च ऐन्द्री किलिकिला तथा ।
चामुण्डा कालरात्रीश् च महालक्ष्मीश् च भीषणा ॥ 10.74 ॥

10.75

पूर्वादिदलमूलेषु शक्तिद्वयसमन्वितान् ।
भैरवान् पूजयेद् देवि सर्वाभीष्टफलाप्तये ॥ 10.75 ॥

10.76

दलाग्रे सिद्धयः पूज्याः सर्वादिनिधिवाहनः ।
अणिमा महिमा चैव गरिमा च तथेशिता ॥ 10.76 ॥

10.77

वशित्वं च महेशानि प्राकाम्यशक्तिर् एव च ।
प्राप्तिश् च लघिमा चाष्टसिद्धयः सर्वकर्मसु ॥ 10.77 ॥

10.78

तथा पद्ममहापद्मौ मकरकच्छपस् तथा ।
मुकुन्दो नन्दनो नीलः शङ्खश् चैवाष्टमो निधिः ॥ 10.78 ॥

10.79

इन्द्राद्याश् चैव लोकेशाः पूज्याः पूर्वादितः क्रमात् ।
इति सम्पूज्य देवेशि धूपदीपानि च क्रमात् ॥ 10.79 ॥

10.80

दत्त्वा नैवेद्यम् अवदत्वा अग्रौ बलिम् आहरेत् ।
साधारं चषकं स्थाप्य मण्डले चतुरस्रके ॥ 10.80 ॥

10.81

अन्नपूर्णं सलिलं स द्वितीयं सहेनुकं ।
पुष्पताम्बूलदीपाद्यं पूर्वमन्त्रेण दापयेत् ॥ 10.81 ॥

10.82

तर्जनीमुद्रया देवि ध्यायेत् तं भूतवेष्टितम् ।
भैरवान् योगिनीवृन्दं क्षेत्रेशा नाशां नायकम् ॥ 10.82 ॥

10.83

तत् तन्मन्त्रैश् च सन्तर्प्य भूतादिभ्यो यथाविधिः ।
त्रि त्रि बिन्दुनिपातेन तर्पयेत् परमेश्वरि ॥ 10.83 ॥

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायां दशमः पटलः ॥


Kapitel 11: Mudras, Lobpreis und Übertragung der Einweihung

॥ एकादशः पटलः ॥

11.1

अथ नैवेद्यम् उत्सृज्य मुखवासादि दापयेत् ।
मुद्राश् च दर्शयेत् पश्चात् पूजान्ते सर्वसिद्धये ॥ 11.1 ॥

11.2

दक्षव्यांशो भुजौ देवि परिवर्त्य तथाङ्गुलीः ।
तर्जनीभ्यां समाक्रान्ते सर्वर्द्धि … मध्यमे ॥ 11.2 ॥

11.3

अङ्गुष्ठौ तु महेशानि कारयेत् सरलाव् अपि ।
एषा हि खेचरी मुद्रा सर्वसिद्धिप्रदायिनी ॥ 11.3 ॥

11.4

पुटाकारौ करौ कृत्वा तर्जन्यङ्गुष्ठकौ समौ ।
कारयेत् सरलाकारौ दीपमुद्रेयम् ईरिता ॥ 11.4 ॥

11.5

सर्वसिद्धिकरी देवि सर्वविघ्नविनाशिनी ।
एतस्या एव मध्यमा तर्जन्योः कुटिला गतिः ॥ 11.5 ॥

11.6

अङ्गुष्ठौ शृङ्गवत् कृत्वा शृङ्गमुद्रेयम् ईरिता ।
सर्वदुःखप्रशमनी सर्वोपद्रवनाशिनी ॥ 11.6 ॥

11.7

करौ संश्लिष्य चान्यान्यम् अङ्गुलीव्यत्यथेन च ।
मुद्रैषा सौभरी नाम सर्वव्याधिविनाशिनी ॥ 11.7 ॥

11.8

एताः मुद्राः मयाख्याता देवि प्रोक्ताः शुभावहाः ।
ततः स्वमूर्ध्नि कमले सहस्रदलसङ्कुले ॥ 11.8 ॥

11.9

पादुकामन्त्रम् उच्चार्य गुरुनाथं प्रपूजयेत् ।
तथा समर्पितशेषेण कारणेन समन्वितम् ॥ 11.9 ॥

11.10

चषकं तत् समुधृत्य गुरवे च निवेदयेत् ।
तत्त्वत्रयाणुनां दत्त्वा विचारं बिन्दुः तर्पणम् ॥ 11.10 ॥

11.11

स्तुतिभिश् च नमस्कृत्य पूजयेत् क्रमयोगतः ।
ओं नमो ऽनन्तरूपाय शम्भवे परमाणुवे ॥ 11.11 ॥

11.12

सर्वमन्त्रमहायोगफलदानैकहेतवे ।
नमो ऽनलात्मने ऽनन्तशक्तये परमात्मने ॥ 11.12 ॥

11.13

दिव्यज्ञानसुधा†तृसिरूपिणे† विश्वरूपिणे ।
वेदपञ्चकषड्वेदपञ्चवेदक्रमासने ॥ 11.13 ॥

11.14

तच्छक्तिगणसंश्लेषतृप्तितृप्ताय शम्भवे ।
भादिकूटसमुत्पन्न ज्योतिर्लिङ्गस्वरूपिणे ॥ 11.14 ॥

11.15

सादिकूटार्णसम्भूतशक्त्यालिङ्गितमूर्तये ।
आब्रह्मस्तम्बपर्यन्तमूतामूर्तस्वरूपिणे ॥ 11.15 ॥

11.16

स्वप्रसादामृतोल्लाससर्ववृत्तिविकाशिने ।
तरुणामृतकल्लोलधारादृक्पात भिषजे ॥ 11.16 ॥

11.17

स्वभक्तिरतितो व्याधिजरामृत्युविनाशिने ।
नमो योगामृतध्वस्त सस योनि कलेवरे ॥ 11.17 ॥

11.18

परमानन्दरूपेन्द्र दयक्ष्यादवामृताम्भसे ।
रुचिभावघनसारौघ सान्तदुष्करकर्मणे ।
योगिनो योगसाम्राज्य दक्षिणे शम्भवे नमः ॥ 11.18 ॥

11.19

सर्वज्ञासिद्धिसाम्राज्ययोगविद्यास्वरूपिणीम् ।
जीवन्मुक्तिप्रदां वन्दे भैरवीं विश्वनायकाम् ॥ 11.19 ॥

11.20

मध्ये वाग्भवमध्यस्था षट्करचिता विश्वानना विश्वगा ।
पञ्चप्रेतकृतासना कुजतनुर् ज्याष्टप्रकारोज्ज्वला ।
विद्युत्कोटिनिभप्रभा भवभयप्रध्वंसिनी भासते ।
भूयान् मे भुवनेश्वरी भुवनसूरीष्टाप्तये यक्षिणी ॥ 11.20 ॥

11.21

पद्मपाणिचतुष्टयेन करदी … नगानना ।
ननु ये वरदाभय तकदधती त्वद्यथिभूतस्थिता ।
मूलस्था भुवनाध्वगा हृदयगा दुग्धोदनैकप्रिया ।
सानन्दा ज्वलतोपमा वितरतु श्रेयांसि मे काकिनी ॥ 11.21 ॥

11.22

श्यामाङ्गो वरषेट् सदा करसरो घोलो भजन्ति त्रिका ।
स्पन्दद्वयवती शिरोमनुभवा भावासनास्थायिनी ।
कामस्था पदमार्गशोधनकरी रक्तग्रं हैकाग्रता ।
स्वाधिष्ठानगता सितोद रुचिरा सा पातु मां काकिनी ॥ 11.22 ॥

11.23

वर्णाध्वप्रतिति शोधिनी शिखरितो भेरण्डवक्त्रया ।
वृक्षारोहणतत्परा प्रभुपदस्यां कुस्यमाशुद्ध्याम् ।
मातस्या न गतिः स †नाति† निलया पिङ्गानुडानाप्रिया ।
माम् अव्याद् चिराद्दिखानुजनिता मांसाशिता लाकिनी ॥ 11.23 ॥

11.24

मेदस्थां हरितप्रभां कवचजां मन्त्राध्वसंशोधिनीं ।
दध्यनूनातिरुचिं यो हे ननु च तृषाद्यां बिडालासनाम् ।
दानस्थानगतां शशाङ्कविभवस्थां शूलमुदा ज्वलां ।
योगस्थाम् अभिरस्थगोलकपदां वन्दामहे काकिनीम् ॥ 11.24 ॥

11.25

विभ्राणा लकुटं च मूकम् असिता पञ्चभूवल्कोज्ज्वला ।
रौद्रस्थानपदानुगा ध्वम् अजिताभीतासितास्थिप्रिया ।
उद्द्वानैकरुचित् स्वक्रष्टुकृतारीहा जवाद् वन्दिता ।
पर्यारि च कलाध्वशोधनवती भूयान् मुदे शाकिनी ॥ 11.25 ॥

11.26

देवीं शूलकपालललितकरां मृण्यास्य षट्योग्निम् ।
भाणु प्रभवां वलक्ष विहगारूढां सतत्त्वाध्वगाम् ।
हारिद्राभनिभां सशांभवपदां पादस्थितापाटलां ।
वन्दे सर्वगतां संविदवसतिं शूलस्थितां हाकिनीम् ॥ 11.26 ॥

11.27

कपालशूलषट्काङ्गवलयान्वितपाणयः ।
श्रीकण्ठाद्याः स्वस्वमन्त्रैः पूजनीयाः प्रयत्नतः ॥ 11.27 ॥

11.28

तेषां च शक्तयः शूलकपालसहिताः शुभाः ।
चतुःषष्टिदले देवि योगिन्यो योगसिद्धिदाः ॥ 11.28 ॥

11.29

सर्वाभरणसम्पन्नाः सर्वाः मरकतप्रभाः ।
साक्षतं तिलकं भाले विभ्रन्त्यः समरांभराः ॥ 11.29 ॥

11.30

मदिरासर्वसम्पूर्णाः कपोलोज्ज्वलपाणयः ।
मात्रदङ्कधराः किञ्चित् स्मिताननसरोरुहाः ॥ 11.30 ॥

11.31

वेणीबन्धोज्ज्वलन्माल्या भैरवाङ्कसमाश्रयाः ।
ते ऽपि शूलकपालोद्धूता त्रिकटिभूषणाः ॥ 11.31 ॥

11.32

मदिराघूर्णितदृशः शोणवस्त्रानुलेपनाः ।
भैरवाङ्कसमारूढाः पद प्रौढाबुजाननाः ॥ 11.32 ॥

11.33

यष्टव्यां मातरः स्वाष्टदष्टपत्रेष्व् अभीष्टदाः ।
दलाग्रे सिद्धयः पूज्याः विधिवन् निधिवाहनाः ।
तत्तन्त्रोक्तविधिना हेरम्बादीन् समर्चयेत् ॥ 11.33 ॥

11.34

स्वांशाष्टकोद्दीपितमूलवर्णे
षड्भिस् तप्याः षट्स्वरभेदितैव ।
स्व स्वानुकूटैर् अपि नाम चोक्तं
मां दक्षयुग्मं त्व् अथ धातुनाम् ॥ 11.34 ॥

11.35

दक्षेति युग्मं त्व् अथ शर्वष्टाष्टं वशं करीत् येव जधोभिताख्यौ ।
देवि चितोक्तानम् इत्य् अथा चितेव् विधेपदम् उच्चरीयतादित् ।
वालरास्माभि च
सादिकूटम् उच्चार्य वाञ्छाय युगं तथान्ते ॥ 11.35 ॥

11.36

व्योमवरैकादि यतोघनाद्य
नामावसाने ऽपि च पादुकान्ते ।
स लोहितात्वीश जयामि चेति
रसोरनङ्गो ऽपि च वाग्भवं च ॥ 11.36 ॥

11.37

अनेन सप्तक्रमभेदितेन
प्रपूजयेत् पार्वति सप्त देवीः ।
स पञ्चतारैर् अपि मातृकार्णैः
श्रीकण्ठमुख्यान् अपि पूजयेच् च ॥ 11.37 ॥

11.38

दले चतुःषष्टिमये च तत्तन्
मूलार्णमूर्तैर् अपि पञ्चतारैः ।
अष्टाष्टागमोक्तक्रममन्त्रवर्ये
ब्रह्मार्णमुख्या न सितांकादीन् ॥ 11.38 ॥

11.39

वर्गाष्टकैर् एव च सिद्धिवृन्दं
तद्बीजयुक्तान् अपि लोकनाथान् ।
ततः शिरसि देवेशि परम्पर्यक्रमेण तु
गुरुभक्तिर् यजेद् भक्त्या सगुरुं तं समर्चयेत् ॥ 11.39 ॥

11.40

विद्यमाने गुरौ स्थाने मुक्तव्योम्नि लये नयेत् ।
लब्धानुज्ञः प्रसादार्थं तत्त्वमन्त्रैस् त्रिभिः पुनः ॥ 11.40 ॥

11.41

प्रसादीकृत्य तच्छेषं चरुप्रासनम् एव च ।
अथ शिष्यं समानीय भक्तिप्रणतचेतसा ॥ 11.41 ॥

11.42

सामान्यार्घेण संप्रोक्ष्य तत्त्वमन्त्रैर् अपि त्रिधा ।
दद्यात् प्रसादं देवेशि सम्यग् बटुकम् एव च ॥ 11.42 ॥

11.43

ततः प्राङ्मुखम् आसीनं शिष्यं गुरुर् उदारधीः ।
पश्चिमदिग्घटं गृह्य सम्यक् तम् अभिषेचयेत् ॥ 11.43 ॥

11.44

अथालङ्कृतम् आसीनं पूजास्थाने पुनर् गुरुः ।
प्रोक्ष्यार्घ्यवारिणा दद्यात् तत्तन्मन्त्रः प्रसादकम् ॥ 11.44 ॥

11.45

त्रिवारं परिदद्यात् तु मात्रेण अमृतम् उत्तमम् ।
†स्वदोपं† परमेशानि पशुपाशविमोचनम् ॥ 11.45 ॥

11.46

अथासीनस्य शिष्यस्य प्रतिलोमेन मातृकां ।
शरीरे विन्यसेत् सर्वपापसंहरणाय च ॥ 11.46 ॥

11.47

पुनश् चैवानुलोमेन सप्तवारं प्रविन्यसेत् ।
श्रीकण्ठादीन् न्यसेन् मूलं मन्त्रन्यासम् अथापरम् ॥ 11.47 ॥

11.48

वक्ष्यमाणक्रमेणैव योगिनीन्यासम् एव च ।
सप्तधारेषु विन्यस्य शिष्यस्य परमार्थवित् ॥ 11.48 ॥

11.49

एवं विन्यस्तदेहस् तु नमस्कृत्य गुरुं च पुनः ।
प्रोच्य मन्त्रवरं शिष्याय दत्त्वा वास्यसमीहितम् ॥ 11.49 ॥

11.50

अथास्य सप्तधारेषु सप्तवर्णान् अनुस्मरेत् ।
प्रवदेद् दक्षिणे कर्णे मन्त्रराजं गुरुः स्वयम् ॥ 11.50 ॥

11.51

मूर्ध्नि हस्तौ समाधाय भूयस् तम् अनुशासयेत् ।
प्रजपेच् च सप्तवृत्या स्वसामर्थ्यं प्ररक्षितुम् ॥ 11.51 ॥

11.52

शिष्यो ऽपि गुरुणा लब्धं जपेत् मन्त्रं शतावरम् ।
ततो वरं समुधृत्य भुञ्जीत सह तेन तु ॥ 11.52 ॥

11.53

शिष्यो ऽस्याभरणैः वस्त्रैः गुरुम् अभ्यर्चयेत् पुनः ।
दिने दिने यथाशक्ति जपेद् विद्यां प्रसन्नधीः ॥ 11.53 ॥

11.54

अनेन विधिना दत्ता विद्या भवति कार्यदा ।
अन्यथा गृह्णतः सिद्धिं न ददाति सुरार्चिते ॥ 11.54 ॥

11.55

तस्मात् सर्वप्रयत्नेन दीक्षां प्राप्य जपेन् मनुम् ।
एतत् गुह्यतमं देवि दीक्षाकर्मम् अथोदितम् ॥ 11.55 ॥

11.56

सर्वसिद्धिकरं पुण्यं सर्वयोगफलप्रदम् ।
सर्वैश्वर्यकरं चैव सर्वलोकजयावहम् ।
सर्वविघ्नप्रशमनं समस्ताभीष्टदायकम् ॥ 11.56 ॥

11.57

न मन्त्रसिद्धिर् न च योगलाभो न वास्य पूजा फलदानसिद्धिः ।
न चापि मृत्युर् न जरा जपेच् च विनैव दीक्षाविधिना महेशि ॥ 11.57 ॥

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायां एकादशः पटलः ॥


Kapitel 12: Mantra-Sadhana und Yogini-Verwirklichung

॥ द्वादशः पटलः ॥

ईश्वर उवाच

12.1

अथातः संप्रवक्ष्यामि मन्त्रसाधनम् उत्तमम् ।
नदीसमुद्रतीरेषु पर्वताग्रेषु वा सुधीः ॥ 12.1 ॥

12.2

शिवालये गृहे वापि पूजां कृत्वा पुरोदिताम् ।
विना च कुलशासकैर् विजने परमेश्वरि ॥ 12.2 ॥

12.3

मद्मसात् प्रसन्नात्मा सम्यग् आसीनम् आसने ।
कुङ्कुमाक्षतदिव्याङ्गे रक्तवसनधरासनः ॥ 12.3 ॥

12.4

दिव्यपुष्पावृतो मौनी कालागरुविधूपितः ।
चन्दनागरुकर्पूरैर् अधिवासितविग्रहः ॥ 12.4 ॥

12.5

पूर्ववन् मात्रा समास्थाय मुद्रासन्नद्धविग्रहः ।
पूर्वोक्तध्यानयोगेन संचिन्त्य लयम् आरभेत् ॥ 12.5 ॥

12.6

चन्दनागरुकर्पूरमृगनाभिसुगन्धितम् ।
रुद्राक्षस्फाटिकमयीम् अक्षमालां करे धृतम् ॥ 12.6 ॥

12.7

सहस्रं वर्तयेन् नित्यं मन्त्रराजं समाहितम् ।
स लभेद् दुर्गमां सिद्धिं देवैर् अपि सुदुर्लभाम् ॥ 12.7 ॥

12.8

वर्षत्रयेण देवेशि सत्यम् एतन् न संशयः ।
पूजयित्वा यथान्यायं यदि लक्षं जपेन् मनुः ॥ 12.8 ॥

12.9

स सप्तजन्मप्रभवैः पातकैः परिमुच्यते ।
लक्षद्वयेन देवेशि कोटिजन्मसमुद्भवैः ॥ 12.9 ॥

12.10

मुच्यते पातकैर् योगी सिद्धिं च लभते पराम् ।
लक्षत्रयेण मूको ऽपि वागीशत्वम् अवाप्नुयात् ॥ 12.10 ॥

12.11

सर्वज्ञत्वम् असम्बाधं लभते नात्र संशयः ।
चतुर्लक्षं यदि जपेन् मन्त्रम् एतत् समाहितः ॥ 12.11 ॥

12.12

लभते स्तम्भनसिद्धिः लोके परमदुर्लभाम् ।
अग्निस्तम्भं जलस्तम्भं मेघानिलनिवारणम् ॥ 12.12 ॥

12.13

सैन्यस्तम्भं गतिस्तम्भं चक्षुःस्तम्भम् अनुत्तमम् ।
यद् यद् वाञ्छति देवेशि तत् तत् संभवति क्षणात् ॥ 12.13 ॥

12.14

पञ्चलक्षेण देवेशि लोके वै श्रवणोपमः ।
आज्ञासिद्धिम् अवाप्नोति सर्वबाधाविवर्जितः ॥ 12.14 ॥

12.15

साम्राज्यगुणसम्पन्नो वलिपलितवर्जितः ।
भविष्यति महेशानि चिरञ्जीवी सरे र् अपि ॥ 12.15 ॥

12.16

षड्लक्षं विधिवज् जप्त्वा योगी खेचरतां लभेत् ।
सुदूरदर्शनं चैव दूरश्रवणम् एव च ॥ 12.16 ॥

12.17

मनोजवं कामरूपं परकायप्रवेशनम् ।
स्वच्छन्दमृत्युर् देवानां सहक्रीडा सुदर्शनम् ॥ 12.17 ॥

12.18

अङ्गुल्यग्रनिपाताद्यै भूमेर् अपि च कम्पनम् ।
इच्छेच् छक्तः स्वयं पातुं समुद्रम् अपि नातुरम् ॥ 12.18 ॥

12.19

शरीराद् अग्निनिर्माणं तत्रापभयवर्जितः ।
शक्यं जगद् इदं दग्धुं यद् इच्छेद् अप्रयत्नतः ॥ 12.19 ॥

12.20

त्रिकालज्ञत्वम् अद्वन्द्वं परिच विज्ञया ।
व … का वु विषादीनां प्रतिष्ठां भो पराजयः ॥ 12.20 ॥

12.21

एतान्य् अन्यांश् च देवेशि सिद्धिं चात्यन्तदुर्लभाम् ।
षट्लक्षजपमात्रेण योगी भवति सर्वदा ॥ 12.21 ॥

12.22

सप्तलक्षं यदि जपेद् विद्याम् एताम् अनुत्तमाम् ।
स शिवः सर्वलोकानाम् आधिपत्यम् अवाप्नुयात् ॥ 12.22 ॥

12.23

कर्ता हर्ता च पाता च स्वयम् एव जगत्त्रये ।
स्वेच्छागमनसंयुक्तो जीवेद् आचन्द्रतारकम् ॥ 12.23 ॥

12.24

इति सिद्धमनुर् देवि योगिनीवृन्दपूजितः ।
भैरवासौ भवेन् नूनं यन्त्रराजप्रभावतः ॥ 12.24 ॥

12.25

अथ कूटान् प्रवक्ष्यामि योगिनीनां महोदयात् ।
यैः साधयन्ति देवेशि योगिनो निजवाञ्छितम् ॥ 12.25 ॥

12.26

विद्या रुद्राक्षरो देवि प्रथमः परिपठ्यते ।
तस्माद् विद्याक्षरो यत्तु द्वितीयं वर्णम् उच्यते ॥ 12.26 ॥

12.27

सर्वस्माद् अपि च स्वर्णस् तृतीयः परिकीर्तितः ।
केवलः सप्तदशको वर्णः प्रोक्तः चतुर्दशः ॥ 12.27 ॥

12.28

तस्माद् द्वाविशंको देवि पञ्चमो कार्य ईरितः ।
षष्ठं च शष्टवर्त्यं स्यात् सप्तमं प्राणम् उच्यते ॥ 12.28 ॥

12.29

एते वर्णा महेशानि कूटान्यं कुलम् आश्रिताः ।
एतेषाम् एव वर्णानाम् एकैकस्य महेश्वरि ॥ 12.29 ॥

12.30

एते विषाद् अनि जलपावकादीन् समुद्धरेत् ।
स विशद् विद्र नादाख्य वायुः सागरवर्णकः ॥ 12.30 ॥

12.31

म° श° ते षट्स्वरयुते वा तलेन षडङ्गकं ।
वृत्या पृष्ठ यमो वर्ण सप्तधा तेषु विन्यसेत् ॥ 12.31 ॥

12.32

व्यापकेन कु विन्यस्य ध्यायेत् सप्तविभेदतः ।
पूर्वोक्तपूजामन्त्रेण ब्रह्मरन्ध्रे प्रविन्यसेत् ॥ 12.32 ॥

12.33

हं सा नं दां कगा देवि डाकिन्यो घोरविग्रहाः ।
विद्रुमज्वलनान्ता स विशुद्धविग्रहमध्यगा ॥ 12.33 ॥

12.34

कमण्डलुं कर्तरिं च धारयन्तीं वरप्रदाम् ।
एवं ध्यात्वा जपेन् मौनी डाकिनीकूटम् उत्तमम् ॥ 12.34 ॥

12.35

लक्षावृत्या विशुद्धा चेत् डाकिनी वश्यति प्रिये ।
सिद्ध्यत्य् अस्य महेशानि योगविद्या सुदुर्लभा ॥ 12.35 ॥

12.36

दिग् दले मणिपूराख्ये पाशाङ्कुशधरापरा ।
षडानां संकगाविन्दा सर्वाश्रितफलप्रदा ॥ 12.36 ॥

12.37

डाकिनी नाम देवेशि योगिनी योगसिद्धिदा ।
तत्कूटं लक्षमानेन ध्यात्वेदं प्रजपेत् सुधीः ॥ 12.37 ॥

12.38

ततः पश्यति तां देवि मणिपूरे महाम्बुजे ।
सर्वयोगफलप्राप्तिं लभते नात्र संशयः ॥ 12.38 ॥

12.39

नास्त्य् असाधकं किञ्चित् त्रैलोक्ये सचराचरे ।
स्वाधिष्ठाने षडारे तु भोगानन्दाङ्गगामिनी ॥ 12.39 ॥

12.40

मूलमुकधरा देवि वरदा हरितप्रभा ।
एवं ज्ञात्वा तु तत्कूटं लक्ष्यावृत्या यदा जपेत् ॥ 12.40 ॥

12.41

ततः पश्यति ताम् आशु स्वाधिष्ठाने च राजके ।
काकिनी नाम देवेशि योगिनी योगदायिनी ॥ 12.41 ॥

12.42

त्रिकालज्ञानम् आप्नोति खेचरत्वं च लभ्यते ।
वाक्सिद्धिं कायसिद्धिं च वाञ्छितार्थप्रसाधनम् ॥ 12.42 ॥

12.43

योगिनी सिद्धिम् आप्नोति शाकिनी जपसाधनात् ।
आज्ञायां द्विदले बालसूर्य†कोटिरसमप्रभम्† ॥ 12.43 ॥

12.44

मूषानन्दाङ्गगा शूलकपालार्पितपाणिनीम् ।
हलक्ष विहगारूढां खेचरैर् उपशोभिताम् ॥ 12.44 ॥

12.45

एवं ध्यात्वा च तं कूलं लक्षमानां जपेद् बुधः ।
ततः प्रविशति परमाज्ञायां लाकिनीं शिवाम् ॥ 12.45 ॥

12.46

तद्दर्शनसमुध्वस्तमहापातकसञ्चयम् ।
अणिमादिगुणैर् युक्ता खेचरीसिद्धिम् आप्नुयात् ॥ 12.46 ॥

12.47

सहस्रारमहापद्मे पञ्चप्रेतकृतासनाम् ।
विद्युत्कोटिनिभां साक्षात् परेशानसमन्विताम् ॥ 12.47 ॥

12.48

पाशाङ्कुशधनुर्बाणाधृतहस्तचतुष्टयाम् ।
ध्यात्वेत्थं परमेशानीं जपेल् लक्षं च तन्मनुम् ॥ 12.48 ॥

12.49

स शिव सर्वविद्योगी भैरभो ऽभिभवेत् ध्रुवम् ।
वलिपलितनिर्मुक्तः सर्वव्याधिविवर्जितः ॥ 12.49 ॥

12.50

अजरश् चामरो भूत्वा जीवेद् आचन्द्रतारकम् ।
प्रत्येकजपकाले तु पूजा कार्या विपश्चिता ॥ 12.50 ॥

12.51

सर्वविघ्ननिवृत्त्यर्थं सर्वाभीष्टफलाप्तये ।
महासप्ततिकूटेन मनुना प्रोक्तमार्गतः ॥ 12.51 ॥

12.52

रात्रौ पूजारतो मौनी लक्षमात्रं यदा जपेत् ।
समासीनं पितृवने सम्प्रदीप्तहुताशने ॥ 12.52 ॥

12.53

सहस्रं जुहुयाद् योगी छागासृक्क्लृप्तपायसैः ।
आज्यैश् च बिल्वैर् विधिवत् समिद्धिः पूज्य पूर्ववत् ॥ 12.53 ॥

12.54

मदिरानन्दतो भूत्वा सिद्धिमूला मनोन्मना ।
योगिनः सप्त ये तत्र यथा विभवविस्तरम् ॥ 12.54 ॥

12.55

बलिं च दद्याच् च छागासृग्धारया हेतुमिश्रया ।
असपत्नेवता रात्रिं विचरेत् याम पर्यर्य ॥ 12.55 ॥

12.56

प्रातः परामृतैर् एतो भैरवं योगिनीयुताम् ।
कुमारी बटुकश् चैव तर्पयेद् द्रव्यविस्तरैः ॥ 12.56 ॥

12.57

भोजनान्ते नमस्कृत्य याचेत् सिद्धिम् अभीप्सिताम् ।
अनुज्ञातस् तु भुञ्जीत शेषं तु नियतात्मवान् ॥ 12.57 ॥

12.58

अनेन विधिना योगी यथाभिलषितां गतिम् ।
सम्प्राप्य देववद् व्योम्नि विचरत्य् अजरामरः ॥ 12.58 ॥

12.59

तदा समस्तलोकानाम् आधिपत्यम् अवाप्नुयात् ।
एतद् उक्तं मया गुह्यं सर्वशास्त्रेषु दुर्लभम् ॥ 12.59 ॥

12.60

उत्तमं योगमन्त्राणां भैरवैर् योगिनीयुतम् ।
अनेन मन्त्रवर्येण वाञ्छितार्थान् अवाप्नुयात् ।
इहामुत्र च भद्रं ते प्रतिपत्याश्नुते फलम् ॥ 12.60 ॥

Schlussvers nach 12.60

श्रीसम्पद् योगवृद्धिप्रदम् अमरगणैर् अप्यशक्र प्रल … ।
गोप्यालोकेषु विद्यासु धवलयशसां धामं चाप्य प्रियाणाम् ।
भक्तानां गुप्तधीनां गुरुकरुणासुधातृप्तम् तृस्यप्राधानां ।
मन्त्रो ऽयं सर्वसारागमतिलकसत् सेव्यतां सिद्धिभावैः ॥

Schlussvers nach 12.60. Im Alternativscan sind am Ende sehr blasse Ziffernreste sichtbar, möglicherweise 61; sie werden nicht als sicher gelesene Versnummer in die Zählung aufgenommen. Die Lücke der ersten Zeile und das fragliche tṛsyaprādhānām stehen im Druck; weitere Kasusanschlüsse sind uneben. Das Schluss-m in sudhātṛptam ist am klareren Scan wiederhergestellt. Die deutlich gedruckte Zahl 62 steht erst hinter dem anschließenden Kolophon und wird dort wiedergegeben.

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायां द्वादशः पटलः ॥ 62 ॥


Kapitel 13: Yogini-Nyasa, drei Mandalas und Mantra-Glieder

॥ त्रयोदशः पटलः ॥

श्री ईश्वर उवाच

13.1

अथातः संप्रवक्ष्यामि योगिनीन्यासम् उत्तमम् ।
येन विन्यस्य देहस् तु षण्मासाद् भैरवायते ॥ 13.1 ॥

13.2

महासमर्षिमन्त्रं तत्कूटं हृदयाम्बुजे ।
भावयेल् लक्षसूर्याभं तदुद्भूतां स्वकां तनुम् ॥ 13.2 ॥

13.3

कोटिसूर्यसन्निभां भावयेद् एकदास्थितः ।
मूर्ध्नि श्रीनाथम् आधाय स्ववामे पादुकावलिम् ॥ 13.3 ॥

13.4

दक्षिणे गणान् विन्यस्य क्षेत्रे सपृष्ठदेशके ।
कात्यायनीं च पुरतः तत्तन्मन्त्रैः प्रविन्यसेत् ॥ 13.4 ॥

13.5

विन्यसेन् मातृकाम् आदौ देवि मेनौघशान्तये ।
सुधाबिन्दुविसर्गादिः तथा बिन्दुविसर्गकैः ॥ 13.5 ॥

13.6

विन्यसेन् नियतो योगी ऋष्यादिन्यासपूर्वकम् ।
†शिवभक्त्यालकं† रूपं ध्यात्वा विगतमत्सरः ॥ 13.6 ॥

13.7

श्रीकण्ठादीन् प्रविन्यस्य शक्तियुक्तान् स्वसिद्धये ।
तदर्स्थि मण्डलन्यासम् उच्यते सर्वसिद्धिदम् ॥ 13.7 ॥

13.8

येन विन्यस्तदेहस् तु योगी स्यात् तेजसां निधिः ।
रक्तदशदले पद्मे मणिपूरकसंज्ञके ॥ 13.8 ॥

13.9

आदीक्षित प्रविलसत् आसायत्र समुज्ज्वले ।
कर्णिकायां महारत्नं त्रिकोणं परिभावयेत् ॥ 13.9 ॥

13.10

धातुवर्णं च तन्मध्ये सुरक्तं बिन्दुम् उल्लिखेत् ।
तदुद्भूतं कृशानुं च रक्तश्वेतांशुकं प्रभुम् ॥ 13.10 ॥

13.11

शक्तिस्वस्तिकसंयुक्तं मयूरवरपृष्ठगम् ।
प्रसन्नवदनं स्वर्णमालालङ्कृतवक्षसम् ॥ 13.11 ॥

13.12

स्वभक्तदेहसंल्लीनं महापातकनाशनम् ।
सर्वसिद्धिप्रदं देवं स्वप्रियाभीष्टसिद्धिदम् ॥ 13.12 ॥

13.13

तद्रूपरूपम् आत्मानं भावयित्वा चिरं प्रिये ।
यं अग्निमण्डलाय धर्मप्रदसकलयुक्ताय नमः ॥ 13.13 ॥

13.13a

कर्णिकायां न्यसेद् एतं मनुं भूयो ऽपि विन्यसेत् ।
उत्तिष्ठ पिङ्गलहरि लोहिताक्ष । सर्वकर्माणि देहि दापय स्वाहा । आगच्छ ।
आवाहनेन मन्त्रेण कुर्यात् प्राणकर्माणि धापरं ।
ब्रह्मा ऋषिर् अनुष्टुप्छन्दः । श्रीप्राणशक्तिर् देवता । आँ हीं क्रों ।
आँ हीं क्रों शब्दरूपस्पर्शरसगन्धात्मने क्रीं हीं आं शिरसे स्वाहा ।
आँ हीं क्रों वाक्पाणिपादपायूपस्थात्मने क्रों हीं आँ शिखायै वषट् ।
आँ हीं क्रों वचनादानविसर्गानन्दात्मने क्रों हीं आं कवचाय हूं ।
आँ हीं क्रों मनोबुद्ध्यहंकारचित्तात्मने क्रों हीं आं नेत्राय वषट् ।
आँ हीं क्रों हंसप्राणात्मने क्रों हीं आं अस्त्राय फट् ।
एवम् अङ्गानि विन्यस्य ध्यायेत् शास्त्रोक्तमार्गतः ॥ 13.13अ ॥

Unnummerierter Abschnitt: Einsetzung der Lebenskraft

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 86.

आँ हीं क्रों श्रीं यं रं लं वं शं षं हं ।
देवदत्तस्य जीव इह स्थितः देवदत्तस्य सर्वेन्द्रियाणि वाङ्मना हंस प्राणा इहायान्तु स्वाहा ।
यं रं लं वं शं षं सं हं श्रीं हीं क्रों आँ ।
प्राणप्रतिष्ठो ऽयम् उक्तः । सान्निध्यक्षतक्षणात् दलेषु विन्यसेद् । आदिक्षान्तवर्णः संहिताकल्पः ।

Unnummerierter Abschnitt: Anrufungen der Feuer-Kalas

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 86–87.

यं धू आर्चिषेणम् । रं ऊष्मायैः । लं जुलिन्यैः ।
वं ज्वालिन्यै । दं विस्फुल्लिङ्गिन्यै वाहनायै ।
शं श्रियै । सं स्वरूपायै । लं हव्यवाहायै ।
क्षं कव्यवाहायै विन्यसेत् ।

13.14

देशकलापावकस्य यथाक्रमं तन्मयं
वाङ्मनोदेहं ध्यात्वा मन्त्रं जपेच् छनैः स्वरूपं ।
कटार्ण कमले कूटम् इमं ध्यात्वा तदुद्भवं ।
स्वशक्त्यालिङ्गितं भानुं ध्यायेच् चिरम् अनन्यधीः ।
पद्मयुग्मं च विभ्राणं हस्ताभ्यां रक्तवाससम् ।
प्रसन्नवदनं चारु किरीटादिविभूषितम् ॥ 13.14 ॥

13.15

भक्तानां धर्मार्थकामार्थसाधने परं प्रभुम् ।
तद्रूपम् आत्मानं चिन्तयित्वा पुनर् न्यसेत् ॥ 13.15 ॥

13.16

क्लीं मं सूर्यमण्डलाय वसुप्रदद्वादशकलायुक्ताय नमः ।
अनेनैवं प्रविन्यस्य कुर्याद् आवाहनं पुनः ।
ओं हीं हीं समार्तण्डभैरवाय प्रकाशशक्तिसहिताय आगच्छागच्छ हुं स्वाहा ।
पूर्ववन् मन्त्रवर्येण कुर्यात् प्राणप्रतिष्ठाम् ।
ध्यायेच् चापि यथान्यायं तेजोमण्डलधारिणाम् ॥ 13.16 ॥

Unnummerierter Abschnitt: Die zwölf Sonnen-Kalas

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 87.

तत् कलाश् चत्यसे देवि कादिमंत अर्णपत्रके ।
कं भं तापिन्यै नमः । खं वं तापिन्यै नमः ।
गं फं मरीच्यै घं पं मरीच्यै डं नं ज्वालिन्यै चं धं रुच्यै नमः ।
छं दं सुषुम्णायै जं थं गदायै दं तं विश्वायै ।
त्रं णं बोधिन्यै टं ढं धारिण्यै ठं डं क्षमायै नमः ।
सौरकलां देवि दलद्वादशके न्यसेत् ।
तदात्मकं स्मरन् देहं जपेद् बीजं महेश्वरि ॥

Unnummerierter Abschnitt: Vorstellung und Anrufung des Mondes

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 87–88.

विशुद्धे षोडशदले सुसितं बीजम् आत्मवित् ।
ध्यात्वा तदुद्भवं सोमं कलाषोडशसंयुतम् ॥
वर्षं तम् अमृतं ध्यायेत् स्वशक्त्यालिङ्गितं प्रिये ।
प्राणान् अपि प्रतिष्ठाप्य पूर्वोक्तमनुना पुनः ॥
ओं सोमाय नमः । आगच्छागच्छ स्वाहा ।
आवाह्य अनेन मन्त्रेण ध्यात्वा तन्मध्ये ईश्वरि
पत्रेषु स्वरदीप्तेषु कलाषोडशकं न्यसेत् ॥

Unnummerierter Abschnitt: Mantra des Mondkreises

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 88.

सौं डं सोममण्डलाय कामप्रदषोडशकलात्मने नमः ।
अनेन देवि मन्त्रेण मध्ये तन्मण्डलं न्यसेत् ।

Unnummerierter Abschnitt: Anrufungen der sechzehn Mond-Kalas

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 88.

अमृतायै नमः । आनन्दायै नमः ।
ईं पूषायै । ईं तुष्ट्यै । ईं पुष्ट्यै । कुं रत्यै । ॠं कृत्यै ।
ॠं ॠं शित्यै । ऌं चन्द्रिकायै । ॡं कान्त्यै । एं ज्योत्स्नायै ।
ऐं श्रियै । ओं प्रीत्यै । औं गदायै नमः ।
अं पूर्णायै । अः पूर्णामृतायै नमः ।
कलाः सुधानिभाः सौम्याः षोडशैव प्रविन्यसेत् ।

Unnummerierter Abschnitt: Übergang vom dreifachen Mandala zu den Yoginis

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 88.

एवं त्रिमण्डलन्यासम् उक्तं देवि प्रसिद्धये ।
कण्ठाधारपर्यन्तं भ्रूमध्ये ब्रह्मरन्ध्रके
डाकिन्याद्या न्यसेद् देवि योगिनीः सर्वसिद्धिदाः ॥
सप्तधारेषु संचिन्त्य सप्तवर्णानि च क्रमात् ।
स्वकूटज्वलितान्य् एव तत्सम्भूताश् च देवताः ॥
स्मृत्वा न्यासं पृच्छ वीतदेहस्य नवताप्तये ।

Unnummerierter Abschnitt: Mantrablock und Blattgöttinnen der Dakini

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 88.

डाकिन्ये इति कर्णिकायां प्रविन्यसेत् ड म ल व र यु°
तत्कूटं रक्तवर्णं च ध्यात्वा तत्कूटसम्भवाम् ।
काकिनीं भावयेद् देवि ततो दलेषु विन्यसेत् ॥

Unnummerierter Abschnitt: Blattanrufungen mit Vokalen

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 88–89.

आं अकर्णिकायां प्रभृतायै नमः ।
आं आकर्षिण्ये नमः ।
इं इन्द्रायै नमः ।
ईं ईशान्यै नमः ।
उं उमायै नमः ।
ऊं ऊर्ध्वकेश्यै नमः ।
ॠं ॠधायै नमः ।
ऌं लुकायै नमः ।
ॡं लूषायै नमः ।
एं एकवीरायै नमः ।
ऐं ऐश्वर्याय नमः ।
ओं ओंकाराय नमः ।
औं औषधायै नमः ।
अं अम्बिकायै नमः ।
अः अक्षरायै नमः ।

Unnummerierter Abschnitt: Schutzformel und Hamsananda-Paduka

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 89.

एवं दलेषु विन्यस्य मध्ये भूयः प्रविन्यसेत् ।
पूर्वोक्तन्यासमार्गेण ध्यात्वा देवशसशक्तिकाम् ॥
डां डीं डं डं डैं डौं डः कमलवायुं डाकिनीनां रक्ष त्वम्
चं रक्ष रक्ष सर्वशत्रुवशंकरि देवि नमश् चामुण्डे वरदे विच्चे ।
सक्षमलं व्यूह सक्षमल वयं ।
एं क्लीं क्षौं श्रीं हंसानन्दनाथश्रीपादुकां पूजयामि ।
क्षौः क्लीं एं डां डाकिन्यै नमः इति मध्ये भूयः प्रविन्यसेत् ।

Unnummerierter Abschnitt: Roter Block im Anahata und elf Blattanrufungen

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 89.

र म ल व र यूं एतत् कूटं रक्तवर्णम् अनाहतपद्मे स्मरेत् ।
तत्कूटजनितां देवि शङ्किनीं पूर्ववत् स्मरेत् ।
तद्दलेषु न्यसेद् देवं न्यस्य तन्नामपूर्वकं राकिन्यै नमः इति ।
विन्यस्यैवं प्रविन्यसेत् ।
कं कालरात्र्यै नमः ।
खं खतितायै नमः ।
गं गायत्र्यै नमः ।
घं घण्टाकारिण्यै नमः ।
टं टर्ण्यै नमः ।
चं चामुण्डायै नमः ।
छं छायायै नमः ।
फं फंकारिण्यै नमः ।
डं ज्ञानस्वरूपिण्यै नमः ।
टं टङ्कहस्तायै नमः ।
ढं ढंकारिण्यै नमः ।

Unnummerierter Abschnitt: Schutzformel und Nityananda-Paduka

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 90.

एकं भानुं दले न्यस्य पुनर् मध्ये च विन्यसेत् ।
ध्यात्वा पूर्वोक्तविधिना यथावद् विजितेन्द्रियः ॥
रीं रीं रूं लूं रैं रौं रः रमलवरयूं राकिनी मां रक्ष रक्ष ।
रक्ष सर्वत्येत्यादि पूर्ववन् नित्यानन्दनाथश्रीपादुकां पूजयामि ।
शं शाकिन्यै नमः । इति मध्ये देवि पुनर् न्यसेत् ।

Unnummerierter Abschnitt: Lakini im Manipura

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 90.

मणिपूरकमध्ये तु लां लाकिन्यै इति वद विन्यसेत् ।
डं डामर्यै नमः ।
तं तामस्यै नमः ।
थं स्थाणव्यै नमः ।
पं पार्वत्यै नमः ।
फं फट्कारिण्यै नमः ।
दलेषु दशसु न्यस्य भूयो विन्यसेत् सुधीः ।
लं लाकिन्यादि पूर्ववत् मन्मां रक्ष …
छानन्दनाथ श्रीपादुकां पूजयामि ।
श्री लां लाकिन्यै नमः ।
नमो मध्ये न्यसेत् भूयो ऽपि पार्वति ।

Unnummerierter Abschnitt: Kakini im Svadhishthana

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 90–91.

स्वाधिष्ठाने च कां पूर्वं काकिन्यै च नमो न्यसेत् ।
पूर्ववत् ध्यानयोगेन ध्यात्वा षट्पत्रके न्यसेत् ।
वं वधिन्यै नमः ।
भं प्रकाल्यै नमः ।
मं मायायै नमः ।
यं यशस्विन्यै नमः ।
रं रमायै नमः ।
लं लम्बोष्ठ्यै नमः ।
एवं विन्यस्य पत्रेषु कर्णिकायां न्यसेत् ।
काक्रीं इत्यादि पूर्ववत् मन्मेदं रक्ष रक्ष ।
भोगानन्दनाथश्रीपादुकां पूजयामि ।
कां काकिन्यै नमो । तं च मन्त्रमध्ये पुनर् न्यसेत् ।

Unnummerierter Abschnitt: Sakini am vierblättrigen Grundlotus

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 91.

मूले चतुर्दले पद्मे सां साकिन्यै नमो न्यसेत् ।
वं वरदायै सश्रियै नमः ।
षं षडायै नमः ।
सं सरस्वत्यै नमः ।
एवं पत्रेषु विन्यस्य मध्ये देवि प्रविन्यसेत् ।
सां सीम् इत्यादि पूर्ववत् मदस्थि रक्ष रक्ष ।
वीरानन्दनाथश्रीपादुकां पूजयामि ।
काकिन्यै च पुनर्मन्त्रं नमो च तं मध्यतो न्यसेत् ।

Unnummerierter Abschnitt: Bhakini zwischen den Brauen

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 91.

भ्रूमध्ये द्विदले विभां भाकिनीं न्यसेत् ।
हं हं सम्प्रै नमः ।
क्षं समावत्यै नमः ।
दलद्वये च विन्यस्य ध्यात्वा पूर्वोक्तमार्गतः ।
शं हीम् इत्यादि पूर्ववत् तन्मे मज्जां शुक्रं रक्ष रक्ष ।
मु स्वानन्दनाथश्रीपादुकां पूजयामि ।
एवं विन्यस्य वै मध्ये भां भाकिन्यै नमः ।

Unnummerierter Abschnitt: Yakshini am Brahmarandhra und Abschluss des Körpernyasa

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 91.

तथा यां यक्षिण्यै नमः ।
इति ब्रह्मरन्ध्रे प्रविन्यसेत् ।
सर्वाभ्यो योगिनीभ्यश् च नमो ऽन्ते परितो न्यसेत् ।
पूर्वोक्तमालामनुना भ्रूमध्ये देवि प्रविन्यसेत् ।
यां यीम् इत्यादि पूर्ववत् मत्प्राणशक्तिं रक्ष ।
परमशिवनाथश्रीपादुकां पूजयामि ।
यक्षिण्यै नमः ।
इत्य् अन्ते यामि यीमि इत्यादि पुनः स्थाप्य प्राणप्रतिष्ठमन्त्रं च प्रत्येकं विन्यसेत् ।
शिवे पुनः पदान्तं मस्तकादिपादावधि महामन्त्रेण विन्यसेत् ।
न्यासस्यास्य समाप्तये ततः खण्डं गं विन्यसेत् ।

Unnummerierter Abschnitt: Anfang einer weiteren verschlüsselten Mantraherleitung

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 91–92.

प्रोक्तस्थानेषु साधकः हं स्थिरश् च क्षकावर्म
नेत्रादिद्योर्ध्वं ।
को त्रि ह्य् एकदशक द्वि त्रि अङ्गुले विशेत्
व्योमात्मानं तं विहंत नमः पदम् उदीरयेत् ।
चिरं कस्वान्तस्वरीशा केवलाः परिकीर्तिताः ।
भानुः स्वरयुतः पश्चात् आपठो सो ऽनूलार्धतः ।
भादि खादिक्षकारादिः त्रिविश विसर्गवान् ।
विसर्गान्तान्तगो पुनः स्वङ्गनेत्रविभूषितः ।
परमेश्वरि शब्दान्ते तथा परमकर्णिकाः ॥

Unnummerierter Abschnitt: Herz- und Kopfmantra in verschlüsselter Form

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 92.

डणिके पूर्वबीजान्तो हृन्मन्त्रः परिकीर्तितः ।
व्योमनलेन्दु वामाक्षि बीजान्तो विश्ववन्दिते ॥
पदम् उक्त्वा ह दे वर्णः स्वरविद्याधिपे पदं
लोहितायुतो हादि रिकारार्धो त्रिर् एव च ॥
वीध्यो तदर्णिके पूर्णि पूर्वबीजः शिखो मनुः
भोम तलाशिवि हन्तो बीज सीयोंग विग्रहे ॥

Unnummerierter Abschnitt: Schutzanrufung mit roter Yoni

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 92.

पदम् उक्त्वा महावर्णो वायुः सद्योगिनि द्वयं ।
कले त्रिनेत् रसन्धीशो रास्वादी पदम् उच्चरेत् ।
सद्यः पञ्चस्वरयुतो प्रथमो वह्निवर्णकः ।
लोहिते योनि संश्लिष्टे मदघूर्णितलोचने ।
रक्ष मां रक्ष खं वहि रक्ष बिन्दुयुतां शिवाम् ॥

Unnummerierter Abschnitt: Mahamaya und weitere Lautchiffren

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 92.

†आकारौकाराविन्द्राग्नि† मन्त्र द्वि त्रयं वदेत् ।
महामाये पदं प्रोक्तो मेषो मेरुधियक्षराः ।
स मेष शेष शेषा हि वह्नियुक्तो ऽसिर् इव च ।
शांभोभैवं तं संयुक्तो द्विर्ल् एतोल्पो दृगान्वितः ।
मुमाकान्तो दृशां दीशो कालो व्योमदितीययान् ॥
द्विरंडो भौतिकयुतो (एऐ) रविवर्णो (अं ख फ र) तत् परम्
लोहितो ऽनन्त भवायुकलो ऽनन्तेन्दुर् एव च ॥

Unnummerierter Abschnitt: Fortsetzung bis Parapara

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 92–93.

पालीशान्ते (य) घ बीजान्तो क च वाणगुरुदीरितः ।
हरानुग्रह †विन्चन्ते† प रे पदम् उदीरयेत् ।
परापरमये वार्याः परमार्थनये पुनः ।
परमेश्वरीपदं भूयः पश्चात् पाहि पदं पुनः ॥

Unnummerierter Abschnitt: Augen- und Waffenmantra: Abschluss der Herleitung

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 93.

मां माङ्गल्यप्रदे सर्वबीजान्तो नेत्रमन्त्रकम् (ईं औं) ।
व्योमाग्नि कादि बीजान्तो चण्डिचण्डायुधे पदम् ।
चण्डेश्वरि चन्द्र भूयः चकाराति निषूदिति ॥
महासंहारशब्दान्ते चण्डिके रक्ष रक्ष माम् ।
पूर्व बीजयुतो मन्त्रो ह्य् अस्त्राख्यः परिकीर्तितः ॥
एते मन्त्रा महेशानि षडङ्गानां मयोदिताः ॥
यैः साधयन्ति योगीन्द्रा वाञ्छितं नात्र संशयः ॥

Unnummerierter Abschnitt: Wirkungen und Schluss des Yogini-Nyasa

Redaktionelle Abschnittsgrenze; Sensharma 1994, Sanskritseiten 93.

एतन् न्यासं महेशानि कीर्तितं योगिपूजितम् ।
त्रिकालं विन्यसेद् देवि द्वात्रंशकारकम् ॥
षण्मासाद् देवता सत्यं भैरवाभो भवेद् ध्रुवम् ॥
द्विवर्षात् कामरूपत्वं जायते नात्र संशयः ।
विस्मिता च पुरा न्यस्त न्यासं सर्वार्थसाधकम् ॥
तेन देवि नृसिंहादि धत्ते रूपम् अमोघदृक् ।
अमोघतां याति शिवे तस्य धाग कदाचन ॥
तस्मात् सर्वप्रयत्नेन न्यसेद् देहस्थिरातये ।
न व्याधिर् न जरामृत्युर् न चैवान्ये विभीषकाः ।
तं द्रष्टुम् अपि शक्ताः स्युर् न्यासं यं वज्रपञ्जरः ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां त्रयोदशः पटलः ॥


Kapitel 14: Schrift, Guru und Khechari-Lehre

॥ चतुर्दशः पटलः ॥

ईश्वर उवाच

14.1

अथ देवि प्रवक्ष्यामि विद्यां खेचरसंहिताम् ।
यया विज्ञायते ऽभ्यासात् लोके ऽस्मिन्न् अजरामरः ॥ 14.1 ॥

14.2

मृत्यु-व्याधिजराग्रस्तं दृष्ट्वा विश्वम् इदं प्रिये ।
बुद्धिं दृढतरां कृत्वा खेचरीं तु समाश्रयेत् ॥ 14.2 ॥

14.3

जरामृत्युगदघ्नी या खेचरीं वेत्ति भूतले ।
ग्रन्थतश् चार्थतश् चापि तदभ्यासप्रयोगतः ॥ 14.3 ॥

14.4

तं देवि सर्वभावेन गुरुं मत्वा समाश्रयेत् ।
दुर्लभा खेचरीविद्या तदभ्यासं च दुर्लभम् ॥ 14.4 ॥

14.5

अभ्यासमेलनं चैव युगपन् नैव सिध्यति ।
अभ्यासमात्रनिरतो न विन्देतेह मेलकम् ॥ 14.5 ॥

14.6

अभ्यासाल् लभते देवि जन्मजन्मान्तरे क्वचित् ।
मेलने भुजगानां च जन्मान्ते तु न लभ्यते ॥ 14.6 ॥

14.7

अभ्यासं बहुजन्मान्ते कृत्वा सद्भावसाधितम् ।
मेलके लभते देवि योगी जन्मान्तरे क्वचित् ॥ 14.7 ॥

14.8

यदा तन् मेलकं कर्म तदा शिवत्वम् आप्नुयात् ।
विमुक्तिं संसृतिवृत्तात् लभते परमेश्वरि ।
तदा तत् सिद्धिम् आप्नोति तद् उक्तं शास्त्रसंततौ ॥ 14.8 ॥

14.9

ग्रन्थतश् चार्थतश् चैव लभते मेलकं तदा ।
तदा शिवत्वम् आप्नोति विमुक्तः संसृतिवृत्तात् ॥ 14.9 ॥

14.10

शास्त्रं विना समावोढुं गुरवो ऽपि न शक्नुयुः ।
तस्मात् सुदुर्लभतरं लभ्यं शास्त्रम् इदं प्रिये ॥ 14.10 ॥

14.11

यावन् न लभ्यते ग्रन्थस् तावद् गां पर्यटेद् इमाम् ।
यदा स लभ्यते देवि तदा सिद्धिः करे स्थिता ॥ 14.11 ॥

14.12

न शास्त्रेण विना सिद्धिर् अटतो ऽपि जगत्त्रये ।
तस्मान् मेलकदातारं शास्त्रदातारम् ईश्वरि ॥ 14.12 ॥

14.13

तदभ्यासप्रदातारं शिवं मत्वा सदा यजेत् ।
तन्त्राश् च बहवो देवि मया प्रोक्ताः सुरार्चिते ॥ 14.13 ॥

14.14

न तेषु खेचरीसिद्धिर् आख्याता मृत्युनाशिनी ।
महाकालं च मार्तण्डं विवेकाद्यं च शांवरम् ॥ 14.14 ॥

14.15

विशुद्धेश्वरसंज्ञं च तथा वै जालशंवरम् ।
एतेषु तन्त्रवर्येषु तदभ्यासप्रकाशितम् ॥ 14.15 ॥

14.16

क्वचित् स्पष्टं तथास्पष्ट क्वचित् तं मेलकादिकम् ।
अस्मिन् तन्त्रे वरे दिव्ये मेलकादि प्रकाशितम् ॥ 14.16 ॥

14.17

यद्य् अज्ञेयं भवेत् किञ्चिद् दुर्ज्ञेयं खेचरीमते ।
ततः सम्यग् इहास्माभिस् तव देवि प्रकाशितम् ॥ 14.17 ॥

14.18

तस्माच् छास्त्रं प्रलभ्येत मयोक्तम् इदम् अद्भुतम् ।
गोपनीयं सुगुप्तत्वान् न सर्वत्र प्रकाशितम् ॥ 14.18 ॥

14.19

मन्मुखाम्बुरुहाज् जातं यस् तु शास्त्रामृतं वदेत् ।
स एव हि गुरुः सत्यम् अर्थतो वेत्ति यः पुनः ॥ 14.19 ॥

14.20

स चाधिकः समाख्यातो न गुरुस् तेन चाधिकः ।
लब्ध्वा शास्त्रम् इदं गुह्यं अन्येषां न प्रकाशयेत् ॥ 14.20 ॥

14.21

सुविचार्य प्रवक्तव्यम् एकमार्गोपजीविना ।
षट्पदं परमं शास्त्रं यथा तथा प्रकाशयेत् ॥ 14.21 ॥

14.22

स शीघ्रं भक्ष्यते देवि योगिनीभिः शिवाज्ञया ।
ग्रन्थि नोद्ग्रन्थयेद् अस्य विना कौलिकतर्पणात् ॥ 14.22 ॥

14.23

पूजितं शुभवस्त्रस्थं दिव्यधूपसुधूपितम् ।
श्रावयेद् विजने स्थाने योगिने योगशालिने ॥ 14.23 ॥

14.24

यस्मिन्न् अपूजितं शास्त्रं इदं तिष्टंति वै गृहे ।
तत्राग्निरुद्गहारात्रिपीडा भवति निश्चितम् ॥ 14.24 ॥

14.25

यत्रेमं पूजितं ग्रन्थं गृहे तिष्ठति पार्वति ।
तत्र सर्वार्थदायिन्यो वसन्ति कुलदेवताः ॥ 14.25 ॥

14.26

तस्मात् सर्वप्रयत्नेन गोपनीयं विजानता ।
यो ऽस्मिन् योगी मयोक्तानि संसिद्धीनि समीहते ॥ 14.26 ॥

14.27

स योगी सर्वभावेन गोपये पुस्तकं त्व् इदम् ।
अहं तस् तु गुरुं देवि यत्रास्ते पुस्तकं स्वयम् ॥ 14.27 ॥

14.28

गुणागुणं महेशानि पुस्तकस्य च रक्षणे ।
प्रकटं च मया प्रोक्तं इदानीं खेचरीं शृणु ॥ 14.28 ॥

14.29

यत्रास्ते च गुरुर् देवि दिव्ययोगप्रसाधकः ।
तत्र गत्वा च तेनोक्तां विद्यां संगृह्य खेचरीम् ॥ 14.29 ॥

14.30

तेनोक्ता सम्यगभ्यासं कुर्याद् आदाव् अतन्द्रितः ।
विद्यां च खेचरीं देवि प्रवक्ष्ये योगसिद्धिदाम् ॥ 14.30 ॥

14.31

न तया रहितो योगी खेचरीसिद्धिभाग् भवेत् ।
खेचर्या खेचरीं युञ्जन् खेचरीबीजपूर्वया ॥ 14.31 ॥

14.32

खेचराधिपतिर् भूत्वा खेचरेषु सदा वसेत् ।
खेचरावसथं वह्निर् अह्नीमण्डलभूषितम् ॥ 14.32 ॥

14.33

व्याख्यातं खेचरीबीजं तेन योगः प्रसिध्यति ।
मस्तकाख्यो महाचण्डा शिखिवह्निकवज्रभृत् ॥ 14.33 ॥

14.34

पूर्वबीजयुता विद्या व्याख्याता ह्य् अतिदुर्लभा ।
षडङ्गविद्यां वक्ष्यामि तथा षट्स्वरभिन्नया ॥ 14.34 ॥

14.35

कुर्याद् देवि यथान्यायं सर्वविद्याप्तिहेतवे ।
सोमेशान् नवमं वर्णं प्रतिलोमेन चोद्धरेत् ॥ 14.35 ॥

14.36

तस्यास् त्रिंशकम् आख्यातं अक्षरं चन्द्ररूपकम् ।
तस्माद् अप्य् अष्टकं वर्णे विलोमेनावरं प्रिये ॥ 14.36 ॥

14.37

तथा तत्वंचमं देवि तदादिर् अपि पञ्चमम् ।
इन्द्रो ऽपि बिन्दुसंभिन्नं कूटो ऽयं परिकीर्तितः ॥ 14.37 ॥

14.38

गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् ।
यत् तस्य देवजा माया विरूपा कारणाश्रया ॥ 14.38 ॥

14.39

स्वप्नो ऽपि न भवेत् तस्य नित्यं द्वादशजाप्यतः ।
य इमां पञ्चलक्षाणि जपेद् अतिसुयन्त्रितः ॥ 14.39 ॥

14.40

तस्मात् श्रीखेचरीसिद्धिः स्वयम् एव प्रवर्तते ।
नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः ॥ 14.40 ॥

14.41

वलीपलितनाशश् च भविष्यति न संशयः ।
एवं लब्ध्वा महाविद्याम् अभ्यासं कारयेत् ततः ॥ 14.41 ॥

14.42

अन्यथा क्लिश्यतो देवि न सिद्धिः खेचरीपदे ।
यद्य् अभ्यासविधौ विद्यां लभेद् यश् च सुधामयां ॥ 14.42 ॥

14.43

ततः संमेलकादौ च लब्धा विद्यां समुज्जयेत् ।
नानया रहितो देवि न क्वचित् सिद्धिभाग् भवेत् ॥ 14.43 ॥

14.44

यदेदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् ।
ततस् तन्त्रोदितां सिद्धिम् आशु संलभते प्रिये ॥ 14.44 ॥

14.45

तालुमूलं समुत्कृष्य सप्तवासरम् आत्मवित् ।
स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥ 14.45 ॥

14.46

स्नुहीपत्रं निभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् ।
समादाय ततस् तेन रोममात्रं समुच्छिनेत् ॥ 14.46 ॥

14.47

छित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् ।
पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ 14.47 ॥

14.48

एवं क्रमेण षण्मासं नित्योयुक्तः समाचरेत् ।
षण्मासाद् रसनामूलशिराबन्धः प्रणश्यति ॥ 14.48 ॥

14.49

अथ वागीश्वरीधामशिरो वस्त्रेण वेष्टितम् ।
शनैर् उत्कर्षयेद् योगी कालवेलाविधानवित् ॥ 14.49 ॥

14.50

पुनः षण्मासमात्रेण नित्यसंघर्षणात् प्रिये ।
भ्रूमध्यावधि चाभ्येति तिर्यक् कर्णबिलावधि ॥ 14.50 ॥

14.51

अधस्तात् चिबुकं मूलं प्रयाति क्रमकारिता ।
पुनः संवत्सराणां तु त्रितयाद् एव लीलया ॥ 14.51 ॥

14.52

केशान्तम् ऊर्ध्वं क्रमति र्यक् सखावधि प्रिये ।
अधस्तात् कण्ठकूपान्तं पुनर् वर्षत्रयेण तु ॥ 14.52 ॥

14.53

ब्रह्मरन्ध्रान्तम् आवृत्य तिष्ठत्य् अमरवन्दिते ।
तिर्यक् चूलीतले याति अधः कण्ठबिलावधि ॥ 14.53 ॥

14.54

शनैः शनैः मस्तकाच् च महावस्त्रं कपाटधृक् ।
पूर्वबीजयुता विद्याप्य् आख्याता याति दुर्लभा ॥ 14.54 ॥

14.55

तस्याः षडङ्गं कुर्वीत तथा षट् द्वारभिन्नया ।
कुर्याद् देवि यथान्यायं सर्व सिद्ध्याप्तिहेतवे ॥ 14.55 ॥

14.56

शनैः शनैः प्रकर्तव्यम् अभ्यासं युगपन् नहि ।
युगपद् यश् चरेद् अस्य शरीरं विलयं व्रजेत् ॥ 14.56 ॥

14.57

तस्या शनैः शनैः कार्यम् अभ्यासं वरवर्णिनि ।
यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् ॥ 14.57 ॥

14.58

तदा ब्रह्मार्गलं देवि दुर्भेद्यं त्रिदशैर् अपि ।
अङ्गुल्यग्रेण संघृष्य जिह्वाम् अत्र निवेशयेत् ॥ 14.58 ॥

14.59

एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति ।
ब्रह्मद्वारे प्रविष्टे तु सम्यङ् मथनम् आरभेत् ॥ 14.59 ॥

14.60

मथनेन विना केचित् साधयन्ति विपश्चितः ।
खेचरीमन्त्रसिद्धस्य सिध्यते मन्थनं विना ॥ 14.60 ॥

14.61

जपं च मन्थनं चैव कृत्वा शीघ्रं फलं लभेत् ।
स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् ॥ 14.61 ॥

14.62

नियोज्य नासिकारन्ध्रे दृढस्निग्धेन तन्तुना ।
प्राणान् निरुध्य हृदये दृढम् आसनम् आस्थितः ॥ 14.62 ॥

14.63

शनैः स मथनं कुर्यात् भ्रूमध्ये न्यस्य चक्षुषी ।
षण्मासान् मथनावस्था तावतैव प्रजायते ॥ 14.63 ॥

14.64

सम्यक्संरुद्धजीवस्य योगिनस् तन्मयात्मनः ।
यथा सुषुप्ति वलिनां यथाभावस् तथा भवेत् ॥ 14.64 ॥

14.65

न सदा मथनं शस्तं मासि मासे समाचरेत् ।
सदा रसनया देवि मार्गं तु परिसंक्रमेत् ॥ 14.65 ॥

14.66

एवं द्वादशवर्षान्ते संसिद्धिः परमेश्वरि ।
शरीरे सकलं विश्वं पश्यत्य् आत्माविभेदतः ॥ 14.66 ॥

14.67

ब्रह्माण्डे यन् महामार्गं राजदन्तोर्ध्वमण्डले ।
भ्रूमध्ये तं विजानीयात् भ्रूकूटं सिद्धिसेवितम् ॥ 14.67 ॥

14.68

चणकाङ्कुरसंकाशं तत्र संयोजयेन् मनः ।
लिहन् रसनया तं तु स्रवन्तं परमामृतम् ॥ 14.68 ॥

14.69

शनैर् अभ्यासमार्गेण चतुर्वर्षं पिबेत् प्रिये ।
वलीपलितनाशश् च संसिद्धिः परमा भवेत् ॥ 14.69 ॥

14.70

सर्वशास्त्रार्थवेत्ता च जीवेद् वर्षसहस्रकम् ।
कन्याबिलमहीपादरसवादादि सिद्धयः ॥ 14.70 ॥

14.71

योगिनः संप्रवर्तन्ते पञ्चवर्षेण पार्वति ।
सम्यग् रसनया योगी स्रवन्तम् अमृतोदकम् ॥ 14.71 ॥

14.72

पीत्वा पीत्वा विशेत् स्वस्थं व्रतस्थो द्वादशाब्दकम् ।
अनेनाभ्यासयोगेन वलीपलितवर्जितः ॥ 14.72 ॥

14.73

वज्रकायो महायोगी वर्षलक्षं प्रजीवति ।
दशनागसहस्राणां बलेन सहितः प्रिये ॥ 14.73 ॥

14.74

स दूरदर्शनः चैव दूरश्रवणम् एव च ।
निग्रहानुग्रहे शक्तिः सर्वत्र बलवान् भवेत् ॥ 14.74 ॥

14.75

एताद्याः सिद्धयो देवि भ्रूमध्ये संभवन्ति हि ।
आकाशे रसनां कृत्वा दन्तपङ्क्तीर् निपीडयेत् ॥ 14.75 ॥

14.76

काकचञ्चुपुटं वक्त्रं कृत्वा तद् अमृतं पिबेत् ।
भानुवत्सरतः सत्यं जरामरणवर्जितः ॥ 14.76 ॥

14.77

खेचरत्वम् अवाप्नोति जीवत्य् आ चन्द्रतारकम् ।
पादुकाखड्गवेतालसिद्धद्रव्यमनःशिला ॥ 14.77 ॥

14.78

अंजनं विवरश् चैव खेटकं यक्षिणी तथा ।
यत् किञ्चित् सिद्धम् अन्यच् च विद्यते भुवनत्रये ॥ 14.78 ॥

14.79

तत् सर्वम् एव सहसा साधयेत् साधकोत्तमः ॥ 14.79 ॥

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायां चतुर्दशः पटलः ॥


Kapitel 15: Nektarorte, Kalas und innere Körperwelt

॥ पञ्चदशः पटलः ॥

ईश्वर उवाच

15.1

यत्र ब्रह्मार्गलद्वारं दुर्विज्ञेयं महेश्वरि ।
कला चतुष्कं तत्रस्थं चतुर्वर्गात्मकं परम् ॥ 15.1 ॥

15.2

पूर्वभागे कृता नाम गुप्ता दक्षिणगोचरा ।
शिवा पश्चिमदिग्भागे परापरशिवोत्तरे ॥ 15.2 ॥

15.3

तद् द्वारं रसनाग्रेण भित्त्वा पूर्वकलामृतम् ।
यदा पिबति वै योगी मासाधर्माधिपो भवेत् ॥ 15.3 ॥

15.4

यदा गुप्तामृतं दक्षे योगी रसनया लिहेत् ।
मासाद् एव न सन्देहः साक्षाद् अर्थेश्वरो भवेत् ॥ 15.4 ॥

15.5

तत् पश्चिमकलाजातं शुद्धं पिबति जिह्वया ।
यदा तदा महायोगी मासात् कामेश्वरो भवेत् ॥ 15.5 ॥

15.6

उत्तरस्थकलाजातम् अमृतं प्रपिबेद् यदा ।
तदासौ पारमेष्ठीनाम् आधिपत्यम् अवाप्नुयात् ॥ 15.6 ॥

15.7

तदूर्ध्वमण्डले लीनं ब्रह्मरन्ध्रे परामृतम् ।
यदा तदासौ पिबति जीवन्मुक्तः शिवो भवेत् ॥ 15.7 ॥

15.8

मासे मासे विधिं यदा द्वादशाब्दं समाचरेत् ।
सर्वरोगविनिर्मुक्तः सर्वज्ञगुणपूरितः ॥ 15.8 ॥

15.9

जायते शिववद् योगी लोके ऽस्मिन्न् अजरामरः ।
चतुष्कलामृतं द्वापि पीत्वा पीत्वा महेश्वरि ॥ 15.9 ॥

15.10

ब्रह्मस्थाने तथा जिह्वां स नियोज्यामृतं पिबेत् ।
सुस्वादु शीतलं हृद्यं क्षीरवर्णम् अफेनिलम् ॥ 15.10 ॥

15.11

मासमात्रप्रयोगेण जायते शिववत् स्वयम् ।
द्विमासे सर्वशास्त्रार्थं सम्यग् जानाति पार्वति ॥ 15.11 ॥

15.12

स्वतन्त्रः शिववन् मासत्रये भवति वै शिवे ।
चतुर्मासे महेशानि सर्वज्ञत्वं प्रवर्तते ॥ 15.12 ॥

15.13

पञ्चमासे महासिद्धिस् त्रैलोक्यम् अपि पश्यति ।
षण्मासे परमानन्दं गुणसद्भावपूजितः ॥ 15.13 ॥

15.14

जायते नात्र सन्देहो जीवन्मुक्तः परावरे ।
सप्तमासे महाभूतपिशाचोरगराक्षसैः ॥ 15.14 ॥

15.15

सह संवर्तते नित्यं स्वेच्छया हृष्टमानसः ।
अष्टमे मासपर्याये देवैः सम्मेलनं भवेत् ॥ 15.15 ॥

15.16

नवमे मास्य् अदृश्यत्वं सूक्ष्मत्वं चैव जायते ।
दशमे कामरूपत्वं सर्वलोकप्रकाशना ॥ 15.16 ॥

15.17

एकादशे त्रिकालज्ञः सर्वलोकेश्वरः प्रभुः ।
जायते शिववद् देवि सत्यम् एतन् मयोदितम् ॥ 15.17 ॥

15.18

यत्र तूलीतलं प्रोक्तं केदारं प्राहुर् ईश्वरि ।
तत्र सोमकलाश् चाष्टौ विख्याता वीरवन्दिते ॥ 15.18 ॥

15.20

अमृता प्रथमा देवि द्वितीया मानदाह्वया ।
पूषा तुष्टिश् च … रतिश् चैव धृतिस् तथा ॥ 15.20 ॥

15.21

शङ्खिनी चाष्टमी सर्वाः परामृतमहार्णवाः ।
तद् धामाभिमुखीं जिह्वां यदा योगी करोति च ॥ 15.21 ॥

15.22

अष्टधा स्रवते तत्र तदा तुहिनसंततिः ।
तदाप्लवनसंयोगात् कलेवरगदक्षयः ॥ 15.22 ॥

15.23

अष्टभिर् मासपर्यायैः खेचरत्वं प्रजायते ।
भ्रूमध्यं नाम यद् धाम तत् प्रोक्तं सोममण्डलम् ॥ 15.23 ॥

15.24

कलाचतुष्कं तत्रोक्तं परमामृतनिकेतनम् ।
चण्डिकाख्या च कान्तिश् च ज्योत्स्ना श्रीश् चेति नामतः ॥ 15.24 ॥

15.25

तत्र जिह्वां समावेश्य पीत्वा पीत्वा समाविशेत् ।
देवि मासचतुष्केण जायते निरुपद्रव ॥ 15.25 ॥

15.26

वज्रकायो भवेत् सत्यं तदास्रवनपाततः ।
तदूर्ध्ववज्रकन्दाख्यं शिलाखेचरमध्यगम् ॥ 15.26 ॥

15.27

ललाटं तं विजानीयात् तत्र देवि कलात्रयम् ।
प्रितिस् तथाङ्गजा पूर्णा तत्र जिह्वां प्रवेशयेत् ॥ 15.27 ॥

15.28

क्षीरधारामृतं शीतं स्रवन्तं जिह्वया पिबेत् ।
मासत्रयेण देवेशि सर्वव्याधिविवर्जितः ॥ 15.28 ॥

15.29

अच्छेद्यः सर्वशस्त्रैश् च अभेद्यः सर्वलेखकैः ।
अचिन्त्यः सर्वविज्ञानैर् विरूपविषमान्वितैः ॥ 15.29 ॥

15.30

भैरवाभो भवेत् सत्यं वज्रकन्दप्रभावतः ।
नासिकोर्धाधरोष्ठौ राजदन्तं महापथां ॥ 15.30 ॥

15.31

तत्र पूर्णामृतं देवि शीतला च कलाह्वयां ।
सम्प्राप्य कुम्भकावस्थां रसनाग्रेण संस्पृशेत् ॥ 15.31 ॥

15.32

तत्र सञ्जायते सुस्वादु शीतलं जलम् ।
स्वमनस् तत्र संयोज्य पिबेन् मासत्रयं व्रती ॥ 15.32 ॥

15.33

अजरामरताम् एति सर्वव्याधिविवर्जितः ।
गुदबीजान्तरस्थानम् आधारं परिकीर्तितम् ॥ 15.33 ॥

15.34

तत्र पञ्चकलाः प्रोक्ताः प्रगलत् परमामृताः ।
सुधा सुधामयी प्रज्ञा कालघ्नी ज्ञानदायका ॥ 15.34 ॥

15.35

कलाः पञ्चसुधाधाराः कीर्तिताः सर्वसिद्धिदाः ।
तत्रस्था परमा शक्तिः मायाकुण्डलिनी शिवे ॥ 15.35 ॥

15.36

तत्राकुञ्चनयोगेन कुम्भकेन सुरार्चिते ।
मूलशक्त्या समासाद्य तत्रगं शीतलामृतम् ॥ 15.36 ॥

15.37

सुषुम्णया समुन्नध्य स्वाधिष्ठानादिपङ्कजात् ।
वसुधावृष्टिसंसिक्तं स्मरेद् ब्रह्माण्डकावधि ॥ 15.37 ॥

15.38

तत्रस्थम् अमृतं गृह्य शक्तिः श्रीकुण्डली परा ।
सुषुम्णामार्गम् आसाद्य ब्रह्मधामान्तम् ईयुषी ॥ 15.38 ॥

15.39

मूलपञ्चकलाजाता सुधातृप्तिपरिप्लुता ।
आपादमस्तपर्यन्तं व्यापयन्तीं तनुं स्मरेत् ॥ 15.39 ॥

15.40

पञ्चमासप्रयोगेण पञ्चभूतजयं लभेत् ।
शिवसाम्यो भवेत् सत्यं त्रिकालाभ्यासयोगतः ॥ 15.40 ॥

15.41

नाभिस्थानं हि यद् देवि स्वाधिष्ठानं तद् उच्यते ।
तत्र दिव्यामृतमयं कलात्रयम् उदीरितम् ॥ 15.41 ॥

15.42

सुसूक्ष्मा परमाह्लादा विद्या चेति प्रकीर्तिताः ।
पूर्ववत् कुम्भकावस्थां प्राप्य शक्तिं प्रबोध्य च ॥ 15.42 ॥

15.43

पीत्वा ब्रह्माण्डपर्यन्तं प्लावयेद् यः स्वकां तनुम् ।
योगी त्रिमासपर्याये पूर्वोक्तं लभते फलम् ॥ 15.43 ॥

15.44

गुदमेढ्रान्तरं यद् वै वेणुदण्डं तद् उच्यते ।
कलाचतुष्कं तत्रोक्तं परामृतरसात्मकम् ॥ 15.44 ॥

15.45

सुशीता च महातृप्तिः पलितघ्नी वलीक्षया ।
तत्र शक्तिं समुद्बोध्य पूर्ववत् प्लावयेत् तनुम् ॥ 15.45 ॥

15.46

चतुर्मासप्रयोगेण पूर्वोदितं फलं लभेत् ।
पिङ्गला-रवि-वाहाख्या इडाख्या चन्द्रवाहिनी ॥ 15.46 ॥

15.47

विषवाहो रवेर् बाहुः सुधावाहो निशाकरे ।
अभ्यासं सूर्यवाहाख्ये चन्द्रवाहे च शस्यते ॥ 15.47 ॥

15.48

धारणं चन्द्रवाहेन योगी कुम्भकम् आचरेत् ।
शशिवाहेन पवनं पूरयेद् आत्मनस् तनुम् ॥ 15.48 ॥

15.49

रविवाहेन चोत्सर्गः शस्यते देहवृद्धये ।
एतत् ते व्याहृतं देवि कलास्थानं च तद्गुणः ॥ 15.49 ॥

15.50

अतःपरं प्रवक्ष्यामि परामृत-महापदम् ।
वज्रकन्दे ललाटे तु प्रज्वलच् चन्द्रसन्निभम् ॥ 15.50 ॥

15.51

लं-गर्भं चतुरस्रं च तत्र देवः परः शिवः ।
देवतास् तम् उपासन्ते योगिन्यः शक्तिसंयुतम् ॥ 15.51 ॥

15.52

चूलीतले महादेवि लक्षसूर्यसमप्रभम् ।
त्रिकोणमण्डलं मध्ये देवं लिङ्गात्मकं शिवम् ॥ 15.52 ॥

15.53

रं-गर्भमध्यगं देवि स्वशक्त्यालिङ्गितं परम् ।
देवतागणसजुष्टं भावयेत् परमेश्वरि ॥ 15.53 ॥

15.54

दक्षशङ्खे महाभागे षड्बिन्दुवलयान्वितम् ।
यं-गर्भं धूम्रवर्णं च तत्र देवं महेश्वरम् ॥ 15.54 ॥

15.55

लिङ्गाकारं स्मरेद् देवि शक्तियुक्तं गणावृतम् ।
वामशङ्खो ऽर्धचन्द्राभं स्वपद्मं मण्डलं शिवे ॥ 15.55 ॥

15.56

वंगर्भं दृढं पक्ष मध्ये तत्र लिङ्गं सुधामयम् ।
गोक्षीरधवलाकारं शरच्चन्द्रायुतप्रभम् ॥ 15.56 ॥

15.57

स्वशक्तिसहितं सर्वदेवतागणसेवितम् ।
एवं देवि चतुर्दिक्षु स्थानान्य् उक्तानि वै मया ॥ 15.57 ॥

15.58

तेषां मध्ये महावृत्तं हंगर्भं तत्र पार्वति ।
परमेशः परः शम्भुः स्वशक्त्या सहितः स्थितः ॥ 15.58 ॥

15.59

लिङ्गाकारो गणयुतः सूर्यकोटिसमप्रभः ।
पृथिव्यधिपतिर् भाले पश्चिमे सूर्यनायकः ॥ 15.59 ॥

15.60

दक्षशङ्खे नीलपतिर् वामे जलपतिः शिवः ।
मध्ये व्योमाधिपः शम्भु स्थानाः पञ्च मयोदिताः ॥ 15.60 ॥

15.62 (erste Druckstelle)

व्योमाधिपस्य देवस्य शिरोर्ध्वे चतुरङ्गुले ।
ज्योतिर्मंडलमध्यस्थं कोटिचन्द्रसमप्रभम् ॥ 15.62 ॥

15.62 (zweite Druckstelle)

दिव्यामृतमयं भाण्डं मूलबन्धकवाटकम् ।
उर्ध्वेर् ऊर्ध्वं महाशैलम् अभेद्यम् अमृतास्पदम् ॥ 15.62 ॥

15.63

शीतलामृतमध्ये तु विलीनं लिङ्गम् ईश्वरि ।
त्रसरेणुप्रतीकाशं कोटिचन्द्रसमप्रभम् ॥ 15.63 ॥

15.64

हेयोपादेयरहितम् अज्ञानतिमिरापहम् ।
अतीत्य पञ्च स्थानानि परतत्त्वोपलब्धये ॥ 15.64 ॥

15.65

परामृतघटाधारकवाटं कुम्भकान्वितम् ।
मनसा सह वागीशीम् ऊर्ध्ववक्त्रां प्रसारयेत् ॥ 15.65 ॥

15.66

संरुद्धप्राणसंचारो योगी रसनयार्गलम् ।
लीलयोद्घाटयेत् सत्यं संप्राप्य मनसा सह ॥ 15.66 ॥

15.67

शीतलेक्षुरसस्वादु तत्र क्षीरामृतं हितम् ।
योगपानं पिबेन् मध्यं दुर्लभं विविधैर् अपि ॥ 15.67 ॥

15.68

तत् सुधातृप्तिसंतृप्तः परावस्थाम् उपेत्य च ।
उन्मन्या तत्र संयोगं लब्ध्वा ब्रह्माण्डकान्तरे ॥ 15.68 ॥

15.69

नादबिन्दुमयं मांसं योगी योगेन भक्षयेत् ।
एतद् रहस्यं देवेशि दुर्लभं परिकीर्तितम् ॥ 15.69 ॥

15.70

सर्वज्ञेन शिवेनोक्तं यत् फलं शास्त्रसंततौ ।
तत् फलं लभते सत्यं षण्मासान् नात्र संशयः ॥ 15.70 ॥

15.71

संप्राप्य सिद्धिसन्तानं योगी योगम् अपीश्वरि ।
न वेत्ति तस्य वक्तव्यं न क्वचित् सिद्धिम् इच्छता ॥ 15.71 ॥

15.72

न जानन्ति गुरुं देवं शास्त्रोक्तान् समयांस् तथा ।
दम्भकौटिल्यनिरतास् तेषां शास्त्रं न दापयेत् ॥ 15.72 ॥

15.73

जिह्वामूले स्थितो देवि सर्वतेजोमयो ऽनलः ।
तदग्रे भास्करश् चन्द्रो भालमध्ये प्रतिष्ठितः ॥ 15.73 ॥

15.74

एवं यो वेत्ति देवेशि तस्य सिद्धिः प्रजायते ।
मथित्वा मण्डलं वह्नेः समुद्बोध्य प्रयत्नतः ॥ 15.74 ॥

15.75

उष्णसारद्रवितं भालजं चन्द्रमण्डलम् ।
भास्कराधिष्ठिताग्रेण रसनेन समाश्रयेत् ॥ 15.75 ॥

15.76

तच् चन्द्रगलितं देवि शीतलं तत् पयो ऽमृतम् ।
नासिकारन्ध्रनिर्यातं पात्रेण परिसंग्रहेत् ॥ 15.76 ॥

15.77

तेनाङ्गमर्दनात् सत्यं नाडीशुद्धिः प्रजायते ।
गुदलिङ्गोहतं देवि निर्गमं चामरीरसम् ॥ 15.77 ॥

15.78

कलामृतं च संलोड्य संस्कृत्य चाधरारसैः ।
तेनाङ्गमर्दनं कृत्वा योगी लोके निरामयः ॥ 15.78 ॥

15.79

बलवान् जायते सत्यं वलीपलितवर्जितः ।
जिह्वामूलं समुद्धृष्य तत्र जातं मदद्रवम् ॥ 15.79 ॥

15.80

स्वदेहे मर्दयेत् पूर्वाद् रसना वत्सरार्द्धतः ।
चतुरङ्गुलवृद्धा च जायते नात्र संशयः ॥ 15.80 ॥

15.81

उत्कृष्य रसनाम् ऊर्ध्वे दक्षिणाङ्गुलिभिः शिवे ।
वामहस्ताङ्गुलिभिश् च घण्टिकां स्फोटयेच् छिवे ॥ 15.81 ॥

15.82

मथित्वा वामकं स्थानम् ऊर्ध्ववक्त्रं शनैः शनैः ।
त्रिकूटोर्ध्वं च वज्रान्त्यो शिवस्थानं समाश्रयेत् ॥ 15.82 ॥

15.83

एषा ते खेचरी मुद्रा कथिता मृत्युनाशिनी ।
सर्वसिद्धिप्रदा देवि जीवन्मुक्तिप्रदायिनी ॥ 15.83 ॥

Schlusskolophon

॥ इति मत्स्येन्द्रसंहितायां पञ्चदशः पटलः ॥


Kapitel 16: Übungsstörungen, innerer Aufstieg und Madira-Verehrung

॥ षोडशः पटलः ॥

ईश्वर उवाच

16.1

एवम् अभ्यासशीलस्य तद्विघ्नार्थं भवन्ति हि ।
भटभेदाश् च चत्वारो नटभेदास् तथैव च ॥ 16.1 ॥

16.2

अङ्गशोषः क्षुधालस्यं कण्डू देहविवर्णता ।
भटस्य प्रत्ययाश् चैते तेषां शृणु च भेषजम् ॥ 16.2 ॥

16.3

मनो निर्विषयं पुडका त्रिमासम् अमरीरसम् ।
देहम् उद्वर्तयेत् तस्य देहवृद्धिः प्रजायते ॥ 16.3 ॥

16.4

त्रिर् उद्वर्तनकं कुर्यात् दिवारात्रौ तथैव च ।
रसनाम् ऊर्ध्वम् आयोज्य वज्रकन्दपदोन्मुखीम् ॥ 16.4 ॥

16.5

तत्सुधां लिहतः सत्यं क्षुधालस्यं च नश्यति ।
तत्सुधाम् अमरीं देवि गृहीत्वा चाङ्गमर्दनात् ॥ 16.5 ॥

16.6

स्वशरीरविवर्णत्वं कण्डूत्वं च प्रणश्यति ।
नटभेदाश् च चत्वारो बहुधा संस्थिताः प्रिये ॥ 16.6 ॥

16.7

नेत्ररोगो ऽङ्गशोषश् च दाहो भ्रान्तिस् तथैव च ।
भेदम् एकं मया प्रोक्तं द्वितीयम् अधुना शृणु ॥ 16.7 ॥

16.8

दन्तरुक् चाल्पसत्वं च देहलाघवनाशनम् ।
तृतीयभेदं च तथा शृणु देवि महाज्वरः ॥ 16.8 ॥

16.9

शिरोरुक् श्लेष्मदोषश् च चतुर्थं सम्प्रधार्यताम् ।
वमनं श्वासदोषश् च नेत्रान्धत्वं तथैव च ॥ 16.9 ॥

16.10

दुर्जया च तथा निद्रा तेषां शृणु च भेषजम् ।
समूला छ्वाससंभिन्नाम् ऊर्ध्वं कुण्डलिनीं नयेत् ॥ 16.10 ॥

16.11

निश्चलाम् ऊर्ध्वगां जिह्वां कृत्वा कुम्भकम् आश्रयेत् ।
शक्तिक्षोभान् महेशानि जलनादः प्रवर्तते ॥ 16.11 ॥

16.12

यदा शृणोति तं नादं तदा मुक्तः स उच्यते ।
चिन्तयेद् अमृतासिक्तं स्वदेहं परमेश्वरि ॥ 16.12 ॥

16.13

अनेन देवि मासेन सर्वदोषैः प्रमुच्यते ।
अनेनैव विधानेन द्विमासान्तं यदाचरेत् ॥ 16.13 ॥

16.14

तदा शृणोति कर्णाभ्यां महागजवरध्वनिम् ।
पूर्ववच् चिन्तयेद् देहं द्वितीयैर् मुच्यते गदैः ॥ 16.14 ॥

16.15

त्रिमासात् सिंहनादं च श्रुत्वा पूर्ववत् स्मरेत् ।
तृतीयभेददोषैश् च मुच्यते नात्र संशयः ॥ 16.15 ॥

16.16

मेघनादम् अघोराख्यं चतुर्थे मासि पर्ययेत् ।
श्रुत्वा पूर्ववद् अभ्यस्य भ्रान्तिदोषैश् च मुच्यते ॥ 16.16 ॥

16.17

एवं स्थिरमतिर् ध्यानम् अभ्यसेच् च द्विकालकम् ।
साधयेत् प्रवृतः सत्यं जायते ह्य् अजरामरः ॥ 16.17 ॥

16.18

भटदोषचतुष्कस्य नटदोषस्य चैव हि ।
निवारणं मया प्रोक्तं भूयः शृणु सुराधिपे ॥ 16.18 ॥

16.19

यो ऽस्मिन् शान्ते परे तत्त्वे योगे योगी सुखात्मके ।
प्रविष्टः सर्वतत्त्वज्ञः तस्य पादं नमाम्य् अहम् ॥ 16.19 ॥

16.20

प्रथमं चालनं देवि द्वितीयं मंथनं भवेत् ।
तृतीयं पानम् उद्दिष्टं चतुर्थं च प्रवेशकम् ॥ 16.20 ॥

16.21

तालुमूलं समुद्धृष्य जिह्वाम् उत्कर्षयेत् प्रिये ।
चालनं तद् विजानीयाद् ब्रह्मार्गलविभेदनम् ॥ 16.21 ॥

16.22

तं वदन्ति स्म … तन्तुना प्रिये ।
लोहकीलप्रवेशेन यथा मंथनम् आरभेत् ॥ 16.22 ॥

16.23

मंथनं तद् विजानीयाद् योगिवृद्धिकरं प्रिये ।
उद्घार्गतम् आकाशे जिह्वाम् ऊर्ध्वं प्रसारयेत् ॥ 16.23 ॥

16.24

प्रवेशं प्राहुर् ईशानि योगसिद्धिप्रवर्तकम् ।
ब्रह्मार्गलप्रभेदेन जिह्वासंक्रमणेन च ॥ 16.24 ॥

16.25

प्रत्ययः परमेशानि क्षणार्धात् संप्रजायते ।
आदाव् आनन्दभावत्वं निद्राहानिर् अतःपरम् ॥ 16.25 ॥

16.26

संगमं भोजनं देवि स्वल्पम् अल्पं प्रजायते ।
पुष्टिः सञ्जायते तेजोवृद्धिश् च भवति प्रिये ॥ 16.26 ॥

16.27

न जरा न च मृत्युश् च न व्याधिः पलितं न च ।
ऊर्ध्वरेता महेशानि अणिमादिगुणान्वितः ॥ 16.27 ॥

16.28

यदि निश्चलभावेन योगी भावं प्रसारयेत् ।
तदा प्रोक्तान् इमान् सम्यक् फलान् लभति पार्वति ॥ 16.28 ॥

16.29

जिह्वाग्रे श्रीश् च वागीशा संस्थिता वीरवन्दिते ।
जिह्वामूलाधरे भागे बन्धमृत्युः प्रतिष्ठितः ॥ 16.29 ॥

16.30

बन्धमृत्युपदं सर्वम् उन्मूलय गणाम्बिके ।
तदग्रेण विशाम्य् अहं धाम श्रीशम्भुसंज्ञकम् ॥ 16.30 ॥

16.31

अनेन देवि योगेन मनसा साधिते चले ।
उन्मन्यावेशम् आयाति योगी तल्लयम् आप्नुयात् ॥ 16.31 ॥

16.32

लयस्य प्रत्ययः सद्यः संभवत्य् अविचारतः ।
जिह्वाग्रे मन आधाय दृशा तद् धाम लक्षयेत् ॥ 16.32 ॥

16.33

मूलात् सुषुम्णामार्गेण पवनं चोर्ध्वम् आनयेत् ।
ब्रह्मधामगतो योगी मनः शून्ये निवेशयेत् ॥ 16.33 ॥

16.34

ध्यायेत् परतरं तत्त्वं हेयोपादेयवर्जितम् ।
आकाशगङ्गा स्रवति ब्रह्मस्थानात् सुशीतलम् ॥ 16.34 ॥

16.35

प्रपिबन् मासमात्रेण वज्रकायो भवेद् ध्रुवम् ।
दिव्यकायो भवेत् सत्यं दिव्यवाग् दिव्यदर्शनः ॥ 16.35 ॥

16.36

दिव्यबुद्धिर् भवेद् देवि दिव्यश्रवण एव च ।
जिह्वाग्रे कोटिचन्द्राभां वागीशीं परिभावयेत् ॥ 16.36 ॥

16.37

परामृतकलातृप्तां कवितां लभते क्षणात् ।
जिह्वाग्रे संस्थितां लक्ष्मीं परामृतविमोदितः ॥ 16.37 ॥

16.38

ध्यायन् योगी महेशानि योगसाम्राज्यम् आप्नुयात् ।
सहजाः पञ्च विख्याताः पिण्डे ऽस्मिन् परमात्मके ॥ 16.38 ॥

16.39

यदा सञ्जायते देहं मातृदेहे पितृक्षणात् ।
तत्र सार्धं भवन्ति स्म देहे वृद्धिम् उपेयुषि ॥ 16.39 ॥

16.40

आद्या कुण्डलिनीशक्तिः प्रथमा सहजा स्थिता ।
द्वितीया च सुषुम्णाख्या जिह्वा चैव तृतीयका ॥ 16.40 ॥

16.41

तालुस्थानं चतुर्थं च ब्रह्मस्थानं च पञ्चमम् ।
उन्नध्य सहजाम् आद्या द्वितीये सहजे विशेत् ॥ 16.41 ॥

16.42

तृतीय सहजाम् ऊर्ध्वा चतुर्थ सहजा विशेत् ।
चतुर्थ सहजां भित्वा सहजं पञ्चमं विशेत् ॥ 16.42 ॥

16.43

एतद् भेदं मया प्रोक्तं दुर्विज्ञेयं कुलेश्वरि ।
मूलात् कुण्डलिनीशक्तिं सुषुम्णामार्गम् आगताम् ॥ 16.43 ॥

16.44

लूतैकतन्तुप्रतिमां कोटिसूर्यसमप्रभाम् ।
प्रविश्य घण्टिकामार्गं शिवद्वारार्गलं शिवे ॥ 16.44 ॥

16.45

भित्त्वा रसनया योगी कुम्भकेन महेश्वरि ।
प्रविशेत् कोटिसूर्याभं धाम स्वायम्भुवं प्रिये ॥ 16.45 ॥

16.46

तत्रामृतमहाम्भोधौ शीतकल्लोलमालिनी ।
पीत्वा विश्रम्य च सुधां परमानन्दपूर्णया ॥ 16.46 ॥

16.47

बुद्ध्या तत्सुधया तृप्तम् आत्मदेहं प्रभावयेत् ।
अनेन देवि योगेन जायते दिव्यदर्शनम् ॥ 16.47 ॥

16.48

खेचरत्वं भवेत् सत्यं सर्वरोगक्षयस् तथा ।
वञ्चनं कालमृत्युश् च त्रैलोक्यभ्रमणं तथा ॥ 16.48 ॥

16.49

अणिमादिगुणोपेतां संसिद्धिं लभते ध्रुवम् ।
योगीन्द्रत्वम् अवाप्नोति गतिर् अव्याहता भवेत् ॥ 16.49 ॥

16.50

नवनागसहस्राणां बलेन सहितः स्वयम् ।
जायते शिववद् देवि सत्यं सत्यं मयोदितम् ॥ 16.50 ॥

16.51

इडापिङ्गलयोर् मध्ये सुषुम्णा ज्योतिरूपिणी ।
वर्णरूपगणैः साकं तेजस् तत्र निरामयम् ॥ 16.51 ॥

16.52

सुषुम्णाभुजगाकाशे यत् तत् कुण्डलिनी परा ।
गङ्गा च यमुना चैव इडापिङ्गलसंज्ञके ॥ 16.52 ॥

16.53

गङ्गायमुनयोर् मध्ये तां शक्तिं सन्निवेशयेत् ।
ब्रह्मबोधावधि शिवे परमामृतरूपिणीम् ॥ 16.53 ॥

16.56 (erste Druckstelle)

तन्मयो जायते सत्यं परमामृततनुः स्वयम् ।
शिवधामगता शक्तिः परमेशास्पदं पदम् ॥ 16.56 ॥

16.55

तद्भागतृप्तिसंतृप्ता परमानन्दरूपिता ।
सिञ्चन्ती योगिनो देहम् आपादतलमस्तकम् ॥ 16.55 ॥

16.56 (zweite Druckstelle)

सुधया शिशिरस्निग्धशीतया परमेश्वरि ।
पुनस् तेनैव मार्गेण प्रयातः स्वपदं शिवे ॥ 16.56 ॥

16.57

एतद् रहस्यम् आख्यातं योगं योगीन्द्रवन्दिते ।
उत्सृज्य सर्वशास्त्राणि जपहोमादिकं च यत् ॥ 16.57 ॥

16.58

धर्माधर्मविनिर्मुक्तो योगी योगं समभ्यसेत् ।
रसनाम् ऊर्ध्वगां कृत्वा त्रिकूटे सन्निवेशयेत् ॥ 16.58 ॥

16.59

ब्रह्माण्डे ब्रह्मरेखाधो राजदन्तोर्ध्वमण्डले ।
त्रिकूटं तं विजानीहि तत्र लिङ्गं समुज्ज्वलम् ॥ 16.59 ॥

16.60

कालकर्मविनिर्मुक्तं दुर्विज्ञेयं सुरैर् अपि ।
इडायां रात्रिर् उद्दिष्टा पिङ्गलायाम् अहः स्मृतः ॥ 16.60 ॥

16.61

चन्द्रादित्यौ स्थितौ देवि नित्यं रात्रिदिवात्मकौ ।
न दिवा पूजयेल् लिङ्गं रात्रौ न च महेश्वरि ॥ 16.61 ॥

16.62

सर्वदा पूजयेल् लिङ्गं दिवारात्रिनिरोधवाः ।
अहोरात्रिमयं देवं कालकर्मस्वभावजम् ॥ 16.62 ॥

16.63

कालकर्मनिरोधेन कालमृत्युञ्जयं लभेत् ।
कालकर्मविनिर्मुक्तं चिन्तयन्न् आत्मनस् तनुम् ॥ 16.63 ॥

16.64

पूजयेद् भावपुष्पेण तर्पयेत् पङ्कजामृतैः ।
एवं षण्मासयोगेन जायते ह्य् अजरामरः ॥ 16.64 ॥

16.65

सर्वज्ञत्वं लभेत् सत्यं शिवसाम्यो निरामयः ।
तालुमूले समावेश्य रसनाम् ऊर्ध्ववक्त्रकाम् ॥ 16.65 ॥

16.66

तत्र जातं तु पिबन् सीत्कारेण शनैः शनैः ।
प्रपिबेत् पवनं योगी निरालम्बे पदे शिवे ॥ 16.66 ॥

16.67

मनः संयोज्य चोन्मन्या सहजं योगम् आचरेत् ।
अनेन योगी षण्मासाज् जायते ह्य् अजरामरः ॥ 16.67 ॥

16.68

चिबुकं योजयेद् देवि षोडशस्वरमण्डले ।
भ्रूमध्ये चक्षुषी न्यस्य जिह्वाम् ऊर्ध्वं प्रसारयेत् ॥ 16.68 ॥

16.69

संप्राप्य कुम्भकावस्थां इडापिङ्गलरोधनात् ।
मूलशक्तिं समुद्बोध्य भित्त्वा षट्सरसीरुहान् ॥ 16.69 ॥

16.70

तडित्सहस्रसङ्काशां ब्रह्माण्डोदरमध्यगे ।
धाम्नि शीतामृताम्भोधौ सन्निवेश्य चिरं वसेत् ॥ 16.70 ॥

16.71

यदा ब्रह्ममये धाम्नि योगी वसति लीलया ।
तदा निर्जीववद् देहं भा विस्फुरति तत्पदम् ॥ 16.71 ॥

16.72

अनेन देवि योगेन दिनसप्तकम् आचरेत् ।
तदा तदा स भवति जरामरणवर्जितः ॥ 16.72 ॥

16.73

मासमात्रप्रयोगेण जीवेद् आचन्द्रतारकम् ।
यदा ब्रह्मपुरं भित्त्वा योगी व्रजति लीलया ॥ 16.73 ॥

16.74

तदा शिवत्वम् आप्नोति त्यक्त्वा देहम् इमं शिवे ।
न पुनः पिबते मातु स्तनं संसारचक्रमा ॥ 16.74 ॥

16.75

तदा तु योगिनो वृद्धिस् त्यक्तं देहम् इमं प्रिये ।
तदा स्थिरासनो भूत्वा मूलशक्तिं समुज्ज्वलाम् ॥ 16.75 ॥

16.76

कोटिसूर्यप्रतीकाशां भावयेच् चिरम् आत्मवित् ।
आपादतलपर्यन्तं प्रसृतं जीवम् आत्मनः ॥ 16.76 ॥

16.77

संहत्य क्रमयोगेन मूलाधारपदं नयेत् ।
तत्र कुण्डलिनीशक्तिं संवर्तानलसन्निभाम् ॥ 16.77 ॥

16.78

जीवानित्यं चेन्द्रियाणि ग्रसन्तीं चिन्तयेद् धिया ।
संप्राप्य कुम्भकावस्थां तडिद्वलयभासुराम् ॥ 16.78 ॥

16.79

मूलाद् उन्नीय देवेशि स्वाधिष्ठानपदं नयेत् ।
तत्र संजीवम् अखिलं ग्रसन्तीं चिन्तयेच् च ताम् ॥ 16.79 ॥

16.80

तडित्कोटिप्रतीकाशां तस्माद् उन्नीय सत्वरम् ।
मणिपूरपदं प्राणं तत्र सूर्यं यदाचरेत् ॥ 16.80 ॥

16.81

समुन्नीय पदस्थानाद् अनाहतपदं नयेत् ।
तत्र स्थित्वा क्षणं देवि पूर्ववद् धि सतीं स्मरेत् ॥ 16.81 ॥

16.82

उन्नीय च पुनः पद्मे षोडशारे निवेशयेत् ।
तत्रापि चिन्तयेद् देवि पूर्ववद् योगम् आत्मवित् ॥ 16.82 ॥

16.83

तस्माद् उन्नीय भ्रूमध्यं नीत्वा जीवं ग्रसेत् पुनः ।
ग्रस्तजीवां महाशक्तिं कोटिसूर्यसमप्रभाम् ॥ 16.83 ॥

16.84

मनसा सह वागीशि भित्त्वा ब्रह्मार्गलं क्षणात् ।
परामृत महाम्भोधौ विश्वासं सम्यग् आचरेत् ॥ 16.84 ॥

16.85

तत्रस्थं परमं देवि शिवं परमकारणम् ।
शक्त्या सह समायोज्य तयोर् ऐक्यं विभावयेत् ॥ 16.85 ॥

16.86

यदि मोचितुम् उद्युक्तः कालं कालविभागवित् ।
यावद् व्रजति तं कालं तावत् तत्र सुखं वसेत् ॥ 16.86 ॥

16.87

ब्रह्मद्वारार्गलस्याधो देहे कालप्रयोजनम् ।
तस्माद् ऊर्ध्वपदे देवि न हि कालप्रयोजनम् ॥ 16.87 ॥

16.88

यदा देव्य् आत्मनः कालम् अतिक्रान्तं प्रपश्यति ।
तदा ब्रह्मार्गलं भित्त्वा शक्तिं मूलपदे नयेत् ॥ 16.88 ॥

16.89

शक्तिं देहात्मसूत्रं तु स्वजीवं चेन्द्रियैः सह ।
तत्तत् कर्मणि संयोज्य स्वस्य देहं सुखं चरेत् ॥ 16.89 ॥

16.90

अनेन देवि योगेन वञ्चयेत् कालमार्गणम् ।
यदि मानुष्यकं देहं त्यक्तुम् इच्छा प्रवर्तते ॥ 16.90 ॥

16.91

ततः परमसन्तुष्टो ब्रह्मस्थानं गतं शिवम् ।
शक्त्या संयोज्य निर्भिन्नव्योमब्रह्मशिलां विशेत् ॥ 16.91 ॥

16.92

व्योमतत्त्वं महाव्योम्नि वायुतत्त्वम् अथानिले ।
तेजस्तत्त्वं तथा तेजस्य् आप्तत्वं जलमण्डले ॥ 16.92 ॥

16.93

धरातत्त्वं धराभागे निरालम्बे मनः परे ।
व्योमादिगुणतत्त्वेषु स्वेन्द्रियाणि निवेशयेत् ॥ 16.93 ॥

16.94

एवं सांसारिकं त्यक्त्वा परतत्त्वावलम्बकः ।
अदृष्टः पञ्चभूताद्यैर् भित्त्वा सूर्यस्य मण्डलम् ॥ 16.94 ॥

16.95

परतत्त्वे परे शान्ते शिवे लीनः शिवायते ।
न कल्पकोटिसाहस्रैः पुनरावर्तनं भवेत् ॥ 16.95 ॥

16.96

अनुग्रहाय लोकानां यदि देहं न संत्यजेत् ।
प्रलयान्ते तनुं त्यक्त्वा स्वात्मन्य् एवावतिष्ठते ॥ 16.96 ॥

16.97

इत्य् एषा खेचरीमुद्रा खेचराधिपतित्वदा ।
जन्ममृत्युजरारोगवलिपलितनाशिनी ॥ 16.97 ॥

16.98

अनया सदृशी विद्या क्व चिच् छास्त्रान्तरे न हि ।
खेचरीमेलनं देवि सुगुप्तं न प्रकाशयेत् ॥ 16.98 ॥

16.99

तस्य चाभ्यासयोगो ऽयं तव स्नेहात् प्रकाशितः ।
मदिरा नाम या देवि सर्वयोगीन्द्रवन्दिता ॥ 16.99 ॥

16.100

नैनां यो वेत्ति लोके ऽस्मिन् स पशुः प्रोच्यते शिवे ।
नित्यम् अभ्याशशीलस्य अटतो ऽपि जगत्त्रयम् ॥ 16.100 ॥

16.101

गुरुवक्त्रोपसंलब्धां विद्याम् अभ्यसतो ऽपि च ।
खेचरीमेलनादिषु नित्यं सप्रेमचेतसः ॥ 16.101 ॥

16.102

न सिध्यति महायोगं मदिराराधनं विना ।
तत्प्रसादविहीनस्य तन्निन्दापरचेतसः ॥ 16.102 ॥

16.103

पशोः पाशप्रबद्धस्य योगः क्लेशाय जायते ।
सर्वज्ञेन शिवेनोक्तां पूजां सं त्यज्य मादिरीम् ॥ 16.103 ॥

16.104

युञ्जतः सततं देवि योगो नाशाय जायते ।
वारुण्या तर्पयेद् देवि सर्वलोकमयं शिवम् ॥ 16.104 ॥

16.105

गौडी माध्वी च पैष्टी च तथा कादम्बरी वराः ।
कादम्बरी च द्रुमजा माध्वी मधुसमुद्भवा ॥ 16.105 ॥

16.106

पैष्टी पिष्टसमुद्भूता गौडीक्षुरससम्भवा ।
तासाम् एकतमां गृह्य तर्पयेत् सर्वदेवताः ॥ 16.106 ॥

16.107

असक्तः सुमहापूजां यदि कर्तुं च साधकः ।
कुर्याद् बिन्द्वेकदानं वा गुरुवाक्यावलम्बकः ॥ 16.107 ॥

16.108

एकबिन्दुप्रदानेन तृप्यन्ते कोटिदेवताः ।
तस्मात् सं पूज्य युञ्जीत तत्प्रसादपवित्रितः ॥ 16.108 ॥

16.109

अन्यथा क्लेश एव स्यान् न सिद्धिर् जन्मकोटिषु ।
सर्वे सिध्यन्ति मन्त्राश् च योगाश् च परमेश्वरि ॥ 16.109 ॥

16.110

सम्यक्पूजाप्रयोगेन मदिरानन्दचेतसः ।
असं पूज्य पिबेद् देवि मदिरां यः स पापभाक् ॥ 16.110 ॥

16.111

महाराधनशीलस्य मय्य् एवासक्तचेतसः ।
तस्मात् सं पूजयेद् देवि सर्वयोगाभिवृद्धये ॥ 16.111 ॥

16.112

मदिरानन्दितो योगी योगं युञ्जीत नित्यदा ।
विजने जन्तुरहिते सर्वोपद्रववर्जिते ॥ 16.112 ॥

16.113

मृद्वासनम् समास्थाय स्वगुरूक्तप्रकारतः ।
संतर्प्य शिवम् ईशानं देवीं देवां श् च सर्वशः ॥ 16.113 ॥

16.114

तत्प्रसादेन लभते सम्यग्ज्ञानम् अखण्डितम् ।
एतद् योगं मयाख्यातं किं भूयः श्रोतुम् इच्छसि ॥ 16.114 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां षोडशः पटलः ॥


Kapitel 17: Khechari-Zusammenkunft, Lehrerwahl und Einweihung

॥ सप्तदशः पटलः ॥

श्रीदेव्य् उवाच

17.1

शम्भो सद्भावं संलभ्य जय चन्द्रार्धशेखर ।
त्वया श्रीखेचरीविद्यासाधनं गुह्यम् ईरितम् ॥ 17.1 ॥

17.2

सं सिद्धं केन मार्गेण खेचरीमेलनं लभेत् ।
तन् मे ब्रूहि जगन्नाथ परमानन्दनन्दित ॥ 17.2 ॥

श्रीभैरव उवाच

17.3

शृणु गुह्यं महादेवि सर्वतन्त्रेषु गोपितम् ।
खेचरीमेलनं लोके महायोगीन्द्रसेवितम् ॥ 17.3 ॥

17.4

खेचरीणाम् इयं विद्या सद्यःप्रत्ययकारिका ।
सर्वसिद्धिप्रदा देवि जरामरणनाशिनी ॥ 17.4 ॥

17.5

†दार्छाद्† ब्रह्मकपाटस्य पशूनां दूरमार्गगा ।
असिद्धानाम् अपि च या योगिनां परमेश्वरि ॥ 17.5 ॥

17.6

ब्रह्मधाम परित्यज्य आयाता नासिकापथम् ।
भित्त्वा ब्रह्मकपाटं तु यदा ध्रुवपदं व्रजेत् ॥ 17.6 ॥

17.7

तदा स्यात् परमानन्दं संविद्भावैककारणम् ।
ज्ञानं तथा च विज्ञानं तत्प्रसादात् स्फुरत्य् अपि ॥ 17.7 ॥

17.8

एवं योगे क्रियायां च स्थिता सकलकामदा ।
चिद्रूपा कुञ्चिका नाम दुर्विज्ञेया सुरासुरैः ॥ 17.8 ॥

17.9

एवं कुण्डलिनीशक्तिर् ऊर्ध्वाधो ऽनेकधा गता ।
तत्स्थे योगः पदस्थे हि अणिमादिप्रसाधकः ॥ 17.9 ॥

17.10

तानि स्थानानि वक्ष्यामि यथा येषु च सिद्धिदा ।
मूलाधारं चतुःपत्रो बिन्दुस् त्रिवलयान्वितः ॥ 17.10 ॥

17.11

गमागमसमोपेत आधाराख्यः शिखिप्रभः ।
गुह्यान्तं षड्दलं दीप्तम् षड्बिन्दुः परिकीर्तितम् ॥ 17.11 ॥

17.12

तप्तजाम्बूनदाभासं स्वाधिष्ठानं हि तद् भवेत् ।
नाभिमध्यगतं शुद्धं द्वादशारं शशिप्रभम् ॥ 17.12 ॥

17.13

मणिपूरकसंज्ञानम् अर्धचन्द्रस्य मध्यगम् ।
अनाहतं दशारं तु ब्रह्मरन्ध्रान्तगं सदा ॥ 17.13 ॥

17.14

शुद्धस्फटिकसंकाशं भावयेन् नादरूपकम् ।
षोडशारं महापद्मं त्रिकोणं कण्ठम् आश्रितम् ॥ 17.14 ॥

17.15

पूर्णचन्द्रनिभाकारं विशुद्धं मोक्षदायकम् ।
पञ्चकूटमहत्स्थानं विद्युत्कोटिसमप्रभम् ॥ 17.15 ॥

17.16

मध्यदिनार्कसंकाशं भावयेद् बिन्दुरूपकम् ।
स तु नानातनोर् मध्ये शक्तिर् व्योमप्रभेदिनी ॥ 17.16 ॥

17.17

ज्वालन्ती पञ्चधा रन्ध्रे सेयम् आज्ञा प्रकीर्तिता ।
ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् च सदाशिवः ॥ 17.17 ॥

17.18

पृथिव्यादीनि रन्ध्राणि पञ्चपञ्चकम् एव च ।
तथा च कोष्ठकाः पञ्च स्वाधिष्ठानादयः स्मृताः ॥ 17.18 ॥

17.19

एतेषु स्थानभेदेषु पृथग् ध्यानं शिवोदितम् ।
तत्रैकम् अपि चाभ्यस्य योगी स्याद् अजरामरः ॥ 17.19 ॥

17.20

अभ्यासेनैव नश्यन्ति पापा जन्मसहस्रजाः ।
मेलनात् शिवतां याति सुमहान् खेचराधिपः ॥ 17.20 ॥

17.21

स्वतन्त्रः सर्वलोकेषु गतिर् अव्याहता भवेत् ।
अविज्ञाय च यः कुर्याद् गुरुवाक्यामृतं विना ॥ 17.21 ॥

17.22

भक्ष्यते सो ऽचिराद् देवि योगिनीभिर् न संशयः ।
य इदं परमं शास्त्रं ग्रन्थतश् चार्थतस् ततः ॥ 17.22 ॥

17.23

गुरुवक्त्रात् तु लभ्येत स परां सिद्धिम् आप्नुयात् ।
य इदं परमं गुह्यं खेचरीमेलकं ददेत् ॥ 17.23 ॥

17.24

स एव हि गुरुर् देवि नान्यो ऽस्ति परमेश्वरि ।
इदं गुह्यतमं शास्त्रं पशूनां यः प्रदापयेत् ॥ 17.24 ॥

17.25

अपरीक्षितवृत्तस्य स शीघ्रं नश्यति प्रिये ।
बहुधा क्लिश्यमानाय भक्तायानन्यचेतसे ॥ 17.25 ॥

17.26

एकान्ते विजने स्थाने प्रवक्तव्यं विपश्चिता ।
व्याख्यानकाले कर्तव्यः पूजाविधिर् †अशाढ्यतः† ॥ 17.26 ॥

17.27

कुलामृतैश् च मां सैश् च कस्तूरीचन्दनादिभिः ।
रक्तवस्त्रे समाधाय विद्यापुस्तकम् आदरात् ॥ 17.27 ॥

17.28

पूजयेत् पूर्वविधिना ततो व्याख्यानं आचरेत् ।
अथवा यद्य् अशक्तस् तु मानसेन कलामृतैः ॥ 17.28 ॥

17.29

संतर्प्य पूज्य विजने व्याख्यानं गुप्तम् आचरेत् ।
…गतेनैव भावेनाराध्य पुस्तकम् ॥ 17.29 ॥

17.30

शृणुयाद् विजने देशे तद्ज्ञैर् युक्तो ऽथवा प्रिये ।
पूर्वोक्तविधिना देवि स्वगुरूक्तप्रकारतः ॥ 17.30 ॥

17.31

समभ्यस्य यथान्यायं द्वादशाब्दम् अतन्द्रितः ।
पर्यटेत् पृथिवीम् एनां यत्र स्यान् मेलको गुरुः ॥ 17.31 ॥

17.32

तं दृष्ट्वा सर्वभावेन समाराध्य प्रयत्नतः ।
आत्मनिःश्रेयसकरं तेनोक्तं सम्यग् आचरेत् ॥ 17.32 ॥

17.33

ज्ञानयुक्तं तु मातङ्गम् अपि कुर्याद् गुरुं प्रिये ।
ज्ञानविज्ञानहीनं तु षट्कर्मस्थम् अपि त्यजेत् ॥ 17.33 ॥

17.34

यत्र यत्र विशिष्टार्थं तत्र तत्र समाश्रयेत् ।
यस्य हस्ते स्थितं दिव्यं विद्यापुस्तकम् ईश्वरि ॥ 17.34 ॥

17.35

तस्य मूर्तिगतं देवि सकलं ज्ञानसागरम् ।
यदा यो ग्रन्थतश् चेदम् अर्थतश् च वदिष्यति ॥ 17.35 ॥

17.36

अशेषेण जगद्धात्रि स एव परमो गुरुः ।
सर्वज्ञेन शिवेनोक्तं इदं जन्मार्बुदैर् अपि ॥ 17.36 ॥

17.37

दुर्लभं शास्त्रसारं तु दिव्यज्ञानप्रकाशकम् ।
द्वाव् इमौ पुरुषौ लोके सिद्धः साधक एव च ॥ 17.37 ॥

17.38

अभ्यासेनैव सततं यः सर्वं परिवर्तते ।
अभीप्सुर् आत्मनः सिद्धिं स योगी साधकः स्मृतः ॥ 17.38 ॥

17.39

सम्यग् अभ्यस्य विज्ञाय यः समं मेलनं चरेत् ।
सर्वसाधारणत्वेन विकल्पकुटिलोज्जितः ॥ 17.39 ॥

17.40

कर्ता भर्ता च संहर्ता नित्यतृप्तो निरामयः ।
पश्यत्य् आत्माविभेदेन जगद् एतच् चराचरम् ॥ 17.40 ॥

17.41

स योगी सर्वविच् छ्रीमान् सिद्ध इत्य् उच्यते बुधैः ।
साधको बहुजन्मान्ते प्रयाति परमं पदम् ॥ 17.41 ॥

17.42

देवैः सुदुर्लभां सिद्धिं सिद्धो याति न संशयः ।
तस्माद् अभ्यस्य यत्नेन खेचरीमेलनं चरेत् ॥ 17.42 ॥

17.43

मेलनाद् अप्य् अनभ्यासी सर्वं लभति पार्वति ।
तस्माद् अभ्यासहीनो ऽपि मेलात् स्याद् अजरामरः ॥ 17.43 ॥

17.44

यदा संमिलति गुरुः शिष्यं मेलनकर्मणि ।
संयोजयिष्यति शिवे तदैवं समुदाचरेत् ॥ 17.44 ॥

17.45

एकान्ते विजने स्थाने पशुदृष्टेर् अगोचरे ।
पूजायोग्यानि वस्तूनि साधयेत् परमेश्वरि ॥ 17.45 ॥

17.46

सुस्निग्धे च सुसं मृष्टे गोमयेनोपलेपिते ।
चारुवस्त्रवितानाढ्ये सर्वोपद्रववर्जिते ॥ 17.46 ॥

17.47

वीरेण मदकर्पूरलघुसिन्दूररेणुभिः ।
वृत्तषट्कोण†वस्वार†वृत्तभूवलयोज्ज्वलम् ॥ 17.47 ॥

17.48

कारयेन् मण्डलं देवि तत्रापि कलशं न्यसेत् ।
पूरयेद् दिव्यतोयेन रत्नगर्भं सवस्त्रकम् ॥ 17.48 ॥

17.49

माल्यधूपसमायुक्तं दर्पणालं कृतं प्रिये ।
तत्र पञ्च महारत्नान् न्यसेद् विद्यां च पूर्ववत् ॥ 17.49 ॥

17.50

तदग्रे देवि साधारं पात्रं पूर्णं कलामृतैः ।
पूर्ववत् परिसं स्कृत्य पूर्वोक्तविधिनाचरेत् ॥ 17.50 ॥

17.51

पूजावसाने देवेशि तत्प्रसादपवित्रितम् ।
स्नापयेत् कलशेनाङ्गं परामृतधिया गुरुः ॥ 17.51 ॥

17.52

विना स्नानप्रसादाभ्यां कल्यानम् अयुतैर् अपि ।
न सिध्यति महेशानि खेचरीमेलकं प्रिये ॥ 17.52 ॥

17.53

तस्मात् सर्वप्रयत्नेन तत् प्रसादं सहाभिधम् ।
सस्नानं दापयेद् विद्यां नान्यथा सिद्धिभाग् भवेत् ॥ 17.53 ॥

17.54

स्नापयित्वा शिवं देवि योगस्थाने विशेषवित् ।
पञ्चाशद्वर्णमालां च स्थले वा दर्पणे ऽथवा ॥ 17.54 ॥

17.55

पदे वा चन्दने दिव्ये तल् लिखेन् न तु भूतले ।
शिष्यहस्तेन देवेशि तत्र पुष्पं प्रमोचयेत् ॥ 17.55 ॥

17.56

यस्मिन् वर्णे निपतितं पुष्पं तद्वर्णपूर्वकम् ।
नाम चानन्दनाथान्तं दापयेद् गुरुर् ईश्वरि ॥ 17.56 ॥

17.57

शक्तिनाम च संप्रेक्ष्य पराम्बान्तं प्रदापयेत् ।
पूर्वं प्रसादं संदग्धमहापातकसंचयः ॥ 17.57 ॥

17.58

पुनश् च कलशासेकात् परामृततनुर् भवेत् ।
भूयश् च नामग्रहणात् शिवसाम्यः प्रजायते ॥ 17.58 ॥

17.59

एवं कृते शिवे शिष्यो योग्यो मेलनकर्मणि ।
अन्यथा परमेशानि तद् एवानर्थकृद् भवेत् ॥ 17.59 ॥

17.60

इति सिद्धतनुः सिद्धो यद् यद् भावम् उपासते ।
तत् तत् फलं च प्रत्यक्षं भविष्यति न संशयः ॥ 17.60 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां सप्तदशः पटलः ॥


Kapitel 18: Shakti-Aufstieg, Erkenntnis und die unvergängliche Mondinsel

॥ अष्टादशः पटलः ॥

श्रीभैरव उवाच

18.1

इति †सर्वज्ञपाशाद्† यस् तीर्णः संसारसागरात् ।
भुञ्जीत स्वेच्छया भोगान् स्वेच्छया योगम् अभ्यसेत् ॥ 18.1 ॥

18.2

उपादेयः प्रियो यस्मात् कौलिके प्रियमेलकः ।
अतः कुर्याद् अनुष्ठानं शाक्तम् आणवम् एव वा ॥ 18.2 ॥

18.3

अत्यन्तविजने स्थाने सर्वोपद्रववर्जिते ।
नितान्तं मनसो रम्ये हृद्यधूपसुगन्धिनि ॥ 18.3 ॥

18.4

विकीर्णपुष्पप्रकरसिन्दूरादिसुरञ्जिते ।
गुरुमण्डलकं कृत्वा भक्तिमान् योगम् अभ्यसेत् ॥ 18.4 ॥

18.5

स्थिरम् आसनम् आसीनः सकलीकृटविग्रहः ।
जितश्वासो जितमना जितकर्मा जितेन्द्रियः ॥ 18.5 ॥

18.6

नियोज्यं घण्टिकारन्ध्रे … ।
अधस्ताच् चिन्तयेच् चक्रम् आक्रान्ताधारमण्डलम् ॥ 18.6 ॥

18.7

तत्र मध्ये समोद्दीप्तां मूलशक्तिं विभावयेत् ।
प्राणान् निरुध्योर्ध्वमुखीं नयेद् भित्त्वा षडम्बुजान् ॥ 18.7 ॥

18.8

एकीभूता हि नादाख्या चक्रभेदक्रमेण च ।
तडिद्वलयसंकाशां स्फुरत्किरणरूपिणीम् ॥ 18.8 ॥

18.9

चिह्नया च निरालम्बे शून्यतेजोमये परे ।
ब्रह्मद्वारस्य गर्भे तु विसर्गाख्ये विलीयते ॥ 18.9 ॥

18.10

ततो रसनयोद्भेद्य प्रविशेद् ब्रह्मणः पदम् ।
तस्मिन् कुलामृतं दिव्यं पीत्वा भूयो विशेत् कुलम् ॥ 18.10 ॥

18.11

तेन प्रासितमात्रेण परां सिद्धिम् अवाप्नुयात् ।
योगमूले स्वके स्थाने भूयस् तस्मात् समुत्थिता ॥ 18.11 ॥

18.12

पृथिव्याधारसं कोचाद् एकोच्चारक्रमेण तु ।
एतद् वागीस्वरीबीजं रहस्यं संप्रकाशितम् ॥ 18.12 ॥

18.13

व्याख्याता खेचरीमुद्रा तस्या बन्धो ऽयम् एव हि ।
एतस्या बन्धमात्रेण भाग्यहीनो ऽपि सिध्यति ॥ 18.13 ॥

18.14

मेलकं खेचरीणां च दिव्यवेषो ऽभिजायते ।
अमुना संप्रदायेन यत्र यत्र विलीयते ॥ 18.14 ॥

18.15

तत्र तत्र परानन्दरूपम् एव प्रकाशते ।
सर्वशास्त्रार्थवेत्ता च सौभाग्यं परमं तथा ॥ 18.15 ॥

18.16

काव्यं च सर्वभाषाभिः सालं कारपदोज्वलम् ।
करोति लीलया योगी रुद्रशक्तिप्रभावतः ॥ 18.16 ॥

18.17

अनेनैव प्रयोगेन सर्वमात्राः स्फुरन्ति हि ।
आणवाः शाम्भवाः शाक्ता ये †केत्य्† उच्चरति प्रिये ॥ 18.17 ॥

18.18

मणिपूरे लयाद् वश्यं शान्तिश्रीपुष्टितुष्तयः ।
आकर्षणं पुरक्षोभो भवन्त्य् एव हि सिद्धयः ॥ 18.18 ॥

18.19

अनाहते तु सं लीनो योगी ग्रन्थिविभेदनात् ।
गिरीणां पातनं देवि कुर्याद् मृत्योश् च वञ्चनम् ॥ 18.19 ॥

18.20

विशुद्धे ऽप्य् अमृताधारे योगस् तु स्याद् असंशयः ।
क्षुत्तृषादाहनिर्मुक्तो जरारोगविवर्जितः ॥ 18.20 ॥

18.21

आज्ञास्थानगतो योगी त्रैलोक्यम् अपि पश्यति ।
त्रिकालज्ञः स्वयं कर्त्ता स एव परमेश्वरः ॥ 18.21 ॥

18.22

अतीतं वेत्ति नाभिस्थो वर्त्तमानं हृदि स्थितः ।
आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा ॥ 18.22 ॥

18.23

अधुना चोन्मनीभावः परतत्त्वोपलब्धये ।
पारम्पर्यक्रमायातो ब्रह्माण्डोदरमध्यगः ॥ 18.23 ॥

18.24

यल् लिङ्गाधारमध्यस्थं मध्ये शक्त्यङ्कुरान्वितम् ।
यवमात्रप्रमाणं तु त्रिकोणाकृतिम् उत्तमम् ॥ 18.24 ॥

18.25

निष्कलं यत् परं तेजः परस्य परसंस्थितम् ।
जवमणीन्द्रियं यद्वत् विस्फुरश् चैव दृश्यते ॥ 18.25 ॥

18.26

तथाकृतिर् भवेत् तस्य मीलनोन्मीलनानि च ।
प्रथमं भेदयेच् चक्रं नाभिजं नाडिभिर् युतम् ॥ 18.26 ॥

18.27

तदूर्ध्वे हृदयावस्थं चक्रं वै कुलसंज्ञकम् ।
हृच्चक्रं भेदयेत् पश्चात् कण्ठचक्रं ततः शनैः ॥ 18.27 ॥

18.28

तदूर्ध्वे लम्बिकां भेद्य नासाग्रं तु ततो नयेत् ।
नासाग्रात् श्वाससंभिन्नं भ्रूमध्ये संनिवेशयेत् ॥ 18.28 ॥

18.29

श्वासेन सहितं बीजं तेजोरूपं ललाटके ।
गत्वा लक्षं ललाटस्थं प्रविशेत् सूर्यसंनिभम् ॥ 18.29 ॥

18.30

कुञ्चिकाढ्यं ततः सूक्ष्मा …णु च सूक्ष्मकम् ।
उद्घाटयेत् ततो द्वारं शिवद्वारार्गलं महत् ॥ 18.30 ॥

18.31

बिन्दुद्वारार्गलं भित्त्वा दुर्भेद्यं त्रिदशैर् अपि ।
ब्रह्माण्डोदरम् इत्य् उक्तं योगिनीसिद्धसेवितम् ॥ 18.31 ॥

18.32

तद् एतद् अङ्गुलोत्सेधं कपाले सं व्यवस्थितम् ।
प्रवेशात् स्पर्शनं तत्र बालानाम् इव जायते ॥ 18.32 ॥

18.33

शक्तितत्त्वावबोधो हि विज्ञानं सिद्धसाधनम् ।
परतत्त्वावबोधश् च ज्ञानं मोहप्रसाधनम् ॥ 18.33 ॥

18.34

भुक्तिमुक्त्योर् द्वयोर् हेतुः परमानन्दतां गतः ।
जीवन्मुक्तिम् अवाप्नोति वत्सरार्धान् न संशयः ॥ 18.34 ॥

18.35

प्राप्तद्वादशकेनैव शिवसाम्यबलः प्रिये।
सर्वार्थकृत्यं सूक्ष्मत्वं सर्वज्ञत्वं विशुद्धता ॥ 18.35 ॥

18.36

नित्यानन्दस्वभावत्वं सर्वव्यापित्वम् एव च ।
अणिमा लघिमा प्राप्तिः प्राकाम्यं गरिमा तथा ॥ 18.36 ॥

18.37

ईशित्वं च वशित्वं च यच् च कामावसायिता ।
स्यान् महासिद्धयस् त्व् एता अष्टौ विज्ञानयोनयः ॥ 18.37 ॥

18.38

योगिनः संप्रवर्तन्ते वत्सरात् परमेश्वरि ।
अथापरं प्रवक्ष्यामि साधनं परमं प्रिये ॥ 18.38 ॥

18.39

विधिनानुत्थितं पूर्वं मया च वरवर्णिनि ।
अन्येषां देविदेवानां ब्रह्मादीनां च दुर्लभम् ॥ 18.39 ॥

18.40

बिन्दुजीवजलाक्रान्तं वर्तुलं चन्द्रमण्डलम् ।
बिन्दुप्राणानिलाक्रान्तं त्रिकोणं वह्निमण्डलम् ॥ 18.40 ॥

18.41

आपूर्य वामया नाड्या मुञ्चेद् दक्षिणया बहिः ।
पुनर् दक्षिणयापूर्य बहुशो वामया त्यजेत् ॥ 18.41 ॥

18.42

एवं विशुद्धनाडीकः कुम्भकानां शतं शतम् ।
कुर्याद् बहिश् च हं सेन सहजेनान्तरस्थितम् ॥ 18.42 ॥

18.43

स पश्यति जगत् कीर्णं तेजसः परमाणुभिः ।
दृष्टेति प्रत्ययं कुर्यात् प्रत्येकम् अयुतं यदा ॥ 18.43 ॥

18.44

तदा पश्यति नासाग्रे हृदयेन्दूज्ज्वलम् अहः ।
तयोः संचिन्तयेद् ऐक्यं तत्रात्मानं स पश्यति ॥ 18.44 ॥

18.45

अतिमग्नं मनः कुर्यात् तस्मिन् पुर्यष्टकात्मके ।
ततः स प्रियसाङ्गत्याद् रुद्रताम् आप्य दीप्यति ॥ 18.45 ॥

18.46

शक्तिबन्धप्रयोगेण सप्तरात्रं निरोधकः ।
कोदण्डद्वयमध्यस्थं बिन्दुनादेन भेदयेत् ॥ 18.46 ॥

18.47

एवम् अभ्यसतस् तस्य प्रत्ययः संप्रजायते ।
याममात्राद् ध्रुवं त्यक्त्वा गगने भवति स्थितः ॥ 18.47 ॥

18.48

द्वादशान्ते दिनार्धेन दृष्ट्वा साक्षान् महेश्वरम् ।
सं प्राप्य प्रियसाङ्गत्यं शिवसायुज्यम् आप्नुयात् ॥ 18.48 ॥

18.49

सुखम् आसनम् आसीनः सकलीकृतविग्रहः ।
किं चिद् अभ्युन्नतोरस्को मयूराञ्चितमस्तकः ॥ 18.49 ॥

18.50

विस्रस्तां सः स्थिरो भूत्वा रसनां घण्टिकाबिले ।
संयोज्य परमेशानि ध्यानं कुर्याज् जितेन्द्रियः ॥ 18.50 ॥

18.51

अत्यन्तनिपुणं कुर्याट् सुषुम्णान्तर्गतं मनः ।
शक्तिक्षोभात् ततस् तस्य परो ऽभिव्यज्यते ध्वनिः ॥ 18.51 ॥

18.52

तद् एव सहजं बीजं तत्र संयोजयेन् मनः ।
क्षणात् क्षोणीं परित्यज्य गगने भवति स्थिरः ॥ 18.52 ॥

18.53

मुहूर्ताद् वीक्षते सर्वं तेजोमयम् इदं जगत् ।
याममात्रं तदा तेजस् तद् एव परिपश्यति ॥ 18.53 ॥

18.54

तदा तस्य निवर्तन्ते निखिलाश् चित्तवृत्तयः ।
†यामलं † यमसंकल्पो यदा स्थाणुवद् आस्थितः ॥ 18.54 ॥

18.55

यदा ब्रह्माण्डभाण्डस्थं सर्वं प्रत्यक्षम् ईक्षते ।
अहोरात्रेण सर्वाणि साक्षात् तत्त्वानि पश्यति ॥ 18.55 ॥

18.56

तद्रूपश् चेत् †परिषतस्† तदासौ जायते शिवः ।
नियोज्य घण्टिकारन्ध्रे रसनां निश्चलात्मिकाम् ॥ 18.56 ॥

18.57

भ्रूमध्ये चक्षुषी न्यस्य स्थिरं कृत्वा मनो हृदि ।
क्षीरोदार्णवनिर्मग्नं पद्मद्वयपुटीकृतम् ॥ 18.57 ॥

18.58

पिबन्तं ब्रह्मरन्ध्रेण क्षीरधारामृतं हिमम् ।
रोमकूपैर् विनिर्गत्य कोटिशः क्षीरबिन्दुभिः ॥ 18.58 ॥

18.59

अभेद्यपाण्डुरान्तस्थम् इवात्मानं विचिन्तयेत् ।
अजरामरताम् एति मासमात्रं न संशयः ॥ 18.59 ॥

18.60

मासावधि महेशानि योगम् एकं शिवोदितम् ।
दिने दिने द्वियामान्तं यामान्तं वा समुच्चरेत् ॥ 18.60 ॥

18.61

एकेनैव तु योगेन भुवनान्तम् अनुव्रजेत् ।
द्वितीयेन तु योगेन सप्तद्वीपावधिं व्रजेत् ॥ 18.61 ॥

18.62

तृतीयेन तु योगेन शिवलोके महीयते ।
अतीत्य सकलान् लोकान् पृथग्भोगान् प्रभुज्य च ॥ 18.62 ॥

18.63

शरीराय महायोगी चन्द्रद्वीपे सुखं वसेत् ।
श्रीदेव्य् उवाच
अक्षयं नाथ कं लोकं वद देव महेश्वर ॥ 18.63 ॥

श्रीभैरव उवाच

18.64

सर्वं पूर्वं मयाख्यातं किं न बुध्यसि पार्वति ।
त्रैलोक्यं क्षयते सर्वं सहस्रयुगपर्यये ॥ 18.64 ॥

18.65

कल्पाख्यं ब्रह्मणः स्थानं वैकुण्ठं चैव वैष्णवम् ।
कैलाशं रुद्रसंस्थानं क्षीयते च महाक्षये ॥ 18.65 ॥

18.66

अक्षयं चन्द्रद्वीपं तु यत्र देवी कुलाम्बिका ।
तिष्ठते च मया सार्धं सत्यं सत्यं महातपे ॥ 18.66 ॥

18.67

योगिन्यस् तत्र या देवि सिद्धाश् च वरवर्णिनि ।
इच्छारूपधराः सर्वे सर्वे चामोघशक्तयः ॥ 18.67 ॥

18.68

स्वतन्त्राश् च स्वरूपाश् च सर्वे कुब्जेश्वरप्रभाः ।
किम् अत्र बहुनोक्तेन जल्पितेन पुनः पुनः ॥ 18.68 ॥

18.69

क्षयपातविहीनं तु चन्द्रद्वीपं वरानने ।
तत्क्षये यौवनानन्दः क्रीडते स्वेच्छया प्रिये ॥ 18.69 ॥

18.70

कल्पकोटिशतैस् तस्य क्षयो नैव प्रजायते ।
न च सांसारिका व्याप्तिस् तस्य भूयः प्रवर्तते ॥ 18.70 ॥

18.71

पशुमार्गस्थितो नित्यं योनियोन्यन्तरं व्रजेत् ।
तस्मात् सर्वप्रयत्नेन गुरुं तोष्य महेश्वरि ॥ 18.71 ॥

18.72

प्रबोद्धव्यम् इदं शास्त्रं संसारं तर्तुम् इच्छता ।
येन सिद्धिम् अवाप्नोति सत्यं सत्यं न संशयः ॥ 18.72 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां अष्टादशः पटलः ॥


Kapitel 19: Nektar, Körper und Kosmos

॥ एकोनविंशः पटलः ॥

ईश्वर उवाच

19.1

अकृताभ्यासयुक्तानां योगिनां सिद्धिम् इच्छताम् ।
ध्यानयोगं प्रवक्ष्यामि जरामृत्युगदापहम् ॥ 19.1 ॥

19.2

अकलङ्कोज्ज्वलत् शीतकिरणाभोदरस्थितम् ।
शरीरं चिन्तयेन् मासाद् वलीपलितनाशनम् ॥ 19.2 ॥

19.3

शुद्धेन्दुविम्बमध्ये श्रवन्तम् अमृतं स्मरेत् ।
अमृतेन स्वकं देहम् आपादतलमस्तकम् ॥ 19.3 ॥

19.4

स्नाप्यमानं स्मरेद् अङ्गं तर्पयेत् सुधया तथा ।
तदर्धमात्रा … स्वं सौकुमार्यं गदक्षयम् ॥ 19.4 ॥

19.5

वलीपलितनाशश् च भविष्यति सुरार्चिते ।
कञ्जनाशाद् अधोदेशे करार्धाद् ऊर्ध्वम् एव च ॥ 19.5 ॥

19.6

पूर्वोक्तमण्डलौ शीतसुधावृष्टिसमन्वितौ ।
मूलबीजोज्ज्वलत् शीतसुधावृष्टिविनिर्गतेः ॥ 19.6 ॥

19.7

सुधासागरसंल्लीनां भसरन्तः विभावयेत् ।
अन्तरङ्गम् अशेषं तु ब्रह्मरन्ध्रेन्दुनिर्गतेः ॥ 19.7 ॥

19.8

परामृतैब्रह्मरन्ध्रा नाडीविलनिवेशितैः ।
तर्पयेत् आत्मनो बीजं देवताश् च शिवे धिया ॥ 19.8 ॥

19.9

अन्तरङ्गम् अशेषं तु तत्सुधावृष्टिपूरितम् ।
परिभाव्य सलोमाख मार्गकोटिविनिर्गतेः ॥ 19.9 ॥

19.10

सुधावृष्टिभिर् एकं च वाह्याभ्यन्तरयोः स्मरेत् ।
तन्मध्ये समुल्लीनम् आत्मदेहं तदात्मकम् ॥ 19.10 ॥

19.11

तर्पयेद् आत्मसुधया ब्रह्माण्डम् अखिलं शिवे ।
तत्सुधावृष्टिसंतृप्तं परमानन्दधीमयम् ॥ 19.11 ॥

19.12

ब्रह्माण्डम् अखिलं चेदं आत्मदेहं विचिन्तयेत् ।
वेष्टयेत् सुधया देवि प्रियः सुस्निग्धशीतया ॥ 19.12 ॥

19.13

अनेन देवि योगेन षण्मासाद् अजरामरः ।
लोहितं नवमं वर्णं सविन्दुम् अमृतात्मकं ॥ 19.13 ॥

19.14

नेत्रयोः परिसंचिन्त्य तत्सुधावृष्टिरश्मिभिः ।
ब्रह्माण्डम् अखिलं ध्यायेद् आत्मदेहं समर्पितम् ॥ 19.14 ॥

19.15

त्रिवर्षध्यानयोगेन निर्विकल्पेन चेतसा ।
समरसान्तलोकानि समजन्म च दृश्यते ॥ 19.15 ॥

19.16

पयः पयोमयाम्भोधौ लीनम् आत्मकलेवरम् ।
नित्यं चिन्तयतो वर्षात् स्याद् वलीपलितक्षयः ॥ 19.16 ॥

19.17

ब्रह्मरन्ध्रामृतधारास्रवत् परसुधामृतैः ।
संसिच्यमानं षण्मासात् ध्यायन् देहं जरां जयेत् ॥ 19.17 ॥

19.18

स्वदेहं चन्द्रसंकाशं अकलङ्कं सुधामयम् ।
ध्यायन् वर्षार्धितो योगी वलीपलित त्र भवेत् ॥ 19.18 ॥

19.19

†सत†चन्द्रसमो विद्यात् सकलङ्कामृताप्लुतम् ।
मूलादि ब्रह्मरन्ध्रान्तं षट्पद्मेषु प्रभावयेत् ॥ 19.19 ॥

19.20

वेदषट्दलसूर्येन्दु कला द्विशतसंख्यया ।
पत्रैर् अक्षरसंलीनैर् अमृतैकाकृतेषु च ॥ 19.20 ॥

19.21

एकत्र चिन्तयेत् तेषां मण्डलानाम् अनुक्रमात् ।
अवच्छिन्नधारावद् ब्रह्माण्डावधि पार्वति ॥ 19.21 ॥

19.22

प्रज्वलत् कोटिचन्द्राभं आत्मदेहं तदात्मकम् ।
चिन्तयेद् अमृतासिक्तां योगी योगप्रसिद्धये ॥ 19.22 ॥

19.23

षण्मासाद् वलिपलितादीन् नाशयेच् च गदान् अपि ।
वाञ्छात्यंतर्गता यान्ति दुःखान् मुच्येत वै विषात् ॥ 19.23 ॥

19.24

सात् सर्वज्ञताप्राप्तिर् अथाद् ईश्वरसंनिभः ।
खेचरत्वं भवेद् देवि अणिमादिप्रपूजितम् ॥ 19.24 ॥

19.25

विभिद्य योगिनीद्वारं वागीश्वर्या सुखासनः ।
कुम्भकावधि संजाप्य गमागमविभेदतः ॥ 19.25 ॥

19.26

षण्मासाद् वलिपलितं नाशयेद् वत्सरत्रयात् ।
सर्वज्ञगुणसंतृप्तो द्वादशाब्दाद् धि प्रभुः ।
जरामृत्युगदैस् त्यक्तो भविष्यति न संशयः ॥ 19.26 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां एकोनविंशः पटलः ॥


Kapitel 20: Yogische Fähigkeiten und Zeit

॥ विंशः पटलः ॥

20.1

कार्मुकद्वयमध्यस्थं मैहिरं मण्डलं प्रिये ।
ध्यायेन् मासावधि तदा रोगयुमक्षयं नयेत् ॥ 20.1 ॥

20.2

षण्मासाद् इन्द्रसाम्यः स्याद् अब्दाद् विष्णुसमो भवेत् ।
षड्वर्षाद् रुद्रसाम्यः स्याद् दशाब्दाद् अतिसंप्रभः ॥ 20.2 ॥

20.3

जायते नियतात्मा चेत् सत्यं सूर्यानुभावनम् ।
… रक्तामृतपरिप्लुतम् ॥ 20.3 ॥

20.4

ध्यायन् वर्षार्धमात्रेण जायते ह्य् अजरामरः ।
मूलाधारे स्मरेद् देवि ज्वलन्तं रविमण्डलम् ॥ 20.4 ॥

20.5

तत्प्रभापटलं व्याप्तं शरीरं परिचिन्तयेत् ।
नेदेह ब्रह्मरन्ध्रे च ध्यायेद् हृत्कमले ऽपि च ॥ 20.5 ॥

20.6

मूले बिम्बे च छटृवं ब्रह्मरन्ध्रगतं तथा ।
अन्योन्यप्रभया शिलधान् शरैः क्रमात् स्मरेत् ॥ 20.6 ॥

20.7

तन्मयं चिन्तयेद् देहे हृद्यामान्तं दिने दिने ।
षण्मासाद् अणिमादीनाम् आधिपत्यम् अवाप्नुयात् ॥ 20.7 ॥

20.8

सर्वज्ञत्वं च लभते त्रिवर्षात् सूर्यसंनिभः ।
त … वीतः स्मरेज् जीवं ज्वलद् दीपशिखाकृतिम् ॥ 20.8 ॥

20.9

तृड्बाधावलिपालित्यमृत्युव्याधिभयं हरेत् ।
वर्षात् सर्वज्ञको भूत्वा वसेद् †योमाकंणोर्धूके† ॥ 20.9 ॥

20.10

†सर्वामरशिरोरत्नाङ्घ्रिद्वयपङ्कजः† ।
सर्वगुणसंपूर्णः सपिण्डो भवति प्रिये ॥ 20.10 ॥

20.11

सहस्रकिरणान्तस्थम् आत्मानं सुस्थिरं स्मरेत् ।
ब्रह्मरन्ध्रपरं बिम्बं भावयन् निर्विकल्पधीः ॥ 20.11 ॥

20.12

तद्रश्मिजालैः संछिन्नं देहम् ईश्वरि भावयेत् ।
ताभ्याम् आवेष्टितं देहं तेजोरूपं वरानने ॥ 20.12 ॥

20.13

दीप्तं दीपशिखाकारं बिम्बद्वयपुटीकृतम् ।
दुभिधि तेजोन्द्रगतं भावयेत् कुम्भकावधि ॥ 20.13 ॥

20.14

ब्रह्मद्वारार्गलं भित्त्वा सुषिरोर्ध्वै मुखेन च ।
शीतलामृतकल्लोलधारावृष्टिकुलामृतम् ॥ 20.14 ॥

20.15

पीत्वा पीत्वार्करन्ध्रेण तत्सुधावृष्टिमोदितम् ।
चिन्तयेद् आत्मनो रूपं ज्योतिर्लिङ्गवद् आस्थितम् ॥ 20.15 ॥

20.16

तदण्डाभ्यन्तरं सर्वमृतापूरितं स्मरेत् ।
तत्र मध्यगतो योगी गन्धाख्यगुणपूरितम् ॥ 20.16 ॥

20.17

सर्वाधारम् अशेषं तु धरातत्त्वं न विस्मरेत् ।
वाण्यान्तं सुगुणाधारा जलतत्त्वम् अशेषकम् ॥ 20.17 ॥

20.18

तथा रूपगुणोदारं तेजस्तत्त्वम् अशेषकम् ।
नेत्रत्रयेषु सञ्चिन्त्य स्पर्शाख्यगुणपूरितम् ॥ 20.18 ॥

20.19

वायुतत्त्वम् अशेषं तु श्वासमात्रं स्मरेच् छिवे ।
शब्दाख्यगुणसंयुक्तं व्योमतत्त्वम् अशेषकम् ॥ 20.19 ॥

20.20

श्रुतिस्थाने स्मरेद् योगी सशरीरत्य वाह्यकान् ।
ज्वालाण्डमध्यसंल्लीनं देहं विश्वमयं स्मरेत् ॥ 20.20 ॥

20.21

स्वदेहमध्यसंल्लीनं ब्रह्माण्डम् इदम् अव्ययम् ।
लयादिप्रलयान्तं च ग्रसेत् कालं च लीलया ॥ 20.21 ॥

20.22

एकीभावेन सुदृढं बद्ध्वा पद्मासनं स्मरेत् ।
चिन्तयेत् कालकलुषैर् मुक्तदेहं निरामयम् ॥ 20.22 ॥

20.23

तदा तद् अण्डम् ईशानि स्मरेन् सुषिर वर्जितम् ।
तदा कालभयं ग्रस्त्वा शिववत् स्वेच्छया वसेत् ॥ 20.23 ॥

20.24

अनेन देवि ध्यानेन वञ्चयेत् कालम् आगतम् ।
पृथिव्यादीनि तत्त्वानि स्वीकृत्य स्यान् निरामयः ॥ 20.24 ॥

20.25

ध्यानस्यास्य समासेन फलं च शृणु पार्वति ।
स्फोटयेच् छैलवृक्षादीन् शोषयेज् जलधीश्वरान् ॥ 20.25 ॥

20.26

करोति लीलया चाग्नि जलानिलवारणम् ।
शब्दतत्त्वं जपेद् योगी जरामरणवर्जितः ॥ 20.26 ॥

20.27

त्रिकालज्ञः स्वयं कर्ता सर्वव्याधित्वम् आप्नुयात् ।
मृतकोत्थापनं देवि दग्धसञ्जीवनं महत् ॥ 20.27 ॥

20.28

सृष्टिस्थितिलयाधीशः सर्वत्र समदर्शनः ।
परकायप्रवेशश् च खेचरत्वं विशुद्धता ॥ 20.28 ॥

20.29

क्षुत्तृषादाहनिर्मुक्तो स्वो … छया वशेत् ।
अप्रमेयबलो योगी दुर्विज्ञेयमतिः प्रभुः ॥ 20.29 ॥

20.30

षण्मासाद् ध्यानयोगेन नित्ययुक्तेन पार्वति ।
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशयः ।
महाक्षयेष्व् अपि च वै क्षयं नैव प्रजायते ॥ 20.30 ॥

20.31

इत्थं संहत सविचित्रविषयस्य अशेषविश्वात्मनः
संविद् भावमणी सकारणमहायोगे चिरं तिष्ठतः ।
मेरौ सर्ववर्णवि चुलकवत् खद्योतवद् भास्करे
ब्रह्माण्डवदहानि … कौतुकं योगिनः ॥ 20.31 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां विंशः पटलः ॥


Kapitel 22, Vers 24: Kula und der höchste Purusha

Quelle des Einzelzitats: Kiss 2020, S. 435. Die übrigen Kapitelteile sind nicht enthalten.

22.24

कुलयोषित् कुलं त्यक्त्वा परं पुरुषम् एति सा ।
निर्लक्ष्यं निर्गुणं चैव कुलरूपविवर्जितम् ॥ 22.24 ॥


Kapitel 27: Amari-Bad und rituelle Stoffe

॥ सप्तविंशः पटलः ॥

ईश्वर उवाच

27.1

क्षेत्रज्ञानविहीनस् तु बाह्यचक्रमनाः क्षमः ।
सर्वतीर्थाधिकं स्नानं योगी देवि समाचरेत् ॥ 27.1 ॥

27.2

लोकेशः केशवो रुद्रः ईशश् चैव सदेश्वरः ।
निगद्यन्ते च विङ्मूत्ररजोरेचकसारकाः ॥ 27.2 ॥

27.3

दृढलावण्यशौक्ल्यघ्नदेहस्थैर्यगद†क्षमः† ।
क्रमाद् अमी प्रणश्यन्ति क्रियते विधिना यदि ॥ 27.3 ॥

27.4

दिव्यानुजः सुरश्रेष्ठः सूतो यज्ञो हरिः स्वयम् ।
अतिदुष्टः स्वयं रुद्रो लेभे ईशः सुरद्रवम् ॥ 27.4 ॥

27.5

सदाशिवो वरो ज्ञेयस् तेषां क्रमम् इमं शृणु ।
विजने जन्तुरहिते सुपात्रे चामरीरसम् ॥ 27.5 ॥

27.6

तत्र मेहनजं सारं कृत्वा चैवादिपुष्पकम् ।
पिङ्गलीवालुकं वारि सम्यग् ओं कारसं भवम् ॥ 27.6 ॥

27.7

तथा मथनजं दिव्यं ब्रह्मरन्ध्रविनिर्गतम् ।
एकीकृत्य धरातोयैः सं स्कृत्य च यथाविधि ॥ 27.7 ॥

27.8

कर्पूरकुङ्कुमादीनि तस्मिन् विन्यस्य मेलयेत् ।
तेन प्रमर्दयेद् देहम् आपादतलमस्तकम् ॥ 27.8 ॥

27.9

नासजं †नास्त्यकं † कुर्याद् अजरामरफलाप्तये ।
मासेन देवदेवेशि नित्यम् अन्तः प्रदर्शयेत् ॥ 27.9 ॥

27.10

वलीपलितनाशश् च दृढलावण्यम् एव च ।
भविष्यति महेशानि नाडीशुद्धिर् गदक्षयः ॥ 27.10 ॥

27.11

अनेन विधिना देवि निर्विकल्पेन चेतसा ।
यश् चरेत् तस्य सं सिद्धिर् जायते ह्य् अजरामरः ॥ 27.11 ॥

27.12

क्षेत्रतीर्थमये देहे यत् तीर्थं शिवनिर्गतम् ।
सर्वपापक्षयकरं वलीपलितनाशनम् ॥ 27.12 ॥

27.13

करोति नात्र सं देहस् त्रिकालाभ्यङ्गयोगतः ।
षण्मासाल् लभते सत्यम् अजरामरतां प्रिये ॥ 27.13 ॥

27.14

त्रिकालोद्वर्तनाद् वर्षाद् वलीपलितहा भवेत् ।
एककालप्रयोगेन त्रिवर्षाद् अजरामरः ॥ 27.14 ॥

27.15

विकल्पो नात्र कर्तव्यस् तर्हि सिद्धिर् न जायते ।
अविकल्पप्रवृत्तस्य योगिनः सिद्धिर् उत्तमा ॥ 27.15 ॥

27.16

सर्वपापक्षयश् चैव सौकुमार्यं प्रजायते ।
दिव्यं शिवमयं तीर्थं तीर्थकोटिफलप्रदम् ॥ 27.16 ॥

27.17

रात्रौ पात्रान्तरे सर्वं कुर्याद् योगी समाहिताम् ।
चन्दनं कुङ्कुमं कुष्ठं हारिद्रं गोमयं तिलम् ॥ 27.17 ॥

27.18

कर्पूरम् अगुरुं चन्द्रं गुग्गुलं कङ्गुकाघृतम् ।
गन्धकं च समालोड्य प्रातर् देहं प्रमर्दयेत् ॥ 27.18 ॥

27.19

अनेन विधिना मासात् सूर्यकल्पो भवेन् नरः ।
वलीपलितनिर्मुक्तो जायते ह्य् अजरामरः ॥ 27.19 ॥

27.20

रात्रौ कृत्वा महेशानि पात्रे सर्वामरीसुधाम् ।
तालकं कनकं गन्धं रुद्राक्षं च मनःशिलाम् ॥ 27.20 ॥

27.21

पिष्ट्वा सं लोड्य स्वदेहं मर्दयेत् प्रातर् उत्थितः ।
मासाद् भवति देवेशि सत्यं पावकसं निभः ॥ 27.21 ॥

27.22

वलीपलितनिर्मुक्तः सिद्धिः स्याद् अजरामरा ।
दिवा सं क्षिप्य पात्रान्तः सायं मर्दनम् आचरेत् ॥ 27.22 ॥

27.23

घृष्ट्वा गुग्गुलुना धूपं वस्त्रावृततनौ ददेत् ।
सं दग्धगोमयं भस्म मेलयित्वामरीरसे ॥ 27.23 ॥

27.24

सं मिश्रोन्मत्तकरसं तेन देहं प्रमर्दयेत् ।
मर्दनाद् एव षण्मासाज् जायते ह्य् अजरामरः ॥ 27.24 ॥

27.25

सर्वतो विषनाशश् च भविष्यति न सं शयः ।
यो नित्यं मर्दयेद् एनं द्वादशान्तम् अखण्डितम् ॥ 27.25 ॥

27.26

सर्वपापविनिर्मुक्तः सर्वव्याधिविवर्जितः ।
अजरश् चामरो भूत्वा जीवेद् आचन्द्रतारकम् ॥ 27.26 ॥

27.27

अविकल्पमतिर् देवि यः सदा मर्दयेत् तनुम् ।
तस्य न व्याधिजा भीतिर् न जरामृत्युतो ऽपि च ॥ 27.27 ॥

27.28

अनेन देवि स्नानेन सर्वतीर्थफलोदयः ।
भवति नात्र सं देहः सत्यं सत्यं मयोदितम् ॥ 27.28 ॥

27.29

पशुपाशप्रबद्धाश् च शिवज्ञानपराङ्मुखाः ।
दिव्यामरीसुधास्नानं न विन्दन्ति बहिर्मुखाः ॥ 27.29 ॥

27.30

अप्रकाश्यतमं चेदं रहस्यं ते प्रकाशितम् ।
शिवेनोदाहृतं देवि नापरीक्ष्य प्रदापयेत् ॥ 27.30 ॥

Schlusskolophon

इति श्रीमत्स्येन्द्रसंहितायां सप्तविंशः पटलः


Kapitel 28: Überlieferte Stofflehre und Wirkungsversprechen

Aus Mallinsons vollständigem Apparat erschlossene Lesefassung des Matsyendra-Zeugen J₆. Die 16 Abschnittsüberschriften sind redaktionell und nennen Parallelstellen der Khecarividya (KhV), keine erfundenen originalen Versnummern. Die Binnenzählung des Manuskripts ist aus dem Apparat nur teilweise erkennbar. Die historischen Mittel enthalten auch giftige Stoffe; die Textwiedergabe dient dem Studium und ist keine heutige Anwendungsempfehlung.

ईश्वर उवाच

Textabschnitt: KhV 4.1

Mallinson 2003, vollständiger Apparat S. 289; Lesungen des Matsyendra-Zeugen J₆.

अथ ते संप्रवक्ष्यामि सुदिव्यान् ओषधानि च ।
उषधेन विना योगी न क्व चित् सिद्धिम् एष्यति ॥

Textabschnitt: KhV 4.2

Mallinson 2003, vollständiger Apparat S. 289–290; Lesungen des Matsyendra-Zeugen J₆.

भिक्ष्णत्तमाङ्गपरिकल्पितनामधेय
तत्पत्रपुष्पफलदण्डसमूलचूर्णम् ।
तक्रारणालपयसा मधुशर्कराद्यैर्
दद्यात् पृथक् कवलितं रसमण्डलानि ।
पालित्यहानिम् अतिसत्वम् उदारवीर्यम्
उत्साहरोगहरणानि च सम्यग् एव ॥

Textabschnitt: KhV 4.3

Mallinson 2003, vollständiger Apparat S. 290; Lesungen des Matsyendra-Zeugen J₆.

कर्णे वराहो नयने गरुत्मान्
अखंडदंतश् च भवेच् च वज्रम् ।
युवा महामारुतसाम्यवेगो
जीवेच् च यावद् धरणीन्दुताराः ॥

Textabschnitt: KhV 4.4

Mallinson 2003, vollständiger Apparat S. 290–291; Lesungen des Matsyendra-Zeugen J₆.

वाराहीकन्दचूर्ण घृतगुडसहितं भक्षयेत् पुष्टिवृध्यौ
तक्रे दुर्नामनाशस् त्व् अथ पुनर् अपि गोक्षीरके कुष्टनाशः ।
तच्चूर्णं शर्कराद्यैर् मधुम् अपि च पयः पाययेच् च द्विकालम्
द्वौ वर्षो कृष्णकेशी वलिपलितहरो वर्षभेदी शरीरे ॥

Textabschnitt: KhV 4.5

Mallinson 2003, vollständiger Apparat S. 291; Lesungen des Matsyendra-Zeugen J₆.

एरंडफलतैलेन त्रिफला गुग्गुलेन च ।
गन्धकं भक्षयेत् प्राज्ञो जरादारिड्यनाशनम् ॥

Textabschnitt: KhV 4.6a–c mit Zusatz

Mallinson 2003, vollständiger Apparat S. 291; Lesungen des Matsyendra-Zeugen J₆.

अश्वगन्धा तिला माषाः सर्करा विश्वसर्पिषाः ।
मासमात्रप्रयोगेण हस्तिना सह युध्यते ॥

Textabschnitt: Zusatz nach KhV 4.6c

Mallinson 2003, vollständiger Apparat S. 291; Lesungen des Matsyendra-Zeugen J₆.

त्रिफला पुष्करो व्राह्मी निःसाकोतिललंशनी ।
पुनर् नवा वृद्धतारा न ययुः स्नेहमिश्रिता ॥

Textabschnitt: Zusatz und KhV 4.6d–7b

Mallinson 2003, vollständiger Apparat S. 291–292; Lesungen des Matsyendra-Zeugen J₆.

षण्मासाहारयोगेन नरो मरवरं लभेत् ।
पञ्चभिः पचमासेन प्राप्यते ऽमरता प्रिये ॥

Textabschnitt: KhV 4.7c–8b

Mallinson 2003, vollständiger Apparat S. 292; Lesungen des Matsyendra-Zeugen J₆.

गन्धकं त्रिफलाकुष्ठं मधुरत्रयमेलितम् ।
भक्षयेत् प्रातर् उत्थाय षण्मासाद् वलिपालिहा ॥

Textabschnitt: KhV 4.8c–9

Mallinson 2003, vollständiger Apparat S. 292; Lesungen des Matsyendra-Zeugen J₆.

पारदं गन्धकं देवि तालकं च मनःशिला ।
कुयष्टिकायष्टिरजो रुद्राक्षं मुण्डिकारजः ।
त्रिमधुप्लुतम् आस्वाद्य वत्सरा खेचरो भवेत् ॥

Textabschnitt: KhV 4.10

Mallinson 2003, vollständiger Apparat S. 292–293; Lesungen des Matsyendra-Zeugen J₆.

भृङ्गं समूलं परिशोष्य चूर्णं
कृष्णास् तिला ह्य् आमलकं तदर्धम् ।
मधुत्रयैः खादति यस् त्रिवर्षं
न व्याधयो नापि जरा न मृत्यु ॥

Textabschnitt: KhV 4.11

Mallinson 2003, vollständiger Apparat S. 293; Lesungen des Matsyendra-Zeugen J₆.

निंर्गुंडीपत्रम् एकैकं त्रिकालं परिभावयेत् ।
द्वादशाशद् भवे देवि जरामरणवर्जितः ॥

Textabschnitt: Zusatz nach KhV 4.11d

Mallinson 2003, vollständiger Apparat S. 293; Lesungen des Matsyendra-Zeugen J₆.

कुमारीपत्रम् एकैकं त्रिकालं परिभक्षयेत् ।
द्वादशाब्दा भवेद् देवि जरामरणवर्जितः ॥

Textabschnitt: KhV 4.12

Mallinson 2003, vollständiger Apparat S. 293–294; Lesungen des Matsyendra-Zeugen J₆.

निर्गुण्ड्यनलमुण्डानां साम्यं संसाधयेद् रजः ।
शर्कराघृतमध्वक्तं वत्सराद् वलिपालिहा ॥

Textabschnitt: KhV 4.13 mit Zusatz in J₆/J₇

Mallinson 2003, vollständiger Apparat S. 129 und 294; Lesungen des Matsyendra-Zeugen J₆.

माषान्नमुहकं स्वर्णे तालकं रुद्रलोचनम् ।
मधुत्रययुतं वर्षाद् अजरामरणप्रदा ।
उपामृद्गन्धकं स्वर्णं तालकं भद्रलोचनम् ।
मधुत्रययुतं वर्षाज् अजरामरणप्रदा ॥

Textabschnitt: KhV 4.14

Mallinson 2003, vollständiger Apparat S. 294; Lesungen des Matsyendra-Zeugen J₆.

रसं शाल्मलिनिर्यासं गन्धकं मधुरत्रयैः ।
भक्षयेत् प्रातर् उत्थाय षण्मासाद् अजरामरः ॥

Schlusskolophon

इति श्रीमत्स्येंद्रसंहितायां अष्टाविंशपटलः


Kapitel 40, Verse 1ab und 29–69: Kula-Ordnung und Maya

Außer dem ergänzenden Halbvers 40.1ab aus Kiss 2011 sind die Verse 1–28 nicht enthalten. Ab 29 folgt die Fassung Kiss 2020.

40.1ab

अथ देवि प्रवक्ष्यामि कुलाचारविधिक्रमम्

40.29

अतः परं शृणु शिवे कुलाचारस्य निर्णयम् ।
सम्प्राप्य सिद्धसंतानं गुरुं दैवं सदा यजेत् ॥ 40.29 ॥

40.30

गुरुपूजारतो योगी परां सिद्धिम् अवाप्नुयात् ।
गुरोः खट्वां तथा शय्यां वस्त्रम् आभरणानि च ॥ 40.30 ॥

40.31

पादुकां छत्त्रम् अजिनं पात्रम् अन्यद् अथापि वा ।
पादेन स्पृशते यस् तु शिरे धृत्वाष्टकं जपेत् ॥ 40.31 ॥

40.32

गुरुनिन्दापरं दृष्ट्वा घातयेद् अथवा शपेत् ।
स्थानं वा तत् परित्यज्य गच्छेद् यद्य् अक्षमो भवेत् ॥ 40.32 ॥

40.33

कुलपूजां न निन्देत योगिनं योगिनीम् अपि ।
उन्मत्तां पुष्टितां नारीं सुराकुम्भं शिवं गुरुम् ॥ 40.33 ॥

40.34

निन्दनाद् भ्रश्यते सद्यः परत्रेह च पार्वति ।
पशुमार्गं न सेवेत पशूच्छिष्टं न कामयेत् ॥ 40.34 ॥

40.35

योगिनीमेलनं कार्यं न सेवेत पशुस्त्रियम् ।
नोच्छिष्टं पशवे दद्यात् न नारीं निन्दयेत् क्वचित् ॥ 40.35 ॥

40.36

एकीभावं प्रकुर्वीत पृथग्भावं न कारयेत् ।
वृथा पानं न कुर्वीत न वृथा मांसभक्षणम् ॥ 40.36 ॥

40.37

असंस्कृतं न पिबेन् मद्यं तत्पूतं मांसम् आग्रसेत् ।
न कुर्यान् मन्त्रगोष्ठीषु शौचम् आचमनादिकम् ।
यदि कुर्यात् प्रमादेन योगिनीशाप आपतेत् ॥ 40.37 ॥

40.38

भुञ्जीयाद् यत् स्त्रियं देवि शिवशक्त्यात्मभावया ।
योगिनीं सेवयेन् नित्यं मायां वा पाशवीं न च ॥ 40.38 ॥

देव्य् उवाच ।

40.39

का नारी योगिनी देव का माया का च पाशवी ।
एतासां संगमे दोषं गुणं च वद भैरव ॥ 40.39 ॥

भैरव उवाच ।

40.40

कुलमार्गगता नारी पशुमार्गविवर्जिता ।
माध्वीमदसमाध्माता पशुपाशविवर्जिता ॥ 40.40 ॥

40.41

मदिरानन्दचेतस्का योगिनी शिवशासने ।
विकल्पकुटिला पापा कुलाचारपराङ्मुखी ॥ 40.41 ॥

40.42

शिवनिन्दापरा देवि तत्सपर्याविरोधिनी ।
पाशवी सा मयाख्याता मायाख्यां शृणु सुव्रते ॥ 40.42 ॥

40.43

सर्वलक्षणसम्पन्ना कुलरूपविवर्जिता ।
भावगम्या महेशानि या सा माया निगद्यते ॥ 40.43 ॥

देव्य् उवाच ।

40.44

या माया रूपरहिता कुलहीना महेश्वर ।
योगिनः संगमस् तस्याः कथं भवति तद् वद ॥ 40.44 ॥

भैरव उवाच ।

40.45

शृणु देवि प्रवक्ष्यामि मायया संगम् अद्भुतम् ।
यद् अमोघं महेशानि दुर्विज्ञेयम् उतापरैः ॥ 40.45 ॥

40.46

योगसिद्धिविहीनैश् च योगिभिः सुरनायकि ।
सुगुप्ते मन्दिरे मन्त्री मृद्वासनपरिग्रहः ॥ 40.46 ॥

40.47

भावयेच् च स्वम् आत्मानं परमेश्वरविग्रहम् ।
कामेश्वरम् इवाद्यन्तं सूर्यायुतसमप्रभम् ॥ 40.47 ॥

40.48

चारुमञ्जीरकेयूरकुण्डलाङ्गदभूषितम् ।
मुद्रिकाछन्नहीरादिकिरीटमुकुटोज्ज्वलम् ॥ 40.48 ॥

40.49

प्रसन्नवदनं कान्तं ताम्बूलापूरिताधरम् ।
मदिरानन्दचेतस्कं परमानन्दविग्रहम् ॥ 40.49 ॥

40.50

नवयौवनसम्पन्नं सर्वलक्षणभूषितम् ।
स्ववामभागविन्यस्तमहाजगवकार्मुकम् ॥ 40.50 ॥

40.51

दक्षभागोज्ज्वलत्पञ्चशरम् इन्दीवरद्युतिम् ।
नीलोत्पललसन्मालाभूषितोरस्कम् ईश्वरम् ॥ 40.51 ॥

40.52

मदेन क्षुब्धहृदयम् ईषास्मितमुखाम्बुजम् ।
एवं ध्यायेच् चिरं योगी स्वशरीरं शिवात्मकम् ॥ 40.52 ॥

40.53

चन्दनागरुकर्पूरकुरङ्गजयकुङ्कुमैः ।
अधिवासितसर्वाङ्गं चारुवक्त्रविराजितम् ॥ 40.53 ॥

40.54

रत्नद्वीपायुतयुतं गेहे सत्तल्पमध्यगम् ।
तत्र स्ववामभागस्थां शक्तिं भुवनमोहिनीम् ॥ 40.54 ॥

40.55

सर्वलक्षणसम्पन्नां नवयौवनगोचराम् ।
नीलालकसमाबद्धमालालोलुपषट्पदाम् ॥ 40.55 ॥

40.56

कस्तूरीसान्द्रकर्पूरतिलकां कमलेक्षणाम् ।
कुण्डलाङ्गदकेयूरग्रैवेयादिविभूषिताम् ॥ 40.56 ॥

40.57

अकलङ्कनिशानाथसदृशश्रीमुखाम्बुजाम् ।
ताम्बूलापूर्णवदनां स्वर्णकुम्भोपमस्तनीम् ॥ 40.57 ॥

40.58

दिव्यानुलेपवस्त्राढ्यां विस्तीर्णजघनान्तराम् ।
चारूरुजङ्घां सौन्दर्यसारसर्वस्वविग्रहाम् ॥ 40.58 ॥

40.59

सर्वलावण्यसौन्दर्यसारसर्वस्वविग्रहाम् ।
मञ्जीराञ्चितपादाढ्यां दिव्यमाल्यानुलेपनाम् ।
मदिरास्वादमुदितां मदनाविष्टविग्रहाम् ॥ 40.59 ॥

40.60

विलासविभ्रमां कान्तां ध्यायेत् शक्तिं महेश्वरि ।
आश्लिष्य चुम्बनादीनि योगी सम्यक् समाचरेत् ॥ 40.60 ॥

40.61

ध्याने बहिः सुसंस्निग्धं तया संगं समाचरेत् ।
गजहस्तं क्षिपेत् तस्याः श्रीमन्मदनमन्दिरे ॥ 40.61 ॥

40.62

मन्त्रम् एनं स्मरेद् योगी मदं यावद् विमुञ्चति ।
भौतिकव्योम †ला ऐंडि† केवलार्णस् तु भौतिके ॥ 40.62 ॥

40.63

अपरो वह्नि वामाक्षि बिन्दु युक्तो महेश्वरि ।
चलेपदं चलपदम् चित्रेपदम् अनन्तरम् ॥ 40.63 ॥

40.64

रेतोपदं मुञ्चपदयुगं पूर्वबीजा विलोमगाः ।
एवं क्रमेण यो योगी मायासंगं समाचरेत् ॥ 40.64 ॥

40.65

तद्वीर्यं स्वर्णकर्पूरकुङ्कुमादिविलोडितम् ।
स्वदेहं मर्दयेत् कान्तिश् चन्द्रवत् सम्प्रजायते ॥ 40.65 ॥

40.66

समूलां ब्रह्ममण्डूकीं छायाशुष्कां प्रसाधयेत् ।
मृद्वीकारससंमिश्रां शर्कराघृतमेलिताम् ॥ 40.66 ॥

40.67

त्रिमासं भक्षयेत् कालत्रयम् अक्षप्रमाणकम् ।
अन्नपानं पयः पीत्वा नास्य शुक्रः क्षयं व्रजेत् ॥ 40.67 ॥

40.68

शतवर्षसहस्रान्तं यदि संगं समाचरेत् ।
नास्य प्रक्षीयते सत्यं नवत्वाप्त्यै तनोः प्रिये ॥ 40.68 ॥

40.69

रसायनम् इदं गुह्यम् अन्येषां न प्रकाशयेत् ।
एतद् रहस्यं व्याख्यातं दुर्लभं सिद्धसंततौ ।
गुरुकारुण्यसंलक्ष्यं किं भूयः श्रोतुम् इच्छसि ॥ 40.69 ॥

Schlusskolophon

॥ इति श्रीमत्स्येन्द्रसंहितायां चत्वारिंशः पटलः ॥


Kapitel 44, Fragment aus Vers 27: Überlieferungsrichtungen

Quelle des Fragmentzitats: Mallinson 2003, S. 2, Anm. 3 (PDF-Seite 6); am Seitenbild geprüft. Die übrigen Kapitelteile und der nicht zitierte Rest von Vers 27 sind nicht enthalten.

44.27

एतत् ते परमाम्नायम् औत्तरं पश्चिमान्वयम्


Kapitel 54, Vers 15cd: Weitergabe der Vidya

Quelle des Halbverses: Kiss 2011, Anm. 14, S. 192; digitale Textwiedergabe. Die übrigen Kapitelteile sind nicht enthalten.

54.15cd

तस्मात् परीक्ष्य दातव्या विद्यैषा कुलशासने


Kapitel 55, Verse 42–44: Schlussrahmen

Quelle: Sensharma 1994, Einleitung S. 2, mit ausdrücklich belegter Ergänzung in 42cd aus Kiss 2011, Anm. 14. Die übrigen Kapitelteile sind nicht enthalten.

55.42

इति शम्भुमुखात् कृत्वा शतकोटिप्रविस्तरम् ।
कुलाम्नायम् अशेषं तु तस्माद् उद्धृत्य सारयेत् ॥ 55.42 ॥

55.43

मत्स्येन्द्रेण कृतं चेदम् आगमं परमार्थतः ।
शिवशासनम् आकर्ण्य मत्स्यनाथेन (?) योगिना ॥ 55.43 ॥

55.44

चोलेन्द्राय पुरा गीतं तेनेदं प्रतिपादितम् ।
श्रीमच्चोलेन्द्रनाथेन भूतले योगसिद्धये ॥ 55.44 ॥

Schlusskolophon

इति मत्स्येन्द्रसंहितायां पञ्चपञ्चाशत् पटलः । समाप्त (म्) / सम्पूर्णम् ।


Zum Weiterlesen

Mit diesen ergänzenden Texten endet der Umfang dieser Teilausgabe. Der Hauptartikel verbindet die einzelnen Themen und erläutert die Überlieferung sowie die Grenzen des Textangebots. Die 108 ausgewählten Verse bieten einen thematischen Zugang ausschließlich in deutscher Übersetzung.

Quellen und Navigation

  1. Debabrata Sensharma (Hrsg.): Matsyendra Samhita: Ascribed to Matsyendranatha. Part I. Bibliotheca Indica 318. The Asiatic Society, Calcutta 1994. Digitalisat.
  2. James Mallinson: The Khecarīvidyā of Ādinātha: A Critical Edition and Annotated Translation. DPhil-Dissertation, Balliol College, University of Oxford. Benutzte PDF-Fassung: Titelblatt 14. August 2003; Einreichungsblatt Trinity Term 2001. 336 PDF-Seiten. Anhänge B und C mit eigenen Editionen der Matsyendra Samhita. Digitalisat.
  3. Csaba Kiss: A Sexual Ritual with Māyā in Matsyendrasaṃhitā 40. In: Śaivism and the Tantric Traditions. Brill 2020, S. 426–450; Sanskrittext S. 429–441. Nachweis und Seitenansicht.
  4. Csaba Kiss: The Matsyendrasaṃhitā. In: David N. Lorenzen / Adrián Muñoz (Hrsg.), Yogi Heroes and Poets: Histories and Legends of the Nāths. SUNY Press, Albany 2011, S. 143–162; gesonderte Anmerkungen S. 188–198, hier Anm. 6 und 14. Publikationsnachweis.

Hauptartikel · 108 ausgewählte Verse · IAST und Deutsch

Ende der Textseite.