Tantraloka Sanskrit Devanagari
Tantraloka – vollständige Devanagari-Fassung
Die folgende Umschrift gibt denselben nummerierten Grundtext wieder. Die deutschen Lesungs- und Lückenhinweise stehen in der versweisen Fassung und im Prüfabschnitt.
Ahnika 1 – Devanagari
1.1
विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः
।
तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात्
॥ १ ॥
1.2
नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् ।
मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥ २ ॥
1.3
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते ।
प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥ ३ ॥
1.4
दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् ।
स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥ ४ ॥
1.5
स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः ।
तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥ ५ ॥
1.6
तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव ।
देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ ६ ॥
1.7
रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति ।
कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ ॥
1.8
त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः ।
पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥ ८ ॥
1.9
जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः ।
तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ ९ ॥
1.10
श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः ।
जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥ १० ॥
1.11
तदास्वादभरावेशबृंहितां मतिषट्पदीम् ।
गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥ ११ ॥
1.12
यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः ।
स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥ १२ ॥
1.13
जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः ।
यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः ॥ १३ ॥
1.14
सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा ।
अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ १४ ॥
1.15
इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः ।
अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् ॥ १५ ॥
1.16
श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या ।
बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ १६ ॥
1.17
न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे ।
देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥ १७ ॥
1.18
दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः ।
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥ १८ ॥
1.19
अतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः ।
अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥ १९ ॥
1.20
अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या ।
त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥ २० ॥
1.21
श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् ।
अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥ २१ ॥
1.22
इह तावत्समस्तेषु शास्त्रेषु परिगीयते ।
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥ २२ ॥
1.23
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।
इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे ॥ २३ ॥
1.24
विशेषणेन बुद्धिस्थे संसारोत्तरकालिके ।
संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ २४ ॥
1.25
अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः ।
स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ २५ ॥
1.26
अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् ।
ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥ २६ ॥
1.27
चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः ।
संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः ॥ २७ ॥
1.28
चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् ।
अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने ॥ २८ ॥
1.29
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा ।
ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥ २९ ॥
1.30
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते ।
तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥ ३० ॥
1.31
स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽ तुच्छोऽपि कश्चन ।
न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ ३१ ॥
1.32
यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् ।
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ ३२ ॥
1.33
रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः ।
इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ ३३ ॥
1.34
तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः ।
अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ ३४ ॥
1.35
यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् ।
अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ ३५ ॥
1.36
ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः ।
द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥ ३६ ॥
1.37
तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय ।
स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥ ३७ ॥
1.38
संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् ।
तदज्ञानं न बुद्घ्यंशोऽध्यवसायाद्यभावतः ॥ ३८ ॥
1.39
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी ।
षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥ ३९ ॥
1.40
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् ।
बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच ॥ ४० ॥
1.41
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः ।
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ ४१ ॥
1.42
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा ।
तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥ ४२ ॥
1.43
तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि ।
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ ४३ ॥
1.44
बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् ।
विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥ ४४ ॥
1.45
दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका ।
तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ ४५ ॥
1.46
ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ ।
मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥ ४६ ॥
1.47
तथाविधावसायात्मबौद्धविज्ञानसम्पदे ।
शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥ ४७ ॥
1.48
दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि ।
धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत ॥ ४८ ॥
1.49
देहसद्भावपर्यन्तमात्मभावो यतो धियि ।
देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥ ४९ ॥
1.50
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् ।
तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ ५० ॥
1.51
विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् ।
इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥ ५१ ॥
1.52
ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः ।
नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥ ५२ ॥
1.53
अवस्तुतापि भावानां चमत्कारैकगोचरा ।
यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥ ५३ ॥
1.54
प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते ।
अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥ ५४ ॥
1.55
प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।
तेषामपि परो जीवः स एव परमेश्वरः ॥ ५५ ॥
1.56
सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते ।
ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ ५६ ॥
1.57
अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् ।
यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥ ५७ ॥
1.58
[Zählungsbefund: GRETIL markiert 1.58 als fehlend; auch im konsultierten KSTS-Druck ist kein eigener Grundvers unter dieser Nummer nachgewiesen. Siehe den Lesungshinweis in der IAST-Fassung.]
1.59
कामिके तत एवोक्तं हेतुवादविवर्जितम् ।
तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ ५९ ॥
1.60
परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः ।
अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥ ६० ॥
1.61
नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः ।
विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥ ६१ ॥
1.62
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः ।
ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥ ६२ ॥
1.63
भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च ।
बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥ ६३ ॥
1.64
यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते ।
व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः ॥ ६४ ॥
1.65
विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् ।
अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च ॥ ६५ ॥
1.66
उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः ।
जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥ ६६ ॥
1.67
न चास्य विमुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते ।
एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥ ६७ ॥
1.68
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥ ६८ ॥
1.69
शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।
तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥ ६९ ॥
1.70
मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् ।
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥ ७० ॥
1.71
न वासौ परमार्थेन न किंचिद्भासनादृते ।
नह्यस्ति किंचित्तच्छक्तितद्वद्भेदोऽपि वास्तवः ॥ ७१ ॥
1.72
स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् ।
शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥ ७२ ॥
1.73
शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते ।
स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥ ७३ ॥
1.74
तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा ।
शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥ ७४ ॥
1.75
श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् ।
अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥ ७५ ॥
1.76
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् ।
क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥ ७६ ॥
1.77
रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् ।
विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥ ७७ ॥
1.78
बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् ।
कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः ॥ ७८ ॥
1.79
सृष्टिस्थितितिरोधानसंहारानुग्रहादि च ।
तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥ ७९ ॥
1.80
जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि ।
तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥ ८० ॥
1.81
महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः ।
अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥ ८१ ॥
1.82
तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् ।
आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥ ८२ ॥
1.83
हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ ८३ ॥
1.84
आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ ८४ ॥
1.85
स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति ।
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ ८५ ॥
1.86
ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति ।
ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥ ८६ ॥
1.87
गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे ।
धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ ८७ ॥
1.88
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः ।
एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥ ८८ ॥
1.89
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् ।
ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ ८९ ॥
1.90
परं शिवं तु व्रजति भैरवाख्यं जपादपि ।
तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥ ९० ॥
1.91
तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः ।
दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥ ९१ ॥
1.92
एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् ।
केन नाम न रूपेण भासते परमेश्वरः ॥ ९२ ॥
1.93
निरावरणमाभाति भात्याबृतनिजात्मकः ।
आवृतानावृतो भाति बहुधा भेदसंगमात् ॥ ९३ ॥
1.94
इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् ।
इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥ ९४ ॥
1.95
देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते ।
महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥ ९५ ॥
1.96
विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते ।
सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥ ९६ ॥
1.97
संसारभीतिजनिताद्रवात्परामर्शतोऽपि हृदि जातः ।
प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥ ९७ ॥
1.98
नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च ।
कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः ॥ ९८ ॥
1.99
संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् ।
अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥ ९९ ॥
1.100
तस्य स्वामी संसारवृत्तिविघटनमहाभीमः ।
भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥ १०० ॥
1.101
हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् ।
क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥ १०१ ॥
1.102
व्यवहरणमभिन्नेऽपि स्वात्मनि भेदेन संजल्पः ।
निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥ १०२ ॥
1.103
तत्प्रवणमात्मलाभात्प्रभृति समस्तेऽपि कर्तव्ये ।
बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥ १०३ ॥
1.104
इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः ।
शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते ।
तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥ १०४ ॥
1.105
ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन ।
तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥ १०५ ॥
1.106
इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया ।
मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥ १०६ ॥
1.107
तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः ।
सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ १०७ ॥
1.108
तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते ।
तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥ १०८ ॥
1.109
तासामपि च भेदांशन्यूनाधिक्यादियोजनम् ।
तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥ १०९ ॥
1.110
एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः ।
पञ्चमूर्तिः षडात्मायं सप्तकोऽष्टकभूषितः ॥ ११० ॥
1.111
नवात्मा दशदिक्छक्तिरेकादशकलात्मकः ।
द्वादशारमहाचक्रनायको भैरवस्त्विति ॥ १११ ॥
1.112
एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः ।
विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥ ११२ ॥
1.113
तेषामपि च चक्राणा स्ववर्गानुगमात्मना ।
ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥ ११३ ॥
1.114
चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते ।
षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥ ११४ ॥
1.115
नामानि चक्रदेवीनां तत्र कृत्यविभेदतः ।
सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥ ११५ ॥
1.116
एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः ।
सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥ ११६ ॥
1.117
अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् ।
ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥ ११७ ॥
1.118
स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा ।
पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥ ११८ ॥
1.119
अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते ।
ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥ ११९ ॥
1.120
दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह ।
तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥ १२० ॥
1.121
पुष्टिं कुरु रसेनैनमाप्यायय तरामिति ।
संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥ १२१ ॥
1.122
अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् ।
तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥ १२२ ॥
1.123
तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते ।
अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥ १२३ ॥
1.124
येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् ।
ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ १२४ ॥
1.125
तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते ।
तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥ १२५ ॥
1.126
स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः ।
वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ १२६ ॥
1.127
अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका ।
विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ १२७ ॥
1.128
तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः ।
अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥ १२८ ॥
1.129
उन्मग्नामेव पश्यन्तस्तं विदन्तोऽपि नो विदुः ।
तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥ १२९ ॥
1.130
चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या ।
देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥ १३० ॥
1.131
निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् ।
विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥ १३१ ॥
1.132
सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः ।
स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥ १३२ ॥
1.133
याजमानी संविदेव याज्या नान्येति चोदितम् ।
न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥ १३३ ॥
1.134
विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा ।
सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥ १३४ ॥
1.135
आवृतानावृतात्मा तु देवादिस्थावरान्तगः ।
जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ १३५ ॥
1.136
तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् ।
तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ १३६ ॥
1.136c
ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥ १३६ ॥च् ।
1.137
तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः ।
अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥ १३७ ॥
1.138
संविद्रूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे ।
तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥ १३८ ॥
1.139
तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये ।
समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥ १३९ ॥
1.140
अतः कंचित्प्रमातारं प्रति प्रथयते विभुः ।
पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥ १४० ॥
1.141
विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् ।
अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥ १४१ ॥
1.142
तच्च साक्षादुपायेन तदुपायादिनापि च ।
प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥ १४२ ॥
1.143
तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः ।
व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥ १४३ ॥
1.144
ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते ।
ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥ १४४ ॥
1.145
उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः ।
एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥ १४५ ॥
1.146
तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि ।
यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् ॥ १४६ ॥
1.147
यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् ।
भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥ १४७ ॥
1.148
भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् ।
यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥ १४८ ॥
1.149
यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् ।
क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥ १४९ ॥
1.150
यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा ।
रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने ॥ १५० ॥
1.151
योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः ।
स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥ १५१ ॥
1.152
स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः ।
तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥ १५२ ॥
1.153
सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी ।
क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥ १५३ ॥
1.154
लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या ।
सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥ १५४ ॥
1.155
तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः ।
ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥ १५५ ॥
1.156
मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।
स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥ १५६ ॥
1.157
क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि ।
असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥ १५७ ॥
1.158
परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् ।
शक्तीनां धर्मरूपाणामाश्रयः कोऽपि कथ्यते ॥ १५८ ॥
1.159
ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा ।
एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥ १५९ ॥
1.160
तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् ।
विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥ १६० ॥
1.161
यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् ।
नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥ १६१ ॥
1.162
यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता ।
न सा मुख्या ततो नायं प्रसंग इति निश्चितम् ॥ १६२ ॥
1.163
एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि ।
यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥ १६३ ॥
1.164
क्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम् ।
भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥ १६४ ॥
1.165
अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे ।
उपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः ॥ १६५ ॥
1.166
मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः ।
हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥ १६६ ॥
1.167
तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि ।
आदेशि परमेशित्रा समावेशविनिर्णये ॥ १६७ ॥
1.168
अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः ।
उत्पद्यते य आवेशः शाम्भवोऽसाविदीरितः ॥ १६८ ॥
1.169
उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।
यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥ १६९ ॥
1.170
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः ।
यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ १७० ॥
1.171
अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता ।
तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥ १७१ ॥
1.172
सा कथं भवतीत्याह गुरुणातिगरीयसा ।
ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥ १७२ ॥
1.173
तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः ।
आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ १७३ ॥
1.174
परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः ।
तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥ १७४ ॥
1.175
विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् ।
मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् ॥ १७५ ॥
1.176
आस्ते हृदयनैर्मल्यातिशये तारतम्यतः ।
ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥ १७६ ॥
1.177
इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः ।
जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥ १७७ ॥
1.178
चैतन्येन समावेशस्तादात्म्यं नापरं किल ।
तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥ १७८ ॥
1.179
शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः ।
तत्प्रसादात्पुनः पश्चाद्भाविनोऽत्र विनिश्चयाः ॥ १७९ ॥
1.180
सन्तु तादात्म्यमापन्ना न तु तेषामुपायता ।
विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥ १८० ॥
1.181
प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते ।
गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ १८१ ॥
1.182
गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते ।
अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ १८२ ॥
1.183
सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् ।
केवलं संविदः सोऽयं नैर्मल्येतरविश्रमः ॥ १८३ ॥
1.184
यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि ।
निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥ १८४ ॥
1.185
तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ।
नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ १८५ ॥
1.186
अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते ।
पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ १८६ ॥
1.187
तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः ।
एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥ १८७ ॥
1.188
अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् ।
पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥ १८८ ॥
1.189
अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल ।
अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथोऽपि तत् ॥ १८९ ॥
1.190
भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः ।
तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥ १९० ॥
1.191
सर्वप्रतीतिसद्भावगोचरं भूतमेव हि ।
विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥ १९१ ॥
1.192
रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते ।
कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥ १९२ ॥
1.193
प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् ।
नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥ १९३ ॥
1.194
उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता ।
भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥ १९४ ॥
1.195
यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन ।
एतावती महादेवी रुद्रशक्तिरनर्गला ॥ १९५ ॥
1.196
तत एव द्वितीयेऽस्मिन्नधिकारे न्यरूप्यत ।
धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥ १९६ ॥
1.197
तस्माद्यथा पुरस्थेऽर्थे गुणाद्यंशांशिकामुखात् ।
निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥ १९७ ॥
1.198
अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः ।
अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥ १९८ ॥
1.199
सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् ।
उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥ १९९ ॥
1.200
ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् ।
धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥ २०० ॥
1.201
ऊचिवानत एव श्रीविद्याधिपतिरादरात् ।
त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् ।
अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥ २०१ ॥
1.202
तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् ।
अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥ २०२ ॥
1.203
तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् ।
काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥ २०३ ॥
1.204
प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा ।
आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥ २०४ ॥
1.205
तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् ।
तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥ २०५ ॥
1.206
त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः ।
आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥ २०६ ॥
1.207
तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा ।
आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥ २०७ ॥
1.208
तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता ।
भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥ २०८ ॥
1.209
सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः ।
शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥ २०९ ॥
1.210
इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः ।
इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥ २१० ॥
1.211
अविकल्पपथारूढो येन येन पथा विशेत् ।
धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥ २११ ॥
1.212
निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि ।
प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥ २१२ ॥
1.213
एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः ।
शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥ २१३ ॥
1.214
शाक्तोऽथ भण्यते चेतोधी-मनोहंकृति स्फुटम् ।
सविकल्पतया मायामयमिच्छादि वस्तुतः ॥ २१४ ॥
1.215
अभिमानेन संकल्पाध्यवसायक्रमेण यः ।
शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥ २१५ ॥
1.216
पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् ।
अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥ २१६ ॥
1.217
एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने ।
यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥ २१७ ॥
1.218
तथा संकोचसंभारविलायनपरस्य तु ।
सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला ॥ २१८ ॥
1.219
ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा ।
अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥ २१९ ॥
1.220
उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः ।
शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥ २२० ॥
1.221
अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः ।
विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥ २२१ ॥
1.222
ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् ।
नाधोवर्तितया तेन कथितं कथमीदृशम् ॥ २२२ ॥
1.223
उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः ।
स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥ २२३ ॥
1.224
द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् ।
अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥ २२४ ॥
1.225
येन बुद्धि-मनोभूमावपि भाति परं पदम् ॥ २२५ ॥
1.226
द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति ।
प्रयात एव तद्रूढिं विना नैव हि किंचन ॥ २२६ ॥
1.227
संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् ।
कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥ २२७ ॥
1.228
विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते ।
तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥ २२८ ॥
1.229
रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् ।
अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥ २२९ ॥
1.230
अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते ।
भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥ २३० ॥
1.231
अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः ।
प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥ २३१ ॥
1.232
क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् ।
उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥ २३२ ॥
1.233
सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् ।
यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥ २३३ ॥
1.234
तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः ।
गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥ २३४ ॥
1.235
यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः ।
सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥ २३५ ॥
1.236
तत एव स्वसंतानं ज्ञानी तारयतीत्यदः ।
युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥ २३६ ॥
1.237
तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता ।
दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥ २३७ ॥
1.238
ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् ।
अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् ।
इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥ २३८ ॥
1.239
मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् ।
तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥ २३९ ॥
1.240
तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् ।
मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥ २४० ॥
1.241
एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् ।
मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥ २४१ ॥
1.242
ततोऽपि परमं ज्ञानमुपायादिविवर्जितम् ।
आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥ २४२ ॥
1.243
तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः ।
अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥ २४३ ॥
1.244
मालिन्यां सूचितं चैतत्पटलेऽष्टादशे स्फुटम् ।
न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ २४४ ॥
1.245
इत्यनेनैव पाठेन मालिनीविजयोत्तरे ।
इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् ।
तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥ २४५ ॥
1.246
तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते ।
अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥ २४६ ॥
1.247
तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा ।
संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥ २४७ ॥
1.248
एतत्किमिति मुख्येऽस्मिन्नेतदंशः सुनिश्चितः ।
संशयोऽस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥ २४८ ॥
1.249
किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते ।
किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥ २४९ ॥
1.250
स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः ।
भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥ २५० ॥
1.251
आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः ।
संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥ २५१ ॥
1.252
तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् ।
प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥ २५२ ॥
1.253
तथानुद्घाटिताकारभावप्रसरवर्त्मना ।
प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥ २५३ ॥
1.254
तथान्तरपरामर्शनिश्चयात्मतिरोहितेः ।
प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥ २५४ ॥
1.255
यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि ।
अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥ २५५ ॥
1.256
स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः ।
गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥ २५६ ॥
1.257
बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः ।
बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥ २५७ ॥
1.258
स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् ।
धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥ २५८ ॥
1.259
स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा ।
निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥ २५९ ॥
1.260
तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् ।
उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥ २६० ॥
1.261
निर्णीततावद्धर्मांशपृष्ठपातितया पुनः ।
भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥ २६१ ॥
1.262
दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः ।
उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥ २६२ ॥
1.263
निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः ।
परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥ २६३ ॥
1.264
नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति ।
लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥ २६४ ॥
1.265
उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः ।
इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥ २६५ ॥
1.266
स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् ।
अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥ २६६ ॥
1.267
विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः ।
वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥
1.268
तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता ।
यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥ २६८ ॥
1.269
स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः ।
अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥ २६९ ॥
1.270
तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः ।
परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥ २७० ॥
1.271
प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः ।
परा परापरा देवी चरमा त्वपरात्मिका ॥ २७१ ॥
1.272
इच्छादि शक्तित्रितयमिदमेव निगद्यते ।
एतत्प्राणित एवायं व्यवहारः प्रतायते ॥ २७२ ॥
1.273
एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने ।
परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥ २७३ ॥
1.274
यथोक्तं रत्नमालायां सर्वः परकलात्मकः ।
महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥ २७४ ॥
1.275
भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते ।
संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥ २७५ ॥
1.276
अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् ।
शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥ २७६ ॥
1.277
इत्थं संविदियं देवी स्वभावादेव सर्वदा ।
उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥ २७७ ॥
1.278
तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् ।
विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥ २७८ ॥
1.279
शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः ।
चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥ २७९ ॥
1.280
कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती ।
दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥ २८० ॥
1.281
प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः ।
तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥ २८१ ॥
1.282
अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् ।
लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥ २८२ ॥
1.283
रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः ।
एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥ २८३ ॥
1.284
आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् ।
इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥ २८४ ॥
1.285
आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् ।
सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥ २८५ ॥
1.286
किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः ।
इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥ २८६ ॥
1.287
विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् ।
द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥ २८७ ॥
1.288
विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः ।
मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥ २८८ ॥
1.289
विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् ।
योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥ २८९ ॥
1.290
संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् ।
निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥ २९० ॥
1.291
बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता ।
उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥ २९१ ॥
1.292
करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते ।
चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥ २९२ ॥
1.293
संहारचित्रता वर्णोदयः कालाध्वकल्पने ।
चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥ २९३ ॥
1.294
परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् ।
एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥ २९४ ॥
1.295
कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् ।
वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥ २९५ ॥
1.296
प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते ।
कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥ २९६ ॥
1.297
वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् ।
कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥ २९७ ॥
1.298
अभेदभावनाकम्पहासौ त्वध्वोपयोजने ।
संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥ २९८ ॥
1.299
अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता ।
शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥ २९९ ॥
1.300
तिरोभावव्यपगमो ज्ञानेन परिपूर्णता ।
उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥ ३०० ॥
1.301
शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् ।
सामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् ॥ ३०१ ॥
1.302
द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् ।
प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥ ३०२ ॥
1.303
विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् ।
देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥ ३०३ ॥
1.304
अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः ।
क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥ ३०४ ॥
1.305
अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् ।
तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया ॥ ३०५ ॥
1.306
शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् ।
स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥ ३०६ ॥
1.307
समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके ।
मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥ ३०७ ॥
1.308
अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः ।
अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥ ३०८ ॥
1.309
दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् ।
भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥ ३०९ ॥
1.310
सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् ।
अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥ ३१० ॥
1.311
जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः ।
इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥ ३११ ॥
1.312
कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः ।
ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥ ३१२ ॥
1.313
अधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः ।
इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥ ३१३ ॥
1.314
मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः ।
बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥ ३१४ ॥
1.315
श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः ।
शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥ ३१५ ॥
1.316
परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः ।
तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥ ३१६ ॥
1.317
अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः ।
चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥ ३१७ ॥
1.318
प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः ।
पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥ ३१८ ॥
1.319
प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा ।
लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥ ३१९ ॥
1.320
पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने ।
नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥ ३२० ॥
1.321
पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् ।
गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥ ३२१ ॥
1.322
मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा ।
व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥ ३२२ ॥
1.323
नैमित्तिकप्रकाशाख्ये ऽप्यष्टाविंशाह्निके स्थितम् ।
अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥ ३२३ ॥
1.324
अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः ।
दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥ ३२४ ॥
1.325
मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् ।
शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् ॥ ३२५ ॥
1.326
विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके ।
गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥ ३२६ ॥
1.327
कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने ।
द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥ ३२७ ॥
1.328
न भेदोऽस्ति ततो नोक्तमुद्देशान्तरमत्र तत् ।
मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥ ३२८ ॥
1.329
इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे ।
अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥ ३२९ ॥
1.330
आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज
महसश्छादनाद्बद्धरूपः ।
आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित
इह यत्संग्रहेणार्थ एषः ॥ ३३० ॥
1.331
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम
।
यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं
तत्र मालिन्यशङ्का ॥ ३३१ ॥
1.332
भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं
प्रच्छाद्य संक्रीडसे ।
यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं
त्वत्साम्यसंभावनात् ॥ ३३२ ॥
1.333
इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते ।
गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥ ३३३ ॥
Ahnika 2 – Devanagari
2.1
यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं ।
तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥ १ ॥
2.2
अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै ।
सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥ २ ॥
2.3
अनुपायमिदं तत्त्वमित्युपायं विना कुतः ।
स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥ ३ ॥
2.4
यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ ।
स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥ ४ ॥
2.5
एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते ।
केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥ ५ ॥
2.6
तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः ।
उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ ६ ॥
2.7
तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् ।
निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥ ७ ॥
2.8
तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति ।
स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥ ८ ॥
2.9
ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते ।
प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥ ९ ॥
2.10
संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः ।
तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥ १० ॥
2.11
यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन ।
स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥ ११ ॥
2.12
त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् ।
पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ १२ ॥
2.13
तेनावधानप्राणस्य भावनादेः परे पथि ।
भैरवीये कथंकारं भवेत्साक्षादुपायता ॥ १३ ॥
2.14
येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते ।
नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥ १४ ॥
2.15
किं च यावदिदं बाह्यमान्तरोपायसंमतम् ।
तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥ १५ ॥
2.16
नीलं पीतं सुखमिति प्रकाशः केवलः शिवः ।
अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥ १६ ॥
2.17
उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥ १७ ॥
2.18
इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि ।
प्रकाशवपुरेवायं भासते परमेश्वरः ॥ १८ ॥
2.19
अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः ।
घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥ १९ ॥
2.20
प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् ।
प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥ २० ॥
2.21
अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते ।
न प्रकाशविशेषत्वमत एवोपपद्यते ॥ २१ ॥
2.22
अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते ।
दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥ २२ ॥
2.23
प्रकाशमात्रमुदितमप्रकाशनिषेधनात् ।
एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥ २३ ॥
2.24
नैष शक्तिर्महादेवी न परत्राश्रितो यतः ।
न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥ २४ ॥
2.25
नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् ।
न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥ २५ ॥
2.26
न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः ।
न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥ २६ ॥
2.27
स्थानासननिरोधार्घसंघानावाहनादिकम् ।
विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥ २७ ॥
2.28
न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् ।
दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ २८ ॥
2.29
अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः ।
स एव घटवल्लोके संस्तथा नैष भैरवः ॥ २९ ॥
2.30
असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता ।
विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥ ३० ॥
2.31
आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः ।
सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥ ३१ ॥
2.32
श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् ।
शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥ ३२ ॥
2.33
न भावो नाप्यभावो न द्वयं वाचामगोचरात् ।
अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ ३३ ॥
2.34
इति ये रूढसंवित्तिपरमार्थपवित्रिताः ।
अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः ॥ ३४ ॥
2.35
तेषामिदं समाभाति सर्वतो भावमण्डलम् ।
पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥ ३५ ॥
2.36
एतेषां सुखदुःखांशशंकातंकविकल्पनाः ।
निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥ ३६ ॥
2.37
एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना ।
न समय्यादिकाचार्यपर्यन्तः कोऽपि विश्रमः ॥ ३७ ॥
2.38
समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः ।
नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥ ३८ ॥
2.39
स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन
स्वप्रवृत्तिम् ।
यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम्
॥ ३९ ॥
2.40
तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः ।
तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥ ४० ॥
2.41
एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते ।
दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥ ४१ ॥
2.42
स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः ।
पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥ ४२ ॥
2.43
ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् ।
ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥ ४३ ॥
2.44
सोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् ।
अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥ ४४ ॥
2.45
अनुग्राह्यानुसारेण विचित्रः स च कथ्यते ।
परापराद्युपायौघसंकीर्णत्वविभेदतः ॥ ४५ ॥
2.46
तदर्थमेव चास्यापि परमेश्वररूपिणः ।
तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥ ४६ ॥
2.47
नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना ।
नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥ ४७ ॥
2.48
श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके ।
इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥ ४८ ॥
2.49
गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि
कथितात् ।
विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः
॥ ४९ ॥
2.50
इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥ ५० ॥
Ahnika 3 – Devanagari
3.0b
अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ॥ ० ॥ब्
3.1
प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः ।
तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ १ ॥
3.2
यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति ।
न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥ २ ॥
3.3
अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः ।
इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः ॥ ३ ॥
3.4
निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः ।
अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ ४ ॥
3.5
सदृशं भाति नयनदर्पणाम्बरवारिषु ।
तथा हि निर्मले रूपे रूपमेवावभासते ॥ ५ ॥
3.6
प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् ।
दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ ६ ॥
3.7
न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः ।
नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥ ७ ॥
3.8
स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या ।
अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ ८ ॥
3.9
नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः ।
अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ ९ ॥
3.10
भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् ।
तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ १० ॥
3.11
तदेवमुभयाकारमवभासं प्रकाशयन् ।
विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥ ११ ॥
3.12
यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् ।
विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ १२ ॥
3.13
देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः ।
तेनैव तेजसा ज्ञत्वे कोऽर्थः स्याद्दर्पणेन तु ॥ १३ ॥
3.14
विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः ।
रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ १४ ॥
3.15
स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् ।
न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ १५ ॥
3.16
रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः ।
न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ १६ ॥
3.17
न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः ।
स चार्थसंगमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥ १७ ॥
3.18
अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते ।
नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः ॥ १८ ॥
3.19
तस्मात्तु नैष भेदेन यद्भाति तत उच्यते ।
आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥ १९ ॥
3.20
दीपचक्षुर्विबोधानां काठिन्याभावतः परम् ।
सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ २० ॥
3.21
एतच्च देवदेवेन दर्शितं बोधवृद्धये ।
मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥ २१ ॥
3.22
प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न ।
स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥ २२ ॥
3.23
न देशों नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न
घनता ।
न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः
॥ २३ ॥
3.24
इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बनवर्त्मनि ।
शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते ॥ २४ ॥
3.25
न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् ।
तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥ २५ ॥
3.26
पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ ।
चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥ २६ ॥
3.27
इदमन्यस्य वेद्यस्य रूपमित्यवभासते ।
यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥ २७ ॥
3.28
नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः ।
तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥ २८ ॥
3.29
मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् ।
स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥ २९ ॥
3.30
सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥ ३० ॥
3.31
अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् ।
वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् ॥ ३१ ॥
3.32
यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् ।
तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् ॥ ३२ ॥
3.33
शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् ।
अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥ ३३ ॥
3.34
क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका ।
तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥ ३४ ॥
3.35
इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बसतत्त्वके ।
प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥ ३५ ॥
3.36
शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः ।
स्पर्शोऽन्योऽपि दृढाघातशूलशीतादिकोद्भवः ।
परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥ ३६ ॥
3.37
न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥ ३७ ॥
3.38
एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥ ३८ ॥
3.39
यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते ।
तथा रसस्पर्शनसौरभादिकं न लक्ष्यतेऽक्षेण विना स्थितं त्वपि ॥ ३९ ॥
3.40
न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः ॥ ४० ॥
3.41
अतोऽन्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता ।
तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥ ४१ ॥
3.42
न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः ।
अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥ ४२ ॥
3.43
असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा ।
करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ ॥ ४३ ॥
3.44
तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् ।
नाथस्य वदतेऽमुष्य विमलां विश्वरूपताम् ॥ ४४ ॥
3.45
यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः ।
तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् ॥ ४५ ॥
3.46
तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् ।
प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥ ४६ ॥
3.47
यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् ।
प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥ ४७ ॥
3.48
अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् ।
अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् ॥ ४८ ॥
3.49
प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते ।
तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥ ४९ ॥
3.50
यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते ।
तदपि प्रतिबिम्बत्वमेति बोधेऽन्यथा त्वसत् ॥ ५० ॥
3.51
इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् ।
साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥ ५१ ॥
3.52
ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् ।
किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥ ५२ ॥
3.53
नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते ।
अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥ ५३ ॥
3.54
स्वरूपानपहानेन पररूपसदृक्षताम् ।
प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥ ५४ ॥
3.55
उक्तं च सति बाह्येऽपि धीरेकानेकवेदनात् ।
अनेकसदृशाकारा न त्वनेकेति सौगतैः ॥ ५५ ॥
3.56
नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते ।
अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् ।
प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥ ५६ ॥
3.57
बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् ।
परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते ॥ ५७ ॥
3.58
लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् ।
प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ ॥ ५८ ॥
3.59
ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः ।
किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न ॥ ५९ ॥
3.60
अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे ।
न हानिर्हेतुमात्रे तु प्रश्नोऽयं पर्यवस्यति ॥ ६० ॥
3.61
तत्रापि च निमित्ताख्ये नोपादाने कथंचन ।
निमित्तकारणानां च कदाचित्क्वापि संभवः ॥ ६१ ॥
3.62
अत एव पुरोवर्तिन्यालोके स्मरणादिना ।
निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥ ६२ ॥
3.63
अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी ।
कस्माद्भाति न वै संविद् विच्छेदं पुरतो गता ॥ ६३ ॥
3.64
अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् ।
यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥ ६४ ॥
3.65
अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे ।
इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे ।
प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः ॥ ६५ ॥
3.66
अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः ।
तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥ ६६ ॥
3.67
अकुलस्यास्य देवस्य कुलप्रथनशालिनी ।
कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥ ६७ ॥
3.68
तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।
आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥ ६८ ॥
3.69
परापरात्परं तत्त्वं सैषा देवी निगद्यते ।
तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः ॥ ६९ ॥
3.70
देवीयामलशास्त्रे सा कथिता कालकर्षिणी ।
महाडामरके यागे श्रीपरा मस्तके तथा ॥ ७० ॥
3.71
श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता ।
संघट्टेऽस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् ॥ ७१ ॥
3.72
इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः ।
सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥ ७२ ॥
3.73
तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः ।
स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥ ७३ ॥
3.74
ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः ।
इयं परापरा देवी घोरां या मातृमण्डलीम् ॥ ७४ ॥
3.75
सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् ।
ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥ ७५ ॥
3.76
ऊनताभासनं संविन्मात्रत्वे जायते तदा ।
रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥ ७६ ॥
3.77
रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः ।
इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥ ७७ ॥
3.78
इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या ।
इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥ ७८ ॥
3.79
अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया ।
इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥ ७९ ॥
3.80
उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा ।
तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः ॥ ८० ॥
3.81
इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् ।
क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् ॥ ८१ ॥
3.82
प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता ।
क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥ ८२ ॥
3.83
क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः ।
अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥ ८३ ॥
3.84
क्षोभोऽतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः ।
यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥ ८४ ॥
3.85
क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः ।
संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥ ८५ ॥
3.86
यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे ।
तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः ।
यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥ ८६ ॥
3.87
एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् ।
हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥ ८७ ॥
3.88
जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः ।
कृतार्था जायते क्षोभाधारोऽत्रैतत्प्रकीर्तितम् ॥ ८८ ॥
3.89
ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति ।
विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति ॥ ८९ ॥
3.90
क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया ।
श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥ ९० ॥
3.91
प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् ।
नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥ ९१ ॥
3.92
आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् ।
इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥ ९२ ॥
3.93
उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् ।
योऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् ॥ ९३ ॥
3.94
ताविच्छोन्मेषसंघट्टाद्गच्छतोऽतिविचित्रताम् ।
अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥ ९४ ॥
3.95
त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् ।
अनुत्तरानन्दशक्ती तत्र रूढिमुपागते ॥ ९५ ॥
3.96
त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् ।
त एवोन्मेषयोगेऽपि पुनस्तन्मयतां गते ॥ ९६ ॥
3.97
क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् ।
इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥ ९७ ॥
3.98
ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते ।
नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥ ९८ ॥
3.99
कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ ।
शृणु तावदयं संविन्नाथोऽपरिमितात्मकः ॥ ९९ ॥
3.100
अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः ।
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥ १०० ॥
3.101
महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् ।
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ १०१ ॥
3.102
जडाद्विलक्षणो बोधो यतो न परिमीयते ।
तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः ॥ १०२ ॥
3.103
आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् ।
स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥ १०३ ॥
3.104
एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः ।
अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥ १०४ ॥
3.105
त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने ।
निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥ १०५ ॥
3.106
शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् ।
इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥ १०६ ॥
3.107
तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् ।
एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥ १०७ ॥
3.108
न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः ।
लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् ।
यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥ १०८ ॥
3.109
इत्थं परामृतपदादारभ्याष्टकमीदृशम् ।
ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् ॥ १०९ ॥
3.110
अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् ।
कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥ ११० ॥
3.111
उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि ।
अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥ १११ ॥
3.112
तत्त्वरक्षाविधाने च तदुक्तं परमेशिना ।
हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥ ११२ ॥
3.113
बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः ।
योऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥ ११३ ॥
3.114
अध+ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते ।
ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् ॥ ११४ ॥
3.115
स्वयं तन्निरपेक्षोऽसौ प्रकाशो गुरुराह च ।
यन्न सूर्यो न वा सोमो नाग्निर्भासयतेऽपि च ॥ ११५ ॥
3.116
न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः ।
किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥ ११६ ॥
3.117
स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः ।
प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥ ११७ ॥
3.118
दुर्दर्शनोऽपि घर्मांशुः पतितः पाथसां पथि ।
नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥ ११८ ॥
3.119
सूर्यादिषु प्रकाशोऽसावुपाधिकलुषीकृतः ।
संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥ ११९ ॥
3.120
प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् ।
प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥ १२० ॥
3.121
सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते ।
अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥ १२१ ॥
3.122
भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् ।
ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥ १२२ ॥
3.123
योऽयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् ।
संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥ १२३ ॥
3.124
स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः ।
सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥ १२४ ॥
3.125
तत एवाग्निरुदितश्चित्रभानुर्महेशिना ।
ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ॥ १२५ ॥
3.126
स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः ।
अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः ॥ १२६ ॥
3.127
न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते ।
तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥ १२७ ॥
3.128
मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता ।
उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥ १२८ ॥
3.129
उदितैव सती पूर्णा मातृमेयादिरूपिणी ।
पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥ १२९ ॥
3.130
मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते ।
इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥ १३० ॥
3.131
अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते ।
एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥ १३१ ॥
3.132
क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते ।
यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥ १३२ ॥
3.133
प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः ।
अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥ १३३ ॥
3.134
उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः ।
मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥ १३४ ॥
3.135
रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः ।
इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥ १३५ ॥
3.136
तथैव महलेशादः सोऽन्यो द्वेधास्वरोऽपि सन् ।
अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥ १३६ ॥
3.137
सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ।
उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥ १३७ ॥
3.138
कला सप्तदशी तस्मादमृताकाररूपिणी ।
परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥ १३८ ॥
3.139
प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा ।
शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥ १३९ ॥
3.140
विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च ।
शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥ १४० ॥
3.141
विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः ।
स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥ १४१ ॥
3.142
विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः ।
हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ॥ १४२ ॥
3.143
अनुत्तरं परं धाम तदेवाकुलमुच्यते ।
विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥ १४३ ॥
3.144
विसर्गता च सैवास्या यदानन्दोदयक्रमात् ।
स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥ १४४ ॥
3.145
विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः ।
इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥ १४५ ॥
3.146
अत एव विसर्गोऽयमव्यक्तहकलात्मकः ।
कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥ १४६ ॥
3.147
यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् ।
ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥ १४७ ॥
3.148
तत्र चित्तं समाधाय वशयेद्युगपज्जगत् ।
अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥ १४८ ॥
3.149
तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः ।
अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥ १४९ ॥
3.150
पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः ।
इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥ १५० ॥
3.151
चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः ।
या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥ १५१ ॥
3.152
द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् ।
उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥ १५२ ॥
3.153
ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् ।
ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥ १५३ ॥
3.154
इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः ।
सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥ १५४ ॥
3.155
सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता ।
विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥ १५५ ॥
3.156
तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा ।
वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥ १५६ ॥
3.157
इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः ।
वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥ १५७ ॥
3.158
इदं चतुष्कमन्तःस्थमत एव निगद्यते ।
इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः ॥ १५८ ॥
3.159
सजातीयकशक्तीनामिच्छाद्यानां च योजनम् ।
क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥ १५९ ॥
3.160
अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः ।
अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥ १६० ॥
3.161
प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः ।
अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥ १६१ ॥
3.162
न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता ।
इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥ १६२ ॥
3.163
शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता ।
अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥ १६३ ॥
3.164
इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः ।
तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥ १६४ ॥
3.165
बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् ।
तत एव सकारेऽस्मिन्स्फुटं विश्वं प्रकाशते ॥ १६५ ॥
3.166
अमृतं च परं धाम योगिनस्तत्प्रचक्षते ।
क्षोभाद्यन्तविरामेषु तदेव च परामृतम् ॥ १६६ ॥
3.167
सीत्कारसुखसद्भावसमावेशसमाधिषु ।
तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥ १६७ ॥
3.168
उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे ।
शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥ १६८ ॥
3.169
काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् ।
विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥ १६९ ॥
3.170
कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते ।
विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति ॥ १७० ॥
3.171
व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः ।
निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् ॥ १७१ ॥
3.172
क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः ।
इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥ १७२ ॥
3.173
एतत्त्रयसमावेशः शिवो भैरव उच्यते ।
अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः ॥ १७३ ॥
3.174
विषतत्त्वे संप्रविश्य न भूतं न विषं न च ।
ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥ १७४ ॥
3.175
नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता ।
कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥ १७५ ॥
3.176
तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता ।
सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥ १७६ ॥
3.177
यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः ।
भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥ १७७ ॥
3.178
ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः ।
षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥ १७८ ॥
3.179
एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् ।
ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥ १७९ ॥
3.180
कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः ।
योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥ १८० ॥
3.181
तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता ।
पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥ १८१ ॥
3.182
चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् ।
आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥ १८२ ॥
3.183
भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् ।
इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा ॥ १८३ ॥
3.184
व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल ।
स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥ १८४ ॥
3.185
षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः ।
सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥ १८५ ॥
3.186
अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः ।
चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥ १८६ ॥
3.187
भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः ।
घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥ १८७ ॥
3.188
अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते ।
अनुत्तरं परामृश्यपरामर्शकभावतः ॥ १८८ ॥
3.189
संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा ।
अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥ १८९ ॥
3.190
संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते ।
अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥ १९० ॥
3.191
इच्छादिकं भोग्यमेव तत एवास्य शक्तिता ।
भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः ॥ १९१ ॥
3.192
अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् ।
तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥ १९२ ॥
3.193
तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते ।
तेनाक्षिप्तं यतो विश्वमतोऽस्मिन्समुपासिते ॥ १९३ ॥
3.194
विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् ।
इत्येष महिमैतावानिति तावन्न शक्यते ॥ १९४ ॥
3.195
अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् ।
तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥ १९५ ॥
3.196
विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः ।
एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥ १९६ ॥
3.197
विमर्शात्मैक एवान्याः शक्तयोऽत्रैव निष्ठिताः ।
एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥ १९७ ॥
3.198
एकामर्शस्वभावत्वे शब्दराशिः स भैरवः ।
आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥ १९८ ॥
3.199
सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी ।
प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥ १९९ ॥
3.200
एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका ।
इत्थं नादानुवेधेन परामर्शस्वभावकः ॥ २०० ॥
3.201
शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः ।
विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः ॥ २०१ ॥
3.202
गर्भीकृतानन्तविश्वः श्रयतेऽनुत्तरात्मताम् ।
अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥ २०२ ॥
3.203
परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः ।
अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥ २०३ ॥
3.204
परामर्शो निर्भरत्वादहमित्युच्यते विभोः ।
अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥ २०४ ॥
3.205
प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते ।
तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥ २०५ ॥
3.206
तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः ।
तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥ २०६ ॥
3.207
संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा ।
तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥ २०७ ॥
3.208
एकमेव परं रूपं भैरवस्याहमात्मकम् ।
विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥ २०८ ॥
3.209
तत एवसमस्तोऽयमानन्दरसविभ्रमः ।
तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥ २०९ ॥
3.210
माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता ।
आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥ २१० ॥
3.211
पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले ।
चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् ॥ २११ ॥
3.212
दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि ।
चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥ २१२ ॥
3.213
तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि ।
रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥ २१३ ॥
3.214
प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् ।
चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥ २१४ ॥
3.215
तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते ।
हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥ २१५ ॥
3.216
विसर्गोऽन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः ।
द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः ॥ २१६ ॥
3.217
एकीभूतं विभात्यत्र जगदेतच्चराचरम् ।
ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥ २१७ ॥
3.218
तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः ।
ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥ २१८ ॥
3.219
तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः ।
एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥ २१९ ॥
3.220
निरूपितोऽयमर्थः श्रीसिद्धयोगीश्वरीमते ।
सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥ २२० ॥
3.221
तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः ।
आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥ २२१ ॥
3.222
ककारादिसकारान्ता विसर्गात्पञ्चधा स च ।
बहिश्चान्तश्च हृदये नादेऽथ परमे पदे ॥ २२२ ॥
3.223
बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः ।
आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥ २२३ ॥
3.224
गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् ।
पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥ २२४ ॥
3.225
श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः ।
तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥ २२५ ॥
3.226
विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता ।
ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥ २२६ ॥
3.227
यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् ।
अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥ २२७ ॥
3.228
तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् ।
भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् ॥ २२८ ॥
3.229
शब्दोऽपि मधुरो यस्माद्वीर्योपचयकारकः ।
तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥ २२९ ॥
3.230
तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता ।
तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते ॥ २३० ॥
3.231
यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः ।
वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥ २३१ ॥
3.232
शब्दराशिः स एवोक्तो मातृका साच कीर्तिता ।
क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥ २३२ ॥
3.233
बीजयोनिसमापत्तिविसर्गोदयसुन्दरा ।
मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥ २३३ ॥
3.234
एषा वस्तुत एकैव परा कालस्य कर्षिणी ।
शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥ २३४ ॥
3.235
तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः ।
स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥ २३५ ॥
3.236
विभागाभासने चास्य त्रिधा वपुरुदाहृतम् ।
पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥ २३६ ॥
3.237
तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः ।
तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥ २३७ ॥
3.238
सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः ।
अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥ २३८ ॥
3.239
स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी ।
तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥ २३९ ॥
3.240
साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते ।
येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥ २४० ॥
3.241
अविदन्तो मग्नसंविन्मानास्त्वहृदया इति ।
यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥ २४१ ॥
3.242
स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी ।
मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥ २४२ ॥
3.243
अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् ।
अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥ २४३ ॥
3.244
किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति ।
या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥ २४४ ॥
3.245
सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा ।
अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥ २४५ ॥
3.246
पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते ।
षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥ २४६ ॥
3.247
पृथगेवानुसन्धानत्रयं संवेद्यते किल ।
एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् ॥ २४७ ॥
3.248
तत्परं त्रितयं तत्र शिवः परचिदात्मकः ।
विभागाभासनायां च मुख्यास्तिस्रोऽत्र शक्तयः ॥ २४८ ॥
3.249
अनुत्तरा परेच्छा च परापरतया स्थिता ।
उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥ २४९ ॥
3.250
क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदोऽमलाः ।
आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥ २५० ॥
3.251
संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते ।
एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥ २५१ ॥
3.252
एतावता देवदेवः पूर्णशक्तिः स भैरवः ।
परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥ २५२ ॥
3.253
इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् ।
श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥ २५३ ॥
3.254
पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् ।
ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥ २५४ ॥
3.255
एकारतः समारभ्य सहस्रारं प्रवर्तते ।
तासां च कृत्यभेदेन नामानि बहुधागमे ॥ २५५ ॥
3.256
उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः ।
श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥ २५६ ॥
3.257
इह नो लिखितं व्यासभयाच्चानुपयोगतः ।
ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥ २५७ ॥
3.258
घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः ।
सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये ॥ २५८ ॥
3.259
तासामेव स्थितं रूपं बहुधा प्रविभज्यते ।
उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥ २५९ ॥
3.260
अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः ।
प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥ २६० ॥
3.261
अलं ग्रासरसाख्येन सततं ज्वलनात्मना ।
हठपाकप्रशमनं यत्तृतीयं तदेव च ।
उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥ २६१ ॥
3.262
निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः ।
विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥ २६२ ॥
3.263
हठपाकेन भावानां रूपे भिन्ने विलापिते ।
अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥ २६३ ॥
3.264
तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् ।
चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥ २६४ ॥
3.265
एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः ।
आसां बहुविधं रूपमभेदेऽप्यवभासते ॥ २६५ ॥
3.266
आसामेव च देवीनामावापोद्वापयोगतः ।
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः ॥ २६६ ॥
3.267
रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः ।
अलमन्येन बहुना प्रकृतेऽथ नियुज्यते ॥ २६७ ॥
3.268
संविदात्मनि विश्वोऽयं भाववर्गः प्रपञ्चवान् ।
प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥ २६८ ॥
3.269
एवमात्मनि यस्येदृगविकल्पः सदोदयः ।
परामर्शः स एवासौ शांभवोपायमुद्रितः ॥ २६९ ॥
3.270
पूर्णाहन्तापरामर्शो योऽस्यायं प्रविवेचितः ।
मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥ २७० ॥
3.271
भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः ।
अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥ २७१ ॥
3.272
इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते ।
यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥ २७२ ॥
3.273
प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो ।
तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥ २७३ ॥
3.274
निर्विकल्पे परामर्शे शाम्भवोपायनामनि ।
पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥ २७४ ॥
3.275
धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् ।
पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥ २७५ ॥
3.276
यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् ।
व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥ २७६ ॥
3.277
तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् ।
पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥ २७७ ॥
3.278
यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा ।
तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥ २७८ ॥
3.279
तद्वद्धरादिकैकैकसंघातसमुदायतः ।
परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥ २७९ ॥
3.280
मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् ।
मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः ॥ २८० ॥
3.281
सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् ।
यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥ २८१ ॥
3.282
एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् ।
विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥ २८२ ॥
3.283
स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् ।
स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥ २८३ ॥
3.284
षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् ।
स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥ २८४ ॥
3.285
सदोदितमहाबोधज्वालाजटिलतात्मनि ।
विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥ २८५ ॥
3.286
अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः ।
प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ २८६ ॥
3.287
जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र
न परः ।
तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं
पदभितः ॥ २८७ ॥
3.288
तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि ।
केऽप्येव यान्ति विश्वासं पस्मेशेन भाविताः ॥ २८८ ॥
3.289
स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना ।
अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥ २८९ ॥
3.290
इत्यादिकल्पना कापि नात्र भेदेन युज्यते ।
परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥ २९० ॥
3.291
यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति ।
अथासौ तादृशो न स्याद्भवभक्त्या च भावितः ॥ २९१ ॥
3.292
तं चाराधयते भावितादृशानुग्रहेरितः ।
तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः ॥ २९२ ॥
3.293
भाविन्योऽपि ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् ।
एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् ॥ २९३ ॥
3.294a
इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥ २९४ ॥अ
Ahnika 4 – Devanagari
4.1
अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥ १ ॥ब्
4.2
अनन्तराह्निकोक्तेऽस्मिन्स्वभावे पारमेश्वरे ।
प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥ २ ॥
4.3
विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् ।
स्वतुल्यं सोऽपि सोऽप्यन्यं सोऽप्यन्यं सदृशात्मकम् ॥ ३ ॥
4.4
चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ ।
अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥ ४ ॥
4.5
ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् ।
अस्फुटादौ विकल्पे च भेदोऽप्यस्त्यान्तरालिकः ॥ ५ ॥
4.6
ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता ।
संविदभ्येति विमलामविकल्पस्वरूपताम् ॥ ६ ॥
4.7
अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् ।
भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥ ७ ॥
4.8
ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः ।
परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥ ८ ॥
4.9
उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा ।
नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥ ९ ॥
4.10
किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ ।
स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ १० ॥
4.11
अनावृत्ते स्वरूपेऽपि यदात्माच्छादनं विभोः ।
सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥ ११ ॥
4.12
तथाभासनमेवास्य द्वैतमुक्तं महेशितुः ।
तद्द्वयापासनेनायं परामर्शोऽभिधीयते ॥ १२ ॥
4.13
दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः ।
धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥ १३ ॥
4.14
तामेनां भावनामाहुः सर्वकामदुघां बुधाः ।
स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि ॥ १४ ॥
4.15
श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् ।
हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥ १५ ॥
4.16
मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया ।
प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥ १६ ॥
4.17
मार्गोऽत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः ।
विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥ १७ ॥
4.18
रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते ।
यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥ १८ ॥
4.19
भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षेऽपि रागतः ।
स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥ १९ ॥
4.20
सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः ।
शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥ २० ॥
4.21
वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः ।
यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥ २१ ॥
4.22
पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते ।
दृष्टाः साम्राज्यसंभोगं निन्दन्तः केऽपि वालिशाः ॥ २२ ॥
4.23
न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् ।
एवंचिद्भैरवावेशनिन्दातत्परमानसाः ॥ २३ ॥
4.24
भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः ।
तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥ २४ ॥
4.25
आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् ।
श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥ २५ ॥
4.26
वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः ।
ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥ २६ ॥
4.27
बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः ।
मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥ २७ ॥
4.28
रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् ।
मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥ २८ ॥
4.29
मोक्षोऽपि वैष्णवादेर्यः स्वसंकल्पेन भावितः ।
परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥ २९ ॥
4.30
विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः ।
स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥ ३० ॥
4.31
तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः ।
तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥ ३१ ॥
4.32
मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् ।
एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥ ३२ ॥
4.33
तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः ।
असद्गुरौ रूढचित्स मायापाशेन रञ्जितः ॥ ३३ ॥
4.34
सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति ।
सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥ ३४ ॥
4.35
श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया ।
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ ३५ ॥
4.36
शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते ।
स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः ॥ ३६ ॥
4.37
गुरुशास्त्रगते सत्त्वेऽसत्त्वे चात्र विभेदकम् ।
शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥ ३७ ॥
4.38
उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः ।
सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया ॥ ३८ ॥
4.39
यस्तु रूढोऽपि तत्रोद्यत्परामर्शविशारदः ।
स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥ ३९ ॥
4.40
आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः ।
स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥ ४० ॥
4.41
स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः ।
किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥ ४१ ॥
4.42
तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः ।
यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् ॥ ४२ ॥
4.43
अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः ।
स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥ ४३ ॥
4.44
तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता ।
स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥ ४४ ॥
4.45
शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् ।
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ ४५ ॥
4.46
इति श्रीपूववाक्ये तद्+अकस्मादिति-शब्दतः ।
लोकाप्रसिद्धो यो हेतुः सोऽकस्मादिति कथ्यते ॥ ४६ ॥
4.47
स चैष परमेशानशुद्धविद्याविजृम्भतम् ।
अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः ॥ ४७ ॥
4.48
सर्वगोऽंशगतः सोऽपि मुख्यामुख्यांशनिष्ठितः ।
भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥ ४८ ॥
4.49
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ।
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ ४९ ॥
4.50
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।
दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥ ५० ॥
4.51
अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः ।
यस्तु तद्रूपभागात्मभावनातः परं विना ॥ ५१ ॥
4.52
शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः ।
तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥ ५२ ॥
4.53
भावनातोऽथ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः ।
प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥ ५३ ॥
4.54
श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले ।
श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥ ५४ ॥
4.55
तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते ।
कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥ ५५ ॥
4.56
ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा ।
एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥ ५६ ॥
4.57
संसारिणोऽनुगृह्णाति विश्वस्य जगतः पतिः ।
मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥ ५७ ॥
4.58
ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् ।
संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥ ५८ ॥
4.59
तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते ।
स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥ ५९ ॥
4.60
तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले ।
तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥ ६० ॥
4.61
साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते ।
आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥ ६१ ॥
4.62
सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति ।
अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥ ६२ ॥
4.63
उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः ।
तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥ ६३ ॥
4.64
विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते ।
पक्षेण साधकोऽर्धार्धात्पुत्रकः समयी तथा ॥ ६४ ॥
4.65
दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः ।
गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥ ६५ ॥
4.66
मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः ।
उक्तो यस्तेन तद्दोषाभावेऽसौ न निषिद्धता ॥ ६६ ॥
4.67
मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते ।
पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥ ६७ ॥
4.68
तामसाः परहिंसादि वश्यादि च चरन्त्यलम् ।
न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥ ६८ ॥
4.69
पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् ।
यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥ ६९ ॥
4.70
गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् ।
येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥ ७० ॥
4.71
तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः ।
अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥ ७१ ॥
4.72
सन्नप्यशेषपाशौघविनिवर्तनकोविदः ।
यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥ ७२ ॥
4.73
आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः ।
तस्य योऽकल्पितो भागः स तु श्रेष्ठमः स्मृतः ॥ ७३ ॥
4.74
उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः ।
यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥ ७४ ॥
4.75
तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः ।
तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ॥ ७५ ॥
4.76
किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् ।
यस्त्वकल्पितरूपोऽपि संवाददृढताकृते ॥ ७६ ॥
4.77
अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः ।
यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥ ७७ ॥
4.78
आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते ।
तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥ ७८ ॥
4.79
त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने ।
तत्संघातविपर्यासविग्रहैर्भासते तथा ॥ ७९ ॥
4.80
करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् ।
कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते ॥ ८० ॥
4.81
तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः ।
इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥ ८१ ॥
4.82
न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् ।
प्रमात्राश्वासपर्यन्तो यतोऽधिगम उच्यते ॥ ८२ ॥
4.83
आश्वासश्च विचित्रोऽसौ शक्तिपातवशात्तथा ।
प्रमितेऽपि प्रमाणानामवकाशोऽस्त्यतः स्फुटः ॥ ८३ ॥
4.84
दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा ।
प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥ ८४ ॥
4.85
इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः ।
न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥ ८५ ॥
4.86
एवं योगाङ्गमियति तर्क एव न चापरम् ।
अन्तरन्तः परामर्शपाटवातिशयाय सः ॥ ८६ ॥
4.87
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।
इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥ ८७ ॥
4.88
तपःप्रभृतयो ये च नियमा यत्तथासनम् ।
प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥ ८८ ॥
4.89
श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके ।
चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥ ८९ ॥
4.90
प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके ।
मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥ ९० ॥
4.91
प्राणायामो न कर्तव्यः शरीरं येन पीड्यते ।
रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः ॥ ९१ ॥
4.92
प्रत्याहारश्च नामायमर्थेभ्योऽक्षधियां हि यः ।
अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥ ९२ ॥
4.93
चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् ।
तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥ ९३ ॥
4.94
यदा तु ज्ञेयतादात्म्यमेव संविदि जायते ।
ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥ ९४ ॥
4.95
तदेषा धारणाध्यानसमाधित्रितयी पराम् ।
संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥ ९५ ॥
4.96
योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते ।
स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥ ९६ ॥
4.97
अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः ।
बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥ ९७ ॥
4.98
अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् ।
सर्वात्मकत्वात्तत्रस्थोऽप्यभ्यासोऽन्यव्यपोहनम् ॥ ९८ ॥
4.99
देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् ।
उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥ ९९ ॥
4.100
गुरुवाक्यपरामर्शसदृशे स्वविमर्शने ।
प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥ १०० ॥
4.101
नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा ।
धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥ १०१ ॥
4.102
अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि ।
तादात्म्यभावनायोगो न फलाय न भण्यते ॥ १०२ ॥
4.103
संकेतानादरे शब्दनिष्ठमामर्शनं पठिः ।
तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् ॥ १०३ ॥
4.104
तदद्वयायां संवित्तावभ्यासोऽनुपयोगवान् ।
केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥ १०४ ॥
4.105
द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् ।
तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥ १०५ ॥
4.106
उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् ।
लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना ॥ १०६ ॥
4.107
विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा ।
प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥ १०७ ॥
4.108
तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् ।
किं त्वेतदत्र देवेशि नियमेन विधीयते ॥ १०८ ॥
4.109
तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति ।
एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥ १०९ ॥
4.110
क्वचित्स्वभावममलमामृशन्ननिशं स्थितः ।
यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥ ११० ॥
4.111
विनैव तन्मुखोऽन्यो वा स्वातन्त्र्यात्तद्विकल्पनम् ।
तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥ १११ ॥
4.112
भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते ।
तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥ ११२ ॥
4.113
शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् ।
इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥ ११३ ॥
4.114
प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् ।
शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥ ११४ ॥
4.115
स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः ।
विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥ ११५ ॥
4.116
आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् ।
उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥ ११६ ॥
4.117
सितभस्मनि देहस्य मज्जनं स्नानमुच्यते ।
इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥ ११७ ॥
4.118
ततोऽपि देहारम्भीणि तत्त्वानि परिशोधयेत् ।
शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥ ११८ ॥
4.119
सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् ।
एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥ ११९ ॥
4.120
पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः ।
यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥ १२० ॥
4.121
योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् ।
पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥ १२१ ॥
4.122
स्वतन्त्रविमलानन्तभैरवीयचिदात्मना ।
तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥ १२२ ॥
4.123
स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी ।
स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥ १२३ ॥
4.124
सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः ।
कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥ १२४ ॥
4.125
सा च मातरि विज्ञाने माने करणगोचरे ।
मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥ १२५ ॥
4.126
शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी ।
करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥ १२६ ॥
4.127
ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि ।
षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥ १२७ ॥
4.128
प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते ।
द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ १२८ ॥
4.129
तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे ।
चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥ १२९ ॥
4.130
मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि ।
संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥ १३० ॥
4.131
यथा योनिश्च लिङ्गं च संयोगात्स्रवतोऽमृतम् ।
तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः ॥ १३१ ॥
4.132
तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् ।
तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥ १३२ ॥
4.133
सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् ।
ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥ १३३ ॥
4.134
तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः ।
सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥ १३४ ॥
4.135
षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः ।
एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥ १३५ ॥
4.136
सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः ।
तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥ १३६ ॥
4.137
सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते ।
पञ्चारे सविकारोऽथ भूत्वा सोमस्रुतामृतात् ॥ १३७ ॥
4.138
धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः ।
यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥ १३८ ॥
4.139
तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः ।
तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥ १३९ ॥
4.140
अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् ।
अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥ १४० ॥
4.141
तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः ।
अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् ॥ १४१ ॥
4.142
गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता ।
सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥ १४२ ॥
4.143
एवं श्रोत्रेऽपि विज्ञेयं यावत्पादान्तगोचरम् ।
पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥ १४३ ॥
4.144
इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् ।
ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥ १४४ ॥
4.145
अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् ।
एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥ १४५ ॥
4.146
न व्याख्यातं तु निर्भज्य यतोऽतिसरहस्यकम् ।
मेयेऽपि देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥ १४६ ॥
4.147
अत एषा स्थिता संविदन्तर्बाह्योभयात्मना ।
स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥ १४७ ॥
4.148
ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका ।
सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥ १४८ ॥
4.149
तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी ।
स्ववृत्तिचक्रेण समं ततोऽपि कलयन्त्यलम् ॥ १४९ ॥
4.150
स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् ।
संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥ १५० ॥
4.151
ततोऽपि संहाररसे पूर्णे विघ्नकरीं स्वयम् ।
शङ्कां यमात्मिकां भागे सूते संहरतेऽपि च ॥ १५१ ॥
4.152
संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले ।
संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥ १५२ ॥
4.153
विलापनात्मिकां तां च भावसंहृतिमात्मनि ।
आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥ १५३ ॥
4.154
संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः ।
निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते ॥ १५४ ॥
4.155
विलापितेऽपि भावौघे कंचिद्भावं तदैव सा ।
आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥ १५५ ॥
4.156
शुभाशुभतया सोऽयं सोष्यते फलसंपदम् ।
पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥ १५६ ॥
4.157
अन्यदाश्यानितमपि तदैव द्रावयेदियम् ।
प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥ १५७ ॥
4.158
रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः ।
तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥ १५८ ॥
4.159
इत्थं भोग्येऽपि संभुक्ते सति तत्करणान्यपि ।
संहरन्ती कलयते द्वादशैवाहमात्मनि ॥ १५९ ॥
4.160
कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः ।
प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥ १६० ॥
4.161
अहंकारस्तु करणमभिमानैकसाधनम् ।
अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥ १६१ ॥
4.162
यथाहि खङ्गपाशादेः करणस्य विभेदिनः ।
अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥ १६२ ॥
4.163
तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् ।
संविद्देवी स्वतन्त्रत्वात्कल्पितेऽहंकृतात्मनि ॥ १६३ ॥
4.164
स एव परमादित्यः पूर्णकल्पस्त्रयोदशः ।
करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥ १६४ ॥
4.165
कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः ।
कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥ १६५ ॥
4.166
कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता ।
कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥ १६६ ॥
4.167
संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः ।
अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥ १६७ ॥
4.168
सोऽपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि ।
विकासिनि महाकाले लीयतेऽहमिदंमये ॥ १६८ ॥
4.169
एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः ।
इति प्रविकसद्रूपा संवित्तिरवभासते ॥ १६९ ॥
4.170
ततोऽन्तःस्थितसर्वात्मभावभोगोपरागिणी ।
परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥ १७० ॥
4.171
प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः ।
मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥ १७१ ॥
4.172
इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः ।
स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥ १७२ ॥
4.173
इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः ।
क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् ॥ १७३ ॥
4.174
स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् ।
ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥ १७४ ॥
4.175
गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् ।
नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥ १७५ ॥
4.176
इति पञ्चविधामेनां कलनां कुर्वती परा ।
देवी काली तथा कालकर्षिणी चेति कथ्यते ॥ १७६ ॥
4.177
मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु ।
एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥ १७७ ॥
4.178
वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे ।
इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥ १७८ ॥
4.179
एकैवेति न कोऽप्यस्याः क्रमस्य नियमः क्वचित् ।
क्रमाभावान्न युगपत्तदभावात्क्रमोऽपि न ॥ १७९ ॥
4.180
क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् ।
तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥ १८० ॥
4.181
तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते ।
परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥ १८१ ॥
4.182
सदोदितः स एवोक्तः परमं हृदयं महत् ।
हृदये स्वविमर्शोऽसौ द्राविताशेषविश्वकः ॥ १८२ ॥
4.183
भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः ।
स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥ १८३ ॥
4.184
किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् ।
ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥ १८४ ॥
4.185
निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता ।
सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥ १८५ ॥
4.186
तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् ।
तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥ १८६ ॥
4.187
इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते ।
तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥ १८७ ॥
4.188
विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते ।
एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥ १८८ ॥
4.189
विसर्गं परबोधेन समाक्षिप्यैव वर्तते ।
तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥ १८९ ॥
4.190
अन्तर्नदत्परामर्शशेषीभूतं ततोऽप्यलम् ।
खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥ १९० ॥
4.191
वेदनात्मकतामेत्य संहारात्मनि लीयते ।
इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥ १९१ ॥
4.192
एतद्रूपपरामर्शमकृत्रिममनाबिलम् ।
अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥ १९२ ॥
4.193
एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् ।
विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥ १९३ ॥
4.194
अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् ।
प्राण्याद्वा मृशते वापि स सर्वोऽस्य जपो मतः ॥ १९४ ॥
4.195
यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा ।
निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥ १९५ ॥
4.196
निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति ।
फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ १९६ ॥
4.197
यथा ह्यभेदात्पूर्णेऽपि भावे जलमुपाहरन् ।
अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ १९७ ॥
4.198
तथैव परमेशाननियतिप्रविजृम्भणात् ।
काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् ॥ १९८ ॥
4.199
यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति ।
तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥ १९९ ॥
4.200
कुले योगिन उद्रिक्तभैरवीयपरासवात् ।
घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥ २०० ॥
4.201
अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः ।
जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥ २०१ ॥
4.202
बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः ।
उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥ २०२ ॥
4.203
यं कंचित्परमेशानशक्तिपातपवित्रितम् ।
पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥ २०३ ॥
4.204
जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि ।
उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥ २०४ ॥
4.205
यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु ।
चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥ २०५ ॥
4.206
तथा संविद्विचित्राभिः शान्तघोरतरादिभिः ।
भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥ २०६ ॥
4.207
यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् ।
भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥ २०७ ॥
4.208
तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि ।
आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥ २०८ ॥
4.209
तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि ।
पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् ॥ २०९ ॥
4.210
फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् ।
अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥ २१० ॥
4.211
एष यागविधिः कोऽपि कस्यापि हृदि वर्तते ।
यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ २११ ॥
4.212
अत्र यागे गतो रूढिं कैवल्यमधिगच्छति ।
लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥ २१२ ॥
4.213
अत्र नाथः समाचारं पटलेऽष्टादशेऽभ्यधात् ।
नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥ २१३ ॥
4.214
न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च ।
न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥ २१४ ॥
4.215
सपरिग्रहता वापि जटाभस्मादिसंग्रहः ।
तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥ २१५ ॥
4.216
क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् ।
परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥ २१६ ॥
4.217
नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते ।
विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥ २१७ ॥
4.218
किं त्वेतदत्र देवेशि नियमेन विधीयते ।
तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥ २१८ ॥
4.219
तच्च यस्य यथैव स्यात्स तथैव समाचरेत् ।
तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥ २१९ ॥
4.220
न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा ।
विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥ २२० ॥
4.221
विषं न मुह्यते तेन तद्वद्योगी महामतिः ।
अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥ २२१ ॥
4.222
प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः ।
अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥ २२२ ॥
4.223
अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि ।
पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥ २२३ ॥
4.224
अन्योन्याश्रयता सेयमशुद्धत्वेऽप्ययं क्रमः ।
अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥ २२४ ॥
4.225
वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः ।
बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥ २२५ ॥
4.226
मन्त्राः स्वभावतः शुद्धा यदि तेऽपि न किं तथा ।
शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥ २२६ ॥
4.227
शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् ।
ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥ २२७ ॥
4.228
योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता ।
ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥ २२८ ॥
4.229
इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता ।
का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥ २२९ ॥
4.230
वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् ।
सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥ २३० ॥
4.231
अपवादेन कर्तव्यः सामान्यविहिते विधौ ।
शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥ २३१ ॥
4.232
पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् ।
नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥ २३२ ॥
4.233
अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् ।
व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥ २३३ ॥
4.234
अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः ।
शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥ २३४ ॥
4.235
इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः ।
तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥ २३५ ॥
4.236
अर्थवादोऽपि यत्रान्यविध्यादिमुखमीक्षते ।
तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥ २३६ ॥
4.237
विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा ।
न निरर्थकं एवायं संनिधेर्गजडादिवत् ॥ २३७ ॥
4.238
स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते ।
तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥ २३८ ॥
4.239
युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता ।
या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥ २३९ ॥
4.240
मृतदेहेऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता ।
अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥ २४० ॥
4.241
संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् ।
श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥ २४१ ॥
4.242
सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् ।
यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥ २४२ ॥
4.243
तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् ।
अविकल्पेन भावेन मुनयोऽपि तथाभवन् ॥ २४३ ॥
4.244
लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् ।
बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥ २४४ ॥
4.245
प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् ।
यदि वा वस्तुधर्मोऽपि मात्रपेक्षानिबन्धनः ॥ २४५ ॥
4.246
सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः ।
अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥ २४६ ॥
4.247
क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् ।
भक्ष्यादिविधयोऽप्येनं न्यायमाश्रित्य चर्चिताः ॥ २४७ ॥
4.248
सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः ।
नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥ २४८ ॥
4.249
उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् ।
न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥ २४९ ॥
4.250
वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् ।
बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् ॥ २५० ॥
4.251
तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् ।
नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥ २५१ ॥
4.252
यतो यद्यपि देवेन वेदाद्यपि निरूपितम् ।
तथापि किल संकोचभावाभावविकल्पतः ॥ २५२ ॥
4.253
संकोचतारतम्येन पाशवं ज्ञानमीरितम् ।
विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥ २५३ ॥
4.254
इदं द्वैतमिदं नेति परस्परनिषेधतः ।
मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् ॥ २५४ ॥
4.255
उक्तं भर्गशिखायां च मृत्युकालकलादिकम् ।
द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥ २५५ ॥
4.256
सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे ।
कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥ २५६ ॥
4.257
इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने ।
नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥ २५७ ॥
4.258
जटादि कौले त्यागोऽस्य सुखोपायोपदेशतः ।
व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥ २५८ ॥
4.259
तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये ।
क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥ २५९ ॥
4.260
मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते ।
क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥ २६० ॥
4.261
वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् ।
समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥ २६१ ॥
4.262
भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये ।
समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥ २६२ ॥
4.263
निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति ।
परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥ २६३ ॥
4.264
ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् ।
आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥ २६४ ॥
4.265
नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा ।
गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः ॥ २६५ ॥
4.266
श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता ।
इत्थमर्धचतस्रोऽत्र मठिकाः शांकरे क्रमे ॥ २६६ ॥
4.267
युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः ।
आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥ २६७ ॥
4.268
मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् ।
तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥ २६८ ॥
4.269
भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि ।
एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥ २६९ ॥
4.270
अखण्डेऽपि परे तत्त्वे भेदेनानेन जायते ।
एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥ २७० ॥
4.271
नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे ।
न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् ॥ २७१ ॥
4.272
विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ ।
विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥ २७२ ॥
4.273
परतत्त्वप्रवेशे तु यमेव निकटं यदा ।
उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ॥ २७३ ॥
4.274
न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने ।
समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥ २७४ ॥
4.275
आगमनां गतीनां च सर्वं शिवमयं यतः ।
स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥ २७५ ॥
4.276
यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते ।
केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका ।
भैरवीयपरमाद्वयार्चने कोऽपि रज्यति महेशचोदितः ॥ २७६ ॥
4.277
अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः ।
हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥ २७७ ॥
4.278
अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते ।
योग्योऽभिनवगुप्तोऽस्मिन्कोऽपि यागविधौ बुधः ॥ २७८ ॥
4.279
इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥ २७९ ॥अ
Ahnika 5 – Devanagari
5.1
आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥ १ ॥ब्
5.2
विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि ।
अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥ २ ॥
5.3
विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः ।
उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥ ३ ॥
5.4
कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति ।
उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥ ४ ॥
5.5
विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः ।
तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥ ५ ॥
5.6
निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः ।
अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥ ६ ॥
5.7
तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि ।
अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते ॥ ७ ॥
5.8
यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् ।
तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥ ८ ॥
5.9
उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना ।
जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥ ९ ॥
5.10
स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा ।
तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥ १० ॥
5.11
पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् ।
तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥ ११ ॥
5.12
विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् ।
बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥ १२ ॥
5.13
सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः ।
विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥ १३ ॥
5.14
निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः ।
अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥ १४ ॥
5.15
प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम् ।
तथापि निर्विकल्पेऽस्मिन्विकल्पो नास्ति तं विना ॥ १५ ॥
5.16
दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः ।
बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥ १६ ॥
5.17
विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् ।
बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥ १७ ॥
5.18
उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः ।
आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥ १८ ॥
5.19
शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः ।
तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥ १९ ॥
5.20
यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः ।
सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥ २० ॥
5.21
कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् ।
ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥ २१ ॥
5.22
सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः ।
तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥ २२ ॥
5.23
हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् ।
तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥ २३ ॥
5.24
मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् ।
वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥ २४ ॥
5.25
परा परापरा चेयमपरा च सदोदिता ।
सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥ २५ ॥
5.26
चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् ।
एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥ २६ ॥
5.27
एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् ।
एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥ २७ ॥
5.28
व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे ।
तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥ २८ ॥
5.29
सोमसूर्याग्निभासात्म रूपं समवतिष्ठते ।
एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥ २९ ॥
5.30
चक्रेणानेन पतता तादात्म्यं परिभावयेत् ।
अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥ ३० ॥
5.31
चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् ।
इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥ ३१ ॥
5.32
भैरवीयमहाचक्रे संवित्तिपरिवारिते ।
ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥ ३२ ॥
5.33
स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् ।
ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥ ३३ ॥
5.34
प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् ।
अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥ ३४ ॥
5.35
तत्संविदि ततः संविद्विलीनार्थैव भासते ।
चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥ ३५ ॥
5.36
एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् ।
विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥ ३६ ॥
5.37
एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् ।
पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥ ३७ ॥
5.38
चतुष्षष्टिशतारं वा सहस्रारमथापि वा ।
असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥ ३८ ॥
5.39
संविन्नाथस्य महतो देवस्योल्लासिसंविदः ।
नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥ ३९ ॥
5.40
शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः ।
इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥ ४० ॥
5.41
इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् ।
श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥ ४१ ॥
5.42
अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् ।
अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥ ४२ ॥
5.43
अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता ।
तदुपायतया ब्रूमोऽनुत्तरप्रविकासनम् ॥ ४३ ॥
5.44
निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः ।
शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥ ४४ ॥
5.45
प्राणोदये प्रमेये तु परानन्दं विभावयेत् ।
तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥ ४५ ॥
5.46
परानन्दगतस्तिष्ठेदपानशशिशोभितः ।
ततोऽनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥ ४६ ॥
5.47
समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् ।
ततोऽपि मानमेयौघकलनाग्रासतत्परः ॥ ४७ ॥
5.48
उदानवह्नौ विश्रान्तो महानन्दं विभावयत् ।
तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥ ४८ ॥
5.49
निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता ।
तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ ४९ ॥
5.50
नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः ।
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ ५० ॥
5.51
यदनाहतसंवित्ति परमामृतबृंहितम् ।
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥ ५१ ॥
5.52
तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् ।
तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ ५२ ॥
5.53
या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः ।
इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि ॥ ५३ ॥
5.54
षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते ।
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ ५४ ॥
5.55
चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् ।
त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥ ५५ ॥
5.56
इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः ।
एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥ ५६ ॥
5.57
श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् ।
तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥ ५७ ॥
5.58
विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि ।
रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥ ५८ ॥
5.59
विकाससंकोचमयं प्रविश्य हृदि हृष्यति ।
तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥ ५९ ॥
5.60
श्रयेद्विकाससंकोचरूढभैरवयामलाम् ।
एकीकृतमहामूलशूलवैसर्गिके हृदि ॥ ६० ॥
5.61
परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः ।
अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥ ६१ ॥
5.62
प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् ।
अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥ ६२ ॥
5.63
चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् ।
तत उद्योगसक्तेन स द्वादशकलात्मना ॥ ६३ ॥
5.64
सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् ।
अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥ ६४ ॥
5.65
संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् ।
इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥ ६५ ॥
5.66
तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् ।
विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥ ६६ ॥
5.67
विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् ।
यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका ।
तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥ ६७ ॥
5.68
अंअ इति कुलेश्वर्या सहितो हि कुलेशिता ।
परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥ ६८ ॥
5.69
वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् ।
अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥ ६९ ॥
5.70
आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः ।
एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥ ७० ॥
5.71
शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे ।
व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥ ७१ ॥
5.72
सोमसूर्यकलाजालपरस्परनिघर्षतः ।
अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥ ७२ ॥
5.73
अलं रहस्यकथया गुप्तमेतत्स्वभावतः ।
योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥ ७३ ॥
5.74
हानादानतिरस्कारवृत्तौ रूढिमुपागतः ।
अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥ ७४ ॥
5.75
अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि ।
खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥ ७५ ॥
5.76
वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् ।
संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥ ७६ ॥
5.77
तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते ।
विलीनं तत् त्रिकोणेऽस्मिञ्शक्तिवह्नौ विलीयते ॥ ७७ ॥
5.78
तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः ।
संहारबीजविश्रान्तो योगी परमयो भवेत् ॥ ७८ ॥
5.79
अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः ।
संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥ ७९ ॥
5.80
असंकोचविकासोऽपि तदाभासनतस्तथा ।
अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥ ८० ॥
5.81
ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति ।
विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥ ८१ ॥
5.82
तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले ।
शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥ ८२ ॥
5.83
दिव्यो यश्चाक्षसंघोऽयं बोधस्वातन्त्र्यसंज्ञकः ।
सोऽनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् ॥ ८३ ॥
5.84
महासाहससंयोगविलीनाखिलवृत्तिकः ।
पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥ ८४ ॥
5.85
अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् ।
यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥ ८५ ॥
5.86
तदुक्तं परमेशेन त्रिशिरोभैरवागमे ।
शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥ ८६ ॥
5.87
मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् ।
विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥ ८७ ॥
5.88
अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् ।
महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥ ८८ ॥
5.89
अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् ।
निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥ ८९ ॥
5.90
चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला ।
तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥ ९० ॥
5.91
खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति ।
खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥ ९१ ॥
5.92
भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः ।
भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥ ९२ ॥
5.93
आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः ।
शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥ ९३ ॥
5.94
एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् ।
धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥ ९४ ॥
5.95
धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु ।
तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥ ९५ ॥
5.96
भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः ।
इति प्रवेशोपायोऽयमाणवः परिकीर्तितः ॥ ९६ ॥
5.97
श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः ।
श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥ ९७ ॥
5.98
स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च ।
सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः ॥ ९८ ॥
5.99
जितरावो महायोगी संक्रामेत्परदेहगः ।
परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥ ९९ ॥
5.100
तावद्यावदरावे सा रावाल्लीयेत राविणी ।
अत्र भावनया देहगतोपायैः परे पथि ॥ १०० ॥
5.101
विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते ।
ततोऽपि विद्युदापातसदृशे देहवर्जिते ॥ १०१ ॥
5.102
धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः ।
जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥ १०२ ॥
5.103
स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् ।
गलिते देहतादात्म्यनिश्चयेऽन्तर्भुखत्वतः ॥ १०३ ॥
5.104
निद्रायते पुरा यावन्न रूढः संविदात्मनि ।
ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥ १०४ ॥
5.105
संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता ।
आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥ १०५ ॥
5.106
आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः ।
आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥ १०६ ॥
5.107
आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते ।
आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥ १०७ ॥
5.108
इत्युक्तमत एव श्रीमालिनीविजयोत्तरे ।
प्रदर्शितेऽस्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥ १०८ ॥
5.109
योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् ।
यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥ १०९ ॥
5.110
किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् ।
तथैव चक्रे कुत्रापि प्रवेशात्कोऽपि संभवेत् ॥ ११० ॥
5.111
आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते ।
कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥ १११ ॥
5.112
एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते ।
एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥ ११२ ॥
5.113
यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् ।
अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥ ११३ ॥
5.114
इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः ।
देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥ ११४ ॥
5.115
अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च ।
व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥ ११५ ॥
5.116
नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् ।
यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥ ११६ ॥
5.117
विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् ।
व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च ।
अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥ ११७ ॥
5.118
आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः ।
व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥ ११८ ॥
5.119
तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये ।
अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥ ११९ ॥
5.120
एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः ।
अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥ १२० ॥
5.121
योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् ।
बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥ १२१ ॥
5.122
अत्र प्रयासविरहात्सर्वोऽसौ देवतागणः ।
आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ १२२ ॥
5.123
अत्र भैरवनाथस्य ससंकोचविकासिका ।
भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥ १२३ ॥
5.124
एतल्लिङ्गसमापत्तिविसर्गानन्दधारया ।
सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥ १२४ ॥
5.125
अनुत्तरेऽभ्युपायोऽत्र ताद्रूप्यादेव वर्णितः ।
ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥ १२५ ॥
5.126
अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् ।
अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ १२६ ॥
5.127
सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे
सत्यक्षवर्गेऽपि च ।
सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम्
॥ १२७ ॥
5.128
इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते ।
तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥ १२८ ॥
5.129
ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः ।
करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥ १२९ ॥
5.130
तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता ।
गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥ १३० ॥
5.131
तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते ।
उक्तो य एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः ॥ १३१ ॥
5.132
अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते ।
सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥ १३२ ॥
5.133
तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् ।
तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥ १३३ ॥
5.134
स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते ।
बाह्यार्थसमयापेक्षा घटाद्या ध्वनयोऽपि ये ॥ १३४ ॥
5.135
तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि ।
तदुक्तं परमेशेन भैरवो व्यापकोऽखिले ॥ १३५ ॥
5.136
इति भैरवशब्दस्य संततोच्चारणाच्छिवः ।
श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥ १३६ ॥
5.137
स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः ।
मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥ १३७ ॥
5.138
स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका ।
अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥ १३८ ॥
5.139
स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः ।
व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥ १३९ ॥
5.140
किं पुनः समयापेक्षां विना ये बीजपिण्डकाः ।
संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥ १४० ॥
5.141
वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः ।
प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥ १४१ ॥
5.142
सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः ।
संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः ॥ १४२ ॥
5.143
हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि ।
चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥ १४३ ॥
5.144
ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ ।
हृदयेन सहैकध्यं नयते जपतत्परः ॥ १४४ ॥
5.145
कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः ।
आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥ १४५ ॥
5.146
संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि ।
तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥ १४६ ॥
5.147
इत्येनया बुधो युक्त्या वर्णजप्यपरायणः ।
अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥ १४७ ॥
5.148
वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा ।
संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥ १४८ ॥
5.149
हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ ।
विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥ १४९ ॥
5.150
जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् ।
दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥ १५० ॥
5.151
स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः ।
शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥ १५१ ॥
5.152
उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् ।
यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥ १५२ ॥
5.153
तत् संविदाधिक्यवशादभौतिकमिव स्थितम् ।
अतस्तथाविधे रूपे रूढो रोहति संविदि ॥ १५३ ॥
5.154
अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः ।
नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥ १५४ ॥
5.155
गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता ।
उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥ १५५ ॥
5.156
अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः ।
अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥ १५६ ॥
5.157
ध्याने तदपि चोच्चारे करणे सोऽपि तद्ध्वनौ ।
स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥ १५७ ॥
5.158
लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु ।
वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् ।
मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥ १५८ ॥
5.159
इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥ १५९ ॥अ
Ahnika 6 – Devanagari
6.1
स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योऽभ्युपायः प्रविविच्यतेऽथ ॥ १ ॥ब्
6.2
स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा ।
प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥ २ ॥
6.3
मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् ।
लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥ ३ ॥
6.4
इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् ।
तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥ ४ ॥
6.5
अध्वा समस्त एवायं षड्विधोऽप्यतिविस्तृतः ।
यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥ ५ ॥
6.6
अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् ।
क्रमाक्रमौ हि चित्रैककलना भावगोचरे ॥ ६ ॥
6.7
क्रमाक्रमात्मा कालश्च परः संविदि वर्तते ।
काली नाम परा शक्तिः सैव देवस्य गीयते ॥ ७ ॥
6.8
सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ ।
स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता ॥ ८ ॥
6.9
संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् ।
तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः ॥ ९ ॥
6.10
तदेव शून्यरूपत्वं संविदः परिगीयते ।
नेति नेति विमर्शेन योगिनां सा परा दशा ॥ १० ॥
6.11
स एव खात्मा मेयेऽस्मिन्भेदिते स्वीक्रियोन्मुखः ।
पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥ ११ ॥
6.12
तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा ।
अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥ १२ ॥
6.13
इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा ।
स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता ॥ १३ ॥
6.14
सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् ।
देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥ १४ ॥
6.15
प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् ।
चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥ १५ ॥
6.16
तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् ।
मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः ॥ १६ ॥
6.17
तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् ।
तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् ॥ १७ ॥
6.18
तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् ।
बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥ १८ ॥
6.19
अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः ।
अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः ॥ १९ ॥
6.20
अतद्रूढान्यजनताकर्तव्यपरिलोपनात् ।
नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥ २० ॥
6.21
अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते ।
यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥ २१ ॥
6.22
द्विधा च सोऽध्वा क्रियया मूर्त्या च प्रविभज्यते ।
प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥ २२ ॥
6.23
बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका ।
यतोऽहोरात्रमध्येऽस्याश्चतुर्विंशतिधा गतिः ॥ २३ ॥
6.24
प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा ।
क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥ २४ ॥
6.25
जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् ।
ऊर्ध्ववक्त्रो रविश्चन्द्रोऽधोमुखो वह्निरन्तरे ॥ २५ ॥
6.26
माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः ।
अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥ २६ ॥
6.27
बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति ।
महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता ॥ २७ ॥
6.28
एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका ।
अतः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति ॥ २८ ॥
6.29
अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः ।
मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः ॥ २९ ॥
6.30
अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् ।
द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते ॥ ३० ॥
6.31
इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः ।
उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥ ३१ ॥
6.32
नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी ।
पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥ ३२ ॥
6.33
अतोऽध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् ।
क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥ ३३ ॥
6.34
तत्र क्रियाभासनं यत्सोऽध्वा कालाह्व उच्यते ।
वर्णमन्त्रपदाभिख्यमत्रास्तेऽध्वत्रयं स्फुटम् ॥ ३४ ॥
6.35
यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते ।
कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥ ३५ ॥
6.36
त्रिकद्वयेऽत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः ।
यतोऽस्ति तेन सर्वोऽयमध्वा षड्विध उच्यते ॥ ३६ ॥
6.37
षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः ।
एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥ ३७ ॥
6.38
तत्तवमध्यस्थितात्कालादन्योऽयं काल उच्यते ।
एष कालो हि देवस्य विश्वाभासनकारिणी ॥ ३८ ॥
6.39
क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः ।
एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते ॥ ३९ ॥
6.40
उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः ।
एतदीश्वररूपत्वं परमात्मनि यत्किल ॥ ४० ॥
6.41
तत्प्रमातरि मायीये कालतत्त्वं निगद्यते ।
शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥ ४१ ॥
6.42
तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् ।
अनाश्रितं यतो माया कलाविद्ये सदाशिवः ॥ ४२ ॥
6.43
ईश्वरः कालनियती सद्विद्या राग उच्यते ।
अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ॥ ४३ ॥
6.44
ईश्वरः प्राणमाता च विद्या देहप्रमातृता ।
अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥ ४४ ॥
6.45
विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता ।
तेन प्राणपथे विश्वाकलनेयं विराजते ॥ ४५ ॥
6.46
येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् ।
द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः ॥ ४६ ॥
6.47
ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः ।
यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः ॥ ४७ ॥
6.48
संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः ।
स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् ॥ ४८ ॥
6.49
संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः ।
प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः ॥ ४९ ॥
6.50
कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते ।
स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥ ५० ॥
6.51
तत्रापि तु प्रयत्नोऽसौ न संवेद्यतया स्थितः ।
वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥ ५१ ॥
6.52
प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका ।
सतदन्यतमावात्मप्राणौ यत्नविधायिनौ ॥ ५२ ॥
6.53
प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे ।
आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा ॥ ५३ ॥
6.54
प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् ।
त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् ॥ ५४ ॥
6.55
अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् ।
विपर्ययोऽपि प्राणात्मशक्तीनां मुख्यतां प्रति ॥ ५५ ॥
6.56
वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी ।
ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥ ५६ ॥
6.57
वामा संसारवमना ज्येष्ठा शिवमयी यतः ।
द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् ॥ ५७ ॥
6.58
सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् ।
उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥ ५८ ॥
6.59
उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः ।
न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः ॥ ५९ ॥
6.60
सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः ।
स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः ॥ ६० ॥
6.61
हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः ।
षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् ॥ ६१ ॥
6.62
क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि ।
वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः ॥ ६२ ॥
6.63
षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् ।
नालिकातिथिमासाब्दतत्सङ्घ्रोऽत्र स्फुटं स्थितः ॥ ६३ ॥
6.64
तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् ।
निःश्वसंश्चात्र चषकः सपञ्चांशेऽङ्गुलेऽङ्गुले ॥ ६४ ॥
6.65
श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते ।
नवाङ्गुलाम्बुधितुटौ प्रहरास्तेऽब्धयो दिनम् ॥ ६५ ॥
6.66
निर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले ।
केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥ ६६ ॥
6.67
प्रहरद्वयमन्येषां ग्रहाणामुदयोऽन्तरा ।
सिद्धिर्दवीयसी मोक्षोऽभिचारः पारलौकिकी ॥ ६७ ॥
6.68
ऐहिकी दूरनैकट्यातिशया प्रहराष्टके ।
मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा ॥ ६८ ॥
6.69
नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् ।
नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥ ६९ ॥
6.70
प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः ।
सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा ॥ ७० ॥
6.71
शक्तयः पारमेश्वर्यो वामशा वीरनायकाः ।
अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥ ७१ ॥
6.72
स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके ।
दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥ ७२ ॥
6.73
क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता ।
दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः ॥ ७३ ॥
6.74
ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले ।
सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे ॥ ७४ ॥
6.75
क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः ।
अहोरात्रः प्राणचारे कथितो मास उच्यते ॥ ७५ ॥
6.76
दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् ।
याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥ ७६ ॥
6.77
तयोस्तु विश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः ।
सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥ ७७ ॥
6.78
प्रकाशविश्रमवशात्तावेव हि दिनक्षपे ।
संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी ॥ ७८ ॥
6.79
तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे ।
यावत्येव हि संवित्तिरुदितोदितसुस्फुटा ॥ ७९ ॥
6.80
तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि ।
यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः ॥ ८० ॥
6.81
तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् ।
वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते ॥ ८१ ॥
6.82
सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा ।
वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः ॥ ८२ ॥
6.83
पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः ।
जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥ ८३ ॥
6.84
परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् ।
कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् ॥ ८४ ॥
6.85
वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता ।
वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु ॥ ८५ ॥
6.86
न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः ।
स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥ ८६ ॥
6.87
इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् ।
यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् ॥ ८७ ॥
6.88
तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् ।
श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः ॥ ८८ ॥
6.89
दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् ।
श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥ ८९ ॥
6.90
हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् ।
तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥ ९० ॥
6.91
अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् ।
अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥ ९१ ॥
6.92
हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः ।
व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी ॥ ९२ ॥
6.93
आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् ।
द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥ ९३ ॥
6.94
सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् ।
उक्तं श्रीकामिकायां च नोर्ध्वेऽधः प्रकृतिः परा ।
अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥ ९४ ॥
6.95
चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् ।
अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥ ९५ ॥
6.96
पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः ।
अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी ॥ ९६ ॥
6.97
एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् ।
आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु ॥ ९७ ॥
6.98
तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः ।
तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः ॥ ९८ ॥
6.99
तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् ।
परं प्रातिपदं चार्धमिति संधिः स कल्प्यते ॥ ९९ ॥
6.100
तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् ।
आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् ॥ १०० ॥
6.101
तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु ।
तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः ॥ १०१ ॥
6.102
अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ ।
राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः ॥ १०२ ॥
6.103
तत एव तमोरूपो विलापयितुमक्षमः ।
तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः ॥ १०३ ॥
6.104
अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ ।
अद्वयेन ततस्तेन पुण्य एष महाग्रहः ॥ १०४ ॥
6.105
अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः ।
यथार्के मेषगे राहावश्विनीस्थेऽश्विनीदिने ॥ १०५ ॥
6.106
आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले ।
प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ ॥ १०६ ॥
6.107
ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् ।
लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् ॥ १०७ ॥
6.108
ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् ।
मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे ॥ १०८ ॥
6.109
तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् ।
अयत्नजं यत्नजं तु रेचनादथ रोधनात् ॥ १०९ ॥
6.110
एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् ।
एकैकध्येन बोधांशु कलया परिपूरयेत् ॥ ११० ॥
6.111
क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः ।
तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः ॥ १११ ॥
6.112
अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता ।
इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः ॥ ११२ ॥
6.113
ऐहिकं ग्रहणे चात्र साधकानां महाफलम् ।
प्राग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते ॥ ११३ ॥
6.114
षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु ।
तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् ॥ ११४ ॥
6.115
संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले ।
मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥ ११५ ॥
6.116
प्रवेशे तु तुलास्थेऽर्के तदेव विषुवद्भवेत् ।
इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥ ११६ ॥
6.117
गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता ।
उद्भविष्यत्त्वमुद्भूतिप्रारम्भोऽप्युद्भवस्थितिः ॥ ११७ ॥
6.118
जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् ।
मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् ॥ ११८ ॥
6.119
आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने ।
चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् ॥ ११९ ॥
6.120
प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् ।
कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥ १२० ॥
6.121
निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः ।
वर्षेऽस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः ॥ १२१ ॥
6.122
तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् ।
प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥ १२२ ॥
6.123
पितामहान्तं रुद्राः स्युर्द्वादशाग्रेऽत्र भाविनः ।
प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयोऽधुना ॥ १२३ ॥
6.124
खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् ।
द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः ॥ १२४ ॥
6.125
चैत्रे मन्त्रोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः ।
हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि ॥ १२५ ॥
6.126
प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते ।
सपञ्चांशाङ्गुलेऽब्दः स्यात्प्राणे षष्ट्यब्दता पुनः ॥ १२६ ॥
6.127
शतानि षट् सहस्राणि चैकविंशतिरित्ययम् ।
विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते ॥ १२७ ॥
6.128
प्रहराहर्निशामासऋत्वब्दरविषष्टिगः ।
यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥ १२८ ॥
6.129
इति प्राणोदये योऽयं कालः शक्त्येकविग्रहः ।
विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥ १२९ ॥
6.130
षट् प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा ।
तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥ १३० ॥
6.131
अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोऽयनात् ।
पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥ १३१ ॥
6.132
षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् ।
तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते ॥ १३२ ॥
6.133
तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् ।
हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च ॥ १३३ ॥
6.134
प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः ।
उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु ॥ १३४ ॥
6.135
देवानां यदहोरात्रं मानुषाणां स हायनः ।
शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः ॥ १३५ ॥
6.136
श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते ।
पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः ॥ १३६ ॥
6.137
एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः ।
तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः ॥ १३७ ॥
6.138
पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा ।
दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥ १३८ ॥
6.139
एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः ।
चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥ १३९ ॥
6.140
ब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश ।
ब्रह्माहोऽन्ते कालवह्नेर्ज्वाला योजनलक्षिणी ॥ १४० ॥
6.141
दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् ।
निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥ १४१ ॥
6.142
विभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् ।
ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥ १४२ ॥
6.143
तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे ।
तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥ १४३ ॥
6.144
अग्निवेगेरिता लोके जने स्युर्लयकेवलाः ।
कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये ॥ १४४ ॥
6.145
निशाक्षये पुनः सृष्टिं कुरुते तामसादितः ।
स्वकवर्षशतान्तेऽस्य क्षयस्तद्वैष्णवं दिनम् ॥ १४५ ॥
6.146
रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः ।
क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः ॥ १४६ ॥
6.147
अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् ।
दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः ॥ १४७ ॥
6.148
ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः ।
अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥ १४८ ॥
6.149
तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः ।
सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥ १४९ ॥
6.150
अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते ।
निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥ १५० ॥
6.151
न भोक्ता ज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् ।
स एषोऽवान्तरलयस्तत्क्षये सृष्टिरुच्यते ॥ १५१ ॥
6.152
सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे ।
सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥ १५२ ॥
6.153
प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः ।
श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् ॥ १५३ ॥
6.154
तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी ।
यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् ॥ १५४ ॥
6.155
तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते ।
क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥ १५५ ॥
6.156
एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि ।
मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः ॥ १५६ ॥
6.157
मायाकालं परार्धानां गुणयित्वा शतेन तु ।
ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् ॥ १५७ ॥
6.158
तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति ।
प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥ १५८ ॥
6.159
प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते ।
अंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः ॥ १५९ ॥
6.160
गुणयित्वैश्वरं कालं परार्धानां शतेन तु ।
सादाशिवं दिनं रात्रिर्महाप्रलय एव च ॥ १६० ॥
6.161
सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः ।
आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥ १६१ ॥
6.162
नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् ।
शक्तितत्त्वे लयं याति निजकालपरिक्षये ॥ १६२ ॥
6.163
एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् ।
शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ॥ १६३ ॥
6.164
व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते ।
परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥ १६४ ॥
6.165
दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि च ।
सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे ॥ १६५ ॥
6.166
स कालः साम्यसंज्ञः स्यान्नित्योऽकल्यः कलात्मकः ।
यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥ १६६ ॥
6.167
अतः सामनसात्कालान्निमेषोन्मेषमात्रतः ।
तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् ॥ १६७ ॥
6.168
दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् ।
खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च ॥ १६८ ॥
6.169
इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा ।
एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् ॥ १६९ ॥
6.170
चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः ।
भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् ॥ १७० ॥
6.171
कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् ।
श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः ॥ १७१ ॥
6.172
तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता ।
श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥ १७२ ॥
6.173
तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः ।
अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥ १७३ ॥
6.174
लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् ।
इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तकेऽध्वनि ॥ १७४ ॥
6.175
मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् ।
मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः ॥ १७५ ॥
6.176
तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः ।
एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥ १७६ ॥
6.177
तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते ।
ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥ १७७ ॥
6.178
स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् ।
शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् ॥ १७८ ॥
6.179
छादितप्रथिताशेष शक्तिरेकः शिवस्तथा ।
एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥ १७९ ॥
6.180
सोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते ।
चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥ १८० ॥
6.181
अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् ।
तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः ॥ १८१ ॥
6.182
लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् ।
इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना ॥ १८२ ॥
6.183
कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः ।
स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे ॥ १८३ ॥
6.184
समाधौ विश्वसंहारसृष्टिक्रमविवेचने ।
मितोऽपि किल कालांशो विततत्वेन भासते ॥ १८४ ॥
6.185
प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसौ ।
एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥ १८५ ॥
6.186
तथापानेऽपि हृदयान्मूलपीठविसर्पिणि ।
मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥ १८६ ॥
6.187
ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती ।
शश्वद्यद्यप्यपानोऽय मित्थं वहति किंत्वसौ ॥ १८७ ॥
6.188
अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते ।
हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥ १८८ ॥
6.189
ब्रह्मादयोऽनाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः ।
एते च परमेशानशक्तित्वाद्विश्ववर्तिनः ॥ १८९ ॥
6.190
देहमप्यश्नुवानास्तत्कारणानीति कामिके ।
बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे ॥ १९० ॥
6.191
मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः ।
तस्यान्ते तु परा देवी यत्र युक्तो न जायते ॥ १९१ ॥
6.192
अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् ।
समस्तकारणोल्लासपदे सुविदिते यतः ॥ १९२ ॥
6.193
अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् ।
अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् ॥ १९३ ॥
6.194
क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः ।
अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् ॥ १९४ ॥
6.195
यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः ।
एवं समानेऽपि विधिः स हि हार्दीषु नाडिषु ॥ १९५ ॥
6.196
संचरन्सर्वतोदिक्कं दशधैव विभाव्यते ।
दश मुख्या महानाडीः पूरयन्नेष तद्गताः ॥ १९६ ॥
6.197
नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः ।
अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् ॥ १९७ ॥
6.198
चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते ।
स एव नाडीत्रितये वामदक्षिणमध्यगे ॥ १९८ ॥
6.199
इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् ।
सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् ॥ १९९ ॥
6.200
तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् ।
विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः ॥ २०० ॥
6.201
वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् ।
एवं क्षीणासु पादोनचतुर्दशसु नालिषु ॥ २०१ ॥
6.202
मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् ।
दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् ॥ २०२ ॥
6.203
नवासुशतमेकैकं ततो विषुवदुत्तरम् ।
पञ्चके पञ्चकेऽतीते संक्रान्तेर्विषुवद्बहिः ॥ २०३ ॥
6.204
यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा ।
एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥ २०४ ॥
6.205
आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगोऽप्यसौ ।
रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥ २०५ ॥
6.206
स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी ।
व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥ २०६ ॥
6.207
तदर्हति च यः कालो विषुवत्तदिहोदितः ।
विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे ॥ २०७ ॥
6.208
तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः ।
इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥ २०८ ॥
6.209
चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् ।
समानेऽपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥ २०९ ॥
6.210
कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः ।
संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल ॥ २१० ॥
6.211
अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः ।
उक्तः समानगः काल उदाने तु निरूप्यते ॥ २११ ॥
6.212
प्राणव्याप्तौ यदुक्तं तदुदानेऽप्यत्र केवलम् ।
नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥ २१२ ॥
6.213
तेनोदानेऽत्र हृदयान्मूर्धन्यद्वादशान्तगम् ।
तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥ २१३ ॥
6.214
व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते ।
सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥ २१४ ॥
6.215
सृष्टिः प्रविलयः स्थेमा संहारोऽनुग्रहो यतः ।
क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥ २१५ ॥
6.216
प्राणचारेऽत्र यो वर्णपदमन्त्रोदयः स्थितः ।
यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते ॥ २१६ ॥
6.217
एको नादात्मको वर्णः सर्ववर्णाविभागवान् ।
सोऽनस्तमितरूपत्वादनाहत इहोदितः ॥ २१७ ॥
6.218
स तु भैरवसद्भावो मातृसद्भाव एष सः ।
परा सैकाक्षरा देवी यत्र लीनं चराचरम् ॥ २१८ ॥
6.219
ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् ।
प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् ॥ २१९ ॥
6.220
इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् ।
ए+ओ इति प्रवेशे तु ऐ+औ इति द्वयं विदुः ॥ २२० ॥
6.221
षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः ।
गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ ॥ २२१ ॥
6.222
कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् ।
एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः ॥ २२२ ॥
6.223
हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः ।
बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥ २२३ ॥
6.224
उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते ।
प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥ २२४ ॥
6.225
तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् ।
कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥ २२५ ॥
6.226
मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ ।
एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ॥ २२६ ॥
6.227
यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् ।
एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥ २२७ ॥
6.228
श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः ।
तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः ॥ २२८ ॥
6.229
स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते ।
तत एव परामर्शो यावत्येकः समाप्यते ॥ २२९ ॥
6.230
तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् ।
एकाशीतिपदोदारविमर्शक्तमबृंहितः ॥ २३० ॥
6.231
स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः ।
अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् ॥ २३१ ॥
6.232
अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः ।
अङ्गुले नवभागेन विभक्ते नवमाशकाः ॥ २३२ ॥
6.233
वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् ।
एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥ २३३ ॥
6.234
दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततोऽपि हल् ।
क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥ २३४ ॥
6.235
विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति ।
अङ्गुलार्धेऽद्रिभागेन त्वर्धमात्रा पुरा पुनः ॥ २३५ ॥
6.236
क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः ।
सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः ॥ २३६ ॥
6.237
इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले ।
क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् ॥ २३७ ॥
6.238
हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः ।
अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः ॥ २३८ ॥
6.239
शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् ।
द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥ २३९ ॥
6.240
उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः ।
अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥ २४० ॥
6.241
एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः ।
रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न केऽपि तु ॥ २४१ ॥
6.242
एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः ।
प्राणत्रयोदशशती पञ्चाशदधिका च सा ॥ २४२ ॥
6.243
अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः ।
तदैक्ये तूदयश्चारशतानां सप्तविंशतिः ॥ २४३ ॥
6.244
नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] ।
सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते ॥ २४४ ॥
6.245
अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी ।
स्थूलो वर्गोदयः सोऽयमथार्णोदय उच्यते ॥ २४५ ॥
6.246
एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् ।
बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि ॥ २४६ ॥
6.247
शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् ।
यामलस्थितियोगे तु रुद्रशक्त्यविभागिता ॥ २४७ ॥
6.248
दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः ।
सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः ॥ २४८ ॥
6.249
इति पञ्चाशिका सेयं वर्णानां परिचर्चिता ।
एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे ॥ २४९ ॥
6.250
वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः ।
वर्णेऽधिकं तद्द्विगुणमविभागे दिवानिशोः ॥ २५० ॥
6.251
स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते ॥ २५१ ॥
6.252
इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥ २५२ ॥अ
Ahnika 7 – Devanagari
7.1
अथ परमरहस्योऽयं चक्राणां भण्यतेऽभ्युदयः ॥ १ ॥ब्
7.2
इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते ।
बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् ॥ २ ॥
7.3
विदधत्परसंवित्तावुपाय इति वर्णितम् ।
यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् ॥ ३ ॥
7.4
एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् ।
एकानुसंधानबलाज्जाते मन्त्रोदयेऽनिशम् ॥ ४ ॥
7.5
तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति ।
खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥ ५ ॥
7.6
त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः ।
चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥ ६ ॥
7.7
पञ्चार्णेऽब्धिसहस्राणि त्रिशती विंशतिस्तथा ।
षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् ॥ ७ ॥
7.8
सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् ।
शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥ ८ ॥
7.9
चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् ।
अधिषष्ट्येकविंशत्या शतानां दशवर्णके ॥ ९ ॥
7.10
एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके ।
अष्टादश शतानि स्युरुदयो द्वादशार्णके ॥ १० ॥
7.11
त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश ।
त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके ॥ ११ ॥
7.12
चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके ।
त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥ १२ ॥
7.13
शतद्वादशिका सप्तदशार्णे सैकसप्ततिः ।
अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः ॥ १३ ॥
7.14
चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् ।
सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः ॥ १४ ॥
7.15
द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः ।
द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् ॥ १५ ॥
7.16
उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् ।
चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥ १६ ॥
7.17
सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् ।
अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् ॥ १७ ॥
7.18
एकाशीतिपदे चक्रे उदयः प्राणचारगः ।
चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥ १८ ॥
7.19
अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् ।
क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा ॥ १९ ॥
7.20
ततोऽपि द्विगुणेऽष्टांशस्यार्धमध्यर्धमेककम् ।
ततोऽपि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने ॥ २० ॥
7.21
भागषोडशकस्थित्या सूक्ष्मश्चारोऽभिलक्ष्यते ।
एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः ॥ २१ ॥
7.22
क्रमेण प्राणचारस्य ग्रास एवोपजायते ।
प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः ॥ २२ ॥
7.23
संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् ।
तथा हि प्राणचारस्य नवस्यानुदये सति ॥ २३ ॥
7.24
न कालभेदजनितो ज्ञानभेदः प्रकल्पते ।
संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥ २४ ॥
7.25
कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः ।
सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः ॥ २५ ॥
7.26
अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते ।
ज्ञानं कियद्भवेत्तावत्तदभावो न भासते ॥ २६ ॥
7.27
तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि ।
अर्थे वात्मप्रदेशे वा न संयोगविभागिता ॥ २७ ॥
7.28
सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् ।
भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् ॥ २८ ॥
7.29
तदभावान्न विज्ञानाभावः सैवं तु सैव धीः ।
न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥ २९ ॥
7.30
वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् ।
अत एकैव संवित्तिर्नानारूपे तथातथा ॥ ३० ॥
7.31
विन्दाना निर्विकल्पापि विकल्पो भावगोचरे ।
स्पन्दान्तरं न यावत्तदुदितं तावदेव सः ॥ ३१ ॥
7.32
तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् ।
ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥ ३२ ॥
7.33
स ह्येको न भवेत्कश्चित् त्रिजगत्यापि जातुचित् ।
शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥ ३३ ॥
7.34
सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् ।
घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ ॥ ३४ ॥
7.35
न विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः ।
न च ज्ञानसमूहोऽस्ति तेषामयुगपत्स्थितेः ॥ ३५ ॥
7.36
तेनास्तङ्गत एवैष व्यवहारो विकल्पजः ।
तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् ॥ ३६ ॥
7.37
विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् ।
एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः ॥ ३७ ॥
7.38
विकल्पः शिवतादायी पूर्वमेव निरूपितः ।
यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् ॥ ३८ ॥
7.39
चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः ।
जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥ ३९ ॥
7.40
सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना ।
उक्तं च योगिनीकौले तदेतत्परमेशिना ॥ ४० ॥
7.41
पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् ।
पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥ ४१ ॥
7.42
द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् ।
इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ॥ ४२ ॥
7.43
पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये ।
नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥ ४३ ॥
7.44
अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये ।
ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥ ४४ ॥
7.45
मालामन्त्रेषु सर्वेषु मानसो जप उच्यते ।
उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् ॥ ४५ ॥
7.46
पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् ।
शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः ॥ ४६ ॥
7.47
तावती तेषु वै संख्या पदेषु पदसंज्ञिता ।
तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥ ४७ ॥
7.48
द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् ।
उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् ॥ ४८ ॥
7.49
षोडशाख्ये द्वादशिते द्वानवत्यधिके शते ।
चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् ॥ ४९ ॥
7.50
षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः ।
उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् ॥ ५० ॥
7.51
चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः ।
अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् ॥ ५१ ॥
7.52
उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः ।
एष चक्रोदयः प्रोक्तः साधकानां हितावहः ॥ ५२ ॥
7.53
निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः ।
व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् ॥ ५३ ॥
7.54
पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः ।
त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः ॥ ५४ ॥
7.55
आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः ।
मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि ॥ ५५ ॥
7.56
मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् ।
क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके ॥ ५६ ॥
7.57
द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा ।
तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥ ५७ ॥
7.58
पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् ।
बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥ ५८ ॥
7.59
शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः ।
अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः ॥ ५९ ॥
7.60
विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः ।
पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥ ६० ॥
7.61
विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् ।
यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥ ६१ ॥
7.62
प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा ।
एत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥ ६२ ॥
7.63
स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः ।
अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ ॥ ६३ ॥
7.64
शक्त्यन्तेऽध्वनि तत्स्पन्दासंख्याता वास्तवी ततः ।
उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥ ६४ ॥
7.65
विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् ।
प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः ॥ ६५ ॥
7.66
देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते ।
चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः ॥ ६६ ॥
7.67
सा नाडीरूपतामेत्य देहं संतानयेदिमम् ।
श्रीस्वच्छन्देऽत एवोक्तं यथा पर्णं स्वतन्तुभिः ॥ ६७ ॥
7.68
व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः ।
पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः ॥ ६८ ॥
7.69
कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः ।
द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः ॥ ६९ ॥
7.70
षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् ।
अत्र मध्यमसंचारिप्राणोदयलयान्तरे ॥ ७० ॥
7.71
विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् ।
इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयोऽनुभवशास्त्रदृशा मयोक्तः ॥ ७१ ॥
Ahnika 8 – Devanagari
8.1
देशाध्वनोऽप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥ १ ॥ब्
8.2
विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः ।
मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥ २ ॥
8.3
अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः ।
यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥ ३ ॥
8.4
संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च ।
नाडीचक्रानुचक्रेषु बर्हिर्देहेऽध्वसंस्थितिः ॥ ४ ॥
8.5
तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम् ।
अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥ ५ ॥
8.6
दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥ ६ ॥
8.7
ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् ।
तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् ॥ ७ ॥
8.8
तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका ।
उपास्यमाना संसारसागरप्रलयानलः ॥ ८ ॥
8.9
श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् ।
ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥ ९ ॥
8.10
रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे ।
अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥ १० ॥
8.11
एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत ।
न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ॥ ११ ॥
8.12
त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः ।
षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥ १२ ॥
8.13
अव्याहतविभागोऽस्मिभावो मूलं तु बोधगम् ।
समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः ॥ १३ ॥
8.14
बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् ।
तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥ १४ ॥
8.15
बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् ।
संविदेकात्मतानीतभूतभावपुरादिकः ॥ १५ ॥
8.16
अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः ।
श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥ १६ ॥
8.17
अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् ।
यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥ १७ ॥
8.18
पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी ।
तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥ १८ ॥
8.19
स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः ।
ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः ॥ १९ ॥
8.20
तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् ।
तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥ २० ॥
8.21
नेता कटाहरुद्राणामनन्तः कामसेविनाम् ।
पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः ॥ २१ ॥
8.22
स देवं भैरवं ध्यायन् नागैश्च परिवारितः ।
कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥ २२ ॥
8.23
लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते ।
स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥ २३ ॥
8.24
नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः ।
दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥ २४ ॥
8.25
तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः ।
श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः ॥ २५ ॥
8.26
अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् ।
एकादशैकादश च दशेत्यन्तः शराग्नि तत् ॥ २६ ॥
8.27
प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् ।
लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥ २७ ॥
8.28
कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता ।
शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते ॥ २८ ॥
8.29
तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् ।
ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥ २९ ॥
8.30
यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि ।
सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥ ३० ॥
8.31
पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः ।
प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥ ३१ ॥
8.32
सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने ।
व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥ ३२ ॥
8.33
दीक्षिता अपि ये लुप्तसमया नच कुर्वते ।
प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥ ३३ ॥
8.34
देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः ।
अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥ ३४ ॥
8.35
ते हाटकविभोरग्रे किङ्करा विविधात्मकाः ।
ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥ ३५ ॥
8.36
तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे ।
अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥ ३६ ॥
8.37
ते कालवह्निसंतापदीनाक्रन्दपरायणाः ।
गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥ ३७ ॥
8.38
पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् ।
अधमाधमदेहेषु निजकर्मानुरूपतः ॥ ३८ ॥
8.39
मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् ।
मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः ॥ ३९ ॥
8.40
इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना ।
प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥ ४० ॥
8.41
पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः ।
सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥ ४१ ॥
8.42
भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः ।
ततस्तमस्तप्तभूमिस्ततःशून्यं ततोऽहयः ॥ ४२ ॥
8.43
एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् ।
ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश ॥ ४३ ॥
8.44
मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः ।
सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥ ४४ ॥
8.45
मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः ।
भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका ॥ ४५ ॥
8.46
सर्वे देवा निलीना हि तत्र तत्पूजितं सदा ।
मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥ ४६ ॥
8.47
ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः ।
अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥ ४७ ॥
8.48
चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः ।
अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥ ४८ ॥
8.49
अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः ।
तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥ ४९ ॥
8.50
विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये ।
याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः ॥ ५० ॥
8.51
मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा ।
कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः ॥ ५१ ॥
8.52
रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् ।
वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥ ५२ ॥
8.53
उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् ।
वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥ ५३ ॥
8.54
वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा ।
महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः ॥ ५४ ॥
8.55
कुबेरः कर्मदेवाश्च तथा तत्साधका अपि ।
यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥ ५५ ॥
8.56
दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् ।
मैरवे चक्रवाटेऽस्मिन्नेवं मुख्याः पुरोऽष्टधा ॥ ५६ ॥
8.57
अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः ।
इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥ ५७ ॥
8.58
ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् ।
मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥ ५८ ॥
8.59
मन्दरो गन्धमादश्च विपुलोऽथ सुपार्श्वकः ।
सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥ ५९ ॥
8.60
एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः ।
चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥ ६० ॥
8.61
रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् ।
वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥ ६१ ॥
8.62
एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् ।
मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥ ६२ ॥
8.63
लक्षमात्रः स नवधा जातो मर्यादपर्वतैः ।
निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥ ६३ ॥
8.64
लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् ।
नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥ ६४ ॥
8.65
मेरोः षडेते मर्यादाचलाः पूर्वापरायताः ।
पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥ ६५ ॥
8.66
सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ ।
अष्टावेते ततोऽप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् ॥ ६६ ॥
8.67
जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः ।
एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते ॥ ६७ ॥
8.68
समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम् ।
सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥ ६८ ॥
8.69
मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे ।
केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥ ६९ ॥
8.70
मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः ।
सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥ ७० ॥
8.71
पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे ।
द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥ ७१ ॥
8.72
मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् ।
चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥ ७२ ॥
8.73
कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः ।
दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः ॥ ७३ ॥
8.74
यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् ।
तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥ ७४ ॥
8.75
तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे ।
सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥ ७५ ॥
8.76
मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे ।
हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ ७६ ॥
8.77
तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे ।
कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ ७७ ॥
8.78
तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे ।
भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥ ७८ ॥
8.79
इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् ।
हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥ ७९ ॥
8.80
अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम् ।
पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥ ८० ॥
8.81
संभवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि ।
दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥ ८१ ॥
8.82
स्थानान्तरेऽपि कर्मास्ति दृष्टं तच्च पुरातने ।
तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥ ८२ ॥
8.83
भारते नवखण्डं च सामुद्रेणाम्भसात्र च ।
स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥ ८३ ॥
8.84
इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् ।
सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥ ८४ ॥
8.85
कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः ।
उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते ॥ ८५ ॥
8.86
अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोऽगस्त्य ।
तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥ ८६ ॥
8.87
द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः ।
मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने ॥ ८७ ॥
8.88
भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः ।
शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥ ८८ ॥
8.89
महाकालादिका रुद्रकोटिरत्रैव भारते ।
गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥ ८९ ॥
8.90
अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम् ।
प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥ ९० ॥
8.91
नानावर्णाश्रमाचारसुखदुःखविचित्रता ।
कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥ ९१ ॥
8.92
पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः ।
परापरौ स्वर्निरयाविति रौरववार्तिके ॥ ९२ ॥
8.93
एवं मेरोरधो जम्बूरभितो यः स विस्तरात् ।
स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥ ९३ ॥
8.94
मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः ।
प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः ॥ ९४ ॥
8.95
तस्याभवन्नव सुतास्ततोऽयं नवखण्डकः ।
नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥ ९५ ॥
8.96
तस्याष्टौ तनयाः साकं कन्यया नवमोंऽशकः ।
भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥ ९६ ॥
8.97
लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरोऽद्रयः ।
ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥ ९७ ॥
8.98
वराहनन्दनाशोकाः पश्चात् सहबलाहकौ ।
दक्षिण चक्रमैनाकौ वाडवोऽन्तस्तयोः स्थितः ॥ ९८ ॥
8.99
अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः ।
विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोऽत्र फलाशिनः ॥ ९९ ॥
8.100
मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः ।
नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥ १०० ॥
8.101
निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये ।
इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने ॥ १०१ ॥
8.102
इत्थं य एष लवणसमुद्रः प्रतिपादितः ।
तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥ १०२ ॥
8.103
क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः ।
शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः ।
क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥ १०३ ॥
8.104
मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा ।
संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥ १०४ ॥
8.105
गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः ।
पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ ॥ १०५ ॥
8.106
त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् ।
स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥ १०६ ॥
8.107
सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् ।
उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥ १०७ ॥
8.108
लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् ।
केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥ १०८ ॥
8.109
पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ ।
भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥ १०९ ॥
8.110
उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥ ११० ॥
8.111
अर्धरात्रोऽमरावत्यां याम्यायामस्तमेव च ।
मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥ १११ ॥
8.112
उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये ।
केऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥ ११२ ॥
8.113
पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः ।
चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥ ११३ ॥
8.114
सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् ।
लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥ ११४ ॥
8.115
सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् ।
मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥ ११५ ॥
8.116
क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः ।
तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥ ११६ ॥
8.117
चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा ।
ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥ ११७ ॥
8.118
ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः ।
पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥ ११८ ॥
8.119
पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः ।
व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥ ११९ ॥
8.120
विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य ।
अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥ १२० ॥
8.121
भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे ।
दश वायुपथास्ते च प्रत्येकमयुतान्तराः ॥ १२१ ॥
8.122
आद्यो वायुपथस्तत्र विततः परिचर्च्यते ।
पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥ १२२ ॥
8.123
आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् ।
पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥ १२३ ॥
8.124
सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः ।
ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥ १२४ ॥
8.125
तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः ।
पञ्चाशदूर्ध्वमोघोऽत्र विषवारिप्रवर्षिणः ॥ १२५ ॥
8.126
मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते ।
ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥ १२६ ॥
8.127
तत्र स्थाने महादेवजन्मानस्ते विनायकाः ।
ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥ १२७ ॥
8.128
पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः ।
विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥ १२८ ॥
8.129
ये विद्यापौरुषे ये च श्मशानादिप्रसाधने ।
मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥ १२९ ॥
8.130
पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोऽशनिवर्षिणः ।
अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥ १३० ॥
8.131
भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः ।
गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥ १३१ ॥
8.132
वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः ।
ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥ १३२ ॥
8.133
रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते ।
क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः ॥ १३३ ॥
8.134
पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः ।
विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥ १३४ ॥
8.135
गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः ।
विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥ १३५ ॥
8.136
ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः ।
पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥ १३६ ॥
8.137
जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः ।
ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥ १३७ ॥
8.138
महावहे त्वीशकृताः प्रजाहितकराम्बुदाः ।
महापरिवहे मेघाः कपालोत्था महेशितुः ॥ १३८ ॥
8.139
महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः ।
अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥ १३९ ॥
8.140
द्वितीये तत्परे सिद्धचारणा निजकर्मजाः ।
तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥ १४० ॥
8.141
षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः ।
दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥ १४१ ॥
8.142
दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे ।
नवयोजनसाहस्रो विग्रहोऽर्कस्य मण्डलम् ॥ १४२ ॥
8.143
त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः ।
स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते ॥ १४३ ॥
8.144
सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा ।
चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥ १४४ ॥
8.145
प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः ।
सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥ १४५ ॥
8.146
ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः ।
मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥ १४६ ॥
8.147
अत्र बद्धानि सर्वाण्यप्यूह्यन्तेऽनिलमण्डले ।
स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥ १४७ ॥
8.148
इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः ।
स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥ १४८ ॥
8.149
एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च ।
द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥ १४९ ॥
8.150
मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः ।
निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥ १५० ॥
8.151
महान्तराले तत्रान्ये त्वधिकारभुजो जनाः ।
अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः ॥ १५१ ॥
8.152
तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः ।
जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः ॥ १५२ ॥
8.153
प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् ।
ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥ १५३ ॥
8.154
तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः ।
सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥ १५४ ॥
8.155
आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् ।
ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥ १५५ ॥
8.156
ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् ।
वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥ १५६ ॥
8.157
रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि ।
दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥ १५७ ॥
8.158
ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन ।
तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥ १५८ ॥
8.159
अधिकारक्षये साकं रुद्रकन्यागणेन ते ।
पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥ १५९ ॥
8.160
ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च ।
शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च ॥ १६० ॥
8.161
शर्वरुद्रौ भीमभवावुग्रो देवो महानथ ।
ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः ॥ १६१ ॥
8.162
स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः ।
सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥ १६२ ॥
8.163
ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः ।
स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥ १६३ ॥
8.164
परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः ।
लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥ १६४ ॥
8.165
कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः ।
अत ऊर्ध्वं कटाहोऽण्डे स घनः कोटियोजनम् ॥ १६५ ॥
8.166
पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा ।
एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः ॥ १६६ ॥
8.167
शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम् ।
प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥ १६७ ॥
8.168
ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः ।
अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥ १६८ ॥
8.169
व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः ।
आवापवाननिर्भक्तो वस्तुपिण्डोऽण्ड उच्यते ॥ १६९ ॥
8.170
तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् ।
रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः ॥ १७० ॥
8.171
वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् ।
अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥ १७१ ॥
8.172
तथापि शिवमग्नानां शक्तीनामण्डता भवेत् ।
तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः ॥ १७२ ॥
8.173
तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् ।
तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥ १७३ ॥
8.174
तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः ।
अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥ १७४ ॥
8.175
विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् ।
तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् ॥ १७५ ॥
8.176
गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते ।
उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥ १७६ ॥
8.177
रूपमुक्तं यतस्तेन तत्समूहोऽण्ड उच्यते ।
भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥ १७७ ॥
8.178
तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् ।
तावन्मात्रास्ववस्थासु मायाधीनेऽध्वमण्डले ॥ १७८ ॥
8.179
मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् ।
इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥ १७९ ॥
8.180
तेषां स्वे पतयो रुद्रा एकादश महार्चिषः ।
अनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः ॥ १८० ॥
8.181
शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः ।
मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥ १८१ ॥
8.182
तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः ।
शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् ॥ १८२ ॥
8.183
श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च ।
ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥ १८३ ॥
8.184
सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् ।
अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥ १८४ ॥
8.185
तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः ।
क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥ १८५ ॥
8.186
धरातोऽत्र जलादि स्यादुत्तरोत्तरतः क्रमात् ।
दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥ १८६ ॥
8.187
सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा ।
नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥ १८७ ॥
8.188
कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा ।
ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥ १८८ ॥
8.189
सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया ।
व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥ १८९ ॥
8.190
अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः ।
जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् ॥ १९० ॥
8.191
ऋते ततः शिवज्ञानं परमं मोक्षकारणम् ।
तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥ १९१ ॥
8.192
नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि ।
शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् ॥ १९२ ॥
8.193
प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः ।
शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥ १९३ ॥
8.194
न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् ।
तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥ १९४ ॥
8.195
निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी ।
विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥ १९५ ॥
8.196
तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः ।
ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥ १९६ ॥
8.197
विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् ।
जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥ १९७ ॥
8.198
ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् ।
वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥ १९८ ॥
8.199
रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् ।
आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥ १९९ ॥
8.200
त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् ।
ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥ २०० ॥
8.201
मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः ।
अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥ २०१ ॥
8.202
ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ ।
प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् ॥ २०२ ॥
8.203
सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् ।
रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः ॥ २०३ ॥
8.204
पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती ।
लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥ २०४ ॥
8.205
ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः ।
ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥ २०५ ॥
8.206
भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् ।
प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥ २०६ ॥
8.207
ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् ।
तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥ २०७ ॥
8.208
भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् ।
खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥ २०८ ॥
8.209
वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् ।
अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥ २०९ ॥
8.210
ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः ।
धराब्धितेजोऽनिलखपुरगा दीक्षिताश्च वा ॥ २१० ॥
8.211
तावत्संस्कारयोगार्थं न परं पदमीहितुम् ।
तथाविधावतारेषु मृताश्चायतनेषु ये ॥ २११ ॥
8.212
तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् ।
पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥ २१२ ॥
8.213
श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः ।
सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे ॥ २१३ ॥
8.214
ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः ।
रुद्रजातय एवैते इत्याह भगवाञ्छिवः ॥ २१४ ॥
8.215
आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये ।
तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने ॥ २१५ ॥
8.216
पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् ।
आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥ २१६ ॥
8.217
एवं रसादिमात्राणां मण्डलानि स्ववर्णत ।
शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥ २१७ ॥
8.218
तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः ।
ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥ २१८ ॥
8.219
उग्रश्चेत्येषु पतयस्तेभ्योऽर्केन्दू सयाजकौ ।
इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥ २१९ ॥
8.220
अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः ।
कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥ २२० ॥
8.221
ततो वागादिकर्माक्षयुक्तं करणमण्डलम् ।
अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥ २२१ ॥
8.222
प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् ।
दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥ २२२ ॥
8.223
प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् ।
मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः ॥ २२३ ॥
8.224
बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः ।
मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥ २२४ ॥
8.225
ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः ।
स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥ २२५ ॥
8.226
बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् ।
पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥ २२६ ॥
8.227
एतानि देवयोनीनां स्थानान्येव पुराण्यतः ।
अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥ २२७ ॥
8.228
परमेशनियोगाच्च चोद्यमानाश्च मायया ।
नियामिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः ॥ २२८ ॥
8.229
व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा ।
स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् ॥ २२९ ॥
8.230
उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः ।
अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥ २३० ॥
8.231
तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः ।
चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥ २३१ ॥
8.232
साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि ।
एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥ २३२ ॥
8.233
तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा ।
तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु ॥ २३३ ॥
8.234
लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि ।
गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥ २३४ ॥
8.235
अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते ।
ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥ २३५ ॥
8.236
क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः ।
तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् ॥ २३६ ॥
8.237
अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् ।
स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥ २३७ ॥
8.238
योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च ।
ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते ॥ २३८ ॥
8.239
तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते ।
तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥ २३९ ॥
8.240
प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी ।
उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥ २४० ॥
8.241
श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते ।
ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥ २४१ ॥
8.242
पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् ।
अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥ २४२ ॥
8.243
अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः ।
स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥ २४३ ॥
8.244
स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः ।
उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥ २४४ ॥
8.245
शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः ।
ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥ २४५ ॥
8.246
श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् ।
ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥ २४६ ॥
8.247
तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः ।
गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥ २४७ ॥
8.248
तारतम्याच्च योगस्य भेदात्फलविचित्रता ।
ततो भोगफलावाप्तिभेदाद्भेदोऽयमुच्यते ॥ २४८ ॥
8.249
मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः ।
वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥ २४९ ॥
8.250
तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः ।
यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥ २५० ॥
8.251
ततोऽप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् ।
बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥ २५१ ॥
8.252
महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम् ।
तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा ॥ २५२ ॥
8.253
मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः ।
उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् ॥ २५३ ॥
8.254
तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् ।
न वैषम्यमनापन्नं कारणं कार्यसूतये ॥ २५४ ॥
8.255
गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् ।
नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥ २५५ ॥
8.256
कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः ।
सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥ २५६ ॥
8.257
अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् ।
अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥ २५७ ॥
8.258
अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः ।
ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥ २५८ ॥
8.259
तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः ।
नैतत्कारणतारूपपरामर्शावरोधि यत् ॥ २५९ ॥
8.260
क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् ।
क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥ २६० ॥
8.261
तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः ।
स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥ २६१ ॥
8.262
त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः ।
बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥ २६२ ॥
8.263
रुद्राणां भुवनानां च मुख्यतोऽन्ये तदन्तरे ।
योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥ २६३ ॥
8.264
योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः ।
अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥ २६४ ॥
8.265
करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च ।
अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम् ॥ २६५ ॥
8.266
धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि ।
यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः ॥ २६६ ॥
8.267
तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य ।
सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥ २६७ ॥
8.268
येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु ।
ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥ २६८ ॥
8.269
उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य ।
दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः ॥ २६९ ॥
8.270
यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी ।
अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेऽनुकल्पेन ॥ २७० ॥
8.271
पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः ।
गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥ २७१ ॥
8.272
गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः ।
क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥ २७२ ॥
8.273
पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते ।
गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥ २७३ ॥
8.274
गुणकारणमित्येते मायाप्रभवस्य पर्यायाः ।
यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥ २७४ ॥
8.275
ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः ।
मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥ २७५ ॥
8.276
अकृताधिष्ठानतया कृत्याशक्तानि मूढानि ।
प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि ॥ २७६ ॥
8.277
भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि ।
इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥ २७७ ॥
8.278
पुंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ च तत्पुरः ।
तावत्य एवाणिमादिभुवनाष्टकमेव च ॥ २७८ ॥
8.279
अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा ।
हेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः ॥ २७९ ॥
8.280
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ॥ २८० ॥
8.281
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ २८१ ॥
8.282
अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः ।
तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् ॥ २८२ ॥
8.283
नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् ।
पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता ॥ २८३ ॥
8.284
न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् ।
अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥ २८४ ॥
8.285
शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः ।
तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥ २८५ ॥
8.286
तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति ।
नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते ॥ २८६ ॥
8.287
कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि ।
साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥ २८७ ॥
8.288
भुवनं देहधर्माणां दशानां विग्रहाष्टकात् ।
अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥ २८८ ॥
8.289
शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः ।
पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥ २८९ ॥
8.290
आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः ।
तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा ॥ २९० ॥
8.291
पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः ।
त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥ २९१ ॥
8.292
यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् ।
पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥ २९२ ॥
8.293
तदेवं पुंस्त्वमापन्ने पूर्णेऽपि परमेश्वरे ।
तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥ २९३ ॥
8.294
उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः ।
ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥ २९४ ॥
8.295
पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश ।
हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥ २९५ ॥
8.296
कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः ।
रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥ २९६ ॥
8.297
पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् ।
मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥ २९७ ॥
8.298
कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् ।
ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः ॥ २९८ ॥
8.299
आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः ।
अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि ॥ २९९ ॥
8.300
चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते ।
वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥ ३०० ॥
8.301
ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः ।
कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥ ३०१ ॥
8.302
सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः ।
क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते ॥ ३०२ ॥
8.303
उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य ।
स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥ ३०३ ॥
8.304
धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च ।
मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥ ३०४ ॥
8.305
तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः ।
सर्वेऽनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः ॥ ३०५ ॥
8.306
सोऽव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः ।
शुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो यस्मात् ॥ ३०६ ॥
8.307
शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम् ।
तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः ॥ ३०७ ॥
8.308
मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः ।
उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥ ३०८ ॥
8.309
योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा ।
कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥ ३०९ ॥
8.310
प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते ।
तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु ॥ ३१० ॥
8.311
अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि ।
योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥ ३११ ॥
8.312
मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः ।
निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥ ३१२ ॥
8.313
स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः ।
प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥ ३१३ ॥
8.314
अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः ।
न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥ ३१४ ॥
8.315
तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् ।
स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥ ३१५ ॥
8.316
अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः ।
ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥ ३१६ ॥
8.317
मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे ।
एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥ ३१७ ॥
8.318
गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे ।
मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः ॥ ३१८ ॥
8.319
इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या ।
परिवर्त्तते स्थितिः किल देवोऽनन्तस्तु सर्वथा मध्ये ॥ ३१९ ॥
8.320
ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या ।
मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥ ३२० ॥
8.321
श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा ।
ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥ ३२१ ॥
8.322
मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् ।
तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥ ३२२ ॥
8.323
मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून् ।
युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥ ३२३ ॥
8.324
तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् ।
निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् ॥ ३२४ ॥
8.325
उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् ।
असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥ ३२५ ॥
8.326
पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः ।
कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥ ३२६ ॥
8.327
दीक्षाकालेऽधराध्वस्थशुद्धौ यच्चाधराध्वगम् ।
अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥ ३२७ ॥
8.328
साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च ।
पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् ॥ ३२८ ॥
8.329
आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् ।
अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥ ३२९ ॥
8.330
मायामयशरीरास्ते भोगं स्वं परिभुञ्जते ।
प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥ ३३० ॥
8.331
अन्यानन्तप्रसादेन विबुधा अपि तं परम् ।
सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥ ३३१ ॥
8.332
स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः ।
अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥ ३३२ ॥
8.333
देवदेवस्य सा शक्तिरतिदुर्घटकारिता ।
निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥ ३३३ ॥
8.334
इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ।
गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः ॥ ३३४ ॥
8.335
सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् ।
असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥ ३३५ ॥
8.336
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।
शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥ ३३६ ॥
8.337
न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति ।
महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥ ३३७ ॥
8.338
वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् ।
वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥ ३३८ ॥
8.339
मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः ।
सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः ॥ ३३९ ॥
8.340
एकैकार्बुदलक्षांशाः पद्माकारपुरा इह ।
विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥ ३४० ॥
8.341
विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् ।
शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् ॥ ३४१ ॥
8.342
शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ ।
शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् ॥ ३४२ ॥
8.343
क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः ।
अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥ ३४३ ॥
8.344
मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम् ।
तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥ ३४४ ॥
8.345
उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् ।
भगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः ॥ ३४५ ॥
8.346
गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते ।
उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥ ३४६ ॥
8.347
ते तेनोदस्तचितः परतत्त्वालोचनेऽभिनिविशन्ते ।
स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥ ३४७ ॥
8.348
अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः ।
निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥ ३४८ ॥
8.349
अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने ।
इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥ ३४९ ॥
8.350
तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते ।
तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥ ३५० ॥
8.351
आलोकयन्ति देवं हृदयस्थं कारणं परमम् ।
तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥ ३५१ ॥
8.352
सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः ।
मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः ॥ ३५२ ॥
8.353
शिवशुद्धगुणाधीकारान्तः सोऽप्येष हेयश्च ।
अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥ ३५३ ॥
8.354
इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् ।
पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः ॥ ३५४ ॥
8.355
कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ ।
धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥ ३५५ ॥
8.356
रूपावरणसंज्ञं तत्तत्त्वेऽस्मिन्नैश्वरे विदुः ।
वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥ ३५६ ॥
8.357
सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः ।
ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥ ३५७ ॥
8.358
शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् ।
विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥ ३५८ ॥
8.359
शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता ।
शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥ ३५९ ॥
8.360
तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः ।
मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥ ३६० ॥
8.361
सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् ।
शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥ ३६१ ॥
8.362
अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः ।
मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥ ३६२ ॥
8.363
ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः ।
ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥ ३६३ ॥
8.364
इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् ।
प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥ ३६४ ॥
8.365
भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति ।
सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥ ३६५ ॥
8.366
तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः ।
ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥ ३६६ ॥
8.367
सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया ।
पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥ ३६७ ॥
8.368
दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः ।
सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥ ३६८ ॥
8.369
मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः ।
सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् ॥ ३६९ ॥
8.370
कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् ।
ॐ कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥ ३७० ॥
8.371
सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः ।
विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥ ३७१ ॥
8.372
मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च ।
सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥ ३७२ ॥
8.373
सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि ।
मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥ ३७३ ॥
8.374
तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् ।
यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥ ३७४ ॥
8.375
प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोऽसंख्याः ।
मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥ ३७५ ॥
8.376
सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः ।
अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥ ३७६ ॥
8.377
ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् ।
शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥ ३७७ ॥
8.378
निवृत्त्यादिकलावर्गपरिवारसमावृतः ।
असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥ ३७८ ॥
8.379
श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् ।
पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते ॥ ३७९ ॥
8.380
चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् ।
तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् ॥ ३८० ॥
8.381
निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता ।
मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥ ३८१ ॥
8.382
उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः ।
यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥ ३८२ ॥
8.383
बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती ।
कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥ ३८३ ॥
8.384
रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा ।
एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् ॥ ३८४ ॥
8.385
अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः ।
तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥ ३८५ ॥
8.386
हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः ।
निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥ ३८६ ॥
8.387
पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः ।
इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥ ३८७ ॥
8.388
नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः ।
चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् ॥ ३८८ ॥
8.389
इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा ।
मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥ ३८९ ॥
8.390
नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः ।
तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥ ३९० ॥
8.391
या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा ।
ग्रथितोऽध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥ ३९१ ॥
8.392
नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् ।
अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥ ३९२ ॥
8.393
नाड्या ब्रह्मबिले लीनः सोऽव्यक्तध्वनिरक्षरः ।
नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥ ३९३ ॥
8.394
सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् ।
तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥ ३९४ ॥
8.395
तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा ।
रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥ ३९५ ॥
8.396
शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते ।
तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते ॥ ३९६ ॥
8.397
मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः ।
शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः ॥ ३९७ ॥
8.398
शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः ।
व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः ॥ ३९८ ॥
8.399
मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः ।
तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥ ३९९ ॥
8.400
शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया ।
सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥ ४०० ॥
8.401
बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता ।
तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥ ४०१ ॥
8.402
समना करणं तस्य हेतुकर्तुर्महोशितुः ।
अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥ ४०२ ॥
8.403
तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् ।
अनाश्रितोऽनाथमयमनन्तं खवपुः सदा ॥ ४०३ ॥
8.404
स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु ।
कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥ ४०४ ॥
8.405
नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः ।
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने ॥ ४०५ ॥
8.406
तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् ।
अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥ ४०६ ॥
8.407
तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् ।
अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥ ४०७ ॥
8.408
रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् ।
जलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् ॥ ४०८ ॥
8.409
अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता ।
अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् ॥ ४०९ ॥
8.410
अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् ।
श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥ ४१० ॥
8.411
अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् ।
रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥ ४११ ॥
8.412
इत्यष्टकं जलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः ।
स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् ॥ ४१२ ॥
8.413
अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत् ।
तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥ ४१३ ॥
8.414
दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते ।
मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥ ४१४ ॥
8.415
धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा ।
तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥ ४१५ ॥
8.416
तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या ।
गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥ ४१६ ॥
8.417
यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि ।
तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् ॥ ४१७ ॥
8.418
इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् ।
अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोऽणिमादिगणः ॥ ४१८ ॥
8.419
गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् ।
गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः ॥ ४१९ ॥
8.420
कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ ।
इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम् ॥ ४२० ॥
8.421
नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् ।
रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले ॥ ४२१ ॥
8.422
भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् ।
इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥ ४२२ ॥
8.423
वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः ।
सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥ ४२३ ॥
8.424
सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता ।
बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥ ४२४ ॥
8.425
परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः ।
व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥ ४२५ ॥
8.426
षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा ।
बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि ॥ ४२६ ॥
8.427
सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना ।
इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥ ४२७ ॥
8.428
श्रीमन्मतङ्गशास्त्रे च क्रमोऽयं पुरपूगगः ।
कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥ ४२८ ॥
8.429
कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः ।
इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥ ४२९ ॥
8.430
स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता ।
पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥ ४३० ॥
8.431
तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम् ।
पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥ ४३१ ॥
8.432
योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते ।
पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥ ४३२ ॥
8.433
द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश ।
वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥ ४३३ ॥
8.434
शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः ।
यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥ ४३४ ॥
8.435
शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् ।
इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥ ४३५ ॥
8.436
अन्येऽपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः ।
श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥ ४३६ ॥
8.437
तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् ।
कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः ॥ ४३७ ॥
8.438
ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः ।
अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥ ४३८ ॥
8.439
लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति ।
एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥ ४३९ ॥
8.440
इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् ।
लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ ॥ ४४० ॥
8.441
प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे ।
भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥ ४४१ ॥
8.442
श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि ।
भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥ ४४२ ॥
8.443
अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च ।
स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥ ४४३ ॥
8.444
अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे ।
स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥ ४४४ ॥
8.445
माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे ।
अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः ॥ ४४५ ॥
8.446
धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति ।
इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥ ४४६ ॥
8.447
नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ ।
अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥ ४४७ ॥
8.448
संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ ।
वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् ॥ ४४८ ॥
8.449
समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ ।
भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥ ४४९ ॥
8.450
अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् ।
हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥ ४५० ॥
8.451
विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च ।
वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् ॥ ४५१ ॥
8.452
अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव ।
इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥ ४५२ ॥
Ahnika 9 – Devanagari
9.1
अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः ॥ १ ॥ब्
9.2
यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं
देवः स एकः शिवः ।
तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं
तत्त्वं विभोः शासने ॥ २ ॥
9.3
तथाहि कालसदनाद्वीरभद्रपुरान्तगम् ।
धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता ॥ ३ ॥
9.4
एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे ।
स्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे ॥ ४ ॥
9.5
आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः ।
तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः ॥ ५ ॥
9.6
देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् ।
श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना ॥ ६ ॥
9.7
तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते ।
कार्यकारणभावो यः शिवेच्छापरिकल्पितः ॥ ७ ॥
9.8
वस्तुतः सर्वभावानां कर्तेशानः परः शिवः ।
अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते ॥ ८ ॥
9.9
स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः ।
स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते ॥ ९ ॥
9.10
जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति ।
न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते ॥ १० ॥
9.11
तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् ।
निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् ॥ ११ ॥
9.12
स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ ।
स्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते ॥ १२ ॥
9.13
बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः ।
घटः पटश्चेति भवेत् कार्यकारणता न किम् ॥ १३ ॥
9.14
बीजमङ्कुरपत्रादितया परिणमेत चेत् ।
अतत्स्वभाववपुषः स स्वभावो न युज्यते ॥ १४ ॥
9.15
स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे ।
तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् ॥ १५ ॥
9.16
ततश्च चित्राकारोऽसौ तावान्कश्चित्प्रसज्यते ।
अस्तु चेत् न जडेऽन्योन्यविरुद्धाकारसंभवः ॥ १६ ॥
9.17
क्रमेण चित्राकारोऽस्तु जडः किं नु विरुद्ध्यते ।
क्रमोऽक्रमो वा भावस्य न स्वरूपाधिको भवेत् ॥ १७ ॥
9.18
तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा ।
उपलब्धापि विज्ञानस्वभावो योऽस्य सोऽपि हि ॥ १८ ॥
9.19
क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत् ।
तस्य तर्हि क्रमः कोऽसौ तदन्यानुपलम्भतः ॥ १९ ॥
9.20
स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् ।
स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः ॥ २० ॥
9.21
स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम् ।
इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते ॥ २१ ॥
9.22
कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् ।
तथावभासनं चास्ति कार्यकारणभावगम् ॥ २२ ॥
9.23
यथा हि घटसाहित्यं पटस्याप्यवभासते ।
तथा घटानन्तरता किं तु सा नियमोज्झिता ॥ २३ ॥
9.24
अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् ।
तत्तस्य कारणं ब्रूमः सति रूपान्वयेऽधिके ॥ २४ ॥
9.25
नियमश्च तथारूपभासनामात्रसारकः ।
बीजादङ्कुर इत्येवं भासनं नहि सर्वदा ॥ २५ ॥
9.26
योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः ।
इष्टे तथाविधाकारे नियमो भासते यतः ॥ २६ ॥
9.27
स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता ।
भासते नियमेनैव बाधाशून्येन तावति ॥ २७ ॥
9.28
ततो यावति याद्रूप्यान्नियमो बाधवर्जितः ।
भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता ॥ २८ ॥
9.29
तथाभूते च नियमे हेतुतद्वत्त्वकारिणि ।
वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् ॥ २९ ॥
9.30
अत एव घटोद्भूतौ सामग्री हेतुरुच्यते ।
सामग्री च समग्राणां यद्येकं नेष्यते वपुः ॥ ३० ॥
9.31
हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम् ।
यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥ ३१ ॥
9.32
तत्तस्य हेतु चेत्सोऽयं कुण्ठतर्को न नः प्रियः ।
समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥ ३२ ॥
9.33
दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे ।
यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन ॥ ३३ ॥
9.34
न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः ।
यथा च चक्रं नियते देशे काले च हेतुताम् ॥ ३४ ॥
9.35
याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः ।
तथा च तेषां हेतुनां संयोजनवियोजने ॥ ३५ ॥
9.36
नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् ।
कुम्भकारस्य या संवित् चक्रदण्डादियोजने ॥ ३६ ॥
9.37
शिव एव हि सा यस्मात् संविदः का विशिष्टता ।
कौम्भकारी तु संवित्तिरवच्छेदावभासनात् ॥ ३७ ॥
9.38
भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः ।
तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥ ३८ ॥
9.39
कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः ।
अत एव तथाभानपरमार्थतया स्थितेः ॥ ३९ ॥
9.40
कार्यकारणभावस्य लोके शास्त्रे च चित्रता ।
मायातोऽव्यक्तकलयोरिति रौरवसंग्रहे ॥ ४० ॥
9.41
श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते ।
तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥ ४१ ॥
9.42
इति व्याख्यास्मदुक्तेऽस्मिन्सति न्यायेऽतिनिष्फला ।
लोके च गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः ॥ ४२ ॥
9.43
योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः ।
अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः ॥ ४३ ॥
9.44
स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु ।
तत एव स्वरूपेऽपि क्रमेऽप्यन्यादृशी स्थितिः ॥ ४४ ॥
9.45
शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः ।
पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् ॥ ४५ ॥
9.46
नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता ।
पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् ॥ ४६ ॥
9.47
कालो मायेति कथितः क्रमः किरणशास्त्रगः ।
पुमान्नियत्या कालश्च रागविद्याकलान्वितः ॥ ४७ ॥
9.48
इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे ।
कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते ॥ ४८ ॥
9.49
श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् ।
शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः ॥ ४९ ॥
9.50
स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते ।
चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः ॥ ५० ॥
9.51
शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् ।
एकैकत्रापि तत्त्वेऽस्मिन् सर्वशक्तिसुनिर्भरे ॥ ५१ ॥
9.52
तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते ।
तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः ॥ ५२ ॥
9.53
निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् ।
शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह् ॥ ५३ ॥
9.54
मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् ।
स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि ॥ ५४ ॥
9.55
तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् ।
तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः ॥ ५५ ॥
9.56
गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः ।
ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते ॥ ५६ ॥
9.57
सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः ।
ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥ ५७ ॥
9.58
षट्के कारणसंज्ञेऽर्धजरतीयमियं कुतः ।
इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥ ५८ ॥
9.59
यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि ।
तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् ॥ ५९ ॥
9.60
तदेवं पञ्चकमिदं शुद्धोऽध्वा परिभाष्यते ।
तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥ ६० ॥
9.61
ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् ।
संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥ ६१ ॥
9.62
अणूनां लोलिका नाम निष्कर्मा याभिलाषिता ।
अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता ॥ ६२ ॥
9.63
योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे ।
मलस्तेनास्य न पृथक्तत्त्वभावोऽस्ति रागवत् ॥ ६३ ॥
9.64
निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा ।
रागः पुंसि धियो धर्मः कर्मभेदविचित्रता ॥ ६४ ॥
9.65
अपूर्णमन्यता चेयं तथारूपावभासनम् ।
स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः ॥ ६५ ॥
9.66
स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः ।
यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता ॥ ६६ ॥
9.67
तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः ।
व्यतिरिक्तः स्वतन्त्रस्तु न कोऽपि शकटादिवत् ॥ ६७ ॥
9.68
तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् ।
मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा ॥ ६८ ॥
9.69
इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः ।
रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते ॥ ६९ ॥
9.70
स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा ।
मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् ॥ ७० ॥
9.71
कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः ।
मलश्चावरणं तच्च नावार्यस्य विशेषकम् ॥ ७१ ॥
9.72
उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः ।
मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् ॥ ७२ ॥
9.73
शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् ।
विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च ॥ ७३ ॥
9.74
तदभावो मलो रूपध्वंसायैव प्रकल्पते ।
धर्माद्धर्मिणि यो भेदः समवायेन चैकता ॥ ७४ ॥
9.75
न तद्भवद्भिरुदितं कणभोजनशिष्यवत् ।
नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते ॥ ७५ ॥
9.76
ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि ।
स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते ॥ ७६ ॥
9.77
सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् ।
यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥ ७७ ॥
9.78
मूर्तानां प्रतिघस्तेजोऽणूनां नामूर्त ईदृशम् ।
न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥ ७८ ॥
9.79
आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् ।
उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् ॥ ७९ ॥
9.80
स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल ।
अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् ॥ ८० ॥
9.81
मद्यं सूते मदं दुःखसुखमोहफलात्मकम् ।
न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः ॥ ८१ ॥
9.82
निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् ।
तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् ॥ ८२ ॥
9.83
तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता ।
तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ॥ ८३ ॥
9.84
निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः ।
मलोऽभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा ॥ ८४ ॥
9.85
भवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढता ।
अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥ ८५ ॥
9.86
दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् ।
इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते ॥ ८६ ॥
9.87
अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः ।
मञ्चवदस्मिन् दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन ॥ ८७ ॥
9.88
शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् ।
संसारकारणं कर्म संसाराङ्कुर उच्यते ॥ ८८ ॥
9.89
चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः ।
अत एव सांख्ययोगपाञ्चरात्रादिशासने ॥ ८९ ॥
9.90
अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते ।
निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि ॥ ९० ॥
9.91
वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः ।
केवलं पारिमित्येन शिवाभेदमसंस्पृशन् ॥ ९१ ॥
9.92
विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः ।
स पुनः शांभवेच्छातः शिवाभेदं परामृशन् ॥ ९२ ॥
9.93
क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् ।
ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् ॥ ९३ ॥
9.94
स विज्ञानाकलस्यापि न सूते कर्मसंततिम् ।
मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् ॥ ९४ ॥
9.95
हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् ।
दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ ॥ ९५ ॥
9.96
दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः ।
विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना ॥ ९६ ॥
9.97
ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता ।
अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः ॥ ९७ ॥
9.98
कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् ।
किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् ॥ ९८ ॥
9.99
क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात् ।
या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता ॥ ९९ ॥
9.100
प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः ।
विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते ॥ १०० ॥
9.101
भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः ।
इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् ॥ १०१ ॥
9.102
सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः ।
नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् ॥ १०२ ॥
9.103
विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः ।
मैवमध्वस्तसंकोचोऽप्यसौ भावनया दृढम् ॥ १०३ ॥
9.104
नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति ।
फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि ॥ १०४ ॥
9.105
स संस्कारः फलायेह न तु स्मरणकारणम् ।
अप्रध्वस्तेऽपि संकोचे नाहं कर्तेति भावनात् ॥ १०५ ॥
9.106
न फलं क्षीवमूढादेः प्रायश्चित्तेऽथ वा कृते ।
यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥ १०६ ॥
9.107
अभिसंधिमतः कर्म न फलेदभिसन्धितः ।
तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् ॥ १०७ ॥
9.108
फलोपरक्तां विदधत्कल्पते फलसम्पदे ।
यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति ॥ १०८ ॥
9.109
स तत्फलत्यागकृतं विशिष्टं फलमश्नुते ।
अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥ १०९ ॥
9.110
अनहंयुतया प्रोज्झेत् ससंकोचोऽपि सोऽकलः ।
नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥ ११० ॥
9.111
परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः ।
तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि ॥ १११ ॥
9.112
तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् ।
पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् ॥ ११२ ॥
9.113
अभिसंधानविरहे त्वस्य नो फलयोगिता ।
न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा ॥ ११३ ॥
9.114
पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ ।
द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः ॥ ११४ ॥
9.115
सुखहेतौ सुखे चास्य सामान्यादभिसंधितः ।
निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता ॥ ११५ ॥
9.116
दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु ।
सामान्योऽप्यभिसंधिः स्यात्तदधर्मस्य नागमः ॥ ११६ ॥
9.117
प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् ।
अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः ॥ ११७ ॥
9.118
तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् ।
मलः करोतु तेनायं ध्वंसमानत्वमश्नुते ॥ ११८ ॥
9.119
अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः ।
अहंभावपरोऽप्येति न कर्माधीनवृत्तिताम् ॥ ११९ ॥
9.120
उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना ।
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ॥ १२० ॥
9.121
धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् ।
लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः ॥ १२१ ॥
9.122
नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् ।
हेतुता योग्यतैवासौ फलानन्तर्यभाविता ॥ १२२ ॥
9.123
पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् ।
लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे ॥ १२३ ॥
9.124
चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् ।
स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा ॥ १२४ ॥
9.125
दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते ।
इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः ॥ १२५ ॥
9.126
कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः ।
अनुसंधातुरेकस्य संभवस्तु यतस्ततः ॥ १२६ ॥
9.127
तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् ।
क्षीवोऽपि राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥ १२७ ॥
9.128
भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् ।
इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना ॥ १२८ ॥
9.129
विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता ।
अत एव कृतं कर्म कर्मणा तपसापि वा ॥ १२९ ॥
9.130
ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् ।
आरब्धकार्यं देहेऽस्मिन् यत्पुनः कर्म तत्कथम् ॥ १३० ॥
9.131
उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते ।
तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् ॥ १३१ ॥
9.132
कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते ।
तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः ॥ १३२ ॥
9.133
यदा यदा विनश्येत कर्मध्वस्तं तदा तदा ।
अतो मोहपराधीनो यद्यप्यकृत किंचन ॥ १३३ ॥
9.134
तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते ।
उक्तं च श्रीपरेऽहानादानः सर्वदृगुल्वणः ॥ १३४ ॥
9.135
मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् ।
देहस्थमिति देहेन सह तादात्म्यमाश्रिता ॥ १३५ ॥
9.136
स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते ।
देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः ॥ १३६ ॥
9.137
अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया ।
संकोच एव सानेन सोऽपि देहैकतामयः ॥ १३७ ॥
9.138
एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः ।
स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥ १३८ ॥
9.139
ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः ।
ब्रह्मादिस्थावरान्तेऽस्मिन् संस्रन्ति पुनः पुनः ॥ १३९ ॥
9.140
ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः ।
भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥ १४० ॥
9.141
महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् ।
मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः ॥ १४१ ॥
9.142
अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः ।
प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥ १४२ ॥
9.143
क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम् ।
तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥ १४३ ॥
9.144
न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः ।
अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः ॥ १४४ ॥
9.145
चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः ।
चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः ॥ १४५ ॥
9.146
योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते ।
अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ ॥ १४६ ॥
9.147
तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् ।
प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि ॥ १४७ ॥
9.148
ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते ।
भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः ॥ १४८ ॥
9.149
मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् ।
माया च नाम देवस्य शक्तिरव्यतिरेकिणी ॥ १४९ ॥
9.150
भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः ।
आद्यो भेदावभासो यो विभागमनुपेयिवान् ॥ १५० ॥
9.151
गर्भीकृतानन्तभाविविभासा सा परा निशा ।
सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः ॥ १५१ ॥
9.152
व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात् ।
शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् ॥ १५२ ॥
9.153
अचेतनमनेकात्म सर्व कार्य यथा घटः ।
प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः ॥ १५३ ॥
9.154
अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता ।
यथा च माया देवस्य शक्तिरभ्येति भेदिनम् ॥ १५४ ॥
9.155
तत्त्वभावं तथान्योऽपि कलादिस्तत्त्वविस्तरः ।
निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥ १५५ ॥
9.156
नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते ।
एवं विद्यादयोऽप्येते धरान्ताः परमार्थतः ॥ १५६ ॥
9.157
शिवशक्तिमया एव प्रोक्तन्यायानुसारतः ।
तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया ॥ १५७ ॥
9.158
ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् ।
उपादानं स्मृता माया क्वचित्तत्कार्यमेव च ॥ १५८ ॥
9.159
तथावभासचित्रं च रूपमन्योन्यवर्जितम् ।
यद्भाति किल संकल्पे तदस्ति घटवद्वहिः ॥ १५९ ॥
9.160
खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता ।
खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥ १६० ॥
9.161
धरादिवत् तथात्यन्ताभावोऽप्येवं विविच्यताम् ।
यत्संकल्प्यं तथा तस्य बहिर्देहोऽस्ति चेतनः ॥ १६१ ॥
9.162
चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत् ।
यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः ॥ १६२ ॥
9.163
अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः ।
आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥ १६३ ॥
9.164
आत्मनामध्वभोक्तृत्वं ततोऽयत्नेन सिद्ध्यति ।
सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥ १६४ ॥
9.165
दण्डाहतेवामलकी फलानि किल यद्यपि ।
तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥ १६५ ॥
9.166
मायाकार्येऽपि तत्त्वौघे कार्यकारणता मिथः ।
सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥ १६६ ॥
9.167
तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे ।
कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते ॥ १६७ ॥
9.168
प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः ।
एकस्यामेव जगति भोगसाधनसंहतौ ॥ १६८ ॥
9.169
सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् ।
न चासौ कर्मभेदेन तस्यैवानुपपत्तितः ॥ १६९ ॥
9.170
तस्मात् कलादिको वर्गो भिन्न एव कदाचन ।
ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने ॥ १७० ॥
9.171
एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् ।
शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः ॥ १७१ ॥
9.172
कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते ।
मितमप्याशु येनास्मात् संसारादेष मुच्यते ॥ १७२ ॥
9.173
रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः ।
इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः ॥ १७३ ॥
9.174
एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते ।
मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा ॥ १७४ ॥
9.175
माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः ।
सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः ॥ १७५ ॥
9.176
कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः ।
तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते ॥ १७६ ॥
9.177
सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती ।
श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् ॥ १७७ ॥
9.178
उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च ।
बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् ॥ १७८ ॥
9.179
कला मायाणुसंयोगजाप्येषा निर्विकारकम् ।
नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् ॥ १७९ ॥
9.180
मलश्चावारको माया भावोपादानकारणम् ।
कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति ॥ १८० ॥
9.181
अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् ।
कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा ॥ १८१ ॥
9.182
न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति ।
तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् ॥ १८२ ॥
9.183
सेयं कला न करणं मुख्यं विद्यादिकं यथा ।
पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः ॥ १८३ ॥
9.184
अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् ।
मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् ॥ १८४ ॥
9.185
तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् ।
विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् ॥ १८५ ॥
9.186
धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे ।
अपि न क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् ॥ १८६ ॥
9.187
अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् ।
कलापुंसोर्विवेके तु मायाधो नैव गच्छति ॥ १८७ ॥
9.188
मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् ।
सर्वत्र चैश्वरः शक्तिपातोऽत्र सहकारणम् ॥ १८८ ॥
9.189
मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः ।
सेयं कला कार्यभेदादन्यैव ह्यनुमीयते ॥ १८९ ॥
9.190
अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः ।
इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् ॥ १९० ॥
9.191
किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः ।
किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् ॥ १९१ ॥
9.192
अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् ।
बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः ॥ १९२ ॥
9.193
सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे ।
कर्मजालं च तत्रस्थं विविनक्ति निजात्मना ॥ १९३ ॥
9.194
बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् ।
दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥ १९४ ॥
9.195
स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् ।
तया विनैति साप्यन्यत्करणं पुंसि कर्तरि ॥ १९५ ॥
9.196
ननु चोभयतः शुभ्रादर्शदशीयधीगतात् ।
पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥ १९६ ॥
9.197
जडमेव हि मुख्योऽथ पुंस्प्रकाशोऽस्य भासनम् ।
बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥ १९७ ॥
9.198
अभेदभूमिरेषा च भेदश्चेह विचार्यते ।
तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः ॥ १९८ ॥
9.199
भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः ।
किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् ॥ १९९ ॥
9.200
रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् ।
न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः ॥ २०० ॥
9.201
विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः ।
कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः ॥ २०१ ॥
9.202
कार्यावच्छेदि कर्तृत्वं कालोऽवश्यं कलिष्यति ।
नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥ २०२ ॥
9.203
विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम् ।
कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥ २०३ ॥
9.204
माया कला रागविद्ये कालो नियतिरेव च ।
कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः ॥ २०४ ॥
9.205
देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् ।
एतत्षट्कससंकोचं यदवेद्यमसावणुः ॥ २०५ ॥
9.206
उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः ।
आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥ २०६ ॥
9.207
शिवदहनकिरणजालैर्दाह्यत्वात् सा यतोऽन्यरूपैव ।
अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततोऽनन्या ॥ २०७ ॥
9.208
सहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः ।
तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥ २०८ ॥
9.209
अनया विद्वस्य पशोरुपभोगसमर्थता भवति ।
विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् ॥ २०९ ॥
9.210
सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन ।
रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः ॥ २१० ॥
9.211
त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् ।
एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन ॥ २११ ॥
9.212
गहनोपभोगगर्भे पशुरवशमधोमुखः पतति ।
एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् ॥ २१२ ॥
9.213
एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे ।
विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥ २१३ ॥
9.214
विशेषणतया योऽत्र किञ्चिद्भागस्तदोत्थितम् ।
वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥ २१४ ॥
9.215
सममेव हि भोग्यं च भोक्तारं च प्रसूयते ।
कला भेदाभिसंधानादवियुक्तं परस्परम् ॥ २१५ ॥
9.216
भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् ।
विलीनायां च तस्यां स्यान्मायास्यापि न किंचन ॥ २१६ ॥
9.217
ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् ।
सूते कला हि युगपत्ततोऽव्यक्तमिति स्थितिः ॥ २१७ ॥
9.218
उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् ।
रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते ॥ २१८ ॥
9.219
तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता ।
तस्यां च न क्रमः कोऽपि स्याद्वा सोऽपि विपर्ययात् ॥ २१९ ॥
9.220
तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ ।
एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः ॥ २२० ॥
9.221
भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः ।
सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते ॥ २२१ ॥
9.222
दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः ।
मोहस्तमो वरणकः प्रकाशाभावयोगतः ॥ २२२ ॥
9.223
त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते ।
अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा ॥ २२३ ॥
9.224
उक्तमेवेति शास्त्रेऽस्मिन् गुणांस्तत्त्वान्तरं विदुः ।
भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥ २२४ ॥
9.225
ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति ।
भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् ॥ २२५ ॥
9.226
तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा ।
सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् ॥ २२६ ॥
9.227
गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः ।
पुंस्प्रकाशः स वेद्योऽत्र प्रतिबिम्बत्वमार्छति ॥ २२७ ॥
9.228
विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः ।
अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी ॥ २२८ ॥
9.229
वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् ।
आत्मसंवित्प्रकाशस्य बोधोऽसौ तज्जडोऽप्यलम् ॥ २२९ ॥
9.230
बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः ।
प्रकाशे वेद्यकलुषे यदहंमननात्मता ॥ २३० ॥
9.231
तया पञ्चविधश्चैष वायुः संरम्भरूपया ।
प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः ॥ २३१ ॥
9.232
अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः ।
अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ॥ २३२ ॥
9.233
इत्ययं करणस्कन्धोऽहंकारस्य निरूपितः ।
त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥ २३३ ॥
9.234
सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् ।
मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते ॥ २३४ ॥
9.235
मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् ।
सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः ॥ २३५ ॥
9.236
बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे ।
करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् ॥ २३६ ॥
9.237
प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः ।
प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥ २३७ ॥
9.238
अवसायोऽभिमानश्च कल्पना चेति न क्रिया ।
एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥ २३८ ॥
9.239
न च बुद्धिरसंवेद्या करणत्वान्मनो यथा ।
प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः ॥ २३९ ॥
9.240
शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः ।
सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥ २४० ॥
9.241
भौतिकत्वमतोऽप्यस्तु नियमाद्विषयेष्वलम् ।
अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥ २४१ ॥
9.242
अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् ।
करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः ॥ २४२ ॥
9.243
कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः ।
करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः ॥ २४३ ॥
9.244
तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः ।
कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् ॥ २४४ ॥
9.245
करणीकृततत्स्वांशतन्मयीभावनावशात् ।
करणीकुरुतेऽत्यन्तव्यतिरिक्तं कुठारवत् ॥ २४५ ॥
9.246
तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा ।
ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ॥ २४६ ॥
9.247
ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता ।
तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः ॥ २४७ ॥
9.248
उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका ।
तया विना तु नान्येषां करणानां स्थितिर्यतः ॥ २४८ ॥
9.249
अतोऽसामान्यकरणवर्गात् तत्र पृथक् कृता ।
विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥ २४९ ॥
9.250
कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः ।
कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥ २५० ॥
9.251
अत एव विहीनेऽपि बुद्धिकर्मेन्द्रियैः क्वचित् ।
अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते ॥ २५१ ॥
9.252
किंतु सामान्यकरणबलाद्वेद्येऽपि तादृशि ।
रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥ २५२ ॥
9.253
तत एव त्वहंकारात् तन्मात्रस्पर्शिनोऽधिकम् ।
कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥ २५३ ॥
9.254
वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च ।
इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् ॥ २५४ ॥
9.255
तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः ।
तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः ॥ २५५ ॥
9.256
मुखेनापि यदादानं तत्र यत् करणं स्थितम् ।
स पाणिरेव करणं विना किं संभवेत् क्रिया ॥ २५६ ॥
9.257
तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् ।
दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते ॥ २५७ ॥
9.258
परैर्गमौ तु करणं नेष्यते चेति विस्मयः ।
गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् ॥ २५८ ॥
9.259
पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने ।
क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् ॥ २५९ ॥
9.260
ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम् ।
तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः ॥ २६० ॥
9.261
तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम ।
नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते ॥ २६१ ॥
9.262
करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः ।
नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम् ॥ २६२ ॥
9.263
यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः ।
एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये ॥ २६३ ॥
9.264
नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः ।
उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् ॥ २६४ ॥
9.265
स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् ।
इह कर्मानुसंधानभेदादेकं विभिद्यते ॥ २६५ ॥
9.266
तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः ।
त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना ॥ २६६ ॥
9.267
स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः ।
पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् ॥ २६७ ॥
9.268
अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् ।
उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः ॥ २६८ ॥
9.269
तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते ।
तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः ॥ २६९ ॥
9.270
एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते ।
अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥ २७० ॥
9.271
उक्त इन्द्रियवर्गोऽयमहंकारात् तु राजसात् ।
तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः ॥ २७१ ॥
9.272
भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् ।
मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः ॥ २७२ ॥
9.273
इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये ।
अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः ॥ २७३ ॥
9.274
समस्तेन्द्रियसंचारचतुरं लघु वेगवत् ।
अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु ॥ २७४ ॥
9.275
राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते ।
खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् ॥ २७५ ॥
9.276
राजसाहंकृतेर्जातो रजसः कर्मता यतः ।
श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः ॥ २७६ ॥
9.277
इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः ।
तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने ॥ २७७ ॥
9.278
आलोचने शक्तिरन्तर्योजने मनसः पुनः ।
उक्तं च गुरुणा कुर्यान्मनोऽनुव्यवसायि सत् ॥ २७८ ॥
9.279
तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति ।
तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः ॥ २७९ ॥
9.280
अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि ।
पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले ॥ २८० ॥
9.281
यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् ।
व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् ॥ २८१ ॥
9.282
स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् ।
एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥ २८२ ॥
9.283
विशेषाणां यतोऽवश्यं दशा प्रागविशेषिणी ।
क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥ २८३ ॥
9.284
नभः शब्दोऽवकाशात्मा वाच्याध्याससहो यतः ।
तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् ॥ २८४ ॥
9.285
वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता ।
अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते ॥ २८५ ॥
9.286
यतो वायुर्निजं रूपं लभते न विनाम्बरात् ।
उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः ॥ २८६ ॥
9.287
तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः ।
शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ ॥ २८७ ॥
9.288
तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् ।
तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः ॥ २८८ ॥
9.289
तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः ।
नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः ॥ २८९ ॥
9.290
यथा गुणगुणिद्वैतवादिनामेकमप्यदः ।
चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि ॥ २९० ॥
9.291
यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता ।
तथैव योगिनां धर्मसामस्त्येनावभाति भूः ॥ २९१ ॥
9.292
गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः ।
उपायभेदाद्भात्येषा क्रमाक्रमविभागतः ॥ २९२ ॥
9.293
तत एव क्रमव्यक्तिकृतो धीभेद उच्यते ।
षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥ २९३ ॥
9.294
तेन धर्मातिरिक्तोऽत्र धर्मी नाम न कश्चन ।
तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥ २९४ ॥
9.295
संस्पर्शः पाकजोऽनुष्णाशीतः शब्दो विचित्रकः ।
शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥ २९५ ॥
9.296
शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके ।
अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते ॥ २९६ ॥
9.297
वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे ।
यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते ॥ २९७ ॥
9.298
काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् ।
पटहे ध्वनिरित्येव भात्यबाधितमेव यत् ॥ २९८ ॥
9.299
न च हेतुत्वमात्रेण तदादानत्ववेदनात् ।
श्रोत्रं चास्मन्मतेऽहंकृत्कारणं तत्र तत्र तत् ॥ २९९ ॥
9.300
वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा ।
यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् ॥ ३०० ॥
9.301
शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते ।
तस्य मन्देऽपि मुरजध्वनावाकर्णके सति ॥ ३०१ ॥
9.302
अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् ।
नहि शब्दजशब्दस्य दूरादूररवोदितेः ॥ ३०२ ॥
9.303
श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता ।
न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते ॥ ३०३ ॥
9.304
तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु ।
कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः ॥ ३०४ ॥
9.305
एतच्चान्यैरपाकारि बहुधेति वृथा पुनः ।
नायस्तं पतिताघातदाने को हि न पण्डितः ॥ ३०५ ॥
9.306
अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा ।
गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते ॥ ३०६ ॥
9.307
व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल ।
सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् ॥ ३०७ ॥
9.308
अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् ।
तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः ॥ ३०८ ॥
9.309
न लाघवं च नामास्ति किंचिदत्र स्वदर्शने ।
गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा ॥ ३०९ ॥
9.310
यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते ।
ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा ॥ ३१० ॥
9.311
अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् ।
समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् ॥ ३११ ॥
9.312
एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् ।
किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः ॥ ३१२ ॥
9.313
अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् ।
एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः ॥ ३१३ ॥
9.314
इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् ॥ ३१४ ॥
Ahnika 10 – Devanagari
10.1
उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् ॥ १ ॥ब्
10.2
तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् ।
भेदान्तरमपि प्रोक्तं शास्त्रेऽत्र श्रीत्रिकाभिधे ॥ २ ॥
10.3
शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् ।
भिद्यते पञ्चदशधा स्वरूपेण सहानरात् ॥ ३ ॥
10.4
कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः ।
तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः ॥ ४ ॥
10.5
मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा ।
शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः ॥ ५ ॥
10.6
शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली ।
शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश ॥ ६ ॥
10.7
स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका ।
तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा ॥ ७ ॥
10.8
ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः ।
परांशो मातृरूपोऽत्र प्रमाणांशः परापरः ॥ ८ ॥
10.9
मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः ।
तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥ ९ ॥
10.10
मातृमानाद्युपधिभिरसंजातोपरागकम् ।
सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या ॥ १० ॥
10.11
शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः ।
सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु ॥ ११ ॥
10.12
वेद्यताजनिताः सप्त भेदा इति चतुर्दश ।
सकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः ॥ १२ ॥
10.13
सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः ।
लयाकलस्य मानांशः स एव परमस्फुटः ॥ १३ ॥
10.14
ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति ।
अशुद्धविद्याकलनाध्वंससंस्कारसंगता ॥ १४ ॥
10.15
प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् ।
प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता ॥ १५ ॥
10.16
मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता ।
मानं मन्त्रमहेशानां करणं शक्तिरुच्यते ॥ १६ ॥
10.17
स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी ।
शिवस्य सैव करणं तया वेत्ति करोति च ॥ १७ ॥
10.18
आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा ।
न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः ॥ १८ ॥
10.19
तथाहि वेद्यता नाम भावस्यैव निजं वपुः ।
चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् ॥ १९ ॥
10.20
ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते ।
वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् ॥ २० ॥
10.21
वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः ।
सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् ॥ २१ ॥
10.22
अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् ।
भावस्तथापि दोषोऽसौ कुविन्दकृतवस्त्रवत् ॥ २२ ॥
10.23
वेद्यताख्यस्तु यो धर्मः सोऽवेद्यश्चेत्खपुष्पवत् ।
वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥ २३ ॥
10.24
ततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् ।
ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् ॥ २४ ॥
10.25
भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् ।
एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता ॥ २५ ॥
10.26
समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता ।
तस्मान्न वेद्यता नाम भावधर्मोऽस्ति कश्चन ॥ २६ ॥
10.27
भावस्य वेद्यता सैव संविदो यः समुद्भवः ।
अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥ २७ ॥
10.28
समवैति प्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता ।
अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता ॥ २८ ॥
10.29
अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते ।
यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि ॥ २९ ॥
10.30
अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् ।
तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि ॥ ३० ॥
10.31
अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः ।
अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् ॥ ३१ ॥
10.32
प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः ।
अप्रकाशो मनोदीपचक्षुरादि तथैव तत् ॥ ३२ ॥
10.33
किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः ।
ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ॥ ३३ ॥
10.34
अपूर्वमत्र विदितं नरीनृत्यामहे ततः ।
अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् ॥ ३४ ॥
10.35
अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा ।
अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते ॥ ३५ ॥
10.36
षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः ।
अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः ॥ ३६ ॥
10.37
तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते ।
अप्रकाशोऽपि नैवासौ तथापि च न किंचन ॥ ३७ ॥
10.38
तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ ।
मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥ ३८ ॥
10.39
तथाहि गन्तुं शक्तोऽपि चैत्रोऽन्यायत्ततां गतेः ।
मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥ ३९ ॥
10.40
स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् ।
पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते ॥ ४० ॥
10.41
प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः ।
तदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा ॥ ४१ ॥
10.42
शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् ।
विदधत्प्रेरकम्मन्य उपचारेण जायते ॥ ४२ ॥
10.43
वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ ।
द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ ॥ ४३ ॥
10.44
इत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः ।
आस्तामन्यत्र विततमेतद्विस्तरतो मया ॥ ४४ ॥
10.45
अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् ।
अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् ॥ ४५ ॥
10.46
उपचारे निमित्तेन केनापि किल भूयते ।
वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया ॥ ४६ ॥
10.47
गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते ।
इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् ॥ ४७ ॥
10.48
उपचारः कथं नाम भवेत्सोऽपि ह्यवस्तुसन् ।
अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥ ४८ ॥
10.49
तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः ।
शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् ॥ ४९ ॥
10.50
प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता ।
सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् ॥ ५० ॥
10.51
अध्यारोपात्मकः सोऽपि प्रतिसंधानजीवितः ।
न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥ ५१ ॥
10.52
अप्रकाशं तदन्येन तत्प्रकाशेऽप्ययं विधिः ।
ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥ ५२ ॥
10.53
अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः ।
यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् ॥ ५३ ॥
10.54
तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा ।
प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् ॥ ५४ ॥
10.55
अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः ।
तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः ॥ ५५ ॥
10.56
यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् ।
एवं च नीलता नाम यथा काचित्प्रकाशते ॥ ५६ ॥
10.57
तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् ।
फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः ॥ ५७ ॥
10.58
विपक्षतो रक्षितं च संधानं चापि तन्मिथः ।
तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥ ५८ ॥
10.59
बुद्ध्वा नादत्त एवाशु परीप्साविवशोऽपि सन् ।
सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥ ५९ ॥
10.60
स्वं देहममृतेनेव सिक्तं पश्यति कामुकः ।
न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् ॥ ६० ॥
10.61
अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् ।
यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति ॥ ६१ ॥
10.62
स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव ।
अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् ॥ ६२ ॥
10.63
अन्यं प्रति चकास्तीति वच एव न विद्यते ।
सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः ॥ ६३ ॥
10.64
तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः ।
नहि कालाग्निरुद्रीयकायावगतनीलिमा ॥ ६४ ॥
10.65
तव नीलः किं नु पीतो मैवं भून्नतु नीलकः ।
न कंचित्प्रति नीलोऽसौ नीलो वा यं प्रति स्थितः ॥ ६५ ॥
10.66
तं प्रत्येव स वेद्यः स्यात्संकल्पद्वारकोऽन्ततः ।
यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥ ६६ ॥
10.67
तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् ।
न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव ॥ ६७ ॥
10.68
अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् ।
तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् ॥ ६८ ॥
10.69
इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् ।
नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा ॥ ६९ ॥
10.70
भावस्य रूपमित्युक्ते केयमस्थानवैधुरी ।
अनेन नीतिमार्गेण निर्मूलमपसारिता ॥ ७० ॥
10.71
अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा ।
वेद्यता किंतु धर्मोऽसौ यद्योगात्सर्वधर्मवान् ॥ ७१ ॥
10.72
धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् ।
ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥ ७२ ॥
10.73
समवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः ।
अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥ ७३ ॥
10.74
व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा ।
तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः ॥ ७४ ॥
10.75
अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः ।
वेद्यता भासमाना च स्वयं नीलादिधर्मवत् ॥ ७५ ॥
10.76
अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् ।
प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः ॥ ७६ ॥
10.77
नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः ।
यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा ॥ ७७ ॥
10.78
नीलादिवत्तथैवायं वेद्यता धर्म उच्यते ।
एवं सिद्धं हि वेद्यत्वं भावधर्मोऽस्तु का घृणा ॥ ७८ ॥
10.79
इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः ।
वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः ॥ ७९ ॥
10.80
उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते ।
तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥ ८० ॥
10.81
अथ तन्निजमाहात्म्यकल्पितोंऽशांशिकाक्रमः ।
सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥ ८१ ॥
10.82
अत एव यदा येन वपुषा भाति यद्यथा ।
तदा तथा तत्तद्रूपमित्येषोपनिषत्परा ॥ ८२ ॥
10.83
चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ ।
मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना ॥ ८३ ॥
10.84
अन्यादृशेन वेत्येवं भावो भाति यथा तथा ।
अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया ॥ ८४ ॥
10.85
तथा ह्येकाग्रसकलसामाजिकजनः खलु ।
नृत्तं गीतं सुधासारसागरत्वेन मन्यते ॥ ८५ ॥
10.86
तत एवोच्यते मल्लनटप्रेक्षोपदेशने ।
सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् ॥ ८६ ॥
10.87
तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि ।
कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् ॥ ८७ ॥
10.88
यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् ।
तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥ ८८ ॥
10.89
शास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् ।
भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥ ८९ ॥
10.90
तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् ।
अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् ॥ ९० ॥
10.91
तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् ।
एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते ॥ ९१ ॥
10.92
तदनाभासयोगे तु स्वरूपमिति भण्यते ।
उपाधियोगिताशङ्कामपहस्तयतोऽस्फुटम् ॥ ९२ ॥
10.93
स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः ।
जानामि घटमित्यत्र वेद्यतानुपरागवान् ॥ ९३ ॥
10.94
घट एव स्वरूपेण भात इत्यपदिश्यते ।
ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया ॥ ९४ ॥
10.95
अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते ।
अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः ॥ ९५ ॥
10.96
ममेति संविदि परं शुद्धं वस्तु प्रकाशते ।
भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् ॥ ९६ ॥
10.97
अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे ।
एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥ ९७ ॥
10.98
अव्यक्तान्ता यतोऽस्त्येषां सकलं प्रति वेद्यता ।
यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥ ९८ ॥
10.99
सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् ।
उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः ॥ ९९ ॥
10.100
सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः ।
ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥ १०० ॥
10.101
तेन प्रधाने वेद्येऽपि पुमानुद्भूतकञ्चुकः ।
प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् ॥ १०१ ॥
10.102
पाञ्चदश्यं धराधन्तर्निविष्टे सकलेऽपि च ।
सकलान्तरमस्त्येव प्रमेयेऽत्रापि मातृ हि ॥ १०२ ॥
10.103
स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः ।
पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु ॥ १०३ ॥
10.104
स्वरूपीभूतजडताः प्राणदेहपथे ततः ।
प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे ॥ १०४ ॥
10.105
यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते ।
तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता ॥ १०५ ॥
10.106
अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते ।
त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् ॥ १०६ ॥
10.107
न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः ।
मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥ १०७ ॥
10.108
मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोऽपि यः ।
सोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥ १०८ ॥
10.109
विज्ञानाकल एवात्र ततो मातापकञ्चुकः ।
मायानिविष्टेऽप्यकले तथेत्येकादशात्मता ॥ १०९ ॥
10.110
विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते ।
उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥ ११० ॥
10.111
तेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः ।
स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥ १११ ॥
10.112
उद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः ।
तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥ ११२ ॥
10.113
प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः ।
शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता ॥ ११३ ॥
10.114
मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः ।
स्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति ॥ ११४ ॥
10.115
अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा ।
ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् ॥ ११५ ॥
10.116
अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः ।
इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः ॥ ११६ ॥
10.117
मानानां हि परो जीवः स एवेत्युक्तमादितः ।
नन्वस्ति स्वप्रकाशेऽपि शिवे वेद्यत्वमीदृशः ॥ ११७ ॥
10.118
उपदेशो[श्यो]पदेष्टृत्वव्यवहारोऽन्यथा कथम् ।
सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् ॥ ११८ ॥
10.119
नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते ।
तथाभूतश्च वेद्योऽसौ नानवच्छिन्नसंविदः ॥ ११९ ॥
10.120
पूर्णस्य वेद्यता युक्ता परस्परविरोधतः ।
तथा वेद्यस्वभावेऽपि वस्तुतो न शिवात्मताम् ॥ १२० ॥
10.121
कोऽपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् ।
श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥ १२१ ॥
10.122
साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः ।
नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् ॥ १२२ ॥
10.123
त्रिवेदतामन्त्रमहानाथे कात्र विवादिता ।
महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः ॥ १२३ ॥
10.124
अनन्तभेदतैकैकं स्थिता सकलवत्किल ।
ततो लयाकले मेये प्रमातास्ति लयाकलः ॥ १२४ ॥
10.125
अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता ।
विज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत् ॥ १२५ ॥
10.126
माता तदेकादशता स्यान्नैव तु नवात्मता ।
एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे ॥ १२६ ॥
10.127
वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् ।
उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः ॥ १२७ ॥
10.128
यथात्र सकले भेदो न तथा त्वकलादिके ।
अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् ॥ १२८ ॥
10.129
चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता ।
लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा ॥ १२९ ॥
10.130
अकलेन विशेषाय सकलस्यैव युज्यते ।
विज्ञानकेवलादीनां तावत्यपि न वै भिदा ॥ १३० ॥
10.131
शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते ।
इत्याशयेन संपश्यन्विशेषं सकलादिह ॥ १३१ ॥
10.132
लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः ।
नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ ॥ १३२ ॥
10.133
मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् ।
श्रूयतां संविदैकात्म्यतत्त्वेऽस्मिन्संव्यवस्थिते ॥ १३३ ॥
10.134
जडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा ।
स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥ १३४ ॥
10.135
द्विविधश्च प्रबोधोऽस्य मन्त्रत्वाय भवाय च ।
भावनादिबलादन्यवैष्णवादिनयोदितात् ॥ १३५ ॥
10.136
यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा ।
लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा ॥ १३६ ॥
10.137
स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः ।
लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥ १३७ ॥
10.138
ज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते ।
मन्त्रादित्वाय वा जातु जातु संसृतयेऽपि वा ॥ १३८ ॥
10.139
अवतारो हि विज्ञानियोगिभावेऽस्य भिद्यते ।
उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः ॥ १३९ ॥
10.140
विज्ञानकेवलानष्टाविति श्रीपूर्वशासने ।
अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता ॥ १४० ॥
10.141
तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता ।
तथाहि गाढनिद्रेऽपि प्रियेऽनाशङ्कितागताम् ॥ १४१ ॥
10.142
मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका ।
एवं शिवोऽपि मनुते एतस्यैतत्प्रवेद्यताम् ॥ १४२ ॥
10.143
यास्यतीति सृजामीति तदानीं योग्यतैव सा ।
वेद्यता तस्य भावस्य भोक्तृता तावती च सा ॥ १४३ ॥
10.144
लयाकलस्य चित्रो हि भोगः केन विकल्प्यते ।
यथा यथा हि सम्वित्तिः स हि भोगः स्फुटोऽस्फुटः ॥ १४४ ॥
10.145
स्मृतियोग्योऽप्यन्यथा वा भोग्यभावं न तूज्झति ।
गाढनिद्राविमूढोऽपि कान्तालिङ्गितविग्रहः ॥ १४५ ॥
10.146
भोक्तैव भण्यते सोऽपि मनुते भोक्तृतां पुरा ।
उत्प्रेक्षामात्रहीनोऽपि कांचित्कुलवधूं पुरः ॥ १४६ ॥
10.147
संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् ।
तामेव दृष्ट्वा च तदा समानाशयभागपि ॥ १४७ ॥
10.148
अन्यस्तथा न संवित्ते कमत्रोपलभामहे ।
लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा ॥ १४८ ॥
10.149
प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि ।
इत्थं विस्तरतस्तत्त्वभेदोऽयं समुदाहृतः ॥ १४९ ॥
10.150
शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि ।
भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह ॥ १५० ॥
10.151
भेदोपभेदगणनां कर्वतो नावधिः क्वचित् ।
तत एव विचित्रोऽयं भुवनादिविधिः स्थितः ॥ १५१ ॥
10.152
पार्थिवत्वेऽपि नो साम्यं रुद्रवैष्णवलोकयोः ।
का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥ १५२ ॥
10.153
स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् ।
तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् ॥ १५३ ॥
10.154
सप्तानां मातृशक्तीनामन्योन्यं भेदने सति ।
रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः ॥ १५४ ॥
10.155
सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि ।
लयाकलादिशक्तीनां संभवोऽस्त्येव तत्त्वतः ॥ १५५ ॥
10.156
स त्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत् ।
तेषामपि च भेदानामन्योन्यं बहुभेदता ॥ १५६ ॥
10.157
मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति ।
मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते ॥ १५७ ॥
10.158
सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः ।
न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् ॥ १५८ ॥
10.159
एवं लयाकलादीनां तत्संस्कारपदोदितात् ।
पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते ॥ १५९ ॥
10.160
न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् ।
अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु ॥ १६० ॥
10.161
आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च ।
विदतो वेद्यतान्यैव भेदोऽत्रार्थक्रियोचितः ॥ १६१ ॥
10.162
अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये ।
भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥ १६२ ॥
10.163
तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतोऽन्यतः ।
चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥ १६३ ॥
10.164
एवमेतद्धरादीनां तत्त्वानां यावती दशा ।
काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः ॥ १६४ ॥
10.165
अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह ।
ततः सकलवेद्योऽसौ घटः सकल एव हि ॥ १६५ ॥
10.166
यावच्छिवैकवेद्योऽसौ शिव एवावभासते ।
तावदेकशरीरो हि बोधो भात्येव यावता ॥ १६६ ॥
10.167
अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते ।
सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् ॥ १६७ ॥
10.168
धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते ।
स एव शिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम् ॥ १६८ ॥
10.169
धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् ।
प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥ १६९ ॥
10.170
प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् ।
धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥ १७० ॥
10.171
न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा ।
अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥ १७१ ॥
10.172
तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः ।
सौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः ॥ १७२ ॥
10.173
सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते ।
अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः ॥ १७३ ॥
10.174
सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते ।
अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥ १७४ ॥
10.175
यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते ।
तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः ॥ १७५ ॥
10.176
तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा ।
तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः ॥ १७६ ॥
10.177
माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः ।
धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥ १७७ ॥
10.178
अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने ।
प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् ॥ १७८ ॥
10.179
शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः ।
ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् ॥ १७९ ॥
10.180
त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः ।
ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् ॥ १८० ॥
10.181
सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः ।
सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा ॥ १८१ ॥
10.182
यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् ।
शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् ॥ १८२ ॥
10.183
एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः ।
अनया तु दिशा प्रायः सर्वभेदेषु विद्यते ॥ १८३ ॥
10.184
भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः ।
तथापि स्फुटताभावात्सन्नप्येष न चर्चितः ॥ १८४ ॥
10.185
एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि ।
सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥ १८५ ॥
10.186
अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः ।
अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥ १८६ ॥
10.187
भेदोऽयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् ।
समस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः ॥ १८७ ॥
10.188
षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः ।
तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः ॥ १८८ ॥
10.189
द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते ।
अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः ॥ १८९ ॥
10.190
प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः ।
तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् ॥ १९० ॥
10.191
तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् ।
तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ॥ १९१ ॥
10.192
द्वितीयं मध्यमं षट्कं परापरपदात्मकम् ।
विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता ॥ १९२ ॥
10.193
षट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् ।
निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥ १९३ ॥
10.194
एवं द्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना ।
उपरागपदं प्राप्य परापरतया स्थिताः ॥ १९४ ॥
10.195
आद्येऽत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः ।
जिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः ॥ १९५ ॥
10.196
अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् ।
यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते ॥ १९६ ॥
10.197
केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि ।
तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः ॥ १९७ ॥
10.198
तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ।
संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः ॥ १९८ ॥
10.199
एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी ।
गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके ॥ १९९ ॥
10.200
क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि ।
तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः ॥ २०० ॥
10.201
यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः ।
विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥ २०१ ॥
10.202
तथा गतविकल्पेऽपि रूढाः संवेदने जनाः ।
विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥ २०२ ॥
10.203
विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या ।
संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥ २०३ ॥
10.204
ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता ।
इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः ॥ २०४ ॥
10.205
एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् ।
तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ॥ २०५ ॥
10.206
अत एव शिवावेशे द्वितुटिः परिगीयते ।
एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् ॥ २०६ ॥
10.207
द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका ।
तस्यामवहितो योगी किं न वेत्ति करोति वा ॥ २०७ ॥
10.208
तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः ।
लाभः सर्वज्ञकर्तृत्वे तुटेः पातोऽपरा तुटिः ॥ २०८ ॥
10.209
आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् ।
गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् ॥ २०९ ॥
10.210
अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः ।
चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये ॥ २१० ॥
10.211
सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ ।
मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः ॥ २११ ॥
10.212
तासु संदधतश्चित्तमवधानैकधर्मकम् ।
तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते ॥ २१२ ॥
10.213
अत एव यथा भेदबहुत्वं दूरता तथा ।
संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् ॥ २१३ ॥
10.214
यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः ।
तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥ २१४ ॥
10.215
शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोऽमुतः ।
अत एव प्रयत्नोऽयं तत्प्रवेशे न विद्यते ॥ २१५ ॥
10.216
यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा ।
भावनाकरणादीनां शिवे निरवकाशताम् ॥ २१६ ॥
10.217
अत एव हि मन्यन्ते संप्रदायधना जनाः ।
तथा हि दृश्यतां लोको घटादेर्वेदने यथा ॥ २१७ ॥
10.218
प्रयत्नवानिवाभाति तथा किं सुखवेदने ।
आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् ॥ २१८ ॥
10.219
तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् ।
भविनां त्वन्तिकोऽप्येवं न भातीत्यतिदूरता ॥ २१९ ॥
10.220
दूरेऽपि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् ।
न च बीजाङ्कुरलतादलपुष्पफलादिवत् ॥ २२० ॥
10.221
क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः ।
बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः ॥ २२१ ॥
10.222
संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः ।
सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥ २२२ ॥
10.223
तत एव घटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत् ।
विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥ २२३ ॥
10.224
न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन ।
अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः ॥ २२४ ॥
10.225
शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् ।
अनया च दिशा सर्व सर्वदा प्रविवेचयन् ॥ २२५ ॥
10.226
भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः ।
स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः ॥ २२६ ॥
10.227
मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना ।
अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् ॥ २२७ ॥
10.228
तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् ।
जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् ॥ २२८ ॥
10.229
इति पञ्च पदान्याहुरेकस्मिन्वेदके सति ।
तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः ॥ २२९ ॥
10.230
तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् ।
तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया ॥ २३० ॥
10.231
यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन ।
संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् ॥ २३१ ॥
10.232
चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः ।
अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा ॥ २३२ ॥
10.233
प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् ।
विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् ॥ २३३ ॥
10.234
तथा हि भासते यत्तन्नीलमन्तः प्रवेदने ।
संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् ॥ २३४ ॥
10.235
यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते ।
कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते ॥ २३५ ॥
10.236
तत्र चैत्रे भासमाने यो देहांशः स कथ्यते ।
अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः ॥ २३६ ॥
10.237
प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः ।
चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् ॥ २३७ ॥
10.238
जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते ।
जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता ॥ २३८ ॥
10.239
इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः ।
उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च ॥ २३९ ॥
10.240
प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् ।
मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥ २४० ॥
10.241
भूततत्त्वाभिधानानां योंऽशोऽधिष्ठेय उच्यते ।
पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥ २४१ ॥
10.242
लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि ।
योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते ॥ २४२ ॥
10.243
अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः ।
तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥ २४३ ॥
10.244
प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते ।
सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया ॥ २४४ ॥
10.245
सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः ।
ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते ॥ २४५ ॥
10.246
लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल ।
नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥ २४६ ॥
10.247
यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते ।
वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् ॥ २४७ ॥
10.248
तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि ।
वैकल्पिकपथारूढवेद्यसाम्यावभासनात् ॥ २४८ ॥
10.249
लोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता ।
उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥ २४९ ॥
10.250
विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् ।
यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते ॥ २५० ॥
10.251
विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते ।
तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् ॥ २५१ ॥
10.252
प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते ।
तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् ॥ २५२ ॥
10.253
गतागतं सुविक्षिप्तं संगतं सुसमाहितम् ।
अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः ॥ २५३ ॥
10.254
बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् ।
सर्वाध्वनः पदं प्राणः संकल्पोऽवगमात्मकः ॥ २५४ ॥
10.255
पदं च तत्समापत्ति पदस्थं योगिनो विदुः ।
वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः ॥ २५५ ॥
10.256
वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत् ।
मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥ २५६ ॥
10.257
वेद्यच्छायोऽवभासो हि मेयेऽधिष्ठानमुच्यते ।
यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥ २५७ ॥
10.258
बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते ।
अनुभूतौ विकल्पे च योऽसौ द्रष्टा स एव हि ॥ २५८ ॥
10.259
न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते ।
तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥ २५९ ॥
10.260
बीजभावोऽथाग्रहणं साम्यं तूष्णींस्वभावता ।
मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥ २६० ॥
10.261
रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः ।
रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः ॥ २६१ ॥
10.262
प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् ।
नास्ति तेन महाव्याप्तिरियं तदनुसारतः ॥ २६२ ॥
10.263
उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् ।
भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् ॥ २६३ ॥
10.264
उदितं विपुलं शान्तं सुप्रसन्नमथापरम् ।
यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् ॥ २६४ ॥
10.265
पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः ।
तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः ॥ २६५ ॥
10.266
सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः ।
मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥ २६६ ॥
10.267
मेयं माने मातरि तत् सोऽपि तस्यां मितौ स्फुटम् ।
विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥ २६७ ॥
10.268
रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते ।
द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका ॥ २६८ ॥
10.269
प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते ।
संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा ॥ २६९ ॥
10.270
तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् ।
तत्समावेशोपरागान्मानत्वं मेयता पुनः ॥ २७० ॥
10.271
तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् ।
वेद्यादिभेदगलनादुक्ता सेयमनामया ॥ २७१ ॥
10.272
मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते ।
जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् ॥ २७२ ॥
10.273
अपरं परापरं च द्विधा तत्सा परा त्वियम् ।
रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी ॥ २७३ ॥
10.274
दशा तस्यां समापत्ती रूपातीतं तु योगिनः ।
पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः ॥ २७४ ॥
10.275
प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता ।
नैतस्यामपरा तुर्यदशा संभाव्यते किल ॥ २७५ ॥
10.276
संविन्न किल वेद्या सा वित्त्वेनैव हि भासते ।
जाग्रदाद्यास्तु संभाव्यास्तिस्रोऽस्याः प्राग्दशा यतः ॥ २७६ ॥
10.277
त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने ।
मनोन्मनमनन्तं च सर्वार्थमिति भेदतः ॥ २७७ ॥
10.278
यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् ।
तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् ॥ २७८ ॥
10.279
नात्र योगस्य सद्भावो भावनादेरभावतः ।
अप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः ॥ २७९ ॥
10.280
योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः ।
प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः ॥ २८० ॥
10.281
अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् ।
पूर्णत्वादेव भेदानामस्यां संभावना न हि ॥ २८१ ॥
10.282
तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् ।
सततोदितमित्येतत्सर्वव्यापित्वसूचकम् ॥ २८२ ॥
10.283
न ह्येक एव भवति भेदः क्वचन कश्चन ।
तुर्यातीते भेद एकः सततोदित इत्ययम् ॥ २८३ ॥
10.284
मूढवादस्तेन सिद्धमविभेदित्वमस्य तु ।
श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः ॥ २८४ ॥
10.285
मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते ।
रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥ २८५ ॥
10.286
निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः ।
सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ २८६ ॥
10.287
इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः ।
श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥ २८७ ॥
10.288
अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः ।
यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते ॥ २८८ ॥
10.289
तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः ।
तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ २८९ ॥
10.290
आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः ।
लयाकलस्य भोगोऽसौ मलकर्मवशान्नतु ॥ २९० ॥
10.291
स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने ।
ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥ २९१ ॥
10.292
भेदवन्तः स्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः ।
तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥ २९२ ॥
10.293
यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः ।
भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥ २९३ ॥
10.294
तुर्यातीतपदे संस्युरिति पञ्चदशात्मके ।
यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ २९४ ॥
10.295
यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः ।
अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ॥ २९५ ॥
10.296
त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते ।
स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥ २९६ ॥
10.297
यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् ।
तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ २९७ ॥
10.298
लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु ।
स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥ २९८ ॥
10.299
एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते ।
आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥ २९९ ॥
10.300
ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः ।
न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥ ३०० ॥
10.301
न चेन्न क्वापि मुख्यत्वं नोपचारोऽपि तत्क्वचित् ।
एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना ॥ ३०१ ॥
10.302
तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् ।
इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥ ३०२ ॥
10.303
अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् ।
तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः ॥ ३०३ ॥
10.304
स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले ।
स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् ॥ ३०४ ॥
10.305
विज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः ।
तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥ ३०५ ॥
10.306
सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः ।
शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः ॥ ३०६ ॥
10.307
स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः ।
शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके ॥ ३०७ ॥
10.308
स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी ।
महेशभेदे त्रिविधे जाग्रदादि निरूपितम् ॥ ३०८ ॥
10.309
व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः ।
इच्छानिवृत्तेः स्वस्थत्वाच्छिव एकोऽपि पञ्चधा ॥ ३०९ ॥
10.310
इत्येष दर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ ।
Ahnika 11 – Devanagari
11.1
कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥ १ ॥ब्
11.2
यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् ।
अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥ २ ॥
11.3
तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम् ।
व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥ ३ ॥
11.4
केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका ।
तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥ ४ ॥
11.5
अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः ।
अनुगामि न सामान्यमिष्टं नैयायिकादिवत् ॥ ५ ॥
11.6
अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः ।
शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥ ६ ॥
11.7
कृतश्च देवदेवेन समयोऽपरमार्थताम् ।
न गच्छतीति नासत्यो न चान्यसमयोदयः ॥ ७ ॥
11.8
निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे ।
विद्या निशान्ते शान्ता च शक्त्यन्तेऽण्डमिदं चतुः ॥ ८ ॥
11.9
शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः ।
नह्यत्र वर्गीकरणं समयः कलनापि वा ॥ ९ ॥
11.10
युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि ।
स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥ १० ॥
11.11
उपदेशतदावेशपरमार्थत्वसिद्धये ।
बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥ ११ ॥
11.12
यतोऽतः शिवतत्त्वेऽपि कलासंगतिरुच्यते ।
अण्डं च नाम भुवनविभागस्थितिकारणम् ॥ १२ ॥
11.13
प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि ।
यद्यपि प्राक् शिवाख्येऽपि तत्त्वे भुवनपद्धतिः ॥ १३ ॥
11.14
उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः ।
नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥ १४ ॥
11.15
अपि चाप्रतिघत्वेऽपि कथमण्डस्य संभवः ।
अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥ १५ ॥
11.16
प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किंचन ।
मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥ १६ ॥
11.17
कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् ।
त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥ १७ ॥
11.18
कार्यत्वकरणत्वादिविभागगलने सति ।
विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥ १८ ॥
11.19
श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा ।
पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ १९ ॥
11.20
पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते ।
ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥ २० ॥
11.21
शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् ।
यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥ २१ ॥
11.22
सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् ।
तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते ॥ २२ ॥
11.23
यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते ।
न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥ २३ ॥
11.24
यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते ।
तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥ २४ ॥
11.25
तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः ।
चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥ २५ ॥
11.26
सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा ।
तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः ॥ २६ ॥
11.27
अष्टात्रिंशत्तमः सोऽपि भावनायोपदिश्यते ।
यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥ २७ ॥
11.28
अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता ।
समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥ २८ ॥
11.29
धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः ।
गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥ २९ ॥
11.30
इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक् ।
स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः ॥ ३० ॥
11.31
तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी ।
यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् ॥ ३१ ॥
11.32
अतो विन्दुरतो नादो रूपमस्मादतो रसः ।
इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥ ३२ ॥
11.33
मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत ।
धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥ ३३ ॥
11.34
एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः ।
पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥ ३४ ॥
11.35
विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् ।
शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥ ३५ ॥
11.36
इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति ।
तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः ॥ ३६ ॥
11.37
प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ ।
शिवश्च नवतत्त्वेऽपि विधौ तत्त्वाध्वरूपता ॥ ३७ ॥
11.38
एवमष्टादशाख्येऽपि विधौ न्यायं वदेत्सुधीः ।
यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥ ३८ ॥
11.39
अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् ।
तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥ ३९ ॥
11.40
तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः ।
एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥ ४० ॥
11.41
शिष्यं च गतभोगाशमुदितः शंभुना यतः ।
भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥ ४१ ॥
11.42
स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः ।
इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥ ४२ ॥
11.43
मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः ।
अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥ ४३ ॥
11.44
यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् ।
पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥ ४४ ॥
11.45
तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा ।
गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः ॥ ४५ ॥
11.46
तथापि न विमर्शात्म रूपं त्यजति तेन सः ।
प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥ ४६ ॥
11.47
मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने ।
अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥ ४७ ॥
11.48
औदासीन्यपरित्यागे प्रक्षोभानवरोहणे ।
वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा ॥ ४८ ॥
11.49
सा तु पूर्णस्वरूपत्वादविभागमयी यतः ।
तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥ ४९ ॥
11.50
कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः ।
तत्र शक्तिपरिस्पन्दस्तावान् प्राक् च निरूपितः ॥ ५० ॥
11.51
संकलय्योच्यते सर्वमधुना सुखसंविदे ।
पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः ।
तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥ ५१ ॥
11.52
मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला ।
अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥ ५२ ॥
11.53
षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् ।
अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥ ५३ ॥
11.54
सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् ।
तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते ॥ ५४ ॥
11.55
तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः ।
तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥ ५५ ॥
11.56
शिवज्ञानक्रियायत्तमननत्राणतत्परा ।
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥ ५६ ॥
11.57
च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता ।
प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥ ५७ ॥
11.58
तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् ।
संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् ॥ ५८ ॥
11.59
विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् ।
अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥ ५९ ॥
11.60
प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥ ६० ॥
11.61
गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः ।
शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥ ६१ ॥
11.62
तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः ।
प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥ ६२ ॥
11.63
प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल ।
उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥ ६३ ॥
11.64
सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः ।
सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि ॥ ६४ ॥
11.65
आमृशन्तः स्वचिद्भूमौ तावतोऽर्थानभेदतः ।
वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥ ६५ ॥
11.66
बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः ।
तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् ॥ ६६ ॥
11.67
भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् ।
अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् ॥ ६७ ॥
11.68
संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् ।
अनया तु विना सर्वे संकेता बहुशः कृताः ॥ ६८ ॥
11.69
अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् ।
बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥ ६९ ॥
11.70
अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः ।
विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥ ७० ॥
11.71
तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः ।
संविद्विमर्शसचिवः सदैव स हि जृम्भते ॥ ७१ ॥
11.72
यत एव च मायीया वर्णाः सूतिं वितेनिरे ।
ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥ ७२ ॥
11.73
संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् ।
तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥ ७३ ॥
11.74
प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम् ।
शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥ ७४ ॥
11.75
स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता ।
यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥ ७५ ॥
11.76
वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् ।
यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥ ७६ ॥
11.77
तथा तथा चमत्कारतारतम्यं विभाव्यते ।
आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥ ७७ ॥
11.78
सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः ।
आद्योद्रेकमहत्त्वेऽपि प्रतिभात्मनि निष्ठिताः ॥ ७८ ॥
11.79
ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः ।
यावद्धामनि संकेतनिकारकलनोज्झिते ॥ ७९ ॥
11.80
विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा ।
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥ ८० ॥
11.81
सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी ।
तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥ ८१ ॥
11.82
तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् ।
एवं मामातृमानत्वमेयत्वैर्योऽवभासते ॥ ८२ ॥
11.83
षड्विधः स्ववपुःशुद्धौ शुद्धिं सोऽध्वाधिगच्छति ।
एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥ ८३ ॥
11.84
अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः ।
अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥ ८४ ॥
11.85
तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम् ।
शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥ ८५ ॥
11.86
तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् ।
तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥ ८६ ॥
11.87
अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः ।
सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥ ८७ ॥
11.88
अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल ।
ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता ॥ ८८ ॥
11.89
अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते ।
परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥ ८९ ॥
11.90
शोधकत्वं च मालिन्या देवीनां त्रितयस्य च ।
देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च ॥ ९० ॥
11.91
किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे ।
लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् ॥ ९१ ॥
11.92
यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या ।
सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने ॥ ९२ ॥
11.93
सर्वमेतद्विभात्येव परमेशितरि ध्रुवे ।
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ ९३ ॥
11.94
चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी ।
भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥ ९४ ॥
11.95
यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः ।
देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥ ९५ ॥
11.96
स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात् ।
विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा ॥ ९६ ॥
11.97
शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा ।
तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥ ९७ ॥
11.98
नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः ।
न स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥ ९८ ॥
11.99
नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् ।
अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥ ९९ ॥
11.100
एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि ।
एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ १०० ॥
11.101
सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा ।
स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥ १०१ ॥
11.102
चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः ।
अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥ १०२ ॥
11.103
एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः ।
अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥ १०३ ॥
11.104
परेहसंविदामात्रं परलोकेहलोकते ।
वस्तुतः संविदो देशः कालो वा नैव किंचन ॥ १०४ ॥
11.105
अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः ।
तदवेक्ष्यत तन्मध्यात् केनैकोऽपि धराधरः ॥ १०५ ॥
11.106
भूततन्मात्रवर्गादेराधाराधेयताक्रमे ।
अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥ १०६ ॥
11.107
तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः ।
ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥ १०७ ॥
11.108
सांकल्पिकं निराधारमपि नैव पतत्यधः ।
स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥ १०८ ॥
11.109
अस्या घनाहमित्यादिरूढिरेव धरादिता ।
यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥ १०९ ॥
11.110
मणाविन्द्रायुधे भास इव नीलादयः शिवे ।
परमार्थत एषां तु नोदयो न व्ययः क्वचित् ॥ ११० ॥
11.111
देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् ।
चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥ १११ ॥
11.112
जागराभिमते सार्धहस्तत्रितयगोचरे ।
प्रहरे च पृथक् स्वप्नाश्चित्रदिक्कालमानिनः ॥ ११२ ॥
11.113
अत एव क्षणं नाम न किंचिदपि मन्महे ।
क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥ ११३ ॥
11.114
तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे ।
ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः ॥ ११४ ॥
11.115
तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः ।
स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः ॥ ११५ ॥
11.116
तदित्थं परमेशानो विश्वरूपः प्रगीयते ।
न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ ११६ ॥
11.117
उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते ।
भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥ ११७ ॥
11.118
तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः ॥ ११८ ॥
Ahnika 12 – Devanagari
12.1
अथाध्वनोऽस्य प्रकृत उपयोगः प्रकाश्यते ॥ १ ॥ब्
12.2
इत्थमध्वा समस्तोऽयं यथा संविदि संस्थितः ।
तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो ॥ २ ॥
12.3
बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः ।
तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥ ३ ॥
12.4
आसंवित्तत्त्वमाबाह्यं योऽयमध्वा व्यवस्थितः ।
तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥ ४ ॥
12.5
सर्वं सर्वत्र रूपं च तस्यापि न न भासते ।
नह्यवच्छेदितां क्वापि स्वप्नेऽपि विषहामहे ॥ ५ ॥
12.6
एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् ।
देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥ ६ ॥
12.7
तथा विलोक्यमानोऽसौ विश्वान्तर्देवतामयः ।
ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥ ७ ॥
12.8
इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् ।
यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥ ८ ॥
12.9
तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् ।
तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥ ९ ॥
12.10
संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् ।
तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥ १० ॥
12.11
तत्रार्पितानां भावानां स्वकभेदविलापनम् ।
कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥ ११ ॥
12.12
तथैवंकुर्वतः सर्वं समभावेन पश्यतः ।
निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥ १२ ॥
12.13
तथार्चनजपध्यानहोमव्रतविधिक्रमात् ।
परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥ १३ ॥
12.14
अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ ।
द्रव्यौघे न विधिः कोऽपि न कापि प्रतिषिद्धता ॥ १४ ॥
12.15
कल्पनाशुद्धिसंध्यादेर्नोपयोगोऽत्र कश्चन ।
उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति ॥ १५ ॥
12.16
अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् ।
यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥ १६ ॥
12.17
तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः ।
लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥ १७ ॥
12.18
निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् ।
यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा ॥ १८ ॥
12.19
विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् ।
धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥ १९ ॥
12.20
वीरव्रतं चाभिनन्देदिति भर्गशिखावचः ।
तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥ २० ॥
12.21
संसारकारागारान्तः स्थूलस्थूणाघटायते ।
मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् ॥ २१ ॥
12.22
यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् ।
संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥ २२ ॥
12.23
न शङ्केत तथा शङ्का विलीयेतावहेलया ।
श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥ २३ ॥
12.24
शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः ।
शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥ २४ ॥
12.25
उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः ।
सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥ २५ ॥
12.26
अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः
।
Ahnika 13 – Devanagari
13.1
अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः
॥ १ ॥ब्
13.2
तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् ।
तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते ॥ २ ॥
13.3
तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् ।
विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् ॥ ३ ॥
13.4
सोऽव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम् ।
घटादिवत्कार्यमिति हेतुरेकोऽस्य सा निशा ॥ ४ ॥
13.5
सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि ।
कलादिधरणीप्रान्तं जाड्यात्सा सूतयेऽक्षमा ॥ ५ ॥
13.6
तेनेशः क्षोभयेदेनां क्षोभोऽस्याः सूतियोग्यता ।
पुंसः प्रति च सा भोग्यं सूतेऽनादीन् पृथग्विधान् ॥ ६ ॥
13.7
पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् ।
निमित्तं कर्मसंस्कारः स च तेषु न विद्यते ॥ ७ ॥
13.8
इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल ।
न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः ॥ ८ ॥
13.9
युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि ।
फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् ॥ ९ ॥
13.10
ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् ।
धर्माद्यदि कुतः सोऽपि कर्मतश्चेत्तदुच्यताम् ॥ १० ॥
13.11
नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते ।
कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् ॥ ११ ॥
13.12
अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् ।
ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् ॥ १२ ॥
13.13
तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः ।
नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि ॥ १३ ॥
13.14
अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् ।
अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि ॥ १४ ॥
13.15
उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् ।
निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल ॥ १५ ॥
13.16
अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् ।
प्रागभावोऽथवा ध्वंस आद्ये किं सर्वसंविदाम् ॥ १६ ॥
13.17
कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी ।
न किंचिद्यस्य विज्ञानमुदपादि तथाविधः ॥ १७ ॥
13.18
नाणुरस्ति भवे ह्यस्मिन्ननादौ कोऽन्वयं क्रमः ।
भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति ॥ १८ ॥
13.19
मुक्ताणोरपि सोऽस्त्येव जन्मतः प्रागसौ नच ।
ज्ञानं भावि विमुक्तेऽस्मिन्निति चेच्चर्च्यतामिदम् ॥ १९ ॥
13.20
कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः ।
तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोऽज्ञानहानितः ॥ २० ॥
13.21
अज्ञानस्य कथं हानिः प्रागभावे हि संविदः ।
अज्ञानं प्रागभावोऽसौ न भाव्युत्पत्त्यसंभवात् ॥ २१ ॥
13.22
कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः ।
इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः ॥ २२ ॥
13.23
अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् ।
मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् ॥ २३ ॥
13.24
अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् ।
तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् ॥ २४ ॥
13.25
वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् ।
तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते ॥ २५ ॥
13.26
अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् ।
मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् ॥ २६ ॥
13.27
प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने ।
देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः ॥ २७ ॥
13.28
उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा ।
क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा ॥ २८ ॥
13.29
अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् ।
यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन ॥ २९ ॥
13.30
विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः ।
अथ प्रलयकाले ऽपि चित्स्वभावत्वयोगतः ॥ ३० ॥
13.31
अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः ।
स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि ॥ ३१ ॥
13.32
यच्चादर्शनमाख्यातं निमित्तं परिणामिनि ।
प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः ॥ ३२ ॥
13.33
दर्शनाय पुमर्थैकयोग्यतासचिवं धियः ।
आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः ॥ ३३ ॥
13.34
बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः ।
प्रकाशनाद्धियोऽर्थेन सह भोगः स भण्यते ॥ ३४ ॥
13.35
बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोऽप्यसौ ।
मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि ॥ ३५ ॥
13.36
पुमर्थस्य कृतत्वेन सहकारिवियोगतः ।
तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि ॥ ३६ ॥
13.37
अत्र पुंसोऽथ मूलस्य धर्मोऽदर्शनता द्वयोः ।
अथवेति विकल्पोऽयमास्तामेतत्तु भण्यताम् ॥ ३७ ॥
13.38
भोगो विवेकपर्यन्त इति यत्तत्र कोऽवधिः ।
विवेकलाभे निखिलसूतिदृग्यदि सापि किम् ॥ ३८ ॥
13.39
सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः ।
उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः ॥ ३९ ॥
13.40
कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् ।
विवेकोऽनादिसंयोगात्का ह्यन्योन्यं विचित्रता ॥ ४० ॥
13.41
तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते ।
अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया ॥ ४१ ॥
13.42
युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते ।
भायाकर्माणुदेवेच्छासद्भावेऽपि स्थिते ततः ॥ ४२ ॥
13.43
न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् ।
तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् ॥ ४३ ॥
13.44
चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता ।
आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् ॥ ४४ ॥
13.45
भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु ।
तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा ॥ ४५ ॥
13.46
क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् ।
प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते ॥ ४६ ॥
13.47
उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति ।
तत एवैकतायां चान्यात्मसाधारणत्वतः ॥ ४७ ॥
13.48
न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः ।
न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् ॥ ४८ ॥
13.49
तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः ।
जडं मलं तदज्ञानं संसाराङ्कुरकारणम् ॥ ४९ ॥
13.50
तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः ।
तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे ॥ ५० ॥
13.51
समाविशेदयं सूर्यकान्तोऽर्केणेव चोदितः ।
रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् ॥ ५१ ॥
13.52
विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः ।
स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते ॥ ५२ ॥
13.53
अत्रोच्यते मलस्तावदित्थमेष न युज्यते ।
इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् ॥ ५३ ॥
13.54
मलस्य पाकः को ऽयं स्यान्नाशश्चेदितरात्मनाम् ।
स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते ॥ ५४ ॥
13.55
अथ प्रत्यात्मनियतोऽनादिश्च प्रागभाववत् ।
मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः ॥ ५५ ॥
13.56
हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् ।
ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् ॥ ५६ ॥
13.57
अहेतुकोऽस्य नाशश्चेत्प्रागेवैष विनश्यतु ।
क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा ॥ ५७ ॥
13.58
न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः ।
नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः ॥ ५८ ॥
13.59
अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता ।
सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् ॥ ५९ ॥
13.60
पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् ।
मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे ॥ ६० ॥
13.61
रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि ।
सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः ॥ ६१ ॥
13.62
संनिधानातिरिक्तं च न किंचित्कुरुते मलः ।
आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः ॥ ६२ ॥
13.63
ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः ।
तच्चेदावारितं हन्त रूपनाशः प्रसज्यते ॥ ६३ ॥
13.64
आवारणं चादृश्यत्वं न च तद्वस्तुनोऽन्यताम् ।
करोति घटवज्ज्ञानं नावरीतुं च शक्यते ॥ ६४ ॥
13.65
ज्ञानेनावरणीयेन तदेवावरणं कथम् ।
न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः ॥ ६५ ॥
13.66
रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः ।
यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् ॥ ६६ ॥
13.67
कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते ।
तस्यापि रूपं वक्तव्यं समता कर्मणां हि का ॥ ६७ ॥
13.68
भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति ।
विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् ॥ ६८ ॥
13.69
तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् ।
रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः ॥ ६९ ॥
13.70
नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः ।
तथैव देये स्वफले केयमन्योन्यरोद्धृता ॥ ७० ॥
13.71
रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् ।
देहो भोगदयोरेव निरोध इति चेन्ननु ॥ ७१ ॥
13.72
जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः ।
मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः ॥ ७२ ॥
13.73
शतशोऽपि ह्लादतापशून्यां संचिन्वते दशाम् ।
न च भक्तिरसावेशमिति भूम्ना विलोकितम् ॥ ७३ ॥
13.74
अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः ।
तथा करोति वक्तव्यं कालोऽसौ कीदृशस्त्विति ॥ ७४ ॥
13.75
किं चानादिरयं भोगः कर्मानादि सपुद्गलम् ।
ततश्च भोगपर्यायकालः सर्वस्य निःसमः ॥ ७५ ॥
13.76
आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् ।
वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् ॥ ७६ ॥
13.77
इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति ।
अनेन नयबीजेन मन्ये वैचित्र्यकारणम् ॥ ७७ ॥
13.78
जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते ।
अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना ॥ ७८ ॥
13.79
सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् ।
भोगलोलिकया चेत्सा विचित्रेति कुतो ननु ॥ ७९ ॥
13.80
अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः ।
वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः ॥ ८० ॥
13.81
महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ ।
ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते ॥ ८१ ॥
13.82
अथानादित्वमात्रेण युक्तिहीनेन साध्यते ।
व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना ॥ ८२ ॥
13.83
तथाहि कर्म तावन्नो यावन्माया न पुद्गले ।
व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः ॥ ८३ ॥
13.84
इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् ।
अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् ॥ ८४ ॥
13.85
ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु ।
सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते ॥ ८५ ॥
13.86
आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः ।
आत्माकारोऽपि कोऽप्येष भाविकाले तथा भवेत् ॥ ८६ ॥
13.87
इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः ।
अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् ॥ ८७ ॥
13.88
विरोधे स्वफले चैते कर्मणी समये क्वचित् ।
उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् ॥ ८८ ॥
13.89
शिवशक्तिनिपातस्य कोऽवकाशस्तु तावता ।
क्वापि काले तयोरेतदौदासीन्यं यदा ततः ॥ ८९ ॥
13.90
कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः ।
अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च ॥ ९० ॥
13.91
रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् ।
एवं सदैव वार्तायां देहपाते तथैव च ॥ ९१ ॥
13.92
जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना ।
अथोदासीनतत्कर्मद्वययोगक्षणान्तरे ॥ ९२ ॥
13.93
कर्मान्तरं फलं सूते तत्क्षणेऽपि तथा न किम् ।
क्षणान्तरेऽथ ते एव प्रतिबन्धविवर्जिते ॥ ९३ ॥
13.94
फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः ।
कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् ॥ ९४ ॥
13.95
न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् ।
तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः ॥ ९५ ॥
13.96
कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल ।
हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु ॥ ९६ ॥
13.97
एतेनान्येऽपि येऽपेक्ष्या ईशेच्छायां प्रकल्पिताः ।
ध्वस्तास्तेऽपि हि नित्यान्यहेत्वहेत्वादिदूषणात् ॥ ९७ ॥
13.98
वैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता ।
सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता ॥ ९८ ॥
13.99
आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् ।
शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् ॥ ९९ ॥
13.100
इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् ।
व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः ॥ १०० ॥
13.101
अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी ।
तस्मान्न मन्महे कोऽयं शक्तिपातविधेः क्रमः ॥ १०१ ॥
13.102
इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् ।
श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् ॥ १०२ ॥
13.103
देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः ।
रूपप्रच्छादनक्रीडायोगादणुरनेककः ॥ १०३ ॥
13.104
स स्वयं कल्पिताकारविकल्पात्मककर्मभिः ।
बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् ॥ १०४ ॥
13.105
स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः ।
स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः ॥ १०५ ॥
13.106
न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा ।
नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते ॥ १०६ ॥
13.107
देव एव तथासौ चेत् स्वरूपं चास्य तादृशम् ।
तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता ॥ १०७ ॥
13.108
आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः ।
पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥ १०८ ॥
13.109
प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् ।
छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् ॥ १०९ ॥
13.110
तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् ।
ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् ॥ ११० ॥
13.111
साभ्येति कर्ममलयोरतोऽनादिव्यवस्थितिः ।
तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् ॥ १११ ॥
13.112
प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः ।
विशुद्धस्वप्रकाशात्मशिवरूपतया विना ॥ ११२ ॥
13.113
न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः ।
इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते ॥ ११३ ॥
13.114
कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् ।
यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ॥ ११४ ॥
13.115
तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी ।
अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् ॥ ११५ ॥
13.116
व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् ।
तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ॥ ११६ ॥
13.117
स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः ।
कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः ॥ ११७ ॥
13.118
अनपेक्ष्य शिवे भक्तिः शक्तिपातोऽफलार्थिनाम् ।
या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते ॥ ११८ ॥
13.119
ततोऽत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा ।
भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् ॥ ११९ ॥
13.120
प्राग्भागेऽपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः ।
अनाभासितरूपोऽपि तदाभासितयेव यत् ॥ १२० ॥
13.121
स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोऽस्य तिरोभवः ।
श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत ॥ १२१ ॥
13.122
धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् ।
असन्देहं स्वमात्मानमवीच्यादिशिवान्तके ॥ १२२ ॥
13.123
तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् ।
स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति ॥ १२३ ॥
13.124
स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् ।
स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः ॥ १२४ ॥
13.125
स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः ।
वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् ॥ १२५ ॥
13.126
श्रीमन्निशाकुलेऽप्युक्तं मिथ्याभावितचेतसः ।
मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः ॥ १२६ ॥
13.127
स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये ।
व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् ॥ १२७ ॥
13.128
श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने ।
धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः ॥ १२८ ॥
13.129
तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः ।
तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ॥ १२९ ॥
13.130
ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ।
तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् ॥ १३० ॥
13.131
मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः ।
मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ॥ १३१ ॥
13.132
स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् ।
तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. ॥ १३२ ॥
13.133
प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः ।
तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् ॥ १३३ ॥
13.134
स शिष्टः कर्मकर्तृत्वाच्छिष्योऽन्यः कर्मभावतः ।
शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु ॥ १३४ ॥
13.135
उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः ।
यन्मूलं शासनं तेन न रिक्तः कोऽपि जन्तुकः ॥ १३५ ॥
13.136
तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते ।
युक्तिः शास्त्रं गुरुर्वादोऽभ्यास इत्याद्यपेक्षते ॥ १३६ ॥
13.137
कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् ।
कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः ॥ १३७ ॥
13.138
यथा यथा परापेक्षातानवं प्रातिभे भवेत् ।
तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः ॥ १३८ ॥
13.139
अन्यतः शिक्षितानन्तज्ञानोऽपि प्रतिभाबलात् ।
यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा ॥ १३९ ॥
13.140
न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् ।
न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः ॥ १४० ॥
13.141
आदिविद्वान्महादेवस्तेनैषोऽधिष्ठितो यतः ।
संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः ॥ १४१ ॥
13.142
देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने ।
दृढताकम्प्रताभेदैः सोऽपि स्वयमथ व्रतात् ॥ १४२ ॥
13.143
तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् ।
यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् ॥ १४३ ॥
13.144
इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् ।
अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः ॥ १४४ ॥
13.145
श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा ।
निरूपितं महेशेन कियद्वा लिख्यतामिदम् ॥ १४५ ॥
13.146
इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् ।
यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः ॥ १४६ ॥
13.147
अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः ।
सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः ॥ १४७ ॥
13.148
नियतेर्महिमा नैव फले साध्ये निवर्तते ।
अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः ॥ १४८ ॥
13.149
असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः ।
श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः ॥ १४९ ॥
13.150
तथाहि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः ।
सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते ॥ १५० ॥
13.151
तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् ।
एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ॥ १५१ ॥
13.152
दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता ।
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ॥ १५२ ॥
13.153
स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ।
अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥ १५३ ॥
13.154
इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् ।
ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् ॥ १५४ ॥
13.155
ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् ।
इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति ॥ १५५ ॥
13.156
गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा ।
प्रतिभा परमेवैषा सर्वकामदुघा यतः ॥ १५६ ॥
13.157
उपाययोगक्रमतो निरुपायमथाक्रमम् ।
यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् ॥ १५७ ॥
13.158
यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः ।
उक्तोऽनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः ॥ १५८ ॥
13.159
स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने ।
प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् ॥ १५९ ॥
13.160
ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् ।
योऽभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः ॥ १६० ॥
13.161
परोपजीविताबुद्ध्या सर्व इत्थं न भासते ।
तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः ॥ १६१ ॥
13.162
स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते ।
किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः ॥ १६२ ॥
13.163
ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे ।
श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् ॥ १६३ ॥
13.164
प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते ।
अनिर्देश्यः शिवस्तत्र कोऽभ्युपायो निरूप्यताम् ॥ १६४ ॥
13.165
इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम् ।
उपायोऽत्र विवेकैकः स हि हेयं विहापयन् ॥ १६५ ॥
13.166
ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् ।
यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् ॥ १६६ ॥
13.167
परशक्तिनिपातेन ध्वस्तमायामलः पुमान् ।
ननु प्राग्दीक्षया मोक्षोऽधुना तु प्रातिभात्कथम् ॥ १६७ ॥
13.168
इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः ।
दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये ॥ १६८ ॥
13.169
गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे ।
प्रातिभोऽस्य स्वभावस्तु केवलीभावसिद्धिदः ॥ १६९ ॥
13.170
केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु ।
नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया ॥ १७० ॥
13.171
ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् ।
शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः ॥ १७१ ॥
13.172
पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् ।
कथं विवेकः किं वास्य देवदेव विविच्यते ॥ १७२ ॥
13.173
इत्युक्ते परमेशान्या जगादादिगुरुः शिवः ।
शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः ॥ १७३ ॥
13.174
अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् ।
दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि ॥ १७४ ॥
13.175
विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् ।
भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् ॥ १७५ ॥
13.176
बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा ।
योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् ॥ १७६ ॥
13.177
विवेकोऽतीन्द्रियस्त्वेष यदायाति विवेचनम् ।
पशुपाशपतिज्ञानं स्वयं निर्भासते तदा ॥ १७७ ॥
13.178
प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् ।
वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने ॥ १७८ ॥
13.179
तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा ।
प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे ॥ १७९ ॥
13.180
दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता ।
सर्वभावविवेकात्तु सर्वभावपराङ्मुखः ॥ १८० ॥
13.181
क्रीडासु सुविरक्तात्मा शिवभावैकभावितः ।
माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते ॥ १८१ ॥
13.182
स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् ।
हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् ॥ १८२ ॥
13.183
सिद्धिजालं हि कथितं परप्रत्ययकारणम् ।
इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् ॥ १८३ ॥
13.184
परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते ।
एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् ॥ १८४ ॥
13.185
शापानुग्रहकार्येषु तथाभ्यासेन शक्तया ।
तेषूदासीनतायां तु मुच्यते मोचयेत्परान् ॥ १८५ ॥
13.186
भूतेन्द्रियादियोगेन बद्धोऽणुः संसरेद्ध्रुवम् ।
स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते ॥ १८६ ॥
13.187
तत्पातावेशतो मुक्तः शिव एव भवार्णवात् ।
नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् ॥ १८७ ॥
13.188
विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् ।
इति पृष्टोऽभ्यधात्स्वान्तधियोर्जाड्यैकवासनात् ॥ १८८ ॥
13.189
अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः ।
संस्कारः सर्वभावानां परता परिकीर्तिता ॥ १८९ ॥
13.190
मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे ।
विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते ॥ १९० ॥
13.191
न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये ।
परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते ॥ १९१ ॥
13.192
विवेकः सर्वभावानां शुद्धभावान्महाशयः ।
बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् ॥ १९२ ॥
13.193
अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् ।
ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे ॥ १९३ ॥
13.194
ऊचेऽज्ञाना हि दीक्षायां बालवालिशयोषितः ।
पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे ॥ १९४ ॥
13.195
तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि ।
दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् ॥ १९५ ॥
13.196
इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः ।
तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति ॥ १९६ ॥
13.197
श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा ।
ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् ॥ १९७ ॥
13.198
मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा ।
शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति ॥ १९८ ॥
13.199
एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते ।
एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥ १९९ ॥
13.200
शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा ।
तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ॥ २०० ॥
13.201
इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः ।
अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते ॥ २०१ ॥
13.202
रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया ।
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ २०२ ॥
13.203
तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् ।
तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् ॥ २०३ ॥
13.204
अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका ।
स्वं रूपं प्रति या सैव कोऽपि काल इहोदितः ॥ २०४ ॥
13.205
योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते ।
पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् ॥ २०५ ॥
13.206
तथाभासनमुज्झित्वा न हि कालोऽस्ति कश्चन ।
स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् ॥ २०६ ॥
13.207
नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता ।
ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता ।
सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् ॥ २०७ ॥
13.208
क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः ॥ २०८ ॥
13.209
तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् ।
त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः ॥ २०९ ॥
13.210
तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः ।
देहपातो भवेदस्य यद्वा काष्ठादितुल्यता ॥ २१० ॥
13.211
समस्तव्यवहारेषु पराचीनितचेतनः ।
तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति ॥ २११ ॥
13.212
एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् ।
ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् ॥ २१२ ॥
13.213
अज्ञानरूपता पुंसि बोधः संकोचिते हृदि ।
संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते ॥ २१३ ॥
13.214
रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते ।
चिह्नवर्गो य उक्तोऽत्र रुद्रे भक्तिः सुनिश्चला ॥ २१४ ॥
13.215
मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः ।
कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् ॥ २१५ ॥
13.216
स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता ।
तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः ॥ २१६ ॥
13.217
स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः ।
अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति ॥ २१७ ॥
13.218
मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते ।
शिवेच्छावशयोगेन सद्गुरुं प्रति सोऽपि च ॥ २१८ ॥
13.219
अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना ।
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥ २१९ ॥
13.220
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ।
दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा ॥ २२० ॥
13.221
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ।
ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ॥ २२१ ॥
13.222
ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् ।
किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः ॥ २२२ ॥
13.223
प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत् ।
एवं जिगमिषायोगादाचार्यः प्राप्यते स च ॥ २२३ ॥
13.224
तारतम्यादियोगेन संसिद्धः संस्कृतोऽपि च ।
प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः ॥ २२४ ॥
13.225
इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः ।
तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् ॥ २२५ ॥
13.226
ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः ।
जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते ॥ २२६ ॥
13.227
देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा ।
अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् ॥ २२७ ॥
13.228
शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः ।
मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः ॥ २२८ ॥
13.229
क्रियया वान्तराकाररूपप्राणप्रवेशतः ।
तदा च देहसंस्थोऽपि स मुक्त इति भण्यते ॥ २२९ ॥
13.230
उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः ।
यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् ॥ २३० ॥
13.231
तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ।
प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते ॥ २३१ ॥
13.232
न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् ।
अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा ॥ २३२ ॥
13.233
कर्मणा तेन बाध्यन्ते ज्ञानिनोऽपि कलेवरे ।
जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः ॥ २३३ ॥
13.234
उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः ।
अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः ॥ २३४ ॥
13.235
हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः ।
सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् ॥ २३५ ॥
13.236
तत्र त्वेषोऽस्ति नियम आसन्ने मरणक्षणे ।
तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति ॥ २३६ ॥
13.237
उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः ।
प्राणैर्वियोजितोऽप्येष भुङ्क्ते शेषफलं यतः ॥ २३७ ॥
13.238
तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् ।
कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते ॥ २३८ ॥
13.239
तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् ।
विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा ॥ २३९ ॥
13.240
एकस्त्रिकोऽयं निर्णीतः शक्तिपातेऽप्यथापरः ।
तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् ॥ २४० ॥
13.241
स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् ।
उक्तं च निशिसंचारयोगसंचारशास्त्रयोः ॥ २४१ ॥
13.242
विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् ।
मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोऽपि सन् ॥ २४२ ॥
13.243
बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः ।
मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः ॥ २४३ ॥
13.244
देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् ।
तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता ॥ २४४ ॥
13.245
बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः ।
तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता ॥ २४५ ॥
13.246
क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् ।
अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् ॥ २४६ ॥
13.247
कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् ।
यदा प्रतिभयाविष्टोऽप्येष संवादयोजनाम् ॥ २४७ ॥
13.248
इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् ।
न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् ॥ २४८ ॥
13.249
इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् ।
रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति ॥ २४९ ॥
13.250
तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः ।
दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् ॥ २५० ॥
13.251
उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना ।
अभिलाषः शिवे देवे पशूनां भवते तदा ॥ २५१ ॥
13.252
यदा शैवाभिमानेन युक्ता वै परमाणवः ।
तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः ॥ २५२ ॥
13.253
प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते ।
तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः ॥ २५३ ॥
13.254
नवधा शक्तिपातोऽयं शंभुनाथेन वर्णितः ।
इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः ॥ २५४ ॥
13.255
प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः ।
तथाविधोऽपि भोगांशावच्छेदेनोपलक्षितः ॥ २५५ ॥
13.256
अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः ।
उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः ॥ २५६ ॥
13.257
नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः ।
तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः ॥ २५७ ॥
13.258
स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् ।
ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः ॥ २५८ ॥
13.259
शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः ।
ननु पूजाजपध्यानशंकरासेवनादिभिः ॥ २५९ ॥
13.260
ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः ।
मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु ॥ २६० ॥
13.261
प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् ।
कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् ॥ २६१ ॥
13.262
ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता ।
जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् ॥ २६२ ॥
13.263
कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् ।
तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः ॥ २६३ ॥
13.264
तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् ।
चित्राकारप्रकाशोऽयं स्वतन्त्रः परमेश्वरः ॥ २६४ ॥
13.265
स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेऽस्य भोक्तृताम् ।
पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् ॥ २६५ ॥
13.266
उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् ॥ २६६ ॥
13.267
ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका ।
अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते ॥ २६७ ॥
13.268
सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया ।
विष्ण्वादिरूपता देवे या काचित्सा निजात्मना ॥ २६८ ॥
13.269
भेदयोगवशान्मायापदमध्यव्यवस्थिता ।
तेन तद्रूपतायोगाच्छक्तिपातः स्थितोऽपि सन् ॥ २६९ ॥
13.270
तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु ।
यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन ॥ २७० ॥
13.271
ईशशक्तिसमावेशात्तथा विष्ण्वादयोऽप्यलम् ।
मायागर्भाधिकारीयशक्तिपातवशात्ततः ॥ २७१ ॥
13.272
कोऽपि प्रधानपुरुषविवेकी प्रकृतेर्गतः ।
उत्कृष्टात्तत एवाशु कोऽपि बुद्धा विवेकिताम् ॥ २७२ ॥
13.273
क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः ।
कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् ॥ २७३ ॥
13.274
ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः ।
स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् ॥ २७४ ॥
13.275
मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् ।
विज्ञानाकलतां प्राप्तः केवलादधिकारतः ॥ २७५ ॥
13.276
मलान्मन्त्रतदीशादिभावमेति सदा शिवात् ।
पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् ॥ २७६ ॥
13.277
अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः ।
नान्येन शिवभावो हि केनचित्संप्रकाशते ॥ २७७ ॥
13.278
स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् ।
त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे ॥ २७८ ॥
13.279
शिवज्ञानं केवलं च शिवतापत्तिदायकम् ।
शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते ॥ २७९ ॥
13.280
अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम् ।
तेनेह वैष्णवादीनां नाधिकारः कथंचन ॥ २८० ॥
13.281
ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः ।
स्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः ॥ २८१ ॥
13.282
द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया ।
दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते ॥ २८२ ॥
13.283
द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः ।
इत्थं श्रीशक्तिपातोऽयं निरपेक्ष इहोदितः ॥ २८३ ॥
13.284
अनयैव दिशा नेयं मतङ्गकिरणादिकम् ।
ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् ॥ २८४ ॥
13.285
पुराणेऽपि च तस्यैव प्रसादाद्भक्तिरिष्यते ।
यया यान्ति परां सिद्धिं तद्भावगतमानसाः ॥ २८५ ॥
13.286
एवकारेण कर्मादिसापेक्षत्वं निषिध्यते ।
प्रसादो निर्मलीभावस्तेन संपूर्णरूपता ॥ २८६ ॥
13.287
आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते ।
शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् ॥ २८७ ॥
13.288
वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् ।
शिवो भवति तत्रैष कारणं न तु केवलः ॥ २८८ ॥
13.289
निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः ।
यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् ॥ २८९ ॥
13.290
श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः ।
शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ॥ २९० ॥
13.291
अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ।
कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् ॥ २९१ ॥
13.292
दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः ।
अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥ २९२ ॥
13.293
व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः ।
श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः ॥ २९३ ॥
13.294
व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता ।
स्थावरान्तेऽपि देवस्य स्वरूपोन्मीलनात्मिका ॥ २९४ ॥
13.295
शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् ।
एवं विचित्रेऽप्येतस्मिञ्छक्तिपाते स्थिते सति ॥ २९५ ॥
13.296
तारतम्यादिभिर्भेदैः समय्यादिविचित्रता ।
कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः ॥ २९६ ॥
13.297
शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते ।
कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् ॥ २९७ ॥
13.298
भोगव्यवधिना कोऽपि साधकश्चिरशीघ्रतः ।
कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि ॥ २९८ ॥
13.299
रूपे स्थितो गुरुः सोऽपि भोगमोक्षादिभेदभाक् ।
समय्यादिचतुष्कस्य समासव्यासयोगतः ॥ २९९ ॥
13.300
क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता ।
क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः ॥ ३०० ॥
13.301
दक्षे मते कुले कौले षडर्धे हृदये ततः ।
उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा ॥ ३०१ ॥
13.302
उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः ।
गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः ॥ ३०२ ॥
13.303
ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः ।
शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु ॥ ३०३ ॥
13.304
वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् ।
तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति ॥ ३०४ ॥
13.305
शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये ।
सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले ॥ ३०५ ॥
13.306
कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः ।
भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता ॥ ३०६ ॥
13.307
स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना ।
अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः ॥ ३०७ ॥
13.308
समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः ।
स च शक्तिवशादित्थं वैष्णवादिषु कोऽन्वयः ॥ ३०८ ॥
13.309
छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् ।
प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् ॥ ३०९ ॥
13.310
फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः ।
ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् ॥ ३१० ॥
13.311
तिरोभावप्रकारोऽयं यत्तादृशि नियोजितः ।
गुरौ शिवेन तद्भक्तिः शक्तिपातोऽस्य नोच्यते ॥ ३११ ॥
13.312
यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् ।
विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् ॥ ३१२ ॥
13.313
तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः ।
यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः ॥ ३१३ ॥
13.314
वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः ।
स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम् ॥ ३१४ ॥
13.315
नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः ।
शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् ॥ ३१५ ॥
13.316
कथङ्कारं पतिपदं प्रयातु परतन्त्रितः ।
स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः ॥ ३१६ ॥
13.317
भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।
वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने ॥ ३१७ ॥
13.318
ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् ।
स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ ॥ ३१८ ॥
13.319
प्रत्यवायं यतोऽभ्येति चरेत्तन्नेदृशं क्रमम् ।
उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् ॥ ३१९ ॥
13.320
नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते ।
तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते ॥ ३२० ॥
13.321
कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु ।
अवच्छिन्नोऽनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः ॥ ३२१ ॥
13.322
सर्वंसहस्ततोऽधःस्थ ऊर्ध्वस्थोऽधिकृतो गुरुः ।
स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः ॥ ३२२ ॥
13.323
सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः ।
अधःस्थदृक्स्थोऽप्येतादृग्गुरुसेवी भवेत्स यः ॥ ३२३ ॥
13.324
तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् ।
तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके ॥ ३२४ ॥
13.325
उत्तरोत्तरविज्ञाने नाधिकार्यधरोऽधरः ।
उत्तरोत्तरमाचार्यं विदन्नप्यधरोऽधरः ॥ ३२५ ॥
13.326
कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् ।
शक्तिपातबलादेव ज्ञानयोग्यविचित्रता ॥ ३२६ ॥
13.327
श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च ।
ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् ॥ ३२७ ॥
13.328
तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकलेऽकले ।
कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् ॥ ३२८ ॥
13.329
योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे ।
सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः ॥ ३२९ ॥
13.330
अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा ।
विमोचनायां नोपायः स्थितापि धनदारवत् ॥ ३३० ॥
13.331
यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः ।
साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् ॥ ३३१ ॥
13.332
तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते ।
यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः ॥ ३३२ ॥
13.333
तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् ।
विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते ॥ ३३३ ॥
13.334
मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् ।
अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् ॥ ३३४ ॥
13.335
आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ ३३५ ॥
13.336
शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् ।
नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् ॥ ३३६ ॥
13.337
उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः ।
अधमे यः पदे तस्मात्कोऽन्यः स्याद्दैवदग्धकः ॥ ३३७ ॥
13.338
यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च ।
स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् ॥ ३३८ ॥
13.339
तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् ।
भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः ॥ ३३९ ॥
13.340
फलदानाक्षमे योगिन्यपायैकोपदेशिनि ।
वरं ज्ञानी योऽभ्युपायं दिशेदपिच मोचयेत् ॥ ३४० ॥
13.341
ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् ।
ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् ॥ ३४१ ॥
13.342
तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः ।
धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् ॥ ३४२ ॥
13.343
नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् ।
कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् ॥ ३४३ ॥
13.344
आ तपनान्मोटकान्तं यस्य मेऽस्ति गुरुक्रमः ।
तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ॥ ३४४ ॥
13.345
श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत ।
अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् ॥ ३४५ ॥
13.346
तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि ।
लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः ॥ ३४६ ॥
13.347
संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् ।
श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः ॥ ३४७ ॥
13.348
प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः ।
क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः ॥ ३४८ ॥
13.349
तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन ।
गुर्वन्तररते मूढे आगमान्तरसेवके ॥ ३४९ ॥
13.350
प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् ।
यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुरुच्यते ॥ ३५० ॥
13.351
तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते ।
यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् ॥ ३५१ ॥
13.352
स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति ।
तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् ॥ ३५२ ॥
13.353
अधराधरमाचार्यं विनाशमधिगच्छति ।
एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः ॥ ३५३ ॥
13.354
मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते ।
उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः ॥ ३५४ ॥
13.355
जुगुप्सते तत्तस्मिंश्च विफलेऽन्यत्समाश्रयेत् ।
दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु ॥ ३५५ ॥
13.356
यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् ।
जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः ॥ ३५६ ॥
13.357
अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते ।
शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः ॥ ३५७ ॥
13.358
अतश्चाप्युत्तमं शैवं योऽन्यत्र पतितः सहि ।
इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् ॥ ३५८ ॥
13.359
अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे ।
न शासने समाम्नातं लिङ्गोद्धारादि किंचन ॥ ३५९ ॥
13.360
इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः ।
कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः ॥ ३६० ॥
13.361
तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् ।
दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् ॥ ३६१ ॥
13.362
इत्येष युक्त्यागमतः शक्तिपातो विवेचितः ।
Ahnika 14 – Devanagari
14.1
तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् ।
स्वभावात् परमेशानो नियत्यनियतिक्रमम् ॥ १ ॥
14.2
स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते ।
नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥ २ ॥
14.3
सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन् ।
महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥ ३ ॥
14.4
एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः ।
अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥ ४ ॥
14.5
नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत् ।
नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥ ५ ॥
14.6
भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः ।
त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥ ६ ॥
14.7
बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः ।
यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धोऽप्यबुद्धवत् ॥ ७ ॥
14.8
आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते ।
यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् ॥ ८ ॥
14.9
हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् ।
श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥ ९ ॥
14.10
ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् ।
नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥ १० ॥
14.11
ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि न सम्यक ।
प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥ ११ ॥
14.12
यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् ।
नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥ १२ ॥
14.13
ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका ।
द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥ १३ ॥
14.14
न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः ।
किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥ १४ ॥
14.15
तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा ।
अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥ १५ ॥
14.16
तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः ।
दुःखस्यापि विभेदोऽस्ति चिरशैघ्र्यकृतस्तथा ॥ १६ ॥
14.17
कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् ।
तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च ॥ १७ ॥
14.18
अन्योऽपि च तिरोभावः समयोल्लङ्घनात्मकः ।
यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥ १८ ॥
14.19
समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ।
तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥ १९ ॥
14.20
स्वातन्त्र्याच्च महेशस्य तिरोभूतोऽप्यसौ स्वयम् ।
परद्वारेण वाभ्येति भूयोऽनुग्रहमप्यलम् ॥ २० ॥
14.21
भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति ।
अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥ २१ ॥
14.22
तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् ।
आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥ २२ ॥
14.23
तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् ।
तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम् ॥ २३ ॥
14.24
इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः ।
इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥ २४ ॥
14.25
पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः ।
योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः ॥ २५ ॥
14.26
ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन ।
सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम् ॥ २६ ॥
14.27
ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते ।
कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः ॥ २७ ॥
14.28
इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना ।
शिवोऽहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति ॥ २८ ॥
14.29
ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् ।
शिवो वा परमेशानो देहादिरथ निर्मितः ॥ २९ ॥
14.30
शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया ।
कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥ ३० ॥
14.31
उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले ।
पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥ ३१ ॥
14.32
कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे ।
सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥ ३२ ॥
14.33
प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता ।
यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥ ३३ ॥
14.34
अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् ।
उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते ॥ ३४ ॥
14.35
निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः ।
यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥ ३५ ॥
14.36
आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना ।
तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥ ३६ ॥
14.37
श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् ।
मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥ ३७ ॥
14.38
जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः ।
भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥ ३८ ॥
14.39
स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल ।
भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥ ३९ ॥
14.40
योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः ।
हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥ ४० ॥
14.41
उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् ।
सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥ ४१ ॥
14.42
इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् ।
एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥ ४२ ॥
14.43
यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी ।
उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा ॥ ४३ ॥
14.44
व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः ।
विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥ ४४ ॥
14.45
बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः ।
अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः ॥ ४५ ॥
14.46
संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः ।
स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥ ४६ ॥
14.47
इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसंमतः ।
Ahnika 15 – Devanagari
15.1
अथैतदुपयोगाय यागस्तावन्निरूप्यते ।
तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् ॥ १ ॥
15.2
स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते ।
यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः ॥ २ ॥
15.3
सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः ।
योग्यतावशतो यत्र वासना यस्य तत्र सः ॥ ३ ॥
15.4
योज्यो न च्यवते तस्मादिति श्रीमालिनीमते ।
वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥ ४ ॥
15.5
न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।
न च योगाधिकारित्वमेकमेवानया भवेत् ॥ ५ ॥
15.6
अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया ।
इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥ ६ ॥
15.7
दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते ।
पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥ ७ ॥
15.8
येषामध्यवसायोऽस्ति न विद्यां प्रत्यशक्तितः ।
सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥ ८ ॥
15.9
इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता ।
सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥ ९ ॥
15.10
उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः ।
हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥ १० ॥
15.11
तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः ।
ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥ ११ ॥
15.12
ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः ।
अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥ १२ ॥
15.13
यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः ।
स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥ १३ ॥
15.14
यस्य त्वीशप्रसादेन दिव्या काचन योग्यता ।
गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥ १४ ॥
15.15
ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् ।
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ १५ ॥
15.16
इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः ।
स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥ १६ ॥
15.17
आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् ।
इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥ १७ ॥
15.18
ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे ।
दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥ १८ ॥
15.19
तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः ।
उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥ १९ ॥
15.20
स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् ।
परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥ २० ॥
15.21
उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् ।
फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥ २१ ॥
15.22
वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता ।
मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥ २२ ॥
15.23
वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् ।
साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥ २३ ॥
15.24
लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः ।
द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥ २४ ॥
15.25
बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः ।
अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥ २५ ॥
15.26
विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका ।
दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥ २६ ॥
15.27
अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् ।
मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् ॥ २७ ॥
15.28
साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् ।
शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥ २८ ॥
15.29
अधर्मरूपिणामेव न शुभानां तु शोधनम् ।
लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥ २९ ॥
15.30
प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम् ।
भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले ॥ ३० ॥
15.31
समयाचारपाशं तु निर्बीजायां विशोधयेत् ।
दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥ ३१ ॥
15.32
सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते ।
अतीतानागतारब्धपाशत्रयवियोजिका ॥ ३२ ॥
15.33
दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् ।
देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥ ३३ ॥
15.34
समयाचारपाशं तु दीक्षितः पालयेत्सदा ।
एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् ॥ ३४ ॥
15.35
उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् ।
आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः ॥ ३५ ॥
15.36
अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता ।
स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥ ३६ ॥
15.37
अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः ।
भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥ ३७ ॥
15.38
दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते ।
तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥ ३८ ॥
15.39
स एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः ।
शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥ ३९ ॥
15.40
क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः ।
बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥ ४० ॥
15.41
संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः ।
शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥ ४१ ॥
15.42
शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः ।
शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥ ४२ ॥
15.43
हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः ।
नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥ ४३ ॥
15.44
सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते ।
श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥ ४४ ॥
15.45
श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः ।
किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥ ४५ ॥
15.46
तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् ।
अयत्नतोऽन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः ॥ ४६ ॥
15.47
स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते ।
तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम् ॥ ४७ ॥
15.48
तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम् ।
गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥ ४८ ॥
15.49
अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः ।
जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥ ४९ ॥
15.50
निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः ।
उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥ ५० ॥
15.51
सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् ।
देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥ ५१ ॥
15.52
सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः ।
ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥ ५२ ॥
15.53
आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् ।
अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥ ५३ ॥
15.54
कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् ।
भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥ ५४ ॥
15.55
हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् ।
तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥ ५५ ॥
15.56
गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् ।
गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥ ५६ ॥
15.57
अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः ।
स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥ ५७ ॥
15.58
यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् ।
स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् ॥ ५८ ॥
15.59
एवं सोमार्कतेजःसु शिवभावेन भावनात् ।
निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते ॥ ५९ ॥
15.60
आत्मैव परमेशानो निराचारमहाह्रदः ।
विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥ ६० ॥
15.61
इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् ।
सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥ ६१ ॥
15.62
घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः ।
अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः ॥ ६२ ॥
15.63
एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः ।
स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥ ६३ ॥
15.64
अनेन विधिनार्चायां कन्दाधारादियोजनाम् ।
कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥ ६४ ॥
15.65
तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः ।
आप्ये आप्या यावदमी शिवे शिवमया इति ॥ ६५ ॥
15.66
श्रीनिर्मर्यादशास्त्रेऽपि तदित्थं सुनिरूपितम् ।
धरादेश्च विशेषोऽस्ति वीरसाधकसंमतः ॥ ६६ ॥
15.67
रणरेणुर्वीरजलं वीरभस्म महामरुत् ।
श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥ ६७ ॥
15.68
आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः ।
स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् ॥ ६८ ॥
15.69
श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना ।
सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥ ६९ ॥
15.70
कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् ।
कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् ॥ ७० ॥
15.71
मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् ।
तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥ ७१ ॥
15.72
देवतातर्पणं देहप्राणोभयपथाश्रितम् ।
सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥ ७२ ॥
15.73
मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् ।
यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥ ७३ ॥
15.74
शिवशक्त्योर्न भेदोऽस्ति शक्त्युत्थास्तु मरीचयः ।
तासामानन्दजनकं मद्यं शिवमयं ततः ॥ ७४ ॥
15.75
प्रबुद्धे संविदः पूर्णे रूपेऽधिकृतिभाजनम् ।
मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥ ७५ ॥
15.76
युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् ।
अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता ॥ ७६ ॥
15.77
आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः ।
यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥ ७७ ॥
15.78
मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः ।
एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशोऽपिवा ॥ ७८ ॥
15.79
इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ ।
स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥ ७९ ॥
15.80
भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः ।
पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥ ८० ॥
15.81
तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये ।
आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥ ८१ ॥
15.82
साधकानामुपायः स्यात्सिद्धये नतु मुक्तये ।
पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥ ८२ ॥
15.83
तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् ।
यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥ ८३ ॥
15.84
तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् ।
अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥ ८४ ॥
15.85
नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः ।
पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥ ८५ ॥
15.86
ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् ।
शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् ॥ ८६ ॥
15.87
देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः ।
लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥ ८७ ॥
15.88
पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः ।
नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥ ८८ ॥
15.89
क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् ।
प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥ ८९ ॥
15.90
वाराणसी च कालिङ्गं कुलूता लाहुला तथा ।
उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् ॥ ९० ॥
15.91
विरजैरुडिका हाला एला पूः क्षीरिका पुरी ।
मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥ ९१ ॥
15.92
हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता ।
जालन्धरं च नैपालं कश्मीरा गर्गिका हरः ॥ ९२ ॥
15.93
म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् ।
द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥ ९३ ॥
15.94
चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते ।
नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥ ९४ ॥
15.95
भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् ।
नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ॥ ९५ ॥
15.96
पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च ।
किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥ ९६ ॥
15.97
ततो देहस्थितं तस्माद्देहायतनगो भवेत् ।
बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥ ९७ ॥
15.98
देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते ।
यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥ ९८ ॥
15.99
तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् ।
यथाचातन्मयोऽप्येति पापितां तैः समागमात् ॥ ९९ ॥
15.100
तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम् ।
मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः ॥ १०० ॥
15.101
विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः ।
इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् ॥ १०१ ॥
15.102
स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः ।
श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥ १०२ ॥
15.103
सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च ।
इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥ १०३ ॥
15.104
तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः ।
मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥ १०४ ॥
15.105
देशोपाया न सा यस्मात्सा हि भावप्रसादतः ।
उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥ १०५ ॥
15.106
स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् ।
मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥ १०६ ॥
15.107
गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् ।
यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥ १०७ ॥
15.108
तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति ।
नान्यत्रगत्या मोक्षोऽस्ति सोऽज्ञानग्रन्थिकर्तनात् ॥ १०८ ॥
15.109
तच्च संविद्विकासेन श्रीमद्वीरावलीपदे ।
गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥ १०९ ॥
15.110
हेतुरित्युभयत्रापि यागौको यन्मनोरमम् ।
नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥ ११० ॥
15.111
सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् ।
विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥ १११ ॥
15.112
साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते ।
उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति ॥ ११२ ॥
15.113
क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति ।
तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥ ११३ ॥
15.114
इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् ।
तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥ ११४ ॥
15.115
तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् ।
यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥ ११५ ॥
15.116
न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये ।
मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥ ११६ ॥
15.117
सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः ।
ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥ ११७ ॥
15.118
द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश ।
दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥ ११८ ॥
15.119
वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् ।
पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥ ११९ ॥
15.120
त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् ।
इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥ १२० ॥
15.121
न शिखा ऋ ॠ ऌ ऌऌ च शिरोमाला थ मस्तकम् ।
नेत्राणि चोर्ध्वे धोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती ॥ १२१ ॥
15.122
बकवर्ग+इ+आ वक्त्रदन्तजिह्वागिरि क्रमात् ।
वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥ १२२ ॥
15.123
ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके ।
प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् ॥ १२३ ॥
15.124
प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ ।
मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥ १२४ ॥
15.125
एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ ।
इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥ १२५ ॥
15.126
कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः ।
अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥ १२६ ॥
15.127
कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् ।
योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥ १२७ ॥
15.128
तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः ।
फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम् ॥ १२८ ॥
15.129
संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् ।
अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥ १२९ ॥
15.130
भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी ।
शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥ १३० ॥
15.131
सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता ।
मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥ १३१ ॥
15.132
फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी ।
संहारदानादानादिशक्तियुक्ता यतो रलौ ॥ १३२ ॥
15.133
एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् ।
शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् ॥ १३३ ॥
15.134
एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता ।
तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥ १३४ ॥
15.135
मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः ।
उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते ॥ १३५ ॥
15.136
न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् ।
विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥ १३६ ॥
15.137
यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत ।
साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् ॥ १३७ ॥
15.138
मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये ।
तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥ १३८ ॥
15.139
न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये ।
इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥ १३९ ॥
15.140
सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः ।
अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥ १४० ॥
15.141
वाचकौ न्यास एताभ्यां कृते न्यासेऽथवैककः ।
एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥ १४१ ॥
15.142
सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् ।
अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥ १४२ ॥
15.143
क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् ।
अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥ १४३ ॥
15.144
यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् ।
संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् ॥ १४४ ॥
15.145
मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् ।
शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥ १४५ ॥
15.146
एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् ।
उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः ॥ १४६ ॥
15.147
यतः समस्तभावानां शिवात्सिद्धिमयादथो ।
पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥ १४७ ॥
15.148
समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् ।
पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥ १४८ ॥
15.149
यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः ।
अश्वः संग्रामरूढोऽपि तां शिक्षां नातिवर्तते ॥ १४९ ॥
15.150
तथार्चनक्रियाभ्यासशिवीभावितकारकः ।
गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥ १५० ॥
15.151
तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् ।
संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥ १५१ ॥
15.152
उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः ।
अहो स्वादुरसः कोऽपि शिवपूजामयोत्सवः ॥ १५२ ॥
15.153
षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ।
तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम् ॥ १५३ ॥
15.154
कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् ।
विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥ १५४ ॥
15.155
इत्थमैक्यसमापत्तिदानात्परफलप्रदा ।
साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥ १५५ ॥
15.156
विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् ।
उक्तं च परमेशेन न विधिर्नार्चनक्रमः ॥ १५६ ॥
15.157
केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु ।
तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥ १५७ ॥
15.158
समस्तकारकैकात्म्यं तेनास्याः परमं वपुः ।
यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥ १५८ ॥
15.159
यष्टृयाज्यतदाधारकरणादानसंप्रदाः ।
न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥ १५९ ॥
15.160
अर्घपात्रमपादानं तस्मादादीयते यतः ।
यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने ॥ १६० ॥
15.161
अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति ।
शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥ १६१ ॥
15.162
ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः ।
न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥ १६२ ॥
15.163
तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि ।
अशुद्धता च विज्ञेया पशुतच्छासनाशयात् ॥ १६३ ॥
15.164
स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् ।
तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥ १६४ ॥
15.165
कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत् ।
अनेन नययोगेन यदासत्तिविदूरते ॥ १६५ ॥
15.166
संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् ।
वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥ १६६ ॥
15.167
तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः ।
उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥ १६७ ॥
15.168
अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः ।
तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥ १६८ ॥
15.169
आनन्दजननं पूजायोग्यं हृदयहारि यत् ।
अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥ १६९ ॥
15.170
मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् ।
लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥ १७० ॥
15.171
प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता ।
पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥ १७१ ॥
15.172
विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता ।
न पत्न्या च विना यागः सर्वदैवततुल्यता ॥ १७२ ॥
15.173
सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः ।
पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥ १७३ ॥
15.174
घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् ।
भक्ष्यो हंसो न भक्ष्योऽसाविति रिप्रतिपत्तिषु ॥ १७४ ॥
15.175
स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः ।
अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥ १७५ ॥
15.176
मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः ।
वेदेऽपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥ १७६ ॥
15.177
न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् ।
अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः ॥ १७७ ॥
15.178
एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः ।
क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥ १७८ ॥
15.179
तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् ।
प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥ १७९ ॥
15.180
सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् ।
यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥ १८० ॥
15.181
प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि ।
त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥ १८१ ॥
15.182
योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः ।
एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥ १८२ ॥
15.183
तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः ।
एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥ १८३ ॥
15.184
त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते ।
गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥ १८४ ॥
15.185
मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा ।
क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च ॥ १८५ ॥
15.186
एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् ।
कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥ १८६ ॥
15.187
अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् ।
द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥ १८७ ॥
15.188
पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः ।
पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥ १८८ ॥
15.189
अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः ।
पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥ १८९ ॥
15.190
एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् ।
रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥ १९० ॥
15.191
द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् ।
क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥ १९१ ॥
15.192
प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् ।
दिशोऽस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः ॥ १९२ ॥
15.193
तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा ।
विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥ १९३ ॥
15.194
यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका ।
प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः ॥ १९४ ॥
15.195
उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा ।
उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥ १९५ ॥
15.196
तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः ।
पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥ १९६ ॥
15.197
तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् ।
तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥ १९७ ॥
15.198
किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः ।
किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥ १९८ ॥
15.199
पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् ।
प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥ १९९ ॥
15.200
यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः ।
दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥ २०० ॥
15.201
तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि ।
एवमाशाचतुष्केऽस्मिन्मध्यविश्रान्तियोगतः ॥ २०१ ॥
15.202
चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः ।
एवं प्रकाशमात्रेऽस्मिन्वरदे परमे शिवे ॥ २०२ ॥
15.203
दिग्विभागः स्थितो लोके शास्त्रेऽपिच तथोच्यते ।
क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥ २०३ ॥
15.204
ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः ।
ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥ २०४ ॥
15.205
पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः ।
पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते ॥ २०५ ॥
15.206
पातालवक्त्रमधरमप्रकाशतया स्थितेः ।
खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥ २०६ ॥
15.207
मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते ।
तदेव मुख्यतोऽधस्तादप्रकाशं यतः स्फुटम् ॥ २०७ ॥
15.208
मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् ।
प्रकाशत्वाद्दिश्यमानमतोऽस्मिन्दिक्चतुष्टयम् ॥ २०८ ॥
15.209
पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः ।
ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥ २०९ ॥
15.210
ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् ।
न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥ २१० ॥
15.211
दिग्विभागस्तु तज्जोऽस्ति वदनानां चतुष्टयात् ।
पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥ २११ ॥
15.212
ततो ब्रह्माण्डमध्येऽपि ज्ञानशक्तिर्विभो रविः ।
दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥ २१२ ॥
15.213
तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते ।
तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥ २१३ ॥
15.214
तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् ।
तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥ २१४ ॥
15.215
तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् ।
तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥ २१५ ॥
15.216
यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः ।
तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥ २१६ ॥
15.217
तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् ।
सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥ २१७ ॥
15.218
विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः ।
इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥ २१८ ॥
15.219
अधिष्ठिता महेशेन चित्रतद्रूपधारिणा ।
किं वातिबहुना योऽसौ यष्टा तत्संमुखादितः ॥ २१९ ॥
15.220
दिशोऽपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः ।
स्वानुसारकृतं तं च दिग्विभागं सदा शिवः ॥ २२० ॥
15.221
अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः ।
स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥ २२१ ॥
15.222
ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः ।
प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः ॥ २२२ ॥
15.223
सोऽग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा ।
प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते ॥ २२३ ॥
15.224
भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः ।
अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः ॥ २२४ ॥
15.225
प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः ।
इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥ २२५ ॥
15.226
तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते ।
सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः ॥ २२६ ॥
15.227
प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् ।
तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥ २२७ ॥
15.228
साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः ।
एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥ २२८ ॥
15.229
अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा ।
साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥ २२९ ॥
15.230
स्थितस्तदनुसारेण मध्यीभवति शंकरः ।
स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥ २३० ॥
15.231
सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः ।
तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥ २३१ ॥
15.232
उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः ।
उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥ २३२ ॥
15.233
अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् ।
अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥ २३३ ॥
15.234
दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् ।
तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥ २३४ ॥
15.235
तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा ।
देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥ २३५ ॥
15.236
नहि सद्भावमात्रेण देहोऽसावन्यदेहवत् ।
अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥ २३६ ॥
15.237
तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः ।
तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥ २३७ ॥
15.238
तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः ।
संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥ २३८ ॥
15.239
सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका ।
ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥ २३९ ॥
15.240
अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् ।
अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥ २४० ॥
15.241
त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते ।
ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम् ॥ २४१ ॥
15.242
ततोऽपि शिवसद्भावन्यासः स्वांगस्य संयुतः ।
इत्थ कृते पञ्चकेऽस्मिन्यत्तन्मुख्यतया भवेत् ॥ २४२ ॥
15.243
उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् ।
तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः ॥ २४३ ॥
15.244
ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता ।
एवं भैरवसद्भावनाथे मुख्यतया यदि ॥ २४४ ॥
15.245
उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः ।
इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥ २४५ ॥
15.246
शंभुनाथो न्यासविधौ देवो हि कथमन्यथा ।
न्यास विवर्ज्यतेऽमुष्मिन्नङ्गान्यप्यस्य सन्ति हि ॥ २४६ ॥
15.247
मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः ।
शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥ २४७ ॥
15.248
अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् ।
परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥ २४८ ॥
15.249
पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् ।
ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य+ऊरुतः ॥ २४९ ॥
15.250
जानुपादेऽप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् ।
ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥ २५० ॥
15.251
योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् ।
अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥ २५१ ॥
15.252
साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः ।
परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥ २५२ ॥
15.253
सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता ।
सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः ॥ २५३ ॥
15.254
मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् ।
पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः ॥ २५४ ॥
15.255
यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः ।
मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥ २५५ ॥
15.256
गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् ।
मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥ २५६ ॥
15.257
यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः ।
तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥ २५७ ॥
15.258
किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः ।
षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥ २५८ ॥
15.259
मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा ।
पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥ २५९ ॥
15.260
षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् ।
एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥ २६० ॥
15.261
देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् ।
मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥ २६१ ॥
15.262
अभेदमानीय कृता शुद्धा न्यासबलक्रमात् ।
तेन येऽचोदयन्मूढाः पाशदाहविधूनने ॥ २६२ ॥
15.263
कृते शान्ते शिवे रूढः पुनः किमवरोहति ।
इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥ २६३ ॥
15.264
न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः ।
न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥ २६४ ॥
15.265
सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित् ।
महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥ २६५ ॥
15.266
स शिवः शिवतैवास्य वैश्वरूप्यावभासिता ।
तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते ॥ २६६ ॥
15.267
भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च ।
भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥ २६७ ॥
15.268
अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता ।
मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥ २६८ ॥
15.269
शिव एव तदभ्यासफलं न्यासादि कीर्तितम् ।
यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥ २६९ ॥
15.270
तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा ।
एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥ २७० ॥
15.271
शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता ।
अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥ २७१ ॥
15.272
कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः ।
तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥ २७२ ॥
15.273
भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् ।
प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥ २७३ ॥
15.274
विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति ।
ततः संसारभागीयतथानिश्चयशातिनीम् ॥ २७४ ॥
15.275
नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् ।
ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥ २७५ ॥
15.276
न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् ।
एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥ २७६ ॥
15.277
न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् ।
पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥ २७७ ॥
15.278
धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः ।
संसारवामाचारत्वात्सर्वं वामकरेण तु ॥ २७८ ॥
15.279
कुर्यात्तर्पणयोगं च दैशिकस्तदनामया ।
वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥ २७९ ॥
15.280
वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् ।
श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥ २८० ॥
15.281
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥ २८१ ॥
15.282
श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने ।
तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥ २८२ ॥
15.283
शेषं वामकरेणैव पूजाहोमजपादिकम् ।
एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् ॥ २८३ ॥
15.284
यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् ।
गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥ २८४ ॥
15.285
देहे किमवशिष्येत शिवानन्दरसादृते ।
शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥ २८५ ॥
15.286
देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः ।
विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥ २८६ ॥
15.287
बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति ।
तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥ २८७ ॥
15.288
उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता ।
ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम् ॥ २८८ ॥
15.289
आनन्दरससंपूर्णं विश्वदैवततर्पणम् ।
यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥ २८९ ॥
15.290
अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः ।
कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥ २९० ॥
15.291
सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् ।
मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो ॥ २९१ ॥
15.292
यदेव हृद्यं तद्योग्यं शिवसंविदभेदने ।
कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥ २९२ ॥
15.293
कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् ।
अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥ २९३ ॥
15.294
नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते ।
अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥ २९४ ॥
15.295
मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् ।
एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥ २९५ ॥
15.296
अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे ।
तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥ २९६ ॥
15.297
शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते ।
न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥ २९७ ॥
15.298
धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः ।
पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥ २९८ ॥
15.299
प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् ।
ईषत्समन्तादमलमिदमामलसारकम् ॥ २९९ ॥
15.300
ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि ।
तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥ ३०० ॥
15.301
तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् ।
वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥ ३०१ ॥
15.302
मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् ।
शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥ ३०२ ॥
15.303
तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः ।
प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥ ३०३ ॥
15.304
दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् ।
विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥ ३०४ ॥
15.305
वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी ।
भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥ ३०५ ॥
15.306
विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा ।
ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥ ३०६ ॥
15.307
दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् ।
निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥ ३०७ ॥
15.308
मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् ।
आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् ॥ ३०८ ॥
15.309
रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् ।
न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते ॥ ३०९ ॥
15.310
समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः ।
प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥ ३१० ॥
15.311
विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः ।
सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥ ३११ ॥
15.312
अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः ।
कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः ॥ ३१२ ॥
15.313
तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् ।
नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥ ३१३ ॥
15.314
अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् ।
पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥ ३१४ ॥
15.315
अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः ।
आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥ ३१५ ॥
15.316
एतान्येव तु तत्त्वानि लीनानि परभैरवे ।
तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥ ३१६ ॥
15.317
श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु ।
एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥ ३१७ ॥
15.318
पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् ।
सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥ ३१८ ॥
15.319
विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः ।
सदाशिवान्तं समनापर्यन्तं मतयामले ॥ ३१९ ॥
15.320
उन्मनान्तमिहाख्यातमित्येतत्परमासनम् ।
अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥ ३२० ॥
15.321
तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् ।
न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥ ३२१ ॥
15.322
सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् ।
परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥ ३२२ ॥
15.323
विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् ।
मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥ ३२३ ॥
15.324
नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् ।
मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥ ३२४ ॥
15.325
परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् ।
अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥ ३२५ ॥
15.326
प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः ।
ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥ ३२६ ॥
15.327
कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् ।
कपालशूलखट्वाङ्गवराभयघटादिकम् ॥ ३२७ ॥
15.328
वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् ।
वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥ ३२८ ॥
15.329
अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये ।
सर्वं ततोऽङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् ॥ ३२९ ॥
15.330
मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् ।
ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥ ३३० ॥
15.331
अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् ।
मध्यगा किल या देवी सैव सद्भावरूपिणी ॥ ३३१ ॥
15.332
कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः ।
सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता ॥ ३३२ ॥
15.333
परा तु मातृका देवी मालिनी मध्यगोदिता ।
मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥ ३३३ ॥
15.334
तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति ।
ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥ ३३४ ॥
15.335
स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् ।
श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥ ३३५ ॥
15.336
नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा ।
मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥ ३३६ ॥
15.337
पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु ।
कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥ ३३७ ॥
15.338
इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी ।
याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥ ३३८ ॥
15.339
इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके ।
स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥ ३३९ ॥
15.340
शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु ।
प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥ ३४० ॥
15.341
भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु ।
भिन्नाभिन्ने तदियान् सुशिवान्तोऽध्वोदितः प्रेते ॥ ३४१ ॥
15.342
ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः ।
अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥ ३४२ ॥
15.343
पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन ।
ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥ ३४३ ॥
15.344
किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः ।
भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥ ३४४ ॥
15.345
बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत ।
संभाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसंकरतः ॥ ३४५ ॥
15.346
प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न ।
अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया ।
स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥ ३४६ ॥
15.347
सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते ।
संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥ ३४७ ॥
15.348
तत्त्वं सत्ता प्राप्तिर्मातृषु मेयोऽनया संश्च ।
विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥ ३४८ ॥
15.349
एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम् ।
यस्मिन्सर्वावच्छेददिशोऽपि स्युः समाक्षिप्ताः ॥ ३४९ ॥
15.350
अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र ।
बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् ॥ ३५० ॥
15.351
आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये ।
इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे ॥ ३५१ ॥
15.352
स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् ।
बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत् ॥ ३५२ ॥
15.353
अस्त्रान्तं परिवारौघमिति नो दैशिकागमः ।
अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥ ३५३ ॥
15.354
शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये ।
अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥ ३५४ ॥
15.355
पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम् ।
तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥ ३५५ ॥
15.356
सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् ।
लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥ ३५६ ॥
15.357
इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः ।
तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥ ३५७ ॥
15.358
ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा ।
एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥ ३५८ ॥
15.359
नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् ।
मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥ ३५९ ॥
15.360
दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः ।
चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतोऽर्पयेत् ॥ ३६० ॥
15.361
द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् ।
देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥ ३६१ ॥
15.362
मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका ।
खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥ ३६२ ॥
15.363
अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् ।
शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम् ॥ ३६३ ॥
15.364
तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः ।
किं किं न जायते किं वा न वेत्ति न करोति वा ॥ ३६४ ॥
15.365
एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् ।
यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥ ३६५ ॥
15.366
इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् ।
शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥ ३६६ ॥
15.367
बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते ।
अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥ ३६७ ॥
15.368
यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् ।
अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः ॥ ३६८ ॥
15.369
कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् ।
दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥ ३६९ ॥
15.370
निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा ।
विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते ॥ ३७० ॥
15.371
गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः ।
ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥ ३७१ ॥
15.372
भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् ।
पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥ ३७२ ॥
15.373
पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् ।
लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥ ३७३ ॥
15.374
अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् ।
फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥ ३७४ ॥
15.375
पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च ।
तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥ ३७५ ॥
15.376
समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते ।
अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥ ३७६ ॥
15.377
षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् ।
अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥ ३७७ ॥
15.378
................................................. ।
................................................. ।
।
ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥ ३७८ ॥
15.379
पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् ।
असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः ॥ ३७९ ॥
15.380
तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् ।
ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥ ३८० ॥
15.381
गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् ।
ततः शिष्योऽसिकलशीहस्तो धारां प्रपातयन् ॥ ३८१ ॥
15.382
गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् ।
भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ ३८२ ॥
15.383
सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया ।
त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥ ३८३ ॥
15.384
अपासयेद्यतो मन्त्रश्छन्दोबद्धोऽयमीरितः ।
तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि ॥ ३८४ ॥
15.385
दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् ।
कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥ ३८५ ॥
15.386
तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् ।
अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥ ३८६ ॥
15.387
पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् ।
मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥ ३८७ ॥
15.388
त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् ।
अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥ ३८८ ॥
15.389
शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् ।
शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥ ३८९ ॥
15.390
परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः ।
एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले ॥ ३९० ॥
15.391
पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे ।
उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥ ३९१ ॥
15.392
चतुर्दशविधे भूते पुष्पे धूपे निवेदने ।
दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥ ३९२ ॥
15.393
जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् ।
आहारे मैथुने सैव देहस्था कर्मकारिणी ॥ ३९३ ॥
15.394
तादृशीं ये तु नो रूढां संवित्तिमधिशेरते ।
अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥ ३९४ ॥
15.395
अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः ।
तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥ ३९५ ॥
15.396
अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् ।
क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥ ३९६ ॥
15.397
यथाहि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात् ।
वाक्यं गृह्णाति कोऽप्यादौ तथात्राप्यवबुध्यताम् ॥ ३९७ ॥
15.398
उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् ।
स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥ ३९८ ॥
15.399
मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् ।
प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥ ३९९ ॥
15.400
शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च ।
सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य ॥ ४०० ॥
15.401
भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः ।
ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥ ४०१ ॥
15.402
मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् ।
संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥ ४०२ ॥
15.403
ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् ।
इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥ ४०३ ॥
15.404
रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् ।
तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥ ४०४ ॥
15.405
जन्माद्यखिलसंस्कारशुद्धोऽग्निस्तावता भवेत् ।
पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥ ४०५ ॥
15.406
शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः ।
ततोऽखिलाध्वसद्देवीचक्रगर्भां परापराम् ॥ ४०६ ॥
15.407
स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः ।
तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥ ४०७ ॥
15.408
वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः ।
इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥ ४०८ ॥
15.409
मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् ।
तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥ ४०९ ॥
15.410
बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः ।
ते निरुत्थानविहता नयेऽस्मिन्गुरुदर्शने ॥ ४१० ॥
15.411
जातेऽग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम् ।
पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् ॥ ४११ ॥
15.412
शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् ।
अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा ॥ ४१२ ॥
15.413
चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् ।
शिव इत्यभिमानेन दृढेन हि विलोकनम् ॥ ४१३ ॥
15.414
सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतोऽमलम् ।
नवाहुतीरथो दद्यान्नवात्मसहितेन तु ॥ ४१४ ॥
15.415
शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् ।
शिवचैतन्यसामान्यव्योपरूपेऽनले ततः ॥ ४१५ ॥
15.416
प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् ।
स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः ॥ ४१६ ॥
15.417
शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः ।
तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् ॥ ४१७ ॥
15.418
इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् ।
ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः ॥ ४१८ ॥
15.419
कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा ।
अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः ॥ ४१९ ॥
15.420
सहस्रादिकहोमोऽपि तृप्त्यै वित्तानुसारतः ।
सति वित्तेऽपि लोभादिग्रस्तो बाह्यप्रधानताम् ॥ ४२० ॥
15.421
प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति ।
उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितोऽपि न मोक्षभाक् ॥ ४२१ ॥
15.422
ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् ।
तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा ॥ ४२२ ॥
15.423
मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे ।
या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता ॥ ४२३ ॥
15.424
शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् ।
तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् ॥ ४२४ ॥
15.425
स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् ।
समचित्तप्राणतनुरैकात्म्यविधियोगतः ॥ ४२५ ॥
15.426
वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् ।
कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् ॥ ४२६ ॥
15.427
अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् ।
यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः ॥ ४२७ ॥
15.428
स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् ।
तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् ॥ ४२८ ॥
15.429
य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः ।
वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः ॥ ४२९ ॥
15.430
इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् ।
द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् ॥ ४३० ॥
15.431
यथा यथा हि गगनमुत्पतेत्कलहंसकः ।
जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः ॥ ४३१ ॥
15.432
स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः ।
माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा ॥ ४३२ ॥
15.433
इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् ।
तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् ॥ ४३३ ॥
15.434
अविद्यारागनियतिकालमायाकलास्तथा ।
अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली ॥ ४३४ ॥
15.435
व्यापिनी समनौन्मन्यं ततोऽनामनि योजयेत् ।
रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः ॥ ४३५ ॥
15.436
प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने ।
ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना ॥ ४३६ ॥
15.437
चरुः साध्योऽथवा शिष्यैर्होमेन समकालकः ।
चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया ॥ ४३७ ॥
15.438
चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः ।
ततश्चरुं समादाय गुरुराज्येन पूरिताम् ॥ ४३८ ॥
15.439
स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः ।
देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् ॥ ४३९ ॥
15.440
सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् ।
स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् ॥ ४४० ॥
15.441
चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः ।
भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः ॥ ४४१ ॥
15.442
स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् ।
एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः ॥ ४४२ ॥
15.443
भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः ।
सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः ॥ ४४३ ॥
15.444
अन्योऽन्यत्र च संपातात्संगमाच्चेत्थमुच्यते ।
स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् ॥ ४४४ ॥
15.445
भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ ।
इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः ॥ ४४५ ॥
15.446
शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः ।
तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् ॥ ४४६ ॥
15.447
तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः ।
अशुभोऽन्यत्र तत्रास्त्रहोमोऽप्यष्टशतं भवेत् ॥ ४४७ ॥
15.448
नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् ।
अनन्यहृदयीभूतान्बलादित्थं निरोधतः ॥ ४४८ ॥
15.449
मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः ।
प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः ॥ ४४९ ॥
15.450
प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः ।
अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् ॥ ४५० ॥
15.451
दृशोर्निवारयेत्सोऽपि शिष्यो झटिति पश्यति ।
झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले ॥ ४५१ ॥
15.452
तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते ।
यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् ॥ ४५२ ॥
15.453
पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् ।
चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे ॥ ४५३ ॥
15.454
सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता ।
कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् ॥ ४५४ ॥
15.455
प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी ।
न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः ॥ ४५५ ॥
15.456
त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः ।
ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् ॥ ४५६ ॥
15.457
मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् ।
तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः ॥ ४५७ ॥
15.458
न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् ।
उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना ॥ ४५८ ॥
15.459
दत्तेन शिवहस्तेन समयी स विधीयते ।
सायुज्यमीश्वरे तत्त्वे जीवतोऽधीतियोग्यता ॥ ४५९ ॥
15.460
श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके ।
चक्रे भैरवसन्नाभावघोराद्यष्टकारके ॥ ४६० ॥
15.461
बाह्यापरे परानेमौ मध्यशूलपरापरे ।
ज्वालाकुलेऽरुणे भ्राम्यन्मातृप्रणवभीषणे ॥ ४६१ ॥
15.462
चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् ।
पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् ॥ ४६२ ॥
15.463
प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः ।
अनेन शिवहस्तेन समयी भवति स्फुटम् ॥ ४६३ ॥
15.464
तस्यैव भाविविधिवत्तत्त्वपाशवियोजने ।
पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः ॥ ४६४ ॥
15.465
स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् ।
निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना ॥ ४६५ ॥
15.466
अभिषिक्तः साधकः स्याद्भोगान्तेऽस्य परे लयः ।
एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने ॥ ४६६ ॥
15.467
चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः ।
दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते ॥ ४६७ ॥
15.468
पृथिवीमादितः कृत्वा निर्वाणान्तेऽस्य योजनाम् ।
अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः ॥ ४६८ ॥
15.469
एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् ।
सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये ॥ ४६९ ॥
15.470
पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् ।
अधिकारी स न पुनः साधने भिन्नयोजने ॥ ४७० ॥
15.471
एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः ।
आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन ॥ ४७१ ॥
15.472
एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते ।
शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् ॥ ४७२ ॥
15.473
शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः ।
ततः कुम्भेऽस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् ॥ ४७३ ॥
15.474
प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् ।
ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् ॥ ४७४ ॥
15.475
कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च ।
शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः ॥ ४७५ ॥
15.476
भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् ।
ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः ॥ ४७६ ॥
15.477
संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः ।
स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् ॥ ४७७ ॥
15.478
पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः ।
आयातनिद्रः शिष्योऽसौ निर्मलौ शशिभास्करौ ॥ ४७८ ॥
15.479
हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ ।
हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते ॥ ४७९ ॥
15.480
स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् ।
उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे ॥ ४८० ॥
15.481
प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् ।
आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् ॥ ४८१ ॥
15.482
चरुं भुञ्जीत ससखा ततोऽद्याद्दन्तधावनम् ।
स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः ॥ ४८२ ॥
15.483
प्रातर्गुरुः कृताशेषनित्योऽभ्यर्चितशंकरः ।
शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् ॥ ४८३ ॥
15.484
स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः ।
बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः ॥ ४८४ ॥
15.485
देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् ।
हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् ॥ ४८५ ॥
15.486
रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् ।
पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् ॥ ४८६ ॥
15.487
यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् ।
तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् ॥ ४८७ ॥
15.488
अतोऽन्यदशुभं तत्र होमोऽष्टशतकोऽस्त्रतः ।
अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः ॥ ४८८ ॥
15.489
रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् ।
येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् ॥ ४८९ ॥
15.490
शुभाशुभं न किंचित्स्यात् स्युश्चेत्थं चित्रतावशात् ।
स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः ॥ ४९० ॥
15.491
न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् ।
नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् ॥ ४९१ ॥
15.492
मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः ।
सर्वसात्त्विकचेष्टोऽपि भोजने यदि तामसः ॥ ४९२ ॥
15.493
किं ततः सोऽधमः किवाप्युत्कृष्टस्तद्विपर्ययः ।
आयातशक्तिपातोऽपि दीक्षितोऽपि गुणस्थितेः ॥ ४९३ ॥
15.494
विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः ।
ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् ॥ ४९४ ॥
15.495
देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः ।
हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः ॥ ४९५ ॥
15.496
स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः ।
हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः ॥ ४९६ ॥
15.497
आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः ।
वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः ॥ ४९७ ॥
15.498
गर्भाधानं पुंसवनं सीमन्तो जातकर्म च ।
नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी ॥ ४९८ ॥
15.499
व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् ।
गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः ॥ ४९९ ॥
15.500
प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः ।
अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् ॥ ५०० ॥
15.501
चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः ।
आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः ॥ ५०१ ॥
15.502
चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी ।
अग्निष्टोमोऽतिपूर्वोऽथ सोक्य्यः षोडशिवाजपौ ॥ ५०२ ॥
15.503
आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः ।
हिरण्यपादादिमखः सहस्रेण समावृतः ॥ ५०३ ॥
15.504
अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् ।
वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः ॥ ५०४ ॥
15.505
दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले ।
अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् ॥ ५०५ ॥
15.506
मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् ।
संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च ॥ ५०६ ॥
15.507
भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् ।
उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश ॥ ५०७ ॥
15.508
एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः ।
पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः ॥ ५०८ ॥
15.509
द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः ।
एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः ॥ ५०९ ॥
15.510
अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः ।
प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा ॥ ५१० ॥
15.511
एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः ।
यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता ॥ ५११ ॥
15.512
तेन रुद्रतया संवित्तत्क्रमेणैव जायते ।
यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् ॥ ५१२ ॥
15.513
रजतादि तथा संवित्संस्कारे द्विजतान्तरे ।
योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते ॥ ५१३ ॥
15.514
मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् ।
मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् ॥ ५१४ ॥
15.515
संविदो देहसंभेदात्सदृशात्सदृशोदयात् ।
भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः ॥ ५१५ ॥
15.516
अन्त्यजातीयधीवादिजननीजन्मलाभतः ।
उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् ॥ ५१६ ॥
15.517
अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते ।
रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे ॥ ५१७ ॥
15.518
पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् ।
सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये ॥ ५१८ ॥
15.519
आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः ।
स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः ॥ ५१९ ॥
15.520
रुद्रांशापादनं येन समयी संस्कृतो भवेत् ।
अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने ॥ ५२० ॥
15.521
समय्यधिकृतोऽन्यत्र गुरुणा विभुमर्चयेत् ।
तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः ॥ ५२१ ॥
15.522
अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् ।
अवादोऽकरणं गूढिः पूजा तर्पणभावने ॥ ५२२ ॥
15.523
हननं मोहनं चेति समयाष्टकमष्टधा ।
स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् ॥ ५२३ ॥
15.524
असत्प्रलापं परुषमनृतं नाष्टधा वदेत् ।
अफलं चेष्टितं हिंसां परदाराभिमर्शनम् ॥ ५२४ ॥
15.525
गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् ।
स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् ॥ ५२५ ॥
15.526
समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् ।
गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् ॥ ५२६ ॥
15.527
गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् ।
दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् ॥ ५२७ ॥
15.528
श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् ।
शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् ॥ ५२८ ॥
15.529
संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् ।
रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः ॥ ५२९ ॥
15.530
समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् ।
पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् ॥ ५३० ॥
15.531
राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् ।
शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः ॥ ५३१ ॥
15.532
साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः ।
लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् ॥ ५३२ ॥
15.533
कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः ।
पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले ॥ ५३३ ॥
15.534
देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् ।
अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् ॥ ५३४ ॥
15.535
एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् ।
स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् ॥ ५३५ ॥
15.536
न योनिसंबन्धकृतो लौकिकः स पशुर्यतः ।
तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये ॥ ५३६ ॥
15.537
अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः ।
गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् ॥ ५३७ ॥
15.538
नच तां शृणुयान्नैनं कोपयेन्नाग्रतोऽस्य च ।
विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते ॥ ५३८ ॥
15.539
लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् ।
गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् ॥ ५३९ ॥
15.540
नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् ।
श्रीमत्त्रैशिरसेऽप्युक्तं कृच्छ्रचान्द्रायणादिभिः ॥ ५४० ॥
15.541
अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोऽपि सन् ।
नियमस्थो यमस्थोऽपि तत्पदं नाश्नुते परम् ॥ ५४१ ॥
15.542
गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा ।
प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् ॥ ५४२ ॥
15.543
हिमपातैर्यथा भूमिश्छादिता सा समन्ततः ।
मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा ॥ ५४३ ॥
15.544
यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते ।
गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते ॥ ५४४ ॥
15.545
सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा ।
सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् ॥ ५४५ ॥
15.546
श्रीसारेऽप्यस्य संभाषात्पातकं नश्यति क्षणात् ।
तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः ॥ ५४६ ॥
15.547
शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु ।
स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः ॥ ५४७ ॥
15.548
तेन तुष्टेन तृप्यन्ति देवाः पितर एवच ।
उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् ॥ ५४८ ॥
15.549
भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः ।
इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् ॥ ५४९ ॥
15.550
भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः ।
यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् ॥ ५५० ॥
15.551
तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते ।
सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् ॥ ५५१ ॥
15.552
शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् ।
स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः ॥ ५५२ ॥
15.553
अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः ।
तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः ॥ ५५३ ॥
15.554
निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः ।
स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव ॥ ५५४ ॥
15.555
वेश्याः पूज्यास्तद्गृहं च प्रयागोऽत्र यजेत्क्रमम् ।
स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते ॥ ५५५ ॥
15.556
अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः ।
वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् ॥ ५५६ ॥
15.557
वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् ।
देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु ॥ ५५७ ॥
15.558
सर्वपर्वसु सामान्यविशेषेषु विशेषतः ।
पूजा गुरोरनध्यायो मेलके लोभवर्जनम् ॥ ५५८ ॥
15.559
न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन ।
न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा ॥ ५५९ ॥
15.560
उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् ।
विजातीयविकल्पांशोत्पुंसनाय यतेत च ॥ ५६० ॥
15.561
गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः ।
अर्चातोऽन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः ॥ ५६१ ॥
15.562
आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि ।
हरत्यर्धशरीरं तदित्यूचे भगवान्यतः ॥ ५६२ ॥
15.563
श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै ।
प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः ॥ ५६३ ॥
15.564
श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च ।
गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह ॥ ५६४ ॥
15.565
जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् ।
नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ ॥ ५६५ ॥
15.566
ततोऽपि मध्ये वर्षस्य ततोऽपि हि पवित्रके ।
अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ॥ ५६६ ॥
15.567
अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् ।
गृहोपस्करणास्त्राणि दवतायागयोगतः ॥ ५६७ ॥
15.568
अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् ।
गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् ॥ ५६८ ॥
15.569
दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् ।
उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः ॥ ५६९ ॥
15.570
न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् ।
सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् ॥ ५७० ॥
15.571
उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् ।
वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा ॥ ५७१ ॥
15.572
अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् ।
एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् ॥ ५७२ ॥
15.573
प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् ।
श्रीमदूर्मौ च कथितमागमान्तरसेवके ॥ ५७३ ॥
15.574
गुर्वन्तररते मूढे देवद्रव्योपजीवके ।
शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् ॥ ५७४ ॥
15.575
न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् ।
उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् ॥ ५७५ ॥
15.576
शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् ।
नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् ॥ ५७६ ॥
15.577
सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च ।
नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् ॥ ५७७ ॥
15.578
मेलकार्धनिशाचर्या जनवर्जं च तन्नहि ।
मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ ॥ ५७८ ॥
15.579
गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् ।
शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः ॥ ५७९ ॥
15.580
अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् ।
मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् ॥ ५८० ॥
15.581
समयानां विलोपे च गुरुं पृच्छेदसन्निधौ ।
तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ ॥ ५८१ ॥
15.582
तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः ।
यतः शास्त्रादिसंबोधतन्मयीकृतमानसः ॥ ५८२ ॥
15.583
शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् ।
शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः ॥ ५८३ ॥
15.584
ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः ।
गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् ॥ ५८४ ॥
15.585
तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् ।
अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् ॥ ५८५ ॥
15.586
नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः ।
ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् ॥ ५८६ ॥
15.587
भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् ।
तादृक् च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् ॥ ५८७ ॥
15.588
मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् ।
तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् ॥ ५८८ ॥
15.589
गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते ।
कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् ॥ ५८९ ॥
15.590
येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः ।
श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् ॥ ५९० ॥
15.591
यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः ।
तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत् क्वचित् ॥ ५९१ ॥
15.592
न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् ।
केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः ॥ ५९२ ॥
15.593
श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः ।
अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा ॥ ५९३ ॥
15.594
न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल ।
तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् ॥ ५९४ ॥
15.595
अतत्त्वेऽभिनिवेशं च न कुर्यात्पक्षपाततः ।
जातिविद्याकुलाचारदेहदेशगुणार्थजान् ॥ ५९५ ॥
15.596
ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान् ।
तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् ॥ ५९६ ॥
15.597
ब्राह्मणोऽहं मया वेदशास्त्रोक्तादपरं कथम् ।
अनुष्ठेयमयं जातिग्रहः परनिरोधकः ॥ ५९७ ॥
15.598
एवमन्येऽप्युदाहार्याः कुलगह्वरवर्त्मना ।
अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशेऽपि यः ॥ ५९८ ॥
15.599
स्वरूपाच्छादकः सोऽत्र ग्रहो ग्रह इवोदितः ।
संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना ॥ ५९९ ॥
15.600
रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् ।
या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः ॥ ६०० ॥
15.601
संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् ।
श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना ॥ ६०१ ॥
15.602
निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् ।
देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् ॥ ६०२ ॥
15.603
द्विजान्त्यजैः समं कार्या चर्चान्तेऽपि मरीचयः ।
अविकारकृतस्तेन विकल्पान्निरयो भवेत् ॥ ६०३ ॥
15.604
सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् ।
श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् ॥ ६०४ ॥
15.605
शरीरमेवायतनं नान्यदायतनं व्रजेत् ।
तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् ॥ ६०५ ॥
15.606
विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् ।
समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते ॥ ६०६ ॥
15.607
इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् ।
मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् ॥ ६०७ ॥
15.608
इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् ।
नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् ॥ ६०८ ॥
15.609
तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः ।
अवयश्पालनीयत्वात्परत्त्वेन संगमात् ॥ ६०९ ॥
15.610
ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः ।
एवं संश्राव्य समयान्देवं संपूज्य दैशिकः ॥ ६१० ॥
15.611
विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् ।
यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् ॥ ६११ ॥
15.612
तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् ।
आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः ॥ ६१२ ॥
15.613
मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् ।
इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् ॥
Ahnika 16 – Devanagari
16.1
अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो ऽत्र विधिः ।
यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् ।
गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥ १ ॥
16.2
तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् ।
सामुदायिकयागेऽथ तथान्यत्र यथोदितम् ॥ २ ॥
16.3
षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया ।
चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥ ३ ॥
16.4
द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते ।
असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥ ४ ॥
16.5
तस्माद्यथातथा यागं यावच्चक्रेण संमितम् ।
पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् ॥ ५ ॥
16.6
त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः ।
मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् ॥ ६ ॥
16.7
वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते ।
आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥ ७ ॥
16.8
कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेऽत्र देवताः ।
बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः ॥ ८ ॥
16.9
मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् ।
आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥ ९ ॥
16.10
गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः ।
इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥ १० ॥
16.11
तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् ।
पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥ ११ ॥
16.12
शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् ।
मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥ १२ ॥
16.13
वामे चापरया साकं नवात्मा दक्षगं परम् ।
त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥ १३ ॥
16.14
स्यात्परापरया साकं दक्षे भैरवसत्परे ।
वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥ १४ ॥
16.15
स्यात्परे परया साकं वामारे संश्च भैरवः ।
इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥ १५ ॥
16.16
यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः ।
एकशूलेऽप्यतो यागे चिन्तयेत्तदधिष्ठितम् ॥ १६ ॥
16.17
अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् ।
ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः ॥ १७ ॥
16.18
लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् ।
परत्वेन च सर्वासां देवतानां प्रपूजयेत् ॥ १८ ॥
16.19
श्रीमन्तं मातृसद्भावभट्टारकमनामयम् ।
ततोऽपि भोगयागेन विद्याङ्गं भैरवाष्टकम् ॥ १९ ॥
16.20
यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः ।
लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः ॥ २० ॥
16.21
पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः ।
ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥ २१ ॥
16.22
पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् ।
ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् ॥ २२ ॥
16.23
मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि ।
स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥ २३ ॥
16.24
प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते ।
वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥ २४ ॥
16.25
मूलानुसन्धानबलात्प्राणतन्तूम्भने सति ।
इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥ २५ ॥
16.26
ततो विशेषपूजां च कुर्यादद्वयभाविताम् ।
यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् ॥ २६ ॥
16.27
तेनार्घपुष्पगन्धादेरासवस्य पशोरथ ।
या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥ २७ ॥
16.28
निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् ।
सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् ॥ २८ ॥
16.29
दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः ।
निर्वापितो वीरपशुः सोऽष्टधोत्तरतोत्तमः ॥ २९ ॥
16.30
यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन ।
शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥ ३० ॥
16.31
यस्तु दीक्षाविहीनोऽपि शिवेच्छाविधिचोदितः ।
भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः ॥ ३१ ॥
16.32
दृष्टोऽवलोकितश्चैव किरणेद्धदृगर्पणात् ।
प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥ ३२ ॥
16.33
संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः ।
प्रालब्ध उक्तत्रितयसंस्कृतः सोऽपि धूनयेत् ॥ ३३ ॥
16.34
कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् ।
उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥ ३४ ॥
16.35
योजितः कारणत्यागक्रमेण शिवयोजनात् ।
निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् ॥ ३५ ॥
16.36
दक्षिणेनाग्निना सौम्यकलाजालविलापनात् ।
तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् ॥ ३६ ॥
16.37
तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् ।
पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥ ३७ ॥
16.38
नाभिचक्रेऽथ विश्राम्येत्प्राणरश्मिगणैः सह ।
परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥ ३८ ॥
16.39
स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् ।
ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥ ३९ ॥
16.40
समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् ।
उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥ ४० ॥
16.41
तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् ।
कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः ॥ ४१ ॥
16.42
वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः ।
हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् ॥ ४२ ॥
16.43
शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् ।
आदाय करिहस्ताग्रसदृशे प्राणविग्रहे ॥ ४३ ॥
16.44
निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् ।
आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे ॥ ४४ ॥
16.45
स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् ।
अनेन विधिना सर्वान्रसरक्तादिकांस्तथा ॥ ४५ ॥
16.46
धातून्समाहरेत्संघक्रमादेकैकशोऽथवा ।
केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥ ४६ ॥
16.47
ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् ।
जीवं समरसीकुर्याद्देवीचक्रेण भावनात् ॥ ४७ ॥
16.48
तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा ।
अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥ ४८ ॥
16.49
पिण्डो रक्तादिसारौघचालनाकर्षणादिषु ।
इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥ ४९ ॥
16.50
आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् ।
कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः ॥ ५० ॥
16.51
यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् ।
निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥ ५१ ॥
16.52
परोक्षेऽपि पशावेवं विधिः स्याद्योजनं प्रति ।
प्रवेशितो यागभुवि हतस्तत्रैव साधितः ॥ ५२ ॥
16.53
चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते ।
यस्त्वन्यत्रापि निहतः सामस्त्येनांशतोऽपिवा ॥ ५३ ॥
16.54
देवाय विनिवेद्येत स वै बाह्यपशुर्मतः ।
राज्यं लाभोऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥ ५४ ॥
16.55
शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता ।
तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः ॥ ५५ ॥
16.56
पुष्पादयोऽपि तल्लाभभागिनः शिवपूजया ।
एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥ ५६ ॥
16.57
यागेनैवानुगृह्णाति किं किं यन्न चराचरम् ।
तेनावीरोऽपि शङ्कादियुक्तः कारुणिकोऽपिच ॥ ५७ ॥
16.58
न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् ।
पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत् ॥ ५८ ॥
16.59
व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् ।
श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥ ५९ ॥
16.60
मलत्रयवियोगेन शरीरं न प्ररोहति ।
धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल ॥ ६० ॥
16.61
तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी ।
रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् ॥ ६१ ॥
16.62
इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे ।
तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥ ६२ ॥
16.63
निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः ।
षट्कृत्व इत्थं यः सोऽत्र षड्जन्मा पशुरुत्तमः ॥ ६३ ॥
16.64
यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः ।
कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते ॥ ६४ ॥
16.65
उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् ।
समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥ ६५ ॥
16.66
दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः ।
ततो मनुष्यतामेत्य पुनरेवं करोत्यपि ॥ ६६ ॥
16.67
इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् ।
चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥ ६७ ॥
16.68
दात्रर्पितोऽसौ तद्द्वारा याति सायुज्यतः शिवम् ।
इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥ ६८ ॥
16.69
भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् ।
नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥ ६९ ॥
16.70
तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् ।
तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥ ७० ॥
16.71
पशोर्वपामेदसी च गालिते वह्निमध्यतः ।
अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥ ७१ ॥
16.72
हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् ।
कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा ॥ ७२ ॥
16.73
ततोऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः ।
तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥ ७३ ॥
16.74
गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर ।
साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा ॥ ७४ ॥
16.75
अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः ।
तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥ ७५ ॥
16.76
समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः ।
एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् ॥ ७६ ॥
16.77
शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् ।
स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥ ७७ ॥
16.78
ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् ।
अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥ ७८ ॥
16.79
तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् ।
गर्भावरणगानङ्गपरिवारासनोज्झितान् ॥ ७९ ॥
16.80
आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् ।
कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥ ८० ॥
16.81
मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम् ।
शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥ ८१ ॥
16.82
होमाधिकरणत्वेन वह्नावहमवस्थितः ।
यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥ ८२ ॥
16.83
सामान्यतेजोरूपान्तराहूता भुवनेश्वराः ।
तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥ ८३ ॥
16.84
आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये ।
सामान्यरूपता येन विशेषाप्यायकारिणी ॥ ८४ ॥
16.85
शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये ।
स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥ ८५ ॥
16.86
साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम् ।
ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥ ८६ ॥
16.87
भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् ।
एको यथाहं वह्न्यादिषड्रूपोऽस्मि तथा स्फुटम् ॥ ८७ ॥
16.88
एवमालोच्य येनैषोऽध्वना दीक्षां चिकीर्षति ।
अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् ॥ ८८ ॥
16.89
अनुसन्धिबलान्ते च समासव्यासभेदतः ।
कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥ ८९ ॥
16.90
ततोऽपि चिन्तया भूयोऽनुसन्दध्याच्छिवात्मताम् ।
अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् ॥ ९० ॥
16.91
महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् ।
नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् ॥ ९१ ॥
16.92
कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् ।
इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः ॥ ९२ ॥
16.93
मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते ।
तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् ॥ ९३ ॥
16.94
यथायोगोलको याति गुरुरेवं शिवात्मताम् ।
ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥ ९४ ॥
16.95
परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते ।
शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥ ९५ ॥
16.96
येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः ।
तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥ ९६ ॥
16.97
शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् ।
न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥ ९७ ॥
16.98
क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः ।
स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः ॥ ९८ ॥
16.99
अपरं परापरं च परं च विधिमिच्छया ।
तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥ ९९ ॥
16.100
ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके ।
वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥ १०० ॥
16.101
क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते ।
तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥ १०१ ॥
16.102
धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् ।
रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥ १०२ ॥
16.103
पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् ।
अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥ १०३ ॥
16.104
सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले ।
प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः ॥ १०४ ॥
16.105
शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् ।
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥ १०५ ॥
16.106
जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः ।
द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः ॥ १०६ ॥
16.107
जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये ।
तच्चतुर्विंशत्याधिक्यात्परोऽप्यष्टशते विधिः ॥ १०७ ॥
16.108
त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् ।
मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥ १०८ ॥
16.109
नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया ।
न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥ १०९ ॥
16.110
कलापञ्चकवेदाण्डन्यासोऽनेनैव लक्षितः ।
उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥ ११० ॥
16.111
द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः ।
द्वासप्ततिर्दश द्वे च देहस्थं शिरसोऽन्ततः ॥ १११ ॥
16.112
पादादारभ्य सुश्रोणि अनाहतपदावधि ।
देहातीतेऽपि विश्रान्त्या संवित्तेः कल्पनावशात् ॥ ११२ ॥
16.113
देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् ।
इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥ ११३ ॥
16.114
पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश ।
तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥ ११४ ॥
16.115
द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु ।
देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः ॥ ११५ ॥
16.116
इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् ।
षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥ ११६ ॥
16.117
ततोऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये ।
चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले ॥ ११७ ॥
16.118
सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले ।
क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् ॥ ११८ ॥
16.119
संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् ।
शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता ॥ ११९ ॥
16.120
श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना ।
उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये ॥ १२० ॥
16.121
असारत्वात्क्रमस्यादौ नियतिः परतः कला ।
अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥ १२१ ॥
16.122
एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये ।
कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥ १२२ ॥
16.123
अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते ।
एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥ १२३ ॥
16.124
ततोऽप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् ।
प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥ १२४ ॥
16.125
इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि ।
पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥ १२५ ॥
16.126
द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले ।
तत ऐशपुराण्यष्टौ चतुष्केऽर्धाङ्गुलक्रमात् ॥ १२६ ॥
16.127
ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये ।
सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥ १२७ ॥
16.128
षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः ।
वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः ॥ १२८ ॥
16.129
अष्टादशाधिकशतं पुराणि देहेऽत्र चतुरशीतिमिते ।
विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥ १२९ ॥
16.130
इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने ।
अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥ १३० ॥
16.131
लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य ।
अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥ १३१ ॥
16.132
अपरादिविधित्रैतादथ न्यासः पदाध्वनः ।
पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥ १३२ ॥
16.133
तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना ।
तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥ १३३ ॥
16.134
तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा ।
स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥ १३४ ॥
16.135
न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् ।
चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ ॥ १३५ ॥
16.136
दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु ।
धरापदान्नवपदीं मातृकामालिनीगताम् ॥ १३६ ॥
16.137
योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् ।
धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥ १३७ ॥
16.138
विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् ।
मन्त्राध्वनोऽप्येष एव विधिर्विन्यासयोजने ॥ १३८ ॥
16.139
व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा ।
वर्णाध्वनोऽथ विन्यासः कथ्यतेऽत्र विधित्रये ॥ १३९ ॥
16.140
एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् ।
त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु ॥ १४० ॥
16.141
प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः ।
मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥ १४१ ॥
16.142
वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् ।
तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥ १४२ ॥
16.143
श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् ।
अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥ १४३ ॥
16.144
द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते ।
तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥ १४४ ॥
16.145
उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु ।
भूयोऽतिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे ॥ १४५ ॥
16.146
पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः ।
त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥ १४६ ॥
16.147
उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते ।
चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥ १४७ ॥
16.148
निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका ।
द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥ १४८ ॥
16.149
क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् ।
चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥ १४९ ॥
16.150
कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् ।
एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥ १५० ॥
16.151
न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् ।
अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥ १५१ ॥
16.152
शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा ।
एकवीरतया यद्वा षट्कं यामलयोगतः ॥ १५२ ॥
16.153
पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा ।
एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका ॥ १५३ ॥
16.154
षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः ।
द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥ १५४ ॥
16.155
अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् ।
मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥ १५५ ॥
16.156
एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः ।
एकवीरतया सोऽयं चतुर्दशतया स्थितः ॥ १५६ ॥
16.157
अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् ।
देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् ॥ १५७ ॥
16.158
इत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता ।
षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते ॥ १५८ ॥
16.159
अघोराद्यष्टकेनेह शोधनीयं विपश्चिता ।
अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् ॥ १५९ ॥
16.160
भैरवीयहृदा वापि खेचरीहृदयेन वा ।
भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥ १६० ॥
16.161
येन येन हि मन्त्रेण तन्त्रेऽस्मिन्नुद्भवः कृतः ।
तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥ १६१ ॥
16.162
एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः ।
शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥ १६२ ॥
16.163
तदा सप्ततिधा ज्ञेया जननादिविवर्जिता ।
शोध्यभेदोऽथ वक्तव्यः संक्षेपात्सोऽपि कथ्यते ॥ १६३ ॥
16.164
एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः ।
पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥ १६४ ॥
16.165
एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् ।
शोध्यशोधकभेदेन शतानि त्वेकविंशतिः ॥ १६५ ॥
16.166
अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः ।
शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥ १६६ ॥
16.167
जननादिमयी तावत्येवं शतदृशि श्रुतिः ।
स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥ १६७ ॥
16.168
द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका ।
भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥ १६८ ॥
16.169
अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् ।
द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥ १६९ ॥
16.170
एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः ।
गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते ॥ १७० ॥
16.171
प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः ।
तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥ १७१ ॥
16.172
परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् ।
क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥ १७२ ॥
16.173
अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते ।
अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥ १७३ ॥
16.174
श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् ।
शिष्याणां च गुरोश्चोक्तमभिन्नेऽपि क्रियादिके ॥ १७४ ॥
16.175
भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् ।
वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥ १७५ ॥
16.176
तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः ।
भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः ॥ १७६ ॥
16.177
शुभानां कर्मणां चात्र सद्भावे भोगचित्रता ।
तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥ १७७ ॥
16.178
भोगश्च सद्य+उत्क्रान्त्या देहेनैवाथ संगतः ।
तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥ १७८ ॥
16.179
प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते ।
मोक्ष एकोऽपि बीजस्य समयाख्यस्य तादृशम् ॥ १७९ ॥
16.180
बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् ।
वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥ १८० ॥
16.181
सद्य+उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः ।
कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥ १८१ ॥
16.182
दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् ।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ १८२ ॥
16.183
पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः ।
उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥ १८३ ॥
16.184
एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः ।
हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥ १८४ ॥
16.185
पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता ।
तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥ १८५ ॥
16.186
पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या ।
अष्टौ शतानि दीक्षाभेदोऽयं मालिनीतन्त्रे ॥ १८६ ॥
16.187
सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः ।
साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥ १८७ ॥
16.188
द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता ।
पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥ १८८ ॥
16.189
यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा ।
मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥ १८९ ॥
16.190
शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा ।
दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥ १९० ॥
16.191
मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् ।
श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥ १९१ ॥
16.192
भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः ।
भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥ १९२ ॥
16.193
शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् ।
भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥ १९३ ॥
16.194
कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् ।
अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥ १९४ ॥
16.195
अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा ।
अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥ १९५ ॥
16.196
अपवर्गेऽपि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः ।
चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येऽपि क्रमेण सन्धानात् ॥ १९६ ॥
16.197
तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति ।
तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः ॥ १९७ ॥
16.198
इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति ।
क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् ॥ १९८ ॥
16.199
शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् ।
यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥ १९९ ॥
16.200
शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता ।
मोक्षेऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥ २०० ॥
16.201
इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् ।
संस्कारशेषवर्तनजीवितमध्येऽस्य समयलोपाद्यम् ॥ २०१ ॥
16.202
नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् ।
यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥ २०२ ॥
16.203
भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् ।
इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥ २०३ ॥
16.204
समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥ २०४ ॥
16.205
तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् ।
क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेऽपि युक्तमतिविततम् ॥ २०५ ॥
16.206
यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः ।
अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥ २०६ ॥
16.207
एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् ।
शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥ २०७ ॥
16.208
द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा ।
कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥ २०८ ॥
16.209
वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः ।
मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥ २०९ ॥
16.210
उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् ।
बाढमेको हि पाशात्मा शब्दोऽन्यश्च शिवात्मकः ॥ २१० ॥
16.211
तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता ।
श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥ २११ ॥
16.212
सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च ।
षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥ २१२ ॥
16.213
परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् ।
ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् ॥ २१३ ॥
16.214
पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् ।
एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥ २१४ ॥
16.215
कलामायाद्वये चैकं पदमुक्तमिह क्रमात् ।
विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् ॥ २१५ ॥
16.216
एकोनविंशतिः सेयं पदानां स्यात्परापरा ।
सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥ २१६ ॥
16.217
त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः ।
एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥ २१७ ॥
16.218
हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः ।
मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥ २१८ ॥
16.219
शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः ।
मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥ २१९ ॥
16.220
निष्कले शिवतत्त्वे वै परो न्यासः परोदितः ।
परापरापदान्येव ह्यघोर्याद्यष्टकद्वये ॥ २२० ॥
16.221
मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् ।
पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥ २२१ ॥
16.222
अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् ।
बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥ २२२ ॥
16.223
पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे ।
अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः ॥ २२३ ॥
16.224
शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति ।
श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना ॥ २२४ ॥
16.225
अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते ।
देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥ २२५ ॥
16.226
अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे ।
ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥ २२६ ॥
16.227
मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा ।
प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु ॥ २२७ ॥
16.228
त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि ।
दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥ २२८ ॥
16.229
अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् ।
अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥ २२९ ॥
16.230
तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् ।
द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥ २३० ॥
16.231
केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः ।
तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥ २३१ ॥
16.232
निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे ।
इत्यादिना तत्त्वगतक्रमन्यास उदीरितः ॥ २३२ ॥
16.233
पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः ।
द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥ २३३ ॥
16.234
एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् ।
अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥ २३४ ॥
16.235
द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् ।
द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक् ॥ २३५ ॥
16.236
पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी ।
एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥ २३६ ॥
16.237
विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् ।
इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥ २३७ ॥
16.238
एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः ।
पाशजालं विलीयेत तद्ध्यानबलतो गुरोः ॥ २३८ ॥
16.239
शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः ।
जननाद्भोगतः कर्मक्षये स्यादपवृक्तता ॥ २३९ ॥
16.240
देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् ।
मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत् ॥ २४० ॥
16.241
नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् ।
नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥ २४१ ॥
16.242
प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् ।
भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥ २४२ ॥
16.243
यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् ।
योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥ २४३ ॥
16.244
यथामलं मनो दूरस्थितमप्याशु पश्यति ।
तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥ २४४ ॥
16.245
जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति ।
तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥ २४५ ॥
16.246
यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः ।
जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥ २४६ ॥
16.247
एकाकिशोद्धृन्यासे च जननादिविवर्जने ।
तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥ २४७ ॥
16.248
द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् ।
तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥ २४८ ॥
16.249
यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् ।
तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् ॥ २४९ ॥
16.250
विकल्पः किल संजल्पमयो यत्स विमर्शकः ।
मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः ॥ २५० ॥
16.251
नित्यश्चानादिवरदशिवाभेदोपकल्पितः ।
तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥ २५१ ॥
16.252
श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् ।
अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥ २५२ ॥
16.253
सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ ।
परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥ २५३ ॥
16.254
परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः ।
उक्तं श्रीपौष्करेऽन्ये च ब्रह्मविष्ण्वादयोऽण्डगाः ॥ २५४ ॥
16.255
प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः ।
तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः ॥ २५५ ॥
16.256
वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने ।
ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥ २५६ ॥
16.257
श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः ।
ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥ २५७ ॥
16.258
प्राक्कुतः स विमर्शाच्चेत्कुतः सोऽपि निरूपणे ।
आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥ २५८ ॥
16.259
यः संक्रान्तोऽभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः ।
पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥ २५९ ॥
16.260
संजल्पो ह्यभिसंक्रान्तः सोऽद्याप्यस्तीति गृह्यताम् ।
यस्तथाविधसंजल्पबलात्कोऽपि स्वतन्त्रकः ॥ २६० ॥
16.261
विमर्शः कल्प्यते सोऽपि तदात्मैव सुनिश्चितः ।
घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥ २६१ ॥
16.262
सोऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः ।
पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥ २६२ ॥
16.263
करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल ।
शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥ २६३ ॥
16.264
व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी ।
तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥ २६४ ॥
16.265
यावद्बालस्य संवित्तिरकृत्रिमविमर्शने ।
तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥ २६५ ॥
16.266
शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः ।
यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥ २६६ ॥
16.267
तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना ।
एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥ २६७ ॥
16.268
लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः ।
तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥ २६८ ॥
16.269
ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् ।
मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥ २६९ ॥
16.270
गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ ।
तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥ २७० ॥
16.271
गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् ।
अंशेनाप्यथ वैषम्ये न ततोऽर्थक्रिया हि सा ॥ २७१ ॥
16.272
गोमयात्कीटतः कीट इत्येवं न्यायतो यदा ।
संजल्पान्तरतोऽप्यर्थक्रियां तामेव पश्यति ॥ २७२ ॥
16.273
तदैष सत्यसंजल्पः शिव एवेति कथ्यते ।
स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥ २७३ ॥
16.274
नैषोऽभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः ।
योऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः ॥ २७४ ॥
16.275
मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् ।
तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् ॥ २७५ ॥
16.276
कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा ।
तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति ॥ २७६ ॥
16.277
तथा तन्मन्त्रसंजल्पभावितोऽन्यदपि ब्रुवन् ।
अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥ २७७ ॥
16.278
विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति ।
विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥ २७८ ॥
16.279
यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता ।
धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥ २७९ ॥
16.280
तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः ।
भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥ २८० ॥
16.281
वस्त्वेव भावयत्येष न संजल्पमिमं पुनः ।
गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥ २८१ ॥
16.282
एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् ।
अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥ २८२ ॥
16.283
निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् ।
तत्तथैव तथात्मत्वाद्वस्तुनोऽपि बहिःस्थितेः ॥ २८३ ॥
16.284
विशेषतस्त्वमायीयशिवताभेदशालिनः ।
मोक्षेऽभ्युपायः संजल्पो बन्धमोक्षौ ततः किल ॥ २८४ ॥
16.285
विकल्पेऽपि गुरोः सम्यगभिन्नशिवताजुषः ।
अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते ॥ २८५ ॥
16.286
तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता ।
महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥ २८६ ॥
16.287
निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् ।
सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥ २८७ ॥
16.288
उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते ।
मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥ २८८ ॥
16.289
योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना ।
तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥ २८९ ॥
16.290
तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् ।
सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥ २९० ॥
16.291
न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।
क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥ २९१ ॥
16.292
द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् ।
नच योगाधिकारित्वमेकमेवानया भवेत् ॥ २९२ ॥
16.293
अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया ।
अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥ २९३ ॥
16.294
मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः ।
मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥ २९४ ॥
16.295
तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् ।
तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥ २९५ ॥
16.296
तत्स्यादस्यान्यतत्त्वेऽपि युक्तस्य गुरुणा शिशोः ।
दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः ॥ २९६ ॥
16.297
स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः ।
तेन विज्ञानयोगादिबली प्राक् समयी भवन् ॥ २९७ ॥
16.298
पुत्रको वा न तावान्स्यादपितु स्वबलोचितः ।
यस्तु विज्ञानयोगादिवन्ध्यः सोऽन्धो यथा पथि ॥ २९८ ॥
16.299
दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा ।
दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥ २९९ ॥
16.300
मोचिकैवेति कथितं युक्त्या चागमतः पुरा ।
यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥ ३०० ॥
16.301
स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः ।
सोऽपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥ ३०१ ॥
16.302
गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः ।
दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥ ३०२ ॥
16.303
कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् ।
यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥ ३०३ ॥
16.304
त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि ।
तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥ ३०४ ॥
16.305
कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः ।
ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥ ३०५ ॥
16.306
गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् ।
यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥ ३०६ ॥
16.307
स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् ।
शुभपाकक्रमोपात्तफलभोगसमाप्तितः ॥ ३०७ ॥
16.308
यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते ।
भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥ ३०८ ॥
16.309
अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः ।
भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥ ३०९ ॥
16.310
न दुःखफलदं देहाद्यध्वमध्येऽपि किंचन ।
ततो मायालये भुक्तसमस्तसुखभोगकः ॥ ३१० ॥
16.311
निष्कले सकले वैति लयं योजनिकाबलात् ।
इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥ ३११ ॥
Ahnika 17 – Devanagari
17.1
अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे ।
एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥ १ ॥
17.2
गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् ।
कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥ २ ॥
17.3
शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः ।
तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥ ३ ॥
17.4
इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् ।
बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥ ४ ॥
17.5
अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता ।
नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥ ५ ॥
17.6
वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् ।
तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥ ६ ॥
17.7
श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे ।
ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥ ७ ॥
17.8
सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् ।
तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥ ८ ॥
17.9
इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् ।
तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥ ९ ॥
17.10
मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् ।
आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥ १० ॥
17.11
कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् ।
तारो वर्णोऽथ संबुद्धिपदं त्वामित्यतः परम् ॥ ११ ॥
17.12
उत्तमैकयुतं कर्मपदं दीपकमप्यतः ।
तभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम् ॥ १२ ॥
17.13
इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् ।
आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥ १३ ॥
17.14
आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः ।
भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥ १४ ॥
17.15
शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता ।
अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥ १५ ॥
17.16
जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः ।
आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥ १६ ॥
17.17
नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् ।
ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥ १७ ॥
17.18
ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः ।
आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥ १८ ॥
17.19
अनेनैव पथानेयमित्यस्मद्गुरवो जगुः ।
परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥ १९ ॥
17.20
अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् ।
तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥ २० ॥
17.21
तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता ।
संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥ २१ ॥
17.22
प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता ।
संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥ २२ ॥
17.23
स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् ।
देवमावाहयामीति ततो देवाय दीपकम् ॥ २३ ॥
17.24
प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् ।
नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥ २४ ॥
17.25
आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् ।
तत्र बाह्येऽपि तादात्म्यप्रसिद्धं कर्म चोद्यते ॥ २५ ॥
17.26
यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् ।
अनाभासिततद्वस्तुभासनाय नियुज्यते ॥ २६ ॥
17.27
मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् ।
तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥ २७ ॥
17.28
तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् ।
बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥ २८ ॥
17.29
तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु ।
यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥ २९ ॥
17.30
अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव ।
ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम् ॥ ३० ॥
17.31
कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् ।
ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥ ३१ ॥
17.32
शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा ।
पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥ ३२ ॥
17.33
कुर्यादात्मीयहृदयस्थितमप्यवभासकम् ।
शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥ ३३ ॥
17.34
स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः ।
स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥ ३४ ॥
17.35
तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः ।
मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥ ३५ ॥
17.36
तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः ।
गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥ ३६ ॥
17.37
जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया ।
ततोऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥ ३७ ॥
17.38
ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् ।
संस्काराणां चतुष्केऽस्मिन्नपरां च परापराम् ॥ ३८ ॥
17.39
मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् ।
पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥ ३९ ॥
17.40
इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ ।
अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥ ४० ॥
17.41
गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च ।
स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥ ४१ ॥
17.42
परं परापरामन्त्रममुकात्मन इत्यथ ।
जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥ ४२ ॥
17.43
अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः ।
उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥ ४३ ॥
17.44
भोगे लयं करोमीति पुनर्मन्त्रं तमेव च ।
स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥ ४४ ॥
17.45
एष एव वमन्यादौ विधिः पञ्चदशान्तके ।
पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥ ४५ ॥
17.46
पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः ।
हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः ॥ ४६ ॥
17.47
संस्काराणां चतुष्केऽस्मिन्ये मन्त्राः कथिता मया ।
तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥ ४७ ॥
17.48
ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च ।
शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥ ४८ ॥
17.49
तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया ।
प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥ ४९ ॥
17.50
ततो यदि समीहेत धरातत्त्वान्तरालगम् ।
पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥ ५० ॥
17.51
अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः ।
दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥ ५१ ॥
17.52
एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः ।
तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतोऽपिवा ॥ ५२ ॥
17.53
ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया ।
अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥ ५३ ॥
17.54
यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् ।
न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥ ५४ ॥
17.55
तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् ।
तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥ ५५ ॥
17.56
सकर्मपदया दद्यादिति केचित्तु मन्वते ।
अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥ ५६ ॥
17.57
नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः ।
दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥ ५७ ॥
17.58
एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः ।
ततः शिष्यहृदं नेयः स आत्मा तावतोऽध्वनः ॥ ५८ ॥
17.59
शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः ।
महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥ ५९ ॥
17.60
जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् ।
पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥ ६० ॥
17.61
धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा ।
भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥ ६१ ॥
17.62
तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् ।
सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥ ६२ ॥
17.63
पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे ।
कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥ ६३ ॥
17.64
ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके ।
आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥ ६४ ॥
17.65
एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् ।
छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥ ६५ ॥
17.66
कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् ।
पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥ ६६ ॥
17.67
मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा ।
व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥ ६७ ॥
17.68
प्लुष्टो लीनस्वभावोऽसौ पाशस्तं प्रति शम्भुवत् ।
परमेशमहातेजःशेषमात्रत्वमश्नुते ॥ ६८ ॥
17.69
कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम् ।
अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥ ६९ ॥
17.70
दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् ।
एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥ ७० ॥
17.71
पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् ।
दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥ ७१ ॥
17.72
निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् ।
पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥ ७२ ॥
17.73
गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ ।
समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥ ७३ ॥
17.74
मायान्ते शुद्धिमायाते वागीशी या पुराभवत् ।
माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥ ७४ ॥
17.75
तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् ।
एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् ॥ ७५ ॥
17.76
शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् ।
यतोऽधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे ॥ ७६ ॥
17.77
इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः ।
शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥ ७७ ॥
17.78
आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले ।
ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥ ७८ ॥
17.79
शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् ।
कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥ ७९ ॥
17.80
उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः ।
प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥ ८० ॥
17.81
तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् ।
शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥ ८१ ॥
17.82
ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् ।
द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥ ८२ ॥
17.83
उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् ।
मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥ ८३ ॥
17.84
जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् ।
शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥ ८४ ॥
17.85
तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु ।
शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥ ८५ ॥
17.86
आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः ।
जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥ ८६ ॥
17.87
मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् ।
खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥ ८७ ॥
17.88
उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा ।
कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥ ८८ ॥
17.89
शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् ।
एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥ ८९ ॥
17.90
तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् ।
तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥ ९० ॥
17.91
एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना ।
न भूयः पशुतामेति दग्धमायानिबन्धनः ॥ ९१ ॥
17.92
देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् ।
भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥ ९२ ॥
17.93
तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः ।
पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥ ९३ ॥
17.94
मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता ।
दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥ ९४ ॥
17.95
बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः ।
कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥ ९५ ॥
17.96
निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् ।
कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥ ९६ ॥
17.97
इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा ।
श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥ ९७ ॥
17.98
तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् ।
तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥ ९८ ॥
17.99
शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् ।
सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥ ९९ ॥
17.100
विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः ।
शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥ १०० ॥
17.101
अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् ।
पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥ १०१ ॥
17.102
विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् ।
तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥ १०२ ॥
17.103
पृथिवी स्थिररूपास्य शिवरूपेण भाविता ।
स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥ १०३ ॥
17.104
जलमाप्याययत्येनां तेजो भास्वरतां नयेत् ।
मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥ १०४ ॥
17.105
एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते ।
परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥ १०५ ॥
17.106
शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः ।
शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥ १०६ ॥
17.107
तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता ।
संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥ १०७ ॥
17.108
शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके ।
नियमो रञ्जनं कर्तृभावः कलनया सह ॥ १०८ ॥
17.109
वेदनं हेयवस्त्वंशविषये सुप्तकल्पता ।
इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम् ॥ १०९ ॥
17.110
शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति ।
विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥ ११० ॥
17.111
इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योऽपि तन्मयः ।
भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥ १११ ॥
17.112
बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः ।
निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥ ११२ ॥
17.113
एतानि व्यापके भावे यदा स्युर्मनसा सह ।
मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥ ११३ ॥
17.114
इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः ।
इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥ ११४ ॥
17.115
श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने ।
समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥ ११५ ॥
17.116
मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा ।
द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥ ११६ ॥
17.117
ईशान्ते च पिवन्यादि सकलान्तेऽङ्गपञ्चकम् ।
इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥ ११७ ॥
17.118
पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः ।
तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥ ११८ ॥
17.119
क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् ।
यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥ ११९ ॥
17.120
प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके ।
एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥ १२० ॥
17.121
विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः ।
तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥ १२१ ॥
17.122
इत्येषा कथिता दीक्षा जननादिसमन्विता ॥ १२२ ॥
Ahnika 18 – Devanagari
18.1
अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते ।
न रजो नाधिवासोऽत्र न भूक्षेत्रपरिग्रहः ।
यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥ १ ॥
18.2
अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः ।
जननादिविहीनां तु येन येनाध्वना गुरुः ॥ २ ॥
18.3
कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः ।
परामन्त्रस्ततोऽस्येति तत्त्वं संशोधयाम्यथ ॥ ३ ॥
18.4
स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् ।
एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥ ४ ॥
18.5
परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् ।
शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥ ५ ॥
18.6
ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् ।
दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥ ६ ॥
18.7
प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् ।
यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥ ७ ॥
18.8
यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः ।
गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥ ८ ॥
18.9
श्रीब्रह्मयामले चोक्तं संक्षिप्तेऽपि हि भावयेत् ।
व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥ ९ ॥
18.10
अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् ।
क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥ १० ॥
18.11
संक्षिप्तो विधिरुक्तोऽयं कृपया यः शिवोदितः ।
दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥ ११ ॥
Ahnika 19 – Devanagari
19.1
अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते ।
तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् ।
इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥ १ ॥
19.2
देहपाते समीपस्थे शक्तिपातस्फुटत्वतः ।
आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥ २ ॥
19.3
शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात् ।
व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥ ३ ॥
19.4
यदा ह्यासन्नमरणे शक्तिपातः प्रजायते ।
तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥ ४ ॥
19.5
अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् ।
पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥ ५ ॥
19.6
आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् ।
अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् ॥ ६ ॥
19.7
नत्वपक्वमले नापि शेषकार्मिकविग्रहे ।
कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥ ७ ॥
19.8
दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् ।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ ८ ॥
19.9
विशेषणविशेष्यत्वे कामचारविधानतः ।
पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥ ९ ॥
19.10
विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः ।
क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥ १० ॥
19.11
कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् ।
संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥ ११ ॥
19.12
आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् ।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥ १२ ॥
19.13
तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया ।
कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥ १३ ॥
19.14
अनेन क्रमयोगेन योजितो हुतिवर्जितः ।
समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥ १४ ॥
19.15
षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् ।
क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥ १५ ॥
19.16
प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् ।
पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥ १६ ॥
19.17
ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् ।
चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥ १७ ॥
19.18
दीपनं ताडनं तोदं चलनं च पुनः पुनः ।
कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥ १८ ॥
19.19
द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् ।
निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥ १९ ॥
19.20
न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे ।
देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥ २० ॥
19.21
श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः ।
हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥ २१ ॥
19.22
शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् ।
उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥ २२ ॥
19.23
एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते ।
इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥ २३ ॥
19.24
अनभ्यस्तप्राणचारः कथमेनां करिष्यति ।
वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥ २४ ॥
19.25
कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् ।
स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥ २५ ॥
19.26
मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे ।
योगाभ्यासमकृत्वापि सद्य+उत्क्रान्तिदां गुरुः ॥ २६ ॥
19.27
ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः ।
अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥ २७ ॥
19.28
कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः ।
सद्य+उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥ २८ ॥
19.29
दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः ।
विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥ २९ ॥
19.30
कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः ।
निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥ ३० ॥
19.31
तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् ।
समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥ ३१ ॥
19.32
तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते ।
एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥ ३२ ॥
19.33
नाध्यापनोपदेशे वा स एषोऽध्ययनादृते ।
पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥ ३३ ॥
19.34
यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् ।
आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥ ३४ ॥
19.35
यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि ।
न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥ ३५ ॥
19.36
तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः ।
तस्मिन्मुक्ते न लुप्येत यतो किंचित्करोऽत्र सः ॥ ३६ ॥
19.37
ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥ ३७ ॥
19.38
हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते ।
पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥ ३८ ॥
19.39
स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः ।
तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः ॥ ३९ ॥
19.40
तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् ।
स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते ॥ ४० ॥
19.41
अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया ।
प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥ ४१ ॥
19.42
मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः ।
मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥ ४२ ॥
19.43
अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः ।
तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥ ४३ ॥
19.44
स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः ।
यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥ ४४ ॥
19.45
जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते ।
प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥ ४५ ॥
19.46
दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि ।
अत एव निजं शास्त्रं पठति क्वापि सामये ॥ ४६ ॥
19.47
तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः ।
शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥ ४७ ॥
19.48
इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति ।
यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥ ४८ ॥
19.49
कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि ।
यतोऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥ ४९ ॥
19.50
प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः ।
साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥ ५० ॥
19.51
मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् ।
इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥ ५१ ॥
19.52
समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये ।
स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥ ५२ ॥
19.53
अकृताधिकृतिर्वापि गुरुः समयशुद्धये ।
अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥ ५३ ॥
19.54
इतीयं सद्य+उत्क्रान्तिः सूचिता मालिनीमते ।
स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥ ५४ ॥
19.55
सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि ।
तदा तेन क्रमेणाशु योजितः समयी शिवः ॥ ५५ ॥
19.56
उक्तेयं सद्य+उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥ ५६ ॥
Ahnika 20 – Devanagari
20.1
अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् ॥ १ ॥
20.2
त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वलेऽभितः ।
वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥ २ ॥
20.3
बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे ।
करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥ ३ ॥
20.4
वह्निदीपितफट्कारधोरणीदाहपीडितम् ।
बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥ ४ ॥
20.5
तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु ।
मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥ ५ ॥
20.6
दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् ।
स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥ ६ ॥
20.7
बीजस्याप्यत्र कार्या च योजना कृपया गुरोः ।
यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥ ७ ॥
20.8
यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि ।
ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥ ८ ॥
20.9
अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः ।
साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥ ९ ॥
20.10
निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते ।
ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥ १० ॥
20.11
ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् ।
तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥ ११ ॥
20.12
यथा श्रीतन्त्रसद्भावे कथिता परमेशिना ।
श्रीपूर्वशास्त्रेऽप्येषा च सूचिता परमेशिना ॥ १२ ॥
20.13
आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी ।
इत्येवंवदता शक्तितारतम्याभिधायिना ॥ १३ ॥
20.14
उद्भवो लघुभावेन देहग्रहतिरोहितेः ।
देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥ १४ ॥
20.15
भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् ।
कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥ १५ ॥
20.16
उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी ।
Ahnika 21 – Devanagari
21.1
परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥ १ ॥
21.2
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ।
इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥ २ ॥
21.3
सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् ।
तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥ ३ ॥
21.4
तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।
इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥ ४ ॥
21.5
तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् ।
किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥ ५ ॥
21.6
गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् ।
गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥ ६ ॥
21.7
अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः ।
प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥ ७ ॥
21.8
डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः ।
मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥ ८ ॥
21.9
भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम् ।
बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥ ९ ॥
21.10
स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा ।
विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥ १० ॥
21.11
गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् ।
श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥ ११ ॥
21.12
अदीक्षिते नृपत्यादावलसे पतिते मृते ।
बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥ १२ ॥
21.13
विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते ।
गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥ १३ ॥
21.14
अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने ।
नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥ १४ ॥
21.15
मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् ।
भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥ १५ ॥
21.16
क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः ।
ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥ १६ ॥
21.17
तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा ।
एकादशैते कथिताः संनिधानाय हेतवः ॥ १७ ॥
21.18
उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् ।
क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥ १८ ॥
21.19
एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति ।
मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥ १९ ॥
21.20
अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम् ।
तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥ २० ॥
21.21
येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् ।
आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥ २१ ॥
21.22
शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः ।
कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥ २२ ॥
21.23
गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् ।
ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥ २३ ॥
21.24
प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् ।
महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥ २४ ॥
21.25
चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते ।
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं
विक्षिपन् व्याप्तुमीष्टे ।
यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति
महाजालनामा प्रयोगः ॥ २५ ॥
21.26
एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ
ततोऽप्यध्वमध्याद्यथेष्टम् ।
आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो
जालनामा मयोक्तः ॥ २६ ॥
21.27
चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति
।
करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः
॥ २७ ॥
21.28
महाजालसमाकृष्टो जीवो विज्ञानशालिना ।
स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥ २८ ॥
21.29
तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् ।
योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥ २९ ॥
21.30
स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः ।
त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥ ३० ॥
21.31
अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः ।
न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥ ३१ ॥
21.32
तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा ।
भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥ ३२ ॥
21.33
तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम् ।
दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥ ३३ ॥
21.34
योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः ।
मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥ ३४ ॥
21.35
सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः ।
आकृष्टो दार्भमायाति देहं फलमयं च वा ॥ ३५ ॥
21.36
जातीफलादि यत्किंचित्तेन वा देहकल्पना ।
अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥ ३६ ॥
21.37
ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः ।
मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥ ३७ ॥
21.38
न स्पन्दते न जानाति न वक्ति न किलेच्छति ।
तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥ ३८ ॥
21.39
निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् ।
विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥ ३९ ॥
21.40
दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह ।
मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥ ४० ॥
21.41
सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः ।
तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥ ४१ ॥
21.42
साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते ।
मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥ ४२ ॥
21.43
जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा ।
तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥ ४३ ॥
21.44
संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः ।
शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥ ४४ ॥
21.45
पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् ।
जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥ ४५ ॥
21.46
परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः ।
तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥ ४६ ॥
21.47
भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा ।
कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥ ४७ ॥
21.48
परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् ।
भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥ ४८ ॥
21.49
उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा ।
बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥ ४९ ॥
21.50
श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ ।
परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥ ५० ॥
21.51
अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति ।
धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥ ५१ ॥
21.52
विस्तरो घोररूपश्च महीं धावति चाप्यधः ।
ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥ ५२ ॥
21.53
ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः ।
तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥ ५३ ॥
21.54
नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः ।
अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥ ५४ ॥
21.55
इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः ।
अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः ॥ ५५ ॥
21.56
परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् ।
प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम् ॥ ५६ ॥
21.57
शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् ।
यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा ॥ ५७ ॥
21.58
प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् ।
कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥ ५८ ॥
21.59
सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून् ।
इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥ ५९ ॥
21.60
शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः ।
न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥ ६० ॥
21.61
निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः ।
एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥ ६१ ॥
Ahnika 22 – Devanagari
22.1
लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥ १ ॥
22.2
उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् ।
उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते ॥ २ ॥
22.3
योग्यतावशसंजाता यस्य यत्रैव शासना ।
स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥ ३ ॥
22.4
फलं सर्वं समासाद्य शिवे युक्तोऽपवृज्यते ।
अयुक्तोऽप्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः ॥ ४ ॥
22.5
शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः ।
उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥ ५ ॥
22.6
कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा ।
अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥ ६ ॥
22.7
न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति ।
अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि ॥ ७ ॥
22.8
तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता ।
समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥ ८ ॥
22.9
शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता ।
शिवज्ञानेन च विना भूयोऽपि पशुतोद्भवः ॥ ९ ॥
22.10
क्रमश्च शक्तिसंपातो मलहानिर्यियासुता ।
दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥ १० ॥
22.11
भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः ।
स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥ ११ ॥
22.12
प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि ।
अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥ १२ ॥
22.13
यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् ।
लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥ १३ ॥
22.14
प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां व्रजेत् ।
तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥ १४ ॥
22.15
स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् ।
एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥ १५ ॥
22.16
प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् ।
स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् ॥ १६ ॥
22.17
अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् ।
एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् ॥ १७ ॥
22.18
अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः ।
स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥ १८ ॥
22.19
पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् ।
ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् ॥ १९ ॥
22.20
प्रणवो मातृका माया व्योमव्यापी षडक्षरः ।
बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी ॥ २० ॥
22.21
तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् ।
सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् ॥ २१ ॥
22.22
मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते ।
वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥ २२ ॥
22.23
पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् ।
प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥ २३ ॥
22.24
शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा ।
प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् ॥ २४ ॥
22.25
तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् ।
श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥ २५ ॥
22.26
ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः ।
क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम् ॥ २६ ॥
22.27
तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् ।
ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥ २७ ॥
22.28
अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः ।
प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥ २८ ॥
22.29
साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः ।
पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥ २९ ॥
22.30
मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः ।
इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥ ३० ॥
22.31
श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः ।
गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥ ३१ ॥
22.32
कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल ।
अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत् ॥ ३२ ॥
22.33
स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः ।
तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥ ३३ ॥
22.34
अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् ।
जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥ ३४ ॥
22.35
ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् ।
अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥ ३५ ॥
22.36
तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् ।
तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥ ३६ ॥
22.37
दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः ।
प्राप्तोऽपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् ॥ ३७ ॥
22.38
विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् ।
सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥ ३८ ॥
22.39
अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् ।
न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥ ३९ ॥
22.40
अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् ।
सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि ॥ ४० ॥
22.41
भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके ।
सिद्धवीरावलीसारे भैरवीये कुलेऽपि च ॥ ४१ ॥
22.42
पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता ।
तेन सर्वोऽधरस्थोऽपि लिङ्गोद्धृत्यानुगृह्यते ॥ ४२ ॥
22.43
योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् ।
शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून् ॥ ४३ ॥
22.44
तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः ।
ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥ ४४ ॥
22.45
उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा ।
आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥ ४५ ॥
22.46
विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति ।
गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥ ४६ ॥
22.47
प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि ।
सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥ ४७ ॥
22.48
तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः ।
इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥ ४८ ॥
Ahnika 23 – Devanagari
23.1
अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥ १ ॥
23.2
यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि ।
सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥ २ ॥
23.3
स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् ।
योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥ ३ ॥
23.4
यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः ।
समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥ ४ ॥
23.5
यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् ।
स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥ ५ ॥
23.6
सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते ।
ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥ ६ ॥
23.7
पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः ।
समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥ ७ ॥
23.8
न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना ।
अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥ ८ ॥
23.9
पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् ।
भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥ ९ ॥
23.10
कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले ।
पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥ १० ॥
23.11
श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः ।
यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥ ११ ॥
23.12
यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् ।
योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥ १२ ॥
23.13
तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् ।
यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥ १३ ॥
23.14
यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् ।
देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् ॥ १४ ॥
23.15
तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः ।
गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥ १५ ॥
23.16
कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे ।
अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥ १६ ॥
23.17
अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् ।
प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥ १७ ॥
23.18
ततोऽभिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् ।
तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥ १८ ॥
23.19
विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् ।
सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥ १९ ॥
23.20
अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः ।
उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥ २० ॥
23.21
नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः ।
ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥ २१ ॥
23.22
ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् ।
दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥ २२ ॥
23.23
अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् ।
अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥ २३ ॥
23.24
सर्वोपकरणव्रातमर्पणीयं विपश्चिते ।
सोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥ २४ ॥
23.25
ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो ।
दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥ २५ ॥
23.26
इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत् ।
ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥ २६ ॥
23.27
यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः ।
कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥ २७ ॥
23.28
सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते ।
प्राक् च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥ २८ ॥
23.29
यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते ।
न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥ २९ ॥
23.30
न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः ।
योऽस्य स्यान्नरके वास इह च व्याधितो भवेत् ॥ ३० ॥
23.31
प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् ।
सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥ ३१ ॥
23.32
यदैव तन्मयीभूतस्तदा वीर्यमुपागतः ।
छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥ ३२ ॥
23.33
हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा ।
लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥ ३३ ॥
23.34
द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे ।
तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥ ३४ ॥
23.35
चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् ।
यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥ ३५ ॥
23.36
तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् ।
एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥ ३६ ॥
23.37
मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् ।
अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥ ३७ ॥
23.38
समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् ।
यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥ ३८ ॥
23.39
तत्र तत्र महामन्त्र इति देव्याख्ययामले ।
विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥ ३९ ॥
23.40
तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने ।
तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥ ४० ॥
23.41
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ।
कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥ ४१ ॥
23.42
कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन ।
रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥ ४२ ॥
23.43
आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने ।
नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥ ४३ ॥
23.44
चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये ।
देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥ ४४ ॥
23.45
अविदन्दीक्षमाणोऽपि न दुष्येद्दैशिकः क्वचित् ।
ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥ ४५ ॥
23.46
बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः ।
भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥ ४६ ॥
23.47
तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् ।
ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥ ४७ ॥
23.48
तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् ।
सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति ॥ ४८ ॥
23.49
विद्युद्वत्पापशीलस्य यथा पापापवर्जने ।
रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः ॥ ४९ ॥
23.50
अप्ररूढतथेच्छाकस्तत एव न भाजनम् ।
यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥ ५० ॥
23.51
लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् ।
अज्ञातेऽपि पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥ ५१ ॥
23.52
पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः ।
तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥ ५२ ॥
23.53
ततो निजहृदम्भोजबोधाम्बरतलोदिताम् ।
स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥ ५३ ॥
23.54
वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् ।
चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥ ५४ ॥
23.55
अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः ।
विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥ ५५ ॥
23.56
ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् ।
अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥ ५६ ॥
23.57
उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् ।
तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥ ५७ ॥
23.58
किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः ।
स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥ ५८ ॥
23.59
गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् ।
कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥ ५९ ॥
23.60
अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये ।
योजनानुग्रहे कार्यचतुष्केऽधिकृतो गुरुः ॥ ६० ॥
23.61
शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् ।
तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥ ६१ ॥
23.62
अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् ।
गुरोर्मूढतया कोपधामापि न तिरोहितः ॥ ६२ ॥
23.63
गुरुर्हि कुपितो यस्य स तिरोहित उच्यते ।
संसारी सतु देवो हि गुरुर्न च मृषाविदः ॥ ६३ ॥
23.64
तत एव च शास्त्रादिदूषको यद्यपि क्रुधा ।
न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः ॥ ६४ ॥
23.65
अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ ।
न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा ॥ ६५ ॥
23.66
ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् ।
किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥ ६६ ॥
23.67
शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः ।
मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा ॥ ६७ ॥
23.68
स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् ।
न कार्यं पततां हस्तालम्बः सह्यो न पातनम् ॥ ६८ ॥
23.69
अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् ।
प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥ ६९ ॥
23.70
ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् ।
अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् ॥ ७० ॥
23.71
अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः ।
ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् ॥ ७१ ॥
23.72
राज्ञे द्रुह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते ।
विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥ ७२ ॥
23.73
श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः ।
अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः ॥ ७३ ॥
23.74
गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते ।
तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥ ७४ ॥
23.75
अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः ।
अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः ॥ ७५ ॥
23.76
त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः ।
ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥ ७६ ॥
23.77
अत एव पुराभूतगुर्वभावो यदा तदा ।
तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥ ७७ ॥
23.78
सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् ।
स्यादन्यतरगो दोषो योऽधिकारापघातकः ॥ ७८ ॥
23.79
दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते ।
अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥ ७९ ॥
23.80
शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता ।
मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥ ८० ॥
23.81
न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते ।
असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥ ८१ ॥
23.82
एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् ।
नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥ ८२ ॥
23.83
अज्ञानादय एवैते दोषा न लौकिका गुरोः ।
इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥ ८३ ॥
23.84
न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् ।
स एव तद्विजानाति युक्तं चायुक्तमेव वा ॥ ८४ ॥
23.85
अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु ।
तदा निवारणीयोऽसौ प्रणतेन विपश्चिता ॥ ८५ ॥
23.86
विशेषणमकार्याणामुक्ताभिप्रायमेव यत् ।
तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते ॥ ८६ ॥
23.87
तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् ।
न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥ ८७ ॥
23.88
कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः ।
तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥ ८८ ॥
23.89
यतस्तदप्रियं नैष शृणुयादिति भाषितम् ।
श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः ॥ ८९ ॥
23.90
यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् ।
तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥ ९० ॥
23.91
उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् ।
शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥ ९१ ॥
23.92
दृढानुरागसुभगसंरम्भाभोगभागिनः ।
स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥ ९२ ॥
23.93
नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् ।
चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा ॥ ९३ ॥
23.94
भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन् ।
विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥ ९४ ॥
23.95
प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः ।
असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥ ९५ ॥
23.96
इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः ।
अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् ॥ ९६ ॥
23.97
अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् ।
तेऽर्धनारीशपुरगा गुरवः समयच्युताः ॥ ९७ ॥
23.98
अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् ।
अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥ ९८ ॥
23.99
इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः ।
भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥ ९९ ॥
23.100
षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः ।
एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥ १०० ॥
23.101
ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् ।
साधकस्याभिषेकेऽपि सर्वोऽयं कथ्यते विधिः ॥ १०१ ॥
23.102
अधिकारार्पणं नात्र नच विद्याव्रतं किल ।
साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥ १०२ ॥
23.103
समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम् ।
अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥ १०३ ॥
Ahnika 24 – Devanagari
24.1
अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥ १ ॥ब्
24.2
सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् ।
शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥ २ ॥
24.3
ऊर्ध्वशासनगानां च समयोपहतात्मनाम् ।
अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥ ३ ॥
24.4
समयाचारदोषेषु प्रमादात्स्खलितस्य हि ।
अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥ ४ ॥
24.5
यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ ।
प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥ ५ ॥
24.6
श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते ।
अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥ ६ ॥
24.7
संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता ।
पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥ ७ ॥
24.8
पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये ।
आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥ ८ ॥
24.9
अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि ।
मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥ ९ ॥
24.10
कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना ।
न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥ १० ॥
24.11
केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि ।
पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥ ११ ॥
24.12
संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् ।
तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥ १२ ॥
24.13
बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् ।
घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥ १३ ॥
24.14
सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः ।
ताडयेत कलाः सर्वाः कम्पतेऽसौ ततः पशुः ॥ १४ ॥
24.15
उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे ।
प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥ १५ ॥
24.16
तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः ।
इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥ १६ ॥
24.17
साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः ।
दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥ १७ ॥
24.18
तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम् ।
ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥ १८ ॥
24.19
पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् ।
ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥ १९ ॥
24.20
एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः ।
एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥ २० ॥
24.21
पुर्यष्टकस्याभावे च न स्वर्गनरकादयः ।
तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥ २१ ॥
24.22
उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि ।
पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥ २२ ॥
24.23
शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् ।
क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥ २३ ॥
24.24
इत्युक्तोऽन्त्येष्टियागोऽयं परमेश्वरभाषितः ॥ २४ ॥
Ahnika 25 – Devanagari
25.1
अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥ १ ॥ब्
25.2
सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे ।
अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥ २ ॥
25.3
त्र्यहे तुर्येऽह्नि दशमे मासि मास्याद्यवत्सरे ।
वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥ ३ ॥
25.4
तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा ।
ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥ ४ ॥
25.5
गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् ।
ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥ ५ ॥
25.6
ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत् ।
भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥ ६ ॥
25.7
भोग्यतान्या तनुर्देह इति पाशात्मका मताः ।
श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥ ७ ॥
25.8
एकेनैव विधानेन यद्यपि स्यात्कृतार्थता ।
तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥ ८ ॥
25.9
बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि ।
हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥ ९ ॥
25.10
तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोऽप्ययम् ।
अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥ १० ॥
25.11
तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् ।
तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥ ११ ॥
25.12
यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् ।
जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥ १२ ॥
25.13
पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः ।
तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥ १३ ॥
25.14
नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् ।
श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥ १४ ॥
25.15
तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये ।
स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥ १५ ॥
25.16
यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् ।
सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥ १६ ॥
25.17
श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः ।
प्रत्येति वैदिके भग्नघण्टावन्न स किंचन ॥ १७ ॥
25.18
तथोक्तदेवपूजादिचक्रयागान्तकर्मणा ।
रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥ १८ ॥
25.19
अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् ।
या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥ १९ ॥
25.20
भावनातन्मयीभावे सा नाडी वहति स्फुटम् ।
यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥ २० ॥
25.21
आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् ।
एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥ २१ ॥
25.22
कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना ।
शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥ २२ ॥
25.23
करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते ।
उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥ २३ ॥
25.24
उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् ।
उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥ २४ ॥
25.25
मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि ।
चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥ २५ ॥
25.26
प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः ।
सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥ २६ ॥
25.27
प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् ।
अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥ २७ ॥
25.28
मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु ।
इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥ २८ ॥
25.29
इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् ।
उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥ २९ ॥
Ahnika 26 – Devanagari
26.1
अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥ १ ॥ब्
26.2
दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता ।
सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥ २ ॥
26.3
तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी ।
अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥ ३ ॥
26.4
तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् ।
वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥ ४ ॥
26.5
बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः ।
प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥ ५ ॥
26.6
ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने ।
तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥ ६ ॥
26.7
आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् ।
तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥ ७ ॥
26.8
स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि ।
शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥ ८ ॥
26.9
यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् ।
प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् ॥ ९ ॥
26.10
तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये ।
क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥ १० ॥
26.11
तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे ।
काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥ ११ ॥
26.12
तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे ।
गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥ १२ ॥
26.13
नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः ।
विशेषवशतः किंच पवित्रकविधिक्रमः ॥ १३ ॥
26.14
आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता ।
व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥ १४ ॥
26.15
तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् ।
तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥ १५ ॥
26.16
मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् ।
दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥ १६ ॥
26.17
तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः ।
न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥ १७ ॥
26.18
साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपिवा ।
पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये ॥ १८ ॥
26.19
वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः ।
ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥ १९ ॥
26.20
तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः ।
लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥ २० ॥
26.21
मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच ।
गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥ २१ ॥
26.22
लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः ।
संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥ २२ ॥
26.23
पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः ।
ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते ॥ २३ ॥
26.24
ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति ।
इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥ २४ ॥
26.25
तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् ।
यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥ २५ ॥
26.26
तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः ।
देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥ २६ ॥
26.27
देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् ।
तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥ २७ ॥
26.28
अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् ।
ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥ २८ ॥
26.29
न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः ।
तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥ २९ ॥
26.30
कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् ।
आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥ ३० ॥
26.31
शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् ।
मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ॥ ३१ ॥
26.32
देहासुधीव्योमभूषु मनसा तत्र चार्चनम् ।
जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥ ३२ ॥
26.33
तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् ।
अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥ ३३ ॥
26.34
सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् ।
यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥ ३४ ॥
26.35
तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् ।
सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥ ३५ ॥
26.36
कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः ।
सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥ ३६ ॥
26.37
तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ ।
ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥ ३७ ॥
26.38
स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः ।
सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥ ३८ ॥
26.39
अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः ।
तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥ ३९ ॥
26.40
ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् ।
पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥ ४० ॥
26.41
ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् ।
बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥ ४१ ॥
26.42
प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः ।
एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥ ४२ ॥
26.43
सर्वगोऽपि मरुद्यद्वद्व्यजनेनोपजीवितः ।
अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥ ४३ ॥
26.44
चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते ।
श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥ ४४ ॥
26.45
देवः सर्वगतो देव निर्मर्यादः कथं शिवः ।
आवाह्यते क्षम्यते वेत्येवंपृष्टोऽब्रवीद्विभुः ॥ ४५ ॥
26.46
वासनावाह्यते देवि वासना च विसृज्यते ।
परमार्थेन देवस्य नावाहनविसर्जने ॥ ४६ ॥
26.47
आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः ।
पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥ ४७ ॥
26.48
प्राणिनामप्रबुद्धानां सन्तोषजननाय वै ।
आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥ ४८ ॥
26.49
कालेन तु विजानन्ति प्रवृत्ताः पतिशासने ।
अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥ ४९ ॥
26.50
ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः ।
कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः ॥ ५० ॥
26.51
स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः ।
आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥ ५१ ॥
26.52
धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः ।
दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥ ५२ ॥
26.53
रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः ।
आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥ ५३ ॥
26.54
हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना ।
यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥ ५४ ॥
26.55
तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः ।
साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥ ५५ ॥
26.56
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ।
कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥ ५६ ॥
26.57
रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् ।
सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥ ५७ ॥
26.58
देशकालानुसन्धानगुणद्रव्यक्रियादिभिः ।
स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥ ५८ ॥
26.59
बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता ।
मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥ ५९ ॥
26.60
नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः ।
चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥ ६० ॥
26.61
क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः ।
शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥ ६१ ॥
26.62
तमेव परमे धाम्नि पूजनायार्पयेद्बुधः ।
स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥ ६२ ॥
26.63
अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति ।
या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥ ६३ ॥
26.64
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः
स्वामोदसन्दोहिभिः ।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम्
॥ ६४ ॥
26.65
नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य
निःष्यन्दितम् ।
यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेऽहर्निशम्
॥ ६५ ॥
26.66
इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् ।
येन केनापि भावेन तर्पयेद्देवतागणम् ॥ ६६ ॥
26.67
मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः ।
वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥ ६७ ॥
26.68
कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् ।
तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥ ६८ ॥
26.69
ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः ।
कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥ ६९ ॥
26.70
द्वारपीठगुरुव्रातसमर्पितनिवेदनात् ।
ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् ॥ ७० ॥
26.71
प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् ।
विधिना भाविना श्रीमन्मीननाथावतारिणा ॥ ७१ ॥
26.72
मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् ।
तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥ ७२ ॥
26.73
अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः ।
प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥ ७३ ॥
26.74
श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् ।
स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥ ७४ ॥
26.75
भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् ।
मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥ ७५ ॥
26.76
पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् ।
उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना ॥ ७६ ॥
Ahnika 27 – Devanagari
27.1
अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥ १ ॥ब्
27.2
एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् ।
बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥ २ ॥
27.3
स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् ।
ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥ ३ ॥
27.4
किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः ।
भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥ ४ ॥
27.5
शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः ।
स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति ॥ ५ ॥
27.6
उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना ।
शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥ ६ ॥
27.7
तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः ।
न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥ ७ ॥
27.8
अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता ।
सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥ ८ ॥
27.9
आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् ।
पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥ ९ ॥
27.10
पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् ।
यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥ १० ॥
27.11
गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् ।
जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥ ११ ॥
27.12
लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् ।
पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥ १२ ॥
27.13
नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् ।
धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥ १३ ॥
27.14
न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते ।
उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥ १४ ॥
27.15
तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् ।
मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥ १५ ॥
27.16
अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः ।
दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥ १६ ॥
27.17
सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् ।
तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥ १७ ॥
27.18
सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते ।
नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना ॥ १८ ॥
27.19
पीठप्रसादमन्त्रांशवेलादिनियमो नच ।
व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥ १९ ॥
27.20
अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः ।
अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥ २० ॥
27.21
पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् ।
तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥ २१ ॥
27.22
तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते ।
जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥ २२ ॥
27.23
युक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः ।
काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥ २३ ॥
27.24
गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति ।
व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः ॥ २४ ॥
27.25
श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् ।
एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥ २५ ॥
27.26
पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे ।
एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥ २६ ॥
27.27
न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके ।
श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥ २७ ॥
27.28
सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् ।
एतदेवानुसर्तव्यमर्घपात्रेऽपि लक्षणम् ॥ २८ ॥
27.29
श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम् ।
गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥ २९ ॥
27.30
अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् ।
वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥ ३० ॥
27.31
अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः ।
शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् ॥ ३१ ॥
27.32
तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् ।
वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥ ३२ ॥
27.33
पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः ।
शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥ ३३ ॥
27.34
ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् ।
ततोऽपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥ ३४ ॥
27.35
मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते ।
उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥ ३५ ॥
27.36
दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः ।
यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥ ३६ ॥
27.37
संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् ।
कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥ ३७ ॥
27.38
पूजितेन च तेनैव जपं कुर्यादतन्द्रितः ।
विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥ ३८ ॥
27.39
चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् ।
यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥ ३९ ॥
27.40
अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् ।
नारिकेलमथो बैल्वं सौवर्णं राजतं च वा ॥ ४० ॥
27.41
तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः ।
तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥ ४१ ॥
27.42
अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः ।
तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥ ४२ ॥
27.43
पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् ।
अधोमुखं च संपूज्य स्थापयेत् विचक्षणः ॥ ४३ ॥
27.44
खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा ।
विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥ ४४ ॥
27.45
श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने ।
स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले ॥ ४५ ॥
27.46
मूर्तौ घटेऽस्त्रसंघाते धटे सूत्रेऽथ पूजयेत् ।
स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥ ४६ ॥
27.47
यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् ।
शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः ॥ ४७ ॥
27.48
अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् ।
पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥ ४८ ॥
27.49
अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् ।
सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥ ४९ ॥
27.50
इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् ।
विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥ ५० ॥
27.51
अत एव यदा भूरिदिनं मण्डलकल्पनम् ।
तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥ ५१ ॥
27.52
प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् ।
सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥ ५२ ॥
27.53
सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः ।
अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥ ५३ ॥
27.54
तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा ।
अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥ ५४ ॥
27.55
इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः ।
परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि ॥ ५५ ॥
27.56
सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् ।
शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥ ५६ ॥
27.57
अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् ।
आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥ ५७ ॥
27.58
उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा ।
अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥ ५८ ॥
27.59
कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् ।
बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥ ५९ ॥
Ahnika 28 – Devanagari
28.1
इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥ १ ॥ब्
28.2
नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते ।
मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥ २ ॥
28.3
दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता ।
दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥ ३ ॥
28.4
अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् ।
प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥ ४ ॥
28.5
सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा ।
नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥ ५ ॥
28.6
ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा ।
तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः ॥ ६ ॥
28.7
श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम् ।
योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥ ७ ॥
28.8
शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः ।
देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥ ८ ॥
28.9
इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् ।
त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥ ९ ॥
28.10
तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् ।
कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे ॥ १० ॥
28.11
अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः ।
प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥ ११ ॥
28.12
अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी ।
वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥ १२ ॥
28.13
द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः ।
तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता ॥ १३ ॥
28.14
अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् ।
कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले ॥ १४ ॥
28.15
हैडरे त्रिकसद्भावे त्रिककालीकुलादिके ।
योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥ १५ ॥
28.16
स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् ।
स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥ १६ ॥
28.17
पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः ।
पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥ १७ ॥
28.18
हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः ।
तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥ १८ ॥
28.19
तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा ।
योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् ॥ १९ ॥
28.20
तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् ।
यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् ॥ २० ॥
28.21
क्रमोदितां सद्य एव लभते तत्प्रवेशनात् ।
योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥ २१ ॥
28.22
लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् ।
तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥ २२ ॥
28.23
तेन तत्तत्फलं तत्र काले संपूजयाचिरात् ।
यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥ २३ ॥
28.24
अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम् ।
तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः ॥ २४ ॥
28.25
यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते ।
उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥ २५ ॥
28.26
यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया ।
मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥ २६ ॥
28.27
कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये ।
ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥ २७ ॥
28.28
गुरूणां देवतानां च न कुर्वन्ति प्रमादतः ।
दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥ २८ ॥
28.29
अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् ।
अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥ २९ ॥
28.30
शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् ।
तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥ ३० ॥
28.31
तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् ।
मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते ॥ ३१ ॥
28.32
उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते ।
समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥ ३२ ॥
28.33
तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि ।
पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥ ३३ ॥
28.34
यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः ।
उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥ ३४ ॥
28.35
सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता ।
सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥ ३५ ॥
28.36
कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः ।
अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥ ३६ ॥
28.37
परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः ।
मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ॥ ३७ ॥
28.38
रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् ।
प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥ ३८ ॥
28.39
प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु ।
कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥ ३९ ॥
28.40
व्याससमासात् क्रमशः पूज्याश्चक्रेऽनुयागाख्ये ।
सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥ ४० ॥
28.41
गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् ।
अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥ ४१ ॥
28.42
अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः ।
भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ॥ ४२ ॥
28.43
वेलाभग्रहकलना कथितैकादशसु मासेषु ।
फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥ ४३ ॥
28.44
अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र ।
दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः ॥ ४४ ॥
28.45
पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः ।
यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥ ४५ ॥
28.46
तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् ।
दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥ ४६ ॥
28.47
ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् ।
उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥ ४७ ॥
28.48
तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् ।
नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥ ४८ ॥
28.49
संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः ।
यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥ ४९ ॥
28.50
तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन ।
वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥ ५० ॥
28.51
श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु ।
वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥ ५१ ॥
28.52
तिथिस्तु पूज्या प्रधानरूपत्वात् ।
श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥ ५२ ॥
28.53
यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् ।
मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने ॥ ५३ ॥
28.54
कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा ।
आदेशः फलति तथा माघे चक्राद्वचः फलति ॥ ५४ ॥
28.55
अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः ।
चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः ॥ ५५ ॥
28.56
सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना ।
भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥ ५६ ॥
28.57
सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् ।
भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥ ५७ ॥
28.58
यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् ।
नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥ ५८ ॥
28.59
समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च ।
दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥ ५९ ॥
28.60
नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् ।
तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते ॥ ६० ॥
28.61
मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते ।
नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥ ६१ ॥
28.62
सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः ।
ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके ॥ ६२ ॥
28.63
योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् ।
तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥ ६३ ॥
28.64
तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् ।
ज्ञानिने योगिने वापि यो ददाति करोति वा ॥ ६४ ॥
28.65
दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः ।
भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् ॥ ६५ ॥
28.66
सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः ।
तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥ ६६ ॥
28.67
अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये ।
परिसंख्या न विद्येत तदाह भगवाञ्छिवः ॥ ६७ ॥
28.68
भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् ।
एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥ ६८ ॥
28.69
तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे ।
निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥ ६९ ॥
28.70
यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् ।
अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः ॥ ७० ॥
28.71
तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि ।
आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥ ७१ ॥
28.72
श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि ।
श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते ॥ ७२ ॥
28.73
मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् ।
सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥ ७३ ॥
28.74
अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा ।
पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥ ७४ ॥
28.75
तत्र संनिहितो देवः सदेवीकः सकिङ्करः ।
तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥ ७५ ॥
28.76
मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते ।
पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥ ७६ ॥
28.77
सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु ।
उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥ ७७ ॥
28.78
दीक्षायां च प्रतिष्ठायां समयानां विशोधने ।
कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥ ७८ ॥
28.79
केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः ।
केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥ ७९ ॥
28.80
साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः ।
पत्नीयोगात् क्रयानीतवेश्यासंयोगतोऽथवा ॥ ८० ॥
28.81
चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः ।
तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥ ८१ ॥
28.82
सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते ।
मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥ ८२ ॥
28.83
तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् ।
पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥ ८३ ॥
28.84
तदा तद्गन्धधूपस्रक्समालम्भनवाससा ।
पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥ ८४ ॥
28.85
एकारके यथा चक्रे एकवीरविधिं स्मरेत् ।
द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥ ८५ ॥
28.86
षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा ।
अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥ ८६ ॥
28.87
ततः पात्रेऽलिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः ।
आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥ ८७ ॥
28.88
आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः ।
प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥ ८८ ॥
28.89
भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः ।
अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥ ८९ ॥
28.90
ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् ।
प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥ ९० ॥
28.91
यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते ।
तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥ ९१ ॥
28.92
वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः ।
ततोऽवदंशान्विविधान् मांसमत्स्यादिसंयुतान् ॥ ९२ ॥
28.93
अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः ।
पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥ ९३ ॥
28.94
पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः ।
दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥ ९४ ॥
28.95
दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् ।
तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥ ९५ ॥
28.96
निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते ।
ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥ ९६ ॥
28.97
तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः ।
धारया भैरवस्तुष्येत् करपानं परं ततः ॥ ९७ ॥
28.98
प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित् ।
प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥ ९८ ॥
28.99
एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् ।
समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥ ९९ ॥
28.100
रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः ।
समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् ॥ १०० ॥
28.101
एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः ।
काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥ १०१ ॥
28.102
जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् ।
बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः ॥ १०२ ॥
28.103
ततोऽपि संनिधीयन्ते प्रीयन्ते वरदास्ततः ।
देवीनामथ नाथस्य परिवारयुजोऽप्यलम् ॥ १०३ ॥
28.104
वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता ।
राक्तौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् ॥ १०४ ॥
28.105
असंकेतयुजो योज्या देवताशब्दकीर्तनात् ।
अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥ १०५ ॥
28.106
काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा ।
प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥ १०६ ॥
28.107
हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ ।
सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥ १०७ ॥
28.108
मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा ।
धनिष्ठायाममावस्या सोऽयमेकादशात्मकः ॥ १०८ ॥
28.109
अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः ।
योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥ १०९ ॥
28.110
योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा ।
यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥ ११० ॥
28.111
मूर्तियागेन सोऽपि स्यात् समयी मण्डलं विना ।
इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥ १११ ॥
28.112
अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः ।
श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥ ११२ ॥
28.113
श्रीसिद्धाटनसद्भावमालिनीसारशासने ।
तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥ ११३ ॥
28.114
क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः ।
नागराजः स्वभुवने मेघकाले स्म नावसत् ॥ ११४ ॥
28.115
केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम् ।
दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥ ११५ ॥
28.116
व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे ।
पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः ॥ ११६ ॥
28.117
नागं निजजटाजूटपीठगं पर्यकल्पयत् ।
ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि ॥ ११७ ॥
28.118
महतां महितानां हि नाद्भुत विश्वपूज्यता ।
तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥ ११८ ॥
28.119
आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् ।
दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥ ११९ ॥
28.120
वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च ।
विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥ १२० ॥
28.121
तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः ।
आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः ॥ १२१ ॥
28.122
कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा ।
तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥ १२२ ॥
28.123
कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते ।
नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥ १२३ ॥
28.124
कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् ।
माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥ १२४ ॥
28.125
पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा ।
दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥ १२५ ॥
28.126
कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते ।
दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥ १२६ ॥
28.127
पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः ।
तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥ १२७ ॥
28.128
एकेनैव पदेन श्रीरत्नमालाकुलागमे ।
तदत्र समये सर्वविधिसंपूरणात्मकः ॥ १२८ ॥
28.129
पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा ।
पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥ १२९ ॥
28.130
दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते ।
एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥ १३० ॥
28.131
हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् ।
सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥ १३१ ॥
28.132
परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि ।
प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥ १३२ ॥
28.133
अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् ।
विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः ॥ १३३ ॥
28.134
वटुके कनकाभावे रौप्यं तु परिकल्पयेत् ।
पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥ १३४ ॥
28.135
तस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु ।
चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा ॥ १३५ ॥
28.136
तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः ।
अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् ॥ १३६ ॥
28.137
ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् ।
यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥ १३७ ॥
28.138
विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः ।
पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥ १३८ ॥
28.139
गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा ।
ततो महोत्सवः कार्यो गुरुपूजापुरःसरः ॥ १३९ ॥
28.140
तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः ।
महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥ १४० ॥
28.141
चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः ।
तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥ १४१ ॥
28.142
वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः ।
मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥ १४२ ॥
28.143
सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् ।
वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥ १४३ ॥
28.144
सति वित्ते पुनः शाठ्यं व्याधये नरकाय च ।
नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥ १४४ ॥
28.145
तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् ।
पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥ १४५ ॥
28.146
सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः ।
अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥ १४६ ॥
28.147
त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा ।
दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥ १४७ ॥
28.148
ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः ।
नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥ १४८ ॥
28.149
अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः ।
तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥ १४९ ॥
28.150
श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे ।
नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु ॥ १५० ॥
28.151
पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च ।
चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥ १५१ ॥
28.152
त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् ।
अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥ १५२ ॥
28.153
ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् ।
नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥ १५३ ॥
28.154
यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः ।
चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु ॥ १५४ ॥
28.155
व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् ।
अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् ॥ १५५ ॥
28.156
द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि ।
विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥ १५६ ॥
28.157
घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे ।
स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥ १५७ ॥
28.158
प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् ।
विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥ १५८ ॥
28.159
वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे ।
वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः ॥ १५९ ॥
28.160
रसेन्दु स्नानगेहेऽब्धिनेत्रे ध्यानगृहे गुरौ ।
सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥ १६० ॥
28.161
चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते ।
लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥ १६१ ॥
28.162
द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् ।
पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥ १६२ ॥
28.163
पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् ।
ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥ १६३ ॥
28.164
दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् ।
ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति ॥ १६४ ॥
28.165
यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन ।
तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥ १६५ ॥
28.166
सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे ।
अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥ १६६ ॥
28.167
योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः ।
पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः ॥ १६७ ॥
28.168
आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् ।
ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥ १६८ ॥
28.169
दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना ।
चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥ १६९ ॥
28.170
प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् ।
पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥ १७० ॥
28.171
कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् ।
वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥ १७१ ॥
28.172
दद्यादसृक् तथा मद्यं पानानि विविधानि च ।
ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥ १७२ ॥
28.173
तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः ।
शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥ १७३ ॥
28.174
मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् ।
अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् ॥ १७४ ॥
28.175
ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् ।
अकामादथवा कामाद्यन्मया न कृतं विभो ॥ १७५ ॥
28.176
तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया ।
मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥ १७६ ॥
28.177
वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् ।
नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् ॥ १७७ ॥
28.178
एवं चतुष्टयं दद्यादनुलोमेन भौतिकः ।
नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥ १७८ ॥
28.179
यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् ।
तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥ १७९ ॥
28.180
वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः ।
भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥ १८० ॥
28.181
चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् ।
कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥ १८१ ॥
28.182
ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् ।
दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् ॥ १८२ ॥
28.183
वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति ।
वक्तव्यं देवदेवस्य पुनरागमनाय च ॥ १८३ ॥
28.184
ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् ।
नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥ १८४ ॥
28.185
चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् ।
नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते ॥ १८५ ॥
28.186
शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् ।
अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥ १८६ ॥
28.187
स भण्यते तत्र कार्या देवस्यार्चा विशेषतः ।
चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥ १८७ ॥
28.188
तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् ।
पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥ १८८ ॥
28.189
तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये ।
तदुपायोऽपि संपूज्यो मूर्तिकालक्रियादिकः ॥ १८९ ॥
28.190
उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् ।
तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥ १९० ॥
28.191
यथा यथा च नैकट्यमुपायेषु तथा तथा ।
अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके ॥ १९१ ॥
28.192
ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः ।
यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥ १९२ ॥
28.193
तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः ।
तद्विद्योऽपि गुरुभ्राता संवादाज्ज्ञानदायकः ॥ १९३ ॥
28.194
गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः ।
न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः ॥ १९४ ॥
28.195
वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः ।
देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥ १९५ ॥
28.196
तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता ।
युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥ १९६ ॥
28.197
ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः ।
बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥ १९७ ॥
28.198
तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः ।
देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥ १९८ ॥
28.199
आत्मा विकाररहितः शाश्वतत्वादहेतुकः ।
स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः ॥ १९९ ॥
28.200
पुनश्च प्रकटीभूय भैरवीभावभाजनम् ।
तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥ २०० ॥
28.201
य उपायः समुचितो ज्ञानसन्तान एष सः ।
क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥ २०१ ॥
28.202
गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते ।
एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥ २०२ ॥
28.203
ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् ।
असंसारोचितोदारतथाविज्ञानसन्ततेः ॥ २०३ ॥
28.204
कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् ।
अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् ॥ २०४ ॥
28.205
उपादानं हि तद्युक्तं देहभेदे हि सत्यपि ।
देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥ २०५ ॥
28.206
न तथात्वाय योगीच्छाविष्टशावशरीरवत् ।
योगिनः परदेहादिजीवत्तापादने निजम् ॥ २०६ ॥
28.207
देहमत्यजतो नानाज्ञानोपादानता न किम् ।
तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥ २०७ ॥
28.208
अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः ।
इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥ २०८ ॥
28.209
एककारणकार्यं च वस्त्वित्येष गुरोर्गणः ।
गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥ २०९ ॥
28.210
यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत् ।
अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥ २१० ॥
28.211
सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् ।
एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु कोऽपि सः ॥ २११ ॥
28.212
पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते ।
मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥ २१२ ॥
28.213
गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च ।
यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥ २१३ ॥
28.214
एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते ।
तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥ २१४ ॥
28.215
दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् ।
भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥ २१५ ॥
28.216
स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति ।
नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥ २१६ ॥
28.217
तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् ।
व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥ २१७ ॥
28.218
विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् ।
शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥ २१८ ॥
28.219
संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः ।
गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥ २१९ ॥
28.220
असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते ।
स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥ २२० ॥
28.221
प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् ।
अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते ॥ २२१ ॥
28.222
क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी ।
तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥ २२२ ॥
28.223
गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः ।
एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् ॥ २२३ ॥
28.224
भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः ।
उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥ २२४ ॥
28.225
यथा गृहं विनिष्पाद्य गृही समधितिष्ठति ।
तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥ २२५ ॥
28.226
किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते ।
स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥ २२६ ॥
28.227
इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु ।
क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते ॥ २२७ ॥
28.228
प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः ।
नाडीचक्रेषु सङ्कोचविकासौ विपरीततः ॥ २२८ ॥
28.229
भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः ।
इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् ॥ २२९ ॥
28.230
देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः ।
तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥ २३० ॥
28.231
गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते ।
स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥ २३१ ॥
28.232
तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि ।
विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥ २३२ ॥
28.233
अतो नियतिकालादिवैचित्र्यानुविधायिनः ।
अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे ॥ २३३ ॥
28.234
ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते ।
कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥ २३४ ॥
28.235
सङ्कोचहानिरूपेऽस्मिन्कथं हेतुरनुग्रहे ।
अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥ २३५ ॥
28.236
प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः ।
तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥ २३६ ॥
28.237
देहान्ते शिव एवेति नास्य देहान्तरस्थितिः ।
येऽपि तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥ २३७ ॥
28.238
स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे ।
मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥ २३८ ॥
28.239
मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः ।
तत्र स्वयम्भुवो द्वेधा केऽप्यनुग्रहतत्पराः ॥ २३९ ॥
28.240
केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः ।
येऽनुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः ॥ २४० ॥
28.241
सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः ।
यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् ॥ २४१ ॥
28.242
यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता ।
तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥ २४२ ॥
28.243
वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः ।
सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥ २४३ ॥
28.244
तपस्यन्तौ बदर्यां च नरनारायणौ तथा ।
इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥ २४४ ॥
28.245
आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् ।
स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते ॥ २४५ ॥
28.246
तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि ।
मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥ २४६ ॥
28.247
तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् ।
स्थावराद्यास्तिर्यगन्ताः पशवोऽस्मिन्द्वये मृताः ॥ २४७ ॥
28.248
स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः ।
पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥ २४८ ॥
28.249
अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा ।
स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥ २४९ ॥
28.250
प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः ।
हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥ २५० ॥
28.251
इत्येतदागमेषूक्तं तत एव पुरे पुरे ।
क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥ २५१ ॥
28.252
लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति ।
स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥ २५२ ॥
28.253
तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् ।
अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥ २५३ ॥
28.254
पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः ।
अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः ॥ २५४ ॥
28.255
न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः ।
तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥ २५५ ॥
28.256
तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये ।
उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥ २५६ ॥
28.257
मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः ।
तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥ २५७ ॥
28.258
अयोगिनामयं पन्था योगी योगेन वञ्चयेत् ।
वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥ २५८ ॥
28.259
तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते ।
अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥ २५९ ॥
28.260
तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता ।
सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥ २६० ॥
28.261
पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः ।
ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥ २६१ ॥
28.262
योग्यतावशसंजाता यस्य यत्रैव वासना ।
स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥ २६२ ॥
28.263
इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपिच ।
यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥ २६३ ॥
28.264
सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् ।
ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥ २६४ ॥
28.265
मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः ।
तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥ २६५ ॥
28.266
तथा तथा विचित्रः स्यादवतारस्तदंशतः ।
सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥ २६६ ॥
28.267
तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः ।
अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥ २६७ ॥
28.268
शक्तिभ्योऽर्थान्तरं नैष तत्समूहादृते भवेत् ।
तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः ॥ २६८ ॥
28.269
कृत्यं तदुचितं सिद्ध्येत् सोंऽशोऽवतरति स्फुटम् ।
ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥ २६९ ॥
28.270
तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः ।
ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥ २७० ॥
28.271
येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः ।
प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥ २७१ ॥
28.272
अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् ।
विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥ २७२ ॥
28.273
पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु ।
तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥ २७३ ॥
28.274
यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः ।
व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥ २७४ ॥
28.275
उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा ।
दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥ २७५ ॥
28.276
यस्तु तावदयोग्योऽपि तथास्ते स शिवालये ।
पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥ २७६ ॥
28.277
नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ ।
उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥ २७७ ॥
28.278
ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके ।
अधरायतनेष्वास्थां श्रितास्तेऽत्र तिरोहिताः ॥ २७८ ॥
28.279
तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् ।
तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥ २७९ ॥
28.280
दीक्षायतनविज्ञानदूषिणो ये तु चेतसा ।
आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः ॥ २८० ॥
28.281
ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः ।
व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥ २८१ ॥
28.282
यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः ।
अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥ २८२ ॥
28.283
धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः ।
छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥ २८३ ॥
28.284
ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा ।
अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥ २८४ ॥
28.285
यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः ।
इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥ २८५ ॥
28.286
ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् ।
अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥ २८६ ॥
28.287
व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः ।
अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥ २८७ ॥
28.288
विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः ।
तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः ॥ २८८ ॥
28.289
अत एव प्रबुद्धोऽपि कर्मोत्थान्भोगरूपिणः ।
यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥ २८९ ॥
28.290
नैतावता न मुक्तोऽसौ मृतिर्भोगो हि जन्मवत् ।
स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥ २९० ॥
28.291
अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः ।
स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः ॥ २९१ ॥
28.292
ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः ।
चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥ २९२ ॥
28.293
श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः ।
इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥ २९३ ॥
28.294
एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् ।
धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥ २९४ ॥
28.295
एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा ।
ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥ २९५ ॥
28.296
तथाहि मानसं यत्नं तावत्समधितिष्ठति ।
अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः ॥ २९६ ॥
28.297
प्राणचक्रं तदायत्तमपि संचरते पथा ।
तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् ॥ २९७ ॥
28.298
मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः ।
स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥ २९८ ॥
28.299
अतोऽस्य परदेहादिसंचारे नास्ति मेलनम् ।
अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥ २९९ ॥
28.300
एवं परशरीरादिचारिणामिव योगिनाम् ।
तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता ॥ ३०० ॥
28.301
ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा ।
पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥ ३०१ ॥
28.302
दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् ।
भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥ ३०२ ॥
28.303
ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः ।
तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् ॥ ३०३ ॥
28.304
यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् ।
विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् ॥ ३०४ ॥
28.305
अतो देहे प्रमादोत्थो विकल्पो देहपाततः ।
नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥ ३०५ ॥
28.306
संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा ।
प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥ ३०६ ॥
28.307
ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा ।
जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥ ३०७ ॥
28.308
यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा ।
सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा ॥ ३०८ ॥
28.309
श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः ।
स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥ ३०९ ॥
28.310
रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने ।
सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेऽपि चान्ते ॥ ३१० ॥
28.311
अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते ।
सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् ॥ ३११ ॥
28.312
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ ३१२ ॥
28.313
अनन्तकारिका चैषा प्राहेदं बन्धकं किल ।
सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥ ३१३ ॥
28.314
अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल ।
मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया ॥ ३१४ ॥
28.315
लिङ्च संभावनायां स्यादियत्संभाव्यते किल ।
सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥ ३१५ ॥
28.316
कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः ।
भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥ ३१६ ॥
28.317
परदेहादिसंबन्धो यथा नास्य विभेदकः ।
तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि ॥ ३१७ ॥
28.318
अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः ।
शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल ॥ ३१८ ॥
28.319
तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः ।
अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥ ३१९ ॥
28.320
तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते ।
श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते ॥ ३२० ॥
28.321
जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते ।
सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥ ३२१ ॥
28.322
तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः ।
प्रधानं घट आकाश आत्मा मष्टे घटेऽपि खम् ॥ ३२२ ॥
28.323
न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् ।
स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु ॥ ३२३ ॥
28.324
तस्य भावो नचाभावः संस्थानं नच कल्पना ।
एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥ ३२४ ॥
28.325
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ३२५ ॥
28.326
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥ ३२६ ॥
28.327
क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः ।
तत्रेन्द्रियाणां संमोहश्वासायासपरीतता ॥ ३२७ ॥
28.328
इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः ।
यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥ ३२८ ॥
28.329
यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् ।
सा देहत्यागकालांशकला देहवियोगिनी ॥ ३२९ ॥
28.330
तत एव हि तद्देहसुखदुःखादिकोज्झिता ।
तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥ ३३० ॥
28.331
अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् ।
तदेव रूपमभ्येति सुखिदुःखिविमूढकम् ॥ ३३१ ॥
28.332
यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् ।
कस्मादेति तदेवैष यतः स्मरति संविदि ॥ ३३२ ॥
28.333
प्राक् प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः ।
यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥ ३३३ ॥
28.334
सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे ।
नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥ ३३४ ॥
28.335
अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् ।
अतोऽधिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः ॥ ३३५ ॥
28.336
देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता ।
तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥ ३३६ ॥
28.337
वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः ।
सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥ ३३७ ॥
28.338
स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया ।
युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥ ३३८ ॥
28.339
देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् ।
तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥ ३३९ ॥
28.340
देहत्वस्याविशेषेऽपीत्येष प्रश्नो न शाम्यति ।
स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥ ३४० ॥
28.341
प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् ।
अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥ ३४१ ॥
28.342
न जातु गोचरो यस्माद्देहान्तरविनिश्चयः ।
यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥ ३४२ ॥
28.343
न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् ।
कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥ ३४३ ॥
28.344
देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः ।
यथा पुराणे कथितं मृगपोतकतृष्णया ॥ ३४४ ॥
28.345
मुनिः कोऽपि मृगीभावमभ्युवाहाधिवासितः ।
तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये ॥ ३४५ ॥
28.346
तस्यैतद्वासना हेतुः काकतालीयवत् स तु ।
ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा ॥ ३४६ ॥
28.347
तद्भावभावितस्तेन तदेवैष स्मरत्यलम् ।
एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥ ३४७ ॥
28.348
भविष्यतो हि भवनं भाव्यते न सतः क्वचित् ।
क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥ ३४८ ॥
28.349
स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् ।
तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥ ३४९ ॥
28.350
मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा ।
सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥ ३५० ॥
28.351
स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी ।
देशादिव्यवधानेऽपि वासनानामुदीरितात् ॥ ३५१ ॥
28.352
आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः ।
तथानुभवनारूढ्या स्फुटस्यापि तु भाविता ॥ ३५२ ॥
28.353
भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः ।
तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥ ३५३ ॥
28.354
भासतेऽपि परे लोके स्वप्नवद्वासनाक्रमात् ।
ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥ ३५४ ॥
28.355
वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् ।
व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥ ३५५ ॥
28.356
स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता ।
य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥ ३५६ ॥
28.357
स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् ।
यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन ॥ ३५७ ॥
28.358
न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा ।
यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥ ३५८ ॥
28.359
प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः ।
घटादेरस्तिता संविन्निष्ठिता नतु तद्गता ॥ ३५९ ॥
28.360
तद्वन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता ।
तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥ ३६० ॥
28.361
देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् ।
तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥ ३६१ ॥
28.362
मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः ।
निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥ ३६२ ॥
28.363
पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् ।
लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥ ३६३ ॥
28.364
अज्ञात्वैतत्तु सर्वेऽपि कुशकाशावलम्बिनः ।
यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥ ३६४ ॥
28.365
भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् ।
व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥ ३६५ ॥
28.366
नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् ।
तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥ ३६६ ॥
28.367
अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति ।
विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् ।
अमृतमिति निगीर्णे कालकूटेऽत्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् ॥ ३६७ ॥
28.368
उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि संमदम् ।
संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥ ३६८ ॥
28.369
एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता ।
व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥ ३६९ ॥
28.370
पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः ।
दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥ ३७० ॥
28.371
योगिनीमेलको द्वेधा हठतः प्रियतस्तथा ।
प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥ ३७१ ॥
28.372
स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते ।
योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते ॥ ३७२ ॥
28.373
तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् ।
संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥ ३७३ ॥
28.374
मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा ।
उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥ ३७४ ॥
28.375
बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः ।
अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥ ३७५ ॥
28.376
यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः ।
आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥ ३७६ ॥
28.377
नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते ।
ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा ॥ ३७७ ॥
28.378
विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी ।
अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥ ३७८ ॥
28.379
स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते ।
अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥ ३७९ ॥
28.380
नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् ।
यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥ ३८० ॥
28.381
एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् ।
प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥ ३८१ ॥
28.382
प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् ।
स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥ ३८२ ॥
28.383
वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि ।
श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥ ३८३ ॥
28.384
प्रवेशं संपविष्टस्य न विचारं तु कारयेत् ।
लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥ ३८४ ॥
28.385
अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् ।
अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥ ३८५ ॥
28.386
देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना ।
कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥ ३८६ ॥
28.387
सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते ।
यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥ ३८७ ॥
28.388
नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत् ।
श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥ ३८८ ॥
28.389
गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या ।
तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा ॥ ३८९ ॥
28.390
देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके ।
देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥ ३९० ॥
28.391
उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः ।
क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥ ३९१ ॥
28.392
ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय ।
अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥ ३९२ ॥
28.393
सर्वेऽलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः ।
अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥ ३९३ ॥
28.394
इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् ।
व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥ ३९४ ॥
28.395
सोऽपि स्वशासनीये परशिष्येऽपिवापि तादृशं शास्त्रम् ।
श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे ॥ ३९५ ॥
28.396
करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् ।
अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥ ३९६ ॥
28.397
लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे ।
कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥ ३९७ ॥
28.398
मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च ।
अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥ ३९८ ॥
28.399
सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् ।
सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥ ३९९ ॥
28.400
सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् ।
अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥ ४०० ॥
28.401
मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः ।
अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥ ४०१ ॥
28.402
तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः ।
वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥ ४०२ ॥
28.403
यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः ।
बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥ ४०३ ॥
28.404
दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् ।
शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥ ४०४ ॥
28.405
भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य ।
सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥ ४०५ ॥
28.406
वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे ।
पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥ ४०६ ॥
28.407
व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले ।
शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥ ४०७ ॥
28.408
विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ ।
अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥ ४०८ ॥
28.409
तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् ।
श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥ ४०९ ॥
28.410
प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते ।
सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥ ४१० ॥
28.411
सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः ।
तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥ ४११ ॥
28.412
अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः ।
तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥ ४१२ ॥
28.413
तस्माद्विकल्परहितः संवृत्युपरतो यदि ।
शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥ ४१३ ॥
28.414
सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् ।
यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् ॥ ४१४ ॥
28.415
यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा ।
शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥ ४१५ ॥
28.416
शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ।
इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥ ४१६ ॥
28.417
कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी ।
श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥ ४१७ ॥
28.418
मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् ।
प्रतिष्ठितस्य पूरादेर्दर्शनेऽनधिकारिणा ॥ ४१८ ॥
28.419
प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले ।
ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥ ४१९ ॥
28.420
देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः ।
नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः ॥ ४२० ॥
28.421
शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः ।
नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् ॥ ४२१ ॥
28.422
व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् ।
दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः ॥ ४२२ ॥
28.423
लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले ।
दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥ ४२३ ॥
28.424
अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते ।
पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥ ४२४ ॥
28.425
स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि ।
मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥ ४२५ ॥
28.426
कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् ।
ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥ ४२६ ॥
28.427
स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः ।
समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥ ४२७ ॥
28.428
आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः ।
सर्वस्वमस्मै संदद्यादात्मानमपि भावितः ॥ ४२८ ॥
28.429
अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः ।
तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम् ॥ ४२९ ॥
28.430
गुरुपूजामकुर्वाणः शतं जन्मानि जायते ।
अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥ ४३० ॥
28.431
तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः ।
पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥ ४३१ ॥
28.432
तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः ।
ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥ ४३२ ॥
28.433
अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः ।
तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥ ४३३ ॥
28.434
अतत्रस्थोऽपि हि गुरुः पूज्यः संकल्प्य पूर्ववत् ।
तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥ ४३४ ॥
28.435
पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म ।
Ahnika 29 – Devanagari
29.1
अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यतेऽत्र विधिः ।
अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते ॥ १ ॥
29.2
तथा धाराधिरूढेषु गुरुशिष्येषु योचिता ।
उक्तं च परमेशेन सारत्वं क्रमपूजने ॥ २ ॥
29.3
सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् ।
न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति ॥ ३ ॥
29.4
कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता ।
स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् ॥ ४ ॥
29.5
तथात्वेन समस्तानि भावजातानि पश्यतः ।
ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः ॥ ५ ॥
29.6
तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना ।
यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः ॥ ६ ॥
29.7
बहिः शक्तौ यामले च देहे प्राणपथे मतौ ।
इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी ॥ ७ ॥
29.8
स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् ।
किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो ॥ ८ ॥
29.9
षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् ।
ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते ॥ ९ ॥
29.10
अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ ।
तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् ॥ १० ॥
29.11
श्रीब्रह्मयामलेऽप्युक्तं सुरा शिवरसो बहिः ।
तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा ॥ ११ ॥
29.12
स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा ।
द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् ॥ १२ ॥
29.13
एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः ।
देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा ॥ १३ ॥
29.14
श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना ।
अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥ १४ ॥
29.15
रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् ।
भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् ॥ १५ ॥
29.16
दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः ।
इति ज्ञात्वा त्रयेऽमुष्मिन्यत्नवान्कौलिको भवेत् ॥ १६ ॥
29.17
तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना ।
यान्युक्तान्यविशङ्कोऽत्र भवेच्छङ्का हि दूषिका ॥ १७ ॥
29.18
यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः ।
परया वाऽथ मालिन्या विलोमाच्चानुलोमतः ॥ १८ ॥
29.19
दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः ।
क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः ॥ १९ ॥
29.20
दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् ।
ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥ २० ॥
29.21
परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो ।
केवला मालिनी यद्वा ताः समस्तेषु कर्मसु ॥ २१ ॥
29.22
नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् ।
तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् ॥ २२ ॥
29.23
तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् ।
विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् ॥ २३ ॥
29.24
तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् ।
बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् ॥ २४ ॥
29.25
अर्काङ्गुलेऽथ तद्द्वित्रिगुणे रक्तपटे शुभे ।
व्योम्नि सिन्दूरसुभगे राजवर्त्तभृतेऽथवा ॥ २५ ॥
29.26
नारिकेलात्मके काद्ये मद्यपूर्णेऽथ भाजने ।
यद्वा समुदिते रूपे मण्डलस्थे च तदृशि ॥ २६ ॥
29.27
यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते ।
दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् ॥ २७ ॥
29.28
वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् ।
प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः ॥ २८ ॥
29.29
सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् ।
खगेन्द्रः सहविज्जाम्ब इल्ला+ई+अम्बया सह ॥ २९ ॥
29.30
वक्तष्टिर्विमलोऽनन्तमेखलाम्बायुतः पुरा ।
शक्त्या मङ्गलया कूर्म इल्ला+ई+अम्बया सह ॥ ३० ॥
29.31
जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः ।
काममङ्गलया मेषः कुल्ला+ई+अम्बया सह ॥ ३१ ॥
29.32
विन्ध्योऽजितोऽप्यजरया सह मेखलया परे ।
मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥ ३२ ॥
29.33
सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी ।
अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥ ३३ ॥
29.34
सिल्ला+ई एरुणया तथा कुमारी च बोधा+ई ।
समहालच्छी चापरमेखलया शक्तयः षडिमाः ॥ ३४ ॥
29.35
एते हि साधिकाराः पूज्या येषामियं बहुविभेदा ।
सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥ ३५ ॥
29.36
आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता ।
एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥ ३६ ॥
29.37
दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् ।
द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः ॥ ३७ ॥
29.38
शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः ।
अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच ॥ ३८ ॥
29.39
देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च ।
दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥ ३९ ॥
29.40
इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः ।
अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् ॥ ४० ॥
29.41
भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः ।
ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः ॥ ४१ ॥
29.42
अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि ।
तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः ॥ ४२ ॥
29.43
अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः ।
अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः ॥ ४३ ॥
29.44
प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते ।
तथारूपतया तत्र गुरुत्वं परिभाषितम् ॥ ४४ ॥
29.45
ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् ।
ततोऽभ्यन्तरतो वायुवह्न्योर्मातृकया सह ॥ ४५ ॥
29.46
मालिनी क्रमशः पूज्या ततोऽन्तर्मन्त्रचक्रकम् ।
मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले ॥ ४६ ॥
29.47
चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी ।
सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी ॥ ४७ ॥
29.48
पूज्याथ तत्समारोपादपराथ परापरा ।
एकवीरा च सा पूज्या यदिवा सकुलेश्वरा ॥ ४८ ॥
29.49
प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः ।
सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् ॥ ४९ ॥
29.50
महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् ।
यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् ॥ ५० ॥
29.51
अन्तर्द्वादशकं पूज्यं ततोऽष्टाष्टाकमेव च ।
चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥ ५१ ॥
29.52
माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् ।
ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु ॥ ५२ ॥
29.53
पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः ।
सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥ ५३ ॥
29.54
अष्टाष्टकेऽपि हि विधौ नानानामप्रपञ्चिते बहुधा ।
विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् ॥ ५४ ॥
29.55
श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः ।
वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः ॥ ५५ ॥
29.56
पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् ।
यथा श्रीमाधवकुले परमेशेन भाषितम् ॥ ५६ ॥
29.57
सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् ।
पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥ ५७ ॥
29.58
आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् ।
न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥ ५८ ॥
29.59
अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके ।
श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् ॥ ५९ ॥
29.60
भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः ।
वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले ॥ ६० ॥
29.61
एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् ।
उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥ ६१ ॥
29.62
एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः ।
कुड्याकेशीं च सोपानं मायापूक्षीरके तथा ॥ ६२ ॥
29.63
जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी ।
पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् ॥ ६३ ॥
29.64
नाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्वहम् ।
इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥ ६४ ॥
29.65
न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि ॥ ६५ ॥
29.66
मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः ।
मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे ॥ ६६ ॥
29.67
सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् ।
हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या ॥ ६७ ॥
29.68
बीजं सा पीडयते रसशल्कविभागतोऽत्र कुण्डलिनी ।
अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥ ६८ ॥
29.69
इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी ।
सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥ ६९ ॥
29.70
एकवीरा चक्रयुक्ता चक्रयामलगापि वा ।
ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः ॥ ७० ॥
29.71
त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् ।
हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् ॥ ७१ ॥
29.72
श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् ।
वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् ॥ ७२ ॥
29.73
रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा ।
यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥ ७३ ॥
29.74
अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः ।
सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः ॥ ७४ ॥
29.75
तावत्तेजोऽसहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये ।
कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् ॥ ७५ ॥
29.76
हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् ।
अहोरात्रमिमं यागं कुर्वतश्चापरेऽहनि ॥ ७६ ॥
29.77
वीरभोज्ये कृतेऽवश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः ।
पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये ॥ ७७ ॥
29.78
मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः ।
अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥ ७८ ॥
29.79
एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः ।
शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥ ७९ ॥
29.80
क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि ।
चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥ ८० ॥
29.81
अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा ।
पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति ॥ ८१ ॥
29.82
ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः ।
उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः ॥ ८२ ॥
29.83
उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते ।
आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके ॥ ८३ ॥
29.84
पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् ।
नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके ॥ ८४ ॥
29.85
शिवशक्तिसमायोगे षड्लक्षो जप उच्यते ।
नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि ॥ ८५ ॥
29.86
हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः ।
नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् ॥ ८६ ॥
29.87
शतारेषु च मध्यस्थं सहस्रारेषु भामिनि ।
जप एष रुद्रलक्षो होमोऽप्यत्र दशांशतः ॥ ८७ ॥
29.88
नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् ।
स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥ ८८ ॥
29.89
यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः ।
हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः ॥ ८९ ॥
29.90
स आत्मा मातृका देवी शिवो देहव्यवस्थितः ।
अन्यः सोऽन्योऽहमित्येवं विकल्पं नाचरेद्यतः ॥ ९० ॥
29.91
यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः ।
अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् ॥ ९१ ॥
29.92
शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते ।
तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥ ९२ ॥
29.93
जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी ।
तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः ॥ ९३ ॥
29.94
आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः ।
द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥ ९४ ॥
29.95
दशान्यास्तदुपायायेत्येवं होमे दशांशताम् ।
श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः ॥ ९५ ॥
29.96
साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् ।
तदायं परमेशोक्तो रहस्यो भण्यते विधिः ॥ ९६ ॥
29.97
उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् ।
आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् ॥ ९७ ॥
29.98
उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् ।
ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते ॥ ९८ ॥
29.99
तद्वर्जिता ये पशव आनन्दपरिवर्जिताः ।
आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः ॥ ९९ ॥
29.100
द्वयेऽपि निरये यान्ति रौरवे भीषणे त्विति ।
शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता ॥ १०० ॥
29.101
तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् ।
लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतोऽधिकात् ॥ १०१ ॥
29.102
कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः ।
साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः ॥ १०२ ॥
29.103
श्रीसर्वाचारहृदये तदेतदुपसंहृतम् ।
षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥ १०३ ॥
29.104
द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् ।
तामाहृत्य मिथोऽभ्यर्च्य तर्पयित्वा परस्परम् ॥ १०४ ॥
29.105
अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् ।
यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् ॥ १०५ ॥
29.106
तत्प्रधानं भवेच्चक्रमनुचक्रमतोऽपरम् ।
विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः ॥ १०६ ॥
29.107
चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् ।
यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥ १०७ ॥
29.108
चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् ।
प्राणगादप्यथानन्दस्यन्दिनोऽभ्यवहारतः ॥ १०८ ॥
29.109
गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः ।
इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् ॥ १०९ ॥
29.110
कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते ।
उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः ॥ ११० ॥
29.111
अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् ।
निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे ॥ १११ ॥
29.112
क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ।
स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः ॥ ११२ ॥
29.113
आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति ।
अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ॥ ११३ ॥
29.114
तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति ।
तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् ॥ ११४ ॥
29.115
क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु ।
इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् ॥ ११५ ॥
29.116
क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः ।
तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् ॥ ११६ ॥
29.117
नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् ।
अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् ॥ ११७ ॥
29.118
अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः ।
ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया ॥ ११८ ॥
29.119
अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः ।
शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥ ११९ ॥
29.120
रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव ।
उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् ॥ १२० ॥
29.121
शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् ।
शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगेऽपि ॥ १२१ ॥
29.122
प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता ।
तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन ॥ १२२ ॥
29.123
तद्द्वारेण च कथितक्रमेण संचारयेत नृषु ।
स्वशरीराधिकसद्भावभावितामिति ततः प्राह ॥ १२३ ॥
29.124
श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् ।
तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् ॥ १२४ ॥
29.125
तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् ।
तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च ॥ १२५ ॥
29.126
वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् ।
अथ सृष्टे द्वितयेऽस्मिन् शान्तोदितधाम्नि येऽनुसंदधते ॥ १२६ ॥
29.127
प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः ।
ये सिद्धिमाप्तुकामास्तेऽभ्युदितं रूपमाहरेयुरथो ॥ १२७ ॥
29.128
तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा ।
तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् ॥ १२८ ॥
29.129
अजरामरपददानप्रवणं कुलसंज्ञितं परमम् ।
येऽप्यप्राप्तविबोधास्तेऽभ्युदितोत्फुल्लयागसंरूढाः ॥ १२९ ॥
29.130
तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् ।
ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः ॥ १३० ॥
29.131
दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् ।
संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥ १३१ ॥
29.132
बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् ।
अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः ॥ १३२ ॥
29.133
निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् ।
यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥ १३३ ॥
29.134
शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् ।
तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः ॥ १३४ ॥
29.135
तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः ।
योऽप्यनुचक्रदृगादिस्वरूपभाक् सोऽपि यत्तदायत्तः ॥ १३५ ॥
29.136
तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः ।
परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः ॥ १३६ ॥
29.137
आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः ।
रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन ॥ १३७ ॥
29.138
विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते ।
तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः ॥ १३८ ॥
29.139
अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः ।
चक्रेश्वरोऽपि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् ॥ १३९ ॥
29.140
त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः ।
विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति ॥ १४० ॥
29.141
श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् ।
कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् ॥ १४१ ॥
29.142
द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे ।
स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् ॥ १४२ ॥
29.143
विश्रामं च समावेशं सुषीणां मरुतां तथा ।
गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥ १४३ ॥
29.144
द्वासप्ततिपदे देहे सहस्रारे च नित्यशः ।
गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥ १४४ ॥
29.145
तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे ।
उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् ॥ १४५ ॥
29.146
मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् ।
अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् ॥ १४६ ॥
29.147
सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः ।
एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति ॥ १४७ ॥
29.148
संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् ।
तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् ॥ १४८ ॥
29.149
अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति ।
अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने ॥ १४९ ॥
29.150
युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव ।
श्रीयोगसञ्चरेऽपिच मुद्रेयं योगिनीप्रिया परमा ॥ १५० ॥
29.151
कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले ।
सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् ॥ १५१ ॥
29.152
मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ ।
मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् ॥ १५२ ॥
29.153
त्रिदलारुणवीर्यकलासङ्गान्मध्येऽङ्कुरः सृष्टिः ।
इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति ॥ १५३ ॥
29.154
सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते ।
एतत्खेचरमुद्रावेशेऽन्योन्यस्य शक्तिशक्तिमतोः ॥ १५४ ॥
29.155
पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः ।
अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ १५५ ॥
29.156
अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् ।
इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि ॥ १५६ ॥
29.157
यद्भैरवाष्टकपदं तल्लभतेऽष्टककलाभिन्नम् ।
गमनागमनेऽवसितौ कर्णे नयने द्विलिङ्गसंपर्के ॥ १५७ ॥
29.158
तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे ।
कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् ॥ १५८ ॥
29.159
तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् ।
निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः ॥ १५९ ॥
29.160
ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा ।
सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च ॥ १६० ॥
29.161
अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् ।
एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥ १६१ ॥
29.162
सततमलेपो जीवन्मुक्तः परभैरवीभवति ।
तादृङ्मेलककलिकाकलिततनुः कोऽपि यो भवेद्गर्भे ॥ १६२ ॥
29.163
उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः ।
श्रीवीरावलिशास्त्रे बालोऽपि च गर्भगो हि शिवरूपः ॥ १६३ ॥
29.164
आदीयते यतः सारं तस्य मुख्यस्य चैष यत् ।
मुख्यश्च यागस्तेनायमादियाग इति स्मृतः ॥ १६४ ॥
29.165
तत्र तत्र च शास्त्रेऽस्य स्वरूपं स्तुतवान् विभुः ।
श्रीवीरावलिहार्देशखमतार्णववर्तिषु ॥ १६५ ॥
29.166
श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु ।
युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः ॥ १६६ ॥
29.167
सर्वदा स्मरणं कृत्वा आदियागैकतत्परः ।
शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् ॥ १६७ ॥
29.168
ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् ।
विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् ॥ १६८ ॥
29.169
न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः ।
कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् ॥ १६९ ॥
29.170
यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता ।
तच्चक्रं परमं देवीयागादौ संनिधापकम् ॥ १७० ॥
29.171
देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् ।
देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् ॥ १७१ ॥
29.172
तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् ।
तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् ॥ १७२ ॥
29.173
स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः ।
आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् ॥ १७३ ॥
29.174
तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः ।
लभते परमं धाम तर्पिताशेषदैवतः ॥ १७४ ॥
29.175
अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः ।
तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् ॥ १७५ ॥
29.176
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः
स्वामोदसन्दोहिभिः ।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम्
॥ १७६ ॥
29.177
श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये ।
स एष परमो यागः स्तुतः शीतांशुमौलिना ॥ १७७ ॥
29.178
अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् ।
पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥ १७८ ॥
29.179
प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः ।
करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् ॥ १७९ ॥
29.180
एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् ।
अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥ १८० ॥
29.181
संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् ।
विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥ १८१ ॥
29.182
यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः ।
तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥ १८२ ॥
29.183
शून्यरूपे श्मशानेऽस्मिन् योगिनीसिद्धसेविते ।
क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे ॥ १८३ ॥
29.184
स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ ।
सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥ १८४ ॥
29.185
असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे ।
समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति ॥ १८५ ॥
29.186
श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी ।
इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥ १८६ ॥
29.187
लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे ।
रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥ १८७ ॥
29.188
भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् ।
तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥ १८८ ॥
29.189
निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् ।
रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥ १८९ ॥
29.190
ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् ।
स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥ १९० ॥
29.191
ततोऽस्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् ।
हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥ १९१ ॥
29.192
आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः ।
उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् ॥ १९२ ॥
29.193
वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् ।
शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् ॥ १९३ ॥
29.194
यावत्स स्तोभमायातः स्वयं पतति मूर्धनि ।
शिवहस्तः स्वयं सोऽयं सद्यःप्रत्ययकारकः ॥ १९४ ॥
29.195
अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः ।
शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु ॥ १९५ ॥
29.196
करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल ।
दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् ॥ १९६ ॥
29.197
तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् ।
इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः ॥ १९७ ॥
29.198
समयी तु करस्तोभादिति श्रीभोगहस्तके ।
चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् ॥ १९८ ॥
29.199
निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् ।
सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु ॥ १९९ ॥
29.200
कालान्तरेऽध्वसंशुद्ध्या पालनात्समयस्थितेः ।
सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते ॥ २०० ॥
29.201
यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् ।
उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् ॥ २०१ ॥
29.202
न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् ।
प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः ॥ २०२ ॥
29.203
ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् ।
पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः ॥ २०३ ॥
29.204
उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् ।
अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् ॥ २०४ ॥
29.205
एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् ।
दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकलेऽथवा ॥ २०५ ॥
29.206
योगिना योजिता मार्गे सजातीयस्य पोषणम् ।
कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् ॥ २०६ ॥
29.207
अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः ।
शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः ॥ २०७ ॥
29.208
आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् ।
आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् ॥ २०८ ॥
29.209
एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे ।
शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् ॥ २०९ ॥
29.210
अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् ।
बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले ॥ २१० ॥
29.211
यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् ।
अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता ॥ २११ ॥
29.212
शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने ।
सुधाग्निमरुतो मन्दपरकालाग्निवायवः ॥ २१२ ॥
29.213
वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः ।
एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते ॥ २१३ ॥
29.214
शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् ।
हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः ॥ २१४ ॥
29.215
जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः ।
वायुना प्रेरितं चक्रं वह्निना परिदीपितम् ॥ २१५ ॥
29.216
तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः ।
निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥ २१६ ॥
29.217
आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः ।
यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति ॥ २१७ ॥
29.218
अनेन क्रमयोगेन सर्वाध्वानं स पश्यति ।
अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् ॥ २१८ ॥
29.219
पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः ।
तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥ २१९ ॥
29.220
इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने ।
कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥ २२० ॥
29.221
जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी ।
कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः ॥ २२१ ॥
29.222
सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् ।
निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः ॥ २२२ ॥
29.223
तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता ।
स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते ॥ २२३ ॥
29.224
पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् ।
अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् ॥ २२४ ॥
29.225
साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् ।
तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् ॥ २२५ ॥
29.226
दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् ।
कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ ॥ २२६ ॥
29.227
आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना ।
तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् ॥ २२७ ॥
29.228
आचार्यस्याभिषेकोऽयमधिकारान्वितः स तु ।
कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् ॥ २२८ ॥
29.229
अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ ।
शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥ २२९ ॥
29.230
अभिषिक्ताविमावेवं सर्वयोगिगणेन तु ।
विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥ २३० ॥
29.231
तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति ।
गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् ॥ २३१ ॥
29.232
अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् ।
स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति ॥ २३२ ॥
29.233
षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः ।
साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥ २३३ ॥
29.234
प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् ।
चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः ॥ २३४ ॥
29.235
स एव पूर्णैः कलशैरभिषेकः परः स्मृतः ।
विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे ॥ २३५ ॥
29.236
सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः ।
कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् ॥ २३६ ॥
29.237
वेधदीक्षा च बहुधा तत्र तत्र निरूपिता ।
सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः ॥ २३७ ॥
29.238
शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः ।
येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता ॥ २३८ ॥
29.239
ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा ।
मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका ॥ २३९ ॥
29.240
षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना ।
ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् ॥ २४० ॥
29.241
ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् ।
आकारं नवधा देहे न्यस्य संक्रमयेत्ततः ॥ २४१ ॥
29.242
न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् ।
पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् ॥ २४२ ॥
29.243
इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः ।
नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥ २४३ ॥
29.244
नादेन वेधयेच्चित्तं नादवेध उदीरितः ।
बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥ २४४ ॥
29.245
हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् ।
तेन संबोधयेत्साध्यं बिन्द्वाख्योऽयं प्रकीर्तितः ॥ २४५ ॥
29.246
शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि ।
शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥ २४६ ॥
29.247
अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् ।
एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥ २४७ ॥
29.248
सा चैव परमा शक्तिरानन्दप्रविकासिनी ।
जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥ २४८ ॥
29.249
कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च ।
ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका ॥ २४९ ॥
29.250
एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता ।
ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥ २५० ॥
29.251
प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् ।
एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥ २५१ ॥
29.252
तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् ।
क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥ २५२ ॥
29.253
नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः ।
न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया ॥ २५३ ॥
29.254
सर्वभावपरिक्षीणः परवेध उदाहृतः ।
मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् ॥ २५४ ॥
29.255
नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः ।
मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले ॥ २५५ ॥
29.256
ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् ।
पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः ॥ २५६ ॥
29.257
नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि ।
पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् ॥ २५७ ॥
29.258
शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् ।
शक्त्येति शाक्तो वेधोऽयं सद्यःप्रत्ययकारकः ॥ २५८ ॥
29.259
आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् ।
अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि ॥ २५९ ॥
29.260
देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् ।
निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः ॥ २६० ॥
29.261
भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् ।
तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् ॥ २६१ ॥
29.262
इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् ।
अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः ॥ २६२ ॥
29.263
विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः ।
तत् स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये ॥ २६३ ॥
29.264
अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः ।
हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते ॥ २६४ ॥
29.265
पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः ।
छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः ॥ २६५ ॥
29.266
इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् ।
तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन ॥ २६६ ॥
29.267
यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः ।
उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः ॥ २६७ ॥
29.268
नाड्यः प्रधानभूतास्तिस्रोऽन्यास्तद्गतास्त्वसंख्येयाः ।
एकीकारस्ताभिर्नाडीवेधोऽत्र तत्फलकृत् ॥ २६८ ॥
29.269
अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः ।
अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा ॥ २६९ ॥
29.270
लाङ्गूलाकृतिबलवत् स्वनाडिसंवोष्टितामपरनाडीम् ।
आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी ॥ २७० ॥
29.271
परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् ।
परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः ॥ २७१ ॥
29.272
श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् ।
अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते ॥ २७२ ॥
29.273
तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् ।
गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् ॥ २७३ ॥
29.274
रूपं रूपे तु विषयैर्यावत्समरसीभवेत् ।
चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः ॥ २७४ ॥
29.275
उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् ।
शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् ॥ २७५ ॥
29.276
अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः ।
निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि ॥ २७६ ॥
29.277
ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता ।
स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥ २७७ ॥
29.278
अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् ।
बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः ॥ २७८ ॥
29.279
निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः ।
मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः ॥ २७९ ॥
29.280
संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् ।
संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥ २८० ॥
29.281
नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् ।
दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥ २८१ ॥
29.282
दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह ।
चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ॥ २८२ ॥
29.283
इति श्रीरत्नमालायामूनाधिकविधिस्तु यः ।
स एव पातकं तस्य प्रशमोऽयं प्रकीर्तितः ॥ २८३ ॥
29.284
परेऽहनि गुरोः कार्यो यागस्तेन विना यतः ।
न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः ॥ २८४ ॥
29.285
येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् ।
चक्रचर्यान्तरालेऽस्या विधिः संचार उच्याते ॥ २८५ ॥
29.286
अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् ।
अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः ॥ २८६ ॥
29.287
तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् ।
कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः ॥ २८७ ॥
29.288
स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् ।
क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥ २८८ ॥
29.289
वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् ।
परब्रह्मण्यवेत्तारोऽगमागमविवर्जिताः ॥ २८९ ॥
29.290
लोभमोहमदक्रोधरागमायाजुषश्च ये ।
तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि ॥ २९० ॥
29.291
यागादौ यागमध्ये च यागान्ते गुरुपूजने ।
नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥ २९१ ॥
29.292
इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः ।
Ahnika 30 – Devanagari
30.1
अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते ।
तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् ॥ १ ॥
30.2
प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः ।
स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ २ ॥
30.3
यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः ।
स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥ ३ ॥
30.4
आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये ।
क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥ ४ ॥
30.5
हं नाले यं तथा रं लं वं धर्मादिचतुष्टये ।
ऋं ॠं ऌं ऌऌं चतुष्के च विपरीतक्रमाद्भवेत् ॥ ५ ॥
30.6
ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये ।
अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥ ६ ॥
30.7
कादिभान्ताः केसरेषु प्राणोऽष्टस्वरसंयुतः ।
सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥ ७ ॥
30.8
शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये ।
सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥ ८ ॥
30.9
पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः ।
संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥ ९ ॥
30.10
आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् ।
अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥ १० ॥
30.11
रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः ।
अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥ ११ ॥
30.12
सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः ।
बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥ १२ ॥
30.13
क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ ।
तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥ १३ ॥
30.14
एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता ।
परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥ १४ ॥
30.15
एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः ।
षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥ १५ ॥
30.16
क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः ।
झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥ १६ ॥
30.17
एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः ।
मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥ १७ ॥
30.18
ओंकारोऽथ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् ।
गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥ १८ ॥
30.19
नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् ।
सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥ १९ ॥
30.20
आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः ।
बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥ २० ॥
30.21
पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् ।
द्वितीयस्मिन्पदेऽकार एकारस्येह च स्मृतः ॥ २१ ॥
30.22
ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् ।
हेऽग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् ॥ २२ ॥
30.23
अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः ।
तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥ २३ ॥
30.24
एषा परापरादेव्या विद्या श्रीत्रिकशासने ।
पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥ २४ ॥
30.25
अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् ।
प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते ॥ २५ ॥
30.26
देवताचक्रविन्यासः स बहुत्वान्न लिप्यते ।
माया विसर्गिणी हुं फट् चेति मन्त्रोऽपरात्मकः ॥ २६ ॥
30.27
परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः ।
सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥ २७ ॥
30.28
स्वरूपतो विभिन्नापि रचनानेकसङ्कुला ।
जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥ २८ ॥
30.29
आधाराधेयभावेन अविनाभावयोगतः ।
हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥ २९ ॥
30.30
भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् ।
दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥ ३० ॥
30.31
प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् ।
परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥ ३१ ॥
30.32
स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् ।
अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥ ३२ ॥
30.33
शून्यद्वयसमोपेतं पराया हृदयं परम् ।
युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥ ३३ ॥
30.34
अन्येऽप्येकाक्षरा ये तु एकवीरविधानतः ।
गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥ ३४ ॥
30.35
यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः ।
कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥ ३५ ॥
30.36
अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा ।
सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु ॥ ३६ ॥
30.37
स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः ।
ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥ ३७ ॥
30.38
प्रणवश्चामृते तेजोमालिनि स्वाहया सह ।
एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥ ३८ ॥
30.39
वेदवेदनि हूं फट्च प्रणवादियुता शिखा ।
वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥ ३९ ॥
30.40
एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् ।
तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥ ४० ॥
30.41
नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् ।
तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् ॥ ४१ ॥
30.42
लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः ।
इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥ ४२ ॥
30.43
स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके ।
नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः ॥ ४३ ॥
30.44
अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः ।
जपे होमे तथाप्याये समुच्चाटेऽथ शान्तिके ॥ ४४ ॥
30.45
अभिचारे च मन्त्राणां नमस्कारादिजातयः ।
अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥ ४५ ॥
30.46
योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी ।
आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥ ४६ ॥
30.47
जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः ।
अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥ ४७ ॥
30.48
दक्षजानुगतश्चायं सर्वमातृगणार्चितः ।
अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥ ४८ ॥
30.49
सद्भावः परमो ह्येष मातॄणां भैरवस्य च ।
तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥ ४९ ॥
30.50
रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः ।
यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥ ५० ॥
30.51
यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् ।
अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥ ५१ ॥
30.52
दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ ।
नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥ ५२ ॥
30.53
सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः ।
अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥ ५३ ॥
30.54
महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् ।
नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥ ५४ ॥
30.55
श्रीडामरे महायागे परात्परतरोदिता ।
सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥ ५५ ॥
30.56
अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते ।
शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥ ५६ ॥
30.57
एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् ।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥ ५७ ॥
30.58
द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा ।
कूटाग्नी सविसर्गाश्च पञ्चाप्येतेऽथ पञ्चसु ॥ ५८ ॥
30.59
व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने ।
छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥ ५९ ॥
30.60
बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् ।
आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥ ६० ॥
30.61
कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः ।
जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥ ६१ ॥
30.62
कथितं सरहस्यं तु सद्योनिर्वाणकं परम् ।
अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥ ६२ ॥
30.63
शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ।
सर्वेषामेव भूतानां मरणे समुपस्थिते ॥ ६३ ॥
30.64
यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ।
या ज्ञानिनोऽपि संपूर्णकृत्यस्यापि श्रुता सती ॥ ६४ ॥
30.65
प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति ।
यामाकर्ण्य महामोहविवशोऽपि क्रमाद्गतः ॥ ६५ ॥
30.66
प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् ।
परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥ ६६ ॥
30.67
पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् ।
आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥ ६७ ॥
30.68
गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे ।
जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥ ६८ ॥
30.69
एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् ।
हंस हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः ॥ ६९ ॥
30.70
रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम ।
तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥ ७० ॥
30.71
हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी ।
मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥ ७१ ॥
30.72
कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह ।
आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥ ७२ ॥
30.73
निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः ।
अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥ ७३ ॥
30.74
एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः ।
व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥ ७४ ॥
30.75
प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् ।
आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥ ७५ ॥
30.76
ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य ।
उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥ ७६ ॥
30.77
आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः ।
प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥ ७७ ॥
30.78
आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य ।
धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥ ७८ ॥
30.79
आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः ।
हे ब्रह्मन् हे विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम् ॥ ७९ ॥
30.80
अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश ।
एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥ ८० ॥
30.81
सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् ।
पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥ ८१ ॥
30.82
अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म ।
आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥ ८२ ॥
30.83
अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे ।
पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः ॥ ८३ ॥
30.84
अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् ।
एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥ ८४ ॥
30.85
ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् ।
आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥ ८५ ॥
30.86
तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् ।
स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥ ८६ ॥
30.87
मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् ।
आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥ ८७ ॥
30.88
मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् ।
आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥ ८८ ॥
30.89
सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः ।
वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥ ८९ ॥
30.90
प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते ।
तारो माया वेदकलो मातृतारो नवात्मकः ॥ ९० ॥
30.91
इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः ।
बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥ ९१ ॥
30.92
एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः ।
कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोऽपि विशुद्ध्यति ॥ ९२ ॥
30.93
लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी ।
तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥ ९३ ॥
30.94
शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् ।
षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥ ९४ ॥
30.95
अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् ।
हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥ ९५ ॥
30.96
अग्निमण्डलमध्यस्थभैरवानलतापिताः ।
वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥ ९६ ॥
30.97
विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः ।
ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥ ९७ ॥
30.98
प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् ।
प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥ ९८ ॥
30.99
तुलामेलकयोगः श्रीतन्त्रसद्भावशासने ।
य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥ ९९ ॥
30.100
अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः ।
देशकालादिदोषेण न तथाध्यवसायिनाम् ॥ १०० ॥
30.101
प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता ।
कथ्यते हाटकेशानपातालाधिपचोदिता ॥ १०१ ॥
30.102
श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे ।
वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥ १०२ ॥
30.103
धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः ।
ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥ १०३ ॥
30.104
मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोऽभियोगेन ।
कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥ १०४ ॥
30.105
गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः ।
मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥ १०५ ॥
30.106
एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये ।
बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥ १०६ ॥
30.107
प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् ।
पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥ १०७ ॥
30.108
सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि ।
समस्तबन्धशब्देन सहितं च निकृन्तनि ॥ १०८ ॥
30.109
बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् ।
पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥ १०९ ॥
30.110
खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा ।
अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥ ११० ॥
30.111
अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् ।
वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तोऽर्णत्रयादतः ॥ १११ ॥
30.112
महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् ।
आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥ ११२ ॥
30.113
षडर्णं पापशब्दादिविमोहनिपदं ततः ।
पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥ ११३ ॥
30.114
पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति ।
तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥ ११४ ॥
30.115
तदनच्कतकारेण सहैकीभावतः पठेत् ।
रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥ ११५ ॥
30.116
मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् ।
अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥ ११६ ॥
30.117
आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् ।
एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥ ११७ ॥
30.118
रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेऽथ मे ।
पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥ ११८ ॥
30.119
सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा ।
सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥ ११९ ॥
30.120
विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी ।
एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥ १२० ॥
30.121
यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् ।
अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥ १२१ ॥
30.122
अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः ।
नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥ १२२ ॥
30.123
निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते ।
इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥ १२३ ॥
Ahnika 31 – Devanagari
31.1
अथ मण्डलसद्भावः संक्षेपेणाभिधीयते ।
साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥ १ ॥
31.2
तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः ।
ततोऽप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥ २ ॥
31.3
अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् ।
मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥ ३ ॥
31.4
तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये ।
यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥ ४ ॥
31.5
अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते ।
मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥ ५ ॥
31.6
मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः ।
सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥ ६ ॥
31.7
मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् ।
एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥ ७ ॥
31.8
सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते ।
यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥ ८ ॥
31.9
मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् ।
तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥ ९ ॥
31.10
तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् ।
वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥ १० ॥
31.11
भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् ।
ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥ ११ ॥
31.12
कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः ।
ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥ १२ ॥
31.13
कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः ।
तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥ १३ ॥
31.14
कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् ।
ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥ १४ ॥
31.15
कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः ।
ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥ १५ ॥
31.16
कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् ।
भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥ १६ ॥
31.17
तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः ।
कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥ १७ ॥
31.18
सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते ।
द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥ १८ ॥
31.19
मध्यशृङ्गेऽथ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके ।
चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥ १९ ॥
31.20
तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा ।
अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥ २० ॥
31.21
एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् ।
मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥ २१ ॥
31.22
सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् ।
पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥ २२ ॥
31.23
अवधानेन संग्राह्यमाचार्येणोहवेदिना ।
भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥ २३ ॥
31.24
मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः ।
ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥ २४ ॥
31.25
ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता ।
द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥ २५ ॥
31.26
अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् ।
ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥ २६ ॥
31.27
मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा ।
पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥ २७ ॥
31.28
त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः ।
पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ २८ ॥
31.29
मिश्रितं वाथ संकीर्णं समासव्यासभेदतः ।
ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥ २९ ॥
31.30
तत्र दण्डः स्मृतो भागः षडरामलसारकः ।
सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥ ३० ॥
31.31
या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी ।
सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥ ३१ ॥
31.32
अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः ।
ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥ ३२ ॥
31.33
वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः ।
स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥ ३३ ॥
31.34
उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् ।
कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः ॥ ३४ ॥
31.35
उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा ।
चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥ ३५ ॥
31.36
अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता ।
तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥ ३६ ॥
31.37
पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः ।
शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥ ३७ ॥
31.38
स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः ।
भावाभावविकल्पेन मण्डलानामनन्तता ॥ ३८ ॥
31.39
ततो रजांसि देयानि यथाशोभानुसारतः ।
सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥ ३९ ॥
31.40
उत्तमानि रजांसीह देवतात्रययोगतः ।
परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥ ४० ॥
31.41
अपरा सा परा काली भीषणा चण्डयोगिनी ।
दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥ ४१ ॥
31.42
अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः ।
किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥ ४२ ॥
31.43
शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् ।
या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥ ४३ ॥
31.44
विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता ।
तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥ ४४ ॥
31.45
अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः ।
आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥ ४५ ॥
31.46
तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः ।
तस्मादेनं महायागं महाविभवविस्तरैः ॥ ४६ ॥
31.47
पूजयेद्भूतिकामो वा मोक्षकामोऽपिवा बुधः ।
अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥ ४७ ॥
31.48
पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति ।
मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् ॥ ४८ ॥
31.49
सततं मासषट्केन त्रिकज्ञानं समश्नुते ।
यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥ ४९ ॥
31.50
देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति ।
मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥ ५० ॥
31.51
वर्तनां च विजानाति स गुरुस्त्रिकशासने ।
तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥ ५१ ॥
31.52
अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् ।
तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥ ५२ ॥
31.53
चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् ।
तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥ ५३ ॥
31.54
इत्येतत्कथितं गुप्ते षडर्धहृदये परे ।
षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥ ५४ ॥
31.55
अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् ।
महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥ ५५ ॥
31.56
द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् ।
कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥ ५६ ॥
31.57
अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् ।
शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥ ५७ ॥
31.58
एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति ।
स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने ॥ ५८ ॥
31.59
कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु ।
शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥ ५९ ॥
31.60
अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते ।
सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥ ६० ॥
31.61
यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः ।
तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥ ६१ ॥
31.62
वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् ।
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥ ६२ ॥
31.63
त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः ।
द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥ ६३ ॥
31.64
ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा ।
भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥ ६४ ॥
31.65
तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः ।
जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥ ६५ ॥
31.66
तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् ।
बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥ ६६ ॥
31.67
तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् ।
ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥ ६७ ॥
31.68
द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः ।
एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥ ६८ ॥
31.69
सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये ।
तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥ ६९ ॥
31.70
आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् ।
तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥ ७० ॥
31.71
तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये ।
क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥ ७१ ॥
31.72
षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम् ।
वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥ ७२ ॥
31.73
आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् ।
हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥ ७३ ॥
31.74
द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु ।
एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥ ७४ ॥
31.75
दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश ।
द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥ ७५ ॥
31.76
एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् ।
एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥ ७६ ॥
31.77
यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते ।
तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥ ७७ ॥
31.78
एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् ।
द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥ ७८ ॥
31.79
कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः ।
सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥ ७९ ॥
31.80
दलानि शुक्लवर्णानि प्रतिवारणया सह ।
पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥ ८० ॥
31.81
सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् ।
चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥ ८१ ॥
31.82
दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् ।
रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥ ८२ ॥
31.83
पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥ ८३ ॥
31.84
एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् ।
कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥ ८४ ॥
31.85
विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् ।
श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥ ८५ ॥
31.86
अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् ।
भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥ ८६ ॥
31.87
मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ ।
भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥ ८७ ॥
31.88
तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः ।
चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥ ८८ ॥
31.89
तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् ।
ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥ ८९ ॥
31.90
क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः ।
अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥ ९० ॥
31.91
भागं भागं गृहीत्वा तु उभयोरथ गोचरात् ।
भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥ ९१ ॥
31.92
षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् ।
तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥ ९२ ॥
31.93
मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः ।
सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥ ९३ ॥
31.94
कर्णिका पीतला रक्तपीतशुक्लं च केसरम् ।
दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥ ९४ ॥
31.95
शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः ।
शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥ ९५ ॥
31.96
शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा ।
अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः ॥ ९६ ॥
31.97
या सा कालान्तका देवी परातीता व्यवस्थिता ।
ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥ ९७ ॥
31.98
शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् ।
अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥ ९८ ॥
31.99
भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् ।
चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥ ९९ ॥
31.100
एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः ।
अथ त्रैशिरसे शूलाब्जविधिर्दृष्टोऽभिलिख्यते ॥ १०० ॥
31.101
वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः ।
भूमिं रजांसि करणीं खटिकां मूलतोऽर्चयेत् ॥ १०१ ॥
31.102
चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् ।
चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥ १०२ ॥
31.103
वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः ।
द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥ १०३ ॥
31.104
दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः ।
ऊर्ध्वेऽप्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥ १०४ ॥
31.105
शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् ।
कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥ १०५ ॥
31.106
अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः ।
शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥ १०६ ॥
31.107
वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् ।
द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥ १०७ ॥
31.108
चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् ।
उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥ १०८ ॥
31.109
भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् ।
वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥ १०९ ॥
31.110
यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् ।
मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥ ११० ॥
31.111
चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला ।
उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥ १११ ॥
31.112
पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते ।
शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥ ११२ ॥
31.113
अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् ।
चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥ ११३ ॥
31.114
पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः ।
कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥ ११४ ॥
31.115
कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् ।
क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥ ११५ ॥
31.116
चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् ।
विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥ ११६ ॥
31.117
त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् ।
सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥ ११७ ॥
31.118
शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् ।
रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥ ११८ ॥
31.119
शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः ।
तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥ ११९ ॥
31.120
वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् ।
समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः ॥ १२० ॥
31.121
त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः ।
कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥ १२१ ॥
31.122
प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् ।
सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥ १२२ ॥
31.123
रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् ।
अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥ १२३ ॥
31.124
अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः ।
अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥ १२४ ॥
31.125
हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे ।
नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥ १२५ ॥
31.126
शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् ।
उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥ १२६ ॥
31.127
शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् ।
प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥ १२७ ॥
31.128
अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् ।
मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥ १२८ ॥
31.129
तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः ।
समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥ १२९ ॥
31.130
समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः ।
षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥ १३० ॥
31.131
विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे ।
कार्योऽस्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥ १३१ ॥
31.132
स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः ।
नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥ १३२ ॥
31.133
शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा ।
एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥ १३३ ॥
31.134
अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते ।
वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥ १३४ ॥
31.135
रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् ।
वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥ १३५ ॥
31.136
रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् ।
मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥ १३६ ॥
31.137
वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च ।
लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥ १३७ ॥
31.138
द्वारप्राकारकोणेषु नेत्रानलशरानृतून् ।
नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥ १३८ ॥
31.139
वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् ।
नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥ १३९ ॥
31.140
लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् ।
शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥ १४० ॥
31.141
नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः ।
स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥ १४१ ॥
31.142
मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः ।
नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥ १४२ ॥
31.143
ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् ।
नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥ १४३ ॥
31.144
वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् ।
वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥ १४४ ॥
31.145
ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् ।
सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥ १४५ ॥
31.146
भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् ।
सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥ १४६ ॥
31.147
दलानि कार्याणि सितैः केसरं रक्तपीतलैः ।
कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥ १४७ ॥
31.148
व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः ।
पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥ १४८ ॥
31.149
स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः ।
वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥ १४९ ॥
31.150
इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् ।
दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥ १५० ॥
31.151
नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् ।
ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥ १५१ ॥
31.152
गदा हेमनिभात्युग्रा नानारत्नविभूषिता ।
शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥ १५२ ॥
31.153
तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् ।
चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥ १५३ ॥
31.154
अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् ।
मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥ १५४ ॥
31.155
श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते ।
हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥ १५५ ॥
31.156
मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् ।
नवभिः कोष्ठकैर्युक्तं ततोऽयं विधिरुच्यते ॥ १५६ ॥
31.157
मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु ।
अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥ १५७ ॥
31.158
उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् ।
कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥ १५८ ॥
31.159
अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥ १५९ ॥
31.160
शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् ।
अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥ १६० ॥
31.161
मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् ।
मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥ १६१ ॥
31.162
रेखाद्वयं पातयेत यथा शूलं भवत्यपि ।
अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥ १६२ ॥
31.163
समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु ।
मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥ १६३ ॥
31.164
इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः ।
Ahnika 32 – Devanagari
32.1
अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् । ०ब्
मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले ।
उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥ १ ॥
32.2
बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता ।
विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥ २ ॥
32.3
मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् ।
रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥ ३ ॥
32.4
तत्र प्रधानभूता श्रीखेचरी देवतात्मिका ।
निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥ ४ ॥
32.5
करङ्किणी क्रोधना च भैरवी लेलिहानिका ।
महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥ ५ ॥
32.6
इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते ।
अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥ ६ ॥
32.7
तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् ।
श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥ ७ ॥
32.8
देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा ।
काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥ ८ ॥
32.9
मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥ ९ ॥
32.10
तत्र पूर्णेन रूपेण खेचरीमेव वर्णये ।
बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥ १० ॥
32.11
दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् ।
निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥ ११ ॥
32.12
एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने ।
ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥ १२ ॥
32.13
अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् ।
जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥ १३ ॥
32.14
विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् ।
अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥ १४ ॥
32.15
जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् ।
त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥ १५ ॥
32.16
पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् ।
शून्याशून्यलये कृत्वा एकदण्डेऽनिलानलौ ॥ १६ ॥
32.17
शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते ।
त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥ १७ ॥
32.18
आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः ।
शूलं समरसं कृत्वा रसे रस इव स्थितः ॥ १८ ॥
32.19
एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये ।
बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥ १९ ॥
32.20
खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् ।
त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥ २० ॥
32.21
अवधूतो निराचारो नाहमस्मीति भावयम् ।
मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥ २१ ॥
32.22
ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे ।
रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥ २२ ॥
32.23
नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् ।
कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ २३ ॥
32.24
ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् ।
विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥ २४ ॥
32.25
शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः ।
तत्रस्था देवताः सर्वा द्योतयन्त्योऽखिलं जगत् ॥ २५ ॥
32.26
कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा ।
अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥ २६ ॥
32.27
एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् ।
हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥ २७ ॥
32.28
चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः ।
विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥ २८ ॥
32.29
एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् ।
जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥ २९ ॥
32.30
परदेहेषु चात्मानं परं चात्मशरीरतः ।
पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥ ३० ॥
32.31
नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् ।
अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥ ३१ ॥
32.32
कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् ।
वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥ ३२ ॥
32.33
स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् ।
व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥ ३३ ॥
32.34
यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् ।
तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥ ३४ ॥
32.35
चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् ।
मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥ ३५ ॥
32.36
वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः ।
कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥ ३६ ॥
32.37
तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते ।
वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥ ३७ ॥
32.38
ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् ।
गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥ ३८ ॥
32.39
तत्र तत्पदसंयोगादुन्मीलनविधायिनी ।
यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥ ३९ ॥
32.40
ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् ।
एष क्रमस्ततोऽन्योऽपि व्युत्क्रमः खेचरी परा ॥ ४० ॥
32.41
योन्याधारेति विख्याता शूलमूलेति शब्द्यते ।
वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥ ४१ ॥
32.42
नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् ।
आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥ ४२ ॥
32.43
नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् ।
बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥ ४३ ॥
32.44
हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् ।
वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥ ४४ ॥
32.45
आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् ।
चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥ ४५ ॥
32.46
भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् ।
पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥ ४६ ॥
32.47
श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः ।
चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥ ४७ ॥
32.48
ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे ।
तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥ ४८ ॥
32.49
भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः ।
मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥ ४९ ॥
32.50
त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते ।
नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥ ५० ॥
32.51
वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् ।
भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥ ५१ ॥
32.52
मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः ।
मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥ ५२ ॥
32.53
शरीरं तु समस्तं यत्कूटाक्षरसमाकृति ।
एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥ ५३ ॥
32.54
सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः ।
पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥ ५४ ॥
32.55
अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी ।
तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥ ५५ ॥
32.56
सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता ।
मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥ ५६ ॥
32.57
शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् ।
समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥ ५७ ॥
32.58
एषैव शक्तिमुद्रा चेदधोधावितपाणिका ।
दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥ ५८ ॥
32.59
द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता ।
संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥ ५९ ॥
32.60
उत्क्रामणी झगित्येव पशूनां पाशकर्तरी ।
श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥ ६० ॥
32.61
साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् ।
अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥ ६१ ॥
32.62
वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी ।
अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥ ६२ ॥
32.63
एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता ।
श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥ ६३ ॥
32.64
एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् ।
एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥ ६४ ॥
32.65
तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् ।
तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥ ६५ ॥
32.66
यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे ।
विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥ ६६ ॥
32.67
बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः ।
शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥ ६७ ॥
32.68
इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः ।
Ahnika 33 – Devanagari
33.1
अथावसरसंप्राप्त एकीकारो निगद्यते । ०ब्
यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् ।
तत्रैष चक्रभेदानामेकीकारो दिशानया ॥ १ ॥
33.2
विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा ।
गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥ २ ॥
33.3
माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका ।
चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा ॥ ३ ॥
33.4
अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः ।
नन्दा भद्रा जया काली कराली विकृतानना ॥ ४ ॥
33.5
क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना ।
गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥ ५ ॥
33.6
सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः ।
दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥ ६ ॥
33.7
सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः ।
बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥ ७ ॥
33.8
माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः ।
दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥ ८ ॥
33.9
शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः ।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः ॥ ९ ॥
33.10
अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा ।
झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥ १० ॥
33.11
द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः ।
ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥ ११ ॥
33.12
तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः ।
श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥ १२ ॥
33.13
संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः ।
द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि ॥ १३ ॥
33.14
देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः ।
जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥ १४ ॥
33.15
तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः ।
तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥ १५ ॥
33.16
शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च ।
चेतोऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः ॥ १६ ॥
33.17
श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः ।
जुंकारोऽथाग्निपत्नीति षडरे षण्ठवर्जिताः ॥ १७ ॥
33.18
द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् ।
हलस्तद्द्विगुणेऽष्टारे याद्यं हान्तं तु तत्त्रिके ॥ १८ ॥
33.19
द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि ।
एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥ १९ ॥
33.20
एक एव चिदात्मैष विश्वामर्शनसारकः ।
शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥ २० ॥
33.21
तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने ।
शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥ २१ ॥
33.22
तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् ।
अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥ २२ ॥
33.23
आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् ।
अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥ २३ ॥
33.24
तदामृतचतुष्कोनभावे द्वादशकं भवेत् ।
तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥ २४ ॥
33.25
विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् ।
अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥ २५ ॥
33.26
अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता ।
वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः ॥ २६ ॥
33.27
इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः ।
स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥ २७ ॥
33.28
तस्यादित उदात्तं तत्कथितं पदवेदिना ।
इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥ २८ ॥
33.29
अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् ।
स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥ २९ ॥
33.30
परापरा परा चान्या सृष्टिस्थितितिरोधयः ।
मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥ ३० ॥
33.31
तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे ।
तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥ ३१ ॥
33.32
तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् ।
इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥ ३२ ॥
Ahnika 34 – Devanagari
34.1
उच्यतेऽथ स्वस्वरूपप्रवेशः क्रमसङ्गतः । ०ब्
यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये ।
तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे ॥ १ ॥
34.2
ततोऽप्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् ।
ततोऽपि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् ॥ २ ॥
34.3
इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी ।
अन्तेऽभ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् ॥ ३ ॥
34.4
कथितोऽयं स्वस्वरूपप्रवेशः परमेष्ठिना ।
Ahnika 35 – Devanagari
35.1
अथोच्यते समस्तानां शास्त्राणामिह मेलनम् ।
इह तावत्सम स्तोऽयं व्यवहारः पुरातनः ॥ १ ॥
35.2
प्रसिद्धिमनुसन्धाय सैव चागम उच्यते ।
अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ ॥ २ ॥
35.3
स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः ।
प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् ॥ ३ ॥
35.4
अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् ।
अभितःसंवृते जात एकाकी क्षुधितः शिशुः ॥ ४ ॥
35.5
किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् ।
ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि ॥ ५ ॥
35.6
पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति ।
चेतस्तदेवादाय द्राक् सोऽन्वयव्यतिरेकभाक् ॥ ६ ॥
35.7
हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः ।
सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः ॥ ७ ॥
35.8
न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः ।
प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न ॥ ८ ॥
35.9
न मृदभ्यवहारेच्छा पुंसो बालस्य जायते ।
प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना ॥ ९ ॥
35.10
प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी ।
नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः ॥ १० ॥
35.11
मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् ।
पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् ॥ ११ ॥
35.12
सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा ।
व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि ॥ १२ ॥
35.13
तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति ।
बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन ॥ १३ ॥
35.14
भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः ।
तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः ॥ १४ ॥
35.15
ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् ।
शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् ॥ १५ ॥
35.16
तयैवाशैशवात्सर्वे व्यवहारधराजुषः ।
सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् ॥ १६ ॥
35.17
अपूर्णास्तु परे तेन न मोक्षफलभागिनः ।
उपजीवन्ति यावत्तु तावत्तत्फलभागिनः ॥ १७ ॥
35.18
बाल्यापायेऽपि यद्भोक्तुमन्नमेष प्रवर्तते ।
तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् ॥ १८ ॥
35.19
नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः ।
प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका ॥ १९ ॥
35.20
मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् ।
स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः ॥ २० ॥
35.21
यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् ।
तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते ॥ २१ ॥
35.22
अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते ।
एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम् ॥ २२ ॥
35.23
एक एवागमश्चायं विभुना सर्वदर्शिना ।
दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः ॥ २३ ॥
35.24
धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः ।
विचित्रेषु फलेष्वेक उपायः शाम्भवागमः ॥ २४ ॥
35.25
तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि ।
चित्रोपायोपदेशोऽपि न विरोधावहो भवेत् ॥ २५ ॥
35.26
लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् ।
बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् ॥ २६ ॥
35.27
सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः ।
श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः ॥ २७ ॥
35.28
यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः ।
संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् ॥ २८ ॥
35.29
यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् ।
फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् ॥ २९ ॥
35.30
एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः ।
प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् ॥ ३० ॥
35.31
तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् ।
सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते ॥ ३१ ॥
35.32
यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु ।
एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः ॥ ३२ ॥
35.33
श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् ।
दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् ॥ ३३ ॥
35.34
पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् ।
यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् ॥ ३४ ॥
35.35
तदेक एवागमोऽयं चित्रश्चित्रेऽधिकारिणि ।
तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा ॥ ३५ ॥
35.36
सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् ।
यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने ॥ ३६ ॥
35.37
एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः ।
लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः ॥ ३७ ॥
35.38
अनेकागमपक्षेऽपि वाच्या विषयभेदिता ।
अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये ॥ ३८ ॥
35.39
अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् ।
नित्यत्वमविसंवाद इति नो मानकारणम् ॥ ३९ ॥
35.40
अस्मिन्नंशेऽप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः ।
अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने ॥ ४० ॥
35.41
अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः ।
अवश्योपेत्य इत्यस्मिन्मान आगमनामनि ॥ ४१ ॥
35.42
अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् ।
प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः ॥ ४२ ॥
35.43
अतोऽस्मिन् यत्नवान् कोऽपि भवेच्छंभुप्रचोदितः ।
तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना ॥ ४३ ॥
35.44
एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् ।
इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् ॥ ४४ ॥
Ahnika 36 – Devanagari
36.1
आयातिरथ शास्त्रस्य कथ्यतेऽवसरागता ।०ब्
श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता ।
भैरवो भैरवी देवी स्वच्छन्दो लाकुलोऽणुराट् ॥ १ ॥
36.2
गहनेशोऽब्जजः शक्रो गुरुः कोट्यपकर्षतः ।
नवभिः क्रमशोऽधीतं नवकोटिप्रविस्तरम् ॥ २ ॥
36.3
एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् ।
दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥ ३ ॥
36.4
पादं च वामनादिभ्यः पादार्धं भार्गवाय च ।
पादपादं तु बलये पादपादस्तु योऽपरः ॥ ४ ॥
36.5
सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे ।
पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥ ५ ॥
36.6
स्वर्गादर्धं रावणोऽथ जह्रे रामोऽर्धमप्यतः ।
विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥ ६ ॥
36.7
खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः ।
खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः ॥ ७ ॥
36.8
पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः ।
सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥ ८ ॥
36.9
देव्योऽत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण ।
नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥ ९ ॥
36.10
रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्योऽपि दानवाः ।
गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥ १० ॥
36.11
तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा ।
तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् ॥ ११ ॥
36.12
त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ।
द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥ १२ ॥
36.13
आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ।
स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥ १३ ॥
36.14
अतश्चार्धचतस्रोऽत्र मठिकाः संततिक्रमात् ।
शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥ १४ ॥
36.15
अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् ।
विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥ १५ ॥
36.16
उक्तायातिरुपादेयभावो निर्णीयतेऽधुना ।
Ahnika 37 – Devanagari
37.1
उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते ।
प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः ॥ १ ॥
37.2
यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः ।
सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः ॥ २ ॥
37.3
तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि ।
मनाक्फलेऽभ्युपादेयतमं तद्विपरीतकम् ॥ ३ ॥
37.4
यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ।
क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ॥ ४ ॥
37.5
यदार्षे पातहेतूक्तं तदस्मिन्वामशासने ।
आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ॥ ५ ॥
37.6
तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् ।
यदशेषोपदेशेन सूयतेऽनुत्तरं फलम् ॥ ६ ॥
37.7
यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः ।
उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् ॥ ७ ॥
37.8
यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् ।
अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेऽधरशासने ॥ ८ ॥
37.9
ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते ।
अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् ॥ ९ ॥
37.10
श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना ।
ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् ॥ १० ॥
37.11
नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् ।
तदार्षे पातहेतूक्तं तदस्मिन् वामशासने ॥ ११ ॥
37.12
आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ।
यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ॥ १२ ॥
37.13
क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ।
अज्ञत्वानुपदेष्टृत्वसंदष्टेऽधरशासने ॥ १३ ॥
37.14
एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् ।
द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥ १४ ॥
37.15
द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् ।
प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥ १५ ॥
37.16
तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् ।
पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ॥ १६ ॥
37.17
दशाष्टादशधा स्रोतःपञ्चकं यत्ततोऽप्यलम् ।
उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् ॥ १७ ॥
37.18
श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल ।
समूहः पीठमेतच्च द्विधा दक्षिणवामतः ॥ १८ ॥
37.19
मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् ।
मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया ॥ १९ ॥
37.20
उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी ।
मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् ॥ २० ॥
37.21
मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् ।
एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् ॥ २१ ॥
37.22
यतस्तस्माद्भवेत्सर्वं पीठे पीठेऽपि वस्तुतः ।
प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः ॥ २२ ॥
37.23
कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये ।
प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा ॥ २३ ॥
37.24
मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् ।
विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् ॥ २४ ॥
37.25
तस्यापि परमं सारं मालिनीविजयोत्तरम् ।
उक्तं श्रीरत्नमालायामेतच्च परमेशिना ॥ २५ ॥
37.26
अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् ।
एकत्र मिलितं कौलं श्रीषडर्धकशासने ॥ २६ ॥
37.27
सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् ।
दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् ॥ २७ ॥
37.28
स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् ।
मोक्षविद्याविहीनं च विनयं त्यज दूरतः ॥ २८ ॥
37.29
यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् ।
मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् ॥ २९ ॥
37.30
मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् ।
आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके ॥ ३० ॥
37.31
जिज्ञासुस्तत एवेदमवधारयितुं क्षमः ।
वयं तूक्तानुवचनमफलं नाद्रियामहे ॥ ३१ ॥
37.32
इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् ।
यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् ॥ ३२ ॥
37.33
षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् ।
षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् ।
ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः ॥ ३३ ॥
37.34
भूरादिसप्तपुरपूर्णतमेऽपि तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य ।
क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा ॥ ३४ ॥
37.35
तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् ।
यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा ॥ ३५ ॥
37.36
प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेऽपि धाम्नि ।
सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने ॥ ३६ ॥
37.37
कन्याह्वयेऽपि भुवनेऽत्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः ।
जात्यन्धसद्मनि न जन्म न कोऽभिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे ॥ ३७ ॥
37.38
निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा ।
कोऽप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥ ३८ ॥
37.39
तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम्
।
अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम्
॥ ३९ ॥
37.40
स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं
चन्द्रचूडः ।
तन्मन्येऽहं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न
तुष्ट्यै ॥ ४० ॥
37.41
यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु ।
शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति ॥ ४१ ॥
37.42
नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम्
।
केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं
महाभैरवम् ॥ ४२ ॥
37.43
त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते
।
कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते
जगत् ॥ ४३ ॥
37.44
यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं
संधुनोति ।
यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ
॥ ४४ ॥
37.45
उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः
।
आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति
॥ ४५ ॥
37.46
सर्वो लोकः कविरथ बुधो यत्र शूरोऽपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च
यत्र ।
यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः
॥ ४६ ॥
37.47
श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः ।
यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् ॥ ४७ ॥
37.48
आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव ।
सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति ॥ ४८ ॥
37.49
संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः ।
प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य ॥ ४९ ॥
37.50
रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः ।
आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या ॥ ५० ॥
37.51
भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् ।
न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता ॥ ५१ ॥
37.52
तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे ।
वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् ॥ ५२ ॥
37.53
तस्यान्वये महति कोऽपि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले ।
गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण ॥ ५३ ॥
37.54
तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः ।
यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः ॥ ५४ ॥
37.55
तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन ।
यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः ॥ ५५ ॥
37.56
तस्यात्मजोऽभिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः ।
माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति ॥ ५६ ॥
37.57
माता परं बन्धुरिति प्रवादः स्नोहोऽतिगाढीकुरुते हि पाशान् ।
तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः ॥ ५७ ॥
37.58
पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः ।
साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः ॥ ५८ ॥
37.59
स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः ।
तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् ॥ ५९ ॥
37.60
आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः ।
श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः ॥ ६० ॥
37.61
त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः ।
तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः ॥ ६१ ॥
37.62
श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः ।
अन्येऽपि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः ॥ ६२ ॥
37.63
एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै
।
यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसोऽभूत्
॥ ६३ ॥
37.64
सोऽनुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् ।
यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद ॥ ६४ ॥
37.65
श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः ।
देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् ॥ ६५ ॥
37.66
तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः ।
लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः ॥ ६६ ॥
37.67
अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः ।
ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥ ६७ ॥
37.68
षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि ।
स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः ॥ ६८ ॥
37.69
अन्योऽपि कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः ।
अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः ॥ ६९ ॥
37.70
आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् ।
जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् ॥ ७० ॥
37.71
सोऽप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोऽवतीर्णम् ।
सोऽनुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण ॥ ७१ ॥
37.72
विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे ।
आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे ॥ ७२ ॥
37.73
तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता ।
शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या ॥ ७३ ॥
37.74
मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः ।
वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी ॥ ७४ ॥
37.75
भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः ।
स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् ॥ ७५ ॥
37.76
तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव ।
यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् ॥ ७६ ॥
37.77
यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या ।
भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सोऽर्थपरम्पराणाम् ॥ ७७ ॥
37.78
भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च ।
शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः ॥ ७८ ॥
37.79
अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् ।
भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोऽवजानाति न बन्धुबुद्ध्या ॥ ७९ ॥
37.80
भ्राता तदीयोऽभिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः ।
पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् ॥ ८० ॥
37.81
सोऽन्यश्च शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः ।
तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् ॥ ८१ ॥
37.82
इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि ।
पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् ॥ ८२ ॥
37.83
स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् ।
आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु ॥ ८३ ॥
37.84
सन्तोऽनुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् ।
ततोऽपि गृह्णातु भवन्मतिं सा सद्योऽनुगृह्णातु च तत्त्वदृष्ट्या ॥ ८४ ॥
37.85
इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः
।
तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व ॥ ८५ ॥
Unnummerierte Überlieferungsbestandteile
अथ श्री तन्त्रालोकः
आदिवाक्यं
Schlussformel des ersten Ahnika:
तन्त्रालोकेऽभिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेऽस्मिन्समाप्तिः ।
Unnummeriertes Zitat der elektronischen Vorlage:
सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः ।
Für alle liegt Meru im Norden und Lokaloka im Süden. Die elektronisch unnummerierte Zeile wird hier gesondert bewahrt.