Guru Paduka Stotram
Aus Yogawiki
- anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām ।
- vairāgyasāmrājyadapūjanābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 1 ॥
- kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām ।
- dūrikṛtānamra vipattatibhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 2 ॥
- natā yayōḥ śrīpatitāṃ samīyuḥ kadāchidapyāśu daridravaryāḥ ।
- mūkāśrcha vāchaspatitāṃ hi tābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 3 ॥
- nālīkanīkāśa padāhṛtābhyāṃ nānāvimōhādi nivārikābhyām ।
- namajjanābhīṣṭatatipradābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 4 ॥
- nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyām ।
- nṛpatvadābhyāṃ natalōkapaṅkatē: namō namaḥ śrīgurupādukābhyām ॥ 5 ॥
- pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khagēśrvarābhyām ।
- jāḍyābdhi saṃśōṣaṇa vāḍavābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 6 ॥
- śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyām ।
- ramādhavāndhristhirabhaktidābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 7 ॥
- svārchāparāṇāṃ akhilēṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyām ।
- svāntāchChabhāvapradapūjanābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 8 ॥
- kāmādisarpa vrajagāruḍābhyāṃ vivēkavairāgya nidhipradābhyām ।
- bōdhapradābhyāṃ dṛtamōkṣadābhyāṃ namō namaḥ śrīgurupādukābhyām ॥ 9 ॥
Sanskrit:
- गुरु पादुका स्तोत्रम्
- अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
- वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥
- कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम् ।
- दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥
- नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
- मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥
- नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम् ।
- नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥
- नृपालि मौलिव्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् ।
- नृपत्वदाभ्यां नतलोकपङ्कते: नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥
- पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्र्वराभ्याम् ।
- जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥
- शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम् ।
- रमाधवान्ध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥
- स्वार्चापराणां अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् ।
- स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥
- कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम् ।
- बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥